विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.14
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १
0
7272
417988
417981
2026-08-08T13:50:48Z
~2026-43502-10
10647
417988
wikitext
text/x-wiki
{{header
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः १
| previous =
| next = [[गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २|अध्यायः २]]
| notes =
}}अध्याय का आरम्भ मङ्गलाचरण से होता है और फिर काव्यात्मक रूप से बताया जाता है कि श्रीकृष्ण विभिन्न दर्शकों को अनेक रूपों में प्रकट होते हैं। इसके बाद नैमिषारण्य की कथा-भूमि में शौनक आदि ब्रह्मचारी ऋषि चारों पुरुषार्थों की सिद्धि का उपाय, विशेषतः हरि में अचल भक्ति और त्रिविध कर्म की पूर्णता पूछते हैं। वे सिद्धाश्रम में सूतजी के पास जाकर जानना चाहते हैं कि विष्णु कैसे प्रसन्न होते हैं और मोक्ष देने वाला निर्णायक ज्ञान क्या है। सूतजी नमस्कार-क्रम का औचित्य बताते हैं—विष्णु ही परम तत्त्व हैं; श्री, वायु और भारती अधीन होते हुए भी पूज्य आधार हैं; और व्यासजी को अंत में कर्ता तथा हरि-समान कार्य-रूप से प्रणाम किया जाता है। संकीर्ण मतवाद और गलत उपासना से सावधान कर, वायु-चिह्न को स्वतंत्र देवता नहीं बल्कि हरि के आश्रय-चिह्न के रूप में समझाते हैं। फिर गुणों के आधार पर पुराणों का वर्गीकरण कर भागवत, विष्णु और गरुड़ पुराण को कलियुग में विशेष सात्त्विक व हितकारी बताकर आगे आने वाले प्रेतकल्प के संस्कार, परलोक-स्थितियों और मोक्षाभ्यास की भूमिका बाँधते हैं।
'''अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते ।'''
'''ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।
'''मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ ३,१.१ ॥
'''नमो नारायणायेति तस्मै वै मूलरूपिणे ।
'''नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ ३,१.२ ॥''''''''''''
श्रीगणेश को नमस्कार, श्रीलक्ष्मी-नृसिंह को नमस्कार, श्रीदत्तात्रेय को नमस्कार, श्रीवेदव्यास को नमस्कार, श्रीहयग्रीव को नमस्कार। ॐ—रंगभूमि में अग्रज सहित अच्युत (कृष्ण) ऐसे शोभित हुए: मल्लों के लिए वज्र, मनुष्यों के लिए नरश्रेष्ठ, स्त्रियों के लिए साकार कामदेव, गोपों के लिए स्वजन, दुष्टों के लिए दण्डदाता, राजाओं के लिए शासक, माता-पिता के लिए शिशु, भोजपति कंस के लिए मृत्यु, योगियों के लिए परम तत्त्व, और वृष्णियों के लिए स्वामी ,मूलरूप परमेश्वर नारायण को नमस्कार। प्रणाम करके अब मैं यह नारायण-कथा कहूँगा।
'''शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः ।
,,,नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ ३,१.३ ॥
...जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः ।
यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ ३,१.४ ॥
,,,गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः ।
,,,सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३,१.५ ॥
,,,यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् ।
,,,केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३,१.६ ॥
एकदा तु महात्मानः समाजं चक्रुरुत्तमाः ।
धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३,१.७ ॥
षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३,१.८ ॥
मुनयो भावितात्मानो मिलितास्ते महोजसः ।
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३,१.९ ॥
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।
केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३,१.१० ॥
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।
सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३,१.११ ॥
शौनक उवाच ।
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।
स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३,१.१२ ॥
तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः ।
अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३,१.१३ ॥
पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ।
ऋषय ऊचुः ।
वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३,१.१४ ॥
स्नानदानोपचारेण पूजयित्वा यथाविधि ।
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ ३,१.१५ ॥
मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् ।
सूत उवाच ।
शृणुध्वमृषयः सर्वे हरिं तत्त्वविनिर्णयम् ॥ ३,१.१६ ॥
नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् ।
द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ ३,१.१७ ॥
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३,१.१८ ॥
शौनक उवाच ।
किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम ।
कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ ३,१.१९ ॥
ततः श्रियं ततो वायुं भारतीं च ततः परम् ।
अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि ।
सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ ३,१.२० ॥
सूत उवाच ।
आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे ।
सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥ ३,१.२१ ॥
सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः ।
नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ ३,१.२२ ॥
तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च ।
सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ ३,१.२३ ॥
न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन ।
पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ ३,१.२४ ॥
संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव ।
निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ ३,१.२५ ॥
इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च ।
अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ ३,१.२६ ॥
तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः ।
श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ ३,१.२७ ॥
इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन् ।
नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ ३,१.२८ ॥
अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि ।
वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ ३,१.२९ ॥
पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय ।
अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ ३,१.३० ॥
पश्चाद्वायोः सुप्रतीकं च सम्यङ्निर्माल्यशेषेण हरेः समर्चयेत् ।
पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः ॥ ३,१.३१ ॥
तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति ।
प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ ३,१.३२ ॥
पाषण्डरुद्रादिकसं प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान् ।
नमन्ति ये फलबुद्ध्या विभूढास्तेषां फलं शाश्वतं दुः खमेव ॥ ३,१.३३ ॥
वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम् ।
नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ ३,१.३४ ॥
गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव ।
एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ ३,१.३५ ॥
नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम् ।
ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ ३,१.३६ ।
नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि ।
नमन्ति ये वासुदेवं हरिं च सम्यक्स्वशक्त्या प्रतिपादयन्ति ॥ ३,१.३७ ॥
प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम् ।
ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वेऽवैष्णवमात्रकाः स्मृताः ॥ ३,१.३८।।
उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति ।
तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ ३,१.३९ ॥
यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान् ।
अतो ह्यसूयन्ति सदा विमूढाः कलौ हि विप्राः प्रचुरा हि तेपि ॥ ३,१.४० ॥
न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च ।
न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ ३,१.४१ ॥
अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः ।
श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुःखदानि ॥ ३,१.४२ ॥
कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि ।
मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ ३,१.४३ ॥
पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम् ।
यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ ३,१.४४ ॥
नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः ।
तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ ३,१.४५ ॥
ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च ।
त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ ३,१.४६ ॥
शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम् ।
आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ ३,१.४७ ॥
तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः ।
तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ ३,१.४८ ॥
तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति ।
तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ ३,१.४९ ॥
तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम् ।
ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ ३,१.५० ॥
तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके ।
तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ ३,१.५१ ॥
सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च ।
विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ ३,१.५२ ॥
स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ ।
एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ ३,१.५३ ॥
रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा ।
तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ ३,१.५४ ॥
ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च ।
एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३,१.५५ ॥
श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि ।
तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३,१.५६ ॥
अल्पान्युपपुराणानि वदन्त्यष्टादशानि च ।
विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३,१.५७ ॥
तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च ।
तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३,१.५८ ॥
सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः ।
एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३,१.५९ ॥
भविष्योत्तरनामानं बृहन्नारदमेव च ।
यमनारदसंवादं लघुनारदमेव च ॥ ३,१.६० ॥
विनायकपुराणं च बृहद्ब्रह्माण्डमेव च ।
एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३,१.६१ ॥
गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः ।
पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३,१.६२ ॥
पाशुपत्यं रैणुकं च भैरवं च तथैव च ।
एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३,१.६३ ॥
एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च ।
सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३,१.६४ ॥
वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् ।
अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३,१.६५ ॥
वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् ।
अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३,१.६६ ॥
वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३,१.६७ ॥
तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च ।
तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३,१.६८ ॥
दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् ।
निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३,१.६९ ॥
मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् ।
तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३,१.७० ॥
अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् ।
गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३,१.७१ ॥
यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् ।
यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३,१.७२ ॥
नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः ।
तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३,१.७३ ॥
गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः ।
अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३,१.७४ ॥
भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् ।
परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३,१.७५ ॥
अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः ।
भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३,१.७६ ॥
उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् ।
नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३,१.७७ ॥
अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः ।
शौनक उवाच ।
व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३,१.७८ ॥
अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत ।
सूत उवाच ।
विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३,१.७९ ॥
हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः ।
व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३,१.८० ॥
तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः ।
व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३,१.८१ ॥
इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः ।
प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३,१.८२ ॥
यदिदं परमं गोप्यं हृदि धार्यं न संशयः ।
पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३,१.८३ ॥
समासव्यासभावाद्धि पराणां तत्प्रतीयते ।
वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३,१.८४ ॥
हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः ।
उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ ३,१.८५ ॥
ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम् ।
त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ ३,१.८६ ॥
वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता ।
भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ ३,१.८७ ॥
वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता ।
तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ ३,१.८८ ॥
प्रतिपाद्या मुख्यतया नम्या एव समीरिताः ।
अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ ३,१.८९ ॥
भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः ।
वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ ३,१.९० ॥
पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि ।
एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ३,१.९१ ॥
इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराणविभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः
</poem>
[[वर्गः:ब्रह्मकाण्डः]]
3ejlweklzuvboaa97td8a1seq2qrl20
तैत्तिरीयसंहिता(विस्वरः)
0
12614
417992
226054
2026-08-09T09:10:35Z
~2026-39930-13
10591
ब्रम -> ब्रह्म
417992
wikitext
text/x-wiki
{{header
| title = {{PAGENAME}}
| author = वेदव्यासः
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<inputbox>
type=fulltext
prefix=तैत्तिरीयसंहिता(विस्वरः)
break=no
width=10
searchbuttonlabel=तैत्तिरीयसंहिता(विस्वरः) शोधः
</inputbox>
[[/काण्डम् १|काण्डः १]]
[[/काण्डम् २|काण्डः २]]
[[/काण्डम् ३|काण्डः ३]]
[[/काण्डम् ४|काण्डः ४]]
[[/काण्डम् ५|काण्डः ५]]
[[/काण्डम् ६|काण्डः ६]]
[[/काण्डम् ७|काण्डः ७]]
[https://drive.google.com/open?id=0BxohHGWivCd7WDdDaW4wT3R6Ymc तैत्तिरीयसंहिता एकलसञ्चिका]
<poem><span style="font-size: 14pt; line-height: 170%">
तैत्तिरीय संहिता
1.1 प्रपाठक 1
1.1.1 अनुवाक 1
इषे त्वोर्जे त्वा
वायव स्थोपायव स्थ
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ।
आ प्यायध्वम् अघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीर् अनमीवा अयक्ष्माः ।
मा व स्तेन ईशत माघशम्̇सः ।
रुद्रस्य हेतिः परि वो वृणक्तु
ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः ।
यजमानस्य पशून् पाहि ॥
1.1.2
अनुवाक 2
बर्हिराहरणम्
VERSE: 1
यज्ञस्य घोषद् असि
प्रत्युष्टम्̇ रक्षः प्रत्युष्टा अरातयः
प्रेयम् अगाद् धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा । त आ वहन्ति कवयः पुरस्ताद् देवेभ्यो जुष्टम् इह बर्हिर् आसदे ॥
देवानाम् परिषूतम् असि
वर्षवृद्धम् असि
देवबर्हिर् मा त्वान्वङ् मा तिर्यक्
पर्व ते राध्यासम्
आ छेत्ता ते मा रिषम् ।
देवबर्हिः शतवल्शं वि रोह सहस्रवल्शाः
VERSE: 2
वि वयम्̇ रुहेम
पृथिव्याः सम्पृचः पाहि
सुसम्भृता त्वा सम् भरामि
अदित्यै रास्नासीन्द्राण्यै संनहनम्
पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थात् ।
इन्द्रस्य त्वा बाहुभ्याम् उद् यच्छे बृहस्पतेर् मूर्ध्ना हरामि
उर्व् अन्तरिक्षम् अन्व् इहि
देवंगमम् असि ॥
1.1.3 अनुवाक 3 सांन्नाय्यं, पात्रप्रोक्षणादि
VERSE: 1
शुन्धध्वं दैव्याय कर्मणे देवयज्यायै
मातरिश्वनो घर्मो ऽसि
द्यौर् असि पृथिव्यसि
विश्वधाया असि परमेण धाम्ना
दृम्̇हस्व मा ह्वार्।
वसूनाम्̇ पवित्रम् असि शतधारं वसूनां पवित्रम् असि सहस्रधारम् ।
हुतः स्तोको हुतो द्रप्सः ।
अग्नये बृहते नाकाय । स्वाहा द्यावापृथिवीभ्याम् ।
सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मा
सम् पृच्यध्वम् ऋतावरीर् ऊर्मिणीर् मधुमत्तमा मन्द्रा धनस्य सातये
सोमेन त्वा ऽऽतनच्मीन्द्राय दधि
विष्णो हव्यम्̇ रक्षस्व ॥
1.1.4 अनुवाक 4 हविर्निर्वापः
VERSE: 1
कर्मणे वां देवेभ्यः शकेयम् ।
वेषाय त्वा
प्रत्युष्टम्̇ रक्षः प्रत्युष्टा अरातयः ।
धूर् असि धूर्व धूर्वन्तं धूर्व तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामस्
त्वं देवानां असि सस्नितमम् पप्रितमं जुष्टतमं वह्नितमं देवहूतमम्
अह्रुतम् असि हविर्धानम् ।
दृम्̇हस्व मा ह्वार् ।
मित्रस्य त्वा चक्षुषा प्रेक्षे
मा भेर् मा सं विक्था मा त्वा
VERSE: 2
हिम्̇सिषम्
उरु वाताय
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अग्नये जुष्टं निर् वपाम्य् अग्नीषोमाभ्याम्
इदं देवानाम् इदम् उ नः सह
स्फात्यै त्वा नारात्यै
सुवर् अभि वि ख्येषं वैश्वानरं ज्योतिः ।
दृम्̇हन्तां दुर्या द्यावापृथिव्योः ।
उर्व् अन्तरिक्षम् अन्व् इहि ।
अदित्यास् त्वोपस्थे सादयामि ।
अग्ने हव्यम्̇ रक्षस्व ॥
1.1.5 अनुवाक 5 हविः प्रोक्षणादि
VERSE: 1
देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः ।
आपो देवीर् अग्रेपुवो अग्रेगुवो ऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त
युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये
प्रोक्षिता स्थ ।
अग्नये वो जुष्टम् प्रोक्षाम्य् अग्नीषोमाभ्याम् ।
शुन्धध्वं दैव्याय कर्मणे देवयज्यायै ।
अवधूतम्̇ रक्षो ऽवधूता अरातयः ।
अदित्यास् त्वग् असि प्रति त्वा
VERSE: 2
पृथिवी वेत्तु ।
अधिषवणम् असि वानस्पत्यम् प्रति त्वाऽदित्यास् त्वग् वेत्तु ।
अग्नेस् तनूर् असि वाचो विसर्जनम्
देववीतये त्वा गृह्णामि ।
अद्रिर् असि वानस्पत्यः
स इदं देवेभ्यो हव्यम्̇ सुशमि शमिष्व ।
इषम् आ वदोर्जम् आ वद
द्युमद् वदत
वयम्̇ संघातं जेष्म
वर्षवृद्धम् असि
प्रति त्वा वर्षवृद्धं वेत्तु
परापूतम्̇ रक्षः परापूता अरातयः ।
रक्षसाम् भागो ऽसि
वायुर् वो वि विनक्तु
देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥
1.1.6 अनुवाक 6 व्रीहिपेषणम्
VERSE: 1
अवधूतम्̇ रक्षो ऽवधूता अरातयः ।
अदित्यास् त्वग् असि प्रति त्वा पृथिवी वेत्तु
दिवः स्कम्भनिर् असि प्रति त्वाऽदित्यास् त्वग् वेत्तु
धिषणाऽसि पर्वत्या प्रति त्वा दिव स्कम्भनिर् वेत्तु
धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर् वेत्तु
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अधि वपामि
धान्यम् असि धिनुहि देवान्
प्राणाय त्वापानाय त्वा व्यानाय त्वा
दीर्घाम् अनु प्रसितिम् आयुषे धाम् ।
देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥
1.1.7 अनुवाक 7 कपालोपधानम्
VERSE: 1
धृष्टिर् असि ब्रह्म यच्छ ।
अपाग्ने ऽग्निम् आमादं जहि निष् क्रव्यादम्̇ सेधाऽऽ देवयजं वह
निर्दग्धम्̇ रक्षो निर्दग्धा अरातयः ।
ध्रुवम् असि पृथिवीं दृम्̇हाऽऽयुर् दृम्̇ह प्रजां दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
धर्तम् अस्य् अन्तरिक्षं दृम्̇ह प्राणं दृम्̇हापानं दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
धरुणम् असि दिवं दृम्̇ह चक्षुः
VERSE: 2
दृम्̇ह श्रोत्रं दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
धर्मासि दिशो दृम्̇ह योनिं दृम्̇ह प्रजां दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
चित स्थ प्रजाम् अस्मै रयिं अस्मै सजातान् अस्मै यजमानाय पर्यूह
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ।
यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥
1.1.8 अनुवाक 8 संवापादिः
VERSE: 1
सं वपामि
सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन
सम्̇ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम्
अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् ।
जनयत्यै त्वा सं यौमि ।
अग्नये त्वाऽग्नीषोमाभ्याम्
मखस्य शिरो ऽसि
घर्मो ऽसि विश्वायुः ।
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
त्वचं गृह्णीष्व ।
अन्तरितम्̇ रक्षो ऽन्तरिता अरातयः ।
देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके ।
अग्निस् ते तनुवम् माऽति धाक् ।
अग्ने हव्यम्̇ रक्षस्व
सम् ब्रह्मणा पृच्यस्व ।
एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहा ॥
1.1.9 अनुवाक 9 वेदिकरणम्
VERSE: 1
आ ददे ।
इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजाः ।
वायुर् असि तिग्मतेजाः
पृथिवि देवयजन्य् ओषध्यास् ते मूलम् मा हिम्̇सिषम्
अपहतो ऽररुः पृथिव्यै
व्रजं गच्छ गोस्थानम् ।
वर्षतु ते द्यौर्
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अपहतो ऽररुः पृथिव्यै देवयजन्यै
व्रजम्
VERSE: 2
गच्छ गोस्थानम् ।
वर्षतु ते द्यौर्
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अपहतो ऽररुः पृथिव्या अदेवयजनः ।
व्रजं गच्छ गोस्थानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा
VERSE: 3
मौक् ।
अररुस् ते दिवं मा स्कान्
वसवस् त्वा परि गृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परि गृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परि गृह्णन्तु जागतेन छन्दसा
देवस्य सवितुः सवे कर्म कृण्वन्ति वेधसः ।
ऋतम् अस्य् ऋतसदनम् अस्य् ऋतश्रीर् असि
धा असि स्वधा असि ।
उर्वी चासि वस्वी चासि
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीरदानुर् याम् ऐरयञ् चन्द्रमसि स्वधाभिस् तां धीरासो अनुदृश्य यजन्ते ॥
1.1.10 अनुवाक 10 हविर्ग्रहणम्
VERSE: 1
प्रत्युष्टम्̇ रक्षः प्रत्युष्टा अरातयः ।
अग्नेर् वस् तेजिष्ठेन तेजसा निष्टपामि
गोष्ठम् मा निर्मृक्षं वाजिनं त्वा सपत्नसहम्̇ सम् मार्ज्मि
वाचम् प्राणं चक्षुः श्रोत्रम् प्रजां योनिम् मा निर्मृक्षम् वाजिनीं त्वा सपत्नसाहीम्̇ सम् मार्ज्मि ।
आशासाना सौमनसम् प्रजाम् सौभाग्यं तनूम् । अग्नेर् अनुव्रता भूत्वा सं नह्ये सुकृताय कम् ।
सुप्रजसस् त्वा वयम्̇ सुपत्नीर् उप
VERSE: 2
सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम्
इमं वि ष्यामि वरुणस्य पाशं यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि
सम् आयुषा सम् प्रजया सम् अग्ने वर्चसा पुनः । सम् पत्नी पत्याहं गच्छे सम् आत्मा तनुवा मम
महीनाम् पयो ऽस्य् ओषधीनाम्̇ रसस् तस्य ते ऽक्षीयमाणस्य निः
VERSE: 3
वपामि
महीनाम् पयो ऽस्य् ओषधीनाम्̇ रसो ऽदब्धेन त्वा चक्षुषाऽवेक्षे सुप्रजास्त्वाय
तेजो ऽसि तेजो ऽनु प्रेह्य् अग्निस् ते तेजो मा वि नैत् ।
अग्नेर् जिह्वासि सुभूर् देवानाम् ।
धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव
शुक्रम् असि ज्योतिर् असि तेजो ऽसि
देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः
शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि
ज्योतिस् त्वा ज्योतिष्य् अर्चिस् त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि
1.1.11
अनुवाक 11
हविरासादनादि
VERSE: 1
कृष्णो ऽस्य् आखरेष्ठो ऽग्नये त्वा स्वाहा
वेदिर् असि बर्हिषे त्वा स्वाहा
बर्हिर् असि स्रुग्भ्यस् त्वा स्वाहा
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा
स्वधा पितृभ्य ऊर्ग् भव बर्हिषद्भ्यः ।
ऊर्जा पृथिवीं गच्छत
विष्णोः स्तूपो ऽसि ।
ऊर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।
गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषतो यजमानस्य परिधिर् इड ईडितः ।
इन्द्रस्य बाहुर् असि
VERSE: 2
दक्षिणो यजमानस्य परिधिर् इड ईडितः ।
मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य परिधिर् इड ईडितः
सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्याः।
वीतिहोत्रं त्वा कवे द्युमन्तम्̇ सम् इधीमह्य् अग्ने बृहन्तम् अध्वरे
विशो यन्त्रे स्थः ।
वसूनाम्̇ रुद्राणाम् आदित्यानाम्̇ सदसि सीद
जुहूर् उपभृद् ध्रुवाऽसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद ।
एता असदन्त् सुकृतस्य लोके
ता विष्णो पाहि
पाहि यज्ञम् पाहि यज्ञपतिम् पाहि मां यज्ञनियम् ॥
1.1.12 अनुवाक 12 आघारः
VERSE: 1
भुवनम् असि वि प्रथस्व ।
अग्ने यष्टर् इदं नमः ।
जुह्व् एह्य् अग्निस् त्वा ह्वयति देवयज्यायै ।
उपभृद् एहि देवस् त्वा सविता ह्वयति देवयज्यायै ।
अग्नाविष्णू मा वाम् अव क्रमिषम् ।
वि जिहाथाम् मा मा सं ताप्तम् ।
लोकम् मे लोककृतौ कृणुतम् ।
विष्णोः स्थानम् असि ।
इत इन्द्रो अकृणोद् वीर्याणि
समारभ्योर्ध्वो अध्वरो दिविस्पृशम्
अह्रुतो यज्ञो यज्ञपतेः ।
इन्द्रावान्त् स्वाहा
बृहद् भाः
पाहि माग्ने दुश्चरिताद् आ मा सुचरिते भज
5मखस्य शिरो ऽसि सं ज्योतिषा ज्योतिर् अङ्क्ताम् ॥
1.1.13 अनुवाक 13 स्रुग्व्यूहनादि
VERSE: 1
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
वसुभ्यस् त्वा रुद्रेभ्यस् त्वादित्येभ्यस् त्वा ।
अक्तम्̇ रिहाणा वियन्तु वयः
प्रजां योनिम् मा निर् मृक्षम्
आ प्यायन्ताम् आप ओषधयः ।
मरुताम् पृषतयः स्थ
दिवम्
VERSE: 2
गच्छ ततो नो वृष्टिम् एरय ।
आयुष्पा अग्ने ऽस्य् आयुर् मे पाहि
चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि
ध्रुवाऽसि
यम् परिधिम् पर्यधत्था अग्ने देव पणिभिर् वीयमाणस् तं त एतम् अनु जोषम् भरामि नेद् एष त्वद् अपचेतयातै
यज्ञस्य पाथ उप सम् इतम् ।
सम्̇स्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च ॥
VERSE: 3
देवा इमां वाचम् अभि विश्वे गृणन्त आसद्यास्मिन् बर्हिषि मादयध्वम्
अग्नेर् वाम् अपन्नगृहस्य सदसि सादयामि
सुम्नाय सुम्निनी सुम्ने मा धत्तम् ।
धुरि धुर्यौ पातम्
अग्ने ऽदब्धायो ऽशीततनोपाहि माऽद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितात् ।
अविषं नः पितुं कृणु सुषदा योनिम्̇ स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञम्̇ स्वाहा वाचि स्वाहा वाते धाः ॥
1.1.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्या
VERSE: 1
उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराव् इषाम्̇ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
अश्रवम्̇ हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । साकम् एकेन कर्मणा ॥
शुचिं नु स्तोमं नवजातं अद्येन्द्राग्नी वृत्रहणा जुषेथाम् ॥
VERSE: 2
उभा हि वाम्̇ सुहवा जोहवीमि ता वाजम्̇ सद्य उशते धेष्ठा ॥
वयम् उ त्वा पथस् पते रथं न वाजसातये । धिये पूषन्न् अयुज्महि ॥
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनड् अर्कम् । स नो रासच् छुरुधश् चन्द्राग्रा धियं धियम्̇ सीषधाति प्र पूषा ॥
क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गाम् अश्वम् पोषयित्न्व् आ स नः
VERSE: 3
मृडातीदृशे ॥
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृडयन्तु ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोढुम् । अग्निर् विद्वान्त् स यजात्
VERSE: 4
सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयाति ॥
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥
अग्ने त्वम् पारया नव्यो अस्मान्त् स्वस्तिभिर् अति दुर्गाणि विश्वा । पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । त्वं यज्ञेष्व् ईड्यः ॥
यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥
1.2 प्रपाठक: 2
1.2.1 अनुवाक 1 यजमानस्य क्षौरादिसंस्काराः
VERSE: 1
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे ।
ओषधे त्रायस्वैनम् ।
स्वधिते मैनम्̇ हिम्̇सीः ।
देवश्रूर् एतानि प्र वपे
स्वस्त्य् उत्तराण्य् अशीय ।
आपो अस्मान् मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु । विश्वम् अस्मत् प्र वहन्तु रिप्रम् उद् आभ्यः शुचिर् आ पूत एमि
सोमस्य तनूर् असि तनुवम् मे पाहि
महीनाम् पयो ऽसि वर्चोधा असि वर्चः
VERSE: 2
मयि धेहि
वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर् मे पाहि
चित्पतिस् त्वा पुनातु वाक्पतिस् त्वा पुनातु देवस् त्वा सविता पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभि
तस्य ते पवित्रपते पवित्रेण यस्मै कम् पुने तच्छकेयम्
आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद् वो देवास आगुरे यज्ञियासो हवामहे ।
इन्द्राग्नी द्यावापृथिवी आप ओषधीस्
त्वं दीक्षाणाम् अधिपतिर् असीह मा सन्तम् पाहि ॥
1.2.2 अनुवाक 2 दीक्षा
VERSE: 1
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा ।
आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उर्व् अन्तरिक्षम् बृहस्पतिर् नो हविषा वृधातु स्वाहा
विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं । विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा ।
ऋक्सामयोः शिल्पे स्थस् ते वाम् आ रभे ते मा
VERSE: 2
पातमाऽस्य यज्ञस्योदृचः ।
इमां धियम्̇ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सम्̇ शिशाधि । ययाऽति विश्वा दुरिता तरेम सुतर्माणम् अधि नावम्̇ रुहेम ।
ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जम् मे यच्छ पाहि मा मा मा हिम्̇सीः ।
विष्णोः शर्माऽसि शर्म यजमानस्य शर्म मे यच्छ
नक्षत्राणाम् माऽतीकाशात् पाहि ।
इन्द्रस्य योनिर् असि ॥
VERSE: 3
मा मा हिम्̇सीः
कृष्यै त्वा सुसस्यायै
सुपिप्पलाभ्यस् त्वौषधीभ्यः
सूपस्था देवो वनस्पतिर् ऊर्ध्वो मा पाह्य् ओदृचः
स्वाहा यज्ञम् मनसा स्वाहा द्यावापृथिवीभ्याम्̇ स्वाहोरोर् अन्तरिक्षात् स्वाहा यज्ञं वाताद् आ रभे ॥
1.2.3 अनुवाक 3 देवयजनस्वीकारः
VERSE: 1
दैवीं धियम् मनामहे सुमृडीकाम् अभिष्टये । वर्चोधां यज्ञवाहसम्̇ सुपारा नो असद् वशे ॥
ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ।
अग्ने त्वम्̇ सु जागृहि वयम्̇ सु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर् ददः ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ त्वं
VERSE: 2
यज्ञेष्व् ईड्यः ॥
विश्वे देवा अभि माम् आऽववृत्रन् पूषा सन्या सोमो राधसा देवः सविता वसोर् वसुदावा
रास्वेयत् सोमाऽऽभूयो भर
मा पृणन् पूर्त्या वि राधि माऽहम् आयुषा
चन्द्रम् असि मम भोगाय भव वस्त्रम् असि मम भोगाय भवोस्राऽसि मम भोगाय भव हयो ऽसि मम भोगाय भव ॥
VERSE: 3
छागो ऽसि मम भोगाय भव मेषो ऽसि मम भोगाय भव
वायवे त्वा वरुणाय त्वा निर्ऋत्यै त्वा रुद्राय त्वा
देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो माव क्रमिषम्
अच्छिन्नं तन्तुम् पृथिव्या अनु गेषम्
भद्राद् अभि श्रेयः प्रेहि
बृहस्पतिः पुरएता ते अस्त्व् अथेम् अव स्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरः ।
एदम् अगन्म देवयजनम् पृथिव्या विश्वे देवा यद् अजुषन्त पूर्व ऋक्सामाभ्यां यजुषा संतरन्तो रायस् पोषेण सम् इषा मदेम ॥
1.2.4 अनुवाक 4 सोमक्रयणीहोमादि
VERSE: 1
इयं ते शुक्र तनूर् इदं वर्चस् तया सम् भव भ्राजं गच्छ
जूर् असि धृता मनसा जुष्टा विष्णवे
तस्यास् ते सत्यसवसः प्रसवे वाचो यन्त्रम् अशीय स्वाहा
शुक्रम् अस्य् अमृतम् असि वैश्वदेवम्̇ हविः
सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकां यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता
चिद् असि मनाऽसि धीर् असि दक्षिणा
VERSE: 2
असि यज्ञियाऽसि क्षत्रियाऽस्य् अदितिर् अस्य् उभयतःशीर्ष्णी
सा नः सुप्राची सुप्रतीची सम् भव
मित्रस् त्वा पदि बध्नातु
पूषाऽध्वनः पातु ।
इन्द्रायाध्यक्षाय ।
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः
सा देवि देवम् अच्छेहीन्द्राय सोमम् ।
रुद्रस् त्वा वर्तयतु मित्रस्य पथा
स्वस्ति सोमसखा पुनर् एहि सह रय्या ॥
1.2.5
अनुवाक 5
सोमक्रयण्याः पदसंग्रहः
VERSE: 1
वस्व्य् असि रुद्राऽस्य् अदितिर् अस्य् आदित्याऽसि शुक्राऽसि चन्द्राऽसि
बृहस्पतिस् त्वा सुम्ने रण्वतु रुद्रो वसुभिर् आ चिकेतु
पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा
परिलिखितम्̇ रक्षः परिलिखिता अरातय इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवाः
VERSE: 2
अपि कृन्तामि ।
अस्मे रायस् त्वे रायस् तोते रायः
सं देवि देव्योर्वश्या पश्यस्व
त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशि
माहम्̇ रायस् पोषेण वि योषम् ॥
1.2.6 अनुवाक 6 सोमोन्मानम्
VERSE: 1
अम्̇शुना ते अम्̇शुः पृच्यताम् परुषा परुर् गन्धस् ते कामम् अवतु मदाय रसो अच्युतो ऽमात्यो ऽसि शुक्रस् ते ग्रहः ।
अभि त्यं देवम्̇ सवितारमूण्योः कविक्रतुम् अर्चामि सत्यसवसम्̇ रत्नधाम् अभि प्रियम् मतिम् । ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा सुवः ॥
प्रजाभ्यस् त्वा प्राणाय त्वा व्यानाय त्वा प्रजास् त्वम् अनु प्राणिहि प्रजास् त्वाम् अनु प्राणन्तु ॥
1.2.7 अनुवाक 7 सोमक्रयः
VERSE: 1
सोमं ते क्रीणाम्य् ऊर्जस्वन्तम् पयस्वन्तं वीर्यावन्तम् अभिमातिषाहम्̇ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन सम्यत् ते गोः ।
अस्मे चन्द्राणि
तपसस् तनूर् असि प्रजापतेर् वर्णस् तस्यास् ते सहस्रपोषम् पुष्यन्त्याश्चरमेण पशुना क्रीणामि ।
अस्मे ते बन्धुर् मयि ते रायः श्रयन्ताम्
अस्मे ज्योतिः सोमविक्रयिणि तमः ।
मित्रो न एहि सुमित्रधा ।
इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तम्̇ स्योनः स्योनम् ।
स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वम् मा वो दभन् ॥
1.2.8 अनुवाक 8 सोमस्य शकटारोपणम्
VERSE: 1
उदायुषा स्वायुशोदोषधीनाम्̇ रसेनोत् पर्जन्यस्य शुष्मेणोदस्थाम् अमृताम्̇ अनु ।
उर्व् अन्तरिक्षम् अन्व् इहि ।
अदित्याः सदो ऽसि ।
अदित्याः सद आ सीद ।
अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणम् पृथिव्या आऽसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥
वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्नियासु हृत्सु
VERSE: 2
क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ।
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
उस्राव् एतं धूर्षाहाव् अनश्रू अवीरहणौ ब्रह्मचोदनौ
वरुणस्य स्कम्भनम् असि
वरुणस्य स्कम्भसर्जनम् असि
प्रत्यस्तो वरुणस्य पाशः ॥
1.2.9 अनुवाक 9 सोमस्य प्राचीनवंशं प्रति गमनम्
VERSE: 1
प्र च्यवस्व भुवस् पते विश्वान्य् अभि धामानि मा त्वा परिपरी विदन् मा त्वा परिपन्थिनो विदन् मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुर् आ दघत् ।
श्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सम्̇स्कृतं यजमानस्य स्वस्त्ययन्य् असि ।
अपि पन्थाम् अगस्महि स्वस्तिगाम् अनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतम्̇ सपर्यत दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शम्̇सत ॥
वरुणस्य स्कम्भनम् असि
वरुणस्य स्कम्भसर्जनम् असि ।
उन्मुक्तो वरुणस्य पाशः ॥
1.2.10
अनुवाक 10
तानूनप्त्रम्
VERSE: 1
अग्नेर् आतिथ्यम् असि विष्णवे त्वा सोमस्याऽऽतिथ्यम् असि विष्णवे त्वाऽतिथेर् आतिथ्यम् असि विष्णवे त्वाऽग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥
अदित्याः सदो ऽस्य् अदित्याः सद आ
VERSE: 2
सीद
वरुणो ऽसि धृतव्रतो वारुणम् असि
शंयोर् देवानाम्̇ सख्यान् मा देवानाम् अपसश् छित्स्महि ।
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्न् ओजिष्ठाय त्वा गृह्णामि ।
अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽभिषस्तिपा अनभिशस्तेन्यम्
अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषम्̇ सुविते मा धाः ॥
1.2.11
अनुवाक 11
सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः)
VERSE: 1
अम्̇शुरम्̇शुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगायर्तम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूर् एषा सा त्वयि ॥
VERSE: 2
या तव तनूर् इयम्̇ सा मयि सह नौ व्रतपते व्रतिनोर् व्रतानि
या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा
या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीम्̇ स्वाहा ॥
1.2.12
अनुवाक 12
उत्तरवेदिः
VERSE: 1
वित्तायनी मे ऽसि तिक्तायनी मे ऽस्य् अवतान् मा नाथितम् अवतान् मा व्यथितम् ।
विदेर् अग्निर् नभो नाम ।
अग्ने अङ्गिरो यो ऽस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
अग्ने अङ्गिरो यो द्वितीयस्यां तृतीयस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम ॥
VERSE: 2
यज्ञियं तेन त्वाऽऽ दधे
सिम्̇हीर् असि महिषीर् असि ।
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
ध्रुवाऽसि
देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ।
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु मनोजवास् त्वा पितृभिर् दक्षिणतः पातु प्रचेतास् त्वा रुद्रैः पश्चात् पातु विश्वकर्मा त्वाऽऽदित्यैर् उत्तरतः पातु
सिम्̇हीर् असि सपत्नसाही स्वाहा सिम्̇हीर् असि सुप्रजावनिः स्वाहा सिम्̇हीः ॥
VERSE: 3
असि रायस्पोषवनिः स्वाहा सिम्̇हीर् अस्य् आदित्यवनिः स्वाहा सिम्̇हीर् अस्य् आ वह देवान् देवयते यजमानाय स्वाहा
भूतेभ्यस् त्वा
विश्वायुर् असि पृथिवीं दृम्̇ह ध्रुवक्षिद् अस्य् अन्तरिक्षं दृम्̇हाच्युतक्षिद् असि दिवं दृम्̇ह ।
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ॥
1.2.13
अनुवाक 13
हविर्धानम्
VERSE: 1
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥
सुवाग् देव दुर्याम्̇ आ वद
देवश्रुतौ देवेष्व् आ घोषेथाम्
आ नो वीरो जायतां कर्मण्यो यम्̇ सर्वे ऽनुजीवाम यो बहूनाम् असद् वशी ।
इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य ॥
VERSE: 2
पाम्̇सुरे
इरावरी धेनुमती हि भूतम्̇ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद् रोदसी विष्णुर् एते दाधार पृथिवीम् अभितो मयूखैः ॥
प्राची प्रेतम् अध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतम् मा जीह्वरतम् अत्र रमेथां वर्ष्मन् पृथिव्या ।
दिवो वा विष्णव् उत वा पृथिव्या महो वा विष्णव् उत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्र यच्छ ॥
VERSE: 3
दक्षिणादोत सव्यात् ॥
विष्णोर् नुकं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाम्̇सि यो अस्कभायद् उत्तरम्̇ सधस्थं विचक्रमाणस् त्रेधोरुगायो ।
विष्णो रराटम् असि विष्णोः पृष्ठम् असि
विष्णोः श्न्यप्त्रे स्थः ।
विष्णोः स्यूर् असि
विष्णोर् ध्रुवम् असि
वैष्णवम् असि विष्णवे त्वा ॥
1.2.14
अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाम्̇ इभेन । तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूम्̇ष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः ॥
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । यो नो दूरे अघशम्̇सः ॥
VERSE: 2
यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राम्̇ ओषतात् तिग्महेते । यो नो अरातिम्̇ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनां जामिम् {W जामिं} अजामिम् प्र मृणीहि शत्रून् ॥
स ते
VERSE: 3
जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥
अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम्
VERSE: 4
इयं गीः । स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥
इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवाम्̇सम् अनु द्यून् । क्रीडन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाम्̇सो जनानाम् ॥
यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥
महो रुजामि
VERSE: 5
बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । ते पायवः सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्व् अमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो ना ह
VERSE: 6
देभुः ॥
त्वया वयम्̇ सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । उभा शम्̇सा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमम्̇ शस्यमानं गृभाय । दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रतिष्ठम् {W प्रथिष्ठम्} उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा
VERSE: 7
स रिषः पातु नक्तम् ॥
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥
उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥
1.3 प्रपाठक: 3 सदोमण्डपनिर्माणम्
1.3.1 अनुवाक 1 हविर्धानमण्डपनिर्माणम्
VERSE: 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे ऽभ्रिर् असि नारिर् असि
परिलिखितम्̇ रक्षः परिलिखिता अरातय इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवा अपि कृन्तामि
दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा
शुन्धतां लोकः पितृषदनो ।
यवो ऽसि यवयास्मद् द्वेषः
VERSE: 2
यवयारातीः
पितृणाम्̇ सदनम् अस्य्
उद् दिवम्̇ स्तभानान्तरिक्षम् पृण पृथिवीं दृम्̇ह
द्युतानस् त्वा मारुतो मिनोतु मित्रावरुणयोर् ध्रुवेण धर्मणा
ब्रह्मवनिं त्वा क्षत्रवनिम्̇ सुप्रजावनिम्̇ रायस्पोषवनिम् पर्य् ऊहामि
ब्रह्म दृम्̇ह क्षत्रं दृम्̇ह प्रजां दृम्̇ह रायस् पोषं दृम्̇ह
घृतेन द्यावापृथिवी आ पृणेथाम्
इन्द्रस्य सदो ऽसि विश्वजनस्य छाया
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ।
इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असि
ऐन्द्रम् असि
इन्द्राय त्वा ॥
1.3.2
अनुवाक 2
उपरवाः
VERSE: 1
रक्षोहणो वलगहनो वैष्णवान् खनामि ।
इदम् अहं तं वलगम् उद् वपामि यं नः समानो यम् असमानो निचखान ।
इदम् एनम् अधरं करोमि यो नः समानो यो ऽसमानो ऽरातीयति
गायत्रेण छन्दसावबाढो वलगः
किम् अत्र भद्रं तन् नौ सह
विराड् असि सपत्नहा सम्राड् असि भ्रातृव्यहा स्वराड् अस्य् अभिमातिहा विश्वाराड् असि विश्वासां {W विश्वानां} {ASS विश्वासां} {BI विश्वासां} {GOLS विश्वासां} नाष्ट्राणाम्̇ हन्ता ॥
VERSE: 2
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान्
रक्षोहणो वलगहनो ऽव नयामि वैष्णवान्
यवो ऽसि यवयास्मद् द्वेषो यवयाराती ।
रक्षोहणो वलगहनो ऽव स्तृणामि वैष्णवान्
रक्षोहणो वलगहनो ऽभि जुहोमि वैष्णवान्
रक्षोहणौ वलगहनाव् उप दधामि वैष्णवी
रक्षोहणौ वलगहनौ पर्य् ऊहामि वैष्णवी
रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी
रक्षोहणौ वलगहनौ वैष्णवी
बृहन्न् असि बृहद्ग्रावा बृहतीम् इन्द्राय वाचं वद ॥
1.3.3 अनुवाक 3 धिष्णियाः
VERSE: 1
विभूर् असि प्रवाहणो ।
वह्निर् असि हव्यवाहनः
श्वात्रो ऽसि प्रचेतास्
तुथो ऽसि विश्ववेदा ।
उशिग् असि कविः ।
अङ्घारिर् असि बम्भारिः ।
अवस्युर् असि दुवस्वान् ।
शुन्ध्यूर् असि मार्जालीयः
सम्राड् असि कृशानुः
परिषद्यो ऽसि पवमानः
प्रतक्वासि नभस्वान्
असम्म्र्̥ष्टो ऽसि हव्यसूदः ।
ऋतधामासि सुवर्ज्योतिः ।
ब्रह्मज्योतिर् असि सुवर्धामा ।
अजो ऽस्य् एकपाद्
अहिर् असि बुध्नियो ।
रुद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिम्̇सीः ॥
1.3.4 अनुवाक 4 वैसर्जनहोमः
VERSE: 1
त्वम्̇ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथम्̇ स्वाहा
जुषाणो अप्तुर् आज्यस्य वेतु स्वाहा ।
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयं शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
उरु विष्णो वि क्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥
सोमो जिगाति गातुवित्
VERSE: 2
देवानाम् एति निष्कृतम् ऋतस्य योनिम् आसदम्
अदित्याः सदो ऽसि ।
अदित्याः सद आ सीद ।
एष वो देव सवितः सोमस् तम्̇ रक्षध्वम् मा वो दभत् ।
एतत् त्वम्̇ सोम देवो देवान् उपागा इदम् अहम् मनुष्यो मनुष्यान्त् सह प्रजया सह रायस् पोषेण
नमो देवेभ्यः स्वधा पितृभ्यः ।
इदम् अहं निर् वरुणस्य पाशात् सुवर् अभि
VERSE: 3
वि ख्येषं वैश्वानरं ज्योतिः ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि
या मम तनूस् त्वय्य् अभूद् इयम्̇ सा मयि या तव तनूर् मय्य् अभूद् एषा सा त्वयि
यथायथं नौ व्रतपते व्रतिनोर् व्रतानि ॥
1.3.5 अनुवाक 5 यूपच्छेदनम्
VERSE: 1
अत्य् अन्यान् अगां नान्यान् उपागाम्
अर्वाक् त्वा परैर् अविदम् परोऽवरैस्
तं त्वा जुषे वैष्णवं देवयज्यायै
देवस् त्वा सविता मध्वानक्तु ।
ओषधे त्रायस्वैनम् ।
स्वधिते मैनम्̇ हिम्̇सीः ।
दिवम् अग्रेण मा लेखीर् अन्तरिक्षम् मध्येन मा हिम्̇सीः पृथिव्या सम् भव
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयम्̇ रुहेम
यं त्वायम्̇ स्वधितिस् तेतिजानः प्रणिनाय महते सौभगायाछिन्नो रायः सुवीरः ॥
1.3.6 अनुवाक 6 यूपस्थापनम्
VERSE: 1
पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा
शुन्धतां लोकः पितृषदनो
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः
पितृणाम्̇ सदनम् असि
स्वावेशो ऽस्य् अग्रेगा नेतृणां वनस्पतिर् अधि त्वा स्थास्यति तस्य वित्तात् ।
देवस् त्वा सविता मध्वानक्तु
सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
उद् दिवम्̇ स्तभानान्तरिक्षम् पृण पृथिवीम् उपरेण दृम्̇ह
ते ते धामान्य् उश्मसी
VERSE: 2
गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य विष्णोः परमम् पदम् अव भाति भूरेः ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥
तद् विष्णोः परमम् पदम्̇ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥
ब्रह्मवनिं त्वा क्षत्रवनिम्̇ सुप्रजावनिम्̇ रायस्पोषवनिम् पर्य् ऊहामि
ब्रह्म दृम्̇ह क्षत्रं दृम्̇ह प्रजां दृम्̇ह रायस् पोषं दृम्̇ह
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्ताम् परीमम्̇ रायस्पोषो यजमानम् मनुष्या ।
अन्तरिक्षस्य त्वा सानावव गूहामि ॥
1.3.7 अनुवाक 7 पशोरुपाकरणम्
VERSE: 1
इषे त्वा ।
उपवीर् असि ।
उपो देवान् दैवीर् विशः प्रागुर् वह्नीर् उशिजो
बृहस्पते धारया वसूनि
हव्या ते स्वदन्ताम्
देव त्वष्टर् वसु रण्व
रेवती रमध्वम्
अग्नेर् जनित्रम् असि
वृषणौ स्थ ।
उर्वश्य् अस्य् आयुर् असि पुरूरवा ।
घृतेनाक्ते वृषणं दधाथाम् ।
गायत्रं छन्दो ऽनु प्र जायस्व त्रैष्टुभं जागतं छन्दो ऽनु प्र जायस्व
भवतम्
VERSE: 2
नः समनसौ समोकसाव् अरेपसौ
मा यज्ञम्̇ हिम्̇सिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानाम् मिथुया कर् भागधेयम् ॥
1.3.8 अनुवाक 8 पशोः संज्ञपनम्
VERSE: 1
आ ददे ।
ऋतस्य त्वा देवहविः पाशेनारभे
धर्षा मानुषान्
अद्भ्यस् त्वौषधीभ्यः प्रोक्षामि ।
अपाम् पेरुर् असि
स्वात्तं चित् सदेवम्̇ हव्यम् आपो देवीः स्वदतैनम् ।
सं ते प्राणो वायुना गच्छताम्̇ सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा
घृतेनाक्तौ पशुं त्रायेथाम् ।
रेवतीर् यज्ञपतिम् प्रियधाऽऽ विशत ।
उरो अन्तरिक्ष सजूर् देवेन
VERSE: 2
वातेनास्य हविषस् त्मना यज सम् अस्य तनुवा भव वर्षीयो वर्षीयसि यज्ञे यज्ञपतिं धाः
पृथिव्याः सम्पृचः पाहि
नमस् त आतान ।
अनर्वा प्रेहि घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेण ।
आपो देवीः शुद्धायुवः शुद्धा यूयं देवाम्̇ ऊढ्वम्̇ शुद्धा वयम् परिविष्टाः परिवेष्टारो वो भूयास्म ॥
1.3.9 अनुवाक 9 पशोर्वपा
VERSE: 1
वाक् त आ प्यायताम् प्राणस् त आ प्यायतां चक्षुस् त आ प्यायताम् श्रोत्रं त आ प्यायताम्
या ते प्राणाञ् छुग् जगाम या चक्षुर् या श्रोत्रं यत् ते क्रूरं यद् आस्थितम् तत् त आ प्यायतां तत् त एतेन शुन्धताम् ।
नाभिस् त आ प्यायताम् पायुस् त आ प्यायताम् ।
शुद्धाश् चरित्राः
शम् अद्भ्यः ॥
VERSE: 2
शम् ओषधीभ्यः शम् पृथिव्यै शम् अहोभ्याम्
ओषधे त्रायस्वैनम् ।
स्वधिते मैनम्̇ हिम्̇सी
रक्षसाम् भागो ऽसि ।
इदम् अहम्̇ रक्षो ऽधमम् तमो नयामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् एनम् अधमं तमो नयामि ।
इषे त्वा
घृतेन द्यावापृथिवी प्रोर्ण्वाथाम्
अछिन्नो रायः सुवीर
उर्व् अन्तरिक्षम् अन्विहि
1वायो वीहि स्तोकानाम् ।
स्वाहोर्ध्वनभसं मारुतं गच्छतम् ॥
1.3.10 अनुवाक 10 वसाहोमः
VERSE: 1
सं ते मनसा मनः सम् प्राणेन प्राणो
जुष्टं देवेभ्यो हव्यं घृतवत् स्वाहा ।
ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् ऐन्द्रो ऽपानो अङ्गेअङ्गे वि बोभुवत् ।
देव त्वष्टर् भूरि ते सम्̇सम् एतु विषुरूपा यत् सलक्ष्माणो भवथ । देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥
श्रीर् असि ।
अग्निस् त्वा श्रीणातु ।
आपः सम् अरिणन्
वातस्य (१) त्वा ध्रज्यै पूष्णो रम्̇ह्या अपाम् ओषधीनाम्̇ रोहिष्यै
VERSE: 2
घृतं घृतपावानः पिबत वसां वसापावानः पिबत ।
अन्तरिक्षस्य हविर् असि
स्वाहा त्वान्तरिक्षाय
दिशः प्रदिश आदिशो विदिश उद्दिशः
स्वाहा दिग्भ्यो
नमो दिग्भ्यः ॥
1.3.11 अनुवाक 11 उपयड्ढोमाः
VERSE: 1
समुद्रं गच्छ स्वाहाऽन्तरिक्षं गच्छ स्वाहा देवम्̇ सवितारं गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा सोमं गच्छ स्वाहा यज्ञं गच्छ स्वाहा छन्दाम्̇सि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा नभो दिव्यं गच्छ स्वाहाऽग्निं वैश्वानरं गच्छ स्वाहा ।
अद्भ्यस् त्वौषधीभ्यो
मनो मे हार्दि यच्छ
तनूं त्वचम् पुत्रं नप्तारम् अशीय
शुग् असि(१) तम् अभि शोच यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो
धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च ॥
1.3.12 अनुवाक 12 वसतीवरीग्रहणम्
VERSE: 1
हविष्मतीर् इमा आपो हविष्मान् देवो अध्वरो हविष्माम्̇ आ विवासति हविष्माम्̇ अस्तु सूर्यः ॥
अग्नेर् वो ऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निमीः सुम्ने मा धत्त ।
इन्द्राग्नियोर् भागधेयीः स्थ मित्रावरुणयोर् भागधेयीः स्थ विश्वेषां देवानां भागधेयीः स्थ
यज्ञे जागृत ॥
1.3.13 अनुवाक 13 सोमावरोहणम्
VERSE: 1
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वम् इमम् अध्वरं कृधि दिवि देवेषु होत्रा यच्छ
सोम राजन्न् एह्य् अव रोह
मा भेर् मा सं विक्थाः ।
मा त्वा हिम्̇सिषम्
प्रजास् त्वम् उपावरोह प्रजास् त्वाम् उपावरोहन्तु
शृणोत्व् अग्निः समिधा हवम् मे शृण्वन्त्व् आपो धिषणाश् च देवीः । शृणोत ग्रावाणो विदुषो नु (१)
VERSE: 2
यज्ञम्̇ शृणोतु देवः सविता हवम् मे ॥
देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं देवेभ्यो देवत्रा धत्त शुक्रम्̇ शुक्रपेभ्यो येषाम् भाग स्थ स्वाहा
कार्षिर् अस्य् अपापाम् मृध्रम् ।
समुद्रस्य वोक्षित्या उन् नये
यम् अग्ने पृत्सु मर्त्यम् आवो वाजेषु यं जुनाः । स यन्ता शश्वतीर् इषः ॥
1.3.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वम्̇ मारुतम् पृक्ष ईशिषे । त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः पासि नु त्मना ॥
आ वो राजानम् अध्वरस्य रुद्रम्̇ होतारम्̇ सत्ययजम्̇ रोदस्योः । अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥
अग्निर् होता नि षसादा यजीयान् उपस्थे मातुः सुरभाव् उ लोके । युवा कविः पुरुनिष्ठः
VERSE: 2
ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥
साध्व्ī́म् अकर् देववीतिं नो दय यज्ञस्य जिह्वाम् अविदाम गुह्याम् । स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
त्वे वसूनि पुर्वणीक ॥
VERSE: 3
होतर् दोषा वस्तोर् एरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि यस्मिन्त् सम्̇ सौभगानि दधिरे पावके ॥
तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥
अश्याम तं कामम् अग्ने तवोत्य् अश्याम रयिम्̇ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर
VERSE: 4
वसो पुरुस्पृहम्̇ रयिम् ॥
स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥
आयुष् टे विश्वतो दधद् अयम् अग्निर् वरेण्यः । पुनस् ते प्राण आयति परा यक्ष्मम्̇ सुवामि ते ॥
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि ॥
VERSE: 5
रक्षताद् इमम् ॥
तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥
शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । त्वम् घृतेभिराहुतः ॥
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिः ॥
VERSE: 6
यद् एनं द्यौर् अजनयत् सुरेताः ॥
आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके । अग्निः शर्धम् अनवद्यं युवानम्̇ स्वाधियं जनयत् सूदयच् च ॥
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥
अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । विश्वा यः
VERSE: 7
चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥
तम् अग्ने पृतनासहम्̇ रयिम्̇ सहस्व आ भर । त्वम्̇ हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर् विधेमाग्नये ॥
वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥
अग्न आयूम्̇षि
VERSE: 8
पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधत् पोषम्̇ रयिम् मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीम्̇ष्य् अर्चयः ॥
1.4 प्रपाठक: 4
1.4.1अनुवाक 1 सोमाभिषवः
VERSE: 1
आ ददे ग्रावास्य् अध्वरकृद् देवेभ्यो गम्भीरम् इमम् अध्वरं कृध्य् उत्तमेन पविनेन्द्राय सोमम्̇ सुषुतम् मधुमन्तम् पयस्वन्तं वृष्टिवनिम्
इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते
श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस् ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकम् ॥
VERSE: 2
सोमः पिबतु
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्य् अधि दात्रे वोचो ।
धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जम् मे धत्तम्, मा वाम्̇ हिम्̇सिषम् मा मा हिम्̇सिष्टम्
प्राग् अपाग् उदग् अधराक् तास् त्वा दिश आ धावन्त्व् अम्ब नि ष्वर
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥
1.4.2 अनुवाक 2 उपांशुग्रहः
VERSE: 1
वाचस् पतये पवस्व वाजिन् वृषा वृष्णो अम्̇शुभ्यां गभस्तिपूतो देवो देवानाम् पवित्रम् असि येषां भागो ऽसि तेभ्यस् त्वा
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ।
मनस् त्वाऽष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिः प्राणाय त्वा ॥
1.4.3 अनुवाक 3 अन्तर्यामग्रहः
VERSE: 1
उपयामगृहीतो ऽसि ।
अन्तर् यच्छ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्वान्तस् ते दधामि द्यावापृथिवी अन्तर् उर्वन्तरिक्षम्̇ सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः {W दिव्येभ्याः} {ASS दिव्येभ्यः} {BI दिव्येभ्यः} {GOLS दिव्येभ्यः} पार्थिवेभ्यः ।
मनस् त्वाष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिर् अपानाय त्वा ॥
1.4.4 अनुवाक 4 ऐन्द्रवायवग्रहः
VERSE: 1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतो ऽसि वायवे त्वा ।
इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥
1.4.5 अनुवाक 5 मैत्रावरुणग्रहः
VERSE: 1
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतम्̇ हवम् ॥
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥
1.4.6 अनुवाक 6 आश्विन् ग्रहः
VERSE: 1
या वां कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम् ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥
1.4.7 अनुवाक 7 आश्विन् ग्रहः
VERSE: 1
प्रातर्युजौ वि मुच्येथाम् अश्विनाव् एह गच्छतम् । अस्य सोमस्य पीतये ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् अश्विभ्यां त्वा ॥
1.4.8 अनुवाक 8 शुक्रग्रहः
VERSE: 1
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाम्̇ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरताम् पाहि ॥
1.4.9 अनुवाक 9 मन्थिग्रहः
VERSE: 1
तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदम्̇ सुवर्विदम् । प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तम् अनु यासु वर्धसे ॥
उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥
1.4.10 अनुवाक 10 आग्रयणग्रहः
VERSE: 1
ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् ।
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशम् त्वम् पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
1.4.11 अनुवाक 11 भ्रातृव्यवतः आग्रयणग्रहः
VERSE: 1
त्रिम्̇शत् त्रयश् च गणिनो रुजन्तो दिवम्̇ रुद्राः पृथिवीं च सचन्ते । एकादशासो अप्सुषदः सुतम्̇ सोमं जुषन्ताम्̇ सवनाय विश्वे ॥
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
1.4.12 अनुवाक 12 उक्थ्यग्रहः
VERSE: 1
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वैष ते योनिर् इन्द्राय त्वोक्थायुवे ॥
1.4.13अनुवाक 13 ध्रुवग्रहः
VERSE: 1
मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋताय जातम् अग्निम् । कविम्̇ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
उपयामगृहीतो ऽस्य् अग्नये त्वा वैश्वानराय ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् अग्नये त्वा वैश्वानराय ॥
1.4.14 अनुवाक 14 ऋतुग्रहाः
VERSE: 1
मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च ।
उपयामगृहीतो ऽसि
सम्̇सर्पो ऽसि ।
अम्̇हस्पत्याय त्वा ॥
1.4.15 अनुवाक 15 ऐन्द्राग्नग्रहाः
VERSE: 1
इन्द्राग्नी आ गतम्̇ सुतं गीर्भिर् नभो वरेण्यम् अस्य पातं धियेषिता ॥
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा ॥
1.4.16 अनुवाक 16 वैश्वदेवग्रहः
VERSE: 1
ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाम्̇सो दाशुषः सुतम् ॥
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
1.4.17 अनुवाक 17 पूर्वोमरुत्वतीयग्रहः
VERSE: 1
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यम्̇ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायो ऽग्रम्̇ सहोदाम् इह तम्̇ हुवेम ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
1.4.18 अनुवाक 18 उत्तरो मरुत्वतीयग्रहः
VERSE: 1
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
1.4.19 अनुवाक 19 तृतीयो मरुत्वतीयग्रहः
VERSE: 1
मरुत्वाम्̇ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वम्̇ राजासि प्रदिवः सुतानाम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
1.4.20 अनुवाक 20 माहेन्द्रग्रहः
VERSE: 1
महाम्̇ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाम्̇ इव । स्तोमैर् वत्सस्य वावृधे ॥
उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥
1.4.21अनुवाक 21 माहेन्द्रग्रहः
VERSE: 1
महाम्̇ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्यायो उरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥
उपयाम गृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥
1.4.22 अनुवाक 22 आदित्यग्रहः
VERSE: 1
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नं आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तराऽसत् ॥
विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥
1.4.23 अनुवाक 23 सावित्रग्रहः
VERSE: 1
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
1.4.24 अनुवाक 24 सावित्रग्रहः
VERSE: 1
अदब्धेभिः सवितः पायुभिष् ट्वम्̇ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशम्̇स ईशत ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
1.4.25 अनुवाक 25 सावित्रग्रहः
VERSE: 1
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
1.4.26 अनुवाक 26 वैश्वदेवग्रहः
VERSE: 1
सुशर्माऽसि सुप्रतिष्ठानो ।
बृहद् उक्षे नमः।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
1.4.27अनुवाक 27 पात्नीवतग्रहः
VERSE: 1
बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि ।
अग्ना३इ पत्नीवा३ः सजूर् देवेन त्वष्ट्रा सोमम् पिब स्वाहा ॥
1.4.28 अनुवाक 28 हारियोजनग्रहः
VERSE: 1
हरिर् असि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि
हरीः स्थ हर्योर् धानाः सहसोमाः ।
इन्द्राय स्वाहा ॥
1.4.29 अनुवाक 29 आग्नेयः अतिग्राह्यग्रहः
VERSE: 1
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम्
उपयामगृहीतो ऽस्य् अग्नये त्वा तेजस्वत एष ते योनिर् अग्नये त्वा तेजस्वते ॥
1.4.30 अनुवाक 30 ऐन्द्रः अतिग्राह्यग्रहः
VERSE: 1
उत्तिष्ठन्न् ओजसा सह पीत्वा शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते ॥
1.4.31 अनुवाक 31 सौर्यः अतिग्राह्यग्रहः
VERSE: 1
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥
1.4.32 अनुवाक 32
VERSE: 1
आ प्यायस्व मदिन्तम सोम विश्वाभिर् ऊतिभिः । भवा नः सप्रथस्तमः ॥
1.4.33 अनुवाक 33
VERSE: 1
ईयुष् ट ये पूर्वतराम् अपश्यन् व्युछन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥
1.4.34 अनुवाक 34
VERSE: 1
ज्योतिष्मतीं त्वा सादयामि
ज्योतिष्कृतं त्वा सादयामि
ज्योतिर्विदं त्वा सादयामि
भास्वतीं त्वा सादयामि
ज्वलन्तीं त्वा सादयामि
मल्मलाभवन्तीं त्वा सादयामि
दीप्यमानां त्वा सादयामि
रोचमानां त्वा सादयामि
अजस्रां त्वा सादयामि
बृहज्ज्योतिषं त्वा सादयामि
बोधयन्तीं त्वा सादयामि
जाग्रतीं त्वा सादयामि ॥
1.4.35 अनुवाक 35
VERSE: 1
प्रयासाय स्वाहायासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥
1.4.36 अनुवाक 36
VERSE: 1
चित्तम्̇ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिम्̇ स्थूलहृदयेनाग्निम्̇ हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेनौषिष्ठहनम्̇ शिङ्गीनिकोश्याभ्याम् ॥
1.4.37 अनुवाक 37 षोडशिग्रहः
VERSE: 1
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनम्̇ सु ते मनो ग्रावा कृणोतु वग्नुना ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
1.4.38 अनुवाक 38 षोडशिग्रहः
VERSE: 1
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम्
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
1.4.39 अनुवाक 39 षोडशिग्रहः
VERSE: 1
असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियम्̇ रजः सूर्यं न रश्मिभिः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
1.4.40अनुवाक 40 षोडशिग्रहः
VERSE: 1
सर्वस्य प्रतिशीवरी भूमिस् त्वोपस्थ आऽधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
1.4.41 अनुवाक 41 षोडशिग्रहः
VERSE: 1
महाम्̇ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
1.4.42 अनुवाक 42 षोडशिग्रहः
VERSE: 1
सजोषा इन्द्रः सगणो मरुद्भिः सोमम् पिब वृत्रहञ् छूर विद्वान् । जहि शत्रूम्̇र् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
1.4.43 अनुवाक 43 दक्षिणा
VERSE: 1
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम्̇ सूर्य आत्मा जगतस् तस्थुषश् च ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
दिवं गच्छ सुवः पत
रूपेण
VERSE: 2
वो रूपम् अभ्य् ऐमि वयसा वयः ।
तुथो वो विश्ववेदा वि भजतु वर्षिष्ठे अधि नाके ।
एतत् ते अग्ने राध ऐति सोमच्युतम् ।
तन् मित्रस्य पथा नय ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः ।
ब्राह्मणम् अद्य राध्यासम् ऋषिम् आर्षेयम् पितृमन्तम् पैतृमत्यम्̇ सुधातुदक्षिणम् ।
वि सुवः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः (2)
अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारम् आ विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत
तन् नः सम्̇स्कृतम् ॥
1.4.44 अनुवाक 44 समिष्टयजुर्होमः
VERSE: 1
धाता रातिः सवितेदं जुषन्ताम् प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा विष्णुः प्रजया सम्̇रराणो यजमानाय द्रविणं दधातु ॥
सम् इन्द्र णो मनसा नेषि गोभिः सम्̇ सूरिभिर् मघवन्त् सम्̇ स्वस्त्या । सम् ब्रह्मणा देवकृतं यद् अस्ति सं देवानाम्̇ सुमत्या यज्ञियानाम् ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̇ शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु
VERSE: 2
अनु मार्ष्टु तनुवो यद् विलिष्टम् ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अयाड् ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान् ॥
स्वगा वो देवाः सदनम् अकर्म य आजग्म सवनेदं जुषाणाः । जक्षिवाम्̇सः पपिवाम्̇सश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥
यान् आवह उशतो देव देवान् तान्
VERSE: 3
प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवीम्̇षि वसुं घर्मं दिवम् आ तिष्ठतानु ॥
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञम्̇ स्वाहा वाचि स्वाहा वाते धाः ॥
1.4.45 अनुवाक 45 अवभृथः
VERSE: 1
उरुम्̇ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥
शतं ते राजन् भिषजः सहस्रम् उर्वी गम्भीरा सुमतिष् टे अस्तु । बाधस्व द्वेषो निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत्
अभिष्ठितो वरुणस्य पाशः ।
अग्नेर् अनीकम् अप आ विवेश । अपां नपात् प्रतिरक्षन्न् असुर्यं दमेदमे
VERSE: 2
समिधं यक्ष्य् अग्ने ।
प्रति ते जिह्वा घृतम् उच् चरण्येत्
समुद्रे ते हृदयम् अप्स्व् अन्तः । सं त्वा विशन्त्व् ओषधीर् उतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम ।
अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि
सुमित्रा न आप ओषधयः
VERSE: 3
सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
देवीर् आप एष वो गर्भस् तं वः सुप्रीतम्̇ सुभृतम् अकर्म देवेषु नः सुकृतो ब्रूतात्
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः ।
एधो ऽस्य् एधिषीमहि समिद् असि तेजो ऽसि तेजो मयि धेहि ।
अपो अन्व् अचारिषम्̇ रसेन सम् असृक्ष्महि पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥
1.4.46 अनुवाक 46 काम्येष्टियाज्यापुरोनुवाक्या
VERSE: 1
यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥
यस्मै त्वम्̇ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनम्̇ स पुत्रिणं वीरवन्तं गोमन्तम्̇ रयिं नशते स्वस्ति ॥
त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते ॥
उक्थौक्थे सोम इन्द्रम् ममाद नीथेनीथे मघवानम्
VERSE: 2
सुतासः । यद् ईम्̇ सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
अग्ने रसेन तेजसा जातवेदो वि रोचसे । रक्षोहाऽमीवचातनः ॥
अपो अन्व् अचारिषम्̇ रसेन सम् असृक्षमहि । पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥
वसुर् वसुपतिर् हिकम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि ॥
त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे
VERSE: 3
अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥
त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयम्̇ शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वम्̇ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
उद् अग्ने शुचयस् तव
वि ज्योतिषा ॥
1.5 प्रपाठक: 5 पुनराधेयम् अग्न्युपस्थानम् च॥
1.5.1 अनुवाक 1
पुनराधानविधानम्
VERSE: 1
देवासुराः संयत्ता आसन् ते देवा विजयम् उपयन्तो ऽग्नौ वामं वसु सं न्य् अदधत ।
इदम् उ नो भविष्यति यदि नो जेष्यन्तीति
तद् अग्निर् न्य् अकामयत तेनापाक्रामत्
तद् देवा विजित्यावरुरुत्समाना अन्व् आयन् तद् अस्य सहसादित्सन्त
सो ऽरोदीद् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम् ।
यद् अश्र्व् अशीयत तत्
VERSE: 2
रजतम्̇ हिरण्यम् अभवत् तस्माद् रजतम्̇ हिरण्यम् अदक्षिण्यम् अश्रुजम्̇ हि
यो बर्हिषि ददाति पुरास्य संवत्सराद् गृहे रुदन्ति तस्माद् बर्हिषि न देयम् ।
सो ऽग्निर् अब्रवीद् भाग्य् असान्य् अथ व इदम् इति पुनराधेयं ते केवलम् इत्य् अब्रुवन्न् ऋध्नवत् खलु स इत्य् अब्रवीद् यो मद्देवत्यम् अग्निम् आदधाता इति
तम् पूषाधत्त तेन
VERSE: 3
पूषार्ध्नोत् तस्मात् पौष्णाः पशव उच्यन्ते तम् त्वष्टाऽऽधत्त तेन त्वष्टाऽऽर्ध्नोत् तस्मात् त्वाष्ट्राः पशव उच्यन्ते
तम् मनुर् आधत्त तेन मनुर् आर्ध्नोत् तस्मान् मानव्यः प्रजा उच्यन्ते
तम् धाताऽऽधत्त तेन धाताऽऽर्ध्नोत् संवत्सरो वै धाता तस्मात् संवत्सरम् प्रजाः पशवोनु प्र जायन्ते । य एवम् पुनराधेयस्यर्द्धिं वेद
VERSE: 4
ऋध्नोत्य् एव यो ऽस्यैवं बन्धुतां वेद बन्धुमान् भवति ।
भागधेयं वा अग्निर् आहित इच्छमानः प्रजाम् पशून् यजमानस्योप दोद्राव ।
उद्वास्य पुनर् आ दधीत भागधेयेनैवैनम्̇ सम् अर्धयत्य् अथो शान्तिर् एवास्यैषा
पुनर्वस्वोर् आ दधीतैतद् वै पुनराधेयस्य नक्षत्रं यत् पुनर्वसू स्वायाम् एवैनं देवतायाम् आधाय ब्रह्मवर्चसी भवति
दर्भैर् आ दधात्य् अयातयामवाय
दर्भैर् आ दधात्य् अद्भ्य एवैनम् ओषधीभ्यो ऽवरुध्याऽऽधत्ते
पञ्चकपालः पुरोडाशो भवति पञ्च वा ऋतव ऋतुभ्य एवैनम् अवरुध्याऽऽधत्ते ॥
1.5.2 अनुवाक 2
याज्यादिविधानम्
VERSE: 1
परा वा एष यज्ञम् पशून् वपति यो ऽग्निम् उद्वासयते ।
पञ्चकपालः पुरोडाशो भवति
पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञम् एव पशून् अवरुन्द्धे ।
वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते
न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् ।
पङ्क्त्यो याज्यानुवाक्या भवन्ति
पाङ्क्तो यज्ञः पाङ्क्तः पुरुषो देवान् एव वीरं निरवदायाग्निम् पुनर् आ
VERSE: 2
धत्ते
शताक्षरा भवन्ति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति
यद् वा अग्निर् आहितो नर्ध्यते ज्यायो भागधेयं निकामयमानो यद् आग्नेयम्̇ सर्वम् भवति सैवास्यर्द्धिः
सं वा एतस्य गृहे वाक् सृज्यते यो ऽग्निम् उद्वासयते स वाचम्̇ सम्̇सृष्टां यजमान ईश्वरो ऽनु पराभवितोर् विभक्तयो भवन्ति वाचो विधृत्यै यजमानस्यापराभावाय ॥
VERSE: 3
विभक्तिं करोति ब्रह्मैव तद् अकर् ।
उपाम्̇शु यजति यथा वामं वसु विविदानो गूहति तादृग् एवतद् अग्निम् प्रति स्विष्टकृतं निर् आह यथा वामं वसु विविदानः प्रकाशं जिगमिषति तादृग् एव तत् ।
विभक्तिम् उक्त्वा प्रयाजेन वषट् करोत्य् आयतनाद् एव नैति
यजमानो वै पुरोडाशः पशव एते आहुती यद् अभितः पुरोडाशम् एते आहुती ॥
VERSE: 4
जुहोति यजमानम् एवोभयतः पशुभिः परि गृह्णाति
कृतयजुः सम्भृतसम्भार इत्य् आहुर् न सम्भृत्याः सम्भारा न यजुः कर्तव्यम् इति ।
अथो खलु सम्भृत्या एव सम्भाराः कर्तव्यं यजुर् यज्ञस्य समृद्ध्यै
पुनर्निष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृष्टो ऽनड्वान् पुनराधेयस्य समृद्ध्यै
सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् अग्निहोत्रं जुहोति
यत्रयत्रैवास्य न्यक्तं ततः
VERSE: 5
एवैनम् अव रुन्द्धे
वीरहा वा एष देवानाम् यो ऽग्निम् उद्वासयते तस्य वरुण एवर्णयाद् आग्निवारुणम् एकादशकपालम् अनु निर् वपेद् यं चैव हन्ति यश् चास्यर्णयात् तौ भागधेयेन प्रीणाति नार्तिम् आर्च्छति यजमानः ॥
1.5.3 अनुवाक 3
पुनराधानमन्त्राः
VERSE: 1
भूमिर् भूम्ना द्यौर् वरिणान्तरिक्षम् महित्वा । उपस्थे ते देव्य् अदिते ऽग्निम् अन्नादम् अन्नाद्याया दधे ॥
आयं गौः पृश्निर् अक्रमीद् असनन् मातरम् पुनः । पितरं च प्रयन्त् सुवः ॥
त्रिम्̇शद् धाम वि राजति वाक् पतंगाय शिश्रिये । प्रत्य् अस्य वह द्युभिः ॥
अस्य प्राणाद् अपानत्य् अन्तश् चरति रोचना । व्यख्यन् महिषः सुवः ॥
यत् त्वा
VERSE: 2
क्रुद्धः परोवप मन्युना यद् अवर्त्या । सुकल्पम् अग्ने तत् तव पुनस् त्वोद् दीपयामसि ॥
यत् ते मन्युपरोप्तस्य पृथिवीम् अनु दध्वसे । आदित्या विश्वे तद् देवा वसवश् च समाभरन् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञम्̇ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त
VERSE: 3
ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाम्̇ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥
1.5.4 अनुवाक 4
पुनराधान मन्त्राणां व्याख्यानं
VERSE: 1
भूमिर् भूम्ना द्यौर् वरिणेत्य् आहाशिषैवैनम् आ धत्ते
सर्पा वै जीर्यन्तो ऽमन्यन्त स एतं कसर्णीरः काद्रवेयो मन्त्रम् अपश्यत् ततो वै ते जीर्णास् तनूर् अपाघ्नत
सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आ दधाति पुनर्नवम् एवैनम् अजरं कृत्वा धत्ते ।
अथो पूतम् एव पृथिवीम् अन्नाद्यं नोपानमत् सैतम्
VERSE: 2
मन्त्रम् अपश्यत् ततो वै ताम् अन्नाद्यम् उपानमत् ।
यत् सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आदधात्य् अन्नाद्यस्यावरुद्ध्यै ।
अथो अस्याम् एवैनम् प्रतिष्ठितम् आ धत्ते
यत् त्वा क्रुद्धः परोवपेत्य् आहाप ह्नुत एवास्मै तत्
पुनस् त्वोद् दीपयामसीत्य् आह सम् इन्द्ध एवैनम् ।
यत् ते मन्युपरोप्तस्येत्य् आह देवताभिर् एव
VERSE: 3
एनम्̇ सम् भरति
वि वा एतस्य यज्ञश् छिद्यते यो ऽग्निम् उद्वासयते बृहस्पतिवत्यर्चोप तिष्ठते ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञम्̇ सं दधाति
विच्छिन्नं यज्ञम्̇ सम् इमं दधात्व् इत्य् आह संतत्यै
विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति
सप्त ते अग्ने समिधः सप्त जिह्वाः ॥
VERSE: 4
इत्य् आह सप्तसप्त वै सप्तधाग्नेः प्रियास् तनुवस् ता एवाव रुन्द्धे
पुनर् ऊर्जा सह रय्येत्य् अभितः पुरोडाशम् आहुती जुहोति यजमानम् एवोर्जा च रय्या चोभयतः परि गृह्णाति ।
आदित्या वा अस्माल् लोकाद् अमुं लोकम् आयन् ते ऽमुष्मिम्̐ लोके व्यतृष्यन् त इमं लोकम् पुनर् अभ्यवेत्याग्निम् आधायैतान् होमान् अजुहवुस् त आर्ध्नुवन् ते सुवर्गं लोकम् आयन्
यः पराचीनम् पुनराधेयाद् अग्निम् आदधीत स एतान् होमाञ् जुहुयाद् याम् एवादित्या ऋद्धिम् आर्ध्नुवन् ताम् एवर्ध्नोति
1.5.5 अनुवाक 5
आहवनीयोपस्थानम्
VERSE: 1
उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ॥
अस्य प्रत्नाम् अनु द्युतम्̇ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसाम् ऋषिम् ॥
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाम्̇ रेताम्̇सि जिन्वति ॥
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभुवं विशेविशे ॥
उभा वाम् इन्द्राग्नी आहुवध्यै ॥
VERSE: 2
उभा राधसः सह मादयध्यै । उभा दाताराव् इषाम्̇ रयीणाम् उभा वाजस्य सातये हुवे वाम् ।
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ।
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ॥ दधत् पोषम्̇ रयिम्
VERSE: 3
मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीम्̇ष्य् अर्चयः ॥
आयुर्दा अग्ने ऽस्य् आयुर् मे ॥
VERSE: 4
देहि वर्चोदा अग्ने ऽसि वर्चो मे देहि तनूपा अग्ने ऽसि तनुवम् मे पाहि ।
अग्ने यन् मे तनुवा ऊनं तन् म आ पृण ।
चित्रावसो स्वस्ति ते पारम् अशीय ।
इन्धानास् त्वा शतम्̇ हिमा द्युमन्तः सम् इधीमहि वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतम्̇ सुवीरासो अदाभ्यम् । अग्ने सपत्नदम्भनं वर्षिष्ठे अधि नाके ।
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाम्̇ स्तुतेन सम् प्रियेण धाम्ना ।
त्वम् अग्ने सूर्यवर्चा असि सम् माम् आयुषा वर्चसा प्रजया सृज ॥
1.5.6 अनुवाक 6
अग्न्युपस्थानम्
VERSE: 1
सम् पश्यामि प्रजा अहम् इडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥
अम्भ स्थाम्भो वो भक्षीय मह स्थ महो वो भक्षीय सह स्थ सहो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय
रेवती रमध्वम् अस्मिम्̐ लोके ऽस्मिन् गोष्ठे ऽस्मिन् क्षये ऽस्मिन् योनाव् इहैव स्तेतो माऽप गात बह्वीर् मे भूयास्त ॥
VERSE: 2
सम्̇हितासि विश्वरूपीर् आ मोर्जा विशा गौपत्येना रायस् पोषेण
सहस्रपोषं वः पुष्यासम् मयि वो रायः श्रयन्ताम्
उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् । नमो भरन्त एमसि ॥
राजन्तम् अध्वराणाम् गोपाम् ऋतस्य दीदिविम् । वर्धमानम्̇ स्वे दमे ॥
स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥
अग्ने
VERSE: 3
त्वं नो अन्तमः । उत त्राता शिवो भव वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः । वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत रायस् पोषेण वः पश्यामि रायस् पोषेण मा पश्यत ।
इडा स्थ मधुकृतः स्योना मा विशतेरा मदः । सहस्रपोषं वः पुष्यासम् ॥
VERSE: 4
मयि वो रायः श्रयन्ताम् ॥
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
सोमानम्̇ स्वरणं कृणुहि ब्रह्मणस् पते । कक्षीवन्तम् य औशिजम् ॥
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
परि त्वाग्ने पुरं वयं विप्रम्̇ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥
अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासम्̇ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतम्̇ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ॥
1.5.7 अनुवाक 7
आहवनीयोपस्थानमन्त्राणां व्याख्यानम्
VERSE: 1
अयज्ञो वा एष यो ऽसामोपप्रयन्तो अध्वरम् इत्य् आह स्तोमम् एवास्मै युनक्त्य् उपेत्य् आह प्रजा वै पशव उपेमं लोकम् प्रजाम् एव पशून् इमं लोकम् उपैति ।
अस्य प्रत्नाम् अनु द्युतम् इत्य् आह सुवर्गो वै लोकः प्रत्नः सुवर्गम् एव लोकम्̇ समारोहति ।
अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम्
VERSE: 2
एवैनम्̇ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति ।
अयम् इह प्रथमो धायि धातृभिर् इत्य् आह मुख्यम् एवैनं करोति ।
उभा वाम् इन्द्राग्नी आहुवध्या इत्य् आहौजो बलम् एवाव रुन्द्धे ।
अयं ते योनिर् ऋत्विय इत्य् आह पशवो वै रयिः पशून् एवाव रुन्द्धे
षड्भिर् उप तिष्ठते षड् वै
VERSE: 3
ऋतव ऋतुष्व् एव प्रति तिष्ठति
षड्भिर् उत्तराभिर् उप तिष्ठते द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति
यथा वै पुरुषो ऽश्वो गौर् जीर्यत्य् एवम् अग्निर् आहितो जीर्यति संवत्सरस्य परस्ताद् आग्निपावमानीभिर् उप तिष्ठते पुनर्नवम् एवैनम् अजरं करोत्य् अथो पुनात्य् एव ।
उप तिष्ठते योग एवास्यैष उप तिष्ठते ॥
VERSE: 4
दम एवास्यैष उप तिष्ठते याच्ञैवास्यैषोप तिष्ठते यथा पापीयाञ् छ्रेयस आहृत्य नमस्यति तादृग् एव तत् ।
आयुर्दा अग्ने ऽस्य् आयुर् मे देहीत्य् आहायुर्दा ह्य् एष
वर्चोदा अग्ने ऽसि वर्चो मे देहीत्य् आह वर्चोदा ह्य् एष
तनूपा अग्ने ऽसि तनुवम् मे पाहीत्य् आह ॥
VERSE: 5
तनूपा ह्य् एषः ।
अग्ने यन् मे तनुवा ऊनं तन् म आ पृणेत्य् आह यन् मे प्रजायै पशूनामूनं तन् म आ पूरयेति वावैतद् आह
चित्रावसो स्वस्ति ते पारम् अशीयेत्य् आह रात्रिर् वै चित्रावसुर् अव्युष्ट्यै वा एतस्यै पुरा ब्राह्मणा अभैषुर् व्युष्टिम् एवाव रुन्द्धे ।
इन्धानास् त्वा शतम्
VERSE: 6
हिमा इत्य् आह शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
एषा वै सूर्मी कर्णकावत्य् एतया ह स्म वै देवा असुराणाम्̇ शततर्हाम्̇स् तृम्̇हन्ति यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्या अच्छम्बट्कारम् ।
सं त्वम् अग्ने सूर्यस्य वर्चसागथा इत्य् आहैतत् त्वम् असीदम् अहम् भूयासम् इति वावैतद् आह
त्वम् अग्ने सूर्यवर्चा असीत्य् आहाशिषम् एवैताम् आ शास्ते ॥
1.5.8 अनुवाक 8 ग्रह पश्वादि उपस्थानमन्त्राणां व्याख्यानम्
VERSE: 1
सम् पश्यामि प्रजा अहम्
इत्य् आह यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे ।
अम्भ स्थाम्भो वो भक्षीय ।
इत्य् आहाम्भो ह्य् एताः ।
मह स्थ महो वो भक्षीय ।
इत्य् आह महो ह्य् एताः
स्सह स्थ सहो वो भक्षीय ।
इत्य् आह सहो ह्य् एता ।
ऊर्ज स्थोर्जं वो भक्षीय ।
इति
VERSE: 2
आहोर्जो ह्य् एताः ।
रेवती रमध्वम्
इत्य् आह पशवो वै रेवतीः पशून् एवात्मन् रमयते ।
इहैव स्तेतो माप गात ।
इत्य् आह ध्रुवा एवैना अनपगाः कुरुते ।
इष्टकचिद् वा अन्यो ऽग्निः पशुचिद् अन्यः सम्̇हितासि विश्वरूपीः ।
इति वत्सम् अभि मृशत्य् उपैवैनं धत्ते पशुचितम् एनं कुरुते
प्र
VERSE: 3
वा एषो ऽस्माल् लोकाच् च्यवते य आहवनीयम् उपतिष्ठते गार्हपत्यम् उप तिष्ठते ऽस्मिन्न् एव लोके प्रति तिष्ठति ।
अथो गार्हपत्यायैव नि ह्नुते
गायत्रीभिर् उप तिष्ठते तेजो वै गायत्री तेज एवात्मन् धत्ते ।
अथो यद् एतं तृचम् अन्वाह संतत्यै
गार्हपत्यं वा अनु द्विपादो वीराः प्र जायन्ते
य एवं विद्वान् द्विपदाभिर् गार्हपत्यम् उपतिष्ठते
VERSE: 4
आस्य वीरो जायते ।
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत ।
इत्य् आहाशिषम् एवैताम् आ शास्ते
तत् सवितुर् वरेण्यम्
इत्य् आह प्रसूत्यै
सोमानम्̇ स्वरणम्
इत्य् आह सोमपीथम् एवाव रुन्द्धे
कृणुहि ब्रह्मणस् पते ।
इत्य् आह प्रसूत्यै
सोमानम्̇ स्वरणम्
इत्य् आह सोमपीथम् एवाव रुन्द्धे
कृणुहि ब्रह्मणस् पते ।
इत्य् आह ब्रह्मवर्चसम् एवाव रुन्द्धे
कदा चन स्तरीर् असि ।
इत्य् आह न स्तरीम्̇ रात्रिं वसति ॥
VERSE: 5
य एवं विद्वान् अग्निम् उपतिष्ठते
परि त्वाग्ने पुरं वयम्
इत्य् आह परिधिम् एवैतम् परि दधात्य् अस्कन्दाय ।
अग्ने गृहपते ।
इत्य् आह यथायजुर् एवैतत् ।
शतम्̇ हिमाः ।
इत्य् आह
शतं त्वा हेमन्तान् इन्धिषीय ।
इत्य् वावैतद् आह
पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम्
इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते
ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम्
इति ब्रूयाद् यस्य पुत्रो जातः स्यात्
तेज एवास्मिन् ब्रह्मवर्चसं दधाति ॥
1.5.9 अनुवाक 9
अग्न्युपस्थानस्य अग्निहोत्राङ्गता
VERSE: 1
अग्निहोत्रं जुहोति
यद् एव किं च यजमानस्य स्वं तस्यैव तत् ।
रेतः सिञ्चति प्रजनने प्रजननम्̇ हि वा अग्निः।
अथौषधीर् अन्तगता दहति तास् ततो भूयसीः प्र जायन्ते
यत् सायं जुहोति रेत एव तत् सिञ्चति
प्रैव प्रातस्तनेन जनयति तत् ।
रेतः सिक्तं न त्वष्ट्राऽविकृतम् प्र जायते यावच्छो वै रेतसः सिक्तस्य ॥
VERSE: 2
त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्र जायत एष वै दैव्यस् त्वष्टा यो यजते बह्वीभिर् उप तिष्ठते रेतस एव सिक्तस्य बहुशो रूपाणि वि करोति
स परैव जायते श्वःश्वो भूयान् भवति य एवं विद्वान् अग्निम् उपतिष्ठते ।
अहर् देवानाम् आसीद् रात्रिर् असुराणां ते ऽसुरा यद् देवानां वित्तं वेद्यम् आसीत् तेन सह
VERSE: 3
रात्रिम् प्राविशन्
ते देवा हीना अमन्यन्त
ते ऽपश्यन् ।
आग्नेयी रात्रिर् आग्नेयाः पशव इमम् एवाग्निम्̇ स्तवाम स न स्तुतः पशून् पुनर् दास्यतीति
ते ऽग्निम् अस्तुवन्त् स एभ्य स्तुतो रात्रिया अध्य् अहर् अभि पशून् निर् आर्जत् ते देवाः पशून् वित्त्वा कामाम्̇ अकुर्वत
य एवं विद्वान् अग्निम् उपतिष्ठते पशुमान् भवति ॥
VERSE: 4
आदित्यो वा अस्माल् लोकाद् अमुं लोकम् ऐत्
सो ऽमुं लोकं गत्वा पुनर् इमं लोकम् अभ्यध्यायत् स इमं लोकम् आगत्य मृत्योर् अबिभेन् मृत्युसंयुत इव ह्य् अयं लोकः
सो ऽमन्यत ।
इमम् एवाग्निम्̇ स्तवानि स मा स्तुतः सुवर्गं लोकं गमयिष्यतीति
सो ऽग्निम् अस्तौत् स एनम्̇ स्तुतः सुवर्गं लोकम् अगमयत् ।
यः
VERSE: 5
एवं विद्वान् अग्निम् उपतिष्ठते सुवर्गम् एव लोकम् एति सर्वम् आयुर् एति ।
अभि वा एषो ऽग्नी आ रोहति य एनाव् उपतिष्ठते यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
नक्तम् उप तिष्ठते न प्रातः सम्̇ हि नक्तं व्रतानि सृज्यन्ते सह श्रेयाम्̇श् च पापीयाम्̇श् चासाते ज्योतिर् वा अग्निस् तमो रात्रिर् यत्
VERSE: 6
नक्तम् उपतिष्ठते ज्योतिषैव तमस् तरति ।
उपस्थेयो ऽग्नी३र् नोपस्थेया३ इत्य् आहुर् मनुष्याय इत् नु वै यो ऽहरहर् आहृत्याथैनं याचति स इन् न्वै तम् उपार्च्छति ।
अथ को देवान् अहरहर् याचिष्यति ।
इति तस्मान् नोपस्थेयः ।
अथो खल्व् आहुर् आशिषे वै कं यजमानो यजते ।
इत्य् एषा खलु वै
VERSE: 7
आहिताग्नेर् आशीर् यद् अग्निम् उपतिष्ठते तस्माद् उपस्थेयः
प्रजापतिः पशून् असृजत ते सृष्टा अहोरात्रे प्राविशन्
ताञ् छन्दोभिर् अन्व् अविन्दद् यच् छन्दोभिर् उपतिष्ठते स्वम् एव तद् अन्व् इच्छति
न तत्र जाम्य् अस्ति ।
इत्य् आहुर् यो ऽहरहर् उपतिष्ठत इति
यो वा अग्निम् प्रत्यङ्ङ् उपतिष्ठते प्रत्य् एनम् ओषति यः पराङ् विष्वङ् प्रजया पशुभिर् एति
कवातिर्यङ्ङ् इवोप तिष्ठेत नैनम् प्रत्योषति न विष्वङ् प्रजया पशुभिर् एति ॥
1.5.10 अनुवाक 10
प्रवत्स्यतो यजमानस्य अग्न्युपस्थानमन्त्राः दर्शपूर्णमासाङ्ग मन्त्राश्च
VERSE: 1
मम नाम प्रथमं जातवेदः पिता माता च दधतुर् यद् अग्रे । तत् त्वम् बिभृहि पुनर् आ मद् ऐतोस् तवाहं नाम बिभराण्य् अग्ने ॥
मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं वि परि दधावहै पुनस् ते ॥
नमो ऽग्नये ऽप्रतिविद्धाय नमो ऽनाधृष्टाय नमः सम्राजे । अषाढो
VERSE: 2
अग्निर् बृहद्वया विश्वजित् सहन्त्यः श्रेष्ठो गन्धर्वः ॥
त्वत्पितारो अग्ने देवास् त्वामाहुतयस् त्वद्विवाचनाः । सम् माम् आयुषा सं गौपत्येन सुहिते मा धाः ॥
अयम् अग्निः श्रेष्ठतमो ऽयम् भगवत्तमो ऽयम्̇ सहस्रसातमः । अस्मा अस्तु सुवीर्यम् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञम्̇ सम् इमं दधातु । या इष्टा उषसो निम्रुचश् च ताः सं दधामि हविषा घृतेन ॥
पयस्वतीर् ओषधयः
VERSE: 3
पयस्वद् वीरुधाम् पयः । अपाम् पयसो यत् पयस् तेन माम् इन्द्र सम्̇ सृज ॥
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
अग्निम्̇ होतारम् इह तम्̇ हुवे देवान् यज्ञियान् इह यान् हवामहे ॥ आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य
कस् त्वा युनक्ति स त्वा युनक्तु
यानि घर्मे कपालान्य् उपचिन्वन्ति
VERSE: 4
वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥
अभिन्नो घर्मो जीरदानुर् यत आत्तस् तद् अगन् पुनः । इध्मो वेदिः परिधयश् च सर्वे यज्ञस्यायुर् अनु सं चरन्ति ॥
त्रयस्त्रिम्̇शत् तन्तवो ये वितत्निरे य इमं यज्ञम्̇ स्वधया ददन्ते तेषां छिन्नम् प्रत्य् एतद् दधामि स्वाहा घर्मो देवाम्̇ अप्य् एतु ॥
1.5.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
वैश्वानरो न ऊत्या प्र यातु परावतः । अग्निर् उक्थेन वाहसा ॥
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे ॥
वैश्वानरस्य दम्̇सनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा सः
VERSE: 2
रिषः पातु नक्तम् ।
जातो यद् अग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥
त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वम् देवाम्̇ अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥
अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरम्̇ सुवीर्यम् । वयं जयेम शतिनम्̇ सहस्रिणं वैश्वानर
VERSE: 3
वाजम् अग्ने तवो ऽतिभिः ॥
वैश्वानरस्य सुमतौ स्याम राजा हिकम् भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । क्षयन्न् अस्मभ्यम् असुर प्रचेतो राजन्न् एनाम्̇सि शिश्रथः कृतानि ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमम्̇ श्रथाय । अथा वयम् आदित्य
VERSE: 4
व्रते तवानागसो अदितये स्याम ॥
दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूम्̇षि तारिषत् ॥
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु वध्वा सम् इमा वचाम्̇सि ॥
अग्निर् मूर्धा भुवः ।
मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । आ तू नः
VERSE: 5
उप गन्तन ॥
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम्
अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । अदितिः पात्व् अम्̇हसः ॥
महीमू षु मातरम्̇ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीम्̇ सुशर्माणम् अदितिम्̇ सुप्रणीतिम् ॥
सुत्रामाणम् पृथिवीं द्याम् अनेहसम्̇ सुशर्माणम् अदितिम्̇ सुप्रणीतिम् । दैवीं नावम्̇ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥
इमाम्̇ सु नावम् आरुहम्̇ शतारित्राम्̇ शतस्फ्याम् । अच्छिद्राम् पारयिष्णुम् ॥
1.6 प्रपाठक: 6 ऐष्टिक याजमानमन्त्राः तद्ब्राह्मणानि च॥
1.6.1 अनुवाक 1
आज्यग्रहणानुमन्त्रण मन्त्राः
VERSE: 1
सं त्वा सिञ्चामि यजुषा प्रजाम् आयुर् धनं च । बृहस्पतिप्रसूतो यजमान इह मा रिषत् ॥
आज्यम् असि सत्यम् असि सत्यस्याध्यक्षम् असि हविर् असि वैश्वानरं वैश्वदेवम् उत्पूतशुष्मम्̇ सत्यौजाः सहो ऽसि सहमानम् असि सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि सत्यस्य सत्यम् असि सत्यायुः
VERSE: 2
असि सत्यशुष्मम् असि सत्येन त्वाऽभि घारयामि तस्य ते भक्षीय
पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा दिशाम्̇ यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि
चरोस् त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि
ब्रह्मणस् त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि
क्षत्रस्य त्वौजसे यन्त्राय
VERSE: 3
धर्त्राय गृह्णामि
विशे त्वा यन्त्राय धर्त्राय गृह्णामि
सुवीर्याय त्वा गृह्णामि
सुप्रजास्त्वाय त्वा गृह्णामि
रायस् पोषाय त्वा गृह्णामि
ब्रह्मवर्चसाय त्वा गृह्णामि
भूर् अस्माकम्̇ हविर् देवानाम् आशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि
कामाय त्वा गृह्णामि ॥
1.6.2 अनुवाक 2
हविर्होमानुमन्त्रण मन्त्राः
VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासं धीरश् चेत्ता वसुविद् ।
उग्रो ऽस्य् उग्रो ऽहम्̇ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद् ।
अभिभूर् अस्य् अभिभूर् अहम्̇ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद् ।
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
यन् मे अग्ने अस्य यज्ञस्य रिष्यात्
VERSE: 2
यद् वा स्कन्दाद् आज्यस्योत विष्णो । तेन हन्मि सपत्नम् दुर्मरायुम् ऐनं दधामि निर्ऋत्या उपस्थे ॥
भूर् भुवः सुवर्
उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते
अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर् मूर्धन्न् आ जिघर्मि रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय
मनो ऽसि प्राजापत्यम् मनसा मा भूतेनाविश
वाग् अस्य् ऐन्द्री सपत्नक्षयणी
VERSE: 3
वाचा मेन्द्रियेणाविश
वसन्तम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु
ग्रीष्मम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु
वर्षा ऋतूनाम् प्रीणामि ता मा प्रीताः प्रीणन्तु
शरदम् ऋतूनाम् प्रीणामि सा मा प्रीता प्रीणातु
हेमन्तशिशिराव् ऋतूनाम् प्रीणामि तौ मा प्रीतौ प्रीणीताम्
अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम्
अग्नेर् अहं देवयज्ययाऽन्नादो भूयासम् ॥
VERSE: 4
दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम्
अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम्
इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम्
इन्द्रस्याहं देवयज्ययेन्द्रियावी भूयासम्
महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम्
अग्नेः स्विष्टकृतो ऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ॥
1.6.3 अनुवाक 3
इडाभागादि अनुमन्त्रणमन्त्राः
VERSE: 1
अग्निर् मा दुरिष्टात् पातु सविताऽघशम्̇सात् ।
यो मे ऽन्ति दूरे ऽरातीयति तम् एतेन जेषम् ।
सुरूपवर्षवर्ण एहीमान् भद्रान् दुर्याम्̇ अभ्य् एहि माम् अनुव्रता
न्यु शीर्षाणि मृढ्वम्
इड एह्य् अदित एह्य् सरस्वत्य् एहि
रन्तिर् असि रमतिर् असि सूनर्य् असि
जुष्टे जुष्टिं ते ऽशीयोपहूत उपहवं
VERSE: 2
ते ऽशीय
सा मे सत्याशीर् अस्य यज्ञस्य भूयात् ।
अरेडता मनसा तच् छकेयम् ।
यज्ञो दिवम्̇ रोहतु यज्ञो दिवं गच्छतु
यो देवयानः पन्थास् तेन यज्ञो देवाम्̇ अप्य् एतु ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् राय उत यज्ञाः सचन्ताम् अस्मासु सन्त्व् आशिषः सा नः प्रिया सुप्रतूर्तिर् मघोनी
जुष्टिर् असि जुषस्व नो जुष्टा नः
VERSE: 3
असि जुष्टिं ते गमेयम्
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञम्̇ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
ब्रधन् पिन्वस्व
ददतो मे मा क्षायि कुर्वतो मे मोप दसत्
प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान्
प्राणापानौ मे पाहि समानव्यानौ मे पाह्य् उदानव्यानौ मे पाहि ।
अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रा ऽमुष्मिम्̐ लोके
1.6.4 अनुवाक 4
अनुयाजाद्यनुमन्त्रम्
VERSE: 1
बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् ।
नराशम्̇सस्याहं देवयज्यया पशुमान् भूयासम्
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्
अग्नेर् अहम् उज्जितिम् अनूज् जेषम् ।
सोमस्याहम् उज्जितिम् अनूज् जेषम्
अग्नेर् अहम् उज्जितिम् अनूज् जेषम्
अग्नीषोमयोर् अहम् उज्जितिम् अनूज् जेषम्
इन्द्राग्नियोर् अहम् उज्जितिम् अनूज् जेषम्
इन्द्रस्याहम्
VERSE: 2
उज्जितिम् अनूज् जेषम्
महेन्द्रस्याहम् उज्जितिम् अनूज् जेषम्
अग्नेः स्विष्टकृतो ऽहम् उज्जितिम् अनूज् जेषम्
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
एमा अग्मन्न् आशिषो दोहकामा इन्द्रवन्तः
VERSE: 3
वनामहे धुक्षीमहि प्रजाम् इषम् ॥
रोहितेन त्वाऽग्निर् देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्व् एतशेन त्वा सूर्यो देवतां गमयतु
वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि धत्ताद् अस्मासु द्रविणं यच् च भद्रम् प्र णो ब्रूताद् भागधान् देवतासु
विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् ।
सोमस्याहं देवयज्यया
VERSE: 4
सुरेता रेतो धिषीय
त्वष्टुर् अहं देवयज्यया पशूनाम्̇ रूपम् पुषेयम् ।
देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् ।
वेदो ऽसि वित्तिर् असि विदेय
कर्मासि करुणम् असि क्रियासम् ।
सनिर् असि सनितासि सनेयम् ।
घृतवन्तं कुलायिनम्̇ रायस् पोषम्̇ सहस्रिणं वेदो ददातु वाजिनम् ॥
1.6.5 अनुवाक 5
आप्यायनादि अनुमन्त्रणम्
VERSE: 1
आ प्यायतां ध्रुवा घृतेन यज्ञंयज्ञम् प्रति देवयद्भ्यः । सूर्याया ऊधो ऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् ॥
प्रजापतेर् विभान् नाम लोकस् तस्मिम्̇स् त्वा दधामि सह यजमानेन
सद् असि सन् मे भूयाः सर्वम् असि सर्वम् मे भूयाः पूर्णम् असि पूर्णम् मे भूया अक्षितम् असि मा मे क्षेष्ठाः ।
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायाम्
VERSE: 2
दिशि मासाः पितरो मार्जयन्ताम् प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् उदीच्यां दिश्य् आप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर् मार्जयन्ताम् ।
विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रेण छन्दसा पृथिवीम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतेन छन्दसा दिवम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशो ऽनु वि क्रमे निर्भक्तः स यं द्विष्मः ॥
1.6.6 अनुवाक 6
सूर्योपस्थानादि मन्त्राः
VERSE: 1
अगन्म सुवः सुवर् अगन्म
संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते मा वृक्षि
सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहि वर्चोधा असि वर्चो मयि धेहि ।
इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिवो ऽस्माद् अन्तरिक्षाद् अस्यै पृथिव्या अस्माद् अन्नाद्यान् निर् भजामि निर्भक्तः स यं द्विष्मः ॥
VERSE: 2
सम् ज्योतिषाऽभूवम्
ऐन्द्रीम् आवृतम् अन्वावर्ते
सम् अहम् प्रजया सम् मया प्रजा
सम् अहम्̇ रायस् पोषेण सम् मया रायस् पोषः ।
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् ।
वसुमान् यज्ञो वसीयान् भूयासम्
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्
VERSE: 3
दधत् पोषम्̇ रयिम् मयि ॥
अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासम्̇ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतम्̇ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ।
कस् त्वा युनक्ति स त्वा वि मुञ्चत्व् ॥
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मे ऽराधि
यज्ञो बभूव स आ
VERSE: 4
बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माम्̇ अधिपतीन् करोतु वयम्̇ स्याम पतयो रयीणाम्
गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाम्̇ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥
1.6.7 अनुवाक 7
देवतापरिग्रहादि
VERSE: 1
यथा वै समृतसोमा एवं वा एते समृतयज्ञा यद् दर्शपूर्णमासौ
कस्य वाह देवा यज्ञम् आगच्छन्ति कस्य वा न
बहूनां यजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वो भूते यजते ।
एतद् वै देवानाम् आयतनं यद् आहवनीयः ।
अन्तराग्नी पशूनाम् ।
गार्हपत्यो मनुष्याणाम्
अन्वाहार्यपचनः पितृणाम्
अग्निं गृह्णाति
स्व एवायतने देवताः परि
VERSE: 2
गृह्णाति
ताः श्वो भूते यजते
व्रतेन वै मेध्यो ऽग्निर् व्रतपतिः ।
ब्राह्मणो व्रतभृत् ।
व्रतम् उपैष्यन् ब्रूयात् ।
अग्ने व्रतपते व्रतं चरिष्यामीति ।
अग्निर् वै देवानां व्रतपतिस्
तस्मा एव प्रतिप्रोच्य व्रतम् आ लभते
बर्हिषा पूर्णमासे व्रतम् उपैति वत्सैर् अमावास्यायाम्
एतद् ध्य् एतयोर् आयतनम्
उपस्तीर्यः पूर्वश् चाग्निर् अपरश् चेत्य् आहुः ।
मनुष्याः
VERSE: 3
इन् न्वा उपस्तीर्णम् इच्छन्ति किम् उ देवा येषां नवावसानम्
उपास्मिञ् छ्वो यक्ष्यमाणे देवता वसन्ति य एवं विद्वान् अग्निम् उपस्तृणाति
यजमानेन ग्राम्याश् च पशवो ऽवरुध्या आरण्याश् चेत्य् आहुः ।
यद् ग्राम्यान् उपवसति तेन ग्राम्यान् अव रुन्द्धे
यद् आरण्यस्याश्नाति तेनारण्यान्
यद् अनाश्वान् उपवसेत् पितृदेवत्यः स्यात् ।
आरण्यस्याश्नाति ।
इन्द्रियम्
VERSE: 4
वा आरण्यम्
इन्द्रियम् एवात्मन् धत्ते
यद् अनाश्वान् उपवसेत् क्षोधुकः स्यात् ।
यद् अश्नीयाद् रुद्रो ऽस्य पशून् अभि मन्येत ।
अपो ऽश्नाति
तन् नेवाशितं नेवानशितम् ।
न क्षोधुको भवति
नास्य रुद्रः पशून् अभि मन्यते
वज्रो वै यज्ञः
क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः ।
यद् अनाश्वान् उपवसति
वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यम्̇ हन्ति ॥
1.6.8 अनुवाक 8
यज्ञायुधभृतिः
VERSE: 1
यो वै श्रद्धाम् अनारभ्य यज्ञेन यजते नास्येष्टाय श्रद् दधते ।
अपः प्र णयति श्रद्धा वा आपः श्रद्धाम् एवारभ्य यज्ञेन यजत उभये ऽस्य देवमनुष्या इष्टाय श्रद् दधते तद् आहुर् अति वा एता वर्त्रं नेदन्त्य् अति वाचं मनो वावैता नाति नेदन्तीति
मनसा प्र णयतीयं वै मनः
VERSE: 2
अनयैवैनाः प्र णयत्य् अस्कन्नहविर् भवति य एवं वेद
यज्ञायुधानि सम् भवति यज्ञो वै यज्ञायुधानि यज्ञम् एव तत् सम् भरति
यद् एकमेकम्̇ सम्भरेत् पितृदेवत्यानि स्युर् यत् सह सर्वाणि मानुषाणि
द्वेद्वे सम् भरति याज्यानुवाक्ययोर् एव रूपं करोत्य् अथो मिथुनम् एव
यो वै दश यज्ञायुधानि वेद मुखतो ऽस्य यज्ञः कल्पते
स्फ्यः
VERSE: 3
च कपालानि चाग्निहोत्रहवणी शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानि य एवं वेद मुखतो ऽस्य यज्ञः कल्पते
यो वै देवेभ्यः प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम्
हविर् निरुप्यमाणम् अभि मन्त्रयेताग्निम्̇ होतारम् इह तम्̇ हुव इति ॥
VERSE: 4
देवेभ्य एव प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम्
एष वै यज्ञस्य ग्रहो गृहीत्वैव यज्ञेन यजते
तद् उदित्वा वाचं यच्छति यज्ञस्य धृत्यै ।
अथो मनसा वै प्रजापतिर् यज्ञम् अतनुत मनसैव तद् यज्ञं तनुते रक्षसाम् अनन्ववचाराय
यो वै यज्ञं योग आगते युनक्ति युङ्क्ते युञ्जानेषु
कस् त्वा युनक्ति स त्वा युनक्त्व् इत्य् आह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ॥
1.6.9 अनुवाक 9
द्वादश द्वन्द्व सम्पत्तिः
VERSE: 1
प्रजापतिर् यज्ञान् असृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं चामावास्यां चातिरात्रं च
तान् उद् अमिमीत
यावद् अग्निहोत्रम् आसीत् तावान् अग्निष्टोमो यावती पौर्णमासी तावान् उक्थ्यो यावत्य् अमावास्या तावान् अतिरात्रः ।
य एवं विद्वान् अग्निहोत्रं जुहोति यावद् अग्निष्टोमेनोपाप्नोति तावद् उपाप्नोति
य एवं विद्वान् पौर्णमासीं यजते यावद् उक्थ्येनोपाप्नोति
VERSE: 2
तावद् उपाप्नोति
य एवं विद्वान् अमावास्यां यजते यावद् अतिरात्रेणोपाप्नोति तावद् उपाप्नोति
परमेष्ठिनो वा एष यज्ञो ऽग्र आसीत्
तेन स परमां काष्ठाम् अगच्छत्
तेन प्रजापतिं निरवासाययत्
तेन प्रजापतिः परमां काष्ठाम् अगच्छत्
तेनेन्द्रं निरवासाययत्
तेनेन्द्रः परमां काष्ठाम् अगच्छत्
तेनाग्नीषोमौ निरवासाययत्
तेनाग्नीषोमौ परमां काष्ठाम् अगच्छताम् ।
यः
VERSE: 3
एवं विद्वान् दर्शपूर्णमासौ यजते परमाम् एव काष्ठां गच्छति
यो वै प्रजातेन यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते
द्वादश मासाः संवत्सरो द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि सम्पाद्यानीत्य् आहुः ।
वत्सं चोपावसृजत्य् उखां चाधि श्रयति ।
अव च हन्ति दृषदौ च समाहन्ति ।
अधि च वपते कपालानि चोप दधाति
पुरोडाशं च ॥
VERSE: 4
अधिश्रयत्य् आज्यं च
स्तम्बयजुश् च हरत्य् अभि च गृह्णाति
वेदिं च परि गृह्णाति पत्नीं च सं नह्यति
प्रोक्षणीश् चासादयत्य् आज्यं च ।
एतानि वै द्वादश द्वंद्वानि दर्शपूर्णमासयोस्
तानि य एवम्̇ सम्पाद्य यजते प्रजातेनैव यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते ॥
1.6.10 अनुवाक 10
हविःसादनम्
VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् इत्य् आह ध्रुवान् एवैनान् कुरुते ।
उग्रो ऽस्य् उग्रो ऽहम्̇ सजातेषु भूयासम् इत्य् आहाप्रतिवादिन एवैनान् कुरुते ।
अभिभूर् अस्य् अभिभूर् अहम्̇ सजातेषु भूयासम् इत्य् आह य एवैनम् प्रत्युत्पिपीते तम् उपास्यते
युनज्मि त्वा ब्रह्मणा दैव्येनेत्य् आहैष वा अग्नेर् योगस् तेन
VERSE: 2
एवैनं युनक्ति
यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् परा भावयन् यन् मे अग्ने अस्य यज्ञस्य रिष्याद् इत्य् आह यज्ञस्यैव तत् समृद्धेन यजमानः सुवर्गं लोकम् एति यज्ञस्य व्यृद्धेन भ्रातृव्यान् परा भावयति ।
अग्निहोत्रम् एताभिर् व्याहृतीभिर् उप सादयेद् यज्ञमुखं वा अग्निहोत्रम् ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म
VERSE: 3
कुरुते संवत्सरे पर्यागत एताभिर् एवोप सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
दर्शपूर्णमासौ चातुर्मास्यान्य् आलभमान एताभिर् व्याहृतीभिर् हवीम्̇ष्य् आ सादयेद् यज्ञमुखं वै दर्शपूर्णमासौ चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे पर्यागत एताभिर् एवा सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
यद् वै यज्ञस्य साम्ना क्रियते राष्ट्रम्
VERSE: 4
यज्ञस्याऽऽशीर् गच्छति यद् ऋचा विशं यज्ञस्याऽऽशीर् गच्छत्य् अथ ब्राह्मणो ऽनाशीर्केण यज्ञेन यजते सामिधेनीर् अनुवक्ष्यन्न् एता व्याहृतीः पुरस्ताद् दध्याद् ब्रह्मैव प्रतिपदं कुरुते तथा ब्राह्मणः साशीर्केण यज्ञेन यजते
यं कामयेत यजमानम् भ्रातृव्यम् अस्य यज्ञस्याऽऽशीर् गच्छेद् इति तस्यैता व्याहृतीः पुरोऽनुवाक्यायां दध्याद् भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या भ्रातृव्यम् एवास्य यज्ञस्य
VERSE: 5
आशीर् गच्छति
यान् कामयेत यजमानान्त् समावत्य् एनान् यज्ञस्याऽऽशीर् गच्छेद् इति तेषाम् एता व्याहृतीः पुरोऽनुवाक्याया अर्धर्च एकां दध्याद् याज्यायै पुरस्ताद् एकां याज्याया अर्धर्च एकां तथैनान्त् समावती यज्ञस्याशीर् गच्छति
यथा वै पर्जन्यः सुवृष्टं वर्षत्य् एवं यज्ञो यजमानस्य वर्षति स्थलयोदकम् परिगृह्णन्त्य् आशिषा यज्ञं यजमानः परि गृह्णाति
मनो ऽसि प्राजापत्यम् ॥
VERSE: 6
मनसा मा भूतेना ऽऽविशेत्य् आह मनो वै प्राजापत्यम् प्रजापत्यो यज्ञो मन एव यज्ञम् आत्मन् धत्ते
वाग् अस्य् ऐन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽ विशेत्य् आहैन्द्री वै वाग् वाचम् एवैन्द्रीम् आत्मन् धत्ते ॥
1.6.11 अनुवाक 11
आश्रावणादिमन्त्राः
VERSE: 1
यो वै सप्तदशम् प्रजापतिं यज्ञम् अन्वायत्तं वेद प्रति यज्ञेन तिष्ठति न यज्ञाद् भ्रम्̇शते ।
आ श्रावयेति चतुरक्षरम् अस्तु श्रौषड् इति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः ।
एष वै सप्तदशः प्रजापतिर् यज्ञम् अन्वायत्तः ।
य एवं वेद प्रति यज्ञेन तिष्ठत् न यज्ञाद् भ्रम्̇शते
यो वै यज्ञस्य प्रायणम् प्रतिष्ठाम्
VERSE: 2
उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सम्̇स्थां गच्छति ।
आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कार एतद् वै यज्ञस्य प्रायणम् एषा प्रतिष्ठैतद् उदयनम् ।
य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सम्̇स्थां गच्छति
यो वै सूनृतायै दोहं वेद दुह एवैनाम् ।
यज्ञो वै सूनृता ।
आ श्रावयेत्येवैनाम् अह्वत् ।
अस्तु
VERSE: 3
श्रौषड् इत्य् { उपावास्राग् ^ उपावास्राज् }
यजेत्य् उद् अनैषीत् ।
ये यजामह इत्य् उपासदत् ।
वषट्कारेण दोग्धि ।
एष वै सूनृतायै दोहः ।
य एवं वेद दुह एवैनाम् ।
देवा वै सत्त्रम् आसत
तेषां दिशो ऽदस्यन्
त एताम् आर्द्राम् पङ्क्तिम् अपश्यन्न् आ श्रावयेति पुरोवातम् अजनयन्न् अस्तु श्रौषड् इत्य् अभ्रम्̇ सम् अप्लावयन् यजेति विद्युतम्
VERSE: 4
अजनयन् ये यजामह इति प्रावर्षयन् अभ्य् अस्तनयन् वषट्कारेण
ततो वै तेभ्यो दिशः प्राप्यायन्त
य एवं वेद प्रास्मै दिशः प्यायन्ते
प्रजापतिं त्वो वेद प्रजापतिस् त्वं वेद
यम् प्रजापतिर् वेद स पुण्यो भवति ।
एष वै छन्दस्यः प्रजापतिर् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः ।
य एवं वेद पुण्यो भवति
वसन्तम्
VERSE: 5
ऋतूनाम् प्रीणामीत्य् आह ।
ऋतवो वै प्रयाजाः ।
ऋतून् एव प्रीणाति
ते ऽस्मै प्रीता यथापूर्वं कल्पन्ते
कल्पन्ते ऽस्मा ऋतवो य एवं वेद ।
अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम् इत्य् आह ।
अग्नीषोमाभ्यां वै यज्ञश् चक्षुष्मान्
ताभ्याम् एव चक्षुर् आत्मन् धत्ते ।
अग्नेर् अहं देवयज्ययान्नादो भूयासम् इत्य् आह ।
अग्निर् वै देवानाम् अन्नादस्
तेनैव
VERSE: 6
अन्नाद्यम् आत्मन् धत्ते
दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम् इत्य् आह ।
एतया वै दब्ध्या देवा असुरान् अदभ्नुवन्
तयैव भ्रातृव्यं दभ्नोति ।
अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम् इत्य् आह ।
अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्
ताभ्याम् एव भ्रातृव्यम्̇ स्तृणुते ।
इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इत्य् आह ।
इन्द्रियाव्य् एवान्नादो भवति ।
इन्द्रस्य
VERSE: 7
अहं देवयज्ययेन्द्रियावी भूयासम् इत्य् आह ।
इन्द्रियाव्य् एव भवति
महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम् इत्य् आह
जेमानम् एव महिमानं गच्छति ।
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।
आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति
1.6.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । अस्माकम् अस्तु केवलः ॥
इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु
VERSE: 2
क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥
आ यस्मिन्त् सप्त वासवास् तिष्ठन्ति स्वारुहो यथा । ऋषिर् ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः ॥
आमासु पक्वम् ऐरय आ सूर्यम्̇ रोहयो दिवि । घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे गिरः ॥
इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । इन्द्रं वाणीर् अनूषत ॥
गायन्ति त्वा गायत्रिणः
VERSE: 3
अर्चन्त्य् अर्कम् अर्किणः । ब्रह्माणस् त्वा शतक्रतव् उद् वम्̇शम् इव येमिरे ॥
अम्̇होमुचे प्र भरेमा मनीषाम् ओषिष्ठदाव्ने सुमतिं गृणानाः । इदम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥
विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । अम्̇हसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥
प्र सम्राजम् प्रथमम् अध्वराणाम्
VERSE: 4
अम्̇होमुचं वृषभं यज्ञियानाम् । अपां नपातम् अश्विना हयन्तम् अस्मिन् नर इन्द्रियं धत्तम् ओजः ॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधस्पदं तम् ईं कृधि यो अस्माम्̇ अभिदासति ॥
इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥
मृगो न भीमः कुचरो गिरिष्ठाः परावतः
VERSE: 5
आ जगामा परस्याः । सृकम्̇ सम्̇शाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
वि शत्रून् वि मृधो नुद वि वृत्रस्य हनू रुज । वि मन्युम् इन्द्र भामितो ऽमित्रस्याभिदासतः ॥
त्रातारम् इन्द्रम् अवितारम् इन्द्रम्̇ हवेहवे सुहवम्̇ शूरम् इन्द्रम् । हुवे नु शक्रम् पुरुहूतम् इन्द्रम्̇ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
मा ते अस्याम्
VERSE: 6
सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥
अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥
वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥
1.7 प्रपाठक: 7
1.7.1 अनुवाक 1
इडानुमन्त्रणम्
VERSE: 1
पाकयज्ञं वा अन्व् आहिताग्नेः पशव उप तिष्ठन्त इडा खलु वै पाकयज्ञः
सैषान्तरा प्रयाजानूयाजान् यजमानस्य लोके ऽवहिता । ताम् आह्रियमाणाम् अभि मन्त्रयेत
सुरूपवर्षवर्ण एहीति पशवो वा इडा पशून् एवोप ह्वयते । यज्ञं वै देवा अदुह्रन् यज्ञो ऽसुराम्̇ अदुहत्
ते ऽसुरा यज्ञदुग्धाः पराभवन् यो वै यज्ञस्य दोहं विद्वान्
VERSE: 2
यजते ऽप्य् अन्यं यजमानं दुहे । सा मे सत्याशीर् अस्य यज्ञस्य भूयाद् इत्य् आहैष वै यज्ञस्य दोहस्
तेनैवैनं दुहे । प्रत्ता वै गौर् दुहे प्रत्तेडा यजमानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर् वत्सो । यर्हि होतेडाम् उपह्वयेत तर्हि यजमानो होतारम् ईक्षमाणो वायुम् मनसा ध्यायेत् ॥
VERSE: 3
मात्रे वत्सम् उपावसृजति । सर्वेण वै यज्ञेन देवाः सुवर्गं लोकम् आयन्
पाकयज्ञेन मनुर् अश्राम्यत् सेडा मनुम् उपावर्तत तां देवासुरा व्यह्वयन्त प्रतीचीं देवाः पराचीं असुराः सा देवान् उपावर्तत पशवो वै तद् देवान् अवृणत पशवो ऽसुरान् अजहुर् । यं कामयेतापशुः स्याद् इति पराचीं तस्येडाम् उप ह्वयेतापशुर् एव भवन्ति
यम्
VERSE: 4
कामयेत पशुमान्त् स्याद् इति प्रतीचीम् तस्येडाम् उप ह्वयेत पशुमान् एव भवति । ब्रह्मवादिनो वदन्ति
स त्वा इडां उप ह्वयेत य इडां उपहूयात्मानम् इडायाम् उपह्वयेतेति । सा नः प्रिया सुप्रतूर्तिर् मघोनीत्य् आहेडाम् एवोपहूयात्मानम् इडायाम् उप ह्वयते । व्यस्तम् इव वा एतद् यज्ञस्य यद् इडा सामि प्राश्नन्ति
VERSE: 5
सामि मार्जयन्त एतत् प्रति वा असुराणां यज्ञो व्यच्छिद्यत
ब्रह्मणा देवाः सम् अदधुर् । बृहस्पतिस् तनुताम् इमं न इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञम्̇ सं दधाति । विच्छिन्नं यज्ञम्̇ सम् इमं दधात्व् इत्य् आह
संतत्यै । विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति । यां वै
VERSE: 6
यज्ञे दक्षिणां ददाति ताम् अस्य पशवो ऽनु सं क्रामन्ति
स एष ईजानो ऽपशुर् भावुको यजमानेन खलु वै तत् कार्यम् इत्य् आहुर् यथा देवत्रा दत्तं कुर्वीताऽऽत्मन् पशून् रमयेतेति । ब्रध्न पिन्वस्वेत्य् आह
यज्ञो वै ब्रध्नो यज्ञम् एव तन् महयत्य् अथो देवत्रैव दत्तं कुरुत आत्मन् पशून् रमयते । ददतो मे मा क्षायीत्य् आहाक्षितिम् एवोपैति । कुर्वतो मे मोप दसद् इत्य् आह
भूमानम् एवोपैति ॥
1.7.2 अनुवाक 2 इडाप्रशंसा
VERSE: 1
सम्̇श्रवा ह सौवर्चनसस् तुमिंजम् औपोदितिम् उवाच
यत् सत्त्रिणाम्̇ होताभूः काम् इडाम् उपाह्वथा इति
ताम् उपाह्व इति होवाच या प्राणेन देवान् दधार व्यानेन मनुष्यान् अपानेन पितॄन् इति
छिनत्ति सा न छिनत्ती3 इति
छिनत्तीति होवाच
शरीरं वा अस्यै तद् उपाह्वथा इति होवाच
गौर् वै
VERSE: 2
अस्यै शरीरम् ।
गां वाव तौ तत् पर्य् अवदताम्
या यज्ञे दीयते सा प्राणेन देवान् दाधार यया मनुष्या जीवन्ति सा व्यानेन मनुष्यान् याम् पितृभ्यो घ्नन्ति साऽपानेन पितॄन्
य एवं वेद पशुमान् भवति ।
अथ वै ताम् उपाह्व इति होवाच या प्रजाः प्रभवन्तीः प्रत्य् आभवतीति ।
अन्नं वा अस्यै तत् ॥
VERSE: 3
उपाह्वथा इति होवाच ।
ओषधयो वा अस्या अन्नम्
ओषधयो वै प्रजाः प्रभवन्तीः प्रत्य् आ भवन्ति
य एवं वेदान्नादो भवति ।
अथ वै ताम् उपाह्व इति होवाच या प्रजाः पराभवन्तीर् अनुगृह्णाति प्रत्य् आभवन्तीर् गृह्णातीति
प्रतिष्ठां वा अस्यै तद् उपाह्वथा इति होवाच ।
इयं वा अस्यै प्रतिष्ठा ॥
VERSE: 4
इयं वै प्रजाः पराभवन्तीर् अनु गृह्णाति प्रत्य् आभवन्तीर् गृह्णाति
य एवं वेद प्रत्य् एव तिष्ठति ।
अथ वै ताम् उपाह्व इति होवाच यस्यै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्तीति
छिनत्ति सा न छिनत्ती3 इति
न छिनत्तीति होवाच प्र तु जनयतीति ।
एष वा इडाम् उपाह्वथा इति होवाच
वृष्टिर् वा इडा
वृष्ट्यै वै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्ति
य एवं वेद प्रैव जायते ऽन्नादो भवति ॥
1.7.3 अनुवाक 3
अन्वाहार्यः
VERSE: 1
परोऽक्षं वा अन्ये देवा इज्यन्ते प्रत्यक्षम् अन्ये
यद् यजते य एव देवाः परोऽक्षम् इज्यन्ते तान् एव तद् यजति
यद् अन्वाहार्यम् आहरत्य् एते वै देवाः प्रत्यक्षं यद् ब्राह्मणास् तान् एव तेन प्रीणाति ।
अथो दक्षिणैवास्यैषा ।
अथो यज्ञस्यैव छिद्रम् अपि दधाति
यद् वै यज्ञस्य क्रूरं यद् विलिष्टं तद् अन्वाहार्येण
VERSE: 2
अन्वाहरति
तद् अन्वाहार्यस्यान्वाहार्यत्वम् ।
देवदूता वा एते यद् ऋत्विजः ।
यद् अन्वाहार्यम् आहरति देवदूतान् एव प्रीणाति
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत्
स रिरिचानो ऽमन्यत
स एतम् अन्वाहार्यम् अभक्तम् अपश्यत्
तम् आत्मन्न् अधत्त
स वा एष प्राजापत्यो यद् अन्वाहार्यः ।
यस्यैवंविदुषो ऽन्वाहार्य आह्रियते साक्षाद् एव प्रजापतिम् ऋध्नोति ।
अपरिमितो निरुप्यः ।
अपरिमितः प्रजापतिः ।
प्रजापतेः ॥
VERSE: 3
आप्त्यै
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् प्राजापत्यम् अन्वाहार्यम् अपश्यन्
तम् अन्वाहरन्त
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽन्वाहार्य आह्रियते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यज्ञेन वा इष्टी पक्वेन पूर्ती
यस्यैवं विदुषो ऽन्वाहार्य आह्रियते स त्व् एवेष्टापूर्ती
प्रजापतेर् भागो ऽसि
VERSE: 4
इत्य् आह
प्रजापतिम् एव भागधेयेन सम् अर्धयति ।
ऊर्जस्वान् पयस्वान् इत्य् आह ।
ऊर्जम् एवास्मिन् पयो दधाति
प्राणापानौ मे पाहि समानव्यानौ मे पाहीत्य् आह ।
आशिषम् एवैताम् आ शास्ते ।
अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिम्̐ लोक इत्य् आह
क्षीयते वा अमुष्मिम्̐ लोके ऽन्नम्
इतःप्रदानम्̇ ह्य् अमुष्मिम्̐ लोके प्रजा उपजीवन्ति
यद् एवम् अभिमृशत्य् अक्षितिम् एवैनद् गमयति नास्यामुष्मिम्̐ लोके ऽन्नं क्षीयते ॥
1.7.4 अनुवाक 4
शेषाहुत्यनुमन्त्रणम्
VERSE: 1
बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् इत्य् आह
बर्हिषा वै प्रजापतिः प्रजा असृजत
तेनैव प्रजाः सृजते
नराशम्̇सस्याहं देवयज्यया पशुमान् भूयासम् इत्य् आह
नराशम्̇सेन वै प्रजापतिः पशून् असृजत
तेनैव पशून्त् सृजते ।
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।
आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति
दर्शपूर्णमासयोः
VERSE: 2
वै देवा उज्जितिम् अनूदजयन् दर्शपूर्णमासाभ्याम् असुरान् अपानुदन्त ।
अग्नेर् अहम् उज्जितिम् अनूज् जेषम् इत्य् आह
दर्शपूर्णमासयोर् एव देवतानां यजमान उज्जितिम् अनूज् जयति दर्शपूर्णमासाभ्याम् भ्रातृव्यान् अप नुदते
वाजवतीभ्यां व्य् ऊहति ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
द्वाभ्याम् प्रतिष्ठित्यै
यो वै यज्ञस्य द्वौ दोहौ विद्वान् यजत उभयतः
VERSE: 3
एव यज्ञं दुहे पुरस्ता च्चोपरिष्टाच् चैष वा अन्यो यज्ञस्य दोह इडायाम् अन्यः ।
यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् ।
एमा अग्मन्न् आशिषो दोहकामा इति
सम्̇स्तुता एव देवता दुहे ।
अथो उभयत एव यज्ञं दुहे पुरस्ताच् चोपरिष्टाच् च
रोहितेन त्वाग्निर् देवतां गमयत्व् इत्य् आह ।
एते वै देवाश्वाः ।
VERSE: 4
यजमानःप्रस्तरः ।
यद् एतैः प्रस्तरम् प्रहरति देवाश्वैर् एव यजमानम्̇ सुवर्गं लोकं गमयति
वि ते मुञ्चामि रशना वि रश्मीन् इत्य् आह ।
एष वा अग्नेर् विमोकस्
तेनैवैनं वि मुञ्चति
विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह
यज्ञो वै विष्णुर् यज्ञ एवान्ततः प्रति तिष्ठति
सोमस्याहं देवयज्यया सुरेताः
VERSE: 5
रेतो धिषीयेत्य् आह
सोमो वै रेतोधास् तेनैव रेत आत्मन् धत्ते
त्वष्टुर् अहं देवयज्यया पशूनाम्̇ रूपम् पुषेयम् इत्य् आह
त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृत्
तेनैव पशूनाम्̇ रूपम् आत्मन् धत्ते
देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् इत्य् आह ।
एतस्माद् वै मिथुनात् प्रजापतिर् मिथुनेन
VERSE: 6
प्राजायत
तस्माद् एव यजमानो मिथुनेन प्र जायते
वेदो ऽसि वित्तिर् असि विदेयेत्य् आह
वेदेन वै देवा असुराणां वित्तं वेद्यम् अविन्दन्त
तद् वेदस्य वेदत्वम् ।
यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात्
तद् एवास्य सर्वं वृङ्क्ते
घृतवन्तं कुलायिनम्̇ रायस् पोषम्̇ सहस्रिणं वेदो ददातु वाजिनम् इत्य् आह
प्र सहस्रम् पशून् आप्नोति ।
आस्य प्रजायां वाजी जायते य एवं वेद ॥
1.7.5 अनुवाक 5
आप्यायनादि मन्त्राः
VERSE: 1
ध्रुवां वै रिच्यमानां यज्ञो ऽनु रिच्यते यज्ञं यजमानो यजमानम् प्रजाः ।
ध्रुवाम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः ।
आ प्यायतां ध्रुवा घृतेनेत्य् आह
ध्रुवाम् एवा प्याययति
ताम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः
प्रजापतेर् विभान् नाम लोकस् तस्मिम्̇स् त्वा दधामि सह यजमानेनेति
VERSE: 2
आह ।
अयं वै प्रजापतेर् विभान् नाम लोकस्
तस्मिन्न् एवैनं दधाति सह यजमानेन
रिच्यत इव वा एतद् यद् यजते
यद् यजमानभागम् प्राश्नात्य् आत्मानम् एव प्रीणाति ।
एतावान् वै यज्ञो यावान् यजमानभागः ।
यज्ञो यजमानः ।
यद् यजमान भागम् प्राश्नाति यज्ञ एव यज्ञम् प्रति ष्ठापयति ।
एतद् वै सूयवसम्̇ सोदकं यद् बर्हिश् चापश् च ।
एतत्
VERSE: 3
यजमानस्यायतनं यद् वेदिः ।
यद् पूर्णपात्रम् अन्तर्वेदि निनयति स्व एवायतने सूयवसम्̇ सोदकं कुरुते
सद् असि सन् मे भूया इत्य् आह ।
आपो वै यज्ञः ।
आपो ऽमृतम् ।
यज्ञम् एवामृतम् आत्मन् धत्ते
सर्वाणि वै भूतानि व्रतम् उपयन्तम् अनूप यन्ति
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्य् आह ।
एष वै दर्शपूर्णमासयोर् अवभृथः ॥
VERSE: 4
यान्य् एवैनम् भूतानि व्रतम् उपयन्तम् अनूपयन्ति तैर् एव सहावभृथम् अवैति
विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन्
यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानः ।
छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति
विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह
गायत्री वै पृथिवी त्रैष्टुभम् अन्तरिक्षं जागती द्यौर् आनुष्टुभीर् दिशः ।
छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति ॥
1.7.6 अनुवाक 6
उपस्थानादि मन्त्राः
VERSE: 1
अगन्म सुवः सुवर् अगन्मेत्य् आह सुवर्गम् एव लोकम् एति
संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते माऽऽ वृक्षीत्याह
यथायजुर् एवैतत्
सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहीत्य् आह ।
आशिषम् एवैताम् आ शास्ते प्र वा एषो ऽस्माल् लोकाच् च्यवते यः
VERSE: 2
विष्णुक्रमान् क्रमते सुवर्गाय हि लोकाय विष्णुक्रमाः क्रम्यन्ते
ब्रह्मवादिनो वदन्ति
स त्वै विष्णुक्रमान् क्रमेत य इमाँल्लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहेद् इति ।
एष वा अस्य लोकस्य प्रत्यवरोहो यद् आह ।
इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिव इति ।
इमान् एव लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहति
सम्
VERSE: 3
ज्योतिषाभूवम् इत्य् आह ।
अस्मिन्न् एव लोके प्रति तिष्ठति ।
ऐन्द्रीम् आवृतम् अन्वावर्त इत्य् आह ।
असौ वा आदित्य इन्द्रस् तस्यैवावृतम् अनु पर्यावर्तते
दक्षिणा पर्यावर्तते स्वम् एव वीर्यम् अनु पर्यावर्तते तस्माद् दक्षिनो ऽर्ध आत्मनो वीर्यावत्तरो ऽथो आदित्यस्यैवावृतम् अनु पर्यावर्तते
सम् अहम् प्रजया सम् मया प्रजेत्य् आह ।
आशिषम्
VERSE: 4
एवैताम् आ शास्ते
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्य् आह
यथायजुर् एवैतत् ।
वसुमान् यज्ञो वसीयान् भूयासम् इत्य् आह ।
आशिषम् एवैताम् आ शास्ते
बहु वै गार्हपत्यस्यान्ते मिश्रम् इव चर्यत आग्निपावमानीभ्याम् गार्हपत्यम् उप तिष्ठते पुनात्य् एवाग्निम् पुनीत आत्मानं द्वाभ्याम् प्रतिष्ठित्यै ।
अग्ने गृहपत इत्य् आह ॥
VERSE: 5
यथायजुर् एवैतच् छतम्̇ हिमा इत्य् आह शतं त्वा हेमन्तान् इन्धिषीयेति वावैतद् आह
पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति
ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते
ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रः
VERSE: 6
जातः स्यात् तेज एवास्मिन् ब्रह्मवर्चसं दधाति ।
यो वै यज्ञम् प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति
कस् त्वा युनक्ति स त्वा वि मुञ्चत्वित्याह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति प्रजापतिना वि मुञ्चति प्रतिष्ठित्यै ।
ईश्वरं वै व्रतम् अविसृष्टम् प्रदहो ऽग्ने व्रतपते व्रतम् अचारिषम् इत्य् आह व्रतम् एव
VERSE: 7
वि सृजते शान्त्या अप्रदाहाय
पराङ् वाव यज्ञ एति न नि वर्तते पुनर् यो वै यज्ञस्य पुनरालम्भं विद्वान् यजते तम् अभि नि वर्तते
यज्ञो बभूव स आ बभूवेत्य् आहैष वै यज्ञस्य पुनरालम्भस् तेनैवैनम् पुनर् आ लभते ।
अनवरुद्धा वा एतस्य विराड् य आहिताग्निः सन्न् असभः
पशवः खलु वै ब्राह्मणस्य सभा ।
इष्ट्वा प्राङ् उत्क्रम्य ब्रूयाद् गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञ इत्य् अव सभाम्̇ रुन्द्धे प्र सहस्रम् पशून् आप्नोत्य् आऽस्य प्रजायां वाजी जायते ॥
1.7.7 अनुवाक 7
वाजपेये रथविषयकाः मन्त्राः
VERSE: 1
देव सवितः प्र सुव यज्ञम् प्र सुव यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
वाजस्य नु प्रसवे मातरम् महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वम् भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ।
अप्सु
VERSE: 2
अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवथ वाजिनः ॥
वायुर् वा त्वा मनुर् वा त्वा गन्धर्वाः सप्तविम्̇शतिः । ते अग्रे अश्वम् आयुञ्जन् ते अस्मिञ् जवम् आदधुः ॥
अपां नपाद् आशुहेमन् य ऊर्मिः ककुद्मान् प्रतूर्तिर् वाजसातमस् तेनायं वाजम्̇ सेत् ।
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि ।
अङ्कौ न्यङ्काव् अभितो रथं यौ ध्वान्तं वाताग्रम् अनु संचरन्तौ । दूरेहेतिर् इन्द्रियावान् पतत्री ते नो ऽग्नयः पप्रयः पारयन्तु ॥
1.7.8 अनुवाक 8
रथधावनमन्त्राः
VERSE: 1
देवस्याहम्̇ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् ।
देवस्याहम्̇ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकम्̇ रुहेयम्
इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजम् अजयित् ।
अश्वाजनि वाजिनि वाजेषु वाजिनीवत्य् अश्वान्त् समत्सु वाजय ।
अर्वासि सप्तिर् असि वाज्य् असि
वाजिनो वाजं धावत मरुताम् प्रसवे जयत वि योजना मिमीध्वम् अध्वन स्कभ्नीत ॥
VERSE: 2
काष्ठां गच्छत
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनः ।
मितद्रवः सहस्रसा मेधसाता सनिष्यवः । महो ये रन्तम्̇ समिथेषु जभ्रिरे शं नो भवन्तु वाजिनो हवेषु
देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिं वृकम्̇ रक्षाम्̇सि सनेम्य् अस्मद् युयवन्
VERSE: 3
अमीवाः ॥
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्काम्̇स्य् अन्व् आपनीफणत् ॥
उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥
आ मा वाजस्य प्रसवो जगम्याद् आ द्यावापृथिवी विश्वशम्भू । आ मा गन्ताम् पितरा
VERSE: 4
मातरा चाऽऽ मा सोमो अमृतत्वाय गम्यात् ॥
वाजिनो वाजजितो वाजम्̇ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥
वाजिनो वाजजितो वाजम्̇ ससृवाम्̇सो वाजं जिगिवाम्̇सो बृहस्पतेर् भागे नि मृड्ढ्वम्
इयं वः सा सत्या संधाभूद् याम् इन्द्रेण समधद्ध्वम्
अजीजिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम् ॥
1.7.9 अनुवाक 9
यूपारोहणमन्त्राः
VERSE: 1
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि
जाय एहि सुवो रोहाव रोहाव हि सुवर् अहं नाव् उभयोः सुवो रोक्ष्यामि
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ।
आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानः
VERSE: 2
यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताम्̇ श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पतां वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् ।
सुवर् देवाम्̇ अगन्मामृता अभूम प्रजापतेः प्रजा अभूम
सम् अहम् प्रजया सम् मया प्रजा सम् अहम्̇ रायस् पोषेण सम् मया रायस् पोषः ।
अन्नाय त्वान्नाद्याय त्वा वाजाय त्वा वाजजित्यायै त्वा ।
अमृतम् असि पुष्टिर् असि प्रजननम् असि ॥
1.7.10 अनुवाक 10 अन्नहोमाः
VERSE: 1
वाजस्येमम् प्रसवः सुषुवे अग्रे सोमम्̇ राजानम् ओषधीष्व् अप्सु । ता अस्मभ्यम् मधुमतीर् भवन्तु वयम्̇ राष्ट्रे जाग्रियाम पुरोहिताः ॥
वाजस्येदम् प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स विराजम् पर्य् एति प्रजानन् प्रजाम् पुष्टिं वर्धयमानो अस्मे ॥
वाजस्येमाम् प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयतु प्रजानन् रयिम्
VERSE: 2
च नः सर्ववीरां नि यच्छतु ॥
अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र णो यच्छ भुवस् पते धनदा असि नस् त्वम् ॥
प्र णो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥
अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुम्̇ सरस्वतीम्̇ सवितारम्
VERSE: 3
च वाजिनम् ॥
सोमम्̇ राजानं वरुणम् अग्निम् अन्वारभामहे । आदित्यान् विष्णुम्̇ सूर्यम् ब्रह्माणं च बृहस्पतिम् ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम्̇ सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेस् त्वा साम्राज्येनाभि षिञ्चामीन्द्रस्य बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामि ॥
1.7.11 अनुवाक 11
उज्जिति मन्त्राः
VERSE: 1
अग्निर् एकाक्षरेण वाचम् उद् अजयत् ।
अश्विनौ द्व्यक्षरेण प्राणापानाव् उद् अजयताम् ।
विष्णुस् त्र्यक्षरेण त्रीन् लोकान् उद् अजयत्
सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत्
पूषा पञ्चाक्षरेण पङ्क्तिम् उद् अजयत् ।
धाता षडक्षरेण षड् ऋतून् उद् अजयत् ।
मरुतः सप्ताक्षरेण सप्तपदाम्̇ शक्वरीम् उद् अजयन्
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ।
मित्रो नवाक्षरेण त्रिवृतम्̇ स्तोमम् उद् अजयत् ॥
VERSE: 2
वरुणो दशाक्षरेण विराजम् उद् अजयत् ।
इन्द्र एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ।
विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयन्
वसवस् त्रयोदशाक्षरेण त्रयोदशम्̇ स्तोमम् उद् अजयन् ।
रुद्राश् चतुर्दशाक्षरेण चतुर्दशम्̇ स्तोमम् उद् अजयन् ।
आदित्याः पञ्चदशाक्षरेण पञ्चदशम्̇ स्तोमम् उद् अजयन्
प्रजापतिः सप्तदशाक्षरेण सप्तदशम्̇ स्तोमम् उद् अजयत् ॥
1.7.12 अनुवाक 12
अतिग्राह्यमन्त्राः
VERSE: 1
उपयामगृहीतो ऽसि नृषदं त्वा द्रुषदम् भुवनसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ।
उपयामगृहीतो ऽसि अप्सुषदं त्वा घृतसदम् व्योमसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ।
उपयामगृहीतो ऽसि पृथिविषदं त्वान्तरिक्षसदम् नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा
ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । दैव्यः कोशः
VERSE: 2
समुब्जितः । तेषां विशिप्रियाणाम् इषमूर्जम्̇ सम् अग्रभीम् एष ते योनिर् इन्द्राय त्वा ।
अपाम्̇ रसम् उद्वयसम्̇ सूर्यरश्मिम्̇ समाभृतम् । अपाम्̇ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् एष ते योनिर् इन्द्राय त्वा ।
अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । स प्रत्युदैद् धरुणो मध्वो अग्रम्̇ स्वायां यत् तनुवां तनूम् ऐरयत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥
1.7.13 अनुवाक 13
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । अन्व् इन्द्रम्̇ रोदसी वावशाने अन्व् आपो आजिहत जायमानम् ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ।
इन्द्राणीम् आसु नारिषु सुपत्नीम् अहम् अश्रवम् । न ह्य् अस्या अपरं चन जरसा
VERSE: 2
मरते पतिः ॥
नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । यस्येदम् अप्यम्̇ हविः प्रियं देवेषु गच्छति ॥
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेताम् नृम्णस्य मह्ना स जनास इन्द्रः ॥
आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । पताति दिद्द्युन् नर्यस्य बाहुवोर् मा ते
VERSE: 3
मनो विष्वद्रियग् वि चारीत् ॥
मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥
आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत् ते माहिनं दत्त्रम् अस्त्य् अस्मभ्यं तद्धर्यश्व
VERSE: 4
प्र यन्धि ॥
प्रदातारम्̇ हवामह इन्द्रम् आ हविषा वयम् । उभा हि हस्ता वसुना पृणस्वाऽऽ प्र यच्छ दक्षिणाद् ओत सव्यात् ॥
प्रदाता वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । अस्मिन् यज्ञे बर्हिष्य् आ निषद्याथा भव यजमानाय शं योः ॥
इन्द्रः सुत्रामा स्ववाम्̇ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य
VERSE: 5
पतयः स्याम ॥
तस्य वयम्̇ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाम्̇ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहा । अस्माकम् बोधि चोदिता नभन्ताम् अन्यकेषाम् । ज्याका अधि धन्वसु ॥
1.8 प्रपाठक: 8 राजसूयः
1.8.1 अनुवाक 1
राजसूये अनुमत्यादयो यागाः
VERSE: 1
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा
वीहि स्वाहाऽऽहुतिं जुषाणः ।
एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अम्̇हसः
स्वाहा नमो य इदं चकार ।
ऽआदित्यं चरुं निर्वपति वरो दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा ।
अग्नीषोमीयम्
VERSE: 2
एकादशकपालम्̇ हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा ।
आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा ।
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा
सौम्यम्̇ श्यामाकं चरुं वासो दक्षिणा
सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥
1.8.2 अनुवाक 2
चातुर्मास्येषु वैश्वदेवपर्व
VERSE: 1
आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् मारुतम्̇ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥
1.8.3 अनुवाक 3
चातुर्मास्येषु वरुणप्रघासपर्व
VERSE: 1
ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ।
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ।
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा ।
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥
1.8.4 अनुवाक 4
चातुर्मास्येषु साकमेध पर्व
VERSE: 1
अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकम्̇ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जम्̇ शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
VERSE: 2
नि हरामि ते ॥
मरुद्भ्यः क्रीडिभ्यः पुरोडाशम्̇ सप्तकपालं निर् वपति साकम्̇ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥
1.8.5 अनुवाक 5
साकमेधे महापितृयज्ञः
VERSE: 1
सोमाय पितृमते पुरोडाशम्̇ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम्
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् ।
सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाम्̇ अनु । योजा न्व् इन्द्र ते हरी ॥
VERSE: 2
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥
अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राम्̇ अपीत यमेन ये सधमादम् मदन्ति ॥
मनो न्व् आ हुवामहे नाराशम्̇सेन स्तोमेन पितृणां च मन्मभिः ।
आ
VERSE: 3
न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातम्̇ सचेमहि ॥
यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिम्̇सिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥
1.8.6 अनुवाक 6
साकमेधे त्रयम्बकहवींषि
VERSE: 1
प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् ।
यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम्
पशूनाम्̇ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ।
एक एव रुद्रो न द्वितीयाय तस्थे ।
आखुस् ते रुद्र पशुस् तं जुषस्व ।
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व
भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजम्̇ सुभेषजम्
VERSE: 2
यथाऽसति सुगम् मेषाय मेष्यै
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥
त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ।
एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि ।
अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥
1.8.7 अनुवाक 7
शुनासीर्यम्, इन्द्रतुरीयादि
VERSE: 1
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवम्̇ सीरं दक्षिणा ।
आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा
ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
VERSE: 2
नमस् तेभ्यः स्वाहा
समूढम्̇ रक्षः संदग्धम्̇ रक्ष इदम् अहम्̇ रक्षो ऽभि सं दहामि ।
अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम्̇ रक्षसो वधं जुहोमि हतम्̇ रक्षो ऽवधिष्म रक्षः ।
यद् वस्ते तद् दक्षिणा ॥
1.8.8 अनुवाक 8
देविकादि हवींषि
VERSE: 1
धात्रे पुरोडाशं द्वादशकपालं निर् वपति ।
अनुमत्यै चरुम् ।
राकायै चरुम् ।
सिनीवाल्यै चरुम् ।
कुह्वै चरुम्
मिथुनौ गावौ दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं निर् वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
वैष्णवं त्रिकपालम् ।
वामनो वही दक्षिणा ।
अग्नीषोमीयम् एकादशकपालं निर् वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् बभ्रुर् दक्षिणा
सोमापौष्णं चरुं निर् वपति ।
ऐन्द्रापौष्णं चरुम्
पौष्णं चरुम् श्यामो दक्षिणा
वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा
वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥
1.8.9 अनुवाक 9
रत्निनां हवींषि
VERSE: 1
बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा ।
ऐन्द्रम् एकादशकपालम्̇ राजन्यस्य गृह ऋषभो दक्षिणा ।
आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा
नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा ।
आग्नेयम् अष्टाकपालम्̇ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालम्̇ सूतस्य गृहे महानिरष्टो दक्षिणा
मारुतम्̇ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा
सावित्रं द्वादशकपालम्
VERSE: 2
क्षत्तुर् गृह उपध्वस्तो दक्षिणा ।
आश्विनं द्विकपालम्̇ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा
पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाम्̇होमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् ।
मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
VERSE: 3
पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै
कर्णाम्̇श् चाकर्णाम्̇श् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः
स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवत्सा दक्षिणा ॥
1.8.10 अनुवाक 10
देवसुवां हवींषि
VERSE: 1
अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाम्̇ सोमाय वनस्पतये श्यामाकं चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाम्̇ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् ।
सविता त्वा प्रसवानाम्̇ सुवताम् अग्निर् गृहपतीनाम्̇ सोमो वनस्पतीनाम्̇ रुद्रः पशूनाम्
VERSE: 2
बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् ।
ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा
प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम
सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
1.8.11 अनुवाक 11
अभिषेकार्थ जलविषया मन्त्राः
VERSE: 1
अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाम्̇ रसः स्थ ।
आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
1.8.12 अनुवाक 12
अभिषेकजलसंस्कारमन्त्राः
VERSE: 1
देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि
शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः
सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाम्̇ शिशुः
VERSE: 2
मातृतमास्व् अन्तः ॥
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि ।
आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा ।
इन्द्रस्य
VERSE: 3
वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् ।
शत्रुबाधना स्थ
पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात
हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥
1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
VERSE: 1
समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरम्̇ सामाग्निर् देवता ब्रह्म द्रविणम्
उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् ।
विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपम्̇ साम मरुतो देवता विड् द्रविणम्
उदीचीम् आ तिष्ठानुष्टुप् त्वा
VERSE: 2
छन्दसाम् अवत्व् एक विम्̇श स्तोमो वैराजम्̇ साम मित्रावरुणौ देवता बलं द्रविणम्
ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिम्̇शौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम्
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः
शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् च
VERSE: 3
अत्यम्̇हाः ।
अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाम्̇शाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा
1.8.14 अनुवाक 14
अभिषेकः
VERSE: 1
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अमृतम् असि मृत्योर् मा पाहि
दिद्योन् मा पाहि ।
अवेष्टा दन्दशूकाः ।
निरस्तं नमुचेः शिरः
सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचम्̇ सुवन्तां ते ते प्राणम्̇ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रम्̇ सुवन्ताम् ।
सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
VERSE: 2
तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा
क्षत्राणां क्षत्रपतिर् असि ।
अति दिवस् पाहि
समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥
रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयम्̇ स्याम पतयो रयीणाम् ॥
1.8.15 अनुवाक 15
रथेन विजयः
VERSE: 1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
मरुताम् प्रसवे जेषम्
आप्तम् मनः
सम् अहम् इन्द्रियेण वीर्येण
पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् ।
नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीम्̇ हिम्̇सिषम् मा
VERSE: 2
मां माता पृथिवी हिम्̇सीत् ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा
हम्̇सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥
1.8.16 अनुवाक 16
जितवतो राज्ञः सेवोपचारः
VERSE: 1
मित्रो ऽसि वरुणो ऽसि
सम् अहं विश्वैर् देवैः
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि
स्योनाम् आ सीद सुषदाम् आ सीद
मा त्वा हिम्̇सीन् मा मा हिम्̇सीत् ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ।
ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
VERSE: 2
ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य
दिशो ऽभ्य् अयम्̇ राजाऽभूत्
सुश्लोका3म्̇ सुमङ्गला3म्̇ सत्यराजा3न्
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥
1.8.17 अनुवाक 17
संसृपां हवींषि
VERSE: 1
आग्नेयम् अष्टाकपालं निर् वपति
हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुम्̇ श्यामो दक्षिणा बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालम्̇ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
1.8.18 अनुवाक 18
दशपेयः
VERSE: 1
सद्यो दीक्षयन्ति
सद्यः सोमं क्रीणन्ति
पुण्डरिस्रजाम् प्र यच्छति
दशभिर् वत्सतरैः सोमं क्रीणाति
दशपेयो भवति
शतम् ब्राह्मणाः पिबन्ति
सप्तदशम्̇ स्तोत्रम् भवति
प्राकाशाव् अध्वर्यवे ददाति
स्रजम् उद्गात्रे
रुक्मम्̇ होत्रे ।
अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् ।
द्वादश पष्ठौहीर् ब्रह्मणे
वशाम् मैत्रावरुणाय ।
ऋषभम् ब्राह्मणाच्छम्̇सिने
वाससी नेष्टापोतृभ्याम् ।
स्थूरि यवाचितम् अच्छावाकाय ।
अनड्वाहम् अग्नीधे
भार्गवो होता भवति
श्रायन्तीयम् ब्रह्मसामम् भवति
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ॥
1.8.19 अनुवाक 19
दिशामवेष्ट्यादि
VERSE: 1
आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा
वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा
मैत्रावरुणीम् आमिक्षां वशा दक्षिणा
बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणा ।
आदित्याम् मल्हां गर्भिणीम् आ लभते
मारुतीम् पृश्निम् पष्ठौहीम्
अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् ।
तिसृधन्वम्̇ शुष्कदृतिर् दक्षिणा ॥
1.8.20 अनुवाक 20
प्रयुजां हवींषि
VERSE: 1
आग्नेयम् अष्टाकपालं निर् वपति
सौम्यं चरुम् ।
सावित्रं द्वादशकपालम्
बार्हस्पत्यं चरुम् ।
त्वाष्ट्रम् अष्टाकपालम् ।
वैश्वानरं द्वादशकपालम् ।
दक्षिणो रथवाहनवाहो दक्षिणा
सारस्वतं चरुं निर् वपति
पौष्णं चरुम्
मैत्रं चरुम् ।
वारुणं चरुम् ।
क्षैत्रपत्यं चरुम्
आदित्यं चरुम्
उत्तरो रथवाहनवाहो दक्षिणा ॥
1.8.21 अनुवाक 21
सौत्रामणी
VERSE: 1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सम्̇ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व
पुनातु ते परिस्रुतम्̇ सोमम्̇ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम्
ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् ।
सोमप्रतीकाः पितरस् तृप्णुत
वडबा दक्षिणा ॥
1.8.22 अनुवाक 22
काम्ययाज्यापुरोनुवाक्याः
VERSE: 1
अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥
आ नो दिवो बृहतः
VERSE: 2
पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयम्̇ स्याम पतयो रयीणाम् ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
VERSE: 3
ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाम्̇सि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
मक्षू देववतो रथः ॥
VERSE: 4
शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
VERSE: 5
श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमाम्̇सि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥
काण्ड 2 विकृति काण्डम्
2.1प्रपाठक: 1 काम्यपशुविधानम्
2.1.1 अनुवाक 1
काम्याः पशवः। ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्।
VERSE: 1
वायव्यम्̇ श्वेतम् आ लभेत भूतिकामः ।
वायुर् वै क्षेपिष्ठा देवता
वायुम् एव स्वेन भागधेयेनोपधावति
स एवैनम् भूतिं गमयति
भवत्य् एव ।
अतिक्षिप्रा देवतेत्य् आहुः सैनम् ईश्वरा प्रदह इति ।
एतम् एव सन्तं वायवे नियुत्वत आ लभेत
नियुद् वा अस्य धृतिः ।
धृत एव भूतिम् उपैत्य् अप्रदाहाय
भवत्य् एव ॥
VERSE: 2
वायवे नियुत्वत आ लभेत ग्रामकामः ।
वायुर् वा इमाः प्रजा नस्योता नेनीयते
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्रजा नस्योता नि यच्छति
ग्राम्येव भवति
नियुत्वते भवति
ध्रुवा एवास्मा अनपगाः करोति
वायवे नियुत्वत आ लभेत प्रजाकामः ।
प्राणो वै वायुर् अपानो नियुत्
0 प्राणापानौ खलु वा एतस्य प्रजायाः
VERSE: 3
अप क्रामतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्राणापानाभ्याम् प्रजाम् प्र जनयति
विन्दते प्रजाम् ।
वायवे नियुत्वत आ लभेत ज्योगामयावी
प्राणो वै वायुर् अपानो नियुत्
प्राणापानौ खलु वा एतस्माद् अप क्रामतो यस्य ज्योग् आमयति
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप
VERSE: 4
धावति
स एवास्मिन् प्राणापानौ दधाति ।
उत यदीतासुर् भवति जीवत्य् एव
प्रजापतिर् वा इदम् एक आसीत्
सो ऽकामयत
प्रजाः पशून्त् सृजेयेति
स आत्मनो वपाम् उद् अक्खिदत्
ताम् अग्नौ प्रागृह्णात्
ततो ऽजस् तूपरः सम् अभवत्
तम्̇ स्वायै देवताया आलभत
ततो वै स प्रजाः पशून् असृजत
यः प्रजाकामः
VERSE: 5
पशुकामः स्यात् स एतम् प्राजापत्यम् अजं तूपरम् आ लभेत
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै प्रजाम् पशून् प्र जनयति
यच् छ्मश्रुणस् तत् पुरुषाणाम्̇ रूपम् ।
यत् तूपरस् तद् अश्वानाम्
यद् अन्यतोदन् तद् गवाम्
यद् अव्या इव शफास् तद् अवीनाम् ।
यद् अजस् तद् अजानाम्
एतावन्तो वै ग्राम्याः पशवस्
तान्
VERSE: 6
रूपेणैवाव रुन्द्धे
सोमापौष्णं त्रैतम् आ लभेत पशुकामः ।
द्वौ वा अजायै स्तनौ
नानैव द्वाव् अभि जायेते ऊर्जम् पुष्टिं तृतीयः
सोमापूषणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै पशून् प्र जनयतः
सोमो वै रेतोधाः पूषा पशूनाम् प्रजनयिता
सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ।
औदुम्बरो यूपो भवति ।
ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥
2.1.2 अनुवाक 2
काम्याः पशवः। वरुणगृहीतादिपशुविधानम्।
VERSE: 1
प्रजापतिः प्रजा असृजत
ता अस्मात् सृष्टाः पराचीर् आयन्
ता वरुणम् अगच्छन्
ता अन्वैत्
ताः पुनर् अयाचत
ता अस्मै न पुनर् अददात्
सो ऽब्रवीत् ।
वरं वृणीष्वाथ मे पुनर् देहीति
तासां वरम् आलभत
स कृष्ण एकशितिपाद् अभवत् ।
यो वरुणगृहीतः स्यात् स एतं वारुणं कृष्णम् एकशितिपादम् आ लभेत
वरुणम्
VERSE: 2
एव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान् मुञ्चति
कृष्ण एकशितिपाद् भवति
वारुणो ह्य् एष देवतया
समृद्ध्यै
सुवर्भानुर् आसुरः सूर्यं तमसाविध्यत्
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्य यत् प्रथमं तमो ऽपाघ्नन्त् सा कृष्णाविर् अभवत् ।
यद् द्वितीयम्̇ सा फल्गुनी
यत् तृतीयम्̇ सा भलक्षी
यद् अध्यस्थाद् अपाकृन्तन्त् साविर् वशा
VERSE: 3
समभवत् ।
ते देवा अब्रुवन्
देवपशुर् वा अयम्̇ सम् अभूत् कस्मा इमम् आ लप्स्यामह इति ।
अथ वै तर्ह्य् अल्पा पृथिव्य् आसीद् अजाता ओषधयस्
ताम् अविं वशाम् आदित्येभ्यः कामायालभन्त
ततो वा अप्रथत पृथिव्य् अजायन्तौषधयः ।
यः कामयेत
प्रथेय पशुभिः प्र प्रजया जायेयेति स एताम् अविं वशाम् आदित्येभ्यः कामाय
VERSE: 4
आ लभेत ।
आदित्यान् एव कामम्̇ स्वेन भागधेयेनोप धावति
त एवैनम् प्रथयन्ति पशुभिः प्र प्रजया जनयन्ति ।
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एता मल्हा आलभन्ताग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम् ।
ताभिर् एवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एता मल्हा आ लभेत ॥
VERSE: 5
आग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम्
एता एव देवताः स्वेन भागधेयेनोप धावति
ता एवास्मिन् ब्रह्मवर्चसं दधति
ब्रह्मवर्चस्य् एव भवति
वसन्ता प्रातर् आग्नेयीं कृष्णग्रीवीम् आ लभेत ग्रीष्मे मध्यंदिने सम्̇हिताम् ऐन्द्रीम्̇ शरद्य् अपराह्णे श्वेताम् बार्हस्पत्याम् ।
त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एव
VERSE: 6
अव रुन्द्धे।
संवत्सरम् पर्यालभ्यन्ते
संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति
ब्रह्मवर्चस्य् एव भवति
गर्भिणयो भवन्ति ।
इन्द्रियं वै गर्भः ।
इन्द्रियम् एवास्मिन् दधति
सारस्वतीम् मेषीम् आ लभेत य ईश्वरो वाचो वदितोः सन् वाचं न वदेत् ।
वाग् वै सरस्वती
सरस्वतीम् एव स्वेन भागधेयेनोप धावति सैवास्मिन्
VERSE: 7
वाचं दधाति प्रवदिता वाचो भवति ।
अपन्नदती भवति
तस्मान् मनुष्याः सर्वां वाचम् वदन्ति ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं ज्योगामयावी ।
अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो यस्य ज्योग् आमयति ।
अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम्
उत यदीतासुर् भवति जीवत्य् एव
सौम्यम् बभ्रुम् आ लभेताग्नेयं कृष्णग्रीवम् प्रजाकामः ।
सोमो
VERSE: 8
वै रेतोधा अग्निः प्रजानाम् प्रजनयिता
सोम एवास्मै रेतो दधात्य् अग्निः प्रजाम् प्र जनयति
विन्दते प्रजाम् ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं यो ब्राह्मणो विद्याम् अनूच्य न विरोचेत
यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति
यत् सौम्यो ब्रह्मवर्चसं तेन
कृष्णग्रीव आग्नेयो भवति तम एवास्माद् अप हन्ति
श्वेतो भवति
VERSE: 9
रुचम् एवास्मिन् दधाति ।
बभ्रुः सौम्यो भवति ब्रह्मवर्चसम् एवास्मिन् त्विषिं दधाति ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुम् आग्नेयं कृष्णग्रीवम् पुरोधायाम्̇ स्पर्धमानः ।
आग्नेयो वै ब्राह्मणः सौम्यो राजन्यः ।
अभितः सौम्यम् आग्नेयौ भवतस्
तेजसैव ब्रह्मणोभयतो राष्ट्रम् परि गृह्णाति ।
एकधा समावृङ्क्ते पुर एनं दधते ॥
2.1.3अनुवाक 3
काम्याः पशवः। जयादिहेतुपशुविधिः।
VERSE: 1
देवासुरा एषु लोकेष्व् अस्पर्धन्त
स एतं विष्णुर् वामनम् अपश्यत्
तम्̇ स्वायै देवताया आलभत
ततो वै स इमाँल्लोकान् अभ्य् अजयत् ।
वैष्णवं वामनम् आ लभेत स्पर्धमानः ।
विष्णुर् एव भूत्वेमाँल्लोकान् अभि जयति
विषम आ लभेत
विषमा इव हीमे लोकाः
समृद्ध्यै ।
इन्द्राय मन्युमते मनस्वते ललामम् प्राशृङ्गम् आ लभेत संग्रामे
VERSE: 2
संयत्ते ।
इन्द्रियेण वै मन्युना मनसा संग्रामं जयति ।
इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
जयति तम्̇ संग्रामम्
इन्द्राय मरुत्वते पृश्निसक्थम् आ लभेत ग्रामकामः ।
इन्द्रम् एव मरुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति ।
0 यद् ऋषभस् तेन
VERSE: 3
ऐन्द्रः ।
यत् पृश्निस् तेन मारुतः।
समृद्ध्यै ।
पश्चात् पृश्निसक्थो भवति
पश्चादन्ववसायिनीम् एवास्मै विशं करोति
सौम्यम् बभ्रुम् आ लभेतान्नकामः
सौम्यं वा अन्नम् ।
सोमम् एव स्वेन भागधेयेनोप धावति
स एवास्मा अन्नम् प्र यच्छति ।
अन्नाद एव भवति
बभ्रुर् भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै
सौम्यम् बभ्रुम् आ लभेत यम् अलम्
VERSE: 4
राज्याय सन्तम्̇ राज्यं नोपनमेत् ।
सौम्यं वै राज्यम् ।
सोमम् एव स्वेन भागधेयेनोप धावति
स एवास्मै राज्यम् प्र यच्छति ।
उपैनम्̇ राज्यं नमति
बभ्रुर् भवति ।
एतद् वै सोमस्य रूपम् ।
समृद्ध्यै ।
इन्द्राय वृत्रतुरे ललामम् प्राशृङ्गम् आ लभेत गतश्रीः प्रतिष्ठाकामः ।
पाप्मानम् एव वृत्रं तीर्त्वा प्रतिष्ठां गच्छति ।
इन्द्रायाभिमातिघ्ने ललामम् प्राशृङ्गम् आ
VERSE: 5
लभेत यः पाप्मना गृहीतः स्यात् ।
पाप्मा वा अभिमातिः ।
इन्द्रम् एवाभिमातिहनम्̇ स्वेन भागधेयेनोप धावति
स एवास्मात् पाप्मानम् अभिमातिम् प्र णुदते ।
इन्द्राय वज्रिणे ललामम् प्राशृङ्गम् आ लभेत यम् अलम्̇ राज्याय सन्तम्̇ राज्यं नोपनमेत् ।
इन्द्रम् एव वरिणम्̇ स्वेन भागधेयेनोपधावति
स एवास्मै वज्रम् प्र यच्छति
स एनं वज्रो भूत्या इन्द्धे ।
उपैनम्̇ राज्यं नमति
ललामः प्राशृङ्गो भवति ।
एतद् वै वज्रस्य रूपम् ।
समृद्ध्यै ॥
2.1.4 अनुवाक 4
काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एतां दशर्षभाम् आलभन्त तयैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतां दशर्षभाम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
वसन्ता प्रातस् त्रीन् ललामान् आ लभेत ग्रीष्मे मध्यंदिने ॥
VERSE: 2
त्रीञ्छितिपृष्ठान्̇ छरद्य् अपराह्णे त्रीञ् छितिवारान्
त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एवाव रुन्द्धे
त्रयस्त्रय आ लभ्यन्ते ।
अभिपूर्वम् एवास्मिन् तेजो दधाति
संवत्सरम् पर्यालभ्यन्ते
संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति
ब्रह्मवर्चस्य् एव भवति
संवत्सरस्य परस्तात् प्राजापत्यं कद्रुम्
VERSE: 3
आ लभेत
प्रजापतिः सर्वा देवताः ।
देवतासु एव प्रति तिष्ठति
यदि बिभीयात् ।
दुश्चर्मा भविष्यामीति सोमापौष्णम्̇ श्यामम् आ लभेत
सौम्यो वै देवतया पुरुषः पौष्णाः पशवः
स्वयैवास्मै देवतया पशुभिस् त्वचं करोति
न दुश्चर्मा भवति
देवाश् च वै यमश् चास्मिन् लोके ऽस्पर्धन्त
स यमो देवानाम् इन्द्रियं वीर्यम् अयुवत
तद् यमस्य
VERSE: 4
यमत्वम् ।
ते देवा अमन्यन्त
यमो वा इदम् अभूद् यद् वयम्̇ स्म इति
ते प्रजापतिम् उपाधावन् ।
स एतौ प्रजापतिर् आत्मन उक्षवशौ निर् अमिमीत
ते देवा वैष्णावरुणीं वशाम् आलभन्तैन्द्रम् उक्षाणम्
तं वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदन्तैन्द्रेणैवास्येन्द्रियम् अवृञ्जत
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमानो वैष्णावरुणीम्
VERSE: 5
वशाम् आ लभेतैन्द्रम् उक्षाणम् ।
वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्र णुदत ऐन्द्रेणैवास्येन्द्रियं वृङ्क्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
इन्द्रो वृत्रम् अहन्
तं वृत्रो हतः षोडशभिर् भोगैर् असिनात्
तस्य वृत्रस्य शीर्षतो गाव उद् आयन्
ता वैदेह्यो ऽभवन्
तासाम् ऋषभो जघने ऽनूदैत्
तम् इन्द्रः
VERSE: 6
अचायत्
सो ऽमन्यत
यो वा इमम् आलभेत मुच्येतास्मात् पाप्मन इति
स आग्नेयं कृष्णग्रीवम् आलभतैन्द्रम् ऋषभम् ।
तस्याग्निर् एव स्वेन भागधेयेनोपसृतः षोडशधा वृत्रस्य भोगान् अप्य् अदहद् ऐन्द्रेणेन्द्रियम् आत्मन्न् अधत्त
यः पाप्मना गृहीतः स्यात् स आग्नेयं कृष्णग्रीवम् आ लभेतैन्द्रम् ऋषभम्
अग्निर् एवास्य स्वेन भागधेयेनोपसृतः
VERSE: 7
पाप्मानम् अपि दहत्य् ऐन्द्रेणेन्द्रियम् आत्मन् धत्ते
मुच्यते पाप्मनः ।
भवत्य् एव
द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः ।
अनयोर् हि वा एषो ऽप्रतिष्ठितः ।
अथैष ज्योग् अपरुद्धो द्यावापृथिवी एव स्वेन भागधेयेनोप धावति
ते एवैनम् प्रतिष्ठां गमयतः
प्रत्य् एव तिष्ठति
पर्यारिणी भवति
पर्यारीव ह्य् एतस्य राष्ट्रं यो ज्योगपरुद्धः
समृद्धयै
वायव्यम्
VERSE: 8
वत्सम् आ लभेत ।
वायुर् वा अनयोर् वत्सः ।
इमे वा एतस्मै लोका अपशुष्का विड् अपशुष्का ।
अथैष ज्योग् अपरुद्धो वायुम् एव स्वेन भागधेयेनोप धावति
स एवास्मा इमाँल्लोकान् विशम् प्र दापयति
प्रास्मा इमे लोकाः स्नुवन्ति
भुञ्जत्य् एनं विड् उप तिष्ठते ॥
2.1.5 अनुवाक 5
काम्याः पशवः। पशुकामादीनां पशुविधिः।
VERSE: 1
इन्द्रो वलस्य बिलम् अपौर्णोत्
स य उत्तमः पशुर् आसीत् तम् पृष्ठम् प्रति संगृह्योद् अक्खिदत्
तम्̇ सहस्रम् पशवो ऽनूदायन् ।
स उन्नतो ऽभवत् ।
यः पशुकामः स्यात् स एतम् ऐन्द्रम् उन्नतम् आ लभेत ।
इन्द्रम् एव स्वेन भागधेयोनोप धावति
स एवास्मै पशून् प्र यच्छति
पशुमान् एव भवति ।
उन्नतः
VERSE: 2
भवति
साहस्री वा एषा लक्ष्मी यद् उन्नतः ।
लक्ष्मियैव पशून् अव रुन्द्धे
यदा सहस्रम् पशून् प्राप्नुयात् अथ वैष्णवं वामनम् आ लभेत ।
एतस्मिन् वै तत् सहस्रम् अध्य् अतिष्ठत्
तस्माद् एष वामनः समीषितः पशुभ्य एव प्रजातेभ्यः प्रतिष्ठां दधाति
को ऽर्हति सहस्रम् पशून् प्राप्तुम् इत्य् आहुः ।
अहोरात्राण्य् एव सहस्रम्̇ सम्पाद्याऽऽ लभेत
पशवः
VERSE: 3
वा अहोरात्राणि
पशून् एव प्रजातान् प्रतिष्ठां गमयति ।
ओषधीभ्यो वेहतम् आ लभेत प्रजाकामः ।
ओषधयो वा एतम् प्रजायै परि बाधन्ते यो ऽलम् प्रजायै सन् प्रजां न विन्दते ।
ओषधयः खलु वा एतस्यै सूतुम् अपि घ्नन्ति या वेहद् भवति ।
ओषधीर् एव स्वेन भागधेयेनोप धावति
ता एवास्मै स्वाद् योनेः प्रजाम् प्र जनयन्ति
विन्दते
VERSE: 4
प्रजाम्
आपो वा ओषधयो ऽसत् पुरुषः ।
आप एवास्मा असतः सद् ददति
तस्माद् आहुर् यश् चैवं वेद यश् च न ।
आपस् त्वावासतः सद् ददतीति ।
ऐन्द्रीम्̇ सूतवशाम् आ लभेत भूतिकामः ।
अजातो वा एष यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
इन्द्रम् खलु वा एषा सूत्वा वशाभवत् ॥
VERSE: 5
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
भवत्य् एव
यम्̇ सूत्वा वशा स्यात् तम् ऐन्द्रम् एवाऽऽ लभेत ।
एतद् वाव तद् इन्द्रियम् ।
साक्षाद् एवेन्द्रियम् अव रुन्द्धे ।
ऐन्द्राग्नम् पुनरुत्सृष्टम् आ लभेत य आ तृतीयात् पुरुषात् सोमं न पिबेत् ।
विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्न् आ
VERSE: 6
तृतीयात् पुरुषात् सोमं न पिबति ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै सोमपीथम् प्र यच्छतः ।
उपैनम्̇ सोमपीथो नमति
यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे
यद् आग्नेयो भवत्य् आग्नेयो वै ब्राह्मणः स्वाम् एव देवताम् अनु सं तनोति
पुनरुत्सृष्टो भवति
पुनरुत्सृष्ट इव ह्य् एतस्य
VERSE: 7
सोमपीथः ।
समृद्ध्यै।
ब्राह्मणस्पत्यं तूपरम् आ लभेताभिचरन्
ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति
तूपरो भवति
क्षुरपविर् वा एषा लक्ष्मी यत् तूपरः ।
समृद्ध्यै।
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
शरमयम् बर्हिः शृणात्य् एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् ॥
2.1.6 अनुवाक 6
काम्याः पशवः। ग्रामकामादीनां पशुविधिः।
VERSE: 1
बार्हस्पत्यम्̇ शितिपृष्ठम् आ लभेत ग्रामकामो यः कामयेत
पृष्ठम्̇ समानानाम्̇ स्याम् इति
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवैनम् पृष्ठम्̇ समानानां करोति
ग्राम्य् एव भवति
शितिपृष्ठो भवति
बार्हस्पत्यो ह्य् एष देवतया
समृद्धयै
पौष्णम्̇ श्यामम् आ लभेतान्नकामः ।
अन्नं वै पूषा
पूषणम् एव स्वेन भागधेयेनोप धावति
स एवास्मै
VERSE: 2
अन्नम् प्र यच्छति ।
अन्नाद एव भवति
श्यामो भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै
मारुतम् पृश्निम् आ लभेतान्नकामः ।
अन्नं वै मरुतः ।
मरुत एव स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
पृश्निर् भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै ।
ऐन्द्रम् अरुणम् आ लभेतेन्द्रियकामः ।
इन्द्रम् एव
VERSE: 3
स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियं दधाति ।
इन्द्रियाव्य् एव भवति ।
अरुणो भ्रूमान् भवति ।
एतद् वा इन्द्रस्य रूपम् ।
समृद्ध्यै
सावित्रम् उपध्वस्तम् आ लभेत सनिकामः
सविता वै प्रसवानाम् ईशे
सवितारम् एव स्वेन भागधेयेनोप धावति
स एवास्मै सनिम् प्र सुवति
दानकामा अस्मै प्रजा भवन्ति ।
उपध्वस्तो भवति
सावित्रो ह्य् एषः
VERSE: 4
देवतया ।
समृद्ध्यै।
वैश्वदेवम् बहुरूपम् आ लभेतान्नकामः ।
वैश्वदेवं वा अन्नम् ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
बहुरूपो भवति
बहुरूपम्̇ ह्य् अन्नम् ।
समृद्ध्यै ।
वैश्वदेवम् बहुरूपम् आ लभेत ग्रामकामः ।
वैश्वदेवा वै सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै
VERSE: 5
सजातान् प्र यच्छन्ति।
ग्राम्य् एव भवति
बहुरूपो भवति
बहुदेवत्यो ह्य् एषः ।
समृद्ध्यै
प्रजापत्यं तूपरम् आ लभेत यस्यानाज्ञातम् एव ज्योग् आमयेत्
प्राजापत्यो वै पुरुषः
प्रजापतिः खलु वै तस्य वेद यस्यानाज्ञातम् इव ज्योग् आमयति
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवैनं तस्मात् स्रामान् मुञ्चति
तूपरो भवति
प्राजापत्यो ह्य् एष देवतया
समृद्ध्यै ॥
2.1.7 अनुवाक 7
काम्याः पशवः।ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
वषट्कारो वै गायत्रियै शिरो ऽच्छिनत्
तस्यै रसः परापतत् तम् बृहस्पतिर् उपागृह्णात् सा शितिपृष्ठा वशाभवत् ।
यो द्वितीयः परापतत् तम् मित्रावरुणाव् उपागृह्णीताम्̇ सा द्विरूपा वशाभवत् ।
यस् तृतीयः परापतत् तं विश्वे देवा उपागृह्णन्त् सा बहुरूपा वशाभवत् ।
यश् चतुर्थः परापतत् स पृथिवीम् प्राविशत् तम् बृहस्पतिर् अभि
VERSE: 2
अगृह्णात् ।
अस्त्व् एवायम् भोगायेति स उक्षवशः सम् अभवत् ।
यल् लोहितम् परापतत् तद् रुद्र उपागृह्णात् सा रौद्री रोहिणी वशाभवत् ।
बार्हस्पत्याम्̇ शितिपृष्ठाम् आ लभेत ब्रह्मवर्चसकामः ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु
VERSE: 3
वै ब्रह्मवर्चसम् ।
छन्दसाम् एव रसेन रसम् ब्रह्मवर्चसम् अव रुन्द्धे
मैत्रावरुणीं द्विरूपाम् आ लभेत वृष्टिकामः ।
मैत्रं वा अहर् वारुणी रात्रिः ।
अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अहोरात्राभ्याम् पर्जन्यं वर्षयतः ।
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै वृष्टिः ।
छन्दसाम् एव रसेन
VERSE: 4
रसं वृष्टिम् अव रुन्द्धे
मैत्रावरुणीं द्विरूपाम् आ लभेत प्रजाकामः ।
मैत्रं वा अहर् वारुणी रात्रिः ।
अहोरात्राभ्यां खलु वै प्रजाः प्र जायन्ते
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अहोरात्राभ्याम् प्रजाम् प्र जनयतः ।
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै प्रजा
छन्दसाम् एव रसेन रसम् प्रजाम् अव
VERSE: 5
रुन्द्धे ।
वैश्वदेवीम् बहुरूपाम् आ लभेतान्नकामः ।
वैश्वदेवं वा अन्नम् ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु वा अन्नम् ।
छन्दसाम् एव रसेन रसम् अन्नम् अव रुन्द्धे
वैश्वदेवीम् बहुरूपाम् आ लभेत ग्रामकामः ।
वैश्वदेवा वै
VERSE: 6
सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै सजाताः ।
छन्दसाम् एव रसेन रसम्̇ सजातान् अव रुन्द्धे
बार्हस्पत्यम् उक्षवशम् आ लभेत ब्रह्मवर्चसकामः ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसम्
VERSE: 7
दधाति
ब्रह्मवर्चस्य् एव भवति
वशं वा एष चरति यद् उक्षा
वश इव खलु वै ब्रह्मवर्चसम् ।
वशेनैव वशम् ब्रह्मवर्चसम् अव रुन्द्धे
रौद्रीम्̇ रोहिणीम् आ लभेताभिचरन्
रुद्रम् एव स्वेन भागधेयेनोप धावति
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति
रोहिणी भवति रौद्री ह्य् एषा देवतया समृद्ध्यै
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
शरमयम् बर्हिः शृणात्य् एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् ॥
2.1.8 अनुवाक 8
काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तयैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एताम्̇ सौरीम्̇ श्वेतां वशाम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
बैल्वो यूपो भवति ।
असौ
VERSE: 2
वा आदित्यो यतो ऽजायत ततो बिल्व उद् अतिष्ठत्
सयोन्य् एव ब्रह्मवर्चसम् अव रुन्द्धे
ब्राह्मणस्पत्याम् बभ्रुकर्णीम् आ लभेताभिचरन्
वारुणं दशकपालम् पुरस्तान् निर् वपेत् ।
वरुणेनैव भ्रातृव्यं ग्राहयित्वा ब्रह्मणा स्तृणुते
बभ्रुकर्णी भवति ।
एतद् वै ब्रह्मणो रूपम् ।
समृद्ध्यै
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
0 शरमयम् बर्हिः शृणाति
VERSE: 3
एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् । वैष्णवं वामनम् आ लभेत यं यज्ञो नोपनमेत् ।
विष्णुर् वै यज्ञः ।
विष्णुम् एव स्वेन भागधेयेनोप धावति
स एवास्मै यज्ञम् प्र यच्छति ।
उपैनं यज्ञो नमति
वामनो भवति
वैष्णवो ह्य् एष देवतया
समृद्ध्यै
त्वाष्ट्रं वडबम् आ लभेत पशुकामस्
त्वष्टा वै पशूनाम् मिथुनानाम्
VERSE: 4
प्रजनयिता ।
त्वष्टारम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पशून् मिथुनान् प्र जनयति
प्रजा हि वा एतस्मिन् पशवः प्रविष्टाः ।
अथैष पुमान्त् सन् वडबः साक्षाद् एव प्रजाम् पशून् अव रुन्द्धे
मैत्रम्̇ श्वेतम् आ लभेत संग्रामे संयत्ते समयकामः ।
मित्रम् एव स्वेन भागधेयेनोप धावति
स एवैनम् मित्रेण सं नयति ॥
VERSE: 5
विशालो भवति
व्यवसाययत्य् एवैनम्
प्राजापत्यं कृष्णम् आ लभेत वृष्टिकामः
प्रजापतिर् वै वृष्ट्या ईषे
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पर्जन्यं वर्षयति
कृष्णो भवति ।
एतद् वै वृष्ट्यै रूपम् ।
रूपेणैव वृष्टिम् अव रुन्द्धे
शबलो भवति
विद्युतम् एवास्मै जनयित्वा वर्षयति ।
अवाशृङ्गो भवति
वृष्टिम् एवास्मै नि यच्छति ॥
2.1.9 अनुवाक 9
काम्याः पशवः। अन्नाद्यकामादीनां पशुविधिः।
VERSE: 1
वरुणम्̇ सुषुवाणम् अन्नाद्यं नोपानमत्
स एतां वारुणीं कृष्णां वशाम् अपश्यत्
ताम्̇ स्वायै देवताया आलभत ततो वै तम् अन्नाद्यम् उपानमत् ।
यम् अलम् अन्नाद्याय सन्तम् अन्नाद्यं नोपनमेत् स एतां वारुणीं कृष्णां वशाम् आ लभेत
वरुणम् एव स्वेन भागधेयेनोप धावति स एवास्मा अन्नम् प्र यच्छत्य् अन्नादः
VERSE: 2
एव भवति।
कृष्णा भवति
वारुणी ह्य् एषा देवतया
समृद्ध्यै
मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णम् अपां चौषधीनां च संधाव् अन्नकामः ।
मैत्रीर् वा ओषधयो वारुणीर् आपः ।
अपां च खलु वा ओषधीनां च रसम् उप जीवामः ।
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अन्नम् प्र यच्छतो ऽन्नाद एव भवति ॥
VERSE: 3
अपां चौषधीनां च संधाव् आ लभत उभयस्यावरुद्ध्यै
मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णं ज्योगामयावी
यन् मैत्रो भवति मित्रेणैवास्मै वरुणम्̇ शमयति
यद् वारुणः साक्षाद् एवैनं वरुणपाशान् मुञ्चति ।
उत यदीतासुर् भवति जीवत्य् एव
देवा वै पुष्टिं नाविन्दन् ।
VERSE: 4
ताम् मिथुने ऽपश्यन्
तस्याम् न सम् अराधयन्
ताव् अश्विनाव् अब्रूताम्
आवयोर् वा एषा मैतस्यां वदध्वम् इति
साश्विनोर् एवाभवत् ।
यः पुष्टिकामः स्यात् स एताम् आश्विनीं यमीं वशाम् आ लभेत ।
अश्विनाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन् पुष्टिं धत्तः
पुष्यति प्रजया पशुभिः ॥
2.1.10 अनुवाक 10
काम्याः पशवः। नैमित्तिकपशुविधिः।
VERSE: 1
आश्विनं धूम्रललामम् आ लभेत यो दुह्मणः सोमम् पिपासेत् ।
अश्विनौ वै देवानाम् असोमपाव् आस्ताम् ।
तौ पश्चा सोमपीथम् प्राप्नुताम्
अश्विनाव् एतस्य देवता यो दुर्ब्राह्मणः सोमम् पिपासति ।
अश्विनाव् एव स्वेन भागधेयेनोप धावति
तव् एवास्मै सोमपीथम् प्र यच्छत उपैनम्̇ सोमपीथो नमति
यद् धूम्रो भवति धूम्रिमाणम् एवास्माद् अप हन्ति
ललामः
VERSE: 2
भवति मुखत एवास्मिन् तेजो दधाति।
वायव्यं गोमृगम् आ लभेत यम् अजघ्निवाम्̇सम् अभिशम्̇सेयुः ।
अपूता वा एतं वाग् ऋच्छति यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति
नैष ग्राम्यः पशुर् नारण्यो यद् गोमृगः ।
नेवैष ग्रामे नारण्ये यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति
वायुर् वै देवानाम् पवित्रम् ।
वायुम् एव स्वेन भागधेयेनोप धावति
स एव
VERSE: 3
एनम् पवयति
पराची वा एतस्मै व्युच्छन्ती व्य् उच्छति तमः पाप्मानम् प्र विशति यस्याश्विने शस्यमाने सूर्यो नाविर् भवति
सौर्यम् बहुरूपम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मात् तमः पाप्मानम् अप हन्ति
प्रतीच्य् अस्मै व्युच्छन्ती व्य् उच्छत्य् अप तमः पाप्मानम्̇ हते ॥
2.1.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
मरुतो यद् ध वो दिवः ।
या वः शर्म
भरेष्व् इन्द्रम्̇ सुहवम्̇ हवामहेऽम्̇होमुचम्̇ सुकृतं दैव्यं जनम् । अग्निम् मित्रं वरुणम्̇ सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः
प्रिया वो नाम ।
VERSE: 2
हुवे तुराणाम् । आ यत् तृपन् मरुतो वावशानाः ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रेभिर् अभि रक्षतु त्मना । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्व् आदित्यैर् नो वरुणः सम्̇ शिशातु ॥
सं नो देवो वसुभिर् अग्निः सम्
VERSE: 3
सोमस् तनूभी रुद्रियाभिः । सम् इन्द्रो मरुद्भिर् यज्ञियैः सम् आदित्यैर् नो वरुणो अजिज्ञिपत् ॥
यथादित्या वसुभिः सम्बभूवुर् मरुद्भी रुद्राः समजानताभि । एवा त्रिणामन्न् अहृणीयमाना विश्वे देवाः समनसो भवन्तु
कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥
सं यद् इषो वनामहे सम्̇ हव्या मानुषाणाम् । उत द्युम्नस्य शवसः ॥
VERSE: 4
ऋतस्य रश्मिम् आ ददे ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तरासत् ॥
शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । दीर्घाधियो रक्षमाणाः
VERSE: 5
असुर्यम् ऋतावानश् चयमाना ऋणानि ॥
तिस्रो भूमीर् धारयन् त्रीम्̇र् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥
त्यान् नु क्षत्रियाम्̇ अव आदित्यान् याचिषामहे सुमृडीकाम्̇ अभिष्टये ॥
न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । पाक्या चिद् वसवो धीर्या चित् ॥
VERSE: 6
युष्मानीतो अभयं ज्योतिर् अश्याम् ॥
आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
इमम् मे वरुण श्रुधी हवम् अद्या च मृडय । त्वाम् अवस्युर् आ चके ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशम्̇स मा न आयुः प्र मोषीः ॥
2.2 प्रपाठक: 2
काम्येष्टिविधानम्
2.2.1 अनुवाक 1
काम्याः इष्टयः। प्रजाकामादीन्प्रति ऐन्द्राग्नादि काम्येष्टीनां विधिः।
VERSE: 1
प्रजापतिः प्रजा असृजत
ताः सृष्टा इन्द्राग्नी अपागूहताम् ।
सो ऽचायत् प्रजापतिः ।
इन्द्राग्नी वै मे प्रजा अपाघुक्षताम् इति
स एतम् ऐन्द्राग्नम् एकादशकपालम् अपश्यत्
तं निर् अवपत्
ताव् अस्मै प्रजाः प्रासाधयताम्
इन्द्राग्नी वा एतस्य प्रजाम् अप गूहतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते ।
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् प्रजाकामः ।
इन्द्राग्नी
VERSE: 2
एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै प्रजाम् प्र साधयतः ।
विन्दते प्रजाम्
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताभ्याम् एवेन्द्रियं वीर्यम् भ्रातृव्यस्य वृङ्क्ते
वि पाप्मना भ्रातृव्येण जयते ।
अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति यः संग्रामम् उपप्रयाति ।
ऐन्द्राग्नम् एकादशकपालं निः
VERSE: 3
वपेत् संग्रामम् उपप्रयास्यन् ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः
सहेन्द्रियेण वीर्येणोप प्र याति जयति तम्̇ संग्रामम् ।
वि वा एष इन्द्रियेण वीर्येणर्ध्यते यः संग्रामं जयति ।
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् संग्रामं जित्वा ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यम्
VERSE: 4
धत्तो नेन्द्रियेण वीर्येण व्यृध्यते ।
अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति य एति जनताम्
ऐन्द्राग्नम् एकादशकपालं निर् वपेज् जनताम् एष्यन् ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः
सहेन्द्रियेण वीर्येण जनताम् एति
पौष्णं चरुम् अनु निर् वपेत्
पूषा वा इन्द्रियस्य वीर्यस्यानुप्रदाता
पूषणम् एव
VERSE: 5
स्वेन भागधेयेनोप धावति
स एवास्मा इन्द्रियं वीर्यम् अनु प्र यच्छति
क्षैत्रपत्यं चरुं निर् वपेज् जनताम् आगत्य ।
इयं वै क्षेत्रस्य पतिः ।
अस्याम् एव प्रति तिष्ठति ।
ऐन्द्राग्नम् एकादशकपालम् उपरिष्टान् निर् वपेत् ।
अस्याम् एव प्रतिष्ठायेन्द्रियं वीर्यम् उपरिष्टाद् आत्मन् धत्ते ॥
2.2.2 अनुवाक 2
काम्याः इष्टयः।दर्शाद्यदिक्रमनिमित्तक पाथिकृतादीष्टिविधिः।
VERSE: 1
अग्नये पथिकृते पुरोडाशम् अष्टाकपालं निर् वपेद् यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयेत्
पथो वा एषो ऽध्य् अपथेनैति यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति ।
अग्निम् एव पथिकृतम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अपथात् पन्थाम् अपि नयति ।
अनड्वान् दक्षिणा वही ह्य् { एष ^ एषस् }
समृद्ध्यै ।
अग्नये व्रतपतये
VERSE: 2
पुरोडाशम् अष्टाकपालं निर् वपेद् य आहिताग्निः सन्न् अव्रत्यम् इव चरेत् ।
अग्निम् एव व्रतपतिम्̇ स्वेन भागधेयेनोप धावति
स एवैनं व्रतम् आ लम्भयति
व्रत्यो भवति ।
अग्नये रक्षोघ्ने पुरोडाशम् अष्टाकपालं निर् वपति यम्̇ रक्षाम्̇सि सचेरन् ।
अग्निम् एव रक्षोहणम्̇ स्वेन भागधेयेनोप धावति
स एवास्माद् रक्षाम्̇स्य् अप हन्ति ।
निशितायां निर् वपेत् ।
VERSE: 3
निशितायाम्̇ हि रक्षाम्̇सि प्रेरते ।
सम्प्रेर्णान्य् एवैनानि हन्ति ।
परिश्रिते याजयेद् रक्षसाम् अनन्ववचाराय
रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसाम्̇ स्तृत्यै ।
अग्नये रुद्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचरन् ।
एषा वा अस्य घोरा तनूर् यद् रुद्रस्
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति ।
अग्नये सुरभिमते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्य गावो वा पुरुषाः
VERSE: 4
वा प्रमीयेरन् यो वा बिभीयात् ।
एषा वा अस्य भेषज्या तनूर् यत् सुरभिमती
तयैवास्मै भेषजं करोति
सुरभिमते भवति पूतीगन्धस्यापहत्यै ।
अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते
भागधेयेनैवैनम्̇ शमयित्वा परान् अभि निर् दिशति
यम् अवरेषां विध्यन्ति जीवति स
यम् परेषाम् प्र स मीयते
जयति तम्̇ संग्रामम् ।
VERSE: 5
अभि वा एष एतान् उच्यति येषाम् पूर्वापरा अन्वञ्चः प्रमीयन्ते
पुरुषाहुतिर् ह्य् अस्य प्रियतमाग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
भागधेयेनैवैनम्̇ शमयति
नैषाम् पुराऽऽयुषोऽपरः प्र मीयते ।
अभि वा एष एतस्य गृहान् उच्यति यस्य गृहान् दहति ।
अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
भागधेयेनैवैनम्̇ शमयति
नास्यापरं गृहान् दहति ॥
2.2.3 अनुवाक 3
काम्याः इष्टयः। कामुकादीष्टिविधिः।
VERSE: 1
अग्नये कामाय पुरोडाशम् अष्टाकपालं निर् वपेद् यं कामो नोपनमेत् ।
अग्निम् एव कामम्̇ स्वेन भागधेयेनोप धावति
स एवैनं कामेन सम् अर्धयति ।
उपैनं कामो नमति ।
अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा ।
अग्निम् एव यविष्ठम्̇ स्वेन भागधेयेनोप धावति
तेनैवेन्द्रियं वीर्यम् भ्रातृव्यस्य
VERSE: 2
युवते ।
वि पाप्मना भ्रातृव्येण जयते ।
अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचर्यमाणः ।
अग्निम् एव यविष्ठम्̇ स्वेन भागधेयेनोप धावति
स एवास्माद् रक्षाम्̇सि यवयति
नैनम् अभिचरन्त् स्तृणुते ।
अग्नय आयुष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत
सर्वम् आयुर् इयाम् इति ।
अग्निम् एवायुष्मन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्
VERSE: 3
आयुर् दधाति ।
सर्वम् आयुर् एति ।
अग्नये जातवेदसे पुरोडाशम् अष्टाकपालं निर् वपेद् भूतिकामः ।
अग्निम् एव जातवेदसम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
भवत्य् एव ।
अग्नये रुक्मते पुरोडाशम् अष्टाकपालं निर् वपेद् रुक्कामः ।
अग्निम् एव रुक्मन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् रुचं दधाति
रोचत एव ।
अग्नये तेजस्वते पुरोडाशम्
VERSE: 4
अष्टाकपालं निर् वपेत् तेजस्कामः ।
अग्निम् एव तेजस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् तेजो दधाति
तेजस्व्य् एव भवति ।
अग्नये साहन्त्याय पुरोडाशम् अष्टाकपालं निर् वपेत् सीक्षमाणः ।
अग्निम् एव साहन्त्यम्̇ स्वेन भागधेयेनोप धावति
तेनैव सहते यम्̇ सीक्षते ॥
2.2.4 अनुवाक 4
काम्याः इष्टयः। अन्नकामादीष्टिविधिः।
VERSE: 1
अग्नये ऽन्नवते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नवान्त् स्याम् इति ।
अग्निम् एवान्नवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नवन्तं करोत्य् अन्नवान् एव भवति ।
अग्नये ऽन्नादाय पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नादः स्याम् इति ।
अग्निम् एवान्नादम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नादं करोत्य् अन्नादः
VERSE: 2
एव भवति ।
अग्नये ऽन्नपतये पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नपतिः स्याम् इति ।
अग्निम् एवान्नपतिम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नपतिं करोत्य् अन्नपतिर् एव भवति ।
अग्नये पवमानाय पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये पावकायाग्नये शुचये ज्योगामयावी
यद् अग्नये पवमानाय निर्वपति
प्राणम् एवास्मिन् तेन दधाति
यद् अग्नये
VERSE: 3
पावकाय
वाचम् एवास्मिन् तेन दधाति
यद् अग्नये शुचये ।
आयुर् एवास्मिन् तेन दधात्य् उत यदीतासुर् भवति जीवत्य् एव ।
एताम् एव निर् वपेच् चक्षुष्कामो यद् अग्नये पवमानाय निर्वपति
प्राणम् एवास्मिन् तेन दधाति
यद् अग्नये पावकाय
वाचम् एवास्मिन् तेन दधाति
यद् अग्नये शुचये
चक्षुर् एवास्मिन् तेन दधाति ॥
VERSE: 4
उत यद्य् अन्धो भवति प्रैव पश्यति ।
अग्नये पुत्रवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
इन्द्राय पुत्रिणे पुरोडाशम् एकादशकपालम् प्रजाकामः ।
अग्निर् एवास्मै प्रजाम् प्रजनयति
वृद्धाम् इन्द्रः प्र यच्छति ।
अग्नये रसवते ऽजक्षीरे चरुं निर् वपेद् यः कामयेत रसवान्त् स्याम् इति ।
अग्निम् एव रसवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनम्̇ रसवन्तं करोति ॥
VERSE: 5
रसवान् एव भवत्य् अजक्षीरे भवति ।
आग्नेयी वा एषा यद् अजा
साक्षाद् एव रसम् अव रुन्द्धे ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत वसुमान्त् स्याम् इति ।
अग्निम् एव वसुमन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनं वसुमन्तं करोति वसुमान् एव भवति ।
अग्नये वाजसृते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते
वाजं
VERSE: 6
वा एष सिसीर्षति यः संग्रामं जिगीषति ।
अग्निः खलु वै देवानां वाजसृद् अग्निम् एव वाजसृतम्̇ स्वेन भागधेयेनोप धावति
धावति वाजम्̇ हन्ति वृत्रं जयति तम्̇ संग्रामम्
अथो अग्निर् इव न प्रतिधृषे भवति ।
अग्नये ऽग्निवते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्नाव् अग्निम् अभ्युद्धरेयुः ।
निर्दिष्टभागो वा एतयोर् अन्यो ऽनिर्दिष्टभागो ऽन्यस् तौ सम्भवन्तौ यजमानम्
VERSE: 7
अभि सम् भवतः ।
स ईश्वर आर्तिम् आर्तोर् यद् अग्नये ऽग्निवते निर्वपति
भागधेयेनैवैनौ शमयति
नार्तिम् आर्छति यजमानः ।
अग्नये ज्योतिष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्निर् उद्धृतो ऽहुते ऽग्निहोत्र उद्वायेद् अपर आदीप्यानूद्धृत्य इत्य् आहुस् तत् तथा न कार्यं यद् भागधेयम् अभि पूर्व उद्ध्रियते किम् अपरो ऽभ्य् उत्
VERSE: 8
ह्रियेतेति तान्य् एवावक्षाणानि संनिधाय मन्थेत् ।
इतः प्रथमं जज्ञे अग्निः स्वाद् योनेर् अधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्न् इति
छन्दोभिर् एवैनम्̇ स्वाद् योनेः प्र जनयत्य् एष वाव सो ऽग्निर् इत्य् आहुर् ज्योतिस् त्वा अस्य परापतितम् इति यद् अग्नये ज्योतिष्मते निर्वपति यद् एवास्य ज्योतिः परापतितं तद् एवाव रुन्द्धे ॥
2.2.5 अनुवाक 5
काम्या इष्टयः। अभिशस्तादिकर्तव्येष्टिविधिः।
VERSE: 1
वैश्वानरं द्वादशकपालं निर् वपेद् वारुणं चरुं दधिक्राव्णे चरुम् अभिशस्यमानः ।
यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरेणैवैनम्̇ स्वदयत्य् अप पापं वर्णम्̇ हते वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति
हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् आद्यम् अस्यान्नम् भवति ।
एताम् एव निर् वपेत् प्रजाकामः
संवत्सरो
VERSE: 2
वा एतस्याशान्तो योनिम् प्रजायै पशूनां निर् दहति यो ऽलम् प्रजायै सन् प्रजां न विन्दते
यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव भागधेयेन शमयति सो ऽस्मै शान्तः स्वाद् योनेः प्रजाम् प्र जनयति वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति
हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् ।
VERSE: 3
विन्दते प्रजाम् ।
वैश्वानरं द्वादशकपालं निर् वपेत् पुत्रे जाते
यद् अष्टाकपालो भवति गायत्रियैवैनम् ब्रह्मवर्चसेन पुनाति यन् नवकपालस् त्रिवृतैवास्मिन् तेजो दधाति यद् दशकपालो विराजैवास्मिन्न् अन्नाद्यं दधाति यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति
यस्मिञ् जात एताम् इष्टिम् निर्वपति पूतः
VERSE: 4
एव तेजस्व्य् अन्नाद इन्द्रियावी पशुमान् भवति ।
अव वा एष सुवर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाव् इज्येते
वैश्वानरं द्वादशकपालं निर् वपेद् अमावास्यां वा पौर्णमासीं वातिपाद्य
संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ॥
VERSE: 5
अथो देवता एवान्वारभ्य सुवर्गं लोकम् एति
वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् ।
आग्नेयम् अष्टाकपालं निर् वपेत् ।
वैश्वानरं द्वादशकपालम् अग्निम् उद्वासयिष्यन्
यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तस्मा आतिथ्यं करोति ।
अथो यथा जनं यते ऽवसं करोति तादृक्
VERSE: 6
एव तत् ।
द्वादशकपालो वैश्वानरो भवति
द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर् योनिः स्वाम् एवैनं योनिं गमयति ।
आद्यम् अस्यान्नम् भवति
वैश्वानरं द्वादशकपालं निर् वपेन् मारुतम्̇ सप्तकपालं ग्रामकामः ।
आहवनीये वैश्वानरम् अधि श्रयति गार्हपत्ये मारुतम् पापवस्यसस्य विधृत्यै
द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताम्̇श् च्यावयति
मारुतो भवति ॥
VERSE: 7
मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशम् अव रुन्द्धे
सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातान् अव रुन्द्धे ।
अनूच्यमान आ सादयति
विशम् एवास्मा अनुवर्त्मानं करोति ॥
2.2.6 अनुवाक 6
काम्या इष्टयः। आदित्यचर्वादीष्टिविधिः।
VERSE: 1
आदित्यं चरुं निर् वपेत् संग्रामम् उपप्रयास्यन् ।
इयं वा अदितिः ।
अस्याम् एव पूर्वे प्रति तिष्ठन्ति
वैश्वानरं द्वादशकपालं निर् वपेद् आयतनं गत्वा
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरः खलु वै देवानाम् आयतनम्
एतस्माद् वा आयतनाद् देवा असुरान् अजयन्
यद् वैश्वानरं द्वादशकपालं निर्वपति
देवानाम् एवायतने यतते
जयति तम्̇ संग्रामम् ।
एतस्मिन् वा एतौ मृजाते
VERSE: 2
यो विद्विषाणयोर् अन्नम् अत्ति
वैश्वानरं द्वादशकपालं निर् वपेद् विद्विषाणयोर् अन्नं जग्ध्वा
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदितम् एवात्ति
नास्मिन् मृजाते
संवत्सराय वा एतौ सममाते यौ सममाते
तयोर् यः पूर्वो ऽभिद्रुह्यति तं वरुणो गृह्णाति
वैश्वानरं द्वादशकपालं निर् वपेत् सममानयोः पूर्वोऽभिद्रुह्य
संवत्सरो वा अग्निर् वैश्वानरः ।
सम्वत्सरम् एवाप्त्वा निर्वरुणम्
VERSE: 3
परस्ताद् अभि द्रुह्यति नैनं वरुणो गृह्णाति ।
आव्यं वा एष प्रति गृह्णाति यो ऽविम् प्रतिगृह्णाति
वैश्वानरं द्वादशकपालं निर् वपेद् अविम् प्रतिगृह्य
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदिताम् एव प्रतिगृह्णाति
नाव्यम् प्रति गृह्णाति ।
आत्मनो वा एष मात्राम् आप्नोति य उभयादत् प्रतिगृह्णात्य् अश्वं वा पुरुषं वा
वैश्वानरं द्वादशकपालं निर् वपेद् उभयादत्
VERSE: 4
प्रतिगृह्य ।
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदितम् एव प्रति गृह्णाति
नात्मनो मात्राम् आप्नोति
वैश्वानरं द्वादशकपालं निर् वपेत् सनिम् एष्यन् ।
संवत्सरो वा अग्निर् वैश्वानरः ।
यदा खलु वै संवत्सरं जनतायां चरत्य् अथ स धनार्घो भवति
यद् वैश्वानरं द्वादशकपालं निर्वपति संवत्सरसाताम् एव सनिम् अभि प्र च्यवते
दानकामा अस्मै प्रजा भवन्ति
यो वै संवत्सरम्
VERSE: 5
प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति ।
एतम् एव वैश्वानरम् पुनर् आगत्य निर् वपेत् ।
यम् एव प्रयुङ्क्ते तम् भागधेयेन वि मुञ्चति प्रतिष्ठित्यै
यया रज्ज्वोत्तमां गाम् आजेत् ताम् भ्रातृव्याय प्र हिणुयात् ।
निर्ऋतिम् एवास्मै प्र हिणोति ॥
2.2.7 अनुवाक 7
काम्या इष्टयः।ऐन्द्रचर्वादीष्टिविधिः।
VERSE: 1
ऐन्द्रं चरुं निर् वपेत् पशुकामः ।
ऐन्द्रा वै पशवः ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पशून् प्र यच्छति
पशुमान् एव भवति
चरुर् भवति
स्वाद् एवास्मै योनेः पशून् प्र जनयति ।
इन्द्रायेन्द्रियावते पुरोडाशम् एकादशकपालं निर् वपेत् पशुकामः ।
इन्द्रियं वै पशवः ।
इन्द्रम् एवेन्द्रियावन्तम्̇ स्वेन भागधेयेनोप धावति
सः
VERSE: 2
एवास्मा इन्द्रियम् पशून् प्र यच्छति।
पशुमान् एव भवति ।
इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् ब्रह्मवर्चसकामः ।
ब्रह्मवर्चसं वै घर्मः ।
इन्द्रम् एव घर्मवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति ।
इन्द्रायार्कवते पुरोडाशम् एकादशकपालं निर् वपेद् अन्नकामः ।
अर्को वै देवानाम् अन्नम्
इन्द्रम् एवार्कवन्तम्̇ स्वेन भागधेयेन
VERSE: 3
उप धावति
स एवास्मा अन्नम् प्र यच्छति ।
अन्नाद एव भवति ।
इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्रायेन्द्रियावत इन्द्रायार्कवते भूतिकामः ।
यद् इन्द्राय घर्मवते निर्वपति शिर एवास्य तेन करोति
यद् इन्द्रायेन्द्रियावत आत्मानम् एवास्य तेन करोति
यद् इन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्य् एव ।
इन्द्राय
VERSE: 4
अ̇म्̇होमुचे पुरोडाशम् एकादशकपालं निर् वपेद् यः पाप्मना गृहीतः स्यात्
पाप्मा वा अम्̇हः ।
इन्द्रम् एवाम्̇होमुचम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् पाप्मनो ऽम्̇हसो मुञ्चति ।
इन्द्राय वैमृधाय पुरोडाशम् एकादशकपालं निर् वपेद् यम् मृधो ऽभि प्रवेपेरन् राष्ट्राणि वाभि समीयुः ।
इन्द्रम् एव वैमृधम्̇ स्वेन भागधेयेनोप धावति
स एवास्मान् मृधः
VERSE: 5
अप हन्ति ।
इन्द्राय त्रात्रे पुरोडाशम् एकादशकपालं निर् वपेद् बद्धो वा परियत्तो वा ।
इन्द्रम् एव त्रातारम्̇ स्वेन भागधेयेनोप धावति
स एवैनं त्रायते ।
इन्द्रायार्काश्वमेधवते पुरोडाशम् एकादशकपालं निर् वपेद् यम् महायज्ञो नोपनमेत् ।
एते वै महायज्ञस्यान्त्ये तनू यद् अर्काश्वमेधौ ।
इन्द्रम् एवार्काश्वमेधवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मा अन्ततो महायज्ञं च्यावयति ।
उपैनं महायज्ञो नमति ॥
2.2.8 अनुवाक 8
काम्या इष्टयः। अभिचारकर्त्रादीनामीष्टिविधिः।
VERSE: 1
इन्द्रायान्वृजवे पुरोडाशम् एकादशकपालं निर् वपेद् ग्रामकामः ।
इन्द्रम् एवान्वृजुम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् अनुकान् करोति
ग्राम्य् एव भवति ।
इन्द्राण्यै चरुं निर् वपेद् यस्य सेनाऽसम्̇शितेव स्यात् ।
इन्द्राणी वै सेनायै देवता ।
इन्द्राणीं एव स्वेन भागधेयेनोप धावति
सैवास्य सेनाम्̇ सम्̇ श्यति
बल्बजान् अपि
VERSE: 2
इध्मे सं नह्येत् ।
गौर् यत्राधिष्कन्ना न्यमेहत् ततो बल्बजा उद् अतिष्ठन्
गवाम् एवैनं न्यायम् अपिनीय गा वेदयति ।
इन्द्राय मन्युमते मनस्वते पुरोडाशम् एकादशकपालं निर् वपेत् संग्रामे संयत्ते ।
इन्द्रियेण वै मन्युना मनसा संग्रामं जयति ।
इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
जयति तम्
VERSE: 3
संग्रामम्
एताम् एव निर् वपेद् यो हतमनाः स्वयम्पाप इव स्यात् ।
एतानि हि वा एतस्माद् अपक्रान्तानि ।
अथैष हतमनाः स्वयम्पाप इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
न हतमनाः स्वयम्पापो भवति ।
इन्द्राय दात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यः कामयेत
दानकामा मे प्रजाः स्युः
VERSE: 4
इति ।
इन्द्रम् एव दातारम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै दानकामाः प्रजाः करोति
दानकामा अस्मै प्रजा भवन्ति ।
इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यस्मै प्रत्तम् इव सन् न प्रदीयेत ।
इन्द्रम् एव प्रदातारम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्र दापयति ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालं निर् वपेद् अपरुद्धो वा ॥
VERSE: 5
अपरुध्यमानो वा ।
इन्द्रम् एव सुत्रामाणम्̇ स्वेन भागधेयेनोप धावति
स एवैनं त्रायते ।
अनपरुध्यो भवति ।
इन्द्रो वै सदृङ् देवताभिर् आसीत्
स न व्यावृतम् अगच्छत्
स प्रजापतिम् उपाधावत्
तस्मा एतम् ऐन्द्रम् एकादशकपालं निर् अवपत्
तेनैवास्मिन्न् इन्द्रियम् अदधात् ।
शक्वरी याज्यानुवाक्ये अकरोत् ।
वज्रो वै शक्वरी
स एनं वज्रो भूत्या ऐन्द्ध ।
VERSE: 6
सो ऽभवत्
सो ऽबिभेद् भूतः
प्र मा धक्ष्यतीति
स प्रजापतिम् पुनर् उपाधावत्
स प्रजापतिः शक्वर्या अधि रेवतीं निर् अमिमीत शान्त्या अप्रदाहाय
यो ऽलम्̇ श्रियै सन्त् सदृङ्क् समानैः स्यात् तस्मा एतमैन्द्रम् एकादशकपालं निर् वपेत् ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियं दधाति
रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय
0 शक्वरी याज्या
1 वज्रो वै शक्वरी
2 स एनं वज्रो भूत्या इन्द्धे
3 भवत्य् एव ॥
2.2.9 अनुवाक 9
काम्या इष्टयः।अभिचारकर्त्रादीनामीष्टिविधिः।
VERSE: 1
आग्नावैष्णवम् एकादशकपालं निर् वपेद् अभिचरन्त् सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् आग्नावैष्णव एकादशकपालो भवति ।
अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन चाभि चरति
सरस्वत्य् आज्यभागा भवति वाग् वै सरस्वती वाचैवैनम् अभि चरति
बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवैनम् अभि चरति ॥
VERSE: 2
प्रति वै परस्ताद् अभिचरन्तम् अभि चरन्ति
द्वेद्वे पुरोऽनुवाक्ये कुर्याद् अति प्रयुक्त्यै ।
एतयैव यजेताभिचर्यमाणो देवताभिर् एव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म स देवताश् चैव यज्ञं च मध्यतो व्यवसर्पति तस्य न कुतश् चनोपाव्याधो भवति
नैनम् अभिचरन्त् स्तृणुते ।
आग्नावैष्णवम् एकादशकपालं निर् वपेद् यं यज्ञो न
VERSE: 3
उपनमेत् ।
अग्निः सर्वा देवता विष्णुर् यज्ञो ऽग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति ताव् एवास्मै यज्ञम् प्र यच्छत उपैनं यज्ञो नमति ।
आग्नावैष्णवं घृते चरुं निर् वपेच् चक्षुष्कामः ।
अग्नेर् वै चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य देवा अग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति
ताव् एव
VERSE: 4
अस्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति
धेन्वै वा एतद् रेतो यद् आज्यम् अनडुहस् तण्डुला मिथुनाद् एवास्मै चक्षुः प्र जनयति
घृते भवति तेजो वै घृतं तेजश् चक्षुस् तेजसैवास्मै तेजश् चक्षुर् अव रुन्द्धे ।
इन्द्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानो ऽयजमानस्याध्वरकल्पाम् प्रति निर् वपेद् भ्रातृव्ये यजमाने नास्येन्द्रियं
VERSE: 5
वीर्यं वृङ्क्ते
पुरा वाचः प्रवदितोर् निर् वपेद् यावत्य् एव वाक् ताम् अप्रोदिताम् भ्रातृव्यस्य वृङ्क्ते ताम् अस्य वाचम् प्रवदन्तीम् अन्या वाचो ऽनु प्र वदन्ति ता इन्द्रियं वीर्यं यजमाने दधति ।
आग्नावैष्णवम् अष्टाकपालं निर् वपेद् प्रातःसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनम् एव तेनाप्नोति ॥
VERSE: 6
आग्नावैष्णवम् एकादशकपालं निर् वपेन् माध्यंदिनस्य सवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनम् माध्यंदिनम् एव सवनं तेनाऽऽप्नोति ।
आग्नावैष्णवं द्वादशकपालं निर् वपेद् तृतीयसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् द्वादशकपालो भवति द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनम् एव तेनाऽऽप्नोति
देवताभिर् एव देवताः
VERSE: 7
प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म कपालैर् एव छन्दाम्̇स्य् आप्नोति पुरोडाशैः सवनानि
मैत्रावरुणम् एककपालं निर् वपेद् वशायै काले
यैवासौ भ्रातृव्यस्य वशानुबन्ध्या सो एवैषैतस्यैककपालो भवति न हि कपालैः पशुम् अर्हत्य् आप्तुम् ॥
2.2.10 अनुवाक 10
काम्या इष्टयः। ब्रह्मवर्चसकामादीनां सोमारौद्रचर्वादीष्टिविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्मा एतम्̇ सोमारौद्रं चरुं निर् अवपन् तेनैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सोमारौद्रं चरुं निर् वपेत्
सोमं चैव रुद्रं च स्वेन भागधेयेनोप धावति ताव् एवास्मिन् ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्य् एव भवति
तिष्यापूर्णमासे निर् वपेद् रुद्रो
VERSE: 2
वै तिष्यः सोमः पूर्णमासः साक्षाद् एव ब्रह्मवर्चसम् अव रुन्द्धे
परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै
श्वेतायै श्वेतवत्सायै दुग्धम् मथितम् आज्यम् अभवत्य् आज्यम् प्रोक्षणम् आज्येन मार्जयन्ते यावद् एव ब्रह्मवर्चसं तत् सर्वं करोत्य् अति ब्रह्मवर्चसं क्रियत इत्य् आहुः ।
ईश्वरो दुश्चर्मा भवितोर् इति मानवी ऋचौ धाय्ये कुर्याद् यद् वै किं च मनुर् अवदत् तद् भेषजम् ।
VERSE: 3
भेषजम् एवास्मै करोति
यदि बिभीयाद् दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर् वपेत् सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया पशुभिस् त्वचं करोति न दुश्चर्मा भवति
सोमारौद्रं चरुं निर् वपेत् प्रजाकामः सोमो वै रेतोधा अग्निः प्रजानाम् प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजाम् प्र जनयति विन्दते
VERSE: 4
प्रजाम् ।
सोमारौद्रं चरुं निर् वपेद् अभिचरन्त् सौम्यो वै देवतया पुरुष एष रुद्रो यद् अग्निः स्वाया एवैनं देवतायै निष्क्रीय रुद्रायापि दधाति ताजग् आर्तिम् आर्छति
सोमारौद्रं चरुं निर् वपेज् ज्योगामयावी सोमं वा एतस्य रसो गच्छत्य् अग्निम्̇ शरीरं यस्य ज्योग् आमयति सोमाद् एवास्य रसं निष्क्रीणात्य् अग्नेः शरीरम् उत यदि
VERSE: 5
इतासुर् भवति जीवत्य् एव सोमारुद्रयोर् वा एतं ग्रसितम्̇ होता निष् खिदति स ईश्वर आर्तिम् आर्तोर् अनड्वान् होत्रा देयो वह्निर् वा अनड्वान् वह्निर् होता वह्निनैव वह्निम् आत्मानम्̇ स्पृणोति
सोमारौद्रं चरुं निर् वपेद् यः कामयेत स्वे ऽस्मा आयतने भ्रातृव्यं जनयेयम् इति वेदिम् परिगृह्यार्धम् उद्धन्याद् अर्धं नार्धम् बर्हिष स्तृणीयाद् अर्धं नार्धम् इध्मस्याभ्यादध्याद् अर्धं न स्व एवास्मा आयतने भ्रातृव्यं जनयति ॥
2.2.11 अनुवाक 11
काम्या इष्टयः। ग्रामकामादीनामैन्द्रादीष्टिविधिः।
VERSE: 1
ऐन्द्रम् एकादशकपालं निर् वपेन् मारुतम्̇ सप्तकपालं ग्रामकामः ।
इन्द्रं चैव मरुतश् च स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति ।
आहवनीय ऐन्द्रम् अधि श्रयति गार्हपत्ये मारुतम्
पापवस्यसस्य विधृत्यै
सप्तकपालो मारुतो भवति
सप्तगणा वै मरुतः ।
गणश एवास्मै सजातान् अव रुन्द्धे ।
अनूच्यमान आ सादयति
विशम् एव
VERSE: 2
अस्मा अनुवर्त्मानं करोति ।
एताम् एव निर् वपेद् यः कामयेत
क्षत्राय च विशे च समदं दध्याम् इति ।
ऐन्द्रस्यावद्यन् ब्रूयात् ।
इन्द्रायानु ब्रूहीत्य् आश्राव्य ब्रूयात् ।
मरुतो यजेति
मारुतस्यावद्यन् ब्रूयात् ।
मरुद्भ्यो ऽनु ब्रूहीत्य् आश्राव्य ब्रूयात् ।
इन्द्रं यजेति
स्व एवैभ्यो भागधेये समदं दधाति
वितृम्̇हाणास् तिष्ठन्ति ।
एताम् एव
VERSE: 3
निर् वपेद् यः कामयेत
कल्पेरन्न् इति
यथादेवतम् अवदाय यथादेवतं यजेत् ।
भागधेयेनैवैनान् यथायथं कल्पयति
कल्पन्त एव ।
ऐन्द्रम् एकादशकपालं निर् वपेद् वैश्वदेवं द्वादशकपालं ग्रामकामः ।
इन्द्रं चैव विश्वाम्̇श् च देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति ।
ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येद् अथैन्द्रस्य
VERSE: 4
उपरिष्टात् ।
इन्द्रियेणैवास्मा उभयतः सजातान् परि गृह्णाति ।
उपाधाय्यपूर्वयं वासो दक्षिणा सजातानाम् उपहित्यै
पृश्नियै दुग्धे प्रैयंगवं चरुं निर् वपेन् मरुद्भ्यो ग्रामकामः
पृश्नियै वै पयसो मरुतो जाताः पृश्नियै प्रियंगवः ।
मारुताः खलु वै देवतया सजाताः ।
मरुत एव स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
प्रियवती याज्यानुवाक्ये
VERSE: 5
भवतः प्रियम् एवैनम्̇ समानानां करोति
द्विपदा पुरोऽनुवाक्या भवति द्विपद एवाव रुन्द्धे
चतुष्पदा याज्या चतुष्पद एव पशून् अव रुन्द्धे
देवासुराः संयत्ता आसन्
ते देवा मिथो विप्रिया आसन्
ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश् चतुर्धा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैः
स इन्द्रः प्रजापतिम् उपाधावत्
तम्
VERSE: 6
एतया संज्ञान्याऽयाजयत् ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् अवपत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम् ।
ततो वा इन्द्रं देवा ज्यैष्ठ्यायाभि सम् अजानत
यः समानैर् मिथो विप्रियः स्यात् तम् एतया संज्ञान्या याजयेत् ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम्
इन्द्रम् एवैनम् भूतं ज्यैष्ठ्याय समाना अभि सं जानते
वसिष्ठः समानानाम् भवति ॥
2.2.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
हिरण्यगर्भः ।
आपो ह यत्
प्रजापते।
स वेद पुत्रः पितरम्̇ स मातरम्̇ स सूनुर् भुवत् स भुवत् पुनर्मघः । स द्याम् और्णोद् अन्तरिक्षम्̇ स सुवः स विश्वा भुवो अभवत् स आऽभवत् ॥
उद् उ त्यम् चित्रम् ।
स प्रत्नवन् नवीयसाऽग्ने द्युम्नेन संयता । बृहत् ततन्थ भानुना ॥
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानः
VERSE: 2
नर्या पुरूणि । अग्निर् भुवद् रयिपती रयीणाम्̇ सत्रा चक्राणो अमृतानि विश्वा ॥
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
बड् इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनोषि
VERSE: 3
महिनि ।
स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । प्र या वाजं न हेषन्तम् प्रेरुम् अस्यस्य् अर्जुनि ॥
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः । अयं यः सोमो न्यधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् अच्छ ॥
आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमाम्̇ ऋजीषी । सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥
प्र
VERSE: 4
सुवानः सोम ऋतयुश् चिकेतेन्द्राय ब्रह्म जमदग्निर् अर्चन् । वृषा यन्तासि शवसस् तुरस्यान्तर् यच्छ गृणते धर्त्रं दृम्̇ह ॥
सबाधस् ते मदं च शुष्मयं च ब्रह्म नरो ब्रह्मकृतः सपर्यन् । अर्को वा यत् तुरते सोमचक्षास् तत्रेद् इन्द्रो दधते पृत्सु तुर्याम् ॥
वषट् ते विष्णवास आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् ।
VERSE: 5
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥
प्र तत् ते अद्य शिपिविष्ट नामार्यः शम्̇सामि वयुनानि विद्वान् । तं त्वा गृणामि तवसम् अतवीयान् क्षयन्तम् अस्य रजसः पराके ॥
किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥
VERSE: 6
अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । शिशीहि नः सूनुमतः ॥
दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजम्̇ श्रुत्या अपा वृधि । प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर् ण शुक्रम् उषसो वि दिद्युतुः ॥
अग्निर् दा द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥
मा
VERSE: 7
नो मर्धीः ।
आ तू भर
घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । तत् ते रुक्मो न रोचत स्वधावः
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषम्̇ स्तोतृभ्य आ भर ॥
वायो शतम्̇ हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
प्र याभिः
VERSE: 8
यासि दाश्वाम्̇सम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । नि नो रयिम्̇ सुभोजसं युवेह नि वीरवद् गव्यम् अश्वियं च राधः ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
रेवाम्̇ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः । प्रेद् उ हरिवः श्रुतस्य ॥
2.3 प्रपाठक: 3 काम्येष्टिविधानम्
2.3.1 अनुवाक 1
काम्या इष्टयः। भूतिकामादीनामादित्यचर्वादीष्टिविधिः।
VERSE: 1
आदित्येभ्यो भुवद्वद्भ्यश् चरुं निर् वपेद् भूतिकामः ।
आदित्या वा एतम् भूत्यै प्रति नुदन्ते यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
आदित्यान् एव भुवद्वतः स्वेन भागधेयेनोप धावति
त एवैनम् भूतिं गमयन्ति
भवत्य् एव ।
आदित्येभ्यो धारयद्वद्भ्यश् चरुं निर् वपेद् अपरुद्धो वाऽपरुध्यमानो वा ।
आदित्या वा अपरोद्धार आदित्या अवगमयितारः ।
आदित्यान् एव धारयद्वतः
VERSE: 2
स्वेन भागधेयेनोप धावति
त एवैनं विशि दाध्रति ।
अनपरुध्यो भवति ।
अदिते ऽनु मन्यस्वेत्य् अपरुध्यमानो ऽस्य पदम् आ ददीत ।
इयं वा अदितिः ।
इयम् एवास्मै राज्यम् अनु मन्यते
सत्याशीर् इत्य् आह
सत्याम् एवाशिषं कुरुते ।
इह मन इत्य् आह
प्रजा एवास्मै समनसः करोति ।
उप प्रेत मरुतः
VERSE: 3
सुदानव एना विश्पतिनाऽभ्य् अमुम्̇ राजानम् इत्य् आह
मारुती वै विड्
ज्येष्ठो विश्पतिः ।
विशैवैनम्̇ राष्ट्रेन सम् अर्धयति
यः परस्ताद् ग्राम्यवादी स्यात् तस्य गृहाद् व्रीहीन् आ हरेत् ।
शुक्लाम्̇श् च कृष्णाम्̇श् च वि चिनुयात् ।
ये शुक्लाः स्युस् तम् आदित्यं चरुं निर् वपेत् ।
आदित्या वै देवतया विड्
विशम् एवाव गच्छति ॥
VERSE: 4
अवगताऽस्य विड् अनवगतम्̇ राष्ट्रम् इत्य् आहुः ।
ये कृष्णाः स्युस् तम् वारुणं चरुं निर् वपेत् ।
वारुणं वै राष्ट्रम्
उभे एव विशं च राष्ट्रं चाव गच्छति
यदि नावगच्छेद् इमम् अहम् आदित्येभ्यो भागं निर् वपाम्य् ऽआमुष्माद् अमुष्यै विशो ऽवगन्तोर् इति निर् वपेत् ।
आदित्या एवैनम् भागधेयम् प्रेप्सन्तो विशम् अव
VERSE: 5
गमयन्ति
यदि नावगच्छेद् आश्वत्थान् मयूखान्त् सप्त मध्यमेषायाम् उप हन्यात् ।
इदम् अहम् आदित्यान् बध्नाम्य् आमुष्माद् अमुष्यै विशो ऽवगन्तोर् इति ।
आदित्या एवैनम् बद्धवीरा विशम् अव गमयन्ति
यदि नावगच्छेद् एतम् एवादित्यं चरुं निर् वपेत् ।
इध्मे ऽपि मयूखान्त् सं नह्येत् ।
अनपरुध्यम् एवाव गच्छति ।
आश्वत्था भवन्ति
मरुतां वा एतद् ओजो यद् अश्वत्थः ।
ओजसैव विशम् अव गच्छति
सप्त भवन्ति
सप्तगणा वै मरुतः ।
गणश एव विशम् अव गच्छति ॥
2.3.2 अनुवाक 2
काम्या इष्टयः। मृत्युभीतादीनां शतकृष्णलादीष्टिविधिः।
VERSE: 1
देवा वै मृत्योर् अबिभयुस्
ते प्रजापतिम् उपाधावन्
तेभ्य एताम् प्राजापत्याम्̇ शतकृष्णलां निर् अवपत्
तयैवैष्व् अमृतम् अदधात् ।
यो मृत्योर् बिभीयात् तस्मा एताम् प्राजापत्याम्̇ शतकृष्णलां निर् वपेत्
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन्न् आयुर् दधाति
सर्वम् आयुर् एति
शतकृष्णला भवति
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एवेन्द्रिये
VERSE: 2
प्रति तिष्ठति
घृते भवति ।
आयुर् वै घृतम्
अमृतम्̇ हिरण्यम्
आयुश् चैवास्मा अमृतं च समीची दधाति
चत्वारिचत्वारि कृष्णलान्य् अव द्यति चतुरवत्तस्याप्त्यै ।
एकधा ब्रह्मण उप हरति ।
एकधैव यजमान आयुर् दधाति ।
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एतम्̇ सौर्यं चरुं निर् अवपन्
तेनैवास्मिन्
VERSE: 3
रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सौर्यं चरुं निर् वपेत् ।
अमुम् एवाऽऽदित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति ।
उभयतो रुक्मौ भवतः ।
उभयत एवास्मिन् रुचं दधाति
प्रयाजेप्रयाजे कृष्णलं जुहोति
दिग्भ्य एवास्मै ब्रह्मवर्चसम् अव रुन्द्धे ।
आग्नेयम् अष्टाकपालं निर् वपेत् सावित्रं द्वादशकपालम् भूम्यै
VERSE: 4
चरुं यः कामयेत
हिरण्यं विन्देय हिरण्यम् मोप नमेद् इति
यद् आग्नेयो भवत्य् आग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद् विन्दते
सावित्रो भवति सवितृप्रसूत एवैनद् विन्दते
भूम्यै चरुर् भवत्य् अस्याम् एवैनद् विन्दते ।
उपैनम्̇ हिरण्यं नमति
वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो हिरण्यं विन्दते ।
एताम्
VERSE: 5
एव निर् वपेद् धिरण्यं वित्त्वा
नेन्द्रियेण वीर्येण व्यृध्यते ।
एताम् एव निर् वपेद् यस्य हिरण्यं नश्येत् ।
यद् आग्नेयो भवत्य् आग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद् विन्दति
सावित्रो भवति सवितृप्रसूत एवैनद् विन्दति
भूम्यै चरुर् भवत्य् अस्यां वा एतन् नश्यति यन् नश्यत्य् अस्याम् एवैनद् विन्दति ।
इन्द्रः
VERSE: 6
त्वष्टुः सोमम् अभीषहापिबत्
स विष्वङ् व्य् आर्छत्
स इन्द्रियेण सोमपीथेन व्य् आर्ध्यत
स यद् ऊर्ध्वम् उदवमीत् ते श्यामाका अभवन् ।
स प्रजापतिम् उपाधावत्
तस्मा एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुम् निर् अवपत् तेनैवास्मिन्न् इन्द्रियम्̇ सोमपीथम् अदधात् ।
वि वा एष इन्द्रियेण सोमपीथेनर्ध्यते यः सोमं वमिति
यः सोमवामी स्यात् तस्मै
VERSE: 7
एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुं निर् वपेत्
सोमं चैवेन्द्रं च स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियम्̇ सोमपीथं धत्तः ।
नेन्द्रियेण सोमपीथेन व्यृध्यते
यत् सौम्यो भवति सोमपीथम् एवाव रुन्द्धे
यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे
श्यामाको भवति ।
एष वाव स सोमः ।
VERSE: 8
साक्षाद् एव सोमपीथम् अव रुन्द्धे ।
अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर् वपेद् इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालम् पशुकामः ।
अग्निर् एवास्मै पशून् प्रजनयति वृद्धान् इन्द्रः प्र यच्छति
दधि मधु घृतम् आपो धाना भवन्ति ।
एतद् वै पशूनाम्̇ रूपम् ।
रूपेणैव पशून् अव रुन्द्धे
पञ्चगृहीतम् भवति
पाङ्क्ता हि पशवः ।
बहुरूपम् भवति
बहुरूपा हि पशवः ।
VERSE: 9
समृद्ध्यै ।
प्राजापत्यम् भवति
प्राजापत्या वै पशवः
प्रजापतिर् एवास्मै पशून् प्र जनयति ।
आत्मा वै पुरुषस्य मधु
यन् मध्व् अग्नौ जुहोत्य् आत्मानम् एव तद् यजमानो ऽग्नौ प्र दधाति
पङ्क्त्यौ याज्यानुवाक्ये भवतः
पाङ्क्तः पुरुषः पाङ्क्ताः पशवः ।
आत्मानम् एव मृत्योर् निष्क्रीय पशून् अव रुन्द्धे ॥
2.3.3 अनुवाक 3
काम्या इष्टयः। यज्ञविभ्रष्टादीनामीष्टिविधिः।
VERSE: 1
देवा वै सत्त्रम् आसत ऋद्धिपरिमितं यशस्कामास्
तेषाम्̇ सोमम्̇ राजानं यश आर्छत्
स गिरिम् उद् ऐत्
तम् अग्निर् अनूद् ऐत्
ताव् अग्नीषोमौ सम् अभवताम् ।
ताव् इन्द्रो यज्ञविभ्रष्टो ऽनु परैत्
ताव् अब्रवीत् ।
याजयतम् मेति
तस्मा एताम् इष्टिं निर् अवपताम्
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम्̇ सौम्यं चरुम् ।
तयैवास्मिन् तेजः
VERSE: 2
इन्द्रियम् ब्रह्मवर्चसम् अधत्त्ताम् ।
यो यज्ञविभ्रष्टः स्यात् तस्मा एताम् इष्टिं निर् वपेत् ।
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम्̇ सौम्यं चरुम् ।
यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति
यद् ऐन्द्रो भवतीन्द्रियम् एवास्मिन् तेन दधाति
यत् सौम्यो ब्रह्मवर्चसं तेन ।
आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेत्
तेजश् चैवास्मिन् ब्रह्मवर्चसं च समीची
VERSE: 3
दधाति ।
अग्नीषोमीयम् एकादशकपालं निर् वपेद् यं कामो नोपनमेत् ।
आग्नेयो वै ब्राह्मणः
स सोमम् पिबति
स्वाम् एव देवताम्̇ स्वेन भागधेयेनोप धावति
सैवैनं कामेन सम् अर्धयति ।
उपैनं कामो नमति ।
अग्नीषोमीयम् अष्टाकपालं निर् वपेद् ब्रह्मवर्चसकामः ।
अग्नीषोमाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन् ब्रह्मवर्चसं धत्तः ।
ब्रह्मवर्चस्य् एव
VERSE: 4
भवति
यद् अष्टाकपालस् तेनाग्नेयश् ।
यच् छ्यामाकस् तेन सौम्यः
समृद्ध्यै
सोमाय वाजिने श्यामाकं चरुं निर् वपेद् यः क्लैब्याद् बिभीयात् ।
रेतो हि वा एतस्माद् वाजिनम् अपक्रामत्य् अथैष क्लैब्याद् बिभाय
सोमम् एव वाजिनम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् रेतो वाजिनं दधाति
न क्लीबो भवति
ब्राह्मणस्पत्यम् एकादशकपालं निर् वपेद् ग्रामकामः
VERSE: 5
ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति
गणवती याज्यानुवाक्ये भवतः
सजातैर् एवैनं गणवन्तं करोति ।
एताम् एव निर् वपेद् यः कामयेत
ब्रह्मन् विशं वि नाशयेयम् इति
मारुती याज्यानुवाक्ये कुर्यात् ।
ब्रह्मन्न् एव विशं वि नाशयति ॥
2.3.4 अनुवाक 4
काम्या इष्टयः। स्वर्गकामादीष्टिविधिः।
VERSE: 1
अर्यम्णे चरुं निर् वपेत् सुवर्गकामः ।
असौ वा आदित्यो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एवैनम्̇ सुवर्गं लोकं गमयति ।
अर्यम्णे चरुं निर् वपेद् यः कामयेत
दानकामा मे प्रजाः स्युर् इति ।
असौ वा आदित्यो ऽर्यमा
यः खलु वै ददाति सो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एव
VERSE: 2
अस्मै दानकामाः प्रजाः करोति
दानकामा अस्मै प्रजा भवन्ति ।
अर्यम्णे चरुं निर् वपेद् यः कामयेत
स्वस्ति जनताम् इयाम् इति ।
असौ वा आदित्यो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एवैनं तद् गमयति यत्र जिगमिषति ।
इन्द्रो वै देवानाम् आनुजावर आसीत्
स प्रजापतिम् उपाधावत्
तस्मा एतम् ऐन्द्रम् आनुषूकम् एकादशकपालं निः
VERSE: 3
अवपत् तेनैवैनम् अग्रं देवतानाम् पर्यणयत् ।
बुध्नवती अग्रवती याज्यानुवाक्ये अकरोद् बुध्नाद् एवैनम् अग्रम् पर्यणयत् ।
यो राजन्य आनुजावरः स्यात् तस्मा एतम् ऐन्द्रम् आनुषूकम् एकादशकपालं निर् वपेत् ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति स एवैनम् अग्रम्̇ समानानाम् परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नाद् एवैनम् अग्रम्
VERSE: 4
परि णयति ।
आनुषूको भवत्य् एषा ह्य् एतस्य देवता य आनुजावरः
समृद्ध्यै
यो ब्राह्मण आनुजावरः स्यात् तस्मा एतम् बार्हस्पत्यम् आनुषूकं चरुं निर् वपेत् ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति स एवैनम् अग्रम्̇ समानानाम् परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नाद् एवैनम् अग्रम् परि णयति ।
आनुषूको भवत्य् एषा ह्य् एतस्य देवता य आनुजावरः
समृद्ध्यै ॥
2.3.5 अनुवाक 5
काम्या इष्टयः। राजयक्ष्मगृहीतस्येष्टिविधिः।
VERSE: 1
प्रजापतेस् त्रयस्त्रिम्̇शद् दुहितर आसन्
ताः सोमाय राज्ञे ऽददात्
तासाम्̇ रोहिणीम् उपैत्
ता ईर्ष्यन्तीः पुनर् अगच्छन्
ता अन्व् ऐत्
ताः पुनर् अयाचत
ता अस्मै न पुनर् अददात्
सो ऽब्रवीत् ।
ऋतम् अमीष्व यथा समावच्छ उपैष्याम्य् अथ ते पुनर् दास्यामीति
स ऋतम् आमीत्
ता अस्मै पुनर् अददात्
तासाम्̇ रोहिणीम् एवोपै
VERSE: 2
त्
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म यत् पापीयान् अभवत् तत् पापयक्ष्मस्य यज् जायाभ्यो ऽविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एता एव नमस्यन्न् उपाधावत्
ता अब्रुवन्
वरं वृणामहै समावच्छ एव न उपाय इति
तस्मा एतम्
VERSE: 3
आदित्यं चरुं निर् अवपन्
तेनैवैनम् पापात् स्रामाद् अमुञ्चन्
यः पापयक्ष्मगृहीतः स्यात् तस्मा एतम् आदित्यं चरुं निर् वपेत् ।
अमुम् एवैनम् आप्यायमानम् अन्व् आ प्याययति
नवोनवो भवति जायमान इति पुरोऽनुवाक्या भवत्य् आयुर् एवास्मिन् तया दधाति
यम् आदित्या अम्̇शुम् आप्याययन्तीति याज्यैवैनम् एतया प्याययति ॥
2.3.6 अनुवाक 6
काम्या इष्टयः। अन्नादनशक्तिकामस्येष्टिविधिः।
VERSE: 1
प्रजापतिर् देवेभ्यो ऽन्नाद्यं व्यादिशत्
सो ऽब्रवीत् ।
यद् इमाँल्लोकान् अभ्य् अतिरिच्यातै ।
तन् ममासद् इति
तद् इमाँल्लोकान् अभ्य् अत्य् अरिच्यतेन्द्रम्̇ राजानम् इन्द्रम् अभिराजम् इन्द्रम्̇ स्वराजानम् ।
ततो वै स इमाँल्लोकाम्̇स् त्रेधाऽदुहत्
तत् त्रिधातोस् त्रिधातुत्वम् ।
यं कामयेत ।
अन्नादः स्याद् इति तस्मा एतं त्रिधातुं निर् वपेद् इन्द्राय राज्ञे पुरोडाशम्
VERSE: 2
एकादशकपालम् इन्द्रायाधिराजायेन्द्राय स्वराज्ञे ।
अयं वा इन्द्रो राजाऽयम् इन्द्रो ऽधिराजो ऽसाव् इन्द्रः स्वराड्
इमान् एव लोकान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
यथा वत्सेन प्रत्तां गां दुह एवं एवेमाँल्लोकान् प्रत्तान् कामम् अन्नाद्यं दुहे ।
उत्तानेषु कपालेष्व् अधि श्रयति ।
अयातयामत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
उत्तरौत्तरो ज्यायान् भवति ।
एवम् इव हीमे लोकाः
समृद्ध्यै
सर्वेषाम् अभिगमयन्न् अव द्यति ।
अच्छम्बट्कारम् ।
व्यत्यासं अन्व् आह ।
अनिर्दाहाय ॥
2.3.7 अनुवाक 7
काम्या इष्टयः। इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः।
VERSE: 1
देवासुराः संयत्ता आसन्
तान् देवान् असुरा अजयन्
ते देवाः पराजिग्याना असुराणां वैश्यम् उपायन्
तेभ्य इन्द्रियं वीर्यम् अपाक्रामत्
तद् इन्द्रो ऽचायत्
तद् अन्व् अपाक्रामत्
तद् अवरुधं नाशक्नोत्
तद् अस्माद् अभ्यर्धो ऽचरत्
स प्रजापतिम् उपाधावत्
तम् एतया सर्वपृष्ठयायाजयत्
तयैवास्मिन्न् इन्द्रियं वीर्यम् अदधात् ।
य इन्द्रियकामः
VERSE: 2
वीर्यकामः स्यात् तम् एतया सर्वपृष्ठया याजयेत् ।
एता एव देवताः स्वेन भागधेयेनोप धावति
ता एवास्मिन्न् इन्द्रियं वीर्यं दधति
यद् इन्द्राय राथंतराय निर्वपति यद् एवाग्नेस् तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय बार्हताय यद् एवेन्द्रस्य तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय वैरूपाय यद् एव सवितुस् तेजस् तत्
VERSE: 3
एवाव रुन्द्धे
यद् इन्द्राय वैराजाय यद् एव धातुस् तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय शाक्वराय यद् एव मरुतां तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय रैवताय यद् एव बृहस्पतेस् तेजस् तद् एवाव रुन्द्धे ।
उत्तानेषु कपालेष्व् अधि श्रयति ।
अयातयामत्वाय
द्वादशकपालः पुरोडाशः
VERSE: 4
भवति
वैश्वदेवत्वाय
समन्तम् पर्यवद्यति
समन्तम् एवेन्द्रियं वीर्यं यजमाने दधाति
व्यत्यासम् अन्व् आह ।
अनिर्दाहाय ।
अश्व ऋषभो वृष्णिर्वस्तः सा दक्षिणा वृषत्वाय।
एतयैव यजेताभिशस्यमानः ।
एताश् चेद् वा अस्य देवता अन्नम् अदन्त्य् अदन्त्य् उवेवास्य मनुष्याः ॥
2.3.8 अनुवाक 8
काम्या इष्टयः। चक्षुष्कामस्येष्टिविधिः।
VERSE: 1
रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्वन्यम् अयात्
तस्मा एताम् इष्टिं निर् अवपत् ।
अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्̇ सौर्यं चरुम् अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम् ।
तयैवास्मिञ् चक्षुर् अदधात् ।
यश् चक्षुकामः स्यात् तस्मा एताम् इष्टिं निर् वपेत् ।
अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्̇ सौर्यं चरुम् अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्
अग्नेर् वै चक्षुषा मनुष्या वि
VERSE: 2
पश्यन्ति सूर्यस्य देवाः ।
अग्निं चैव सूर्यं च स्वेन भागधेयेनोप धावति
ताव् एवास्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति
यद् आग्नेयौ भवतश् चक्षुषी एवास्मिन् तत् प्रति दधाति
यत् सौर्यो नासिकां तेन ।
अभितः सौर्यम् आग्नेयौ भवतस्
तस्माद् अभितो नासिकां चक्षुषी
तस्मान् नासिकया चक्षुषी विधृते
समानी याज्यानुवाक्ये भवतः
0 समानम्̇ हि चक्षुः समृद्ध्यै ।
उद् उ त्यं जातवेदसम् ।
सप्त त्वा हरितो रथे
चित्रं देवानाम् उद् अगाद् अनीकम् इति पिण्डान् प्र यच्छति
चक्षुर् एवास्मै प्र यच्छति
यद् एव तस्य तत् ॥
2.3.9अनुवाक 9
काम्या इष्टयः। सांग्रहणीष्टिविधिः।
VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासं धीरश् चेत्ता वसुविद्
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद्
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद्
आमनम् अस्य् आमनस्य देवा ये सजाताः कुमाराः समनसस् तान् अहं कामये हृदा ते मां कामयन्ताम्̇ हृदा तान् म आमनसः कृधि स्वाहा ।
ऽऽआमनम् असि
VERSE: 2
आमनस्य देवा याः स्त्रियः समनसस् ता अहं कामये हृदा ता मां कामयन्ताम्̇ हृदा ता म आमनसः कृधि स्वाहा
वैश्वदेवीम्̇ सांग्रहणीं निर् वपेद् ग्रामकामः ।
वैश्वदेवा वै सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
सांग्रहणी भवति
मनोग्रहणं वै संग्रहणम्
मन एव सजातानाम्
VERSE: 3
गृह्णाति
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् इति परिधीन् परि दधाति ।
आशिषम् एवैताम् आ शास्ते ।
अथो एतद् एव सर्वम्̇ सजातेष्व् अधि भवति यस्यैवं विदुष एते परिधयः परिधीयन्ते ।
आमनम् अस्य् आमनस्य देवा इति तिस्र आहुतीर् जुहोति ।
एतावन्तो वै सजाता ये महान्तो ये क्षुल्लका याः स्त्रियः
तान् एवाव रुन्द्धे
त एनम् अवरुद्धा उप तिष्ठन्ते ॥
2.3.10 अनुवाक 10
काम्या इष्टयः। आयुष्कामेष्टिमन्त्राः।
VERSE: 1
यन् नवमैत् तन् नवनीतम् अभवद् यद् असर्पत् तत् सर्पिर् अभवद् यद् अध्रियत तद् घृतम् अभवत् ।
अश्विनोः प्राणो ऽसि तस्य ते दत्तां ययोः प्राणो ऽसि स्वाहेन्द्रस्य प्राणो ऽसि तस्य ते ददातु यस्य प्राणो ऽसि स्वाहा मित्रावरुणयोः प्राणो ऽसि तस्य ते दत्तां यस्य प्राणो ऽसि स्वाहा विश्वेषां देवानाम् प्राणो ऽसि ॥
VERSE: 2
तस्य ते ददतु येषाम् प्राणो ऽसि स्वाहा
घृतस्य धाराम् अमृतस्य पन्थाम् इन्द्रेण दत्ताम् प्रयताम् मरुद्भिः । तत् त्वा विष्णुः पर्य् अपश्यत् तत् त्वेडा गव्यैरयत्
पावमानेन त्वा स्तोमेन गायत्रस्य वर्तन्योपाम्̇शोर् वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै बृहद्रथन्तरयोस् त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण देवस् त्वा सवितोत्
VERSE: 3
सृजतु जीवातवे जीवनस्याया अग्नेस् त्वा मात्रया जगत्यै वर्तन्याग्रयणस्य वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै ।
इमम् अग्न आयुषे वर्चसे कृधि प्रियम्̇ रेतो वरुण सोम राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर् यथासत् ॥
अग्निर् आयुष्मान्त् स वनस्पतिभिर् आयुष्मान् तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि सोम आयुष्मान्त् स ओषधीभिर् यज्ञ आयुष्मान्त् स दक्षिणाभिर् ब्रह्माऽऽयुष्मत् तद् ब्राह्मणैर् आयुष्मद् देवा आयुष्मन्तस् ते ऽमृतेन पितर आयुष्मन्तस् ते स्वधयाऽऽयुष्मन्तस् तेन त्वाऽऽयुषायुष्मन्तं करोमि ॥
2.3.11 अनुवाक 11
काम्या इष्टयः। आयुष्कामेष्टिविधिः।
VERSE: 1
अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो वरुण एनं वरुणपाशेन गृह्णाति सरस्वतीं वाग् अग्नाविष्णू आत्मा यस्य ज्योग् आमयति । यो ज्योगामयावी स्याद् यो वा कामयेत
सर्वम् आयुर् इयाम् इति तस्मा एताम् इष्टिं निर् वपेद्
आग्नेयम् अष्टाकपालम्̇ सौम्यं चरुं वारुणं दशकपालम्̇ सारस्वतं चरुम् आग्नावैष्णवम् एकादशकपालम्
अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम् ।
VERSE: 2
वरुणेनैवैनं वरुणपाशान् मुञ्चति सारस्वतेन वाचं दधाति ।
अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन च भिषज्यत्य् उत यदीतासुर् भवति जीवत्य् एव । यन् नवमैत् तन् नवनीतम् अभवद् इत्य् आज्यम् अवेक्षते
रूपम् एवास्यैतन् महिमानं व्याचष्टे ।
अश्विनोः प्राणो ऽसीत्य् आहाश्विनौ वै देवानाम्
VERSE: 3
भिषजौ ताभ्याम् एवास्मै भेषजं करोति ।
इन्द्रस्य प्राणो ऽसीत्य् आह ।
इन्द्रियम् एवास्मिन्न् एतेन दधाति
मित्रावरुणयोः प्राणो ऽसीत्य् आह
प्राणापानाव् एवास्मिन्न् एतेन दधाति
विश्वेषां देवानाम् प्राणो ऽसीत्य् आह वीर्यम् एवास्मिन्न् एतेन दधाति
घृतस्य धाराम् अमृतस्य पन्थाम् इत्य् आह
यथायजुर् एवैतत्
पावमानेन त्वा स्तोमेनेति
VERSE: 4
आह
प्राणम् एवास्मिन्न् एतेन दधाति
बृहद्रथन्तरयोस् त्वा स्तोमेनेत्य् आह ।
ओज एवास्मिन्न् एतेन दधात्य् अग्नेस् त्वा मात्रयेत्य् आहाऽऽत्मानम् एवास्मिन्न् एतेन दधाति ।
ऋत्विजः पर्य् आहुर् यावन्त एवर्त्विजस् त एनम् भिषज्यन्ति
ब्रह्मणो हस्तम् अन्वारभ्य पर्य् आहुर् एकधैव यजमान आयुर् दधति
यद् एव तस्य तत् ।
हिरण्याद्
VERSE: 5
घृतं निष् पिबत्य् आयुर् वै घृतम् अमृतम्̇ हिरण्यम् अमृताद् एवायुर् निष् पिबति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अथो खलु यावतीः समा एष्यन् मन्येत तावन्मानम्̇ स्यात् समृद्ध्यै ।
इमम् अग्न आयुषे वर्चसे कृधीत्य् आहायुर् एवास्मिन् वर्चो दधाति । विश्वे देवा जरदष्टिर् यथासद् इत्य् आह
जरदष्टिम् एवैनं करोति ।
अग्निर् आयुष्मान् इति हस्तं गृह्णाति ।
एते वै देवा आयुष्मन्तस् त एवास्मिन्न् आयुर् दधति सर्वम् आयुर् एति ॥
2.3.12 अनुवाक 12
काम्या इष्टयः। अश्वदानवत इष्टिविधिः।
VERSE: 1
प्रजापतिर् वरुणायाश्वम् अनयत्
स स्वां देवताम् आर्छत्
स पर्य् अदीर्यत
स एतं वारुणं चतुष्कपालम् अपश्यत्
तं निर् अवपत्
ततो वै स वरुणपाशाद् अमुच्यत
वरुणो वा एतं गृह्णाति यो ऽश्वम् प्रतिगृह्णाति
यावतो ऽश्वान् प्रतिगृह्णीयात् तावतो वारुणाञ् चतुष्कपालान् निर् वपेत् ।
वरुणम् एव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान् मुञ्चति ।
VERSE: 2
चतुष्कपाला भवन्ति
चतुष्पाद् ध्य् अश्वः
समृद्ध्यै ।
एकम् अतिरिक्तं निर् वपेद् यम् एव प्रतिग्राही भवति यं वा नाध्येति
तस्माद् एव वरुणपाशान् मुच्यते
यद्य् अपरम् प्रतिग्राही स्यात् सौर्यम् एककपालम् अनु निर् वपेत् ।
अमुम् एवाऽऽदित्यम् उच्चारं कुरुते ।
अपो ऽवभृथम् अवैति ।
अप्सु वै वरुणः
साक्षाद् एव वरुणम् अव यजते ।
1 अपोनप्त्रीयं चरुम् पुनर् एत्य निर् वपेत् ।
2 अप्सुयोनिर् वा अश्वः
3 स्वाम् एवैनं योनिं गमयति
4 स एनम्̇ शान्त उप तिष्ठते ॥
2.3.13अनुवाक 13
काम्या इष्टयः। पाप्मना गृहीतस्येष्टिविधिः।
VERSE: 1
या वाम् इन्द्रावरुणा यतव्या तनूस् तयेमम् अम्̇हसो मुञ्चतम् ।
या वाम् इन्द्रावरुणा सहस्या रक्षस्या तेजस्या तनूस् तयेमम् अम्̇हसो मुञ्चतम् ।
यो वाम् इन्द्रावरुणाव् अग्नौ स्रामस् तं वाम् एतेनाव यजे
यो वाम् इन्द्रावरुणा द्विपात्सु पशुषु चतुष्पात्सु गोष्ठे गृहेष्व् अप्स्व् ओषधीषु वनस्पतिषु स्रामस् तं वाम् एतेनाव यजे ।
इन्द्रो वा एतस्य
VERSE: 2
इन्द्रियेणप क्रामति वरुण एनं वरुणपाशेन गृह्णाति यः पाप्मना गृहीतो भवति
यः पाप्मना गृहीतः स्यात् तस्मा एताम् ऐन्द्रावरुणीम् पयस्यां निर् वपेद् इन्द्र एवास्मिन्न् इन्द्रियं दधाति वरुण एनं वरुणपाशान् मुञ्चति
पयस्या भवति पयो हि वा एतस्माद् अपक्रामत्य् अथैष पाप्मना गृहीतो यत् पयस्या भवति पय एवास्मिन् तया दधाति
पयस्यायाम्
VERSE: 3
पुरोडाशम् अव दधात्य् आत्मन्वन्तम् एवैनं करोत्य् अथो आयतनवन्तम् एव
चतुर्धा व्यूहति दिक्ष्व् एव प्रति तिष्ठति
पुनः समूहति दिग्भ्य एवास्मै भेषजं करोति
समूह्याव द्यति यथाऽऽविद्धं निष्कृन्तति तादृग् एव तत् ।
यो वाम् इन्द्रावरुणाव् अग्नौ स्रामस् तं वाम् एतेनाव यज इत्याह दुरिष्ट्या एवैनम् पाति
यो वाम् इन्द्रावरुणा द्विपात्सु पशुषु स्रामस् तं वाम् एतेनाव यज इत्य् आहैतावतीर् वा आप ओषधयो वनस्पतयः प्रजाः पशव उपजीवनीयास् ता एवास्मै वरुणपाशान् मुञ्चति ॥
2.3.14 अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
स प्रत्नवत् ।
नि काव्या ।
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । न रिष्येत् त्वावतः सखा ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । तेभिर् नो विश्वैः सुमना अहेडन् राजन्त् सोम प्रति हव्या गृभाय ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥
युवम्
VERSE: 2
एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । युवम्̇ सिन्धूम्̇र् अभिशस्तेर् अवद्याद् अग्नी षोमाव् अमुञ्चतं गृभीतान् ॥
अग्नीषोमाव् इमम्̇ सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥
आऽन्यं दिवो मातरिश्वा जभाराऽमथ्नाद् अन्यम् परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥
अग्नीषोमा हविषः प्रस्थितस्य वीतम्
VERSE: 3
हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥
आ प्यायस्व
सं ते ॥
गणानां त्वा गणपतिम्̇ हवामहे कविं कवीनाम् उपमश्रवस्तमम् । ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥
स इज् जनेन स विशा स स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । देवानां यः पितरम् आविवासति ॥
VERSE: 4
श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥
स सुष्टुभा स ऋक्वता गणेन वलम्̇ रुरोज फलिगम्̇ रवेण । बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥
मरुतो यद् ध वो दिवः ।
या वः शर्म ॥
अर्यमाऽऽ याति वृषभस् तुविष्मान् दाता वसूनाम् पुरुहूतो अर्हन् । सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥
ये ते ऽर्यमन् बहवो देवयानाः पन्थानः
VERSE: 5
राजन् दिव आचरन्ति । तेभिर् नो देव महि शर्म यच्छ शं न एधि द्विपदे शं चतुष्पदे ॥
बुध्नाद् अग्रम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृम्̇हितान्य् ऐरत् । रुजद् रोधाम्̇सि कृत्रिमाण्य् एषाम्̇ सोमस्य ता मद इन्द्रश् चकार ॥
बुध्नाद् अग्रेण वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥
VERSE: 6
प्र यो जज्ञे विद्वाम्̇ अस्य बन्धुं विश्वानि देवो जनिमा विवक्ति । ब्रह्म ब्रह्मण उज् जभार मध्यन् नीचाद् उच्चा स्वधयाऽभि प्र तस्थौ ॥
महान् मही अस्तभायद् वि जातो द्याम्̇ सद्म पार्थिवं च रजः । स बुध्नाद् आष्ट जनुषाभ्य् अग्रम् बृहस्पतिर् देवता यस्य सम्राट् ॥
बुध्नाद् यो अग्रम् अभ्यर्त्योजसा बृहस्पतिम् आ विवासन्ति देवाः । भिनद् वलं वि पुरो दर्दरीति कनिक्रदत् सुवर् अपो जिगाय ॥
2.4 प्रपाठक: 4 काम्येष्टिविधानम्
2.4.1अनुवाक 1
काम्या इष्टयः। भ्रातृव्यवत इष्टिविधिः।
VERSE: 1
देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् असुरा रक्षाम्̇सि पिशाचास् ते ऽन्यतस्
तेषां देवानाम् उत यद् अल्पं लोहितम् अकुर्वन् तद् रक्षाम्̇सि रात्रीभिर् असुभ्नन्
तान्त् सुब्धान् मृतान् अभि व्यौच्छत्
ते देवा अविदुः ।
यो वै नो ऽयम् म्रियते रक्षाम्̇सि वा इमं घ्नन्तीति
ते रक्षाम्̇स्य् उपामन्त्रयन्त तान्य् अब्रुवन्
वरं वृणामहै यत्
VERSE: 2
असुराञ् जयाम तन् नः सहासद् इति
ततो वै देवा असुरान् अजयन्
ते ऽसुराञ् जित्वा रक्षाम्̇स्य् अपानुदन्त
तानि रक्षाम्̇सि ।
अनृतम् अकर्तेति समन्तं देवान् पर्य् अविशन्
ते देवा अग्नाव् अनाथन्त
ते ऽग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् अवपन्न् अग्नये विबाधवते ऽग्नये प्रतीकवते
यद् अग्नये प्रवते निरवपन् यान्य् एव पुरस्ताद् रक्षाम्̇सि
VERSE: 3
आसन् तानि तेन प्राणुदन्त
यद् अग्नये विबाधवते यान्य् एवाभितो रक्षाम्̇स्य् आसन् तानि तेन व्यबाधन्त
यद् अग्नये प्रतीकवते यान्य् एव पश्चाद् रक्षाम्̇स्य् आसन् तानि तेनापानुदन्त
ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत ।
अग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये विबाधवते
VERSE: 4
अग्नये प्रतीकवते
यद् अग्नये प्रवते निर्वपति य एवास्माच् छ्रेयान् भ्रातृव्यस् तं तेन प्र णुदते
यद् अग्नये विबाधवते य एवैनेन सदृङ् तं तेन वि बाधते
यद् अग्नये प्रतीकवते य एवास्मात् पापीयान् तं तेनाप नुदते
प्र श्रेयाम्̇सम् भ्रातृव्यं नुदतेति सदृशं क्रामति नैनम् पापीयान् आप्नोति य एवं विद्वान् एतयेष्ट्या यजते ॥
2.4.2 अनुवाक 2
काम्या इष्टयः। विजयार्थेष्टिः
VERSE: 1
देवासुराः संयत्ता आसन्
ते देवा अब्रुवन्
यो नो वीर्यावत्तमस् तम् अनु समारभामहा इति
त इन्द्रम् अब्रुवन्
त्वं वै नो वीर्यावत्तमो ऽसि त्वाम् अनु समारभामहा इति
सो ऽब्रवीत्
तिस्रो म इमास् तनुवो वीर्यावतीस् ताः प्रीणीताथासुरान् अभि भविष्यथेति
ता वै ब्रूहीत्य् अब्रुवन्
इयम् अम्̇हो मुग् इयं विमृधेयम् इन्द्रियावती
VERSE: 2
इत्य् अब्रवीत्
त इन्द्रायाम्̇होमुचे पुरोडाशम् एकादशकपालं निर् अवपन्न् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते
यद् इन्द्रायाम्̇होमुचे निरवपन्न् अम्̇हस एव तेनामुच्यन्त
यद् इन्द्राय वैमृधाय मृध एव तेनापाघ्नत
यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन्न् अदधत
त्रयस्त्रिम्̇शत्कपालम् पुरोडाशं निर् अवपन्
त्रयस्त्रिम्̇शद् वै देवतास् ता इन्द्र आत्मन्न् अनु समारम्भयत भूत्यै ।
VERSE: 3
तां वाव देवा विजितिम् उत्तमाम् असुरैर् व्यजयन्त
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायाम्̇होमुचे पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते ।
अम्̇हसा वा एष गृहीतो यस्माच् छ्रेयान् भ्रातृव्यः ।
यद् इन्द्रायाम्̇होमुचे निर्वपत्य् अम्̇हस एव तेन मुच्यते
मृधा वा एषो ऽभिषण्णो यस्मात् समानेष्व् अन्यः श्रेयान् उत
VERSE: 4
अभ्रातृव्यः ।
यद् इन्द्राय वैमृधाय मृध एव तेनाप हते
यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन् धत्ते
त्रयस्त्रिम्̇शत्कपालम् पुरोडाशं निर् वपति
त्रयस्त्रिम्̇शद् वै देवतास्
ता एव यजमान आत्मन्न् अनु समारम्भयते भूत्यै
सा वा एषा विजितिर् नामेष्टिः ।
य एवं विद्वान् एतयेष्ट्या यजत उत्तमाम् एव विजितिम् भ्रातृव्येण वि जयते ॥
2.4.3 अनुवाक 3
काम्या इष्टयः। संवर्गेष्टिः।
VERSE: 1
देवासुराः संयत्ता आसन्
तेषां गायत्र्य् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून्त् संगृह्यादायापक्रम्यातिष्ठत्
ते ऽमन्यन्त
यतरान् वा इयं उपावर्त्स्यति त इदम् भविष्यन्तीति
तां व्यह्वयन्त विश्वकर्मन्न् इति देवा दाभीत्य् असुराः
सा नान्यतराम्̇श् चनोपावर्तत
ते देवा एतद् यजुर् अपश्यन् ।
ओजो ऽसि सहो ऽसि बलम् असि ।
VERSE: 2
भ्राजो ऽसि देवानां धाम नामासि विश्वम् असि विश्वायुः सर्वम् असि सर्वायुर् अभिभूः ।
इति वाव देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् अवृञ्जत
यद् गायत्र्य् अपक्रम्यातिष्ठत् तस्माद् एतां गायत्रीतीष्टिम् आहुः
सम्वत्सरो वै गायत्री
संवत्सरो वै तद् अपक्रम्यातिष्ठत् ।
यद् एतया देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम्
VERSE: 3
प्रजाम् पशून् अवृञ्जत तस्माद् एताम्̇ संवर्ग इतीष्टिम् आहुः ।
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत ।
अग्नये संवर्गाय पुरोडाशम् अष्टाकपालं निर् वपेत्
तम्̇ शृतम् आसन्नम् एतेन यजुषाभि मृशेत् ।
ओज एव बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् भ्रातृव्यस्य वृङ्क्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
2.4.4 अनुवाक 4
काम्या इष्टयः। गार्मुतश्चरुः।
VERSE: 1
प्रजापतिः प्रजा असृजत
ता अस्मात् सृष्टाः पराचीर् आयन्
ता यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्
ता बृहस्पतिश् चान्ववैताम् ।
सो ऽब्रवीद् बृहस्पतिः ।
अनया त्वा प्र तिष्ठान्य् अथ त्वा प्रजा उपावर्त्स्यन्तीति
तम् प्रातिष्ठत्
ततो वै प्रजापतिम् प्रजा उपावर्तन्त
यः प्रजाकामः स्यात् तस्मा एतम् प्राजापत्यं गार्मुतं चरुं निर् वपेत्
प्रजापतिम्
VERSE: 2
एव स्वेन भागधेयेनोप धावति
स एवास्मै प्रजाम् प्र जनयति
प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयन्
ते यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्
तान् पूषा चान्ववैताम् ।
सो ऽब्रवीत् पूषा ।
अनया मा प्र तिष्ठाथ त्वा पशव उपावर्त्स्यन्तीति
माम् प्र तिष्ठेति सोमो ऽब्रवीन् मम वै
VERSE: 3
अकृष्टपच्यम् इति ।
उभौ वाम् प्र तिष्ठानीत्य् अब्रवीत्
तौ प्रातिष्ठत्
ततो वै प्रजापतिम् पशव उपावर्तन्त
यः पशुकामः स्यात् तस्मा एतम्̇ सोमापौष्णं गार्मुतं चरुं निर् वपेत्
सोमापूषणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै पशून् प्र जनयतः
सोमो वै रेतोधाः
पूषा पशूनाम् प्रजनयिता
सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ॥
2.4.5 अनुवाक 5
काम्या इष्टयः। चित्रायागः।
VERSE: 1
अग्ने गोभिर् न आ गहीन्दो पुष्ट्या जुषस्व नः । इन्द्रो धर्ता गृहेषु नः ॥
सविता यः सहस्रियः स नो गृहेषु रारणत् । आ पूषा एत्व् आ वसु ॥
धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥
त्वष्टा यो वृषभो वृषा स नो गृहेषु रारणत् । सहस्रेणायुतेन च ॥
येन देवा अमृतम्
VERSE: 2
दीर्घम्̇ श्रवो दिव्य् ऐरयन्त । रायस् पोष त्वम् अस्मभ्यं गवां कुल्मिं जीवस आ युवस्व ॥
अग्निर् गृहपतिः सोमो विश्ववनिः सविता सुमेधाः स्वाहा ।
अग्ने गृहपते यस् ते घृत्यो भागस् तेन सह ओज आक्रममाणाय धेहि श्रेष्ठ्यात् पथो मा योषं मूर्धा भूयासम्̇ स्वाहा ॥
2.4.6 अनुवाक 6
काम्या इष्टयः। चित्रायागः
VERSE: 1
चित्रया यजेत पशुकामः ।
इयं वै चित्रा
यद् वा अस्यां विश्वम् भूतम् अधि प्रजायते तेनेयं चित्रा
य एवं विद्वाम्̇श् चित्रया पशुकामो यजते प्र प्रजया पशुभिर् मिथुनैर् जायते
प्रैवाऽऽग्नेयेन वापयति
रेतः सौम्येन दधाति
रेत एव हितं त्वष्टा रूपाणि वि करोति
सारस्वतौ भवत एतद् वै दैव्यम् मिथुनं दैव्यम् एवास्मै
VERSE: 2
मिथुनम् मध्यतो दधाति पुष्ट्यै प्रजननाय
सिनीवाल्यै चरुर् भवति वाग् वै सिनीवाली पुष्टिः खलु वै वाक् पुष्टिम् एव वाचम् उपैति ।
ऐन्द्र उत्तमो भवति तेनैव तन् मिथुनम् ।
सप्तैतानि हवीम्̇षि भवन्ति
सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇सि ।
उभयस्यावरुद्ध्यै ।
अथैता आहुतीर् जुहोति ।
एते वै देवाः पुष्टिपतयस्
त एवास्मिन् पुष्टिं दधति
पुष्यति प्रजया पशुभिः ।
त एवास्मिन् पुष्टिं दधति
पुष्यति प्रजया पशुभिः ।
अथो यद् एता आहुतीर् जुहोति प्रतिष्ठित्यै ॥
2.4.7 अनुवाक 7
काम्या इष्टयः। कारीरीष्टिः।
VERSE: 1
मारुतम् असि मरुताम् ओजो ऽपां धाराम् भिन्द्धि
रमयत मरुतः श्येनम् आयिनम् मनोजवसं वृषणम्̇ सुवृक्तिम् । येन शर्ध उग्रम् अवसृष्टम् एति तद् अश्विना परि धत्तम्̇ स्वस्ति ।
पुरोवातो वर्षञ् जिन्वरावृत् स्वाहा वातावद् वर्षन्न् उग्ररावृत् स्वाहा स्तनयन् वर्षन् भीमरावृत् स्वाहानशन्य् अवस्फूर्जन् दिद्युद् वर्षन् त्वेषरावृत् स्वाहातिरात्रं वर्षन् पूर्तिरावृत्
VERSE: 2
स्वाहा बहु हायम् अवृषाद् इति श्रुतरावृत् स्वाहाऽऽतपति वर्षन् विराड् आवृत् स्वाहावस्फूर्जन् दिद्युद् वर्षन् भूतरावृत् स्वाहा
मान्दा वाशाः शुन्ध्यूर् अजिराः । ज्योतिष्मतीस् तमस्वरीर् उन्दतीः सुफेनाः । मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह मावत
वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामि ॥
2.4.8 अनुवाक 8
काम्या इष्टयः। कारीर्यां अवशिष्टमन्त्राः
VERSE: 1
देवा वसव्या अग्ने सोम सूर्य । देवाः शर्मण्या मित्रावरुणाऽर्यमन् । देवाः सपीतयो ऽपां नपाद् आशुहेमन् । उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याऽवत॥
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद् व्युन्दन्ति ॥
आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । वि पर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति
VERSE: 2
वृष्टयः ॥
उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥
सृजा वृष्टिं दिव आऽद्भिः समुद्रम् पृण । अब्जा असि प्रथमजा बलम् असि समुद्रियम् ॥
उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥
ये देवा दिविभागा ये ऽन्तरिक्षभागा ये पृथिविभागाः । त इमं यज्ञम् अवन्तु त इदं क्षेत्रम् आ विशन्तु त इदं क्षेत्रम् अनु वि विशन्तु ॥
2.4.9 अनुवाक 9
काम्या इष्टयः। सप्तमानुवाकोक्त मन्त्राणां व्याख्यानम्
VERSE: 1
मारुतम् असि मरुताम् ओज इति कृष्णं वासः कृष्णतूषम् परि धत्ते ।
एतद् वै वृष्ट्यै रूपम् ।
सरूप एव भूत्वा पर्जन्यं वर्षयति
रमयत मरुतः श्येनमायिनम् इति पश्चाद्वातम् प्रति मीवति पुरोवातम् एव जनयति वर्षस्यावरुद्ध्यै
वातनामानि जुहोति
वायुर् वै वृष्ट्या ईशे
वायुम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पर्जन्यं वर्षयति ।
अष्टौ
VERSE: 2
जुहोति
चतस्रो वै दिशश् चतस्रो ऽवान्तरदिशाः ।
दिग्भ्य एव वृष्टिम्̇ सम् प्र च्यावयति
कृष्णाजिने सं यौति
हविर् एवाकर्
अन्तर्वेदि सं यौति ।
अवरुद्ध्यै
यतीनाम् अद्यमानानाम्̇ शीर्षाणि परापतन्
ते खर्ज्ū́रा अभवन्
तेषाम्̇ रस ऊर्ध्वो ऽपतत्
तानि करीराण्य् अभवन् ।
सौम्यानि वै करीराणि
सौम्या खलु वा आहुतिर् दिवो वृष्टिं च्यावयति
यत् करीराणि भवन्ति ।
VERSE: 3
सौम्ययैवाहुत्या दिवो वृष्टिम् अव रुन्द्धे
मधुषा सं यौति ।
अपां वा एष ओषधीनाम्̇ रसो यन् मधु ।
अद्भ्य एवौषधीभ्यो वर्षति ।
अथो अद्भ्य एवौषधीभ्यो वृष्टिं नि नयति
मान्दा वाशा इति सं यौति
नामधेयैर् एवैना अच्छैति ।
अथो यथा ब्रूयात् ।
असाव् एहीत्य् एवम् एवैना नामधेयैर् आ
VERSE: 4
च्यावयति
वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामीत्य् आह
वृषा वा अश्वः ।
वृषा पर्जन्यः
कृष्ण इव खलु वै भूत्वा वर्षति
रूपेणैवैनम्̇ सम् अर्धयति
वर्षस्यावरुद्ध्यै ॥
2.4.10अनुवाक 10
काम्या इष्टयः। कारीर्यां उत्तरभागस्थ मन्त्राणां व्याख्यानम्
VERSE: 1
देवा वसव्याः ।
देवा शर्मण्याः ।
देवाः सपीतय इत्य् आ बध्नाति देवताभिर् एवान्वहं वृष्टिम् इच्छति
यदि वर्षेत् तावत्य् एव होतव्यम् ।
यदि न वर्षेच् छ्वो भूते हविर् निर् वपेत् ।
अहोरात्रे वै मित्रावरुणौ ।
अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति
नक्तं वा हि दिवा वा वर्षति
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै
VERSE: 2
अहोरात्राभ्याम् पर्जन्यं वर्षयतः ।
अग्नये धामच्छदे पुरोडाशम् अष्टाकपालं निर् वपेन् मारुतम्̇ सप्तकपालम्̇ सौर्यम् एककपालम्
अग्निर् वा इतो वृष्टिम् उद् ईरयति
मरुतः सृष्टां नयन्ति
यदा खलु वा असाव् आदित्यो न्यङ् रश्मिभिः पर्यावर्तते ऽथ वर्षति धामच्छद् इव खलु वै भूत्वा वर्षति ।
एता वै देवता वृष्ट्या ईशते ता एव स्वेन भागधेयेनोप धावति
ताः
VERSE: 3
एवास्मै पर्जन्यं वर्षयन्ति ।
उतावर्षिष्यन् वर्षत्य् एव
सृजा वृष्टिं दिव आद्भिः समुद्रम् पृणेत्य् आह ।
इमाश् चैवामूश् चापः सम् अर्धयति ।
अथो आभिर् एवामूर् अच्छैति ।
अब्जा असि प्रथमजा बलम् असि समुद्रियम् इत्य् आह
यथायजुर् एवैतत् ।
उन् नम्भय पृथिवीम् इति वर्षाह्वां जुहोति ।
एषा वा ओषधीनां वृष्टिवनिस्
तयैव वृष्टिम् आ च्यावयति
ये देवा दिविभागा इति कृष्णाजिनम् अव धूनोति ।
इम एवास्मै लोकाः प्रीता अभीष्टा भवन्ति ॥
2.4.11 अनुवाक 11
काम्या इष्टयः। त्रैधातवीयेष्टिः।
VERSE: 1
सर्वाणि छन्दाम्̇स्य् एतस्याम् इष्ट्याम् अनूच्यानीत्य् आहुस्
त्रिष्टुभो वा एतद् वीर्यं यत् ककुद् उष्णिहा जगत्यै
यद् उष्णिहककुभाव् अन्वाह तेनैव सर्वाणि छन्दाम्̇स्य् अव रुन्द्धे
गायत्री वा एषा यद् उष्णिहा
यानि चत्वार्य् अध्य् अक्षराणि चतुष्पाद एव ते पशवः ।
यथा पुरोडाशे पुरोडाशो ऽध्य् एवम् एव तद् यद् ऋच्य् अध्य् अक्षराणि
यज् जगत्या
VERSE: 2
परिदध्याद् अन्तं यज्ञं गमयेत्
त्रिष्टुभा परि दधाति ।
इन्द्रियं वै वीर्यं त्रिष्टुग्
इन्द्रिय एव वीर्ये यज्ञम् प्रति ष्ठापयति नान्तं गमयति ।
अग्ने त्री ते वाजिना त्री षधस्थेति त्रिवत्या परि दधाति
सरूपत्वाय
सर्वो वा एष यज्ञो यत् त्रैधातवीयम् ।
कामायकामाय प्र युज्यते
सर्वेभ्यो हि कामेभ्यो यज्ञः प्रयुज्यते
त्रैधातवीयेन यजेताभिचरन् ।
सर्वो वै
VERSE: 3
एष यज्ञो यत् त्रैधातवीयम् ।
सर्वेणैवैनं यज्ञेनाभि चरति
स्तृणुत एवैनम्
एतयैव यजेताभिचर्यमाणः
सर्वो वा एष यज्ञो यत् त्रैधातवीयम् ।
सर्वेणैव यज्ञेन यजते
नैनम् अभिचरन्त् स्तृणुते ।
एतयैव यजेत सहस्रेण यक्ष्यमाणः
प्रजातम् एवैनद् ददाति ।
एतयैव यजेत सहस्रेणेजानः ।
अन्तं वा एष पशूनां गच्छति
VERSE: 4
यः सहस्रेण यजते
प्रजापतिः खलु वै पशून् असृजत
ताम्̇स् त्रैधातवीयेनैवासृजत
य एवं विद्वाम्̇स् त्रैधातवीयेन पशुकामो यजते यस्माद् एव योनेः प्रजापतिः पशून् असृजत तस्माद् एवैनान्त् सृजत उपैनम् उत्तरम्̇ सहस्रं नमति
देवताभ्यो वा एष आ वृश्च्यते यो यक्ष्य इत्य् उक्त्वा न यजते
त्रैधातवीयेन यजेत
सर्वो वा एष यज्ञः
VERSE: 5
यत् त्रैधातवीयम् ।
सर्वेणैव यज्ञेन यजते
न देवताभ्य आ वृश्च्यते
द्वादशकपालः पुरोडाशो भवति
ते त्रयश् चतुष्कपालास्
त्रिष्षमृद्धत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
उत्तरौत्तरो ज्यायान् भवति ।
एवम् इव हीमे लोकाः ।
यवमयो मध्यः ।
एतद् वा अन्तरिक्षस्य रूपम् ।
समृद्ध्यै
सर्वेषाम् अभिगमयन्न् अव द्यति ।
अच्छम्बट्कारम् ।
हिरण्यं ददाति
तेज एव
VERSE: 6
अव रुन्द्धे
तार्प्यं ददाति
पशून् एवाव रुन्द्धे
धेनुं ददाति ।
आशिष एवाव रुन्द्धे
साम्नो वा एष वर्णो यद् धिरण्यम् ।
यजुषां तार्प्यम्
उक्थामदानां धेनुः ।
एतान् एव सर्वान् वर्णान् अव रुन्द्धे ॥
2.4.12 अनुवाक 12
काम्या इष्टयः। त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोर्विधिः।
VERSE: 1
त्वष्टा हतपुत्रो वीन्द्रम्̇ सोमम् आऽऽहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाऽऽहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
स यावद् ऊर्ध्वः पराविध्यति तावति स्वयम् एव व्यरमत
यदि वा तावत् प्रवणम्
VERSE: 2
आसीत् यदि वा तावद् अध्य् अग्नेर् आसीत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत् ।
अपि त्वष्टा
तस्मै त्वष्टा वज्रम् असिञ्चत्
तपो वै स वज्र आसीत्
तम् उद्यन्तुं नाशक्नोत् ।
अथ वै तर्हि विष्णुः
VERSE: 3
अन्या देवतासीत्
सो ऽब्रवीत् ।
विष्णव् एहीदम् आ हरिष्यावो येनायम् इदम् इति
स विष्णुस् त्रेधात्मानं वि न्य् अधत्त पृथिव्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयम्
अभिपर्यावर्ताद् ध्य् अबिभेत् ।
यत् पृथिव्यां तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् अस्ति वा इदम्
VERSE: 4
मयि वीर्यं तत् ते प्र दास्यामीति
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात् ।
अधा मेति तद् विष्णवेति प्रायच्छत्
तद् विष्णुः प्रत्य् अगृह्णात् ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यद् अन्तरिक्षे तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् अस्ति वा इदम्
VERSE: 5
मयि वीर्यं तत् ते प्र दास्यामीति
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात् ।
द्विर् माऽधा इति तद् विष्णवेति प्रायच्छत्
तद् विष्णुः प्रत्य् अगृह्णात् ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यद् दिवि तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् येनाहम्
VERSE: 6
इदम् अस्मि तत् ते प्र दास्यामीति
त्वी3 इत्य् अब्रवीत्
संधां तु सं दधावहै त्वाम् एव प्र विशानीति
यन् माम् प्रविशेः किम् मा भुञ्ज्या इत्य् अब्रवीत्
त्वाम् एवेन्धीय तव भोगाय त्वाम् प्र विशेयम् इत्य् अब्रवीत्
तम् वृत्रः प्राविशत् ।
उदरं वै वृत्रः
क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः ।
य
VERSE: 7
एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ।
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात्
त्रिर् माऽधा इति तद् विष्णवेति प्रा यच्छत्
तद् विष्णुः प्रत्य् अगृह्णाद् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यत् त्रिः प्रायच्छत् त्रिः प्रत्यगृह्णात् तत् त्रिधातोस् त्रिधातुत्वम् ।
यद् विष्णुर् अन्वतिष्ठत विष्णवेति प्रायच्छत् तस्माद् ऐन्द्रावैष्णवम्̇ हविर् भवति
यद् वा इदं किं च तद् अस्मै तत् प्रायच्छद् ऋचः सामानि यजूम्̇षि
सहस्रं वा अस्मै तत् प्रायच्छत्
तस्मात् सहस्रदक्षिणम् ॥
2.4.13 अनुवाक 13
काम्या इष्टयः। ऐन्द्राबार्हस्पत्यचरुविधिः।
VERSE: 1
देवा वै राजन्याज् जायमानाद् अबिभयुस्
तम् अन्तर् एव सन्तं दाम्नापौम्भन् ।
स वा एषो ऽपोब्धो जायते यद् राजन्यः ।
यद् वा एषो ऽनपोब्धो जायेत वृत्रान् घ्नम्̇श् चरेत् ।
यं कामयेत राजन्यम्
अनपोब्धो जायेत वृत्रान् घ्नम्̇श् चरेद् इति तस्मा एतम् ऐन्द्राबार्हस्पत्यं चरुं निर् वपेत् ।
ऐन्द्रो वै राजन्यो ब्रह्म बृहस्पतिः ।
ब्रह्मणैवैनं दाम्नो ऽपोम्भनान् मुञ्चति
हिरण्मयं दाम दक्षिणा
साक्षाद् एवैनं दाम्नो ऽपोम्भनान् मुञ्चति ॥
2.4.14 अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रे । भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरति दीर्घम् आयुः ॥
यम् आदित्या अम्̇शुम् आप्याययन्ति यम् अक्षितम् अक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः ॥
प्राच्यां दिशि त्वम् इन्द्रासि राजोतोदीच्यां वृत्रहन् वृत्रहासि । यत्र यन्ति स्रोत्यास् तत्
VERSE: 2
जितं ते दक्षिणतो वृषभ एधि हव्यः ।
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयाति । विश्वा हि भूयाः पृतना अभिष्टीर् उपसद्यो नमस्यो यथासत् ॥
अस्येद् एव प्र रिरिचे महित्वं दिवः पृथिव्याः पर्य् अन्तरिक्षात् । स्वराड् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ।
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम्
VERSE: 3
अस्य जगतः सुवर्दृशम् ईशानम् इन्द्र तस्थुषः ॥
त्वाम् इद् धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
यद् द्याव इन्द्र ते शतम्̇ शतम् भूमीर् उत स्युः । न त्वा वज्रिन्त् सहस्रम्̇ सूर्या अनु न जातम् अष्ट रोदसी ॥
पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
VERSE: 4
सोतुर् बाहुभ्याम्̇ सुयतो नार्वा ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
उद् अग्ने शुचयस् तव ।
वि ज्योतिषा ।
उद् उ त्यं जातवेदसम् ।
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम्̇ सूर्य आत्मा जगतस् तस्थुषः
VERSE: 5
च ॥
विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । जुषन्तां युज्यम् पयः ॥
विश्वे देवाः शृणुतेमम्̇ हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
2.5 प्रपाठक: 5 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.5.1 अनुवाक 1 इष्टिविधानम्। अग्नीषोमीयहविर्विध्युपोद्घातः
VERSE: 1
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् ।
तस्य त्रीणि शीर्षाण्य् आसन्त् सोमपानम्̇ सुरापानम् अन्नादनम् ।
स प्रत्यक्षं देवेभ्यो भागम् अवदत् परोऽक्षम् असुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्
तस्माद् इन्द्रो ऽबिभेद्
ईदृङ् वै राष्ट्रं वि पर्यावर्तयतीति
तस्य वज्रम् आदाय शीर्षाण्य् अच्छिनद् यत् सोमपानम्
VERSE: 2
आसीत् स कपिञ्जलो ऽभवत् यत् सुरापानम्̇ स कलविङ्को यद् अन्नादनम्̇ स तित्तिरिः । तस्याञ्जलिना ब्रह्महत्याम् उपागृह्णात् ताम्̇ संवत्सरं अबिभस् तम् भूतान्य् अभ्य् अक्रोशन्
ब्रह्महन्न् इति । स पृथिवीम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृहाणेति
साब्रवीद्
वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा भूवम् इति
पुरा ते
VERSE: 3
संवत्सराद् अपि रोहाद् इत्य् अब्रवीत् तस्मात् पुरा संवत्सरात् पृथिव्यै खातम् अपि रोहति वारेवृतम्̇ ह्य् अस्यै
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णात् तत् स्वकृतम् इरिणम् अभवत् तस्माद् आहिताग्निः श्रद्धादेवः स्वकृत इरिणे नाव स्येद् ब्रह्महत्यायै ह्य् एष वर्णः । स वनस्पतीन् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ते ऽब्रुवन्
वरं वृणामहै वृक्णात्
VERSE: 4
पराभविष्यन्तो मन्यामहे ततो मा परा भूमेति ।
आव्रश्चनाद् वो भूयाम्̇स उत् तिष्ठान् इत्य् अब्रवीत् तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाम्̇स उत् तिष्ठन्ति वारेवृतम्̇ ह्य् एषाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् स निर्यासो ऽभवत् तस्मान् निर्यासस्य नाश्यम् ब्रह्महत्यायै ह्य् एष वर्णो ऽथो खलु य एव लोहितो यो वाऽऽव्रश्चनान् निर्येषति तस्य नाऽऽश्यम्
VERSE: 5
कामम् अन्यस्य । स स्त्रीषम्̇सादम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ता अब्रुवन्
वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनितोः सम् भवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः सम् भवन्ति वारेवृतम्̇ ह्य् आसाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न सं वदेत
VERSE: 6
न सहाऽऽसीत नास्या अन्नम् अद्याद् ब्रह्महत्यायै ह्य् एषा वर्णम् प्रतिमुच्याऽऽस्ते ।
अथो खल्व् आहुर्
अभ्यञ्जनं वाव स्त्रिया अन्नम् अभ्यञ्जनम् एव न प्रतिगृह्यं कामम् अन्यद् इति । याम् मलवद्वाससम्̇ सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो याम् पराचीं तस्यै ह्रीतमुख्य् अपगल्भो या स्नाति तस्या अप्सु मारुको या
VERSE: 7
अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुम्̇ सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस्
तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय ॥
2.5.2 अनुवाक 2
अग्नीषोमीय पुरोडाशः
VERSE: 1
त्वष्टा हतपुत्रो वीन्द्रम्̇ सोमम् आहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम् ।
यद् अब्रवीत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति तस्माद् अस्य ॥
VERSE: 2
इन्द्रः शत्रुर् अभवत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रमिषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत्
स प्रजापतिम् उपाधावत् ।
शत्रुर् मे ऽजनीति
तस्मै वज्रम्̇ सिक्त्वा प्रायच्छत् ।
एतेन जहीति तेनाभ्य् आयत
ताव् अब्रूताम् अग्नीषोमौ
मा
VERSE: 3
प्र हार् आवम् अन्तः स्व इति
मम वै युवम्̇ स्थ इत्य् अब्रवीन् माम् अभ्य् एतम् इति
तौ भागधेयम् ऐच्छेताम् ।
ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालम् पूर्णमासे प्रायच्छत्
ताव् अब्रूताम्
अभि संदष्टौ वै स्वो न शक्नुव ऐतुम् इति
स इन्द्र आत्मनः शीतरूराव् अजनयत्
तच् छीतरूरयोर् जन्म
य एवम्̇ शीतरूरयोर् जन्म वेद
VERSE: 4
नैनम्̇ शीतरूरु हतस्
ताभ्याम् एनम् अभ्य् अनयत्
तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम्
प्राणापानौ वा एनं तद् अजहिताम्
प्राणो वै दक्षो ऽपानः क्रतुस्
तस्माज् जञ्जभ्यमानो ब्रूयात् ।
मयि दक्षक्रतू इति
प्राणापानाव् एवात्मन् धत्ते
सर्वम् आयुर् एति
स देवता वृत्रान् निर्हूय वार्त्रघ्नम्̇ हविः पूर्णमासे निर् अवपत् ।
घ्नन्ति वा एनम् पूर्णमास आ
VERSE: 5
अमावास्यायाम् प्याययन्ति
तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् ।
तत् सम्̇स्थाप्य वार्त्रघ्नम्̇ हविर् वज्रम् आदाय पुनर् अभ्य् आयत
ते अब्रूतां द्यावापृथिवी
मा प्र हार् आवयोर् वै श्रित इति
ते अब्रूताम् ।
वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् ।
तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् ।
य एवं द्यावापृथिव्योः
VERSE: 6
वरं वेदैनं वरो गच्छति
स आभ्याम् एव प्रसूत इन्द्रो वृत्रम् अहन्
ते देवा वृत्रम्̇ हत्वाऽग्नीषोमाव् अब्रुवन्
हव्यं नो वहतम् इति
ताव् अब्रूताम्
अपतेजसौ वै त्यौ वृत्रे वै त्ययोस् तेज इति
ते ऽब्रुवन्
क इदम् अच्छैतीति
गौर् इत्य् अब्रुवन् गौर् वाव सर्वस्य मित्रम् इति
साब्रवीत् ।
VERSE: 7
वरं वृणै मय्य् एव सतो ऽभयेन भुनजाध्वा इति
तद् गौर् आहरत्
तस्माद् गवि सतो ऽभयेन भुञ्जते ।
एतद् वा अग्नेस् तेजो यद् घृतम्
एतत् सोमस्य यत् पयः ।
य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति
ब्रह्मवादिनो वदन्ति
किंदेवत्यम् पौर्णमासम् इति
प्राजापत्यम् इति ब्रूयात्
तेनेन्द्रं ज्येष्ठम् पुत्रं निरवासाययद् इति
तस्माज् ज्येष्ठम् पुत्रं धनेन निरवसाययन्ति ॥
2.5.3 अनुवाक 3
पौर्णमास्यां वैमृध पुरोडाशः, अमावास्यायां सांनाय्यादियागः
VERSE: 1
इन्द्रं वृत्रं जघनिवाम्̇सम् मृधो ऽभि प्रावेपन्त स एतं वैमृधम् पूणमासे ऽनुनिर्वाप्यम् अपश्यत् तं निर् अवपत् तेन वै स मृधो ऽपाहत यद् वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति मृध एव तेन यजमानो ऽप हते ।
इन्द्रो वृत्रम्̇ हत्वा देवताभिश् चेन्द्रियेण च व्य् आर्ध्यत स एतम् आग्नेयम् अष्टाकपालम् अमावास्यायाम् अपश्यद् ऐन्द्रं दधि ॥
VERSE: 2
तं निर् अवपत् तेन वै स देवताश् चेन्द्रियं चावारुन्द्ध
यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाम् भवत्य् ऐन्द्रं दधि देवताश् चैव तेनेन्द्रियं च यजमानो ऽव रुन्द्धे ।
इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् पृथिवीम् अनु व्य् आर्छत् तद् ओषधयो वीरुधो ऽभवन्
स प्रजापतिम् उपाधावद्
वृत्रम् मे जघ्नुष इन्द्रियं वीर्यम्
VERSE: 3
पृथिवीम् अनु व्य् आरत् तद् ओषधयो वीरुधो ऽभूवन् इति
तत् पशव ओषधीभ्यो ऽध्य् आत्मन्त् सम् अनयन् तत् प्रत्य् अदुहन् यत् समनयन् तत् सांनाय्यस्य सांनाय्यत्वं यत् प्रत्यदुहन् तत् प्रतिधुषः प्रतिधुक्त्वम् ।
सम् अनैषुः प्रत्य् अधुक्षन् न तु मयि श्रयत इत्य् अब्रवीद् एतद् अस्मै
VERSE: 4
शृतं कुरुतेत्य् अब्रवीत् तद् अस्मै शृतम् अकुर्वन्न् इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् ।
सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम्
ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयम् ।
VERSE: 5
दधि हि पूर्वं क्रियत इत्य् अनादृत्य तच् छृतस्यैव पूर्वस्याव द्येद् इन्द्रियम् एवास्मिन् वीर्यम्̇ श्रित्वा दध्नोपरिष्टाद् धिनोति यथापूर्वम् उपैति
यत् पूतीकैर् वा पर्णवल्कैर् वातञ्च्यात् सौम्यं तद् यत् क्वलै राक्षसं तद् यत् तण्डुलैर् वैश्वदेवं तद् यद् आतञ्चनेन मानुषं तद् यद् दध्ना तत् सेन्द्रं दध्ना ऽऽतनक्ति
VERSE: 6
सेन्द्रत्वाय ।
अग्निहोत्रोच्छेषणम् अभ्यातनक्ति यज्ञस्य संतत्यै ।
इन्द्रो वृत्रम्̇ हत्वा पराम् परावतम् अगच्छद् अपाराधम् इति मन्यमानस् तं देवताः प्रैषम् ऐच्छन्त् सो ऽब्रवीत् प्रजापतिर् यः प्रथमो ऽनुविन्दति तस्य प्रथमम् भागधेयम् इति तम् पितरो ऽन्व् अविन्दन् तस्मात् पितृभ्यः पूर्वेद्युः क्रियते
सो ऽमावास्याम् प्रत्य् आगच्छत् तं देवा अभि सम् अगच्छन्तामा वै नः
VERSE: 7
अद्य वसु वसतीतीन्द्रो हि देवानां वसु तद् अमावास्याया अमावास्यत्वम्
ब्रह्मवादिनो वदन्ति किंदेवत्यम्̇ सांनाय्यम् इति वैश्वदेवम् इति ब्रूयाद् विश्वे हि तद् देवा भागधेयम् अभि समगच्छन्तेत्य् अथो खल्व् ऐन्द्रम् इत्य् एव ब्रूयाद् इन्द्रं वाव ते तद् भिषज्यन्तो ऽभि सम् अगच्छन्तेति ॥
2.5.4 अनुवाक 4
भ्रातृव्यवतः पशुकामस्य च पौर्णमास्याम् अनुनिर्वाप्यौ। आग्नावैष्णवादियागविधिः।
VERSE: 1
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति
वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति तेन पूर्णमासः सेन्द्र ऐन्द्रं दध्य् अमावास्यायां तेनामावास्या सेन्द्रा य एवं विद्वान् दर्शपूर्णमासौ यजते सेन्द्राव् एवैनौ यजते श्वःश्वो ऽस्मा ईजानाय वसीयो भवति
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एताम्
VERSE: 2
इष्टिम् अपश्यन् ।
आग्नावैष्णवम् एकादशकपालम्̇ सरस्वत्यै चरुम्̇ सरस्वते चरुं ताम् पौर्णमासम्̇ सम्̇स्थाप्यानु निर् अवपन् ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स पौर्णमासम्̇ सम्̇स्थाप्यैताम् इष्टिम् अनु निर् वपेत् पौर्णमासेनैव वज्रम् भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश् च यज्ञं च भ्रातृव्यस्य वृङ्क्ते
मिथुनान् पशून्त् सारस्वताभ्यां यावद् एवास्यास्ति तत्
VERSE: 3
सर्वं वृङ्क्ते
पौर्णमासीम् एव यजेत भ्रातृव्यवान् नामावास्याम्̇ हत्वा भ्रातृव्यं नाऽऽ प्याययति
साकम्प्रस्थायीयेन यजेत पशुकामः ।
यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्य् आत्मना ददात्य् अन्यस्मै महता पूर्णम्̇ होतव्यम् ।
तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति
दारुपात्रेण जुहोति
न हि मृन्मयम् आहुतिं आनशे ।
औदुम्बरम्
VERSE: 4
भवत्य् ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे
नागतश्रीर् महेन्द्रं यजेत
त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यस् तेषाम् महेन्द्रो देवता यो वै स्वां देवतां अतियजते प्र स्वायै देवतायै च्यवते न पराम् प्राप्नोति पापीयान् भवति
संवत्सरम् इन्द्रं यजेत संवत्सरम्̇ हि व्रतं नाति स्वा ॥
VERSE: 5
एवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान् भवति
संवत्सरस्य परस्ताद् अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेत्
संवत्सरम् एवैनं वृत्रं जघ्निवाम्̇सम् अग्निर् व्रतपतिर् व्रतम् आ लम्भयति
ततो ऽधि कामं यजेत ॥
2.5.5 अनुवाक 5 अभ्युदयेष्टिः, दाक्षायणयज्ञः
VERSE: 1
नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी
यद् असोमयाजी संनयेत् परिमोष एव सो ऽनृतं करोति ।
अथो परैव सिच्यते
सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते
वि वा एतम् प्रजया पशुभिर् अर्धयति वर्धयत्य् अस्य भ्रातृव्यं यस्य हविर् निरुप्तम् पुरस्ताच् चन्द्रमाः ॥
VERSE: 2
अभ्य् उदेति
त्रेधा तण्डुलान् वि भजेद्
ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद्
ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधम्̇श् चरुम् ।
ये ऽणिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम्
अग्निर् एवास्मैप्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति
यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति
न द्वे
VERSE: 3
यजेत
यत् पूर्वया सम्प्रति यजेतोत्तरया छम्बट् कुर्याद्
यद् उत्तरया सम्प्रति यजेत पूर्वया छम्बट् कुर्यान् नेष्टिर् भवति न यज्ञस् तद् अनु ह्रीत मुख्यपगल्भो जायते ।
एकाम् एव यजेत प्रगल्भो ऽस्य जायते ।
अनादृत्य तद् द्वे एव यजेत
यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया देवता एव पूर्वयावरुन्द्ध इन्द्रियम् उत्तरया देवलोकम् एव
VERSE: 4
पूर्वयाभिजयति मनुष्यलोकम् उत्तरया
भूयसो यज्ञक्रतून् उपैति ।
एषा वै सुमना नामेष्टिर् यम् अद्येजानम् पश्चाच् चन्द्रमा अभ्य् उदेत्य् अस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति
दाक्षायणयज्ञेन सुवर्गकामो यजेत
पूर्णमासे सं नयेन् मैत्रावरुण्यामिक्षयामावास्यायां यजेत
पूर्णमासे वै देवानाम्̇ सुतस् तेषाम् एतम् अर्धमासम् प्रसुतस्
तेषाम् मैत्रावरुणी वशाऽमावास्यायाम् अनूबन्ध्या यत्
VERSE: 5
पूर्वेद्युर् यजते वेदिम् एव तत् करोति
यद् वत्सान् अपाकरोति सदोहविर्धाने एव सम् मिनोति
यद् यजते देवैर् एव सुत्याम्̇ सम् पादयति स एतम् अर्धमासम्̇ सधमादं देवैः सोमम् पिबति
यन् मैत्रावरुण्यामिक्षयामावास्यायां यजते यैवासौ देवानां वशानूबन्ध्या सो एवैषैतस्य
साक्षाद् वा एष देवान् अभ्यारोहति य एषां यज्ञम्
VERSE: 6
अभ्यारोहति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर् ह्य् एष यज्ञस् ताजक् पुण्यो वा भवति प्र वा मीयते
तस्यैतद् व्रतम् ।
नानृतं वदेन् न माम्̇सम् अश्नीयान् न स्त्रियम् उपेयान् नास्य पल्पूलनेन वासः पल्पूलयेयुर् एतद् धि देवाः सर्वं न कुर्वन्ति ॥
2.5.6 अनुवाक 6 दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्
VERSE: 1
एष वै देवरथो यद् दर्शपूर्णमासौ
यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति ।
एतानि वा अङ्गापरूम्̇षि संवत्सरस्य यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूम्̇ष्य् एव संवत्सरस्य प्रति दधाति ।
एते वै संवत्सरस्य चक्षुषी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ताभ्याम् एव सुवर्गं लोकम् अनु पश्यति ॥
VERSE: 2
एषा वै देवानां विक्रान्तिर् यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते देवानाम् एव विक्रान्तिम् अनु वि क्रमते ।
एष वै देवयानः पन्था यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते य एव देवयानः पन्थास् तम्̇ समारोहति ।
एतौ वै देवानाम्̇ हरी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते याव् एव देवानाम्̇ हरी ताभ्याम्
VERSE: 3
एवैभ्यो हव्यं वहति ।
एतद् वै देवानाम् आस्यं यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते साक्षाद् एव देवानाम् आस्ये जुहोति ।
एष वै हविर्धानी यो दर्शपूर्णमासयाजी
सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाम्̇ सुतः ।
य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति
देवा वा अहः
VERSE: 4
यज्ञियं नाविन्दन् ते दर्शपूर्णमासाव् अपुनन्
तौ वा एतौ पूतौ मेध्यौ यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते पूताव् एवैनौ मेध्यौ यजते
नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् ।
यद् उपेयान् निरिन्द्रियः स्यात्
सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन्
तासाम् अमावास्यां च पौर्णमासीं च नोपैत् ॥
VERSE: 5
ते एनम् अभि समनह्येताम् ।
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म
यत् पापीयान् अभवत् तत् पापयक्ष्मस्य
यज् जायाभ्याम् अविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एते एव नमस्यन्न् उपाधावत्
ते अब्रूताम् ।
वरं वृणावहा आवं देवानाम् भागधे असाव
VERSE: 6
आवद् अधि देवा इज्यान्ता इति
तस्मात् सदृशीनाम्̇ रात्रीणाम् अमावास्यायां च पौर्णमास्यां च देवा इज्यन्ते ।
एते हि देवानाम् भागधे
भागधा अस्मै मनुष्या भवन्ति य एवं वेद
भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस्
तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति
य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥
2.5.7 अनुवाक 7 सामिधेनी मन्त्रव्याख्यानम्
VERSE: 1
देवा वै नर्चि न यजुष्य् अश्रयन्त
ते सामन्न् एवाश्रयन्त
हिं करोति सामैवाकर्
हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते
हिं करोति वाच एवैष योगः ।
हिं करोति प्रजा एव तद् यजमानः सृजते
त्रिः प्रथमाम् अन्व् आह त्रिर् उत्तमाम् ।
यज्ञस्यैव तद् बर्सम्
VERSE: 2
नह्यत्य् अप्रस्रम्̇साय
संततम् अन्व् आह प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
राथंतरीम् प्रथमाम् अन्व् आह
राथंतरो वा अयं लोकः ।
इमम् एव लोकम् अभि जयति
त्रिर् वि गृह्णाति
त्रय इमे लोकाः ।
इमान् एव लोकान् अभि जयति
बार्हतीम् उत्तमाम् अन्व् आह
बार्हतो वा असौ लोकः ।
अमुम् एव लोकम् अभि जयति
प्र वः
VERSE: 3
वाजा इत्य् अनिरुक्ताम् प्राजापत्याम् अन्व् आह
यज्ञो वै प्रजापतिः ।
यज्ञम् एव प्रजापतिम् आ रभते
प्र वो वाजा इत्य् अन्व् आह ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
प्र वो वाजा इत्य् अन्व् आह
तस्मात् प्राचीनम्̇ रेतो धीयते ।
अग्न आ याहि वीतय इत्य् आह
तस्मात् प्रतीचीः प्रजा जायन्ते
प्र वो वाजाः
VERSE: 4
इत्य् अन्व् आह
मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर् घृताची यज्ञो देवाञ् जिगाति यजमानः सुम्नयुः ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामाव रुन्द्धे
यं कामयेत
सर्वम् आयुर् इयाद् इति प्र वो वाजा इति तस्यानूच्याग्न आ याहि वीतय इति सं ततम् उत्तरम् अर्धर्चम् आ लभेत ॥
VERSE: 5
प्राणेनैवास्यापानं दधार सर्वम् आयुर् एति
यो वा अरत्निम्̇ सामिधेनीनां वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
अर्धर्चौ सं दधाति ।
एष वा अरत्निः सामिधेनीनाम् ।
य एवं वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
ऋषेर्ऋषेर् वा एता निर्मिता यत् सामिधेन्यस्
ता यद् असंयुक्ताः स्युः प्रजया पशुभिर् यजमानस्य वि तिष्ठेरन् ।
अर्धर्चौ संदधाति
सं युनक्त्य् एवैनास्
ता अस्मै संयुक्ता अवरुद्धाः सर्वाम् आशिषं दुह्रे ॥
2.5.8 अनुवाक 8 सामिधेनी मन्त्रव्याख्यानम्
VERSE: 1
अयज्ञो वा एष यो ऽसामा ।
अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह वामदेव्यस्यैष वर्णः ।
बृहद् अग्ने सुवीर्यम् इत्य् आह बृहत एष वर्णः ।
यद् एतं तृचम् अन्वाह यज्ञम् एव तत् सामन्वन्तं करोति ।
अग्निर् अमुष्मिम्̐ लोक आसीद् आदित्यो ऽस्मिन्
ताव् इमौ लोकाव् अशान्तौ
VERSE: 2
आस्ताम् ।
ते देवा अब्रुवन् ।
एतेमौ वि पर्य् ऊहामेति ।
अग्न आ याहि वीतय इत्य् अस्मिम्̐ लोके ऽग्निम् अदधुर् बृहद् अग्ने सुवीर्यम् इत्य् अमुष्मिम्̐ लोक आदित्यम् ।
ततो वा इमौ लोकाव् अशाम्यताम् ।
यद् एवम् अन्वाहानयोर् लोकयोः शान्त्यै
शाम्यतो ऽस्मा इमौ लोकौ य एवं वेद
पञ्चदश सामिधेनीर् अन्व् आह
पञ्चदश
VERSE: 3
वा अर्धमासस्य रात्रयः ।
अर्धमासशः संवत्सर आप्यते
तासां त्रीणि च शतानि षष्टिश् चाक्षराणि
तावतीः संवत्सरस्य रात्रयः ।
अक्षरश एव संवत्सरम् आप्नोति
नृमेधश् च परुच्छेपश् च ब्रह्मवाद्यम् अवदेताम्
अस्मिन् दाराव् आर्द्रे ऽग्निं जनयाव यतरो नौ ब्रह्मीयान् इति
नृमेधो ऽभ्य् अवदत् स धूमम् अजनयत्
परुच्छेपो ऽभ्य् अवदत् सो ऽग्निम् अजनयत् ।
ऋष इत्य् अब्रवीत् ॥
VERSE: 4
यत् समावद् विद्व कथा त्वम् अग्निम् अजीजनो नाहम् इति
सामिधेनीनाम् एवाहं वर्णं वेदेत्य् अब्रवीत् ।
यद् घृतवत् पदम् अनूच्यते स आसां वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह सामिधेनीष्व् एव तज् ज्योतिर् जनयति
स्त्रियस् तेन यद् ऋच स्त्रियस् तेन यद् गायत्रिय स्त्रियस् तेन यत् सामिधेन्यः ।
वृषण्वतीम् अन्व् आह ॥
VERSE: 5
तेन पुम्̇स्वतीस् तेन सेन्द्रास् तेन मिथुनाः ।
अग्निर् देवानां दूत आसीद् उशना काव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम्
स प्रजापतिर् अग्निं दूतं वृणीमह इत्य् अभि पर्यावर्तत
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽग्निं दूतं वृणीमह इत्य् अन्वाह भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
अध्वरवतीम् अन्व् आह
भ्रातृव्यम् एवैतया
VERSE: 6
ध्वरति
शोचिष्केशस् तम् ईमह इत्य् आह
पवित्रम् एवैतत् ।
यजमानम् एवैतया पवयति
समिद्धो अग्न आहुतेत्य् आह
परिधिम् एवैतम् परि दधात्य् अस्कन्दाय
यद् अत ऊर्ध्वम् अभ्यादध्याद् यथा बहिःपरिधि स्कन्दति तादृग् एव तत्
त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाम्̇ सहरक्षा असुराणाम् ।
त एतर्ह्य् आ शम्̇सन्ते
मां वरिष्यते माम्
VERSE: 7
इति
वृणीध्वम्̇ हव्यवाहनम् इत्य् आह
य एव देवानां तं वृणीते ।
आर्षेयं वृणीते
बन्धोर् एव नैति ।
अथो संतत्यै
परस्ताद् अर्वाचो वृणीते
तस्मात् परस्ताद् अर्वाञ्चो मनुष्यान् पितरो ऽनु प्र पिपते ॥
2.5.9 अनुवाक 9
प्रवरादिमन्त्रव्याख्यानम्
VERSE: 1
अग्ने महाम्̇ असीत्य् आह महान् ह्य् एष यद् अग्निः ।
ब्राह्मणेत्य् आह ब्राह्मणो ह्य् एष
भारतेत्य् आहैष हि देवेभ्यो हव्यम् भरति
देवेद्ध इत्य् आह देवा ह्य् एतम् ऐन्धत
मन्विद्ध इत्य् आह मनुर् ह्य् एतम् उत्तरो देवेभ्य ऐन्द्ध ।
ऋषिष्टुत इत्य् आहर्षयो ह्य् एतम् अस्तुवन्
विप्रानुमदित इत्य् आह ।
VERSE: 2
विप्रा ह्य् एते यच् छुश्रुवाम्̇सः
कविशस्त इत्य् आह कवयो ह्य् एते यच् छुश्रुवाम्̇सः ।
ब्रह्मसम्̇शित इत्य् आह ब्रह्मसम्̇शितो ह्य् एष
घृताहवन इत्य् आह घृताहुतिर् ह्य् अस्य प्रियतमा
प्रणीर् यज्ञानाम् इत्य् आह प्रणीर् ह्य् एष यज्ञानाम् ।
रथीर् अध्वराणाम् इत्य् आहैष हि देवरथः ।
अतूर्तो होतेत्य् आह न ह्य् एतं कश् चन
VERSE: 3
तरति
तूर्णिर् हव्यवाड् इत्य् आह
सर्वम्̇ ह्य् एष तरति ।
आस्पात्रं जुहूर् देवानाम् इत्य् आह जुहूर् ह्य् एष देवानाम् ।
चमसो देवपान इत्य् आह चमसो ह्य् एष देवपानः ।
अराम्̇ इवाग्ने नेमिर् देवाम्̇स् त्वम् परिभूर् असीत्य् आह देवान् ह्य् एष परिभूः ।
यद् ब्रूयात् ।
आ वह देवान् देवयते यजमानायेति भ्रातृव्यम् अस्मै
VERSE: 4
जनयेत् ।
आ वह देवान् यजमानायेत्य् आह यजमानम् एवैतेन वर्धयति ।
अग्निम् अग्न आ वह सोमम् आ वहेत्य् आह देवता एव तद् यथापूर्वम् उप ह्वयते ।
आ चाग्ने देवान् वह सुयजा च यज जातवेद इत्य् आह ।
अग्निम् एव तत् सम्̇ श्यति
सो ऽस्य सम्̇शितो देवेभ्यो हव्यं वहति ।
अग्निर् होता
VERSE: 5
इत्य् आह ।
अग्निर् वै देवानाम्̇ होता
य एव देवानाम्̇ होता तं वृणीते
स्मो वयम् इत्य् आहात्मानम् एव सत्त्वं गमयति
साधु ते यजमान देवतेत्य् आहाशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् ।
यो ऽग्निम्̇ होतारम् अवृथा इत्य् अग्निनोभयतो यजमानम् परि गृह्णीयात्
प्रमायुकः स्यात् ।
यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्यो उपभृत्
VERSE: 6
यद् द्वे इव ब्रूयाद् भ्रातृव्यम् अस्मै जनयेत् ।
घृतवतीम् अध्वर्यो स्रुचम् आऽस्यस्वेत्य् आह यजमानम् एवैतेन वर्धयति
देवायुवम् इत्य् आह देवान् ह्य् एषावति
विश्ववाराम् इत्य् आह विश्वम्̇ ह्य् एषावति ।
ईडामहै देवाम्̇ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ।
देवता एव तद् यथाभागं यजति ॥
2.5.10 अनुवाक 10 नैमित्तिकीनां काम्यानां च सामिधेनीनां विधानम्
VERSE: 1
त्रीम्̇स् तृचान् अनु ब्रूयाद् राजन्यस्य
त्रयो वा अन्ये राजन्यात् पुरुषा ब्राह्मणो वैश्यः शूद्रस् तान् एवास्मा अनुकान् करोति
पञ्चदशानु ब्रूयाद् राजन्यस्य
पञ्चदशो वै राजन्यः
स्व एवैनम्̇ स्तोमे प्रति ष्ठापयति
त्रिष्टुभा परि दध्यात् ।
इन्द्रियं वै त्रिष्टुग्
इन्द्रियकामः खलु वै राजन्यो यजते
त्रिष्टुभैवास्मा इन्द्रियम् परि गृह्णाति
यदि कामयेत
VERSE: 2
ब्रह्मवर्चसम् अस्त्व् इति गायत्रिया परि दध्यात् ।
ब्रह्मवर्चसं वै गायत्री
ब्रह्मवर्चसम् एव भवति
सप्तदशानु ब्रूयाद् वैश्यस्य
सप्तदशो वै वैश्यः
स्व एवैनम्̇ स्तोमे प्रति ष्ठापयति
जगत्या परि दध्यात् ।
जागता वै पशवः
पशुकामः खलु वै वैश्यो यजते
जगत्यैवास्मै पशून् परि गृह्णाति ।
एकविम्̇शतिम् अनु ब्रूयात् प्रतिष्ठाकामस्य ।
एकविम्̇श स्तोमानाम् प्रतिष्ठा
प्रतिष्ठित्यै ।
VERSE: 3
चतुर्विम्̇शतिम् अनु ब्रूयाद् ब्रह्मवर्चसकामस्य
चतुर्विम्̇शत्यक्षरा गायत्री
गायत्री ब्रह्मवर्चसम् ।
गायत्रियैवास्मै ब्रह्मवर्चसम् अव रुन्द्धे
त्रिम्̇शतम् अनु ब्रूयाद् अन्नकामस्य
त्रिम्̇शदक्षरा विराड्
अन्नं विराड्
विराजैवास्मा अन्नाद्यम् अव रुन्द्धे
द्वात्रिम्̇शतम् अनुब्रूयात् प्रतिष्ठाकामस्य
द्वात्रिम्̇शदक्षरानुष्टुग्
अनुष्टुप् छन्दसाम् प्रतिष्ठा
प्रतिष्ठित्यै
षट्त्रिम्̇शतम् अनु ब्रूयात् पशुकामस्य
षट्त्रिम्̇शदक्षरा बृहती
बार्हताः पशवः ।
बृहत्यैवास्मै पशून्
VERSE: 4
अव रुन्द्धे
चतुश्चत्वारिम्̇शतम् अनु ब्रूयाद् इन्द्रियकामस्य
चतुश्चत्वारिम्̇शदक्षरा त्रिष्टुग्
इन्द्रियं त्रिष्टुप्
त्रिष्टुभैवास्मा इन्द्रियम् अव रुन्द्धे ।
अष्टाचत्वारिम्̇शतम् अनु ब्रूयात् पशुकामस्य ।
अष्टाचत्वरिम्̇शदक्षरा जगती
जागताः पशवः ।
जगत्यैवास्मै पशून् अव रुन्द्धे
सर्वाणि छन्दाम्̇स्य् अनु ब्रूयाद् बहुयाजिनः
सर्वाणि वा एतस्य छन्दाम्̇स्य् अवरुन्द्धानि यो बहुयाजी ।
अपरिमितम् अनु ब्रूयात् ।
अपरिमितस्यावरुद्ध्यै ॥
2.5.11 अनुवाक 11
सामिधेनीषु होतुर्नियमविशेषः
VERSE: 1
निवीतम् मनुष्याणाम्
प्राचीनावीतम् पितृणाम्
उपवीतं देवानाम्
उप व्ययते
देवलक्ष्मम् एव तत् कुरुते
तिष्ठन्न् अन्व् आह
तिष्ठन् ह्य् आश्रुततरं वदति
तिष्ठन्न् अन्व् आह
सुवर्गस्य लोकस्याभिजित्यै ।
आसीनो यजति ।
अस्मिन्न् एव लोके प्रति तिष्ठति
यत् क्रौञ्चम् अन्वाहाऽऽसुरं तत् ।
यन् मन्द्रम् मानुषं तत् ।
यद् अन्तरा तत् सदेवम्
अन्तरानूच्यम् ।
सदेवत्वाय
विद्वाम्̇सो वै
VERSE: 2
पुरा होतारो ऽभूवन्
तस्माद् विधृता अध्वानो ऽभूवन् न पन्थानः सम् अरुक्षन् ।
अन्तर्वेद्य् अन्यः पादो भवति बहिर्वेद्य् अन्यः ।
अथान्व् आह ।
अध्वनां विधृत्यै पथाम् असम्̇रोहाय ।
अथो भूतं चैव भविष्यच् चाव रुन्द्धे ।
अथो परिमितं चैवापरिमितं चाव रुन्द्धे ।
अथो ग्राम्याम्̇श् चैव पशून् आरण्याम्̇श् चाव रुन्द्धे ।
अथो
VERSE: 3
देवलोकं चैव मनुष्यलोकं चाभि जयति
देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन् ।
स प्रजापतिस् तूष्णीम् आघारम् आघारयत्
ततो वै देवा यज्ञम् अन्व् अपश्यन्
यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै ।
अथो सामिधेनीर् एवाभ्य् अनक्ति ।
अलूक्षो भवति य एवं वेद ।
अथो तर्पयत्य् एवैनास्
तृप्यति प्रजया पशुभिः
VERSE: 4
य एवं वेद
यद् एकयाघारयेद् एकाम् प्रीणीयात् ।
यद् द्वाभ्यां द्वे प्रीणीयात् ।
यत् तिसृभिर् अति तद् रेचयेत् ।
मनसा घारयति मनसा ह्य् अनाप्तम् आप्यते
तिर्यञ्चम् आ घारयत्य् अच्छम्बट्कारम् ।
वाक् च मनश् चार्तीयेताम्
अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस्
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
सो ऽब्रवीत्
VERSE: 5
प्रजापतिः ।
दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति
तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत्
तस्मान् मनसा प्रजापतये जुह्वति
मन इव हि प्रजापतिः
प्रजापतेर् आप्त्यै
परिधीन्त् सम् मार्ष्टि
पुनात्य् एवैनान्
त्रिर् मध्यमं त्रयो वै प्राणाः
VERSE: 6
इमे लोका इमान् एव लोकान् अभि जयति
त्रिर् उत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस् तान् एवाभि जयति
त्रिर् उप वाजयति त्रयो वै देवलोका देवलोकान् एवाभि जयति
द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः
संवत्सरम् एव प्रीणाति ।
अथो संवत्सरम् एवास्मा उप दधाति
सुवर्गस्य लोकस्य समष्ट्यै ।
आघारम् आ घारयति
तिर इव
VERSE: 7
वै सुवर्गो लोकः
सुवर्गम् एवास्मै लोकम् प्र रोचयति ।
ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः
संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
यं कामयेत
प्रमायुकः स्याद् इति जिह्मं तस्याऽऽ घारयेत्
प्राणम् एवास्माज् जिह्मं नयति
ताजक् प्र मीयते
शिरो वा एतद् यज्ञस्य यद् आघार आत्मा ध्रुवा
VERSE: 8
आघारम् आघार्य ध्रुवाम्̇ सम् अनक्ति ।
आत्मन्न् एव यज्ञस्य शिरः प्रति दधाति ।
अग्निर् देवानां दूत आसीद् दैव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
स प्रजापतिर् ब्राह्मणम् अब्रवीत् ।
एतद् वि ब्रूहीति ।
आ श्रावयेतीदं देवाः शृणुतेति वाव तद् अब्रवीद् अग्निर् देवो होतेति
य एव देवानां तम् अवृणीत
ततो देवाः
VERSE: 9
अभवन् परासुराः ।
यस्यैवं विदुषः प्रवरम् प्रवृणते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यद् ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयाताम् ब्राह्मणायाधि ब्रूयात् ।
यद् ब्राह्मणायाध्याहाऽऽत्मने ऽध्य् आह
यद् ब्राह्मणम् पराहाऽऽत्मनम् पराऽऽह
तस्माद् ब्राह्मणो न परोच्यः ॥
2.5.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
आयुष् टे ।
आयुर्दा अग्ने ।
आ प्यायस्व
सं ते ।
अव ते हेडः ।
उद् उत्तमम्
प्र णो देवी ।
आ नो दिवः ।
अग्नाविष्णू
अग्नाविष्णू
इमं मे वरुण
तत् त्वा यामि ।
उद् उ त्यम् ।
चित्रम्
अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः
सम्
VERSE: 2
अन्या यन्त्य् उप यन्त्य् अन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिम्̇ शुचयो दीदिवाम्̇सम् अपां नपातम् परि तस्थुर् आपः ॥
तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेण शिक्वना रेवद् अग्निर् दीदायानिध्मो घृतनिर्णिग् अप्सु ॥
इन्द्रावरुणयोर् अहम्̇ सम्राजोर् अव आ वृणे । ता नो मृडात ईदृशे ॥
इन्द्रावरुणा युवम् अध्वराय नः
VERSE: 3
विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
आ नो मित्रावरुणा
प्र बाहवा
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाम्̇सि प्र मुमुग्ध्य् अस्मत्
स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्
VERSE: 4
रराणो वीहि मृडीकम्̇ सुहवो न एधि
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ।
VERSE: 5
वि पाजसा
वि ज्योतिषा
स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत्
तम्̇ सुप्रतीकम्̇ सुदृशम्̇ स्वञ्चम् अविद्वाम्̇सो विदुष्टरम्̇ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥
अम्̇होमुचे
विवेष यन् मा
वि न इन्द्र ।
इन्द्र क्षत्रम्
इन्द्रियाणि शतक्रतो
अनु ते दायि ॥
2.6 प्रपाठक: 6 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.6.1 अनुवाक 1
प्रयाजविधिः
VERSE: 1
समिधो यजति वसन्तम् एवर्तूनाम् अव रुन्द्धे
तनूनपातं यजति ग्रीष्मम् एवाव रुन्द्धे ।
इडो यजति वर्षा एवाव रुन्द्धे
बर्हिर् यजति शरदम् एवाव रुन्द्धे
स्वाहाकारं यजति हेमन्तम् एवाव रुन्द्धे तस्मात् स्वाहाकृता हेमन् पशवो ऽव सीदन्ति
समिधो यजत्य् उषस एव देवतानाम् अव रुन्द्धे
तनूनपातं यजति यज्ञम् एवाव रुन्द्धे
VERSE: 2
इडो यजति पशून् एवाव रुन्द्धे
बर्हिर् यजति प्रजाम् एवाव रुन्द्धे
समानयत उपभृतस्
तेजो वा आज्यम् प्रजा बर्हिः
प्रजास्व् एव तेजो दधाति
स्वाहाकारं यजति
वाचम् एवाव रुन्द्धे
दश सम् पद्यन्ते
दशाक्षरा विराड्
विराजैवान्नाद्यम् अव रुन्द्धे
समिधो यजत्य् अस्मिन्न् एव लोके प्रति तिष्ठति
तनूनपातं यजति
VERSE: 3
यज्ञ एवान्तरिक्षे प्रति तिष्ठति ।
इडो यजति पशुष्व् एव प्रति तिष्ठति
बर्हिर् यजति य एव देवयानाः पन्थानस् तेष्व् एव प्रति तिष्ठति
स्वाहाकारं यजति सुवर्ग एव लोके प्रति तिष्ठति ।
एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठति
देवासुरा एषु लोकेष्व् अस्पर्धन्त
ते देवाः प्रयाजैर् एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त
तत् प्रयाजानाम्
VERSE: 4
प्रयाजत्वम् ।
यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातृव्यान् नुदते ।
अभिक्रामं जुहोति ।
अभिजित्यै
यो वै प्रयाजानाम् मिथुनं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते
समिधो बह्वीर् इव यजति
तनूनपातम् एकम् इव
मिथुनं तत् ।
इडो बह्वीर् इव यजति बर्हिर् एकम् इव
मिथुनं तत् ।
एतद् वै प्रयाजानाम् मिथुनम् ।
य एवं वेद प्र
VERSE: 5
प्रजया पशुभिर् मिथुनैर् जायते
देवानां वा अनिष्टा देवता आसन् ।
अथासुरा यज्ञम् अजिघाम्̇सन्
ते देवा गायत्रीं व्यौहन्
पञ्चाक्षराणि प्राचीनानि त्रीणि प्रतीचीनानि
ततो वर्म यज्ञायाभवद् वर्म यजमानाय
यत् प्रयाजानूयाजा इज्यन्ते वर्मैव तद् यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै
तस्माद् वरूथम् पुरस्ताद् वर्षीयः पश्चाद् ध्रसीयः ।
देवा वै पुरा रक्षोभ्यः
VERSE: 6
इति स्वाहाकारेण प्रयाजेषु यज्ञम्̇ सम्̇स्थाप्यम् अपश्यन्
तम्̇ स्वाहाकारेण प्रयाजेषु सम् अस्थापयन्
वि वा एतद् यज्ञं छिन्दन्ति यत् स्वाहाकारेण प्रयाजेषु सम्̇स्थापयन्ति
प्रयाजान् इष्ट्वा हवीम्̇ष्य् अभि घारयति यज्ञस्य संतत्यै ।
अथो हविर् एवाकर्
अथो यथापूर्वम् उपैति
पिता वै प्रयाजाः प्रजानूयाजाः ।
यत् प्रयाजान् इष्ट्वा हवीम्̇ष्य् अभिघारयति पितैव तत् पुत्रेण साधारणम्
VERSE: 7
कुरुते
तस्माद् आहुर् यश् चैवं वेद यश् च न
कथा पुत्रस्य केवलं कथा साधारणम् पितुर् इति ।
अस्कन्नम् एव तद् यत् प्रयाजेष्व् इष्टेषु स्कन्दति
गायत्र्य् एव तेन गर्भं धत्ते
सा प्रजाम् पशून् यजमानाय प्र जनयति ॥
2.6.2 अनुवाक 2
आज्यभागौ
VERSE: 1
चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ
यद् आज्यभागौ यजति चक्षुषी एव तद् यज्ञस्य प्रति दधाति
पूर्वार्धे जुहोति
तस्मात् पूर्वार्धे चक्षुषी
प्रबाहुग् जुहोति
तस्मात् प्रबाहुक् चक्षुषी
देवलोकं वा अग्निना यजमानो ऽनु पश्यति पितृलोकम्̇ सोमेन ।
उत्तरार्धे ऽग्नये जुहोति दक्षिणार्धे सोमाय ।
एवम् इव हीमौ लोकाव् अनयोर् लोकयोर् अनुख्यात्यै
राजानौ वा एतौ देवतानाम् ॥
VERSE: 2
यद् अग्नीषोमौ ।
अन्तरा देवता इज्येते देवतानां विधृत्यै
तस्माद् राज्ञा मनुष्या विधृताः ।
ब्रह्मवादिनो वदन्ति
किं तद् यज्ञे यजमानः कुरुते येनान्यतोदतश् च पशून्
दाधारोभयतोदतश् चेति ।
ऋचम् अनूच्याज्यभागस्य जुषाणेन यजति तेनान्यतोदतो दाधार ।
ऋचम् अनूच्य हविष ऋचा यजति तेनोभयतोदतो दाधार
मूर्धन्वती पुरोऽनुवाक्या भवति मूर्धानम् एवैनम्̇ समानानां करोति ।
VERSE: 3
नियुत्वत्या यजति भ्रातृव्यस्यैव पशून् नि युवते
केशिनम्̇ ह दार्भ्यं केशी सात्यकामिर् उवाच
सप्तपदां ते शक्वरीम्̇ श्वो यज्ञे प्रयोक्तासे यस्यै वीर्येण प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् यस्यै वीर्येणोभयोर् लोकयोर् ज्योतिर् धत्ते यस्यै वीर्येण पूर्वार्धेनानड्वान् भुनक्ति जघनार्धेन धेनुर् इति
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति जातान् एव भ्रातृव्यान् प्र णुदते ।
उपरिष्टाल्लक्ष्मा
VERSE: 4
याज्या जनिष्यमाणान् एव प्रति नुदते
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवत्य् अस्मिन्न् एव लोके ज्योतिर् धत्ते ।
उपरिष्टाल्लक्ष्मा याज्यामुष्मिन्न् एव लोके ज्योतिर् धत्ते
ज्योतिष्मन्ताव् अस्मा इमौ लोकौ भवतो य एवं वेद
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति तस्मात् पूर्वर्धेनानड्वान् भुनक्ति ।
उपरिष्टाल्लक्ष्मा याज्या तस्माज् जघनार्धेन धेनुः ।
य एवं वेद भुङ्क्त एनम् एतौ
वज्र आज्यं वज्र आज्यभागौ ।
VERSE: 5
वज्रो वषट्कारस्
त्रिवृतम् एव वज्रम्̇ सम्भृत्य भ्रातृव्याय प्र हरत्य् अच्छम्बट्कारम्
अपगुर्य वषट् करोति स्तृत्यै
गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग् याज्या
ब्रह्मन्न् एव क्षत्रम् अन्वारम्भयति
तस्माद् ब्राह्मणो मुख्यः ।
मुख्यो भवति य एवं वेद
प्रैवैनम् पुरोऽनुवाक्ययाऽऽह
प्र णयति याज्यया
गमयति वषट्कारेण ।
ऐवैनम् पुरोऽनुवाक्यया दत्ते
प्र यच्छति याज्यया
प्रति
VERSE: 6
वषट्कारेण स्थापयति
त्रिपदा पुरोऽनुवाक्या भवति
त्रय इमे लोकाः ।
एष्व् एव लोकेषु प्रति तिष्ठति
चतुष्पदा याज्या
चतुष्पद एव पशून् अव रुन्द्धे
द्व्यक्षरो वषट्कारो द्विपाद् यजमानः पशुष्व् एवोपरिष्टात् प्रति तिष्ठति
गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग् याज्या ।
एषा वै सप्तपदा शक्वरी
यद् वा एतया देवा अशिक्षन् तद् अशक्नुवन्
य एवं वेद शक्नोत्य् एव यच् छिक्षति ॥
2.6.3 अनुवाक 3
आग्नेयपुरोडाशः
VERSE: 1
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स आत्मन्न् आज्यम् अधत्त तं देवा अब्रुवन्न् एष वाव यज्ञो यद् आज्यम् अप्य् एव नोऽत्रास्त्व् इति सो ऽब्रवीद् यजान् व आज्य भागाव् उप स्तृणान् अभि घारयान् इति तस्माद् यजन्त्य् आज्यभागाव् उप स्तृणन्त्य् अभि घारयन्ति
ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् यातयामान्य् अन्यानि हवीम्̇ष्य् अयातयामम् आज्यम् इति प्राजापत्यम् इति ब्रूयाद् अयातयामा हि देवानाम् प्रजापतिर् इति
छन्दाम्̇सि देवेभ्यो ऽपाक्रामन् न वो ऽभागानि हव्यं वक्ष्याम इति तेभ्य एतच् चतुरवत्तम् अधारयन् पुरोऽनुवाक्यायै याज्यायै देवतायै वषट्काराय यच् चतुरवत्तं जुहोति छन्दाम्̇स्य् एव तत् प्रीणाति तान्य् अस्य प्रीतानि देवेभ्यो हव्यं वहन्ति ।
अङ्गिरसो वा इत उत्तमाः सुवर्गं लोकम् आयन् तद् ऋषयो यज्ञवास्त्व् अभ्यवायन् ते
VERSE: 2
अपश्यन् पुरोडाशं कूर्मम् भूतम्̇ सर्पन्तं तम् अब्रुवन्न् इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्वेति स नाध्रियत तम् अब्रुवन्न् अग्नये ध्रियस्वेति सो ऽग्नये ऽध्रियत यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति सुवर्गस्य लोकस्याभिजित्यै
तम् अब्रुवन् कथाऽहास्था इत्य् अनुपाक्तो ऽभूवम् इत्य् अब्रवीद् यथाक्षो ऽनुपाक्तः
VERSE: 4
अवार्छत्य् एवम् अवाऽऽरम् इत्य् उपरिष्टाद् अभ्यज्याधस्ताद् उपानक्ति सुवर्गस्य लोकस्य समष्ट्यै
सर्वाणि कपालान्य् अभि प्रथयति तावतः पुरोडाशान् अमुष्मिम्̐ लोके ऽभि जयति
यो विदग्धः स नैर्ऋतो यो ऽशृतः स रौद्रो यः शृतः स सदेवस् तस्माद् अविदहता शृतंकृत्यः सदेवत्वाय
भस्मनाभि वासयति तस्मान् माम्̇सेनास्थि छन्नं वेदेनाभि वासयति तस्मात्
VERSE: 5
केशैः शिरश् छन्नम्
प्रच्युतं वा एतद् अस्माल् लोकाद् अगतं देवलोकं यच् छृतम्̇ हविर् अनभिघारितम् अभिघार्योद् वासयति देवत्रैवैनद् गमयति
यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यानवेतः स्याद् अथ यजमानः प्र मीयेत यद् द्वे नश्येतां द्वौ मासौ संवत्सरस्यानवेतौ स्याताम् अथ यजमानः प्र मीयेत संख्यायोद् वासयति यजमानस्य
VERSE: 6
गोपीथाय
यदि नश्येद् आश्विनं द्विकपालं निर् वपेद् द्यावापृथिव्याम् एककपालम् अश्विनौ वै देवानाम् भिषजौ ताभ्याम् एवास्मै भेषजं करोति
द्यावापृथिव्य एककपालो भवत्य् अनयोर् वा एतन् नश्यति यन् नश्यत्य् अनयोर् एवैनद् विन्दति प्रतिष्ठित्यै ॥
2.6.4 अनुवाक 4
वेदिः
VERSE: 1
देवस्य त्वा सवितुः प्रसव इति स्फ्यम् आ दत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आहाश्विनौ हि देवानाम् अध्वर्यू आस्ताम्
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
शतभृष्टिर् असि वानस्पत्यो द्विषतो वध इत्य् आह वज्रम् एव तत् सम्̇ श्यति
भ्रातृव्याय प्रहरिष्यन्त् ।
स्तम्बयजुर् हरत्य् एतावती वै पृथिवी यावती वेदिस् तस्या एतावत एव भ्रातृव्यं निर् भजति
VERSE: 2
तस्मान् नाभागं निर् भजन्ति ।
त्रिर् हरति त्रय इमे लोका एभ्य एवैनं लोकेभ्यो निर् भजति
तूष्णीं चतुर्थम्̇ हरत्य् अपरिमिताद् एवैनं निर्भजति ।
उद् धन्ति यद् एवास्या अमेध्यं तद् अप हन्ति ।
उद् धन्ति तस्माद् ओषधयः परा भवन्ति
मूलं च्छिनत्ति भ्रातृब्यस्यैव मूलं च्छिनत्ति
पितृदेवत्याऽतिखातेयतीं खनति प्रजापतिना
VERSE: 3
यज्ञमुखेन सम्मिताम्
आ प्रतिष्ठायै खनति यजमानम् एव प्रतिष्ठां गमयति
दक्षिणतो वर्षीयसीं करोति देवयजनस्यैव रूपम् अकः
पुरीषवतीं करोति प्रजा वै पशवः पुरीषम् प्रजयैवैनम् पशुभिः पुरीषवन्तं करोति ।
उत्तरम् परिग्राहम् परि गृह्णात्य् एतावती वै पृथिवी यावती वेदिस् तस्या एतावत एव भ्रातृव्यं निर्भज्यात्मन उत्तरम् परिग्राहम् परि गृह्णाति
क्रूरम् इव वै
VERSE: 4
एतत् करोति यद् वेदिं करोति
धा असि स्वधा असीति योयुप्यते शान्त्यै
प्रोक्षणीर् आ सादयत्य् आपो वै रक्षोघ्नी रक्षसाम् अपहत्यै
स्फ्यस्य वर्त्मन्त् सादयति यज्ञस्य संतत्यै
यं द्विष्यात् तं ध्यायेच् छुचैवैनम् अर्पयति ॥
2.6.5 अनुवाक 5
बर्हिः प्रयोगः
VERSE: 1
ब्रह्मवादिनो वदन्ति ।
अद्भिर् हवीम्̇षि प्रौक्षीः केनाप इति
ब्रह्मणेति ब्रूयात् ।
अद्भिर् ह्य् एव हवीम्̇षि प्रोक्षति ब्रह्मणापः ।
इध्माबर्हिः प्रोक्षति
मेध्यम् एवैनत् करोति
वेदिम् प्रोक्षति ।
ऋक्षा वा एषाऽलोमकाऽमेध्या यद् वेदिः ।
मेध्याम् एवैनां करोति
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिर् आसाद्य प्र
VERSE: 2
उक्षति ।
एभ्य एवैनल् लोकेभ्यः प्रोक्षति
क्रूरम् इव वा एतत् करोति यत् खनति ।
अपो नि नयति शान्त्यै
पुरस्तात् प्रस्तरं गृह्णाति मुख्यम् एवैनं करोति ।
इयन्तं गृह्णाति प्रजापतिना यज्ञमुखेन सम्मितम्
बर्हिः स्तृणाति
प्रजा वै बर्हिः पृथिवी वेदिः
प्रजा एव पृथिव्याम् प्रति ष्ठापयति ।
0 अनतिदृश्नम्̇ स्तृणाति
1 प्रजयैवैनम् पशुभिर् अनतिदृश्नं करोति
VERSE: 3
उत्तरम् बर्हिषः प्रस्तरम्̇ सादयति
प्रजावै बर्हिर् यजमानः प्रस्तरः ।
यजमानम् एवायजमानाद् उत्तरं करोति
तस्माद् यजमानो ऽयजमानाद् उत्तरः ।
अन्तर् दधाति
व्यावृत्त्यै ।
अनक्ति
हविष्कृतम् एवैनम्̇ सुवर्गं लोकं गमयति
त्रेधाऽनक्ति
त्रय इमे लोकाः ।
एभ्य एवैनं लोकेभ्यो ऽनक्ति
न प्रति शृणाति
यत् प्रतिशृणीयाद् अनूर्ध्वम्भावुकं यजमानस्य स्यात् ।
उपरीव प्र हरति
VERSE: 4
उपरीव हि सुवर्गो लोकः ।
नि यच्छति
वृष्टिम् एवास्मै नि यच्छति
नात्यग्रम् प्र हरेत् ।
यद् अत्यग्रम् प्रहरेद् अत्यासारिण्य् अध्वर्योर् नाशुका स्यात् ।
न पुरस्तात् प्रत्य् अस्येत् ।
यत् पुरस्तात् प्रत्यस्यात् सुवर्गाल् लोकाद् यजमानम् प्रति नुदेत्
प्राञ्चम् प्र हरति
यजमानम् एव सुवर्गं लोकं गमयति
न विष्वञ्चं वि युयात् ।
यद् विष्वञ्चं वियुयात् ॥
VERSE: 5
स्त्र्य् अस्य जायेत ।
ऊर्ध्वम् उद् यौति ।
ऊर्ध्वम् इव हि पुम्̇सः पुमान् एवास्य जायते
यत् स्फ्येन वोपवेषेण वा योयुप्येत स्तृतिर् एवास्य सा
हस्तेन योयुप्यते यजमानस्य गोपीथाय
ब्रह्मवादिनो वदन्ति
किं यज्ञस्य यजमान इति
प्रस्तर इति
तस्य क्व सुवर्गो लोक इति ।
आहवनीय इति ब्रूयात् ।
यत् प्रस्तरम् आहवनीये प्रहरति यजमानम् एव
VERSE: 6
सुवर्गं लोकं गमयति
वि वा एतद् यजमानो लिशते यत् प्रस्तरं योयुप्यन्ते
बर्हिर् अनु प्रहरति शान्त्यै ।
अनारम्भण इव वा एतर्ह्य् अध्वर्युः
स ईश्वरो वेपनो भवितोः ।
ध्रुवाऽसीतीमाम् अभि मृशति ।
इयं वै ध्रुवा ।
अस्याम् एव प्रति तिष्ठति
न वेपनो भवति ।
अगा3न् अग्नीद् इत्य् आह
यद् ब्रूयात् ।
अगन्न् अग्निर् इत्य् अग्नाव् अग्निं गमयेन् निर् यजमानम्̇ सुवर्गाल् लोकाद् भजेत् ।
अगन्न् इत्य् एव ब्रूयाद् यजमानम् एव सुवर्गं लोकं गमयति ॥
2.6.6 अनुवाक 6
उपांशुयाज स्विष्टकृतौ
VERSE: 1
अग्नेस् त्रयो ज्यायाम्̇सो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त
सो ऽग्निर् अबिभेद् इत्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत सो ऽपः प्राविशत् तं देवताः प्रैषम् ऐच्छन्
तम् मत्स्यः प्राब्रवीत् तम् अशपद् धियाधिया त्वा वध्यासुर् यो मा प्रावोच इति
तस्मान् मत्स्यं धियाधिया घ्नन्ति शप्तः
VERSE: 2
हि
तम् अन्व् अविन्दन् तम् अब्रुवन्न् उप न आ वर्तस्व हव्यं नो वहेति
सो ऽब्रवीद् वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति
परिधीन् परि दधाति रक्षसाम् अपहत्यै
सम्̇ स्पर्शयति
VERSE: 3
रक्षसाम् अनन्ववचाराय
न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाम्̇स्य् अपहन्ति ।
ऊर्ध्वे समिधाव् आ दधात्य् उपरिष्टाद् एव रक्षाम्̇स्य् अप हन्ति
यजुषान्यां तूष्णीम् अन्याम् मिथुनत्वाय
द्वे आ दधाति द्विपाद् यजमानः प्रतिष्ठित्यै
ब्रह्मवादिनो वदन्ति
स त्वै यजेत यो यज्ञस्याऽऽर्त्या वसीयन्त् स्याद् इति
भूपतये स्वाहा भुवनपतये स्वाहा भूतानाम्
VERSE: 4
पतये स्वाहेति स्कन्नम् अनु मन्त्रयेत
यज्ञस्यैव तद् आर्त्या यजमानो वसीयान् भवति भूयसीर् हि देवताः प्रीणाति
जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशौ ।
उपाम्̇शुयाजम् अन्तरा यजत्य् अजामित्वायाथो मिथुनत्वाय ।
अग्निर् अमुष्मिम्̐ लोक आसीद् यमो ऽस्मिन्
ते देवा अब्रुवन्न् एतेमौ वि पर्य् ऊहामेति ।
अन्नाद्येन देवा अग्निम् ॥
VERSE: 5
उपामन्त्रयन्त राज्येन पितरो यमं तस्माद् अग्निर् देवानाम् अन्नादो यमः पितृणाम्̇ राजा
य एवं वेद प्र राज्यम् अन्नाद्यम् आप्नोति
तस्मा एतद् भागधेयम् प्रायच्छन् यद् अग्नये स्विष्टकृते ऽवद्यन्ति
यद् अग्नये स्विष्टकृते ऽवद्यति भागधेयेनैव तद् रुद्रम्̇ सम् अर्धयति
सकृत्सकृद् अव द्यति सकृद् इव हि रुद्रः ।
उत्तरार्धाद् अव द्यत्य् एषा वै रुद्रस्य
VERSE: 6
दिक् स्वायाम् एव दिशि रुद्रं निरवदयते
द्विर् अभि घारयति चतुरवत्तस्याप्त्यै
पशवो वै पूर्वा आहुतयः ।
एष रुद्रो यद् अग्निः ।
यत् पूर्वा आहुतीर् अभि जुहुयाद् रुद्राय पशून् अपि दध्यात् ।
अपशुर् यजमानः स्यात् ।
अतिहाय पूर्वा आहुतीर् जुहोति पशूनां गोपीथाय ॥
2.6.7 अनुवाक 7
इडोपाह्वानम्
VERSE: 1
मनुः पृथिव्या यज्ञियम् ऐच्छत्
स घृतं निषिक्तम् अविन्दत्
सो ऽब्रवीत्
को ऽस्येश्वरो यज्ञे ऽपि कर्तोर् इति
ताव् अब्रूताम् मित्रावरुणौ
गोर् एवाऽऽवम् ईश्वरौ कर्तोः स्व इति
तौ ततो गाम्̇ सम् ऐरयताम् ।
सा यत्रयत्र न्यक्रामत् ततो घृतम् अपीड्यत
तस्माद् घृतपद्य् उच्यते
तद् अस्यै जन्म ।
उपहूतम्̇ रथंतरम्̇ सह पृथिव्येत्य् आह
VERSE: 2
इयं वै रथंतरम्
इमाम् एव सहान्नाद्येनोप ह्वयते ।
उपहूतं वामदेव्यम्̇ सहान्तरिक्षेणेत्य् आह
पशवो वै वामदेव्यम्
पशून् एव सहान्तरिक्षेणोप ह्वयते ।
उपहूतम् बृहत् सह दिवेत्य् आह ।
ऐरं वै बृहत् ।
इराम् एव सह दिवोप ह्वयते ।
उपहूताः सप्त होत्रा इत्याह होत्रा एवोप ह्वयते।
उपहूता धेनुः
VERSE: 3
सहर्षभेत्य् आह
मिथुनम् एवोप ह्वयते ।
उपहूतो भक्षः सखेत्य् आह
सोमपीथम् एवोप ह्वयते ।
उपहूता3म्̇ हो इत्य् आह ।
आत्मानम् एवोप ह्वयते ।
आत्मा ह्य् उपहूतानां वसिष्ठः ।
इडाम् उप ह्वयते
पशवो वा इडा
पशून् एवोप ह्वयते
चतुर् उप ह्वयते
चतुष्पादो हि पशवः ।
मानवीत्य् आह मनुर् ह्य् एताम्
VERSE: 4
अग्रे ऽपश्यत् ।
घृतपदीत्य् आह यद् एवास्यै पदाद् घृतम् अपीड्यत तस्माद् एवम् आह
मैत्रावरुणीत्य् आह मित्रावरुणौ ह्य् एनाम्̇ समैरयताम्
ब्रह्म देवकृतम् उपहूतम् इत्य् आह
ब्रह्मैवोप ह्वयते
दैव्या अध्वर्यव उपहूता उपहूता मनुष्या इत्य् आह
देवमनुष्यान् एवोप ह्वयते
य इमं यज्ञम् अवान् ये यज्ञपतिं वर्धान् इत्य् आह ।
VERSE: 5
यज्ञाय चैव यजमानाय चाशिषम् आ शास्ते ।
उपहूते द्यावापृथिवी इत्य् आह
द्यावापृथिवी एवोप ह्वयते
पूर्वजे ऋतावरी इत्य् आह पूर्वजे ह्य् एते ऋतावरी
देवा देवपुत्रे इत्य् आह देवी ह्य् एते देवपुत्रे
उपहूतो ऽयं यजमान इत्य् आह
यजमानम् एवोप ह्वयते ।
उत्तरस्यां देवयज्यायाम् उपहूतो भूयसि हविष्करण उपहूतो दिव्ये धामन्न् उपहूतः
VERSE: 6
इत्य् आह
प्रजा वा उत्तरा देवयज्या पशवो भूयो हविष्करणम् सुवर्गो लोको दिव्यं धाम ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामोप ह्वयते
विश्वम् अस्य प्रियम् उपहूतम् इत्य् आह ।
अच्छम्बट्कारम् एवोप ह्वयते ॥
2.6.8 अनुवाक 8
इडाप्राशित्रभक्षौ
VERSE: 1
पशवो वा इडा स्वयम् आ दत्ते कामम् एवात्मना पशूनाम् आ दत्ते न ह्य् अन्यः कामम् पशूनाम् प्रयच्छति
वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह वाचम् एव भागधेयेन प्रीणाति सदसस् पतये त्वा हुतम् प्राश्नामीत्य् आह स्वगाकृत्यै
चतुरवत्तम् भवति हविर् वै चतुरवत्तम् पशवश् चतुरवत्तम् ।
यद् होता प्राश्नीयाद् होता
VERSE: 2
आर्तिम् आर्छेद् यद् अग्नौ जुहुयाद् रुद्राय पशून् अपि दध्याद् अपशुर् यजमानः स्यात् ।
वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह परोऽक्षम् एवैनज् जुहोति सदसस् पतये त्वा हुतम् प्राश्नामीत्य् आह स्वगाकृत्यै
प्राश्नन्ति तीर्थ एव प्राश्नन्ति दक्षिणां ददाति तीर्थ एव दक्षिणां ददाति
वि वा एतद् यज्ञम्
VERSE: 3
छिन्दन्ति यन् मध्यतः प्राश्नन्त्य् अद्भिर् मार्जयन्त आपो वै सर्वा देवता देवताभिर् एव यज्ञम्̇ सं तन्वन्ति
देवा वै यज्ञाद् रुद्रम् अन्तर् आयन्त् स यज्ञम् अविध्यत् तं देवा अभि सम् अगच्छन्त
कल्पतां न इदम् इति ते ऽब्रुवन्त् स्विष्टं वै न इदम् भविष्यति यद् इमम्̇ राधयिष्याम इति तत् स्विष्टकृतः स्विष्टकृत्त्वम् ।
तस्याविद्धं निः
VERSE: 4
अकृन्तन् यवेन सम्मितं तस्माद् यवमात्रम् अव द्येद् यज् ज्यायो ऽवद्येद् रोपयेत् तद् यज्ञस्य यद् उप च स्तृणीयाद् अभि च घारयेद् उभयतःसम्̇श्वायि कुर्यात् ।
अवदायाभि घारयति द्विः सम् पद्यते द्विपाद् यजमानः प्रतिष्ठित्यै
यत् तिरश्चीनम् अतिहरेद् अनभिविद्धं यज्ञस्याभि विध्येत् ।
अग्रेण परि हरति तीर्थेनैव परि हरति तत् पूष्णे पर्य् अहरन्
तत्
VERSE: 5
पूषा प्राश्य दतो ऽरुणत् तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हि
तं देवा अब्रुवन्
वि वा अयम् आर्ध्य् अप्राशित्रियो वा अयम् अभूद् इति
तद् बृहस्पतये पर्य् अहरन्त् सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति
स एतम् मन्त्रम् अपश्यत् सूर्यस्य त्वा चक्षुषा प्रति पश्यामीत्य् अब्रवीन् न हि सूर्यस्य चक्षुः
VERSE: 6
किं चन हिनस्ति
सो ऽबिभेत् प्रतिगृह्णन्तम् मा हिम्̇सिष्यतीति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रति गृह्णामीत्य् अब्रवीत् सवितृप्रसूत एवैनद् ब्रह्मणा देवताभिः प्रत्य् अगृह्णात्
सो ऽबिभेत् प्राश्नन्तम् मा हिम्̇सिष्यतीत्य् अग्नेस् त्वास्येन प्राश्नामीत्य् अब्रवीन् न ह्य् अग्नेर् आस्यं किं चन हिनस्ति
सो ऽबिभेत्
VERSE: 7
प्राशितम् मा हिम्̇सिष्यतीति ब्राह्मणस्योदरेणेत्य् अब्रवीन् न हि ब्राह्मणस्योदरं किं चन हिनस्ति बृहस्पतेर् ब्रह्मणेति स हि ब्रह्मिष्ठः ।
अप वा एतस्मात् प्राणाः क्रामन्ति यः प्राशित्रम् प्राश्नाति ।
अद्भिर् मार्जयित्वा प्राणान्त् सम् मृशते ।
अमृतं वै प्राणा अमृतम् आपः प्राणान् एव यथास्थानम् उप ह्वयते ॥
2.6.9 अनुवाक 9
अनूयाजाः सूक्तवाकश्च
VERSE: 1
अग्नीध आ दधात्य् अग्निमुखान् एवर्तून् प्रीणाति
समिधम् आ दधात्य् उत्तरासाम् आहुतीनाम् प्रतिष्ठित्या अथो समिद्वत्य् एव जुहोति
परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान्त् सकृत्सकृत् सम् मार्ष्टि पराङ् इव ह्य् एतर्हि यज्ञः ।
चतुः सम् पद्यते चतुष्पादः पशवः पशून् एवाव रुन्द्धे
ब्रह्मन् प्र स्थास्याम इत्य् आहात्र वा एतर्हि यज्ञः श्रितः
VERSE: 2
यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनम् आ रभते
यद् धस्तेन प्रमीवेद् वेपनः स्याद् यच् छीर्ष्णा शीर्षक्तिवान्त् स्याद् यत् तूष्णीम् आसीतासम्प्रत्तो यज्ञः स्यात्
प्र तिष्ठेत्य् एव ब्रूयाद्
वाचि वै यज्ञः श्रितो यत्रैव यज्ञः श्रितस् तत एवैनम्̇ सम् प्र यच्छति
देव सवितर् एतत् ते प्र ॥
VERSE: 3
आहेत्य् आह प्रसूत्यै
बृहस्पतिर् ब्रह्मेत्य् आह स हि ब्रह्मिष्ठः
स यज्ञम् पाहि स यज्ञपतिम् पाहि स माम् पाहीत्य् आह
यज्ञाय यजमानायात्मने तेभ्य एवाशिषम् आ शास्ते ऽनार्त्या
आश्राव्याह
देवान् यजेति
ब्रह्मवादिनो वदन्तीष्टा देवता अथ कतम एते देवा इति छन्दाम्̇सीति ब्रूयाद् गायत्रीं त्रिष्टुभम्
VERSE: 4
जगतीम् इत्य्
अथो खल्व् आहुर्
ब्राह्मणा वै छन्दाम्̇सीति
तान् एव तद् यजति
देवानां वा इष्टा देवता आसन्न् अथाग्निर् नोद् अज्वलत् तं देवा आहुतीभिर् अनूयाजेष्व् अन्व् अविन्दन्
यद् अनूयाजान् यजति ।
अग्निम् एव तत् सम् इन्द्धे ।
एतदुर् वै नामासुर आसीत्
स एतर्हि यज्ञस्याशिषम् अवृङ्क्त
यद् ब्रूयाद् एतत्
VERSE: 5
उ द्यावापृथिवी भद्रम् अभूद् इत्य् एतदुम् एवासुरं यज्ञस्याशिषं गमयेद्
इदं द्यावापृथिवी भद्रम् अभूद् इत्य् एव ब्रूयाद् यजमानम् एव यज्ञस्याशिषम् गमयत्य्
आर्ध्म सूक्तवाकम् उत नमोवाकम् इत्य् आहेदम् अरात्स्मेति वावैतद् आह ।
उपश्रितो दिवः पृथिव्योर् इत्य् आह द्यावापृथिव्योर् हि यज्ञ उपश्रितः ।
ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी
VERSE: 6
स्ताम् इत्य् आहाऽऽशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् सूपावसाना च स्वध्यवसाना चेति प्रमायुको यजमानः स्याद् यदा हि प्रमीयते ।
अथेमाम् उपावस्यति
सूपचरणा च स्वधिचरणा चेत्य् एव ब्रूयाद् वरीयसीम् एवास्मै गव्यूतिम् आ शास्ते न प्रमायुको भवति
तयो आविद्य् अग्निर् इदम्̇ हविर् अजुषतेत्य् आह या अयाक्ष्म
VERSE: 7
देवतास् ता अरीरधामेति वावैतद् आह
यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
आ शास्ते ऽयं यजमानो ऽसाव् इत्य् आह निर्दिश्यैवैनम्̇ सुवर्गं लोकं गमयति ।
आयुर् आ शास्ते सुप्रजास्त्वम् आ शास्त इत्य् आहाशिषम् एवैताम् आ शास्ते
सजातवनस्याम् आ शास्त इत्य् आह प्राणा वै सजाताः प्राणान् एव
VERSE: 8
नान्तर् एति
तद् अग्निर् देवो देवेभ्यो वनते वयम् अग्नेर् मानुषा इत्य् आहाग्निर् देवेभ्यो वनुते वयम् मनुष्येभ्य इति वावैतद् आह ।
इह गतिर् वामस्येदं च नमो देवेभ्य इत्य् आह याश् चैव देवता यजति याश् च न ताभ्य एवोभयीभ्यो नमस् करोत्य् आत्मनो ऽनार्त्यै ॥
2.6.10 अनुवाक 10
शंयुवाकः पत्नीसंयाजाश्च
VERSE: 1
देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्
ते शम्युम् बार्हस्पत्यम् अब्रुवन् ।
इमं नो यज्ञम्̇ स्वगा कुर्व् इति
सो ऽब्रवीत् ।
वरं वृणै यद् एवाब्राह्मणोक्तो ऽश्रद्दधानो यजातै सा मे यज्ञस्याशीर् असद् इति
तस्माद् यद् अब्राह्मणोक्तो ऽश्रद्दधानो यजते शम्युम् एव तस्य बार्हस्पत्यं यज्ञस्याशीर् गच्छति ।
एतन् ममेत्य् अब्रवीत् किम् मे प्रजायाः
VERSE: 2
इति
यो ऽपगुरातै शतेन यातयात् ।
यो निहनत् सहस्रेण यातयात् ।
यो लोहितं करवद् यावतः प्रस्कद्य पाम्̇सून्त् संगृह्णात् तावतः संवत्सरान् पितृलोकं न प्र जानाद् इति
तस्माद् ब्राह्मणाय नाप गुरेत न नि हन्यान् न लोहितं कुर्यात् ।
एतावता हैनसा भवति
तच् छम्योर् आ वृणीमह इत्य् आह
यज्ञम् एव तत् स्वगा करोति
तत्
VERSE: 3
शम्योर् आ वृणीमह इत्य् आह
शम्युम् एव बार्हस्पत्यम् भागधेयेन सम् अर्धयति
गातुं यज्ञाय गातुं यज्ञपतय इत्य् आह ।
आशिषम् एवैताम् आ शास्ते
सोमं यजति रेत एव तद् दधाति
त्वष्टारं यजति रेत एव हितं त्वष्टा रूपाणि वि करोति
देवानाम् पत्नीर् यजति मिथुनत्वाय ।
अग्निं गृहपतिं यजति प्रतिष्ठित्यै
जामि वा एतद् यज्ञस्य क्रियते
VERSE: 4
यद् आज्येन प्रयाजा इज्यन्त आज्येन पत्नीसंयाजाः ।
ऋचम् अनूच्य पत्नीसंयाजानाम् ऋचा यजति ।
अजामित्वायाथो मिथुनत्वाय
पङ्क्तिप्रायणो वै यज्ञः पङ्क्त्युदयनः
पञ्च प्रयाजा इज्यन्ते
चत्वारः पत्नीसंयाजाः समिष्टयजुः पञ्चमम्
पङ्क्तिम् एवानु प्रयन्ति पङ्क्तिम् अनूद्यन्ति ॥
2.6.11 अनुवाक 11
संवर्गेष्टिहौत्रम्
VERSE: 1
युक्ष्वा हि देवहूतमाम्̇ अश्वाम्̇ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
उत नो देव देवाम्̇ अच्छा वोचो विदुष्टरः । श्रद् विश्वा वार्या कृधि ॥
त्वम्̇ ह यद् यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो भुवः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञम्
VERSE: 2
अङ्गिरः ॥
तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ॥
कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । पणिं गोषु स्तरामहे ॥
मा नो देवानां विशः प्रस्नातीर् इवोस्राः । कृशं न हासुर् अघ्नियाः ॥
मा नः समस्य दूढ्यः परिद्वेषसो अम्̇हतिः ऊर्मिर् न नावम् आ वधीत् ॥
नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैः
VERSE: 3
अमित्रम् अर्दय ॥
कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । उरुकृद् उरु णस् कृधि ॥
मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । संवर्गम्̇ सम्̇ रयिम्̇ जय ॥
अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । वर्धा नो अमवच् छवः ॥
यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । तं घेद् अग्निर् वृधावति ॥
परस्या अधि
VERSE: 4
संवतो ऽवराम्̇ अभ्य् आ तर । यत्राहम् अस्मि ताम्̇ अव ॥
विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । अधा ते सुम्नम् ईमहे ।
य उग्र इव शर्यहा तिग्मशृङ्गो न वम्̇सगः । अग्ने पुरो रुरोजिथ ॥
सखायः सं वः सम्यञ्चम् इषम्̇ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
प्रजापते
स वेद
सोमापूषणा ।
इमौ देवौ ॥
2.6.12 अनुवाक 12
पितृयज्ञस्य हौत्रम्
VERSE: 1
उशन्तस् त्वा हवामह उशन्तः सम् इधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥
त्वम्̇ सोम प्रचिकितो मनीषा त्वम्̇ रजिष्ठम् अनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्न् अवातः परिधीम्̇र् अपोर्णु वीरेभिर् अश्वैर् मघवा भव
VERSE: 2
नः ॥
त्वम्̇ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । तस्मै त इन्दो हविषा विधेम वयम्̇ स्याम पतयो रयीणाम् ॥
अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवीम्̇षि प्रयतानि बर्हिष्य् अथा रयिम्̇ सर्ववीरं दधातन ॥
बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथास्मभ्यम्
VERSE: 3
शं योर् अरपो दधात ॥
आहम् पितॄन्त् सुविदत्राम्̇ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते अवन्त्व् अस्मान् ॥
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । असुम्
VERSE: 4
य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥
इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास् ईयुः । ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनम्̇ सुवृजनासु विक्षु ॥
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥
यद् अग्ने
VERSE: 5
कव्यवाहन पितॄन् यक्ष्य् ऋतावृधः । प्र च हव्यानि वक्ष्यसि देवेभ्यश् च पितृभ्य आ ॥
त्वम् अग्न ईडितो जातवेदो ऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवीम्̇षि ॥
मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । याम्̇श् च देवा वावृधुर् ये च देवान्त् स्वाहान्ये स्वधयान्ये मदन्ति ॥
VERSE: 6
इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥
अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । विवस्वन्तम्̇ हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयम्̇ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥
काण्ड 3
3.1 प्रपाठक: 1
3.1.1 अनुवाक 1
दीक्षितवादः
VERSE: 1
प्रजापतिर् अकामयत प्रजाः सृजेयेति
स तपो ऽतप्यत स सर्पान् असृजत
सो ऽकामयत प्रजाः सृजेयेति
स द्वितीयम् अतप्यत स वयाम्̇स्य् असृजत
सो ऽकामयत प्रजाः सृजेयेति
स तृतीयम् अतप्यत स एतं दीक्षितवादम् अपश्यत् तम् अवदत् ततो वै स प्रजा असृजत
यत् तपस् तप्त्वा दीक्षितवादं वदति प्रजा एव तद् यजमानः
VERSE: 2
सृजते
यद् वै दीक्षितो ऽमेध्यम् पश्यत्य् अपास्माद् दीक्षा क्रामति नीलम् अस्य हरो व्य् एति ।
अबद्धम् मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाम्̇ श्रेष्ठो दीक्षे मा मा हासीः ।
इत्य् आह
नास्माद् दीक्षाप क्रामति नास्य नीलं न हरो व्य् एति
यद् वै दीक्षितम् अभिवर्षति दिव्या आपो ऽशान्ता ओजो बलं दीक्षाम्
VERSE: 3
तपो ऽस्य निर् घ्नन्ति ।
उन्दतीर् बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षाम् मा तपो निर् वधिष्ट ।
इत्य् आह ।
एतद् एव सर्वम् आत्मन् धत्ते
नास्यौजो बलं न दीक्षां न तपो निर् घ्नन्ति ।
अग्निर् वै दीक्षितस्य देवता
सो ऽस्माद् एतर्हि तिर इव यर्हि याति तम् ईश्वरम्̇ रक्षाम्̇सि हन्तोः ।
VERSE: 4
भद्राद् अभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्व् इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिस् तम् एवान्वारभते स एनम्̇ सम् पारयति ।
एदम् अगन्म देवयजनम् पृथिव्या इत्य् आह
देवयजनम्̇ ह्य् एष पृथिव्या आगच्छति यो यजते
विश्वे देवा यद् अजुषन्त पूर्व इत्य् आह विश्वे ह्य् एतद् देवा जोषयन्ते यद् ब्राह्मणा ऋक्सामाभ्यां यजुषा संतरन्त इत्य् आह ।
ऋक्सामाभ्याम्̇ ह्य् एष यजुषा संतरति यो यजते
रायस् पोषेण सम् इषा मदेमेत्य् आहाऽऽशिषम् एवैताम् आ शास्ते ॥
3.1.2 अनुवाक 2
सोमोपस्थानादि
VERSE: 1
एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् ।
एष ते त्रैष्टुभो जागतो भाग इति मे सोमाय ब्रूतात् ।
छन्दोमानाम्̇ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् ।
यो वै सोमम्̇ राजानम्̇ साम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यं छन्दाम्̇सि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः
पुरस्तात् सोमस्य क्रयाद् एवम् अभि मन्त्रयेत
साम्राज्यम् एव
VERSE: 2
एनं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यम्
यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
ब्रह्मवादिनो वदन्ति
न प्राश्नन्ति न जुह्वत्य् अथ क्व तानूनप्त्रम् प्रति तिष्ठतीति प्रजापतौ मनसीति ब्रूयात्
त्रिर् अव जिघ्रेत्
प्रजापतौ त्वा मनसि जुहोमि ।
इत्य् एषा वै तानूनप्त्रस्य प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति
यो
VERSE: 3
वा अध्वर्योः प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
यतो मन्येतानभिक्रम्य होष्यामीति तत् तिष्ठन्न् आ श्रावयेत्
एषा वा अध्वर्योः प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति
यद् अभिक्रम्य जुहुयात् प्रतिष्ठाया इयात् तस्मात् समानत्र तिष्ठता होतव्यम् प्रतिष्ठित्यै
यो वा अध्वर्योः स्वं वेद स्ववान् एव भवति
स्रुग् वा अस्य स्वं वायव्यम् अस्य
VERSE: 4
स्वं चमसो ऽस्य स्वं यद् वायव्यं वा चमसं वानन्वारभ्याश्रावयेत् स्वाद् इयात् तस्माद् अन्वारभ्याश्राव्यम्̇ स्वाद् एव नैति
यो वै सोमम् अप्रतिष्ठाप्य स्तोत्रम् उपाकरोत्य् अप्रतिष्ठितः सोमो भवत्य् अप्रतिष्ठितः स्तोमो ऽप्रतिष्ठितान्य् उक्थान्य् अप्रतिष्ठितो यजमानो ऽप्रतिष्ठितो ऽध्वर्युः ।
वायव्यं वै सोमस्य प्रतिष्ठा चमसो ऽस्य प्रतिष्ठा सोमः स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकुर्यात्
प्रत्य् एव सोमम्̇ स्थापयति प्रति स्तोमम् प्रत्य् उक्थानि प्रति यजमानस् तिष्ठति प्रत्य् अध्वर्युः ॥
3.1.3 अनुवाक 3
सोमक्रयणीपदाञ्जनादि
VERSE: 1
यज्ञं वा एतत् सम् भरन्ति यत् सोमक्रयण्यै पदम् ।
यज्ञमुखम्̇ हविर्धाने
यर्हि हविर्धाने प्राची प्रवर्तयेयुस् तर्हि तेनाक्षम् उपाञ्ज्यात् ।
यज्ञमुख एव यज्ञम् अनु सं तनोति
प्राञ्चम् अग्निम् प्र हरन्त्य् उत् पत्नीम् आ नयन्त्य् अन्व् अनाम्̇सि प्र वर्तयन्ति ।
अथ वा अस्यैष धिष्णियो हीयते सो ऽनु ध्यायति स ईश्वरो रुद्रो भूत्वा
VERSE: 2
प्रजाम् पशून् यजमानस्य शमयितोः ।
यर्हि पशुम् आप्रीतम् उदञ्चं नयन्ति तर्हि तस्य पशुश्रपणम्̇ हरेत् तेनैवैनम् भागिनं करोति
यजमानो वा आहवनीयः ।
यजमानं वा एतद् वि कर्षन्ते यद् आहवनीयात् पशुश्रपणम्̇ हरन्ति
स वैव स्यान् निर्मन्थ्यं वा कुर्याद् यजमानस्य सात्मत्वाय
यदि पशोर् अवदानं नश्येद् आज्यस्य प्रत्याख्यायम् अव द्येत्
सैव ततः प्रायश्चित्तिः ।
ये पशुं विमथ्नीरन् यस् तान् कामयेत ।
आर्तिम् आर्छेयुर् इति कुविद् अङ्गेति नमोवृक्तिवत्यर्चाऽऽग्नीध्रे जुहुयात् ।
नमोवृक्तिम् एवैषां वृङ्क्ते ताजग् आर्तिम् आर्छन्ति ॥
3.1.4 अनुवाक 4
पशूपाकरणादि मन्त्राः
VERSE: 1
प्रजापतेर् जायमानाः प्रजा जाताश् च या इमाः । तस्मै प्रति प्र वेदय चिकित्वाम्̇ अनु मन्यताम् ॥
इमम् पशुम् पशुपते ते अद्य बध्नाम्य् अग्ने सुकृतस्य मध्ये । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥
प्रजानन्तः प्रति गृह्णन्ति पूर्वे प्राणम् अङ्गेभ्यः पर्य् आचरन्तम् । सुवर्गं याहि पथिभिर् देवयानैर् ओषधीषु प्रति तिष्ठा शरीरैः ॥
येषाम् ईशे
VERSE: 2
पशुपतिः पशूनां चतुष्पदाम् उत च द्विपदाम् । निष्क्रीतो ऽयं यज्ञियम् भागम् एतु रायस् पोषा यजमानस्य सन्तु ॥
ये बध्यमानम् अनु बध्यमाना अभ्येक्षन्त मनसा चक्षुषा च । अग्निस् ताम्̇ अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥
य आरण्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुस् ताम्̇ अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥
प्रमुञ्चमानाः
VERSE: 3
भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतम्̇ शशमानं यद् अस्थाज् जीवं देवानाम् अप्य् एतु पाथः ॥
नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिः सह देवयानः । जीवं देवानाम् अप्य् एतु पाथः सत्याः सन्तु यजमानस्य कामाः ॥
यत् पशुर् मायुम् अकृतोरो वा पद्भिर् आहते । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̇हसः ॥
शमितार उपेतन यज्ञम्
VERSE: 4
देवेभिर् इन्वितम् । पाशात् पशुम् प्र मुञ्चत बन्धाद् यज्ञपतिम् परि ॥
अदितिः पाशम् प्र मुमोक्त्व् एतं नमः पशुभ्यः पशुपतये करोमि । अरातीयन्तम् अधरं कृणोमि यं द्विष्मस् तस्मिन् प्रति मुञ्चामि पाशम् ॥
त्वाम् उ ते दधिरे हव्यवाहम्̇ शृतंकर्तारम् उत यज्ञियं च । अग्ने सदक्षः सतनुर् हि भूत्वाथ हव्या जातवेदो जुषस्व ॥
जातवेदो वपया गच्छ देवान् त्वम्̇ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतम्̇ हविर् अदन्तु देवाः ॥
स्वाहा देवेभ्यो देवेभ्यः स्वाहा ॥
3.1.5 अनुवाक 5
पशूपाकरणादि मन्त्रब्राह्मणम्
VERSE: 1
प्राजापत्या वै पशवस् तेषाम्̇ रुद्रो ऽधिपतिः ।
यद् एताभ्याम् उपाकरोति ताभ्याम् एवैनम् प्रतिप्रोच्या लभत आत्मनो ऽनाव्रस्काय
द्वाभ्याम् उपाकरोति
द्विपाद् यजमानः
प्रतिष्ठित्यै ।
उपाकृत्य पञ्च जुहोति
पाङ्क्ताः पशवः
पशून् एवाव रुन्द्धे
मृत्यवे वा एष नीयते यत् पशुस्
तं यद् अन्वारभेत प्रमायुको यजमानः स्यात् ।
नाना प्राणो यजमानस्य पशुनेत्य् आह व्यावृत्त्यै ।
VERSE: 2
यत् पशुर् मायुम् अकृतेति जुहोति शान्त्यै
शमितार उपेतनेत्य् आह
यथायजुर् एवैतत् ।
वपायां वा आह्रियमाणायाम् अग्नेर् मेधो ऽप क्रामति
त्वाम् उ ते दधिरे हव्यवाहम् इति वपाम् अभि जुहोति ।
अग्नेर् एव मेधम् अव रुन्द्धे ।
अथो शृतत्वाय
पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयो ऽन्ये
स्वाहा देवेभ्यो देवेभ्यः स्वाहेत्य् अभितो वपां जुहोति
तान् एवोभयान् प्रीणाति ॥
3.1.6 अनुवाक 6
आग्नीध्राद्यभिमर्शनम्
VERSE: 1
यो वा अयथादेवतं यज्ञम् उपचरत्य् आ देवताभ्यो वृश्च्यते पापीयान् भवति यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान् भवति ।
आग्नेय्यर्चाग्नीध्रम् अभि मृशेद् वैष्णव्या हविर्धानम् आग्नेय्या स्रुचो वायव्यया वायव्यान्य् ऐन्द्रिया सदो यथादेवतम् एव यज्ञम् उप चरति न देवताभ्य आ वृश्च्यते वसीयान् भवति
युनज्मि ते पृथिवीं ज्योतिषा सह युनज्मि वायुम् अन्तरिक्षेण
VERSE: 2
ते सह युनज्मि वाचम्̇ सह सूर्येण ते युनज्मि तिस्रो विपृचः सूर्यस्य ते
अग्निर् देवता गायत्री छन्द उपाम्̇शोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असीन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रम् असि बृहस्पतिर् देवतानुष्टुप् छन्दो मित्रावरुणयोः पात्रम् अस्य् अश्विनौ देवता पङ्क्तिश् छन्दो ऽश्विनोः पात्रम् असि सूर्यो देवता बृहती
VERSE: 3
छन्दः शुक्रस्य पात्रम् असि चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रम् असि विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रम् असीन्द्रो देवता ककुच् छन्द उक्थानाम् पात्रम् असि पृथिवी देवता विराट् छन्दो ध्रुवस्य पात्रम् असि ॥
3.1.7 अनुवाक 7
मत्सरिणोर्यजमानयोः नैमित्तिकः प्रयोगः
VERSE: 1
इष्टर्गो वा अध्वर्युर् यजमानस्येष्टर्गः खलु वै पूर्वो ऽर्ष्टुः क्षीयते ।
आसन्यान् मा मन्त्रात् पाहि कस्याश् चिद् अभिशस्त्याः ।
इति पुरा प्रातरनुवाकाज् जुहुयाद् आत्मन एव तद् अध्वर्युः पुरस्ताच् छर्म नह्यते ऽनार्त्यै
संवेशाय त्वोपवेशाय त्वा गायत्रियास् त्रिष्टुभो जगत्या अभिभूत्यै स्वाहा
प्राणापानौ मृत्योर् मा पातम् प्राणापानौ मा मा हासिष्टं देवतासु वा एते प्राणापानयोः
VERSE: 2
व्यायच्छन्ते येषाम्̇ सोमः समृच्छते
संवेशाय त्वोपवेशाय त्वा ।
इत्य् आह छन्दाम्̇सि वै संवेश उपवेशश् छन्दोभिर् एवास्य छन्दाम्̇सि वृङ्क्ते
प्रेतिवन्त्य् आज्यानि भवन्त्य् अभिजित्यै मरुत्वतीः प्रतिपदो विजित्यै ।
उभे बृहद्रथन्तरे भवतः ।
इयं वाव रथंतरम् असौ बृहद् आभ्याम् एवैनम् अन्तर् एति ।
अद्य वाव रथंतरम्̇ श्वो बृहद् अद्याश्वाद् एवैनम् अन्तर् एति
भूतम्
VERSE: 3
वाव रथंतरम् भविष्यद् बृहद् भूताश् चैवैनम् भविष्यतश् चान्तर् एति
परिमितं वाव रथंतरम् अपरिमितम् बृहत् परिमिताच् चैवैनम् अपरिमिताच् चान्तर् एति
विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम्̇ स एतज् जमदग्निर् विहव्यम् अपश्यत् तेन वै स वसिष्ठस्येन्द्रियं वीर्यम् अवृङ्क्त
यद् विहव्यम्̇ शस्यत इन्द्रियम् एव तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते
यस्य भूयाम्̇सो यज्ञक्रतव इत्य् आहुः
स देवता वृङ्क्त इति
यद्य् अग्निष्टोमः सोमः परस्तात् स्याद् उक्थ्यं कुर्वीत यद्य् उक्थ्यः स्याद् अतिरात्रं कुर्वीत यज्ञक्रतुभिर् एवास्य देवता वृङ्क्ते वसीयान् भवति ॥
3.1.8 अनुवाक 8
उपांशुग्रहार्थो अभिषवः
VERSE: 1
निग्राभ्या स्थ देवश्रुत आयुर् मे तर्पयत प्राणम् मे तर्पयतापानम् मे तर्पयत व्यानम् मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रम् मे तर्पयत मनो मे तर्पयत वाचम् मे तर्पयतात्मानम् मे तर्पयताङ्गानि मे तर्पयत प्रजाम् मे तर्पयत पशून् मे तर्पयत गृहान् मे तर्पयत गणान् मे तर्पयत सर्वगणम् मा तर्पयत तर्पयत मा
VERSE: 2
गणा मे मा वि तृषन् ।
ओषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोर् ईश्वरा ऐन्द्रः सोमः ।
अवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद् वः स्याम । इन्द्रेण देवीर् वीरुधः संविदाना अनु मन्यन्ताम्̇ सवनाय सोमम्
इत्य् आहौषधीभ्य एवैनम्̇ स्वायै विशः स्वायै देवतायै निर्याच्याभि षुणोति
यो वै सोमस्याभिषूयमाणस्य
VERSE: 3
प्रथमो ऽम्̇शु स्कन्दति स ईश्वर इन्द्रियं वीर्यम् प्रजाम् पशून् यजमानस्य निर्हन्तोस् तम् अभि मन्त्रयेत ।
आ मास्कान्त् सह प्रजया सह रायस् पोषेणेन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इत्य् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् अनिर्घाताय
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
3.1.9 अनुवाक 9
सवनाहुत्यादि मन्त्राः
VERSE: 1
यो वै देवान् देवयशसेनार्पयति मनुष्यान् मनुष्ययशसेन देवयशस्य् एव देवेषु भवति मनुष्ययशसी मनुष्येषु
यान् प्राचीनम् आग्रयणाद् ग्रहान् गृह्णीयात् तान् उपाम्̇शु गृह्णीयाद् यान् ऊर्ध्वाम्̇स् तान् उपब्दिमतो देवान् एव तद् देवयशसेनार्पयति मनुष्यान् मनुष्ययशसेन देवयशस्य् एव देवेषु भवति मनुष्ययशसी मनुष्येषु ।
अग्निः प्रातःसवने पात्व् अस्मान् वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्रविणं दधातु ॥
VERSE: 2
आयुष्मन्तः सहभक्षाः स्याम ॥
विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियम् एषां वदन्तो वयं देवानाम्̇ सुमतौ स्याम ॥
इदं त्रितीयम्̇ सवनं कवीनाम् ऋतेन ये चमसम् ऐरयन्त । ते सौधन्वनाः सुवर् आनशानाः स्विष्टिं नो अभि वसीयो नयन्तु ॥
आयतनवतीर् वा अन्या आहुतयो हूयन्ते ऽनायतना अन्याः ।
या आघारवतीस् ता आयतनवतीर् याः
VERSE: 3
सौम्यास् ता अनायतना ऐन्द्रवायवम् आदायाघारम् आ घारयेत् ।
अध्वरो यज्ञो ऽयम् अस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरो ऽसि स पिन्वस्व घृतवद् देव सोम ।
इति
सौम्या एव तद् आहुतीर् आयतनवतीः करोत्य् आयतनवान् भवति य एवं वेद ।
अथो द्यावापृथिवी एव घृतेन व्य् उनत्ति
ते व्युनत्ते उपजीवनीये भवत उपजीवनीयो भवति
VERSE: 4
य एवं वेद ।
एष ते रुद्र भागो यं निरयाचथास् तं जुषस्व विदेर् गौपत्यम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम्
मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठम् ब्रह्मचर्यं वसन्तं निर् अभजत् स आगच्छत् सो ऽब्रवीत्
कथा मा निर् अभाग् इति
न त्वा निर् अभाक्षम् इत्य् अब्रवीद् अङ्गिरस इमे सत्त्रम् आसते ते
VERSE: 5
सुवर्गं लोकं न प्र जानन्ति तेभ्य इदम् ब्राह्मणम् ब्रूहि ते सुवर्गं लोकम् यन्तो य एषाम् पशवस् ताम्̇स् ते दास्यन्तीति
तद् एभ्यो ऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषाम् पशव आसन् तान् अस्मा अददुस्
तम् पशुभिश् चरन्तं यज्ञवास्तौ रुद्र आगच्छत् सो ऽब्रवीन् मम वा इमे पशव इत्य् अदुर् वै
VERSE: 6
मह्यम् इमान् इत्य् अब्रवीन् न वै तस्य त ईशत इत्य् अब्रवीद् यद् यज्ञवास्तौ हीयते मम वै तद् इति तस्माद् यज्ञवास्तु नाभ्यवेत्यम् ।
सो ऽब्रवीद् यज्ञे मा भजाथ ते पशून् नाभि मम्̇स्य इति
तस्मा एतम् मन्थिनः सम्̇स्रावम् अजुहोत् ततो वै तस्य रुद्रः पशून् नाभ्य् अमन्यत
यत्रैतम् एवं विद्वान् मन्थिनः सम्̇स्रावं जुहोति न तत्र रुद्रः पशून् अभि मन्यते ॥
3.1.10 अनुवाक 10
प्रवृत्तहोमादि मन्त्राः
VERSE: 1
जुष्टो वाचो भूयासं जुष्टो वाचस् पतये देवि वाक् । यद् वाचो मधुमत् तस्मिन् मा धाः स्वाहा सरस्वत्यै ॥
ऋचा स्तोमम्̇ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥
यस् ते द्रप्स स्कन्दति यस् ते अम्̇शुर् बाहुच्युतो धिषणयोर् उपस्थात् । अध्वर्योर् वा परि यस् ते पवित्रात् स्वाहाकृतम् इन्द्राय तं जुहोमि ॥
यो द्रप्सो अम्̇शुः पतितः पृथिव्याम् परिवापात्
VERSE: 2
पुरोडाशात् करम्भात् । धानासोमान् मन्थिन इन्द्र शुक्रात् स्वाहाकृतम् इन्द्राय तं जुहोति ॥
यस् ते द्रप्सो मधुमाम्̇ इन्द्रियावान्त् स्वाहाकृतः पुनर् अप्येति देवान् । दिवः पृथिव्याः पर्य् अन्तरिक्षात् स्वाहाकृतम् इन्द्राय तं जुहोमि ॥
अध्वर्युर् वा ऋत्विजाम् प्रथमो युज्यते तेन स्तोमो योक्तव्यः ।
इत्य् आहुः ।
वाग् अग्रेगा अग्र एत्व् ऋजुगा देवेभ्यो यशो मयि दधती प्राणान् पशुषु प्रजाम् मयि
VERSE: 3
च यजमाने च ।
इत्य् आह वाचम् एव तद् यज्ञमुखे युनक्ति
वास्तु वा एतद् यज्ञस्य क्रियते यद् ग्रहान् गृहीत्वा बहिष्पवमानम्̇ सर्पन्ति
पराञ्चो हि यन्ति पराचीभिः स्तुवते वैष्णव्यर्चा पुनर् एत्योप तिष्ठते यज्ञो वै विष्णुर् यज्ञम् एवाकर्
विष्णो त्वं नो अन्तमः शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रत अक्षितम्
इत्य् आह यद् एवास्य शयानस्योपशुष्यति तद् एवास्यैतेनाऽऽ प्याययति ॥
3.1.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥
गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाम्̇ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥
आ प्यायस्व
सं ते ॥
इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । अस्माकम् अस्तु केवलः ॥
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । यतो वीरः
VERSE: 2
कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । यज्ञेयज्ञे न उद् अव ॥
पिशंगरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥
प्र णो देवी ।
आ नो दिवः ॥
पीपिवाम्̇सम्̇ सरस्वत स्तनं यो विश्वदर्शतः । धुक्षीमहि प्रजाम् इषम् ॥
VERSE: 3
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेषां ते सुम्नम् ईमहे ॥
यस्य व्रतम् पशवो यन्ति सर्वे यस्य व्रतम् उपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर् निविष्टस् तम्̇ सरस्वन्तम् अवसे हुवेम ॥
दिव्यम्̇ सुपर्णं वयसम् बृहन्तम् अपां गर्भं वृषभम् ओषधीनाम् । अभीपतो वृष्ट्या तर्पयन्तं तम्̇ सरस्वन्तम् अवसे हुवेम ॥
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्य
VERSE: 4
माहुतम् प्रजां देवि दिदिड्ढि नः ॥
या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पत्नियै हविः सिनीवाल्यै जुहोतन ॥
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ॥
असितवर्णा हरयः सुपर्णा मिहो वसाना दिवम् उत् पतन्ति । त आऽववृत्रन्त् सदनानि कृत्वाऽऽद् इत् पृथिवी घृतैर् व्य् उद्यते ॥
हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । शुचिभ्राजा उषसः
VERSE: 5
नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥
आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥
वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । यद् एषां वृष्टिर् असर्जि ॥
पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । यत् क्रीडथ मरुतः
VERSE: 6
ऋष्टिमन्त आप इव सध्रियञ्चो धवध्वे ॥
अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । दृतिम्̇ सु कर्ष विषितं न्यञ्चम्̇ समा भवन्तूद्वता निपादाः ॥
त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥
अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य धाम । याश् च
VERSE: 7
माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥
पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥
उदप्रुतो मरुतस् ताम्̇ इयर्त वृष्टिम्
VERSE: 8
ये विश्वे मरुतो जुनन्ति । क्रोशाति गर्दा कन्येव तुन्ना पेरुं तुञ्जाना पत्येव जाया ॥
घृतेन द्यावापृथिवी मधुना सम् उक्षत पयस्वतीः कृणुताप ओषधीः । ऊर्जं च तत्र सुमतिं च पिन्वथ यत्रा नरो मरुतः सिञ्चथा मधु ॥
उद् उ त्यम् ।
चित्रम् ॥
और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । अग्निम्̇ समुद्रवाससम् ॥ आ सवम्̇ सवितुर् यथा भगस्येव भुजिम्̇ हुवे । अग्निम्̇ समुद्रवाससम् ॥
हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यम्̇ सहः । अग्निम्̇ समुद्रवाससम् ॥
3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
VERSE: 1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते
VERSE: 2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
VERSE: 3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2
सवननिरूपणम्
VERSE: 1
त्रीणि वाव सवनानि ।
अथ तृतीयम्̇ सवनम् अव लुम्पन्त्य् अनम्̇शु कुर्वन्त उपाम्̇शुम्̇ हुत्वोपाम्̇शुपात्रे ऽम्̇शुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाम्̇शुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अम्̇शुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
VERSE: 2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्
VERSE: 3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनम्̇ सवनम्̇ साकमेधान् पितृयज्ञं त्र्यम्बकाम्̇स् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाम्̇सन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3
सोमावेक्षणम्
VERSE: 1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माम्̇ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शम्̇ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे
VERSE: 2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदम्̇ सुप्रजाः प्रजया भूयासम्̇ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
VERSE: 3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी
VERSE: 4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याम्̇ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः
VERSE: 1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
VERSE: 2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै
VERSE: 3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽम्̇हसस् पातम् ।
सूर्यो मा देवो दिव्याद् अम्̇हसस् पातु वायुर् अन्तरिक्षात्
VERSE: 4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्
VERSE: 5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिम्̇सितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासम्̇ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5
भक्षमन्त्राः
VERSE: 1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याम्̇ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे
VERSE: 2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशम्̇सपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशम्̇सपीतस्य
VERSE: 3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशम्̇सपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
VERSE: 4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
VERSE: 5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
VERSE: 6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माम्̇स् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
VERSE: 7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयम्̇ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
VERSE: 1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
VERSE: 2
ग्रहम्̇ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै
VERSE: 3
एतस्य स्कन्दति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यम्̇ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञम्̇ सं तनोति ॥
3.2.7 अनुवाक 7
स्तुतशस्त्रे
VERSE: 1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यम्̇ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्
VERSE: 2
अस्य् ऊर्जम् मह्यम्̇ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माम्̇ अधिपतीन् करोतु वयम्̇ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै
VERSE: 3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यम्̇ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यम्̇ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः
VERSE: 1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाम्̇ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाम्̇ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताम्̇ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा
VERSE: 2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याम्̇ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
VERSE: 3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
VERSE: 4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताम्̇ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी
VERSE: 5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरम्̇ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणम्̇ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याम्̇ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
VERSE: 6
प्र च्यावयन्तु
दिवि देवान् दृम्̇हान्तरिक्षे वयाम्̇सि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मम्̇ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
VERSE: 1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनम्̇ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
VERSE: 2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाम्̇सि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूम्̇स् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
VERSE: 3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाम्̇सि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनम्̇ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाम्̇सि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनम्̇ सवनम् ॥
VERSE: 4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाम्̇सि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
VERSE: 5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोम्̇सा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
VERSE: 6
ऋचः प्रणव उक्थशम्̇सिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शम्̇सत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
VERSE: 7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शम्̇सति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शम्̇सति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनम्̇ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः
VERSE: 1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तम्̇ रक्षस्व
VERSE: 2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः
VERSE: 1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वम्̇ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीम्̇षि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा
VERSE: 2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूम्̇षि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
VERSE: 3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीम्̇र् एकादशाम्̇ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृम्̇हिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकम्̇ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
णेxत् पर्त्
ठिस् तेxत् इस् पर्त् ओf थे टीटूष् एदितिओन् ओf Bलच्क् Yअजुर्-Vएदः टैत्तिरिय-षम्हित.
3.3 प्रपाठक: 3
3.3.1 अनुवाक 1
अतिग्राह्य मन्त्राः
VERSE: 1
अग्ने तेजस्विन् तेजस्वी त्वं देवेषु भूयास् तेजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु दीक्षायै च त्वा तपसश् च तेजसे जुहोमि
तेजोविद् असि तेजो मा मा हासीन् माऽहं तेजो हासिषम् मा मां तेजो हासीत् ।
इन्द्रौजस्विन्न् ओजस्वी त्वं देवेषु भूया ओजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु ब्रह्मणश् च त्वा क्षत्रस्य च
VERSE: 2
ओजसे जुहोमि ।
ओजोविद् अस्य् ओजो मा मा हासीन् माऽहम् ओजो हासिषम् मा माम् ओजो हासीत्
सूर्य भ्राजस्विन् भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु वायोश् च त्वापां च भ्राजसे जुहोमि
सुवर्विद् असि सुवर् मा मा हासीन् माऽहम्̇ सुवर् हासिषम् मा माम्̇ सुवर् हासीत् ।
मयि मेधाम् मयि प्रजाम् मय्य् अग्निस् तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियं दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु ॥
3.3.2 अनुवाक 2
स्तोत्रोपाकरणप्रतिगराङ्गमन्त्राः
VERSE: 1
वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु ।
एतद् वै सर्वम् अध्वर्युर् उपाकुर्वन्न् उद्गातृभ्य उपाकरोति ते देवाः प्राणभृतः प्राणम् मयि दधत्व् इत्य् आहैतद् एव सर्वम् आत्मन् धत्ते ।
इडा देवहूर् मनुर् यज्ञनीः ।
बृहस्पतिर् उक्थामदानि शम्̇सिषत् ।
विश्वे देवाः
VERSE: 2
सूक्तवाचः ।
पृथिवि मातर् मा मा हिम्̇सीः ।
मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचम् उद्यासम्̇ शुश्रूषेण्याम् मनुष्येभ्यस्
तम् मा देवा अवन्तु शोभायै पितरो ऽनु मदन्तु ॥
3.3.3 अनुवाक 3
अदाभ्यांशुग्रह मन्त्राः
VERSE: 1
वसवस् त्वा प्र वृहन्तु गायत्रेण छन्दसाग्नेः प्रियम् पाथ उपेहि
रुद्रास् त्वा प्र वृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथ उपेहि ।
आदित्यास् त्वा प्र वृहन्तु जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथ उपेहि
मान्दासु ते शुक्र शुक्रम् आ धूनोमि
भन्दनासु
कोतनासु
नूतनासु
रेशीषु
मेषीषु
वाशीषु
विश्वभृत्सु
माध्वीषु
ककुहासु
शक्वरीषु
VERSE: 2
शुक्रासु ते शुक्र शुक्रम् आ धूनोमि
शुक्रं ते शुक्रेण गृह्णाम्य् अह्नो रूपेण सूर्यस्य रश्मिभिः ।
आऽस्मिन्न् उग्रा अचुच्यवुर् दिवो धारा असश्चत
ककुहम्̇ रूपं वृषभस्य रोचते बृहत् सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
उशिक् त्वं देव सोम गायत्रेण छन्दसाऽग्नेः
VERSE: 3
प्रियम् पाथो अपीहि
वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथो अपीहि ।
अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथो अपीहि ।
आ नः प्राण एतु परावत आन्तरिक्षाद् दिवस् परि । आयुः पृथिव्या अध्य् अमृतम् असि प्राणाय त्वा ।
इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तम् अश्विना ॥
दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥
3.3.4 अनुवाक 4
अदाभ्यांशुग्रहमन्त्राणां ब्राह्मणम्
VERSE: 1
एतद् वा अपां नामधेयं गुह्यं यद् आधावाः ।
मान्दासु ते शुक्र शुक्रम् आ धूनोमीत्य् आह ।
अपाम् एव नामधेयेन गुह्येन दिवो वृष्टिम् अव रुन्द्धे
शुक्रं ते शुक्रेण गृह्णामीत्य् आह ।
एतद् वा अह्नो रूपं यद् रात्रिः
सूर्यस्य रश्मयो वृष्ट्या ईशते ।
अह्न एव रूपेण सूर्यस्य रश्मिभिर् दिवो वृष्टिं च्यावयति ।
आऽस्मिन्न् उग्राः
VERSE: 2
अचुच्यवुर् इत्य् आह
यथायजुर् एवैतत्
ककुहम्̇ रूपं वृषभस्य रोचते बृहद् इत्य् आह ।
एतद् वा अस्य ककुहम्̇ रूपं यद् वृष्टिः ।
रूपेणैव वृष्टिम् अव रुन्द्धे
यत् ते सोमादाभ्यं नाम जागृवीत्य् आह ।
एष ह वै हविषा हविर् यजति यो ऽदाभ्यं गृहीत्वा सोमाय जुहोति
परा वा एतस्यायुः प्राण एति
VERSE: 3
यो ऽम्̇शुं गृह्णाति ।
आ नः प्राण एतु परावत इत्य् आह ।
आयुर् एव प्राणम् आत्मन् धत्ते ।
अमृतम् असि प्राणाय त्वेति हिरण्यम् अभि व्यनिति ।
अमृतं वै हिरण्यम् आयुः प्राणः ।
अमृतेनैवायुर् आत्मन् धत्ते
शतमानम् भवति
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अप उप स्पृशति
भेषजं वा आपः ।
भेषजम् एव कुरुते ॥
3.3.5 अनुवाक 5
द्वादशाहे पृश्निग्रहाः
VERSE: 1
वायुर् असि प्राणो नाम सवितुर् आधिपत्ये ऽपानम् मे दाः ।
चक्षुर् असि श्रोत्रं नाम धातुर् आधिपत्य आयुर् मे दाः ।
रूपम् असि वर्णो नाम बृहस्पतेर् आधिपत्ये प्रजाम् मे दाः ।
ऋतम् असि सत्यं नामेन्द्रस्याधिपत्ये क्षत्रम् मे दाः ।
भूतम् असि भव्यं नाम पितृणाम् आधिपत्ये ऽपाम् ओषधीनां गर्भं धाः ।
ऋतस्य त्वा व्योमने ।
ऋतस्य
VERSE: 2
त्वा विभूमने ।
ऋतस्य त्वा विधर्मणे ।
ऋतस्य त्वा सत्याय ।
ऋतस्य त्वा ज्योतिषे
प्रजापतिर् विराजम् अपश्यत् तया भूतं च भव्यं चासृजत ताम् ऋषिभ्यस् तिरो ऽदधात् तां जमदग्निस् तपसाऽपश्यत् तया वै स पृश्नीन् कामान् असृजत तत् पृश्नीनाम् पृश्नित्वम् ।
यत् पृश्नयो गृह्यन्ते पृश्नीन् एव तैः कामान् यजमानो ऽव रुन्द्धे
वायुर् असि प्राणः
VERSE: 3
नामेत्य् आह प्राणापानाव् एवाव रुन्द्धे
चक्षुर् असि श्रोत्रं नामेत्य् आहाऽऽयुर् एवाव रुन्द्धे
रूपम् असि वर्णो नामेत्य् आह प्रजाम् एवाव रुन्द्धे ।
ऋतम् असि सत्यं नामेत्य् आह क्षत्रम् एवाव रुन्द्धे
भूतम् असि भव्यं नामेत्य् आह पशवो वा अपाम् ओषधीनां गर्भः पशून् एव
VERSE: 4
अव रुन्द्धे ।
एतावद् वै पुरुषम् परितस् तद् एवाव रुन्द्धे ।
ऋतस्य त्वा व्योमन इत्य् आहेयं वा ऋतस्य व्योमेमाम् एवाभि जयति ।
ऋतस्य त्वा विभूमन इत्य् आहान्तरिक्षम् वा ऋतस्य विभूमान्तरिक्षम् एवाभि जयति ।
ऋतस्य त्वा विधर्मण इत्य् आह द्यौर् वा ऋतस्य विधर्म दिवम् एवाभि जयति ।
ऋतस्य
VERSE: 5
त्वा सत्यायेत्य् आह दिशो वा ऋतस्य सत्यं दिश एवाभि जयति ।
ऋतस्य त्वा ज्योतिष इत्य् आह सुवर्गो वै लोक ऋतस्य ज्योतिः सुवर्गम् एव लोकम् अभि जयति ।
एतावन्तो वै देवलोकास् तान् एवाभि जयति
दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥
3.3.6 अनुवाक 6
गवामयने परःसंज्ञका अतिग्राह्याः
VERSE: 1
देवा वै यद् यज्ञेन नावारुन्धत तत् परैर् अवारुन्धत
तत् पराणाम् परत्वम् ।
यत् परे गृह्यन्ते यद् एव यज्ञेन नावरुन्द्धे तस्यावरुद्ध्यै
यम् प्रथमं गृह्णातीमम् एव तेन लोकम् अभि जयति
यं द्वितीयम् अन्तरिक्षं तेन
यं तृतीयम् अमुम् एव तेन लोकम् अभि जयति
यद् एते गृह्यन्त एषां लोकानाम् अभिजित्यै ।
VERSE: 2
उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते ।
अभिजित्यैवेमाँल्लोकान् पुनर् इमं लोकम् प्रत्यवरोहन्ति
यत् पूर्वेष्व् अहःस्व् इतः पराञ्चो गृह्यन्ते तस्माद् इतः पराञ्च इमे लोकाः ।
यद् उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते तस्माद् अमुतो ऽर्वाञ्च इमे लोकास्
तस्माद् अयातयाम्नो लोकान् मनुष्या उप जीवन्ति
ब्रह्मवादिनो वदन्ति
कस्मात् सत्याद् अद्भ्य ओषधयः सम् भवन्त्य् ओषधयः
VERSE: 3
मनुष्याणाम् अन्नम् प्रजापतिम् प्रजा अनु प्र जायन्त इति
परान् अन्व् इति ब्रूयात् ।
यद् गृह्णाति ।
अद्भ्यस् त्वौषधीभ्यो गृह्णामीति तस्माद् अद्भ्य ओषधयः सम् भवन्ति
यद् गृह्णाति ।
ओषधीभ्यस् त्वा प्रजाभ्यो गृह्णामीति तस्माद् ओषधयो मनुष्याणाम् अन्नम् ।
यद् गृह्णाति
प्रजाभ्यस् त्वा प्रजापतये गृह्णामीति तस्मात् प्रजापतिम् प्रजा अनु प्र जायन्ते ॥
3.3.7 अनुवाक 7
आश्रावयेत्यादिः मन्त्रविधिः
VERSE: 1
प्रजापतिर् देवासुरान् असृजत
तद् अनु यज्ञो ऽसृज्यत यज्ञं छन्दाम्̇सि
ते विष्वञ्चो व्यक्रामन् ।
सो ऽसुरान् अनु यज्ञो ऽपाक्रामद् यज्ञं छन्दाम्̇सि
ते देवा अमन्यन्त ।
अमी वा इदम् अभूवन् यद् वयम्̇ स्म इति
ते प्रजापतिम् उपाधावन् ।
सो ऽब्रवीत् प्रजापतिः ।
छन्दसां वीर्यम् आदाय तद् वः प्र दास्यामीति
स छन्दसां वीर्यम्
VERSE: 2
आदाय तद् एभ्यः प्रायच्छत्
तद् अनु छन्दाम्̇स्य् अपाक्रामञ् छन्दाम्̇सि यज्ञस्
ततो देवा अभवन् परासुराः ।
य एवं छन्दसां वीर्यं वेदा श्रावयास्तु श्रौषड् यज ये यजमाहे वषट्कारो भवत्य् आत्मना पराऽस्य भ्रातृव्यो भवति
ब्रह्मवादिनो वदन्ति
कस्मै कम् अध्वर्युर् आ श्रावयतीति
छन्दसां वीर्यायेति ब्रूयात् ।
एतद् वै
VERSE: 3
छन्दसां वीर्यम् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः ।
य एवं वेद सवीर्यैर् एव छन्दोभिर् अर्चति यत् किं चार्चति
यद् इन्द्रो वृत्रम् अहन्न् अमेध्यं तद् यद् यतीन् अपावपद् अमेध्यं तद् अथ कस्माद् ऐन्द्रो यज्ञ आ सम्̇स्थातोर् इत्य् आहुः ।
इन्द्रस्य वा एषा यज्ञिया तनूर् यद् यज्ञस्
ताम् एव तद् यजन्ति
य एवं वेदोपैनं यज्ञो नमति ॥
3.3.8 अनुवाक 8
अवभृथाङ्गहोमादि
VERSE: 1
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि रक्षताद् इमम् ॥
आ वृश्च्यते वा एतद् यजमानो ऽग्निभ्यां यद् एनयोः शृतंकृत्याथान्यत्रावभृथम् अवैति ।
आयुर्दा अग्ने हविषो जुषाण इत्य् अवभृथम् अवैष्यञ् जुहुयाद् आहुत्यैवैनौ शमयति
नार्तिम् आर्छति यजमानः ।
यत् कुसीदम्
VERSE: 2
अप्रतीत्तम् मयि येन यमस्य बलिना चरामि । इहैव सन् निरवदये तद् एतत् तद् अग्ने अनृणो भवामि ॥
विश्वलोप विश्वदावस्य त्वाऽऽसञ् जुहोम्य् अग्धाद् एको ऽहुताद् एकः समसनाद् एकः । ते नः कृण्वन्तु भेषजम्̇ सदः सहो वरेण्यम् ॥
अयं नो नभसा पुरः सम्̇स्फानो अभि रक्षतु । गृहाणाम् असमर्त्यै बहवो नो गृहा असन् ॥
स त्वं नः
VERSE: 3
नभसस् पत ऊर्जं नो धेहि भद्रया । पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि
देव सम्̇स्फान सहस्रपोषस्येशिषे स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीरम्̇ संवत्सरीणाम्̇ स्वस्तिम् ॥
अग्निर् वाव यम इयं यमी
कुसीदं वा एतद् यमस्य यजमान आ दत्ते यद् ओषधीभिर् वेदिम्̇ स्तृणाति
यद् अनुपौष्य प्रयायाद् ग्रीवबद्धम् एनम्
VERSE: 4
अमुष्मिम्̐ लोके नेनीयेरन्
यत् कुसीदम् अप्रतीत्तम् मयीत्य् उपौषतीहैव सन् यमं कुसीदं निरवदायानृणः सुवर्गं लोकम् एति
यदि मिश्रम् इव चरेद् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् ।
एष वा अग्निर् वैश्वानरो यत् प्रदाव्यः स एवैनम्̇ स्वदयति ।
अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावम् पक्त्वा प्रातर् एतेन कक्षम् उपौषेत् ।
यदि
VERSE: 5
दहति पुण्यसमम् भवति यदि न दहति पापसमम्
एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रम् उप यन्ति
यो वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते ।
अग्निर् वा उपद्रष्टा वायुर् उपश्रोताऽऽदित्यो ऽनुख्याता
तान् य एवं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते ।
अयं नो नभसा पुरः
VERSE: 6
इत्य आहाग्निर् वै नभसा पुरो ऽग्निम् एव तद् आह ।
एतन् मे गोपायेति
स त्वं नो नभसस् पत इत्य् आह
वायुर् वै नभसस् पतिर् वायुम् एव तद् आह
एतन् मे गोपायेति
देव सम्̇स्फानेत्य् आह
असौ वा आदित्यो देवः सम्̇स्फान आदित्यम् एव तद् आह
एतन् मे गोपायेति ॥
3.3.9 अनुवाक 9
जीर्णवृषालम्भः
VERSE: 1
एतं युवानम् परि वो ददामि तेन क्रीडन्तीश् चरत प्रियेण । मा नः शाप्त जनुषा सुभागा रायस् पोषेण सम् इषा मदेम ॥
नमो महिम्न उत चक्षुषे ते मरुताम् पितस् तद् अहं गृणामि । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥
देवानाम् एष उपनाह आसीद् अपां गर्भ ओषधीषु न्यक्तः । सोमस्य द्रप्सम् अवृणीत पूषा
VERSE: 2
बृहन्न् अद्रिर् अभवत् तद् एषाम् ॥
पिता वत्सानाम् पतिर् अघ्नियानाम् अथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतम् अस्य रेतः ॥
त्वां गावो ऽवृणत राज्याय त्वाम्̇ हवन्त मरुतः स्वर्काः । वर्ष्मन् क्षत्रस्य ककुभि शिश्रियाणस् ततो न उग्रो वि भजा वसूनि ॥
व्यृद्धेन वा एष पशुना यजते यस्यैतानि न क्रियन्त एष ह त्वै समृद्धेन यजते यस्यैतानि क्रियन्ते ॥
3.3.10 अनुवाक 10
पाशुकं गर्भप्रायश्चित्तम्
VERSE: 1
सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस् त्वा प्रजापतये ज्योतिष्मतीं जुहोतु ॥
यस्यास् ते हरितो गर्भो ऽथो योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्यै तां देवैः सम् अजीगमम् ॥
आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश् चतस्रः प्रदिशस् ताभिर् आ वर्तया पुनः ॥
वि ते भिनद्मि तकरीं वि योनिं वि गवीन्यौ । वि
VERSE: 2
मातरं च पुत्रं च वि गर्भं च जरायु च ।
बहिस् ते अस्तु बाल् इति ।
उरुद्रप्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम्
एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्य् अष्टापदी भुवनानु प्रथताम्̇ स्वाहा
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
3.3.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । उक्थम् मदश् च शस्यते ॥
अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । चारुर् मदाय पीतये ॥
अस्मे इन्द्राबृहस्पती रयिं धत्तम्̇ शतग्विनम् । अश्वावन्तम्̇ सहस्रिणम् ॥
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
वि ते विष्वग् वातजूतासो अग्ने भामासः
VERSE: 2
शुचे शुचयश् चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
त्वाम् अग्ने मानुषीर् ईडते विशो होत्राविदं विविचिम्̇ रत्नधातमम् । गुहा सन्तम्̇ सुभग विश्वदर्शतं तुविष्मणसम्̇ सुयजं घृतश्रियम् ॥
धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥
धाता प्रजाया उत राय ईशे धातेदं विश्वम् भुवनं जजान । धाता पुत्रं यजमानाय दाता
VERSE: 3
तस्मा उ हव्यं घृतवद् विधेम ॥
धाता ददातु नो रयिम् प्राचीं जीवातुम् अक्षिताम् । वयं देवस्य धीमहि सुमतिम्̇ सत्यराधसः ॥
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे । तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥
अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् । अग्निश् च हव्यवाहनो भवतां दाशुषे मयः ॥
अन्व् इद् अनुमते त्वम्
VERSE: 4
मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूम्̇षि तारिषः ॥
अनु मन्यताम् अनुमन्यमाना प्रजावन्तम्̇ रयिम् अक्षीयमाणम् । तस्यै वयम्̇ हेडसि माऽपि भूम सा नो देवी सुहवा शर्म यच्छतु ॥
यस्याम् इदम् प्रदिशि यद् विरोचते ऽनुमतिम् प्रति भूषन्त्य् आयवः । यस्या उपस्थ उर्व् अन्तरिक्षम्̇ सा नो देवी सुहवा शर्म यच्छतु ॥
VERSE: 5
राकाम् अहम्̇ सुहवाम्̇ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरम्̇ शतदायम् उक्थ्यम् ॥
यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । ताभिर् नो अद्य सुमना उपागहि सहस्रपोषम्̇ सुभगे रराणा ॥
सिनीवालि
या सुपाणिः ।
कुहूम् अहम्̇ सुभगां विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणम् पितृणां तस्यास् ते देवि हविषा विधेम ॥
कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषश् चिकेतु । सं दाशुषे किरतु भूरि वामम्̇ रायस् पोषं चिकितुषे दधातु ॥
3.4 प्रपाठक: 4
3.4.1 अनुवाक 1
पाशुकगर्भप्रायश्चित्तमन्त्राणां ब्राह्मणम्
VERSE: 1
वि वा एतस्य यज्ञ ऋध्यते यस्य हविर् अतिरिच्यते
सूर्यो देवो दिविषद्भ्य इत्य् आह
बृहस्पतिना चैवास्य प्रजापतिना च यज्ञस्य व्यृद्धम् अपि वपति
रक्षाम्̇सि वा एतत् पशुम्̇ सचन्ते यद् एकदेवत्य आलब्धो भूयान् भवति
यस्यास् ते हरितो गर्भ इत्य् आह
देवत्रैवैनां गमयति रक्षसाम् अपहत्यै ।
आ वर्तन वर्तयेत्य् आह
VERSE: 2
ब्रह्मणैवैनम् आ वर्तयति
वि ते भिनद्मि तकरीम् इत्य् आह
यथायजुर् एवैतत् ।
उरुद्रप्सो विश्वरूप इन्दुर् इत्य् आह
प्रजा वै पशव इन्दुः
प्रजयैवैनम् पशुभिः सम् अर्धयति
दिवं वै यज्ञस्य व्यृद्धं गच्छति
पृथिवीम् अतिरिक्तम् ।
तद् यन् न शमयेद् आर्तिम् आर्छेद् यजमानः ।
मही द्यौः पृथिवी च न इति
VERSE: 3
आह
द्यावापृथिवीभ्याम् एव यज्ञस्य व्यृद्धं चातिरिक्तं च शमयति नार्तिम् आर्छति यजमानः ।
भस्मनाऽभि समूहति स्वगाकृत्यै ।
अथो अनयोर् वा एष गर्भो ऽनयोर् एवैनं दधाति
यद् अवद्येद् अति तद् रेचयेत् ।
यन् नावद्येत् पशोर् आलब्धस्य नाव द्येत्
पुरस्तान् नाभ्या अन्यद् अवद्येद् उपरिष्टाद् अन्यत्
पुरस्ताद् वै नाभ्यै
VERSE: 4
प्राण उपरिष्टाद् अपानः ।
यावान् एव पशुस् तस्याव द्यति
विष्णवे शिपिविष्टाय जुहोति
यद् वै यज्ञस्यातिरिच्यते यः पशोर् भूमा या पुष्टिस् तद् विष्णुः शिपिविष्टः ।
अतिरिक्त एवातिरिक्तं दधात्य् अतिरिक्तस्य शान्त्यै ।
अष्टाप्रूड् ढिरण्यं दक्षिणा ।
अष्टापदी ह्य् एषा ।
आत्मा नवमः
पशोर् आप्त्यै ।
अन्तरकोश उष्णीषेणाऽऽविष्टितम् भवति ।
एवम् इव हि पशुर् उल्बम् इव चर्मेव माम्̇सम् इवास्थीव
यावान् एव पशुस् तम् आप्त्वाव रुन्द्धे
यस्यैषा यज्ञे प्रायश्चित्तिः क्रियत इष्ट्वा वसीयान् भवति ॥
3.4.2 अनुवाक 2
भृत्यादिकामस्य वशालम्भार्था मन्त्राः
VERSE: 1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याम्̇ स्वाहा किक्किटा ते वाचम्̇ सरस्वत्यै स्वाहा ।
VERSE: 2
त्वं तुरीया वशिनी वशासि सकृद् यत् त्वा मनसा गर्भ आशयत् । वशा त्वं वशिनी गच्छ देवान्त् सत्याः सन्तु यजमानस्य कामाः ॥
अजासि रयिष्ठा पृथिव्याम्̇ सीदोर्ध्वान्तरिक्षम् उप तिष्ठस्व दिवि ते बृहद् भाः ।
तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥
मनसो हविर् असि प्रजापतेर् वर्णो गात्राणां ते गात्रभाजो भूयास्म ॥
3.4.3 अनुवाक 3
वशालम्भार्थो विधिः
VERSE: 1
इमे वै सहास्ताम् ।
ते वायुर् व्यवात्
ते गर्भम् अदधाताम् ।
तम्̇ सोमः प्राजनयद् अग्निर् अग्रसत
स एतम् प्रजापतिर् आग्नेयम् अष्टाकपालम् अपश्यत्
तं निर् अवपत्
तेनैवैनाम् अग्नेर् अधि निर् अक्रीणात्
तस्माद् अप्य् अन्यदेवत्याम् आलभमान आग्नेयम् अष्टाकपालम् पुरस्तान् निर् वपेत् ।
अग्नेर् एवैनाम् अधि निष्क्रीया लभते
यत्
VERSE: 2
वायुर् व्यवात् तस्माद् वायव्या
यद् इमे गर्भम् अदधातां तस्माद् द्यावापृथिव्या
यत् सोमः प्राजनयद् अग्निर् अग्रसत तस्माद् अग्नीषोमीया
यद् अनयोर् वियत्योर् वाग् अवदत् तस्मात् सारस्वती
यत् प्रजापतिर् अग्नेर् अधि निरक्रीणात् तस्मात् प्राजापत्या
सा वा एषा सर्वदेवत्या यद् अजा वशा
वायव्याम् आ लभेत भूतिकामः ।
वायुर् वै क्षेपिष्ठा देवता
वायुम् एव स्वेन
VERSE: 3
भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
द्यावापृथिव्याम् आ लभेत कृषमाणः प्रतिष्ठाकामः ।
दिव एवास्मै पर्जन्यो वर्षति व्यस्याम् ओषधयो रोहन्ति समर्धुकम् अस्य सस्यम् भवति ।
अग्नीषोमीयाम् आ लभेत यः कामयेत ।
अन्नवान् अन्नादः स्याम् इति ।
अग्निनैवान्नम् अव रुन्द्धे सोमेनान्नाद्यम्
अन्नवान् एवान्नादो भवति
सारस्वतीम् आ लभेत यः
VERSE: 4
ईश्वरो वाचो वदितोः सन् वाचं न वदेत् ।
वाग् वै सरस्वती
सरस्वतीम् एव स्वेन भागधेयेनोप धावति
सैवास्मिन् वाचं दधाति
प्राजापत्याम् आ लभेत यः कामयेत ।
अनभिजितम् अभि जयेयम् इति
वायव्ययोपाकरोति
वायोर् एवैनाम् अवरुध्या लभते ।
आकूत्यै त्वा कामाय त्वा ॥
VERSE: 5
इत्य् आह
यथायजुर् एवैतत्
किक्किटाकारं जुहोति
किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते प्रारण्याः पतन्ति
यत् किक्किटाकारं जुहोति ग्राम्याणाम् पशूनां धृत्यै
पर्यग्नौ क्रियमाणे जुहोति
जीवन्तीम् एवैनाम्̇ सुवर्गं लोकम् गमयति
त्वं तुरीया वशिनी वशासीत्य् आह
देवत्रैवैनां गमयति
सत्याः सन्तु यजमानस्य कामा इत्य् आह ।
एष वै कामः
VERSE: 6
यजमानस्य यद् अनार्त उदृचं गच्छति
तस्माद् एवम् आह ।
अजासि रयिष्ठेत्य् आह ।
एष्व् एवैनां लोकेषु प्रति ष्ठापयति
दिवि ते बृहद् भा इत्य् आह
सुवर्ग एवास्मै लोके ज्योतिर् दधाति
तन्तुं तन्वन् रजसो भानुम् अन्व् इहीत्य् आह ।
इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति ।
अनुल्बणं वयत जोगुवाम् अप इति
VERSE: 7
आह
यद् एव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः ।
मनुर् भव जनया दैव्यं जनम् इत्य् आह
मानव्यो वै प्रजास् ता एवाद्याः कुरुते
मनसो हविर् असीत्य् आह
स्वगाकृत्यै
गात्राणां ते गात्रभाजो भूयास्मेत्य् आह ।
आशिषम् एवैताम् आ शास्ते
तस्यै वा एतस्या एकम् एवादेवयजनं यद् आलब्धायाम् अभ्रः
VERSE: 8
भवति
यद् आलब्धायाम् अभ्रः स्याद् अप्सु वा प्रवेशयेत् सर्वां वा प्राश्नीयात् ।
यद् अप्सु प्रवेशयेद् यज्ञवेशसं कुर्यात्
सर्वाम् एव प्राश्नीयाद् इन्द्रियम् एवात्मन् धत्ते
सा वा एष त्रयाणाम् एवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस्
त एवैतया यजेरन्
तेषाम् एवैषाप्ता ॥
3.4.4 अनुवाक 4
जयाः
VERSE: 1
चित्तं च चित्तिश् चाकूतं चाकूतिश् च विज्ञातं च विज्ञानं च मनश् च शक्वरीश् च दर्शश् च पूर्णमासश् च बृहच् च रथंतरं च
प्रजापतिर् जयान् इन्द्राय वृष्णे प्रायच्छद् उग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव
देवासुराः संयत्ता आसन्त् स इन्द्रः प्रजापतिम् उपाधावत् तस्मा एताञ् जयान् प्रायच्छत् तान् अजुहोत्
ततो वै देवा असुरान् अजयन्
यद् अजयन् तज् जयानां जयत्वम् ।
स्पर्धमानेनैते होतव्या जयत्य् एव ताम् पृतनाम् ॥
3.4.5 अनुवाक 5
अभ्यातानाः
VERSE: 1
अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् बृहस्पतिर् ब्रह्मणो मित्रः सत्यानां वरुणो ऽपाम्̇ समुद्रः स्रोत्यानाम् अन्नम्̇ साम्राज्यानाम् अधिपति तन् मावतु सोम ओषधीनाम्̇ सविता प्रसवानाम्̇ रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानाम् मरुतो गणानाम् अधिपतयस् ते मावन्तु
पितरः पितामहाः परे ऽवरे ततास् ततामहा इह मावत ।
अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥
3.4.6 अनुवाक 6
अभ्यातानहोमविधानम्
VERSE: 1
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतान् अभ्यातानान् अपश्यन्
तान् अभ्यातन्वत
यद् देवानां कर्मासीद् आर्ध्यत तत् ।
यद् असुराणां न तद् आर्ध्यत
येन कर्मणेर्त्सेत् तत्र होतव्याः ।
ऋध्नोत्य् एव तेन कर्मणा
यद् विश्वे देवाः समभरन् तस्माद् अभ्याताना वैश्वदेवाः ।
यद् प्रजापतिर् जयान् प्रायच्छत् तस्माज् जयाः प्राजापत्याः ॥
VERSE: 2
यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् ।
ते देवा अभ्यातानैर् असुरान् अभ्यातन्वत जयैर् अजयन् राष्ट्रभृद्भी राष्ट्रम् आददत
यद् देवा अभ्यातानैर् असुरान् अभ्यातन्वत तद् अभ्यातानानाम् अभ्यातानत्वम् ।
यज् जयैर् अजयन् तज् जवानां जयत्वम् ।
यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् ।
ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स एताञ् जुहुयात् ।
अभ्यातानैर् एव भ्रातृव्यान् अभ्यातनुते जयैर् जयति राष्ट्रभृद्भी राष्ट्रम् आ दत्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.4.7 अनुवाक 7
राष्ट्रभृन्मन्त्राः
VERSE: 1
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरस ऊर्जो नाम स इदम् ब्रह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाहा ताभ्यः स्वाहा
सम्̇हितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवः
सुषुम्नः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयः ।
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरस स्तवाः
प्रजापतिर् विश्वकर्मा मनः
VERSE: 2
गन्धर्वस् तस्यर्क्सामान्य् अप्सरसो वह्नयः ।
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसो मुदाः ।
भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम्
परमेष्ठ्य् अधिपतिर् मृत्युर् गन्धर्वस् तस्य विश्वम् अप्सरसो भुवः
सुक्षितिः सुभूतिर् भद्रकृत् सुवर्वान् पर्जन्यो गन्धर्वस् तस्य विद्युतो ऽप्सरसो रुचः ।
दूरेहेतिर् अमृडयः
VERSE: 3
मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरुवः ।
चारुः कृपणकाशी कामो गन्धर्वस् तस्याधयो ऽप्सरसः शोचयन्तीर् नाम स इदम् ब्राह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाह ताभ्यः स्वाहा
स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ ॥
3.4.8 अनुवाक 8
राष्ट्रभृतां ब्राह्मणम्
VERSE: 1
राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रम् अव रुन्द्धे राष्ट्रम् एव भवति ।
आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रं यच् छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रम् अव रुन्द्धे वसिष्ठः समानानाम् भवति
ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम्̇ सजाता राष्ट्रेणैवास्मै राष्ट्रम्̇ सजातान् अव रुन्द्धे ग्रामी
VERSE: 2
एव भवति ।
अधिदेवने जुहोत्य् अधिदेवन एवास्मै सजातान् अव रुन्द्धे त एनम् अवरुद्धा उप तिष्ठन्ते
रथमुख ओजस्कामस्य होतव्या ओजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजो ऽव रुन्द्ध ओजस्व्य् एव भवति
यो राष्ट्राद् अपभूतः स्यात् तस्मै होतव्या यावन्तो ऽस्य रथाः स्युस् तान् ब्रूयाद् युङ्ग्ध्वम् इति राष्ट्रम् एवास्मै युनक्ति ।
VERSE: 3
आहुतयो वा एतस्याक्लृप्ता यस्य राष्ट्रं न कल्पते स्वरथस्य दक्षिणं चक्रम् प्रवृह्य नाडीम् अभि जुहुयाद् आहुतीर् एवास्य कल्पयति ता अस्य कल्पमाना राष्ट्रम् अनु कल्पते
संग्रामे संयत्ते होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रे खलु वा एते व्यायच्छन्ते ये संग्रामम्̇ संयन्ति यस्य पूर्वस्य जुह्वति स एव भवति जयति तं संग्रामं मान्धुक इध्मः
VERSE: 4
भवत्य् अङ्गारा एव प्रतिवेष्टमाना अमित्राणाम् अस्य सेनाम् प्रति वेष्टयन्ति
य उन्माद्येत् तस्मै होतव्या गन्धर्वाप्सरसो वा एतम् उन् मादयन्ति य उन्माद्यत्य् एते खलु वै गन्धर्वाप्सरसो यद् राष्ट्रभृतस् तस्मै स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनाञ् छमयति
नैयग्रोध औदुम्बर आश्वत्थः प्लाक्ष इतीध्मो भवत्य् एते वै गन्धर्वाप्सरसां गृहाः स्व एवैनान्
VERSE: 5
आयतने शमयति ।
अभिचरता प्रतिलोमम्̇ होतव्याः प्राणान् एवास्य प्रतीचः प्रति यौति तं ततो येन केन च स्तृणुते
स्वकृत इरिणे जुहोति प्रदरे वैतद् वा अस्यै निर्ऋतिगृहीतं निर्ऋतिगृहीत एवैनं निर्ऋत्या ग्राहयति यद् वाचः क्रूरम् तेन वषट् करोति वाच एवैनं क्रूरेण प्र वृश्चति ताजग् आर्तिम् आर्छति
यस्य कामयेतान्नाद्यम्
VERSE: 6
आ ददीयेति तस्य सभायाम् उत्तानो निपद्य भुवनस्य पत इति तृणानि सं गृह्णीयात् प्रजापतिर् वै भुवनस्य पतिः प्रजापतिनैवास्यान्नाद्यम् आ दत्त इदम् अहम् अमुष्यामुष्यायणस्यान्नाद्यम्̇ हरामीत्य् आहान्नाद्यम् एवास्य हरति षड्भिर् हरति षड् वा ऋतवः प्रजापतिनैवास्यान्नाद्यम् आदायर्तवो ऽस्मा अनु प्र यच्छन्ति ॥
VERSE: 7
यो ज्येष्ठबन्धुर् अपभूतः स्यात् तम्̇ स्थले ऽवसाय्य ब्रह्मौदनं चतुःशरावम् पक्त्वा तस्मै होतव्या वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं वर्ष्मणैवैनं वर्ष्म समानानां गमयति चतुःशरावो भवति दिक्ष्व् एव प्रति तिष्ठति क्षीरे भवति रुचं एवास्मिन् दधात्य् उद् धरति शृतत्वाय सर्पिष्वान् भवति मेध्यत्वाय चत्वार आर्षेयाः प्राश्नन्ति दिशाम् एव ज्योतिषि जुहोति ॥
3.4.9 अनुवाक 9
देविकाहवींषिकाम्यप्रयोगाः
VERSE: 1
देविका निर् वपेत् प्रजाकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै प्रजाश् छन्दोभिर् एवास्मै प्रजाः प्र जनयति
प्रथमं धातारं करोति मिथुनी एव तेन करोत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवली जनयति प्रजास्व् एव प्रजातासु कुह्वा वाचं दधाति ।
एता एव निर् वपेत् पशुकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि
VERSE: 2
इव खलु वै पशवश् छन्दोभिर् एवास्मै पशून् प्र जनयति प्रथमं धातारं करोति प्रैव तेन वापयत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवाली जनयति पशून् एव प्रजातान् कुह्वा प्रति ष्ठापयति ।
एता एव निर् वपेद् ग्रामकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै ग्रामश् छन्दोभिर् एवास्मै ग्रामम्
VERSE: 3
अव रुन्द्धे मध्यतो धातारं करोति मध्यत एवैनं ग्रामस्य दधाति ।
एता एव निर् वपेज् ज्योगामयावी छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतम् अभि मन्यन्ते यस्य ज्योग् आमयति छन्दोभिर् एवैनम् अगदं करोति मध्यतो धातारं करोति मध्यतो वा एतस्याक्लृप्तं यस्य ज्योग् आमयति मध्यत एवास्य तेन कल्पयति ।
एता एव निः
VERSE: 4
वपेद् यं यज्ञो नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यं यज्ञो नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनं यज्ञो नमति ।
एता एव निर् वपेद् ईजानश् छन्दाम्̇सि वै देविका यातयामानीव खलु वा एतस्य छन्दाम्̇सि य ईजान उत्तमं धातारं करोति ।
VERSE: 5
उपरिष्टाद् एवास्मै छन्दाम्̇स्य् अयातयामान्य् अव रुन्द्ध उपैनम् उत्तरो यज्ञो नमति ।
एता एव निर् वपेद् यम् मेधा नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यम् मेधा नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनम् मेधा नमति ।
एता एव निर् वपेत्
VERSE: 6
रुक्कामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै रुक् छन्दोभिर् एवास्मिन् रुचं दधाति क्षीरे भवन्ति रुचम् एवास्मिन् दधति मध्यतो धातारं करोति मध्यत एवैनम्̇ रुचो दधाति
गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर् अमावास्या सिनीवली पौर्णमास्य् अनुमतिश् चन्द्रमा धाता ।
अष्टौ
VERSE: 7
वसवो ऽष्टाक्षरा गायत्र्य् एकादश रुद्रा एकादशाक्षरा त्रिष्टुब् द्वादशादित्या द्वादशाक्षरा जगती प्रजापतिर् अनुष्टुब् धाता वषट्कारः ।
एतद् वै देविकाः सर्वाणि च छन्दाम्̇सि सर्वाश् च देवता वषट्कारस् ता यत् सह सर्वा निर्वपेद् ईश्वरा एनम् प्रदहो द्वे प्रथमे निरुप्य धातुस् तृतीयं निर् वपेत् तथो एवोत्तरे निर् वपेत् तथैनं न प्र दहन्त्य् अथो यस्मै कामाय निरुप्यन्ते तम् एवाभिर् उपाप्नोति ॥
3.4.10 अनुवाक 10
प्रयास्यतो अग्निहोत्रिणः अग्निसमारोपणम्
VERSE: 1
वास्तोष् पते प्रति जानीह्य् अस्मान्त् स्वावेशो अनमीवो भवा नः । यत् त्वेमहे प्रति तन् नो जुषस्व शं न एधि द्विपदे शं चतुष्पदे ॥
वास्तोष् पते शग्मया सम्̇सदा ते सक्षीमहि रण्वया गातुमत्या । आवः क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥
यत् सायम्प्रातर् अग्निहोत्रं जुहोत्य् आहुतीष्टका एव ता उप धत्ते
VERSE: 2
यजमानो ऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर् यत् सायम्प्रातर् जुहोत्य् अहोरात्राण्य् एवाप्त्वेष्टकाः कृत्वोप धत्ते
दश समानत्र जुहोति दशाक्षरा विराड् विराजम् एवाप्त्वेष्टकां कृत्वोप धत्ते ।
अथो विराज्य् एव यज्ञम् आप्नोति चित्यश्चित्यो ऽस्य भवति तस्माद् यत्र दशोषित्वा प्रयाति तद् यज्ञवास्त्व् अवास्त्व् एव तद् यत् ततो ऽर्वाचीनम् ।
VERSE: 3
रुद्रः खलु वै वास्तोष्पतिर् यद् अहुत्वा वास्तोष्पतीयम् प्रयायाद् रुद्र एनम् भूत्वाग्निर् अनूत्थाय हन्याद् वास्तोष्पतीयं जुहोति भागधेयेनैवैनम्̇ शमयति नार्तिम् आर्छति यजमानः ।
यद् युक्ते जुहुयाद् यथा प्रयाते वास्ताव् आहुतिं जुहोति तादृग् एव तद् यद् अयुक्ते जुहुयाद् यथा क्षेम आहुतिं जुहोति तादृग् एव तद् अहुतम् अस्य वास्तोष्पतीयम्̇ स्यात् ।
VERSE: 4
दक्षिणो युक्तो भवति सव्यो ऽयुक्तः ।
अथ वास्तोष्पतीयं जुहोत्य् उभयम् एवाकर् अपरिवर्गम् एवैनम्̇ शमयति
यद् एकया जुहुयाद् दर्विहोमं कुर्यात् पुरोऽनुवाक्याम् अनूच्य याज्यया जुहोति सदेवत्वाय
यद् धुत आदध्याद् रुद्रं गृहान् अन्वारोहयेद् यद् अवक्षाणान्य् असम्प्रक्षाप्य प्रयायाद् यथा यज्ञवेशसं वाऽऽदहनं वा तादृग् एव तत् ।
अयं ते योनिर् ऋत्विय इत्य् अरण्योः समारोहयति ।
VERSE: 5
एष वा अग्नेर् योनिः स्व एवैनं योनौ समारोहयति ।
अथो खल्व् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत् पुनराधेयः स्याद् इति
या ते अग्ने यज्ञिया तनूस् तयेह्य् आ रोहेत्य् आत्मन्त् समारोहयते
यजमानो वा अग्नेर् योनिः स्वायाम् एवैनं योन्याम्̇ समारोहयते ॥
3.4.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । कविर् गृहपतिर् युवा ॥
हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्रियक् सम् मिमीहि श्रवाम्̇सि ॥
त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॥
ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणाम्̇ स्वधितिर् वनानाम्̇ सोमः
VERSE: 2
पवित्रम् अत्य् एति रेभन् ॥
आ विश्वदेवम्̇ सत्पतिम्̇ सूक्तैर् अद्या वृणीमहे । सत्यसवम्̇ सवितारम् ॥
आ सत्येन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । हिरण्ययेन सविता रथेनाऽऽ देवो याति भुवना विपश्यन् ॥
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥
मा नस् तोके तनये मा न आयुषि मा नो गोषु मा
VERSE: 3
नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥
हम्̇सैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वान् अगायत् ॥
एन्द्र सानसिम्̇ रयिम्
VERSE: 4
सजित्वानम्̇ सदासहम् । वर्षिष्ठमूतये भर ॥
प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्राऽऽ भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥
त्वम्̇ सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄम्̇श् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रः
VERSE: 5
विश्वचर्षणे ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥
मित्रो जनान् यातयति प्रजानन् मित्रो दाधार पृथिवीम् उत द्याम् । मित्रः कृष्टीर् अनिमिषाभि चष्टे सत्याय हव्यं घृतवद् विधेम ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम् अम्̇हो अश्नोत्य् अन्तितो न दूरात् ॥
यत्
VERSE: 6
चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥
यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥
कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । सर्वा ता वि ष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥
3.5 प्रपाठक: 5
3.5.1 अनुवाक 1
अन्वारम्भणीयेष्टिः
VERSE: 1
पूर्णा पश्चाद् उत पूर्णा पुरस्ताद् उन् मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्ताम् ॥
यत् ते देवा अदधुर् भागधेयम् अमावास्ये संवसन्तो महित्वा । सा नो यज्ञम् पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्य् आवेशयन्ती । सहस्रपोषम्̇ सुभगा रराणा सा न आ गन् वर्चसा
VERSE: 2
संविदाना ॥ अग्नीषोमौ प्रथमौ वीर्येण वसून् रुद्रान् आदित्यान् इह जिन्वतम् । माध्यम्̇ हि पौर्णमासं जुषेथाम् ब्रह्मणा वृद्धौ सुकृतेन साताव् अथास्मभ्यम्̇ सहवीराम्̇ रयिं नि यच्छतं ॥
आदित्याश् चाङ्गिरसश् चाग्नीन् आदधत ते दर्शपूर्णमासौ प्रैप्सन्
तेषाम् अङ्गिरसां निरुप्तम्̇ हविर् आसीद् अथाऽऽदित्या एतौ होमाव् अपश्यन् ताव् अजुहवुस् ततो वै ते दर्शपूर्णमासौ
VERSE: 3
पूर्व आलभन्त
दर्शपूर्णमासाव् आलभमान एतौ होमौ पुरस्ताज् जुहुयात् साक्षाद् एव दर्शपूर्णमासाव् आ लभते
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासाव् आलभेत य एनयोर् अनुलोमं च प्रतिलोमं च विद्याद् इति ।
अमावास्याया ऊर्ध्वं तद् अनुलोमम् पौर्णमास्यै प्रतीचीनं तत् प्रतिलोमम् ।
यत् पौर्णमासीम् पूर्वाम् आलभेत प्रतिलोमम् एनाव् आ लभेतामुम् अपक्षीयमाणम् अन्व् अप
VERSE: 4
क्षीयेत
सारस्वतौ होमौ पुरस्ताज् जुहुयाद् अमावास्या वै सरस्वत्य् अनुलोमम् एवैनाव् आ लभते ऽमुम् आप्यायमानम् अन्व् आ प्यायते ।
आग्नावैष्णवम् एकादशकपालम् पुरस्तान् निर् वपेत् सरस्वत्यै चरुम्̇ सरस्वते द्वादशकपालम् ।
यद् आग्नेयो भवत्य् अग्निर् वै यज्ञमुखं यज्ञमुखम् एवर्द्धिम् पुरस्ताद् धत्ते
यद् वैष्णवो भवति यज्ञो वै विष्णुर् यज्ञम् एवारभ्य प्र तनुते
सरस्वत्यै चरुर् भवति सरस्वते द्वादशकपालो ऽमावास्या वै सरस्वती पूर्णमासः सरस्वान् ताव् एव साक्षाद् आ रभत ऋध्नोत्य् आभ्याम् ।
द्वादशकपालः सरस्वते भवति मिथुनत्वाय प्रजात्यै
मिथुनौ गावौ दक्षिणा समृद्ध्यै ॥
3.5.2 अनुवाक 2
सौमिकब्रह्मत्वविधिः
VERSE: 1
ऋषयो वा इन्द्रम् प्रत्यक्षं नापश्यन्
तं वसिष्ठः प्रत्यक्षमपश्यत्
सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते ऽथ मेतरेभ्य ऋषिभ्यो मा प्र वोच इति
तस्मा एतान्त् स्तोमभागान् अब्रवीत्
ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
तस्माद् वासिष्ठो ब्रह्मा कार्यः प्रैव जायते
रश्मिर् असि क्षयाय त्वा क्षयं जिन्वेति
VERSE: 2
आह देवा वै क्षयो देवेभ्य एव यज्ञम् प्राह
प्रेतिर् असि धर्माय त्वा धर्मं जिन्वेत्य् आह मनुष्या वै धर्मो मनुष्येभ्य एव यज्ञम् प्राऽऽहान्वितिर् असि दिवे त्वा दिवं जिन्वेत्य् आहैभ्य एव लोकेभ्यो यज्ञम् प्राऽऽह
विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्वेत्य् आह वृष्टिं एवाव
VERSE: 3
रुन्द्धे
प्रवाऽस्य् अनुवाऽसीत्य् आह मिथुनत्वाय ।
उशिग् असि वसुभ्यस् त्वा वसूञ् जिन्वेत्य् आहाष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या एतावन्तो वै देवास् तेभ्य एव यज्ञम् प्राऽऽह ।
ओजो ऽसि पितृभ्यस् त्वा पितॄञ् जिन्वेत्य् आह देवान् एव पितॄन् अनु सं तनोति
तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व
VERSE: 4
इत्य् आह पितॄन् एव प्रजा अनु सं तनोति
पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्वेत्य् आह प्रजा एव पशून् अनु सं तनोति
रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वेत्य् आहौषधीष्व् एव पशून् प्रति ष्ठापयति ।
अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्य् आहाभिजित्या अधिपतिर् असि प्राणाय त्वा प्राणम्
VERSE: 5
जिन्वेत्य् आह प्रजास्व् एव प्राणान् दधाति
त्रिवृद् असि प्रवृद् असीत्य् आह मिथुनत्वाय
सम्̇रोहो ऽसि नीरोहो ऽसीत्य् आह प्रजात्यै
वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् आह प्रतिष्ठित्यै ॥
3.5.3 अनुवाक 3
विष्ण्वतिक्रमाः
VERSE: 1
अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यान् अधरान् पादयाम्य् अवैनान् बाधे प्रत्य् एनान् नुदे ऽस्मिन् क्षये ऽस्मिन् भूमिलोके यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्य् एनान् क्रामामि ।
इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण
VERSE: 2
सहजान्
विश्वेभिर् देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्
इन्द्रेण सयुजो वयम्̇ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्य् अप्रति
यत् ते अग्ने तेजस् तेनाहं तेजस्वी भूयासं यत् ते अग्ने वर्चस् तेनाहं वर्चस्वी भूयासं यत् ते अग्ने हरस् तेनाहम्̇ हरस्वी भूयासम् ॥
3.5.4 अनुवाक 4
अतिमोक्षमन्त्राः
VERSE: 1
ये देवा यज्ञहनो यज्ञमुषः पृथिव्याम् अध्य् आसते । अग्निर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
आगन्म मित्रावरुणा वरेण्या रात्रीणाम् भागो युवयोर् यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
ये देवा यज्ञहनो यज्ञमुषो ऽन्तरिक्षे ऽध्य् आसते । वायुर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
यास् ते रात्रीः सवितः
VERSE: 2
देवयानीर् अन्तरा द्यावापृथिवी वियन्ति । गृहैश् च सर्वैः प्रजया न्व् अग्रे सुवो रुहाणास् तरता रजाम्̇सि ॥
ये देवा यज्ञहनो यज्ञमुषो दिव्य् अध्य् आसते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
येनेन्द्राय समभरः पयाम्̇स्य् उत्तमेन हविषा जातवेदः । तेनाग्ने त्वम् उत वर्धयेमम्̇ सजातानाम्̇ श्रेष्ठ्य आ धेह्य् एनम् ॥
यज्ञहनो वै देवा यज्ञमुषः
VERSE: 3
सन्ति त एषु लोकेष्व् आसत आददाना विमथ्नाना यो ददाति यो यजते तस्य । ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ये अन्तरिक्षे ये दिवीत्य् आहेमान् एव लोकाम्̇स् तीर्त्वा सगृहः सपशुः सुवर्गं लोकम् एति ।
अप वै सोमेनेजानाद् देवताश् च यज्ञश् च क्रामन्त्य् आग्नेयम् पञ्चकपालम् उदवसानीयं निर् वपेद् अग्निः सर्वा देवताः
VERSE: 4
पाङ्क्तो यज्ञो देवताश् चैव यज्ञं चाव रुन्द्धे
गायत्रो वा अग्निर् गायत्रच्छन्दास् तं छन्दसा व्य् अर्धयति यत् पञ्चकपालं करोत्य् अष्टाकपालः कार्यो ऽष्टाक्षरा गायत्री गायत्रो ऽग्निर् गायत्रच्छन्दाः स्वेनैवैनं छन्दसा सम् अर्धयति
पङ्क्त्यौ याज्यानुवाक्ये भवतः पाङ्क्तो यज्ञस् तेनैव यज्ञान् नैति ॥
3.5.5 अनुवाक 5
आदित्यग्रहमन्त्राः
VERSE: 1
सूर्यो मा देवो देवेभ्यः पातु वायुर् अन्तरिक्षाद् यजमानो ऽग्निर् मा पातु चक्षुषः । सक्ष शूष सवितर् विश्वचर्षण एतेभिः सोम नामभिर् विधेम ते तेभिः सोम नामभिर् विधेम ते ।
अहम् परस्ताद् अहम् अवस्ताद् अहं ज्योतिषा वि तमो ववार । यद् अन्तरिक्षं तद् उ मे पिताऽभूद् अहम्̇ सूर्यम् उभयतो ददर्शाहम् भूयासम् उत्तमः समानाना
VERSE: 2
मा समुद्राद् आन्तरिक्षात् प्रजापतिर् उदधिं च्यावयातीन्द्रः प्र स्नौतु मरुतो वर्षयन्तु ।
उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥
पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निर् ओषधीः प्रास्याग्नाव् आदित्यं जुहोति रुद्राद् एव पशून् अन्तर् दधात्य् अथो ओषधीष्व् एव पशून्
VERSE: 3
प्रति ष्ठापयति
कविर् यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान् ॥
यास् ते विश्वाः समिधः सन्त्य् अग्ने याः पृथिव्याम् बर्हिषि सूर्ये याः । तास् ते गच्छन्त्व् आहुतिं घृतस्य देवायते यजमानाय शर्म ॥
आशासानः सुवीर्यम्̇ रायस् पोषम्̇ स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ ॥
3.5.6 अनुवाक 6
पत्नीविषया मन्त्राः
VERSE: 1
सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्य् अप ओषधीभिः । सं त्वा नह्यामि प्रजयाऽहम् अद्य सा दीक्षिता सनवो वाजम् अस्मे ॥
प्रैतु ब्रह्मणस् पत्नी वेदिं वर्णेन सीदतु ।
अथाहम् अनुकामिनी स्वे लोके विशा इह ।
सुप्रजसस् त्वा वयम्̇ सुपत्नीर् उप सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम् ॥
इमं वि ष्यामि वरुणस्य पाशम्
VERSE: 2
यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि ॥
प्रेह्य् उदेह्य् ऋतस्य वामीर् अन्व् अग्निस् ते ऽग्रं नयत्व् अदितिर् मध्यं ददताम्̇ रुद्रावसृष्टासि युवा नाम मा मा हिम्̇सीः ।
वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर् गृह्णामि
यज्ञाय वः पन्नेजनीः सादयामि
विश्वस्य ते विश्वावतो वृष्णियावत
VERSE: 3
स्तवाग्ने वामीर् अनु संदृशि विश्वा रेताम्̇सि धिषीय ।
अगन् देवान् यज्ञो नि देवीर् देवेभ्यो यज्ञम् अशिषन्न् अस्मिन्त् सुन्वति यजमान आशिषः स्वाहाकृताः समुद्रेष्ठा गन्धर्वम् आ तिष्ठतानु । वातस्य पत्मन्न् इड ईडिताः ॥
3.5.7 अनुवाक 7
स्रुचां वृक्षविशेषाः
VERSE: 1
वषट्कारो वै गायत्रियै शिरो ऽच्छिनत् तस्यै रसः परापतत् स पृथिवीम् प्राविशत् स खदिरो ऽभवद् यस्य खादिरः स्रुवो भवति छन्दसाम् एव रसेनाव द्यति सरसा अस्याऽऽहुतयो भवन्ति
तृतीयस्याम् इतो दिवि सोम आसीत् तं गायत्र्य् आहरत् तस्य पर्णम् अच्छिद्यत तत् पर्णो ऽभवत् तत् पर्णस्य पर्णत्वं यस्य पर्णमयी जुहूः
VERSE: 2
भवति सौम्या अस्याऽऽहुतयो भवन्ति जुषन्ते ऽस्य देवा आहुतीः ।
देवा वै ब्रह्मन्न् अवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नाम यस्य पर्णमयी जुहूर् भवति न पापम्̇ श्लोकम्̇ शृणोति
ब्रह्म वै पर्णो विण् मरुतो ऽन्नं विण् मारुतो ऽश्वत्थो यस्य पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् ब्रह्मणैवान्नम् अव रुन्द्धे ऽथो ब्रह्म
VERSE: 3
एव विश्य् अध्य् ऊहति
राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति
प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति प्रत्य् एवास्याऽऽहुतयस् तिष्ठन्त्य् अथो प्रैव जायते ।
एतद् वै स्रुचाम्̇ रूपं यस्यैवम्̇रूपाः स्रुचो भवन्ति सर्वाण्य् एवैनम्̇ रूपाणि पशूनाम् उप तिष्ठन्ते नास्यापरूपम् आत्मञ् जायते ॥
3.5.8 अनुवाक 8
दधिग्रहमन्त्राः
VERSE: 1
उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्यो ऽग्निजिह्वेभ्यस् त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
अपेन्द्र द्विषतो मनो ऽप जिज्यासतो जह्य् अप यो नो ऽरातीयति तं जहि
प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यो विश्वेभ्यस् त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि ॥
3.5.9 अनुवाक 9
दधिग्रहब्राह्मणम्
VERSE: 1
यां वा अध्वर्युश् च यजमानश् च देवताम् अन्तरितस् तस्या आ वृश्च्येते
प्राजापत्यं दधिग्रहं गृह्णीयात्
प्रजापतिः सर्वा देवताः ।
देवताभ्य एव नि ह्नुवाते
ज्येष्ठो वा एष ग्रहाणाम् ।
यस्यैष गृह्यते ज्यैष्ठ्यम् एव गच्छति
सर्वासां वा एतद् देवतानाम्̇ रूपं यद् एष ग्रहः ।
यस्यैष गृह्यते सर्वाण्य् एवैनम्̇ रूपाणि पशूनाम् उप तिष्ठन्ते ।
उपयामगृहीतो
VERSE: 2
असि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीत्य् आह
ज्योतिर् एवैनम्̇ समानानां करोति ।
अग्निजिह्वेभ्यस् त्वर्तायुभ्य इत्य् आह ।
एतावतीर् वै देवतास्
ताभ्य एवैनम्̇ सर्वाभ्यो गृह्णाति ।
अपेन्द्र द्विषतो मन इत्य् आह
भ्रातृव्यापनुत्त्यै
प्राणाय त्वापानाय त्वेत्य् आह
प्राणान् एव यजमाने दधाति
तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि
VERSE: 3
इत्य् आह
प्रजापतिः सर्वा देवताः
सर्वाभ्य एवैनं देवताभ्यो जुहोति ।
आज्यग्रहं गृह्णीयात् तेजस्कामस्य
तेजो वा आज्यम् ।
तेजस्व्य् एव भवति
सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य
ब्रह्मवर्चसं वै सोमः ।
ब्रह्मवर्चस्य् एव भवति
दधिग्रहं गृह्णीयात् पशुकामस्य ।
ऊर्ग् वै दधि ।
ऊर्क् पशवः ।
ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥
3.5.10 अनुवाक 10
गवामयने अतिग्राह्याः प्राणग्रहाश्च
VERSE: 1
त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । स्वादोः स्वादीयः स्वादुना सृजा सम् अत ऊ षु मधु मधुनाभि योधि ।
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ।
प्राणग्रहान् गृह्णात्य् एतावद् वा अस्ति यावद् एते ग्रहा स्तोमाश् छन्दाम्̇सि पृष्ठानि दिशो यावद् एवास्ति तत्
VERSE: 2
अव रुन्द्धे
ज्येष्ठा वा एतान् ब्राह्मणाः पुरा विदाम् अक्रन् तस्मात् तेषाम्̇ सर्वा दिशो ऽभिजिता अभूवन् यस्यैते गृह्यन्ते ज्यैष्ठ्यम् एव गच्छत्य् अभि दिशो जयति
पञ्च गृह्यन्ते पञ्च दिशः सर्वास्व् एव दिक्ष्व् ऋध्नुवन्ति
नवनव गृह्यन्ते नव वै पुरुषे प्राणाः प्राणान् एव यजमानेषु दधति
प्रायणीये चोदयनीये च गृह्यन्ते प्राणा वै प्राणग्रहाः
VERSE: 3
प्राणैर् एव प्रयन्ति प्राणैर् उद् यन्ति
दशमे ऽहन् गृह्यन्ते प्राणा वै प्राणग्रहाः प्राणेभ्यः खलु वा एतत् प्रजा यन्ति यद् वामदेव्यं योनेश् च्यवते दशमे ऽहन् वामदेव्यं योनेश् च्यवते यद् दशमे ऽहन् गृह्यन्ते प्राणेभ्य एव तत् प्रजा न यन्ति ॥
3.5.11 अनुवाक 11
पाशुकहौत्रोपयोगिमन्त्राः
VERSE: 1
प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षद् आनुषक् ॥
अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । रथो न योर् अभीवृतो घृणीवान् चेतति त्मना ॥
अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥
इडायास् त्वा पदे वयं नाभा पृथिव्या अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥
VERSE: 2
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । कुलायिनं घृतवन्तम्̇ सवित्रे यज्ञं नय यजमानाय साधु ॥
सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञम्̇ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̇ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
त्वं दूतस् त्वम्
VERSE: 3
उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥
अभि त्वा देव सवितर् ईशानं वार्याणाम् । सदावन् भागम् ईमहे ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ
VERSE: 4
त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् धनंजयम्̇ रणेरणे ॥
उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । धनंजयो रणेरणे ॥
आ यम्̇ हस्ते न खादिनम्̇ शिशुं जातं न बिभ्रति । विशाम् अग्निम्̇ स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु ॥
आ
VERSE: 5
जातं जातवेदसि प्रियम्̇ शिशीतातिथिम् । स्योन आ गृहपतिम् ॥
अग्निनाऽग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वम्̇ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । स्वेषु क्षयेषु वाजिनम् ॥
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥
तैत्तिरीय संहिता
काण्ड 4
अग्निचयनमन्त्राः
प्रपाठक: 1
4.1.1 अनुवाक 1
अभ्र्यादानम्
VERSE: 1
युञ्जानः प्रथमम् मनस् तत्त्वाय सविता धियः । अग्निं ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥
युक्त्वाय मनसा देवान्त् सुवर् यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवति तान् ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्यै ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इत्
VERSE: 2
मही देवस्य सवितुः परिष्टुतिः ॥
युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोका यन्ति पथ्येव सूराः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् अर्चतः । यः पार्थिवानि विममे स एतशो रजाम्̇सि देवः सविता महित्वना ॥
देव सवितः प्र सुव यज्ञम् प्र सुव
VERSE: 3
यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ॥
इमं नो देव सवितर् यज्ञम् प्र सुव देवायुवम्̇ सखिविदम्̇ सत्राजितं धनजितम्̇ सुवर्जितम् ॥
ऋचा स्तोमम्̇ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् गायत्रेण छन्दसा ददे ऽङ्गिरस्वत् ।
अभ्रिर् असि नारि
VERSE: 4
रसि पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन त्वा छन्दसा ऽऽददे ऽङ्गिरस्वत् ।
बभ्रिर् असि नारिर् असि त्वया वयम्̇ सधस्थ आऽग्निम्̇ शकेम खनितुम् पुरीष्यं जागतेन त्वा छन्दसा ददे ऽङ्गिरस्वत् ।
हस्त आधाय सविता बिभ्रद् अभ्रिम्̇ हिरण्ययीम् । तया ज्योतिर् अजस्रम् इद् अग्निं खात्वी न आ भराऽनुष्टुभेन त्वा छन्दसा ऽऽ ददे ऽङ्गिरस्वत् ॥
4.1.2 अनुवाक 2
मृदाक्रान्तिः
VERSE: 1
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु संवतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे नाभिः पृथिव्याम् अधि योनिः ॥
युञ्जाथाम्̇ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निम् भरन्तम् अस्मयुम् ॥
योगेयोगे तवस्तरं वाजे-वाजे हवामहे । सखाय इन्द्रमूतये ॥
प्रतूर्वन्
VERSE: 2
एह्य् अवक्रामन्न् अशस्ती रुद्रस्य गाणपत्यान् मयोभूर् एहि । उर्व् अन्तरिक्षम् अन्व् इहि स्वस्तिगव्यूतिर् अभयानि कृण्वन् ॥
पूष्णा सयुजा सह पृथिव्याः सधस्थाद् अग्निम् पुरिष्यम् अङ्गिरस्वद् अच्छेहि ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् भरामः ।
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य
VERSE: 3
पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आ ततान ॥
आगत्य वाज्य् अध्वनः सर्वा मृधो वि धूनुते । अग्निम्̇ सधस्थे महति चक्षुषा नि चिकीषते ॥
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूया वृत्वाय नो ब्रूहि यतः खनाम तं वयम् ॥
द्यौस् ते पृष्ठम् पृथिवी सधस्थम् आत्मान्तरिक्षम्̇ समुद्रस् ते योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ
VERSE: 4
पृतन्यतः ॥
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयम्̇ स्याम सुमतौ पृथिव्या अग्निं खनिष्यन्त उपस्थे अस्याः ॥
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाऽकः स लोकम्̇ सुकृतम् पृथिव्याः । ततः खनेम सुप्रतीकम् अग्निम्̇ सुवो रुहाणा अधि नाक उत्तमे ॥
अपो देवीर् उप सृज मधुमतीर् अयक्ष्माय प्रजाभ्यः । तासाम्̇ स्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥
जिघर्मि
VERSE: 5
अग्निम् मनसा घृतेन प्रतिक्ष्यन्तम् भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नम्̇ रभसं विदानम् ॥
आ त्वा जिघर्मि वचसा घृतेनारक्षसा मनसा तज् जुषस्व । मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तनुवा जर्हृषाणः ॥
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे ॥
परि त्वाऽग्ने पुरं वयं विप्रम्̇ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥
4.1.3 अनुवाक 3
मृत्खननम्
VERSE: 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यानम् । शिवम् प्रजाभ्यो ऽहिम्̇सन्तम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥
अपाम् पृष्ठम् असि सप्रथा उर्व् अग्निम् भरिष्यद् अपरावपिष्ठम् । वर्धमानम् मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥
शर्म च स्थो
VERSE: 2
वर्म च स्थो अच्छिद्रे बहुले उभे । व्यचस्वती सं वसाथाम् भर्तम् अग्निम् पुरीष्यम् ॥
सं वसाथाम्̇ सुवर्विदा समीची उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥
पुरीष्यो ऽसि विश्वभराः । अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे
VERSE: 3
अथर्वणः । वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । धनंजयम्̇ रणेरणे ॥
सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञम्̇ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̇ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
सम्̇ सीदस्व महाम्̇ असि शोचस्व
VERSE: 4
देववीतमः । वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥
जनिष्वा हि जेन्यो अग्रे अह्नाम् हितो हितेष्व् अरुषो वनेषु । दमेदमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥
4.1.4 अनुवाक 4
मृदाहरणम्
VERSE: 1
सं ते वायुर् मातरिश्वा दधातूत्तानायै हृदयं यद् विलिष्टम् । देवानां यश् चरति प्राणथेन तस्मै च देवि वषड् अस्तु तुभ्यम् ॥
सुजातो ज्योतिषा सह शर्म वरूथम् आऽसदः सुवः । वासो अग्ने विश्वरूपम्̇ सं व्ययस्व विभावसो ॥
उद् उ तिष्ठ स्वध्वरावा नो देव्या कृपा । दृशे च भासा बृहता सुशुक्वनिर् आऽग्ने याहि सुशस्तिभिः ॥
VERSE: 2
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥
स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । चित्रः शिशुः परि तमाम्̇स्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥
स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् । पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहनः ॥
शिवो भव
VERSE: 3
प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः । मा द्यावापृथिवी अभि शूशुचो माऽन्तरिक्षम् मा वनस्पतीन् ॥
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा । भरन्न् अग्निम् पुरीष्यम् मा पाद्य् आयुषः पुरा ॥
रासभो वां कनिक्रदत् सुयुक्तो वृषणा रथे । स वाम् अग्निम् पुरीष्यम् आशुर् दूतो वहाद् इतः ॥
वृषाग्निं वृषणम् भरन्न् अपां गर्भम्̇ समुद्रियम् । अग्न आ याहि
VERSE: 4
वीतय ऋतम्̇ सत्यम् ॥
ओषधयः प्रति गृह्णीताग्निम् एतम्̇ शिवम् आयन्तम् अभ्य् अत्र युष्मान् । व्यस्यन् विश्वा अमतीर् अरातीर् निषीदन् नो अप दुर्मतिम्̇ हनत् ॥
ओषधयः प्रति मोदध्वम् एनम् पुष्पावतीः सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्नम्̇ सधस्थम् आऽसदत् ॥
4.1.5 अनुवाक 5
उखानिर्माणम्
VERSE: 1
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहम्̇ सुहवस्य प्रणीतौ ॥
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
मित्रः
VERSE: 2
सम्̇सृज्य पृथिवीम् भूमिं च ज्योतिषा सह । सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् ॥
अयक्ष्माय त्वा सम्̇ सृजामि प्रजाभ्यः । विश्वे त्वा देवा वैश्वानराः सम्̇ सृजन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥
रुद्राः सम्भृत्य पृथिवीम् बृहज् ज्योतिः सम् ईधिरे । तेषाम् भानुर् अजस्र इच् छुक्रो देवेषु रोचते ॥
सम्̇सृष्टां वसुभी रुद्रैर् धीरैः कर्मण्याम् मृदम् । हस्ताभ्याम् मृद्वीं कृत्वा सिनीवाली करोतु
VERSE: 3
ताम् ॥
सिनीवली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यम् अदिते मह ओखां दधातु हस्तयोः ॥
उखां करोतु शक्त्या बाहुभ्याम् अदितिर् धिया । माता पुत्रं यथोपस्थे साऽग्निम् बिभर्तु गर्भ आ ॥
मखस्य शिरो ऽसि
यज्ञस्य पदे स्थः ।
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वत् पृथिव्यसि रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् अन्तरिक्षम् असि
VERSE: 4
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् द्यौर् असि विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् दिशो ऽसि ध्रुवासि धारया मयि प्रजाम्̇ रायस् पोषं गौपत्यम्̇ सुवीर्यम्̇ सजातान् यजमानाय ।
अदित्यै रास्नाऽसि ।
अदितिस् ते बिलं गृह्णातु पाङ्क्तेन छन्दसाऽङ्गिरस्वत् ।
कृत्वाय सा महीम् उखाम् मृन्मयीं योनिम् अग्नये । ताम् पुत्रेभ्यः सम् प्रायच्छद् अदितिः श्रपयान् इति ॥
4.1.6 अनुवाक 6
उखासंस्कारः
VERSE: 1
वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वत् ।
अदितिस् त्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽङ्गिरस्वत् खनत्व् अवट
देवानां त्वा पत्नीर्
VERSE: 2
देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् दधतूखे
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् अभीन्धताम् उखे ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वच् छ्रपयन्तूखे वरूत्रयो जनयस् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत् पचन्तूखे ।
मित्रैताम् उखाम् पचैषा मा भेदि ।
एतां ते परि ददाम्य् अभित्त्यै
अभीमाम्
VERSE: 3
महिना दिवम् मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ॥
देवस् त्वा सवितोद् वपतु सुपाणिः स्वङ्गुरिः । सुबाहुर् उत शक्त्या ॥
अपद्यमाना पृथिव्य् आशा दिश आ पृण । उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ॥
वसवस् त्वाऽऽ च्छृन्दन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वाऽऽ च्छृन्दन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वाऽऽ च्छृन्दन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा आ च्छृन्दन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥
4.1.7 अनुवाक 7
पश्वङ्गभूता आग्निक्यः सामिधेन्यः
VERSE: 1
समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशः पृथिव्याः ॥
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा च ऋषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु माऽन्ये ॥
त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने
VERSE: 2
संवरणे भवा नः । सपत्नहा नो अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥
इहैवाग्ने अधि धारया रयिम् मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥
क्षत्रेणाग्ने स्वायुः सम्̇ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानाम् मध्यमस्था एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
अति
VERSE: 3
निहो अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यम्̇ सहवीराम्̇ रयिं दाः ॥
अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा आशाः प्रमुञ्चन् मानुषीर् भियः शिवाभिर् अद्य परि पाहि नो वृधे ॥
बृहस्पते सवितर् बोधयैनम्̇ सम्̇शितं चित् संतराम्̇ सम्̇ शिशाधि । वर्धयैनम् महते सौभगाय ।
VERSE: 4
विश्व एनम् अनु मदन्तु देवाः ॥
अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
उद् वयं तमसस् परि पश्यन्तो ज्योतिर् उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
4.1.8 अनुवाक 8
आप्रीनामिकाः प्रयाजयाज्याः
VERSE: 1
ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीम्̇ष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथ आऽनक्ति मध्वा घृतेन ॥
मध्वा यज्ञं नक्षसे प्रीणानो नराशम्̇सो अग्ने । सुकृद् देवः सविता विश्ववारः ॥
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निम्̇ स्रुचो अध्वरेषु प्रयत्सु ॥
स यक्षद् अस्य महिमानम् अग्नेः स
VERSE: 2
ई मन्द्रासु प्रयसः । वसुश् चेतिष्ठो वसुधातमश् च ॥
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥
ते अस्य योषणे दिव्ये न योनाव् उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः ॥
दैव्या होताराव् ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतं नः स्विष्टिम् ॥
तिस्रो देवीर् बर्हिर् एदम्̇ सदन्त्व् इडा सरस्वती
VERSE: 3
भारती मही गृणाना ॥
तन् नस् तुरीपम् अद्भुतम् पुरुक्षु त्वष्टा सुवीरम् । रायस् पोषं वि ष्यतु नाभिम् अस्मे ॥
वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यम्̇ शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेद इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम् ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम्
VERSE: 4
उतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
यस्येमे हिमवन्तो महित्वा यस्य समुद्रम्̇ रसया सहा
VERSE: 5
हुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
यं क्रन्दसी अवसा तस्तभाने अभ्येक्षेताम् मनसा रेजमाने । यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥
येन द्यौर् उग्रा पृथिवी च दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
आपो ह यन् महतीर् विश्वमा
VERSE: 6
यन् दक्षं दधाना जनयन्तीर् अग्निम् । ततो देवानां निर् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् अग्निम् । यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥
4.1.9 अनुवाक 9
अग्न्युत्पादनम्
VERSE: 1
आकूतिम् अग्निम् प्रयुजम्̇ स्वाहा मनो मेधाम् अग्निम् प्रयुजम्̇ स्वाहा चित्तं विज्ञातम् अग्निम् प्रयुजम्̇ स्वाहा वाचो विधृतिम् अग्निम् प्रयुजम्̇ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा
विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा
मा सु भित्था मा सु रिषो दृम्̇हस्व वीडयस्व सु । अम्ब धृष्णु वीरयस्वा
VERSE: 2
ग्निश् चेदं करिष्यथः ॥
दृम्̇हस्व देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि । जुष्टं देवानां इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे अस्मिन् ॥
मित्रैताम् उखां तपैषा मा भेदि ।
एताम् ते परि ददाम्य् अभित्त्यै ।
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो अद्भुतः ॥
परस्या अधि संवतो ऽवराम्̇ अभ्य् आ
VERSE: 3
तर । यत्राहम् अस्मि ताम्̇ अव ॥
परमस्याः परावतो रोहिदश्व इहा गहि । पुरीष्यः पुरुप्रियो ऽग्ने त्वं तरा मृधः ॥
सीद त्वम् मातुर् अस्या उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाऽभि शूशुचो ऽन्तर् अस्याम्̇ शुक्रज्योतिर् वि भाहि ॥
अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वम्̇ हरसा तपञ् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
4.1.10 अनुवाक 10
अग्निधारणम्
VERSE: 1
यद् अग्ने यानि कानि चा ते दारूणि दध्मसि । तद् अस्तु तुभ्यम् इद् घृतं तज् जुषस्व यविष्ठ्य ॥
यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
रात्रिम्̇रात्रिम् अप्रयावम् भरत्नो ऽश्वायेव तिष्ठते घासम् अस्मै । रायस् पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥
नाभा
VERSE: 2
पृथिव्याः समिधानम् अग्निम्̇ रायस् पोषाय बृहते हवामहे । इरम्मदम् बृहदुक्थं यजत्रं जेतारम् अग्निम् पृतनासु सासहिम् ॥
याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत । ये स्तेना ये च तस्करास् ताम्̇स् ते अग्ने ऽपि दधाम्य् आस्ये ॥
दम्̇ष्ट्राभ्याम् मलिम्लूञ् जम्भ्यैस् तस्कराम्̇ उत । हनूभ्याम्̇ स्तेनान् भगवस् ताम्̇स् त्वं खाद सुखादितान् ॥
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने । ये
VERSE: 3
कक्षेष्व् अघायवस् ताम्̇स् ते दधामि जम्भयोः ॥
यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः । निन्दाद् यो अस्मान् दिप्साच् च सर्वं तम् मस्मसा कुरु ॥
सम्̇शितम् मे ब्रह्म सम्̇शितं वीर्यम् बलम् । सम्̇शितम् क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥
उद् एषाम् बाहू अतिरम् उद् वर्च उद् ऊ बलम् । क्षिणोमि ब्रह्मणामित्रान् उन् नयामि
VERSE: 4
स्वाम्̇ अहम् ।
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मः
VERSE: 5
अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥
सुपर्णो ऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर् वामदेव्यम् बृहद्रथन्तरे पक्षौ यज्ञायज्ञियम् पुच्छं छन्दाम्̇स्य् अङ्गानि धिष्णियाः शफा यजूम्̇षि नाम ।
सुपर्णो ऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥
4.1.11 अनुवाक 11
चातु्र्मास्येषु वैश्वदेवे याज्यानुवाक्याः
VERSE: 1
अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । स इद् देवेषु गच्छति ॥
सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर् नो ऽविता भव ॥
अग्निर् मूर्धा
भुवः ।
त्वं नः सोम
या ते धामानि ।
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता
VERSE: 2
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिर् अछिद्रम्̇ शरणम्̇ सजोषा दुराधर्षं गृणते शर्म यम्̇सत् ॥
पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । पूषा वाजम्̇ सनोतु नः ॥
शुक्रं ते अन्यद् यजतं ते अन्यत्
VERSE: 3
विषुरूपे अहनी द्यौर् इवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥
ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । विष्णुर् यद् धाऽऽवद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ।
प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहाम्̇सि सहसा सहन्ते
VERSE: 4
रेजते अग्ने पृथिवी मखेभ्यः ॥
विश्वे देवा ।
विश्वे देवाः ।
द्यावा नः पृथिवी इमम्̇ सिध्रम् अद्य दिविस्पृशम् । यज्ञं देवेषु यच्छताम् ॥
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वम्̇ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥
अग्निम्̇ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥
स हव्यवाड् अमर्त्य उशिग् दूतश् चनोहितः । अग्निर् धिया सम् ऋण्वति ॥
शं नो भवन्तु
वाजेवाजे ॥
4.2 प्रपाठक: 2
4.2.1 अनुवाक 1
आसन्द्याम् उख्याग्निस्थापनम्
VERSE: 1
विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रं छन्द आ रोह पृथिवीम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभं छन्द आ रोहान्तरिक्षम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतं छन्द आ रोह दिवम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः
VERSE: 2
क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द आ रोह दिशो ऽनु वि क्रमस्व निर्भक्तः स यं द्विष्मः ।
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
अग्ने ऽभ्यावर्तिन्न् अभि न आ वर्तस्वाऽऽयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥
अग्ने
VERSE: 3
अङ्गिरः शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः । तासाम् पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आकृधि ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषाऽऽयुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमम्
VERSE: 4
वि मध्यमम्̇ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
आ त्वाऽहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्त्व् अस्मिन् राष्ट्रम् अधि श्रय ॥
अग्रे बृहन्न् उषसामूर्ध्वो अस्थान् निर्जग्मिवान् तमसो ज्योतिषाऽऽगात् । अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥
सीद त्वम् मातुर् अस्याः ॥
VERSE: 5
उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाभि शूशुचो ऽन्तर् अस्याम्̇ शुक्रज्योतिर् वि भाहि ॥
अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वम्̇ हरसा तपञ् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
हम्̇सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥
4.2.2 अनुवाक 2
उख्याग्नेरुपस्थानम्
VERSE: 1
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतम् पुरुत्रा । विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥
समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा
VERSE: 2
रजसि तस्थिवाम्̇सम् ऋतस्य योनौ महिषा अहिन्वन् ॥
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो निधायि । इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षत् ॥
विश्वस्य केतुर् भुवनस्य गर्भ आ
VERSE: 3
रोदसी अपृणाज् जायमानः । वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥
श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । वसोः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥
यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । प्र तं नय प्रतरां वस्यो अच्छाभि द्युम्नं देवभक्तं यविष्ठ ॥
आ
VERSE: 4
तम् भज सौश्रवसेष्व् अग्न उक्थउक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसूनि दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥
4.2.3 अनुवाक 3
देवयजनपरिग्रहः
VERSE: 1
अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥
प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिस् त्वम् । बृहद्भिर् भानुभिर् भासन् मा हिम्̇सीस् तनुवा प्रजाः ॥
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आ ॥
VERSE: 2
अस्मिन् हव्या जुहोतन ॥
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥
आपो देवीः प्रति गृह्णीत भस्मैतत् स्योने कृणुध्वम्̇ सुरभाव् उ लोके । तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रम् बिभृता स्व् एनम् ॥
अप्स्व् अग्ने सधिष्टव
VERSE: 3
सौषधीर् अनु रुध्यसे । गर्भै सञ् जायसे पुनः ॥
गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनां । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥
प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने । सम्̇सृज्य मातृभिस् त्वं ज्योतिष्मान् पुनर् आसदः ॥
पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने । शेषे मातुर् यथोपस्थे ऽन्तर् अस्याम्̇ शिवतमः ॥
पुनर् ऊर्जा
VERSE: 4
नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धताम् पुनर् ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
बोधा नो अस्य वचसो यविष्ठ मम्̇हिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तनुवं वन्दे अग्ने ॥
स बोधि सूरिर् मघवा वसुदावा वसुपतिः । युयोध्य् अस्मद् द्वेषाम्̇सि ॥
4.2.4 अनुवाक 4
गार्हपत्यचयनम्
VERSE: 1
अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् इदं यमो ऽवसानम् पृथिव्या अक्रन्न् इमम् पितरो लोकम् अस्मै ॥
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि
संज्ञानम् असि कामधरणम् मयि ते कामधरणम् भूयात्
सं या वः प्रियास् तनुवः सम् प्रिया हृदयानि वः । आत्मा वो अस्तु
VERSE: 2
सम्प्रियः सम्प्रियास् तनुवो मम ॥
अयम्̇ सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । सहस्रियं वाजम् अत्यं न सप्तिम्̇ ससवान्त् सन्त् स्तूयसे जातवेदः ॥
अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवाम्̇ ऊचिषे धिष्णिया ये । याः परस्ताद् रोचने सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीषु
VERSE: 3
अप्सु वा यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्ताम्̇ हव्यम् आहुतम् अनमीवा इषो महीः ॥
इडाम् अग्ने पुरुदम्̇सम्̇ सनिं गोः शश्वत्तमम्̇ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्
VERSE: 4
अग्न आ रोहाथा नो वर्धया रयिम् ॥
चिद् असि तया देवतयाङ्गिरवद् ध्रुवा सीद
परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद
लोकम् पृण छिद्रम् पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
ता अस्य सूददोहसः सोमम्̇ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः
4.2.5 अनुवाक 5
आहवनीयचयनार्थ भुवः कर्षणम्
VERSE: 1
सम् इतम्̇ सं कल्पेथाम्̇ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जम् अभि संवसानौ शं वाम् मनाम्̇सि सं व्रता सम् उ चित्तान्य् आकरम् ॥
अग्ने पुरीष्याधिपा भवा त्वं नः । इषमूर्जं यजमानाय धेहि ॥
पुरीष्यस् त्वम् अग्ने रयिमान् पुष्टिमाम्̇ असि । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
भवतं नः समनसौ समोकसौ
VERSE: 2
अरेपसौ । मा यज्ञम्̇ हिम्̇सिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
मातेव पुत्रम् पृथिवी पुरीष्यम् अग्निम्̇ स्वे योनाव् अभार् उखा । तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥
यद् अस्य पारे रजसः शुक्रं ज्योतिर् अजायत । तन् नः पर्षद् अति द्विशो ऽग्ने वैश्वानर स्वाहा ॥
नमः सु ते निर्ऋते विश्वरूपे
VERSE: 3
अयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं यम्या संविदानोत्तमं नाकम् अधि रोहयेमम् ॥
यत् ते देवी निर्ऋतिर् आबबन्ध दाम ग्रीवास्व् अविचर्त्यम् । इदं ते तद् वि ष्याम्य् आयुषो न मध्याद् अथा जीवः पितुम् अद्धि प्रमुक्तः ॥
यस्यास् ते अस्याः क्रूर आसञ् जुहोम्य् एषाम् बन्धानाम् अवसर्जनाय । भूमिर् इति त्वा जना विदुर् निर्ऋतिः
VERSE: 4
इति त्वाहम् परि वेद विश्वतः ॥
असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्यां तस्करस्यान्व् एषि । अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥
देवीम् अहं निर्ऋतिं वन्दमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी वि चष्टे ॥
निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे
VERSE: 5
शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥
सं वरत्रा दधातन निर् आहावान् कृणोतन । सिञ्चामहा अवटम् उद्रिणं वयं विश्वाऽहाऽदस्तम् अक्षितम् ॥
निष्कृताहावम् अवटम्̇ सुवरत्रम्̇ सुषेचनम् । उद्रिणम्̇ सिञ्चे अक्षितम् ॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया
युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह
VERSE: 6
बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्या पक्वम् आऽयत् ॥
लाङ्गलम् पवीरवम्̇ सुशेवम्̇ सुमतित्सरु । उद् इत् कृषति गाम् अविम् प्रफर्व्यं च पीवरीम् । प्रस्थावद् रथवाहनम् ॥
शुनं नः फाला वि तुदन्तु भूमिम्̇ शुनं कीनाशा अभि यन्तु वाहान् । शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः ॥
घृतेन सीता मधुना समक्ता विश्वैर् देवैर् अनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाऽभ्याववृत्स्व ॥
4.2.6 अनुवाक 6
ओषधिवापः
VERSE: 1
या जाता ओषधयो देवेभ्यस् त्रियुगम् पुरा । मन्दामि बभ्रूणाम् अहम्̇ शतं धामानि सप्त च ॥
शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । अथा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥
पुष्पावतीः प्रसूवतीः फलिनीर् अफला उत । अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । रपाम्̇सि विघ्नतीर् इत रपः
VERSE: 2
चातयमानाः ॥
अश्वत्थे वो निषदनम् पर्णे वो वसतिः कृता । गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥
यद् अहं वाजयन्न् इमा ओषधीर् हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यद् ओषधयः संगच्छन्ते राजानः समिताव् इव । विप्रः स उच्यते भिषग् रक्षोहाऽमीवचातनः ॥
निष्कृतिर् नाम वो माताऽथा यूयम्̇ स्थ संकृतीः । सराः पतत्रिणीः
VERSE: 3
स्थन यद् आमयति निष् कृत ॥
अन्या वो अन्याम् अवत्व् अन्याऽन्यस्या उपावत । ताः सर्वा ओषधयः संविदाना इदम् मे प्रावता वचः ॥
उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । धनम्̇ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । ओषधयः प्राचुच्यवुर् यत् किं च तनुवाम्̇ रपः ॥
याः
VERSE: 4
त आतस्थुर् आत्मानं या आविविशुः परुःपरुः । तास् ते यक्ष्मं वि बाधन्ताम् उग्रो मध्यमशीर् इव ॥
साकं यक्ष्म प्र पत श्येनेन किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
अश्वावतीम्̇ सोमवतीमूर्जयन्तीम् उदोजसम् । आ वित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥
याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अम्̇हसः ॥
याः
VERSE: 5
ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीम् अनु । तासां त्वम् अस्य् उत्तमा प्र णो जीवातवे सुव ॥
अवपतन्तीर् अवदन् दिव ओषधयः परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । इह संगत्य ताः सर्वा अस्मै सं दत्त भेषजम् ॥
मा वो रिषत् खनिता यस्मै चाहं खनामि वः । द्विपच् चतुष्पद् अस्माकम्̇ सर्वम् अस्त्व् अनातुरम् ॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस् तम्̇ राजन् पारयामसि ॥
4.2.7 अनुवाक 7
लोष्टक्षेपादिकम्
VERSE: 1
मा नो हिम्̇सीज् जनिता यः पृथिव्या यो वा दिवम्̇ सत्यधर्मा जजान । यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् इषितो ऽव सर्पतु ॥
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यद् यज्ञियम् । तद् देवेभ्यो भरामसि ॥
इषमूर्जम् अहम् इत आ
VERSE: 2
दद ऋतस्य धाम्नो अमृतस्य योनेः । आ नो गोषु विशत्व् औषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥
अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिम्̇ रयिम् ॥
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व
VERSE: 3
धीतिभिर् हितः । त्वे इषः सं दधुर् भूरिरेतसश् चित्रोतयो वामजाताः ॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । पुत्रः पितरा विचरन्न् उपावस्य् उभे पृणक्षि रोदसी ॥
ऋतावानम् महिषं विश्वचर्षणिम् अग्निम्̇ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णम्̇ सप्रथस्तमम् त्वा गिरा दैव्यम् मानुषा युगा ॥
निष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तम्̇ राधसे महे । रातिम् भृगूणाम् उशिजं कविक्रतुम् पृणक्षि सानसिम्
VERSE: 4
रयिम् ॥
चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाऽङ्गिरस्वद् ध्रुवाः सीदत ॥
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
सं ते पयाम्̇सि सम् उ यन्तु वाजाः सं वृष्णियान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाम्̇सि उत्तमानि धिष्व ॥
4.2.8 अनुवाक 8
रुक्माद्युपधानम्
VERSE: 1
अभ्य् अस्थाद् विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह । बृहस्पतिः सविता तन् म आह पूषा माधात् सुकृतस्य लोके ॥
यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत् ते अर्वन् ॥
अपाम् पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानम् महः
VERSE: 2
आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु
VERSE: 3
द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
ये ऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषाम् अप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥
या इषवो यातुधानानां ये वा वनस्पतीम्̇र् अनु । ये वाऽवटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
4.2.9 अनुवाक 9
स्वयमातृण्णादीष्टकोपधानम्
VERSE: 1
ध्रुवाऽसि धरुणाऽस्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृम्̇ह ॥
प्रजापतिस् त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीम् प्रथस्वतीम् प्रथो ऽसि पृथिव्यसि भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृम्̇ह पृथिवीम् मा हिम्̇सीर् विश्वस्मै प्राणाय व्यानायोदानाय प्रतिष्ठायै
VERSE: 2
चरित्रायाग्निस् त्वाऽभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषः परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥
अषाढाऽसि सहमाना सहस्वारातीः सहस्वारातीयतः
सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्या
VERSE: 3
असि सा मा जिन्व ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः ॥
मधु नक्तम् उतोषसि मधुमत् पार्थिवम्̇ रजः । मधु द्यौर् अस्तु नः पिता ॥
मधुमान् नो वनस्पतिर् मधुमाम्̇ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
तद् विष्णोः परमम्
VERSE: 4
पदम्̇ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥
ध्रुवाऽसि पृथिवि सहस्व पृतन्यतः । स्यूता देवेभिर् अमृतेऽनागाः ॥
यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते
विराट्
VERSE: 5
ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्य् आशवः ॥
युक्ष्वा हि देवहूतमाम्̇ अश्वाम्̇ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त
VERSE: 6
होत्राः ॥
अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च । अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ॥
ऋचे त्वा रुचे त्वा
सम् इत् स्रवन्ति सरितो न धेनाः । अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा अभि चाकशीमि । हिरण्ययो वेतसो मध्य आसाम् ॥
तस्मिन्त् सुपर्णो मधुकृत् कुलायी भजन्न् आस्ते मधु देवताभ्यः । तस्याऽऽसते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥
4.2.10 अनुवाक 10
पशुशीर्षकोपधानम्
VERSE: 1
आदित्यं गर्भम् पयसा समञ्जन्त् सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्ग्धि हरसा माऽभि मृक्षः शतायुषं कृणुहि चीयमानः ॥
इमम् मा हिम्̇सीर् द्विपादम् पशूनाम्̇ सहस्राक्ष मेध आ चीयमानः । मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वातस्य ध्राजिं वरुणस्य नाभिम् अश्वं जज्ञानम्̇ सरिरस्य मध्ये । शिशुं नदीनाम्̇ हरिम् अद्रिबुद्धम् अग्ने मा हिम्̇सीः
VERSE: 2
परमे व्योमन् ॥
इमम् मा हिम्̇सीर् एकशफम् पशूनां कनिक्रदं वाजिनं वाजिनेषु । गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
अजस्रम् इन्दुम् अरुषम् भुरण्युम् अग्निम् ईडे पूर्वचित्तौ नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गाम् मा हिम्̇सीर् अदितिं विराजम् ॥
इमम्̇ समुद्रम्̇ शतधारम् उत्सं व्यच्यमानम् भुवनस्य मध्ये । घृतं दुहानाम् अदितिं जनायाग्ने मा
VERSE: 3
हिम्̇सीः परमे व्योमन् । गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वरूत्रिं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाम्̇ रजसः परस्मात् । महीम्̇ सहस्रीम् असुरस्य मायाम् अग्ने मा हिम्̇सीः परमे व्योमन् ॥
इमामूर्णायुं वरुणस्य मायां त्वचम् पशूनां द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानाम् प्रथमं जनित्रम् अग्ने मा हिम्̇सीः परमे व्योमन् । उष्ट्रम् आरण्यम् अनु
VERSE: 4
ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
यो अग्निर् अग्नेस् तपसो ऽधि जातः शोचात् पृथिव्या उत वा दिवस् परि । येन प्रजा विश्वकर्मा व्यानट् तम् अग्ने हेडः परि ते वृणक्तु ॥
अजा ह्य् अग्नेर् अजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्रे । तया रोहम् आयन्न् उप मेध्यासः तया देवा देवताम् अग्र आयन् । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
4.2.11 अनुवाक 11
चातुर्मास्येषु वरुणप्रघासे याज्यानुवाक्याः
VERSE: 1
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् ॥
श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
प्र चर्षणिभ्यः पृतना हवेषु प्र पृथिव्या रिरिचाथे दिवश् च । प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥
मरुतो यस्य हि
VERSE: 2
क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥
यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम् ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
अव ते हेड
उद् उत्तमम् ।
कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥
VERSE: 3
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥
अग्ने नय ।
आ देवानाम् ।
शं नो भवन्तु
वाजेवाजे
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे गर्भै सञ् जायसे पुनः ॥
वृषा सोम द्युमाम्̇ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
इमम् मे वरुण
तत् त्वा यामि
त्वं नो अग्ने
स त्वं नो अग्ने ॥
4.3 प्रपाठक: 3
4.3.1 अनुवाक 1
अपस्या इष्टकाः
VERSE: 1
अपां त्वेमन्त् सादयाम्य् अपां त्वोद्मन्त् सादयाम्य् अपां त्वा भस्मन्त् सादयाम्य् अपां त्वा ज्योतिषि सादयाम्य् अपां त्वाऽयने सादयामि ।
अर्णवे सदने सीद समुद्रे सदने सीद सलिले सदने सीदापां क्षये सीदापाम्̇ सधिषि सीद ।
अपां त्वा सदने सादयाम्य् अपां त्वा सधस्थे सादयाम्य् अपां त्वा पुरीषे सादयाम्य् अपां त्वा योनौ सादयाम्य् अपां त्वा पाथसि सादयामि
गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दः पङ्क्तिश् छन्दः ॥
4.3.2 अनुवाक 2
प्राणभृत इष्टकाः
VERSE: 1
अयम् पुरो भुवस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्राद् उपाम्̇शुर् उपाम्̇शोस् त्रिवृत् त्रिवृतो रथंतरम्̇ रथंतराद् वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ।
अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुग् ग्रैष्मी त्रिष्टुभ ऐडम् ऐडाद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् बृहतो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनो
VERSE: 2
गृह्णामि प्रजाभ्यः ।
अयम् पश्चाद् विश्वव्याचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्षमम् ऋक्षमाच् छुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं वैरूपाद् विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्नामि प्रजाभ्यः ।
इदम् उत्तरात् सुवस् तस्य श्रोत्रम्̇ सौवम्̇ शरच् छ्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभः स्वारम्̇ स्वारान् मन्थी मन्थिन एकविम्̇श एकविम्̇शाद् वैराजं वैराजाज् जमदग्निर् ऋषिः प्रजापतिगृहीतया
VERSE: 3
त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ।
इयम् उपरि मतिस् तस्यै वाङ् माती हेमन्तो वाच्यायनः पङ्क्तिर् हैमन्ती पङ्क्त्यै निधनवन् निधनवत आग्रयण आग्रयणात् त्रिणवत्रयस्त्रिम्̇शौ त्रिणवत्रयस्त्रिम्̇शाभ्याम्̇ शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः॥
4.3.3 अनुवाक 3
अपानभृत इष्टकाः
VERSE: 1
प्राची दिशां वसन्त ऋतूनाम् अग्निर् देवता ब्रह्म द्रविणं त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिस् त्र्यविर् वयः कृतम् अयानाम् पुरोवातो वातः सानग ऋषिः ।
दक्षिणा दिशां ग्रीष्म र्तूनाम् इन्द्रो देवता क्षत्रं द्रविणम् पञ्चदश स्तोमः स उ सप्तदशवर्तनिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः सनातन ऋषिः
प्रतीची दिशां वर्षा ऋतूनां विश्वे देवा देवता विट्
VERSE: 2
द्रविणम्̇ सप्तदश स्तोमः स उवेकविम्̇शवर्तनिस् त्रिवत्सो वयो द्वापरो ऽयानाम् पश्चाद्वातो वातो ऽहभून ऋषिः ।
उदीची दिशाम्̇ शरद् ऋतूनाम् मित्रावरुणौ देवता पुष्टं द्रविणम् एकविम्̇श स्तोमः स उ त्रिणववर्तनिस् तुर्यवाड् वय आस्कन्दो ऽयानाम् उत्तराद्वातो वातः प्रत्न ऋषिः ।
ऊर्ध्वा दिशाम्̇ हेमन्तशिशिराव् ऋतूनाम् बृहस्पतिर् देवता वर्चो द्रविणं त्रिणव स्तोमः स उ त्रयस्त्रिम्̇शवर्तनिः पष्ठवाद् वयो ऽभिभूर् अयानां विष्वग्वातो वातः सुपर्ण ऋषिः
पितरः पितामहाः परे ऽवरे ते नः पान्तु ते नो ऽवन्त्व् अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥
4.3.4 अनुवाक 4
आश्विनी इष्टकाः
VERSE: 1
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवाऽसि ध्रुवां योनिम् आ सीद साध्या । उख्यस्य केतुम् प्रथमम् पुरस्ताद् अश्विनाध्वर्यू सादयताम् इह त्वा ॥
स्वे दक्षे दक्षपितेह सीद देवत्रा पृथिवी बृहती रराणा । स्वासस्था तनुवा सं विशस्व पितेवैधि सूनव आ सुशेवाश्विनाध्वर्यू सादयताम् इह त्वा ॥
कुलायिनी वसुमती वयोधा रयिं नो वर्ध बहुलम्̇ सुवीरम् ॥
VERSE: 2
अपामतिं दुर्मतिम् बाधमाना रायस् पोषे यज्ञपतिम् आभजन्ती सुवर् धेहि यजमानाय पोषम् अश्विनाध्वर्यू सादयताम् इह त्वा ॥
अग्नेः पुरीषम् असि देवयानी तां त्वा विश्वे अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणाऽऽ यजस्वाश्विनाऽऽध्वर्यू सादयताम् इह त्वा ॥
दिवो मूर्धाऽऽसि पृथिव्या नाभिर् विष्टम्भनी दिशाम् अधिपत्नी भुवनानाम् ॥
VERSE: 3
ऊर्मिर् द्रप्सो अपाम् असि विश्वकर्मा त ऋषिर् अश्विनाऽध्वर्यू सादयताम् इह त्वा ॥
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजू रुद्रैः सजूर् आदित्यैः सजूर् विश्वैर् देवैः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाऽध्वर्यू सादयताम् इह त्वा
प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे पाहि चक्षुर् म उर्व्या
VERSE: 4
वि भाहि श्रोत्रम् मे श्लोकय ।
अपस् पिन्वौषधीर् जिन्व द्विपात् पाहि चतुष्पाद् अव दिवो वृष्टिम् एरय ॥
4.3.5 अनुवाक 5
वयस्या इष्टकाः
VERSE: 1
त्र्यविर् वयस् त्रिष्टुप् छन्दः ।
दित्यवाड् वयो विराट् छन्दः
पञ्चाविर् वयो गायत्री छन्दस्
त्रिवत्सो वय उष्णिहा छन्दस्
तुर्यवाड् वयो ऽनुष्टुप् छन्दः
पष्ठवाद् वयो बृहती छन्दः ।
उक्षा वयः सतोबृहती छन्दः ।
ऋषभो वयः ककुच् छन्दः ।
धेनुर् वयो जगती छन्दः ।
अनड्वान् वयः पङ्क्तिश् छन्दः ।
बस्तो वयो विवलं छन्दः ।
वृष्णिर् वयो विशालं छन्दः
पुरुषो वयस् तन्द्रं छन्दः ।
व्याघ्रो वयो ऽनाधृष्टं छन्दः
सिम्̇हो वयश् छदिश् छन्दः ।
विष्टम्भो वयो ऽधिपतिश् छन्दः
क्षत्रं वयो मयंदं छन्दः ।
विश्वकर्मा वयः परमेष्ठी छन्दः ।
मूर्धा वयः प्रजापतिश् छन्दः ॥
4.3.6 अनुवाक 6
स्वयमातृण्णा इष्टकाः
VERSE: 1
इन्द्राग्नी अव्यथमानाम् इष्टकां दृम्̇हतं युवम् । पृष्ठेन द्यावापृथिवी अन्तरिक्षं च वि बाधताम् ॥
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीम् प्रथस्वतीम् भास्वतीम्̇ सूरिमतीम् आ या द्याम् भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् अन्तरिक्षं यच्छान्तरिक्षं दृम्̇हान्तरिक्षम् मा हिम्̇सीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा
VERSE: 2
शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
राज्ञ्य् असि प्राची दिग् विराड् असि दक्षिणा दिक् सम्राड् असि प्रतीची दिक् स्वराड् अस्य् उदीची दिग् अधिपत्न्य् असि बृहती दिग् ।
आयुर् मे पाहि प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे पाहि चक्षुर् मे पाहि श्रोत्रम् मे पाहि मनो मे जिन्व वाचम् मे पिन्वात्मानम् मे पाहि ज्योतिर् मे यच्छ ॥
4.3.7 अनुवाक 7
बृहतीः इष्टकाः
VERSE: 1
मा छन्दः प्रमा छन्दः प्रतिमा छन्दो ऽस्रीविश् छन्दः प्रङ्क्तिश् छन्द उष्णिहा छन्दो बृहती छन्दो ऽनुष्टुप् छन्दो विराट् छन्दो गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दः पृथिवी छन्दो ऽन्तरिक्षं छन्दो द्यौश् छन्दः समाश् छन्दो नक्षत्राणि छन्दो मनश् छन्दो वाक् छन्दः कृषिश् छन्दो हिरण्यं छन्दो गौश् छन्दो ऽजा छन्दो ऽश्वश् छन्दः ।
अग्निर् देवता
VERSE: 2
वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽऽदित्या देवता विश्वे देवा देवता मरुतो देवता बृहस्पतिर् देवतेन्द्रो देवता वरुणो देवता ।
मूर्धाऽसि राड् ध्रुवाऽसि धरुणा यन्त्र्य् असि यमित्रीषे त्वोर्जे त्वा कृष्यै त्वा क्षेमाय त्वा यन्त्री राड् ध्रुवासि धरणी धर्त्र्य् असि धरित्र्य् आयुषे त्वा वर्चसे त्वौजसे त्वा बलाय त्वा ॥
4.3.8 अनुवाक 8
अक्ष्णयास्तोमीया इष्टकाः
VERSE: 1
आशुस् त्रिवृत् ।
भान्तः पञ्चदशः ।
व्योम सप्तदशः
प्रतूर्तिर् अष्टादशस्
तपो नवदशः ।
अभिवर्तः सविम्̇शः ।
धरुण एकविम्̇शः ।
वर्चो द्वाविम्̇शः
सम्भरणस् त्रयोविम्̇शः ।
योनिश् चतुर्विम्̇शः ।
गर्भाः पञ्चविम्̇शः ।
ओजस् त्रिणवः
क्रतुर् एकत्रिम्̇शः
प्रतिष्ठा त्रयस्त्रिम्̇शः ।
ब्रध्नस्य विष्टपं चतुस्त्रिम्̇शः ।
नाकः षट्त्रिम्̇शः ।
विवर्तो ऽष्टाचत्वारिम्̇शः ।
धर्त्रश् चतुष्टोमः ॥
4.3.9 अनुवाक 9
अवशिष्टा अक्ष्णयास्तोमीया इष्टकाः
VERSE: 1
अग्नेर् भागो ऽसि दीक्षाया आधिपत्यम् ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रम्̇ स्पृतम् पञ्चदश स्तोमः ।
नृचक्षसाम् भागो ऽसि धातुर् आधिपत्यं जनित्रम्̇ स्पृतम्̇ सप्तदश स्तोमः ।
मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वाता स्पृता एकविम्̇श स्तोमः ।
अदित्यै भागो ऽसि पूष्ण आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
वसूनाम् भागो ऽसि
VERSE: 2
रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विम्̇श स्तोमः ।
आदित्यानाम् भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविम्̇श स्तोमः ।
देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यम्̇ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ।
यावानाम् भागो ऽस्य् अयावानाम् आधिपत्यम् प्रजा स्पृताश् चतुश्चत्वारिम्̇श स्तोमः ।
ऋभूणाम् भागो ऽसि विश्वेषां देवानाम् आधिपत्यम् भूतं निशान्तम्̇ स्पृतं त्रयस्त्रिम्̇श स्तोमः ॥
4.3.10 अनुवाक 10
सृष्टीष्टकाः
VERSE: 1
एकयाऽस्तुवत प्रजा अधीयन्त प्रजापतिर् अधिपतिर् आसीत्
तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस् पतिर् अधिपतिर् आसीत्
पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानाम् पतिर् अधिपतिर् आसीत्
सप्तभिर् अस्तुवत सप्तर्षयो ऽसृज्यन्त धाताऽधिपतिर् आसीत् ।
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अधिपत्न्य् आसीत् ।
एकादशभिर् अस्तुवतर्तवो ऽसृज्यन्तार्तवो ऽधिपतिर् आसीत्
त्रयोदशभिर् अस्तुवत मासा असृज्यन्त संवत्सरो ऽधिपतिः
VERSE: 2
आसीत्
पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत्
सप्तदशभिर् अस्तुवत पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ।
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम्
एकविम्̇शत्याऽस्तुवतैकशफाः पशवो ऽसृज्यन्त वरुणो ऽधिपतिर् आसीत्
त्रयोविम्̇शत्याऽस्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत्
पञ्चविम्̇शत्याऽस्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत्
सप्तविम्̇शत्याऽस्तुवत द्यावापृथिवी व्यै
VERSE: 3
तां वसवो रुद्रा आदित्या अनु व्यायन् तेषाम् आधिपत्यम् आसीत् ।
नवविम्̇शत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
एकत्रिम्̇शताऽस्तुवत प्रजा असृज्यन्त यावानां चायावानां चाऽऽधिपत्यम् आसीत्
त्रयस्त्रिम्̇शताऽस्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ॥
4.3.11 अनुवाक 11
व्युष्टीष्टकाः
VERSE: 1
इयम् एव सा या प्रथमा व्यौच्छद् अन्तर् अस्यां चरति प्रविष्टा । वधूर् जजान नवगज् जनित्री त्रय एनाम् महिमानः सचन्ते ॥
छन्दस्वती उषसा पेपिशाने समानं योनिम् अनु संचरत्नी । सूर्यपत्नी वि चरतः प्रजानती केतुं कृण्वाने अजरे भूरिरेतसा ॥
ऋतस्य पन्थाम् अनु तिस्र आऽगुस् त्रयो घर्मासो अनु ज्योतिषाऽऽऽगुः । प्रजाम् एका रक्षत्य् ऊर्जम् एका
VERSE: 2
व्रतम् एका रक्षति देवयूनाम् ॥
चतुष्टोमो अभवद् या तुरीया यज्ञस्य पक्षाव् ऋषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभम् बृहद् अर्कं युञ्जानाः सुवर् आभरन्न् इदम् ॥
पञ्चभिर् धाता वि दधाव् इदं यत् तासाम्̇ स्वसॄर् अजनयत् पञ्चपञ्च । तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
त्रिम्̇शत् स्वसार उप यन्ति निष्कृतम्̇ समानं केतुम् प्रतिमुञ्चमानाः
VERSE: 3
ऋतूम्̇स् तन्वते कवयः प्रजानतीर् मध्येछन्दसः परि यन्ति भास्वतीः ॥
ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि पश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥
एकाष्टका तपसा तप्यमाना जजान गर्भम् महिमानम् इन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुराणाम् अभवच् छचीभिः ॥
अनानुजाम् अनुजाम् माम् अकर्त सत्यं वदन्त्य् अन्व् इच्छ एतत् । भूयासम्
VERSE: 4
अस्य सुमतौ यथा यूयम् अन्या वो अन्याम् अति मा प्र युक्त ॥
अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठाम् अविदद्धि गाधम् । भूयासम् अस्य सुमतौ यथा यूयम् अन्या वो अन्याम् अति मा प्र युक्त ॥
पञ्च व्युष्टीर् अनु पञ्च दोहा गाम् पञ्चनाम्नीम् ऋतवो ऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्ध्नीर् अभि लोकम् एकम् ॥
VERSE: 5
ऋतस्य गर्भः प्रथमा व्यूषुष्य् अपाम् एका महिमानम् बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नि यच्छति ॥
या प्रथमा व्यौच्छत् सा धेनुर् अभवद् यमे । सा नः पयमस्वती धुक्ष्वोत्तरामुत्तराम्̇ समाम् ॥
शुक्रर्षभा नभसा ज्योतिषागाद् विश्वरूपा शबलीर् अग्निकेतुः । समानम् अर्थम्̇ स्वपस्यमाना बिभ्रती जराम् अजर उष आऽगाः ॥
ऋतूनाम् पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्य् उच्छस्य् अजीर्णा त्वं जरयसि सर्वम् अन्यत् ॥
4.3.12 अनुवाक 12
असपत्ना इष्टकाः
VERSE: 1
अग्ने जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेडन् तव स्याम्̇ शर्मन् त्रिवरूथ उद्भित् ॥
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयम्̇ स्याम प्र णुदा नः सपत्नान् ॥
चतुश्चत्वारिम्̇श स्तोमो वर्चो द्रविणम् ।
षोडश स्तोम ओजो द्रविणम्
पृथिव्याः पुरीषम् असि
VERSE: 2
अप्सो नाम ।
एवश् छन्दो वरिवश् छन्दः शम्भूश् छन्दः परिभूश् छन्द आच्छच् छन्दो मनश् छन्दो व्यचश् छन्दः सिन्धुश् छन्दः समुद्रं छन्दः सलिलं छन्दः संयच् छन्दो वियच् छन्दो बृहच् छन्दो रथंतरं छन्दो निकायश् छन्दो विवधश् छन्दो गिरश् छन्दो भ्रजश् छन्दः सष्टुप् छन्दो ऽनुष्टुप् छन्दः ककुच् छन्दस् त्रिककुच् छन्दः काव्यं छन्दो ऽङ्कुपं छन्दः
VERSE: 3
पदपङ्क्तिश् छन्दो ऽक्षरपङ्क्तिश् छन्दो विष्टारपङ्क्तिश् छन्दः क्षुरो भृज्वाञ् छन्दः प्रच्छच् छन्दः पक्षश् छन्द एवश् छन्दो वरिवश् छन्दो वयश् छन्दो वयस्कृच् छन्दो विशालं छन्दो विष्पर्धाश् छन्दश् छदिश् छन्दो दूरोहणं छन्दस् तन्द्रं छन्दो ऽङ्काङ्कं छन्दः ॥
4.3.13 अनुवाक 13
चातुर्मास्येषु साकमेधे याज्यानुवाक्याः
VERSE: 1
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र आहुतः ॥
त्वम्̇ सोमासि सत्पतिस् त्वम्̇ राजोत वृत्रहा । त्वम् भद्रो असि क्रतुः ॥
भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तनुवि रेप आ धुः ॥
भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य ।
VERSE: 2
रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । यत् सीमहि दिविजात प्रशस्तं तद् अस्मासु द्रविणं धेहि चित्रम् ॥
यथा होतर् मनुषो
VERSE: 3
देवताता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥
अग्निम् ईडे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारम्̇ रत्नधातमम् ॥
वृषा सोम द्युमाम्̇ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
सांतपना इदम्̇ हविर् मरुतस् तज् जुजुष्टन । युष्माकोती रिशादसः ॥
यो नो मर्तो वसवो दुर्हृणायुस् तिरः सत्यानि मरुतो
VERSE: 4
जिघाम्̇सात् । द्रुहः पाशम् प्रति स मुचीष्ट तपिष्ठेन तपसा हन्तना तम् ॥
संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेषु । ते ऽस्मत् पाशान् प्र मुञ्चन्त्व् अम्̇हसः सांतपना मदिरा मादयिष्णवः ॥
पिप्रीहि देवाम्̇ उशतो यविष्ठ विद्वाम्̇ ऋतूम्̇र् ऋतुपते यजेह । ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वम्̇ होतृणाम् अस्य् आयजिष्ठः ॥
अग्ने यद् अद्य विशो अध्वरस्य होतः पावक
VERSE: 5
शोचे वेष् ट्वम्̇ हि यज्वा । ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भव ॥
गृहमेधास आ गत मरुतो माप भूतन । प्रमुञ्चन्तो नो अम्̇हसः ॥
पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । महोभिः
VERSE: 6
चर्षणीनाम् ॥
प्र बुध्निया ईरते वो महाम्̇सि प्र णामानि प्रयज्यवस् तिरध्वम् । सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥
उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । उप स्वैनम् अरमतिर् वसूयुः ॥
इमो अग्ने वीततमानि हव्याऽजस्रो वक्षि देवतातिम् अच्छ । प्रति न ईम्̇ सुरभीणि वियन्तु ॥
क्रीडं वः शर्धो मारुतम् अनर्वाणम्̇ रथेशुभम् ।
VERSE: 7
कण्वा अभि प्र गायत ॥
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीडिनः पयोधाः ॥
प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । ते क्रीडयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥
उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन
VERSE: 8
चित् पथा । श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥
अग्निमग्निम्̇ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहम् पुरुप्रियम् ॥
तम्̇ हि शश्वन्त ईडते स्रुचा देवं घृतश्चुता । अग्निम्̇ हव्याय वोढवे ॥
इन्द्राग्नी रोचना दिवः
श्नथद् वृत्रम्
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
विश्वकर्मन् हविषा वावृधानः ।
विश्वकर्मन् हविषा वर्धनेन ॥
4.4 प्रपाठक: 4
4.4.1 अनुवाक 1
स्तोमभागा इष्टकाः
VERSE: 1
रश्मिर् असि क्षयाय त्वा क्षयं जिन्व प्रेतिर् असि धर्माय त्वा धर्मं जिन्वान्वितिर् असि दिवे त्वा दिवं जिन्व संधिर् अस्य् अन्तरिक्षाय त्वाऽन्तरिक्षं जिन्व प्रतिधिर् असि पृथिव्यै त्वा पृथिवीं जिन्व विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्व प्रवाऽस्य् अह्ने त्वाऽहर् जिन्व ।
अनुवाऽसि रात्रियै त्वा रात्रिं जिन्वोशिग् असि
VERSE: 2
वसुभ्यस् त्वा वसूञ् जिन्व प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्राञ्जिन्व सुदीतिरस्यादित्येभ्यस्त्वाऽऽदित्याञ्जिनवौजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्व तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्व
रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वाभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वाधिपतिर् असि प्राणाय
VERSE: 3
त्वा प्राणं जिन्व यन्ताऽस्य् अपानाय त्वाऽपानं जिन्व सम्̇सर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व त्रिवृद् असि
प्रवृद् असि संवृद् असि विवृद् असि सम्̇रोहो ऽसि नीरोहो ऽसि प्ररोहो ऽसि अनुरोहो ऽसि
वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असि ॥
4.4.2 अनुवाक 2
नाकसदा इष्टकाः
VERSE: 1
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा अधिपतयो ऽग्निर् हेतीनाम् प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याम्̇ श्रयत्व् आज्यम् उक्थम् अव्यथयत् स्तभ्नातु रथंतरम्̇ साम प्रतिष्ठित्यै
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै
सम्राड् असि प्रतीची दिक्
VERSE: 2
आदित्यास् ते देवा अधिपतयः सोमो हेतीनाम् प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु मरुत्वतीयम् उक्थम् अव्यथयत् स्तभ्नातु वैरूपम्̇ साम प्रतिष्ठित्यै
स्वराड् अस्य् उदीची दिग् विश्वे ते देवा अधिपतयो वरुणो हेतीनाम् प्रतिधर्तैकविम्̇शस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु निष्केवल्यम् उक्थम् अव्यथयत् स्तभ्नातु वैराजम्̇ साम प्रतिष्ठित्यै ।
अधिपत्न्य् असि बृहती दिङ् मरुतस् ते देवा अधिपतयः
VERSE: 3
बृहस्पतिर् हेतीनाम् प्रतिधर्ता त्रिणवत्रयस्त्रिम्̇शौ त्वा स्तोमौ पृथिव्याम्̇ श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथयन्ती स्तभ्नीताम्̇ शाक्वररैवते सामनी प्रतिष्ठित्यै ।
अन्तरिक्षायर्षयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे सुवर्गे लोके यजमानं च सादयन्तु ॥
4.4.3 अनुवाक 3
चोडा इष्टकाः
VERSE: 1
अयम् पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश्च रथौजाश् च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाम्̇सि प्रहेतिः ।
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानिग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिः ।
अयम् पश्चाद् विश्वव्यचास् तस्य रथेप्रोतश् चासमरथश् च सेनानिग्रामण्यौ प्रम्लोचन्ती च
VERSE: 2
अनुम्लोचन्ती चाप्सरसौ सर्पा हेतिर् व्याघ्राः प्रहेतिः ।
अयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानिग्रामण्यौ विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिः ।
अयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानिग्रामण्याव् उर्वशी च पूर्वचित्तिश् चाप्सरसौ विद्युद् धेतिर् अवस्फूर्जन् प्रहेतिस्
तेभ्यो नमस् ते नो मृडयन्तु ते यं
VERSE: 3
द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ।
आयोस् त्वा सदने सादयाम्य् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे
परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीम् प्रथस्वतीं विभूमतीम् प्रभूमतीम् परिभूमतीं दिवं यच्छ दिवं दृम्̇ह दिवम् मा हिम्̇सीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस् त्वाऽभि पातु मह्या स्वस्त्या
VERSE: 3
छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
प्रोथद् अश्वो न यवसे अविष्यन् यदा महः संवरणाद् व्यस्था । आद् अस्य् वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥
4.4.4 अनुवाक 4
छन्द इष्टकाः
VERSE: 1
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाम्̇ रेताम्̇सि जिन्वति ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥
अबोध्य् अग्निः समिधा जनानाम्
VERSE: 2
प्रति धेनुम् इवायतीम् उषासम् । यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उर्व्यञ्चम् अश्रेत् ॥
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
त्वाम् अग्ने अङ्गिरसः ॥
VERSE: 3
गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् इन्धते । इन्द्रेण देवैः सरथम्̇ स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोढवे ॥
सखायः सं वः सम्यञ्चम् इषम्
VERSE: 4
स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
एना वो अग्निं नमसोर्जो नपातम् आ हुवे । प्रियं चेतिष्ठम् अरतिम्̇ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
स योजते अरुषो विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी
VERSE: 5
वसूनां देवम्̇ राधो जनानाम् ॥
उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीढुषः । उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥
स इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा । रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । स तिग्मजम्भ
VERSE: 6
रक्षसो दह प्रति ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषम्̇ स्तोतृभ्य आ भर ॥
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस् पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यम्̇ हूयत इषम्̇ स्तोतृभ्य आ भर ॥
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्याः
VERSE: 7
उक्थेषु शवसस् पत इषम्̇ स्तोतृभ्य आ भर ॥
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̇ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ ॥
आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः ॥
एभिर् नो अर्कैर् भवा नो अर्वाङ्
VERSE: 8
सुवर् न ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥
अग्निम्̇ होतारम् मन्ये दास्वन्तम् वसोः सूनुम्̇ सहसो जातवेदसम् । विप्रं न जातवेदसम् ॥
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
अग्ने त्वम् नो अन्तमः । उत त्राता शिवो भव वरूथ्यः ॥
तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः ॥
वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥
4.4.5 अनुवाक 5
सयुजादय इष्टकाः
VERSE: 1
इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्म्य् आघाराभ्यां तेजसा वर्चसोक्थेभिः स्तोमेभिश् छन्दोभी रय्यै पोषाय सजातानाम् मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्मि ।
अम्बा दुला नितत्निर् अभ्रयन्ती मेघयन्ती वर्षयन्ती चुपुणीका नामासि प्रजापतिना त्वा विश्वाभिर् धीभिर् उप दधामि
पृथिव्य् उदपुरम् अन्नेन विष्टा मनुष्यास् ते गोप्तारो ऽग्निर् वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा
VERSE: 2
मे शर्म च वर्म चास्तु ।
अधिद्यौर् अन्तरिक्षम् ब्रह्मणा विष्टा मरुतस् ते गोप्तारो वायुर् वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा मे शर्म च वर्म चास्तु
द्यौर् अपराजिताऽमृतेन विष्टाऽऽदित्यास् ते गोप्तारः सूर्यो वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा मे शर्म च वर्म चास्तु ॥
4.4.6 अनुवाक 6
विश्वज्योतिराद्या इष्टकाः
VERSE: 1
बृहस्पतिस् त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छाग्निस् ते ऽधिपतिः ।
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छ वायुस् ते ऽधिपतिः
प्रजापतिस् त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छ परमेष्ठी ते ऽधिपतिः
पुरोवातसनिर् अस्य् अभ्रसनिर् असि विद्युत्सनिः
VERSE: 2
असि स्तनयित्नुसनिर् असि वृष्टिसनिर् असि ।
अग्नेर् यान्य् असि देवानाम् अग्नेयान्य् असि
वायोर् यान्य् असि देवानां वायोयान्य् असि ।
अन्तरिक्षस्य यान्य् असि देवानाम् अन्तरिक्षयान्य् असि ।
अन्तरिक्षम् अस्य् अन्तरिक्षाय त्वा
सलिलाय त्वा सर्णीकाय त्वा सतीकाय त्वा केताय त्वा प्रचेतसे त्वा विवस्वते त्वा दिवस् त्वा ज्योतिष आदित्येभ्यस् त्वा ।
ऋचे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा
यशोदां त्वा यशसि तेजोदां त्वा तेजसि पयोदां त्वा पयसि वर्चोदां त्वा वर्चसि द्रविणोदां त्वा द्रविणे सादयामि तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥
4.4.7 अनुवाक 7
भूयस्कृदादीष्टकाः
VERSE: 1
भूयस्कृद् असि वरिवस्कृद् असि प्राच्य् अस्य् ऊर्ध्वास्य् अन्तरिक्षसद् अस्य् अन्तरिक्षे सीद ।
अप्सुषद् असि श्येनसद् असि गृध्रसद् असि सुपर्णसद् असि नाकसद् असि
पृथिव्यास् त्वा द्रविणे सादयाम्य् अन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस् त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयामि
प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे
VERSE: 2
पाह्य् आयुर् मे पाहि विश्वायुर् मे पाहि सर्वायुर् मे पाहि ।
अग्ने यत् ते परम्̇ हृन् नाम ताव् एहि सम्̇ रभावहै पाञ्चजन्येष्व् अप्य् एध्य् अग्ने
यावा अयावा एवा ऊमाः सब्दः सगरः सुमेकः ॥
4.4.8 अनुवाक 8
इन्द्रतन्वाख्या इष्टकाः
VERSE: 1
अग्निना विश्वाषाट्
सूर्येण स्वराट्
क्रत्वा शचीपतिः ।
ऋषभेण त्वष्टा
यज्ञेन मघवान्
दक्षिणया सुवर्गः ।
मन्युना वृत्रहा
सौहार्द्येन तनूधा ।
अन्नेन गयः
पृथिव्याऽसनोत् ।
ऋग्भिर् अन्नादः ।
वषट्कारेण ऋद्धः
साम्ना तनूपाः ।
विराजा ज्योतिष्मान्
ब्रह्मणा सोमपाः ।
गोभिर् यज्ञं दाधार क्षत्रेण मनुष्यान्
अश्वेन च रथेन च वज्री ।
ऋतुभिः प्रभुः
संवत्सरेण परिभूस्
तपसाऽनाधृष्टः
सूर्यः सन् तनूभिः ॥
4.4.9 अनुवाक 9
यज्ञतन्वाक्या इष्टकाः
VERSE: 1
प्रजापतिर् मनसा ।
अन्धो ऽच्छेतः ।
धाता दीक्षायाम् ।
सविता भृत्याम्
पूषा सोमक्रयण्याम् ।
वरुण उपनद्धः ।
असुरः क्रीयमाणः ।
मित्रः क्रीतः
शिपिविष्ट आसादितः ।
नरंधिषः प्रोह्यमाणः ।
अधिपतिर् आगतः
प्रजापतिः प्रणीयमानः ।
अग्निर् आग्नीध्रे
बृहस्पतिर् आग्नीध्रात् प्रणीयमानः ।
इन्द्रो हविर्धाने ।
अदितिर् आसादितः ।
विष्णुर् उपावह्रियमाणः ।
अथर्वोपोत्तः ।
यमो ऽभिषुतः ।
अपूतपा आधूयमानः ।
वायुः पूयमानः ।
मित्रः क्षीरश्रीः ।
मन्थी सक्तुश्रीः ।
वैश्वदेव उन्नीतः ।
रुद्र
VERSE: 2
आहुतः ।
वायुर् आवृत्तः ।
नृचक्षाः प्रतिख्यातः ।
भक्ष आगतः
पितृणां नाराशम्̇सः ।
असुर् आत्तः
सिन्धुर् अवभृथम् अवप्रयन् ।
समुद्रो ऽवगतः
सलिलः प्रप्लुतः
सुवर् उदृचं गतः ॥
4.4.10 अनुवाक 10
नक्षत्रेष्टकाः
VERSE: 1
कृत्तिका नक्षत्रम् अग्निर् देवताऽग्ने रुचः स्थ प्रजापतेर् धातुः सोमस्यर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा
रोहिणी नक्षत्रम् प्रजापतिर् देवता मृगशीर्षं नक्षत्रम्̇ सोमो देवताऽऽर्द्रा नक्षत्रम्̇ रुद्रो देवता पुनर्वसू नक्षत्रम् अदितिर् देवता तिष्यो नक्षत्रम् बृहस्पतिर् देवताऽऽश्रेषा नक्षत्रम्̇ सर्पा देवता मघा नक्षत्रम् पितरो देवता फल्गुनी नक्षत्रम्
VERSE: 2
अर्यमा देवता फल्गुनी नक्षत्रम् भगो देवता हस्तो नक्षत्रम्̇ सविता देवता चित्रा नक्षत्रम् इन्द्रो देवता स्वाती नक्षत्रं वायुर् देवता विशाखे नक्षत्रम् इन्द्राग्नी देवता अनूराधा नक्षत्रम् मित्रो देवता रोहिणी नक्षत्रम् इन्द्रो देवता विचृतौ नक्षत्रम् पितरो देवताऽषाढा नक्षत्रम् आपो देवताऽषाढा नक्षत्रं विश्वे देवा देवता श्रोणा नक्षत्त्रं विष्णुर् देवता श्रविष्ठा नक्षत्रं वसवः
VERSE: 3
देवता शतभिषङ् नक्षत्रम् इन्द्रो देवता प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्नियो देवता रेवती नक्षत्रम् पूषा देवताऽश्वयुजौ नक्षत्रम् अश्विनौ देवताऽपभरणीर् नक्षत्रं यमो देवता
पूर्णा पश्चाद् यत् ते देवा अदधुः ॥
4.4.11 अनुवाक 11
ऋतव्या इष्टकाः
VERSE: 1
मधुश् च माधवश् च वासन्तिकाव् ऋतू
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू
नभश् च नभस्यश् च वार्षिकाव् ऋतू
इषश् चोर्जश् च शारदाव् ऋतू
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू
तपश् च तपस्यश् च शैशिराव् ऋतू
अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ओषधीः कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः
VERSE: 2
ये ऽग्नयः समनसो ऽन्तरा द्यावापृथिवी शैशिराव् ऋतू अभि कल्पमाना इन्द्रम् इव देवा अभि सं विशन्तु
संयच् च प्रचेताश् चाग्नेः सोमस्य सूर्यस्य ।
उग्रा च भीमा च पितृणां यमस्येन्द्रस्य
ध्रुवा च पृथिवी च देवस्य सवितुर् मरुतां वरुणस्य
धर्त्री च धरित्री च मित्रावरुणयोर् मित्रस्य धातुः
प्राची च प्रतीची च वसूनाम्̇ रुद्राणाम्
VERSE: 3
आदित्यानाम् ।
ते ते ऽधिपतयस् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि
सहस्रस्य प्रमा असि सहस्रस्य प्रतिमा असि सहस्रस्य विमा असि सहस्रस्योन्मा असि साहस्रो ऽसि सहस्राय त्वा ।
इमा मे अग्न इष्टका धेनवः सन्त्व् एका च शतं च सहस्रं चायुतं च
VERSE: 4
नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश् च मध्यं चान्तश् च परार्धश् चेमा मे अग्न इष्टका धेनवः सन्तु षष्टिः सहस्रम् अयुतम् अक्षीयमाणा ऋतस्था स्थर्तावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वतीः स्वधाविनीस् ता मे अग्न इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिम्̐ लोके ॥
4.4.12 अनुवाक 12
अश्वमेधे याज्यानुवाक्याः
VERSE: 1
समिद् दिशाम् आशया नः सुवर्विन् मधोर् अतो माधवः पात्व् अस्मान् । अग्निर् देवो दुष्टरीतुर् अदाभ्य इदं क्षत्रम्̇ रक्षतु पात्व् अस्मान् ॥
रथंतरम्̇ सामभिः पात्व् अस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन् नो विष्ठया स्तोमो अह्नाम्̇ समुद्रो वात इदम् ओजः पिपर्तु ॥
उग्रा दिशाम् अभिभूतिर् वयोधाः शुचिः शुक्रे अहन्य् ओजसीना । इन्द्राधिपतिः पिपृताद् अतो नो महि
VERSE: 2
क्षत्रं विश्वतो धारयेदम् ॥
बृहत् साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितम् उग्रवीरम् । इन्द्र स्तोमेन पञ्चदशेन मध्यम् इदं वातेन सगरेण रक्ष ॥
प्राची दिशाम्̇ सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नाम्̇ सुवर्वती । इदं क्षत्रं दुष्टरम् अस्त्व् ओजो ऽनाधृष्टम्̇ सहस्रियम्̇ सहस्वत् ॥
वैरूपे सामन्न् इह तच् छकेम जगत्यैनं विक्ष्व् आ वेशयामः । विश्वे देवाः सप्तदशेन
VERSE: 3
वर्च इदं क्षत्रम्̇ सलिलवातम् उग्रम् ॥
धर्त्री दिशां क्षत्रम् इदं दाधारोपस्थाऽऽशानाम् मित्रवद् अस्त्व् ओजः । मित्रावरुणा शरदाऽह्नां चिकित्नू अस्मै राष्ट्राय महि शर्म यच्छतम् ॥
वैराजे सामन्न् अधि मे मनीषाऽनुष्टुभा सम्भृतं वीर्यम्̇ सहः । इदं क्षत्रम् मित्रवद् आर्द्रदानु मित्रावरुणा रक्षतम् आधिपत्यैः ॥
सम्राड् दिशाम्̇ सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु । अवस्युवाताः
VERSE: 4
बृहतीर् नु शक्वरीर् इमं यज्ञम् अवन्तु नो घृताचीः ॥
सुवर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्ग्धि वाचम् ॥
ऊर्ध्वा दिशाम्̇ रन्तिर् आशौषधीनाम्̇ संवत्सरेण सविता नो अह्नाम् । रेवत् सामातिछन्दा उ छन्दोऽजातशत्रुः स्योना नो अस्तु ॥
स्तोमत्रयस्त्रिम्̇शे भुवनस्य पत्नि विवस्वद्वाते अभि नः
VERSE: 5
गृणाहि । घृतवती सवितर् आधिपत्यैः पयस्वती रन्तिर् आशा नो अस्तु ॥
ध्रुवा दिशां विष्णुपत्न्य् अघोराऽस्येशाना सहसो या मनोता । बृहस्पतिर् मातरिश्वोत वायुः संधुवाना वाता अभि नो गृणन्तु ॥
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । विश्वव्यचा इषयन्ती सुभूतिः शिवा नो अस्त्व् अदितिर् उपस्थे ॥
वैश्वानरो न ऊत्या
पृष्टो दिवि ।
अनु नो ऽद्यानुमतिः ।
अन्व् इद् अनुमते त्वम् ।
कया नश् चित्र आ भुवत्
को अद्य युङ्क्ते ॥
4.5 प्रपाठक: 5
4.5.1 अनुवाक 1
शतरुद्रीयहोमः
VERSE: 1
नमस् ते रुद्र मन्यव उतो त इषवे नमः । नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥
या त इषुः शिवतमा शिवम् बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥
या ते रुद्र शिवा तनूर् अघोराऽपापकाशिनी । तया नस् तनुवा शंतमया गिरिशन्ताभि चाकशीहि ॥
याम् इषुं गिरिशन्त हस्ते
VERSE: 2
बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिम्̇सीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मम्̇ सुमना असत् ॥
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् । अहीम्̇श् च सर्वाञ् जम्भयन्त् सर्वाश् च यातु धान्यः ॥
असौ यस् ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चेमाम्̇ रुद्रा अभितो दिक्षु
VERSE: 3
श्रिताः सहस्रशो ऽवैषाम्̇ हेड ईमहे ॥
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्न् अदृशन्न् उदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्नियोर् ज्याम् । याश् च ते हस्त इषवः
VERSE: 4
परा ता भगवो वप ॥
अवतत्य धनुस् त्वम्̇ सहस्राक्ष शतेषुधे । निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाम्̇ उत । अनेशन्न् अस्येषव आभुर् अस्य निषङ्गथिः ॥
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि ब्भुज ॥
नमस् ते अस्त्व् आयुधायानातताय धृष्णवे । उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य इषुधिस् तवारे अस्मन् नि धेहि तम् ॥
4.5.2 अनुवाक 2
शतरुद्रीयहोमः
VERSE: 1
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः ।
नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमः ।
नमः सस्पिञ्जराय त्विषीमते पथीनाम् पतये नमः ।
नमो बभ्लुशाय विव्याधिने ऽन्नानाम् पतये नमः ।
नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमः ।
नमो भवस्य हेत्यै जगताम् पतये नमः ।
नमो रुद्रायाऽऽतताविने क्षेत्राणाम् पतये नमः ।
नमः सूतायाहन्त्याय वनानाम् पतये नमः ।
नमो
VERSE: 2
रोहिताय स्थपतये वृक्षाणाम् पतये नमः ।
नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमः ।
नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमः ।
नम उच्चैर्घोषायाक्रन्दयते पत्तीनाम् पतये नमः ।
नमः कृत्स्नवीताय धावते सत्वनाम् पतये नमः ॥
4.5.3 अनुवाक 3
शतरुद्रीयहोमः
VERSE: 1
नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमः ।
नमः ककुभाय निषङ्गिणे स्तेनानाम् पतये नमः ।
नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमः ।
नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमः ।
नमो निचेरवे परिचरायारण्यानाम् पतये नमः ।
नमः सृकाविभ्यो जिघाम्̇सद्भ्यो मुष्णताम् पतये नमः ।
नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानाम् पतये नमः ।
नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमः ।
नमः
VERSE: 2
इषुमद्भ्यो धन्वाविभ्यश् च वो नमः ।
नम आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमः ।
नम आयच्छद्भ्यो विसृजद्भ्यश् च वो नमः ।
नमो ऽस्यद्भ्यो विध्यद्भ्यश् च वो नमः ।
नम आसीनेभ्यः शयानेभ्यश् च वो नमः ।
नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमः ।
नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ।
नमः सभाभ्यः सभापतिभ्यश् च वो नमः ।
नमो अश्वेभ्यो ऽश्वपतिभ्यश् च वो नमः ॥
4.5.4 अनुवाक 4
शतरुद्रीयहोमः
VERSE: 1
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमः ।
नम उगणाभ्यस् तृम्̇हतीभ्यश् च वो नमः ।
नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमः ।
नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमः ।
नमो गणेभ्यो गणपतिभ्यश् च वो नमः ।
नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ।
नमो महद्भ्यः क्षुल्लकेभ्यश् च वो नमः ।
नमो रथिभ्यो ऽरथेभ्यश् च वो नमः ।
नमो रथेभ्यः
VERSE: 2
रथपतिभ्यश् च वो नमः ।
नमः सेनाभ्यः सेनानिभ्यश् च वो नमः ।
नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमः ।
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमः ।
नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमः ।
नमः पुञ्जिष्टेभ्यो निषादेभ्यश् च वो नमः ।
नम इषुकृद्भ्यो धन्वकृद्भ्यश् च वो नमः ।
नमो मृगयुभ्यः श्वनिभ्यश् च वो नमः ।
नमः श्वभ्यः श्वपतिभ्यश् च वो नमः ॥
4.5.5 अनुवाक 5
शतरुद्रीयहोमः
VERSE: 1
नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृध्वने च
VERSE: 2
नमो अग्रियाय च प्रथमाय च
नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ॥
4.5.6 अनुवाक 6
शतरुद्रीयहोमः
VERSE: 1
नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमो वन्याय च कक्ष्याय च
0नमः श्रवाय च प्रतिश्रवाय च ॥
VERSE: 2
नम आशुषेणाय चाऽऽशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च ॥
4.5.7 अनुवाक 7
शतरुद्रीयहोमः
VERSE: 1
नमो दुन्दुभ्याय चाऽऽहनन्याय च
नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च
नमो निषङ्गिणे चेषुधिमते च
नमस् तीक्ष्णेषवे चायुधिने च
नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च
नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च
नमो नाद्याय च वैशन्ताय च
VERSE: 2
नमः कूप्याय चावट्याय च
नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च
नम ईध्रियाय चाऽऽतप्याय च
नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च ॥
4.5.8 अनुवाक 8
शतरुद्रीयहोमः
VERSE: 1
नमः सोमाय च रुद्राय च
नमस् ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च
नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च
नमो वृक्षेभ्यो हरिकेशेभ्यः ।
नमस् ताराय
नमः शम्भवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च
VERSE: 2
नमस् तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चाऽऽलाद्याय च
नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च ॥
4.5.9 अनुवाक 9
शतरुद्रीयहोमः
VERSE: 1
नम इरिण्याय च प्रपथ्याय च
नमः किम्̇शिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस् तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो ह्रदय्याय च निवेष्प्याय च
नमः पाम्̇सव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च
VERSE: 2
नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमो ऽपगुरमाणाय चाभिघ्नते च
नम आक्खिदते च प्रक्खिदते च
नमो वः किरिकेभ्यो देवानाम्̇ हृदयेभ्यः ।
नमो विक्षीणकेभ्यः ।
नमो विचिन्वत्केभ्यः ।
नम आनिर्हतेभ्यः ।
नम आमीवत्केभ्यः ॥
4.5.10 अनुवाक 10
शतरुद्रीयहोमः
VERSE: 1
द्रापे अन्धसस् पते दरिद्रन् नीललोहित । एषाम् पुरुषाणाम् एषाम् पशूनाम् मा भेर् माऽरो मो एषां किं चनाममत् ॥
या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥
इमाम्̇ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतिम् । यथा नः शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्
VERSE: 2
अनातुरम् ॥
मृडा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । यच् छं च योश् च मनुर् आयजे पिता तद् अश्याम तव रुद्र प्रणीतौ ॥
मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । मा नो वधीः पितरम् मोत मातरम् प्रिया मा नस् तनुवः
VERSE: 3
रुद्र रीरिषः ॥
मा नस् तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥
आरात् ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नम् अस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूह्य् अधा च नः शर्म यच्छ द्विबर्हाः ॥
स्तुहि
VERSE: 4
श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् । मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन् नि वपन्तु सेनाः ॥
परि णो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृडय ॥
मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकम्
VERSE: 5
बिभ्रद् आ गहि ॥
विकिरिद विलोहित नमस् ते अस्तु भगवः । यास् ते सहस्रम्̇ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
सहस्राणि सहस्रधाः बाहुवोस् तव हेतयः । तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
4.5.11 अनुवाक 11
शतरुद्रीयहोमः
VERSE: 1
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषाम्̇ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा अधि ।
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥
नीलग्रीवाः शितिकण्ठा दिवम्̇ रुद्रा उपश्रिताः ।
ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
ये पथाम् पथिरक्षय ऐलबृदा यव्युधः ।
ये तीर्थानि
VERSE: 2
प्रचरन्ति सृकावन्तो निषङ्गिणः ।
य एतावन्तश् च भूयाम्̇सश् च दिशो रुद्रा वितस्थिरे । तेषाम्̇ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
नमो रुद्रेभ्यो ये पृथिव्यां ये ऽन्तरिक्षे ये दिवि येषाम् अन्नं वातो वर्षम् इषवस् तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ॥
4.6 प्रपाठक: 6
4.6.1 अनुवाक 1
परिषेचनादिमन्त्राः
VERSE: 1
अश्मन्न् ऊर्जम् पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतां तां न इषमूर्जं धत्त मरुतः सम्̇रराणाः ॥
अश्मम्̇स् ते क्षुद् अमुं ते शुग् ऋच्छतु यं द्विष्मः
समुद्रस्य त्वाऽवाकयाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥
उप
VERSE: 2
ज्मन्न् उप वेतसे ऽवत्तरं नदीष्व् आ । अग्ने पित्तम् अपाम् असि ॥
मण्डूकि ताभिर् आ गहि सेमं नो यज्ञम् । पावकवर्णम्̇ शिवं कृधि ॥
पावक आ चितयन्त्या कृपा । क्षामन् रुरुच उषसो न भानुना ॥
तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे । न ततृषाणो अजरः ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्
VERSE: 3
वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अपाम् इदं न्ययनम्̇ समुद्रस्य निवेशनम् । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
नमस् ते हरसे शोचिषे नमस् ते अस्त्व् अर्चिषे । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
नृषदे वड
VERSE: 4
प्सुषदे वड् वनसदे वड् बर्हिषदे वट् सुवर्विदे वट् ॥
ये देवा देवानां यज्ञिया यज्ञियानाम्̇ संवत्सरीणम् उप भागम् आसते । अहुतादो हविषो यज्ञे अस्मिन्त् स्वयं जुहुध्वम् मधुनो घृतस्य ॥
ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो अस्य । येभ्यो नर्ते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु ॥
प्राणदा
VERSE: 5
अपानदा व्यानदाश् चक्षुर्दा वर्चोदा वरिवोदाः । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
अग्निस् तिग्मेन शोचिषा यम्̇सद् विश्वं न्य् अत्रिणम् । अग्निर् नो वम्̇सते रयिम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥
4.6.2 अनुवाक 2
वैश्वकर्मणहोमौ
VERSE: 1
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता निषसादा पिता नः । स आशिषा द्रविणम् इच्छमानः परमच्छदो वर आ विवेश ॥
विश्वकर्मा मनसा यद् विहाया धाता विधाता परमोत संदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्र सप्तर्षीन् पर एकम् आहुः ॥
यो नः पिता जनिता यो विधाता यो नः सतो अभ्य् आ सज् जजान ।
VERSE: 2
यो देवानां नामधा एक एव तम्̇ सम्प्रश्नम् भुवना यन्त्य् अन्या ॥
त आयजन्त द्रविणम्̇ सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्न् इमानि ॥
न तं विदाथ य इदं जजानान्यद् युष्माकम् अन्तरम् भवाति । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥
परो दिवा पर एना
VERSE: 3
पृथिव्या परो देवेभिर् असुरैर् गुहा यत् । कम्̇ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ॥
तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितम् यस्मिन्न् इदं विश्वम् भुवनम् अधि श्रितम् ॥
विश्वकर्मा ह्य् अजनिष्ट देव आद् इद् गन्धर्वो अभवद् द्वितीयः । तृतीयः पिता जनितौषधीना
VERSE: 4
मपां गर्भं व्यदधात् पुरुत्रा ॥
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नंनमाने । यदेद् अन्ता अददृम्̇हन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सम् बाहुभ्यां नमति सम् पतत्रैर् द्यावापृथिवी जनयन् देव एकः ॥
किम्̇ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् किम् आसीत् । यदी भूमिं जनयन्
VERSE: 5
विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥
किम्̇ स्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तनुवं जुषाणः ॥
वाचस् पतिं विश्वकर्माणमूतये
VERSE: 6
मनोयुजं वाजे अद्या हुवेम । स नो नेदिष्ठा हवनानि जोषते विश्वशम्भूर् अवसे साधुकर्मा ॥
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व तनुवं जुषाणः । मुह्यन्त्व् अन्ये अभितः सपत्ना इहास्माकम् मघवा सूरिर् अस्तु ॥
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥
समुद्राय वयुनाय सिन्धूनाम् पतये नमः । नदीनाम्̇ सर्वासाम् पित्रे जुहुता विश्वकर्मणे विश्वाऽहामर्त्यम्̇ हविः ॥
4.6.3 अनुवाक 3
अग्निप्रणयनम्
VERSE: 1
उद् एनम् उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस् पोषेण सम्̇ सृज प्रजया च धनेन च ॥
इन्द्रेमम् प्रतरां कृधि सजातानाम् असद् वशी । सम् एनं वर्चसा सृज देवेभ्यो भागधा असत् ॥
यस्य कुर्मो हविर् गृहे तम् अग्ने वर्धया त्वम् । तस्मै देवा अधि ब्रवन्न् अयं च ब्रह्मणस् पतिः ॥
उद् उ त्वा विश्वे देवाः
VERSE: 2
अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥
पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिम् बाधमानाः । रायस् पोषे यज्ञपतिम् आभजन्तीः ॥
रायस् पोषे अधि यज्ञो अस्थात् समिद्धे अग्नाव् अधि मामहानः । उक्थपत्त्र ईड्यो गृभीतस् तप्तं घर्मम् परिगृह्यायजन्त ॥
ऊर्जा यद् यज्ञम् अशमन्त देवा दैव्याय धर्त्रे जोष्ट्रे । देवश्रीः श्रीमणाः शतपयाः
VERSE: 3
परिगृह्य देवा यज्ञम् आयन् ॥
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाम्̇ अजस्रम् । तस्य पूषा प्रसवं याति देवः सम्पश्यन् विश्वा भुवनानि गोपाः ॥
देवा देवेभ्यो अध्वर्यन्तो अस्थुर् वीतम्̇ शमित्रे शमिता यजध्यै । तुरीयो यज्ञो यत्र हव्यम् एति ततः पावका आशिषो नो जुषन्ताम् ॥
विमान एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । स विश्वाचीर् अभि
VERSE: 4
चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥
उक्षा समुद्रो अरुणः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसः पात्य् अन्तौ ॥
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̇ रथीनां वाजानाम्̇ सत्पतिम् पतिम् ॥
सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षत् ।
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
4.6.4 अनुवाक 4
अप्रतिरथसूक्तम्
VERSE: 1
आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनो ऽनिमिष एकवीरः शतम्̇ सेना अजयत् साकम् इन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
स इषुहस्तैः स निषङ्गिभिर् वशी सम्̇स्रष्टा स युध इन्द्रो गणेन । सम्̇सृष्टजित् सोमपा बाहुशर्ध्य् ऊर्ध्वधन्वा प्रतिहिताभिर् अस्ता ॥
बृहस्पते परि दीया
VERSE: 2
रथेन रक्षोहामित्राम्̇ अपबाधमानः । प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमम्̇ सजाता अनु वीरयध्वम् इन्द्रम्̇ सखायो ऽनु सम्̇ रभध्वम् ॥
बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥
अभि गोत्राणि सहसा गाहमानो ऽदायः
VERSE: 3
वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकम्̇ सेना अवतु प्र युत्सु ॥
इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रे ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताम्̇ शर्ध उग्रम् । महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ॥
VERSE: 4
अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् उ देवा अवता हवेषु ॥
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् महाम्̇सि । उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयताम् एतु घोषः ॥
उप प्रेत जयता नर स्थिरा वः सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्व् अनाधृष्या यथासथ ॥
अवसृष्टा परा पत शरव्ये ब्रह्मसम्̇शिता । गच्छामित्रान् प्र
VERSE: 5
विश मैषां कं चनोच् छिषः ॥
मर्माणि ते वर्मभिश् छादयामि सोमस् त्वा राजामृतेनाभि वस्ताम् । उरोर् वरीयो वरिवस् ते अस्तु जयन्तं त्वाम् अनु मदन्तु देवाः ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । इन्द्रो नस् तत्र वृत्रहा विश्वाहा शर्म यच्छतु ॥
4.6.5 अनुवाक 5
अग्निस्थापनम्
VERSE: 1
प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् अग्नेर् अग्ने पुरोअग्निर् भवेह । विश्वा आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
क्रमध्वम् अग्निना नाकम् उख्यम्̇ हस्तेषु बिभ्रतः । दिवः पृष्ठम्̇ सुवर् गत्वा मिश्रा देवेभिर् आद्ध्वम् ॥
पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् सुवर् ज्योतिर् अगा
VERSE: 2
महम् ॥
सुवर् यन्तो नापेक्षन्त आ द्याम्̇ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारम्̇ सुविद्वाम्̇सो वितेनिरे ॥
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः सुवर् यन्तु यजमानाः स्वस्ति ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् विभाति देवा अग्निं धारयन् द्रविणोदाः ॥
अग्ने सहस्राक्ष
VERSE: 3
शतमूर्धञ् छतं ते प्राणाः सहस्रम् अपानाः । त्वम्̇ साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥
सुपर्णो ऽसि गरुत्मान् पृथिव्याम्̇ सीद पृष्ठे पृथिव्याः सीद भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश उद् दृम्̇ह ॥
आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने स्वां योनिम् आ सीद साध्या । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवाः
VERSE: 4
यजमानश् च सीदत ॥
प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाम्̇ शश्वन्त उप यन्ति वाजाः ॥
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवीम्̇षि जुहुरे समिद्धे ॥
ताम्̇ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् । याम् अस्य कण्वो अदुहत् प्रपीनाम्̇ सहस्रधाराम्
VERSE: 5
पयसा महीं गाम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः ।
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् चात्यम्̇हाः ॥
VERSE: 6
ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्त्यमित्रश् च दूरेअमित्रश् च गणः ।
ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारयः ।
ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षास एतन ।
मितासश् च सम्मितासश् च न ऊतये सभरसो मरुतो यज्ञे अस्मिन् ।
इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मान एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥
4.6.6 अनुवाक 6
अश्वमेधे कवचस्वीकारादि
VERSE: 1
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तनुवा जय त्वम्̇ स त्वा वर्मणो महिमा पिपर्तु ॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियम्̇ सखायम् परिषस्वजाना । योषेव शिङ्क्तेवितताऽधि धन्वन्
VERSE: 2
ज्या इयम्̇ समने पारयन्ती ॥
ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । अप शत्रून् विध्यताम्̇ संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनाऽवगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनाम् महिमानम्
VERSE: 3
पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूम्̇र् अनपव्ययन्तः ॥
रथवाहनम्̇ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मम्̇ सदेम विश्वाहा वयम्̇ सुमनस्यमानाः ॥
स्वादुषम्̇सदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
ब्राह्मणासः
VERSE: 4
पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्̇स ईशत ॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यम्̇सन् ॥
ऋजीते परि वृङ्ग्धि नो ऽश्मा भवतु नस् तनूः । सोमो अधि ब्रवीतु नो ऽदितिः
VERSE: 5
शर्म यच्छतु ॥
आ जङ्घन्ति सान्व् एषां जघनाम्̇ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाम्̇सम् परि पातु विश्वतः ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीडयस्वाऽऽस्थाता ते जयतु जेत्वानि ॥
दिवः पृथिव्याः परि
VERSE: 6
ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतम्̇ सहः । अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रम्̇ हविषा रथं यज ॥
इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूरात्
VERSE: 7
दवीयो अप सेध शत्रून् ॥
आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुनाम्̇ इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥
आऽमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥
4.6.7 अनुवाक 7
अश्वस्तोमीया होमाः
VERSE: 1
यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥
यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥
असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्तः
VERSE: 2
आहुस् ते त्रीणि दिवि बन्धनानि ॥
त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥
इमा ते वाजिन्न् अवमार्जनानीमा शफानाम्̇ सनितुर् निधाना । अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥
आत्मानं ते मनसाऽऽराद् अजानाम् अवो दिवा
VERSE: 3
पतयन्तम् पतंगम् । शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । यदा ते मर्तो अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥
अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यम्
VERSE: 4
ते ॥
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥
ईर्मान्तासः सिलिकमध्यमासः सम्̇ शूरणासो दिव्यासो अत्याः । हम्̇सा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥
तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
उप
VERSE: 5
प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥
उप प्रागात् परमं यत् सधस्थम् अर्वाम्̇ अच्छा पितरम् मातरं च । अद्या देवाञ् जुष्टतमो हि गम्या अथाऽऽ शास्ते दाशुषे वार्याणि ॥
4.6.8 अनुवाक 8
अश्वस्तोमीया होमाः
VERSE: 1
मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टे
VERSE: 2
देनम्̇ सौश्रवसाय जिन्वति
यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥
होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शम्̇स्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । ये चार्वते पचनम्̇ सम्भरन्त्य् उतो
VERSE: 3
तेषाम् अभिगूर्तिर् न इन्वतु ॥
उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥
यद् वाजिनो दाम संदानं अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणम्̇ सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् अश्वस्य क्रविषः
VERSE: 4
मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच् छमितारः कृण्वन्तूत मेधम्̇ शृतपाकम् पचन्तु ॥
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥
4.6.9 अनुवाक 9
अश्वस्तोमीया होमाः
VERSE: 1
ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माम्̇सभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥
यन् नीक्षणम् माम्̇स्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥
निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । यच् च पपौ यच् च घासिम्
VERSE: 2
जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥
मा त्वाग्निर् ध्वनयिद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥
यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥
यत् ते सादे महसा शूकृतस्य पार्ष्णिया वा कशया
VERSE: 3
वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
चतुस्त्रिम्̇शद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अछिद्रा गात्रा वयुना कृणोत परुष्परुर् अनुघुष्या वि शस्त ॥
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथर्तुः । या ते गात्राणाम् ऋतुथा कृणोमि ताता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥
मा त्वा तपत्
VERSE: 4
प्रिय आत्मापियन्तम् मा स्वधितिस् तनुव आ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥
न वा उवेतन् म्रियसे न रिष्यसि देवाम्̇ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥
सुगव्यं नो वाजी स्वश्वियम् पुम्̇सः पुत्राम्̇ उत विश्वापुषम्̇ रयिम् । अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनताम्̇ हविष्मान् ॥
4.7 प्रपाठक: 7
4.7.1 अनुवाक 1
वसोर्धारा
VERSE: 1
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आगतम् ॥
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे सुवश् च मे प्राणश् च मे ऽपान
VERSE: 2
श्च मे व्यानश् च मे ऽसुश् च मे चित्तं च म आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूम्̇षि च मे शरीराणि च मे ॥
4.7.2 अनुवाक 2
वसोर्धारा
VERSE: 1
ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश् च मे भामस् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश् च मे सत्यं च मे श्रद्धा च मे जगच् च
VERSE: 2
मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे ॥
4.7.3 अनुवाक 3
वसोर्धारा
VERSE: 1
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भद्रं च मे श्रेयश् च मे वस्यश् च मे यशश् च मे भगश् च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च
VERSE: 2
मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥
4.7.4 अनुवाक 4
वसोर्धारा
VERSE: 1
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म औद्भिद्यं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च
VERSE: 2
मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥
4.7.5 अनुवाक 5
वसोर्धारा
VERSE: 1
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपुश् च मे श्यामं च मे लोहं च मे ऽग्निश् च म आपश् च मे वीरुधश् च म ओषधयश् च मे कृष्टपच्यं च
VERSE: 2
मे ऽकृष्टपच्यं च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्ताम् ।
वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म एमश् च म इतिश् च मे गतिश् च मे ॥
4.7.6 अनुवाक 6
वसोर्धारा
VERSE: 1
अग्निश् च म इन्द्रश् च मे
सोमश् च म इन्द्रश् च मे
सविता च म इन्द्रश् च मे
सरस्वती च म इन्द्रश् च मे
पूषा च म इन्द्रश् च मे
बृहस्पतिश् च म इन्द्रश् च मे
मित्रश् च म इन्द्रश् च मे
वरुणश् च म इन्द्रश् च मे
त्वष्टा च
VERSE: 2
म इन्द्रश् च मे
धाता च म इन्द्रश् च मे
विष्णुश् च म इन्द्रश् च मे ।
अश्विनौ च म इन्द्रश् च मे
मरुतश् च म इन्द्रश् च मे
विश्वे च मे देवा इन्द्रश् च मे
पृथिवी च म इन्द्रश् च मे ।
अन्तरिक्षम् च म इन्द्रश् च मे
द्यौश् च म इन्द्रश् च मे
दिशश् च म इन्द्रश् च मे
मूर्धा च म इन्द्रश् च मे
प्रजापतिश् च म इन्द्रश् च मे ॥
4.7.7 अनुवाक 7
वसोर्धारा
VERSE: 1
अम्̇शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाम्̇शुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऋतुग्रहाश् च ॥
VERSE: 2
मे ऽतिग्राह्याश् च म ऐन्द्राग्नश् च मे वैश्वदेवश् च मे मरुत्वतीयाश् च मे महेन्द्रश् च म आदित्यश् च मे सावित्रश् च मे सारस्वतश् च मे पौष्णश् च मे पात्नीवतश् च मे हारियोजनश् च मे ॥
4.7.8 अनुवाक 8
वसोर्धारा
VERSE: 1
इध्मश् च मे बर्हिश् च मे वेदिश् च मे धिष्णियाश् च मे स्रुचश् च मे चमसाश् च मे ग्रावाणश् च मे स्वरवश् च म उपरवाश् च मे ऽधिषवणे च मे द्रोणकलशश् च मे वायव्यानि च मे पूतभृच् च म आधवनीयश् च म आग्नीध्रं च मे हविर्धानं च मे गृहाश् च मे सदश् च मे पुरोडाशाश् च मे पचताश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥
4.7.9 अनुवाक 9
वसोर्धारा
VERSE: 1
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम्
ऋक् च मे साम च मे स्तोमश् च मे यजुश् च मे दीक्षा च मे तपश् च म ऋतुश् च मे व्रतं च मे ऽहोरात्रयोर् वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥
4.7.10 अनुवाक 10
वसोर्धारा
VERSE: 1
गर्भाश् च मे वत्साश् च मे
त्र्यविश् च मे त्र्यवी च मे
दित्यवाट् च मे दित्यौही च मे
पञ्चाविश् च मे पञ्चावी च मे
त्रिवत्सश् च मे त्रिवत्सा च मे
तुर्यवाट् च मे तुर्यौही च मे
पष्ठवाच् च मे पष्ठौही च मे ।
उक्षा च मे वशा च मे ।
ऋषभश् च
VERSE: 2
मे वेहच् च मे ऽनड्वाञ् च मे धेनुश् च मे ।
आयुर् यज्ञेन कल्पताम्
प्राणो यज्ञेन कल्पताम्
अपानो यज्ञेन कल्पताम् ।
व्यानो यज्ञेन कल्पताम् ।
चक्षुर् यज्ञेन कल्पताम् ।
श्रोत्रं यज्ञेन कल्पताम्
मनो यज्ञेन कल्पताम् ।
वाग् यज्ञेन कल्पताम्
आत्मा यज्ञेन कल्पताम् ।
यज्ञो यज्ञेन कल्पताम् ॥
4.7.11 अनुवाक 11
वसोर्धारा
VERSE: 1
एका च मे तिस्रश् च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविम्̇शतिश् च मे त्रयोविम्̇शतिश् च मे पञ्चविम्̇शतिश् च मे सप्तविम्̇शतिश् च मे नवविम्̇शतिश् च म एकत्रिम्̇श्च् च मे त्रयस्त्रिम्̇शच् च ॥
VERSE: 2
मे
चतस्रश् च मे ऽष्टौ च मे द्वादश च मे षोडश च मे विम्̇शतिश् च मे चतुर्विम्̇शतिश् च मे ऽष्टाविम्̇शतिश् च मे द्वात्रिम्̇शच् च मे षट्त्रिम्̇शच् च मे चत्वारिम्̇शच् च मे चतुश्चत्वारिम्̇शच् च मे ऽष्टाचत्वारिम्̇शच् च मे
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ॥
4.7.12 अनुवाक 12
वाजप्रसवीय होमः
VERSE: 1
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वं अस्तु द्रविणं वाजो अस्मे ॥
वाजस्य प्रसवं देवा रथैर् याता हिरण्ययैः । अग्निर् इन्द्रो बृहस्पतिर् मरुतः सोमपीतये ॥
वाजेवाजे ऽवत वाजिनो नो धनेषु
VERSE: 2
विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवाम्̇ ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नंनमीति विश्वा आशा वाजपतिर् भवेयम् ॥
पयः पृथिव्याम् पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाम् । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
सम् मा सृजामि पयसा घृतेन सम् मा सृजाम्य् अप
VERSE: 3
ओषधीभिः । सो ऽहं वाजम्̇ सनेयम् अग्ने ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥
4.7.13 अनुवाक 13
अग्नियोगः
VERSE: 1
अग्निं युनज्मि शवसा घृतेन दिव्यम्̇ सुपर्णं वयसा बृहन्तम् । तेन वयम् पतेम ब्रध्नस्य विष्टपम्̇ सुवो रुहाणा अधि नाक उत्तमे ॥
इमौ ते पक्षाव् अजरौ पतत्रिणो याभ्याम्̇ रक्षाम्̇स्य् अपहम्̇स्य् अग्ने । ताभ्याम् पतेम सुकृताम् उ लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥
चिद् असि समुद्रयोनिर् इन्दुर् दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युर् महान्त् सधस्थे ध्रुव
VERSE: 2
आ निषत्तः ॥
नमस् ते अस्तु मा मा हिम्̇सीर् विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः । समुद्रे ते हृदयम् अन्तर् आयुर् द्यावापृथिवी भुवनेष्व् अर्पिते ॥
उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत । दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे ॥
येनर्षयस् तपसा सत्त्रम् ॥
VERSE: 3
आसतेन्धाना अग्निम्̇ सुवर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके अग्निम् एतं यम् आहुर् मनवः स्तीर्णबर्हिषम् ॥
तम् पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुते
VERSE: 4
ये पृतन्यवः ॥
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो दीप्यताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य उप प्र यात दिव्यानि धाम ॥
सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह देवयानो य
VERSE: 5
उत्तमः ॥
उद् बुध्यस्वाग्ने प्रति जागृह्य् एनम् इष्टापूर्ते सम्̇ सृजेथाम् अयं च । पुनः कृण्वम्̇स् त्वा पितरं युवानम् अन्वाताम्̇सीत् त्वयि तन्तुम् एतम् ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ॥
4.7.14 अनुवाक 14
विहव्या इष्टकाः
VERSE: 1
ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तनुवम् पुषेम । मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥
मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरु गोपम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥
मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त
VERSE: 2
पूर्वेऽरिष्टाः स्याम तनुवा सुवीराः ॥
मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता मे ॥
देवीः षड्उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥
अग्निर् मन्युम् प्रतिनुदन् पुरस्ता
VERSE: 3
दब्धो गोपाः परि पाहि नस् त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधा वि नेशत् ॥
धाता धातृणाम् भुवनस्य यस् पतिर् देवम्̇ सवितारम् अभिमातिषाहम् । इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥
उरुव्यचा नो महिषः शर्म यम्̇सद् अस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा ॥
VERSE: 4
नो रीरिषो मा परा दाः ॥
ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥
4.7.15 अनुवाक 15
अश्वमेधीया याज्यानुवाक्याः
VERSE: 1
अग्नेर् मन्वे प्रथमस्य प्रचेतसो यम् पाञ्चजन्यम् बहवः समिन्धते । विश्वस्यां विशि प्रविविशिवाम्̇सम् ईमहे स नो मुञ्चत्व् अम्̇हसः ॥
यस्येदम् प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् । स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्न स्तोमा उप माम् उपागुः । यो दाशुषः सुकृतो हवम् उप गन्ता
VERSE: 2
स नो मुञ्चत्व् अम्̇हसः ॥
यः संग्रामं नयति सं वशी युधे यः पुष्टानि सम्̇सृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥
मन्वे वाम् मित्रावरुणा तस्य वित्तम्̇ सत्यौजसा दृम्̇हणा यं नुदेथे । या राजानम्̇ सरथं याथ उग्रा ता नो मुञ्चतम् आगसः ॥
यो वाम्̇ रथ ऋजुरश्मिः सत्यधर्मा मिथुश् चरन्तम् उपयाति दूषयन् । स्तौमि
VERSE: 3
मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् बिभृतो यौ च रक्षतः । यौ विश्वस्य परिभू बभूवतुस् तौ नो मुञ्चतम् आगसः ॥
उप श्रेष्ठा न आशिषो देवयोर् धर्मे अस्थिरन् । स्तौमि वायुम्̇ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः । ययो
VERSE: 4
र्वां देवौ देवेष्व् अनिशितम् ओजस् तौ नो मुञ्चतम् आगसः ॥
यद् अयातं वहतुम्̇ सूर्यायास् त्रिचक्रेण सम्̇सदम् इच्छमानौ । स्तौमि देवाव् अश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
मरुताम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
तिग्मम् आयुधं वीडितम्̇ सहस्वद् दिव्यम्̇ शर्धः
VERSE: 5
पृतनासु जिष्णु । स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
देवानाम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्वेनसः ॥
यद् इदम् माभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान् देवान् नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
अनु नो ऽद्यानुमतिर
VERSE: 6
न्विदनुमते त्वम् ।
वैश्वानरो न ऊत्या
पृष्ठो दिवि
ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥
उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥
यत् ते वयम् पुरुषत्रा यविष्ठाविद्वाम्̇सश् चकृमा कच्चना
VERSE: 7
ऽऽगः । कृधी स्व् अस्माम्̇ अदितेर् अनागा व्य् एनाम्̇सि शिश्रथो विष्वग् अग्ने ॥
यथा ह तद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । एवा त्वम् अस्मत् प्र मुञ्चा व्य् अम्̇हः प्रातार्य् अग्ने प्रतरां न आयुः ॥
</span></poem>
[[कृष्ण यजुर्वेद काण्डाः 5-7|तैत्तिरीय संहिता काण्ड 5-7]]
म्̇ 2350, 2381, 775 म्̐ 2350, 2381, 784
This file has been copied from the following webpage, with fonts changed and necessary corrections made :
Taittiriya Samhitaa
This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita. Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.
उपरोक्त रोमन लिपि संस्करण के देवनागरी रूपान्तर के सम्पादन हेतु दो संस्करणों का उपयोग किया गया है –
तैत्तिरीय संहिता, सम्पादकः – धर्माधिकारी नारायणसूनुः त्रिविक्रमशर्मा (वैदिक संशोधन मण्डल, पुणे)
कृष्णयजुर्वेदीय तैत्तिरीय संहिता, सम्पादकः – वे.शा.रा.रा. काशीनाथशास्त्री आगाशे (आनन्दाश्रम संस्था, पुणे)
रोमन लिपि के संस्करण में तैत्तिरीय संहिता के मूल पाठ का व्यापक रूप से संधिविच्छेद किया गया है और वर्तमान देवनागरी संस्करण में भी उसे यथावत् रहने दिया गया है क्योंकि मूल पाठ का पुनः प्रतिस्थापन करना बहुत श्रमसाध्य होता। संहिता के मूल पाठ में यह पता लगाना प्रथम दृष्टि में कठिन होता है कि वाक्य का आरम्भ कहां से हुआ है और कहां वाक्य पूरा हो रहा है। रोमन लिपि संस्करण में इस कमी को दूर करने की चेष्टा की गई है और वाक्य के समाप्त होने पर नई पंक्ति का आरम्भ कर दिया गया है। वर्तमान संस्करण में निम्नलिखित महत्त्वपूर्ण संशोधन किए गए हैं –
रोमन लिपि के संस्करण में अवग्रहों की प्रायः उपेक्षा की गई है जिसे देवनागरी संस्करण में सुधारने का प्रयत्न किया गया है।
विभिन्न अनुवाकों के शीर्षकों को तैत्तिरीय संहिता के अन्य संस्करणों के आधार पर दिया गया है।
रोमन लिपि के संस्करण में जो टंकण की अशुद्धियां हैं, उन्हें दूर कर दिया गया है।
विपिन कुमार
7-5-2014ई.( वैशाख शुक्ल अष्टमी, विक्रम संवत् 2071)
काण्ड 5-7 आगामी पृष्ठे
[[वर्गः:कृष्णयजुर्वेदः]]
m03twl6has2irkcudi2fdqnlife8sd9
तैत्तिरीयब्राह्मणम् (विस्वरपाठः)
0
12615
417993
403955
2026-08-09T09:11:48Z
~2026-39930-13
10591
ब्रम -> ब्रह्म
417993
wikitext
text/x-wiki
<inputbox>
type=fulltext
prefix=तैत्तिरीयब्राह्मणम् (विस्वरपाठः)
break=no
width=10
searchbuttonlabel=तैत्तिरीयब्राह्मणम् (विस्वरपाठः) शोधः
</inputbox>
[[/काण्डः १|काण्डः १]]
[[/काण्डः २|काण्डः २]]
[[/काण्डः ३|काण्डः ३]]
टंकित सामग्र्याः स्रोतं -
[http://www.peterffreund.com/Vedic_Literature/Vedic%20Literature%20Unicode/Brahmana%20Loop/Brahmanas/ '''Peter Freund Vedic Literature''']
<big>
तैत्तिरीय ब्राह्मणम्
काण्ड 1 पौरोडाशिक काण्ड?
प्रपाठक: 1 अग्न्याधानम्
अनुवाक 1
VERSE: 1 { 1.1.1.1}
ब्रह्म संधत्तं तन् मे जिन्वतम् ।
क्षत्रꣳ संधत्तं तन् मे जिन्वतम् ।
इषꣳ संधत्तं तां मे जिन्वतम् ।
ऊर्जꣳ संधत्तं तां मे जिन्वतम् ।
रयिꣳ संधत्तं तां मे जिन्वतम् ।
पुष्टिꣳ संधत्तं तां मे जिन्वतम् ।
प्रजाꣳ संधत्तं तां मे जिन्वतम् ।
पशून् संधत्तं तान् मे जिन्वतम् ।
स्तुतो ऽसि जनधाः ।
देवास् त्वा शुक्रपाः प्रणयन्तु ।
VERSE: 2 { 1.1.1.2}
सुवीराः प्रजाः प्रजनयन् परीहि ।
शुक्रः शुक्रशोचिषा ।
स्तुतो ऽसि जनधाः
।
देवास् त्वा मन्थिपाः प्रणयन्तु ।
सुप्रजाः प्रजाः प्रजनयन् परीहि ।
मन्थी मन्थिशोचिषा ।
संजग्मानौ दिव आ पृथिव्यायुः ।
संधत्तं तन् मे जिन्वतम् ।
प्राणꣳ संधत्तं तं मे जिन्वतम् ।
अपानꣳ संधत्तं तं मे जिन्वतम् ।
VERSE: 3 { 1.1.1.3}
व्यानꣳ संधत्तं तं मे जिन्वतम् ।
चक्षुः संधत्तं तन् मे जिन्वतम् ।
श्रोत्रꣳ संधत्तं तन् मे जिन्वतम् ।
मनः संधत्तं तन् मे जिन्वतम् ।
वाचꣳ संधत्तं तां मे जिन्वतम् ।
आयुः स्थ आयुर् मे धत्तम् ।
आयुर् यज्ञाय धत्तम् ।
आयुर् यज्ञपतये धत्तम् ।
प्राणः स्थः प्राणं मे धत्तं ।
प्राणं यज्ञाय धत्तम् ।
VERSE: 4 { 1.1.1.4}
प्राणं यज्ञपतये धत्तम् ।
चक्षुः स्थश् चक्षुर् मे धत्तम् ।
चक्षुर् यज्ञाय धत्तम् ।
चक्षुर् यज्ञपतये धत्तम् ।
श्रोत्रꣳ स्थः श्रोत्रं मे धत्तम् ।
श्रोत्रं यज्ञाय धत्तम् ।
श्रोत्रं यज्ञपतये धत्तम् ।
तौ देवौ शुक्रामन्थिनौ ।
कल्पयतं दैवीर् विशः ।
कल्पयतं मानुषीः ।
VERSE: 5 { 1.1.1.5}
इषमूर्जम् अस्मासु धत्तम् ।
प्राणान् पशुषु ।
प्रजां मयि च यजमाने च ।
निरस्तः शण्डः ।
निरस्तो मर्कः ।
अपनुत्तौ शण्डाम् अर्कौ सहामुना ।
शुक्रस्य समिद् असि ।
मन्थिनः समिद् असि ।
स प्रथमः संकृतिर् विश्वकर्मा ।
स प्रथमो मित्रो वरुणो अग्निः ।
स प्रथमो बृहस्पतिश् चिकित्वान् ।
तस्मा इन्द्राय सुतम् आजुहोमि ।
1.1.2 अनुवाक 2 अग्न्याधानम्
VERSE: 1 { 1.1.2.1}
कृत्तिकास्व् अग्निम् आदधीत ।
एतद् वा अग्नेर् नक्षत्रम् ।
यत् कृत्तिकाः ।
स्वायाम् एवैनं देवतायाम् आधाय ।
ब्रह्मवर्चसी भवति ।
मुखं वा एतन् नक्षत्राणाम् ।
यत् कृत्तिकाः ।
यः कृत्तिकास्व् अग्निम् आधत्ते ।
मुख्य एव भवति ।
अथो खलु
VERSE: 2 { 1.1.2.2}
अग्निनक्षत्रम् इत्य् अपचायन्ति ।
गृहान् ह दाहुको भवति ।
प्रजापती रोहिण्याम् अग्निम् असृजत ।
तं देवा रोहिण्याम् आदधत ।
ततो वै ते सर्वान् रोहान् अरोहन् ।
तद् रोहिण्यै रोहिणित्वम् ।
यो रोहिण्याम् अग्निम् आधत्ते ।
ऋध्नोत्य् एव ।
सर्वान् रोहान् रोहति ।
देवा वै भद्राः सन्तो ऽग्निम् आधित्सन्त
VERSE: 3 { 1.1.2.3}
तेषाम् अनाहितो ऽग्निर् आसीत् ।
अथैभ्यो वामं वस्व् अपाक्रामत् ।
ते पुनर्वस्वोर् आदधत ।
ततो वै तान् वामं वसूपावर्तत ।
यः पुरा भद्रः सन् पापीयान्त् स्यात् ।
स पुनर्वस्वोर् अग्निम् आदधीत ।
पुनर् एवैनं वामं वसूपावर्तते ।
भद्रो भवति ।
यः कामयेत दानकामा मे प्रजाः स्युर् इति ।
स पूर्वयोः फल्गुन्योर् अग्निम् आदधीत ।
VERSE: 4 { 1.1.2.4}
अर्यम्णो वा एतन् नक्षत्रम् ।
यत् पूर्वे फल्गुनी ।
अर्यमा_इति तम् आहुर् यो ददाति ।
दानकामा अस्मै प्रजा भवन्ति ।
यः कामयेत भगी स्याम् इति ।
स उत्तरयोः फल्गुन्योर् अग्निम् आदधीत ।
भगस्य वा एतन् नक्षत्रम् ।
यद् उत्तरे फल्गुनी ।
भग्य् एव भवति ।
कालकञ्जा वै नाम_असुरा आसन् ।
VERSE: 5 { 1.1.2.5}
ते सुवर्गाय लोकाय_अग्निम् अचिन्वन्त ।
पुरुष इष्टकाम् उपादधात् पुरुष इष्टकाम् ।
स इन्द्रो ब्राह्मणो ब्रुवाण इष्टकाम् उपाधत्त ।
एषा मे चित्रा नामेति ।
ते सुवर्गꣳ लोकम् आप्रारोहन् ।
स इन्द्र इष्टकाम् आवृहत् ।
ते ऽवाकीर्यन्त ।
ये ऽवाकीर्यन्त ।
त ऊर्णावभयो ऽभवन् ।
द्वाव् उदपतताम् ।
VERSE: 6 { 1.1.2.6}
तौ दिव्यौ श्वानाव् अभवताम् ।
यो भ्रातृव्यवान्त् स्यात् ।
स चित्रायाम् अग्निम् आदधीत ।
अवकीर्य_एव भ्रातृव्यान् ।
ओजो बलम् इन्द्रियं वीर्यम् आत्मन् धत्ते ।
वसन्ता ब्राह्मणो ऽग्निम् आदधीत ।
वसन्तो वै ब्राह्मणस्य_ऋतुः ।
स्व एवैनम् ऋताव् आधाय ।
ब्रह्मवर्चसी भवति ।
मुखं वा एतद् ऋतूनाम् ।
VERSE: 7 { 1.1.2.7}
यद् वसन्तः ।
यो वसन्त_अग्निम् आधत्ते ।
मुख्य एव भवति ।
अथो योनिमन्तम् एवैनं प्रजातम् आधत्ते ।
ग्रीष्मे राजन्य आदधीत ।
ग्रीष्मो वै राजन्यस्य_ऋतुः ।
स्व एवैनम् ऋताव् आधाय ।
इन्द्रियावी भवति ।
शरदि वैश्य आदधीत ।
शरद् वै वैश्यस्य_ऋतुः
VERSE: 8 { 1.1.2.8}
स्व एवैनम् ऋताव् आधाय ।
पशुमान् भवति ।
न पूर्वयोः फल्गुन्योर् अग्निम् आदधीत ।
एषा वै जघन्या रात्रिः संवत्सरस्य ।
यत् पूर्वे फल्गुनी ।
पृष्टित एव संवत्सरस्य_अग्निम् आधाय ।
पापीयान् भवति ।
उत्तरयोर् आदधीत ।
एषा वै प्रथमा रात्रिः संवत्सरस्य ।
यद् उत्तरे फल्गुनी ।
मुखत एव संवत्सरस्य_अग्निम् आधाय ।
वसीयान् भवति ।
अथो खलु ।
यदा_एवैनं यज्ञ उपनमेत् ।
अथ_आदधीत ।
सैवास्य_ऋद्धिः ।
1.1.3 अनुवाक 3 अग्न्याधानम्
VERSE: 1 { 1.1.3.1}
उद्धन्ति ।
यद् एवास्या अमेध्यम् ।
तद् अपहन्ति ।
अपो ऽवोक्षति शान्त्यै ।
सिकता निवपति ।
एतद् वा अग्नेर् वैश्वानरस्य रूपम् ।
रूपेणैव वैश्वानरम् अवरुन्द्धे ।
ऊषान् निवपति ।
पुष्टिर् वा एषा प्रजननम् ।
यद् ऊषाः ।
VERSE: 2 { 1.1.3.2}
पुष्ट्याम् एव प्रजनने ऽग्निम् आधत्ते ।
अथो संज्ञान एव ।
संज्ञानꣳ ह्य् एतत् पशूनाम् ।
यद् ऊषाः ।
द्यावापृथिवी सह_आऽऽस्ताम् ।
ते वियती अब्रूताम् ।
अस्त्व् एव नौ सह यज्ञियम् इति ।
यद् अमुष्या यज्ञियम् आसीत् ।
तद् अस्याम् अदधात् ।
त ऊषा अभवन् ।
VERSE: 3 { 1.1.3.3}
यद् अस्या यज्ञियम् आसीत् ।
तद् अमुष्याम् अदधात् ।
तद् अदश् चन्द्रमसि कृष्णम् ।
ऊषान् निवपन्न् अदो ध्यायेत् ।
द्यावापृथिव्योर् एव यज्ञिये ऽग्निम् आधत्ते ।
अग्निर् देवेभ्यो निलायत ।
आखू रूपं कृत्वा ।
स पृथिवीं प्राविशत् ।
स ऊतीः कुर्वाणः पृथिवीम् अनु समचरत् ।
0 तद् आखुकरीषम् अभवत् ।
VERSE: 4 { 1.1.3.4}
यद् आखुकरीषꣳ संभारो भवति ।
यद् एवास्य तत्र न्यक्तम् ।
तद् एव_अवरुन्द्धे ।
ऊर्जं वा एतꣳ रसं पृथिव्या उपदीका उद्दिहन्ति ।
यद् वल्मीकम् ।
यद् वल्मीकवपा संभारो भवति ।
ऊर्जम् एव रसं पृथिव्या अवरुन्द्धे ।
अथो श्रोत्रम् एव ।
श्रोत्रꣳ ह्य् एतत् पृथिव्याः ।
यद् वल्मीकः
VERSE: 5 { 1.1.3.5}
अबधिरो भवति ।
य एवं वेद ।
प्रजापतिः प्रजा असृजत ।
तासाम् अन्नम् उपाक्षीयत ।
ताभ्यः सूदम् उप प्राभिनत् ।
ततो वै तासाम् अन्नं न_अक्षीयत ।
यस्य सूदः संभारो भवति ।
नास्य गृहे ऽन्नं क्षीयते ।
आपो वा इदम् अग्रे सलिलम् आसीत् ।
तेन प्रजापतिर् अश्राम्यत् ।
VERSE: 6 { 1.1.3.6}
कथम् इदꣳ स्याद् इति ।
सो ऽपश्यत् पुष्करपर्णं तिष्ठत् ।
सो ऽमन्यत ।
अस्ति वै तत् ।
यस्मिन्न् इदम् अधि तिष्ठति_इति ।
स वराहो रूपं कृत्वा_उप न्यमज्जत् ।
स पृथिवीम् अध आर्छत् ।
तस्या उपहत्य_उदमज्जत् ।
तत् पुष्करपर्णे ऽप्रथयत् ।
यद् अप्रथयत् ।
VERSE: 7 { 1.1.3.7}
तत् पृथिव्यै पृथिवित्वम् ।
अभूद् वा इदम् इति ।
तद् भूम्यै भूमित्वम् ।
तां दिशो ऽनु वातः समवहत् ।
ताꣳ शर्कराभिर् अदृꣳहत् ।
शं वै नो ऽभूद् इति ।
तच् छर्कराणाꣳ शर्करत्वम् ।
यद् वराहविहतꣳ संभारो भवति ।
अस्याम् एवाच्छम्बट्कारम् अग्निम् आधत्ते ।
शर्करा भवन्ति धृत्यै ।
VERSE: 8 { 1.1.3.8}
अथो शंत्वाय ।
सरेता अग्निर् आधेय इत्य् आहुः ।
आपो वरुणस्य पत्नय आसन् ।
ता अग्निर् अभ्यध्यायत् ।
ताः समभवन् ।
तस्य रेतः परापतत् ।
तद् धिरण्यम् अभवत् ।
यद् धिरण्यम् उपास्यति ।
सरेतसम् एवाग्निम् आधत्ते ।
पुरुष इन् न्वै स्वाद् रेतसो बीभत्सत इत्य् आहुः ।
VERSE: 9 { 1.1.3.9}
उत्तरत उपास्यत्य् अबीभत्सायै ।
अति प्रयच्छति ।
आर्तिम् एव_अतिप्रयच्छति ।
अग्निर् देवेभ्यो निलायत ।
अश्वो रूपं कृत्वा ।
सो ऽश्वत्थे संवत्सरम् अतिष्ठत् ।
तद् अश्वत्थस्याश्वत्थत्वम् ।
यद् आश्वत्थः संभारो भवति ।
यद् एवास्य तत्र न्यक्तम् ।
तद् एव_अवरुन्द्धे ।
VERSE: 10 { 1.1.3.10}
देवा वा ऊर्जं व्यभजन्त ।
तत उदुम्बर उदतिष्ठत् ।
ऊर्ग् वा उदुम्बरः ।
यद् औदुम्बरः संभारो भवति ।
ऊर्जम् एव_अवरुन्द्धे ।
तृतीयस्याम् इतो दिवि सोम आसीत् ।
तं गायत्र्या_अहरत् ।
तस्य पर्णम् अच्छिद्यत ।
तत् पर्णो ऽभवत् ।
तत् पर्णस्य पर्णत्वम् ।
VERSE: 11 { 1.1.3.11}
यस्य पर्णमयः संभारो भवति ।
सोमपीथम् एव_अवरुन्द्धे ।
देवा वै ब्रह्मन्न् अवदन्त ।
तत् पर्ण उपाशृणोत् ।
सुश्रवा वै नाम ।
यत् पर्णमयः संभारो भवति ।
ब्रह्मवर्चसम् एव_अवरुन्द्धे ।
प्रजापतिर् अग्निम् असृजत ।
सो ऽबिभेत् प्र मा धक्ष्यति_इति ।
तꣳ शम्याशमयत् ।
VERSE: 12 { 1.1.3.12}
तच् छम्यै शमित्वं ।
यच् छमीमयः संभारो भवति ।
शान्त्या अप्रदाहाय ।
अग्नेः सृष्टस्य यतः ।
विकङ्कतं भा आर्च्छत् ।
यद् वैकङ्कतः संभारो भवति ।
भा एव_अवरुन्द्धे ।
सहृदयो ऽग्निर् आधेय इत्य् आहुः ।
मरुतो ऽद्भिर् अग्निम् अतमयन् ।
तस्य तान्तस्य हृदयम् आच्छिन्दन् ।
साशनिर् अभवत् ।
यद् अशनिहतस्य वृक्षस्य सम्भारो भवति ।
सहृदयम् एव_अग्निम् आधत्ते ।
अनुवाक 4 अग्न्याधानम्
VERSE: 1 { 1.1.4.1}
द्वादशसु विक्रामेष्व् अग्निम् आदधीत ।
द्वादश मासाः सम्वत्सरः ।
संवत्सराद् एवैनम् अवरुध्य_आधत्ते ।
यद् द्वादशसु विक्रामेष्व् आदधीत ।
परिमितम् अवरुन्धीत ।
चक्षुर्निमित आदधीत ।
इयद् द्वादशविक्रामा3 इति ।
परिमितं चैव_अपरिमितं च_अवरुन्द्धे ।
अनृतं वै वाचा वदति ।
अनृतं मनसा ध्यायति ।
VERSE: 2 { 1.1.4.2}
चक्षुर् वै सत्यम् ।
अद्रा3ग् इत्य् आह ।
अदर्शम् इति ।
तत् सत्यम् ।
यश् चक्षुर्निमिते ऽग्निम् आधत्ते ।
सत्य एवैनम् आधत्ते ।
तस्माद् आहिताग्निर् न_अनृतं वदेत् ।
नास्य ब्राह्मणो ऽनाश्वान् गृहे वसेत् ।
सत्ये ह्य् अस्याग्निर् आहितः ।
आग्नेयी वै रात्रिः ।
VERSE: 3 { 1.1.4.3}
आग्नेयाः पशवः ।
ऐन्द्रम् अहः ।
नक्तं गार्हपत्यम् आदधाति ।
पशून् एव_अवरुन्द्धे ।
दिवा_आहवनीयम् ।
इन्द्रियम् एवावरुन्द्धे ।
अर्धोदिते सूर्य आहवनीयम् आदधाति ।
एतस्मिन् वै लोके प्रजापतिः प्रजा असृजत ।
प्रजा एव तद् यजमानः सृजते ।
अथो भूतं चैव भविष्यच् च_अवरुन्द्धे ।
VERSE: 4 { 1.1.4.4}
इडा वै मानवी यज्ञानुकाशिन्य् आसीत् ।
साऽशृणोत् ।
असुरा अग्निम् आदधत इति ।
तद् अगच्छत् ।
त आहवनीयम् अग्र आदधत ।
अथ गार्हपत्यम् ।
अथ_अन्वाहार्यपचनम् ।
सोब्रवीत् ।
प्रतीच्य् एषाꣳ श्रीर् अगात् ।
भद्रा भूत्वा पराभविष्यन्तीति ।
VERSE: 5 { 1.1.4.5}
यस्यैवम् अग्निर् आधीयते ।
प्रतीच्य् अस्य श्रीर् एति ।
भद्रो भूत्वा पराभवति ।
साऽशृणोत् ।
देवा अग्निम् आदधत इति ।
तद् अगच्छत् ।
ते ऽन्वाहार्यपचनम् अग्र आदधत ।
अथ गार्हपत्यम् ।
अथ_आहवनीयम् ।
साऽब्रवीत्
VERSE: 6 { 1.1.4.6}
प्राच्य् एषाꣳ श्रीर् अगात् ।
भद्रा भूत्वा सुवर्गं लोकम् एष्यन्ति ।
प्रजां तु न वेत्स्यन्त इति ।
यस्यैवम् अग्निर् आधीयते ।
प्राच्य् अस्य श्रीर् एति ।
भद्रो भूत्वा सुवर्गं लोकम् एति ।
प्रजां तु न विन्दते ।
साब्रवीद् इडा मनुम् ।
तथा वा अहं तव_अग्निम् आधास्यामि ।
यथा प्र प्रजया पशुभिर् मिथुनैर् जनिष्यसे ।
VERSE: 7 { 1.1.4.7}
प्रत्य् अस्मिꣳल् लोके स्थास्यसि ।
अभि सुवर्गं लोकं जेष्यसीति ।
गार्हपत्यम् अग्र आदधात् ।
गार्हपत्यं वा अनु प्रजाः पशवः प्रजायन्ते ।
गार्हपत्येनैवास्मै प्रजां पशून् प्राजनयत् ।
अथ_अन्वाहार्यपचनम् ।
तिर्यङ्ङ् इव वा अयं लोकः ।
अस्मिन्न् एव तेन लोके प्रत्यतिष्ठत् ।
अथ_आहवनीयम् ।
0 तेनैव सुवर्गं लोकम् अभ्यजयत् ।
VERSE: 8 { 1.1.4.8}
यस्यैवम् अग्निर् आधीयते ।
प्र प्रजया पशुभिर् मिथुनैर् जायते ।
प्रत्य् अस्मिꣳल् लोके तिष्ठति ।
अभि सुवर्गं लोकं जयति ।
यस्य वा अयथादेवतम् अग्निर् आधीयते ।
आ देवताभ्यो वृश्च्यते ।
पापीयान् भवति ।
यस्य यथादेवतम् ।
न देवताभ्य आ वृश्च्यते ।
वसीयान् भवति ।
{ 1.1.4.9}
भृगूणां त्वा_अङ्गिरसां व्रतपते व्रतेन_आदधामीति भृग्वङ्गिरसाम् आदध्यात् ।
आदित्यानां त्वा देवानां व्रतपते व्रतेन_आदधामीत्य् अन्यासां ब्राह्मणीनां प्रजानाम् ।
वरुणस्य त्वा राज्ञो व्रतपते व्रतेन_आदधामीति राज्ञः ।
इन्द्रस्य त्वा_इन्द्रियेण व्रतपते व्रतेन_आदधामि_इति राजन्यस्य ।
मनोस् त्वा ग्रामण्यो व्रतपते व्रतेन_आदधामीति वैश्यस्य ।
ऋभूणां त्वा देवानां व्रतपते व्रतेन_आदधामि_इति रथकारस्य ।
यथादेवतम् अग्निर् आधीयते ।
न देवताभ्य आ वृश्च्यते ।
वसीयान् भवति ।
अनुवाक 5 अग्न्याधानम्
VERSE: 1 { 1.1.5.1}
प्रजापतिर् वाचः सत्यम् अपश्यत् ।
तेन_अग्निम् आधत्त ।
तेन वै स आर्ध्नोत् ।
भूर् भुवः सुवर् इत्य् आह ।
एतद् वै वाचः सत्यम् ।
य एतेन_अग्निम् आधत्ते ।
ऋध्नोत्य् एव ।
अथो सत्यप्राशूर् एव भवति ।
अथो य एवं विद्वान् अभिचरति ।
स्तृणुत एवैनम्
VERSE: 2 { 1.1.5.2}
भूर् इत्य् आह ।
प्रजा एव तद् यजमानः सृजते ।
भुव इत्य् आह ।
अस्मिन्न् एव लोके प्रतितिष्ठति ।
सुवर् इत्य् आह ।
सुवर्ग एव लोके प्रतितिष्ठति ।
त्रिभिर् अक्षरैर् गार्हपत्यम् आदधाति ।
त्रय इमे लोकाः ।
एष्व् एवैनं लोकेषु प्रतिष्ठितम् आधत्ते ।
सर्वैः पञ्चभिर् आहवनीयम् ।
VERSE: 3 { 1.1.5.3}
सुवर्गाय वा एष लोकाय_आधीयते ।
यद् आहवनीयः ।
सुवर्ग एवास्मै लोके वाचः सत्यꣳ सर्वम् आप्नोति ।
त्रिभिर् गार्हपत्यम् आदधाति ।
पञ्चभिर् आहवनीयम् ।
अष्टौ संपद्यन्ते ।
अष्टाक्षरा गायत्री ।गायत्रो ऽग्निः ।
यावान् एवाग्निः ।
तम् आधत्ते ।
VERSE: 4 { 1.1.5.4}
प्रजापतिः प्रजा असृजत ।
ता अस्मात् सृष्टाः पराचीर् आयन्न् ।
ताभ्यो ज्योतिर् उदगृह्णात् ।
तं ज्योतिः पश्यन्तीः प्रजा अभि समावर्तन्त ।
उपरि_इव_अग्निम् उद्ग्रृह्णीयाद् उद्धरन् ।
ज्योतिर् एव पश्यन्तीः प्रजा यजमानम् अभि समावर्तन्ते ।
प्रजापतेर् अक्ष्य् अश्वयत् ।
तत् परापतत् ।
तद् अश्वो ऽभवत् ।
तद् अश्वस्य_अश्वत्वम् ।
VERSE: 5 { 1.1.5.5}
एष वै प्रजापतिः ।
यद् अग्निः प्राजापत्यो ऽश्वः ।
यद् अश्वं पुरस्तान् नयति ।
स्वम् एव चक्षुः पश्यन् प्रजापतिर् अनूदेति ।
वज्री वा एषः ।
यद् अश्वः ।
यद् अश्वं पुरस्तान् नयति ।
जातान् एव भ्रातृव्यान् प्रणुदते ।
पुनर् आवर्तयति ।
VERSE: 6 { 1.1.5.6}
जनिष्यमाणान् एव प्रतिनुदते ।
न्य् आहवनीयो गार्हपत्यम् अकामयत ।
नि गार्हपत्य आहवनीयम् ।
तौ विभाजं नाशक्नोत् ।
सो ऽश्वः पूर्ववाड् भूत्वा ।
प्राञ्चं पूर्वम् उदवहत् ।
तत् पूर्ववाहः पूर्ववाट्त्वम् ।
यद् अश्वं पुरस्तान् नयति ।
विभक्तिर् एवैनयोः सा ।
अथो नानावीर्याव् एवैनौ कुरुते ।
VERSE: 7 { 1.1.5.7}
यद् उपर्य्_उपरि शिरो हरेत् ।
प्राणान् विच्छिन्द्यात् ।
अधोऽधः शिरो हरति ।
प्राणानां गोपीथाय ।
इयत्य् अग्रे हरति ।
अथ_इयत्य् अथ_इयति ।
त्रय इमे लोकाः ।
एष्व् एवैनं लोकेषु प्रतिष्ठितम् आधत्ते ।
प्रजापतिर् अग्निम् असृजत ।
सो ऽबिभेत् प्र मा धक्ष्यतीति ।
VERSE: 8 { 1.1.5.8}
तस्य त्रेधा महिमानं व्यौहत् ।
शान्त्या अप्रदाहाय ।
यत् त्रेधा_अग्निर् आधीयते ।
महिमानम् एवास्य तद् व्यूहति ।
शान्त्या अप्रदाहाय ।
पुनर् आवर्तयति ।
महिमानम् एवास्य संदधाति ।
पशुर् वा एषः ।
यद् अश्वः ।
एष रुद्रः ।
VERSE: 9 { 1.1.5.9}
यद् अग्निः ।
यद् अश्वस्य पदे ऽग्निम् आदध्यात् ।
रुद्राय पशून् अपिदध्यात् ।
अपशुर् यजमानः स्यात् ।
यन् नाऽऽक्रमयेत् ।
अनवरुद्धा अस्य पशवः स्युः ।
पार्श्वत आक्रमयेत् ।
यथाहितस्य_अग्नेर् अङ्गारा अभ्यववर्तेरन् ।
अवरुद्धा अस्य पशवो भवन्ति ।
न रुद्राय_अपिदधाति ।
VERSE: 10 { 1.1.5.10}
त्रीणि हवीꣳषि निर्वपति ।
विराज एव विक्रान्तं यजमानो ऽनु विक्रमते ।
अग्नये पवमानाय ।
अग्नये पावकाय ।
अग्नये शुचये ।
यद् अग्नये पवमानाय निर्वपति ।
पुनात्य् एवैनम् ।
यद् अग्नये पावकाय ।
पूत एवास्मिन्न् अन्नाद्यं दधाति ।
यद् अग्नये शुचये ।
ब्रह्मवर्चसम् एवास्मिन्न् उपरिष्टाद् दधाति ।
अनुवाक 6 अग्न्याधानम्
VERSE: 1 { 1.1.6.1}
देवासुराः संयत्ता आसन्न् ।
ते देवा विजयम् उपयन्तः ।
अग्नौ वामं वसु सं न्यदधत ।
इदम् उ नो भविष्यति ।
यदि नो जेष्यन्ति_इति ।
तद् अग्निर् न_उत्सहम् अशक्नोत् ।
तत् त्रेधा विन्यदधात् ।
पशुषु तृतीयम् ।
अप्सु तृतीयम् ।
आदित्ये तृतीयम् ।
VERSE: 2 { 1.1.6.2}
तद् देवा विजित्य ।
पुनर् अवारुरुत्सन्त ।
ते ऽग्नये पवमानाय पुरोडाशम् अष्टाकपालं निरवपन् ।
पशवो वा अग्निः पवमानः ।
यद् एव पशुष्व् आसीत् ।
तत् तेन_अवारुन्धत ।
ते ऽग्नये पावकाय ।
आपो वा अग्निः पावकः ।
यद् एव_अप्स्व् आसीत् ।
तत् तेन_अवारुन्धत ।
VERSE: 3 { 1.1.6.3}
ते ऽग्नये शुचये ।
असौ वा आदित्यो ऽग्निः शुचिः ।
यद् एवाऽऽदित्य आसीत् ।
तत् तेन_अवारुन्धत ।
ब्रह्मवादिनो वदन्ति ।
तनुवो वावैता अग्न्याधेयस्य ।
आग्नेयो वा अष्टाकपालो ऽग्न्याधेयम् इति ।
यत् तं निर्वपेत् ।
न_एतानि ।
यथाऽऽत्मा स्यात् ।
VERSE: 4 { 1.1.6.4}
न_अङ्गानि ।
तादृग् एव तत् ।
यद् एतानि निर्वपेत् ।
न तम् ।
यथाङ्गानि स्युः ।
न_आत्मा ।
तादृग् एव तत् ।
उभयानि सह निरुप्याणि ।
यज्ञस्य सात्मत्वाय ।
उभयं वा एतस्य_इन्द्रियं वीर्यम् आप्यते ।
VERSE: 5 { 1.1.6.5}
यो ऽग्निम् आधत्ते ।
ऐन्द्राग्नम् एकादशकपालम् अनु निर्वपेत् ।
आदित्यं चरुम् ।
इन्द्राग्नी वै देवानाम् अयातयामानौ ।
ये एव देवते अयातयाम्नी ।
ताभ्याम् एवास्मा इन्द्रियं वीर्यम् अवरुन्द्धे ।
आदित्यो भवति ।
इयं वा अदितिः ।
अस्याम् एव प्रतितिष्ठति ।
धेन्वै वा एतद् रेतः ।
VERSE: 6 { 1.1.6.6}
यद् आज्यम् ।
अनडुहस् तण्डुलाः ।
मिथुनम् एव_अवरुन्द्धे ।
घृते भवति ।
यज्ञस्य_अलूक्षान्तत्वाय ।
चत्वार आर्षेयाः ।
प्राश्नन्ति ।
दिशाम् एव ज्योतिषि जुहोति ।
पशवो वा एतानि हवीꣳषि ।
एष रुद्रः ।
यद् अग्निः ।
VERSE: 7 { 1.1.6.7}
यत् सद्य एतानि हवीꣳषि निर्वपेत् ।
रुद्राय पशून् अपि दध्यात् ।
अपशुर् यजमानः स्यात् ।
यन् न_अनुनिर्वपेत् ।
अनवरुद्धा अस्य पशवः स्युः ।
द्वादशसु रात्रीष्व् अनु निर्वपेत् ।
संवत्सरप्रतिमा वै द्वादश रात्रयः ।
संवत्सरेणैवास्मै रुद्रꣳ शमयित्वा ।
पशून् अवरुन्द्धे ।
यद् एकम्_एकम् एतानि हवीꣳषि निर्वपेत् ।
VERSE: 8 { 1.1.6.8}
यथा त्रीण्य् आवपनानि पूरयेत् ।
तादृक् तत् ।
न प्रजननम् उच्छिꣳषेत् ।
एकं निरुप्य ।
उत्तरे समस्येत् ।
तृतीयम् एवास्मै लोकम् उच्छिꣳषति प्रजननाय ।
तं प्रजया पशुभिर् अनु प्रजायते ।
अथो यज्ञस्यैवैषा_अभिक्रान्तिः ।
रथचक्रं प्रवर्तयति ।
मनुष्यरथेनैव देवरथं प्रत्यवरोहति ।
VERSE: 9 { 1.1.6.9}
ब्रह्मवादिनो वदन्ति ।
होतव्यम् अग्निहोत्रा3ं न होतव्या3म् इति ।
यद् यजुषा जुहुयात् ।
अयथापूर्वम् आहुतीर्जुहुयात् ।
यन् न जुहुयात् ।
अग्निः पराभवेत् ।
तूष्णीम् एव होतव्यम् ।
यथापूर्वम् आहुतीर्जुहोति ।
न_अग्निः पराभवति ।
अग्नीधे ददाति ।
VERSE: 10 { 1.1.6.10}
अग्निमुखान् एव_ऋतून् प्रीणाति ।
उपबर्हणं ददाति ।
रूपाणाम् अवरुद्ध्यै ।
अश्वं ब्रह्मणे ।
इन्द्रियम् एव_अवरुन्धे ।
धेनुꣳ होत्रे ।
आशिष एव_अवरुन्द्धे ।
अनड्वाहम् अध्वर्यवे ।
वह्निर् वा अनड्वान् ।
वह्निर् अध्वर्युः ।
VERSE: 11 { 1.1.6.11}
वह्निनैव वह्नि यज्ञस्य_अवरुन्द्धे ।
मिथुनौ गावौ ददाति ।
मिथुनस्य_अवरुद्ध्यै ।
वासो ददाति ।
सर्वदेवत्यं वै वासः ।
सर्वा एव देवताः प्रीणाति ।
आ द्वादशभ्यो ददाति ।
द्वादश मासाः संवत्सरः ।
संवत्सर एव प्रतितिष्ठति ।
काममूर्ध्वं देयम् ।
अपरिमितस्य_अवरुद्ध्यै ।
अनुवाक 7 अग्न्याधानम्
VERSE: 1 { 1.1.7.1}
घर्मः शिरस् तद् अयम् अग्निः ।
संप्रियः पशुभिर् भुवत् ।
छर्दिस् तोकाय तनयाय यच्छ ।
वातः प्राणस्तद् अयम् अग्निः ।
संप्रियः पशुभिर् भुवत् ।
स्वदितं तोकाय तनयाय पितुं पच ।
प्राचीम् अनु प्रदिशं प्रेहि विद्वान् ।
अग्नेर् अग्ने पुरो अग्निर् भवेह ।
विश्वा आशा दीद्यानो विभाहि ।
ऊर्जं नो धेहि द्विपदे चतुष्पदे ।
VERSE: 2 { 1.1.7.2}
अर्कश् चक्षुस् तद् असौ सूर्यस् तद् अयम् अग्निः ।
संप्रियः पशुभिर् भुवत् ।
यत् ते शुक्र शुक्रं वर्चः शुक्रा तनूः ।
शुक्रं ज्योतिर् अजस्रम् ।
तेन मे दीदिहि तेन त्वा_आदधे ।
अग्निनाऽग्ने ब्रह्मणा ।
आनशे व्यानशे सर्वम् आयुर् व्यानशे ।
ये ते अग्ने शिवे तनुवौ ।
विराट् च स्वराट् च ।
ते मा विशतां ते मा जिन्वताम् ।
VERSE: 3 { 1.1.7.3}
ये ते अग्ने शिवे तनुवौ ।
सम्राट् च_अभिभूश् च ।
ते मा विशतां ते मा जिन्वताम् ।
ये ते अग्ने शिवे तनुवौ ।
विभूश् च परिभूश् च ।
ते मा विशतां ते मा जिन्वताम् ।
ये ते अग्ने शिवे तनुवौ ।
प्रभ्वी च प्रभूतिश् च ।
ते मा विशतां ते मा जिन्वताम् ।
यास् ते अग्ने शिवास् तनुवः ।
ताभिस् त्वा_आदधे ।
यास् ते अग्ने घोरास् तनुवः ।
ताभिर् अमुं गच्छ ।
अनुवाक 8 अग्न्याधानम्
VERSE: 1 { 1.1.8.1}
इमे वा एते लोका अग्नयः ।
ते यद् अव्यावृत्ता आधीयेरन् ।
शोचयेयुर् यजमानम् ।
घर्मः शिर इति गार्हपत्यम् आदधाति ।
वातः प्राण इत्य् अन्वाहार्यपचनम् ।
अर्कश् चक्षुर् इत्य् आहवनीयम् ।
तेनैवैनान् व्यावर्तयति ।
तथा न शोचयन्ति यजमानम् ।
रथन्तरम् अभिगायते गार्हपत्य आधीयमाने ।
राथन्तरो वा अयं लोकः ।
VERSE: 2 { 1.1.8.2}
अस्मिन्न् एवैनं लोके प्रतिष्ठितम् आधत्ते ।
वामदेव्यम् अभिगायत उद्ध्रियमाणे ।
अन्तरिक्षं वै वामदेव्यम् ।
अन्तरिक्ष एवैनं प्रतिष्ठितम् आधत्ते ।
अथो शान्तिर् वै वामदेव्यम् ।
शान्तम् एवैनं पशव्यम् उद्धरते ।
बृहद् अभिगायत आहवनीय आधीयमाने ।
बार्हतो वा असौ लोकः ।
अमुष्मिन्न् एवैनं लोके प्रतिष्ठितम् आधत्ते ।
प्रजापतिर् अग्निम् असृजत ।
VERSE: 3 { 1.1.8.3}
सो ऽश्वो वारो भूत्वा पराङ् ऐत् ।
तं वारवन्तीयेन_अवारयत ।
तद् वारवन्तीयस्य वारवन्तीयत्वम् ।
श्यैतेन श्येती अकुरुत ।
तच् छ्यैतस्य श्यैतत्वम् ।
यद् वारवन्तीयम् अभिगायते ।
वारयित्वा_एवैनं प्रतिष्ठितम् आधत्ते ।
श्यैतेन श्येती कुरुते ।
घर्मः शिर इति गार्हपत्यम् आदधाति ।
सशीर्षाणम् एवैनम् आधत्ते ।
VERSE: 4 { 1.1.8.4}
उप_एनम् उत्तरो यज्ञो नमति ।
रुद्रो वा एषः ।
यद् अग्निः ।
स आधीयमान ईश्वरो यजमानस्य पशून् हिꣳसितोः ।
संप्रियः पशुभिर् भुवद् इत्य् आह ।
पशुभिर् एवैनꣳ संप्रियं करोति ।
पशूनाम् अहिꣳसायै ।
छर्दिस् तोकाय तनयाय यच्छ_इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
वातः प्राण इत्य् अन्वाहार्यपचनम् ।
VERSE: 5 { 1.1.8.5}
सप्राणम् एवैनम् आधत्ते ।
स्वदितं तोकाय तनयाय पितुं पचेत्य् आह ।
अन्नम् एवास्मै स्वदयति ।
प्राचीम् अनु प्रदिशं प्रेहि विद्वान् इत्य् आह ।
विभक्तिर् एवैनयोः सा ।
अथो नानावीर्याव् एवैनौ कुरुते ।
ऊर्जं नो धेहि द्विपदे चतुष्पद इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
अर्कश् चक्षुर् इत्य् आहवनीयम् ।
अर्को वै देवानाम् अन्नम् ।
VERSE: 6 { 1.1.8.6}
अन्नम् एव_अवरुन्धे ।
तेन मे दीदिहि_इत्य् आह ।
समिन्ध एवैनम् ।
आनशे व्यानश इति त्रिर् उदिङ्गयति ।
त्रय इमे लोकाः ।
एष्व् एवैनं लोकेषु प्रतिष्ठितम् आधत्ते ।
तत् तथा न कार्यम् ।
वीङ्गितम् अप्रतिष्ठितम् आदधीत ।
उद्धृत्य_एव_आधाय_अभिमन्त्र्यः ।
अवीङ्गितम् एवैनं प्रतिष्ठितम् आधत्ते ।
विराट् च स्वराट् च यास् ते अग्ने शिवास् तनुवस् ताभिस् त्वा_आदध इत्य् आह ।
एता वा अग्नेः शिवास् तनुवः ।
ताभिर् एवैनꣳ समर्धयति ।
यास् ते अग्ने घोरास् तनुवस् ताभिर् अमुं गच्छेति ब्रूयाद् यं द्विष्यात् ।
ताभिर् एवैनं पराभावयति ।
अनुवाक 9 अग्न्याधानम्
VERSE: 1 { 1.1.9.1}
शमीगर्भाद् अग्निं मन्थति ।
एषा वा अग्नेर् यज्ञिया तनूः ।
ताम् एवास्मै जनयति ।
अदितिः पुत्रकामा ।
साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् ।
तस्या उच्छेषणम् अददुः ।
तत् प्राऽऽश्नात् ।
सा रेतो ऽधत्त ।
तस्यै धाता च_अर्यमा च_अजायेताम् ।
सा द्वितीयम् अपचत्
VERSE: 2 { 1.1.9.2}
तस्या उच्छेषणम् अददुः ।
तत् प्राऽऽश्नात् ।
सा रेतो ऽधत्त तस्यै मित्रश् च वरुणश् च_अजायेताम् ।
सा तृतीयम् अपचत् ।
तस्या उच्छेषणम् अददुः ।
तत् प्राऽऽश्नात् ।
सा रेतो ऽधत्त ।
तस्या अꣳशश् च भगश् च_अजायेताम् ।
सा चतुर्थम् अपचत् ।
VERSE: 3 { 1.1.9.3}
तस्या उच्छेषणम् अददुः ।
तत् प्राऽऽश्नात् ।
सा रेतो ऽधत्त ।
तस्या इन्द्रश् च विवस्वाꣳश् चाजायेताम् ।
ब्रह्मौदनं पचति ।
रेत एव तद् दधाति ।
प्राश्नन्ति ब्राह्मणा ओदनम् ।
यद् आज्यम् उच्छिष्यते ।
तेन समिधो ऽभ्यज्य_आदधाति ।
उच्छेषणाद् वा अदिती रेतो ऽधत्त ।
VERSE: 4 { 1.1.9.4}
उच्छेषणाद् एव तद् रेतो धत्ते ।
अस्थि वा एतत् ।
यत् समिधः ।
एतद् रेतः ।
यद् आज्यम् ।
यद् आज्येन समिधो ऽभ्यज्य_आदधाति ।
अस्थ्य् एव तद् रेतसि दधाति ।
तिस्र आदधाति मिथुनत्वाय ।
इयतीर् भवन्ति ।
प्रजापतिना यज्ञमुखेन संमिताः
VERSE: 5 { 1.1.9.5}
इयतीर् भवन्ति ।
यज्ञपरुषा संमिताः ।
इयतीर् भवन्ति ।
एतावद् वै पुरुषे वीर्यम् ।
वीर्यसंमिताः ।
आर्द्रा भवन्ति ।
आर्द्रम् इव हि रेतः सिच्यते ।
चित्रियस्य_अश्वत्थस्य_आदधाति ।
चित्रम् एव भवति ।
घृतवतीभिर् आदधाति ।
VERSE: 6 { 1.1.9.6}
एतद् वा अग्नेः प्रियं धाम ।
यद् घृतम् ।
प्रियेणैवैनं धाम्ना समर्धयति ।
अथो तेजसा ।
गायत्रीभिर् ब्राह्मणस्य_आदध्यात् ।
गायत्रच्छन्दा वै ब्राह्मणः ।
स्वस्य च्छन्दसः प्रत्ययनस्त्वाय ।
त्रिष्टुग्भी राजन्यस्य ।
त्रिष्टुप्छन्दा वै राजन्यः ।
स्वस्य छन्दसः प्रत्ययनस्त्वाय ।
VERSE: 7 { 1.1.9.7}
जगतीभिर् वैश्यस्य ।
जगतीछन्दा वै वैश्यः ।
स्वस्य छन्दसः प्रत्ययनस्त्वाय ।
तꣳ संवत्सरं गोपायेत् ।
संवत्सरꣳ हि रेतो हितं वर्धते ।
यद्य् एनꣳ संवत्सरे नोपनमेत् ।
समिधः पुनर् आदध्यात् ।
रेत एव तद् धितं वर्धमानम् एति ।
न माꣳसम् अश्नीयात् ।
0 न स्त्रियम् उपेयात् { उपेयात्} ।
VERSE: 8 { 1.1.9.8}
यन् {आनंदा. यन्} माꣳसम् अश्नीयात् ।
यत् स्त्रियम् उपेयात् ।
निर्वीर्यः स्यात् ।
न_एनम् अग्निर् उपनमेत् ।
श्व आधास्यमानो ब्रह्मौदनं पचति ।
आदित्या वा इत उत्तमाः सुवर्गं लोकम् आयन्न् ।
ते वा इतो यन्तं प्रतिनुदन्ते ।
एते खलु वाव_आदित्याः ।
यद् ब्राह्मणाः ।
तैर् एव सन्त्वं गच्छति ।
VERSE: 9 { 1.1.9.9}
न_एनं प्रतिनुदन्ते ।
ब्रह्मवादिनो वदन्ति ।
क्वा सः ।
अग्निः कार्यः ।
यो ऽस्मै प्रजां पशून् प्रजनयति_इति ।
शल्कैस् ताꣳ रात्रिम् अग्निम् इन्धीत ।
तस्मिन्न् उपव्युषम् अरणी निष्टपेत् ।
यथा_ऋषभाय वाशिता न्याविच्छायति ।
तादृग् एव तत् ।
अपोदूह्य भस्माग्निं मन्थति ।
VERSE: 10 { 1.1.9.10}
सैव साऽग्नेः संततिः ।
तं मन्थित्वा प्राञ्चम् उद्धरति ।
संवत्सरम् एव तद् रेतो हितं प्रजनयति ।
अनाहितस् तस्य_अग्निर् इत्य् आहुः ।
यः समिधो ऽनाधाय_अग्निम् आधत्त इति ।
ताः संवत्सरे पुरस्ताद् आदध्यात् ।
संवत्सराद् एवैनम् अवरुध्य_आधत्ते ।
यदि संवत्सरे नादध्यात् ।
द्वादश्यां पुरस्ताद् आदध्यात् संवत्सरप्रतिमा वै द्वादश रात्रयः ।
संवत्सरम् एवास्य_आहिता भवन्ति ।
यदि द्वादश्यां न_आदध्यात् ।
त्र्यहे पुरस्ताद् आदध्यात् ।
आहिता एवास्य भवन्ति ।
अनुवाक 10 अग्न्याधानम्
VERSE: 1 { 1.1.10.1}
प्रजापतिः प्रजा असृजत ।
स रिरिचानो ऽमन्यत ।
स तपो ऽतप्यत ।
स आत्मन् वीर्यम् अपश्यत् ।
तद् अवर्धत ।
तद् अस्मात् सहसोर्ध्वम् असृज्यत ।
सा विराड् अभवत् ।
तां देवासुरा व्यगृह्णत ।
सो ऽब्रवीत् प्रजापतिः ।
मम वा एषा ।
VERSE: 2 { 1.1.10.2}
दोहा एव युष्माकम् इति ।
सा ततः प्राच्य् उदक्रामत् ।
तत् प्रजापतिः पर्यगृह्णात् ।
अथर्व पितुं मे गोपाय_इति ।
सा द्वितीयम् उदक्रामत् ।
तत् प्रजापतिः पर्यगृह्णात् ।
नर्य प्रजां मे गोपाय_इति ।
सा तृतीयम् उदक्रामत् ।
तत् प्रजापतिः पर्यगृह्णात् ।
शꣳस्य पशून् मे गोपाय_इति ।
VERSE: 3 { 1.1.10.3}
सा चतुर्थम् उदक्रामत् ।
तत् प्रजापतिः पर्यगृह्णात् ।
सप्रथ सभां मे गोपायेति ।
सा पञ्चमम् उदक्रामत् ।
तत् प्रजापतिः पर्यगृह्णात् ।
अहे बुध्निय मन्त्रं मे गोपाय_इति ।
अग्नीन् वाव सा तान् व्यक्रमत ।
तान् प्रजापतिः पर्यगृह्णात् ।
अथो पङ्क्तिम् एव ।
पङ्क्तिर् वा एषा ब्राह्मणे प्रविष्टा ।
VERSE: 4 { 1.1.10.4}
ताम् आत्मनो ऽधि निर्मिमीते ।
यद् अग्निर् आधीयते ।
तस्माद् एतावन्तो ऽग्नय आधीयन्ते ।
पाङ्क्तं वा इदꣳ सर्वम् ।
पाश्रूनैव पाङ्क्तꣳ स्पृणोति ।
अथर्व पितुं मे गोपाय_इत्य् आह ।
अन्नम् एवैतेन स्पृणोति ।
नर्य प्रजां मे गोपाय_इत्य् आह ।
प्रजाम् एवतेन स्पृणोति ।
शꣳस्य पशून् मे गोपाय_इत्य् आह ।
VERSE: 5 { 1.1.10.5}
पशून् एवैतेन स्पृणोति ।
सप्रथ सभां मे गोपाय_इत्य् आह ।
सभाम् एवैतेन_इन्द्रियꣳ स्पृणोति ।
अहे बुध्निय मन्त्रं मे गोपाय_इत्य् आह ।
मन्त्रम् एवैतेन श्रियꣳ स्पृणोति ।
यद् अन्वाहार्यपचने ऽन्वाहार्यं पचन्ति ।
तेन सो ऽस्य_अभीष्टः प्रीतः ।
यद् गार्हपत्य आज्यम् अधिश्रयन्ति संपत्नीर् याजयन्ति ।
तेन सो ऽस्य_अभीष्टः प्रीतः ।
यद् आहवनीये जुह्वति ।
VERSE: 6 { 1.1.10.6}
तेन सो ऽस्य_अभीष्टः प्रीतः ।
यत् सभायां विजयन्ते ।
तेन सो ऽस्य_अभीष्टः प्रीतः ।
यद् आवसथे ऽन्नꣳ हरन्ति ।
तेन सो ऽस्य_अभीष्टः प्रीतः ।
तथाऽस्य सर्वे प्रीता अभीष्टा आधीयन्ते ।
प्रवसथम् एष्यन्न् एवम् उपतिष्ठेत_एकम्_एकम् ।
यथा ब्राह्मणाय गृहे वासिने परिदाय गृहान् एति ।
तादृग् एव तत् ।
पुनर् आगत्य_उपतिष्ठते ।
साऽभागेयम् एवैषां तत् ।
सा तत ऊर्ध्वा_आरोहत् ।
सा रोहिण्य् अभवत् ।
तद् रोहिण्यै रोहिणित्वम् ।
रोहिण्याम् अग्निम् आदधीत ।
स्व एवैनं योनौ प्रतिष्ठितम् आधत्ते ।
ऋध्नोत्य् एनेन ।
प्रपाठक: 2 गवामयनशेषः
अनुवाक 1 गवामयनशेषः
VERSE: 1 { 1.2.1.1}
उद्धन्यमानम् अस्या अमेध्यम् ।
अप पाप्मानं यजमानस्य हन्तु ।
शिवा नः सन्तु प्रदिशश् चतस्रः ।
शं नो माता पृथिवी तोकसाता ।
शं नो देवीर् अभिष्टये ।
आपो भवन्तु पीतये ।
शं योर् अभि स्रवन्तु नः ।
वैश्वानरस्य रूपम् ।
पृथिव्यां परिस्रसा ।
` स्योनम् आविशन्तु नः ।
VERSE: 2 { 1.2.1.2}
यद् इदं दिवो यद् अदः पृथिव्याः ।
संजज्ञाने रोदसी संबभूवतुः ।
ऊषान् कृष्णम् अवतु कृष्णमूषाः ।
इह_उभयोर् यज्ञियम् आगमिष्ठाः ।
ऊतीः कुर्वाणो यत् पृथिवीम् अचरः ।
गुहाकारम् आखुरूपं प्रतीत्य ।
तत् ते न्यक्तम् इह संभरन्तः ।
शतं जीवेम शरदः सवीराः ।
ऊर्जं पृथिव्या रसम् आभरन्तः ।
शतं जीवेम शरदः पुरूचीः ।
VERSE: 3 { 1.2.1.3}
वम्रीभिर् अनुवित्तं गुहासु ।
श्रोत्रं त उर्व्य् अबधिरा भवामः ।
प्रजापतिसृष्टानां प्रजानाम् ।
क्षुधा_उपहत्यै सुवितं नो अस्तु ।
उपप्रभिन्नम् इषमूर्जं प्रजाभ्यः ।
सूदं गृहेभ्यो रसम् आभरामि ।
यस्य रूपं बिभ्रद् इमाम् अविन्दत् ।
गुहा प्रविष्टाꣳ सरिरस्य मध्ये ।
तस्येदं विहतम् आभरन्तः ।
अच्छंबट्कारम् अस्यां विधेम ।
VERSE: 4 { 1.2.1.4}
यत् पर्यपश्यत् सरिरस्य मध्ये ।
उर्वीम् अपश्यज् जगतः प्रतिष्ठाम् ।
तत् पुष्करस्य_आयतनाद् धि जातम् ।
पर्णं पृथिव्याः प्रथनꣳ हरामि ।
याभिर् अदृꣳहज् जगतः प्रतिष्ठाम् ।
उर्वीम् इमां विश्वजनस्य भर्त्रीम् ।
ता नः शिवाः शर्कराः सन्तु सर्वाः ।
अग्ने रेतश् चन्द्रꣳ हिरण्यम् ।
अद्भ्यः संभूतम् अमृतं प्रजासु ।
तत् संभरन्न् उत्तरतो निधाय ।
VERSE: 5 { 1.2.1.5}
अतिप्रयच्छन् दुरितिं तरेयम् ।
अश्वो रूपं कृत्वा यद् अश्वत्थे ऽतिष्ठः ।
संवत्सरं देवेभ्यो निलाय ।
तत् ते न्यक्तम् इह संभरन्तः ।
शतं जीवेम शरदः सवीराः ।
ऊर्जः पृथिव्या अध्युत्थितो ऽसि ।
वनस्पते शतवल्शो विरोह ।
त्वया वयम् इषमूर्जं मदन्तः ।
रायस् पोषेण सम् इषा मदेम ।
गायत्रिया ह्रियमाणस्य यत् ते ।
VERSE: 6 { 1.2.1.6}
पर्णम् अपतत् तृतीयस्यै दिवो ऽधि ।
सो ऽयं पर्णः सोमपर्णाद् धि जातः ।
ततो हरामि सोमपीथस्य_अवरुद्ध्यै ।
देवानां ब्रह्मवादं वदतां यत् ।
उपाशृणोः सुश्रवा वै श्रुतो ऽसि ।
ततो माम् आविशतु ब्रह्मवर्चसम् ।
तत् संभरꣳस् तद् अवरुन्धीय साक्षात् ।
यया ते सृष्टस्य_अग्नेः ।
हेतिम् अशमयत् प्रजापतिः ।ताम् इमाम् अप्रदाहाय ।
VERSE: 7 { 1.2.1.7}
शमीꣳ शान्त्यै हराम्य् अहम् ।
यत् ते सृष्टस्य यतः ।
विकङ्कतं भा आर्च्छज् जातवेदः ।
तया भासा संमितः ।
उरुं नो लोकम् अनु प्रभाहि ।
यत् ते तान्तस्य हृदयम् आच्छिन्दञ् जातवेदः ।
मरुतो ऽद्भिस् तमयित्वा ।
एतत् ते तद् अशनेः सं भरामि ।
सात्मा अग्ने सहृदयो भवेह ।
चित्रियाद् अश्वत्थात् संभृता बृहत्यः ।
VERSE: 8 { 1.2.1.8}
शरीरम् अभि सꣳस्कृताः स्थ ।
प्रजापतिना यज्ञमुखेन संमिताः ।
तिस्रस् त्रिवृद्भिर् मिथुनाः प्रजात्यै ।
अश्वत्थाद् धव्यवाहाद् धि जाताम् ।
अग्नेस् तनूं यज्ञियाꣳ संभरामि ।
शान्तयोनिꣳ शमीगर्भम् ।
अग्नये प्रजनयितवे ।
यो अश्वत्थः शमीगर्भः ।
आरुरोह त्वे सचा ।
तं ते हरामि ब्रह्मणा ।
VERSE: 9 { 1.2.1.9}
यज्ञियैः केतुभिः सह ।
यं त्वा समभरञ् जातवेदः ।
यथाशरीरं भूतेषु न्यक्तम् ।
स संभृतः सीद शिवः प्रजाभ्यः ।
उरुं नो लोकम् अनुनेषि विद्वान् ।
प्रवेधसे कवये मेध्याय ।
वचो वन्दारु वृषभाय वृष्णे ।
यतो भयम् अभयं तन् नो अस्तु ।
अव देवान् यजे हेड्यान् ।
समिधाग्निं दुवस्यत ।
VERSE: 10 { 1.2.1.10}
घृतैर् बोधयत_अतिथिम् ।
आस्मिन् हव्या जुहोतन ।
उप त्वाग्ने हविष्मतीः ।
घृताचीर् यन्तु हर्यत ।
जुषस्व समिधो मम ।
तं त्वा समिद्भिर् अङ्गिरः ।
घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ।
समिध्यमानः प्रथमो नु धर्मः ।
समक्तुभिर् अज्यते विश्ववारः ।
VERSE: 11 { 1.2.1.11}
शोचिष्केशो घृतनिर्णिक् पावकः ।
सुयज्ञो अग्निर् यजथाय देवान् ।
घृतयोनिर् अग्निः ।
घृतैः समिद्धो घृतम् अस्य_अन्नम् ।
घृतप्रुषस् त्वा सरितो वहन्ति ।
घृतं पिबन् सुयजा यक्षि देवान् ।
आयुर्दा अग्ने हविषो जुषाणः ।
घृतप्रतीको घृतयोनिर् एधि ।
घृतं पीत्वा मधु चारु गव्यम् ।
पितेव पुत्रम् अभिरक्षताद् इमम् ।
VERSE: 12 { 1.2.1.12}
त्वाम् अग्ने समिधानं यविष्ठ ।
देवा दूतं चक्रिरे हव्यवाहम् ।
उरुज्रयसं घृतयोनिम् आहुतम् ।
त्वेषं चक्षुर् दधिरे चोदयन्वति ।
त्वाम् अग्ने प्रदिव आहुतं घृतेन ।
सुम्नायवः सुषमिधा समीधिरे ।
स वावृधान ओषधीभिर् उक्षितः ।
उरु ज्रयाꣳसि पार्थिवा वितिष्ठसे ।
घृतप्रतीकं च ऋतस्य धूर्षदम् ।
अग्निं मित्रं न समिधान ऋञ्जते ।
VERSE: 13 { 1.2.1.13}
इन्धानो अक्रो विदथेषु दीद्यत् ।
शुक्रवर्णाम् उद् उ नो यꣳसते धियम् ।
प्रजा अग्ने संवासय ।
आशाश् च पशुभिः सह ।
राष्ट्राण्य् अस्मा आधेहि ।
यान्य् आसन् सवितुः सवे ।
मही विश्पत्नी सदने ऋतस्य ।
अर्वाची एतं धरुणे रयीणाम् ।
अन्तर्वत्नी जन्यं जातवेदसम् ।
अध्वराणां जनयथः पुरोगाम् ।
VERSE: 14 { 1.2.1.14}
आरोहतं दशतꣳ शक्वरीर् मम ।
ऋतेन_अग्न आयुषा वर्चसा सह ।
ज्योग् जीवन्त उत्तराम् उत्तराꣳ समाम् ।
दर्शम् अहं पूर्णमासं यज्ञं यथा यजै ।
ऋत्वियवती स्थो अग्निरेतसौ ।
गर्भं दधाथां ते वाम् अहं ददे ।
तत् सत्यं यद् वीरं बिभृथः ।
वीरं जनयिष्यथः ।
ते मत् प्रातः प्रजनिष्येथे ।
ते मा प्रजाते प्रजनयिष्यथः ।
VERSE: 15 { 1.2.1.15}
प्रजया पशुभिर् ब्रह्मवर्चसेन सुवर्गे लोके ।
अनृतात् सत्यम् उपैमि ।
मानुषाद् दैव्यम् उपैमि ।
दैवीं वाचं यच्छामि ।
शल्कैर् अग्निम् इन्धानः ।
उभौ लोकौ सनेमहम् ।
उभयोर् लोकयोर् ऋद्ध्वा ।
अति मृत्युं तराम्य् अहम् ।
जातवेदो भुवनस्य रेतः ।
इह सिञ्च तपसो यज् जनिष्यते ।
VERSE: 16 { 1.2.1.16}
अग्निम् अश्वत्थाद् अधि हव्यवाहम् ।
शमीगर्भाज् जनयन् यो मयोभूः ।
अयं ते योनिर् ऋत्वियः ।
यतो जातो अरोचथाः ।
तं जानन्न् अग्न आरोह ।
अथा नो वर्धया रयिम् ।
अपेत वीत वि च सर्पत_अतः ।
ये ऽत्र स्थ पुराणा ये च नूतनाः ।
अदाद् इदं यमो ऽवसानं पृथिव्याः ।
अक्रन्न् इमं पितरो लोकम् अस्मै ।
VERSE: 17 { 1.2.1.17}
अग्नेर् भस्म_अस्य् अग्नेः पुरीषम् असि ।
संज्ञानम् असि कामधरणम् ।
मयि ते कामधरणं भूयात् ।
सं वः सृजामि हृदयानि ।
सꣳसृष्टं मनो अस्तु वः ।
सꣳसृष्टः प्राणो अस्तु वः ।
सं या वः प्रियास् तनुवः ।
सं प्रिया हृदयानि वः ।
आत्मा वो अस्तु सं प्रियः ।
सं प्रियास् तनुवो मम ।
VERSE: 18 { 1.2.1.18}
कल्पेतां द्यावापृथिवी ।
कल्पन्ताम् आप ओषधीः ।
कल्पन्ताम् अग्नयः पृथक् ।
मम ज्यैष्ठ्याय सव्रताः ।
ये ऽग्नयः समनसः ।
अन्तरा द्यावापृथिवी ।
वासन्तिकाव् ऋतू अभि कल्पमानाः ।
इन्द्रम् इव देवा अभि संविशन्तु ।
दिवस् त्वा वीर्येण ।
पृथिव्यै महिम्ना ।
VERSE: 19 { 1.2.1.19}
अन्तरिक्षस्य पोषेण ।
सर्वपशुम् आदधे ।
अजीजनन्न् अमृतं मर्त्यासः ।
अस्रेमाणं तरणिं वीडुजम्भम् ।
दश स्वसारो अग्रुवः समीचीः ।
पुमाꣳसं जातम् अभि सꣳरभन्ताम् ।
प्रजापतेस् त्वा प्राणेन_अभि प्राणिमि ।
पूष्णः पोषेण मह्यम् ।
दीर्घायुत्वाय शतशारदाय ।
शतꣳ शरद्भ्य आयुषे वर्चसे ।
VERSE: 20 { 1.2.1.20}
जीवात्वै पुण्याय ।
अहं त्वद् अस्मि मद् असि त्वम् एतत् ।
मम_असि योनिस् तव योनिर् अस्मि ।
ममैव सन् वह हव्यान्य् अग्ने ।
पुत्रः पित्रे लोककृज् जातवेदः ।
प्राणे त्वा_अमृतम् आदधामि ।
अन्नादम् अन्नाद्याय ।
गोप्तारं गुप्त्यै ।
सुगार्हपत्यो विदहन्न् अरातीः ।
उषसः श्रेयसीश्श्रेयसीर् दधत्
VERSE: 21 { 1.2.1.21}
अग्ने सपत्नाꣳ अप बाधमानः ।
रायस् पोषम् इषमूर्जम् अस्मासु धेहि ।
इमा उ माम् उप तिष्ठन्तु रायः ।
आभिः प्रजाभिर् इह सं वसेय ।
इहो इडा तिष्ठतु विश्वरूपी ।
मध्ये वसोर् दीदिहि जातवेदः ।
ओजसे बलाय त्वा_उद्यच्छे ।
वृषणे शुष्माय_आयुषे वर्चसे ।
सपत्नतूर् असि वृत्रतूः ।
यस् ते देवेषु महिमा सुवर्गः ।
VERSE: 22 { 1.2.1.22}
यस् त आत्मा पशुषु प्रविष्टः ।
पुष्टिर् या ते मनुष्येषु पप्रथे ।
तया {आनंदा. तया ।} नो अग्ने जुषमाण एहि ।
दिवः पृथिव्याः पर्य् अन्तरिक्षात् ।
वातात् पशुभ्यो अध्य् ओषधीभ्यः ।
यत्र_यत्र जातवेदः संबभूथ ।
ततो नो अग्ने जुषमाण एहि ।
प्राचीम् अनु प्रदिशं प्रेहि विद्वान् ।
अग्नेर् अग्ने पुरो अग्निर् भवेह ।
विश्वा आशा दीद्यानो वि भाहि ।
VERSE: 23 { 1.2.1.23}
ऊर्जं नो धेहि द्विपदे चतुष्पदे ।
अन्व् अग्निर् उषसाम् अग्रम् अख्यत् ।
अन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीन् ।
अनु द्यावापृथिवी आततान ।
विक्रमस्व महाꣳ असि ।
वेदिषन् मानुषेभ्यः ।
त्रिषु लोकेषु जागृहि ।
यद् इदं दिवो यद् अदः पृथिव्याः ।
संविदाने रोदसी संबभूवतुः ।
VERSE: 24 { 1.2.1.24}
तयोः पृष्ठे सीदतु जातवेदाः ।
शंभूः प्रजाभ्यस् तनुवे स्योनः ।
प्राणं त्वामृत आदधामि ।
अन्नादम् अन्नाद्याय ।
गोप्तारं गुप्त्यै ।
यत् ते शुक्र शुक्रं वर्चः शुक्रा तनूः ।
शुक्रं ज्योतिर् अजस्रम् ।
तेन मे दीदिहि तेन त्वादधे ।
अग्निनाग्ने ब्रह्मणा ।
आनशे व्यानशे सर्वम् आयुर् व्यानशे ।
VERSE: 25 { 1.2.1.25}
नर्य प्रजां मे गोपाय ।
अमृतत्वाय जीवसे ।
जातां जनिष्यमाणां च ।
अमृते सत्ये प्रतिष्ठिताम् ।
अथर्व पितुं मे गोपाय ।
रसम् अन्नम् इहायुषे ।
अदब्धायो ऽशीततनो ।
अविषं नः पितुं कृणु ।
शꣳस्य पशून् मे गोपाय ।
द्विपादो ये चतुष्पदः ।
VERSE: 26 { 1.2.1.26}
अष्टाशफाश् च य इहाग्ने ।
ये चैकशफा आशुगाः ।
सप्रथ सभां मे गोपाय ।
ये च सभ्याः सभासदः ।
तान् इन्द्रियावतः कुरु ।
सर्वमायुर् उपासताम् ।
अहे बुध्निय मन्त्रं मे गोपाय ।
यम् ऋषयस्त्रैविदा विदुः ।
ऋचः सामानि यजूꣳषि ।
सा हि श्रीर् अमृता सताम् ।
VERSE: 27 { 1.2.1.27}
चतुःशिखण्डा युवतिः सुपेशाः ।
घृतप्रतीका भुवनस्य मध्ये ।
मर्मृज्यमाना महते सौभगाय ।
मह्यं धुक्ष्व यजमानाय कामान् ।
इहैव सन् तत्र सतो वो अग्नयः ।
प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा सन्तम् आयुर् मा प्रहासीत् ।
ज्योतिषा वो वैश्वानरेणोपतिष्ठे ।
पञ्चधाग्नीन् व्यक्रामत् ।
विराट् सृष्टा प्रजापतेः ।
ऊर्ध्वाऽऽरोहद्रोहिणी ।
योनिर् अग्नेः प्रतिष्ठितिः ।
अनुवाक 2 गवामयनशेषः
VERSE: 1 { 1.2.2.1}
नवैतान्य् अहानि भवन्ति ।
नव वै सुवर्गा लोकाः ।
यद् एतान्य् अहान्य् उपयन्ति ।
नवस्व् एव तत् सुवर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तो यन्ति ।
अग्निष्टोमाः परःसामानः कार्या इत्य् आहुः ।
अग्निष्टोमसंमितः सुवर्गो लोक इति ।
द्वादशाग्निष्टोमस्य स्तोत्राणि ।
द्वादश मासाः संवत्सरः ।
तत् तन् न सूर्क्ष्यम् ।
उक्थ्या एव सप्तदशाः परःसामानः कार्याः ।
VERSE: 2 { 1.2.2.2}
पशवो वा उक्थानि ।
पशूनाम् अवरुध्यै ।
विश्वजिदभिजिताव् अग्निष्टोमौ ।
उक्थ्याः सप्तदशाः परःसामानः ।
ते सꣳस्तुता विराजम् अभि संपद्यन्ते ।
द्वे चर्चाव् अति रिच्येते ।
एकया गौर् अतिरिक्तः ।
एकयायुर् ऊनः ।
सुवर्गो वै लोको ज्योतिः ।
ऊर्ग् विराट् ।
VERSE: 3 { 1.2.2.3}
सुवर्गम् एव तेन लोकम् अभि जयन्ति ।
यत् परꣳ राथन्तरम् ।
तत् प्रथमे ऽहन् कार्यम् ।
बृहद् द्वितीये ।
वैरूपं तृतीये ।
वैराजं चतुर्थे ।
शाक्वरं पञ्चमे ।
रैवतꣳ षष्ठे ।
तद् उ पृष्ठेभ्यो नयन्ति ।
संतनय एते ग्रहा गृह्यन्ते ।
VERSE: 4 { 1.2.2.4}
अतिग्राह्याः परःसामसु ।
इमान् एवैतैर् लोकान् सं तन्वन्ति ।
मिथुना एते ग्रहा गृह्यन्ते ।
अतिग्राह्याः परःसामसु ।
मिथुनम् एव तैर् यजमाना अवरुन्धते ।
बृहत् पृष्ठं भवति ।
बृहद् वै सुवर्गो लोकः ।
बृहतैव सुवर्गं लोकं यन्ति ।
त्रयस्त्रिꣳशि नाम साम ।
मध्यन्दिने पवमाने भवति ।
VERSE: 5 { 1.2.2.5}
त्रयस्त्रिꣳशद् वै देवताः ।
देवता एवावरुन्धते ।
ये वा इतः पराञ्चꣳ संवत्सरम् उपयन्ति ।
न हैनं ते स्वस्ति समश्नुवते ।
अथ ये ऽमुतो ऽर्वाञ्चम् उप यन्ति ।
ते हैनꣳ स्वस्ति समश्नुवते ।
एतद् वा अमुतो ऽर्वाञ्चम् उप यन्ति ।
यद् एवम् ।
यो ह खलु वाव प्रजापतिः ।
स उ वेवेन्द्रः ।
तद् उ देवेभ्यो नयन्ति ।
अनुवाक 3 गवामयनशेषः
VERSE: 1 { 1.2.3.1}
संततिर् वा एते ग्रहाः ।
यत् परःसामानः ।
विषूवान् दिवाकीर्त्यम् ।
यथा शालायै पक्षसी ।
एवꣳ संवत्सरस्य पक्षसी ।
यद् एते न गृहेरन् ।
विषूची संवत्सरस्य पक्षसी व्यवस्रꣳसेयाताम् ।
आर्तिम् आर्छेयुः ।
यद् एते गृह्यन्ते ।
यथा शालायै पक्षसी मध्यमं वꣳशम् अभि समायच्छति ।
VERSE: 2 { 1.2.3.2}
एवꣳ संवत्सरस्य पक्षसी दिवाकीर्त्यम् अभि संतन्वन्ति ।
नार्तिम् आर्छन्ति ।
एकविꣳशम् अहर् भवति ।
शुक्राग्रा ग्रहा गृह्यन्ते ।
प्रत्युत्तब्ध्यै सयत्वाय ।
सौर्य एतद् अहः पशुर् आलभ्यते ।
सौर्यो ऽतिग्राह्यो गृह्यते ।
अहर् एव रूपेण समर्धयन्ति ।
अथो अह्न एवैष बलिर् ह्रियते ।
सप्तैतद् अहर् अतिग्राह्या गृह्यन्ते ।
VERSE: 3 { 1.2.3.3}
सप्त वै शीर्षण्याः प्राणाः ।
असाव् आदित्यः शिरः प्रजानाम् ।
शीर्षन्न् एव प्रजानां प्राणान् दधाति ।
तस्मात् सप्त शीर्षन् प्राणाः ।
इन्द्रो वृत्रꣳ हत्वा ।
असुरान् पराभाव्य ।
स इमाꣳल् लोकान् अभ्यजयत् ।
तस्यासौ लोको ऽनभिजित आसीत् ।
तं विश्वकर्मा भूत्वाभ्यजयत् ।
यद् वैश्वकर्मणो गृह्यते ।
VERSE: 4 { 1.2.3.4}
सुवर्गस्य लोकस्याभिजित्यै ।
प्र वा एते ऽस्माल् लोकाच् च्यवन्ते ।
ये वैश्वकर्मणं गृह्णते ।
आदित्यः श्वो गृह्यते ।
इयं वा अदितिः ।
अस्याम् एव प्रति तिष्ठन्ति ।
अन्योन्यो गृह्येते ।
विश्वान्य् एवान्येन कर्माणि कुर्वाणा यन्ति ।
अस्याम् अन्येन प्रति तिष्ठन्ति ।
ताव् आपरार्धात् संवत्सरस्यान्योन्यो गृह्येते ।
ताव् उभौ सह महाव्रते गृह्येते ।
यज्ञस्यैवान्तं गत्वा ।
उभयोर् लोकयोः प्रतितिष्ठन्ति ।
अर्क्यम् उक्थं भवति ।
अन्नाद्यस्यावरुद्ध्यै ।
अनुवाक 4 गवामयनशेषः
VERSE: 1 { 1.2.4.1}
एकविꣳश एष भवति ।
एतेन वै देवा एकविꣳशेन ।
आदित्यम् इत उत्तमꣳ सुवर्गं लोकम् आरोहयन्न् ।
स वा एष इत एकविꣳशः ।
तस्य दशावस्ताद् अहानि ।
दश परस्तात् ।
स वा एष विराज्य् उभयतः प्रतिष्ठितः ।
विराजि हि वा एष उभयतः प्रतिष्ठितः ।
तस्माद् अन्तरेमौ लोकौ यन् ।
सर्वेषु सुवर्गेषु लोकेष्व् अभितपन्न् एति ।
VERSE: 2 { 1.2.4.2}
देवा वा आदित्यस्य सुवर्गस्य लोकस्य ।
पराचो ऽतिपादाद् अबिभयुः ।
तं छन्दोभिर् अदृꣳहन् धृत्यै ।
देवा वा आदित्यस्य सुवर्गस्य लोकस्य ।
अवाचो ऽवपादाद् अबिभयुः ।
तं पञ्चभी रश्मिभिर् उदवयन्न् ।
तस्माद् एकविꣳशे ऽहन् पञ्च दिवाकीर्त्यानि क्रियन्ते ।
रश्मयो वै दिवाकीर्त्यानि ।
ये गायत्रे ।
ते गायत्रीषूत्तरयोः पवमानयोः ।
VERSE: 3 { 1.2.4.3}
महादिवाकीर्त्यꣳ होतुः पृष्ठम् ।
विकर्णं ब्रह्मसाम ।
भासो ऽग्निष्टोमः ।
अथैतानि पराणि ।
परैर् वै देवा आदित्यꣳ सुवर्गं लोकम् अपारयन्न् ।
यद् अपारयन्न् ।
तत् पराणां परत्वम् ।
पारयन्त्य् एनं पराणि ।
य एवं वेद ।
अथैतानि स्पराणि ।
स्परैर्वै देवा आदित्यꣳ सुवर्गं लोकम् अस्पारयन्न् ।
यद् अस्पारयन्न् ।
तत् स्पराणाꣳ स्परत्वम् ।
स्पारयन्त्य् एनꣳ स्पराणि ।
य एवं वेद ।
अनुवाक 5 गवामयनशेषः
VERSE: 1 { 1.2.5.1}
अप्रतिष्ठां वा एते गच्छन्ति ।
येषाꣳ संवत्सरे ऽनाप्ते ऽथ ।
एकादशिन्य् आप्यते ।
वैष्णवं वामनम् आलभन्ते ।
यज्ञो वै विष्णुः ।
यज्ञम् एवालभन्ते प्रतिष्ठित्यै ।
ऐन्द्राग्नम् आलभन्ते ।
इन्द्राग्नी वै देवानाम् अयातयामानौ ।
ये एव देवते अयातयाम्नी ।
ते एवालभन्ते ।
VERSE: 2 { 1.2.5.2}
वैश्वदेवम् आलभन्ते ।
देवता एवावरुन्धते ।
द्यावापृथिव्यां धेनुम् आलभन्ते ।
द्यावापृथिव्योर् एव प्रति तिष्ठन्ति ।
वायव्यं वत्सम् आलभन्ते ।
वायुर् एवैभ्यो यथायतनाद् देवता अवरुन्धे ।
आदित्याम् अविं वशाम् आलभन्ते ।
इयं वा अदितिः ।
अस्याम् एव प्रतितिष्ठन्ति ।
मैत्रावरुणीम् आलभन्ते ।
VERSE: 3 { 1.2.5.3}
मित्रेणैव यज्ञस्य स्विष्टꣳ शमयन्ति ।
वरुणेन दुरिष्टम् ।
प्राजापत्यं तूपरं महाव्रत आलभन्ते ।
प्राजापत्यो ऽतिग्राह्यो गृह्यते ।
अहर् एव रूपेण समर्धयन्ति ।
अथो अह्न एवैष बलिर् ह्रियते ।
आग्नेयम् आलभन्ते प्रति प्रज्ञात्यै ।
अजपेत्वान् वा एते पूर्वैर् मासैर् अवरुन्धते ।
यद् एते गव्याः पशव आलभ्यन्ते ।
उभयेषां पशूनाम् अवरुध्यै ।
{ 1.2.5.4}
यद् अतिरिक्ताम् एकादशिनीम् आलभेरन् ।
अप्रियं भ्रातृव्यम् अभ्यतिरिच्येत ।
यद् द्वौद्वौ पशू समस्येयुः ।
कनीय आयुः कुर्वीरन् ।
यद् एते ब्राह्मणवन्तः पशव आलभ्यन्ते ।
नाप्रियं भ्रातृव्यम् अभ्यतिरिच्यते ।
न कनीय आयुः कुर्वते ।
अनुवाक 6 गवामयनशेषः
VERSE: 1 { 1.2.6.1}
प्रजापतिः प्रजाः सृष्ट्वा वृत्तो ऽशयत् ।
तं देवा भूतानाꣳ रसं तेजः संभृत्य ।
तेनैनम् अभिषज्यन् ।
महान् अववर्तीति ।
तन् महाव्रतस्य महाव्रतत्वम् ।
महद् व्रतम् इति ।
तन् महाव्रतस्य महाव्रतत्वम् ।
महतो व्रतम् इति ।
तन् महाव्रतस्य महाव्रतत्वम् ।
पञ्चविꣳशः स्तोमो भवति ।
VERSE: 2 { 1.2.6.2}
चतुर्विꣳशत्यर्धमासः संवत्सरः ।
यद् वा एतस्मिन् संवत्सरे ऽधि प्राजायत ।
तद् अन्नं पञ्चविꣳशम् अभवत् ।
मध्यतः क्रियते ।
मध्यतो ह्य् अन्नम् अशितꣳ धिनोति ।
अथो मध्यत एव प्रजानामूर्ग् धीयते ।
अथ यद् वा इदम् अन्ततः क्रियते ।
तस्माद् उदन्ते प्रजाः समेधन्ते ।
अन्ततः क्रियते प्रजननायैव ।
त्रिवृच् छिरो भवति ।
VERSE: 3 { 1.2.6.3}
त्रेधा विहितꣳ हि शिरः ।
लोम च्छवीर् अस्थि ।
पराचा स्तुवन्ति ।
तस्मात् तत् सदृग् एव ।
न मेद्यतो ऽनु मेद्यति ।
न कृश्यतो ऽनु कृश्यति ।
पञ्चदशो ऽन्यः पक्षो भवति ।
सप्तदशो ऽन्यः ।
तस्माद् वयाꣳस्य् अन्यतरम् अर्धम् अभि पर्यावर्तन्ते ।
अन्यतरतो हि तद् गरीयः क्रियते ।
VERSE: 4 { 1.2.6.4}
पञ्चविꣳश आत्मा भवति ।
तस्मान् मध्यतः पशवो वरिष्ठाः ।
एकविꣳशं पुच्छम् ।
द्विपदासु स्तुवन्ति प्रतिष्ठित्यै ।
सर्वेण सह स्तुवन्ति ।
सर्वेण ह्य् आत्मनात्मन्वी ।
सहोत्पतन्ति ।
एकैकाम् उच्छिꣳषन्ति ।
आत्मन्न् ह्य् अङ्गानि बद्धानि ।
न वा एतेन सर्वः पुरुषः ।
VERSE: 5 { 1.2.6.5}
यद् इत_इतो लोमानि दतो नखान् ।
परिमादः क्रियन्ते ।
तान्य् एव तेन प्रत्युप्यन्ते ।
औदुम्बरस् तल्पो भवति ।
ऊर्ग् वा अन्नम् उदुम्बरः ।
ऊर्ज एवान्नाद्यस्यावरुद्ध्यै ।
यस्य तल्पसद्यम् अनभिजितꣳ स्यात् ।
स देवानाꣳ साम्यक्षे ।
तल्पसद्यम् अभिजयानीति तल्पम् आरुह्योद्गायेत् ।
तल्पसद्यम् एवाभिजयति ।
VERSE: 6 { 1.2.6.6}
यस्य तल्पसद्यम् अभिजितꣳ स्यात् ।
स देवानाꣳ साम्यक्षे ।
तल्पसद्यं मा पराजेषीति तल्पम् आरुह्योद्गायेत् ।
न तल्पसद्यं पराजयते ।
प्लेङ्खे शꣳसति ।
महो वै प्लेङ्खः ।
महस एवान्नाद्यस्यावरुद्ध्यै ।
देवासुराः संयत्ता आसन् ।
त आदित्ये व्यायच्छन्त ।
तं देवाः समजयन् ।
VERSE: 7 { 1.2.6.7}
ब्राह्मणश् च शूद्रश् च चर्मकर्ते व्यायच्छेते ।
दैव्यो वै वर्णो ब्राह्मणः ।
असुर्यः शूद्रः ।
इमे ऽरात्सुर् इमे सुभूतम् अक्रन्न् इत्य् अन्यतरो ब्रूयात् ।
इम उद्वासीकारिण इमे दुर्भूतम् अक्रन्न् इत्य् अन्यतरः ।
यद् एवैषाꣳ सुकृतं या राद्धिः ।
तद् अन्यतरो ऽभिश्रीणाति ।
यद् एवैषां दुष्कृतं या राद्धिः ।
तद् अन्यतरो ऽपहन्ति ।
ब्राह्मणः संजयति ।
अमुम् एवादित्यं भ्रातृव्यस्य संविन्दन्ते ।
प्रपाठक: 3 वाजपेयः
अनुवाक 1 वाजपेयः
VERSE: 1 { 1.3.1.1}
देवासुराः संयत्ता आसन् ।
ते देवा विजयम् उपयन्तः ।
अग्नीषोमयोस् तेजस्विनीस् तनूस् संन्यदधत ।
इदम् उ नो भविष्यति ।
यदि नो जेष्यन्तीति ।
तेनाग्नीषोमाव् अपाक्रामताम् ।
ते देवा विजित्य ।
अग्नीषोमाव् अन्वैच्छन् ।
ते ऽग्निम् अन्वविन्दन्न् ऋतुषूत्सन्नम् ।
तस्य विभक्तीभिस् तेजस्विनीस् तनूर् अवारुन्धत ।
VERSE: 2 { 1.3.1.2}
ते सोमम् अन्वविन्दन् ।
तम् अघ्नन् ।
तस्य यथाभिज्ञायं तनूर् व्यगृह्णत ।
ते ग्रहा अभवन् ।
तद् ग्रहाणां ग्रहत्वम् ।
यस्यैवं विदुषो ग्रहा गृह्यन्ते ।
तस्य त्व् एव गृहीताः ।
नानाग्नेयं पुनराधेये कुर्यात् ।
यद् अनाग्नेयं पुनराधेये कुर्यात् ।
व्यृद्धम् एव तत् {आनंदा. एव तत्} ।
VERSE: 3 { 1.3.1.3}
अनाग्नेयं वा एतत् क्रियते ।
यत् समिधस् तनून् अपातम् इडो बर्हिर् यजति ।
उभाव् आग्नेयाव् आज्यभागौ स्याताम् ।
अनाज्यभागौ भवत इत्य् आहुः ।
यद् उभाव् आग्नेयाव् अन्वञ्चाव् इति ।
अग्नये पवमानायोत्तरः स्यात् ।
यत् पवमानाय ।
तेनाज्यभागः ।
तेन सौम्यः ।
बुधन्वत्य् आग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति ।
VERSE: 4 { 1.3.1.4}
यथा सुप्तं बोधयति ।
तादृग् एव तत् ।
अग्निन्यक्ताः पत्नीसंयाजानाम् ऋचः स्युः ।
तेनाग्नेयꣳ सर्वं भवति ।
एकधा तेजस्विनीं देवतामुपैतीत्य् आहुः ।
सैनम् ईश्वरा प्रदह इति ।
नेति ब्रूयात् ।
प्रजननं वा अग्निः ।
प्रजननम् एवोपैतीति ।
कृतयजुः संभृतसंभार इत्य् आहुः ।
VERSE: 5 { 1.3.1.5}
न संभृत्याः संभाराः ।
न यजुः कार्यम् इति ।
अथो खलु ।
संभृत्या एव संभाराः ।
कार्यं यजुः ।
पुनराधेयस्य समृद्ध्यै ।
तेनोपाꣳशु प्रचरति ।
एष्य इव वा एषः ।
यत् पुनराधेयः ।
यथोपाꣳशु नष्टम् इच्छति ।
VERSE: 6 { 1.3.1.6}
तादृग् एव तत् ।
उच्चैः स्विष्टकृतम् उत्सृजति ।
यथा नष्टं वित्त्वा प्राहायम् इति ।
तादृग् एव तत् ।
एकधा तेजस्विनीं देवताम् उपैतीत्य् आहुः ।
सैनम् ईश्वरा प्रदह इति ।
तत् तथा नोपैति ।
प्रयाजानूयाजेष्व् एव विभक्तीः कुर्यात् ।
यथापूर्वम् आज्यभागौ स्याताम् ।
एवं पत्नीसंयाजाः ।
VERSE: 7 { 1.3.1.7}
तद् वैश्वानरवत् प्रजननवत्तरम् उपैतीति ।
तद् आहुः ।
व्यृद्धं वा एतत् ।
अनाग्नेयं वा एतत् क्रियत इति ।
नेति ब्रूयात् ।
अग्निं प्रथमं विभक्तीनां यजति ।
अग्निम् उत्तमं पत्नीसंयाजानाम् ।
तेनाग्नेयम् ।
तेन समृद्धं क्रियत इति ।
अनुवाक 2 वाजपेयः
VERSE: 1 { 1.3.2.1}
देवा वै यथादर्शं यज्ञान् आहरन्त ।
यो ऽग्निष्टोमम् ।
य उक्थ्यम् ।
यो ऽतिरात्रम् ।
ते सहैव सर्वे वाजपेयम् अपश्यन् ।
ते ।
अन्योन्यस्मै नातिष्ठन्त ।
अहम् अनेन यजा इति ।
ते ऽब्रुवन् ।
आजिम् अस्य धावामेति ।
VERSE: 2 { 1.3.2.2}
तस्मिन्न् आजिम् अधावन् ।
तं बृहस्पतिर् उदजयत् ।
तेनायजत ।
स स्वाराज्यम् अगच्छत् ।
तम् इन्द्रो ऽब्रवीत् ।
माम् अनेन याजयेति ।
तेनेन्द्रम् अयाजयत् ।
सो ऽग्रं देवतानां पर्यैत् ।
अगच्छत् स्वाराज्यम् ।
अतिष्ठन्तास्मै ज्यैष्ठ्याय ।
VERSE: 3 { 1.3.2.3}
य एवं विद्वान् वाजपेयेन यजते ।
गच्छति स्वाराज्यम् ।
अग्रꣳ समानानां पर्येति ।
तिष्ठन्ते ऽस्मै ज्यैष्ठ्याय ।
स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः ।
तं वा एतं वाजपेय इत्य् आहुः ।
वाजाप्यो वा एषः ।
वाजꣳ ह्य् एतेन देवा ऐप्सन्न् ।
सोमो वै वाजपेयः ।
यो वै सोमं वाजपेयं वेद ।
VERSE: 4 { 1.3.2.11}
वाज्य् एवैनं पीत्वा भवति ।
आॆस्य वाजी जायते ।
अन्नं वै वाजपेयः ।
य एवं वेद ।
अत्त्य् अन्नम् ।
आॆस्यान्नादो जायते ।
ब्रह्म वै वाजपेयः ।
य एवं वेद ।
अत्ति ब्रह्मणान्नम् ।
आॆस्य ब्रह्मा जायते ।
VERSE: 5 { 1.3.2.12}
वाग् वै वाजस्य प्रसवः ।
य एवं वेद ।
करोति वाचा वीर्यम् ।
ऐनं वाचा गच्छति ।
अपिवतीं वाचं वदति ।
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् ।
स आत्मन् वाजपेयम् अधत्त ।
तं देवा अब्रुवन् ।
एष वाव यज्ञः ।
यद् वाजपेयः ।
VERSE: 6 { 1.3.2.6}
अप्य् एव नो ऽत्र_अस्त्व् इति ।
तेभ्य एतान् उज्जितीः प्रायच्छत् ।
ता वा एता उज्जितयो व्याख्यायन्ते ।
यज्ञस्य सर्वत्वाय ।
देवतानाम् अनिर्भागाय ।
देवा वै ब्रह्मणश् चान्नस्य च शमलम् अपाघ्नन् ।
यद् ब्रह्मणः शमलम् आसीत् ।
सा गाथा नाराशꣳस्य् अभवत् ।
यद् अन्नस्य ।
सा सुरा ।
VERSE: 7 { 1.3.2.7}
तस्माद् गायतश् च मत्तस्य च न प्रतिगृह्यम् ।
यत्प्रतिगृह्णीयात् ।
शमलं प्रतिगृह्णीयात् ।
सर्वा वा एतस्य वाचो ऽवरुद्धाः ।
यो वाजपेययाजी ।
या पृथिव्यां याग्नौ या रथन्तरे ।
यान्तरिक्षे या वायौ या वामदेव्ये ।
या दिवि यादित्ये या बृहति ।
याॆप्सु यौषधीषु या वनस्पतिषु ।
तस्माद् वाजपेययाज्य् आर्त्विजीनः ।
सर्वा ह्य् अस्य वाचो ऽवरुद्धाः ।
अनुवाक 3 वाजपेयः
VERSE: 1 { 1.3.3.1}
देवा वै यद् अन्यैर् ग्रहैर् यज्ञस्य नावारुन्धत ।
तद् अतिग्राह्यैर् अतिग्राह्यावारुन्धत।
तद् अतिग्राह्याणाम् अतिग्राह्यत्वम् ।
यद् अतिग्राह्या गृह्यन्ते ।
यद् एवान्यैर् ग्रहैर् यज्ञस्य नावरुन्धे ।
तद् एव तैर् अतिगृह्यावरुन्धे ।
पञ्च गृह्यन्ते ।
पाङ्क्तो यज्ञः ।
यावान् एव यज्ञः ।
तम् आप्त्वावरुन्धे ।
VERSE: 2 { 1.3.3.2}
सर्व ऐन्द्रा भवन्ति ।
एकधैव यजमान इन्द्रियं दधति ।
सप्तदश प्राजापत्या ग्रहा गृह्यन्ते ।
सप्तदशः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
एकयर्चा गृह्णाति ।
एकधैव यजमाने वीर्यं दधाति ।
सोमग्रहाꣳश् च सुराग्रहाꣳश् च गृह्णाति ।
एतद् वै देवानां परमम् अन्नम् ।
यत् सोमः ।
VERSE: 3 { 1.3.3.3}
एतन् मनुष्याणाम् ।
यत् सुरा ।
परमेणैवास्मा अन्नाद्येनावरम् अन्नाद्यम् अवरुन्धे ।
सोमग्रहान् गृह्णाति ।
ब्रह्मणो वा एतत् तेजः ।
यत् सोमः ।
ब्रह्मण एव तेजसा तेजो यजमाने दधाति ।
सुराग्रहान् गृह्णाति ।
अन्नस्य वा एतच् छमलम् ।
यत् सुरा ।
VERSE: 4 { 1.3.3.4}
अन्नस्यैव शमलेन शमलं यजमानाद् अपहन्ति ।
सोमग्रहाꣳश् च सुराग्रहाꣳश् च गृह्णाति ।
पुमान् वै सोमः ।
स्त्री सुरा ।
तन् मिथुनम् ।
मिथुनम् एवास्य तद् यज्ञे करोति प्रजननाय ।
आत्मानम् एव सोमग्रहैः स्पृणोति ।
जायाꣳ सुराग्रहैः ।
तस्माद् वाजपेययाज्य् अमुष्मिꣳल् लोके स्त्रियꣳ संभवति ।
वाजपेयाभिजितꣳ ह्य् अस्य ।
VERSE: 5 { 1.3.3.5}
पूर्वे सोमग्रहा गृह्यन्ते ।
अपरे सुराग्रहाः ।
पुरोक्षꣳ सोमग्रहान् सादयति ।
पश्चादक्षꣳ सुराग्रहान् ।
पापवस्यसस्य विधृत्यै ।
एष वै यजमानः ।
यत् सोमः ।
अन्नꣳ सुरा ।
सोमग्रहाꣳश् च सुराग्रहाꣳश् च व्यतिषजति ।
अन्नाद्येनैवैनं व्यतिषजति ।
VERSE: 6 { 1.3.3.6}
संपृचः स्थ सं मा भद्रेण पृङ्क्तेत्य् आह ।
अन्नं वै भद्रम् ।
अन्नाद्येनैवैनꣳ सꣳसृजति ।
अन्नस्य वा एतच् छमलम् ।
यत् सुरा ।
पाप्मेव खलु वै शमलम् ।
पाप्मना वा एतम् एतच्छमलेन व्यतिषजति ।
यत् सोमग्रहाꣳश् च सुराग्रहाꣳश् च व्यतिषजति ।
विपृचः स्थ वि मा पाप्मना पृङ्क्तेत्य् आह ।
पाप्मनैवैनꣳ शमलेन व्यावर्तयति ।
VERSE: 7 { 1.3.3.7}
तस्माद् वाजपेययाजी पूतो मेध्यो दक्षिण्यः ।
प्राङ् द्रवति सोमग्रहैः ।
अमुम् एव तैर् लोकम् अभिजयति ।
प्रत्यङ् सुराग्रहैः ।
इमम् एव तैर् लोकम् अभिजयति ।
प्रतिष्ठन्ति सोमग्रहैः ।
यावद् एव सत्यम् ।
तेन सूयते ।
वाजसृद्भ्यः सुराग्रहान् हरन्ति ।
अनृतेनैव विशꣳ सꣳसृजति ।
हिरण्यपात्रं मधोः पूर्णं ददाति ।
मधव्यो ऽसानीति ।
एकधा ब्रह्मण उपहरति ।
एकधैव यजमान आयुस् तेजो दधाति ।
अनुवाक 4 वाजपेयः
VERSE: 1 { 1.3.4.1}
ब्रह्मवादिनो वदन्ति ।
न_अग्निष्टोमो न_उक्थ्यः ।
न षोडशी न_अतिरात्रः ।
अथ कस्माद् वाजपेये सर्वे यज्ञक्रतवो ऽवरुध्यन्त इति ।
पशुभिर् इति ब्रूयात् ।
आग्नेयं पशुम् आलभते ।
अग्निष्टोमम् एव तेन_अवरुन्धे ।
ऐन्द्राग्नेन_उक्थ्यम् ।
ऐन्द्रेण षोडशिनः स्तोत्रम् ।
सारस्वत्या_अतिरात्रम् ।
VERSE: 2 { 1.3.4.2}
मारुत्या बृहतः स्तोत्रम् ।
एतावन्तो वै यज्ञक्रतवः ।
तान् पशुभिर् एव_अवरुन्धे ।
आत्मानम् एव स्पृणोत्य् अग्निष्टोमेन ।
प्राणापानाव् उक्थ्येन ।
वीर्यꣳ षोडशिनः स्तोत्रेण ।
वाचम् अतिरात्रेण ।
प्रजां बृहतः स्तोत्रेण ।
इमम् एव लोकम् अभिजयत्य् अग्निष्टोमेन ।
अन्तरिक्षम् उक्थ्येन ।
VERSE: 3 { 1.3.4.3}
सुवर्गं लोकꣳ षोडशिनः स्तोत्रेण ।
देवयानान् एव पथ आरोहत्य् अतिरात्रेण ।
नाकꣳ रोहति बृहतः स्तोत्रेण ।
तेज एवात्मन् धत्त आग्नेयेन पशुना ।
ओजो बलम् ऐन्द्राग्नेन ।
इन्द्रियम् ऐन्द्रेण ।
वाचꣳ सारस्वत्या ।
उभाव् एव देवलोकं च मनुष्यलोकं च_अभिजयति मारुत्या वशया ।
सप्तदश प्राजापत्यान् पशून् आलभते ।
सप्तदशः प्रजापतिः ।
VERSE: 4 { 1.3.4.4}
प्रजापतेर् आप्त्यै ।
श्यामा एकरूपा भवन्ति ।
एवम् इव हि प्रजापतिः समृद्ध्यै ।
तान् पर्यग्निकृतान् उत्सृजति ।
मरुतो यज्ञम् अजिघाꣳसन् प्रजापतेः ।
तेभ्य एतां मारुतीं वशाम् आलभत ।
तयैवैनान् अशमयत् ।
मारुत्या प्रचर्य ।
एतान् संज्ञपयेत् ।
मरुत एव शमयित्वा ।
VERSE: 5 { 1.3.4.5}
एतैः प्रचरति ।
यज्ञस्य_अघाताय ।
एकधा वपा जुहोति ।
एकदेवत्या हि ।
एते ।
अथो एकधैव यजमाने वीर्यं दधाति ।
नैवारेण सप्तदशशरावेणैतर्हि प्रचरति ।
एतत् पुरोडाशा ह्य् एते ।
अथो पशूनाम् एव च्छिद्रम् अपिदधाति ।
सारस्वत्या_उत्तमया प्रचरति ।
वाग् वै सरस्वती ।
तस्मात् प्राणानां वाग् उत्तमा ।
अथो प्रजापताव् एव यज्ञं प्रतिष्ठापयति ।
प्रजापतिर् हि वाक् ।
अपन्नदती भवति ।
तस्मान् मनुष्याः सर्वां वाचं वदन्ति ।
अनुवाक 5 वाजपेयः
VERSE: 1 { 1.3.5.1}
सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात् ।
कस् तद् वेद_इत्य् आहुः ।
यद् वाजपेयस्य पूर्वं यद् अपरम् इति ।
सवितृप्रसूत एव यथापूर्वं कर्माणि करोति ।
सवने_सवने जुहोति ।
आक्रमणम् एव तत् सेतुं यजमानः कुरुते ।
सुवर्गस्य लोकस्य समष्ट्यै ।
वाचस्पतिर् वाचम् अद्य स्वदाति न इत्य् आह ।
वाग् वै देवानां पुरान्नम् आसीत् ।
वाचम् एवास्मा अन्नꣳ स्वदयति ।
VERSE: 2 { 1.3.5.2}
इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति रथम् उपावहरति विजित्यै ।
वाजस्य नु प्रसवे मातरं महीम् इत्य् आह ।
यच् चैव_इयम् ।
यच् च_अस्याम् अधि ।
तदेव_अवरुन्धे ।
अथो तस्मिन्न् एव_उभये ऽभिषिच्यते ।
अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् इत्य् अश्वान् पल्पूलयति ।
अप्सु वा अश्वस्य तृतीयं प्रविष्टम् ।
तद् अनुवेनन् _ अवप्लवते ।
यद् अप्सु पल्पूलयति ।
VERSE: 3 { 1.3.5.3}
यद् एवास्य_अप्सु प्रविष्टम् ।
तद् एव_अवरुन्धे ।
बहु वा अश्वो ऽमेध्यम् उपगच्छति ।
यद् अप्सु पल्पूलयति ।
मेध्यान् एवैनान् करोति ।
वायुर् वा त्वा मनुर् वा त्वा_इत्य् आह ।
एता वा एतं देवता अग्रे अश्वम् अयुञ्जन् ।
ताभिर् एवैनान् युनक्ति ।
सवस्य_उज्जित्यै ।
यजुषा युनक्ति व्यावृत्त्यै ।
VERSE: 4 { 1.3.5.4}
अपांनपाद् आशुहेमन्न् इति संमार्ष्टि ।
मेध्यान् एवैनान् करोति ।
अथो स्तौत्य् एवैनान् आजिꣳ सरिष्यतः ।
विष्णुक्रमान् क्रमते ।
विष्णुर् एव भूत्वेमान् लोकान् अभिजयति ।
वैश्वदेवो वै रथः ।
अङ्कौ न्यङ्काव् अभितो रथं याव् इत्य् आह ।
या एव देवता रथे प्रविष्टाः ।
ताभ्य एव नमस्करोति ।
आत्मनो ऽनार्त्यै ।
अशमरथंभावुको ऽस्य रथो भवति ।
य एवं वेद ।
अनुवाक 6 वाजपेयः
VERSE: 1 { 1.3.6.1}
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् इत्य् आह ।
सवितृप्रसूत एव ब्रह्मणा वाजम् उज्जयति ।
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयम् इत्य् आह ।
सवितृप्रसूत एव ब्रह्मणा वर्षिष्ठं नाकꣳ रोहति ।
चात्वाले रथचक्रं निमितꣳ रोहति ।
अतो वा अङ्गिरस उत्तमाः सुवर्गं लोकम् आयन् ।
साक्षाद् एव यजमानः सुवर्गं लोकम् एति ।
आवेष्टयति ।
वज्रो वै रथः ।
वज्रेणैव दिशो ऽभिजयति ।
VERSE: 2 { 1.3.6.2}
वाजिनाꣳ साम गायते ।
अन्नं वै वाजः ।
अन्नम् एव_अवरुन्धे ।
वाचो वर्ष्म देवेभ्यो ऽपाक्रामत् ।
तद् वनस्पतीन् प्राविशत् ।
सैषा वाग् वनस्पतिषु वदति ।
या दुन्दुभौ ।
तस्माद् दुन्दुभिः सर्वा वाचो ऽतिवदति ।
दुन्दुभीन् समाघ्नन्ति ।
परमा वा एषा वाक् ।
VERSE: 3 { 1.3.6.3}
या दुन्दुभौ ।
परमयैव वाचा_अवरां वाचम् अवरुन्धे ।
अथो वाच एव वर्ष्म यजमानो ऽवरुन्धे ।
इन्द्राय वाचं वदत_इन्द्रं वाजं जापयत_इन्द्रो वाजम् अजयिद् इत्य् आह ।
एष वा एतर्हि_इन्द्रः ।
यो यजते ।
यजमान एव वाजम् उज्जयति ।
सप्तदश प्रव्याधान् आजिं धावन्ति ।
सप्तदशꣳ स्तोत्रं भवति ।
सप्तदश_सप्तदश दीयन्ते ।
VERSE: 4 { 1.3.6.4}
सप्तदशः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
अर्वा_असि सप्तिर् असि वाज्यसीत्य् आह ।
अग्निर् वा अर्वा ।
वायुः सप्तिः ।
आदित्यो वाजी ।
एताभिर् एवास्मै देवताभिर् देवरथं युनक्ति ।
प्रष्टिवाहिनं युनक्ति ।
प्रष्टिवाही वै देवरथः ।
देवरथम् एवास्मै युनक्ति ।
VERSE: 5 { 1.3.6.5}
वाजिनो वाजं धावत काष्ठा गच्छतेत्य् आह ।
सुवर्गो वै लोकः काष्ठा ।
सुवर्गम् एव लोकं यन्ति ।
सुवर्गं वा एते लोकं यन्ति ।
य आजिं धावन्ति ।
प्राञ्चो धावन्ति ।
प्राङ् इव हि सुवर्गो लोकः ।
चतसृभिर् अनुमन्त्रयते ।
चत्वारि च्छन्दाꣳसि ।
छन्दोभिर् एवैना(नान्) सुवर्गं लोकं गमयति ।
VERSE: 6 { 1.3.6.6}
प्र वा एते ऽस्माल् लोकाच् च्यवते (च्यवन्ते) ।
य आजिं धावन्ति ।
उदञ्च आवर्तन्ते ।
अस्माद् एव तेन लोकान् नयन्ति ।
रथविमोचनीयं जुहोति प्रतिष्ठित्यै ।
आ मा वाजस्य प्रसवो जगम्याद् इत्य् आह ।
अन्नं वै वाजः ।
अन्नम् एव_अवरुन्धे ।
यथालोकं वा एत उज्जयन्ति ।
य आजिं धावन्ति ।
VERSE: 7 { 1.3.6.7}
कृष्णलं_कृष्णलं वाजसृद्भ्यः प्रयच्छति ।
यम् एव ते वाजं लोकम् उज्जयन्ति ।
तं परिक्रीय_अवरुन्धे ।
एकधा ब्रह्मण उपहरति ।
एकधैव यजमाने वीर्यं दधाति ।
देवा वा ओषधीष्व् आजिम् अयुः ।
ता बृहस्पतिर् उदजयत् ।
स नीवारान् निरवृणीत ।
तन् नीवाराणां नीवारत्वम् ।
नैवारश् चरुर् भवति ।
VERSE: 8 { 1.3.6.8}
एतद् वै देवानां परमम् अन्नम् ।
यन् नीवाराः ।
परमेणैवास्मा अन्नाद्येन_अवरम् अन्नाद्यम् अवरुन्धे ।
सप्तदशशरावो भवति ।
सप्तदशः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
क्षीरे भवति ।
रुचम् एवास्मिन् दधाति ।
सर्पिष्वान् भवति मेध्यत्वाय ।
बार्हस्पत्यो वा एष देवतया ।
VERSE: 9 { 1.3.6.9}
यो वाजपेयेन यजते ।
बार्हस्पत्य एष चरुः ।
अश्वान् सरिष्यतः सस्रुषश् च_अवघ्रापयति ।
यम् एव ते वाजं लोकम् उज्जयन्ति ।
तम् एव_अवरुन्धे ।
अजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वम् इति दुन्दुभीन् विमुञ्चति ।
यम् एव ते वाजं लोकम् इन्द्रियं दुन्दुभय उज्जयन्ति ।
तम् एव_अवरुन्धे ।
अनुवाक 7 वाजपेयः
VERSE: 1 { 1.3.7.1}
तार्प्यं यजमानं परिधापयति ।
यज्ञो वै तार्प्यम् ।
यज्ञेनैवैनꣳ समर्धयति ।
दर्भमयं परिधापयति ।
पवित्रं वै दर्भाः ।
पुनात्य् एवैनम् ।
वाजं वा एषो ऽवरुरुत्सते ।
यो वाजपेयेन यजते ।
ओषधयः खलु वै वाजः ।
यद् दर्भमयं परिधापयति ।
VERSE: 2 { 1.3.7.2}
वाजस्य_अवरुद्ध्यै ।
जाय एहि सुवो रोहाव_इत्य् आह ।
पत्निया एवैष यज्ञस्य_अन्वारम्भो ऽनवच्छित्यै ।
सप्तदशारत्निर् यूपो भवति ।
सप्तदशः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
तूपरश् चतुरश्रिर् भवति ।
गौधूमं चषालम् ।
न वा एते व्रीहयो न यवाः ।
यद् गोधूमाः ।
VERSE: 3 { 1.3.7.3}
एवम् इव हि प्रजापतिः समृद्ध्यै ।
अथो अमुम् एवास्मै लोकम् अन्नवन्तं करोति ।
वासोभिर् वेष्टयति ।
एष वै यजमानः ।
यद् यूपः ।
सर्वदेवत्यं वासः ।
सर्वाभिर् एवैनं देवताभिः समर्धयति ।
अथो आक्रमणम् एव तत् सेतुं यजमानः कुरुते ।
सुवर्गस्य लोकस्य समष्ट्यै ।
द्वादश वाजप्रसवीयानि जुहोति ।
VERSE: 4 { 1.3.7.4}
द्वादश मासाः संवत्सरः ।
संवत्सरम् एव प्रीणाति ।
अथो संवत्सरम् एवास्मा उपदधाति ।
सुवर्गस्य लोकस्य समष्ट्यै ।
दशभिः कल्पै रोहति ।
नव वै पुरुषे प्राणाः ।
नाभिर् दशमी ।
प्राणान् एव यथास्थानं कल्पयित्वा ।
सुवर्गं लोकम् एति ।
एतावद् वै पुरुषस्य स्वम् ।
VERSE: 5 { 1.3.7.5}
यावत् प्राणाः ।
यावद् एवास्य_अस्ति ।
तेन सह सुवर्गं लोकम् एति ।
सुवर् देवाꣳ अगन्म_इत्य् आह ।
सुवर्गम् एव लोकम् एति ।
अमृता अभूम_इत्य् आह ।
अमृतम् इव हि सुवर्गो लोकः ।
प्रजापतेः प्रजा अभूम_इत्य् आह ।
प्राजापत्यो वा अयं लोकः ।
अस्माद् एव तेन लोकान् न_एति ।
VERSE: 6 { 1.3.7.6}
सम् अहं प्रजया सं मया प्रजा_इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
आसपुटैर् घ्नन्ति ।
अन्नं वा इयम् ।
अन्नाद्येनैवैनꣳ समर्धयन्ति ।
ऊषैर् घ्नन्ति ।
एते हि साक्षाद् अन्नम् ।
यद् ऊषाः ।
साक्षाद् एवैनम् अन्नाद्येन समर्धयन्ति ।
पुरस्तात् प्रत्यञ्चं घ्नन्ति ।
VERSE: 7 { 1.3.7.7}
पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते ।
शीर्षतो घ्नन्ति ।
शीर्षतो ह्य् अन्नम् अद्यते ।
दिग्भ्यो घ्नन्ति ।
दिग्भ्य एवास्मा अन्नाद्यम् अवरुन्धते ।
ईश्वरो वा एष पराङ् प्रदघः ।
यो यूपꣳ रोहति ।
हिरण्यम् अध्य् अवरोहति ।
अमृतं वै हिरण्यम् ।
अमृतꣳ सुवर्गो लोकः ।
{ 1.3.7.7}
अमृत एव सुवर्गे लोके प्रतितिष्ठति ।
शतमानं भवति ।
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
पुष्ट्यै वा एतद् रूपम् ।
यद् अजा ।
त्रिः संवत्सरस्यान्यान् पशून् परि प्रजायते ।
बस्ताजिनम् अध्य् अवरोहति ।
पुष्ट्याम् एव प्रजनने प्रतितिष्ठति ।
अनुवाक 8 वाजपेयः
VERSE: 1 { 1.3.8.1}
सप्तान्नहोमाञ् जुहोति ।
सप्त वा अन्नानि ।
यावन्त्य् एव_अन्नानि ।
तान्य् एव_अवरुन्धे ।
सप्त ग्राम्या ओषधयः ।
सप्त_अरण्याः ।
उभयीषाम् अवरुद्ध्यै ।
अन्नस्य_अन्नस्य जुहोति ।
अन्नस्य_अन्नस्य_अवरुद्ध्यै ।
यद् वाजपेययाज्य् अनवरुद्धस्य_अश्नीयात् ।
VERSE: 2 { 1.3.8.2}
अवरुद्धेन व्यृध्येत ।
सर्वस्य समवदाय जुहोति ।
अनवरुद्धस्य_अवरुद्ध्यै ।
औदुम्बरेण स्रुवेण जुहोति ।
ऊर्ग् वा अन्नम् उदुम्बरः ।
ऊर्ज एव_अन्नाद्यस्य_अवरुद्ध्यै ।
देवस्य त्वा सवितुः प्रसव इत्य् आह ।
सवितृप्रसूत {सवितृप्रसव} एवैनं ब्रह्मणा देवताभिर् अभिषिञ्चति ।
अन्नस्यान्नस्याभिषिञ्चति ।
0 अन्नस्य_अन्नस्यावरुद्ध्यै ।
VERSE: 3 { 1.3.8.3}
पुरस्तात् प्रत्यञ्चम् अभिषिञ्चति ।
पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते ।
शीर्षतो ऽभिषिञ्चति ।
शीर्षतो ह्य् अन्नम् अद्यते ।
आ मुखाद् अन्व् अवस्रावयति ।
मुखत एवास्मा अन्नाद्यं दधाति ।
अग्नेस् त्वा साम्राज्येन_अभिषिञ्चामि_इत्य् आह ।
एष वा अग्नेः सवः ।
तेनैवैनम् अभिषिञ्चति ।
इन्द्रस्य त्वा साम्राज्येन_अभिषिञ्चामि_इत्य् आह ।
VERSE: 4 { 1.3.8.4}
इन्द्रियम् एवास्मिन्न् एतेन दधाति ।
बृहस्पतेस् त्वा साम्राज्येन_अभिषिञ्चामि_इत्य् आह ।
ब्रह्म वै देवानां बृहस्पतिः ।
ब्रह्मणा_एवैनम् अभिषिञ्चति ।
सोमग्रहाꣳश् च_अवदानीयानि च_ऋत्विग्भ्य उप हरन्ति ।
अमुम् एव तैर् लोकम् अन्नवन्तं करोति ।
सुराग्रहाꣳश् च_अनवदानीयानि च वाजसृद्भ्यः ।
इमम् एव तैर् लोकम् अन्नवन्तं करोति ।
अथो उभयीष्व् एव_अभिषिच्यते ।
विमाथं कुर्वते वाजसृतः ।
VERSE: 5 { 1.3.8.52}
इन्द्रियस्य_अवरुद्ध्यै ।
अनिरुक्ताभिः प्रातःसवने स्तुवते ।
अनिरुक्तः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
वाजवतीभिर् माध्यन्दिने ।
अन्नं वै वाजः ।
अन्नम् एव_अवरुन्धे ।
शिपिविष्टवतीभिस् तृतीयसवने ।
यज्ञो वै विष्णुः ।
पशवः शिपिः ।
यज्ञ एव पशुषु प्रतितिष्ठति ।
बृहद् अन्त्यं भवति ।
अन्तम् एवैनꣳ श्रियै गमयति ।
अनुवाक 9 वाजपेयः
VERSE: 1 { 1.3.9.1}
नृषदं त्वा_इत्य् आह ।
प्रजा वै नॄन् ।
प्रजानाम् एवैतेन सूयते । द्रुषदम् इत्य् आह ।
वनस्पतयो वै द्रु ।
वनस्पतीनाम् एवैतेन सूयते ।
भुवनसदम् इत्य् आह ।
यदा वै वसीयान् भवति ।
भुवनम् अगन्न् इति वै तम् आहुः ।
भुवनम् एवैतेन गच्छति ।
VERSE: 2 { 1.3.9.2}
अप्सुषदं त्वा घृतसदम् इत्य् आह ।
अपाम् एवैतेन घृतस्य सूयते ।
व्योमसदम् इत्य् आह ।
यदा वै वसीयान् भवति ।
व्योमागन्न् इति वै तम् आहुः ।
व्योमैवैतेन गच्छति ।
पृथिविषदं त्वा_अन्तरिक्षसदम् इत्य् आह ।
एषाम् एवैतेन लोकानाꣳ सूयते ।
तस्माद् वाजपेययाजी न कं चन प्रत्यवरोहति ।
अपीव हि देवतानाꣳ सूयते ।
{ 1.3.9.2}
नाकसदम् इत्य् आह ।
यदा वै वसीयान् भवति ।
नाकम् अगन्न् इति वैतम् आहुः ।
नाकम् एवैतेन गच्छति ।
ये ग्रहाः पञ्चजनीना इत्य् आह ।
पञ्चजनानाम् एवैतेन सूयते ।
अपाꣳ रसम् उद् वयसम् इत्य् आह ।
अपाम् एवैतेन रसस्य सूयते ।
सूर्यरश्मिꣳ समाभृतम् इत्य् आह सशुक्रत्वाय ।
अनुवाक 10 वाजपेयः
VERSE: 1 { 1.3.10.1}
इन्द्रो वृत्रꣳ हत्वा ।
असुरान् पराभाव्य ।
सो ऽमावास्यां प्रत्य् आगच्छत् ।
ते पितरः पूर्वेद्युर् आगच्छन् ।
पितॄन् यज्ञो ऽगच्छत् ।
तं देवाः पुनर् अयाचन्त ।
तम् एभ्यो न पुनर् अददुः ।
ते ऽब्रुवन् वरं वृणामहै ।
अथ वः पुनर् दास्यामः ।
अस्मभ्यम् एव पूर्वेद्युः क्रियाता इति ।
VERSE: 2 { 1.3.10.2}
तम् एभ्यः पुनर् अददुः ।
तस्मात् पितृभ्यः पूर्वेद्युः क्रियते ।
यत् पितृभ्यः पूर्वेद्युः करोति ।
पितृभ्य एव तद् यज्ञं निष्क्रीय यजमानः प्रतनुते ।
सोमाय पितृपीताय स्वधा नम इत्य् आह ।
पितुर् एव_अधि सोमपीथम् अवरुन्धे ।
न हि पिता प्रमीयमाण आहैष सोमपीथ इति ।
इन्द्रियं वै सोमपीथः ।
इन्द्रियम् एव सोमपीथम् अवरुन्धे ।
तेन_इन्द्रियेण द्वितीयां जायाम् अभ्यश्नुते ।
VERSE: 3 { 1.3.10.3}
एतद् वै ब्राह्मणं पुरा वाजश्रवसा विदाम् अक्रन्न् ।
तस्मात् ते द्वे_द्वे जाये अभ्याक्षत ।
य एवं वेद ।
अभि द्वितीयां जायाम् अश्नुते ।
अग्नये कव्यवाहनाय स्वधा नम इत्य् आह ।
य एव पितॄणाम् अग्निः ।
तं प्रीणाति ।
तिस्र आहुतीर् जुहोति ।
त्रिर् निदधाति ।
षट् संपद्यन्ते ।
VERSE: 4 { 1.3.10.4}
षड् वा ऋतवः ।
ऋतून् एव प्रीणाति ।
तूष्णीं मेक्षणम् आदधाति ।
अस्ति वा हि षष्ठ ऋतुर् न वा ।
देवान् वै पितॄन् प्रीतान् ।
मनुष्याः पितरो ऽनु प्रपिपते ।
तिस्र आहुतीर् जुहोति त्रिर् निदधाति ।
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
VERSE: 5 { 1.3.10.5}
ऋतवः खलु वै देवाः पितरः ।
ऋतून् एव देवान् पितॄन् प्रीणाति ।
तान् प्रीतान् ।
मनुष्याः पितरो ऽनु प्रपिपते ।
सकृदाच्छिन्नं बर्हिर् भवति ।
सकृद् इव हि पितरः ।
त्रिर् निदधाति ।
तृतीये वा इतो लोके पितरः ।
तान् एव प्रीणाति ।
पराङ् आवर्तते ।
VERSE: 6 { 1.3.10.61}
ह्लीका हि पितरः ।
आ_उष्मणो व्यावृत उपास्ते ।
ऊष्मभागा हि पितरः ।
ब्रह्मवादिनो वदन्ति ।
प्राश्या3ं न प्राश्या3म् इति ।
यत् प्राश्नीयात् ।
जन्यम् अन्नम् अद्यात् ।
प्रमायुकः स्यात् ।
यन् न प्राश्नीयात् ।
अहवि स्यात् ।
VERSE: 7 { 1.3.10.7}
पितृभ्य आवृश्च्येत ।
अवघ्रेयम् एव ।
तन् न_इव प्राशितं न_इव_अप्राशितम् ।
वीरं वा वै पितरः प्रयन्तो हरन्ति ।
वीरं वा ददति ।
दशां च्छिनत्ति ।
हरणभागा हि पितरः ।
पितॄन् एव निरवदयते ।
उत्तर आयुषि लोम छिन्दीत ।
पितॄणाꣳ ह्य् एतर्हि नेदीयः ।
VERSE: 8 { 1.3.10.8}
नमस्करोति ।
नमस्कारो हि पितॄणाम् ।
नमो वः पितरो रसाय ।
नमो वः पितरः शुष्माय ।
नमो वः पितरो जीवाय ।
नमो वः पितरः स्वधायै ।
नमो वः पितरो मन्यवे ।
नमो वः पितरो घोराय ।
पितरो नमो वः ।
य एतस्मिन् लोके स्थ ।
VERSE: 9 { 1.3.10.9}
युष्माꣳस् ते ऽनु ।
ये ऽस्मिन् लोके ।
मां ते ऽनु ।
य एतस्मिꣳल् लोके स्थ ।
यूयं तेषां वसिष्ठा भूयास्त ।
ये ऽस्मिꣳल् लोके ।
अहं तेषां वसिष्ठो भूयासम् इत्य् आह ।
वसिष्ठः समानानां भवति ।
य एवं विद्वान् पितृभ्यः करोति ।
एष वै मनुष्याणां यज्ञः ।
VERSE: 10 { 1.3.10.10}
देवानां वा इतरे यज्ञाः ।
तेन वा एतत् पितृलोके चरति ।
यः पितृभ्यः करोति ।
स ईश्वरः प्रमेतोः ।
प्राजापत्यया_ऋचा पुनर् ऐति ।
यज्ञो वै प्रजापतिः ।
यज्ञेनैव सह पुनर् ऐति ।
न प्रमायुको भवति ।
पितृलोके वा एतद् यजमानश् चरति ।
यत् पितृभ्यः करोति ।
स ईश्वर आर्तिम् आर्तोः ।
प्रजापतिस् त्वा वैनं तत उन्नेतुम् अर्हति_इत्य् आहुः ।
यत् प्राजापत्यया_ऋचा {प्राजापत्ययर्चा} पुनर् ऐति ।
प्रजापतिर् एवैनं तत उन्नयति ।
न_आर्तिम् आर्छति यजमानः ।
प्रपाठक: 4
अनुवाक 1 ग्रहाः
VERSE: 1 { 1.4.1.1}
उभये वा एते प्रजापतेर् अध्यसृज्यन्त ।
देवाश् च_असुराश् च ।
तान् न व्यजानात् ।
इमे ऽन्य इमे ऽन्य इति ।
स देवानꣳशून् अकरोत् ।
तान् अभ्यषुणोत् ।
तान् पवित्रेण_अपुनात् ।
तान् परस्तात् पवित्रस्य व्यगृह्णात् ।
ते ग्रहा अभवन् ।
तद् ग्रहाणां ग्रहत्वम् ।
VERSE: 2 { 1.4.1.2}
देवता वा एता यजमानस्य गृहे गृह्यन्ते ।
यद् ग्रहाः ।
विदुर् एनं देवाः ।
यस्यैवं विदुष एते ग्रहा गृह्यन्ते ।
एषा वै सोमस्य_आहुतिः ।
यद् उपाꣳशुः ।
सोमेन देवाꣳस् तर्पयाणि_इति खलु वै सोमेन यजते ।
यद् उपाꣳशुं जुहोति ।
सोमेनैव तद् देवाꣳस् तर्पयति ।
यद् ग्रहाञ् जुहोति ।
VERSE: 3 { 1.4.1.3}
देवा एव तद् देवान् गच्छन्ति ।
यच् चमसाञ् जुहोति ।
तेनैव_अनुरूपेण यजमानः सुवर्गं लोकम् एति ।
किं न्व् एतद् अग्र आसीद् इत्य् आहुः ।
यत् पात्राणि_इति ।
इयं वा एतद् अग्र आसीत् ।
मृन्मयानि वा एतान्य् आसन् ।
तैर् देवा न व्यावृतम् अगच्छन् ।
त एतानि दारुमयाणि पात्राण्य् अपश्यन् ।
0 तान्य् अकुर्वत ।
VERSE: 4 { 1.4.1.4}
तैर् वै ते व्यावृतम् अगच्छन् ।
यद् दारुमयाणि पात्राणि भवन्ति ।
व्यावृतम् एव तैर् यजमानो गच्छति ।
यानि दारुमयाणि पात्राणि भवन्ति ।
अमुम् एव तैर् लोकम् अभिजयति ।
यानि मृन्मयानि ।
इममेव तैर् लोकम् अभिजयति ।
ब्रह्मवादिनो वदन्ति ।
काश् चतस्रः स्थालीर् वायव्याः सोमग्रहणीर् इति ।
देवा वै पृश्निम् अदुह्रन् ।
VERSE: 5 { 1.4.1.5}
तस्या एते स्तना आसन् ।
इयं वै पृश्निः ।
ताम् आदित्या आदित्यस्थाल्या चतुष्पदः पशून् अदुह्रन् ।
यद् आदित्यस्थाली भवति ।
चतुष्पद एव तया पशून् यजमान इमां दुहे ।
ताम् इन्द्र उक्थ्यस्थाल्या_इन्द्रियम् अदुहत् ।
यद् उक्थ्यस्थाली भवति ।
इन्द्रियम् एव तया यजमान इमां दुहे ।
तां विश्वे देवा आग्रयणस्थाल्या_ऊर्जम् अदुह्रन् ।
यद् आग्रयणस्थाली भवति ।
VERSE: 6 { 1.4.1.6}
ऊर्जम् एव तया यजमान इमां दुहे ।
तां मनुष्या ध्रुवस्थाल्या_आयुर् अदुह्रन् ।
यद् ध्रुवस्थाली भवति ।
आयुर् एव तया यजमान इमां दुहे ।
स्थाल्या गृह्णाति ।
वायव्येन जुहोति ।
तस्माद् अन्येन पात्रेण पशून् दुहन्ति ।
अन्येन प्रतिगृह्णन्ति ।
अथो व्यावृतम् एव तद् यजमानो गच्छति ।
अनुवाक 2 सौत्रामणिशेषामन्त्राः
VERSE: 1 { 1.4.2.1}
युवꣳ सुरामम् अश्विना ।
नमुचाव् आसुरे सचा ।
विपिपाना शुभस्पती ।
इन्द्रं कर्मस्वावतम् ।
पुत्रम् इव पितराव् अश्विना_उभा ।
इन्द्र_आवतं कर्मणा दꣳसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः ।
सरस्वती त्वा मघवन्न् अभीष्णात् ।
अहाव्य् अग्ने हविर् आस्ये ते ।
स्रुचि_इव { स्रुचीवं} घृतं चमू इव सोमः ।
VERSE: 2 { 1.4.2.2}
वाजसनिꣳ रयिम् अस्मे सुवीरम् ।
प्रशस्तं धेहि यशसं बृहन्तम् ।
यस्मिन्न् अश्वास ऋषभास उक्षणः ।
वशा मेषा अवसृष्टास आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे ।
हृदा मतिं जनय चारुम् अग्नये ।
नाना हि वां देवहितꣳ सदो मितम् ।
मा सꣳसृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम एषः ।
0 मा मा हिꣳसीः स्वां योनिम् आविशन् ।
VERSE: 3 { 1.4.2.3}
यद् अत्र शिष्टꣳ रसिनः सुतस्य ।
यद् इन्द्रो अपिबच्_शचीभिः ।
अहं तद् अस्य मनसा शिवेन ।
सोमꣳ राजानम् इह भक्षयामि ।
द्वे स्रुती अशृणवं पितॄणाम् ।
अहं देवानाम् उत मर्त्यानाम् ।
ताभ्याम् इदं विश्वं भुवनꣳ समेति ।
अन्तरा पूर्वम् अपरं च केतुम् ।
यस् ते देव वरुण गायत्रछन्दाः पाशः ।
तं त एतेन_अवयजे ।
VERSE: 4 { 1.4.2.4}
यस् ते देव वरुण त्रिष्टुप्छन्दाः पाशः ।
तं त एतेन_अवयजे ।
यस् ते देव वरुण जगती छन्दाः पाशः ।
तं त एतेन_अवयजे ।
सोमो वा एतस्य राज्यम् आदत्ते ।
यो राजा सन् राज्यो वा सोमेन यजते ।
देवसुवाम् एतानि हवीꣳषि भवन्ति ।
एतावन्तो वै देवानाꣳ सवाः ।
त एवास्मै सवान् प्रयच्छन्ति ।
त एनं पुनः सुवन्ते राज्याय ।
देवसू राजा भवति ।
अनुवाक 3 अग्निहोत्रे दोहविषयं प्रायश्चित्तं
VERSE: 1 { 1.4.3.1}
उदस्थाद् देव्य् अदितिर् विश्वरूपी ।
आयुर् यज्ञपताव् अधात् ।
इन्द्राय कृण्वती भागम् ।
मित्राय वरुणाय च ।
इयं वा अग्निहोत्री ।
इयं वा एतस्य निषीदति ।
यस्य_अग्निहोत्री निषीदति ।
ताम् उत्थापयेत् ।
उदस्थाद् देव्य् अदितिर् इति ।
इयं वै देव्य् अदितिः ।
VERSE: 2 { 1.4.3.2}
इमाम् एवास्मा उत्थापयति ।
आयुर् यज्ञपताव् अधाद् इत्य् आह ।
आयुर् एवास्मिन् दधाति ।
इन्द्राय कृण्वती भागं मित्राय वरुणाय च_इत्य् आह ।
यथायजुर् एवैतत् ।
अवर्तिं वा एषैतस्य पाप्मानं प्रतिख्याय निषीदति ।
यस्य_अग्निहोत्र्य् उपसृष्टा निषीदति ।
तां दुग्ध्वा ब्राह्मणाय दद्यात् ।
यस्य_अन्नं न_अद्यात् ।
अवर्तिम् एवास्मिन् पाप्मानं प्रतिमुञ्चति ।
VERSE: 3 { 1.4.3.3}
दुग्ध्वा ददाति ।
न ह्य् अदृष्टा दक्षिणा दीयते ।
पृथिवीं वा एतस्य पयः प्रविशति ।
यस्य_अग्निहोत्रं दुह्यमानꣳ स्कन्दति ।
यद् अद्य दुग्धं पृथिवीम् असक्त ।
यद् ओषधीर् अप्यसरद् यद् आपः ।
पयो गृहेषु पयो अघ्नियासु ।
पयो वत्सेषु पयो अस्तु तन् मयि_इत्य् आह ।
पय एवाऽऽत्मन् गृहेषु पशुषु धत्ते ।
अप उपसृजति ।
VERSE: 4 { 1.4.3.4}
अद्भिर् एवैनद् आप्नोति ।
यो वै यज्ञस्य_आर्तेन_अनार्तꣳ सꣳसृजति ।
उभे वै ते तर्हि_ आर्छतः ।
आर्छति खलु वा एतद् अग्निहोत्रम् ।
यद् दुह्यमानꣳ स्कन्दति ।
यद् अभिदुह्यात् ।
आर्तेन_अनार्तं यज्ञस्य सꣳसृजेत् ।
तद् एव यादृक् कीदृक् च होतव्यम् ।
अथ_अन्यां दुग्ध्वा पुनर् होतव्यम् ।
अनार्तेनैव_आर्तं यज्ञस्य निष्करोति ।
VERSE: 5 { 1.4.3.15}
यद्य् उद्द्रुतस्य स्कन्देत् ।
यत् ततो ऽहुत्वा पुनर् एयात् ।
यज्ञं विच्छिन्द्यात् ।
यत्र स्कन्देत् ।
तन् निषद्य पुनर् गृह्णीयात् ।
यत्रैव स्कन्दति ।
तत एवैनत् पुनर् गृह्णाति ।
तद् एव यादृक् कीदृक् च होतव्यम् ।
अथ_अन्यां दुग्ध्वा पुनर् होतव्यम् ।
अनार्तेनैव_आर्तं यज्ञस्य निष्करोति ।
VERSE: 6 { 1.4.3.6}
वि वा एतस्य यज्ञश् छिद्यते ।
यस्य_अग्निहोत्रे ऽधिश्रिते श्वा_अन्तरा धावति ।
रुद्रः खलु वा एषः ।
यद् अग्निः ।
यद् गाम् अन्वत्यावर्तयेत् ।
रुद्राय पशून् अपिदध्यात् ।
अपशुर् यजमानः स्यात् ।
यद् अपो ऽन्वतिषिञ्चेत् ।
अनाद्यम् अग्नेर् आपः ।
अनाद्यम् आभ्याम् अपिदध्यात् ।
गार्हपत्याद् भस्म_आदाय ।
इदं विष्णुर् विचक्रम इति वैष्णव्या_ऋचा_आहवनीयाद् ध्वꣳसयन्न् उद्द्रवेत् ।
यज्ञो वै विष्णुः ।
यज्ञेनैव यज्ञꣳ संतनोति ।
भस्मना पदमपि वपति शान्त्यै ।
अनुवाक 4 अग्निहोत्रे वह्निविषयं प्रायश्चित्तं
VERSE: 1 { 1.4.4.1}
नि वा एतस्य_आहवनीयो गार्हपत्यं कामयते ।
नि गार्हपत्य आहवनीयम् ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभिनिम्रोचति ।
दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेत् ।
अथ_अग्निम् ।
अथ_अग्निहोत्रम् ।
यद्धिरण्यं पुरस्ताद्धरति ।
ज्योतिर् वै हिरण्यम् ।
ज्योतिर् एवैनं पश्यन्न् उद्धरति ।
यद् अग्निं पूर्वꣳ हरत्य् अथ_अग्निहोत्रम् ।
VERSE: 2 { 1.4.4.2}
भागधेयेनैवैनं प्रणयति ।
ब्राह्मण आर्षेय उद्धरेत् ।
ब्राह्मणो वै सर्वा देवताः ।
सर्वाभिर् एवैनं देवताभिर् उद्धरति ।
अग्निहोत्रम् उपसाद्य_आतमितोर् आसीत ।
व्रतम् एव हतम् अनुम्रियते ।
अन्तं वा एष आत्मनो गच्छति ।
यस् ताम्यति ।
अन्तम् एष यज्ञस्य गच्छति ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभिनिम्रोचति ।
VERSE: 3 { 1.4.4.3}
पुनः समन्य जुहोति ।
अन्तेनैव_अन्तं यज्ञस्य निष्करोति ।
वरुणो वा एतस्य यज्ञं गृह्णाति ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभिनिम्रोचति ।
वारुणं चरुं निर्वपेत् ।
तेनैव यज्ञं निष्क्रीणीते ।
नि वा एतस्य_आहवनीयो गार्हपत्यं कामयते ।
नि गार्हपत्य आहवनीयम् ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति ।
चतुर्गृहीतम् आज्यं पुरस्ताद्धरेत् ।
VERSE: 4 { 1.4.4.4}
अथ_अग्निम् ।
अथ_अग्निहोत्रम् ।
यद् आज्यं पुरस्ताद् धरति ।
एतद् वा अग्नेः प्रियं धाम ।
यद् आज्यम् ।
प्रियेणैवैनं धाम्ना समर्धयति ।
यद् अग्निं पूर्वꣳ हरत्य् अथ_अग्निहोत्रम् ।
भागधेयेनैवैनं प्रणयति ।
ब्राह्मण आर्षेय उद्धरेत् ।
ब्राह्मणो वै सर्वा देवताः ।
VERSE: 5 { 1.4.4.5}
सर्वाभिर् एवैनं देवताभिर् उद्धरति ।
पराची वा एतस्मै व्युच्छन्ती व्युच्छति ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति ।
उषाः केतुना जुषताम् ।
यज्ञं देवेभिर् इन्वितम् ।
देवेभ्यो मधुमत्तमꣳ स्वाहेति प्रत्यङ् निषद्य_आज्येन जुहुयात् ।
प्रतीचीम् एवास्मै विवासयति ।
अग्निहोत्रम् उपसाद्य_आतमितोर् आसीत ।
व्रतम् एव हतम् अनुम्रियते ।
अन्तं वा एष आत्मनो गच्छति ।
VERSE: 6 { 1.4.4.6}
यस् ताम्यति ।
अन्तम् एष यज्ञस्य गच्छति ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति ।
पुनः समन्य जुहोति ।
अन्तेनैव_अन्तं यज्ञस्य निष्करोति ।
मित्रो वा एतस्य यज्ञं गृह्णाति ।
यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति ।
मैत्रं चरुं निर्वपेत् ।
तेनैव यज्ञं निष्क्रीणीते ।
यस्य_आहवनीये ऽनुद्वाते गार्हपत्य उद्वायेत् ।
VERSE: 7 { 1.4.4.7}
यद् आहवनीयम् अनुद्वाप्य गार्हपत्यं मन्थेत् ।
विच्छिन्द्यात् ।
भ्रातृव्यम् अस्मै जनयेत् ।
यद् वै यज्ञस्य वास्तव्यं क्रियते ।
तद् अनु रुद्रो ऽवचरति ।
यत् पूर्वम् अन्ववस्येत् ।
वास्तव्यम् अग्निम् उपासीत ।
रुद्रो ऽस्य पशून् घातुकः स्यात् ।
आहवनीयम् उद्वाप्य ।
गार्हपत्यं मन्थेत् ।
VERSE: 8 { 1.4.4.8}
इतः प्रथमं जज्ञे अग्निः ।
स्वाद् योनेर् अधि जातवेदाः ।
स गायत्रिया त्रिष्टुभा जगत्या ।
देवेभ्यो हव्यं वहतु प्रजानन्न् इति ।
छन्दोभिर् एवैनꣳ स्वाद् योनेः प्रजनयति ।
गार्हपत्यं मन्थति ।
गार्हपत्यं वा अन्व् आहिताग्नेः पशव उपतिष्ठन्ते ।
स यद् उद्वायति ।
तद् अनु पशवो ऽपक्रामन्ति ।
इषे रय्यै रमस्व ।
VERSE: 9 { 1.4.4.9}
सहसे द्युम्नाय ।
ऊर्जे पत्यायेत्य् आह ।
पशवो वै रयिः ।
पशून् एवास्मै रमयति ।
सारस्वतौ त्वा_उत्सौ समिन्धाताम् इत्य् आह ।
ऋक्सामे वै सारस्वताव् उत्सौ ।
ऋक्सामाभ्याम् एवैनꣳ समिन्धे ।
सम्राड् असि विराड् असि_इत्य् आह ।
रथन्तरं वै सम्राट् ।
बृहद् विराट् ।
VERSE: 10 { 1.4.4.10}
ताभ्याम् एवैनꣳ समिन्धे ।
वज्रो वै चक्रम् ।
वज्रो वा एतस्य यज्ञं विच्छिनत्ति ।
यस्य_अनो वा रथो वा_अन्तरा_अग्नी याति ।
आहवनीयम् उद्वाप्य ।
गार्हपत्याद् उद्धरेत् ।
यद् अग्ने पूर्वं प्रभृतं पदꣳ हि ते ।
सूर्यस्य रश्मीन् अन्व् आततान ।
तत्र रयिष्ठाम् अनु संभर_एतम् ।
सं नः सृज सुमत्या वाजवत्या_इति ।
{ 1.4.4.9}
पूर्वेणैवास्य यज्ञेन यज्ञम् अनु संतनोति ।
त्वम् अग्ने सप्रथा असि_इत्य् आह ।
अग्निः सर्वा देवताः ।
देवताभिर् एव यज्ञꣳ संतनोति ।
अग्नये पथिकृते पुरोडाशम् अष्टाकपालं निर्वपेत् ।
अग्निम् एव पथिकृतꣳ स्वेन भागधेयेन_उपधावति ।
स एवैनं यज्ञियं पन्थाम् अपिनयति ।
अनड्वान् दक्षिणा ।
वही ह्य् एष समृद्ध्यै ।
अनुवाक 5 सोमातिरेक प्रायश्चित्तम्
VERSE: 1 { 1.4.5.1}
यस्य प्रातःसवने सोमो ऽतिरिच्यते ।
माध्यन्दिनꣳ सवनं कामयमानो ऽभ्यतिरिच्यते ।
गौर् धयति मरुताम् इति धयद्वतीषु कुर्वन्ति ।
हिनस्ति वै सन्ध्य् अधीतम् ।
सन्धि_इव खलु वा एतत् ।
यत् सवनस्य_अतिरिच्यते ।
यद् धयद्वतीषु कुर्वन्ति ।
सन्धेः शान्त्यै ।
गायत्रꣳ साम भवति पञ्चदशः स्तोमः ।
तेनैव प्रातःसवनान् न यन्ति ।
VERSE: 2 { 1.4.5.2}
मरुत्वतीषु कुर्वन्ति ।
तेनैव माध्यन्दिनात् सवनान् न यन्ति ।
होतुश् चमसम् अनु_उन्नयन्ते ।
होता_अनुशꣳसति ।
मध्यत एव यज्ञꣳ समादधाति ।
यस्य माध्यन्दिने सवने सोमो ऽतिरिच्यते ।
आदित्यं तृतीयसवनं कामयमानो ऽभ्यतिरिच्यते ।
गौरिवीतꣳ साम भवति ।
अतिरिक्तं वै गौरिवीतम् ।
अतिरिक्तं यत् सवनस्य_अतिरिच्यते ।
VERSE: 3 { 1.4.5.2}
अतिरिक्तस्य शान्त्यै ।
बण्महाꣳ असि सूर्य_इति कुर्वन्ति ।
यस्यैवाऽऽदित्यस्य सवनस्य कामेन_अतिरिच्यते ।
तेनैवैनं कामेन समर्धयन्ति ।
गौरिवीतꣳ साम भवति ।
तेनैव माध्यन्दिनात् सवनान् न यन्ति ।
सप्तदशः स्तोमः ।
तेनैव तृतीयसवनान् न यन्ति ।
होतुश् चमसम् अनु_उन्नयन्ते ।
होता_अनुशꣳसति ।
VERSE: 4 { 1.4.5.4}
मध्यत एव यज्ञꣳ समादधाति ।
यस्य तृतीयसवने सोमो ऽतिरिच्येत ।
उक्थ्यं कुर्वीत ।
यस्य_उक्थ्ये ऽतिरिच्येत ।
अतिरात्रं कुर्वीत ।
यस्य_अतिरात्रे ऽतिरिच्येत ।
तत् त्वै दुष्प्रज्ञानम् ।
यजमानं वा एतत् पशव आसाह्य यन्ति ।
बृहत् साम भवति ।
बृहद् वा इमाꣳल् लोकान् दाधार ।
बार्हताः पशवः ।
बृहता_एवास्मै पशून् दाधार ।
शिपिविष्टवतीषु कुर्वन्ति शिपिविष्टो वै देवानां पुष्टं ।
पुष्ट्या_एवैनꣳ समर्धयन्ति ।
होतुश् चमसम् अनु_उन्नयन्ते ।
होता_अनुशꣳसति ।
मध्यत एव यज्ञꣳ समादधाति ।
अनुवाक 6 एकग्रामवर्तिबहुसोमयाग विशेषः
VERSE: 1 { 1.4.6.1}
एकैको वै जनतायाम् इन्द्रः ।
एकं वा एताव् इन्द्रम् अभि सꣳसुनुतः ।
यौ द्वौ सꣳसुनुतः ।
प्रजापतिर् वा एष वितायते ।
यद् यज्ञः ।
तस्य ग्रावाणो दन्ताः ।
अन्यतरं वा एते सꣳसुन्वतोर् निर्बप्सति ।
पूर्वेण_उपसृत्या देवता इत्य् आहुः ।
पूर्वोपसृतस्य वै श्रेयान् भवति ।
एतिवन्त्य् आज्यानि भवन्त्य् अभिजित्यै ।
VERSE: 2 { 1.4.6.2}
मरुत्वतीः प्रतिपदः ।
मरुतो वै देवानाम् अपराजितम् आयतनम् ।
देवानाम् एव_अपराजित आयतने यतते ।
उभे बृहद्रथन्तरे भवतः ।
इयं वाव रथन्तरम् ।
असौ बृहत् ।
आभ्याम् एवैनम् अन्तरेति ।
वाचश् च मनसश् च ।
प्राणाच् च_अपानाच् च ।
दिवश् च पृथिव्याश् च ।
VERSE: 3 { 1.4.6.3}
सर्वस्माद् वित्ताद् वेद्यात् ।
अभिवर्तो ब्रह्मसामं भवति ।
सुवर्गस्य लोकस्य_अभिवृत्त्यै ।
अभिजिद् भवति ।
सुवर्गस्य लोकस्य_अभिजित्यै ।
विश्वजिद् भवति ।
विश्वस्य जित्यै ।
यस्य भूयाꣳसो यज्ञक्रतव इत्य् आहुः ।
स देवता वृङ्क्त इति ।
यद्य् अग्निष्टोमः सोमः परस्तात् स्यात् ।
VERSE: 4 { 1.4.6.4}
उक्थ्यं कुर्वीत ।
यद्य् उक्थ्यः स्यात् ।
अतिरात्रं कुर्वीत ।
यज्ञक्रतुभिर् एवास्य देवता वृङ्क्ते ।
यो वै छन्दोभिर् अभिभवति ।
स संसुन्वतोर् अभिभवति ।
संवेशाय त्वा_उपवेशाय त्वा_इत्य् आह ।
छन्दाꣳसि वै संवेश उपवेषः ।
छन्दोभिर् एवास्य छन्दाꣳस्य् अभिभवति ।
इष्टर्गो वा ऋत्विजाम् अध्वर्युः ।
VERSE: 5 { 1.4.6.36}
इष्टर्गः खलु वै पूर्वो ऽर्ष्टुः क्षीयते ।
प्राणापानौ मृत्योर् मा पातम् इत्य् आह ।
प्राणापानयोरेव श्रयते ।
प्राणापानौ मा मा हासिष्टम् इत्य् आह ।
नैनं पुरा_आयुषः प्राणापानौ जहितः ।
आर्तिं वा एते नियन्ति ।
येषां दीक्षितानां प्रमीयते ।
तं यद् अववर्जेयुः ।
क्रूरकृताम् इवैषां लोकः स्यात् ।
आहर दह_इति ब्रूयात् ।
VERSE: 6 { 1.4.6.6}
तं दक्षिणतो वेद्यै निधाय ।
सर्पराज्ञिया ऋग्भिः स्तुयुः ।
इयं वै सर्पतो राज्ञी ।
अस्या एवैनं परिददति ।
व्यृद्धं तद् इत्य् आहुः ।
यत् स्तुतम् अननुशस्तम् इति ।
होता प्रथमः प्राचीनावीती मार्जालीयं परीयात् ।
यामीर् अनुब्रुवन् ।
सर्पराज्ञीनां कीर्तयेत् ।
उभयोर् एवैनं लोकयोः परिददति ।
VERSE: 7 { 1.4.6.7}
अथो धुवन्त्य् एवैनम् ।
अथो ऽन्ये वाऽस्मै ह्नुवते ।
त्रिः परियन्ति ।
त्रय इमे लोकाः ।
एभ्य एवैनं लोकेभ्यो धुवते ।
त्रिः पुनः परियन्ति ।
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
ऋतुभिर् एवैनं धुवते ।
अग्न आयूꣳषि पवस इति प्रतिपदं कुर्वीरन् ।
रथन्तरसामैषाꣳ सोमः स्यात् ।
आयुर् एवाऽऽत्मन् दधते ।
अथो पाप्मानम् एव विजहतो यन्ति ।
अनुवाक 7 यूपविरोहणादि प्रायश्चित्तानि
VERSE: 1 { 1.4.7.1}
असुर्यं वा एतस्माद् वर्णं कृत्वा ।
पशवो वीर्यम् अपक्रामन्ति ।
यस्य यूपो विरोहति ।
त्वाष्ट्रं बहुरूपम् आलभेत ।
त्वष्टा वै रूपाणाम् ईशे ।
य एव रूपाणाम् ईशे ।
सो ऽस्मिन् पशून् वीर्यं यच्छति ।
न_अस्मात् पशवो वीर्यम् अप क्रामन्ति ।
आर्तिं वा एते नियन्ति ।
येषां दीक्षितानाम् अग्निर् उद्वायति ।
VERSE: 2 { 1.4.7.2}
यद् आहवनीय उद्वायेत् ।
यत् तं मन्थेत् ।
विच्छिन्द्यात् ।
भ्रातृव्यम् अस्मै जनयेत् ।
यद् आहवनीय उद्वायेत् ।
आग्नीध्राद् उद्धरेत् ।
यद् आग्नीध्र उद्वायेत् ।
गार्हपत्याद् उद्धरेत् ।
यद् गार्हपत्य उद्वायेत् ।
अत एव पुनर् मन्थेत् ।
VERSE: 3 { 1.4.7.3}
अत्र वाव स निलयते ।
यत्र खलु वै निलीनम् उत्तमं पश्यन्ति ।
तदेनम् इच्छन्ति ।
यस्माद् दारोर् उद्वायेत् ।
तस्य_अरणी कुर्यात् ।
क्रुमुकम् अपि कुर्यात् ।
एषा वा अग्नेः प्रिया तनूः ।
यत् क्रुमुकः ।
प्रियया_एवैनं तनुवा समर्धयति ।
गार्हपत्यं मन्थति ।
VERSE: 4 { 1.4.7.4}
गार्हपत्यो वा अग्नेर् योनिः ।
स्वाद् एवैनं योनेर् जनयति ।
न_अस्मै भ्रातृव्यं जनयति ।
यस्य सोम उपदस्येत् ।
सुवर्णꣳ हिरण्यं द्वेधा विच्छिद्य ।
ऋजीषे ऽन्यद् आधूनुयात् ।
जुहुयाद् अन्यत् ।
सोमम् एव_अभिषुणोति ।
सोमं जुहोति ।
सोमस्य वा अभिषूयमाणस्य प्रिया तनूर् उदक्रामत् ।
VERSE: 5 { 1.4.7.5}
तत् सुवर्णꣳ हिरण्यम् अभवत् ।
यत् सुवर्णꣳ हिरण्यं कुर्वन्ति ।
प्रियया_एवैनं तनुवा समर्धयन्ति ।
यस्य_अक्रीतꣳ सोमम् अपहरेयुः ।
क्रीणीयाद् एव ।
सा_एव ततः प्रायश्चित्तिः ।
यस्य क्रीतम् अपहरेयुः ।
आदाराꣳश्च फाल्गुनानि च_अभिषुणुयात् ।
गायत्री यꣳ सोमम् आहरत् ।
तस्य यो ऽꣳशुः परापतत् ।
VERSE: 6 { 1.4.7.6}
त आदारा अभवन् ।
इन्द्रो वृत्रम् अहन् ।
तस्य वल्कः परापतत् ।
तानि फाल्गुनान्य् अभवन् ।
पशवो वै फाल्गुनानि ।
पशवः सोमो राजा ।
यद् आदाराꣳश् च फाल्गुनानि च_अभिषुणोति ।
सोमम् एव राजानमभिषुणोति ।
शृतेन प्रातःसवने श्रीणीयात् ।
दध्ना मध्यंदिने ।
VERSE: 7 { 1.4.7.7}
नीतमिश्रेण तृतीयसवने ।
अग्निष्टोमः सोमः स्याद् रथन्तरसाम ।
य एव_ऋत्विजो वृताः स्युः ।
त एनं याजयेयुः ।
एकां गां दक्षिणां दद्यात् तेभ्य एव ।
पुनः सोमं क्रीणीयात् ।
यज्ञेनैव तद् यज्ञम् इच्छति ।
सा_एव ततः प्रायश्चित्तिः ।
सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् आगुरते ।
यः सत्त्राय_आगुरते ।
एतावान् खलु वै पुरुषः ।
यावद् अस्य वित्तम् ।
सर्ववेदसेन यजेत ।
सर्वपृष्ठो ऽस्य सोमः स्यात् ।
सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीते ।
अनुवाक 8 शुद्धिहेतवो मन्त्राः
VERSE: 1 { 1.4.8.1}
पवमानः सुवर्जनः ।
पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ।
पुनन्तु मा देवजनाः ।
पुनन्तु मनवो धिया ।
पुनन्तु विश्व आयवः ।
जातवेदः पवित्रवत् ।
पवित्रेण पुनाहि मा ।
शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूꣳरनु ।
VERSE: 2 { 1.4.8.2}
यत् ते पवित्रम् अर्चिषि ।
अग्ने विततम् अन्तरा ।
ब्रह्म तेन पुनीमहे ।
उभाभ्यां देव सवितः ।
पवित्रेण सवेन च ।
इदं ब्रह्म पुनीमहे ।
वैश्वदेवी पुनती देव्य् आगात् ।
यस्यै बह्वीस् तनुवो वीतपृष्ठाः ।
तया मदन्तः सधमाद्येषु ।
वयꣳ स्याम पतयो रयीणाम् ।
VERSE: 3 { 1.4.8.3}
वैश्वानरो रश्मिभिर् मा पुनातु ।
वातः प्राणेन_इषिरो मयोभूः ।
द्यावापृथिवी पयसा पयोभिः ।
ऋतावरी यज्ञिये मा पुनीताम् ।
बृहद्भिः सवितस्तृभिः ।
वर्षिष्ठैर् देव मन्मभिः ।
अग्ने दक्षैः पुनाहि मा ।
येन देवा अपुनत ।
येन_आपो दिव्यं कशः ।
तेन दिव्येन ब्रह्मणा ।
VERSE: 4 { 1.4.8.4}
इदं ब्रह्म पुनीमहे ।
यः पावमानीर् अध्येति ।
ऋषिभिः संभृतꣳ रसम् ।
सर्वꣳ स पूतम् अश्नाति ।
स्वदितं मातरिश्वना ।
पावमानीर् यो अध्येति ।
ऋषिभिः संभृतꣳ रसम् ।
तस्मै सरस्वती दुहे ।
क्षीरꣳ सर्पिर् मधूदकम् ।
पावमानीः स्वस्त्ययनीः ।
VERSE: 5 { 1.4.8.5}
सुदुघा हि पयस्वतीः ।
ऋषिभिः संभृतो रसः ।
ब्राह्मणेष्व् अमृतꣳ हितम् ।
पावमानीर् दिशन्तु नः ।
इमं लोकम् अथो अमुम् ।
कामान् समर्धयन्तु नः ।
देवीर् देवैः समाभृताः ।
पावमानीः स्वस्त्ययनीः ।
सुदुघा हि घृतश्चुतः ।
ऋषिभिः सम्भृतो रसः ।
VERSE: 6 { 1.4.8.6}
ब्राह्मणेष्व् अमृतꣳ हितम् ।
येन देवाः पवित्रेण ।
आत्मानं पुनते सदा ।
तेन सहस्रधारेण ।
पावमान्यः पुनन्तु मा ।
प्राजापत्यं पवित्रम् ।
शत_उद्यामꣳ हिरण्मयम् ।
तेन ब्रह्मविदो वयम् ।
पूतं ब्रह्म पुनीमहे ।
इन्द्रः सुनीती सह मा पुनातु ।
सोमः स्वस्त्या वरुणः समीच्या ।
यमो राजा प्रमृणाभिः पुनातु मा ।
जातवेदा मा_ऊर्जयन्त्या पुनातु ।
अनुवाक 9 राजसूयगत चातुर्मास्यशेषः
VERSE: 1 { 1.4.9.1}
प्रजा वै सत्रम् आसत तपस् तप्यमाना अजुह्वतीः ।
देवा अपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।
तम् उप_उदतिष्ठन्तम् अजुहवुः ।
तेन_अर्धमास ऊर्जम् अवारुन्धत ।
तस्माद् अर्धमासे देवा इज्यन्ते ।
पितरो ऽपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।
तम् उप_उदतिष्ठन्तम् अजुहवुः ।
तेन मास्यूर्जम् अवारुन्धत ।
तस्मान् मासि पितृभ्यः क्रियते ।
मनुष्या अपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।
VERSE: 2 { 1.4.9.53}
तम् उप_उदतिष्ठन्तम् अजुहवुः ।
तेन द्वयीमूर्जम् अवारुन्धत ।
तस्माद् द्विर् अह्नो मनुष्येभ्य उपह्रियते ।
प्रातश् च सायं च ।
पशवो ऽपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।
तम् उप_उदतिष्ठन्तम् अजुहवुः ।
तेन त्रयीमूर्जम् अवारुन्धत ।
तस्मात् त्रिर् अह्नः पशवः प्रेरते ।
प्रातः संगवे सायम् ।
असुरा अपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।
VERSE: 3 { 1.4.9.3}
तम् उप_उदतिष्ठन्तम् अजुहवुः ।
तेन संवत्सर ऊर्जम् अवारुन्धत ।
ते देवा अमन्यन्त ।
अमी वा इदम् अभूवन् ।
यद् वयꣳ स्म इति ।
त एतानि चातुर्मास्यान्य् अपश्यन् ।
तानि निरवपन् ।
तैर् एवैषां तामूर्जम् अवृञ्जत ।
ततो देवा अभवन् ।
परा_असुराः ।
VERSE: 4 { 1.4.9.4}
यद् यजते ।
याम् एव देवा ऊर्जम् अवारुन्धत ।
तां तेन_अवरुन्धे ।
यत् पितृभ्यः करोति ।
याम् एव पितर ऊर्जम् अवारुन्धत ।
तां तेन_अवरुन्धे ।
यद् आवसथे ऽन्नꣳ हरन्ति ।
याम् एव मनुष्या ऊर्जम् अवारुन्धत ।
तां तेन_अवरुन्धे ।
यद् दक्षिणां ददाति ।
VERSE: 5 { 1.4.9.5}
याम् एव पशव ऊर्जम् अवारुन्धत ।
तां तेन_अवरुन्धे ।
यच् चातुर्मास्यैर् यजते ।
याम् एव_असुरा ऊर्जम् अवारुन्धत ।
तां तेन_अवरुन्धे ।
भवत्य् आत्मना ।
परा_अस्य भ्रातृव्यो भवति ।
विराजो वा एषा विक्रान्तिः ।
यच् चातुर्मास्यानि ।
वैश्वदेवेन_अस्मिꣳल् लोके प्रत्यतिष्ठत् ।
वरुणप्रघासैर् अन्तरिक्षे ।
साकमेधैर् अमुष्मिꣳल् लोके ।
एष हत्वा वै तत् सर्वं भवति ।
य एवं विद्वाꣳश् चातुर्मास्यैर् यजते ।
अनुवाक 10 राजसूयगत चातुर्मास्यशेषः
VERSE: 1 { 1.4.10.1}
अग्निर् वाव संवत्सरः ।
आदित्यः परिवत्सरः ।
चन्द्रमा इदावत्सरः ।
वायुर् अनुवत्सरः ।
यद् वैश्वदेवेन यजते ।
अग्निम् एव तत् संवत्सरम् आप्नोति ।
तस्माद् वैश्वदेवेन यजमानः ।
संवत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत ।
यद् वरुणप्रघासैर् यजते ।
आदित्यम् एव तत् परिवत्सरम् आप्नोति ।
VERSE: 2 { 1.4.10.2}
तस्माद् वरुणप्रघासैर् यजमानः ।
परिवत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत ।
यत् साकमेधैर् यजते ।
चन्द्रमसम् एव तद् इदावत्सरम् आप्नोति ।
तस्मात् साकमेधैर् यजमानः ।
इदावत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत ।
यत् पितृयज्ञेन यजते ।
देवान् एव तद् अन्ववस्यति ।
अथ वा अस्य वायुश् च_अनुवत्सरश् च_अप्रीताव् उच्छिष्येते ।
यत्_शुनासीरीयेण यजते ।
VERSE: 3 { 1.4.10.3}
वायुम् एव तद् अनुवत्सरम् आप्नोति ।
तस्मात्_शुनासीरीयेण यजमानः ।
अनुवत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत ।
संवत्सरं वा एष ईप्सति_इत्य् आहुः ।
यश् चातुर्मास्यैर् यजत इति ।
एष ह त्वै संवत्सरम् आप्नोति ।
य एवं विद्वाꣳश् चातुर्मास्यैर् यजते ।
विश्वे देवाः समयजन्त ।
ते ऽग्निम् एव_अयजन्त ।
त एतं लोकम् अजयन् ।
VERSE: 4 { 1.4.10.4}
यस्मिन्न् अग्निः ।
यद् वैश्वदेवेन यजते ।
एतम् एव लोकं जयति ।
यस्मिन्न् अग्निः ।
अग्नेर् एव सायुज्यम् उपैति ।
यदा वैश्वदेवेन यजते ।
अथ संवत्सरस्य गृहपतिम् आप्नोति ।
यदा संवत्सरस्य गृहपतिम् आप्नोति ।
अथ सहस्रयाजिनम् आप्नोति ।
यदा सहस्रयाजिनम् आप्नोति ।
VERSE: 5 { 1.4.10.5}
अथ गृहमेधिनम् आप्नोति ।
यदा गृहमेधिनम् आप्नोति ।
अथ_अग्निर् भवति ।
यदा_अग्निर् भवति ।
अथ गौर् भवति ।
एषा वै वैश्वदेवस्य मात्रा ।
एतद् वा एतेषाम् अवमम् ।
अतो_ऽतो वा उत्तराणि श्रेयाꣳसि भवन्ति ।
यद् विश्वे देवाः समयजन्त ।
तद् वैश्वदेवस्य वैश्वदेवत्वम् ।
VERSE: 6 { 1.4.10.6}
अथ_आदित्यो वरुणꣳ राजानं वरुणप्रघासैर् अयजत ।
स एतं लोकम् अजयत् ।
यस्मिन्न् आदित्यः ।
यद् वरुणप्रघासैर् यजते ।
एतम् एव लोकं जयति ।
यस्मिन्न् आदित्यः ।
आदित्यस्यैव सायुज्यम् उपैति ।
यद् आदित्यो वरुणꣳ राजानं वरुणप्रघासैर् अयजत ।
तद् वरुणप्रघासानं वरुणप्रघासत्वम् ।
अथ सोमो राजा छन्दाꣳसि साकमेधैर् अयजत ।
VERSE: 7 { 1.4.10.7}
स एतं लोकम् अजयत् ।
यस्मिꣳश् चन्द्रमा विभाति ।
यत् साकमेधैर् यजते ।
एतम् एव लोकं जयति ।
यस्मिꣳश् चन्द्रमा विभाति ।
चन्द्रमस एव सायुज्यम् उपैति ।
सोमो वै चन्द्रमाः ।
एष ह त्वै साक्षात् सोमं भक्षयति ।
य एवं विद्वान् साकमेधैर् यजते ।
यत् सोमश् च राजा छन्दाꣳसि च समैधन्त ।
VERSE: 8 { 1.4.10.8}
तत् साकमेधानाꣳ साकमेधात्वम् ।
अथ_ऋतवः पितरः प्रजापतिं पितरं पितृयज्ञेन_अयजन्त ।
त एतं लोकम् अजयन् ।
यस्मिन्न् ऋतवः ।
यत् पितृयज्ञेन यजते ।
एतम् एव लोकं जयति ।
यस्मिन्न् ऋतवः ।
ऋतूनाम् एव सायुज्यम् उपैति ।
यद् ऋतवः पितरः प्रजापतिं पितरं पितृयज्ञेन_अयजन्त ।
तत् पितृयज्ञस्य पितृयज्ञत्वम् ।
VERSE: 9 { 1.4.10.9}
अथ_ओषधय इमं देवं त्र्यम्बकैर् अयजन्त प्रथेमहि_इति ।
ततो वै ता अप्रथन्त ।
य एवं विद्वाꣳस् त्र्यम्बकैर् यजते ।
प्रथते प्रजया पशुभिः ।
अथ वायुः परमेष्ठिनꣳ शुनासीरीयेण_अयजत ।
स एतं लोकम् अजयत् ।
यस्मिन् वायुः ।
यत्_शुनासीरीयेण यजते ।
एतम् एव लोकं जयति ।
यस्मिन् वायुः ।
VERSE: 10 { 1.4.10.10}
वायोर् एव सायुज्यम् उपैति ।
ब्रह्मवादिनो वदन्ति ।
प्र चातुर्मास्ययाजी मीयता3 न प्रमीयता3 इति ।
जीवन् वा एष ऋतून् अप्येति ।
यदि वसन्ता प्रमीयते ।
वसन्तो भवति ।
यदि ग्रीष्मे ग्रीष्मः ।
यदि वर्षासु वर्षाः ।
यदि शरदि शरत् ।
यदि हेमन् हेमन्तः ।
ऋतुर् भूत्वा संवत्सरम् अप्येति ।
संवत्सरः प्रजापतिः ।
प्रजापतिर् वावैषः ।
प्रपाठक: 5 नक्षत्रेष्टका
अनुवाक 1 वैकृतिनक्षत्रेष्टकामन्त्राः
VERSE: 1 { 1.5.1.1}
अग्नेः कृत्तिकाः ।
शुक्रं परस्तात्_ ज्योतिर् अवस्तात् ।
प्रजापते रोहिणी ।
आपः परस्ताद् ओषधयो ऽवस्तात् ।
सोमस्य_इन्वका ।
विततानि परस्ताद् वयन्तो ऽवस्तात् ।
रुद्रस्य बाहू ।
मृगयवः परस्ताद् विक्षारो ऽवस्तात् ।
अदित्यै पुनर्वसू ।
वातः परस्ताद् आर्द्रम् अवस्तात् ।
VERSE: 2 { 1.5.1.2}
बृहस्पतेस् तिष्यः ।
जुह्वतः परस्ताद् यजमाना अवस्तात् ।
सर्पाणाम् आश्रेषाः ।
अभ्यागच्छन्तः परस्ताद् अभ्यानृत्यन्तो ऽवस्तात् ।
पितृणां मघाः ।
रुदन्तः परस्ताद् अपभ्रꣳशो ऽवस्तात् ।
अर्यम्णः पूर्वे फल्गुनी ।
जाया परस्ताद् ऋषभो ऽवस्तात् ।
भगस्य_उत्तरे ।
वहतवः परस्ताद् वहमाना अवस्तात् ।
VERSE: 3 { 1.5.1.3}
देवस्य सवितुर् हस्तः ।
प्रसवः परस्तात् सनिर् अवस्तात् ।
इन्द्रस्य चित्रा ।
ऋतं परस्तात् सत्यम् अवस्तात् ।
वायोर् निष्ट्या ।
व्रततिः परस्ताद् असिद्धिर् अवस्तात् ।
इन्द्राग्नियोर् विशाखे ।
युगानि परस्तात् कृषमाणा अवस्तात् ।
मित्रस्य_अनूराधाः ।
अभ्यारोहत् परस्ताद् अभ्यारूढम् अवस्तात् ।
VERSE: 4 { 1.5.1.4}
इन्द्रस्य रोहिणी ।
शृणत् परस्तात् प्रतिशृणद् अवस्तात् ।
निर्ऋत्यै मूलवर्हणी ।
प्रतिभञ्जन्तः परस्तात् प्रतिशृणन्तो ऽवस्तात् ।
अपां पूर्वा अषाढाः ।
वर्चः परस्तात् समितिर् अवस्तात् ।
विश्वेषां देवानाम् उत्तराः ।
अभिजयत् परस्ताद् अभिजितम् अवस्तात् ।
विष्णोः श्रोणा ।
पृच्छमानाः परस्तात् पन्था अवस्तात् ।
VERSE: 5 { 1.5.1.5}
वसूनाꣳ श्रविष्ठाः ।
भूतं परस्ताद् भूतिर् अवस्तात् ।
इन्द्रस्य शतभिषक् ।
विश्वव्यचाः परस्ताद् विश्वक्षितिर् अवस्तात् ।
अजस्य_एकपदः पूर्वे प्रोष्ठपदाः ।
वैश्वानरं परस्ताद् वैश्वावसवम् अवस्तात् ।
अहेर् बुध्नियस्य_उत्तरे ।
अभिषिञ्चन्तः परस्ताद् अभिषुण्वन्तो ऽवस्तात् ।
पूष्णो रेवती ।
गावः परस्ताद् वत्सा अवस्तात् ।
अश्विनोर् अश्वयुजौ ।
ग्रामः परस्तात् सेना_अवस्तात् ।
यमस्य_अपभरणीः ।
अपकर्षन्तः परस्ताद् अपवहन्तो ऽवस्तात् ।
पूर्णा पश्चाद् यत् ते देवा अदधुः ।
अनुवाक 2 कर्मानुष्ठानाय पुण्यकालः
VERSE: 1 { 1.5.2.1}
यत् पुण्यं नक्षत्रम् ।
तद् बट् कुर्वीत_उपव्युषम् ।
यदा वै सूर्य उदेति ।
अथ नक्षत्रं न_एति ।
यावति तत्र सूर्यो गच्छेत् ।
यत्र जघन्यं पश्येत् ।
तावति कुर्वीत यत्कारी स्यात् ।
पुण्याह एव कुरुते ।
एवꣳ ह वै यज्ञेषुं च शतद्युम्नं च मात्स्यो निरवसाययाञ् चकार ।
VERSE: 2 { 1.5.2.2}
यो वै नक्षत्रियं प्रजापतिं वेद ।
उभयोर् एनं लोकयोर् विदुः ।
हस्त एव_अस्य हस्तः ।
चित्रा शिरः ।
निष्ट्या हृदयम् ।
ऊरू विशाखे ।
प्रतिष्ठा_अनूराधाः ।
एष वै नक्षत्रियः प्रजापतिः ।
य एवं वेद ।
उभयोर् एनं लोकयोर् विदुः ।
VERSE: 3 { 1.5.2.3}
अस्मिꣳश् च_अमुष्मिꣳश् च ।
यां कामयेत दुहितरं प्रिया स्याद् इति ।
तां निष्ट्यायां दद्यात् ।
प्रिया_एव भवति ।
नैव तु पुनर् आगच्छति ।
अभिजित्_ नाम नक्षत्रम् ।
उपरिष्टाद् अषाढानाम् ।
अवस्तात्_श्रोणायै ।
देवासुराः संयत्ता आसन् ।
ते देवास् तस्मिन् नक्षत्रे ऽभ्यजयन् ।
VERSE: 4 { 1.5.2.4}
यद् अभ्यजयन् ।
तद् अभिजितो ऽभिजित्त्वम् ।
यं कामयेत_अनपजय्यं जयेद् इति ।
तम् एतस्मिन् नक्षत्रे यातयेत् ।
अनपजय्यम् एव जयति ।
पापपराजितम् इव तु ।
प्रजापतिः पशून् असृजत ।
ते नक्षत्रंनक्षत्रम् उपातिष्ठन्त ।
ते समावन्त एव_अभवन् ।
ते रेवतीम् उपातिष्ठन्त ।
VERSE: 5 { 1.5.2.10}
ते रेवत्यां प्राभवन् ।
तस्माद् रेवत्यां पशूनां कुर्वीत ।
यत् किं च_अर्वाचीनꣳ सोमात् ।
प्र_एव भवन्ति ।
सलिलं वा इदम् अन्तरासीत् ।
यद् अतरन् ।
तत् तारकाणां तारकत्वम् ।
यो वा इह यजते ।
अमुꣳ स लोकं नक्षते ।
तन् नक्षत्राणां नक्षत्रत्वम् ।
VERSE: 6 { 1.5.2.6}
देवगृहा वै नक्षत्राणि ।
य एवं वेद ।
गृह्य् एव भवति ।
यानि वा इमानि पृथिव्याश् चित्राणि ।
तानि नक्षत्राणि ।
तस्माद् अश्लीलनामꣳश् चित्रे ।
न_आवस्येन् न यजेत ।
यथा पापाहे कुरुते ।
तादृग् एव तत् ।
देवनक्षत्राणि वा अन्यानि ।
VERSE: 7 { 1.5.2.7}
यमनक्षत्त्राण्य् अन्यानि ।
कृत्तिकाः प्रथमम् ।
विशाखे उत्तमम् ।
तानि देवनक्षत्राणि ।
अनूराधाः प्रथमम् ।
अपभरणीर् उत्तमम् ।
तानि यमनक्षत्राणि ।
यानि देवनक्षत्राणि ।
तानि दक्षिणेन परियन्ति ।
यानि यमनक्षत्राणि ।
VERSE: 8 { 1.5.2.8}
तान्य् उत्तरेण ।
अन्व् एषाम् अरात्स्म_इति ।
तद् अनूराधाः ।
ज्येष्ठम् एषाम् अवधिष्म_इति ।
तज् ज्येष्ठघ्नी ।
मूलम् एषाम् अवृक्षाम_इति ।
तन् मूलबर्हणी { मूलवर्हणी} ।
यन् न_असहन्त ।
तद् अषाढाः ।
यद् अश्लोणत् ।
VERSE: 9 { 1.5.2.9}
तत्_श्रोणा ।
यद् अशृणोत् ।
तत्_श्रविष्ठाः ।
यत्_शतम् अभिषज्यन् ।
तत्_शतभिषक् ।
प्रोष्ठपदेषु_उदयच्छन्त ।
रेवत्याम् अरवन्त ।
अश्वयुजोर् अयुञ्जत ।
अपभरणीष्व् अपावहन् ।
तानि वा एतानि यमनक्षत्राणि ।
यान्य् एव देवनक्षत्राणि ।
तेषु कुर्वीत यत्कारी स्यात् ।
पुण्याह एव कुरुते ।
अनुवाक 3 दिवसभागोपजीवनेन पुण्यकालः
VERSE: 1 { 1.5.3.1}
देवस्य सवितुः प्रातः प्रस्वः प्राणः ।
वरुणस्य सायम् आसवो ऽपानः ।
यत् प्रतीचीनं प्रातस्तनात् ।
प्राचीनꣳ संगवात् ।
ततो देवा अग्निष्टोमं निरमिमत ।
तत् तद् आत्तवीर्यं निर्मार्गः ।
मित्रस्य संगवः ।
तत् पुण्यं तेजस्व्य् अहः ।
तस्मा तर्हि पशवः समायन्ति ।
यत् प्रतीचीनꣳ संगवात् ।
VERSE: 2 { 1.5.3.2}
प्राचीनं मध्यंदिनात् ।
ततो देवा उक्थ्यं निरमिमत ।
तत् तद् आत्तवीर्यं निर्मार्गः ।
बृहस्पतेर् मध्यंदिनः ।
तत् पुण्यं तेजस्व्य् अहः ।
तस्मात् तर्हि तेक्ष्णिष्ठं तपति ।
यत् प्रतीचीनं मध्यंदिनात् ।
प्राचीनम् अपराह्णात् ।
ततो देवाः षोडशिनं निरमिमत ।
तत् तद् आत्तवीर्यं निर्मार्गः ।
VERSE: 3 { 1.5.3.17}
भगस्य_अपराह्णः ।
तत् पुण्यं तेजस्व्यहः ।
तस्माद् अपराह्णे कुमार्यो भगम् इच्छमानाश् चरन्ति ।
यत् प्रतीचीनम् अपराह्णात् ।
प्राचीनꣳ सायात् ।
ततो देवा अतिरात्रं निरमिमत ।
तत् तद् आत्तवीर्यं निर्मार्गः ।
वरुणस्य सायम् ।
तत् पुण्यं तेजस्व्यहः ।
तस्मात् तर्हि न_अनृतं वदेत् ।
VERSE: 4 { 1.5.3.4}
ब्राह्मणो वा अष्टाविꣳशो नक्षत्राणाम् ।
समानस्य_अह्नः पञ्च पुण्यानि नक्षत्राणि ।
चत्वार्य् अश्लीलानि ।
तानि नव ।
यच् च परस्तान् नक्षत्राणां यच् च_अवस्तात् ।
तान्य् एकादश ।
ब्राह्मणो द्वादशः ।
य एवं विद्वान् संवत्सरं व्रतं चरति ।
संवत्सरेणैवास्य व्रतं गुप्तं भवति ।
समानस्य_अह्नः पञ्च पुण्यानि नक्षत्राणि ।
चत्वार्य् अश्लीलानि ।
तानि नव ।
आग्नेयी रात्रिः ।
ऐन्द्रम् अहः ।
तान्य् एकादश ।
आदित्यो द्वादशः ।
य एवं विद्वान् संवत्सरं व्रतं चरति ।
संवत्सरेणैवास्य व्रतं गुप्तं भवति ।
अनुवाक 4 सोमशेषभूता पात्रस्तुतिः
VERSE: 1 { 1.5.4.1}
ब्रह्मवादिनो वदन्ति ।
कति पात्राणि यज्ञं वहन्ति_इति ।
त्रयोदश_इति ।
ब्रूयात् ।
स यद् ब्रूयात् ।
कस् तानि निरमिमीत_इति ।
प्रजापतिर् इति ब्रूयात् ।
स यद् ब्रूयात् ।
कुतस् तानि निरमिमीत_इति ।
आत्मन इति ।
प्राणापानाभ्याम् एव_उपाꣳश्वन्तर्यामौ निरमिमीत ।
VERSE: 2 { 1.5.4.2}
व्यानाद् उपाꣳशुसवनम् ।
वाच ऐन्द्रवायवम् ।
दक्षक्रतुभ्यां मैत्रावरुणम् ।
श्रोत्राद् आश्विनम् ।
चक्षुषः शुक्रामन्थिनौ ।
आत्मन आग्रयणम् ।
अङ्गेभ्य उक्थ्यम् ।
आयुषो ध्रुवम् ।
प्रतिष्ठाया ऋतुपात्रे ।
यज्ञं वाव तं प्रजापतिर् निरमिमीत ।
स निर्मितो न_आध्रियत समव्लीयत ।
स एतान् प्रजापतिर् अपिवापान् अपश्यत् ।
तान् निरवपत् ।
तैर् वै स यज्ञम् अप्यवपत् ।
यद् अपिवापा भवन्ति ।
यज्ञस्य धृत्या असंव्लयाय ।
अनुवाक 5 चातुर्मास्यशेषाः वपनमन्त्राः
VERSE: 1 { 1.5.5.1}
ऋतम् एव परमेष्ठि ।
ऋतं न_अत्येति किं चन ।
ऋते समुद्र आहितः ।
ऋते भूमिर् इयꣳ श्रिता ।
अग्निस् तिग्मेन शोचिषा ।
तप आक्रान्तम् उष्णिहा ।
शिरस् तपस्य् आहितम् ।
वैश्वानरस्य तेजसा ।
ऋतेन_अस्य निवर्तये ।
सत्येन परिवर्तये ।
VERSE: 2 { 1.5.5.2}
तपसाऽस्य_अनुवर्तये ।
शिवेन_अस्य_उपवर्तये ।
शग्मेन_अस्य_अभिवर्तये ।
तद् ऋतं तत् सत्यम् ।
तद् व्रतं तत्_शकेयम् ।
तेन शकेयं तेन राध्यासम् ।
यद् घर्मः पर्यवर्तयत् ।
अन्तान् पृथिव्या दिवः ।
अग्निर् ईशान ओजसा ।
वरुणो धीतिभिः सह ।
VERSE: 3 { 1.5.5.3}
इन्द्रो मरुद्भिः सखिभिः सह ।
अग्निस् तिग्मेन शोचिषा ।
तप आक्रान्तम् उष्णिहा ।
शिरस् तपस्य् आहितम् ।
वैश्वानरस्य तेजसा ।
ऋतेन_अस्य निवर्तये ।
सत्येन परिवर्तये ।
तपसाऽस्य_अनुवर्तये ।
शिवेन_अस्य_उपवर्तये ।
शग्मेन_अस्य_अभिवर्तये ।
VERSE: 4 { 1.5.5.4}
तद् ऋतं तत् सत्यम् ।
तद् व्रतं तत्_शकेयम् ।
तेन शकेयं तेन राध्यासम् ।
यो अस्याः पृथिव्यास् त्वचि ।
निवर्तयत्य् ओषधीः ।
अग्निर् ईशान ओजसा ।
वरुणो धीतिभिः सह ।
इन्द्रो मरुद्भिः सखिभिः सह ।
अग्निस् तिग्मेन शोचिषा ।
तप आक्रान्तम् उष्णिहा ।
VERSE: 5 { 1.5.5.5}
शिरस् तपस्य् आहितम् ।
वैश्वानरस्य तेजसा ।
ऋतेन_अस्य निवर्तये ।
सत्येन परिवर्तये ।
तपसाऽस्य_अनुवर्तये ।
शिवेन_अस्य_उपवर्तये ।
शग्मेन_अस्य_अभिवर्तये ।
तद् ऋतं तत् सत्यम् ।
तद् व्रतं तत्_शकेयम् ।
तेन शकेयं तेन राध्यासम् ।
VERSE: 6 { 1.5.5.6}
एकं मासम् उदसृजत् ।
परमेष्ठी प्रजाभ्यः ।
तेन_आभ्यो मह आवहत् ।
अमृतं मर्त्याभ्यः ।
प्रजाम् अनु प्रजायसे ।
तद् उ ते मर्त्य_अमृतम् ।
येन मासा अर्धमासाः ।
ऋतवः परिवत्सराः ।
येन ते ते प्रजापते ।
ईजानस्य न्यवर्तयन् ।
VERSE: 7 { 1.5.5.7}
तेन_अहम् अस्य ब्रह्मणा ।
निवर्तयामि जीवसे ।
अग्निस् तिग्मेन शोचिषा ।
तप आक्रान्तम् उष्णिहा ।
शिरस् तपस्य् आहितम् ।
वैश्वानरस्य तेजसा ।
ऋतेन_अस्य निवर्तये ।
सत्येन परिवर्तये ।
तपसाऽस्य_अनुवर्तये ।
शिवेन_अस्य_उपवर्तये ।
शग्मेन_अस्य_अभिवर्तये ।
तद् ऋतं तत् सत्यम् ।
तद् व्रतं तत्_शकेयम् ।
तेन शकेयं तेन राध्यासम् ।
अनुवाक 6 चातुर्मास्यशेषो वपनविधिः
VERSE: 1 { 1.5.6.1}
देवा वै यद् यज्ञे ऽकुर्वत ।
तद् असुरा अकुर्वत ।
ते ऽसुरा ऊर्ध्वं पृष्ठेभ्यो न_अपश्यन् ।
ते केशान् अग्रे ऽवपन्त ।
अथ श्मश्रूणि ।
अथ_उपपक्षौ ।
ततस् ते ऽवाञ्च आयन् ।
पराभवन् ।
यस्यैवं वपन्ति ।
अवाङ् एति ।
VERSE: 2 { 1.5.6.2}
अथो परा_इव भवति ।
अथ देवा ऊर्ध्वं पृष्ठेभ्यो ऽपश्यन् ।
त उपपक्षाव् अग्रे ऽवपन्त ।
अथ श्मश्रूणि ।
अथ केशान् ।
ततस् ते ऽभवन् ।
सुवर्गं लोकम् आयन् ।
यस्यैवं वपन्ति ।
भवत्य् आत्मना ।
अथो सुवर्गं लोकम् एति ।
VERSE: 3 { 1.5.6.3}
अथैतन् मनुर् वप्त्रे मिथुनम् अपश्यत् ।
स श्मश्रूण्य् अग्रे ऽवपत ।
अथ_उपपक्षौ ।
अथ केशान् ।
ततो वै स प्राजायत प्रजया पशुभिः ।
यस्यैवं वपन्ति ।
प्र प्रजया पशुभिर् मिथुनैर् जायते ।
देव_असुराः संयत्ता आसन् ।
ते संवत्सरे व्यायच्छन्त ।
तान् देवाश् चातुर्मास्यैर् एव_अभि प्रायुञ्जत ।
VERSE: 4 { 1.5.6.4}
वैश्वदेवेन चतुरो मासो ऽवृञ्जत_इन्द्रराजानः ।
तान्_शीर्षन् {आनंदा. ताञ् छीर्षं} नि च_अवर्तयन्त परि च ।
वरुणप्रघासैश् चतुरो मासो ऽवृञ्जत वरुणराजानः ।
ताञ् छीर्षं नि च_अवर्तयन्त परि च ।
साकमेधैश् चतुरो मासो ऽवृञ्जत सोमराजानः ।
ताञ् छीर्षं नि च_अवर्तयन्त परि च ।
या संवत्सर उपजीवा_आसीत् ।
ताम् एषाम् अवृञ्जत ।
ततो देवा अभवन् ।
परा_असुराः ।
VERSE: 5 { 1.5.6.5}
य एवं विद्वाꣳश् चातुर्मास्यैर् यजते ।
भ्रातृव्यस्यैव मासो वृक्त्वा ।
शीर्षन् नि च वर्तयते परि च ।
यैषा संवत्सर उपजीवा ।
वृङ्क्ते तां भ्रातृव्यस्य ।
क्षुधा_अस्य भ्रातृव्यः पराभवति ।
लोहितायसेन निवर्तयते ।
यद् वा इमाम् अग्निर् ऋताव् आगते निवर्तयति ।
एतद् एवैनाꣳ रूपं कृत्वा निवर्तयति ।
सा ततः श्वः_श्वो भूयसी भवन्त्य् एति ।
VERSE: 6 { 1.5.6.6}
प्रजायते ।
य एवं विद्वान् लोहितायसेन निवर्तयते ।
एतद् एव रूपं कृत्वा निवर्तयते ।
स ततः श्वः_श्वो भूयान् भवन्न् एति ।
प्र_एव जायते ।
त्रेण्या शलल्या निवर्तयेत ।
त्रीणि त्रीणि वै देवानाम् ऋद्धानि ।
त्रीणि च्छन्दाꣳसि ।
त्रीणि सवनानि ।
त्रय इमे लोकाः ।
VERSE: 7 { 1.5.6.7}
ऋद्भ्याम् एव तद् वीर्य एषु लोकेषु प्रतितिष्ठति ।
यच् चातुर्मास्ययाज्य् आत्मनो न_अवद्येत् ।
देवेभ्य आवृश्च्येत ।
चतृषु_चतृषु मासेषु निवर्तयेत ।
परोक्षम् एव तद् देवेभ्य आत्मनो ऽवद्यत्य् अनाव्रस्काय ।
देवानां वा एष आनीतः ।
यश् चातुर्मास्ययाजी य एवं विद्वान् नि च वर्तयते परि च ।
देवता एव_अप्येति ।
न_अस्य रुद्रः प्रजां पशून् अभिमन्यते ।
अनुवाक 7 संतताख्येष्टका मन्त्राः
VERSE: 1 { 1.5.7.1}
आयुषः प्राणꣳ संतनु ।
प्राणाद् अपानꣳ संतनु ।
अपानाद् व्यानꣳ संतनु ।
व्यानाच् चक्षुः संतनु ।
चक्षुषः श्रोत्रꣳ संतनु ।
श्रोत्रान् मनः संतनु ।
मनसो वाचꣳ संतनु ।
वाच आत्मानꣳ संतनु ।
आत्मनः पृथिवीꣳ संतनु ।
पृथिव्या अन्तरिक्षꣳ संतनु ।
अन्तरिक्षाद् दिवꣳ संतनु ।
दिवः सुवः संतनु ।
अनुवाक 8 अथर्वशिरोभिधानानां इष्टकानां मन्त्राः
VERSE: 1 { 1.5.8.1}
इन्द्रो दधीचो अस्थभिः ।
वृत्राण्य् अप्रतिष्कुतः ।
जघान नवतीर् नव ।
इच्छन्न् अश्वस्य यत्_शिरः ।
पर्वतेष्व् अपश्रितम् ।
तद् विदत्_शर्यणावति ।
अत्र_आह गोरमन्वत ।
नाम त्वष्टुर् अपीच्यम् ।
इत्था चन्द्रमसो गृहे ।
इन्द्रम् इद् गाथिनो बृहत् ।
VERSE: 2 { 1.5.8.2}
इन्द्रम् अर्केभिर् अर्किणः ।
इन्द्रं वाणीर् अनूषत ।
इन्द्र इद्_ हर्योः सचा ।
संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ।
इन्द्रो दीर्घाय चक्षसे ।
आ सूर्यꣳ रोहयद् दिवि ।
वि गोभिर् अद्रिमैरयत् ।
इन्द्र वाजेषु नो अव ।
सहस्रप्रधनेषु च ।
VERSE: 3 { 1.5.8.3}
उग्र उग्राभिर् ऊतिभिः ।
तम् इन्द्रं वाजयामसि ।
महे वृत्राय हन्तवे ।
स वृषा वृषभोऽभुवत्} ।
इन्द्रः स दामने कृतः ।
ओजिष्ठः स बले हितः ।
द्युम्नी श्लोकी स सौम्यः ।
गिरा वज्रो न संभृतः ।
सबलो अनपच्युतः ।
ववक्षुर् उग्रो अस्तृतः ।
अनुवाक 9 दीक्षणीयादीनि बहिष्पवमानोपक्रमान्तानि सोमाङ्गानि
VERSE: 1 { 1.5.9.1}
देव_असुराः संयत्ता आसन् ।
स प्रजापतिर् इन्द्रं ज्येष्ठं पुत्रम् अप न्यधत्त ।
न_इद् एनम् असुरा बलीयाꣳसो ऽहनन्न् इति ।
प्रह्रादो ह वै कायाधवः ।
विरोचनꣳ स्वं पुत्रम् अप न्यधत्त ।
न_इद् एनं देवा अहनन्न् इति ।
ते देवाः प्रजापतिम् उपसमेत्य_ऊचुः ।
न_अराजकस्य युद्धम् अस्ति ।
इन्द्रम् अन्विच्छाम_इति ।
तं यज्ञक्रतुभिर् अन्वैच्छन् ।
VERSE: 2 { 1.5.9.2}
तं यज्ञक्रतुभिर् न_अन्वविन्दन् ।
तम् इष्टिभिर् अन्वैच्छन् ।
तम् इष्टिभिर् अन्वविन्दन् ।
तद् इष्टीनाम् इष्टित्वम् ।
एष्टयो ह वै नाम ।
ता इष्टय इत्य् आचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
तस्मा एतम् आग्नावैष्णवम् एकादशकपालं दीक्षणीयं निरवपन् ।
तद् अपद्रुत्य_अतन्वत ।
तान् पत्नीसंयाजान् त उपानयन् ।
VERSE: 3 { 1.5.9.3}
ते तदन्तम् एव कृत्वा_उदद्रवन् ।
ते प्रायणीयम् अभि समारोहन् ।
तद् अपद्रुत्य_अतन्वत ।
तान्_शंय्वन्त उपानयन् ।
ते तदन्तम् एव कृत्वा_उदद्रवन् ।
त आतिथ्यम् अभि समारोहन् ।
तद् अपद्रुत्य_अतन्वत ।
तान् इडान्त उपानयन् ।
ते तदन्तम् एव कृत्वा_उदद्रवन् ।
तस्माद् एता एतदन्ता इष्टयः संतिष्ठन्ते ।
VERSE: 4 { 1.5.9.4}
एवꣳ हि देवा अकुर्वत ।
इति देवा अकुर्वत ।
इत्य् उ वै मनुष्याः कुर्वते ।
ते देवा ऊचुः ।
यद् वा इदम् उच्चैर् यज्ञेन चराम ।
तन् नो ऽसुराः पाप्मा_अनुविन्दन्ति ।
उपाꣳशु_उपसदा चराम ।
तथा नो ऽसुराः पाप्मा न_अनुवेत्स्यन्ति_इति ।
त उपाꣳशु_उपसदम् अतन्वत ।
तिस्र एव सामिधेनीर् अनूच्य ।
VERSE: 5 { 1.5.9.5}
स्रुवेण_आघारम् आघार्य ।
तिस्रः पराचीर् आहुतीर् हुत्वा ।
स्रुवेण_उपसदं जुहवाञ् चक्रुः ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहा_इति । अशनयापिपासे ह वा उग्रं वचः ।
एनश् च वैरहत्यं च त्वेषं वचः ।
एतꣳ ह वाव तच् चतुर्धाविहितं पाप्मानं देवा अपजघ्निरे ।
तथो एवैतद् एवंविद् यजमानः ।
तिस्र एव सामिधेनीर् अनूच्य ।
स्रुवेण_आघारम् आघार्य ।
VERSE: 6 { 1.5.9.6}
तिस्रः पराचीर् आहुतीर् हुत्वा ।
स्रुवेण_उपसदं जुहोति ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहा_इति ।
अशनयापिपासे ह वा उग्रं वचः ।
एनश् च वैरहत्यं च त्वेषं वचः ।
एतम् एव तत्_ चतुर्धाविहितं पाप्मानं यजमानो ऽपहते ।
ते ऽभिनीय_एव_अहः पशुम् आलभन्त ।
अह्न एव तद् देवा अवर्तिं पाप्मानं मृत्युम् अपजघ्निरे ।
तेन_अभिनीय_इव रात्रेः प्राचरन् ।
रात्रिया एव तद् देवा अवर्तिं पाप्मानं मृत्युम् अपजघ्निरे ।
VERSE: 7 { 1.5.9.7}
तस्माद् अभिनीय_एव_अहः पशुम् आलभेत ।
अह्न एव तद् यजमानो ऽवर्तिं पाप्मानं भ्रातृव्यान् अपनुदते ।
तेन_अभिनीय_इव रात्रेः प्रचरेत् ।
रात्रिया एव तद् यजमानो ऽवर्तिं पाप्मानं भ्रातृव्यान् अपनुदते ।
स एष उपवसथीये ऽहन् द्विदेवत्यः पशुर् आलभ्यते ।
द्वयं वा अस्मिꣳल् लोके यजमानः ।
अस्थि च माꣳसं च ।
अस्थि चैव तेन माꣳसं च यजमानः सꣳस्कुरुते ।
ता वा एताः पञ्च देवताः ।
अग्नीषोमाव् अग्निर् मित्रावरुणौ ।
{ 1.5.9.7}
पञ्च पञ्ची वै यजमानः ।
त्वङ् माꣳसꣳ स्नाव_अस्थि मज्जा ।
एतम् एव तत् पञ्चधा विहितम् आत्मानं वरुणपाशान् मुञ्चति ।
भेषजतायै निर्वरुणत्वाय ।
तꣳ सप्तभिश् छन्दोभिः प्रातर् अह्वयन् ।
तस्मात् सप्त चतुरुत्तराणि छन्दाꣳसि प्रातरनुवाके ऽनूच्यन्ते ।
तम् एतया_उपसमेत्य_उपासीदन् ।
उप_अस्मै गायता नर इति ।
तस्माद् एतया बहिष्पवमान उपसद्यः ।
अनुवाक 10 त्रिवृदादि स्तोमाः
VERSE: 1 { 1.5.10.1}
स समुद्र उत्तरतः प्राज्वलद् भूम्यन्तेन ।
एष वाव स समुद्रः ।
यच् चात्वालः ।
एष उ वेव स भूम्यन्तः ।
यद् वेद्यन्तः ।
तद् एतत् त्रिशलं त्रिपूरुषम् ।
तस्मात् तं त्रिवितस्तं खनन्ति ।
स सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् ।
तं यद् अस्या अध्यजनयन् ।
तस्माद् आदित्यः ।
VERSE: 2 { 1.5.10.2}
अथ यत् सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् ।
सास्य कौशिकता ।
तं त्रिवृता_अभि प्रास्तुवत ।
तं त्रिवृता_आददत ।
तं त्रिवृता_अहरन् ।
यावती त्रिवृतो मात्रा ।
तं पञ्चदशेन_अभि प्रास्तुवत ।
तं पञ्चदशेना_आददत ।
तं पञ्चदशेन_अहरन् ।
यावती पञ्चदशस्य मात्रा ।
VERSE: 3 { 1.5.10.3}
तꣳ सप्तदशेन_अभि प्रास्तुवत ।
तꣳ सप्तदशेन_आददत ।
तꣳ सप्तदशेन_अहरन् ।
यावती सप्तदशस्य मात्रा ।
तस्य सप्तदशेन ह्रियमाणस्य तेजो हरो ऽपतत् ।
तम् एकविꣳशेन_अभि प्रास्तुवत ।
तम् एकविꣳशेन_आददत ।
तम् एकविꣳशेन_अहरन् ।
यावत्य् एकविꣳशस्य मात्रा ।
ते यत् त्रिवृता स्तुवते ।
VERSE: 4 { 1.5.10.4}
त्रिवृता_एव तद् यजमानम् आददते ।
तं त्रिवृता_एव हरन्ति ।
यावती त्रिवृतो मात्रा ।
अग्निर् वै त्रिवृत् ।
यावद् वा अग्नेर् दहतो धूम उदेत्य_अनु व्येति ।
तावती त्रिवृतो मात्रा ।
अग्नेर् एवैनं तत् ।
मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति ।
अथो यत् पञ्चदशेन स्तुवते ।
0 पञ्चदशेन_एव तद् यजमानम् आददते ।
VERSE: 5 { 1.5.10.5}
तं पञ्चदशेन_एव हरन्ति ।
यावती पञ्चदशस्य मात्रा ।
चन्द्रमा वै पञ्चदशः ।
एष हि पञ्चदश्याम् अपक्षीयते ।
पञ्चदश्याम् आपूर्यते ।
चन्द्रमस एवैनं तत् ।
मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति ।
अथ यत् सप्तदशेन स्तुवते ।
सप्तदशेन_एव तद् यजमानम् आददते ।
तꣳ सप्तदशेन_एव हरन्ति ।
VERSE: 6 { 1.5.10.6}
यावती सप्तदशस्य मात्रा ।
प्रजापतिर् वै सप्तदशः ।
प्रजापतेर् एवैनं तत् ।
मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति ।
अथ यद् एकविꣳशेन स्तुवते ।
एकविꣳशेन_एव तद् यजमानम् आददते ।
तम् एकविꣳशेन_एव हरन्ति ।
यावत्य् एकविꣳशस्य मात्रा ।
असौ वा आदित्य एकविꣳशः ।
आदित्यस्यैवैनं तत् ।
VERSE: 7 { 1.5.10.7}
मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति ।
ते कुश्यौ ।
व्यघ्नन् ।
ते अहोरात्रे अभवताम् ।
अहर् एव सुवर्णा_अभवत् ।
रजता रात्रिः ।
स यद् आदित्य उदेति ।
एताम् एव तत् सुवर्णां कुशीम् अनु समेति ।
अथ यद् अस्तमेति ।
एताम् एव तद् रजतां कुशीम् अनु संविशति ।
प्रह्रादो ह वै कायाधवः ।
विरोचनꣳ स्वं पुत्रम् उदास्यत् ।
स प्रदरो ऽभवत् ।
तस्मात् प्रदराद् उदकं न_आचामेत् ।
अनुवाक 11 सवनीय पुरोडाशाः
VERSE: 1 { 1.5.11.1}
ये वै चत्वारः स्तोमाः ।
कृतं तत् ।
अथ ये पञ्च ।
कलिः सः ।
तस्माच् चतुष्टोमः ।
तच् चतुष्टोमस्य चतुष्टोमत्वम् ।
तद् आहुः ।
कतमानि तानि ज्योतीꣳषि ।
य एतस्य स्तोमा इति ।
त्रिवृत् पञ्चदशः सप्तदश एकविꣳशः ।
VERSE: 2 { 1.5.11.2}
एतानि वाव तानि ज्योतीꣳषि ।
य एतस्य स्तोमाः ।
सो ऽब्रवीत् ।
सप्तदशेन ह्रियमाणो व्यलेशिषि ।
भिषज्यत मा_इति ।
तम् अश्विनौ धानाभिर् अभिषज्यताम् ।
पूषा करम्भेण ।
भारती परिवापेण ।
मित्रावरुणौ पयस्यया ।
तद् आहुः ।
VERSE: 3 { 1.5.11.3}
यद् अश्विभ्यां धानाः ।
पूष्णः करम्भः ।
भारत्यै परिवापः ।
मित्रावरुणयोः पयस्याथ ।
कस्माद् एतेषाꣳ हविषाम् इन्द्रम् एव यजन्ति_इति ।
एता ह्य् एनं देवता इति ब्रूयात् ।
एतैर् हविर्भिर् अभिषज्यꣳस् तस्माद् इति ।
तं वसवो ऽष्टाकपालेन प्रातःसवने ऽभिषज्यन् ।
रुद्रा एकादशकपालेन माध्यन्दिने सवने ।
विश्वे देवा द्वादशकपालेन तृतीयसवने ।
VERSE: 4 { 1.5.11.4}
स यद् अष्टाकपालान् प्रातःसवने कुर्यात् ।
एकादश कपालान् माध्यन्दिने सवने ।
द्वादशकपालाꣳस् तृतीयसवने ।
विलोम तद् यज्ञस्य क्रियेत ।
एकादशकपालान् एव प्रातःसवने कुर्यात् ।
एकादशकपालान् माध्यन्दिने सवने ।
एकादशकपालाꣳस् तृतीयसवने ।
यज्ञस्य सलोमत्वाय ।
तद् आहुः ।
यद् वसूनां प्रातःसवनम् ।
रुद्राणां माध्यन्दिनꣳ सवनम् ।
विश्वेषां देवानां तृतीयसवनम् ।
अथ कस्माद् एतेषाꣳ हविषाम् इन्द्रम् एव यजन्ति_इति ।
एता ह्य् एनं देवता इति ब्रूयात् ।
एतैर् हविर्भिर् अभिषज्यꣳस् तस्माद् इति ।
अनुवाक 12 सप्त छन्दांसि
VERSE: 1 { 1.5.12.1}
तस्या वाचो ऽवपादाद् अबिभयुः ।
तम् एतेषु सप्तसु छन्दःस्व् अश्रयन् ।
यद् अश्रयन् ।
तत्_श्रायन्तीयस्य श्रायन्तीयत्वम् ।
यद् अवारयन् ।
तद् वारवन्तीयस्य वारवन्तीयत्वम् ।
तस्या वाच एव_अवपादाद् अबिभयुः ।
तस्मा एतानि सप्त चतुरुत्तराणि छन्दाꣳस्य् उपादधुः ।
तेषाम् अति त्रीण्य् अरिच्यन्त ।
न त्रीण्य् उदभवन् ।
VERSE: 2 { 1.5.12.2}
स बृहतीम् एव_अस्पृशत् ।
द्वाभ्याम् अक्षराभ्याम् ।
अहोरात्राभ्याम् एव ।
तद् आहुः ।
कतमा सा देवाक्षरा बृहती ।
यस्यां तत् प्रत्यतिष्ठत् ।
द्वादश पौर्णमास्यः ।
द्वादश_अष्टकाः ।
द्वादश_अमावास्याः ।
एषा वाव सा देवाक्षरा बृहती ।
VERSE: 3 { 1.5.12.3}
यस्यां तत् प्रत्यतिष्ठद् इति ।
यानि च छन्दाꣳस्य् अत्यरिच्यन्त ।
यानि च न_उदभवन् ।
तानि निर्वीर्याणि हीनान्य् अमन्यन्त ।
साऽब्रवीद् बृहती ।
माम् एव भूत्वा ।
माम् उप सꣳश्रयत_इति ।
चतुर्भिर् अक्षरैर् अनुष्टुग् बृहतीं न_उदभवत् ।
चतुर्भिर् अक्षरैः पङ्क्तिर् बृहतीम् अत्यरिच्यत ।
तस्याम् एतानि चत्वार्य् अक्षराण्य् अपच्छिद्य_आदधात् ।
VERSE: 4 { 1.5.12.4}
ते बृहती एव भूत्वा ।
बृहतीम् उप समश्रयताम् ।
अष्टाभिर् अक्षरैर् उष्णिग् बृहतीं न_उदभवत् ।
अष्टाभिर् अक्षरैस् त्रिष्टुग् बृहतीम् अत्यरिच्यत ।
तस्याम् एतान्य् अष्टाव् अक्षराण्य् अपच्छिद्य_आदधात् ।
ते बृहती एव भूत्वा ।
बृहतीम् उप समश्रयताम् ।
द्वादशभिर् अक्षरैर् गायत्री बृहतीं न_उदभवत् ।
द्वादशभिर् अक्षरैर् जगती बृहतीम् अत्यरिच्यत ।
तस्याम् एतानि द्वादश_अक्षराण्य् अपच्छिद्य_आदधात् ।
VERSE: 5 { 1.5.12.5}
ते बृहती एव भूत्वा ।
बृहतीम् उप समश्रयताम् ।
सो ऽब्रवीत् प्रजापतिः ।
छन्दाꣳसि रथो मे भवत् ।
युष्माभिर् अहम् एतम् अध्वानम् अनु संचराणि_इति ।
तस्य गायत्री च जगती च पक्षाव् अभवताम् ।
उष्णिक् च त्रिष्टुप् च प्रष्ट्यौ ।
अनुष्टुप् च पङ्क्तिश् च धुर्यौ ।
बृहत्य् एव_उद्धिर् अभवत् ।
स एतं छन्दोरथम् आस्थाय ।
एतम् अध्वानम् अनु समचरत् ।
एतꣳ ह वै छन्दोरथम् आस्थाय ।
एतम् अध्वानम् अनु संचरति ।
येनैष एतत् संचरति ।
य एवं विद्वान् सोमेन यजते ।
य उ चैनम् एवं वेद ।
प्रपाठक: 6 राजसूयः
अनुवाक 1
VERSE: 1 { 1.6.1.1}
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति ।
ये प्रत्यञ्चः शम्याया अवशीयन्ते ।
तन् नैर्ऋतम् एककपालम् ।
इयं वा अनुमतिः ।
इयं निर्ऋतिः ।
नैर्ऋतेन पूर्वेण प्रचरति ।
पाप्मानम् एव निर्ऋतिं पूर्वां निरवदयते ।
एककपालो भवति ।
एकधा_एव निर्ऋतिं निरवदयते ।
यद् अहुत्वा गार्हपत्य ईयुः ।
VERSE: 2 { 1.6.1.2}
रुद्रो भूत्वा_अग्निर् अनूत्थाय ।
अध्वर्युं च यजमानं च हन्यात् ।
वीहि स्वाहा_आहुतिं जुषाण इत्य् आह ।
आहुत्या_एवैनꣳ शमयति ।
न_आर्तिम् आर्छत्य् अध्वर्युर् न यजमानः ।
एक_उल्मुकेन यन्ति ।
तद् धि निर्ऋत्यै भागधेयम् ।
इमां दिशम् नयति ।
एषा वै निर्ऋत्यै दिक् ।
स्वायाम् एव दिशि निर्ऋतिं निरवदयते ।
VERSE: 3 { 1.6.1.3}
स्वकृत इरिणे जुहोति प्रदरे वा ।
एतद् वै निर्ऋत्या आयतनम् ।
स्व एवाऽऽयतने निर्ऋतिं निरवदयते ।
एष ते निर्ऋते भाग इत्य् आह ।
निर्दिशत्य् एवैनाम् ।
भूते हविष्मत्य् असि_इत्य् आह ।
भूतिम् एव_उपावर्तते ।
मुञ्च_इमम् अꣳहस इत्य् आह ।
अꣳहस एवैनं मुञ्चति ।
अङ्गुष्ठाभ्यां जुहोति ।
VERSE: 4 { 1.6.1.4}
अन्तत एव निर्ऋतिं निरवदयते ।
कृष्णं वासः कृष्णतूषं दक्षिणा ।
एतद् वै निर्ऋत्यै रूपम् ।
रूपेणैव निर्ऋतिं निरवदयते ।
अप्रतीक्षम् आयन्ति ।
निर्ऋत्या अन्तर्हित्यै ।
स्वाहा नमो य इदं चकार_इति पुनर् एत्य गार्हपत्ये जुहोति ।
आहुत्या_एव नमस्यन्तो गार्हपत्यमुपावर्तन्ते ।
आनुमतेन प्रचरति ।
इयं वा अनुमतिः ।
VERSE: 5 { 1.6.1.5}
इयम् एवास्मै राज्यम् अनुमन्यते ।
धेनुर् दक्षिणा ।
इमाम् एव धेनुं कुरुते ।
आदित्यं चरुं निर्वपति ।
उभयीष्व् एव प्रजास्व् अभिषिच्यते ।
दैवीषु च मानुषीषु च ।
वरो दक्षिणा ।
वरो हि राज्यꣳ समृद्ध्यै ।
आग्नावैष्णवम् एकादशकपालं निर्वपति ।
अग्निः सर्वा देवताः ।
VERSE: 6 { 1.6.1.6}
विष्णुर् यज्ञः ।
देवताश् चैव यज्ञं च_अवरुन्धे ।
वामनो वही दक्षिणा ।
यद् वही ।
तेन_आग्नेयः ।
यद् वामनः ।
तेन वैष्णवः समृद्ध्यै ।
अग्नीषोमीयम् एकादशकपालं निर्वपति ।
अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्न् इति ।
यद् अग्नीषोमीयम् एकादशकपालं निर्वपति ।
VERSE: 7 { 1.6.1.7}
वार्त्रघ्नम् एव विजित्यै ।
हिरण्यं दक्षिणा समृद्ध्यै ।
इन्द्रो वृत्रꣳ हत्वा ।
देवताभिश् च_इन्द्रियेण च व्यार्ध्यत ।
स एतम् ऐन्द्राग्नम् एकादशकपालम् अपश्यत् ।
तं निरवपत् ।
तेन वै स देवताश् च_इन्द्रियं चावारुन्धे।
यद् ऐन्द्राग्नम् एकादशकपालं निर्वपति ।
देवताश् चैव तेन_इन्द्रियं च यजमानो ऽवरुन्धे ।
ऋषभो वही दक्षिणा ।
VERSE: 8 { 1.6.1.8}
यद् वही ।
तेन_आग्नेयः ।
यद् ऋषभः ।
तेन_ऐन्द्रः समृद्ध्यै ।
आग्नेयम् अष्टाकपालं निर्वपति ।
ऐन्द्रं दधि ।
यद् आग्नेयो भवति ।
अग्निर् वै यज्ञमुखम् ।
यज्ञमुखम् एव_ऋद्धिं पुरास्ताद् धत्ते ।
यद् ऐन्द्रं दधि ।
VERSE: 9 { 1.6.1.9}
इन्द्रियम् एव_अवरुन्धे ।
ऋषभो वही दक्षिणा ।
यद् वही ।
तेन_आग्नेयः ।
यद् ऋषभः ।
तेन_ऐन्द्रः समृद्ध्यै ।
यावतीर् वै प्रजा ओषधीनाम् अहुतानाम् आश्नन् ।
ताः पराभवन् ।
आग्रयणं भवति हुताद्याय ।
यजमानस्य_अपराभावाय ।
VERSE: 10 { 1.6.1.10}
देवा वा ओषधीष्व् आजिम् अयुः ।
ता इन्द्राग्नी उदजयताम् ।
ताव् एतम् ऐन्द्राग्नं द्वादशकपालं निरवृणाताम् ।
यद् ऐन्द्राग्नो भवत्य् उज्जित्यै ।
द्वादशकपालो भवति ।
द्वादश मासाः संवत्सरः ।
संवत्सरेणैवास्मा अन्नम् अवरुन्धे ।
वैश्वदेवश् चरुर् भवति ।
वैश्वदेवं वा अन्नम् ।
अन्नम् एवास्मै स्वदयति ।
VERSE: 11 { 1.6.1.11}
प्रथमजो वत्सो दक्षिणा समृद्ध्यै ।
सौम्यꣳ श्यामाकं चरुं निर्वपति ।
सोमो वा अकृष्टपच्यस्य {अकृष्टपचस्य} राजा ।
अकृष्टपच्यम् एवास्मै स्वदयति ।
वासो दक्षिणा ।
सौम्यꣳ हि देवतया वासः समृद्ध्यै ।
सरस्वत्यै चरुं निर्वपति ।
सरस्वते चरुम् ।
मिथुनम् एव_अवरुन्धे ।
मिथुनौ गावौ दक्षिणा समृद्ध्यै ।
एति वा एष यज्ञमुखाद् ऋद्ध्याः ।
यो ऽग्नेर् देवताया एति ।
अष्टाव् एतानि हवीꣳषि भवन्ति ।
अष्टाक्षरा गायत्री ।
गायत्रो ऽग्निः ।
तेनैव यज्ञमुखाद् ऋद्ध्या अग्नेर् देवतायै न_एति ।
अनुवाक 2 राजसूये वैश्वदेवः
VERSE: 1 { 1.6.2.1}
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ।
ताः सृष्टा न प्राजायन्त ।
सो ऽग्निर् अकामयत ।
अहम् इमाः प्रजनयेयम् इति ।
स प्रजापतये ।
शुचम् अदधात् ।
सो ऽशोचत् प्रजाम् इच्छमानः ।
तस्माद् यं च प्रजा भुनक्ति यं च न ।
ताव् उभौ शोचतः प्रजाम् इच्छमानौ ।
तास्व् अग्निम् अप्यसृजत् ।
ता अग्निर् अध्यैत् ।
VERSE: 2 { 1.6.2.2}
सोमो रेतो ऽदधात् ।
सविता प्राजनयत् ।
सरस्वती वाचम् अदधात् ।
पूषा_अपोषयत् ।
ते वा एते त्रिः संवत्सरस्य प्रयुज्यन्ते ।
ये देवाः पुष्टिपतयः ।
संवत्सरो वै प्रजापतिः ।
संवत्सरेणैवास्मै प्रजाः प्राजनयत् ।
ताः प्रजा जाता मरुतो ऽघ्नन् ।
अस्मान् अपि न प्रायुक्षत_इति ।
VERSE: 3 { 1.6.2.3}
स एतं प्रजापतिर् मारुतꣳ सप्तकपालम् अपश्यत् ।
तं निरवपत् ।
ततो वै प्रजाभ्यो ऽकल्पत ।
यन् मारुतो निरुप्यते ।
यज्ञस्य क्लृप्त्यै ।
प्रजानाम् अघाताय ।
सप्तकपालो भवति ।
सप्तगणा वै मरुतः ।
गणश एवास्मै विशं कल्पयति ।
स प्रजापतिर् अशोचत् ।
VERSE: 4 { 1.6.2.4}
याः पूर्वाः प्रजा असृक्षि ।
मरुतस् ता अवधिषुः ।
कथम् अपराः सृजेया_इति ।
तस्य शुष्म आण्डं भूतं निरवर्तत ।
तद् व्युदहरत् ।
तद् अपोषयत् ।
तत् प्राजायत ।
आण्डस्य वा एतद् रूपम् ।
यद् आमिक्षा ।
यद् व्युद्धरति ।
VERSE: 5 { 1.6.2.5}
प्रजा एव तद् यजमानः पोषयति ।
वैश्वदेव्य् आमिक्षा भवति ।
वैश्वदेव्यो वै प्रजाः ।
प्रजा एवास्मै प्रजनयति ।
वाजिनम् आनयति ।
प्रजास्व् एव प्रजातासु रेतो दधाति ।
द्यावापृथिव्य एककपालो भवति ।
प्रजा एव प्रजाता द्यावापृथिवीभ्याम् उभयतः परिगृह्णाति ।
देव_असुराः संयत्ता आसन् ।
सो ऽग्निर् अब्रवीत् ।
VERSE: 6 { 1.6.2.6}
माम् अग्रे यजत ।
मया मुखेन_असुराञ् जेष्यथ_इति ।
मां द्वितीयम् इति सोमो ऽब्रवीत् ।
मया राज्ञा जेष्यथ_इति ।
मां तृतीयम् इति सविता ।
मया प्रसूता जेष्यथ_इति ।
मां चतुर्थीम् इति सरस्वती ।
इन्द्रियं वो ऽहं धास्यामि_इति मां पञ्चमम् इति पूषा ।
मया प्रतिष्ठया जेष्यथ_इति ।
VERSE: 7 { 1.6.2.7}
ते ऽग्निना मुखेन_असुरान् अजयन् ।
सोमेन राज्ञा ।
सवित्रा प्रसूताः ।
सरस्वती_इन्द्रियम् अदधात् ।
पूषा प्रतिष्ठा_आसीत् ।
ततो वै देवा व्यजयन्त ।
यद् एतानि हवीꣳषि निरुप्यन्ते विजित्यै ।
न_उत्तरवेदिम् उपवपति ।
पशवो वा उत्तरवेदिः ।
अजाता इव ह्य् एतर्हि पशवः ।
अनुवाक 3 राजसूये वैश्वदेवः
VERSE: 1 { 1.6.3.1}
त्रिवृद् बर्हिर् भवति ।
माता पिता पुत्रः ।
तद् एव तन् मिथुनम् ।
उल्बं गर्भो जरायु ।
तद् एव तन् मिथुनम् ।
त्रेधा बर्हिः संनद्धं भवति ।
त्रय इमे लोकाः ।
एष्व् एव लोकेषु प्रतितिष्ठति ।
एकधा पुनः संनद्धं भवति ।
एक इव ह्य् अयं लोकः ।
VERSE: 2 { 1.6.3.2}
अस्मिन्न् एव तेन लोके प्रतितिष्ठति ।
प्रसुवो भवन्ति ।
प्रथमजाम् एव पुष्टिम् अवरुन्धे ।
प्रथमजो वत्सो दक्षिणा समृद्ध्यै ।
पृषदाज्यं गृह्णाति ।
पशवो वै पृषदाज्यम् ।
पशूनेवावरुन्धे ।
पञ्चगृहीतं भवति ।
पाङ्क्ता हि पशवः ।
बहुरूपं भवति ।
VERSE: 3 { 1.6.3.3}
बहुरूपा हि पशवः समृद्ध्यै ।
अग्निं मन्थन्ति ।
अग्निमुखा वै प्रजापतिः प्रजा असृजत ।
यद् अग्निं मन्थन्ति ।
अग्निमुखा एव तत् प्रजा यजमानः सृजते ।
नव प्रयाजा इज्यन्ते ।
नव_अनूयाजाः ।
अष्टौ हवीꣳषि ।
द्वाव् आघारौ ।
द्वाव् आज्यभागौ ।
VERSE: 4 { 1.6.3.4}
त्रिꣳशत् संपद्यन्ते ।
त्रिꣳशदक्षरा विराट् ।
अन्नं विराट् ।
विराजा_एव_अन्नाद्यम् अवरुन्धे ।
यजमानो वा एककपालः ।
तेज आज्यम् ।
यद् एककपाल आज्यम् आनयति ।
यजमानम् एव तेजसा समर्धयति ।
यजमानो वा एककपालः ।
पशव आज्यम् ।
VERSE: 5 { 1.6.3.5}
यद् एककपाल आज्यम् आनयति ।
यजमानम् एव पशुभिः समर्धयति ।
यद् अल्पम् आनयेत् ।
अल्पा एनं पशवो भुञ्जन्त उपतिष्ठेरन् ।
यद् बहु_ आनयेत् ।
बहव एनं पशवो भुञ्जन्त उपतिष्ठेरन् ।
बह्व् आनीय_आविः पृष्ठं कुर्यात् ।
बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते ।
यजमानो वा एककपालः ।
यद् एककपालस्य_अवद्येत् ।
VERSE: 6 { 1.6.3.6}
यजमानस्य_अवद्येत् ।
उद् वा मद्येद् यजमानः ।
प्र वा मीयेत ।
सकृद् एव होतव्यः ।
सकृद् इव हि सुवर्गो लोकः ।
हुत्वा_अभिजुहोति ।
यजमानम् एव सुवर्गं लोकं गमयित्वा ।
तेजसा समर्धयति ।
यजमानो वा एककपालः ।
सुवर्गो लोक आहवनीयः ।
VERSE: 7 { 1.6.3.7}
यद् एककपालम् आहवनीये जुहोति ।
यजमानम् एव सुवर्गं लोकं गमयति ।
यद् धस्तेन जुहुयात् ।
सुवर्गाल् लोकाद् यजमानमवविध्येत् ।
स्रुचा जुहोति ।
सुवर्गस्य लोकस्य समष्ट्यै ।
यत् प्राङ् पद्येत ।
देवलोकम् अभिजयेत् ।
यद् दक्षिणा पितृलोकम् ।
यत् प्रत्यक् ।
VERSE: 8 { 1.6.3.8}
रक्षाꣳसि यज्ञꣳ हन्युः ।
यद् उदङ् ।
मनुष्यलोकम् अभिजयेत् ।
प्रतिष्ठितो होतव्यः ।
एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः ।
द्यावापृथिवी ऋतवः ।
ऋतून् यज्ञः ।
यज्ञं यजमानः ।
यजमानं प्रजाः ।
तस्मात् प्रतिष्ठितो होतव्यः ।
VERSE: 9 { 1.6.3.9}
वाजिनो यजति ।
अग्निर् वायुः सूर्यः ।
ते वै वाजिनः ।
तानेव तद् यजति ।
अथो खल्व् आहुः ।
छन्दाꣳसि वै वाजिन इति ।
तान्य् एव तद् यजति ।
ऋक्सामे वा इन्द्रस्य हरी सोमपानौ ।
तयोः परिधय आधानम् ।
वाजिनं भागधेयम् ।
VERSE: 10 { 1.6.3.10}
यद् अप्रहृत्य परिधीञ् जुहुयात् ।
अन्तराधानाभ्यां घासं {द्या सं} प्रयच्छेत् ।
प्रहृत्य परिधीञ् जुहोति ।
निराधानाभ्याम् एव घासं { द्या सं} प्रयच्छति ।
बर्हिषि विषिञ्चन् वाजिनम् आनयति ।
प्रजा वै बर्हिः ।
रेतो वाजिनम् ।
प्रजास्व् एव रेतो दधाति ।
समुपहूय भक्षयन्ति ।
एतत् सोमपीथा ह्य् एते ।
अथो आत्मन्न् एव रेतो दधते ।
यजमान उत्तमो भक्षयति ।
पशवो वै वाजिनम् ।
यजमान एव पशून् प्रतिष्ठापयन्ति ।
अनुवाक 4 राजसूये वरुणप्रघासः
VERSE: 1 { 1.6.4.1}
प्रजापतिः सविता भूत्वा प्रजा असृजत ।
ता एनम् अत्यमन्यन्त ।
ता अस्माद् अपाक्रामन् ।
ता वरुणो भूत्वा प्रजा वरुणेन_अग्राहयत् ।
ताः प्रजा वरुणगृहीताः ।
प्रजापतिं पुनर् उपाधावन् नाथम् इच्छमानाः ।
स एतान् प्रजापतिर् वरुणप्रघासान् अपश्यत् ।
तान् निरवपत् ।
तैर् वै स प्रजा वरुणपाशाद् अमुञ्चत् ।
यद् वरुणप्रघासा निरुप्यन्ते ।
VERSE: 2 { 1.6.4.2}
प्रजानाम् अवरुणग्राहाय ।
तासां दक्षिणो बाहुर् न्यक्न आसीत् ।
सव्यः प्रसृतः ।
स एतां द्वितीयां दक्षिणतो वेदिम् उदहन् ।
ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत् ।
यद् द्वितीयां दक्षिणतो वेदिम् उद्धन्ति ।
तस्माच् चातुर्मास्ययाज्य् अमुष्मिꣳल् लोक उभयाबाहुः ।
यज्ञ_अभिजितꣳ ह्य् अस्य ।
पृथमात्राद् वेदी असंभिन्ने भवतः ।
VERSE: 3 { 1.6.4.31}
तस्मात् पृथमात्रं व्यꣳसौ ।
उत्तरस्यां वेद्याम् उत्तरवेदिम् उपवपति ।
पशवो वा उत्तरवेदिः ।
पशून् एव_अवरुन्धे ।
अथो यज्ञपरुषो ऽनन्तरित्यै ।
एतद् ब्राह्मणान्य् एव पञ्च हवीꣳषि ।
अथैष ऐन्द्राग्नो भवति ।
प्राणापानौ वा एतौ देवानाम् ।
यद् इन्द्राग्नी ।
यद् ऐन्द्राग्नो भवति ।
VERSE: 4 { 1.6.4.4}
प्राणापानाव् एव_अवरुन्धे ।
ओजो बलं वा एतौ देवानाम् ।
यद् इन्द्राग्नी ।
यद् ऐन्द्राग्नो भवति ।
ओजो बलम् एव_अवरुन्धे ।
मारुत्य् आमिक्षा भवति ।
वारुण्य् आमिक्षा ।
मेषी च मेषश् च भवतः ।
मिथुना एव प्रजा वरुणपाशान् मुञ्चति ।
लोमशौ भवतो मेध्यत्वाय ।
VERSE: 5 { 1.6.4.5}
शमीपर्णान्य् उपवपति ।
घासम् एवाऽऽभ्याम् अपियच्छति ।
प्रजापतिम् अन्नाद्यं न_उपानमत् ।
स एतेन शत_इध्मेन हविषा_अन्नाद्यम् अवारुन्ध ।
यत् परःशतानि शमीपर्णानि भवन्ति ।
अन्नाद्यस्य_अवरुद्ध्यै ।
सौम्यानि वै करीराणि ।
सौम्या खलु वा आहुतिर् दिवो वृष्टिं च्यावयति ।
यत् करीराणि भवन्ति ।
सौम्यया_एव_आहुत्या दिवो वृष्टिम् अवरुन्धे ।
काय एककपालो भवति ।
प्रजानां कन्त्वाय { कंत्वाय} ।
प्रतिपूरुषं करम्भपात्राणि भवन्ति ।
जाता एव प्रजा वरुणपाशान् मुञ्चति ।
एकम् अतिरिक्तम् ।
जनिष्यमाणा एव प्रजा वरुणपाशान् मुञ्चति ।
अनुवाक 5 राजसूये वरुणप्रघासः
VERSE: 1 { 1.6.5.1}
उत्तरस्यां वेद्याम् अन्यानि हवीꣳषि सादयति ।
दक्षिणायां मारुतीम् ।
अपधुरम् एवैनां युनक्ति ।
अथो ओज एवासाम् अवहरति ।
तस्माद् ब्रह्मणश् च क्षत्त्राच् च विशो ऽन्यतो ऽपक्रमिणीः ।
मारुत्या पूर्वया प्रचरति ।
अनृतम् एवा_अवयजते ।
वारुण्या_उत्तरया ।
अन्तत एव {एवं} वरुणम् अवयजते ।
यद् एव_अध्वर्युः करोति ।
VERSE: 2 { 1.6.5.2}
तत् प्रतिप्रस्थाता करोति ।
तस्माद् यत्_ श्रेयान् करोति ।
तत् पापीयान् करोति ।
पत्नीं वाचयति ।
मेध्याम् एवैनां करोति ।
अथो तप एवैनाम् उपनयति ।
यत्_ जारꣳ सन्तं न प्रब्रूयात् ।
प्रियं ज्ञातिꣳ रुन्ध्यात् ।
असौ मे जार इति निर्दिशेत् ।
निर्दिश्य_एवैनं वरुणपाशेन ग्राहयति ।
VERSE: 3 { 1.6.5.3}
प्रघास्यान् हवामह इति पत्नीम् उदानयति ।
अहूता_एवैनाम् { अह्वतैवैनाम्} ।
यत् पत्नी पुरोनुवाक्याम् अनुब्रूयात् ।
निर्वीर्यो यजमानः स्यात् ।
यजमानो ऽन्वाह ।
आत्मन्न् एव वीर्यं धत्ते ।
उभौ याज्याꣳ सवीर्यत्वाय ।
यद् ग्रामे यद् अरण्य इत्य् आह ।
यथा_उदितम् एव वरुणम् अवयजते ।
यजमानदेवत्यो वा आहवनीयः ।
VERSE: 4 { 1.6.5.4}
भ्रातृव्यदेवत्यो दक्षिणः ।
यद् आहवनीये जुहुयात् ।
यजमानं वरुणपाशेन ग्राहयेत् ।
दक्षिणे ऽग्नौ जुहोति ।
भ्रातृव्यम् एव वरुणपाशेन ग्राहयति ।
शूर्पेण जुहोति ।
अन्यम् एव वरुणम् अवयजते ।
शीर्षन्न् अधिनिधाय जुहोति ।
शीर्षत एव वरुणम् अवयजते ।
प्रत्यङ् तिष्ठन्_जुहोति ।
{सम्पादक टिप्पणी -- चतुष्कोणगता कण्डिका_इयं पदपाठभ्रमेण दण्डपातभ्रमेण वा_अष्टपदा जाता}
VERSE: 5 { 1.6.5.5}
प्रत्यङ्ङ् एव वरुणपाशान् निर्मुच्यते ।
अक्रन् कर्म कर्मकृत इत्य् आह ।
देवान् ऋणं निरवदाय ।
अनृणा गृहान् उपप्रेत_इति वाव_एतद् आह ।
वरुणगृहीतं वा एतद् यज्ञस्य ।
यद् यजुषा गृहीतस्य_अतिरिच्यते ।
तुषाश् च निष्कासश् च ।
तुषैश् च निष्कासेन च_अवभृथम् अवैति ।
वरुणगृहीतेन_एव वरुणम् अवयजते ।
अपो ऽवभृथम् अवैति ।
VERSE: 6 { 1.6.5.6}
अप्सु वै वरुणः ।
साक्षाद् एव वरुणम् अवयजते ।
प्रतियुतो वरुणस्य पाश इत्य् आह ।
वरुणपाशाद् एव निर्मुच्यते ।
अप्रतीक्षम् आयन्ति ।
वरुणस्य_अन्तर्हित्यै ।
एधो ऽस्येधिषीमहि_इत्य् आह ।
समिधा_एव_अग्निं नमस्यन्त उपायन्ति ।
तेजो ऽसि तेजो मयि धेहि_इत्य् आह ।
तेज एवाऽऽत्मन् धत्ते ।
अनुवाक 6 राजसूये साकमेधः
VERSE: 1 { 1.6.6.1}
देव_असुराः संयत्ता आसन् ।
सो ऽग्निर् अब्रवीत् ।
मम_इयम् अनीकवती तनूः ।
तां प्रीणीत ।
अथ_असुरान् अभिभविष्यथ_इति ।
ते देवा अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालं निरवपन् ।
सो ऽग्निर् अनीकवान् स्वेन भागधेयेन प्रीतः ।
चतुर्धा_अनीकान्य् अजनयत ।
ततो देवा अभवन् ।
परा_असुराः ।
VERSE: 2 { 1.6.6.2}
यद् अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालं निर्वपति ।
अग्निम् एव_अनीकवन्तꣳ स्वेन भगधेयेन प्रीणाति ।
सो ऽग्निर् अनीकवान् स्वेन भागधेयेन प्रीतः ।
चतुर्धा_अनीकानि जनयते ।
असौ वा आदित्यो ऽग्निर् अनीकवान् ।
तस्य रश्मयो ऽनीकानि ।
साकꣳ सूर्येण_उद्यता निर्वपति ।
साक्षाद् एवास्मा अनीकानि जनयति ।
ते ऽसुराः पराजिता यन्तः ।
द्यावापृथिवी उपाश्रयन् ।
VERSE: 3 { 1.6.6.3}
ते देवा मरुद्भ्यः सांतपनेभ्यश् चरुं निरवपन् ।
तां द्यावापृथिवीभ्याम् एव_उभयतः समतपन् ।
यन् मरुद्भ्यः सांतपनेभ्यश् चरुं निर्वपति ।
द्यावापृथिवीभ्याम् एव तद् उभयतो यजमानो भ्रातृव्यान् संतपति ।
मध्यंदिने निर्वपति ।
तर्हि हिते ऽक्ष्णिष्ठं तपति ।
चरुर् भवति ।
सर्वत एवैनान् संतपति ।
ते देवाः श्वोविजयिनः सन्तः ।
सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् ।
VERSE: 4 { 1.6.6.4}
आशिता एव_अद्य_उपवसाम ।
कस्य वा ह_इदम् ।
कस्य वा श्वो भवितेति ।
स शृतो ऽभवत् ।
तस्य_अहुतस्य न_अश्नन्न् ।
न हि देवा अहुतस्य_अश्नन्ति ।
ते ऽब्रुवन् ।
कस्मा इमꣳ होष्याम इति ।
मरुद्भ्यो गृहमेधिभ्य इत्य् अब्रुवन् ।
तं मरुद्भ्यो गृहमेधिभ्यो ऽजुहवुः ।
VERSE: 5 { 1.6.6.5}
ततो देवा अभवन् ।
परा_असुराः ।
यस्यैवं विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुह्वति ।
भवत्य् आत्मना ।
परा_अस्य भ्रातृव्यो भवति ।
यद् वै यज्ञस्य पाकत्रा क्रियते ।
पशव्यं तत् ।
पाकत्रा वा एतत् क्रियते ।
यन् न_इध्माबर्हिर् भवति ।
न सामिधेनीर् अन्वाह ।
VERSE: 6 { 1.6.6.6}
न प्रयाजा इज्यन्ते ।
न_अनूयाजाः ।
य एवं वेद ।
पशुमान् भवति ।
आज्यभागौ यजति ।
यज्ञस्यैव चक्षुषी न_अन्तरेति ।
मरुतो गृहमेधिनो यजति ।
भागधेयेन_एवैनान् समर्धयति ।
अग्निꣳ स्विष्टकृतं यजति प्रतिष्ठित्यै ।
इडान्तो भवति ।
पशवो वा इडा ।
पशुष्व् एव_उपरिष्टात् प्रतितिष्ठति ।
अनुवाक 7 राजसूये साकमेधः
VERSE: 1 { 1.6.7.1}
यत् पत्नी गृहमेधीयस्य_अश्नीयात् ।
गृहमेध्य् एव स्यात् ।
वि त्व् अस्य यज्ञ ऋध्येत ।
यन् न_अश्नीयात् ।
अगृहमेधी स्यात् ।
न_अस्य यज्ञो व्य्र्̥द्ध्येत ।
प्रतिवेशं पचेयुः ।
तस्य_अश्नीयात् ।
गृहमेध्य् एव भवति ।
न_अस्य यज्ञो व्यृध्यते ।
VERSE: 2 { 1.6.7.2}
ते देवा गृहमेधीयेन_इष्ट्वा ।
आशिता अभवन् ।
आञ्जत_अभ्यञ्जत ।
अनु वत्सान् अवासयन् ।
तेभ्यो ऽसुराः क्षुधं प्राहिण्वन् ।
सा देवेषु लोकम् अवित्त्वा ।
असुरान् पुनर् अगच्छत् ।
गृहमेधीयेन_इष्ट्वा ।
आशिता भवन्ति ।
आञ्जते ऽभ्यञ्जते ।
VERSE: 3 { 1.6.7.3}
अनु वत्सान् वासयन्ति ।
भ्रातृव्यायैव तद् यजमानः क्षुधं प्रहिणोति ।
ते देवा गृहमेधीयेन_इष्ट्वा ।
इन्द्राय निष्कासं न्यदधुः ।
अस्मान् एव श्व इन्द्रो निहितभाग उपावर्तितेति ।
तान् इन्द्रो निहितभाग उपावर्तत ।
गृहमेधीयेन_इष्ट्वा ।
इन्द्राय निष्कासं निदध्यात् ।
इन्द्र एवैनं निहितभाग उपावर्तते ।
गार्हपत्ये जुहोति ।
VERSE: 4 { 1.6.7.4}
भागधेयेनैवैनꣳ समर्धयति ।
ऋषभम् आह्वयति ।
वषट्कार एवास्य सः ।
अथो इन्द्रियम् एव तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते ।
इन्द्रो वृत्रꣳ हत्वा ।
परां परावतम् अगच्छत् ।
अपाराधम् इति मन्यमानः ।
सो ऽब्रवीत् ।
क इदं वेदिष्यति_इति ।
ते ऽब्रुवन् मरुतो वरं वृणामहै ।
VERSE: 5 { 1.6.7.5}
अथ वयं वेदाम ।
अस्मभ्यम् एव प्रथमꣳ हविर्निरुप्याता इति ।
त एनम् अध्यक्रीडन् ।
तत् क्रीडिनां क्रीडित्वम् ।
यन् मरुद्भ्यः क्रीडिभ्यः प्रथमꣳ हविर् निरुप्यते विजित्यै ।
साकꣳ सूर्येण_उद्यता निर्वपति ।
एतस्मिन् वै लोक इन्द्रो वृत्रम् अहन् समृद्ध्यै ।
एतद् ब्राह्मणान्य् एव पञ्च हवीꣳषि ।
एतद् ब्राह्मण ऐन्द्राग्नः ।
अथैष ऐन्द्रश् चरुर् भवति ।
{ 1.6.7.5}
उद्धारं वा एतम् इन्द्र उदहरत ।
वृत्रꣳ हत्वा ।
अन्यासु देवतास्व् अधि ।
यद् एष ऐन्द्रश् चरुर् भवति ।
उद्धारम् एव तं यजमान उद्धरते ।
अन्यासु प्रजास्व् अधि ।
वैश्वकर्मण एककपालो भवति ।
विश्वान्य् एव तेन कर्माणि यजमानो ऽवरुन्धे ।
अनुवाक 8 राजसूये पिण्डपितृयज्ञः
VERSE: 1 { 1.6.8.1}
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ।
ता वरुणप्रघासैर् वरुणपाशाद् अमुञ्चत् ।
साकमेधैः प्रत्यस्थापयत् ।
त्र्यम्बकैर् रुद्रं निरवादयत ।
पितृयज्ञेन सुवर्गं लोकम् अगमयत् ।
यद् वैश्वदेवेन यजते ।
प्रजा एव तद् यजमानः सृजते ।
ता वरुणप्रघासैर् वरुणपाशान् मुञ्चति ।
साकमेधैः प्रतिष्ठापयति ।
त्र्यम्बकैर् रुद्रं निरवदयते ।
VERSE: 2 { 1.6.8.2}
पितृयज्ञेन सुवर्गं लोकं गमयति ।
दक्षिणतः प्राचीनावीती निर्वपति ।
दक्षिणावृद् धि पितृणाम् ।
अनादृत्य तत् ।
उत्तरत एव_उपवीय निर्वपेत् ।
उभये हि देवाश् च पितरश् च_इज्यन्ते ।
अथो यद् एव दक्षिणार्धे ऽधिश्रयति ।
तेन दक्षिणावृत् ।
सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति ।
संवत्सरो वै सोमः पितृमान् ।
VERSE: 3 { 1.6.8.3}
संवत्सरम् एव प्रीणाति ।
पितृभ्यो बर्हिषद्भ्यो धानाः ।
मासा वै पितरो बर्हिषदः ।
मासान् एव प्रीणाति ।
यस्मिन् वा ऋतौ पुरुषः प्रमीयते ।
सो ऽस्य_अमुष्मिꣳल् लोके भवति ।
बहुरूपा धाना भवन्ति ।
अहोरात्राणाम् अभिजित्यै ।
पितृभ्यो ऽग्निष्वात्तेभ्यो मन्थम् ।
अर्धमासा वै पितरो ऽग्निष्वात्ताः ।
VERSE: 4 { 1.6.8.4}
अर्धमासान् एव प्रीणाति ।
अभिवान्यायै दुग्धे भवति ।
सा हि पितृदेवत्यं दुहे ।
यत् पूर्णम् ।
तन् मनुष्याणाम् ।
उपर्यर्धो देवानाम् ।
अर्धः पितृणाम् ।
अर्ध उपमन्थति ।
अर्धो हि पितृणाम् ।
एकया_उपमन्थति ।
VERSE: 5 { 1.6.8.5}
एका हि पितृणाम् ।
दक्षिणा_उपमन्थति ।
दक्षिणावृद्धि पितृणाम् ।
अनारभ्य_उपमन्थति ।
तद्धि पितॄन् गच्छति ।
इमां दिशं वेदिम् उद्धन्ति ।
उभये हि देवाश् च पितरश् च_इज्यन्ते ।
चतुःस्रक्तिर् भवति ।
सर्वा ह्य् अनु दिशः पितरः ।
अखाता भवति ।
VERSE: 6 { 1.6.8.6}
खाता हि देवानाम् ।
मध्यतो ऽग्निर् आधीयते ।
अन्ततो हि देवानाम् आधीयते ।
वर्षीयान् इध्म इध्माद् भवति व्यावृत्त्यै ।
परिश्रयति ।
अन्तर्हितो हि पितृलोको मनुष्यलोकात् ।
यत् परुषि दिनम् ।
तद् देवानाम् ।
यद् अन्तरा ।
तन् मनुष्याणाम् ।
VERSE: 7 { 1.6.8.7}
यत् समूलम् ।
तत् पितृणाम् ।
समूलं बर्हिर् भवति व्यावृत्त्यै ।
दक्षिणा स्तृणाति ।
दक्षिणावृद्धि पितृणाम् ।
त्रिः पर्येति ।
तृतीये वा इतो लोके पितरः ।
तान् एव प्रीणाति ।
त्रिः पुनः पर्येति ।
षट् संपद्यन्ते ।
VERSE: 8 { 1.6.8.8}
षड् वा ऋतवः ।
ऋतून् एव प्रीणाति ।
यत् प्रस्तरं यजुषा गृह्णीयात् ।
प्रमायुको यजमानः स्यात् ।
यन् न गृह्णीयात् ।
अनायतनः स्यात् ।
तूष्णीम् एव न्यस्येत् ।
न प्रमायुको भवति ।
न_अनायतनः ।
यत् त्रीन् परिधीन् परिदध्यात् ।
VERSE: 9 { 1.6.8.9}
मृत्युना यजमानं परिगृह्णीयात् ।
यन् न परिदध्यात् ।
रक्षाꣳसि यज्ञꣳ हन्युः ।
द्वौ परिधी परिदधाति ।
रक्षसाम् अपहत्यै ।
अथो मृत्योर् एव यजमानम् उत्सृजति ।
यत् त्रीणि_त्रीणि हवीꣳष्य् उदाहरेयुः ।
त्रयस्_त्रय एषाꣳ साकं प्रमीयेरन् ।
एकैकम् अनूचीनान्य् उदाहरन्ति ।
एकैक एवैषाम् अन्वञ्चः प्रमीयते ।
कशिपु कशिपव्याय ।
उपबर्हणम् उपबर्हण्याय ।
आञ्जनम् आञ्जन्याय ।
अभ्यञ्जनम् अभ्यञ्जन्याय ।
यथाभागम् एवैनान् प्रीणाति ।
अनुवाक 9 राजसूये पितृयज्ञः
VERSE: 1 { 1.6.9.1}
अग्नये देवेभ्यः पितृभ्यः समिध्यमानाय_अनुब्रूहि_इत्य् आह ।
उभये हि देवाश् च पितरश् च_इज्यन्ते ।
एकाम् अन्वाह ।
एका हि पितृणाम् ।
त्रिर् अन्वाह ।
त्रिर् हि देवानाम् ।
आघाराव् आघारयति ।
यज्ञपरुषोर् अनन्तरित्यै ।
न_आर्षेयं वृणीते ।
न होतारम् ।
VERSE: 2 { 1.6.9.2}
यद् आर्षेयं वृणीते ।
यद् होतारम् ।
प्रमायुको यजमानः स्यात् ।
प्रमायुको होता ।
तस्मान् न वृणीते ।
यजमानस्य होतुर् गोपीथाय ।
अपबर्हिषः प्रयाजान् यजति ।
प्रजा वै बर्हिः ।
प्रजा एव मृत्योर् उत्सृजति ।
आज्यभागौ यजति ।
VERSE: 3 { 1.6.9.3}
यज्ञस्यैव चक्षुषी न_अन्तरेति ।
प्राचीनावीती सोमं यजति ।
पितृदेवत्या हि ।
एषा_आहुतीः ।
पञ्चकृत्वो ऽवद्यति ।
पञ्च ह्य् एता देवताः ।
द्वे पुरोऽनुवाक्ये ।
याज्या देवता वषट्कारः ।
ता एव प्रीणाति ।
सन्ततम् अवद्यति ।
VERSE: 4 { 1.6.9.4}
ऋतूनाꣳ संतत्यै ।
प्र_एवैभ्यः पूर्वया पुरोऽनुवाक्यया_आह ।
प्रणयति द्वितीयया ।
गमयति याज्यया ।
तृतीये वा इतो लोके पितरः ।
अह्न एवैनान् {एवैनां} पूर्वया पुरोऽनुवाक्यया_अत्यानयति ।
रात्रियै द्वितीयया ।
आ_एवैनान् याज्यया गमयति ।
दक्षिणतो ऽवदाय ।
उदङ्ङ् अतिक्रामति व्यावृत्त्यै ।
VERSE: 5 { 1.6.9.5}
आ स्वधा_इत्य् आश्रावयति ।
अस्तु स्वधा_इति प्रत्याश्रावयति ।
स्वधा नम इति वषट्करोति ।
स्वधाकारो हि पितृणाम् ।
सोमम् अग्रे यजति ।
सोमप्रयाजा हि पितरः ।
सोमं पितृमन्तं यजति ।
संवत्सरो वै सोमः पितृमान् ।
संवत्सरम् एव तद् यजति ।
पितॄन् बर्हिषदो यजति ।
VERSE: 6 { 1.6.9.6}
ये वै यज्वानः ।
ते पितरो बर्हिषदः ।
तान् एव तद् यजति ।
पितॄन् अग्निष्वात्तान् यजति ।
ये वा अयज्वानो गृहमेधिनः ।
ते पितरो ऽग्निष्वात्ताः ।
तान् एव तद् यजति ।
अग्निं कव्यवाहनं यजति ।
य एव पितृणाम् अग्निः ।
तम् एव तद् यजति ।
VERSE: 7 { 1.6.9.7}
अथो यथा_अग्निꣳ स्विष्टकृतं यजति ।
तादृग् एव तत् ।
एतत् ते तत ये च त्वाम् अन्व् इति तिसृषु स्रक्तीषु निदधाति ।
तस्माद् आ तृतीयात् पुरुषान् नामनिगृह्णन्ति { नाम न गृह्णन्ति?} ।
एतावन्तो हि_इज्यन्ते ।
अत्र पितरो यथाभागं मन्दध्वम् इत्य् आह ।
ह्लीका हि पितरः ।
उदञ्चो निष्क्रामन्ति ।
एषा वै मनुष्याणां दिक् ।
स्वाम् एव तद् दिशम् अनु निष्क्रामन्ति ।
VERSE: 8 { 1.6.9.8}
आहवनीयम् उपतिष्ठन्ते ।
न्य् एवास्मै तद् ध्नुवते ।
यत् सत्य् आहवनीये ।
अथ_अन्यत्र चरन्ति ।
आ तमितोर् उपतिष्ठन्ते ।
अग्निम् एव_उपद्रष्टारं कृत्वा ।
पितॄन् निरवदयन्ते ।
अन्तं वा एते प्राणानां गच्छन्ति ।
य आ तमितोर् उपतिष्ठन्ते ।
सुसंदृशं त्वा वयम् इत्य् आह ।
VERSE: 9 { 1.6.9.9}
प्राणो वै सुसंदृक् ।
प्राणम् एवाऽऽत्मन् दधते ।
योजा न्व् इन्द्र ते हरी इत्य् आह ।
प्राणम् एव पुनर् अयुङ्क्त ।
अक्षन्न् अमीमदन्त हि_इति गार्हपत्यम् उपतिष्ठन्ते ।
अक्षन्न् अमीमदन्त_अथ त्वा_उपतिष्ठामह इति वाव_एतद् आह ।
अमीमदन्त पितरः सोम्या इत्य् अभिप्रपद्यन्ते ।
अमीमदन्त पितरो ऽथ त्वा_अभिप्रपद्यामह इति वाव_एतद् आह ।
अपः परिषिञ्चति ।
मार्जयत्य् एवैनान् ।
VERSE: 10 { 1.6.9.10}
अथो तर्पयत्य् एव ।
तृप्यति प्रजया पशुभिः ।
य एवं वेद ।
अपबर्हिषाव् अनूयाजौ यजति ।
प्रजा वै बर्हिः ।
प्रजा एव मृत्योर् उत्सृजति ।
चतुरः प्रयाजान् यजति ।
द्वाव् अनूयाजौ ।
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
{ 1.6.9.10}
ऋतून् एव प्रीणाति ।
न पत्न्य् अन्वास्ते ।
न संयाजयन्ति ।
यत् पत्न्य् अन्वासीत ।
यत् संयाजयेयुः ।
प्रमायुका स्यात् ।
तस्मान् न_अन्वास्ते ।
न संयाजयन्ति ।
पत्नियै गोपीथाय ।
अनुवाक 10 राजसूये त्र्यम्बकहविः
VERSE: 1 { 1.6.10.1}
प्रतिपूरुषम् एककपालान् निर्वपति ।
जाता एव प्रजा रुद्रान् निरवदयते ।
एकम् अतिरिक्तम् ।
जनिष्यमाणा एव प्रजा रुद्रान् निरवदयते ।
एककपाला भवन्ति ।
एकधा_एव रुद्रं निरवदयते ।
न_अभिघारयति ।
यद् अभिघारयेत् ।
अन्तरवचारिणꣳ रुद्रं कुर्यात् ।
एक_उल्मुकेन यन्ति( उल्मुके नयन्ति) ।
VERSE: 2 { 1.6.10.2}
तद् धि रुद्रस्य भागधेयम् ।
इमां दिशं यन्ति ।
एषा वै रुद्रस्य दिक् ।
स्वायाम् एव दिशि रुद्रं निरवदयते ।
रुद्रो वा अपशुकाग्रा आहुत्यै न_अतिष्ठत ।
असौ ते पशुर् इति निर्दिशेद् यं द्विष्यात् ।
यम् एव द्वेष्टि ।
तम् अस्मै पशुं निर्दिशति ।
यदि न द्विष्यात् ।
आखुस् ते पशुर् इति ब्रूयात् ।
VERSE: 3 { 1.6.10.3}
न ग्राम्यान् पशून् हिनस्ति ।
न_अरण्यान् ।
चतुष्पथे जुहोति ।
एष वा अग्नीनां पड्बीशो नाम ।
अग्निवत्य् एव जुहोति ।
मध्यमेन पर्णेन जुहोति ।
स्रुग्द् ह्य् एषा(स्रुग्ध्येषा) ।
अथो खलु ।
अन्तमेनैव होतव्यम् ।
अन्तत एव रुद्रं निरवदयते ।
VERSE: 4 { 1.6.10.4}
एष ते रुद्र भागः सह स्वस्रा_अम्बिकया इत्य् आह ।
शरद् वा अस्य_अम्बिका स्वसा ।
तया वा एष हिनस्ति ।
यꣳ हिनस्ति ।
तया_एवैनꣳ सह शमयति ।
भेषजं गव इत्य् आह ।
यावन्त एव ग्राम्याः पशवः ।
तेभ्यो भेषजं करोति ।
अव_अम्ब रुद्रम् अदिमहि_इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
VERSE: 5 { 1.6.10.5}
त्र्यम्बकं यजामह इत्य् आह ।
मृत्योर् मुक्षीय मा_अमृताद् इति वाव_एतद् आह ।
उत्किरन्ति ।
भगस्य लीप्सन्ते ।
मूते कृत्वा सजन्ति ।
यथा जनं यते ऽवसं {यतेवसं} करोति ।
तादृग् एव तत् ।
एष ते रुद्र भाग इत्य् आह निरवत्त्यै ।
अप्रतीक्षम् आयन्ति ।
अपः परिषिञ्चति ।
रुद्रस्य_अन्तर्हित्यै ।
प्र वा एते ऽस्माल् लोकाच् च्यवन्ते ।
ये त्र्यम्बकैश् चरन्ति ।
आदित्यं चरुं पुनर् एत्य निर्वपति ।
इयं वा अदितिः ।
अस्याम् एव प्रतितिष्ठन्ति ।
प्रपाठक: 7
अनुवाक 1 राजसूये शुनासीरः
VERSE: 1 { 1.7.1.1}
एतद् ब्राह्मणान्य् एव पञ्च हवीꣳषि ।
अथ_इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं निर्वपति ।
संवत्सरो वा इन्द्रा शुनासीरः ।
संवत्सरेणैवास्मा अन्नम् अवरुन्धे ।
वायव्यं पयो भवति ।
वायुर् वै वृष्ट्यै प्रदापयिता ।
स एवास्मै वृष्टिं प्रदापयति ।
सौर्य एककपालो भवति ।
सूर्येण वा अमुष्मिꣳल् लोके वृष्टिर् धृता ।
स एवास्मै वृष्टिं नियच्छति ।
VERSE: 2 { 1.7.1.2}
द्वादशगवꣳ सीरं दक्षिणा समृद्ध्यै ।
देव_असुराः संयत्ता आसन् ।
ते देवा अग्निम् अब्रुवन् ।
त्वया वीरेण_असुरान् अभिभवाम_इति ।
सो ऽब्रवीत् ।
त्रेधा_अहम् आत्मानं विकरिष्य इति ।
स त्रेधा_आत्मानं व्यकुरुत ।
अग्निं तृतीयम् ।
रुद्रं तृतीयम् ।
वरुणं तृतीयम् ।
VERSE: 3 { 1.7.1.3}
सो ऽब्रवीत् ।
क इदं तुरीयम् इति ।
अहम् इति_इन्द्रो ऽब्रवीत् ।
सं तु सृजावहा इति ।
तौ समसृजेताम् ।
स इन्द्रस् तुरीयम् अभवत् ।
यद् इन्द्रस् तुरीयम् अभवत् ।
तद् इन्द्रतुरीयस्य_इन्द्रतुरीयत्वम् ।
ततो वै देवा व्यजयन्त ।
यद् इन्द्रतुरीयं निरुप्यते विजित्यै ।
VERSE: 4 { 1.7.1.4}
वहिनी धेनुर् दक्षिणा ।
यद् वहिनी तेन_आग्नेयी ।
यद् गौः ।
तेन रौद्री ।
यद् धेनुः ।
तेन_ऐन्द्री ।
यत् स्त्री सती दान्ता ।
तेन वारुणी समृद्ध्यै ।
प्रजापतिर् यज्ञम् असृजत ।
VERSE: 5 { 1.7.1.5}
तꣳ सृष्टꣳ रक्षाꣳस्य् अजिघाꣳसन् ।
स एताः प्रजापतिर् आत्मनो देवता निरमिमीत ।
ताभिर् वै स दिग्भ्यो रक्षाꣳसि प्राणुदत ।
यत् पञ्चावत्तीयं जुहोति ।
दिग्भ्य एव तद् यजमानो रक्षाꣳसि प्रणुदते ।
समूढꣳ रक्षः संदग्धꣳ रक्ष इत्य् आह ।
रक्षाꣳस्य् एव संदहति ।
अग्नये रक्षोघ्ने स्वाहा_इत्य् आह ।
देवताभ्य एव विजिग्यानाभ्यो भागधेयं करोति ।
प्रष्टिवाही रथो दक्षिणा समृद्ध्यै ।
VERSE: 6 { 1.7.1.6}
इन्द्रो वृत्रꣳ हत्वा ।
असुरान् पराभाव्य ।
नमुचिम् आसुरं न_अलभत[न_आलभत?] ।
तꣳ शच्यागृह्णात् ।
तौ समलभेताम् ।
सो ऽस्माद् अभिशुनतरो ऽभवत् ।
सो ऽब्रवीत् ।
संधाꣳ संदधावहै ।
अथ त्वा_वः { त्वाव} स्रक्ष्यामि ।
न मा शुष्केण न_आर्द्रेण हनः ।
VERSE: 7 { 1.7.1.7}
न दिवा न नक्तम् इति ।
स एतम् अपां फेनम् असिञ्चत् ।
न वा एष शुष्को न_आर्द्रो व्युष्टा_आसीत् ।
अनुदितः सूर्यः ।
न वा एतद् दिवा न नक्तम् ।
तस्यैतस्मिꣳल् लोके ।
अपां फेनेन शिर उदवर्तयत् ।
तद् एनम् अन्ववर्तत ।
मित्रध्रुग् इति ।
VERSE: 8 { 1.7.1.8}
स एतान् अपामार्गान् अजनयत् ।
तान् अजुहोत् ।
तैर् वै स रक्षाꣳस्य् अपाहत {अपाहन्} ।
यद् अपामार्गहोमो भवति ।
रक्षसाम् अपहत्यै ।
एक_उल्मुकेन यन्ति ।
तद्धि रक्षसां भागधेयम् ।
इमां दिशं यन्ति ।
एषा वै रक्षसां दिक् ।
स्वायाम् एव दिशि रक्षाꣳसि हन्ति ।
VERSE: 9 { 1.7.1.9}
स्वकृत इरिणे जुहोति प्रदरे वा ।
एतद् वै रक्षसाम् आयतनम् ।
स्व एवाऽऽयतने रक्षाꣳसि हन्ति ।
पर्णमयेन स्रुवेण जुहोति ।
ब्रह्म वै पर्णः ।
ब्रह्मणा_एव रक्षाꣳसि हन्ति ।
देवस्य त्वा सवितुः प्रसव इत्य् आह ।
सवितृप्रसूत एव रक्षाꣳसि हन्ति ।
हतꣳ रक्षो वधिष्म रक्ष इत्य् आह ।
रक्षसाꣳ स्तृत्यै ।
यद् वस्ते तद् दक्षिणा निरवत्त्यै ।
अप्रतीक्षम् आयन्ति ।
रक्षसाम् अन्तर्हित्यै ।
अनुवाक 2 राजसूये देविकाहवींषि
VERSE: 1 { 1.7.2.1}
धात्रे पुरोडाशं द्वादशकपालं निर्वपति ।
संवत्सरो वै धाता ।
संवत्सरेणैवास्मै प्रजाः प्रजनयति ।
अन्व् एवास्मा अनुमतिर् मन्यते ।
राते राका ।
प्र सिनीवाली जनयति ।
प्रजास्व् एव प्रजातासु कुह्वा वाचं दधाति ।
मिथुनौ गावौ दक्षिणा समृद्ध्यै ।
आग्नावैष्णवम् एकादशकपालं निर्वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
VERSE: 2 { 1.7.2.2}
वैष्णवं त्रिकपालम् ।
वीर्यं वा अग्निः ।
वीर्यम् इन्द्रः ।
वीर्यं विष्णुः ।
प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति ।
तस्मात् प्रजा वीर्यावतीः ।
वामन ऋषभो वही दक्षिणा ।
यद् वही तेन_आग्नेयः ।
यद् ऋषभः ।
VERSE: 3 { 1.7.2.3}
तेन_ऐन्द्रः ।
यद् वामनः ।
तेन वैष्णवः समृद्ध्यै ।
अग्नीषोमीयम् एकादशकपालं निर्वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् ।
सोमो वै रेतोधाः ।
अग्निः प्रजानां प्रजनयिता ।
वृद्धानाम् इन्द्रः प्रदापयिता ।
सोम एवास्मै रेतो दधाति ।
VERSE: 4 { 1.7.2.4}
अग्निः प्रजां प्रजनयति ।
वृद्धाम् इन्द्रः प्रयच्छति ।
बभ्रुर् दक्षिणा समृद्ध्यै ।
सोमापौष्णं चरुं निर्वपति ।
ऐन्द्रापौष्णं चरुम् ।
सोमो वै रेतोधाः ।
पूषा पशूनां प्रजनयिता ।
वृद्धानाम् इन्द्रः प्रदापयिता ।
सोम एवास्मै रेतो दधाति ।
पूषा पशून् प्रजनयति ।
VERSE: 5 { 1.7.2.5}
वृद्धान् इन्द्रः प्रयच्छति ।
पौष्णश् चरु भवति ।
इयं वै पूषा ।
अस्याम् एव प्रतितिष्ठति ।
श्यामो दक्षिणा समृद्ध्यै ।
बहु वै पुरुषो ऽमेध्यम् {मेध्यम्?} उपगच्छति ।
वैश्वानरं द्वादशकपालं निर्वपति ।
संवत्सरो वा अग्निर् वैश्वानरः ।
संवत्सरेणैवैनꣳ स्वदयति ।
हिरण्यं दक्षिणा ।
VERSE: 6 { 1.7.2.6}
पवित्रं वै हिरण्यम् ।
पुनात्य् एवैनम् ।
बहु वै राजन्यो ऽनृतं करोति ।
उप जाम्यै हरते ।
जिनाति ब्राह्मणम् ।
वदत्य् अनृतम् ।
अनृते खलु वै क्रियमाणे वरुणो गृह्णाति ।
वारुणं यवमयं चरुं निर्वपति ।
वरुणपाशाद् एवैनं मुञ्चति ।
अश्वो दक्षिणा ।
वारुणो हि देवतया_अश्वः समृद्ध्यै ।
अनुवाक 3 राजसूये रत्निनां हविः
VERSE: 1 { 1.7.3.1}
रत्निनाम् एतानि हवीꣳषि भवन्ति ।
एते वै राष्ट्रस्य प्रदातारः ।
एते ऽपादातारः (पादातारः) ।
य एव राष्ट्रस्य प्रदातारः ।
ये ऽपादातारः (पादातारः) ।
त एवास्मै राष्ट्रं प्रयच्छन्ति ।
राष्ट्रम् एव भवति ।
यत् समाहृत्य निर्वपेत् ।
अरत्निनः स्युः ।
यथायथं निर्वपति रत्नित्वाय ।
VERSE: 2 { 1.7.3.2}
यत् सद्यो निर्वपेत् ।
यावतीम् एकेन हविषा_आशिषम् अवरुन्धे ।
तावतीम् अवरुन्धीत ।
अन्वहं निर्वपति ।
भूयसीम् एवाऽऽशिषम् अवरुन्धे ।
भूयसो यज्ञक्रतून् उपैति ।
बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे ।
मुखत एवास्मै ब्रह्म सꣳश्यति ।
अथो ब्रह्मन्न् एव क्षत्त्रम् अन्वारम्भयति ।
शितिपृष्ठो दक्षिणा समृद्ध्यै ।
VERSE: 3 { 1.7.3.3}
ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृहे ।
इन्द्रियम् एव_अवरुन्धे ।
ऋषभो दक्षिणा समृद्ध्यै ।
आदित्यं चरुं महिष्यै गृहे ।
इयं वा अदितिः ।
अस्याम् एव प्रतितिष्ठति ।
धेनुर् दक्षिणा समृद्ध्यै ।
भगाय चरुं वावातायै गृहे ।
भगम् एवास्मिन् दधाति ।
विचित्तगर्भा पष्ठौही दक्षिणा समृद्ध्यै ।
VERSE: 4 { 1.7.3.4}
नैर्ऋतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नम् ।
पाप्मानम् एव निर्ऋतिं निरवदयते कृष्णा कूटाँ (कूटा) दक्षिणा समृद्ध्यै ।
आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे ।
सेनाम् एवास्य सꣳश्यति ।
हिरण्यं दक्षिणा समृद्ध्यै ।
वारुणं दशकपालꣳ सूतस्य गृहे ।
वरुणसवम् एव_अवरुन्धे ।
महानिरष्टो दक्षिणा समृद्ध्यै ।
मारुतꣳ सप्तकपालं ग्रामण्यो गृहे ।
VERSE: 5 { 1.7.3.5}
अन्नं वै मरुतः ।
अन्नम् एव_अवरुन्धे ।
पृश्निर् दक्षिणा समृद्ध्यै ।
सावित्रं द्वादशकपालं क्षत्तुर् गृहे प्रसूत्यै ।
उपध्वस्तो दक्षिणा समृद्ध्यै ।
आश्विनं द्विकपालꣳ संग्रहीतुर् गृहे ।
अश्विनौ वै देवानां भिषजौ ।
ताभ्याम् एवास्मै भेषजं करोति ।
सवात्यौ दक्षिणा समृद्ध्यै ।
पौष्णं चरुं भागदुघस्य गृहे ।
VERSE: 6 { 1.7.3.6}
अन्नं वै पूषा ।
अन्नम् एव_अवरुन्धे ।
श्यामो दक्षिणा समृद्ध्यै ।
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे ।
अन्तत एव रुद्रं निरवदयते ।
शबल उद्वारो दक्षिणा समृद्ध्यै ।
द्वादश_एतानि हवीꣳषि भवन्ति ।
द्वादश मासाः संवत्सरः ।
संवत्सरेण_एवास्मै राष्ट्रम् अवरुन्धे ।
राष्ट्रम् एव भवति ।
VERSE: 7 { 1.7.3.7}
यन् न प्रतिनिर्वपेत् ।
रत्निन आशिषो ऽवरुन्धीरन्न् ।
प्रतिनिर्वपति ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् ।
इन्द्राय_अꣳहोमुचे ।
आशिष एव_अवरुन्धे ।
आयन् नो { अयं नो} राजा वृत्रहा राजा ।
भूत्वा वृत्रं वध्याद् इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
मैत्राबार्हस्पत्यं भवति ।
श्वेतायै श्वेतवत्सायै दुग्धे ।
VERSE: 8 { 1.7.3.8}
बार्हस्पत्ये मैत्रम् अपिदधाति ।
ब्रह्म चैवास्मै क्षत्त्रं च समीची दधाति ।
अथो ब्रह्मन्न् एव क्षत्त्रं प्रतिष्ठापयति ।
बार्हस्पत्येन पूर्वेण प्रचरति ।
मुखत एवास्मै ब्रह्म सꣳश्यति ।
अथो ब्रह्मन्न् एव क्षत्त्रम् अन्वारम्भयति ।
स्वयंकृता वेदिर् भवति ।
स्वयंदिनं बर्हिः ।
स्वयंकृत इध्मः ।
अनभिजितस्य_अभिजित्यै ।
तस्माद् राज्ञाम् अरण्यम् अभिजितम् ।
सैव श्वेता श्वेतवत्सा दक्षिणा समृद्ध्यै ।
अनुवाक 4 राजसूये देवसुवां हविः
VERSE: 1 { 1.7.4.1}
देवसुवाम् एतानि हवीꣳषि भवन्ति ।
एतावन्तो {एतावन्तौ} वै देवानाꣳ सवाः ।
त एवास्मै सवान् प्रयच्छन्ति ।
त एनꣳ सुवन्ते ।
अग्निर् एवैनं गृहपतीनाꣳ सुवते ।
सोमो वनस्पतीनाम् ।
रुद्रः पशूनाम् ।
बृहस्पतिर् वाचाम् ।
इन्द्रो ज्येष्ठानाम् ।
मित्रः सत्यानाम् ।
VERSE: 2 { 1.7.4.2}
वरुणो धर्मपतीनाम् ।
एतद् एव सर्वं भवति ।
सविता त्वा प्रसवानाꣳ सुवताम् इति हस्तं गृह्णाति प्रसूत्यै ।
ये देवा देवसुवः स्थ_इत्य् आह ।
यथायजुर् एवैतत् ।
महते क्षत्त्राय महत आधिपत्याय महते जानराज्याय_इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
एष वो भरता राजा सोमो ऽस्माकं ब्राह्मणानाꣳ राजा_इत्य् आह ।
तस्मात् सोमराजानो ब्राह्मणाः ।
प्रति त्यन् नाम राज्यम् अधायि_इत्य् आह ।
VERSE: 3 { 1.7.4.3}
राज्यम् एवास्मिन् प्रतिदधाति ।
स्वां तनुवं वरुणो अशिश्रेद् इत्य् आह ।
वरुणसवम् एव_अवरुन्धे ।
शुचेर् मित्रस्य व्रत्या अभूम_इत्य् आह ।
शुचिम् एवैनं व्रत्यं करोति ।
अमन्महि महत ऋतस्य नाम_इत्य् आह ।
मनुत एवैनम् ।
सर्वे व्राता वरुणस्य_अभूवन्न् इत्य् आह ।
सर्वव्रातम् एवैनं करोति ।
वि मित्र एवैर् अरातिम् {वि मित्ररावैर् अरातिम्} अतारीद् इत्य् आह {= तै.सं.1.8.10.f} ।
VERSE: 4 { 1.7.4.4}
अरातिम् एवैनं तारयति ।
असूषुदन्त यज्ञिया ऋतेन_इत्य् आह ।
स्वदयत्य् एवैनम् ।
व्य् उ त्रितो जरिमाणं न आनड् इत्य् आह {= तै.सं 1.8.10.f} ।
आयुर् एवास्मिन् दधाति ।
द्वाभ्यां विमृष्टे ।
द्विपाद् यजमानः प्रतिष्ठित्यै ।
अग्नीषोमीयस्य च_एकादशकपालस्य देवसुवां च हविषाम् अग्नये स्विष्टकृते समवद्यति ।
देवताभिर् एवैनम् उभयतः परिगृह्णाति ।
विष्णुक्रमान् क्रमते ।
विष्णुर् एव भूत्वा_इमान् लोकान् अभिजयति ।
अनुवाक 5 राजसूये जलग्रहणम् जलाहरणम्
VERSE: 1 { 1.7.5.1}
अर्थ_इतः स्थ_इति जुहोति ।
आहुत्या_एवैना निष्क्रीय गृह्णाति ।
अथो हविष्कृतानाम् एव_अभिघृतानां गृह्णाति ।
वहन्तीनां गृह्णाति ।
एता वा अपाꣳ राष्ट्रम् ।
राष्ट्रम् एवास्मै गृह्णाति ।
अथो श्रियम् एवैनम् अभिवहन्ति ।
अपां पतिर् असि_इत्य् आह ।
मिथुनम् एव_अकः ।
वृषा_अस्य् ऊर्मिर् इत्य् आह ।
VERSE: 2 { 1.7.5.2}
ऊर्मिमन्तम् एवैनं करोति ।
वृषसेनो ऽसि_इत्य् आह ।
सेनाम् एवास्य सꣳश्यति ।
व्रजक्षितः स्थ_इत्य् आह ।
एता वा अपां विशः ।
विशम् एवास्मै पर्यूहति ।
मरुताम् ओजः स्थ_इत्य् आह ।
अन्नं वै मरुतः ।
अन्नम् एव_अवरुन्धे ।
सूर्यवर्चसः स्थ_इत्य् आह ।
VERSE: 3 { 1.7.5.3}
राष्ट्रम् एव वर्चस्व्य् अकः ।
सूर्यत्वचसः स्थ_इत्य् आह ।
सत्यं वा एतत् ।
यद् वर्षति ।
अनृतं यदातपति वर्षति ।
सत्य_अनृते एव_अवरुन्धे ।
न_एनꣳ सत्य_अनृते उदिते हिꣳस्तः ।
य एवं वेद ।
मान्दा स्थ_इत्य् आह ।
राष्ट्रम् एव ब्रह्मवर्चस्य् अकः ।
VERSE: 4 { 1.7.5.4}
वाशाः स्थ_इत्य् आह ।
राष्ट्रम् एव वश्य् अकः ।
शक्वरीः स्थ_इत्य् आह ।
पशवो वै शक्वरीः ।
पशून् एव_अवरुन्धे ।
विश्वभृतः स्थ_इत्य् आह ।
राष्ट्रम् एव पयस्व्य् अकः ।
जनभृतः स्थ_इत्य् आह ।
राष्ट्रम् एव_इन्द्रियाव्यकः ।
अग्नेस् तेजस्याः स्थ_इत्य् आह ।
VERSE: 5 { 1.7.5.5}
राष्ट्रम् एव तेजस्व्य् अकः ।
अपाम् ओषधीनाꣳ रसः स्थ_इत्य् आह ।
राष्ट्रम् एव मधव्यम् अकः ।
सारस्वतं ग्रहं गृह्णाति ।
एषा वा अपां पृष्ठम् ।
यत् सरस्वती ।
पृष्ठम् एवैनꣳ समानानां करोति ।
षोडशभिर् गृह्णाति ।
षोडशकलो वै पुरुषः ।
यावान् एव पुरुषः ।
तस्मिन् वीर्यं दधाति ।
षोडशभिर् जुहोति षोडशभिर् गृह्णाति ।
द्वात्रिꣳशत् संपद्यन्ते ।
द्वात्रिꣳशदक्षरा_अनुष्टुक् ।
वाग् अनुष्टुप् सर्वाणि च्छन्दाꣳसि ।
वाचा_एवैनꣳ सर्वेभिश् छन्दोभिर् अभिषिञ्चति ।
अनुवाक 6 राजसूये जलसंस्कारः
VERSE: 1 { 1.7.6.1}
देवीर् आपः सं मधुमतीर् मधुमतीभिः सृज्यध्वम् इत्य् आह ।
ब्रह्मणा_एवैनाः सꣳसृजति ।
अनाधृष्टाः सीदत_इत्य् आह ।
ब्रह्मणा_एवैनाः सादयति ।
अन्तरा होतुश् च धिष्णियं ब्राह्मणाच्छꣳसिनश् च सादयति ।
आग्नेयो वै होता ।
ऐन्द्रो ब्राह्मणाच्छꣳसी ।
तेजसा चैव_इन्द्रियेण चोभयतो राष्ट्रं परिगृह्णाति ।
हिरण्येन_उत्पुनाति ।
आहुत्यै हि पवित्राभ्याम् उत्पुनन्ति व्यावृत्त्यै ।
VERSE: 2 { 1.7.6.2}
शतमानं भवति ।
शतायुः ।
पुरुषश् शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
अनिभृष्टम् असि_इत्य् आह ।
अनिभृष्टꣳ ह्य् एतत् ।
वाचो बन्धुर् इत्य् आह ।
वाचो ह्य् एष बन्धुः ।
तपोजा इत्य् आह ।
तपोजा ह्य् एतत् ।
सोमस्य दात्रम् असि_इत्य् आह ।
VERSE: 3 { 1.7.6.3}
सोमस्य ह्य् एतद् दात्रम् ।
शुक्रा वः शुक्रेण_उत्पुनामि_इत्य् आह ।
शुक्रा ह्य् आपः ।
शुक्रꣳ हिरण्यम् ।
चन्द्राश् चन्द्रेण_इत्य् आह ।
चन्द्रा ह्य् आपः ।
चन्द्रꣳ हिरण्यम् ।
अमृता अमृतेन_इत्य् आह ।
अमृता ह्य् आपः ।
अमृतꣳ हिरण्यम् ।
VERSE: 4 { 1.7.6.4}
स्वाहा राजसूयाय_इत्य् आह ।
राजसूयाय ह्य् एना उत्पुनाति ।
सधमादो द्युम्नि नीरुज { नीरूर्ज} एता इति वारुण्या_ऋचा गृह्णाति ।
वरुणसवम् एव_अवरुन्धे ।
एकया गृह्णाति ।
एकधा_एव यजमाने वीर्यं दधाति ।
क्षत्रस्य_उल्बम् असि क्षत्रस्य योनिर् असि_इति तार्प्यं च_उष्णीषं च प्रयच्छति सयोनित्वाय ।
एकशतेन दर्भपुञ्जीलैः पवयति ।
शतायुर् वै पुरुषः शतवीर्यः ।
आत्मा_एकशतः ।
VERSE: 5 { 1.7.6.5}
यावान् एव पुरुषः ।
तस्मिन् वीर्यं दधाति ।
दध्य् आशयति ।
इन्द्रियम् एव_अवरुन्धे ।
उदुम्बरम् आशयति ।
अन्नाद्यस्य_अवरुद्ध्यै ।
शष्पाण्य् आशयति ।
सुराबलिम् एवैनं करोति ।
आविद एता भवन्ति ।
आविदम् एवैनं गमयन्ति ।
VERSE: 6 { 1.7.6.6}
अग्निर् एवैनं गार्हपत्येन_अवति ।
इन्द्र इन्द्रियेण ।
पूषा पशुभिः ।
मित्रावरुणौ प्राणापानाभ्याम् ।
इन्द्रो वृत्राय वज्रम् उदयच्छत् ।
स दिवम् अलिखत् ।
सो ऽर्यम्णः पन्था अभवत् ।
स आविन्ने द्यावापृथिवी धृतव्रते इति द्यावापृथिवी उपाधावत् ।
स आभ्याम् एव प्रसूत इन्द्रो वृत्राय वज्रं प्राहरत् ।
आविन्ने द्यावापृथिवी धृतव्रते इति यद् आह ।
VERSE: 7 { 1.7.6.7}
आभ्याम् एव प्रसूतो यजमानो वज्रं भ्रातृव्याय प्रहरति ।
आविन्ना देव्य् अदितिर् विश्वरूपी_इत्य् आह ।
इयं वै देव्य् अदितिर् विश्वरूपी ।
अस्याम् एव प्रतितिष्ठति ।
आविन्नो ऽयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्र इत्य् आह ।
विशा_एवैनꣳ राष्ट्रेण समर्धयति ।
महते क्षत्राय महत आधिपत्याय महते जानराज्याया_इत्य् आह ।
आशिषम् एवैताम् आशस्ते ।
एष वो भरता राजा सोमो ऽस्माकं ब्राह्मणानाꣳ राजा_इत्य् आह ।
तस्मात् सोमराजानो ब्राह्मणाः ।
VERSE: 8 { 1.7.6.8}
इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति धनुः प्रयच्छति विजित्यै ।
शत्रुबाधनाः स्थ_इति_इषून् ।
शत्रून् एवास्य बाधन्ते ।
पात मा प्रत्यञ्चं पात मा तिर्यञ्चम् अन्वञ्चं मा पात_इत्य् आह ।
तिस्रो वै शरव्याः ।
प्रतीची तिरश्च्य् अनूची ।
तभ्य एवैनं पान्ति ।
दिग्भ्यो मा पात_इत्य् आह ।
दिग्भ्य एवैनं पान्ति ।
विश्वाभ्यो मा नाष्ट्राभ्यः पात_इत्य् आह ।
अपरिमिताद् एवैनं पान्ति ।
हिरण्यवर्णाव् उषसां विरोक इति त्रिष्टुभा बाहू उद्गृह्णाति ।
इन्द्रियं वै वीर्यं त्रिष्टुक् ।
इन्द्रियम् एव वीर्यम् उपरिष्टाद् आत्मन् धत्ते ।
अनुवाक 7 राजसूये दिग्जयध्यानम
VERSE: 1 { 1.7.7.41}
दिशो व्यास्थापयति ।
दिशाम् अभिजित्यै ।
यद् अनुप्रक्रामेत् ।
अभि दिशो जयेत् ।
उत् तु माद्येत् ।
मनसोनुप्रक्रामति ।
अभि दिशो जयति ।
न_उन्माद्यति ।
समिधम् आतिष्ठ_इत्य् आह ।
तेज एव_अवरुन्धे ।
VERSE: 2 { 1.7.7.2}
उग्राम् आतिष्ठ_इत्य् आह इन्द्रियम् एव_अवरुन्धे ।
विराजम् आतिष्ठ_इत्य् आह ।
अन्नाद्यम् एव_अवरुन्धे ।
उदीचीम् आतिष्ठ_इत्य् आह ।
पशून् एव_अवरुन्धे ।
ऊर्ध्वाम् आतिष्ठ_इत्य् आह ।
सुवर्गम् एव लोकम् अभिजयति ।
अनूज्जिहीते ।
सुवर्गस्य लोकस्य समष्ट्यै ।
VERSE: 3 { 1.7.7.3}
मारुत एष भवति ।
अन्नं वै मरुतः ।
अन्नम् एव_अवरुन्धे ।
एकविꣳशतिकपालो भवति प्रतिष्ठित्यै ।
यो ऽरण्ये ऽनुवाक्यो गणः ।
तं मध्यत उपदधाति ।
ग्राम्यैर् एव पशुभिर् आरण्यान् पशून् परिगृह्णाति ।
तस्माद् ग्राम्यैः पशुभिर् आरण्याः पशवः परिगृहीताः ।
पृथिर् वैन्यः ।
अभ्यषिच्यत ।
VERSE: 4 { 1.7.7.4}
स राष्ट्रं न_अभवत् ।
स एतानि पार्थान्य् अपश्यत् ।
तान्य् अजुहोत् ।
तैर् वै स राष्ट्रम् अभवत् ।
यत् पार्थानि जुहोति ।
राष्ट्रम् एव भवति ।
बार्हस्पत्यं पूर्वेषाम् उत्तमं भवति ।
ऐन्द्रम् उत्तरेषां प्रथमम् ।
ब्रह्म चैवास्मै क्षत्रं च समीची दधाति ।
अथो ब्रह्मन्न् एव क्षत्रं प्रतिष्ठापयति ।
VERSE: 5 { 1.7.7.5}
षट् पुरस्ताद् अभिषेकस्य जुहोति ।
षड् उपरिष्टात् ।
द्वादश संपद्यन्ते ।
द्वादश मासाः संवत्सरः ।
संवत्सरः खलु वै देवानां पूः ।
देवानाम् एव पुरं मध्यतो व्यवसर्पति ।
तस्य न कुतश् चन_उपाव्याधो भवति ।
भूतानाम् अवेष्टीर् {एवेष्टीर्} जुहोति ।
अत्र_अत्र वै मृत्युर् जायते ।
यत्र_यत्रैव मृत्युर् जायते ।
तत एवैनम् अवयजते ।
तस्माद् राजसूयेन_ईजानः सर्वम् आयुर् एति ।
सर्वे ह्य् अस्य मृत्यवो ऽवेष्टाः ।
तस्माद् राजसूयेन_ईजानो न_अभिचरितवै ।
प्रत्यग् एनम् अभिचारः स्तृणुते ।
अनुवाक 8 राजसूये अभिषेकः
VERSE: 1 { 1.7.8.1}
सोमस्य त्विषिर् असि तव_इव मे त्विषिर् भूयाद् इति शार्दूलचर्म_उपस्तृणाति ।
यैव सोमे त्विषिः ।
या शार्दूले ।
ताम् एव_अवरुन्धे ।
मृत्योर् वा एष वर्णः ।
यत्_शार्दूलः ।
अमृतꣳ हिरण्यम् ।
अमृतम् असि मृत्योर् मा पाहि_इति हिरण्यम् उपास्यति ।
अमृतम् एव मृत्योर् अन्तर्धत्ते ।
शतमानं भवति ।
VERSE: 2 { 1.7.8.2}
शत_आयुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
दिद्योन् मा पाहि_इत्य् उपरिष्टाद् अधिनिदधाति ।
उभयत एवास्मै शर्म दधाति ।
अवेष्टा दन्दशूका इति क्लीबꣳ सीसेन विध्यति ।
दन्दशूकान् एव_अवयजते ।
तस्मात् क्लीबं दन्दशूका दꣳशुकाः ।
निरस्तं नमुचेः शिर इति लोहितायसं निरस्यति ।
पाप्मानम् एव नमुचिं निरवदयते ।
प्राणा आत्मनः पूर्वे ऽभिषिच्या इत्य् आहुः ।
VERSE: 3 { 1.7.8.3}
सोमो राजा वरुणः ।
देवा धर्मसुवश् च ये ।
ते_ते वाचꣳ सुवन्तां ते_ते प्राणꣳ सुवन्ताम् इत्य् आह ।
प्राणान् एवाऽऽत्मनः पूर्वान् अभिषिञ्चति ।
यद् ब्रूयात् ।
अग्नेस् त्वा तेजसाऽभिषिञ्चामि_इति ।
तेजस्व्य् एव स्यात् ।
दुश्चर्मा तु भवेत् ।
सोमस्य त्वा द्युम्नेन_अभिषिञ्चामि_इत्य् आह ।
सौम्यो वै देवतया पुरुषः ।
VERSE: 4 { 1.7.8.4}
स्वया_एवैनं देवतया_अभिषिञ्चति ।
अग्नेस् तेजसा_इत्य् आह ।
तेज एवास्मिन् दधाति ।
सूर्यस्य वर्चसा_इत्य् आह ।
वर्च एवास्मिन् दधाति ।
इन्द्रस्य_इन्द्रियेण_इत्य् आह ।
इन्द्रियम् एवास्मिन् दधाति ।
मित्रावरुणयोर् वीर्येण_इत्य् आह ।
वीरम् एवास्मिन् दधाति ।
मरुताम् ओजसा_इत्य् आह ।
VERSE: 5 { 1.7.8.5}
ओज एवास्मिन् दधाति ।
क्षत्राणां क्षत्रपतिर् असि_इत्य् आह ।
क्षत्राणाम् एवैनं क्षत्रपतिं करोति ।
अति दिवस् पाहि_इत्य् आह ।
अत्य् अन्यान् पाहि_इति वाव_एतद् आह ।
समाववृत्रन्न् अधराग् उदीचीर् इत्य् आह ।
राष्ट्रम् एवास्मिन् ध्रुवम् अकः ।
उच्छेषणेन जुहोति ।
उच्छेषणभागो वै रुद्रः ।
भागधेयेन_एव रुद्रं निरवदयते ।
VERSE: 6 { 1.7.8.6}
उदङ् परेत्य_अग्नीद्ध्रे जुहोति ।
एषा वै रुद्रस्य दिक् ।
स्वायाम् एव दिशि रुद्रं निरवदयते ।
रुद्र यत् ते क्रयी परं नाम_इत्य् आह ।
यद् वा अस्य क्रयी परं नाम ।
तेन वा एष हिनस्ति ।
यꣳ हिनस्ति ।
तेनैवैनꣳ सह शमयति ।
तस्मै हुतम् असि यमेष्टम् असि_इत्य् आह ।
यमाद् एवास्य मृत्युम् अवयजते ।
VERSE: 7 { 1.7.8.7}
प्रजापते न त्वद् एतान्य् अन्य इति तस्यै गृहे जुहुयात् ।
यां कामयेत राष्ट्रम् अस्यै प्रजा स्याद् इति ।
राष्ट्रम् एवास्यै प्रजा भवति ।
पर्णमयेन_अध्वर्युर् अभिषिञ्चति ।
ब्रह्मवर्चसम् एवास्मिन् त्विषिं दधाति ।
औदुम्बरेण राजन्यः ।
ऊर्जम् एवास्मिन्न् अन्नाद्यं दधाति ।
आश्वत्थेन वैश्यः ।
विशम् एवास्मिन् पुष्टिं दधाति ।
नैयग्रोधेन जन्यः ।
मित्राण्य् एवास्मै कल्पयति ।
अथो प्रतिष्ठित्यै ।
अनुवाक 9 राजसूये रथारोहणेन विजयः
VERSE: 1 { 1.7.9.1}
इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति रथम् उपावहरति विजित्यै ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि_इत्य् आह ।
ब्रह्मणा_एवैनं देवताभ्यां युनक्ति ।
प्रष्टिवाहिनं युनक्ति ।
प्रष्टिवाही वै देवरथः ।
देवरथम् एवास्मै युनक्ति ।
त्रयो ऽश्वा भवन्ति ।
रथश् चतुर्थः ।
द्वौ सव्येष्ठसारथी ।
षट् संपद्यन्ते ।
VERSE: 2 { 1.7.9.2}
षड् वा ऋतवः ।
ऋतुभिर् एवैनं युनक्ति ।
विष्णुक्रमान् क्रमते ।
विष्णुर् एव भूत्वा_इमाꣳल् लोकान् अभिजयति ।
यः क्षत्रियः प्रतिहितः ।
सो ऽन्वारभते ।
राष्ट्रम् एव भवति ।
त्रिष्टुभा_अन्वारभते ।
इन्द्रियं वै त्रिष्टुक् ।
इन्द्रियम् एव यजमाने दधाति ।
VERSE: 3 { 1.7.9.3}
मरुतां प्रसवे जेषम् इत्य् आह ।
मरुद्भिर् एव प्रसूत उज्जयति ।
आप्तं मन इत्य् आह ।
यद् एव {आनंदा. यदैव} मनसैप्सीत् ।
तद् आपत् ।
राजन्यं जिनाति ।
अनाक्रान्त एवाऽऽक्रमते ।
वि वा एष इन्द्रियेण वीर्येण_ऋध्यते ।
यो राजन्यं जिनाति ।
सम् अहम् इन्द्रियेण वीर्येण_इत्य् आह ।
VERSE: 4 { 1.7.9.4}
इन्द्रियम् एव वीर्यम् आत्मन् धत्ते ।
पशूनां मन्युर् असि तव_इव मे मन्युर् भूयाद् इति वाराही उपानहाव् उपमुञ्चते ।
पशूनां वा एष मन्युः ।
यद् वराहः ।
तेन_एव पशूनां मन्युम् आत्मन् धत्ते ।
अभि वा इयꣳ सुषुवाणं कामयते ।
तस्य_ईश्वरा_इन्द्रियं वीर्यम् आदातोः ।
वाराही उपानहाव् उपमुञ्चते ।
अस्या एव_अन्तर्धत्ते ।
इन्द्रियस्य वीर्यस्य_अनात्त्यै {अनात्यै, 3.3.10.2 में भी} ।
VERSE: 5 { 1.7.9.5}
नमो मात्रे पृथिव्या इत्य् आह_अहिꣳसायै ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेहि_इत्य् आह ।
आयुरेवाऽऽत्मन्धत्ते।
ऊर्क्_असि_ऊर्जं मे धेहि_इत्य् आह ।
ऊर्जम् एवाऽऽत्मन् धत्ते ।
युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि_इत्य् आह ।
वर्च एवाऽऽत्मन् धत्ते ।
एकधा ब्रह्मण उपहरति ।
एकधा_एव यजमान आयुर् ऊर्जं वर्चो दधाति ।
रथविमोचनीया जुहोति प्रतिष्ठित्यै ।
VERSE: 6 { 1.7.9.6}
त्रयो ऽश्वा भवन्ति ।
रथश् चतुर्थः ।
तस्माच् चतुर् जुहोति ।
यद् उभौ सह_अवतिष्ठेताम् ।
समानं लोकम् इयाताम् ।
सह संग्रहीत्रा रथवाहने रथम् आदधाति ।
सुवर्गाद् एवैनं लोकाद् अन्तर्दधाति ।
हꣳसः शुचिषद् इत्य् आदधाति ।
ब्रह्मणा_एवैनम् उपावहरति ।
ब्रह्मणा दधाति ।
अतिच्छन्दसा_आदधाति ।
अतिच्छन्दा वै सर्वाणि छन्दाꣳसि ।
सर्वेभिर् एवैनं छन्दोभिर् आदधाति ।
वर्ष्म वा एषा छन्दसाम् ।
यद् अतिच्छन्दाः ।
यद् अतिच्छन्दसा दधाति {अतिच्छन्दसा_आदधाति?} ।
वर्ष्म_एवैनꣳ समानानां करोति ।
अनुवाक 10 राजसूये विजयादूर्ध्वं यजमानस्य सवैः सेव्यत्वम्
VERSE: 1 { 1.7.10.1}
मित्रो ऽसि वरुणो ऽसि_इत्य् आह ।
मैत्रं वा अहः ।
वारुणी रात्रिः ।
अहोरात्राभ्याम् एवैनम् उपावहरति ।
मित्रो ऽसि वरुणो ऽसि_इत्य् आह ।
मैत्रो वै दक्षिणः ।
वारुणः सव्यः ।
वैश्वदेव्य् आमिक्षा ।
स्वम् एवैनौ भागधेयम् उपावहरति ।
सम् अहं विश्वैर् देवैर् इत्य् आह ।
VERSE: 2 { 1.7.10.2}
वैश्वदेव्यो वै प्रजाः ।
ता एव_आद्याः कुरुते ।
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि_इत्य् अधीवासम् आस्तृणाति सयोनित्वाय ।
स्योनाम् आसीद सुषदाम् आसीद_इत्य् आह ।
यथायजुर् एवैतत् ।
मा त्वा हिꣳसीन् मा_मा हिꣳसीद् इत्य् आह_अहिꣳसायै ।
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ साम्राज्याय सुक्रतुर् इत्य् आह ।
साम्राज्यम् एवैनꣳ सुक्रतुं करोति ।
ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि सविताऽसि सत्यसव इत्य् आह ।
सवितारम् एवैनꣳ सत्यसवं करोति ।
VERSE: 3 { 1.7.10.61}
ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि_इन्द्रो ऽसि सत्य_ओजा इत्य् आह ।
इन्द्रम् एवैनꣳ सत्य_ओजसं करोति ।
ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि मित्रो ऽसि सुशेव इत्य् आह ।
मित्रम् एवैनꣳ सुशेवं करोति ।
ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि वरुणो ऽसि सत्यधर्मा_इत्य् आह ।
वरुणम् एवैनꣳ सत्यधर्माणं करोति ।
सविता_असि सत्यसव इत्य् आह ।
गायत्रीम् एवैतेन_अभिव्याहरति ।
इन्द्रो ऽसि सत्य_ओजा इत्य् आह ।
त्रिष्टुभम् एवैतेन_अभिव्याहरति ।
VERSE: 4 { 1.7.10.4}
मित्रो ऽसि सुशेव इत्य् आह ।
जगतीम् एवैतेन_अभिव्याहरति ।
सत्यम् एता देवताः ।
सत्यम् एतानि छन्दाꣳसि ।
सत्यम् एव_अवरुन्धे ।
वरुणो ऽसि सत्यधर्मा_इत्य् आह ।
अनुष्टुभम् एवैतेन_अभिव्याहरति ।
सत्य_अनृते वा अनुष्टुप् ।
सत्य_अनृते वरुणः ।
सत्य_अनृते एव_अवरुन्धे ।
VERSE: 5 { 1.7.10.5}
न_एनꣳ सत्य_अनृते उदिते हिꣳस्तः ।
य एवं वेद ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति स्फ्यं प्रयच्छति ।
वज्रो वै स्फ्यः ।
वज्रेणैवास्मा अवरपरꣳ रन्धयति ।
एवꣳ हि तत्_श्रेयः ।
यद् अस्मा एते रध्येयुः ।
दिशो ऽभ्य् अयꣳ राजा_अभूद् इति पञ्चाक्षान् प्रयच्छति ।
एते वै सर्वे ऽयाः ।
अपराजयिनम् एवैनं करोति ।
VERSE: 6 { 1.7.10.6}
ओदनम् उद्ब्रुवते ।
परमेष्ठी वा एषः ।
यद् ओदनः ।
परमाम् एवैनꣳ श्रियं गमयति ।
सुश्लोका3ꣳ सुमङ्गला3ꣳ { सुश्लोका4ं सुमङ्गला4ं} सत्यराजा3न् इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
शौनःशेपम् { श्यौनःशेपम्} आख्यापयते ।
वरुणपाशाद् एवैनं मुञ्चति ।
परःशतं भवति ।
शत_आयुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
मारुतस्य च_एकविꣳशतिकपालस्य वैश्वदेव्यै च_आमिक्षाया अग्नये स्विष्टकृते समवद्यति ।
देवताभिर् एवैनम् उभयतः परिगृह्णाति ।
अपां नप्त्रे स्वाहा_ऊर्जो नप्त्रे स्वाहा_अग्नये गृहपतये स्वाहा_इति तिस्र आहुतीर् जुहोति ।
त्रय इमे लोकाः ।
एष्व् एव लोकेषु प्रतितिष्ठति ।
प्रपाठक: 8
अनुवाक 1 राजसूये संसृपां हविः
VERSE: 1 { 1.8.1.1}
वरुणस्य सुषुवाणस्य दशधा_इन्द्रियं वीर्यं परापतत् ।
तत् सꣳसृद्भिर् अनुसमसर्पत् ।
तत् सꣳसृपाꣳ सꣳसृत्त्वम् ।
अग्निना देवेन प्रथमे ऽहन्न् अनुप्रायुङ्क्त ।
सरस्वत्या वाचा द्वितीये ।
सवित्रा प्रसवेन तृतीये ।
पूष्णा पशुभिश् चतुर्थे ।
बृहस्पतिना ब्रह्मणा पञ्चमे ।
इन्द्रेण देवेन षष्ठे ।
वरुणेन स्वया देवतया सप्तमे ।
VERSE: 2 { 1.8.1.2}
सोमेन राज्ञा_अष्टमे ।
त्वष्ट्रा रूपेण नवमे ।
विष्णुना यज्ञेन_आप्नोत् ।
यत् सꣳसृपो भवन्ति ।
इन्द्रियम् एव तद् वीर्यं यजमान आप्नोति ।
पूर्वा_पूर्वा वेदिर् भवति ।
इन्द्रियस्य वीर्यस्य_अवरुद्ध्यै ।
पुरस्ताद् उपसदाꣳ सौम्येन प्रचरति ।
सोमो वै रेतोधाः ।
रेत एव तद् दधाति ।
अन्तरा त्वाष्ट्रेण ।
रेत एव हितं त्वष्टा रूपाणि विकरोति ।
उपरिष्टाद् वैष्णवेन ।
यज्ञो वै विष्णुः ।
यज्ञ एव_अन्ततः प्रतितिष्ठति ।
अनुवाक 2 राजसूये दशपेयविधिः
VERSE: 1 { 1.8.2.1}
जामि वा एतत् कुर्वन्ति ।
यत् सद्यो दीक्षयन्ति ।
सद्यः सोमं क्रीणन्ति ।
पुण्डरिस्रजां प्रयच्छत्य् अजामित्वाय ।
अङ्गिरसः सुवर्गं लोकं यन्तः ।
अप्सु दीक्षातपसी प्रावेशयन् ।
तत् {यत्} पुण्डरीकम् अभवत् ।
यत् पुण्डरिस्रजां प्रयच्छति ।
साक्षाद् एव दीक्षातपसी अवरुन्धे ।
दशभिर् वत्सतरैः सोमं क्रीणाति ।
दश_अक्षरा विराट् ।
VERSE: 2 { 1.8.2.2}
अन्नं विराट् ।
विराजा_एव_अन्नाद्यम् अवरुन्धे ।
मुष्करा भवन्ति स_इन्द्रत्वाय ।
दशपेयो भवति ।
अन्नाद्यस्य_अवरुद्ध्यै ।
शतं ब्राह्मणाः पिबन्ति ।
शत_आयुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
सप्तदशꣳ स्तोत्रं भवति ।
सप्तदशः प्रजापतिः ।
VERSE: 3 { 1.8.2.3}
प्रजापतेर् आप्त्यै ।
प्रकाशाव् अध्वर्यवे ददाति { प्राक्साशावध्वर्यवे ददत्} ।
प्रकाशम् एवैनं गमयति ।
स्रजम् उद्गात्रे ।
व्य् एवास्मै वासयति ।
रुक्मꣳ होत्रे ।
आदित्यम् एवास्मा उन्नयति ।
अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् ।
प्राजापत्यो वा अश्वः ।
प्रजापतेर् आप्त्यै ।
VERSE: 4 { 1.8.2.4}
द्वादश पष्ठौहीर् ब्रह्मणे ।
आयुर् एव_अवरुन्धे ।
वशां मैत्रावरुणाय ।
राष्ट्रम् एव वश्य् अकः ।
ऋषभं ब्राह्मणाच्छꣳसिने ।
राष्ट्रम् एव_इन्द्रियाव्यकः ।
वाससी नेष्टापोतृभ्यां ।
पवित्रे एवास्यैते ।
स्थूरि यवाचितम् अच्छावाकाय ।
अन्तत एव व्वरुणम् अवयजते ।
VERSE: 5 { 1.8.2.5}
अनड्वाहम् अग्नीधे ।
वह्निर् वा अनड्वान् ।
वह्निर् अग्नीत् ।
वह्निना_एव वह्नि यज्ञस्य_अवरुन्धे ।
इन्द्रस्य सुषुवाणस्य त्रेधा_इन्द्रियं वीर्यं परापतत् ।
भृगुस् तृतीयम् अभवत् ।
श्रायन्तीयं तृतीयम् ।
सरस्वती तृतीयम् ।
भार्गवो होता भवति ।
श्रायन्तीयं ब्रह्मसामं भवति ।
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ।
इन्द्रियस्य वीर्यस्य_अवरुद्ध्यै ।
श्रायन्तीयं ब्रह्मसामं भवति ।
इन्द्रियम् एवास्मिन् वीर्यꣳ श्रयति ।
वारवन्तीयम् अग्निष्टोमसामम् ।
इन्द्रियम् एवास्मिन् वीर्यं वारयति ।
अनुवाक 3
VERSE: 1 { 1.8.3.1}
ईश्वरो वा एष दिशो ऽनून्मदितोः ।
यं दिशो ऽनु व्यास्थापयन्ति ।
दिशाम् अवेष्टयो भवन्ति ।
दिक्ष्व् एव प्रतितिष्ठत्य् अनुन्मादाय ।
पञ्च देवता यजति ।
पञ्च दिशः ।
दिक्ष्व् एव प्रतितिष्ठति ।
हविषो_हविष इष्ट्वा बार्हस्पत्यम् अभिघारययति ।
यजमानदेवत्यो वै बृहस्पतिः ।
यजमानम् एव तेजसा समर्धयति ।
VERSE: 2 { 1.8.3.2}
आदित्यां मल्हां {अह्लां} गर्भिणीम् आलभते ।
मारुतीं पृश्निं पष्ठौहीम् ।
विशं चैवास्मै राष्ट्रं च समीची दधाति ।
आदित्यया पूर्वया प्रचरति ।
मारुत्या_उत्तरया ।
राष्ट्र एव विशम् अनुबध्नाति ।
उच्चैर् आदित्याया आश्रावयति ।
उपाꣳशु मारुत्यै ।
तस्माद् राष्ट्रं विशम् अतिवदति ।
गर्भिण्य् आदित्या भवति ।
VERSE: 3 { 1.8.3.3}
इन्द्रियं वै गर्भः ।
राष्ट्रम् एव_इन्द्रियाव्यकः ।
अगर्भा मारुती ।
विड् वै मरुतः ।
विशम् एव निरिन्द्रियाम् अकः ।
देव_असुराः संयत्ता आसन् ।
ते देवा अश्विनोः पूषन् वाचः सत्यꣳ संनिधाय ।
अनृतेन_असुरान् अभ्यभवन् ।
ते ऽश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निरवपन् ।
ततो वै ते वाचः सत्यम् अवारुन्धत ।
VERSE: 4 { 1.8.3.4}
यद् अश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति ।
अनृतेन_एव भ्रातृव्यान् अभिभूय ।
वाचः सत्यम् अवरुन्धे ।
सरस्वते सत्यवाचे चरुम् ।
पूर्वम् एव_उदितम् ।
उत्तरेण_अभिगृणाति ।
सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालं प्रसूत्यै ।
दूतान् प्रहिणोति ।
आविद एता भवन्ति ।
आविदम् एवैनं गमयन्ति ।
अथो दूतेभ्य एव न च्छिद्यते ।
तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा समृद्ध्यै ।
अनुवाक 4 राजसूये प्रयुजां हविर्विधिः
VERSE: 1 { 1.8.4.1}
आग्नेयम् अष्टाकपालं निर्वपति ।
तस्मात्_शिशिरे कुरुपञ्चालाः प्राञ्चो यान्ति ।
सौम्यं चरुम् ।
तस्माद् वसन्तं व्यवसाय_आदयन्ति ।
सावित्रं द्वादशकपालम् ।
तस्मात् पुरस्ताद् यवानाꣳ सवित्रा विरुन्धते ।
बार्हस्पत्यं चरुम् ।
सवित्रा_एव विरुध्य ।
ब्रह्मणा यवान् आदधते ।
त्वाष्ट्रम् अष्टाकपालम् ।
VERSE: 2 { 1.8.4.2}
रूपाण्य् एव तेन कुर्वते ।
वैश्वानरं द्वादशकपालम् ।
तस्माज् जघन्ये नैदाघे प्रत्यञ्चः कुरुपञ्चाला यान्ति ।
सारस्वतं चरुं निर्वपति ।
तस्मात् प्रावृषि सर्वा वाचो वदन्ति ।
पौष्णेन व्यवस्यन्ति ।
मैत्रेण कृषन्ते ।
वारुणेन विधृता आसते ।
क्षैत्रपत्येन पाचयन्ते ।
आदित्येन_आदधते ।
VERSE: 3 { 1.8.4.3}
मासि_मास्य् एतानि हवीꣳषि निरुप्याणि_इत्य् आहुः ।
तेनैव_ऋतून् प्रयुङ्क्त इति ।
अथो खल्व् आहुः ।
कः संवत्सरं जीविष्यति_इति ।
षड् एव पूर्वेद्युर् निरुप्याणि ।
षड् उत्तरेद्युः ।
तेनैव_ऋतून् प्रयुङ्क्ते ।
दक्षिणो रथवाहनवाहः पूर्वेषां दक्षिणा ।
उत्तर उत्तरेषाम् ।
संवत्सरस्यैव_अन्तौ युनक्ति ।
सुवर्गस्य लोकस्य समष्ट्यै ।
अनुवाक 5 राजसूये सौत्रामणीयागविधिः
VERSE: 1 { 1.8.5.1}
इन्द्रस्य सुषुवाणस्य दशधा_इन्द्रियं वीर्यं परापतत् ।
स यत् प्रथमं निरष्ठीवत् ।
तत् क्वलम् अभवत् ।
यद् द्वितीयम् ।
तद् बदरम् ।
यत् तृतीयम् ।
तत् कर्कन्धु ।
यन् नस्तः ।
स सिꣳहः ।
यद् अक्ष्योः ।
VERSE: 2 { 1.8.5.2}
स शार्दूलः ।
यत् कर्णयोः ।
स वृकः ।
य ऊर्ध्वः ।
स सोमः ।
या_अवाची ।
सा सुरा ।
त्रयाः सक्तवो भवन्ति ।
इन्द्रियस्य_अवरुद्ध्यै ।
त्रयाणि लोमानि ।
VERSE: 3 { 1.8.5.3}
त्विषिम् एव_अवरुन्धे ।
त्रयो ग्रहाः ।
वीर्यम् एव_अवरुन्धे ।
नाम्ना दशमी ।
नव वै पुरुषे प्राणाः ।
नाभिर् दशमी ।
प्राणा इन्द्रियं वीर्यम् ।
प्राणान् एव_इन्द्रियं वीर्यं यजमान आत्मन् धत्ते ।
सीसेन क्लीबात्_शष्पाणि क्रीणाति ।
न वा एतद् अयो न हिरण्यम् ।
VERSE: 4 { 1.8.5.4}
यत् सीसम् ।
न स्त्री न पुमान् ।
यत् क्लीबः ।
न सोमो न सुरा ।
यत् सौत्रामणी समृद्ध्यै ।
स्वाद्वीं त्वा स्वादुना_इत्य् आह ।
सोमम् एवैनां करोति ।
सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्व_इन्द्राय सुत्राम्णे पच्यस्व_इत्य् आह ।
एताभ्यो ह्य् एषा देवताभ्यः पच्यते ।
तिस्रः सꣳसृष्टा वसति ।
VERSE: 5 { 1.8.5.5}
तिस्रो हि रात्रीः क्रीतः सोमो वसति ।
पुनातु ते परिस्रुतम् इति यजुषा पुनाति व्यावृत्त्यै {आनंदा. व्यावृत्यै} ।
पवित्रेण पुनाति ।
पवित्रेण हि सोमं पुनन्ति ।
वारेण शश्वता तना_इत्य् आह ।
वारेण हि सोमं पुनन्ति ।
वायुः पूतः पवित्रेण_इति न_एतया पुनीयात् ।
व्यृद्धा ह्य् एषा ।
अतिपवितस्यैतया पुनीयात् ।
कुविद् अङ्ग_इत्य् अनिरुक्तया प्राजापत्यया गृह्णाति ।
VERSE: 6 { 1.8.5.6}
अनिरुक्तः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
एकया_ऋचा गृह्णाति ।
एकधा_एव यजमाने वीर्यं दधाति ।
आश्विनं धूम्रम् आलभते ।
अश्विनौ वै देवानां भिषजौ ।
ताभ्याम् एवास्मै भेषजं करोति ।
सारस्वतं मेषम् ।
वाग् वै सरस्वती ।
वाचा_एवैनं भिषज्यति ।
ऐन्द्रम् ऋषभꣳ स_इन्द्रत्वाय ।
अनुवाक 6 राजसूये सौत्रामणिविधिः
VERSE: 1 { 1.8.6.21}
यत् त्रिषु यूपेष्व् आलभेत ।
बहिर्धा_अस्माद् इन्द्रियं वीर्यं दध्यात् ।
भ्रातृव्यम् अस्मै जनयेत् ।
एकयूप आलभते ।
एकधा_एवास्मिन्न् इन्द्रियं वीर्यं दधाति ।
न_अस्मै भ्रातृव्यं जनयति ।
न_एतेषां पशूनां पुरोडाशा भवन्ति ।
ग्रहपुरोडाशा ह्य् एते ।
युवꣳ सुरामम् अश्विना_इति सर्वदेवत्ये याज्यानुवाक्ये भवतः ।
सर्वा एव देवताः प्रीणाति ।
VERSE: 2 { 1.8.6.2}
ब्राह्मणं परिक्रीणीयाद् उच्छेषणस्य पातारम् ।
ब्राह्मणो ह्य् आहुत्या उच्छेषणस्य पाता ।
यदि ब्राह्मणं न विन्देत् ।
वल्मीकवपायाम् अवनयेत् ।
सा_एव ततः प्रायश्चित्तिः ।
यद् वै सौत्रामण्यै व्यृद्धम् ।
तद् अस्यै समृद्धम् ।
नानादेवत्याः पशवश् च पुरोडाशाश् च भवन्ति समृद्ध्यै ।
ऐन्द्रः पशूनाम् उत्तमो भवति ।
ऐन्द्रः पुरोडाशानां प्रथमः ।
VERSE: 3 { 1.8.6.3}
इन्द्रिये एवास्मै समीची दधाति ।
पुरस्ताद् अनूयाजानां पुरोडाशैः प्रचरति ।
पशवो वै पुरोडाशाः ।
पशून् एव_अवरुन्धे ।
ऐन्द्रम् एकादशकपालं निर्वपति ।
इन्द्रियम् एव_अवरुन्धे ।
सावित्रं द्वादशकपालं प्रसूत्यै ।
वारुणं दशकपालम् ।
अन्तत एव वरुणम् अवयजते ।
वडवा दक्षिणा ।
VERSE: 4 { 1.8.6.4}
उत वा एषा_अश्वꣳ सूते ।
उत_अश्वतरम् ।
उत सोम उत सुरा ।
यत् सौत्रामणी समृद्ध्यै ।
बार्हस्पत्यं पशुं चतुर्थमतिपवितस्य_आलभते ।
ब्रह्म वै देवानां बृहस्पतिः ।
ब्रह्मणा_एव यज्ञस्य व्यृद्धम् अपिवपति ।
पुरोडाशवान् एष पशुर् भवति ।
न ह्य् एतस्य ग्रहं गृह्णन्ति ।
सोमप्रतीकाः पितरस् तृप्णुत_इति शत_आतृण्णायाꣳ समवनयति ।
VERSE: 5 { 1.8.6.5}
शत_आयुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
दक्षिणे ऽग्नौ जुहोति ।
पापवस्यसस्य व्यावृत्त्यै ।
हिरण्यम् अन्तरा धारयति ।
पूताम् एवैनां जुहोति ।
शतमानं भवति ।
शत_आयुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
0 यत्र_एव शत_आतृण्णां धारयति ।
VERSE: 6 { 1.8.6.6}
तन् निदधाति प्रतिष्ठित्यै ।
पितॄन् वा एतस्य_इन्द्रियं वीर्यं गच्छति ।
यꣳ सोमो ऽतिपवते ।
पितृणां याज्यानुवाक्याभिर् उप तिष्ठते ।
यद् एवास्य पितॄन् इन्द्रियं वीर्यं गच्छति ।
तद् एव_अवरुन्धे ।
तिसृभिर् उपतिष्ठते ।
तृतीये वा इतो लोके पितरः ।
तान् एव प्रीणाति ।
अथो त्रीणि वै यज्ञस्य_इन्द्रियाणि ।
अध्वर्युर् होता ब्रह्मा ।
त उपतिष्ठन्ते ।
यान्य् एव यज्ञस्य_इन्द्रियाणि ।
तैर् एवास्मै भेषजं करोति ।
अनुवाक 7 पवित्राहविधिः, अभिषेचनीयविधिः
VERSE: 1 { 1.8.7.1}
अग्निष्टोमम् अग्र आहरति ।
यज्ञमुखं वा अग्निष्टोमः ।
यज्ञमुखम् एव_आरभ्य सवम् आक्रमते ।
अथ_एषो ऽभिषेचनीयश् चतुस्त्रिंशः पवमानो भवति ।
त्रयस्त्रिꣳशद् वै देवताः ।
ता एवाऽऽप्नोति ।
प्रजापतिश् चतुस्त्रिꣳशः ।
तम् एवाऽऽप्नोति ।
सꣳशर एष स्तोमानाम् अयथापूर्वम् ।
यद् विषमाः स्तोमाः ।
VERSE: 2 { 1.8.7.2}
एतावान् वै यज्ञः ।
यावान् पवमानाः ।
अन्तःश्लेषणं त्वा अन्यत् ।
यत् समाः पवमानाः ।
तेन_असꣳशरः ।
तेन यथापूर्वम् ।
आत्मना_एव_अग्निष्टोमेन_ऋध्नोति ।
आत्मना पुण्यो भवति ।
प्रजा वा उक्थानि ।
पशव उक्थानि {पशव उक्थानि। प्रजा वा उक्थानि इति पाठ व्यत्यय} ।
यद् उक्थ्यो भवत्य् अनुसंतत्यै ।
अनुवाक 8 राजसूये साममन्त्रयोर्विशेषाभिधानम्
VERSE: 1 { 1.8.8.29}
उप त्वा जामयो गिर इति प्रतिपद् भवति ।
वाग् वै वायुः ।
वाच एवैषो ऽभिषेकः ।
सर्वासाम् एव प्रजानाꣳ सूयते ।
सर्वा एनं प्रजा राजा_इति वदन्ति ।
एतम् उ त्यं दशक्षिप इत्य् आह ।
आदित्या वै प्रजाः ।
प्रजानाम् एवैतेन सूयते ।
यन्ति वा एते यज्ञमुखात् ।
ये सम्भार्या अक्रन् ।
VERSE: 2 { 1.8.8.2}
यद् आह पवस्व वाचो अग्रिय इति ।
तेनैव यज्ञमुखान् न यन्ति ।
अनुष्टुक् प्रथमा भवति ।
अनुष्टुग् उत्तमा ।
वाग् वा अनुष्टुक् ।
वाचा_एव प्रयन्ति ।
वाचा_उद्यन्ति ।
उद्वतीर् भवन्ति ।
उद्वद् वा अनुष्टुभो रूपम् ।
आनुष्टुभो राजन्यः ।
VERSE: 3 { 1.8.8.3}
तस्माद् उद्वतीर् भवन्ति ।
सौर्य् अनुष्टुग् उत्तमा भवति ।
सुवर्गस्य लोकस्य संतत्यै ।
यो वै सवाद् एति ।
न_एनꣳ सव उपनमति ।
यः सामभ्य एति ।
पापीयान् सुषुवाणो भवति ।
एतानि खलु वै सामानि ।
यत् पृष्ठानि ।
यत् पृष्ठानि भवन्ति ।
VERSE: 4 { 1.8.8.4}
तैर् एव सवान् न_एति ।
यानि देवराजानाꣳ सामानि ।
तैर् अमुष्मिꣳल् लोक ऋध्नोति ।
यानि मनुष्यराजानाꣳ सामानि ।
तैर् अस्मिꣳल् लोक ऋध्नोति ।
उभयोर् एव लोकयोर् ऋध्नोति ।
देवलोके च मनुष्यलोके च ।
एकविꣳशो ऽभिषेचनीयस्य_उत्तमो भवति ।
एकविꣳशः केशवपनीयस्य प्रथमः ।
सप्तदशो दशपेयः ।
VERSE: 5 { 1.8.8.5}
विड् वा एकविꣳशः ।
राष्ट्रꣳ सप्तदशः ।
विश एवैतन् मध्यतो ऽभिषिच्यते ।
तस्माद् वा एष विशां प्रियः ।
विशो हि मध्यतो ऽभिषिच्यते ।
यद् वा एनम् अदो दिशो ऽनु व्यास्थापयन्ति ।
तत् सुवर्गं लोकम् अभ्यारोहति ।
यद् इमं लोकं न प्रत्यवरोहेत् ।
अतिजनं वा_इयात् ।
उद् वा माद्येत् ।
यद् एष प्रतीचीनस्तोमो भवति ।
इमम् एव तेन लोकं प्रत्यवरोहति ।
अथो अस्मिन्न् एव लोके प्रतितिष्ठत्य् अनुन्मादाय ।
अनुवाक 9 राजसूये अभिषेकगतविशेषाभिधानम्
VERSE: 1 { 1.8.9.1}
इयं वै रजता ।
असौ हरिणी ।
यद् रुक्मौ भवतः ।
आभ्याम् एवैनम् उभयतः परिगृह्णाति ।
वरुणस्य वा अभिषिच्यमानस्य_आपः ।
इन्द्रियं वीर्यं निरघ्नन् ।
तत् सुवर्णꣳ हिरण्यम् अभवत् ।
यद् रुक्मम् अन्तर्दधाति ।
इन्द्रियस्य वीर्यस्य_अनिर्घाताय ।
शतमानो भवति शतक्षरः ।
शत_आयुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
आयुर् वै हिरण्यम् ।
आयुष्या एवैनम् अभ्यतिक्षरन्ति ।
तेजो वै हिरण्यम् ।
तेजस्या एवैनम् अभ्यतिक्षरन्ति ।
वर्चो वै हिरण्यम् ।
वर्चस्या एवैनम् अभ्यतिक्षरन्ति ।
अनुवाक 10
VERSE: 1 { 1.8.10.1}
अप्रतिष्ठितो वा एष इत्य् आहुः ।
यो राजसूयेन यजत इति ।
यदा वा एष एतेन द्विरात्रेण यजते ।
अथ प्रतिष्ठा ।
अथ संवत्सरम् आप्नोति ।
यावन्ति संवत्सरस्य_अहोरात्राणि ।
तावतीर् एतस्य स्तोत्रीयाः ।
अहोरात्रेष्व् एव प्रतितिष्ठति ।
अग्निष्टोमः पूर्वम् अहर् भवति ।
अतिरात्र उत्तरम् ।
VERSE: 2 { 1.8.10.2}
नाना_एव_अहोरात्रयोः प्रतितिष्ठति ।
पौर्णमास्यां पूर्वम् अहर् भवति ।
व्यष्टकायाम् उत्तरम् ।
नाना_एव_अर्धमासयोः प्रतितिष्ठति ।
अमावास्यायां पूर्वम् अहर् भवति ।
उद्दृष्ट उत्तरम् ।
नाना_एव मासयोः प्रतितिष्ठति ।
अथो खलु ।
ये एव समानपक्षे पुण्याहे स्याताम् ।
तयोः कार्यं प्रतिष्ठित्यै ।
VERSE: 3 { 1.8.10.3}
अपशव्यो द्विरात्र इत्य् आहुः ।
द्वे ह्य् एते छन्दसी ।
गायत्रं च त्रैष्टुभं च ।
जगतीम् अन्तर्यन्ति ।
न तेन जगती कृतेत्य् आहुः ।
यद् एनां तृतीयसवने कुर्वन्ति_इति ।
यदा वा एषा_अहीनस्य_अहर् भजते ।
स_अह्नस्य वा सवनम् ।
अथैव जगती कृता ।
अथ पशव्यः ।
व्युष्टिर् वा एष द्विरात्रः ।
य एवं विद्वान् द्विरात्रेण यजते ।
व्य् एवास्मा उच्छति ।
अथो तम एव_अपहते ।
अग्निष्टोमम् अन्तत आहरति ।
अग्निः सर्वा देवताः ।
देवतास्व् एव प्रतितिष्ठति ।
काण्ड 2 आरण्यक काण्ड?
प्रपाठक: 1 अग्निहोत्रम्
अनुवाक 1 अग्निहोत्रस्योपोद्घातः
VERSE: 1 { 2.1.1.1}
अङ्गिरसो वै सत्त्रम् आसत ।
तेषां पृश्निर् घर्मधुग् आसीत् ।
सा_ऋजीषेण_अजीवत् ।
ते ऽब्रुवन् ।
कस्मै नु सत्त्रम् आस्महे ।
ये ऽस्या ओषधीर् न जनयाम इति ।
ते दिवो वृष्टिम् असृजन्त ।
यावन्तः स्तोका अवापद्यन्त ।
तावतीर् ओषधयो ऽजायन्त ।
ता जाताः पितरो विषेण_अलिम्पन् ।
VERSE: 2 { 2.1.1.2}
तासां जग्ध्वा रुप्यन्त्यैत् ।
ते ऽब्रुवन् ।
क इदम् इत्थम् अकर् इति ।
वयं भागधेयम् इच्छमाना इति पितरो ऽब्रुवन् ।
किं वो भागधेयम् इति ।
अग्निहोत्र एव नो ऽप्य् अस्त्व् इत्य् अब्रुवन् ।
तेभ्य एतद् भागधेयं प्रायच्छन् ।
यद् धुत्वा निमार्ष्टि ।
ततो वै त ओषधीर् अस्वदयन् ।
य एवं वेद ।
VERSE: 3 { 2.1.1.3}
स्वदन्ते ऽस्मा ओषधयः ।
ते वत्सम् उपावासृजन् ।
इदं नो हव्यं प्रदापय_इति ।
सो ऽब्रवीद् वरं वृणै ।
दश मा रात्रीर् जातं न दोहन् ।
आसंगवं मात्रा सह चराणि_इति ।
तस्माद् वत्सं जातं दश रात्रीर् न दुहन्ति ।
आसंगवं मात्रा सह चरति ।
वारेवृतꣳ ह्य् अस्य ।
तस्माद् वत्सꣳ सꣳसृष्टधयꣳ रुद्रो घातुकः ।
अति हि सन्धां धयति ।
अनुवाक 2 अग्निहोत्र निरूपणम्
VERSE: 1 { 2.1.2.1}
प्रजापतिर् अग्निम् असृजत ।
तं प्रजा अन्व् असृज्यन्त ।
तम् अभाग उपास्त ।
सो ऽस्य प्रजाभिर् अपाक्रामत् ।
तम् अवरुरुत्समानो ऽन्वैत् ।
तम् अवरुधन् न_अशक्नोत् ।
स तपो ऽतप्यत ।
सो ऽग्निर् उपारमत_अतापि वै स्य प्रजापतिर् इति ।
VERSE: 2 { 2.1.2.5}
तद् घृतम् अभवत् ।
तस्माद् यस्य दक्षिणतः केशा उन्मृष्टाः ।
तां ज्येष्ठलक्ष्मी प्राजापत्या_इत्य् आहुः ।
यद् रराटाद् उदमृष्ट ।
तस्माद् रराटे केशा न सन्ति ।
तद् अग्नौ प्रागृह्णात् ।
तद् व्यचिकित्सत् ।
जुहवानी3 मा हौषा3म् इति ।
तद् विचिकित्सायै जन्म ।
य एवं विद्वान् विचिकित्सति ।
VERSE: 3 { 2.1.2.3}
वसीय एव चेतयते ।
तं वाग् अभ्यवदज् जुहुधि_इति ।
सो ऽब्रवीत् ।
कस् त्वम् असि_इति ।
स्वा_एव ते वाग् इत्य् अब्रवीत् ।
सो ऽजुहोत् स्वाहा_इति ।
तत् स्वाहाकारस्य जन्म ।
य एवꣳ स्वाहाकारस्य जन्म वेद ।
करोति स्वाहाकारेण वीर्यम् ।
यस्यैवं विदुषः स्वाहाकारेण जुह्वति ।
VERSE: 4 { 2.1.2.4}
भोगाय_एवास्य हुतं भवति ।
तस्या आहुत्यै पुरुषम् असृजत ।
द्वितीयम् अजुहोत् ।
सो ऽश्वम् असृजत ।
तृतीयम् अजुहोत् ।
स गाम् असृजत ।
चतुर्थम् अजुहोत् ।
सो ऽविमसृजत ।
पञ्चमम् अजुहोत् ।
सो ऽजाम् असृजत ।
VERSE: 5 { 2.1.2.5}
सो ऽग्निर् अबिभेत् ।
आहुतीभिर् वै मा_आप्नोति_इति ।
स प्रजापतिं पुनः प्राविशत् ।
तं प्रजापतिर् अब्रवीत् ।
जायस्व_इति ।
सो ऽब्रवीत् ।
किं भागधेयम् अभिजनिष्य इति ।
तुभ्यम् एव_इदꣳ हूयाता इत्य् अब्रवीत् ।
स एतद् भागधेयम् अभ्यजायत ।
यद् अग्निहोत्रम् ।
VERSE: 6 { 2.1.2.6}
तस्माद् अग्निहोत्रम् उच्यते ।
तद् धूयमानम् आदित्यो ऽब्रवीत् ।
मा हौषीः ।
उभयोर् वै नाव् एतद् इति ।
सो ऽग्निर् अब्रवीत् ।
कथं नौ होष्यन्ति_इति ।
सायम् एव तुभ्यं जुहवन् ।
प्रातर् मह्यम् इत्य् अब्रवीत् ।
तस्माद् अग्नये सायꣳ हूयते ।
सूर्याय प्रातः ।
VERSE: 7 { 2.1.2.7}
आग्नेयी वै रात्रिः ।
ऐन्द्रम् अहः ।
यद् अनुदिते सूर्ये प्रातर् जुहुयात् ।
उभयम् एवाऽऽग्नेयꣳ स्यात् ।
उदिते सूर्ये प्रातर् जुहोति ।
तथा_अग्नये सायꣳ हूयते ।
सूर्याय प्रातः ।
रात्रिं वा अनु प्रजाः प्रजायन्ते ।
अह्ना प्रतितिष्ठन्ति ।
यत् सायं जुहोति ।
VERSE: 8 { 2.1.2.11}
प्र_एव तेन जायते ।
उदिते सूर्ये प्रातर् जुहोति ।
प्रत्य् एव तेन तिष्ठति ।
प्रजापतिर् अकामयत प्रजायेय_इति ।
स एतद् अग्निहोत्रं मिथुनम् अपश्यत् ।
तद् उदिते सूर्ये ऽजुहोत् ।
यजुषा_अन्यत् ।
तूष्णीम् अन्यत् ।
ततो वै स प्राजायत ।
यस्यैवं विदुष उदिते सूर्ये ऽग्निहोत्रं जुह्वति ।
VERSE: 9 { 2.1.2.9}
प्र_एव जायते ।
अथो यथा दिवा प्रजानन्न् एति ।
तादृग् एव तत् ।
अथो खल्व् आहुः ।
यस्य वै द्वौ पुण्यौ गृहे वसतः ।
यस् तयोर् अन्यꣳ राधयत्य् अन्यं न ।
उभौ वाव स ताव् ऋच्छति_इति ।
अग्निं वावाऽऽदित्यः सायं प्रविशति ।
तस्माद् अग्निर् दूरान् नक्तं ददृशे ।
उभे हि तेजसी संपद्येते ।
VERSE: 10 { 2.1.2.10}
उद्यन्तं वावाऽऽदित्यम् अग्निर् अनुसमारोहति ।
तस्माद् धूम एव_अग्नेर् दिवा ददृशे ।
यद् अग्नये सायं जुहुयात् ।
आ सूर्याय वृश्च्येत ।
यत् सूर्याय प्रातर् जुहुयात् ।
आ_अग्नये वृश्च्येत ।
देवताभ्यः समदं दध्यात् ।
अग्निर् ज्योतिर् ज्योतिः सूर्यः स्वाहा_इत्य् एव सायꣳ होतव्यम् ।
सूर्यो ज्योतिर् ज्योतिर् अग्निः स्वाहा_इति प्रातः ।
तथा_उभाभ्याꣳ सायꣳ हूयते ।
VERSE: 11 { 2.1.2.11}
उभाभ्यां प्रातः ।
न देवताभ्यः समदं दधाति ।
अग्निर् ज्योतिर् इत्य् आह ।
अग्निर् वै रेतोधाः ।
प्रजा ज्योतिर् इत्य् आह ।
प्रजा एवास्मै प्रजनयति ।
सूर्यो ज्योतिर् इत्य् आह ।
प्रजास्व् एव प्रजातासु रेतो दधाति ।
ज्योतिर् अग्निः स्वाहा_इत्य् आह ।
प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति ।
VERSE: 12 { 2.1.2.12}
तूष्णीम् उत्तराम् आहुतिं जुहोति ।
मिथुनत्वाय प्रजात्यै ।
यद् उदिते सूर्ये प्रातर् जुहुयात् ।
यथा_अतिथये प्रद्रुताय शून्याय_आवसथाय_आहार्यꣳ हरन्ति ।
तादृग् एव तत् ।
क्व_अह ततस् तद् भवति_इत्य् आहुः ।
यत् स न वेद ।
यस्मै तद्धरन्ति_इति ।
तस्माद् यद् औषसं जुहोति ।
तद् एव संप्रति ।
अथो यथा प्रार्थम् औषसं परिवेवेष्टि ।
तादृग् एव तत् ।
अनुवाक 3 अग्निहोत्रे अधिश्रयणादिका हविःसंस्कारा
VERSE: 1 { 2.1.3.1}
रुद्रो वा एषः ।
यद् अग्निः ।
पत्नी स्थाली ।
यन् मध्ये ऽग्नेर् अधिश्रयेत् ।
रुद्राय पत्नीम् अपिदध्यात् ।
प्रमायुका स्यात् ।
उदीचो ऽङ्गारान् निरूह्य_अधिश्रयति ।
पत्नियै गोपीथाय ।
व्यन्तान् करोति ।
तथा पत्न्य् अप्रमायुका भवति ।
VERSE: 2 { 2.1.3.2}
घर्मो वा एषो ऽशान्तः ।
अहर्_अहः प्रवृज्यते ।
यद् अग्निहोत्रम् ।
प्रतिषिञ्चेत् पशुकामस्य ।
शान्तम् इव हि पशव्यम् ।
न प्रतिषिञ्चेद् ब्रह्मवर्चसकामस्य ।
समिद्धम् इव हि ब्रह्मवर्चसम् ।
अथो खलु ।
प्रतिषिच्यम् एव ।
यत् प्रतिषिञ्चति ।
VERSE: 3 { 2.1.3.3}
तत् पशव्यम् ।
यज् जुहोति ।
तद् ब्रह्मवर्चसि ।
उभयम् एव_अकः ।
प्रच्युतं वा एतद् अस्माल् लोकात् ।
अगतं देवलोकम् ।
यत्_शृतꣳ हविर् अनभिघारितम् ।
अभिद्योतयति ।
अभ्य् एवैनद् घारयति ।
अथो देवत्रा_एवैनद् गमयति ।
VERSE: 4 { 2.1.3.4}
पर्यग्नि करोति ।
रक्षसाम् अपहत्यै ।
त्रिः पर्यग्नि करोति ।
त्र्यावृद् धि यज्ञः ।
अथो मेध्यत्वाय ।
यत् प्राचीनम् उद्वासयेत् ।
यजमानꣳ शुचा_अर्पयेत् ।
यद् दक्षिणा ।
पितृदेवत्यꣳ स्यात् ।
यत् प्रत्यक् ।
VERSE: 5 { 2.1.3.5}
पत्नीꣳ शुचा_अर्पयेत् ।
उदीचीनम् उद्वासयति ।
एषा वै देवमनुष्याणाꣳ शान्ता दिक् ।
ताम् एवैनद् अनूद्वासयति शान्त्यै ।
वर्त्म करोति ।
यज्ञस्य संतत्यै ।
निष्टपति ।
उप_एव तत् स्तृणाति ।
चतुर् उन्नयति ।
चतुष्पादः पशवः ।
VERSE: 6 { 2.1.3.6}
पशून् एव_अवरुन्धे ।
सर्वान् पूर्णान् उन्नयति ।
सर्वे हि पुण्या राद्धाः ।
अनूच उन्नयति ।
प्रजाया अनूचीनत्वाय ।
अनूच्य् एवास्य प्रजा_अर्धुका भवति ।
संमृशति व्यावृत्त्यै ।
न_अहोष्यन्न् उपसादयेत् ।
यद् अहोष्यन्न् उपसादयेत् ।
यथा_अन्यस्मा उपनिधाय ।
VERSE: 7 { 2.1.3.7}
अन्यस्मै प्रयच्छति ।
तादृग् एव तत् ।
आ_अस्मै वृश्च्येत ।
यद् एव गार्हपत्ये ऽधिश्रयति ।
तेन गार्हपत्यं प्रीणाति ।
अग्निर् अबिभेत् ।
आहुतयो मा_अत्येष्यन्ति_इति ।
स एताꣳ समिधम् अपश्यत् ।
ताम् आधत्त ।
ततो वा अग्नाव् आहुतयो ऽध्रियन्त ।
VERSE: 8 { 2.1.3.8}
यद् एनꣳ समयच्छत् ।
तत् समिधः समित्त्वम् ।
समिधम् आदधाति ।
सम् एवैनं यच्छति ।
आहुतीनां धृत्यै ।
अथो अग्निहोत्रम् एव_इध्मवत् करोति ।
आहुतीनां प्रतिष्ठित्यै ।
ब्रह्मवादिनो वदन्ति ।
यद् एकाꣳ समिधम् आधाय द्वे आहुती जुहोति ।
अथ कस्याꣳ समिधि द्वितीयाम् आहुतिं जुहोति_इति ।
VERSE: 9 { 2.1.3.}
यद् द्वे समिधाव् आदध्यात् ।
भ्रातृव्यम् अस्मै जनयेत् ।
एकाꣳ समिधम् आधाय ।
यजुषा_अन्याम् आहुतिं जुहोति ।
उभे एव समिद्वती आहुती जुहोति ।
न_अस्मै भ्रातृव्यं जनयति ।
आदीप्तायां जुहोति ।
समिद्धम् इव हि ब्रह्मवर्चसम् ।
अथो यथा_अतिथिं ज्योतिष् कृत्वा परिवेवेष्टि ।
तादृग् एव तत् ।
चतुर् उन्नयति ।
द्विर् जुहोति ।
तस्माद् द्विपाद्_चतुष्पादम् अत्ति ।
अथो द्विपद्य् एव चतुष्पदः प्रतिष्ठापयति ।
अनुवाक 4 अग्निहोत्रे उपयुक्त हविःसंस्काराः
VERSE: 1 { 2.1.4.4}
उत्तरावतीं वै देवा आहुतिम् अजुहवुः ।
अवाचीम् असुराः ।
ततो देवा अभवन् ।
परा_असुराः ।
यं कामयेत वसीयान् स्याद् इति ।
कनीयस् तस्य पूर्वꣳ हुत्वा ।
उत्तरं भूयो जुहुयात् ।
एषा वा उत्तरावत्य् आहुतिः ।
तां देवा अजुहवुः ।
ततस्ते ऽभवन् ।
VERSE: 2 { 2.1.4.2}
यस्यैवं जुह्वति ।
भवत्य् एव ।
यं कामयेत पापीयान्त् स्याद् इति ।
भूयस् तस्य पूर्वꣳ हुत्वा ।
उत्तरं कनीयो जुहुयात् ।
एषा वा अवाच्य् आहुतिः ।
ताम् असुरा अजुहवुः ।
ततस् ते पराभवन् ।
यस्यैवं जुह्वति ।
परा_एव भवति ।
VERSE: 3 { 2.1.4.3}
हुत्वा_उपसादयत्य् अजामित्वाय ।
अथो व्यावृत्त्यै ।
गार्हपत्यं प्रतीक्षते ।
अननुध्यायिनम् एवैनं करोति ।
अग्निहोत्रस्य वै स्थाणुर् अस्ति ।
तं य ऋच्छेत् ।
यज्ञस्थाणुम् ऋच्छेत् ।
एष वा अग्निहोत्रस्य स्थाणुः ।
यत् पूर्वा_आहुतिः ।
तां यद् उत्तरया_अभिजुहुयात् ।
VERSE: 4 { 2.1.4.4}
यज्ञस्थाणुम् ऋच्छेत् ।
अतिहाय पूर्वाम् आहुतिं जुहोति ।
यज्ञस्थाणुम् एव परिवृणक्ति ।
अथो भ्रातृव्यम् एवाऽऽप्त्वा_अतिक्रामति ।
अवाचीनꣳ सायम् उपमार्ष्टि ।
रेत एव तद् दधाति ।
ऊर्ध्वं प्रातः ।
प्र जनयत्य् एव तत् ।
ब्रह्मवादिनो वदन्ति ।
चतुर् उन्नयति ।
VERSE: 5 { 2.1.4.5}
द्विर् जुहोति ।
अथ क्व द्वे आहुती भवत इति ।
अग्नौ वैश्वानर इति ब्रूयात् ।
एष वा अग्निर् वैश्वानरः ।
यद् ब्राह्मणः ।
हुत्वा द्विः प्राश्नाति ।
अग्नाव् एव वैश्वानरे द्वे आहुती जुहोति ।
द्विर् जुहोति ।
द्विर् निमार्ष्टि ।
द्विः प्राश्नाति ।
VERSE: 6 { 2.1.4.6}
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
ऋतून् एव प्रीणाति ।
ब्रह्मवादिनो वदन्ति ।
किंदेवत्यम् अग्निहोत्रम् इति ।
वैश्वदेवम् इति ब्रूयात् ।
यद् यजुषा जुहोति ।
तद् ऐन्द्राग्नम् ।
यत् तूष्णीम् ।
तत् प्राजापत्यम् ।
VERSE: 7 { 2.1.4.7}
यन् निमार्ष्टि ।
तद् ओषधीनाम् ।
यद् द्वितीयम् ।
तत् पितृणाम् ।
यत् प्राश्नाति ।
तद् गर्भाणाम् ।
तस्माद् गर्भा अनश्नन्तो वर्धन्ते ।
यद् आचामति ।
तन् मनुष्याणाम् ।
उदङ् पर्यावृत्य_आचामति ।
VERSE: 8 { 2.1.4.8}
आत्मनो गोपीथाय ।
निर्णेनेक्ति शुद्ध्यै ।
निष्टपति स्वगाकृत्यै ।
उद्दिशति ।
सप्तऋषीन् एव प्रीणाति ।
दक्षिणा पर्यावर्तते ।
स्वम् एव वीर्यम् अनु पर्यावर्तते ।
तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः ।
अथो आदित्यस्यैवाऽऽवृतम् अनु पर्यावर्तते ।
हुत्वा_उपसमिन्धे ।
VERSE: 9 { 2.1.4.9}
ब्रह्मवर्चसस्य समिद्ध्यै ।
न बर्हिर् अनु प्रहरेत् ।
असꣳस्थितो वा एष यज्ञः ।
यद् अग्निहोत्रम् ।
यद् अनुप्रहरेत् ।
यज्ञं विच्छिन्द्यात् ।
तस्मान् न_अनुप्रहृत्यम् ।
यज्ञस्य संतत्यै ।
अपो निनयति ।
अवभृथस्यैव रूपम् अकः ।
अनुवाक 5 अग्निहोत्रे काम्यानि होमद्रव्याणि
VERSE: 1 { 2.1.5.1}
ब्रह्मवादिनो वदन्ति ।
अग्निहोत्रप्रायणा यज्ञाः ।
किंप्रायणम् अग्निहोत्रम् इति ।
वत्सो वा अग्निहोत्रस्य प्रायणम् ।
अग्निहोत्रं यज्ञानाम् ।
तस्य पृथिवी सदः ।
अन्तरिक्षम् आग्नीध्रम् ।
द्यौर् हविर्धानम् ।
दिव्या आपः प्रोक्षणयः ।
ओषधयो बर्हिः ।
VERSE: 2 { 2.1.5.2}
वनस्पतय इध्मः ।
दिशः परिधयः ।
आदित्यो यूपः ।
यजमानः पशुः ।
समुद्रो ऽवभृथः ।
संवत्सरः स्वगाकारः ।
तस्माद् आहिताग्नेः सर्वम् एव बर्हिष्यं दत्तं भवति ।
यत् सायं जुहोति ।
रात्रिम् एव तेन दक्षिण्यां कुरुते ।
यत् प्रातः ।
VERSE: 3 { 2.1.5.3}
अहर् एव तेन दक्षिण्यं कुरुते ।
यत् ततो ददाति ।
सा दक्षिणा ।
यावन्तो वै देवा अहुतम् आदन् ।
ते पराभवन् ।
त एतद् अग्निहोत्रꣳ सर्वस्यैव समवदाय_अजुहवुः ।
तस्माद् आहुः ।
अग्निहोत्रं वै देवा गृहाणां निष्कृतिम् अपश्यन्न् इति ।
यत् सायं जुहोति ।
रात्रिया एव तद्धुताद्याय ।
VERSE: 4 { 2.1.5.4}
यजमानस्य_अपराभावाय ।
यत् प्रातः ।
अह्न एव तद्धुताद्याय ।
यजमानस्य_अपराभावाय ।
यत् ततो ऽश्नाति ।
हुतम् एव तत् ।
द्वयोः पयसा जुहुयात् पशुकामस्य ।
एतद् वा अग्निहोत्रं मिथुनम् ।
य एवं वेद ।
प्र प्रजया पशुभिर् मिथुनैर् जायते ।
VERSE: 5 { 2.1.5.5}
इमाम् एव पूर्वया दुहे ।
अमूम् उत्तरया ।
अधिश्रित्य_उत्तरम् आनयति ।
योनाव् एव तद् रेतः सिञ्चति प्रजनने ।
आज्येन जुहुयात् तेजस्कामस्य ।
तेजो वा आज्यम् ।
तेजस्व्य् एव भवति ।
पयसा पशुकामस्य ।
एतद् वै पशूनाꣳ रूपम् ।
रूपेण_एवास्मै पशून् अवरुन्धे ।
VERSE: 6 { 2.1.5.6}
पशुमान् एव भवति ।
दध्ना_इन्द्रियकामस्य ।
इन्द्रियं वै दधि ।
इन्द्रियाव्य् एव भवति ।
यवाग्वा ग्रामकामस्य_ओषधा वै मनुष्याः ।
भागधेयेनैवास्मै सजातान् अवरुन्धे ।
ग्राम्य् एव भवति ।
अयज्ञो वा एषः ।
यो ऽसामा ।
VERSE: 7 { 2.1.5.7}
चतुर् उन्नयति ।
चतुरक्षरꣳ रथंतरम् ।
रथन्तरस्यैष वर्णः ।
उपरि_इव हरति ।
अन्तरिक्षं वामदेव्यम् ।
वामदेव्यस्यैष वर्णः ।
द्विर् जुहोति ।
द्व्यक्षरं बृहत् ।
बृहत एष वर्णः ।
अग्निहोत्रम् एव तत् सामन्वत् करोति ।
VERSE: 8 { 2.1.5.8}
यो वा अग्निहोत्रस्य_उपसदो वेद ।
उप_एनम् उपसदो नमन्ति ।
विन्दत उपसत्तारम् ।
उन्नीय_उपसादयति ।
पृथिवीम् एव प्रीणाति ।
होष्यन्न् उपसादयति ।
अन्तरिक्षम् एव प्रीणाति ।
हुत्वा_उपसादयति ।
दिवम् एव प्रीणाति ।
एता वा अग्निहोत्रस्य_उपसदः ।
VERSE: 9 { 2.1.5.9}
य एवं वेद ।
उप_एनम् उपसदो नमन्ति ।
विन्दत उपसत्तारम् ।
यो वा अग्निहोत्रस्य_आश्रावितं प्रत्याश्रावितꣳ होतारं ब्रह्माणं वषट्कारं वेद ।
तस्य त्व् एव हुतम् ।
प्राणो वा अग्निहोत्रस्य_आश्रावितम् ।
अपानः प्रत्याश्रावितम् ।
मनो होता ।
चक्षुर् ब्रह्मा ।
निमेषो वषट्कारः ।
VERSE: 10 { 2.1.5.10}
य एवं वेद ।
तस्य त्व् एव हुतम् ।
सायंयावानश् च वै देवाः प्रातर्यावाणश् च_अग्निहोत्रिणो गृहम् आगच्छन्ति ।
तान् यन् न तर्पयेत् ।
प्रजया_अस्य पशुभिर् वितिष्ठेरन् ।
यत् तर्पयेत् ।
तृप्ता एनं प्रजया पशुभिस् तर्पयेयुः ।
सजूर् देवैः सायं यावभिर् इति सायꣳ संमृशति ।
सजूर् देवैः प्रातर् यावभिर् इति प्रातः ।
ये चैव देवाः सायंयावानो ये च प्रातर्यावाणः ।
VERSE: 11 { 2.1.5.11}
तान् एव_उभयाꣳस् तर्पयति ।
त एनं तृप्ताः प्रजया पशुभिस् तर्पयन्ति ।
अरुणो ह स्म_आह_औपवेशिः ।
अग्निहोत्र एव_अहꣳ सायं_प्रातर् वज्रं भ्रातृव्येभ्यः प्रहरामि ।
तस्मान् मत् पापीयाꣳसो भ्रातृव्या इति ।
चतुर् उन्नयति ।
द्विर् जुहोति ।
समित् सप्तमी ।
सप्तपदा शक्वरी ।
शाक्वरो वज्रः ।
अग्निहोत्र एव तत् सायं_प्रातर् वज्रं यजमानो भ्रातृव्याय प्रहरति ।
भवत्य् आत्मना ।
परा_अस्य भ्रातृव्यो भवति ।
अनुवाक 6 अग्निहोत्रे अभ्युद्द्रवणं होमाभावप्रतीकारं च
VERSE: 1 { 2.1.6.1}
प्रजापतिर् अकामयत_आत्मन्वन् मे जायेत_इति ।
सो ऽजुहोत् ।
तस्य_आत्मन्वद् अजायत ।
अग्निर् वायुर् आदित्यः ।
ते ऽब्रुवन् ।
प्रजापतिर् अहौषीद् आत्मन्वन् मे जायेत_इति ।
तस्य वयम् अजनिष्महि ।
जायतां न आत्मन्वद् इति ते ऽजुहवुः ।
प्राणानाम् अग्निः ।
तनुवै वायुः ।
VERSE: 2 { 2.1.6.2}
चक्षुष आदित्यः ।
तेषाꣳ हुताद् अजायत गौर् एव ।
तस्यै पयसि व्यायच्छन्त ।
मम हुताद् अजनि मम_इति ।
ते प्रजापतिं प्रश्नम् आयन् ।
स आदित्यो ऽग्निम् अब्रवीत् ।
यतरो नौ जयात् ।
तन् नौ सह_असद् इति ।
कस्य_एको { कस्यैको} { कस्यै को} ऽहौषीद् इति प्रजापतिर् अब्रवीत् कस्य_एक { कस्यैको} कस्यै क} इति ।
प्राणानाम् अहम् इत्य् अग्निः ।
VERSE: 3 { 2.1.6.3}
तनुवा अहम् इति वायुः ।
चक्षुषो ऽहम् इत्य् आदित्यः ।
य एव प्राणानाम् अहौषीत् ।
तस्य हुताद् अजनि_इति ।
अग्नेर् हुताद् अजनि_इति ।
तद् अग्निहोत्रस्य_अग्निहोत्रत्वम् ।
गौर् वा अग्निहोत्रम् ।
य एवं वेद गौर् अग्निहोत्रम् इति ।
प्राणापानाभ्याम् एव_अग्निꣳ समर्धयति ।
अव्यर्धुकः प्राणापानाभ्यां भवति ।
VERSE: 4 { 2.1.6.4}
य एवं वेद ।
तौ वायुर् अब्रवीत् ।
अनु मा_आभजतम् इति ।
यद् एव गार्हपत्ये ऽधिश्रित्य_आहवनीयम् अभ्युद्द्रवान् ।
तेन त्वां प्रीणान् इत्य् अब्रूताम् ।
तस्माद् यद् गार्हपत्ये ऽधिश्रित्य_आहवनीयम् अभ्युद्द्रवति ।
वायुम् एव तेन प्रीणाति ।
प्रजापतिर् देवताः सृजमानः ।
अग्निम् एव देवतानां प्रथमम् असृजत ।
सो ऽन्यद् आलम्भ्यम् अवित्त्वा।
VERSE: 5 { 2.1.6.5}
प्रजापतिम् अभि पर्यावर्तत ।
स मृत्योर् अबिभेत् ।
सो ऽमुम् आदित्यम् आत्मनो निरमिमीत ।
तꣳ हुत्वा पराङ् पर्यावर्तत ।
ततो वै स मृत्युम् अपाजयत् ।
अप मृत्युं जयति ।
य एवं वेद ।
तस्माद् यस्यैवं विदुषः ।
उतैकाहम् उत द्व्यहं न जुह्वति ।
हुतम् एवास्य भवति ।
असौ ह्य् आदित्यो ऽग्निहोत्रम् ।
अनुवाक 7 अग्निहोत्रे हविषः सर्वदेवतासम्बन्धेन प्रशंसा
VERSE: 1 { 2.1.7.7}
रौद्रं गवि ।
वायव्यम् उपसृष्टम् ।
आश्विनं दुह्यमानम् ।
सौम्यं दुग्धम् ।
वारुणम् अधिश्रितम् ।
वैश्वदेवा भिन्दवः ।
पौष्णम् उदन्तम् ।
सारस्वतं विष्यन्दमानम् ।
मैत्रꣳ शरः ।
धातुर् उद्वासितम् ।
बृहस्पतेर् उन्नीतम् ।
सवितुः प्रक्रान्तम् ।
द्यावापृथिव्यꣳ ह्रियमाणम् ।
ऐन्द्राग्नम् उपसन्नम् ।
अग्नेः पूर्वा_आहुतिः ।
प्रजापतेर् उत्तरा ।
ऐन्द्रꣳ हुतम् ।
अनुवाक 8 अग्निहोत्रे दोहनप्रकारः
VERSE: 1 { 2.1.8.8}
दक्षिणत उपसृजति ।
पितृलोकम् एव तेन जयति ।
प्राचीम् आवर्तयति ।
देवलोकम् एव तेन जयति ।
उदीचीम् आव्रत्य {आवृत्य} दोग्धि ।
मनुष्यलोकम् एव तेन जयति ।
पूर्वौ दुह्याज् ज्येष्ठस्य ज्यैष्ठिनेयस्य ।
यो वा गतश्रीः {ऽऽगतश्रीः} स्यात् ।
अपरौ दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्य ।
यो वा बुभूषेत् ।
VERSE: 2 { 2.1.8.2}
न संमृशति ।
पापवस्यसस्य व्यावृत्त्यै ।
वायव्यं वा एतद् उपसृष्टम् ।
आश्विनं दुह्यमानम् ।
मैत्रं दुग्धम् ।
अर्यम्ण उद्वास्यमानम् ।
त्वाष्ट्रम् उन्नीयमानम् ।
बृहस्पतेर् उन्नीतम् ।
सवितुः प्रक्रान्तम् ।
द्यावापृथिव्यꣳ ह्रियमाणम् ।
VERSE: 3 { 2.1.8.3}
ऐन्द्राग्नम् उपसादितम् ।
सर्वाभ्यो वा एष देवताभ्यो जुहोति ।
यो ऽग्निहोत्रं जुहोति ।
यथा खलु वै धेनुं तीर्थे तर्पयति ।
एवम् अग्निहोत्री यजमानं तर्पयति ।
तृप्यति प्रजया पशुभिः ।
प्र सुवर्गं लोकं जानाति ।
पश्यति पुत्रम् ।
पश्यति पौत्रम् ।
प्र प्रजया पशुभिर् मिथुनैर् जायते ।
यस्यैवं विदुषो ऽग्निहोत्रं जुह्वति ।
य उ चैनद् एवं वेद ।
अनुवाक 9 अग्निहोत्रे असंसृष्टहोममन्त्रौ
VERSE: 1 { 2.1.9.1}
त्रयो वै प्रैयमेधा आसन् ।
तेषां त्रिर् एको ऽग्निहोत्रम् अजुहोत् ।
द्विर् एकः ।
सकृद् एकः ।
तेषां यस् त्रिर् अजुहोत् ।
स ऋचा_अजुहोत् ।
यो द्विः ।
स यजुषा ।
यः सकृत् ।
स तूष्णीम् ।
VERSE: 2 { 2.1.9.2}
यश् च यजुषा_अजुहोद् यश् च तूष्णीम् ।
ताव् उभाव् आर्ध्नुताम् ।
तस्माद् यजुषा_आहुतिः पूर्वा होतव्या ।
तूष्णीम् उत्तरा ।
उभे एव_ऋद्धी अवरुन्धे ।
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा_इति सायं जुहोति ।
रेत एव तद् दधाति ।
सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा_इति प्रातः ।
रेत एव हितं प्रजनयति ।
रेतो वा एतस्य हितं न प्रजायते ।
VERSE: 3 { 2.1.9.3}
यस्य_अग्निहोत्रम् अहुतꣳ सूर्यो ऽभ्य् उदेति ।
यद्य् अन्ते स्यात् ।
उन्नीय प्राङ् उदाद्रवेत् ।
स उपसाद्य_आतमितोर् आसीत ।
स यदाताम्येत् ।
अथ भूः स्वाहा_इति जुहुयात् ।
प्रजापतिर् वै भूतः ।
तम् एव_उपासरत् ।
स एवैनं तत उन्नयति ।
न_आर्तिम् आर्च्छति यजमानः ।
अनुवाक 10 अग्निहोत्रे वह्नेरवस्थाविशेषानुसारेण होमप्राशस्त्यं
VERSE: 1 { 2.1.10.1}
यद् अग्निम् उद्धरति ।
वसवस् तर्ह्य् अग्निः ।
तस्मिन् यस्य तथाविधे जुह्वति ।
वसुष्व् एवास्य_अग्निहोत्रꣳ हुतं भवति ।
निहितो धूपायञ्_ शेते ।
रुद्रास् तर्ह्य् अग्निः ।
तस्मिन् यस्य तथाविधे जुह्वति ।
रुद्रेष्व् एव_अस्य_अग्निहोत्रꣳ हुतं भवति ।
प्रथमम् इध्मम् अर्चिर् आलभते ।
आदित्यास् तर्ह्य् अग्निः ।
VERSE: 2 { 2.1.10.2}
तस्मिन् यस्य तथाविधे जुह्वति ।
आदित्येष्व् एवास्य_अग्निहोत्रꣳ हुतं भवति ।
सर्व एव सर्वश इध्म आदीप्तो भवति ।
विश्वे देवास् तर्ह्य् अग्निः ।
तस्मिन् यस्य तथाविधे जुह्वति ।
विश्वेष्व् एवास्य देवेष्व् अग्निहोत्रꣳ हुतं भवति ।
नितराम् अर्चिर् उपावैति लोहिनीका_इव भवति ।
इन्द्रस् तर्ह्य् अग्निः ।
तस्मिन् यस्य तथाविधे जुह्वति ।
इन्द्र एवास्य_अग्निहोत्रꣳ हुतं भवति ।
VERSE: 3 { 2.1.10.3}
अङ्गारा भवन्ति ।
तेभ्यो ऽङ्गारेभ्यो ऽर्चिर् उदेति ।
प्रजापतिस् तर्ह्य् अग्निः ।
तस्मिन् यस्य तथाविधे जुह्वति ।
प्रजापताव् एवास्य_अग्निहोत्रꣳ हुतं भवति ।
शरो ऽङ्गारा अध्यूहन्ते ।
ब्रह्म तर्ह्य् अग्निः ।
तस्मिन् यस्य तथाविधे जुह्वति ।
ब्रह्मन्न् एवास्य_अग्निहोत्रꣳ हुतं भवति ।
वसुषु रुद्रेष्व् आदित्येषु विश्वेषु देवेषु ।
इन्द्रे प्रजापतौ ब्रह्मन् ।
अपरिवर्गम् एवास्यैतासु देवतासु हुतं भवति ।
यस्यैवं विदुषो ऽग्निहोत्रं जुह्वति ।
य उ चैनद् एवं वेद ।
अनुवाक 11 अग्निहोत्रे कालभेदेन परिषेचनं
VERSE: 1 { 2.1.11.1}
ऋतं त्वा सत्येन परिषिञ्चामि_इति सायं परिषिञ्चति ।
सत्यं त्वा_ऋतेन परिषिञ्चामि_इति प्रातः ।
अग्निर् वा ऋतम् ।
असाव् आदित्यः सत्यम् ।
अग्निम् एव तद् आदित्येन सायं परिषिञ्चति ।
अग्निना_आदित्यं प्रातः सः ।
यावद् अहोरात्रे भवतः ।
तावद् अस्य लोकस्य ।
न_अर्तिर् न ऋष्टिः ।
न_अन्तो न पर्यन्तो ऽस्ति ।
यस्यैवं विदुषो ऽग्निहोत्रं जुह्वति ।
य उ चैनद् एवं वेद ।
प्रपाठक: 2 दशहोत्रादयः मन्त्राः तद्ब्राह्मणं
अनुवाक 1
VERSE: 1 { 2.2.1.1}
प्रजापतिर् अकामयत प्रजाः सृजेय_इति ।
स एतं दशहोतारम् अपश्यत् ।
तं मनसोनुद्रुत्य दर्भस्तम्बे ऽजुहोत् ।
ततो वै स प्रजा असृजत ।
ता अस्मात् सृष्टा अपाक्रामन् ।
ता ग्रहेण_अगृह्णात् ।
तद् ग्रहस्य ग्रहत्वम् ।
यः कामयेत प्रजायेय_इति ।
स दशहोतारं मनसोनुद्रुत्य दर्भस्तम्बे जुहुयात् ।
0 प्रजापतिर् वै दशहोता ।
VERSE: 2 { 2.2.1.2}
प्रजापतिर् एव भूत्वा प्रजायते ।
मनसा जुहोति ।
मन इव हि प्रजापतिः ।
प्रजापतेर् आप्त्यै {।} पूर्णया जुहोति ।
पूर्ण इव हि प्रजापतिः ।
प्रजापतेराप्त्यै ।
न्यूनया जुहोति ।
न्यूनाद् धि प्रजापतिः प्रजा असृजत ।
प्रजानाꣳ सृष्ट्यै ।
VERSE: 3 { 2.2.1.3}
दर्भस्तम्बे जुहोति ।
एतस्माद् वै योनेः प्रजापतिः प्रजा असृजत ।
यस्माद् एव योनेः प्रजापतिः प्रजा असृजत ।
तस्माद् एव योनेः प्र जायते ।
ब्राह्मणो दक्षिणत उपास्ते ।
ब्राह्मणो वै प्रजानाम् उपद्रष्टा ।
उपद्रष्टुमत्य् एव प्रजायते ।
ग्रहो भवति ।
प्रजानाꣳ सृष्टानां धृत्यै ।
0 यं ब्राह्मणं विद्यां विद्वाꣳसं यशो न_ऋच्छेत् { नर्च्छेत्} ।
VERSE: 4 { 2.2.1.4}
सो ऽरण्यं परेत्य ।
दर्भस्तम्बम् उद्ग्र्áथ्य ।
ब्राह्मणं दक्षिणतो निषद्य ।
चतुर्होतॄन् व्याचक्षीत ।
एतद् वै देवानां परमं गुह्यं ब्रह्म ।
यच् चतुर्होतारः ।
तद् एव प्रकाशं गमयति ।
तद् एनं प्रकाशं गतम् ।
प्रकाशं प्रजानां गमयति ।
0 दर्भस्तम्बम् उद्ग्र्áथ्य व्याचष्टे ।
VERSE: 5 { 2.2.1.5}
अग्निवान् वै दर्भस्तम्बः ।
अग्निवत्य् एव व्याचष्टे ।
ब्राह्मणो दक्षिणत उपास्ते ।
ब्राह्मणो वै प्रजानाम् उपद्रष्टा ।
उपद्रष्टुमत्य् एवैनं यश ऋच्छति ।
ईश्वरं तं यशो ऽर्तोर् इत्य् आहुः ।
यस्यां ते व्याचष्ट इति ।
वरस् तस्मै देयः ।
यद् एवैनं तत्र_उपनमति ।
0 तद् एव_अवरुन्धे ।
VERSE: 6 { 2.2.1.6}
अग्निम् आदधानो दशहोत्रा_अरणिम् अवदध्यात् ।
प्रजातम् एवैनम् आधत्ते ।
तेनैव_उद्द्र्úत्य_अग्निहोत्रं जुहुयात् ।
प्रजातम् एवैनज् जुहोति ।
हविर् निर्वप्स्यन् दशहोतारं व्याचक्षीत ।
प्रजातम् एवैनं निर्वपति ।
सामिधेनीर् अनुवक्ष्यन् दशहोतारं व्याचक्षीत ।
सामिधेनिर् एव सृष्ट्वा_आरभ्य प्रतनुते ।
अथो यज्ञो वै दशहोता ।
0 यज्ञम् एव तनुते ।
VERSE: 7 { 2.2.1.7}
अभिचरन् दशहोतारं जुहुयात् ।
नव वै पुरुषे प्राणाः ।
नाभिर् दशमी ।
सप्राणम् एवैनम् अभिचरति ।
एतावद् वै पुरुषस्य स्वम् ।
यावत् प्राणाः ।
यावद् एवास्य_अस्ति ।
तद् अभिचरति ।
स्वकृत इरिणे जुहोति प्रदरे वा ।
0 एतद् वा अस्यै निर्ऋतिगृहीतम् ।
1 निर्ऋतिगृहीत एवैनं निर्ऋत्या ग्राहयति ।
2 यद् वाचः क्रूरम् ।
3 तेन वषट्करोति ।
4 वाच एवैनं क्रूरेण प्रवृश्चति ।
5 ता जगार्तिम् आर्च्छति ।
अनुवाक 2
VERSE: 1 { 2.2.2.1}
प्रजापतिर् अकामयत दर्शपूर्णमासौ सृजेय_इति ।
स एतं चतुर्होतारम् अपश्यत् ।
तं मनसोनुद्रुत्य_आहवनीये ऽजुहोत् ।
ततो वै स दर्शपूर्णमासाव् असृजत ।
ताव् अस्मात् सृष्टाव् अपाक्रामताम् { अपाक्रामताम्} ।
तौ ग्रहेण_अगृह्णात् ।
तद् ग्रहस्य ग्रहत्वम् ।
दर्शपूर्णमासाव् आलभमानः ।
चतुर्होतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् ।
दर्शपूर्णमासाव् एव सृष्ट्वा_आरभ्य प्रतनुते ।
VERSE: 2 { 2.2.2.2}
ग्रहो भवति ।
दर्शपूर्णमासयोः सृष्टयोर् धृत्यै ।
सो ऽकामयत चातुर्मास्यानि सृजेय_इति ।
स एतं पञ्चहोतारम् अपश्यत् ।
तं मनसोनुद्रुत्य_आहवनीये ऽजुहोत् ।
ततो वै स चातुर्मास्यान्य् असृजत ।
तान्य् अस्मात् सृष्टान्य् अपाक्रामन् ।
तानि ग्रहेण_अगृह्णात् ।
तद् ग्रहस्य ग्रहत्वम् ।
चातुर्मास्यान्य् आलभमानः ।
VERSE: 3 { 2.2.2.3}
पञ्चहोतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् ।
चातुर्मास्यान्य् एव सृष्ट्वा_आरभ्य प्रतनुते ।
ग्रहो भवति ।
चातुर्मास्यानाꣳ सृष्टानां धृत्यै ।
सो ऽकामयत पशुबन्धꣳ सृजेय_इति ।
स एतꣳ षड्ड्होतारम् अपश्यत् ।
तं मन्स्ā_अनुद्रुत्य_आहवनीये ऽजुहोत् ।
ततो वै स पशुबन्धम् असृजत ।
सो ऽस्मात् सृष्टो ऽपाक्रामत् ।
तं ग्रहेण_अगृह्णात् ।
VERSE: 4 { 2.2.2.4}
तद् ग्रहस्य ग्रहत्वम् ।
पशुबन्धेन यक्ष्यमाणः ।
षड्ड्होतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् ।
पशुबन्धम् एव सृष्ट्वा_आरभ्य प्रतनुते ।
ग्रहो भवति ।
पशुबन्धस्य सृष्टस्य धृत्यै ।
सो ऽकामयत सौम्यम् अध्वरꣳ सृजेय_इति ।
स एतꣳ सप्तहोतारम् अपश्यत् ।
तं मनसोनुद्रुत्य_आहवनीये ऽजुहोत् ।
ततो वै स सौम्यम् अध्वरम् असृजत ।
VERSE: 5 { 2.2.2.5}
सो ऽस्मात् सृष्टो ऽपाक्रामत् ।
तं ग्रहेण_अगृह्णात् ।
तद् ग्रहस्य ग्रहत्वम् ।
दीक्षिष्यमाणः ।
सप्तहोतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् ।
सौम्यम् एव_अध्वरꣳ सृष्ट्वा_आरभ्य प्रतनुते ।
ग्रहो भवति ।
सौम्यस्य_अध्वरस्य सृष्टस्य धृत्यै ।
देवेभ्यो वै यज्ञो न प्राभवत् ।
तम् एतावत्_शस् समभरन् ।
VERSE: 6 { 2.2.2.6}
यत् संभाराः ।
ततो वै तेभ्यो यज्ञः प्राभवत् ।
यत् संभारा भवनि ।
यज्ञस्य प्रभूत्यै ।
आतिथ्यम् आसाद्य व्याचष्टे ।
यज्ञमुखं वा आतिथ्यं ।
मुखत एव यज्ञꣳ संभृत्य प्रतनुते ।
अयज्ञो वा एषः ।
यो ऽपत्नीकः ।
न प्रजाः { ।} प्रजायेरन् ।
पत्नीर् व्याचष्टे ।
यज्ञम् एव_अकः ।
प्रजानां प्रजननाय ।
उपसत्सु व्याचष्टे ।
एतद् वै पत्नीनाम् आयतनम् ।
स्व एवैना आयतने ऽवकल्पयति ।
अनुवाक 3
VERSE: 1 { 2.2.3.1}
प्रजापतिर् अकामयत प्रजायेय_इति ।
स तपो ऽतप्यत ।
स त्रिवृतꣳ स्तोमम् असृजत ।
तं पञ्चदशस्तोमो मध्यत उदतृणत् ।
तौ पूर्वपक्षश् च_अपरपक्षश् च_अभवताम् ।
पूर्वपक्षं देवा अन्वसृज्यन्त ।
अपरपक्षम् अन्व् असुराः ।
ततो देवा अभवन् ।
परा_असुराः ।
यं कामयेत वसीयान्त् स्याद् इति ।
VERSE: 2 { 2.2.3.2}
तं पूर्वपक्षे याजयेत् ।
वसीयान् एव भवति ।
यं कामयेत पापीयान्त् स्याद् इति ।
तम् अपरपक्षे याजयेत् ।
पापीयान् एव भवति ।
तस्मात् पूर्वपक्षो ऽपरपक्षात् करुण्यतरः ।
प्रजापतिर् वै दशहोता ।
चतुर्होता पञ्चहोता ।
षड्ड्होता सप्तहोता ।
ऋतवः संवत्सरः ।
VERSE: 3 { 2.2.3.3}
प्रजाः पशव इमे लोकाः ।
य एवं प्रजापतिं बहोर् भूयाꣳसं वेद ।
बहोर् एव भूयान् भवति ।
प्रजापतिर् देव_असुरान् असृजत ।
स इन्द्रम् अपि न_असृजत ।
तं देवा अब्रुवन् ।
इन्द्रं नो जनय_इति ।
सो ऽब्रवीत् ।
यथा_अहं युष्माꣳस् तपसोसृक्षि ।
एवम् इन्द्रं जनयध्वम् इति ।
VERSE: 4 { 2.2.3.4}
ते तपो ऽतप्यन्त ।
त आत्मन्न् इन्द्रम् अपश्यन् ।
तम् अब्रुवन् ।
जायस्व_इति ।
सो ऽब्रवीत् ।
किम् भागधेयम् अभिजनिष्य इति ।
ऋतून्त् संवत्सरम् ।
प्रजाः प्रशून् ।
इमान्_लोकान् इत्य् अब्रुवन् ।
तं वै मा_आहुत्या प्रजनयत_इत्य् अब्रवीत् ।
VERSE: 5 { 2.2.3.5}
तं चतुर्होत्रा प्राजनयन् ।
यः कामयेत वीरो म आजायेत_इति ।
स चतुर्होतारं जुहुयात् ।
प्रजापतिर् वै चतुर्होता ।
प्रजापतिर् एव भूत्वा प्रजायते ।
जजनद् इन्द्रम् इन्द्रियाय स्वाहा_इति ग्रहेण जुहोति ।
आस्य वीरो जायते ।
वीरꣳ हि देवा एतया_आहुत्या प्राजनयन् ।
आदित्याश् च_अङ्गिरसश् च सुवर्गे लोके ऽस्पर्धन्त ।
वयं पूर्वे सुवर्गं लोकम् इयाम वयं पूर्व इति ।
VERSE: 6 { 2.2.3.6}
त आदित्या एतं पञ्चहोतारम् अपश्यन् ।
तं पुरा प्रातरनुवाकाद् आग्नीध्रे ऽजुहवुः ।
ततो वै ते पूर्वे सुवर्गं लोकम् आयन् ।
यः सुवर्गकामः स्यात् ।
स पञ्चहोतारं पुरा प्रातरनुवाकाद् आग्नीध्रे जुहुयात् ।
संवत्सरो वै पञ्चहोता ।
संवत्सरः सुवर्गो लोकः ।
संवत्सर एव_ऋतुषु प्रतिष्ठाय ।
सुवर्गं लोकम् एति ।
ते ऽब्रुवन्न् अङ्गिरस आदित्यान् ।
VERSE: 7 { 2.2.3.7}
क्व स्थ ।
क्व वः सद्भ्यो हव्यं वक्ष्याम इति ।
छन्दःस्व् इत्य् अब्रुवन् ।
गायत्रियां त्रिष्टुभि जगत्याम् इति ।
तस्माच् छन्दःसु सद्भ्य आदित्येभ्यः ।
आङ्गीरसीः प्रजा हव्यं वहन्ति ।
वहन्त्य् अस्मै प्रजा बलिम् ।
आ_एनम् अप्रतिख्यातं गच्छति ।
य एवं वेद ।
द्वादश मासाः पञ्च_ऋतवः ।
त्रय इमे लोकाः ।
असाव् आदित्य एकविꣳशः ।
एतस्मिन् वा एष श्रितः ।
एतस्मिन् प्रतिष्ठितः ।
य एवम् एतꣳ श्रितं प्रतिष्ठितं वेद ।
प्रत्य् एव तिष्ठति ।
अनुवाक 4
VERSE: 1 { 2.2.4.1}
प्रजापतिर् अकामयत प्रजायेय_इति ।
स एतं दशहोतारम् अपश्यत् ।
तेन दशधा_आत्मानं विधाय ।
दशहोत्रा_अतप्यत ।
तस्य चित्तिः स्रुग् आसीत् ।
चित्तम् आज्यम् ।
तस्यैत्ā̀वत्य् एव वाग् आसीत् ।
एतावान् यज्ञक्रतुः ।
स चतुर्होतारम् असृजत ।
सो ऽनन्दत् ।
VERSE: 2 { 2.2.4.2}
असृक्षि वा इमम् इति ।
तस्य सोमो हविर् आसित् ।
स चतुर्होत्रा_अतप्यत ।
सो ऽताम्यत् ।
स भूर् इति व्याहरत् ।
स भूमिम् असृजत ।
अग्निहोत्रं दर्शापूर्णमासौ यजूꣳषि ।
स द्वितीयम् अतप्यत ।
सो ऽताम्यत् ।
स भुव इति व्याहरत् ।
VERSE: 3 { 2.2.4.3}
सो ऽन्तरिक्षम् असृजत ।
चातुर्मास्यानि सामानि ।
स तृतीयम् अतप्यत ।
सो ऽताम्यत् ।
स सुवर् इति व्याहरत् ।
स दिवम् असृजत ।
अग्निष्टोमम् उक्थ्यम् अतिरात्रम् ऋचः ।
एता वै व्याहृतय इमे लोकाः ।
इमान् खलु वै लोकान् अनु प्रजाः पशवश् छन्दाꣳसि प्राजायन्त ।
य एवम् एताः प्रजापतेः प्रथमा व्याहृतीः प्रजाता वेद ।
VERSE: 4 { 2.2.4.4}
प्र प्रजया पशुभिर् मिथुनैर् जायते ।
स पञ्चहोतारम् असृजत ।
स हविर् न_अविन्दत ।
तस्मै सोमस् तनुवं प्रायच्छत् ।
एतत् ते हविर् इति ।
स पञ्चहोत्रा_अतप्यत ।
सो ऽताम्यत् ।
स प्रत्यङ्ङ् अबाधत ।
सो ऽसुरान् असृजत ।
तद् अस्य_अप्रियम् आसीत् ।
VERSE: 5 { 2.2.4.5}
तद् दुर्वर्णꣳ हिरण्यम् अभवत् ।
तद् दुर्वर्णस्य हिरण्यस्य जन्म ।
स द्वितीयम् अतप्यत ।
सो ऽताम्यत् ।
स प्राङ् अबाधत ।
स देवान् असृजत ।
तद् अस्य प्रियम् असीत् ।
तत् सुवर्णꣳ हिरण्यम् अभवत् ।
तत् सुवर्णस्य हिरण्यस्य जन्म ।
0 य एवꣳ सुवर्णस्य हिरण्यस्य जन्म वेद ।
VERSE: 6 { 2.2.4.6}
सुवर्ण आत्मना भवति ।
दुर्वर्णो ऽस्य भ्रातृव्यः ।
तस्मात् सुवर्णꣳ हिरण्यं भार्यम् ।
सुवर्ण एव भवति ।
आ_एनं प्रियं गच्छति न_अप्रियम् ।
स सप्तहोतारम् असृजत ।
स सप्तहोत्रा_एव सुवर्गं लोकम् ऐत् ।
त्रिणवेन स्तोमेन_एभ्यो लोकेभ्यो ऽसुरान् प्राणुदत ।
त्रयस्त्रिꣳशेन प्रत्यतिष्ठत् ।
एकविꣳशेन रुचम् अधत्त ।
VERSE: 7 { 2.2.4.7}
सप्तदशेन प्राजायत ।
य एवं विद्वान्त् सोमेन यजते ।
सप्तहोत्रा_एव सुवर्गं लोकम् एति ।
त्रिणवेन स्तोमेन_एभ्यो लोकेभ्यो भ्रातृव्यान् प्रणुदते ।
त्रयस्त्रिꣳशेन प्रतितिष्ठति ।
एकविꣳशेन रुचं धत्ते ।
सप्तदशेन प्रजायते ।
तस्मात् सप्तदशः स्तोमो न निर्ह्ŕ̥त्यः ।
प्रजापतिर् वै सप्तदशः ।
प्रजापतिम् एव मध्यतो धत्ते प्रजात्यै ।
अनुवाक 5
VERSE: 1 { 2.2.5.1}
देवा वै वरुणम् अयाजयन् ।
स यस्यै_यस्यै देवतायै दक्षिणाम् अनयत् ।
ताम् अव्लीनात् ।
ते ऽब्रुवन् ।
व्यावृत्य प्रति गृह्णाम ।
तथा नो दक्षिणा न व्लेष्यति_इति ।
ते व्यावृत्य प्रत्यगृह्णन् ।
ततो वै तान् { तां} दक्षिणा न_अव्लीनात् ।
य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति ।
न_एनं दक्षिणा व्लीनाति ।
VERSE: 2 { 2.2.5.2}
राजा त्वा वरुणो नयतु देवि दक्षिण्è ऽग्नये हिरण्यम् इत्य् आह ।
आग्नेयं वै हिरण्यम् ।
स्वया_एवैनद् देवतया प्रतिगृह्णाति ।
सोमाय वास इत्य् आह ।
सौम्यं वै वासः ।
स्वया_एवैनद् देवतया प्रतिगृह्णाति ।
रुद्राय गाम् इत्य् आह ।
रौद्री वै गौः ।
स्वया_एवैनां देवतया प्रतिगृह्णाति ।
वरुणाय_अश्वम् इत्य् आह ।
VERSE: 3 { 2.2.5.3}
वारुणो वा अश्वः ।
स्वया_एवैनं देवतया प्रतिगृह्णाति ।
प्राजापतये पुरुषम् इत्य् आह ।
प्राजापत्यो वै पुरुषः ।
स्वया_एवैनं देवतया प्रतिगृह्णाति ।
मनवे तल्पम् इत्य् आह ।
मानवो वै तल्पः ।
स्वया_एवैनं देवतया प्रतिगृह्णाति ।
उत्तानाया_आङ्गीरस_अयान इत्य् आह ।
इयं वा उत्तान आङ्गीरसः ।
VERSE: 4 { 2.2.5.4}
अनया_एवैनत् प्रतिगृह्णाति ।
वैश्वानर्या_ऋचा रथं प्रतिगृह्णाति ।
वैश्वानरो वै देवतया रथः ।
स्वया_एवैनं देवतया प्रतिगृह्णाति ।
तेन_अमृतत्वम् अश्याम् इत्य् आह ।
अमृतम् एवाऽऽत्मन् धत्ते ।
वयो दात्र इत्य् आह ।
वय एवैनं कृत्वा ।
सुवर्गं लोकं गमयति ।
मयो मह्यम् अस्तु प्रतिग्रहीत्र इत्य् आह ।
VERSE: 5 { 2.2.5.5}
यद् वै शिवम् ।
तन् मयः ।
आत्मन एवैषा परीत्तिः ।
क इदं कस्मा अदाद् इत्य् आह ।
प्रजापतिर् वै कः ।
स प्रजापतये ददाति ।
कामः कामाय_इत्य् आह ।
कामेन हि ददाति ।
कामेन प्रतिगृह्णाति ।
कामो दाता कामः प्रतिग्रहीतेत्य् आह ।
VERSE: 6 { 2.2.5.6}
कामो हि दाता ।
कामः प्रतिग्रहीता ।
कामꣳ समुद्रमाविश_इत्य् आह ।
समुद्र इव हि कामः ।
न_इव हि कामस्य_अन्तो ऽस्ति ।
न समुद्रस्य ।
कामेन त्वा प्रतिगृह्णामि_इत्य् आह ।
येन कामेन प्रतिगृह्णाति ।
स एवैनम् अमुष्मिन्_लोके काम आगच्छति ।
कामैतत् त एषा ते काम दक्षिणा_इत्य् आह ।
काम एव तद् यजमानो ऽमुष्मिन्_लोके दक्षिणाम् इच्छ्ति ।
न प्रतिग्रहीतरि ।
य एवं विद्वान् दक्षिणां प्रतिगृह्णाति ।
अनृणाम् एवैनां प्रतिगृह्णाति ।
अनुवाक 6
VERSE: 1 { 2.2.6.1}
अन्तो वा एष यज्ञस्य ।
यद् दशमम् अहः ।
दशमे ऽहन् सर्पराज्ञिया ऋग्भिः स्तुवन्ति ।
यज्ञस्यैव_अन्तं गत्वा ।
अन्नाद्यम् अवरुन्धते ।
तिसृभिः स्तुवन्ति ।
त्रय इमे लोकाः ।
एभ्य एव लोकेभ्यो ऽन्नाद्यम् अवरुन्धते ।
पृश्निवतीर् भवन्ति ।
अन्नं वै पृश्नि ।
VERSE: 2 { 2.2.6.2}
अन्नम् एव_अवरुन्धते ।
मनसा प्रस्तौति ।
मनसोद्गायति ।
मनसा प्रतिहरति ।
मन इव हि प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
देवा वै सर्पाः ।
तेषाम् इयꣳ राज्ञी ।
यत् सर्पराज्ञिया ऋग्भिः स्तुवन्ति ।
अस्याम् एव प्रतितिष्ठन्ति ।
VERSE: 3 { 2.2.6.3}
चतुर्होतॄन् होता व्याचष्टे ।
स्तुतम् अनुशꣳसति शान्त्यै ।
अन्तो वा एष यज्ञस्य ।
यद् दशमम् अहः ।
एतत् खलु वै देवानां परमं गुह्यं ब्रह्म ।
यच् चतुर्होतारः ।
दशमे ऽहꣳश् चतुर्होतॄन् व्याचष्टे ।
यज्ञस्यैव_अन्तं गत्वा ।
परमं देवानां गुह्यं ब्रह्मावरुन्धे ।
तद् एव प्रकाशं गमयति ।
VERSE: 4 { 2.2.6.4}
तद् एनं प्रकाशं गतम् ।
प्रकाशं प्रजानां गमयति ।
वाचं यच्छति ।
यज्ञस्य धृत्यै ।
यजमानदेवत्यं वा अहः ।
भ्रातृव्यदेवत्या रात्रिः ।
अह्ना रात्रिं ध्यायेत् ।
भ्रातृव्यस्यैव तल् लोकं वृङ्क्ते ।
यद् दिवा वाचं विसृजेत् ।
अहर् भ्रातृव्याय_उच्छिꣳषेत् ।
यन् नक्तं विसृजेत् ।
रात्रिं भ्रातृव्याय_उच्छिꣳषेत् ।
अधिवृक्षसूर्ये वाचं विसृजति ।
एतावन्तम् एवास्मै लोकम् उच्छिꣳषति ।
यावद् आदित्यो ऽस्तमेति ।
अनुवाक 7
VERSE: 1 { 2.2.7.1}
प्रजापतिः प्रजा असृजत ।
ताः सृष्टाः समश्लिष्यन् ।
ता रूपेण_अनुप्राविशत् ।
तस्माद् आहुः ।
रूपं वै प्रजापतिर् इति ।
ता नाम्ना_अनुप्राविशत् ।
तस्माद् आहुः ।
नाम वै प्रजापतिर् इति ।
तस्माद् अप्य् आमित्रौ संगत्य ।
नाम्ना चेद् ध्वयेते ।
VERSE: 2 { 2.2.7.2}
मित्रम् एव भवतः ।
प्रजापतिर् देव_असुरान् असृजत ।
स इन्द्रम् अपि न_असृजत ।
तं देवा अब्रुवन् ।
इन्द्रं नो जनय_इति ।
स आत्मन्न् इन्द्रम् अपश्यत् ।
तम् असृजत ।
तं त्रिष्टुग् वीर्यं भूत्वा_अनुप्राविशत् ।
तस्य वज्रः पञ्चदशो हस्त आपद्यत ।
तेन_उदय्य_असुरान् अभ्यभवत् ।
VERSE: 3 { 2.2.7.3}
य एवं वेद ।
अभि भ्रातृव्यान् भवति ।
ते देवा असुरैर् विजित्य ।
सुवर्गं लोकम् आयन् ।
ते ऽमुष्मिन्_लोके व्यक्षुध्यन् ।
ते ऽब्रुवन् ।
अमुतः प्रदानं वा उपजिजीविम_इति ।
ते सप्तहोतारं यज्ञं विधाय_अयास्यम् ।
आङ्गीरसं प्राहिण्वन् ।
एतेन_अमुत्र कल्पय_इति ।
VERSE: 4 { 2.2.7.4}
तस्य वा इयं क्लृप्तिः ।
यद् इदं किं च ।
य एवं वेद ।
कल्पते ऽस्मै ।
स वा अयं मनुष्येषु यज्ञः सप्तहोता ।
अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति ।
य एवं वेद ।
उप_एनं यज्ञो नमति ।
सो ऽमन्यत ।
अभि वा इमे ऽस्माल् लोकाद् अमुं लोकं कमिष्यन्त इति ।
स वाचस्पते हृद् इति व्याहरत् ।
तस्मात् पुत्त्र्ó हृदयम् ।
तस्माद् अस्माल् लोकाद् अमुं लोकं न_अभिकामयन्ते ।
पुत्रो हि हृदयम् ।
अनुवाक 8
VERSE: 1 { 2.2.8.1}
देवा वै चतुर्होतृभिर् यज्ञम् अतन्वत ।
ते वि पाप्मना भ्रातृव्येण_अजयन्त ।
अभि सुवर्गं लोकम् अजयन् ।
य एवं विद्वाꣳश् चतुर्होतृभिर् यज्ञं तनुते ।
वि पाप्मना भ्रातृव्येण जयते ।
अभि सुवर्गं लोकं जयति ।
षड्ड्होत्रा प्रायणीयम् आसादयति ।
अमुष्मै वै लोकाय षड्ड्होता ।
घ्नन्ति खलु वा एतत् सोमम् ।
यद् अभिषुण्वन्ति ।
VERSE: 2 { 2.2.8.2}
ऋजुधा_एवैनम् अमुं लोकं गमयति ।
चतुर्होत्रा_आतिथ्यम् ।
यशो वै चतुर्होता ।
यश एवाऽऽत्मन् धत्ते ।
पञ्चहोत्रा पशुम् उपसादयति ।
सुवर्ग्यो वै पञ्चहोता ।
यजमानः पशुः ।
यजमानम् एव सुवर्गं लोकं गमयति ।
ग्रहान् गृहीत्वा सप्तहोतारं जुहोति ।
इन्द्रियं वै सप्तहोता ।
VERSE: 3 { 2.2.8.3}
इन्द्रियम् एवाऽऽत्मन् धत्ते ।
यो वै चतुर्होतॄन् अनुसवनं तर्पयति ।
तृप्यति प्रजया पशुभिः ।
उप_एनꣳ सोमपीथो नमति ।
बहिष्पवमाने दशहोतारं व्याचक्षीत ।
माध्यन्दिने पवमाने चतुर्होतारम् ।
आर्भवे पवमाने पञ्चहोतारम् ।
पितृयज्ञे षड्ड्होतारम् ।
यज्ञायज्ञियस्य स्तोत्रे सप्तहोतारम् ।
अनुसवनम् एवैनाꣳस् तर्पयति ।
VERSE: 4 { 2.2.8.4}
तृप्यति प्रजया पशुभिः ।
उप_एनꣳ सोमपीथो नमति ।
देवा वै चतुर्होतृभिः सत्त्रम् आसत ।
ऋद्धिपरिमितं यशस्कामाः ।
ते ऽब्रुवन् ।
यन् नः प्रथमं यश ऋच्छात् ।
सर्वेषां नस् तत् सह_असद् इति ।
सोमश् चतुर्होत्रा ।
अग्निः पञ्चहोत्रा ।
धाता षड्ड्होत्रा ।
VERSE: 5 { 2.2.8.5}
इन्द्रः सप्तहोत्रा ।
प्रजापतिर् दशहोत्रा ।
तेषाꣳ सोमꣳ राजानं यश आर्च्चत् ।
तन् न्यकामयत ।
तेन_अपाक्रामत् ।
तेन प्रलायम् अचरत् ।
तं देवाः प्रैषइः प्रैषम् ऐच्छन् ।
तत् प्रैषाणां प्रैषत्वम् ।
निविद्भिर् न्यवेदयन् ।
तन् निविदां निवित्त्वम् ।
VERSE: 6 { 2.2.8.6}
आप्रीभिर् आप्नुवन् ।तद् आप्रीणाम् आप्रित्वम् ।
तम् अघ्नन् ।
तस्य यशो व्यगृह्णत ।
ते ग्रहा अभवन् ।
तद् ग्रहाणां ग्रहत्वम् ।
यस्यैवं विदुषो ग्रहा गृह्यन्ते ।
तस्य त्व् एव गृहीताः ।
ते ऽब्रुवन् ।
यो वै नः श्रेष्ठो ऽभूत् ।
VERSE: 7 { 2.2.8.7}
तम् अवधिष्म ।
पुनर् इमꣳ सुवामहा इति ।
तं छन्दोभिर् असुवन्त ।
तच् छन्दसां छन्दस्त्वम् ।
साम्ना समानयन् ।
तत् साम्नः सामत्वम् ।
उक्थइर् उदस्थापयन् ।
तद् उक्थानाम् उक्थत्वम् ।
य एवं वेद ।
प्रत्य् एव तिष्ठति ।
VERSE: 8 { 2.2.8.8}
सर्वम् आयुर् एति ।
सोमो वै यशः ।
य एवं विद्वान्त् सोमम् आगच्छति ।
यश एवैनम् ऋच्छति ।
तस्माद् आहुः ।
यश् चैवं वेद यश् च न ।
ताव् उभौ सोमम् आगच्छतः ।
सोमो हि यशः ।
तं त्वा व यश ऋच्छति_इत्य् आहुः ।
0 यः सोमे सोमं प्राह_इति ।
1 तस्मात् सोमे सोमः प्रोच्यः ।
2 यश एवैनम् ऋच्छति ।
अनुवाक 9
VERSE: 1 { 2.2.9.1}
इदं वा अग्रे न_एव किं चन_आसीत् ।
न द्यौर् आसीत् ।
न पृथिवी ।
न_अन्तरिक्षम् ।
तद् असद् एव सन् मनो ऽकुरुत स्याम् इति ।
तद् अतप्यत ।
तस्मात् तेपानाद् धूमो ऽजायत ।
तद् भूयो ऽतप्यत ।
तस्मात् तेपानाद् अग्निर् अजायत ।
तद् भूयो ऽतप्यत ।
VERSE: 2 { 2.2.9.2}
तस्मात् तेपानाज् ज्योतिर् अजायत ।
तद् भूयो ऽतप्यत ।
तस्मात् तेपानाद् अर्चिर् अजायत ।
तद् भूयो ऽतप्यत ।
तस्मात् तेपानान् मरीचयो ऽजायन्त ।
तद् भूयो ऽतप्यत ।
तस्मात् तेपानाद् उदारा अजायन्त ।
तद् भूयो ऽतप्यत ।
तद् अब्ब्ʰरम् इव समहन्यत ।
तद् वस्तिम् अभिनत् ।
VERSE: 3 { 2.2.9.3}
स समुद्रो ऽभवत् ।
तस्मात् समुद्रस्य न पिबन्ति ।
प्रजननम् इव हि मन्यन्ते ।
तस्मात् पशोर् जायमानाद् आपः पुरस्त् आद्यन्ति ।
तद् दशहोता_अन्वसृज्यत ।
प्रजापतिर् वै दशहोता ।
य एवं तपसो वीर्यं विद्वाꣳस् तप्यते ।
भवत्य् एव ।
तद् वा इदम् आपस् सलिलम् आसीत् ।
सो ऽरोदीत् प्रजापतिः ।
VERSE: 4 { 2.2.9.4}
स कस्मा अज्ञि ।
यद्य् अस्या अप्रतिष्ठाया इति ।
यद् अप्स्व् अवापद्यत ।
सा पृथिव्यभवत् ।
यद् व्यमृष्ट ।
तद् अन्तरिक्षम् अभवत् ।
यद् ऊर्ध्वम् उदमृष्ट ।
सा द्यौर् अभवत् ।
यद् अरोदीत् ।
तद् अनयो रोदस्त्वम् ।
VERSE: 5 { 2.2.9.5}
य एवं वेद ।
न_अस्य गृहे रुदन्ति ।
एतद् वा एषां लोकानां जन्म ।
य एवम् एषां लोकानां जन्म वेद ।
न_एषु लोकेष्व् आर्तिम् आर्च्छति ।
स इमां प्रतिष्ठाम् अविन्दत ।
स इमां प्रतिष्ठां वित्त्वा_अकामयत प्रजायेय_इति ।
स तपो ऽतप्यत ।
सो ऽन्तर्वान् अभवत् ।
स जघनाद् असुरान् असृजत ।
VERSE: 6 { 2.2.9.6}
तेभ्यो मृन्मये पात्रे ऽन्नम् अदुहत् ।
या_अस्य सा तनूर् आसीत् ।
ताम् अपाहत ।
सा तमिस्रा_अभवत् ।
सो ऽकामयत प्रजायेय_इति ।
स तपो ऽतप्यत ।
सो ऽन्तर्वान् अभवत् ।
स प्रजननाद् एव प्रजा असृजत ।
तस्माद् इमा भूयिष्ठाः ।
प्रजननाद् ध्य् एना असृजत ।
VERSE: 7 { 2.2.9.7}
ताभ्यो दारुमये पात्रे पयो ऽदुहत ।
या_अस्य सा तनूर् आसीत् ।
ताम् अपाहत सा जोत्स्ना_अभवत् ।
सो ऽकामयत प्रजायेय_इति ।
स तपो ऽतप्यत ।
सो ऽन्तर्वान् अभवत् ।
स उपपक्षाभ्याम् एव_ऋतून् असृजत ।
तेभ्यो रजते पात्रे घृतम् अदुहत् ।
या_अस्य सा तनूर् आसीत् ।
VERSE: 8 { 2.2.9.8}
तम् अपाहत ।
सो ऽहोरात्रयोः सन्धिर् अभवत् ।
सो ऽकामयत प्रजायेय_इति ।
स तपो ऽतप्यत ।
सो ऽनतर्वान् अभवत् ।
स मुखाद् देवान् असृजत ।
तेभ्यो हरिते पात्रे सोमम् अदुहत ।
या_अस्य सा तनूर् आसीत् ।
ताम् अपाहत ।
तद् अहर् अभवत् ।
VERSE: 9 { 2.2.9.9}
एते वै प्रजापतेर् दोहाः ।
य एवं वेद ।
दुह एव प्रजाः ।
दिवा वै नो ऽभूद् इति ।
तद् देवानां देवत्वम् ।
य एवं देवानां देवत्वं वेद ।
देववान् एव भ्वति ।
एतद् वा अहोरात्राणां जन्म ।
य एवम् अहोरात्राणां जन्म वेद ।
न_अहोरात्रेष्व् आर्तिम् आर्च्छति ।
VERSE: 10 { 2.2.9.10}
असतो ऽधि मनो ऽसृज्यत ।
मनः प्रजापतिम् असृजत ।
प्रजापतिः प्रजा असृजत ।
तद् वा इदं मनस्य् एव परमं प्रतिष्ठितम् ।
यद् इदं किं च ।
तद् एतत्_श्व्òवस्यसं नाम ब्रह्म ।
व्युच्छन्ती व्युच्छन्त्य् अस्मै वस्यसी वस्यसी व्युच्छति ।
प्रजायते प्रजया पशुभिः ।
प्र परमेष्ठिनो मात्राम् आप्नोति ।
य एवं वेद ।
अनुवाक 10
VERSE: 1 { 2.2.10.1}
प्रजापतिर् इन्द्रम् असृजत_आनुजावरं देवानाम् ।
तं प्राहिणोत् ।
परेहि ।
एतेषां देवानाम् अधिपतिर् एधि_इति ।
तं देवा अब्रुवन् ।
कस् त्वम् असि ।
वयं वै त्वत्_श्रेयाꣳसः स्म इति ।
सो ऽब्रवीत् ।
कस् त्वम् असि वयं वै त्वत्_श्रेयाꣳसः स्म इति मा देवा अवोचन्न् इति ।
अथ वा इदं तर्हि प्रजापतौ हर आसीत् ।
VERSE: 2 { 2.2.10.2}
यद् अस्मिन्न् आदित्ये ।
तद् एनम् अब्रवीत् ।
एतन् मे प्रयच्छ ।
अथ_अहम् एतेषां देवानाम् अधिपतिर् भविष्यामि_इति ।
को ऽहꣳ स्याम् इत्य् अब्रवीत् ।
एतत् प्रदाय_इति ।
एतत् स्या इत्य् अब्रवीत् ।
यद् एतद् ब्रवीषि_इति ।
को ह वै नाम प्रजापतिः ।
य एवं वेद ।
VERSE: 3 { 2.2.10.3}
विदुर् एनं नाम्ना ।
तद् अस्मै रुक्मं कृत्वा प्रत्यमुञ्चत् ।
ततो वा इन्द्रो देवानाम् अधिपतिर् अभवत् ।
य एवं वेद ।
अधिपतिर् एव समानानां भवति ।
सो ऽमन्यत ।
किं_किं वा अकरम् इति ।
स चन्द्रं म आहर_इति { ।} प्रालपत् ।
तच् चन्द्रमसश् चन्द्रमस्त्वम् ।
य एवं वेद ।
VERSE: 4 { 2.2.10.4}
चन्द्रवान् एव भवति ।
तं देवा अब्रुवन् ।
सुवीर्यो मर्या यथा गोपायत इति ।
तत् सूर्यस्य सूर्यत्वम् ।
य एवं वेद ।
नैनं दभ्नोति ।
कश् च न_अस्मिन् वा इदम् इन्द्रियं प्रत्यस्थाद् इति ।
तद् इन्द्रस्य_इन्द्रत्वम् ।
य एवं वेद ।
इन्द्रियाव्य् एव भवति ।
VERSE: 5 { 2.2.10.5}
अयं वा इदं परमो ऽभूद् इति ।
तत् परमेष्ठिनः परमेष्ठित्वम् ।
य एवं वेद ।
परमाम् एव काष्ठां गच्छति ।
तं देवाः समन्तं पर्यविशन् ।
वसवः पुरस्तात् ।
रुद्रा दक्षिणतः ।
आदित्याः पश्चात् ।
विश्वे देवा उत्तरतः ।
अङ्गिरसः प्रत्यञ्चम् ।
VERSE: 6 { 2.2.10.6}
साध्याः पराञ्चम् ।
य एवं वेद ।
उप_एनꣳ समानाः संविशन्ति ।
स प्रजापतिर् एव भूत्वा प्रजा आवयत् ।
ता अस्मै न_अतिष्ठन्त_अन्नाद्याय ।
ता मुखं पुरस्तात् पश्यन्तीः ।
दक्षिणतः पर्यायन् ।
स दक्षिणतः पर्यवर्तयत ।
ता मुखं पुरस्तात् पश्यन्तीः ।
मुखं दक्षिणतः ।
VERSE: 7 { 2.2.10.7}
पश्चात् पर्यायन् ।
स पश्चात् पर्यवर्तयत ।
ता मुखं पुरस्तात् पश्यन्तीः ।
मुखं दक्षिणतः ।
मुखं पश्चात् ।
उत्तरतः पर्यायन् ।
सा उत्तरतः पर्यवर्तयत ।
ता मुखं पुरस्तात् पश्यन्तीः ।
मुखं दक्षिणतः ।
मुखं पश्चात् ।
{ 2.2.10.8}
मुखम् उत्तरतः ।
ऊर्ध्वा उदायन् ।
स उपरिष्टान् न्यवर्तयत ।
ताः सर्वतोमुखो भूत्वा_आवयत् ।
ततो वै तस्मै प्रजा अतिष्ठन्त_अन्नाद्याय ।
य एवं विद्वान् परि च वर्तयते नि च ।
प्रजापतिर् एव भुत्वा प्रजा अत्ति ।
तिष्ठन्ते ऽस्मै प्रजा अन्नाद्याय ।
अन्नाद एव भवति ।
अनुवाक 11
VERSE: 1 { 2.2.11.1}
प्रजापतिर् अकामयत बहोर् भूयान्त् स्याम् इति ।
स एतं दशहोतारम् अपश्यत् ।
तं प्रायुङ्क्त ।
तस्य प्रयुक्ति बहोर् भूयान् अभवत् ।
यः कामयेत बहोर् भूयान्त् स्याम् इति ।
स दशहोतारं प्रयुञ्जीत ।
बहोर् एव भूयान् भवति ।
सो ऽकामयत वीरो म आजायेत_इति ।
स दशहोतुश् चतुर्होतारं निरमिमीत ।
तं प्रायुङ्क्त ।
VERSE: 2 { 2.2.11.2}
तस्य प्रयुक्ति_इन्द्रो ऽजायत ।
यः कामयेत वीरो म आजायेत_इति ।
स चतुर्होतारं प्रयुञ्जीत ।
आ_अस्य वीरो जायते ।
सो ऽकामयत पशुमान्त् स्याम् इति ।
स चतुर्होतुः पञ्चहोतारं निरमिमीत ।
तं प्रायुङ्क्त ।
तस्य प्रयुक्ति पशुमान् अभवत् ।
यः कामयेत पशुमान्त् स्याम् इति ।
स पञ्चहोतारं प्रयुञ्जीत ।
VERSE: 3 { 2.2.11.3}
पशुमान् एव भवति ।
सो ऽकामयत_ऋतवो मे कल्पेरन्न् इति ।
स पञ्चहोतुः षड्ड्होतारं निरमिमीत ।
तं प्रायुङ्क्त ।
तस्य प्रयुक्त्य् ऋतवो ऽस्मा अकल्पन्त ।
यः कामयेत_ऋतवो मे कल्पेरन्न् इति ।
स षड्ड्होतारं प्रयुञ्जीत ।
कल्पन्ते ऽस्मा ऋतवः ।
सो ऽकामयत सोमपः सोमयाजी स्याम् ।
आ मे सोमपः सोमयाजी जायेत_इति ।
VERSE: 4 { 2.2.11.4}
स षड्ड्होतुः सप्तहोतारं निरमिमीत ।
तं प्रायुङ्क्त ।
तस्य प्रयुक्ति सोमपः सोमयाज्य् अभवत् ।
आ_अस्य सोमपः सोमयाज्य् अजायत ।
यः कामयेत सोमपः सोमयाजी स्याम् ।
आ मे सोमपः सोमयाजी जायेत_इति ।
स सप्तहोतारं प्रयुञ्जीत ।
सोमप एव सोमयाजी भवति ।
आ_अस्य सोमपः सोमयाजी जायते ।
स वा एष पशुः पञ्चधा प्रतितिष्ठति ।
VERSE: 5 { 2.2.11.5}
पद्भिर् मुखेन ।
ते देवाः पशून् वित्त्वा ।
सुवर्गं लोकम् आयन् ।
ते ऽमुष्मिन्_लोके व्यक्षुध्यन् ।
ते ऽब्रुवन् ।
अमुतः प्रदानं वा उपजिजीविम_इति ।
ते सप्तहोतारं यज्ञं विधाय_अयास्यम् ।
आङ्गीरसं प्राहिण्वन् ।
एतेन_अमुत्र कल्पय_इति ।
तस्य आ इयं क्लृप्तिः ।
VERSE: 6 { 2.2.11.6}
यद् इदं किञ् च ।
य एवं वेद कल्पते ऽस्मै ।
स वा अयं मनुष्येषु यज्ञः सप्तहोता ।
अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति ।
य एवं वेद ।
उप_एनं यज्ञो नमति ।
यो वै चतुर्होतृणां निदानं वेद ।
निदानवान् भवति ।
अग्निहोत्रं वै दशहोतुर् निदानम् ।
दर्शपूर्णमासौ चतुर्होतुः ।
चातुर्मास्यानि पञ्चहोतुः ।
पशुबन्धः षड्ड्होतुः ।
सौम्यो ऽध्वरः सप्तहोतुः ।
एतद् वै चतुर्होतृणां निदानम् ।
य एवं वेद ।
निदानवान् भवति ।
प्रपाठक: 3
अनुवाक 1
VERSE: 1 { 2.3.1.1}
ब्रह्मवादिनो वदन्ति ।
किं चतुर्होतृणां चतुर्होतृत्वम् इति ।
यद् एवैषु चतुर्धा होतारः ।
तेन चतुर्होतारः ।
तस्माच् चतुर्होतार उच्यन्ते ।
तच् चतुर्होतृणां चतुर्होतृत्वम् ।
सोमो वै चतुर्होता ।
अग्निः पञ्चहोता ।
धाता षड्ड्होता ।
इन्द्रः सप्तहोता ।
VERSE: 2 { 2.3.1.2}
प्रजापतिर् दशहोता ।
य एवं चतुर्होतृणाम् ऋद्धिं वेद ।
ऋध्नोत्य् एव ।
य एषाम् एवं बन्धुतां वेद ।
बन्धुमान् भवति ।
य एषाम् एवं क्लृप्तिं वेद ।
कल्पते ऽस्मै ।
य एषाम् एवम् आयतनं वेद ।
आयतनवान् भवति ।
0 य एषाम् एवं प्रतिष्ठां वेद ।
VERSE: 3 { 2.3.1.3}
प्रत्य् एव तिष्ठति ।
ब्रह्मवादिनो वदन्ति ।
दशहोता चतुर्होता ।
पञ्चहोता षड्ड्होता सप्तहोता ।
अथ कस्माच् चतुर्होतार उच्यन्त इति ।
इन्द्रो वै चतुर्होता ।
इन्द्राः खलु वै श्रेष्ठो देवतानाम् उपदेशनात् ।
य एवम् इन्द्रꣳ श्रेष्ठं देवतानाम् उपदेशनाद् वेद ।
वसिष्ठः समानानां भवति ।
तस्मात्_श्रेष्ठम् आयन्तं प्रथमेन_एव_अनुबुध्यन्ते ।
अयम् आगन् ।
अयम् अवासाद् इति ।
कीर्तिर् अस्य पूर्वा_आगच्छति जनताम् आयतः ।
अथो एनं प्रथमेन_एव_अनुबुध्यन्ते ।
अयम् आगन् ।
अयम् अवासाद् इति ।
अनुवाक 2
VERSE: 1 { 2.3.2.1}
दक्षिणां प्रतिग्रहीष्यन्त् सप्तदश कृत्वो ऽपान्यात् ।
आत्मानम् एव समिन्धे ।
तेजसे वीर्याय ।
अथो प्रजापतिर् एवैनां भूत्वा प्रतिगृह्णाति ।
आत्मनो ऽनार्त्यै ।
यद्य् एनम् आर्त्विज्याद् वृतꣳ {आनंदा. व्रतं} सन्तं निर्ह्áरेरन् ।
आग्नीध्रे जुहुयाद् दशहोतारम् ।
चतुर्गृहीतेन_आज्येन ।
पुरस्तात् प्रत्यङ् तिष्ठन् ।
प्रतिलोमं विग्राहम् ।
VERSE: 2 { 2.3.2.2}
प्राणान् एवास्य_उपदासयति ।
यद् एनं पुनर् उपशिक्षेयुः ।
आग्नीध्र एव जुहुयाद् दशहोतारम् ।
चतुर्गृहीतेन_आज्येन ।
पश्चात् प्राङ् आसीनः ।
अनुलोमम् अविग्राहम् ।
प्राणान् एवास्मै कल्पयति ।
प्रायश्चित्ती वाग्ग्_होतेत्य् ऋतुमुख ऋतुमुखे जुहोति ।
ऋतून् एवास्मै कल्पयति ।
कल्पन्ते ऽस्मा ऋतवः ।
VERSE: 3 { 2.3.2.3}
क्लृप्ता अस्मा ऋतव आयन्ति ।
षड्ड्होता वै भूत्वा प्रजापतिर् इदꣳ सर्वम् असृजत ।
स मनो ऽसृजत ।
मनसो ऽधि गायत्रीम् असृजत ।
तद् गायत्रीं यश आर्च्छत् ।
ताम् आलभत ।
गायत्रिया अधि छन्दाꣳस्य् असृजत ।
छन्दोभ्यो ऽधि साम ।
तत् साम यश आर्च्छत् ।
तद् आलभत ।
VERSE: 4 { 2.3.2.4}
साम्नो ऽधि यजूꣳष्य् असृजत ।
यजुर्भ्यो ऽधि विष्णुम् ।
तद् विष्णुं यश आर्च्छत् ।
तम् आलभत ।
विष्णोर् अध्य् ओषधीर् असृजत ।
ओषधीभ्यो ऽधि सोमम् ।
तत् सोमं यश आर्च्छत् ।
तम् आलभत ।
सोमाद् अधि पशून् असृजत ।
पशुभ्यो ऽधि_इन्द्रम् ।
VERSE: 5 { 2.3.2.5}
तद् इन्द्रं यश आर्च्छत् ।
तद् एनं न_अतिप्राच्यवत ।
इन्द्र इव यशस्वी भवति ।
य एवं वेद न_एनं यशो ऽतिप्रच्यवते ।
यद् वा इदं किं च ।
तत् सर्वम् उत्तान एवाऽऽङ्गीरसः प्रत्यगृह्णात् ।
तद् एनं प्रतिगृहीतं न_अहिनत् ।
यत् किं च प्रतिगृह्णीयात् ।
तत् सर्वम् उत्तानस् त्व् आङ्गीरसः प्रतिगृह्णात्व् इत्य् एव प्रतिगृह्णीयात् ।
इयं वा उत्तान आङ्गीरसः ।
अनया_एवैनत् प्रतिगृह्णाति ।
न_एनꣳ हिनस्ति ।
बर्हिषा प्रतीयाद् गां वा_अश्वं वा ।
एतद् वै पशूनां प्रियं धाम ।
प्रियेणैवैनं धाम्ना प्रत्येति ।
अनुवाक 3
VERSE: 1 { 2.3.3.1}
यो वा अविद्वान् निवर्तयते ।
विशीर्षा सपाप्मा_अमुष्मिन्_लोके भवति ।
अथ यो विद्वान् निवर्तयते ।
सशीर्षा विपाप्मा_अमुष्मिन्_लोके भवति ।
देवता वै सप्त पुष्टिकामा न्यवर्तयन्त ।
अग्निश् च पृथिवी च ।
वायुश् च_अन्तरिक्षं च ।
आदित्यश् च द्यौश् च चन्द्रमाः ।
अग्निर् न्यवर्तयत ।
स साहस्रम् अपुष्यत् ।
VERSE: 2 { 2.3.3.2}
पृथिवी न्यवर्तयत ।
स_ओषधीभिर् वनस्पतिभिर् अपुष्यत् ।
वायुर् न्यवर्तयत ।
स मरीचीभिर् अपुष्यत् ।
अन्तरिक्षं न्यवरतयत ।
तद् वयोभिर् अपुष्यत् ।
आदित्यो न्यवर्तयत ।
स रश्मिभिर् अपुष्यत् ।
द्यौर् न्यवर्तयत ।
सा नक्षत्रैर् अपुष्यत् ।
चन्द्रमा न्यवर्तयत ।
सो ऽहोरात्रैर् अर्धमासैर् मासैर् ऋतुभिः संवत्सरेन_अपुष्यत् ।
तान् पोषान् पुष्यति ।
याꣳस् ते ऽपुष्यन् ।
य एवं विदान् नि च वर्तयते परि च ।
अनुवाक 4
VERSE: 1 { 2.3.4.1}
तस्य वा अग्नेर् हिरण्यं प्रतिजग्रहुषः ।
अर्धम् इन्द्रियस्य_अपाक्रामत् ।
तद् एतेनैव प्रत्यगृह्णात् ।
तेन वै सो ऽर्धम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
अर्धम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वान् हिरण्यं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
अर्धम् अस्य_इन्द्रियस्य_अपक्रामति ।
तस्य वै सोमस्य वासः प्रतिजग्रहुषः ।
तृतीयम् इन्द्रियस्य_अपाक्रामत् ।
VERSE: 2 { 2.3.4.2}
तद् एतेनैव प्रत्यगृह्णात् ।
तेन वै स तृतीयम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
तृतीयम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वान् वासः प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
तृतीयम् अस्य_इन्द्रियस्य_अपक्रामति ।
तस्य वै रुद्रस्य गां प्रतिजग्रहुषः ।
चतुर्थम् इन्द्रियस्य_अपाक्रामत् ।
ताम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स चतुर्थम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
VERSE: 3 { 2.3.4.3}
चतुर्थम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वान् गां प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
चतुर्थम् अस्य_इन्द्रियस्य_अपक्रामति ।
तस्य वै वरुणस्य_अश्वं प्रतिजग्रहुषः ।
पञ्चमम् इन्द्रियस्य_अपाक्रामत् ।
तम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स पञ्चमम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
पञ्चमम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वान् अश्वं प्रतिगृह्णाति ।
VERSE: 4 { 2.3.4.4}
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
पञ्चमम् अस्य_इन्द्रियस्य_अपक्रामति ।
तस्य वै प्रजापतेः पुरुषं प्रतिजग्रहुषः ।
षष्ठम् इन्द्रियस्य_अपाक्रामत् ।
तम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स षष्ठम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
षष्ठम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वान् पुरुषं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
षष्ठम् अस्य_इन्द्रियस्य_अपक्रामति ।
VERSE: 5 { 2.3.4.5}
तस्य वै मनोस् तल्पं प्रतिजग्रहुषः ।
सप्तमम् इन्द्रियस्य_अपाक्रामत् ।
तम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स सप्तमम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
सप्तमम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वाꣳस् तल्पं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
सप्तमम् अस्य_इन्द्रियस्य_अपक्रामति ।
तस्य वा उत्तानस्य_आङ्गीरसस्य_अप्राणत् प्रतिजग्रहुषः ।
अष्टमम् इन्द्रियस्य_अपाक्रामत् ।
VERSE: 6 { 2.3.4.6}
तद् एतेनैव प्रत्यगृह्णात् ।
तेन वै सो ऽष्टमम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।
अष्टमम् इन्द्रियस्य_आत्मन्न् उपाधत्ते ।
य एवं विद्वान् अप्राणत् प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
अष्टमम् अस्य_इन्द्रियस्य_अपक्रामति ।
यद् वा इदं किं च ।
तत् सर्वम् उत्तान एवाऽऽङ्गीरसः प्रत्यगृह्णात् ।
तद् एनं प्रतिगृहीतं न_अहिनत् ।
यत् किं च प्रतिगृह्णीयात् ।
तत् सर्वम् उत्तानस् त्व् आङ्गीरसः प्रतिगृह्णात्व् इत्य् एव प्रतिगृह्णीयात् ।
इयं वा उत्तान आङ्गीरसः ।
अनया_एवैनत् प्रतिगृह्णाति ।
न_एनꣳ हिनस्ति ।
अनुवाक 5
VERSE: 1 { 2.3.5.1}
ब्रह्मवादिनो वदन्ति ।
यद् दशहोतारः सत्त्रम् आसत ।
केन ते गृहपतिना_आर्ध्नुवन् ।
केन प्रजा असृजन्त_इति ।
प्रजापतिना वै ते गृहपतिना_आर्ध्नुवन् ।
तेन प्रजा असृजन्त ।
यच् चतुर्होतारः सत्त्रम् आसत ।
केन ते गृहपतिना_आर्ध्नुवन् ।
केन_ओषधीर् असृजन्त_इति ।
सोमेन वै ते गृहपतिना_आर्ध्नुवन् ।
VERSE: 2 { 2.3.5.2}
तेन_ओषधीर् असृजन्त ।
यत् पञ्चहोतारः सत्त्रम् आसत ।
केन ते गृहपतिना_आर्ध्नुवन् ।
केन_एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त ।
केन_एषां पशून् अवृञ्जत_इति ।
अग्निना वै ते गृहपतिना_आर्ध्नुवन् ।
तेन_एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त ।
तेन_एषां पशून् अवृञ्जत ।
यत् षड्ड्होतारः सत्त्रम् आसत ।
केन ते गृहपतिना_आर्ध्नुवन् ।
VERSE: 3 { 2.3.5.3}
केन_ऋतून् अकल्पयन्त_इति ।
धात्रा वै ते गृहपतिना_आर्ध्नुवन् ।
तेन_ऋतून् अकल्पयन्त ।
यत् सप्तहोतारः सत्त्रम् आसत ।
केन ते गृहपतिना_आर्ध्नुवन् ।
केन सुवर् आयन् ।
केन_इमान्_लोकान्त् समतन्वन्न् इति ।
अर्यम्णा वै ते गृहपतिना_आर्ध्नुवन् ।
तेन सुवर् आयन् ।
तेन_इमान्_लोकान् समतन्वन्न् इति ।
VERSE: 4 { 2.3.5.4}
एते वै देवा गृहपतयः ।
तान् य एवं विद्वान् ।
अप्य् अन्यस्य गार्हपते दीक्षते ।
अवान्तरम् एव सत्त्रिणाम् ऋध्नोति ।
यो वा अर्यमणं वेद ।
दानकामा अस्मै प्रजा भवन्ति ।
यज्ञो वा अर्यमा ।
आर्या वसतिर् इति वै तम् आहुर् यं प्रशꣳसन्ति ।
आर्या वसतिर् भवति ।
य एवं वेद ।
VERSE: 5 { 2.3.5.5}
यद् वा इदं किं च ।
तत् सर्वं चतुर्होतारः ।
चतुर्होतृभ्यो ऽधि यज्ञो निर्मितः ।
स य एवं विद्वान् विवदेत ।
अहम् एव भूयो वेद ।
यश् चतुर्होतॄन् वेद_इति ।
स ह्य् एव भूयो वेद ।
यश् चतुर्होतॄन् वेद ।
यो वै चतुर्होतृणाꣳ होतॄन् वेद ।
सर्वासु प्रजास्व् अन्नम् अत्ति ।
VERSE: 6 { 2.3.5.6}
सर्वा दिशो ऽभिजयति ।
प्रजापतिर् वै दशहोतृणाꣳ होता ।
सोमश् चतुर्होतृणाꣳ होता ।
अग्निः पञ्चहोतृणाꣳ होता ।
धाता षड्ड्होतृणाꣳ होता ।
अर्यमा सप्तहोतृणाꣳ होता ।
एते वै चतुर्होतृणाꣳ होतारः ।
तान् य एवं वेद ।
सर्वासु प्रजास्व् अन्नम् अत्ति ।
सर्वा दिशो ऽभिजयति ।
अनुवाक 6
VERSE: 1 { 2.3.6.1}
प्रजापतिः प्रजाः सृष्ट्वा व्यस्रꣳसत ।
स हृदयंभूतो ऽशयत् ।
आत्मन् हा3 इत्य् अह्वयत् ।
आपः प्रत्यशृण्वन् ।
ता अग्निहोत्रेणैव यज्ञक्रतुना_उपपर्यावर्तन्त ।
ताः कुसिन्धम् उपौहन् ।
तस्माद् अग्निहोत्रस्य यज्ञक्रतोः ।
एक ऋत्विक् ।
चतुष्कृत्वो ऽह्वयत् ।
अग्निर् वायुर् आदित्यश् चन्द्रमाः ।
VERSE: 2 { 2.3.6.2}
ते प्रत्यशृण्वन् ।
ते दर्शपूर्णमासाभ्याम् एव यज्ञक्रतुना_उपपर्यावर्तन्त ।
त उपौहꣳश् चत्वार्य् अङ्गानि ।
तस्माद् दर्शपूर्णमासयोर् यज्ञक्रतोः ।
चत्वार ऋत्विजः ।
पञ्चकृत्वो ऽह्वयत् ।
पशवः प्रत्यशृण्वन् ।
ते चातुर्मास्यैर् एव यज्ञक्रतुना_उपपर्यावर्तन्त ।
त उपौहन्_लोम च्छवीं माꣳसम् अस्थि मज्जानम् ।
तस्माच् चातुर्मास्यानां यज्ञक्रतोः ।
VERSE: 3 { 2.3.6.3}
पञ्च_ऋत्विजः ।
षट्कृत्वो ऽह्वयत् ।
ऋतवः प्रत्यशृण्वन् ।
ते पशुबन्धेन_एव यज्ञक्रतुना_उपपर्यावर्तन्त ।
त उपौहं स्तनाव् आण्डौ शिश्नम् अवाञ्चं प्राणम् ।
तस्मात् पशुबन्धस्य यज्ञक्रतोः ।
षड् ऋत्विजः ।
सप्तकृत्वो ऽह्वयत् ।
होत्राः प्रत्यशृण्वन् ।
ताः सौम्येन_एव_अध्वरेण यज्ञक्रतुना_उपपर्यावर्तन्त ।
VERSE: 4 { 2.3.6.4}
ता उपौहन्त् सप्त शीर्षण्यान् प्राणान् ।
तस्मात् सौम्यस्य_अध्वरस्य यज्ञक्रतोः ।
सप्त होत्राः प्राचीर् वषट्कुर्वन्ति ।
दशकृत्वो ऽह्वयत् ।
तपः प्रत्यशृणोत् ।
तत् कर्मणा_एव संवत्सरेण सर्वैर् यज्ञक्रतुभिर् उपपर्यावर्तत ।
तत् सर्वम् आत्मानम् अपरिवर्गम् उपौहत् ।
तस्मात् संवत्सरे सर्वे यज्ञक्रतवो ऽवरुध्यन्ते ।
तस्माद् दशहोता चतुर्होता ।
पञ्चहोता षड्ड्होता सप्तहोता ।
एकहोत्रे बलिꣳ हरन्ति हरन्त्य् अस्मै प्रजा बलिम् ।
आ_एनम् अप्रतिख्यातं गच्छति ।
य एवं वेद ।
अनुवाक 7
VERSE: 1 { 2.3.7.1}
प्रजापतिः पुरुषम् असृजत ।
सो ऽग्निर् अब्रवीत् ।
मम_अयम् अन्नम् अस्त्व् इति ।
सो ऽबिभेत् ।
सर्वं वै मा_अयं प्रधक्ष्यति_इति ।
स एताꣳश् चतुर्होतॄन् आत्मस्परणान् अपश्यत् ।
तान् अजुहोत् ।
तैर् वै स आत्मानम् अस्पृणोत् ।
यद् अग्निहोत्रं जुहोति ।
एकहोतारम् एव तद् यज्ञक्रतुम् आप्नोत्य् अग्निहोत्रम् ।
VERSE: 2 { 2.3.7.2}
कुसिन्धं च_आत्मनः स्पृणोति ।
आदित्यस्य च सायुज्यं गच्छति ।
चतुर् उन्नयति ।
चतुर्होतारम् एव तद् यज्ञक्रतुम् आप्नोति {। आनंदा. में नहीं है }
दर्शपूर्णमासौ ।
चत्वारि च_आत्मनो ऽङ्गानि स्पृणोति ।
आदित्यस्य च सायुज्यं गच्छति ।
चतुर् उन्नयति ।
समित् पञ्चमी ।
पञ्चहोतारम् एव तद् यज्ञक्रतुम् आप्नोति ।
चातुर्मास्यानि ।
लोम च्छवीं माꣳसम् अस्थि मज्जानम् ।
VERSE: 3 { 2.3.7.3}
तानि च_आत्मनः स्पृणोति ।
आदित्यस्य च सायुज्यं गच्छति ।
चतुर् उन्नयति ।
द्विर् जुहोति ।
षड्ड्होतारम् एव तद् यज्ञक्रतुम् आप्नोति {। not in आनंदा.}
पशुबन्धम् ।
स्तनाव् आण्डौ शिश्नम् अवाञ्चं प्राणम् ।
तानि च_आत्मनः स्पृणोति ।
आदित्यस्य च सायुज्यं गच्छति ।
चतुर् उन्नयति ।
द्विर् जुहोति ।
VERSE: 4 { 2.3.7.4}
समित् सप्तमी ।
सप्तहोतारम् एव तद् यज्ञक्रतुम् आप्नोति सौम्यम् अध्वरम् ।
सप्त च_आत्मनः शीर्षण्यान् प्राणान् स्पृणोति ।
आदित्यस्य च सायुज्यं गच्छति ।
चतुर् उन्नयति ।
द्विर् जुहोति ।
द्विर् निमार्ष्टि ।
द्विः प्राश्नाति ।
दशहोतारम् एव तद् यज्ञक्रतुम् आप्नोति संवत्सरम् ।
सर्वं च_आत्मानम् अपरिवर्गꣳ स्पृणोति ।
आदित्यस्य च सायुज्यं गच्छति ।
अनुवाक 8
VERSE: 1 { 2.3.8.1}
प्रजापतिर् अकामयत प्रजायेय_इति ।
स तपो ऽतप्यत ।
सो ऽन्तर्वान् अभवत् ।
स हरितः श्यावो ऽभवत् ।
तस्मात् स्त्र्य् अन्तर्वत्नी ।
हरिणी सती श्यावा भवति ।
स विजायमानो गर्भैण_अताम्यत् ।
स तान्तः कृष्णः श्यावो ऽभवत् ।
तस्मात् तान्तः कृष्णः श्यावो भवति ।
तस्य_असुर् एव_अजीवत् ।
VERSE: 2 { 2.3.8.2}
तेन_असुना_असुरान् असृजत ।
तद् असुराणाम् असुरत्वम् ।
य एवम् असुराणाम् असुरत्वं वेद ।
असुमान् एव भवति ।
न_एनम् असुर् जहाति ।
सो ऽसुरान् सृष्ट्वा पितेव_अमन्यत ।
तद् अनु पितॄन् असृजत ।
तत् पितृणां पितृत्वम् ।
य एवं पितृणां पितृत्वं वेद ।
पितेव_एव {आनंदा. पितवैव} स्वानां भवति ।
VERSE: 3 { 2.3.8.3}
यन्त्य् अस्य पितरो हवम् ।
स पितॄन्त् सृष्ट्वा_अमनस्यत् ।
तद् अनु मनुष्यान् असृजत ।
तन् मनुष्याणां मनुष्यत्वम् ।
य एवं मनुष्याणां मनुष्यत्वं वेद ।
मनस्व्य् एव भवति ।
न_एनं मनुर् जहाति ।
तस्मै मनुष्यान्त् ससृजानाय ।
दिवा देवत्रा_अभवत् ।
तद् अनु देवान् असृजत ।
तद् देवानां देवत्वम् ।
य एवं देवानां देवत्वं वेद ।
दिवा हैवास्य देवत्रा भवति ।
तानि वा एतानि चत्वार्य् अम्भाꣳसि ।
देवा मनुष्याः पितरो ऽसुराः ।
तेषु सर्वेष्व् अम्भो नभ इव भवति ।
य एवं वेद ।
अनुवाक 9
VERSE: 1 { 2.3.9.1}
ब्रह्मवादिनो वदन्ति ।
यो वा इमं विद्यात् ।
यतो ऽयं पवते ।
यद् अभिपवते ।
यद् अभिसंपवते ।
सर्वम् आयुर् इयात् ।
न पुरा_आयुषः प्रमीयेत ।
पशुमान्त् स्यात् ।
विन्देत प्रजाम् ।
यो वा इमं वेद ।
VERSE: 2 { 2.3.9.2}
यतो ऽयं पवते ।
यद् अभिपवते ।
यद् अभिसंपवते ।
सर्वम् आयुर् एति ।
न पुरा_आयुषः प्रमीयते ।
पशुमान् भवति ।
विन्दते प्रजाम् ।
अद्भ्यः पवते ।
अपो ऽभिपवते ।
अपो ऽभिसंपवते ।
VERSE: 3 { 2.3.9.3}
अस्याः पवते ।
इमाम् अभिपवते ।
इमाम् अभिसंपवते ।
अग्नेः पवते ।
अग्निम् अभिपवते ।
अग्निम् अभिसंपवते ।
अन्तरिक्षात् पवते ।
अन्तरिक्षम् अभिपवते ।
अन्तरिक्षम् अभिसंपवते ।
आदित्यात् पवते ।
VERSE: 4 { 2.3.9.4}
आदित्यम् अभिपवते ।
आदित्यम् अभिसंपवते ।
द्योः पवते ।
दिवम् अभिपवते ।
दिवम् अभिसंपवते ।
दिग्भ्यः पवते ।
दिशो ऽभिपवते ।
दिशो ऽभिसंपवते ।
स यत् पुरस्ताद् वाति ।
प्राण एव भूत्वा पुरस्ताद् वाति ।
VERSE: 5 { 2.3.9.5}
तस्मात् पुरस्ताद् वान्तम् ।
सर्वाः प्रजाः प्रतिनन्दन्ति ।
प्राणो हि प्रियः प्रजानाम् ।
प्राण इव प्रियः प्रजानां भवति ।
य एवं वेद ।
स वा एष प्राण एव ।
अथ यद् दक्षिणतो वाति ।
मातरिश्वा_एव भूत्वा दक्षिणतो वाति ।
तस्माद् दक्षिणतो वान्तं विद्यात् ।
सर्वा दिश आवाति ।
VERSE: 6 { 2.3.9.6}
सर्वा दिशो ऽनुविवाति ।
सर्वा दिशो ऽनुसंवाति_इति ।
स वा एष मातरिश्वा_एव ।
अथ यत् पश्चाद् वाति ।
पवमान एव भूत्वा पश्चाद् वाति ।
पूतम् अस्मा आहरन्ति ।
पूतम् उपहरन्ति ।
पूतम् अश्नाति ।
य एवं वेद ।
स वा एष पवमान एव ।
VERSE: 7 { 2.3.9.7}
अथ यद् उत्तरतो वाति ।
सविता_एव भूत्वा_उत्तरतो वाति ।
सवितेव स्वानां भवति ।
य एवं वेद ।
स वा एष सविता_एव ।
ते य एनं पुरस्ताद् आयन्तम् उपवदन्ति ।
य एवास्य पुरस्तात् पाप्मानः ।
ताꣳस् ते ऽपघ्नन्ति ।
पुरस्ताद् इतरान् पाप्मनः सचन्ते ।
अथ य एनं दक्षिणत आयन्तम् उपवदन्ति ।
VERSE: 8 { 2.3.9.8}
य एवास्य दक्षिणतः पाप्मानः ।
ताꣳस् ते ऽपघ्नन्ति ।
दक्षिणत इतरान् पाप्मनः सचन्ते ।
अथ य एनं पश्चाद् आयन्तम् उपवदन्ति ।
य एवास्य पश्चात् पाप्मानः ।
ताꣳस् ते ऽपघ्नन्ति ।
पश्चाद् इतरान् पाप्मनः सचन्ते ।
अथ य एनम् उत्तरत आयन्तम् उपवदन्ति ।
य एवास्य_उत्तरतः पाप्मानः ।
ताꣳस् ते ऽपघ्नन्ति ।
VERSE: 9 { 2.3.9.9}
उत्तरत इतरान् पाप्मनः सचन्ते ।
तस्माद् एवं विद्वान् ।
वि_इव नृत्येत् ।
प्र_इव चलेत् ।
व्य् अस्य_इव_अक्ष्यउ भाषेत { भाषेते} ।
मण्टयेद् इव ।
क्राथयेद् इव ।
शृङ्गायेत_इव ।
उत मा_उपवदेयुः ।
उत मे पाप्मानम् अपहन्युर् इति ।
स यां दिशꣳ सनिम् एष्यन्त् स्यात् ।
यदा तां दिशं वातो वायात् ।
अथ प्रवेयात् ।
प्र वा धावयेत् ।
सातम् एव रदितं व्यूढं गन्धम् अभि प्रच्यवते ।
आ_अस्य तं जनपदं पूर्वा कीर्तिर् गच्छति ।
दानकामा अस्मै प्रजा भवन्ति ।
य एवं वेद ।
अनुवाक 10
VERSE: 1 { 2.3.10.1}
प्रजापतिः सोमꣳ राजानम् असृजत ।
तं त्रयो वेदा अन्वसृज्यन्त ।
तान् हस्ते ऽकुरुत ।
अथ ह सीता सावित्री ।
सोमꣳ राजानं चकमे ।
श्रद्धाम् उ स चकमे ।
सा ह पितरं प्रजापतिम् उपससार ।
तꣳ ह_उवाच ।
नमस् ते अस्तु भगवः ।
उप त्वा_अयानि ।
VERSE: 2 { 2.3.10.2}
प्र त्वा पद्ये ।
सोमं वै राजानं कामये ।
श्रद्धाम् उ स कामयत इति ।
तस्या उ ह स्थागरम् अलङ्कारं कल्पयित्वा ।
दशहोतारं पुरस्ताद् व्याख्याय ।
चतुर्होतारं दक्षिणतः ।
पञ्चहोतारं पश्चात् ।
षड्ड्होतारम् उत्तरतः ।
सप्तहोतारम् उपरिष्टात् ।
सम्भारैश् च पत्निभिश् च मुखे ऽलङ्कृत्य ।
VERSE: 3 { 2.3.10.3}
आ_अस्य_अर्धं वव्राज ।
ताꣳ ह_उदीक्ष्य_उवाच ।
उप मा वर्तस्व_इति ।
तं ह_उवाच ।
भोगं तु म आचक्ष्व ।
एतन् म आचक्ष्व ।
यत् ते पाणाव् इति ।
तस्या उ ह त्रीन् वेदान् प्रददौ ।
तस्माद् उ ह स्त्रियो भोगम् आ_एव हारयन्ते ।
स यः कामयेत प्रियः स्याम् इति ।
VERSE: 4 { 2.3.10.4}
यं वा कामयेत प्रियः स्याद् इति ।
तस्मा एतꣳ स्थागरम् अलङ्कारं कल्पयित्वा ।
दशहोतारं पुरस्ताद् व्याख्याय ।
चतुर्होतारं दक्षिणतः ।
पञ्चहोतारं पश्चात् ।
षड्ड्होतारम् उत्तरतः ।
सप्तहोतारम् उपरिष्टात् ।
सम्भारैश् च पत्निभिश् च मुखे ऽलङ्कृत्य ।
आ_अस्य_अर्धं व्रजेत् ।
प्रियो हैव भवति ।
अनुवाक 11
VERSE: 1 { 2.3.11.1}
ब्रह्मा_आत्मन्वद् असृजत ।
तद् अकामयत ।
सम् आत्मना पद्येय_इति ।
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत ।
तस्मै दशमꣳ हूतः प्रत्यशृणोत् ।
स दशहूतो ऽभवत् ।
दशहूतो ह वै नामैषः ।
तं वा एतं दशहूतꣳ सन्तम् ।
दशहोतेत्य् आचक्षते {।} परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
VERSE: 2 { 2.3.11.2}
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत ।
तस्मै सप्तमꣳ हूतः प्रत्यशृणोत् ।
स सप्तहूतो ऽभवत् ।
सप्तहूतो ह वै नामैषः ।
तं वा एतꣳ सप्तहूतꣳ सन्तम् ।
सप्तहोतेत्य् आचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत ।
तस्मै षष्ठꣳ हूतः प्रत्यशृणोत् ।
स षड्ड्हूतो ऽभवत् ।
VERSE: 3 { 2.3.11.3}
षड्धूतो ह वै नामैषः ।
तं वा एतꣳ षड्ड्हूतꣳ सन्तम् ।
षड्ड्होतेत्य् आचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत ।
तस्मै पञ्चमꣳ हूतः प्रत्यशृणोत् ।
स पञ्चहूतो ऽभवत् ।
पञ्चहूतो ह वै नामैषः ।
तं वा एतं पञ्चहूतꣳ सन्तं ।
पञ्चहोतेत्य् आचक्षते परोक्षेण ।
VERSE: 4 { 2.3.11.4}
परोक्षप्रिया इव हि देवाः ।
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत ।
तस्मै चतुर्थꣳ हूतः प्रत्यशृणोत् ।
स चतुर्हूतो ऽभवत् ।
चतुर्हूतो ह वै नामैषः ।
तं वा एतं चतुर्हूतꣳ सन्तम् ।
चतुर्होतेत्य् आचक्षते {।} परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
तम् अब्रवीत् ।
त्वं वै मे नेदिष्ठꣳ हूतः प्रत्यश्रौषीः ।
त्वया_एनान् आख्यातार इति ।
तस्मान् नु हैनाꣳश् चतुर्होतार इत्य् आचक्षते ।
तस्माच् शुश्रूषुः पुत्राणाꣳ हृद्यतमः ।
नेदिष्ठो हृद्यतमः ।
नेदिष्ठो ब्रह्मणो भवति ।
य एवं वेद ।
प्रपाठक: 4
अनुवाक 1
VERSE: 1 { 2.4.1.1}
जुष्टो दमूना अतिथिर् दुरोणे ।
इमं नो यज्ञम् उपयाहि विद्वान् ।
विश्वा अग्ने ऽभियुजो विहत्य ।
शत्रूयताम् आभरा भोजनानि ।
अग्ने शर्ध महते सौभगाय ।
तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यꣳ सुयमम् आकृणुष्व ।
शत्रूयताम् अभितिष्ठा महाꣳसि ।
अग्ने यो नो ऽभितो जनः ।
वृको वारो जिघाꣳसति ।
VERSE: 2 { 2.4.1.2}
ताꣳस् त्वं वृत्रहञ् जहि ।
वस्व् अस्मभ्यम् आभर ।
अग्ने यो नो ऽभिदासति ।
समानो यश् च निष्ट्यः ।
इध्मस्य_इव प्रक्षायतः ।
मा तस्य_उच्छेषि किञ् चन ।
त्वम् इन्द्र_अभिभूर् असि ।
देवो विज्ञातवीर्यः ।
वृत्रहा पुरुचेतनः ।
अप प्राच इन्द्र विश्वाꣳ अमित्रान् ।
VERSE: 3 { 2.4.1.3}
अप_अपाचो अभिभूते नुदस्व ।
अप_उदीचो अप शूर_धराच ऊरु ।
यथा तव शर्मन् मदेम ।
तम् इन्द्रं वाजयामसि ।
महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत्[ऽभुवत्?] ।
युजे रथं गवेषणꣳ हरिभ्याम् ।
उप ब्रह्माणि जुजुषाणम् अस्थुः ।
विबाधिष्ट_अस्य रोदसी महित्वा ।
इन्द्रो वृत्राण्य् अप्रतीजघन्वान् ।
VERSE: 4 { 2.4.1.4}
हव्यवाहम् अभिमातिषा_अहम् ।
रक्षोहणं पृतनासु जिष्णुम् ।
ज्योतिष्मन्तं दीद्यतं पुरन्धिम् ।
अग्निꣳ स्विष्टकृतम् {F आहुवेम} {आनंदा. आहुमेव} {BI आहुवेम} { आहुवेम} ।
स्विष्टम् अग्ने अभि तत् पृणाहि ।
विश्वा देव पृतना अभिष्य ।
उरुं नः पन्थां प्रदिशन् विभाहि ।
ज्योतिष्मद् धेह्य् अजरं न {F आयुः} {आनंदा. आयुः} {BI आयः} { आयुः} ।
त्वाम् अग्ने हविष्मन्तः ।
देवं मर्तास ईडते ।
VERSE: 5 { 2.4.1.5}
मन्ये त्वा जातवेदसम् ।
स हव्या वक्ष्या_अनुषक् ।
विश्वानि नो दुर्गहा जातवेदः ।
सिन्धुं न नावा दुरिता_अतिपर्षि ।
अग्ने अत्रिवन् मनसा गृणानः ।
अस्माकं बोध्यविता तनूनाम् ।
पूषा गा अन्वेतु नः ।
पूषा रक्षत्व् अर्वतः ।
पूषा वाजꣳ सनोतु नः ।
पूषा_इमा आशा अनुवेद सर्वाः ।
VERSE: 6 { 2.4.1.6}
सो अस्माꣳ अभयतमेन नेषत् ।
स्वस्तिदा अघृणिः सर्ववीरः ।
अप्रयुच्छन् पुर एतु प्रजानन् ।
{F त्वम्} {आनंदा. त्वम्} {BI स्वम्} { त्वम्} अग्ने सप्रथा असि ।
जुष्टो होता वरेण्यः ।
त्वया यज्ञं वितन्वते ।
अग्नी रक्षाꣳसि सेधति ।
शुक्रशोचिर् अमर्त्यः ।
शुचिः पावक ईड्यः ।
अग्ने रक्षाणो अꣳहसः ।
VERSE: 7 { 2.4.1.7}
प्रतिष्म देव रीषतः ।
तपिष्ट्हैर् अजरो दह ।
अग्ने हꣳसि न्यत्रिणम् ।
दीद्यन् मर्त्येष्व् आ ।
स्वे क्षये शुचिव्रत ।
आ वात वाहि भेषजम् ।
वि वात वाहि यद् रपः ।
त्वꣳ हि विश्वभेषजः ।
देवानां दूत ईयसे ।
द्वाव् इमौ वातौ वातः ।
VERSE: 8 { 2.4.1.8}
आ सिन्धोर् आ परावतः ।
दक्षं मे अन्य आवातु ।
परा_अन्यो वातु यद् रपः ।
यद् अदो वात ते गृहे ।
अमृतस्य निधिर् हितः ।
ततो नो देहि जीवसे ।
ततो नो धेहि भेषजम् ।
ततो नो मह आवह ।
वात आवातु भेषजम् ।
शम्भूर् मयोभूर् नो हृदे ।
VERSE: 9 { 2.4.1.9}
प्र ण आयूꣳषि तारिषत् ।
त्वम् अग्ने अयासि ।
अया सन्मनसा हितः ।
अया सन् हव्यमूहिषे ।
अया नो धेहि भेषजम् ।
इष्टो अग्निर् आहुतः ।
स्वाहाकृतः पिपर्तु नः ।
स्वगा देवेभ्य इदं नमः ।
कामो भूतस्य भव्यस्य ।
सम्राड् एको विराजति ।
VERSE: 10 { 2.4.1.10}
स इदं प्रतिपप्रथे ।
ऋतून् उत्सृजते वशी ।
कामस् तद् अग्रे समवर्तत_अधि ।
मनसो रेतः प्रथमं यद् आसीत् ।
सतो बन्धुम् असति निरविन्दन् ।
हृदि प्रतीष्या कवयो मनीषा ।
त्वया मन्यो सरथम् आरुजन्तः ।
हर्षमाणासो धृषता मरुत्वः ।
तिग्म_इषव आयुधा सꣳशिशानाः ।
उपप्रयन्ति नरो अग्निरूपाः ।
VERSE: 11 { 2.4.1.11}
मन्युर् भगो मन्युर् एवाऽऽस देवः ।
मन्युर् होता वरुणो विश्ववेदाः ।
मन्युं विश ईडते देवयन्तीः ।
पाहि नो मन्यो तपसा श्रमेण ।
त्वम् अग्ने व्रतभृत्_शुचिः ।
देवाꣳ आसादया इह ।
अग्ने हव्याय वोढवे ।
व्रता नु बिभ्रद् व्रतपा अदाभ्यः ।
यजानो देवाꣳ अजरः सुवीरः ।
दधद् रत्नानि सुविदानो अग्ने ।
गोपाय नो जीवसे जातवेदः ।
अनुवाक 2
VERSE: 1 { 2.4.2.1}
चक्षुषो हेते मनसो हेते ।
वाचो हेते ब्रह्मणो हेते ।
यो मा_अघायुर् अभिदासति ।
तम् अग्ने मेन्या_अमेनिं कृणु ।
यो मा चक्षुषा यो मनसा ।
यो वाचा ब्रह्मणा_अघायुर् अभिदासति ।
तया_अग्ने त्वं मेन्या ।
अमुम् अमेनिं कृणु ।
यत् किं च_असौ मनसा यच् च वाचा ।
यज्ञैर् जुहोति यजुषा हविर्भिः ।
VERSE: 2 { 2.4.2.2}
तन् मृत्युर् निर्ऋत्या संविदानः ।
पुरा दिष्टाद् आहुतीर् अस्य हन्तु ।
यातुधाना निर्ऋतिर् आद् उ रक्षः ।
ते अस्य घ्नन्त्व् अनृतेन सत्यम् ।
इन्द्र_इषिता आज्यम् अस्य मथ्नन्तु ।
मा तत् समृद्धि यद् असौ करोति ।
हन्मि ते ऽहं कृतꣳ हविः ।
यो मे घोरम् अचीकृतः ।
अपाञ्चौ त उभौ बाहू ।
अपनह्याम्य् आस्यम् ।
VERSE: 3 { 2.4.2.3}
अपनह्यामि ते बाहू ।
अपनह्याम्य् आस्यम् ।
अग्नेर् देवस्य ब्रह्मणा ।
सर्वं ते ऽवधिषं कृतं ।
पुरा_अमुष्य वषट्कारात् ।
यज्ञं देवेषु नस् कृधि ।
स्विष्टम् अस्माकं भूयात् ।
मा_अस्मान् प्रापन्न् अरातयः ।
अन्ति दूरे सतो अग्ने ।
भ्रातृव्यस्या_अभिदासतः ।
VERSE: 4 { 2.4.2.4}
वषट्कारेण वज्रेण ।
कृत्याꣳ हन्मि कृताम् अहम् ।
यो मा नक्तं दिवा सायम् ।
प्रातश् च_अह्नो निपीयति ।
अद्या तम् इन्द्र वज्रेण ।
भ्रातृव्यं पादयामसि ।
इन्द्रस्य गृहो ऽसि तं त्वा ।
प्रपद्ये सगुः स_अश्वः ।
सह यन् मे अस्ति तेन ।
ईडे अग्निं विपश्चितम् ।
VERSE: 5 { 2.4.2.5}
गिरा यज्ञस्य साधनम् ।
श्रुष्टीवानं धितावानम् ।
अग्ने शकेम ते वयम् ।
यमं देवस्य वाजिनः ।
अति द्वेषाꣳषि तरेम ।
अवतं मा समनसौ समोकसौ ।
सचेतसौ सरेतसौ ।
उभौ माम् अवतं जातवेदसौ ।
शिवौ भवतम् अद्य नः ।
स्वयं कृण्वानः सुगम् अप्रयावम् ।
VERSE: 6 { 2.4.2.6}
तिग्मशृङ्गो वृषभः शोशुचानः ।
प्रत्नꣳ सधस्थम् अनुपश्यमानः ।
आ तन्तुम् अग्निर् दिव्यं ततान ।
त्वं नस् तन्तुर् उत सेतुर् अग्ने ।
त्वं पन्था भवसि देवयानः ।
त्वया_अग्ने पृष्ठं वयम् आरुहेम { आरुहेय} {आनंदा.,BI आरुहेम} ।
अथा देवैः सधमादं मदेम ।
उद् उत्तमं मुमुग्धि नः ।
वि पाशं मध्यमं चृत ।
अव_अधमानि जीवसे ।
VERSE: 7 { 2.4.2.7}
वयꣳ सोम व्रते तव ।
मनस् तनूषु बिभ्रतः ।
प्रजावन्तो अशीमहि ।
इन्द्राणी देवी सुभगा सुपत्नी ।
उद् अꣳशेन पतिविद्ये जिगाय ।
त्रिꣳशद् अस्या जघनं योजनानि ।
उपस्थ इन्द्रꣳ स्थविरं बिभर्ति ।
सेना ह नाम पृथिवी धनंजया ।
विश्वव्यचा अदितिः सूर्यत्वक् ।
इन्द्राणी देवी प्रासहा ददाना ।
VERSE: 8 { 2.4.2.8}
सा नो देवी सुहवा शर्म यच्छतु ।
आ त्वा_अहार्षम् अन्तरभूः ।
ध्रुवस् तिष्ठ_अविचाचलिः ।
विशस् त्वा सर्वा वाञ्छन्तु ।
मा त्वद् राष्ट्रम् अधिभ्रशत् ।
ध्रुवा द्यौर् ध्रुवा पृथिवी ।
ध्रुवं विश्वम् इदं जगत् ।
ध्रुवा ह पर्वता इमे ।
ध्रुवो राजा विशाम् अयम् ।
इहैव_एधि मा व्यथिष्ठाः ।
VERSE: 9 { 2.4.2.9}
पर्वत इव_अविचाचलिः ।
इन्द्र इव_इह ध्रुवस् तिष्ठ ।
इह राष्ट्रम् उ धारय ।
अभितिष्ठ पृतन्यतः ।
अधरे सन्तु शत्रवः ।
इन्द्र इव वृत्रहा तिष्ठ ।
अपः क्षेत्राणि संजयन् ।
इन्द्र एणम् अदीधरत् ।
ध्रुवं ध्रुवेण हविषा ।
तस्मै देवा अधिब्रवन् ।
अयं च ब्रह्मणस्पतिः ।
अनुवाक 3
VERSE: 1 { 2.4.3.1}
जुष्टी नरो ब्रह्मणा वः पितृणाम् ।
अक्षम् अव्ययं न किला रिषाथ ।
यत्_शक्वरीषु बृहता रवेण ।
इन्द्रे शुष्मम् अदधाथा वसिष्ठाः ।
पावका नः सरस्वती ।
वाजेभिर् वाजिनीवती ।
यज्ञं वष्टु धिया वसुः ।
सरस्वत्य् अभि नो नेषि वस्यः मा पस्फ्अरीः पयसा मा न आधक् ।
जुषस्व नः सख्या वेश्या { वेष्या} च ।
VERSE: 2 { 2.4.3.2}
मा त्वत् क्षेत्राण्य् अरणानि गन्म ।
वृञ्जे हविर् नमसा बर्हिर् अग्नौ ।
अयामि स्रुच्_ घृतवती सुवृक्तिः ।
अम्यक्षि सद्म सदने पृथिव्याः ।
अश्रायि यज्ञः सूर्ये न चक्षुः ।
इह_अर्वाञ्चम् अतिह्वये ।
इन्द्रं जैत्राय जेतवे { जेतव} ।
अस्माकम् अस्तु केवलः ।
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे ।
यो गोजिद् धनजिद् अश्वजिद् यः ।
VERSE: 3 { 2.4.3.3}
इमं नो यज्ञं विहवे जुषस्व ।
अस्य कुर्मो हरिवो मेदिनं त्वा ।
असंमृष्टो जायसे मातृवोः शुचिः ।
मन्द्रः कविर् उदतिष्ठो विवस्वतः ।
घृतेन त्वा वर्धयन्न् अग्न आहुत ।
धूमस् ते केतुर् अभवद् दिवि श्रितः ।
अग्निर् अग्रे प्रथमो देवतानाम् ।
संयातानाम् उत्तमो विष्णुर् आसीत् ।
यजमानाय परिगृह्य देवान् ।
दीक्षया_इदꣳ हविर् आगच्छतं नः ।
VERSE: 4 { 2.4.3.4}
अग्निश् च विष्णो तप उत्तमं महः ।
दीक्षापालेभ्यो वनतꣳ हि शक्रा ।
विश्वैर् देवैर् यज्ञियैः संविदानौ ।
दीक्षाम् अस्मै यजमानाय धत्तम् ।
प्र तद् विष्णुः स्तवते वीर्याय ।
मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्य_ऊरुषु त्रिषु विक्रमणेषु ।
अधिक्षियन्ति भुवनानि विश्वा ।
नू मर्तो दयते सनिष्यन् यः ।
विष्णव उरुगायाय दाशत् ।
VERSE: 5 { 2.4.3.5}
प्र यः सत्राचा मनसा यजातै ।
एतावन्तं नर्यम् आविवासात् ।
विचक्रमे पृथिवीम् एष एताम् ।
क्षेत्राय विष्णुर् मनुषे दशस्यन् ।
ध्रुवासो अस्य कीरयो जनासः ।
उरुक्षितिꣳ सुजनिमा चकार ।
त्रिर् देवः पृथिवीम् एष एताम् ।
विचक्रमे शतर्चसं महित्वा ।
प्र विष्णुर् अस्तु तवसस् तवीयान् ।
त्वेषꣳ ह्य् अस्य स्थविरस्य नाम ।
VERSE: 6 { 2.4.3.6}
होतारं चित्ररथम् अध्वरस्य ।
यज्ञस्य यज्ञस्य केतुꣳ रुशन्तम् ।
प्रत्यर्धिं देवस्य देवस्य मह्ना ।
श्रिया त्वा_अग्निम् अतिथिं जनानाम् ।
आ नो विश्वाभिर् ऊतिभिः सजोषाः ।
ब्रह्म जुषाणो हर्यश्व याहि ।
वरीवृजत् स्थविरेभिः सुशिप्र ।
अस्मे दधद् वृषणꣳ शुष्मम् इन्द्र ।
इन्द्रः सुवर्षा जनयन्न् अहानि ।
जिगाय_उशिग्भिः पृतना अभिश्रीः ।
VERSE: 7 { 2.4.3.7}
प्रारोचयन् मनवे केतुम् अह्नाम् ।
अविन्दज् ज्योतिर् बृहते रणाय ।
अश्विनाव् अवसे निह्वये वाम् ।
आ नूनं यातꣳ सुकृताय विप्रा ।
प्रातर्युक्तेन सुवृता रथेन ।
उपागच्छतम् अवसा_आगतं नः ।
अविष्टं धीष्व् अश्विना न आसु ।
प्रजावद् रेतो अह्रयं नो अस्तु ।
आवां तोके तनये तूतुजानाः ।
सुरत्नासो देववीतिं गमेम ।
VERSE: 8 { 2.4.3.8}
त्वꣳ सोम क्रतुभिः सुक्रतुर् भूः ।
त्वं दक्षैःसुदक्षो विश्ववेदाः ।
त्वं वृषा वृषत्व् एभिर् महित्वा ।
द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ।
अषाढं युत्सु पृतनासु पप्रियम् ।
सुवर्षाम् अप्स्वां वृजनस्य गोपाम् ।
भरेषुजाꣳ सुक्षितिꣳ सुश्रवसम् ।
जयन्तं त्वाम् अनु मदेम सोम ।
भवा मित्रो न शेव्यो घृतासुतिः ।
विभूतद्युम्न एवया उ सप्रथाः ।
VERSE: 9 { 2.4.3.9}
अधा { अधो} ते विष्णो विदुषाचिद् ऋध्यः ।
स्तोमो यज्ञस्य राध्यो हविष्मतः ।
यः पूर्व्याय वेधसे नवीयसे ।
सुमज्ज्āनये विष्णवे ददाशति ।
यो जातम् अस्य महतो महि ब्रवात् ।
सेदुः श्रवोभिर् युज्यंचिद् अभ्यसत् ।
तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य ।
गर्भꣳ हविषा पिपर्तन ।
आ_अस्य जानन्तो नाम चिद् विवक्तन ।
बृहत् ते विष्णो सुमतिं भजामहे ।
VERSE: 10 { 2.4.3.10}
इमा धाना घृतस्नुवः ।
हरी इह_उपवक्षतः ।
इन्द्रꣳ सुखतमे रथे ।
एष ब्रह्मा प्र ते महे ।
विदथे शꣳसिषꣳ हरी ।
य ऋत्वियः प्र ते वन्वे ।
वनुषो हर्यतं मदम् ।
इन्द्रो नाम घृतं न यः ।
हरिभिश् चारु सेचते ।
श्रुतो गण आ त्वा विशन्तु ।
VERSE: 11 { 2.4.3.11}
हरिवर्पसं गिरः ।
आ चर्षणिप्रा वृषभो जनानाम् ।
राजा कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतः श्रवस्यन्न् अवसोप मद्रिक् ।
युक्त्वा हरी वृषणा_आयाह्य् अर्वाङ् ।
प्र यत् सिन्धवः प्रसवं यद् आयन् ।
आपः समुद्रꣳ रथ्या_इव जग्मुः ।
अतश् चिद् इन्द्रः सदसो वरीयान् ।
यद् ईꣳ सोमः पृणाति दुग्ध्ó अꣳशुः ।
ह्वयामसि त्वा_इन्द्र याह्य् अर्वाङ् ।
VERSE: 12 { 2.4.3.12}
अरं ते सोमस् तनुवे भवाति ।
शतक्रतो मादयस्वा सुतेषु ।
प्र_अस्माꣳ अव पृतनासु प्र युत्सु ।
इन्द्राय सोमाः प्रदिवो विदानाः ।
ऋभुर् येभिर् वृषपर्वा विहायाः ।
प्रयम्यमाणान् प्रति षू गृभाय ।
इन्द्र पिब वृषधूतस्य वृष्णः ।
अहेडमान उपयाहि यज्ञम् ।
तुभ्यं पवन्त इन्दवः सुतासः ।
गावो न वज्रिन्त् स्वमोको अच्छ ।
VERSE: 13 { 2.4.3.13}
इन्द्र_आगहि प्रथमो यज्ञियानाम् ।
या ते काकुत् सुकृता या वरिष्ठा ।
यया शश्वत् पिबसि मध्व ऊर्मिम् ।
तया पाहि प्र ते अध्वर्युर् अस्थात् ।
सं ते वज्रो वर्तताम् इन्द्र गव्युः ।
प्रातर्युजा विबोधय ।
अश्विनाव् आ_इह गच्छतम् ।
अस्य सोमस्य पीतये ।
प्रातर्यावाणा प्रथमा यजध्वम् ।
पुरा गृध्राद् अररुषः पिबाथः ।
प्रातर् हि यज्ञम् अश्विना दधाते ।
प्रशꣳसन्ति कवयः पूर्वभाजः ।
प्रातर् यजध्वम् अश्विना हिनोत ।
न सायम् अस्ति देवया अजुष्टम् ।
उत_अन्यो अस्मद् यजते विचायः ।
पूर्वः पूर्वो यजमानो वनीयान् ।
अनुवाक 4
VERSE: 1 { 2.4.4.1}
नक्तं जाता_अस्य् ओषधे ।
रामे कृष्णे असिक्नि च ।
इदꣳ रजनि रजय ।
किलासं पलितं च यत् ।
किलासं च पलितं च ।
निरितो नाशया पृषत् ।
आ नः स्वो अश्नुतां वर्णः ।
परा श्वेतानि पातय ।
असितं ते निलयनम् ।
आस्थानम् असितं तव ।
VERSE: 2 { 2.4.4.2}
असिक्निय् अस्य् ओषधे ।
निर् इतो नाशया पृषत् ।
अस्थिजस्य किलासस्य ।
तनूजस्य च यत् त्वचि ।
कृत्यया कृतस्य ब्रह्मणा ।
लक्ष्म श्वेतम् अनीनशम् ।
सरूपा नाम ते माता ।
सरूपो नाम ते पिता ।
सरूपा_अस्य् ओषधे सा ।
सरूपम् इदं कृधि ।
VERSE: 3 { 2.4.4.3}
शुनꣳ हुवेम मघवानम् इन्द्रम् ।
अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रमूतये ।
समत्सु ।
घ्नन्तं वृत्राणि संजितं धनानाम् ।
धूनुथ द्यां पर्वतान् दाशुषे वसु ।
नि वो वना जिहते यामनो भिया ।
कोपयथ पृथिवीं पृश्निमातरः ।
युधे यद् उग्राः पृषतीर् अयुग्ध्वम् ।
प्रवेपयन्ति पर्वतान् ।
विविञ्चन्ति वनस्पतीन् ।
VERSE: 4 { 2.4.4.4}
प्रो ऽवारत मरुतो दुर्मदा इव ।
देवासः सर्वया विशा ।
पुरुत्रा हि सदृङ्ङ् असि ।
विशो विश्वा अनु प्रभु ।
समत्सु त्वा हवामहे ।
समत्स्व् अग्निम् अवसे ।
वाजयन्तो हवामहे ।
वाजेषु चित्रराधसम् ।
संगच्छध्वꣳ संवदध्वम् ।
सं वो मनाꣳसि जानताम् ।
VERSE: 5 { 2.4.4.5}
देवा भागं यथा पूर्वे ।
संजानाना उपासत ।
समानो मन्त्रः समितिः समानी ।
समानं मनः सह चित्तम् एषाम् ।
समानं केतो अभि सꣳरभध्वम् ।
संज्ञानेन वो हविषा यजामः ।
समानी व आकूतिः ।
समाना हृदयानि वः ।
समानम् अस्तु वो मनः ।
यथा वः सुसहासति ।
VERSE: 6 { 2.4.4.6}
संज्ञानं नः स्वइः ।
संज्ञानम् अरण्ऐः ।
संज्ञानम् अश्विना युवम् ।
इह_अस्मासु नियच्छतम् ।
संज्ञानं मे बृहस्पतिः ।
संज्ञानꣳ सविता_अकरत् ।
संज्ञानम् अश्विना युवम् ।
इह मह्यं नियच्छतम् ।
उप च्छायाम् इव घृणेः ।
अगन्म शर्म ते वयम् ।
VERSE: 7 { 2.4.4.7}
अग्ने हिरण्यसंदृशः ।
अदब्धेभिः सवितः पायुभिष् ट्वम् ।
शिवेभिर् अद्य परिपाहि नो गयम् ।
हिरन्यजिह्वः सुविताय नव्यसे ।
रक्षा माकिर् नो अघशꣳस ईशत ।
मदे_मदे हि नो ददुः ।
युथा गवाम् ऋजुक्रतुः ।
संगृभाय पुरू { पूरू} शता ।
उभया हस्त्या वसु ।
शिशीहि राय आभर ।
VERSE: 8 { 2.4.4.41}
शिप्रिन् वाजानां पते ।
शचीवस् तव दꣳसना ।
आ तू न इन्द्र भाजय ।
गोष्व् अश्वेषु शुभ्रुषु ।
सहस्रेषु तुवीमघ ।
यद् देवा देव हेडनम् ।
देवासश् चकृमा वयम् ।
आदित्यास् तस्मान् मा यूयम् ।
ऋतस्य_ऋतेन मुञ्चत ।
0 ऋतस्य_ऋतेन_आदित्याः ।
VERSE: 9 { 2.4.4.42}
यजत्रा मुञ्चत_इह मा ।
यज्ञैर् वो यज्ञवाहसः ।
आशिक्षन्तो न शेकिम ।
मेदस्वता यजमानाः ।
स्रुचा_आज्येन जुह्वतः ।
अकामा वो विश्वे देवाः ।
शिक्षन्तो न_उपशेकिम ।
यदि दिवा यदि नक्तम् ।
एन एनस्यो ऽकरत् ।
0 भूतं मा तस्माद् भव्यं च ।
VERSE: 10 { 2.4.4.43}
द्रुपदाद् इव मुञ्चतु ।
द्रुपदाद् इव_इन् मुमुचानः ।
स्विन् नः स्रात्वी मलाद् इव ।
पूतं पवित्रेण_इव_आज्यम् ।
विश्वे मुञ्चन्तु मा_एनसः ।
उद् वयं तमसस् परि ।
पश्यन्तो ज्योतिर् उत्तरम् ।
देवं देवत्रा सूर्यम् ।
अगन्म ज्योतिर् उत्तमम् ।
अनुवाक 5
VERSE: 1 { 2.4.5.44}
वृषा सो अꣳशुः पवते हविष्मान्त् सोमः ।
इन्द्रस्य भाग ऋतयुः शत_आयुः ।
स मा वृषाणं वृषभं कृणोतु ।
प्रियं विशाꣳ सर्ववीरꣳ सुवीरम् ।
कस्य वृषा सते सचा ।
नियुत्वान् वृषभो रणत् ।
वृत्रहा सोमपीतये ।
यस् ते शृङ्ग वृषो नपात् ।
प्रणपात् कुण्डपाय्यः ।
0 न्य् अस्मिन् दध्र आ मनः ।
VERSE: 2 { 2.4.5.45}
तꣳ सध्रीचीर् ऊतयो वृष्णियानि ।
पौꣳस्यानि नियुतः सश्चुर् इन्द्रम् ।
समुद्रं न सिन्धव उक्थशुष्माः ।
उरुव्यचसं गिर आविशन्ति ।
इन्द्राय गिरो अनिशितसर्गाः ।
अपः प्रैरयन्त् सगरस्य बुध्नात् ।
यो अक्षेण_इव चक्रिया शचिभिः ।
विष्वक्तस्तम्भ पृथिवीम् उत द्याम् ।
अक्षोदयत्_शवसा क्षाम बुध्नम् ।
0 वार्णवातस् तविषीभिर् इन्द्रः ।
VERSE: 3 { 2.4.5.46}
दृढान्य् औघ्नाद् उशमान ओजः ।
अवाभिनत् ककुभः पर्वतानाम् ।
आ नो अग्ने सुकेतुना ।
रयिं विश्वायुपोषसम् ।
मार्ड्īकं धेहि जीवसे ।
त्वꣳ सोम महे भगम् ।
त्वं यून ऋतायते ।
दक्षं दधासि जीवसे ।
रथं युञ्जते मरुतः शुभे सुगम् सूरो न मित्रावरुणा गविष्टिषु ।
VERSE: 4 { 2.4.5.47}
रजाꣳसि चित्रा विचरन्ति तन्यवः ।
दिवः सम्राजा पयसा न उक्षतम् ।
वाचꣳ सु मित्रावरुणाव् इरावतीम् ।
पर्जन्यश् चित्रां वदति त्विषीमतीम् ।
अभ्रा वसत मरुतः सु मायया ।
द्यां वर्षयतम् अरुणाम् अरेपसम् ।
अयुक्त सप्त शुन्ध्युवः ।
सूरो रथस्य नप्त्र्íयः ।
ताभिर् याति स्वयुक्तिभिः ।
0 वहिष्ठेभिर् विहरन् यासि { वीहष्ठेभिर् वहरन् यासि} तन्तुम् ।
VERSE: 5 { 2.4.5.48}
अवव्ययन्न् असितं देव वस्वः ।
दविध्वतो रश्मयः सूर्यस्य ।
चर्म_इव_अवाधुस् तमो अप्स्व् अन्तः ।
पर्जन्याय प्रगायत ।
दिवस् पुत्राय मीढुषे ।
स नो यवसम् इच्छतु ।
अच्छा वद तवसं गीर्भिर् आभिः { आभि} ।
स्तुहि पर्जन्यं नमसा विवास ।
कनिक्रदद् वृषभो जीरदानुः ।
0 रेतो दधात्व् ओषधीषु गर्भम् ।
VERSE: 6 { 2.4.5.49}
यो गर्भम् ओषधीनाम् ।
गवां कृणोत्य् अर्वताम् ।
पर्जन्यः पुरुषीणाम् ।
तस्मा इदास्ये हविः ।
जुहोता मधुमत्तमम् ।
इडां नः संयतं करत् ।
तिस्रो यद् अग्ने शरदस् त्वाम् इत् ।
शुचिं घृतेन शुचयः सपर्यन् ।
नामानि चिद् दधिरे यज्ञियानि ।
0 असूदयन्त तनुवः सुजाताः ।
VERSE: 7 { 2.4.5.50}
इन्द्रश् च नः शुनासीरौ ।
इमं यज्ञं मिमिक्षतम् ।
गर्भं धत्तꣳ स्वस्तये ।
ययोर् इदं विश्वं भुवनम् आविवेश ।
ययोर् आनन्दो निहितो महश् च ।
शुनासीराव् ऋतुभिः संविदानौ ।
इन्द्रवन्तौ हविर् इदं { हृदिरिदं} जुषेथाम् ।
आ घा ये अग्निम् इन्धते ।
स्तृणन्ति बर्हिर् आनुषक् ।
0 येषाम् इन्द्रो युवा सखा ।
1 अग्ने इन्द्रश् च मेदिना ।
2 हथो वृत्राण्य् अप्रति ।
3 युवꣳ हि वृत्रहन्तमा ।
4 याभ्याꣳ सुवर् अजयन्न् अग्र एव ।
5 याव् आतस्थतुर् भुवनस्य मध्ये ।
6 प्रचर्षणी वृषणा वज्रबाहू ।
7 अग्नी इन्द्रा वृत्रहणा हुवे वाम् ।
अनुवाक 6
VERSE: 1 { 2.4.6.51}
उत नः प्रिया प्रियासु ।
सप्तस्वसा { सप्तस्वसा} सुजुष्टा ।
सरस्वती स्तोम्या_अभूत् ।
इमा जुह्वाना युष्मद् आ नमोभिः ।
प्रति स्तोमꣳ सरस्वति जुषस्व ।
तव शर्मन् प्रियतमे दधानाः ।
उपस्थेयाम शरणं न वृक्षम् ।
त्रीणि पदा विचक्रमे ।
विष्णुर् गोपा अदाभ्यः ।
0 ततो धर्माणि धारयन् ।
VERSE: 2 { 2.4.6.52}
तद् अस्य प्रियम् अभि पाथो अश्याम् ।
नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुर् इत्था ।
विष्णोः पदे परमे मध्व उत्सः ।
क्रत्वा दा अस्थु श्रेष्ठः ।
अद्य त्वा वन्वन्त् सुरेक्णाः ।
मर्त आनाश सुवृक्तिम् ।
इमा ब्रह्म ब्रह्मवाह ।
प्रिया त आ बर्हिः सीद ।
0 वीहि सूर पुरोडाशम् ।
VERSE: 3 { 2.4.6.53}
उप नः सूनवो गिरः ।
शृण्वन् त्वम् ऋतस्य ये ।
सुमृडीका भवन्तु नः ।
अद्या नो देव सवितः ।
प्रजावत् सावीः सौभगम् ।
परा दुष्ष्वप्नियꣳ {आनंदा. दुष्ष्वप्निꣳ} सुव ।
विश्वानि देव सवितः ।
दुरितानि परासुव ।
यद् भद्रं तन् म आसुव ।
0 शुचिम् अर्कैर् बृहस्पतिम् ।
VERSE: 4 { 2.4.6.54}
अध्वरेषु नमस्यत ।
अनाम्य् ओज आचके ।
या_अधारयन्त देवा सुदक्षा दक्षपितारा ।
असुर्याय प्रमहसा ।
स इत् क्षेति सुधित ओकसि स्वे ।
तस्मा इडा पिन्वते विश्वदानी ।
तस्मै विशः स्वयम् एवाऽऽनमन्ति ।
यस्मिन् ब्रह्मा राजनि पूर्व एति ।
सकूतिम् इन्द्र सच्युतिम् ।
0 सच्युतिं जघनच्युतिम् ।
VERSE: 5 { 2.4.6.55}
कनात् काभां न आभर ।
प्रयप्स्यन्न् इव सक्थ्यउ ।
वि न इन्द्र मृधो जहि ।
कनीखुनद् इव सापयन् ।
अभि नः सुष्टुतिं नय ।
प्रजापतिः स्त्रियां यशः ।
मुष्कयोर् अदधात् सपम् ।
कामस्य तृप्तिम् आनन्दम् ।
तस्य_अग्ने भाजय_इह मा ।
0 मोदः प्रमोद आनन्दः ।
VERSE: 6 { 2.4.6.56}
मुष्कयोर् निहितः सपः ।
सृत्वा_इव कामस्य तृप्याणि ।
दक्षिणानां प्रतिग्रहे ।
मनसश् चित् तम् आकूतिम् ।
वाचः सत्यम् अशीमहि ।
पशूनाꣳ रूपम् अन्नस्य ।
यशः श्रीः श्रयतां मयि ।
यथा_अहम् अस्या अतृपꣳ स्त्रियै पुमान् ।
यथा स्त्री तृप्यति पुꣳसि प्रिये प्रिया ।
0 एवं भगस्य तृप्याणि ।
VERSE: 7 { 2.4.6.57}
यज्ञस्य काम्यः प्रियः ।
ददामि_इत्य् अग्निर् वदति ।
तथा_इति वायुर् आह तत् ।
हन्त_इति सत्यं चन्द्रमाः ।
आदित्यः सत्यम् ओम् इति ।
आपस् तत् सत्यम् आभरन् ।
यशो यज्ञस्य दक्षिणाम् ।
असौ मे कामः समृध्यताम् ।
न हि स्पशम् अविदन्न् अन्यम् अस्मात् ।
0 वैश्वानरात् पुरएतारम् { पुर तारम्} अग्नेः ।
VERSE: 8 { 2.4.6.58}
अथ_इम् अमन्थन्न् अमृतम् अमूराः ।
वैश्वानरं क्षेत्रजित्याय देवाः ।
येषाम् इमे पूर्वे अर्मास आसन् ।
अयूपाः सद्म विभृता पुरूणि ।
वैश्वानर त्वया ते नुत्ताः ।
पृथिवीम् अन्याम् अभितस्थुर् जनासः ।
पृथिवीं मातरं महीम् ।
अन्तरिक्षम् उपब्रुवे ।
बृहतीमूतये दिवम् ।
0 विश्वं बिभर्ति पृथिवी {आनंदा. पृथिवीम्} ।
VERSE: 9 { 2.4.6.59}
अन्तरिक्षं विपप्रथे ।
दुहे द्यौर् बृहती पयः ।
न ता नशन्ति न दभाति तस्करः ।
न_एना अमित्रो व्यथिर् आदधर्षति { व्यथिरादधर्षति} ।
देवाꣳश् च याभिर् यजते ददाति च ।
ज्योग् इत् ताभिः सचते गोपतिः सह ।
न ता अर्वा रेणुककाटो अश्नुते ।
न सꣳस्कृतत्रम् उपयन्ति ता अभि ।
उरुगायम् अभयं तस्य ता अनु ।
0 गावो मर्त्यस्य विचरन्ति यज्वनः ।
VERSE: 10 { 2.4.6.60}
रात्री व्यख्यद् आयती ।
पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियो ऽधित ।
{नोत् इन् } उप ते गा इव_अकरम् ।
वृणीष्व दुहितर् दिवः ।
रात्री स्तोमं न जिग्युषी ।
देवीं वाचम् अजनयन्त देवाः ।
तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुता_एतु { सुष्टतैतु} ।
VERSE: 11 { 2.4.6.61}
यद् वाग् वदन्त्य् अविचेतनानि ।
राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयाꣳसि ।
क्व स्विद् अस्याः परमं जगाम ।
गौरी मिमाय सलिलानि तक्षती ।
एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी ।
सहस्र_अक्षरा परमे व्योमन् ।
तस्याꣳ समुद्रा अधि विक्षरन्ति ।
0 तेन जीवन्ति प्रदिशश् चतस्रः ।
VERSE: 12 { 2.4.6.62}
ततः क्षरत्य् अक्षरम् ।
तद् विश्वम् उपजीवति ।
इन्द्रा सूरा जनयन् विश्वकर्मा ।
मरुत्वाꣳ अस्तु गणवान्त् सजातवान् ।
अस्य स्नुषा श्वशुरस्य प्रशिष्टिम् ।
सपत्ना वाचं मनसा उपासताम् ।
इन्द्रः सूरो अतरद् रजाꣳसि ।
स्नुषा सपत्नः श्वशुरो ऽयम् अस्तु ।
अयꣳ शत्रूञ् जयतु जर्हृषाणः ।
0 अयं वाजं जयतु वाजसातौ ।
1 अग्निः क्षत्रभृद् अनिभृष्टम् ओजः ।
2 सहस्रियो दीप्यताम् अप्रयुच्छन् ।
3 विभ्राजमानः समिधान उग्रः ।
4 आ_अन्तरिक्षम् अरुहद् अगन् द्याम् ।
अनुवाक 7
VERSE: 1 { 2.4.7.63}
वृषा_अस्य् अꣳशुर् वृषभाय गृह्यसे ।
वृषा_अयम् उग्रो नृचक्षसे ।
दिव्यः कर्मण्यो हितो बृहन् नाम ।
वृषभस्य या ककुत् ।
विषूवान् विष्णो भवतु ।
अयं यो मामको वृषा ।
अथो इन्द्र इव देवेभ्यः ।
विब्रवीतु जनेभ्यः ।
आयुष्मन्तं वर्चस्वन्तम् ।
0 अथो अधिपतिं विशाम् ।
VERSE: 2 { 2.4.7.64}
अस्याः पृथिव्या अध्यक्षम् ।
इमम् इन्द्र वृषभं कृणु ।
यः सुशृङ्गः सुवृषभः ।
कल्याणो द्रोण आहितः ।
कार्षीवलप्रगाणेन ।
वृषभेण यजामहे ।
वृषभेण यजमानाः ।
अक्रूरेण_इव सर्पिषा ।
मृधश् च सर्वा इन्द्रेण ।
0 पृतनाश् च जयामसि ।
VERSE: 3 { 2.4.7.65}
यस्य_अयम् ऋषभो हविः ।
इन्द्राय परिणीयते ।
जयाति शत्रुम् आयन्तम् ।
अथो हन्ति पृतन्यतः ।
नृणाम् अह प्रणीर् असत् ।
अग्र उद्भिन्दताम् असत् ।
इन्द्र शुष्मं तनुवा मेरयस्व ।
नीचा विश्वा अभितिष्ठ_अभिमातीः ।
निशृणीह्य् आबाधं यो नो अस्ति ।
0 उरुं नो लोकं कृणुहि जीरदानो ।
VERSE: 4 { 2.4.7.66}
प्रेह्य् अभिप्रेहि प्रभरा सहस्व ।
मा विवेनो विशृणुष्वा जनेषु ।
उद् ईडितो वृषभ तिष्ठ शुष्मैः ।
इन्द्र शत्रून् पुरो अस्माक युध्य ।
अग्ने जेता त्वं जय ।
शत्रून्त् सहस ओजसा ।
वि शत्रून् विमृधो नुद ।
एतं ते स्तोमं तुविजात विप्रः ।
रथं न धीरः स्वपा अतक्षम् ।
0 यद् ईद् अग्ने प्रति त्वं देव हर्याः ।
VERSE: 5 { 2.4.7.67}
सुवर्वतीर् अप एना जयेम ।
यो घृतेन_अभिमानितः ।
इन्द्र जैत्राय जज्ञिषे ।
स नः संकासु पारय ।
पृतनासाह्येषु च ।
इन्द्रो जिगाय पृथिवीम् ।
अन्तरिक्षꣳ सुवर् महत् ।
वृत्रहा पुरुचेतनः ।
इन्द्रो जिगाय सहसा सहाꣳसि ।
0 इन्द्रो जिगाय पृतनानि विश्वा ।
VERSE: 6 { 2.4.7.68}
इन्द्रो जातो वि पुरो रुरोज ।
स नः परस्पा वरिवः कृणोतु ।
अयं कृत्नुर् अगृभीतः ।
विश्वजिद् उद्भिद् इत् सोमः ।
ऋषिर् विप्रः काव्येन ।
वायुर् अग्रेगा यज्ञप्रीः ।
साकं गन् मनसा यज्ञम् ।
शिवो नियुद्भिः शिवाभिः ।
वायो शुक्रो अयामि ते ।
0 मध्वो अग्रं दिविष्टिषु ।
VERSE: 7 { 2.4.7.69}
आयाहि सोमपीतये ।
स्वारुहो देव नियुत्वता ।
इमम् इन्द्र वर्धय क्षत्रियाणाम् ।
अयं विशां विश्पतिर् अस्तु राजा ।
अस्मा इन्द्र महि वर्चाꣳसि धेहि ।
अवर्चसं कृणुहि शत्रुम् अस्य ।
इमम् आभज ग्रामे अश्वेषु गोषु ।
निर् अमुं भज यो ऽमित्रो अस्य ।
वर्ष्मन् क्षत्रस्य ककुभि श्रयस्व ।
0 ततो न उग्रो विभजा वसूनि ।
VERSE: 8 { 2.4.7.70}
अस्मे द्यावापृथिवी भूरि वामम् ।
संदुहाथां घर्मदुघा_इव धेनुः ।
अयꣳ राजा प्रिय इन्द्रस्य भूयात् ।
प्रियो गवाम् ओषधीनाम् उत_अपाम् ।
युनज्मि त उत्तरावन्तम् इन्द्रम् ।
येन जयासि न पराजयासै ।
स त्वा_अकर् एकवृषभꣳ स्वानाम् ।
अथो राजन्न् उत्तमं मानवानाम् ।
उत्तरस् त्वम् अधरे ते सपत्नाः ।
0 एकवृषा इन्द्रसखा जिगीवान् ।
VERSE: 9 { 2.4.7.71}
विश्वा आशाः पृतनाः संजयं जयन् ।
अभितिष्ठ शत्रूयतः सहस्व ।
तुभ्यं भरन्ति क्षितयो यविष्ठ ।
बलिम् अग्ने अन्ति त ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि ।
बृहत् ते अग्ने महि शर्म भद्रम् ।
यो देह्यो अनमयद् वधस्न्áइः ।
यो अर्यपत्नीर् उषसश् चकार ।
स निरुध्या नहुषो यह्वो अग्निः ।
0 विशश् चक्रे बलिहृतः सहोभिः ।
VERSE: 10 { 2.4.7.72}
प्र सद्यो अग्ने अत्येष्य् अन्यान् ।
आविर् यस्मै चारुतरो बभूथ ।
ईडे ऽन्यो वपुष्यो विभावा ।
प्रियो विशाम् अतिथिर् मानुषीणाम् ।
ब्रह्म ज्येष्ठा वीर्या संभृतानि ।
ब्रह्माग्रे ज्येष्ठं दिवम् आततान ।
ऋतस्य ब्रह्म प्रथमा_उत जज्ञे ।
तेन_अर्हति ब्रह्मणा स्पर्धितुं कः ।
ब्रह्म स्रुचो घृतवतीः ।
0 ब्रह्मणा स्वरवो मिताः ।
VERSE: 11 { 2.4.7.73}
ब्रह्म यज्ञस्य तन्तवः ।
ऋत्विजो ये हविष्कृतः ।
शृङ्गाणि_इव_इत्_शृङ्गिणाꣳ संददृश्रिरे ।
चषालवन्तः स्वरवः पृथिव्याम् ।
ते देवासः स्वरवस् तस्थिवाꣳसः ।
नमः सखिभ्यः सन्नान् मा_अवगात ।
अभिभूर् अग्निर् अतरद् रजाꣳसि ।
स्पृधो विहत्य पृतना अभिश्रीः ।
जुषाणो म आहुतिं मा महिष्ट ।
0 हत्वा सपत्नान् वरिवस्करं नः ।
1 ईशानं त्वा भुवनानाम् अभिश्रियम् ।
2 स्तौम्य् अग्न उरुकृतꣳ सुवीरम् ।
3 हविर् जुषाणः सपत्नाꣳ अभिभूर् असि ।
4 जहि शत्रूꣳर् अप मृधो नुदस्व ।
अनुवाक 8
VERSE: 1 { 2.4.8.74}
स प्रत्नवन् नवीयसा ।
अग्ने द्युम्नेन संयता ।
बृहत् तनन्थ भानुना ।
नवं नु स्तोमम् अग्नये ।
दिवः श्येनाय जीजनम् ।
वसोः कुविद् वनाति नः ।
स्वारुहा यस्य श्रियो दृशे ।
रयिर् वीरवतो यथा ।
अग्रे यज्ञस्य चेततः ।
0 अदाभ्यः पुरएता ।
VERSE: 2 { 2.4.8.75}
अग्निर् विशां मानुषीणाम् ।
तूर्णी रथः सदा नवः ।
नवꣳ सोमाय वाजिने ।
आज्यं पयसो ऽजनि ।
जुष्टꣳ शुचितमं वसु ।
नवꣳ सोम जुषस्व नः ।
पीयूषस्य_इह { पीयूषस्व्येह} तृप्णुहि ।
यस् ते भाग ऋता वयम् ।
नवस्य सोम ते वयम् ।
0 आ सुमतिं वृणीमहे ।
VERSE: 3 { 2.4.8.76}
स नो रास्व सहस्रिणः ।
नवꣳ हविर् जुषस्व नः ।
ऋतुभिः सोम भूतमम् ।
तद् अङ्ग प्रतिहर्य नः ।
राजन्त् सोम स्वस्तये ।
नवꣳ स्तोमं नवꣳ हविः ।
इन्द्राग्निभ्यां निवेदय ।
तज् जुषेताꣳ सचेतसा ।
शुचिं नु स्तोमं नवजातम् अद्य ।
0 इन्द्राग्नी वृत्रहणा जुषेथाम् ।
VERSE: 4 { 2.4.8.77}
उभा हि वाꣳ सुहवा जोहवीमि ।
ता वाजꣳ सद्य उशते धेष्ठा ।
अग्निर् इन्द्रो नवस्य नः ।
अस्य हव्यस्य तृप्यताम् ।
इह देवौ सहस्रिणौ ।
यज्ञं न आ हि गच्छताम् ।
वसुमन्तꣳ सुवर्विदम् ।
अस्य हव्यस्य तृप्यताम् ।
अग्निर् इन्द्रो नवस्य नः ।
0 {नोत् इन् } विश्वान् देवाꣳस् तर्पयत ।
VERSE: 5 { 2.4.8.78}
हविषो ऽस्य नवस्य नः ।
सुवर्विदो हि जज्ञिरे ।
आ _इदं बर्हिः सुष्टरीमा नवेन ।
अयं यज्ञो यजमानस्य भागः ।
अयं बभूव भुवनस्य गर्भः ।
विश्वे देवा इदम् अद्य_आगमिष्ठाः ।
इमे नु द्यावापृथिवी समीची ।
तन्वाने यज्ञं पुरुपेशसं धिया ।
आ _अस्मै पृणीतां भुवनानि विश्वा ।
0 प्रजां पुष्टिम् अमृतं नवेन ।
VERSE: 6 { 2.4.8.79}
इमे धेनू अमृतं ये दुहाते ।
पयस्वत्य् उत्तराम् एतु पुष्टिः ।
इमं यज्ञं जुषमाणे नवेन ।
समीची द्यावापृथिवी घृताची ।
यविष्ठो हव्यवाहनः ।
चित्रभानुर् घृतासुतिः ।
नवजातो विरोचसे ।
अग्ने तत् ते महित्वनम् ।
त्वम् अग्ने देवताभ्यः ।
0 भागे देव न मीयसे ।
VERSE: 7 { 2.4.8.80}
स एना विद्वान् यक्ष्यसि ।
नवꣳ स्तोमं जुषस्व नः ।
अग्निः प्रथमः प्राश्नातु ।
स हि वेद यथा हविः ।
शिवा अस्मभ्यम् ओषधीः ।
कृणोतु विश्वचर्षणिः ।
भद्रान् नः श्रेः समनैष्ट देवाः ।
त्वया वसेन समशीमहि त्वा ।
स नो मयोभूः पितो आविशस्व ।
0 शं तोकाय तनुवे स्योनः ।
1 एतम् उ त्यं मधुना संयुतं यवम् ।
2 सरस्वत्या अधिमनाव चर्क्रुषुः { चर्क्र्̥ष्टुः} ।
3 इन्द्र आसीत् सीरपतिः शतक्रतुः ।
4 कीनाशा आसन् मरुतः सुदानवः ।
प्रपाठक: 5
अनुवाक 1
VERSE: 1 { 2.5.1.1}
प्राणो रक्षति विश्वम् एजत् ।
इर्यो भूत्वा बहुधा बहूनि ।
स इत् सर्वं व्यानशे ।
यो देवो देवेषु विभूर् अन्तः ।
आवृद् ऊदात् क्षेत्रियध्वगद् {क्षेत्री_अध्वगद्?} वृषा ।
तम् इत् प्राणं मनसोपशिक्षत ।
अग्रं देवानाम् इदम् अत्तु नो हविः ।
मनसश् चित्ता_इदम् ।
भूतं भव्यं च गुप्यते ।
0 तद् धि देवेष्व् अग्रियम् ।
VERSE: 2 { 2.5.1.2}
आ न एतु पुरश्चरम् ।
सह देवैर् इमꣳ हवम् ।
मनः श्रेयसि_श्रेयसि ।
कर्मन् यज्ञपतिं दधत् ।
जुषतां मे वाग् इदꣳ हविः ।
विराड् देवी पुरोहिता ।
हव्यवाड् अनपायिनी ।
यया रूपाणि बहुधा वदन्ति ।
पेशाꣳसि देवाः परमे जनित्रे ।
0 सा नो विराड् अनपस्फुरन्ती ।
VERSE: 3 { 2.5.1.3}
वाग् देवी जुषताम् इदꣳ हविः ।
चक्षुर् देवानां ज्योतिर् अमृते न्यक्तम् ।
अस्य विज्ञानाय बहुधा निधीयते ।
तस्य सुम्नम् { सुम्रम्} अशीमहि ।
मा नो हासीद् विचक्षणम् ।
आयुर् इत् _नः प्रतीर्यताम् ।
अनन्धाश् चक्षुषा वयम् ।
जीवा ज्योतिर् अशीमहि ।
सुवर् ज्योतिर् उत_अमृतम् ।
0 श्रोत्रेण भद्रम् उत शृण्वन्ति सत्यम् ।
1 श्रोत्रेण वाचं बहुधा_उद्यमानाम् ।
2 श्रोत्रेण मोदश् च महश् च श्रूयते ।
3 श्रोत्रेण सर्वा दिश आशृणोमि ।
4 येन प्राच्या उत दक्षिणा ।
5 प्रतीच्यै दिशः शृण्वन्त्य् उत्तरात् ।
6 तद् इत् _श्रोत्रं बहुधा उद्यमानम् ।
7 अरान् न नेमिः परि सर्वं बभूव ।
अनुवाक 2
VERSE: 1 { 2.5.2.4}
उदेहि वाजिन्यो अस्य् अप्स्व् अन्तः ।
इदꣳ राष्ट्रम् आविश सूनृतावत् ।
यो रोहितो विश्वम् इदं जजान ।
स नो राष्ट्रेषु सुधितान् दधातु ।
रोहꣳ_रोहꣳ रोहित आरुरोह ।
प्रजाभिर् वृद्धिं जनुषाम् उपस्थम् ।
ताभिः सꣳरब्धो अविदत् षड् उर्वीः ।
गातुं प्रपश्यन्न् इह राष्ट्रम् आहाः ।
आहार्षीद् राष्ट्रम् इह रोहितः ।
0 मृधो व्यास्थद् अभयं नो अस्तु ।
VERSE: 2 { 2.5.2.5}
अस्मभ्यं द्यावापृथिवी शक्वरीभिः ।
राष्ट्रं दुहाथाम् इह रेवतीभिः ।
विममर्श रोहितो विश्वरूपः ।
समाचकाणः प्ररुहो रुहश् च ।
दिवं गत्वाय महता महिम्ना ।
वि नो राष्ट्रम् उनत्तु पयसा स्वेन ।
यास् ते विशस् तपसा संबभूवुः ।
गायत्रं वत्सम् अनु तास् त आगुः ।
तास् त्वा विशन्तु महसा स्वेन ।
0 सं माता पुत्रो अभ्येतु रोहितः ।
VERSE: 3 { 2.5.2.6}
यूयम् उग्रा मरुतः पृश्निमातरः ।
इन्द्रेण सयुजा प्रमृणीथ शत्रून् ।
आ वो रोहितो अशृणोद् अभिद्यवः ।
त्रिसप्तासो मरुतः स्वादुसंमुदः ।
रोहितो द्यावापृथिवी जजान ।
तस्मिꣳस् तन्तुं परमेष्ठी ततान ।
तस्मिन्_शिश्रिये अज एकपात् ।
अदृꣳहद् द्यावापृथिवी बलेन ।
रोहितो द्यावापृथिवी अदृꣳहत् ।
0 तेन सुवः स्तभितं तेन नाकः ।
VERSE: 4 { 2.5.2.7}
सो अन्तरिक्षे रजसो विमानः ।
तेन देवाः सुवर् अन्वविन्दन् ।
सुशेवं त्वा भानवो दीदिवाꣳसम् ।
समग्रासो जुह्वो जातवेदः ।
उक्षन्ति त्वा वाजिनम् आ घृतेन ।
सꣳसम् अग्ने युवसे भोजनानि ।
अग्ने शर्ध महते सौभगाय ।
तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यꣳ सुयमम् आकृणुष्व ।
0 शत्रूयताम् अभितिष्ठा महाꣳसि ।
अनुवाक 3
VERSE: 1 { 2.5.3.8}
पुनर् न इन्द्रो मघवा ददातु ।
धनानि शक्रो घन्यः सुराधाः ।
अर्वाचीनम् कृणुतां याचितो मनः ।
श्रुष्टी नो अस्य हविषो जुषाणः ।
यानि नो जिनन् धनानि ।
जहर्थ शूर मन्युना ।
इन्द्र_अनुविन्द नस् तानि ।
अनेन हविषा पुनः ।
इन्द्र आशाभ्यः परि ।
0 सर्वाभ्यो ऽभयं करत् ।
VERSE: 2 { 2.5.3.9}
जेता शत्रून् विचर्षणिः ।
आकूत्यै त्वा कामाय त्वा समृधे त्वा ।
पुरो दधे अमृतत्वाय जीवसे ।
आकूतिम् अस्य_अवसे ।
कामम् अस्य समृद्ध्यै ।
इन्द्रस्य युञ्जते धियः ।
आकूतिं देवीं मनसः पुरो दधे ।
यज्ञस्य माता सुहवा मे अस्तु ।
यद् इच्छामि मनसा सकामः ।
0 विदेयम् एनद् धृदये निविष्टम् ।
VERSE: 3 { 2.5.3.10}
स_इद् अग्निर् अग्नीꣳर् अत्येत्य् अन्यान् ।
यत्र वाजी तनयो वीडुपाणिः ।
सहस्रपाथा अक्षरा समेति ।
आशानां त्वा_आशापालेभ्यः ।
चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्य_अध्यक्षेभ्यः ।
विधेम हविषा वयम् ।
विश्वा आशा मधुना सꣳसृजामि ।
अनमीवा आप ओषधयो भवन्तु ।
0 अयं यजमानो मृधो व्यस्यताम् ।
VERSE: 4 { 2.5.3.11}
अगृभीताः पशवः सन्तु सर्वे ।
अग्निः सोमो वरुणो मित्र इन्द्रः ।
बृहस्पतिः सविता यः सहस्री ।
पूषा नो गोभिर् अवसा सरस्वती ।
त्वष्टा रूपाणि समनक्तु यज्ञैः {आनंदा. यज्ञः} ।
त्वष्टा रूपाणि दधती सरस्वती ।
पूषा भगꣳ सविता नो ददातु ।
बृहस्पतिर् ददद् इन्द्रः सहस्रम् ।
मित्रो दाता वरुणः सोमो अग्निः ।
अनुवाक 4
VERSE: 1 { 2.5.4.12}
आ नो भर भगम् इन्द्र द्युमन्तम् ।
नि ते देष्णस्य धीमहि प्ररेके ।
उर्व इव पप्रथे कामो अस्मे ।
तम् आपृणा वसुपते वसूनाम् ।
इमं कामं मन्दया गोभिर् अश्वैः ।
चन्द्रवता राधसा पप्रथश् च ।
सुवर्यवो मतिभिस् तुभ्यं विप्राः ।
इन्द्राय वाहः कुशिकासो अक्रन् ।
इन्द्रस्य नु वीर्याणि प्रवोचम् ।
0 यानि चकार प्रथमानि वज्री ।
VERSE: 2 { 2.5.4.13}
अहन्न् अहिम् अन्व् अपस् ततर्द ।
प्र वक्षणा अभिनत् पर्वतानाम् ।
अहन्न् अहिं पर्वते शिश्रियाणम् ।
त्वष्टा_अस्मै वज्रꣳ स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमानाः ।
अञ्जः समुद्रम् अवजग्मुर् आपः ।
वृषायमाणो ऽवृणीत {आनंदा. वृणीत} सोमम् ।
त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
आ सायकं मघवा_आदत्त वज्रम् ।
0 अहन्न् एनं प्रथमजाम् अहीनाम् ।
VERSE: 3 { 2.5.4.14}
यद् इन्द्र_अहन् प्रथमजाम् अहीनाम् ।
आत् _मायिनाम् अमिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्याम् उषासम् ।
तादीक्न्ā शत्रून् न किल_आविवित्से ।
अहन् वृत्रं वृत्रतरं व्यꣳसम् ।
इन्द्रो वज्रेण महता वधेन ।
स्कन्धाꣳसि_इव कुलिशेना विवृक्णा ।
अहिः शयत उपपृक् पृथिव्याम् ।
अयोध्य् एव दुर्मद आ हि जुह्वे ।
0 महावीरं तु विबाधम् ऋजीषम् ।
VERSE: 4 { 2.5.4.15}
न_आतारीर् अस्य समृतिं वधानाम् ।
सꣳ रुजानाः ।
पिपिष इन्द्रशत्रुः ।
विश्वो विहाया अरतिः ।
वसुर् दधे हस्ते दक्षिणे ।
तरणिर् न शिश्रथत् ।
श्रवस्यया न शिश्रथत् ।
विश्वस्मा इद् इषुध्यसे ।
देवत्रा हव्यमूहिषे ।
0 विश्वस्मा इत् सुकृते वारम् ऋण्वति ।
1 अग्निर् द्वारा व्यृण्वति ।
VERSE: 5 { 2.5.4.16}
उद् उज्जिहानो अभि कामम् ईरयन् ।
प्रपृञ्चन् विश्वा भुवनानि पूर्वथा ।
आ केतुना सुषमिद्धो यजिष्ठः ।
कामं नो अग्ने अभिहर्य दिग्भ्यः ।
जुषाणो हव्यमम् ऋतेषु दूड्ह्य्àः ।
आ नो रयिं बहुला गोमतीम् इषम् ।
निधेहि यक्षद् अमृतेषु भूषन् ।
अश्विना यज्ञम् आगतम् ।
दाशुषः पुरुदꣳससा ।
0 पूषा रक्षतु नो रयिम् ।
VERSE: 6 { 2.5.4.17}
इमं यज्ञम् अश्विना वर्धयन्ता ।
इमौ रयिं यजमानाय धत्तम् ।
इमौ पशून् रक्षतां विश्वतो नः ।
पूषा नः पातु सदम् अप्रयुच्छन् ।
प्र ते महे सरस्वति ।
सुभगे वाजिनीवति ।
सत्यवाचे भरे मतिम् ।
इदं ते हव्यं घृतवत् सरस्वति ।
सत्यवाचे प्रभरेमा हवीꣳषि ।
0 इमानि ते दुरिता सौभगानि ।
1 तेभिर् वयꣳ सुभः स्याम ।
अनुवाक 5
VERSE: 1 { 2.5.5.18}
यज्ञो रायो यज्ञ ईशे वसूनाम् ।
यज्ञः सस्यानाम् उत सुक्षितीनाम् ।
यज्ञ इष्टः पूर्वचित्तिं दधातु ।
यज्ञो ब्रह्मण्वाꣳ अप्येतु देवान् ।
अयं यज्ञो वर्धतां गोभिर् अश्वैः ।
इयं वेदिः स्वपत्या सुवीरा ।
इदं बर्हिर् अति बर्हीꣳष्य् अन्या ।
इमं यज्ञं विश्वे अवन्तु देवाः ।
भग एव भगवाꣳ अस्तु देवाः ।
0 तेन वयं भगवन्तः स्याम ।
VERSE: 2 { 2.5.5.19}
तं त्वा भग सर्व इत् _ जोहवीमि ।
स नो भग पुरएता भव_इह ।
भग प्रणेतर् भग सत्यराधः ।
भग_इमां धियम् उद् अवददन् नः ।
भग प्र णो जनय गोभिर् अश्वैः ।
भग प्र नृभिर् नृवन्तः स्याम ।
शश्वतीः समा उपयन्ति लोकाः ।
शश्वतीः समा उपयन्त्य् आपः ।
इष्टं पूर्तꣳ शश्वतीनाꣳ समानाꣳ शाश्वतेन ।
0 हविषा_इष्ट्वा_अनन्तं लोकं परम् आरुरोह ।
VERSE: 3 { 2.5.5.20}
इयम् एव सा या प्रथमा व्यौच्छत् ।
सा रूपाणि कुरुते पञ्च देवी ।
द्वे स्वसारौ वयतस् तन्त्रम् एतत् ।
सनातनं विततꣳ षण्मयूखम् ।
अव_अन्याꣳस् तन्तून् किरतो धत्तो अन्यान् ।
न_अवपृज्याते न गमाते अन्तम् ।
आ वो यन्तु_उदवाहासो अद्य ।
वृष्टिं ये विश्वे मरुतो जुनन्ति ।
अयं यो अग्निर् मरुतः समिद्धः ।
0 एतं जुषध्वं कवयो युवानः ।
VERSE: 4 { 2.5.5.21}
धारावरा मरुतो धृष्णु व् ओजसः {?} ।
मृगा न भीमास् तविषेभिर् ऊर्मिभिः ।
अग्नयो न शुशुचाना ऋजीषिणः ।
भ्रुमिं धमन्त उप गा अवृण्वत ।
विचक्रमे त्रिर् देवः ।
आवेधसं नीलपृष्ठं बृहन्तम् ।
बृहस्पतिꣳ सदने सादयध्वम् ।
सादद्योनिं दम आदीदिवाꣳसम् ।
हिरण्यवर्णम् अरुषꣳ सपेम ।
0 स हि शुचिः शतपत्रः स शुन्ध्यूः ।
VERSE: 5 { 2.5.5.22}
हिरण्यवाशीर् इषिरः सुवर्षाः ।
बृहस्पतिः स स्वावेश ऋष्वाः ।
पूरू सखिभ्य आसुतिं करिष्ठः ।
पूषꣳस् तव व्रते वयम् ।
न रिष्येम कदा चन ।
स्तोतारस् त इह स्मसि ।
यास् ते पूषन् नावो अन्तः समुद्रे ।
हिरण्ययीर् अन्तरिक्षे चरन्ति ।
याभिर् यासि दूत्याꣳ सूर्यस्य ।
0 कामेन कृतः श्रव इच्छमानः ।
VERSE: 6 { 2.5.5.23}
अरण्यान्य् अरण्यान्य् असौ ।
या प्र_इव नश्यसि ।
कथा ग्रामं न पृच्छसि ।
न त्वा भीर् इव विन्दती3 ।
वृषारवाय वदते ।
यद् उपावति चिच्चिकः ।
आघाट्ī́भिर् इव धावयन् ।
अरण्यानिर् महीयते ।
उत गाव इवाऽऽदन् ।
0 उतो वेश्म_इव दृश्यते ।
VERSE: 7 { 2.5.5.24}
उतो अरण्यानिः सायम् ।
शकट्ī́र् इव सर्जति ।
गाम् अङ्ग_एष आह्वयति ।
दार्व् अङ्ग_एष उपावर्धीत् ।
वसन्न् अरण्यान्याꣳ सायम् ।
अक्रुक्षद् इति मन्यते ।
न वा अरण्यानिर् हन्ति ।
अन्यश् च_इन् न_अभिगच्छति ।
स्वादोः फलस्य जग्ध्वा ।
0 यत्र कामं निपद्यते ।
1 आञ्जनगन्धीꣳ सुरभीम् ।
2 बह्वन्नाम् अकृषीवलाम् ।
3 प्र_अहं मृगाणां मातरम् ।
4 अरण्यानीम् अशꣳसिषम् ।
अनुवाक 6
VERSE: 1 { 2.5.6.25}
वार्त्रहत्याय शवसे ।
पृतनासाह्याय च ।
इन्द्र त्वावर्तयामसि ।
सुब्रह्माणं वीरवन्तं बृहन्तम् ।
उरुं गभीरं पृथुबुध्नम् इन्द्र ।
श्रुतर्षिम् उग्रम् अभिमातिषाहम् ।
अस्मभ्यं चित्रं वृषणꣳ रयिं दाः ।
क्षेत्रियै त्वा निर्ऋत्यै { निŕ̥ऋत्यै} त्वा ।
द्रुहो मुञ्चामि वरुणस्य पाशात् ।
0 अनागसं ब्रह्मणे त्वा करोमि ।
VERSE: 2 { 2.5.6.26}
शिवे ते द्यावापृथिवी उभे इमे ।
शं ते अग्निः सह_अद्भिर् अस्तु ।
शं ते चतस्रः प्रदिशो भवन्तु ।
या दैवीश् चतस्रः प्रदिशः ।
वातपत्नीर् अभि सूर्यो विचष्टे ।
तासां त्वा जरस आदधामि ।
प्र यक्ष्म एतु निर्ऋतिं { निŕ̥ऋतिं} पराचैः ।
अमोचि यक्ष्माद् दुरिताद् अवर्त्यै ।
VERSE: 3 { 2.5.6.27}
द्रुहः पाशान् निर्ऋत्यै { निŕ̥ऋत्यै} च_उदमोचि ।
अहा अवर्तिम् अविदत् स्योनम् ।
अप्यभूद् भद्रे सुकृतस्य लोके ।
सूर्यम् ऋतं तमसो ग्राह्या यत् ।
देवा अमुञ्चन्न् असृजन् व्येनसः ।
एवम् अहम् इमं क्षेत्रियाज् जामिशꣳसात् ।
द्रुहो मुञ्चामि वरुणस्य पाशात् ।
बृहस्पते युवम् इन्द्रश् च वस्वः ।
दिव्यस्य_इशाथे उत पार्थिवस्य ।
0 धत्तꣳ रयिꣳ स्तुवते कीरये चित् ।
VERSE: 4 { 2.5.6.28}
यूयं पात स्वस्तिभिः सदा नः ।
देवायुधम् इन्द्रम् आजोहुवानाः ।
विश्वावृधम् अभि ये रक्षमाणाः ।
येन हता दीर्घम् अध्वानम् आयन् ।
अनन्तम् अर्थम् निवर्त्स्यमानाः ।
यत् ते सुजाते हिमवत्सु भेषजम् ।
मयोभूः शंतमा यद् धृदो ऽसि ।
ततो नो देहि सीबले ।
अदो गिरिभ्यो अधि यत् प्रधावसि ।
0 सꣳशोभमाना कन्या_ìव शुभ्रे ।
VERSE: 5 { 2.5.6.29}
तां त्वा मुद्गला हविषा वर्धयन्ति ।
सा नः सीबले रयिम् आभाजय_इह ।
पूर्वं देवा अपरेण_अनुपश्यञ् जन्मभिः ।
जन्म_अन्यवरैः पराणि ।
वेदानि देवा अयम् अस्मि_इति माम् ।
अहꣳ हित्वा शरीरं जरसः परस्तात् ।
प्राणापानौ चक्षुः श्रोत्रम् ।
वाचं मनसि संभृताम् ।
हित्वा शरीरं जरसः परस्तात् ।
0 आ भूतिं भूतिं वयम् अश्नवामहै ।
1 इमा एव ता उषसो याः प्रथमा व्यौच्छन् ।
2 ता देव्यः कुर्वते पञ्च रूपा ।
3 शश्वतीर् न_अवपृज्यन्ति ।
4 न गमन्त्य् अन्तम् ।
अनुवाक 7
VERSE: 1 { 2.5.7.30}
वसूनां त्वा_अधीतेन ।
रुद्राणामूर्म्या ।
आदित्यानां तेजसा ।
विश्वेषां देवानां क्रतुना ।
मरुताम् एम्ना जुहोमि स्वाहा ।
अभिभूतिर् अहम् आगमम् ।
इन्द्रसखा स्वायुधः ।
आस्स्व_आशासु { आस्वाशासु} दुष्ष्áहः ।
इदं वर्चो अग्निना दत्तम् आगात् ।
0 यशो भर्गः सह ओजो बलं च ।
VERSE: 2 { 2.5.7.31}
दीर्घायुत्वाय शतशारदाय ।
प्रतिगृभ्णामि महते वीर्याय ।
आयुर् असि विश्वायुर् असि ।
सर्वायुर् असि सर्वम् आयुर् असि ।
सर्वं म आयुर् भूयात् ।
सर्वम् आयुर् गेषम् ।
भूर् भुवः सुवः ।
अग्निर् धर्मेण_अन्नादः ।
मृत्युर् धर्मेण_अन्नपतिः ।
0 ब्रह्म क्षत्रꣳ स्वाहा ।
VERSE: 3 { 2.5.7.32}
प्रजापतिः प्रणेता ।
बृहस्पतिः पुरएता ।
यमः पन्थाः ।
चन्द्रमाः पुनरसुः स्वाहा ।
अग्निर् अन्नादो ऽन्नपतिः ।
अन्नाद्यम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
सोमो राजा राजपतिः ।
राज्यम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
वरुणः सम्राट् सम्राट्पतिः ।
0 साम्राज्यम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
VERSE: 4 { 2.5.7.33}
मित्रः क्षत्रं क्षत्रपतिः ।
क्षत्रम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
इन्द्रो बलं बलपतिः ।
बलम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
बृहस्पतिर् ब्रह्म ब्रह्मपतिः ।
ब्रह्मास्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
सविता राष्ट्रꣳ राष्ट्रपतिः ।
राष्ट्रम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
पूषा विशां विट्पतिः विशम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
0 सरस्वती पुष्टिः पुष्टिपत्नी ।
1 पुष्टिम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।
2 त्वष्टा पशूनां मिथुनानाꣳ रूपकृद् रुपपतिः ।
3 रूपेण_अस्मिन् यज्ञे यजमानाय पशून् ददातु स्वाहा ।
अनुवाक 8
VERSE: 1 { 2.5.8.34}
स ईं पाहि य ऋजीषी तरुत्रः ।
यश्श्íप्रवान् वृषभो यो मतीनाम् ।
यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः ।
स इन्द्र चित्राꣳ अभितृन्धि वाजान् ।
आ ते शुष्मो वृषभ एतु पश्चात् ।
आ_उत्तराद् अधरागा पुरस्तात् ।
आ विश्वतो अभि समेत्व् अर्वाङ् ।
इन्द्र द्युम्नꣳ सुवर्वद् धेह्य् अस्मे ।
प्रोष्व् अस्मै पुरोरथम् ।
0 इन्द्राय शूषम् अर्चत ।
VERSE: 2 { 2.5.8.35}
अभीके चिद् उ लोककृत् ।
सङ्गे समत्सु वृत्रहा ।
अस्माकं बोधि चोदिता ।
नभन्ताम् अन्यकेषाम् ।
ज्याका अधि धन्वसु ।
इन्द्रं वयꣳ शुनासीरम् ।
अस्मिन् यज्ञे हवामहे ।
आ वाजैर् उप नो गमत् ।
इन्द्राय शुनासीराय ।
0 स्रुचा जुहुत नो हविः ।
VERSE: 3 { 2.5.8.36}
जुषतां प्रति मेधिरः ।
प्र हव्यानि घृतवन्त्य् अस्मै ।
हर्यश्वाय भर्ता सजोषाः ।
इन्द्र_ऋतुभिर् ब्रह्मणा वावृधानः ।
शुनासीरी हविर् इदं जुषस्व ।
वयः सुपर्णा उपसेदुर् इन्द्रम् ।
प्रियमेधा ऋषयो नाधमानाः ।
अप ध्वान्तमूर्णुहि पूर्धि चक्षुः ।
मुमुग्ध्य् अस्मान् निधय_इव बद्धान् ।
0 बृहद् इन्द्राय गायत ।
VERSE: 4 { 2.5.8.37}
मरुतो वृत्रहन्तमम् ।
येन ज्योतिर् अजनयन्न् ऋतावृधः ।
देवं देवाय जागृवि ।
का मिहैकाः क इमे पतङ्गाः ।
मान्थालाः कुलि परि मा पतन्ति ।
अनावृता_एनान् प्रधमन्तु देवाः ।
सौपर्णं चक्षुस् तनुवा विदेय ।
एवाऽऽवन्दस्व वरुणं बृहन्तम् ।
नमस्या धीरम् अमृतस्य गोपाम् ।
0 स नः शर्म त्रिवरूथं वियꣳसत् ।
VERSE: 5 { 2.5.8.38}
यूयं पात स्वस्तिभिः सदा नः ।
नाके सुपर्णम् उप यत् पतन्तम् ।
हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतम् ।
यमस्य योनौ शकुनं भुरण्युम् ।
शं नो देवीर् अभिष्टये ।
आपो भवन्तु पीतये ।
शं योर् अभिस्रवन्तु नः ।
ईशाना वार्याणाम् ।
0 क्षयन्तीश् चर्षणीनाम् ।
VERSE: 6 { 2.5.8.39}
अपो याचामि भेषजम् ।
अप्सु मे सोमो अब्रवीत् ।
अन्तर् विश्वानि भेषजा ।
अग्निं च विश्वशंभुवम् ।
आपश् च विश्वभेषजीः ।
यद् अप्सु ते सरस्वति ।
गोष्व् अश्वेषु यन् मधु ।
तेन मे वाजिनीवति ।
मुखम् {F अङ्ग्धि} {आनंदा. अङ्ग्धि} {BI अङ्धि} { अङ्ग्धि} सरस्वति ।
0 या सरस्वती वैशम्भल्या ।
VERSE: 7 { 2.5.8.40}
तस्यां मे रास्व ।
तस्यास् ते भक्षीय ।
तस्यास् ते भूयिष्ठभाजो भूयास्म ।
अहं त्वद् अस्मि मद् असि त्वम् एतत् ।
मम_असि योनिस् तव योनिर् अस्मि ।
मम_इव सन् वह हव्यान्य् अग्ने ।
पुत्रः पित्रे लोककृत्_ जातवेदः ।
इहैव सन् तत्र सन्तं त्वा_अग्ने ।
प्राणेन वाचा मनसा बिभर्मि ।
0 तिरो मा सन्तम् आयुर् मा प्रहासीत् ।
VERSE: 8 { 2.5.8.41}
ज्योतिषा त्वा वैश्वानरेण_उपतिष्ठे ।
अयं ते योनिर् ऋत्वियः ।
यतो जातो अरोचथाः ।
तं जानन्न् अग्न आरोह ।
अथा नो वर्धया रयिम् ।
या ते अग्ने यज्ञिया तनूस् तया_इह्य् {BI तपेह्य्} आरोह_आत्मानम् {आनंदा. आरोहात्मानम्} { आरोहात्मात्मानम्} {BI आरोहात्यात्मानं} ।
अच्छा {F वसूनि} {BI वसूति} कृण्वन्न् अस्मे {BI अस्मिन्} नर्या पुरूणि ।
यज्ञो भूत्वा यज्ञम् आसीद स्वां योनिम् ।
जातवेदो भुव आजायमानः सक्षय एहि ।
0 उपावरोह जातवेदः पुनस् त्वम् ।
VERSE: 9 { 2.5.8.42}
देवेभ्यो हव्यं वह नः प्रजानन् ।
आयुः प्रजाꣳ रयिम् अस्मासु धेहि ।
अजस्रो दीदिहि नो दुरोणे ।
तम् इन्द्रं जोहवीमि ।
मघवानम् उग्रम् ।
सत्रादधानम् अप्रतिष्कुतꣳ शवाꣳसि ।
मꣳहिष्ठो गीर्भिर् आ च यज्ञियो ऽववर्तत् { ववर्तत्} ।
राये नो विश्वा सुपथा कृणोतु {आनंदा. कृणोत} वज्री ।
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् ।
0 सोमम् अपिबद् विष्णुना सुतं यथा_अवशत् ।
1 स ईं ममाद महि कर्म कर्तवे महाम् उरुम् ।
VERSE: 10 { 2.5.8.43}
सैनꣳ सश्चद् देवं देवः सत्यम् इन्दुꣳ सत्य इन्द्रः ।
विदद् यती सरमा रुग्णम् अद्रेः ।
महि पाथः पूर्व्यꣳ सध्रियक्कः ।
अग्रं नयत् सुपद्य् अक्षराणाम् ।
अच्छा रवं प्रथमा जानती गात् ।
विदद् गव्यꣳ सरमा दृढमूर्वम् ।
येना नुकं मानुसी भोजते विट् ।
आ ये विश्वा स्वपत्यानि चक्रुः ।
कृण्वानासो अमृतत्वाय गातुम् ।
0 त्वं नृभिर् नृपते देवहूतौ ।
VERSE: 11 { 2.5.8.44}
भूरीणि वृत्वा हर्यश्व हꣳसि ।
त्वं निदस्युं चुमुरिम् ।
धुनिं च_अस्वापयो दभीतये सुहन्तु ।
एवा पाहि प्रत्नथा मन्दतु त्वा ।
श्रुधि ब्रह्म वावृधस्व_उत गीर्भिः ।
आविः सूर्यं कृणुहि पीपिहीषः ।
जहि शत्रूꣳर् {आनंदा. शत्रूꣳस्} अभि गा इन्द्र तृन्धि ।
अग्ने बाधस्व वि मृधो नुदस्व ।
अप_अमीवा अप रक्षाꣳसि सेध ।
0 अस्मात् समुद्राद् बृहतो दिवो नः ।
VERSE: 12 { 2.5.8.45}
अपां भूमानम् उप नः सृज_इह ।
यज्ञ प्रतितिष्ठ सुमतौ {F सुशेवा} {आनंदा. सुशेवा} {BI सुशवा} { सेशेवा} आ त्वा ।
वसूनि पुरुधा विशन्तु ।
दीर्घम् आयुर् यजमानाय कृण्वन् ।
{F अधामृतेन} {आनंदा. अधामृतेन} {BI अथामृतेन} { अधामृतेन} जरितारम् {F अङ्ग्धि} {आनंदा. अङ्ग्धि} {BI अङ्धि} { अङ्ग्धि} ।
इन्द्रः शुनावद् वितनोति सीरम् ।
संवत्सरस्य प्रतिमाणम् एतत् ।
अर्कस्य ज्योतिस् तद् इद् आस ज्येष्ठम् ।
संवत्सरꣳ शुनवत् सीरम् एतत् ।
0 इन्द्रस्य राधः प्रयतं पुरु त्मना ।
1 तद् अर्करूपं विमिमानम् एति ।
2 द्वादश_अरे प्रतितिष्ठति_इद् वृषा ।
3 अश्वायन्तो गव्यन्तो वाजयन्तः ।
4 हवामहे त्वा_उपगन्त वा उ ।
5 आभूषन्तस् त्वा सुमतौ नवायाम् ।
6 वयम् इन्द्र त्वा शुनꣳ हुवेम ।
प्रपाठक: 6
अनुवाक 1
VERSE: 1 { 2.6.1.1}
स्वाद्वीं त्वा स्वादुना ।
तीव्रां तीव्रेण ।
अमृताम् अमृतेन ।
मधुमतीं मधुमता ।
सृजामि सꣳ सोमेन ।
सोमो ऽस्य् अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ।
परि_इतो षिञ्चता सुतम् ।
0 सोमो य उत्तमꣳ हविः ।
VERSE: 2 { 2.6.1.2}
दधन्वा[दधन्वान्?] यो नर्यो अप्स्व् अन्तर् आ ।
सुषव सोमम् अद्रिभिः ।
पुनातु ते परिस्रुतम् ।
सोमꣳ सूर्यस्य दुहिता ।
वारेण शश्वता तना ।
वायुः पूतः पवित्रेण ।
प्राङ् सोमो अतिद्रुतः ।
VERSE: 3 { 2.6.1.3}
इन्द्रस्य युज्यः सखा ।
ब्रह्म क्षत्रं पवते तेज इन्द्रियम् ।
सुरया सोमः सुत आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि ।
रसेन_अन्नं यजमानाय धेहि ।
कुविद् अङ्ग यवमन्तो यवं चित् ।
यथा दान्त्य् अनुपूर्वं वियूय ।
इह_इहैषां कृणुत भोजनानि ।
ये बर्हिषो नमोवृक्तिं न जग्मुः ।
0 उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा जुष्टं गृह्णामि ।
VERSE: 4 { 2.6.1.4}
सरस्वत्या इन्द्राय सुत्राम्णे ।
एष ते योनिस् तेजसे त्वा ।
वीर्याय त्वा बलाय त्वा ।
तेजो ऽसि तेजो मयि धेहि ।
वीर्यम् असि वीर्यं मयि धेहि ।
बलम् असि बलं मयि धेहि ।
नाना हि वां देवहितꣳ सदः कृतम् ।
मा सꣳसृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम एषः ।
0 मा मा हिꣳसीः स्वां योनिम् आविशन् ।
VERSE: 5 { 2.6.1.5}
उपयामगृहीतो ऽस्य् आश्विनं तेजः ।
सारस्वतं वीर्यम् ।
ऐन्द्रं बलम् ।
एष ते योनिर् मोदाय त्वा ।
आनन्दाय त्वा महसे त्वा ।
ओजो ऽस्य् ओजो मयि धेहि ।
मन्युर् असि मन्युं मयि धेहि ।
महो ऽसि महो मयि धेहि ।
सहो ऽसि सहो मयि धेहि ।
0 या व्याघ्रं विषूचिका ।
1 उभौ वृकं च रक्षति ।
2 श्येनं पतत्रिणꣳ सिꣳहम् ।
3 सा_इमं पात्व् अꣳहसः ।
4 संपृचः स्थ {ड्युमोण्ट संपृच स्थ} सं मा भद्रेण पृङ्क्त ।
5 विपृचः स्थ {ड्युमोण्ट विपृच स्थ} वि मा पाप्मना पृङ्क्त ।
अनुवाक 2
VERSE: 1 { 2.6.2.6}
सोमो राजा_अमृतꣳ सुतः ।
ऋजीषेण_अजहान् मृत्युम् ।
ऋतेन सत्यम् इन्द्रियम् ।
विपानꣳ शुक्रम् अन्धसः ।
इन्द्रस्य_इन्द्रियम् ।
इदं पयो ऽमृतं मधु ।
सोमम् अद्भ्यो व्यपिबत् ।
छन्दसा हꣳसः शुचिषत् ।
ऋतेन सत्यम् इन्द्रियम् ।
0 अद्भ्यः क्षीरं व्यपिबत् ।
VERSE: 2 { 2.6.2.7}
क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यम् इन्द्रियम् ।
अन्नात् परिस्रुतो रसम् ।
ब्रह्मणा व्यपिबत् क्षत्रम् ।
ऋतेन सत्यम् इन्द्रियम् ।
रेतो मूत्रं विजहाति ।
योनिं प्रविशद् इन्द्रियम् ।
गर्भो जरायुणा_आवृतः ।
उल्बं जहाति जन्मना ।
0 ऋतेन सत्यम् इन्द्रियम् ।
VERSE: 3 { 2.6.2.8}
वेदेन रूपे व्यकरोत् ।
सतासती प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियम् ।
सोमेन सोमौ व्यपिबत् ।
सुतासुतौ प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियम् ।
दृष्ट्वा रूपे व्याकरोत् ।
सत्यानृते प्रजापतिः ।
अश्रद्धाम् अनृते ऽदधात् ।
0 श्रद्धाꣳ सत्ये प्रजापतिः ।
1 ऋतेन सत्यम् इन्द्रियम् ।
2 दृष्ट्वा परिस्रुतो रसम् ।
3 शुक्रेण शुक्रं व्यपिबत् ।
4 पयः सोमं प्रजापतिः ।
5 ऋतेन सत्यम् इन्द्रियम् ।
6 विपानꣳ शुक्रम् अन्धसः ।
7 इन्द्रस्य_इन्द्रियम् ।
8 इदं पयो ऽमृतं मधु ।
अनुवाक 3
VERSE: 1 { 2.6.3.9}
{अ} सुरावन्तं बर्हिषदꣳ सुवीरम् ।
यज्ञꣳ हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु ।
मदेम_इन्द्रं यजमानाः स्वर्काः ।
{ब्} यस् ते रसः संभृत ओषधीषु ।
सोमस्य शुष्मः सुरया सुतस्य ।
तेन जिन्व यजमानं मदेन ।
सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ।
{च्} यम् अश्विना नमुचेर् आसुराद् अधि ।
0 सरस्वत्य् असनोद् इन्द्रियाय ।
VERSE: 2 { 2.6.3.10}
इमं तꣳ शुक्रं मधुमन्तम् इन्दुम् ।
सोमꣳ राजानम् इह भक्षयामि ।
{द्} यद् अत्र रिप्तꣳ रसिनः सुतस्य ।
यद् इन्द्रो अपिबत्_शचीभिः ।
अहं तद् अस्य मनसा शिवेन ।
सोमꣳ राजानम् इह भक्षयामि ।
{ए} पितृभ्यः स्वधाविभ्यः स्वधा नमः ।
पितामहेभ्यः स्वधाविभ्यः स्वधा नमः ।
प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नमः ।
0 अक्षन् पितरः ।
VERSE: 3 { 2.6.3.11}
अमीमदन्त पितरः ।
अतीतृपन्त पितरः ।
अमीमृजन्त पितरः ।
पितरः शुन्धध्वम् ।
{f} पुनन्तु मा पितरः सोम्यासः ।
पुनन्तु मा पितामहाः ।
पुनन्तु प्रपितामहाः ।
पवित्रेण शत_आयुषा ।
{ग्} पुनन्तु मा पितामहाः ।
0 पुनन्तु प्रपितामहाः ।
VERSE: 4 { 2.6.3.12}
पवित्रेण शत_आयुषा ।
विश्वम् आयुर् व्यश्नवै ।
{ह्} अग्न आयूꣳषि पवसे, {इ} ऽग्ने पवस्व ।
{ज्} पवमानः सुवर्जनः, {क्} पुनन्तु मा देवजनाः ।
{ल्} जातवेदः पवित्रवद्, {म्} यत् ते पवित्रम् अर्चिषि ।
{न्} उभाभ्यां देव सवितर्, {ओ} वैश्वदेवी पुनती ।
{प्} ये समानाः समनसः ।
पितरो यमराज्ये ।
तेषां लोकः स्वधा नमः ।
0 यज्ञो देवेषु कल्पताम् ।
VERSE: 5 { 2.6.3.13)
{q} ये सजाताः समनसः ।
जीवा जीवेषु मामकाः ।
तेषाꣳ श्रीर् मयि कल्पताम् ।
अस्मिन्_लोके शतꣳ समाः ।
{र्} द्वे स्रुती अशृणवं पितृणाम् ।
अहं देवानाम् उत मर्त्यानाम् ।
याभ्याम् {ड्युमोण्ट ताभ्याम्} इदं विश्वम् एजत् समेति ।
यद् अन्तरा पितरं मातरं च ।
{स्} इदꣳ हविः प्रजननं मे अस्तु ।
0 दशवीरꣳ सर्वगणꣳ स्वस्तये ।
1 आत्मसनि प्रजासनि ।
2 पशुसन्य् अभयसनि लोकसनि ।
3 अग्निः प्रजां बहुलां मे करोतु ।
4 अन्नं पयो रेतो अस्मासु धत्त ।
5 रायस् पोषम् इषमूर्जम् अस्मासु दीधरत् स्वाहा ।
अनुवाक 4
VERSE: 1 { 2.6.4.14}
{अ} सीसेन तन्त्रं मनसा मनीषिणः ।
ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञꣳ सविता सरस्वती ।
इन्द्रस्य रूपं वरुणो भिषज्यन् ।
{ब्} तद् अस्य रूपम् अमृतꣳ शचीभिः ।
तिस्रो दधुर् देवताः सꣳरराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिः ।
त्वग् अस्य माꣳसम् अभवन्न लाजाः ।
{च्} तद् अश्विना भिषजा रुद्रवर्तनी ।
0 सरस्वती वयति पेशो अन्तरः {ड्युमोण्ट अन्तरम् च्f. Vष्.19.82} ।
VERSE: 2 { 2.6.4.15}
अस्थि मज्जानं मासरैः ।
कारोतरेण दधतो गवां त्वचि ।
{द्} सरस्वती मनसा पेशलं वसु ।
नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुता न रोहितम् ।
नग्नहुर् धीरस् तसरं न वेम ।
{ए} पयसा शुक्रम् अमृतं जनित्रम् ।
सुरया मूत्राज् जनयन्ति रेतः ।
अप_अमतिं दुर्मतिं बाधमानाः ।
0 ऊवध्यं वातꣳ सबुवं तद् आरात् ।
VERSE: 3 { 2.6.4.16}
{f} इन्द्रः सुत्रामा हृदयेन सत्यम् ।
पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन् {आनंदा. भिषज्यन्} ।
मतस्ने वायव्यैर् न मिनाति पित्तम् ।
{ग्} आन्त्राणि स्थाली मधु पिन्वमाना ।
गुदा {ड्युमोण्ट गुदाः} पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्रं न प्लीहा शचीभिः ।
आसन्दी नाभिर् उदरं न माता ।
{ह्} कुम्भो वनिष्ट्हुर् जनिता शचीभिः ।
0 यस्मिन्न् अग्रे योन्यां गर्भो अन्तः ।
VERSE: 4 { 2.6.4.17}
प्लाशीर् व्यक्तः शतधार उत्सः ।
दुहे न कुम्भीꣳ स्वधां पितृभ्यः ।
{इ} मुखꣳ सद् अस्य शिर इत् सदेन {ड्युमोण्ट सतेन} ।
जिह्वा पवित्रम् अश्विना सꣳ सरस्वती ।
चप्यं { चप्पं} न पायुर् भिषग् अस्य वालः ।
वस्तिर् न शेपो हरसा तरस्वी ।
{ज्} अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्याम् ।
छागेन तेजो हविषा शृतेन ।
पक्ष्माणि गोधूमैः क्वलैर् उतानि ।
0 पेशो न शुक्लम् असितं वसाते ।
VERSE: 5 {!} { 2.6.4.18}
{क्} अविर् न मेषो नसि वीर्याय ।
प्राणस्य पन्था अमृतो ग्रहाभ्याम् ।
सरस्वत्य् उप वाकैर् व्यानम् ।
नस्यानि बर्हिर् बदरैर्जजान ।
{ल्} इन्द्रस्य रूपम् ऋषभो बलाय ।
कर्णभ्याꣳ श्रोत्रम् अमृतं ग्रहाभ्याम् ।
यवा न बर्हिर् भ्रुवि केसराणि ।
कर्कन्धु { कर्कन्दु} जज्ञे मधु सारघं मुखात् ।
{म्} आत्मन्न् उपस्थे न वृकस्य लोम ।
0 मुखे श्मश्रूणि न व्याघ्रलोमम् {ड्युमोण्ट व्याघ्रलोमन्} ।
VERSE: 6 {!} { 2.6.4.19}
केशा न शीर्षन् यशसे श्रियै शिखा ।
सिꣳहस्य लोम त्विषिर् इन्द्रियाणि ।
{न्} अङ्गान्य् आत्मन् भिषजा तद् अश्विना ।
आत्मानम् अङ्गैः समधात् सरस्वती ।
इन्द्रस्य रूपꣳ शतमानम् आयुः ।
चन्द्रेण ज्योतिर् अमृतं दधाना ।
{ओ} सरस्वती योन्यां गर्भम् अन्तः ।
अश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपाꣳ रसेन वरुणो न साम्ना ।
0 इन्द्रꣳ श्रियै जनयन्न् अप्सु राजा ।
1 {प्} तेजः पशूनाꣳ हविर् इन्द्रियावत् ।
2 परिस्रुता पयसा सारघं मधु ।
3 अश्विभ्यां दुग्धं भिषजा सरस्वत्या, सुतासुताभ्याम् {।} अमृतः सोम इन्दुः ।
अनुवाक 5
VERSE: 1 { 2.6.5.20}
{अ} मित्रो ऽसि वरुणो ऽसि ।
{ब्} सम् अहं विश्वैर् देवैः ।
{च्} क्षत्रस्य नाभिर् असि ।
क्षत्रस्य योनिर् असि ।
{द्} स्योनाम् आसीद ।
सुषदाम् आसीद ।
{ए} मा त्वा हिꣳसीत् ।
मा मा हिꣳसीत् ।
{f} निषसाद धृतव्रतो वरुणः ।
0 पस्त्यास्व् आ ।
VERSE: 2 { 2.6.5.21}
साम्राज्याय सुक्रतुः ।
{ग्} देवस्य त्वा सवितुः प्रसवे ।
अश्विनोर् बाहुभ्याम् ।
पूष्णो हस्ताभ्याम् ।
अश्विनोर् भैषज्येन ।
तेजसे ब्रह्मवर्चसाय_अभिषिञ्चामि ।
{ह्} देवस्य त्वा सवितुः प्रसवे ।
अश्विनोर् बाहुभ्याम् ।
पूष्णो हस्ताभ्याम् ।
0 सरस्वत्यै भैषज्येन ।
VERSE: 3 { 2.6.5.22}
वीर्याय_अन्नाद्याय_अभिषिञ्चामि ।
{इ} देवस्य त्वा सवितुः प्रसवे ।
अश्विनोर् बहुभ्याम् ।
पूष्णो हस्ताभ्याम् ।
इन्द्रस्य_इन्द्रियेण ।
श्रियै यशसे बलाय_अभिषिञ्चामि ।
{ज्} को ऽसि कतमो ऽसि ।
कस्मै त्वा काय त्वा ।
{क्} सुश्लोका3ꣳ { सुश्लोका4ꣳ} सुमङ्गला3ꣳ { सुमङ्गला4ꣳ} सत्यराजा3न् ।
0 {ल्} शिरो मे श्रीः ।
VERSE: 4 { 2.6.5.23}
यशो मुखम् ।
त्विषिः केशाश् च श्मश्रूणि ।
राजा मे प्राणो ऽमृतम् ।
सम्राट् चक्षुः ।
विराज्_श्रोत्रम् ।
जिह्वा मे भद्रम् ।
वाङ् महः ।
मनो मन्युः ।
स्वराड् भामः ।
0 मोदाः प्रमोदा अङ्गुलीर् अङ्गानि ।
VERSE: 5 { 2.6.5.24}
चित्तं मे सहः ।
बाहू मे बलम् इन्द्रियम् ।
हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रम् उरो मम ।
पृष्टीर् मे राष्ट्रम् उदरम्, अꣳसौ {।} ग्रीवाश् च श्रोण्यौ ।
ऊरू अरत्नी जानुनी ।
विशो मे ऽङ्गानि सर्वतः ।
नाभिर् मे चित्तं विज्ञानम् ।
पायुर् मे ऽपचितिर् भसत् ।
VERSE: 6 { 2.6.5.25}
आनन्दनन्दाव् आण्डौ मे ।
भगः सौभाग्यं पसः ।
{म्} जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि ।
विशि राजा प्रतिष्ठितः ।
{न्} प्रति क्षत्रे प्रतितिष्ठति राष्ट्रे ।
प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु ।
प्रत्य् अङ्गेषु प्रतितिष्ठाम्य् आत्मन् ।
प्रति प्राणेषु प्रतितिष्ठामि पुष्टे ।
प्रति द्यावापृथिव्योः ।
0 प्रतितिष्ठामि यज्ञे ।
VERSE: 7 { 2.6.5.26}
{ओ} त्रया देवा एकादश ।
त्रयस्त्रिꣳशाः सुराधसः ।
बृहस्पतिपुरोहिताः ।
देवस्य सवितुः सवे ।
देवा देवैर् अवन्तु मा ।
प्रथमा द्वितीयैः ।
द्वितीयास् तृतीयैः ।
तृतीयाः सत्येन ।
सत्यं यज्ञेन ।
0 यज्ञो यजुर्भिः ।
VERSE: 8 { 2.6.5.27}
यजूꣳषि सामभिः ।
सामान्य् ऋग्भिः ।
ऋचो याज्याभिः ।
याज्या वषट्कारैः ।
वषट्कारा आहुतिभिः ।
आहुतयो मे कामान्त् समर्धयन्तु ।
भूः स्वाहा ।
{प्} लोमानि प्रयतिर् मम ।
त्वङ् म आनतिर् आगतिः ।
0 माꣳसं म उपनतिः वस्व् अस्थि ।
1 मज्जा म आनतिः ।
अनुवाक 6
VERSE: 1 { 2.6.6.28}
{अ} यद् देवा देवहेडनम् ।
देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसः ।
विश्वान् मुञ्चत्व् अꣳहसः ।
{ब्} यदि दिवा यदि नक्तम् ।
एनाꣳसि चकृमा वयम् ।
वायुर् मा तस्माद् एनसः ।
विश्वान् मुञ्चत्व् अꣳहसः ।
{च्} यदि जाग्रद् यदि स्वप्ने ।
0 एनाꣳसि चकृमा वयम् ।
VERSE: 2 { 2.6.6.29}
सूर्यो मा तस्माद् एनसः ।
विश्वान् मुञ्चत्व् अꣳहसः ।
{द्} यद् ग्रामे यद् अरण्ये ।
यत् सभायां यद् इन्द्रिये ।
यत्_शूद्रे यद् अर्ये ।
एनश् चकृमा वयम् ।
यद् एकस्य_अधि धर्मणि ।
{एनश् चकृमा वयम् ।
यदेकस्याधि धर्मणि} ।
0 तस्य_अवयजनम् असि ।
1 {ए} यद् आपो अघ्निया वरुण_इति शपामहे ।
2 ततो वरुण नो मुञ्च ।
VERSE: 3 { 2.6.6.30}
{f} अवभृथ निचङ्कुण निचेरुर् असि निचङ्कुण ।
अव देवैर् देवकृतम् एनो ऽयाट् ।
अव मर्त्यैर् मर्त्यकृतम् ।
उरोर् आ नो देव रिषस् पाहि ।
{ग्} सुमित्रा न आप ओषधयः सन्तु ।
दुर्मित्रास् तस्मै भुयासुः ।
यो ऽस्मान् द्वेष्टि ।
यं च वयं द्विष्मः ।
{ह्} द्रुपदाद् इव_इन् मुमुचानः ।
0 स्विन्नः स्रात्वी मलाद् इव ।
VERSE: 4 { 2.6.6.31}
पूतं पवित्रेण_इव_आज्यम् ।
आपः शुन्धन्तु मा_एनसः ।
{इ} उद् वयं तमसस् परि ।
पश्यन्तो ज्योतिर् उत्तरम् ।
देवं देवत्रा सूर्यम् ।
अगन्म ज्योतिर् उत्तमम् ।
{ज्} प्रतियुतो वरुणस्य पाशः ।
प्रत्यस्तो वरुणस्य पाशः ।
{क्} एधो ऽस्य् एधिषीमहि ।
0 समिद् असि ।
VERSE: 5 { 2.6.6.32}
तेजो ऽसि तेजो मयि धेहि ।
{ल्} अपो अन्वचारिषम् ।
रसेन समसृक्ष्महि ।
पयस्वाꣳ अग्न आगमम् ।
तं मा सꣳसृज वर्चसा ।
प्रजया च धनेन च ।
{म्} समाववर्ति पृथिवी ।
सम् उषाः ।
सम् उ सूर्यः ।
0 सम् उ विश्वाम् इदं जगत् ।
1 वैश्वानरज्योतिर् भूयासम् ।
2 विभुं कामं व्यश्नवै ।
3 {न्} भूः स्वाहा ।
अनुवाक 7
VERSE: 1 { 2.6.7.33}
{अ} होता यक्षत् समिधा_इन्द्रम् इडस् पदे ।
नाभा पृथिव्या अधि ।
दिवो वर्ष्मन्त् समिध्यते ।
ओजिष्ठश् चर्षणीसहान् {ड्युमोण्ट चर्षनीसहम्} ।
वेत्व् आज्यस्य होतर् यज ।
{ब्} होता यक्षत् तनूनपातम् ।
ऊतिभिर्, जेतारम् अपराजितम् ।
इन्द्रं देवꣳ सुवर्विदम् ।
पथिभिर् मधुमत्तमैः ।
0 नराशꣳसेन तेजसा ।
VERSE: 2 { 2.6.7.34}
वेत्व् आज्यस्य होतर् यज ।
{च्} होता यक्षद् इडाभिर् इन्द्रम् ईडितम् ।
आजुह्वानम् अमर्त्यम् ।
देवो देवैः सवीर्यः ।
वज्रहस्तः पुरंदरः ।
वेत्व् आज्यस्य होतर् यज ।
{द्} होता यक्षद् बर्हिषि_इन्द्रं निषद्वरम् ।
वृषभं नर्यापसम् ।
वसुभी रुद्रैर् आदित्यैः ।
0 सयुग्भिर् बर्हिर् आसदत् ।
VERSE: 3 { 2.6.7.35}
वेत्व् आज्यस्य होतर् यज ।
{ए} होता यक्षद् ओजो न वीर्यम् ।
सहो, द्वार इन्द्रम् अवर्धयन् ।
सुप्रायणा विश्रयन्ताम् ऋतावृधः ।
द्वार इन्द्राय मीढुषे ।
वियन्त्व् आज्यस्य होतर् यज ।
{f} होता यक्षद् उषे इन्द्रस्य धेनू ।
सुदुघे मातरौ मही ।
सवातरौ {,आनंदा. सवातरौ} न तेजसी ।
0 वत्सम् इन्द्रम् अवर्धताम् ।
VERSE: 4 {!} { 2.6.7.36}
वीताम् आज्यस्य होतर् यज ।
{ग्} होता यक्षद् दैवया होतारा ।
भिषजा सखाया ।
हविषा_इन्द्रं भिषज्यतः, कवी देवौ प्रचेतसौ ।
इन्द्राय धत्त इन्द्रियम् ।
वीताम् आज्यस्य होतर् यज ।
{ह्} होता यक्षत् तिस्रो देवीः ।
त्रयस् त्रिधातवो ऽपसः ।
इडा सरस्वती भारती ।
VERSE: 5 {!} { 2.6.7.37}
मही,_इन्द्रपत्नीर् हविष्मतीः ।
वियन्त्व् आज्यस्य होतर् यज ।
{ज्} होता यक्षत् त्वष्टारम् इन्द्रं देवम् ।
भिषजꣳ सुयजं घृतश्रियम् ।
पुरुरूपꣳ सुरेतसं मघोनिम् ।
इन्द्राय त्वष्टा दधद् इन्द्रियाणि ।
वेत्व् आज्यस्य होतर् यज ।
{ज्} होता यक्षद् वनस्पतिम् शमितारꣳ शतक्रतुम् ।
धियो जोष्टारम् इन्द्रियम् ।
VERSE: 6 {!} { 2.6.7.38}
मध्वा समञ्जन् पथिभिः सुगेभिः ।
स्वदाति हव्यं मधुना घृतेन ।
वेत्व् आज्यस्य होतर् यज ।
{क्} होता यक्षद् इन्द्रꣳ स्वाहा_आज्यस्य ।
स्वाहा मेदसः ।
स्वाहा स्तोकानाम् ।
स्वाहा स्वाहाकृतीनाम् ।
स्वाहा हव्यसूक्तीनाम् ।
स्वाहा देवाꣳ आज्यपान् ।
0 स्वाहा,_इन्द्रꣳ होत्राज् जुषाणाः ।
1 इन्द्र_आज्यस्य {,आनंदा. इन्द्र आज्यस्य} वियन्तु ।
2 होतर् यज ।
अनुवाक 8
VERSE: 1 { 2.6.8.39}
{अ} समिद्ध इन्द्र उषसाम् अनीके ।
पुरोरुचा पूर्वकृद् वावृधानः ।
त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुः ।
जघान वृत्रं वि दुरो ववार ।
{ब्} नराशꣳसः प्रति शूरो मिमानः ।
तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर् वपावान् मधुना समञ्जन् ।
हिरण्यैश् चन्द्री यजति प्रचेताः ।
{च्} ईडितो देवैर् हरिवाꣳ अभिष्टिः ।
0 आजुह्वानो हविषा शर्धमानः ।
VERSE: 2 { 2.6.8.40}
पुरंदरो मघवान् वज्रबाहुः ।
आयातु यज्ञम् उप नो जुषाणः ।
{द्} जुषाणो बर्हिर् हरिवान् न इन्द्रः ।
प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः ।
उरुव्यचाः प्रथमानꣳ स्योनम् ।
आदित्यैर् अक्तं वसुभिः सजोषाः ।
{ए} इन्द्रं दुरः कवष्यो धावमानाः ।
वृषाणं यन्तु जनयः सुपत्नीः ।
द्वारो देवीर् अभितो विश्रयन्ताम् ।
0 सुवीरा वीरं प्रथमाना महोभिः ।
VERSE: 3 { 2.6.8.41}
{f} उषासानक्ता बृहती बृहन्तम् ।
पयस्वती सुदुघे शूरम् इन्द्रम् ।
पेशस्वती तन्तुना संव्ययन्ती ।
देवानां देवं यजतः सुरुक्मे ।
{ग्} दैव्या मिमाना मनसा पुरुत्रा ।
होताराव् इन्द्रं प्रथमा सुवाचा ।
मूर्धन् यज्ञस्य मधुना दधाना ।
प्राचीनं ज्योतिर् हविषा वृधातः ।
{ह्} तिस्रो देवीर् हविषा वर्धमानाः ।
0 इन्द्रं जुषाणा वृषणं न पत्नीः ।
VERSE: 4 { 2.6.8.42}
अच्छिन्नं तन्तुं पयसा सरस्वती ।
इडा देवी भारती ।
विश्वतूर्तिः ।
{इ} त्वष्टा दधद् इन्द्राय शुष्मम् ।
अपाको ऽर्चिष्टुर् यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेताः ।
मूर्धन् यज्ञस्य समनक्तु देवान् ।
{ज्} वनस्पतिर् अवसृष्टो न पाशैः ।
त्मन्या समञ्जन्_शमिता न देवः ।
0 इन्द्रस्य हव्यैर् जठरं पृणानः ।
1 स्वदाति हव्यं मधुना घृतेन ।
2 {क्} स्तोकानाम् इन्दुं प्रति शूर इन्द्रः ।
3 वृषायमाणो वृषभस् तुराषाट् ।
4 घृतप्रुषा मधुना हव्यम् उन्दन् ।
5 मूर्धन् यज्ञस्य जुषताꣳ स्वाहा ।
अनुवाक 9
VERSE: 1 { 2.6.9.43}
{अ} आ चर्षणिप्रा, {ब्} विवेष यन् मा ।
{च्} तꣳ सध्रीचीः ।
{द्} सत्यम् इत् तन् न त्वावाꣳ अन्यो अस्ति ।
इन्द्र देवो न मर्त्यो ज्यायान् ।
अहन्न् अहिं परिशयानम् अर्णः ।
अवासृजो ऽपो अच्छा समुद्रम् ।
{ए} प्रससाहिषे पुरुहूत शत्रून् ।
ज्येष्ठस् ते शुष्म इह रातिर् अस्तु ।
इन्द्र_आभर दक्षिणेना वसूनि ।
0 पतिः सिन्धूनाम् असि रेवतीनाम् ।
1 {f} स शेवृधम् अधिधा द्युम्नम् अस्मे ।
2 महि क्षत्रं जनाषाड् इन्द्र तव्यम् ।
3 रक्षा च नो मघोनः पाहि सूरीन् ।
4 राये च नः स्वपत्या इषे धाः ।
अनुवाक 10
VERSE: 1 { 2.6.10.44}
{अ} देवं बर्हिर् इन्द्रꣳ सुदेवं देवैः ।
वीरवत्स्त्īर्णं वेद्याम् अवर्धयत् ।
वस्तोर् वृतं {ड्युमोण्ट वृक्तं} प्र_अक्तोर् भृतम् ।
राया बर्हिष्मतो ऽत्यगात् ।
वसुवने वसुधेयस्य वेतु यज ।
{ब्} देवीर् द्वार इन्द्रꣳ संघाते ।
विड्वीर् यामन्न् अवर्धयन् ।
आ वत्सेन तरुणेन कुमारेण च मीविता अप_अर्वाणम् ।
रेणुककाटं नुदन्ताम् ।
0 वसुवने वसुधेयस्य वियन्तु यज ।
VERSE: 2 { 2.6.10.45}
{च्} देवी उषासानक्ता ।
इन्द्रं यज्ञे प्रयत्य् अह्वेताम् ।
दैवीर् विशः प्रायासिष्टाम् ।
सुप्रीते सुधिते अभूताम् ।
वसुवने वसुधेयस्य वीतां यज ।
{द्} देवी जोष्ट्री वसुधिती ।
देवम् इन्द्रम् अवर्धताम् ।
अयाव्य् अन्या_अघा द्वेषाꣳसि ।
आ_अन्या_अवाक्षीद् वसु वार्याणि ।
0 यजमानाय शिक्षिते ।
VERSE: 3 { 2.6.10.46}
वसुवने वसुधेयस्य वीतां यज ।
{ए} देवी ऊर्जाहुती दुघे सुदुघे ।
पयसा_इन्द्रम् अवर्धताम् ।
इषमूर्जम् अन्या_अवाक्षीत् ।
सग्धिꣳ सपीतिम् अन्या ।
नवेन पूर्वं दयमाने ।
पुराणेन नवम् ।
अधातामूर्जमूर्जाहुती वसु वार्याणि ।
यजमानाय शिक्षिते ।
0 वसुवने वसुधेयस्य वीतां यज ।
VERSE: 4 { 2.6.10.47}
{f} देवा दैव्या होतारा ।
देवम् इन्द्रम् अवर्धताम् ।
हताघशꣳसाव् आभार्ष्टां वसु वार्याणि ।
यजमानाय शिक्षितौ ।
वसुवने वसुधेयस्य वीतां यज ।
{ग्} देवीस् तिस्रस् तिस्रो देवीः ।
पतिम् इन्द्रम् अवर्धयन् ।
अस्पृक्षद् भारती दिवम् ।
रुद्रैर् यज्ञꣳ सरस्वती ।
0 इडा वसुमती गृहान् ।
VERSE: 5 { 2.6.10.48}
वसुवने वसुधेयस्य वियन्तु यज ।
{ह्} देव इन्द्रो नराशꣳसः ।
त्रिवरूथस् त्रिवन्धुरः ।
देवम् इन्द्रम् अवर्धयत् ।
शतेन शितिपृष्ठानाम् आहितः ।
सहस्रेण प्रवर्तते ।
मित्रावरुणा_इद् अस्य होत्रम् अर्हतः ।
बृहस्पतिः स्तोत्रम् ।
अश्विना_आध्वर्यवम् ।
0 वसुवने वसुधेयस्य वेतु यज ।
VERSE: 6 { 2.6.10.49}
{इ} देव इन्द्रो वनस्पतिः ।
हिरण्यपर्णो मधुशाखः सुपिप्पलः ।
देवम् इन्द्रम् अवर्धयत् ।
दिवम् अग्रेण_आप्रात् ।
आ_अन्तरिक्षं पृथिवीम् अदृꣳहीत् ।
वसुवने {।} वसुधेयस्य वेतु यज ।
{ज्} देवं बर्हिर् वारितीनाम् ।
देवम् इन्द्रम् अवर्धयत् ।
स्वासस्थम् इन्द्रेण_आसन्नम् ।
0 अन्या बर्हीꣳष्य् अभ्यभूत् ।
1 वसुवने वसुधेयस्य वेतु यज ।
2 {क्} देवो अग्निः स्विष्टकृत् ।
3 देवम् इन्द्रम् अवर्धयत् ।
4 स्विष्टं कुर्वन्त् स्विष्टकृत् ।
5 स्विष्टम् अद्य करोतु नः ।
6 वसुवने वसुधेयस्य वेतु यज { जय} ।
अनुवाक 11
VERSE: 1 { 2.6.11.50}
{अ} होता यक्षत् समिधा_अग्निम् इडस् पदे ।
अश्विना_इन्द्रꣳ सरस्वतीम् ।
अजो धूमो न गोधूमैः क्वलैर् भेषजम् ।
मधु शष्पैर् न तेज इन्द्रियम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{ब्} होता यक्षत् तनूनपात्_सरस्वती ।
अविर् मेषो न भेषजम् ।
पथा मधुमता_आभरन् ।
0 अश्विना_इन्द्राय वीर्यम् ।
VERSE: 2 { 2.6.11.51}
बदरैर् उपवाकाभिर् भेषजं तोक्मभिः ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{च्} होता यक्षन् नराशꣳसं न नग्नहुम् ।
पतिꣳ सुरायै भेषजम् ।
मेषः सरस्वती भिषक् ।
रथो न चन्द्र्य् अश्विनोर् वपा इन्द्रस्य वीर्यम् ।
बदरैर् उपवाकाभिर् भेषजं तोक्मभिः ।
पयः सोमः परिस्रुता घृतं मधु ।
0 वियन्त्व् आज्यस्य होतर् यज ।
VERSE: 3 { 2.6.11.52}
{द्} होता यक्षद् इडा_इडित आजुह्वानः सरस्वतीम् ।
इन्द्रं बलेन वर्धयन् ।
ऋसभेण गवा_इन्द्रियम् ।
अश्विना_इन्द्राय वीर्यम् ।
यवैः कर्कन्धुभिः ।
मधु लाजैर् न मासरम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{ए} होता यक्षद् बर्हिः, सुष्टरीमो ऽर्णम्रदाः ।
0 भिषङ्, नासत्या ।
VERSE: 4 { 2.6.11.53}
भिषजा_अश्विना,_अश्वा शिशुमती ।
भिषग्, धेनुः सरस्वती ।
भिषग्, दुह इन्द्राय भेषजम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{f} होता यक्षद् दुरो दिशः ।
कवष्यो न व्यचस्वतीः ।
अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी दुघे ।
0 दुहे कामान्त् सरस्वती ।
VERSE: 5 { 2.6.11.54}
अश्विना_इन्द्राय भेषजम् ।
शुक्रं न ज्योतिर् इन्द्रियम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{ग्} होता यक्षत् सुपेशसोषे नक्तं दिवा ।
अश्विना संजानाने ।
समञ्जाते सरस्वत्या ।
त्विषिम् इन्द्रे न भेषजम् ।
श्येनो न रजसा हृदा ।
0 पयः सोमः परिस्रुता घृतं मधु ।
VERSE: 6 { 2.6.11.55}
वियन्त्व् आज्यस्य होतर् यज ।
{ह्} होता यक्षद् दैव्या होतारा भिषजा_अश्विना ।
इन्द्रं न जागृवी दिवा नक्तं न भेषजैः ।
शूषꣳ सरस्वती भिषक् ।
सीसेन दुह इन्द्रियम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{इ} होता यक्षत् तिस्रो देवीर्न्á भेषजम् ।
त्रयस् त्रिधातवो ऽपसः ।
0 रूपम् इन्द्रे हिरण्ययम् ।
VERSE: 7 { 2.6.11.56}
अश्विना_इडा न भारती ।
वाचा सरस्वती ।
मह, इन्द्राय दधुर् इन्द्रियम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{ज्} होता यक्षत् त्वष्टारम् इन्द्रम् अश्विना ।
भीषजं न सरस्वतीम् ।
ओजो न जूतिर् इन्द्रियम् ।
वृको न रभसो भिषक् ।
0 यशः सुरया भेषजम् ।
VERSE: 8 { 2.6.11.57}
श्रिया न मासरम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{क्} होता यक्षद् वनस्पतिम् ।
शमितारꣳ शतक्रतुम् ।
भीमं न मन्युꣳ राजानं व्याघ्रं नमसोश्विना, भामम् {।} सरस्वती भिषक् ।
इन्द्राय दुह इन्द्रियम् ।
पयः सोमः परिस्रुता घृतं मधु वियन्त्व् आज्यस्य होतर् यज ।
VERSE: 9 { 2.6.11.58}
{ल्} होता यक्षद् अग्निꣳ स्वाहा_आज्यस्य स्तोकानाम् ।
स्वाहा मेदसां पृथक् ।
स्वाहा छागम् अश्विभ्याम् ।
स्वाहा मेषꣳ सरस्वत्यै ।
स्वाहा_ऋषभम् इन्द्राय सिꣳहाय सहसा_इन्द्रियम् ।
स्वाहा_अग्निं न भेषजम् ।
स्वाहा सोमम् इन्द्रियम् ।
स्वाहा_इन्द्रꣳ सुत्रामानꣳ सवितारं वरुणं भिषजां पतिम् ।
स्वाहा वनस्पतिं प्रियं पाथो न भेषजम् ।
0 स्वहा देवाꣳ आज्यपान् ।
VERSE: 10 { 2.6.11.59}
स्वाहा_अग्निꣳ होत्राज् जुषाणो अग्निर् भेषजम् ।
पयः सोमः परिस्रुता घृतं मधु ।
वियन्त्व् आज्यस्य होतर् यज ।
{म्} होता यक्षद् अश्विना सरस्वतीम् इन्द्रꣳ सुत्रामाणम् ।
इमे सोमाः सुरामाणः ।
छागैर् न मेषैर् ऋषभैः सुताः ।
शष्पैर् न तोक्मभिः ।
लाजैर् महस्वन्तः ।
मदा मासरेण परिष्कृताः ।
0 शुक्राः पयस्वन्तो ऽमृताः ।
1 प्रस्थिता वो मधुश्चुतः तान् अश्विना सरस्वती_इन्द्रः सुत्रामा वृत्रहा ।
2 जुषन्ताꣳ सौम्यं मधु ।
3 पिबन्तु मदन्तु वियन्तु सोमम् ।
4 होतर् यज ।
अनुवाक 12
VERSE: 1 { 2.6.12.60}
{अ} समिद्धो अग्निर् अश्विना ।
तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती ।
सोमꣳ शुक्रम् इह_इन्द्रियम् ।
{ब्} तनूपा भिषजा सुते ।
अश्विना_उभा सरस्वती ।
मध्वा रजाꣳसि_इन्द्रियम् ।
इन्द्राय पथिभिर् वहान् ।
इन्द्राय_इन्दुꣳ सरस्वती ।
0 नराशꣳसेन नग्नहुः {ड्युमोण्ट नग्नहुम्} ।
VERSE: 2 { 2.6.12.61}
अधाताम् अश्विना मधु ।
भेषजं भिषजा सुते ।
{द्} आजुह्वाना सरस्वती ।
इन्द्राय_इन्द्रियाणि वीर्यम् ।
इडाभिर् अश्विनाव् {ड्युमोण्ट अश्विनाव्} इषम् ।
समूर्जꣳ सꣳ रयिं दधुः ।
{ए} अश्विना नमुचेः सुतम् ।
सोमꣳ शुक्रं परिस्रुता ।
सरस्वती तम् आभरत् ।
0 बर्हिषा_इन्द्राय पातवे ।
VERSE: 3 { 2.6.12.62}
{f} कवष्यो न व्यचस्वतीः ।
अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी दुघे ।
दुहे कामान्त् सरस्वती ।
{ग्} उषासा नक्तम् अश्विना ।
दिवा_इन्द्रꣳ सायम् इन्द्रियैः ।
संजानाने सुपेशसा ।
समञ्जाते सरस्वत्या {ह्} पातं नो अश्विना दिवा ।
पाहि नक्तꣳ सरस्वति ।
VERSE: 4 { 2.6.12.63}
दैव्या होतारा भिषजा ।
पातम् इन्द्रꣳ सचा सुते ।
{इ} तिस्रस् त्रेधा सरस्वती ।
अश्विना भारति_इडा ।
तीव्रं परिस्रुता सोमम् ।
इन्द्राय सुषवुर् मदम् ।
{ज्} अश्विना {ड्युमोण्ट अश्विना} भेषजं मधु ।
भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियम् ।
0 रूपꣳ_रूपम् अधुः सुते ।
1 {क्} ऋतुथा_इन्द्रो वनस्पतिः ।
2 शशमानः परिस्रुता ।
3 कीलालम् अश्विभ्यां मधु ।
4 दुहे धेनुः सरस्वती ।
5 {ल्} गोभिर् न सोमम् अश्विना {ड्युमोण्ट अश्विना} ।
6 मासरेण परिष्कृता {ड्युमोण्ट परिस्रुता} ।
7 समधाताꣳ सरस्वत्या ।
8 स्वाहा_इन्द्रे सुतं मधु ।
अनुवाक 13
VERSE: 1 { 2.6.13.64}
{अ} अश्विना हविर् इन्द्रियम् ।
नमुचेर् धिया सरस्वती ।
आ शुक्रम् आसुराद् वसु ।
मघम् इन्द्राय जभ्रिरे ।
{ब्} यम् अश्विना सरस्वती ।
हविषा_इन्द्रम् अवर्धयन् ।
स बिभेद बलं मघम् {ड्युमोण्ट सुग्गेस्त्स् मखम्} ।
नमुचाव् आसुरे सचा ।
{च्} तम् इन्द्रं पशवः सचा ।
0 अश्विना_उभा सरस्वती
VERSE: 2 { 2.6.13.65}
दधाना अभ्यनूषत ।
हविषा यज्ञम् इन्द्रियम् ।
{द्} य इन्द्र इन्द्रियं दधुः ।
सविता वरुणो भगः ।
स सुत्रामा हविष्पतिः ।
यजमानाय सश्चत ।
{ए} सविता वरुणो दधत् ।
यजमानाय दाशुषे ।
आदत्त नमुचेर् वसु ।
0 सुत्रामा बलम् इन्द्रियम् ।
VERSE: 3 { 2.6.13.66}
{f} वरुणः क्षत्रम् इन्द्रियम् ।
भगेन सविता श्रियम् ।
सुत्रामा यशसा बलम् ।
दधाना यज्ञम् आशत {आनंदा. आसत} ।
अश्विना {ड्युमोण्ट अश्विना} गोभिर् इन्द्रियम् ।
अश्वेभिर् वीर्यं बलम् ।
हविषा_इन्द्रꣳ सरस्वती ।
यजमानम् अवर्धयन् ।
{ह्} ता नासत्या सुपेशसा ।
0 हिरण्यवर्तनी नरा ।
1 सरस्वती हविष्मती ।
2 इन्द्र कर्मसु नो ऽवत ।
3 ता भिषजा सुकर्मणा ।
4 सा सुदुघा सरस्वती ।
5 स वृत्रहा शतक्रतुः ।
6 इन्द्राय दधुर् इन्द्रियम्
अनुवाक 14
VERSE: 1 { 2.6.14.67}
{अ} देवं बर्हिः सरस्वती ।
सुदेवम् इन्द्रे अश्विना ।
तेजो न चक्षुर् अक्ष्योः ।
बर्हिषा दधुर् इन्द्रियम् ।
वसुवने वसुधेयस्य वियन्तु यज ।
{ब्} देवीर् द्वारो अश्विना ।
भिषजा_इन्द्रे सरस्वती ।
प्राणं न वीर्यं नसि ।
द्वारो दधुर् इन्द्रियम् ।
0 वसुवने वसुधेयस्य वियन्तु यज
VERSE: 2 { 2.6.14.68}
{च्} देवी उषासाव् अश्विना ।
भिषजा_इन्द्रे सरस्वती ।
बलं न वाचम् आस्ये ।
उषाभ्यां दधुर् इन्द्रियम् ।
वसुमने वसुधेयस्य वियन्तु यज ।
{द्} देवी जोष्ट्री अश्विना सुत्रामा_इन्द्रे सरस्वती ।
श्रोत्रं न कर्णयोर् यशः ।
जोष्ट्रीभ्यां दधुर् इन्द्रियम् ।
वसुवने वसुधेयस्य वियन्तु यज ।
VERSE: 3 { 2.6.14.69}
{ए} देवी ऊर्जाहुती दुघे सुदुघे ।
पयसा_इन्द्रꣳ सरस्वत्य् अश्विना भिषजा_अवत ।
शुक्रं न ज्योतिः स्तनयोर् आहुती धत्त इन्द्रियम् ।
वसुवने वसुधेयस्य वियन्तु यज ।
{f} देवा देवानां भिषजा ।
होताराव् इन्द्रम् अश्विना ।
वषट्कारैः सरस्वती ।
त्विषिं न हृदये मतिम् ।
होतृभ्यां दधुर् इन्द्रियम् ।
0 वसुवने वसुधेयस्य वियन्तु यज ।
VERSE: 4 { 2.6.14.70}
{ग्} देवीस् तिस्रस् तिस्रो देवीः ।
सरस्वत्य् अश्विना भारती_इडा ।
शूषं न मध्ये नाभ्याम् ।
इन्द्राय दधुर् इन्द्रियम् ।
वसुवने वसुधेयस्य वियन्तु यज ।
{ह्} देव इन्द्रो नराशꣳसः ।
त्रिवरूथः सरस्वत्या_अश्विभ्याम् ईयते रथः ।
रेतो न रूपम् अमृतं जनित्रम् ।
इन्द्राय त्वष्टा दधद् इन्रियाणि वसुवने वसुधेयस्य वियन्तु यज ।
VERSE: 5 { 2.6.14.71}
{इ} देव इन्द्रो वनस्पतिः ।
हिरण्यपर्णो अश्विभ्याम् ।
सरस्वत्याः {ड्युमोण्ट सरस्वत्या} सुपिप्पलः ।
इन्द्राय पच्यते मधु ।
ओजो न जूतिम् ऋषभो न भामम् ।
वनसपतिर् नो दधद् इन्द्रियाणि ।
वसुवने वसुधेयस्य वियन्तु यज ।
{ज्} देवं बर्हिर् वारितीनाम् ।
अध्वरे स्तीर्णम् अश्विभ्याम् ।
0 ऊर्णम्रदाः सरस्वत्याः ।
VERSE: 6 { 2.6.14.72}
स्योनम् इन्द्र ते सदः ।
ईशायै मन्युꣳ राजानं बर्हिषा दधुर् इन्द्रियम् ।
वसुवने वसुधेयस्य वियन्तु यज ।
{क्} देवो अग्निः स्विष्टकृत् ।
देवान् यक्षद् यथा_यथम् ।
होताराव् इन्द्रम् अश्विना ।
वाचा वाचꣳ सरस्वतीम् ।
अग्निꣳ सोमꣳ स्विष्टकृत् ।
स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषक् ।
0 इष्टो देवो वनसपतिः ।
1 स्विष्टा देवा आज्यपाः ।
2 इष्टो अग्निरग्निना ।
3 होता होत्रे स्विष्टकृत् ।
4 यशो न दधद् इन्द्रियम् ।
5 ऊर्जम् अपचितिꣳ स्वधाम् ।
6 वसुवने वसुधेयस्य वियन्तु यज ।
अनुवाक 15
VERSE: 1 { 2.6.15.73}
{अ} अग्निम् अद्य होतारम् अवृणीत ।
अयꣳ सुतासुती यजमानः ।
पचन् पक्त्ī́ः ।
पचन् पुरोडाशान् ।
गृह्णन् ग्रहान् ।
बध्नन्न् अश्विभ्यां छागꣳ सरस्वत्या इन्द्राय ।
बध्नन्त् सरस्वत्यै मेषम् इन्द्राय_अश्विभ्याम् ।
बध्नन्न् इन्द्राय_ऋषभम् अश्विभ्याꣳ सरस्वत्यै ।
{ब्} सूपस्था अद्य देवो वनस्पतिर् अभवत् ।
0 अश्विभ्यां छागेन सरस्वत्या इन्द्राय ।
VERSE: 2 { 2.6.15.74}
सर्स्वत्यै मेषेण_इन्द्राय_अश्विभ्याम् ।
इन्द्राय_ऋषभेण_अश्विभ्याꣳ सरस्वत्यै ।
{च्} अक्षꣳस् तान् मेदस्तः प्रति पचत_अग्रभीसुः ।
अवीवृधन्त ग्रहैः ।
अपाताम् अश्विना सरस्वती_इन्द्रः सुत्रामा वृत्रहा ।
सोमान्त् सुराम्णः ।
उपो उक्थामदाः {ड्युमोण्ट उक्थामदा} श्रौद् विमदा अदन् ।
अवीवृधन्त_आङ्गूषइः ।
{द्} त्वाम् अद्य_ऋष आर्षेय_ऋषीणां नपाद् अवृणीत ।
0 अयꣳ सुतासुती यजमानः ।
1 बहुभ्य आ संगतेभ्यः ।
2 एष मे देवेषु वसु वार्या यक्ष्यत इति ।
3 {ए} ता या देवा देवदानान्य् अदुः ।
4 तान्य् अस्मा आ च शास्स्व ।
5 आ च गुरस्व ।
6 इषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः ।
7 सूक्तवाकाय सूक्ता ब्रूहि ।
अनुवाक 16
VERSE: 1 { 2.6.16.75}
{अ} उशन्तस् त्वा हवामह, {ब्} आ नो अग्ने सुकेतुना ।
{च्} त्वꣳ सोम महे भगं, {द्} त्वꣳ सोम प्र चिकितो मनीषा ।
{ए} त्वया हि नः पितरः सोम पूर्वे, {f} त्वꣳ सोम पितृभिः संविदानः ।
{ग्} बर्हिषदः पितर, {ह्} आ_अहं पितॄन् ।
{इ} उपहूताः पितरो, {ज्} ऽग्निष्वात्ताः पितरः ।
{क्} अग्निष्वात्तान् ऋतुमतो हवामहे ।
नराशꣳसे सोमपीथं य आशुः ।
ते नो अर्वन्तः सुहवा भवन्तु ।
शं नो भवन्तु द्विपदे शं चतुष्पदे ।
0 {ल्} ये अग्निष्वात्ता ये ऽनग्निष्वात्ताः ।
VERSE: 2 { 2.6.16.76}
अꣳहोमुचः पितरः सोम्यासः ।
परे ऽवरे ऽमृतासो भवन्तः ।
अधिब्रुवन्तु ते अवन्त्व् अस्मान् ।
{म्} वान्यायै दुग्धे जुषमानाः करम्भम् ।
उदीराणा अवरे परे च ।
अग्निष्वात्ता ऋतुभिः संविदानाः ।
इन्द्रवन्तो हविर् इदं जुषन्ताम् ।
{न्} यद् अग्ने कव्यवाहन, {ओ} त्वम् अग्न ईडितो जातवेदः ।
{प्} मातली कव्यैः ।
0 {q} ये तातृपुर् देवत्रा जेहमानाः ।
1 होत्रावृधः स्तोमतष्टासो अर्कैः ।
2 आ_अग्ने याहि सुविदत्रेभिर् अर्वाङ् ।
3 सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ।
4 {र्} हव्यवाहम् अजरं पुरुप्रियम् ।
5 अग्निं घृतेन हविषा सपर्यन् ।
6 उपासदं कव्यवाहं पितृणाम् ।
7 स नः प्रजां वीरवतीꣳ समृण्वतु ।
अनुवाक 17
VERSE: 1 { 2.6.17.77}
{अ} होता यक्षद् इडस् पदे ।
समिधानं महद् यशः ।
सुषमिद्धं वरेण्यम् ।
अग्निम् इन्द्रं वयोधसम् ।
गायत्रीं छन्द इन्द्रियम् ।
त्र्यविं गां वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{ब्} होता यक्षत्_शुचिव्रतम् ।
तनूनपातम् उद्भिदम् ।
0 यं गर्भम् अदितिर् दधे ।
VERSE: 2 { 2.6.17.78}
शुचिम् इन्द्रं वयोधसम् ।
उष्णिहं छन्द इन्द्रियम् ।
दित्यवाहं गां वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{द्} होता यक्षद् ईडेन्यम् ।
ईडितं वृत्रहन्तमम् ।
इडाभिर् ईड्यꣳ सहः ।
सोमम् इन्द्रं वयोधसम् ।
अनुष्टुभं छन्द इन्द्रियम् ।
0 त्रिवत्सं गां वयो दधत् ।
VERSE: 3 { 2.6.17.79}
वेत्व् आज्यस्य होतर् यज ।
{द्} होता यक्षत् सुबर्हिषदम् ।
पूषण्वन्तम् अमर्त्यम् ।
सीदन्तं बर्हिषि प्रिये ।
अमृतेन्द्रं वयोधसम् ।
बृहतीं छन्द इन्द्रियम् ।
पञ्चाविं गां वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{ए} होता यक्षद् य्व्áचस्वतीः ।
0 सुप्रायणा ऋतावृधः ।
VERSE: 4 { 2.6.17.80}
द्वारो देवीर् हिरण्ययीः ।
ब्रह्माण {ड्युमोण्ट ब्रह्माणम्} इन्द्रं वयोधसम् ।
पङ्क्तिं छन्द इह_इन्द्रियम् ।
तुर्यवाहं गां वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{f} होता यक्षत् सुपेशसे ।
सुशिल्पे बृहती उभे ।
नक्तोषासा न दर्शते ।
विश्वम् इन्द्रं वयोधसम् ।
0 त्रिष्टुभं छन्द इन्द्रियम् ।
VERSE: 5 { 2.6.17.81}
षष्ठवाहं { पष्ठवाहं} गां वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{ग्} होता यक्षत् प्रचेतसा ।
देवानाम् उत्तमं यशः ।
होतारा दैव्या कवी ।
सयुजा_इन्द्रं वयोधसम् ।
जगतीं छन्द इह_इन्द्रियम् ।
अनड्वाहं गां वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
0 {ह्} होता यक्षत् पेशस्वतीः ।
VERSE: 6 { 2.6.17.82}
तिस्रो देवीर् हिरण्ययीः ।
भारतीर् बृहतीर् महीः ।
पतिम् इन्द्रं वयोधसम् ।
विराजं छन्द इह_इन्द्रियम् ।
धेनुं गां न वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{इ} होता यक्षत् सुरेतसम् ।
त्वष्टारं पुष्टिवर्धनम् ।
रूपाणि बिभ्रतं पृथक् ।
0 पुष्टिम् इन्द्रं वयोधसम् ।
VERSE: 7 { 2.6.17.83}
द्विपदं छन्द इह_इन्द्रियम् ।
उक्षाणं गां न वयो दधत् ।
वेत्व् आज्यस्य होतर् यज ।
{ज्} होता यक्षत्_शतक्रतुम् ।
हिरण्यपर्णम् उक्थिनम् ।
रशनां बिभ्रतं वशिम् ।
भगम् इन्द्रं वयोधसम् ।
ककुभं छन्द इह_इन्द्रियम् ।
वशां वेहतं गां न {ओमित्तेद् इन् डुमोन्त्} वयो दधत् ।
0 वेत्व् आज्यस्य होतर् यज ।
1 {क्} होता यक्षत् स्वाहाकृतीः ।
2 अग्निं गृहपतिं पृथक् ।
3 वरुणं भेषजं कविम् ।
4 क्षत्त्रम् इन्द्रं वयोधसम् ।
5 अतिच्छन्दसं छन्द इन्द्रियम् ।
6 बृहद् ऋषभं गां वयो दधत् ।
7 वेत्व् आज्यस्य होतर् यज ।
अनुवाक 18
VERSE: 1 { 2.6.18.84}
{अ} समिद्धो अग्निः समिधा ।
सुषमिद्धो वरेण्यः ।
गायत्री छन्द इन्द्रियम् ।
त्र्यविर् गौर् वयो दधुः ।
{ब्} तनूनपात्_शुचिव्रतः ।
तनूनपात्_ च सरस्वती {ड्युमोण्ट तनूनपात् सरस्वती} ।
उष्णिक् छन्द इन्द्रियम् {।} दित्यवाड् गौर् वयो दधुः ।
{च्} इडाभिर् अग्निर् ईड्यः ।
सोमो देवो अमर्त्य्ः ।
VERSE: 2 { 2.6.18.85}
अनुष्टुप् छन्द इन्द्रियम् ।
त्रिवत्सो गौर् वयो दधुः ।
{द्} सुबर्हिर् अग्निः पूषण्वान् ।
स्तीर्णबर्हिर् अमर्त्यः ।
बृहती छन्द इन्द्रियम् ।
पञ्चाविर् गौर् वयो दधुः ।
{ए} दुरो देवीर् दिशो महीः ।
ब्रह्मा देवो बृहस्पतिः ।
पङ्क्तिश् छन्द इह_इन्द्रियम् ।
0 तुर्यवाड् गौर् वयो दधुः ।
VERSE: 3 { 2.6.18.86}
{f} उषे यह्वी सुपेशसा ।
विश्वे देवा अमर्त्याः ।
त्रिष्टुप् छन्द इन्द्रियम् ।
पष्ठवाड् गौर् वयो दधुः ।
{ग्} दैव्या होतारा {,आनंदा. होतारा} भिषजा {,आनंदा. भिषजा} ।
इन्द्रेण सयुजा युजा ।
जगती छन्द इह_इन्द्रियम् ।
अनड्वान् गौर् वयो दधुः ।
{ह्} तिस्र इडा सरस्वती ।
0 भारती मरुतो विशः ।
VERSE: 4 { 2.6.18.87}
विराट् छन्द इह_इन्द्रियम् ।
धेनुर् गौर् न वयो दधुः ।
{इ} त्वष्टा तुरीपो अद्भुतः ।
इन्द्राग्नी पुष्टिवर्धना ।
द्विपात्_ छन्द इह_इन्द्रियम् ।
उक्षा गौर् न वयो दधुः ।
{ज्} शमिता नो वनस्पतिः ।
सविता प्रसुवन् भगम् ।
ककुच् छन्द इह_इन्द्रियम् ।
0 वशा वेहद् गौर् न वयो दधुः ।
1 {क्} स्वाहा यज्ञं वरुणः ।
2 सुक्षत्रो भेषजं करत् ।áतिच्छन्दाश् { अतिच्छन्दाच्} छन्द इन्द्रियम् ।
3 बृहद् ऋषभो गौर् वयो दधुः ।
अनुवाक 19
VERSE: 1 { 2.6.19.88}
{अ} वसन्तेन_ऋतुना देवाः ।
वसवस् त्रिवृता स्तुतम् ।
रथन्तरेण तेजसा ।
हविर् इन्द्रे वयो दधुः ।
{ब्} ग्रीष्मेण देवा ऋतुना ।
रुद्राः पञ्चदशे स्तुतम् ।
बृहता यशसा बलम् ।
हविर् इन्द्रे वयो दधुः ।
{च्} वर्षाभिर् ऋतुना_आदित्याः ।
0 स्तोमे सप्तदशे स्तुतम् ।
VERSE: 2 { 2.6.19.89}
वैरूपेण विशा_ओजसा ।
हविर् इन्द्रे वयो दधुः ।
{स्} शारदेन_ऋतुना देवाः ।
एकविꣳश ऋभवः स्तुतम् ।
वैराजेन श्रिया श्रियम् ।
हविर् इन्द्रे वयो दधुः ।
{ए} हेमन्तेन_ऋतुना देवाः ।
मरुतस् त्रिणवे स्तुतम् ।
बलेन शक्वरीः सहः ।
0 हविर् इन्द्रे वयो दधुः ।
1 {f} शैशिरेण_ऋतुना देवाः ।
2 त्रयस्त्रिꣳशे ऽमृतꣳ स्तुतम् ।
3 सत्येन रेवतीः क्षत्त्रम् ।
4 हविर् इन्द्रे वयो दधुः ।
अनुवाक 20
VERSE: 1 { 2.6.20.90}
{अ} देवं बर्हिर् इन्द्रं वयोधसम् ।
देवं देवमवर्धयत् ।
गायत्रिया छन्दसा_इन्द्रियम् ।
तेज इन्द्रे वयो दधत् ।
वसुवने वसुधेयस्य वेतु यज ।
{ब्} देवीर् द्वारो देवम् इन्द्रं वयोधसम् ।
देवीर् देवम् अवर्धयन् ।
उष्णिहा छन्दसा_इन्द्रियम् ।
प्राणम् इन्द्रे वयो दधत् ।
0 वसुवने वसुधेयस्य वियन्तु यज ।
VERSE: 2 { 2.6.20.91}
{च्} देवी देवं वयोधसम् ।
उषे इन्द्रम् अवर्धताम् ।
अनुष्टुभा छन्दसा_इन्द्रियम् ।
वाचम् इन्द्रे वयो दधत् ।
वसुवने वसुधेयस्य वीतां यज ।
{द्} देवी जोष्ट्री देवम् इन्द्रं वयोधसम् ।
देवी देवम् अवर्धताम् ।
बृहत्या छन्दसा_इन्द्रियम् ।
श्रोत्रम् इन्द्रे वयो दधत् ।
0 वसुवने वसुधेयस्य वीतां यज ।
VERSE: 3 { 2.6.20.92}
{ए} देवी ऊर्जाहुती देवम् इन्द्रं वयोधसम् ।
देवी देवम् अवर्धताम् ।
पङ्क्त्या छन्दसा_इन्द्रियम् ।
शुक्रम् इन्द्रे वयो दधत् ।
वसुवने वसुधेयस्य वीतां यज ।
{f} देवा दैव्या होतारा देवम् इन्द्रं वयोधसम् ।
देवा देवम् अवर्धताम् ।
त्रिष्टुभा छन्दसा_इन्द्रियम् ।
त्विषिम् इन्द्रे वयो दधत् ।
0 वसुवने वसुधेयस्य वीतां यज ।
VERSE: 4 { 2.6.20.93}
{ग्} देवीस् तिस्रस् तिस्रो देवीर् वयोधसम् ।
पतिम् इन्द्रम् अवर्धयन् ।
जगत्या छन्दसा_इन्द्रियम् ।
बलम् इन्द्रे वयो दधत् ।
वसुवने वसुधेयस्य वियन्तु यज ।
{ह्} देवो नराशꣳसो देवम् इन्द्रं वयोधसम् ।
देवो देवम् अवर्धयत् ।
विराजा छन्दसा_इन्द्रियम् ।
रेत इन्द्रे वयो दधत् ।
0 वसुवने वसुधेयस्य वेतु यज ।
VERSE: 5 { 2.6.20.94}
{इ} देवो वनस्पतिर् देवम् इन्द्रं वयोधसम् ।
देवो देवम् अवर्धयत् ।
द्विपदा छन्दसा_इन्द्रियम् ।
भगम् इन्द्रे वयो दधत् ।
वसुवने वसुधेयस्य वेतु यज ।
{ज्} देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसम् ।
देवो {ड्युमोण्ट देवं} देवम् अवर्धयत् ।
ककुभा छन्दसा_इन्द्रियम् ।
यश इन्द्रे वयो दधत् ।
0 वसुवने वसुधेयस्य वेतु यज ।
1 {क्} देवो अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसम् ।
2 देवो देवम् अवर्धयत् ।
3 अतिच्छन्दसा छन्दसा_इन्द्रियम् ।
4 क्षत्त्रम् इन्द्रे वयो दधत् ।
5 वसुवने वसुधेयस्य वेतु यज ।
प्रपाठक: 7
अनुवाक 1
VERSE: 1 { 2.7.1.1}
त्रिवृत् स्तोमो भवति ।
ब्रह्मवर्चसं वै त्रिवृत् ।
ब्रह्मवर्चसम् एव_अवरुन्धे ।
अग्निष्टोमः सोमो भवति ।
ब्रह्मवर्चसं वा अग्निष्टोमः ।
ब्रह्मवर्चसम् एव_अवरुन्धे ।
रथंतरꣳ साम भवति ।
ब्रह्मवर्चसं वै रथंतरम् ।
ब्रह्मवर्चसम् एव_अवरुन्धे ।
0 परिस्रजी होता भवति ।
VERSE: 2 { 2.7.1.2}
अरुणो मिर्मिरस् त्रिशुक्रः ।
एतद् वै ब्रह्मवर्चसस्य रूपम् ।
रूपेणैव ब्रह्मवर्चसम् अवरुन्धे ।
बृहस्पतिर् अकामयत देवानां पुरोधां गच्छेयम् इति ।
स एतं बृहस्पतिसवम् अपश्यत् ।
तम् आहरत् ।
तेन_अयजत ।
ततो वै स देवानां पुरोधाम् अगच्छत् ।
यः पुरोधाकामः स्यात् ।
0 स बृहस्पतिसवेन यजेत ।
VERSE: 3 { 2.7.1.3}
पुरोधाम् एव गच्छति ।
तस्य प्रातःसवने सन्नेषु नाराशꣳसेषु ।
एकादश दक्षिणा नीयन्ते ।
एकादश माध्यंदिने सवने सन्नेषु नाराशꣳसेषु ।
एकादश तृतीयसवने सन्नेषु नाराशꣳसेषु ।
त्रयस्त्रिꣳशत् संपद्यन्ते ।
त्रयस्त्रिꣳशद् वै देवताः ।
देवता एव_अवरुन्धे ।
अश्वश् चतुस्त्रिꣳशः ।
0 प्राजापत्यो वा अश्वः ।
VERSE: 4 { 2.7.1.4}
प्रजापतिश् चतुस्त्रिꣳशो देवतानां ।
यावतीर् एव देवताः ।
ता एव_अवरुन्धे ।
कृष्णाजिने ऽभिषिञ्चति ।
ब्रह्मणो वा एतद् रूपम् ।
यत् कृष्णाजिनम् ।
ब्रह्मवर्चसेन_एवैनꣳ समर्धयति ।
आज्येन_अभिषिञ्चति ।
तेजो वा आज्यम् ।
0 तेज एव_अस्मिन् दधाति ।
अनुवाक 2
VERSE: 1 { 2.7.2.5}
यद् आग्नेयो भवति ।
अग्निमुखा ह्य् {BI अग्निमुखाद् ध्य्} ऋद्धिः ।
अथ यत् पौष्णः ।
पुष्टिर् वै पूषा ।
पुष्टिर् वैश्यस्य ।
पुष्टिम् एव_अवरुन्धे ।
प्रसवाय सावित्रः ।
अथ यत् त्वाष्ट्रः ।
त्वष्टा हि रूपाणि विकरोति ।
0 निर्वरुणत्वाय वारुणः ।
VERSE: 2 { 2.7.2.6}
अथो य एव कश् च सन्त्सूयते ।
स हि वारुणः ।
अथ यद् वैश्वदेवः ।
वैश्वदेवो हि वैश्यः ।
अथ यन् मारुतः ।
मारुतो हि वैश्यः ।
सप्त_एतानि हवीꣳषि भवन्ति ।
सप्तगणा वै मरुतः ।
पृश्निः पष्ठौही मारुत्या_आलभ्यते ।
0 विड् वै मरुतः ।
1 विश एवैतन् मध्यतो ऽभिषिच्यते ।
2 तस्माद् वा एष विशः प्रियः ।
3 विशो हि मध्यतो ऽभिषिच्यते ।
4 ऋषभचर्मे ऽध्यभिषिञ्चति ।
5 स हि प्रजनयिता ।
6 दध्ना_अभिषिञ्चति ।
7 ऊर्ग् वा अन्नाद्यं दधि ।
8 ऊर्जा_एवैनम् अन्नाद्येन समर्धयति ।
अनुवाक 3
VERSE: 1 { 2.7.3.7}
यद् आग्नेयो भवति ।
आग्नेयो वै ब्राह्मणः ।
अथ यत् सौम्यः ।
सौम्यो हि ब्राह्मणः ।
प्रसवाय_एव सावित्रः ।
अथ यद् बार्हस्पत्यः ।
एतद् वै ब्राह्मणस्य वाक्पतीयम् ।
अथ यद् अग्नीषोमीयः ।
आग्नेयो वै ब्राह्मणः ।
0 तौ यदा संगच्छेते ।
VERSE: 2 { 2.7.3.8}
अथ वीर्यावत्तरो भवति ।
अथ यत् सारस्वतः ।
एतद् धि प्रत्यक्षं ब्राह्मणस्य वाक्पतीयम् ।
निर्वरुणत्वाय_एव वारुणः ।
अथो य एव कश् च सन्त्सूयते ।
स हि वारुणः ।
अथ यद् द्यावापृथिव्यः ।
इन्द्रो वृत्राय वज्रम् उदयच्छत् ।
तं द्यावापृथिवी न_अन्वमन्येताम् ।
0 तम् एतेनैव भागधेयेन_अन्वमन्येताम् ।
VERSE: 3 { 2.7.3.9}
वज्रस्य { वज्रस्य} वा एषो ऽनुमानाय ।
अनुमतवज्रः सूयाता इति ।
अष्टाव् एतानि हवीꣳषि भवन्ति ।
अष्ट_अक्षरा गायत्री ।
गायत्री ब्रह्मवर्चसम् ।
गायत्रिया_एव ब्रह्मवर्चसम् अवरुन्धे ।
हिरण्येन घृतम् उत्पुनाति ।
तेजस एव रुचे ।
कृष्णाजिने ऽभिषिञ्चति ।
0 ब्रह्मणो वा एतद् ऋक्सामयो रूपम् ।
1 यत् कृष्णाजिनम् ।
2 ब्रह्मन्न् एवैनम् ऋक्सामयोर् अध्य् अभिषिञ्चति ।
3 घृतेन_अभिषिञ्चति ।
4 तथा वीर्यावत्तरो { वीर्यवत्तरो} भवति ।
अनुवाक 4
VERSE: 1 { 2.7.4.10}
न वै सोमेन सोमस्य सवो ऽस्ति ।
हतो ह्य् एषः ।
अभिषुतो ह्य् एषः ।
न हि हतः सूयते ।
सौमीꣳ सूतवशाम् आलभते ।
सोमो वै रेतोधाः ।
रेत एव तद् दधाति ।
सौम्या_ऋचा_अभिषिञ्चति ।
रेतोधा ह्य् एषा ।
0 रेतः सोमः ।
1 रेत एवास्मिन् दधाति ।
2 यत् किं च राजसूयम् ऋते सोमम् ।
3 तत् सर्वं भवति ।
4 अषाढं युत्सु पृतनासु पप्रिम् ।
5 सुवर्षाम् अप्स्वां वृजनस्य गोपाम् ।
6 भरेषुजाꣳ सुक्षितिं सुश्रवसम् ।
7 जयन्तं त्वाम् अनु मदेम सोम ।
अनुवाक 5
VERSE: 1 { 2.7.5.11}
यो वै सोमेन सूयते ।
स देवसवः ।
यः पशुना सूयते ।
स देवसवः ।
य इष्ट्या सूयते ।
स मनुष्यसवः ।
एतं वै पृथये देवाः प्रायच्छन् ।
ततो वै सो ऽप्य् आरण्यानां पशूनाम् असूयत ।
यावतीः कियतीश् च प्रजा वाचं वदन्ति ।
0 तासाꣳ सर्वासाꣳ सूयते ।
VERSE: 2 { 2.7.5.12}
य एतेन यजते ।
य उ चैनम् एवं वेद ।
नाराशꣳस्या_ऋचा_अभिषिञ्चति ।
मनुष्या वै नराशꣳसः ।
निह्न्úत्य वाव_एतत् ।
अथ_अभिषिञ्चति ।
यत् किं च राजसूयम् अनुत्तरवेदीकम् ।
तत् सर्वं भवति ।
ये मे पञ्चाशतं ददुः ।
0 अश्वानाꣳ सधस्तुतिः ।
1 द्युमद् अग्ने महि श्रवः ।
2 बृहत् कृधि मघोनाम् ।
3 नृवद् अमृत नृणाम् ।
अनुवाक 6
VERSE: 1 { 2.7.6.13}
एष गोसवः ।
षट्त्रिꣳश उक्थ्यो बृहत्सामा ।
पवमाने कण्वरथंतरं भवति ।
यो वै वाजपेयः ।
स सम्राट्त्सवः ।
यो राजसूयः ।
स वरुणसवः ।
प्रजापतिः स्वाराज्यं परमेष्ठी ।
स्वाराज्यं गौर् एव ।
0 गौर् इव भवति ।
VERSE: 2 { 2.7.6.14}
य एतेन यजते ।
य उ चैनम् एवं वेद ।
उभे बृहद्रथंतरे भवतः ।
तद् धि स्वाराज्यम् ।
अयुतं दक्षिणाः ।
तद् धि स्वाराज्यम् ।
प्रतिधुषा_अभिषिञ्चति ।
तद् धि स्वाराज्यम् ।
अनुद्धते वेद्यै दक्षिणत आहवनीयस्य बृहतस्तोत्रं प्रत्य् अभिषिञ्चति ।
इयं वाव रथंतरम् ।
VERSE: 3 { 2.7.6.15}
असौ बृहत् ।
अनयोर् एवैनम् अनन्तर्हितम् अभिषिञ्चति ।
पशुस्तोमो वा एषः ।
तेन गोसवः ।
षट्त्रिꣳशः सर्वः ।
रेवज् जातः सहसा वृद्धः ।
क्षत्राणां क्षत्रभृत्तमो वयोधाः ।
महान् महित्वे तस्तभानः ।
क्षत्रे राष्ट्रे च जागृहि ।
प्रजापतेस् त्वा परमेष्ठिनः स्वाराज्येना_अभिषिञ्चामि_इत्य् आह ।
स्वाराज्यम् एवैनं गमयति ।
अनुवाक 7
VERSE: 1 { 2.7.7.1}
सिꣳहे व्याघ्र उत या पृदाकौ ।
त्विषिर् अग्नौ ब्राह्मणे सूर्ये या ।
इन्द्रं या देवी सुभगा जजान ।
सा न आगन् वर्चसा संविदाना ।
या राजन्ये दुन्दुभाव् आयतायाम् ।
अश्वस्य क्रन्द्ये पुरुषस्य मायौ ।
इन्द्रं या देवी सुभगा जजान ।
सा न आगन् वर्चसा संविदाना ।
या हस्तिनि द्विपिनि या हिरण्ये ।
त्विषिर् अश्वेषु पुरुषेषु गोषु ।
VERSE: 2 { 2.7.7.2}
इन्द्रं या देवी सुभगा जजान ।
सा न आगन् वर्चसा संविदाना ।
रथे अक्षेषु वृषभस्य वाजे ।
वाते पर्जन्ये वरुणस्य शुष्मे ।
इन्द्रं या देवी सुभगा जजान ।
सा न आगन् वर्चसा संविदाना ।
राड् असि विराड् असि ।
सम्राड् असि स्वराड् असि ।
इन्द्राय त्वा तेजस्वते तेजस्वन्तꣳ श्रीणामि ।
इन्द्राय त्वा_ओजस्वत ओजसवन्तꣳ श्रीणामि ।
VERSE: 3 { 2.7.7.3}
इन्द्राय त्वा पयस्वते पयस्वन्तꣳ श्रीणामि ।
इन्द्राय त्वा_आयुष्मत आयुष्मन्तꣳ श्रीणामि ।
तेजो ऽसि ।
तत् ते प्रयच्छामि ।
तेजस्वद् अस्तु मे मुखम् ।
तेजस्वत्_शिरो अस्तु मे ।
तेजस्वान् विश्वतः प्रत्यङ् ।
तेजसा संपिपृग्धि मा ।
ओजो ऽसि ।
तत् ते प्रयच्छामि ।
VERSE: 4 { 2.7.7.4}
ओजस्वद् अस्तु मे मुखम् ।
ओजस्वत्_शिरो अस्तु मे ।
ओजस्वान् विश्वतः प्रत्यङ् ।
ओजसा संपिपृग्धि मा ।
पयो ऽसि ।
तत् ते प्रयच्छामि ।
पयस्वद् अस्तु मे मुखम् ।
पयस्वत्_शिरो अस्तु मे ।
पयस्वान् विश्वतः प्रत्यङ् ।
पयसा संपिपृग्धि मा ।
VERSE: 5 { 2.7.7.5}
आयुर् असि ।
तत् ते प्रयच्छामि ।
आयुष्मद् अस्तु मे मुखम् ।
आयुष्मत्_शिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यङ् ।
आयुषा संपिपृग्धि मा ।
इमम् अग्न आयुषे वर्चसे कृधि ।
प्रियꣳ रेतो वरुण सोम राजन् ।
मातेव_अस्मा अदिते शर्म यच्छ ।
विश्वे देवा जरदष्टिर् यथा सत् ।
VERSE: 6 { 2.7.7.6}
आयुर् असि विश्वायुर् असि ।
सर्वायुर् असि सर्वम् आयुर् असि ।
यतो वातो मनोजवाः ।
यतः क्षरन्ति सिन्धवः ।
तासां त्वा सर्वासाꣳ रुचा ।
अभिषिञ्चामि वर्चसा ।
समुद्र इव_असि गह्मना ।
सोम इव_अस्य् अदाभ्यः ।
अग्निर् इव विश्वतः प्रत्यङ् ।
सूर्य इव ज्योतिषा विभूः ।
VERSE: 7 { 2.7.7.7}
अपां यो द्रवणे रसः ।
तम् अहम् अस्मा आमुष्यायणाय ।
तेजसे ब्रह्मवर्चसाय गृह्णामि ।
अपां य ऊर्मउ रसः ।
तम् अहम् अस्मा आमुष्यायणाय ।
ओजसे वीर्याय गृह्णामि ।
अपां यो मध्यतो रसः ।
तम् अहम् अस्मा आमुष्यायणाय ।
पुष्ट्यै प्रजननाय गृह्णामि ।
अपां यो यज्ञियो रसः ।
तम् अहम् अस्मा आमुष्यायणाय ।
आयुषे दीर्घायुत्वाय गृह्णामि ।
अनुवाक 8
VERSE: 1 { 2.7.8.1}
अभिप्रेहि वीरयस्व ।
उग्रश् चेत्ता सपत्नहा ।
आतिष्ठ मित्रवर्धनः ।
तुभ्यं देवा अधिब्रुवन् ।
अङ्कौ न्यङ्काव् अभित आतिष्ठ वृत्रहन् रथम् ।
आतिष्ठन्तं परि विश्वे अभूषन् ।
श्रियं वसानश् चरति स्वरोचाः ।
महत् तद् अस्य_असुरस्य नाम ।
आ विश्वरूपो अमृतानि तस्थौ ।
अनु त्वा_इन्द्रो मदत्व् अनु बृहस्पतिः ।
VERSE: 2 { 2.7.8.2}
अनु सोमो अन्व् अग्निर् आवीत् ।
अनु त्वा विश्वे देवा अवन्तु ।
अनु सप्त राजानो य उत_अभिषिक्ताः ।
अनु त्वा मित्रावरुणाव् इह_अवतम् ।
अनु द्यावापृथिवी विश्वशंभू ।
सूर्यो अहोभिर् अनु त्वा_अवतु ।
चन्द्रमा नक्षत्रैर् अनु त्वा_अवतु ।
द्यौश् च त्वा पृथिवी च प्रचेतसा ।
शुक्रो बृहद् दक्षिना त्वा पिपर्तु ।
अनु स्वधा चिकिताꣳ सोमो अग्निः ।
आ_अयं पृणक्तु रजसी {आनंदा. रजसि} उपस्थम् ।
अनुवाक 9
VERSE: 1 { 2.7.9.1}
प्रजापतिः प्रजा असृजत ।
ता अस्मात् सृष्टाः पराचीर् आयन् ।
स एतं प्रजापतिर् ओदनम् अपश्यत् ।
सो ऽन्नं भूतो ऽतिष्ठत् ।
ता अन्यत्र_अन्नाद्यम् अवित्त्व्ā ।
प्रजापतिं प्रजा उपावर्तन्त ।
अन्नम् एवैनं भूतं पश्यन्तीः प्रजा उपावर्तन्ते ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
सर्वाण्य् अन्नानि भवन्ति ।
VERSE: 2 { 2.7.9.2}
सर्वे पुरुषाः ।
सर्वाण्य् एव_अन्नान्य् अवरुन्धे ।
सर्वान् पुरुषान् ।
राड् असि विराड् असि_इत्य् आह ।
स्वाराज्यम् एवैनं गमयति ।
यद् धिरण्यं ददाति ।
तेजस् तेन_अवरुन्धे ।
यत् तिसृधन्वम् ।
वीर्यं तेन ।
यद् अष्ट्राम् ।
VERSE: 3 { 2.7.9.3}
पुष्टिं तेन ।
यत् कमण्डलुम् ।
आयुष्टेन ।
यद् धिरण्यम् आबध्नाति ।
ज्योतिर् वै हिरण्यम् ।
ज्योतिर् एवास्मिन् दधाति ।
अथो तेजो वै हिरण्यम् ।
तेज एवाऽऽत्मन् धत्ते ।
यद् ओदनं प्राश्नाति ।
एतद् एव सर्वम् अवरुध्य ।
VERSE: 4 { 2.7.9.4}
तद् अस्मिन्न् एकधा_अधात् ।
रोहिण्यां कार्यः ।
यद् ब्राह्मण एव रोहिणी ।
तस्माद् एव ।
अथो वर्ष्म_एवैनꣳ समानानां करोति ।
उद्यता सूर्येण कार्यः ।
उद्यन्तं वा एतꣳ सर्वाः प्रजाः प्रतिनन्दन्ति ।
दिदृक्षेण्यो दर्शनीयो भवति ।
{नोत् इन् } य एवं वेद ।
ब्रह्मवादिनो वदन्ति ।
VERSE: 5 { 2.7.9.5}
अवेत्यो ऽवभृथा3 ना3 इति ।
यद् दर्भपुञ्जीलैः पवयति ।
तत् स्विद् एव_अवैति ।
तन् न_अवैति ।
त्रिभिः पवयति ।
त्रय इमे लोकाः ।
एभिर् एवैनं लोकैः पवयति ।
अथो अपां वा एतत् तेजो वर्चः ।
यद् दर्भाः ।
यद् दर्भपुञ्जीलैः पवयति ।
अपाम् एवैनं तेजसा वर्चसोभिषिञ्चति ।
अनुवाक 10
VERSE: 1 { 2.7.10.1}
प्रजापतिर् अकामयत बहोर् भूयान्त् स्याम् इति ।
स एतं पञ्चशारदीयम् अपश्यत् ।
तम् आहरत् ।
तेन_अयजत ।
ततो वै स बहोर् भूयान् अभवत् ।
यः कामयेत बहोर् भूयान्त् स्याम् इति ।
स पञ्चशारदीयेन यजेत ।
बहोर् एव भूयान् भवति ।
मरुत्स्तोमो वा एषः ।
मरुतो हि देवानां भूयिष्ठाः ।
VERSE: 2 { 2.7.10.2}
बहुर् भवति ।
य एतेन यजते ।
य उ चैनमेवं वेद ।
पञ्चशारदीयो भवति ।
पञ्च वा ऋतवः संवत्सरः ।
ऋतुष्व् एव संवत्सरे प्रतितिष्ठति ।
अथो पञ्च.अक्षरा पङ्क्तिः ।
पाङ्क्तो यज्ञः ।
यज्ञम् एव_अवरुन्धे ।
सप्तदशꣳ स्तोमा न_अतियन्ति ।
सप्तदशः प्रजापतिः ।
प्रजापतेर् आप्त्यै ।
अनुवाक 11
VERSE: 1 { 2.7.11.11}
अगस्त्यो मरुद्भ्य उक्ष्णः प्रौक्षत् ।
तान् इन्द्र आदत्त ।
त एनं वज्रम् उद्यत्य_अभ्यायन्त ।
तान् अगस्त्यश् चैव_इन्द्रश्च कयाशुभीयेन_अशमयताम् ।
ताण्_शान्तान् उपाह्वयत ।
यत् कयाशुभीयं भवति शान्त्यै ।
तस्माद् एत ऐन्द्रा मारुता उक्षाणः सवनीया भवन्ति ।
त्रयः प्रथमे ऽहन्न् आलभ्यन्ते ।
एवं द्वितीये ।
एवं तृतीये ।
VERSE: 2 { 2.7.11.2}
एवं चतुर्थे ।
पञ्च_उत्तमे ऽहन्न् आलभ्यन्ते ।
वर्षिष्ठम् इव ह्य् एतद् अहः ।
वर्षिष्ठः समानानां भवति ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
स्वाराज्यं वा एष यज्ञः ।
एतेन वा एकयावा कान्दमः स्वाराज्यम् अगच्छत् ।
स्वाराज्यं गच्छति ।
य एतेन यजते ।
VERSE: 3 { 2.7.11.3}
य उ चैनम् एवं वेद ।
मारुतो वा एष स्तोमः ।
एतेन वै मरुतो देवानां भूयिष्ठा अभवन् ।
भूयिष्ठः समानानां भवति ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
पञ्चशारदीयो वा एष यज्ञः ।
आ पञ्चमात् पुरुषाद् अन्नम् अत्ति ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
सप्तदशꣳ स्तोमा न_अतियन्ति ।
सप्तदशः प्रजापतिः ।
प्रजापतेर् एव न_एति ।
अनुवाक 12
VERSE: 1 { 2.7.12.1}
अस्य_अजरासो दमा मरित्राः ।
अर्चद्धूमासो अग्नयः पावकाः ।
श्विचीचयः श्वात्रासो भुरण्यवः ।
वनर्षदो वायवो न सोमाः ।
यजा नो मित्रावरुणा ।
यजा देवाꣳ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ।
अश्विना पिबतꣳ सुतम् ।
दीद्यग्नी शुचिव्रता ।
ऋतुना यज्ञवाहसा ।
VERSE: 2 { 2.7.12.2}
द्वे विरूपे चरतः { विरूपे चरतस्} स्वर्थे ।
अन्य_अन्या वत्सम् उपधापयेते ।
हरिर् अन्यस्यां भवति स्वधावान् ।
शुक्रो अन्यस्यां ददृशे सुवर्चाः ।
पूर्वापरं चरतो मायया_एतौ ।
शिशू क्रीडन्तौ परियातो अध्वरम् ।
विश्वान्य् अन्यो भुवना_अभिचष्टे ।
ऋतून् अन्यो विदधज् जायते पुनः ।
त्रीणि शता त्री_ सहस्राण्य् अग्निम् ।
त्रिꣳशत्_ च देवा नव च_असपर्यन् ।
VERSE: 3 { 2.7.12.3}
औक्षन् घृतैर् आस्तृणन् बर्हिर् अस्मै ।
आद् इद् होतारं न्यषादयन्त ।
अग्निना_अग्निः समिध्यते ।
कविर् गृहपतिर् युवा ।
हव्यवाड् जुह्वास्यः ।
अग्निर् देवानां जठरम् ।
पूतदक्षः कविक्रतुः ।
देवो देवेभिर् आगमत् ।
अग्निश्रियो मरुतो विश्वकृष्टयः ।
0 आ त्वेषम् उग्रम् अव ईमहे वयम् ।
VERSE: 4 { 2.7.12.4}
ते स्वामिनो रुद्रिया वर्षनिर्णिजः ।
सिꣳहा न हेषक्रतवः सुदानवः ।
यद् उत्तमे मरुतो मध्यमे वा ।
यद् वा_अवमे सुभगासो दिविष्ठ { दिविष्ठ} {?} ।
ततो नो रुद्रा उत वा_अन्वस्य ।
अग्ने वित्ताद् धविषो यद् यजामः ।
ईडे अग्निꣳ स्ववसं नमोभिः ।
इह प्रसप्तो विचयत् कृतं नः ।
रथैर् इव प्रभरे वाजपद्भिः { वाजपद्भिः} ।
प्रदक्षिणिन् मरुताꣳ स्तोमम् ऋध्याम् ।
VERSE: 5 { 2.7.12.5}
श्रुधि { श्रुधि {?}} श्रुत्कर्ण वह्निभिः ।
देवैर् अग्ने सयावभिः ।
आसीदन्तु बर्हिषि ।
मित्रो वरुणो अर्यमा ।
प्रातर्यावाणो अध्वरम् ।
विश्वेषाम् अदितिर् यज्ञियानाम् ।
विश्वेषाम् { विश्वेषाम्} अतिथिर् मानुषाणाम् ।
अग्निर् देवानाम् अव आवृणानः ।
सुमृडीको भवतु विश्ववेदाः ।
त्वे अग्ने सुमतिं भिक्षमानाः ।
VERSE: 6 { 2.7.12.6}
दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुर् उषसा विरूपे ।
कृष्णं { कृष्णं} च वर्णम् अरुणं च संधुः ।
त्वाम् अग्न आदित्यास आस्यम् ।
त्वां जिह्वाꣳ शुचयश् चक्रिरे कवे ।
त्वाꣳ रातिषाचो अध्वरेषु सश्चिरे ।
त्वे देवा हविर् अदन्त्य् आहुतम् ।
नि त्वा यज्ञस्य साधनम् ।
अग्ने होतारम् ऋत्विजम् ।
वनुष्वद् देव धीमहि प्रचेतसम् ।
जीरं दूतम् अमर्त्यम् ।
अनुवाक 13
VERSE: 1 { 2.7.13.1}
तिष्ठा हरी रथ आ युज्यमाना याहि ।
वायुर् न नियुतो नो अच्छ ।
पिबास्य् अन्धो अभिसृष्टो अस्मे ।
इन्द्र स्वाहा ररिमा ते मदाय ।
कस्य वृषा सुते सचा ।
नियुत्वान् वृषभो रणत् ।
वृत्रहा सोमपीतये ।
इन्द्रं वयं महाधने ।
इन्द्रम् अर्भै हवामहे ।
युजं वृत्रेषु वज्रिणम् ।
VERSE: 2 { 2.7.13.2}
द्विता यो वृत्रहन्तमः ।
विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतम् ।
स सूर आ जनयञ् ज्योतिर् इन्द्रम् ।
अया धिया तरणिर् अद्रिबर्हाः ।
ऋतेन शुष्मीन् अवमानो अर्कैः ।
व्युस्रिधो अस्रो अद्रिर् बिभेद ।
उत त्यद् आश्वश्वियम् ।
यद् इन्द्र नाहुषीष्व् आ ।
अग्रे विक्षु प्रतीदयत् ।
VERSE: 3 { 2.7.13.3}
भरेष्व् इन्द्रꣳ सुहवꣳ हवामहे ।
अꣳहोमुचꣳ सुकृतं दैव्यं जनम् ।
अग्निं मित्रं वरुणꣳ सातये भगम् ।
द्यावापृथिवी मरुतः स्वस्तये ।
महि क्षेत्रं पुरुश् चन्द्रं विविद्वान् ।
आदित् सखिभ्यश् च रथꣳ समैरत् ।
इन्द्रो नृभिर् अजनद् दीद्यानः साकम् ।
सूर्यम् उषसं गातुम् अग्निम् ।
उरुं नो लोकम् अनुनेषि विद्वान् ।
सुवर्वज् ज्योतिर् अभयꣳ स्वस्ति ।
VERSE: 4 { 2.7.13.4}
ऋष्वा त इन्द्र स्थविरस्य बाहू ।
उपस्थेयाम शरणा बृहन्ता ।
आ नो विश्वाभिर् ऊतिभिः सजोषाः ।
ब्रह्म जुषाणो हर्यश्व याहि ।
वरीवृजत् स्थविरेभिः सुशिप्र ।
अस्मे दधद् वृषणꣳ शुष्मम् इन्द्र ।
इन्द्राय गाव आशिरम् ।
दुदुह्रे वज्रिणे मधु ।
यत् सीम् उपह्वरे ऽविदत् ।
तास् ते वज्रिन् धेनवो जोजयुर् नः ।
VERSE: 5 { 2.7.13.5}
गभस्तयो नियुतो विश्ववाराः ।
अहर्_अहर् भूय इज् जोगुवानाः ।
पूर्णा इन्द्र क्षुमतो भोजनस्य ।
इमां ते धियं प्रभरे महो महीम् ।
अस्य स्तोत्रे धिषणा यत् त आनजे ।
तम् उत्सवे च प्रसवे च सासहिम् ।
इन्द्रं देवासः शवसा मदन्न् अनु ।
अनुवाक 14
VERSE: 1 { 2.7.14.1}
प्रजापतिः पशून् असृजत ।
ते ऽस्मात् सृष्टाः पराञ्च आयन् ।
तान् अग्निष्टोमेन न_आप्नोत् ।
तान् उक्थ्येन न_आप्नोत् ।
तान् षोडशिना न_आप्नोत् ।
तान् रात्रिया न_आप्नोत् ।
तान्त् संधिना न_आप्नोत् ।
सो ऽग्निम् अब्रवीत् ।
इमान् म ईप्स_इति ।
तान् अग्निस् त्रिवृता स्तोमेन न_आप्नोत् ।
VERSE: 2 { 2.7.14.2}
स इन्द्रम् अब्रवीत् ।
इमान् म ईप्स_इति {आनंदा. ईप्सतेति} ।
तान् इन्द्रः पञ्चदशेन स्तोमेन न_आप्नोत् ।
स विश्वान् देवान् अब्रवीत् ।
इमान् म ईप्सत_इति ।
तान् विश्वे देवाः सप्तदशेन स्तोमेन न_आप्नुवन् ।
स विष्णुम् अब्रवीत् ।
इमान् म ईप्स_इति ।
तान् विष्णुर् एकविꣳशेन स्तोमेन_आप्नोत् ।
वारवन्तीयेन_अवारयत ।
VERSE: 3 { 2.7.14.3}
इदं विष्णुर् विचक्रम इति व्यक्रमत ।
यस्मात् पशवः प्र प्र_इव भ्रꣳशेरन् ।
स एतेन यजेत ।
यद् आप्नोत् ।
तद् अप्तोर्यामस्य_आप्तोर्यामत्वम् ।
एतेन वै देवा जैत्वानि जित्वा ।
यं कामम् अकामयन्त तम् आप्नुवन् ।
यं कामं कामयते ।
तम् एतेन_आप्नोति ।
अनुवाक 15
VERSE: 1 { 2.7.15.1}
व्याघ्र्ò ऽयम् अग्नौ चरति प्रविष्टः ।
ऋषीणां पुत्रो अभिशस्तिपा अयम् ।
नमस्कारेण ।
नमसा ते जुहोमि ।
मा देवानां मिथुया कर्म {?} भागम् ।
सावीर्हि देव प्रसवाय पित्रे ।
वर्ष्माणम् अस्मै वरिमाणम् अस्मै ।
अथ_अस्मभ्यꣳ सवितः सर्वताता ।
दिवे दिव आसुवा भूरिपश्वः ।
भूतो भुतेषु चरति प्रविष्टः ।
स भूतानाम् अधिपतिर् बभूव ।
VERSE: 2 { 2.7.15.2}
तस्य मृत्यौ चरति राजसूयम् ।
स राजा राज्यम् अनुमन्यताम् इदम् ।
येभिश् शिल्पैः पप्रथानाम् अदृꣳहत् ।
येभिर् द्याम् अभ्यपिꣳशत् प्रजापतिः ।
येभिर् वाचं विश्वरूपाꣳ समव्ययत् ।
तेन_इमम् अग्न इह वर्चसा समङ्ग्धि ।
येभिर् आदित्यस् तपति प्रकेतुभिः ।
येभिः सूर्यो ददृशे चित्रभानुः ।
येभिर् वाचं पुष्कलेभिर् अव्ययत् ।
तेन_इमम् अग्न इह वर्चसा समङ्ग्धि ।
VERSE: 3 { 2.7.15.3}
आ_अयं भातु शवसा पञ्च कृष्टीः ।
इन्द्र इव ज्येष्ठो भवतु प्रजावान् ।
अस्मा अस्तु पुष्कलं चित्रभानु ।
आ_अयं पृणक्तु रजसी उपस्थम् ।
यत् ते शिल्पं कश्यप रोचनावत् ।
इन्द्रियावत् पुष्कलं चित्रभानु ।
यस्मिन्त् सूर्या अर्पिताः सप्त साकम् ।
तस्मिन् राजानम् अधिविश्रय_इमम् ।
द्यौर् असि पृथिव्यसि ।
व्याघ्रो वैयाघ्रे ऽधि ।
VERSE: 4 { 2.7.15.4}
विश्रयस्व दिशो महीः ।
विशस् त्वा सर्वा वाञ्छन्तु ।
मा त्वद् राष्ट्रम् अधिभ्रशत् ।
या दिव्या आपः पयसा संबभूवुः ।
या अन्तरिक्ष उत पार्थिवीर् याः ।
तासां त्वा सर्वासाꣳ रुचा ।
अभिषिञ्चामि वर्चसा ।
अभि त्वा वर्चसा सिचं दिव्येन ।
पयसा सह ।
यथा_आसा राष्ट्रवर्धनः ।
VERSE: 5 { 2.7.15.5}
तथा त्वा सविता करत् ।
इन्द्रं विश्वा अवीवृधन् ।
समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनाम् ।
वाजानाꣳ सत्पतिं पतिम् ।
वसवस् त्वा पुरस्ताद् अभिषिञ्चन्तु गायत्रेण छन्दसा ।
रुद्रास् त्वा दक्षिणतो ऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास् त्वा पश्चाद् अभिषिञ्चन्तु जागतेन छन्दसा ।
विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्व् आनुष्टुभेन छन्दसा ।
बृहस्पतिस् त्वा_उपरिष्टाद् अभिषिञ्चतु पाङ्क्तेन छन्दसा ।
VERSE: 6 { 2.7.15.6}
अरुणं त्वा वृकम् उग्रं खजंकरम् ।
रोचमानं मरुताम् अग्रे अर्चिषः ।
सूर्यवन्तं मघवानं विषासहिम् ।
इन्द्रम् उक्थ्येषु नामहूतमꣳ हुवेम ।
प्र बाहवा सिसृतं जीवसे नः ।
आ नो गव्यूतिम् उक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना ।
श्रुतं मे मित्रावरुणा हवेमा ।
इन्द्रस्य ते वीर्यकृतः ।
बाहू उपावहरामि ।
अनुवाक 16
VERSE: 1 { 2.7.16.1}
अभि प्रेहि वीरयस्व ।
उग्रश् चेत्ता सपत्नहा ।
आतिष्ठ वृत्रहन्तमः ।
तुभ्यं देवा अधिब्रुवन् ।
अङ्कौ न्यङ्काव् अभितो रथं यौ ।
ध्वान्तं वाताग्रम् अनुसंचरन्तौ ।
दूरेहेतिर् इन्द्रियावान् पतत्री ।
ते नो ऽग्नयः पप्रयः पारयन्तु ।
नमस् त ऋषे गद ।
अव्यथायै {आनंदा. अव्यधायै} त्वा स्वधायै त्वा ।
VERSE: 2 { 2.7.16.2}
मा न इन्द्र_अभितस् त्वद् ऋष्व_अरिष्टासः ।
एवा ब्रह्मन् तव_इद् अस्तु ।
तिष्ठा रथे अधि यद् वज्रहस्तः ।
आ रश्मीन् देव युवसे स्वश्वः ।
आतिष्ठ वृत्रहन्न् आतिष्ठन्तं परि ।
अनु त्वा_इन्द्रो मदत्व् अनु त्वा मित्रावरुणौ ।
द्यौश् च त्वा पृथिवी च प्रचेतसा ।
शुक्रो बृहद् दक्षिणा त्वा पिपर्तु ।
अनु स्वधा चिकिताꣳ सोमो अग्निः ।
अनु त्वा_अवतु सविता सवेन ।
VERSE: 3 { 2.7.16.3}
इन्द्रं विश्वा अवीवृधन् ।
समुद्रव्याचसं गिरः ।
रथीतमꣳ {आनंदा. रथीततꣳ} रथीनाम् ।
वाजानाꣳ सत्पतिं पतिम् ।
परि मा सेन्या घोषाः ।
ज्यानां वृञ्जन्तु गृध्नवः {आनंदा. गृवध्नः?} मेथिष्ठाः पिन्वमाना इह ।
मां गोपतिम् अभिसंविशन्तु ।
तन् मे ऽनुमतिर् अनुमन्यताम् ।
तन् माता पृथिवी तत् पिता द्यौः ।
VERSE: 4 { 2.7.16.4}
तद् ग्रावाणः सोमसुतो मयोभुवः ।
तद् अश्विना शृणुतꣳ सौभगा युवम् ।
अवते हेड उद् उत्तमम् ।
एना व्याघ्रं परिषस्वजानाः ।
सिꣳहꣳ हिन्वन्ति {आनंदा. हिन्वति} महते सौभगाय ।
समुद्रं न सुहवं तस्थिवाꣳसम् ।
मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः ।
उद् असाव् एतु सूर्यः ।
उद् इदं मामकं वचः ।
उदिहि देव सूर्य ।
सह वग्नुना मम ।
अहं वाचो विवाचनम् ।
मयि वाग् अस्तु धर्णसिः ।
यन्तु नदयो वर्षन्तु पर्जन्याः ।
सुपिप्पला ओषधयो भवन्तु ।
अन्नवताम् ओदनवताम् आमिक्षवताम् ।
एषाꣳ राजा भूयासम् ।
अनुवाक 17
VERSE: 1 { 2.7.17.1}
ये केशिनः प्रथमाः सत्त्रम् आसत ।
येभिर् आभृतं यद् इदं विरोचते ।
तेभ्यो जुहोमि बहुधा घृतेन ।
रायस् पोषेण_इमं वर्चसा सꣳसृजाथ ।
न_ऋते ब्रह्मणस् तपसो विमोकः ।
द्विनाम्नी दीक्षा वशिनी ह्य् उग्रा ।
प्र केशाः सुवते काण्ड्íनो भवन्ति ।
तेषां ब्रह्म_इद् ईशे वपनस्य न_अन्यः ।
आरोह प्रोष्ठं विषहस्व शत्रून् ।
अवास्राग् दीक्षा वशिनी ह्य् उग्रा ।
VERSE: 2 { 2.7.17.2}
देहि दक्षिणां प्रतिरस्व_आयुः ।
अथा मुच्यस्व वरुणस्य पाशात् ।
येन_अवपत् सविता क्षुरेण ।
सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपत_इदम् अस्य_ऊर्जा_इमम् ।
रय्या वर्चसा सꣳसृजाथ ।
मा ते केशान् अनु गाद् वर्च एतत् ।
तथा धाता करोतु ते ।
तुभ्यम् इन्द्रो बृहस्पतिः ।
सविता वर्च आदधात् ।
VERSE: 3 { 2.7.17.3}
तेभ्यो निधानं बहुधा व्यैच्छन् ।
अन्तरा द्यावापृथिवी अपः सुवः ।
दर्भस्तम्बे वीर्यकृते निधाय ।
पौꣳस्येन_इमं वर्चसा सꣳसृजाथ ।
बलं ते बाहुवोः सविता दधातु ।
सोमस् त्वा_अनक्तु पयसा घृतेन ।
स्त्रीषु रूपम् अश्विना_एतन् निधत्तम् ।
पौꣳस्येन_इमं { पोंस्येनेमं} वर्चसा सꣳसृजाथ ।
यत् सीमन्तं कङ्कतस् ते लिलेख ।
यद् वा क्षुरः परिववर्ज वपꣳस् ते ।
स्त्रीषु रूपम् अश्विना_एतन् निधत्तम् ।
पौꣳस्येन_इमꣳ सꣳसृजाथो वीर्येण ।
अनुवाक 18
VERSE: 1 { 2.7.18.1}
इन्द्रं वै स्वा विशो मरुतो न_अपाचायन् ।
सो ऽनपचाय्यमान एतं विघनम् अपश्यत् ।
तम् आहरत् ।
तेन_अयजत ।
तेन_एवाऽऽसां तꣳ सꣳस्तम्भं व्यहन् ।
यद् व्यहन् ।
तद् विघनस्य विघनत्वम् ।
वि पाप्मानं भ्रातृव्यꣳ हते ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
VERSE: 2 { 2.7.18.2}
यꣳ राजानं विशो न_अपचायेयुः ।
यो वा ब्राह्मणस् तमसा पाप्मना प्रावृतः स्यात् ।
स एतेन यजेत ।
विघनेन_एवैनद् विहत्य ।
विशाम् आधिपत्यं गच्छति ।
तस्य द्वे द्वादशे स्तोत्रे भवतः ।
द्वे चतुर्विꣳशे ।
औद्भिद्यम् एव तत् ।
एतद् वै क्षत्रस्य_औद्भिद्यम् ।
यद् अस्मै स्वा विशो बलिꣳ हरन्ति ।
VERSE: 3 { 2.7.18.3}
हरन्त्य् अस्मै विशो बलिम् ।
आ_एनम् अप्रतिख्यातं गच्छति ।
य एवं वेद ।
प्रबाहुग् वा अग्रे क्षत्राण्य् आतेपुः ।
तेषाम् इन्द्रः क्षत्राण्य् आदत्त ।
न वा इमानि क्षत्राण्य् अभूवन्न् इति ।
तन् नक्षत्राणां नक्षत्रत्वम् ।
आ श्रेयसो भ्रातृव्यस्य तेज इन्द्रियं दत्ते ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
VERSE: 4 { 2.7.18.4}
तद् यथा ह वै सचाक्रिणौ कप्लकाव् उपावहितौ स्याताम् ।
एवम् एतौ युग्मन्तौ स्तोमौ ।
अयुक्षु स्तोमेषु क्रियेते ।
पाप्मनो ऽपहत्यै ।
अप पाप्मानं भ्रातृव्यꣳ हते ।
य एतेन यजते ।
य उ चैनम् एवं वेद ।
तद् यथा ह वै सूतग्रामण्यः ।
एवं छन्दाꣳसि ।
तेष्व् असाव् आदित्यो बृहतीर् अभ्यूढः {आनंदा. अभ्यूडः} ।
VERSE: 5 { 2.7.18.5}
सतोबृहतीषु स्तुवते सतो बृहन् ।
प्रजया पशुभिर् असानि_इत्य् एव ।
व्यतिषक्ताभिः स्तुवते ।
व्यतिषक्तं वै क्षत्रं विशा ।
विशा_एवैनं क्षत्रेण व्यतिषजति ।
व्यतिषक्ताभिः स्तुवते ।
व्यतिषक्तो वै ग्रामणीः सजातैः ।
सजातैर् एवैनं व्यतिषजति ।
व्यतिषक्ताभिः स्तुवते ।
व्यतिषक्तो वै पुरुषः पाप्मभिः ।
व्यतिषक्ताभिर् एवास्य पाप्मनो नुदते ।
प्रपाठक: 8
अनुवाक 1
VERSE: 1 { 2.8.1.1}
पीवोन्नाꣳ {ड्युमोण्ट पीवोअन्नाꣳ} रयिवृधः सुमेधाः ।
श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
ते वायवे समनसो वितस्थुः ।
विश्वा_इत्_ नरः स्वपत्यानि चक्रुः ।
राये ऽनु यं जज्ञतू रोदसी उभे ।
राये देवी धिषणा धाति देवम् ।
अधा वायुं नियुतः सश्चत स्वाः ।
उत श्वेतं वसुधितिं निरेके ।
{च्} आ वायो, {द्} प्र याभिः ।
0 {द्} प्र वायुम् अच्छा बृहती मनीषा ।
VERSE: 2 { 2.8.1.2}
बृहद्रयिं विश्ववाराꣳ {ड्युमोण्ट विश्ववारꣳ} रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः ।
कविः कविम् इयक्षसि प्रयज्यो ।
आ नो नियुद्भिः शतिनीभिर् अध्वरम् ।
सहस्रिणीभिर् उप याहि यज्ञम् ।
वायो अस्मिन् हविषि मादयस्व ।
यूयं पात स्वस्तिभिः सदा नः ।
प्रजापते न त्वद् एतान्य् अन्यः ।
विश्वा जातानि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो अस्तु ।
VERSE: 3 { 2.8.1.3}
वयꣳ स्याम पतयो रयीणाम् ।
रयीणां पतिं यजतं बृहन्तम् ।
अस्मिन् भरे नृतमं वाजसातौ ।
प्रजापतिं प्रथमजाम् ऋतस्य ।
यजाम देवम् अधि नो ब्रवीतु ।
प्रजापते त्वं निधिपाः पुराणः ।
देवानां पिता जनिता प्रजानाम् ।
पतिर् विश्वस्य जगतः परस्पाः ।
हविर् नो देव विहवे जुषस्व ।
तव_इमे लोकाः प्रदिशो दिशश् च ।
VERSE: 4 { 2.8.1.4}
परावतो निवत उद्वतश् च ।
प्रजापते विश्वसृज् जीवधन्य इदं नो देव ।
प्रतिहर्य हव्यम् ।
प्रजापतिं प्रथमं यज्ञियानाम् ।
देवानाम् अग्रे यजतं यजध्वम् ।
स नो ददातु द्रविणꣳ {आनंदा. द्रविणꣳ} सुवीर्यम् ।
रायस् पोषं विष्यतु नाभिम् अस्मे ।
यो राय ईशे शतदाय उक्थ्यः ।
यः पशूनाꣳ रक्षिता विष्ठितानाम् ।
प्रजापतिः प्रथमजा ऋतस्य ।
VERSE: 5 { 2.8.1.5}
सहस्रधामा जुषताꣳ हविर् नः ।
सोमापूषणा_ इमौ देवौ ।
सोमापूषणा रजसो विमानम् ।
सप्तचक्रꣳ रथम् अविश्वमिन्वम् ।
विषूवृतं मनसा युज्यमानम् ।
तं जिन्वथो वृषणा पञ्चरश्मिम् ।
दिव्यन्यः सदनं चक्र उच्चा ।
पृथिव्याम् अन्यो अध्य् अन्तरिक्षे ।
ताव् अस्मभ्यं पुरुवारं पुरुक्षुम् ।
रायस् पोषं विष्यतां नाभिम् अस्मे ।
VERSE: 6 { 2.8.1.6}
धियं पूषा जिन्वतु विश्वमिन्वः ।
रयिꣳ सोमो रयिपतिर् दधातु ।
अवतु देव्य् अदितिर् अनर्वा ।
बृहद् वदेम विदथे सुवीराः ।
विश्वान्य् अन्यो भुवना जजान ।
विश्वम् अन्यो अभिचक्षाण एति ।
सोमापूषणाव् अवतं धियं मे ।
युवभ्यां विश्वाः पृतना जयेम ।
उद् उत्तमं वरुण_ अस्तभ्नाद् द्याम् {सो तै.सं.1.8.2.2; ,आषः याम्} ।
यत् किं च_इदं कितवासः ।
अव ते हेडस् तत् त्वा यामि ।
आदित्यानाम् अवसा न दक्षिणा ।
धारयन्त आदित्यासस् तिस्रो भूमीर् धारयन् ।
यज्ञो देवानाꣳ शुचिर् अपः ।
अनुवाक 2
VERSE: 1 { 2.8.2.7}
ते शुक्रासः शुचयो रश्मिवन्तः ।
सीदन्न् आदित्या अधि बर्हिषि प्रिये ।
कामेन देवाः सरथं दिवो नः ।
आयान्तु यज्ञम् उप नो जुषाणाः ।
ते सूनवो अदितेः पीवसाम् इषम् ।
घृतं पिन्वत् प्रतिहर्यन्न् ऋतेजाः ।
प्र यज्ञिया यजमानाय येमुरे ।
आदित्याः कामं पितुमन्तम् अस्मे ।
आ नः पुत्रा अदितेर् यान्तु यज्ञम् ।
आदित्यासः पथिभिर् देवयानैः ।
VERSE: 2 { 2.8.2.2}
अस्मे कामं दाशुषे सन्नमन्तः ।
पुरोडाशं घृतवन्तं जुषन्ताम् ।
स्कभायत निर्ऋतिꣳ सेधत_आमतिम् ।
प्र रश्मिभिर् यतमाना अमृध्राः ।
आदित्याः काम प्रयतां वषट्कृतिम् ।
जुषध्वं नो हव्यदातिं यजत्राः ।
आदित्यान् कामम् अवसे हुवेम ।
ये भूतानि जनयन्तो विचिख्युः ।
सीदन्तु पुत्रा अदितेर् उपस्थम् ।
स्तीर्णं बर्हिर् हविरद्याय देवाः ।
VERSE: 3 { 2.8.2.3}
स्तीर्णं बर्हिः सीदता यज्ञे अस्मिन् ।
ध्राजाः सेधन्तो अमतिं दुरेवाम् ।
अस्मभ्यं पुत्रा अदितेः प्रयꣳसत ।
आदित्याः काम हविषो जुषाणाः ।
अग्ने नय सुपथा राये अस्मान् ।
विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनः ।
भूयिष्ठां ते नमौक्तिं विधेम ।
प्र वः शुक्राय भानवे भरध्वम् ।
हव्यं मतिं च_अग्नये सुपूतम् ।
VERSE: 4 { 2.8.2.4}
यो दैव्यानि मानुषा जनूꣳषि ।
अन्तर् विश्वानि विद्मना जिगाति ।
अच्छा गिरो मतयो देवयन्तीः ।
अग्निं यन्ति द्रविणं भिक्षमाणाः ।
सुसंदृशꣳ सुप्रतीकꣳ स्वञ्चम् ।
हव्यवाहम् अरतिं मानुषाणाम् ।
अग्ने त्वम् अस्मद् युयोध्य् अमीवाः ।
अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनर् अस्मभ्यꣳ सुविताय देव ।
क्षां विश्वेभिर् अजरेभिर् यजत्र ।
VERSE: 5 { 2.8.2.5}
अग्ने त्वं पारया नव्यो अस्मान् ।
स्वस्तिभिर् अति दुर्गाणि विश्वा ।
पूश् च पृथ्वी बहुला न उर्वी ।
भवा तोकाय तनयाय शं योः ।
प्र कारवो मनना वच्यमानाः ।
देवद्रीचीं नयथ देवयन्तः ।
दक्षिणावाड् वाजिनी प्राच्य् एति ।
हविर् भरन्त्य् अग्नये घृताची ।
इन्द्रं नरो, युजे रथम्, ।
जगृभ्णा {ड्युमोण्ट जगृभ्मा} ते दक्षिणाम् इन्द्र हस्तम् ।
VERSE: 6 { 2.8.2.6}
वसूयवो वसुपते वसूनाम् ।
विद्मा हि त्वा गोपतिꣳ शूर गोनाम् ।
अस्मभ्यं चित्रं वृषणꣳ रयिं दाः ।
तव_इदं विश्वम् अभितः पशव्यम् ।
यत् पश्यसि चक्षसा सूर्यस्य ।
गवाम् असि गोपतिर् एक इन्द्र ।
भक्षीमहि ते प्रयतस्य वस्वः ।
सम् इन्द्र णो मनसा नेषि गोभिः ।
सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति ।
VERSE: 7 { 2.8.2.7}
सं देवानाꣳ सुमत्या यज्ञियानाम् ।
आरात्_शत्रुम् अप बाधस्व दूरम् ।
उग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद् गोमद् इन्द्र ।
कृधी धियं जरित्रे वाजरत्नाम् ।
आ वेधसꣳ, स हि शुचिः, ।
बृहस्पतिः प्रथमं जायमानः ।
महो ज्योतिषः परमे व्योमन् ।
सप्तास्यस् तुविजातो रवेण ।
वि सप्तरश्मिर् अधमत् तमाꣳसि ।
VERSE: 8 { 2.8.2.8}
बृहस्पतिः समजयद् वसूनि ।
महो व्रजान् गोमतो देव एषः ।
अपः सिषासन्त् सुवर् अप्रतीत्तः ।
बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ।
बृहस्पते पर्य्, एवा पित्रे, ।
आ नो दिवः, पावीरवी, ।
इमा जुह्वाना, यस् ते स्तनः, ।
सरस्वत्य् अभि नो नेषि, ।
इयꣳ शुष्मेभिर् बिसखा इव_अरुजत् ।
सानु गिरीणां तविषेभिर् ऊर्मिभिः ।
पारावदघ्नीम् {ड्युमोण्ट पारावतघीम्} अवसे सुवृक्तिभिः ।
सरस्वतीम् आविवासेम धीतिभिः ।
अनुवाक 3
VERSE: 1 { 2.8.3.1}
सोमो धेनुꣳ सोमो अर्वन्तम् आशुम् ।
सोमो वीरं कर्मण्यं ददातु ।
सादन्यं विदथ्यꣳ सभेयम् ।
पितुःश्रवणं यो ददाशद् अस्मै ।
अषाढं युत्सु, त्वꣳ सोम क्रतुभिः, ।
या ते धामानि हविषा यजन्ति, ।
त्वम् इमा ओषधीः सोम विश्वाः ।
त्वम् अपो अजनयस् त्वं गाः ।
त्वमाततन्थ_उर्व् अन्तरिक्षम् ।
त्वं ज्योतिषा वि तमो ववर्थ ।
VERSE: 2 { 2.8.3.2}
या ते धामानि दिवि या पृथिव्याम् ।
या पर्वतेष्व् ओषधीष्व् अप्सु ।
तेभिर् नो विश्वैः सुमना अहेडन् ।
राजन्त् सोम प्रति हव्या गृभाय ।
विष्णोर् नु कं, तद् अस्य प्रियम्, ।
प्र तद् विणुः, ।
परो मात्रया तनुवा वृधान ।
न ते महित्वम् अन्वश्नुवन्ति ।
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् ।
परमस्य वित्से ।
VERSE: 3 { 2.8.3.3}
विचक्रमे, त्रिर् देवः, ।
आ ते महो, यो जात एव. ।
अभि गोत्राणि. ।
आभिः स्पृधो मिथतीर् अरिषण्यन् ।
अमित्रस्य व्यथया मन्युम् इन्द्र आभिर् विश्वा अभियुजो विषूचीः ।
आर्याय विशो ऽवतरीर् दासीः ।
अयꣳ शृण्वे अध जयन्न् उत घ्नन् ।
अयम् उत प्रकृणुते युधा गाः ।
यदा सत्यं कृणुते मन्युम् इन्द्रः ।
VERSE: 4 { 2.8.3.4}
विश्वं दृढं भयत एजद् अस्मात् ।
अनु स्वधाम् अक्षरन्न् आपो अस्य ।
अवर्धत मध्य आ नाव्यानाम् ।
सध्र्īचीनेन मनसा तम् इन्द्र ओजिष्ठेन ।
हन्मना_अहन्न् अभि द्यून् ।
मरुत्वन्तं वृषभं वावृधानम् ।
अकवारिं दिव्यꣳ शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनाय ।
उग्रꣳ सहोदाम् इह तꣳ हुवेम ।
जनिष्ठा उग्रः सहसे तुराय ।
VERSE: 5 { 2.8.3.5}
मन्द्र ओजिष्ठो बहुलाभिमानः ।
अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र ।
माता यद् वीरं दधनद् धनिष्ठा ।
क्व स्या वो मरुतः स्वधा_आसीत् ।
यन् माम् एकꣳ समधत्ता_अहिहत्ये ।
अहꣳ ह्य् उग्रस् तविषस् तुविष्मान् ।
विश्वस्य शत्रोर् अनमं वधस्न्áइः ।
वृत्रस्य त्वा श्वसथाद् ईषमाणाः ।
विश्वे देवा अजहुर् ये सखायः ।
मरुद्भिर् इन्द्र सख्यं ते अस्तु ।
VERSE: 6 { 2.8.3.6}
अथ_इमा विश्वाः पृतना जयासि ।
वधीं { वर्धीं ?} वृत्रं मरुत इन्द्रियेण ।
स्वेन भामेन तविषो बभूवान् ।
अहम् एता मनवे विश्वश्चन्द्राः ।
सुगा अपश् चकर वज्रबाहुः ।
स यो वृषा वृष्णियेभिः समोकाः ।
महो दिवः पृथिव्याश् च सम्राट् ।
सतीनसत्त्वा {ड्युमोण्ट सतीनसत्वा} हव्यो भरेषु ।
मरुत्वान् नो भवत्व् इन्द्र ऊती ।
इन्द्रो वृत्रम् अतरद् वृत्रतूर्ये ।
VERSE: 7 { 2.8.3.7}
अनाधृष्यो मघवा शूर इन्द्रः ।
अन्व् एनं विशो अमदन्त पूर्विः ।
अयꣳ राजा जगतश् चर्षणीनाम् ।
स एव वीरः स उ वीर्यावान् ।
स एकराजो जगतः परस्पाः ।
यदा वृत्रम् अतरत्_शूर इन्द्रः ।
अथ_अभवद् दमिता_अभिक्रतूनाम् ।
इन्द्रो यज्ञं वर्धयन् विश्ववेदाः ।
पुरोडाशस्य जुषताꣳ हविर् नः ।
वृत्रं तीर्त्वा दानवं वज्रबाहुः ।
VERSE: 8 { 2.8.3.8}
दिशो ऽदृꣳहद् दृꣳहिता दृꣳहणेन ।
इमं यज्ञं वर्धयन् विश्ववेदाः ।
पुरोडाशं प्रतिगृभ्णात्व् इन्द्रः ।
यदा वृत्रम् अतर्त्_शूर इन्द्रः ।
अथ_एकराजो अभवज् जनानाम् ।
इन्द्रो देवान्_शम्बरहत्य आवत् ।
इन्द्रो देवानाम् अभवत् पुरोगाः ।
इन्द्रो यज्ञे हविषा वावृधानः ।
वृत्रतूर् णो अभयꣳ शर्म यꣳसत् ।
यः सप्त सिन्धूꣳर् अदधात् पृथिव्याम् ।
यः सप्त लोकान् अकृणोद् दिशश् च ।
इन्द्रो हविष्मान्त् सगणो मरुद्भिः ।
वृत्रतूर् णो यज्ञम् इह_उपयासत् ।
अनुवाक 4
VERSE: 1 { 2.8.4.1}
इन्द्रस् तरस्वान् अभिमातिहा_उग्रः ।
हिरण्यवाशीर् इषिरः सुवर्षाः ।तस्य वयꣳ सुमतौ यज्ञियस्य ।
अपि भद्रे सौमनसे स्याम ।
हिरण्यवर्णो अभयं कृणोतु ।
अभिमातिहा_इन्द्रः पृतनासु जिष्णुः ।
स नः शर्म त्रिवरूथं वियꣳसत् ।
यूयं पात स्वस्तिभिः सदा नः ।
इन्द्रꣳ स्तुहि वज्रिणꣳ स्तोमपृष्ठम् {ड्युमोण्ट सोमपृष्ठम्} ।
पुरोडाशस्य जुषताꣳ हविर् नः ।
VERSE: 2 { 2.8.4.2}
हत्वा_अभिमातीः पृतनाः सहस्वान् ।
अथ_अभयं कृणुहि { अथाभयं कृणुहि} विश्वतो नः ।
स्तुहि शूरं वज्रिणम् अप्रतीतम् ।
अभिमातिहनं पुरुहूतम् इन्द्रम् ।
य एक इत्_शतपतिर् जनेषु ।
तस्मा इन्द्राय हविर् आजुहोत ।
इन्द्रो देवानाम् अधिपाः पुरोहितः ।
दिशां पतिर् अभवद् वाजिनीवान् ।
अभिमातिहा तविषस् तुविष्मान् ।
अस्मभ्यं चित्रं वृषणꣳ रयिं दात् ।
VERSE: 3 { 2.8.4.3}
य इमे द्यावापृथिवी महित्वा ।
बलेन_अदृꣳहद् अभिमातिहा_इन्द्रः ।
स नो हविः प्रतिगृभ्णातु रातये ।
देवानां देवो निधिपा नो अव्यात् ।
अनवस् ते रथं, वृष्णे यत् ते. ।
इन्द्रस्य नु वीर्याण्य्, अहन्न् अहिम्, ।
इन्द्रो यातो ऽवसितस्य राजा ।
शमस्य च शृङ्गिणो वज्रबाहुः ।
स_इद् उ राजा क्षेति चर्षणीनाम् ।
अरान् न नेमिः परि ता बभूव ।
VERSE: 4 { 2.8.4.4}
अभि सिध्मो अजिगाद् अस्य शत्रून् ।
वि तिग्मेन वृषभेणा पुरो ऽभेत् ।
सं वज्रेण_असृजद् वृत्रम् इन्द्रः ।
प्र स्वां मतिम् अतिरत्_शाशदानः ।
विष्णुं देवं वरुणमूतये भगम् ।
मेदसा देवा वपया यजध्वम् ।
ता नो यज्ञम् आगतं विश्वधेना ।
प्रजावद् अस्मे द्रविणा_इह धत्तम् ।
मेदसा देवा वपया यजध्वम् ।
विष्णुं च देवं वरुणं च रातिम् ।
VERSE: 5 { 2.8.4.5}
ता नो अमीवा अपबाधमानौ ।
इमं यज्ञं जुषमाणाव् उपेतम् ।
विष्णूवरुणा युवम् अध्वराय नः ।
विशे जनाय महि शर्म यच्छतम् ।
दीर्घप्रयज्यू हविषा वृधाना ।
ज्योतिषा_अरातीर् दहतं तमाꣳसि ।
ययोर् ओजसा स्कभिता रजाꣳसि ।
वीर्येभिर् वीरतमा शविष्ठा ।
या पत्येते अप्रतीता शहोभिः ।
विष्णू अगन् वरुणा पूर्वहूतौ ।
VERSE: 6 { 2.8.4.6}
विष्णूवरुणाव् अभिशस्तिपा वाम् ।
देवा यजन्त हविषा घृतेन ।
अप_अमीवाꣳ सेधतꣳ रक्षसश् च ।
अथा धत्तं यजमानाय शं योः ।
अꣳहोमुचा वृषभा सुप्रतूर्ती ।
देवानां देवतमा शविष्ठा ।
विष्णूवरुणा प्रतिहर्यतं नः ।
इदं नरा {ड्युमोण्ट नरा} प्रयतमूतये हविः ।
मही नु द्यावापृथिवी इह ज्येष्ठे ।
रुचा भवताꣳ शुचयद्भिर् अर्कैः ।
VERSE: 7 { 2.8.4.7}
यत् सीं वरिष्ठे बृहती विमिन्वन् ।
नृवद्भ्यो {ड्युमोण्ट रुवद् धो} ऽक्षा पप्रथानेभिर् एवैः ।
प्र पूर्वजे पितरा नव्यसीभिः ।
गीर्भिः कृणुध्वꣳ सदने ऋतस्य ।
आ नो द्यावापृथिवी दैव्येन ।
जनेन यातं महि वां वरूथम् ।
स इत् स्वपा भुवनेष्व् आस ।
य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके ।
अवꣳशे धीरः शच्या समैरत् ।
VERSE: 8 { 2.8.4.8}
भूरिं द्वे अचरन्ती चरन्तम् ।
पद्वन्तं गर्भम् अपदी दधाते ।
नित्यं न सूनुं पित्रोर् उपस्थे ।
तं पिपृतꣳ रोदसी सत्यवाचम् ।
इदं द्यावापृथिवी सत्यम् अस्तु ।
पितर् मातर् यद् इह_उपब्रुवे वाम् ।
भूतं देवानाम् अवमे अवोभिः ।
विद्याम_इषं वृजनं जीरदानुम् ।
उर्वी पृथ्वी बहुले दूरे_अन्ते ।
उपब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूर्ती ।
द्यावा रक्षतं पृथिवी नो अभ्वात् ।
या जाता ओषधयो, ऽति विश्वाः परिष्ठाः, ।
या ओषधयः सोमराज्ञीर्, अश्वावतीꣳ सोमवतीम्, ।
ओषधीर् इति मातरो, ऽन्या वो अन्याम् अवतु, ।
अनुवाक 5
VERSE: 1 { 2.8.5.5}
शुचिं नु स्तोमꣳ, श्नथद् वृत्रम्, ।
उभा वाम् इन्द्राग्नी, प्र चर्षणिभ्यः, ।
आ वृत्रहणा, गीर्भिर् विप्रः, ।
ब्रह्मणस्पते त्वम् अस्य यन्ता ।
सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवाः ।
बृहद् वदेम विदथे सुवीराः ।
स ईꣳ सत्येभिः सखिभिः शुचद्भिः ।
गोधायसं वि धनसैर् अतर्दत् ।
ब्रह्मणस्पतिर् वृषभिर् वराहैः ।
VERSE: 2 { 2.8.5.2}
घर्मस्वेदोभिर् द्रविणं व्यानट् ।
ब्रह्मणस्पतेर् अभवद् यथावशम् ।
सत्यो मन्युर् महि कर्मा करिष्यतः ।
यो गा उदाजत् स दिवे वि च_अभजत् ।
महि_इव रीतिः शवसा सरत् {ड्युमोण्ट शवसा_ऽसरत्} पृथक् ।
इन्धानो अग्निं वनवद् वनुष्यतः ।
कृतब्रह्मा शूशुवद् रातहव्य इत् ।
जातेन जातम् अति सृत् प्रसृꣳसते {ड्युमोण्ट अति स प्रसर्स्र्̥ते, प्रोबब्ल्य् बसेद् उपोन् ऋ.वे..2.25.1} ।
यं_यं युजं कृणुते ब्रह्मणस्पतिः ।
ब्रह्मणस्पते सुयमस्य विश्वहा ।
VERSE: 3 { 2.8.5.3}
रायः स्याम रथ्यो विवस्वतः ।
वीरेषु वीराꣳ उपपृङ्ग्धि नस् त्वम् ।
यद् ईशानो ब्रह्मणा वेषि मे हवम् ।
स इज् जनेन स विशा स जन्मना ।
स पुत्रैर् वाजं भरते धना नृभिः ।
देवानां यः पितरम् आविवासति ।
श्रद्धामना हविषा ब्रह्मणस्पतिम् ।
यस् ते पूषन् नावो अन्तः, ।
शुक्रं ते अन्यत्, पूषा_इमा आशाः, ।
प्रपथे पथाम् अजनिष्ट पूषा ।
VERSE: 4 { 2.8.5.4}
प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे ।
आ च परा च चरति प्रजानन् ।
पूषा सुबन्धुर् दिव आ पृथिव्याः ।
इडस् पतिर् मघवा दस्मवर्चाः ।
तं देवासो अददुः सूर्यायै ।
कामेन कृतं तवसꣳ स्वञ्चम् ।
अजाश्वः पशुपा वाजवस्त्यः ।
धियंजिन्वो विश्वे भुवने अर्पितः ।
अष्ट्रां पूषा शिथिराम् उद्वरीवृजत् ।
VERSE: 5 { 2.8.5.5}
संचक्षाणो भुवना देव ईयते ।
शुची वो हव्या मरुतः शुचीनाम् ।
शुचिꣳ हिनोम्य् अध्वरꣳ शुचिभ्यः ।
ऋतेन { ऋतेन} सत्यम् ऋतसाप आयन् ।
शुचिजन्मानः शुचयः पावकाः ।
प्र चित्रम् अर्कं गृणते तुराय ।
मारुताय स्वतवसे भरध्वम् ।
ये सहाꣳसि सहसा सहन्ते ।
रेजते अग्ने पृथिवी मखेभ्यः ।
अꣳसेष्व् आ मरुतः खादयो वः ।
VERSE: 6 { 2.8.5.6}
वक्षःसु रुक्मा उपशिश्रियाणाः ।
वि विद्युतो न व्य्र्̥ष्टिभी रुचानाः ।
अनु स्वधाम् आयुधैर् यत्_शमानाः ।
या वः शर्म शशमानाय सन्ति ।
त्रिधातूनि दाशुषे यच्छत_अधि ।
अस्मभ्यं तानि मरुतो वियन्त ।
रयिं नो धत्त वृषणः सुवीरम् ।
इमे तुरं मरुतो रामयन्ति ।
इमे सहः सहस आनमन्ति ।
इमे शꣳसं वनुष्यतो निपान्ति ।
VERSE: 7 { 2.8.5.7}
गुरु द्वेषो अररुषे दधन्ति ।
अरा इव_इद् अचरमा अह_इव ।
प्र प्रजायन्ते अकवा महोभिः ।
पृश्नेः पुत्रा उपमासो रभिष्ठाः ।
स्वया मत्या मरुतः संमिमिक्षुः ।
अनु ते दायि मह इन्द्रियाय ।
सत्रा ते विश्वम् अनु वृत्रहत्ये ।
अनु क्षत्त्रम् अनु सहो यजत्र ।
इन्द्र देवेभिर् अनु ते नृषह्ये ।
य इन्द्र शुष्मो मघवन् ते अस्ति ।
VERSE: 8 { 2.8.5.8}
शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
त्वꣳ हि दृढा मघवन् विचेताः ।
अपावृधि परिवृतिं न राधः ।
इन्द्रो राजा जगतश् चर्षणीनाम् ।
अधि क्षमि विषुरूपं यद् अस्ति ।
ततो ददातु दाशुषे वसूनि ।
चोदद् राध उपस्तुतश् चिद् अर्वाक् ।
तम् उ ष्टुहि यो अभिभूत्योजाः ।
वन्वन्न् अवातः पुरुहूत इन्द्रः ।
अषाढम् उग्रꣳ सहमानम् आभिः ।
{ 2.8.5.9}
गीर्भिर् वर्ध वृषभं चर्षणीनाम् ।
स्थूरस्य रायो बृहतो य ईशे ।
तम् उ ष्टवाम विदथेष्व् इन्द्रम् ।
यो वायुना जयति गोमतीषु ।
प्र धृष्णुया नयति वस्यो अच्छ ।
आ ते शुष्मो वृषभ एतु पश्चात् ।
आ_उत्तराद् अधराग् आ पुरस्तात् ।
आ विश्वतो अभि समेत्व् अर्वाङ् ।
इन्द्र द्युम्नꣳ सुवर्वद् धेह्य् अस्मे ।
अनुवाक 6
VERSE: 1 { 2.8.6.1}
आ देवो यातु सविता सुरत्नः ।
अन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि ।
निवेशयन् च प्रसुवन् च भूम ।
अभीवृतं कृशनैर् विश्वरूपम् ।
हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद् रथꣳ सविता चित्रभानुः ।
कृष्णा रजाꣳसि तविषीं दधानः ।
स घा नो देवः सविता सवाय ।
आसाविषद् वसुपतिर् वसूनि ।
VERSE: 2 { 2.8.6.2}
विश्रयमाणो अमतिम् {ड्युमोण्ट अमतिम्} उरूचीम् ।
मर्तभोजनम् अध रासते न {ड्युमोण्ट नः} ।
वि जनान्_श्यावाः शितिपादो अख्यन् ।
रथꣳ हिरण्यप्रौगं वहन्तः ।
शश्वद् दिशः सवितुर् दैव्यस्य ।
उपस्थे विश्वा भुवनानि तस्थुः ।
वि सुपर्णो अन्तरिक्षाण्य् अख्यत् ।
गभीरवेपा असुरः सुनीथः ।
क्व_ìदानीꣳ सूर्यः कश् चिकेत ।
कतमां द्याꣳ रश्मिर् अस्य_आततान ।
VERSE: 3 { 2.8.6.3}
भगं धियं वाजयन्तः पुरन्धिम् ।
नराशꣳसो ग्नास्पतिर् नो अव्यात् ।
आ ऽये {ड्युमोण्ट आये} वामस्य संगथे रयीणाम् ।
प्रिया देवस्य सवितुः स्याम ।
आ नो विश्वे अस्क्र्ā गमन्तु देवाः ।
मित्रो अर्यमा वरुणः सजोषाः ।
भुवन् यथा नो विश्वे वृधासः ।
करन्त् सुषहा विथुरं न शवः ।
शं नो देवा विश्वदेवा भवन्तु ।
शꣳ सरस्वती सह धीभिर् अस्तु ।
VERSE: 4 { 2.8.6.4}
शम् अभिषाचः शम् उ रातिषाचः ।
शं नो दिव्याः पार्थिवाः शं नो अप्याः ।
ये सवितुः सत्यसवस्य विश्वे ।
मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद् गोमद् अप्नः ।
दधातन द्रविणं चित्रम् अस्मे ।
अग्ने याहि दूत्यं वारिषेण्यः {ड्युमोण्ट मा विषण्यः} ।
देवाꣳ अच्छा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विना_अपः ।
यक्षि देवान् रत्नधेयाय विश्वान् ।
VERSE: 5 { 2.8.6.5}
द्यौः पितः पृथिवि मातर् अध्रुक ।
अग्ने भ्रातर्वसवो मृडता नः ।
विश्व आदित्या आदिते सजोषाः ।
अस्मभ्यꣳ शर्म बहुलं वियन्त ।
विश्वे देवाः शृणुत_इमꣳ हवं मे ।
ये अन्तरिक्षे य उप द्यवि ष्ठ ।
ये अग्निजिह्वा उत वा यजत्राः ।
आसद्य_अस्मिन् बर्हिषि मादयध्वम् ।
आ वां मित्रावरुणा हव्यजुष्टिम् ।
नमसा देवावव् अवसा ववृत्याम् ।
VERSE: 6 { 2.8.6.6}
अस्माकं ब्रह्म पृतनासु सह्या अस्माकम् ।
{ड्युमोण्ट सुग्गेस्त्स् नोत् तो पुत् ।} वृष्टिर् दिव्या सुपारा ।
युवं वस्त्राणि पीवसा वसाथे ।
युवोर् अच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतम् अनृतानि विश्वा ।
ऋतेन मित्रावरुणा सचेथे ।
तत् सु वां मित्रावरुणा महित्वम् ।
ईर्मा तस्थुषीर् अहभिर् दुदुह्रे ।
विश्वाः पिन्वथ स्वसरस्य धेनाः अनु वाम् एकः पविर् आववर्ति ।
VERSE: 7 { 2.8.6.7}
यद् बꣳहिष्ठं न_अतिविदे {ड्युमोण्ट नातिविधे} सुदानू ।
अच्छिद्रꣳ शर्म भुवनस्य गोपा ।
ततो {ड्युमोण्ट तेन} नो मित्रावरुणाव् अवीष्टम् ।
सिषासन्तो जीगिवाꣳसः स्याम ।
आ नो मित्रावरुणा हव्यदातिम् ।
घृतैर् गव्यूतिम् उक्षतम् इडाभिः ।
प्रति वाम् अत्र वरम् आ जनाय ।
पृणीतम् उद्ग्ó दिव्यस्यं चारोः ।
प्र बाहवा सिसृतं जीवसे नः ।
आ नो गव्यूतिम् उक्षतं घृतेन ।
VERSE: 8 { 2.8.6.8}
आ नो जने श्रवयतं युवाना ।
श्रुतं मे मित्रावरुणा हव_इमा ।
इमा रुद्राय स्थिरधन्वने गिरः ।
क्षिप्रेषवे देवाय स्वधाम्ने ।
अषाढाय सहमानाय मीढुषे ।
तिग्मायुधाय भरता शृणोतन {ड्युमोण्ट शृणोतु नोः} ।
त्वा दत्तेभी रुद्र शंतमेभिः ।
शतꣳ हिमा अशीय भेषजेभिः ।
व्यस्मद् द्वेषो वितरं व्य् अꣳहः ।
व्य् अमीवाꣳश् चातयस्वा विषूचीः ।
VERSE: 9 { 2.8.6.9}
अर्हन् बिभर्षि, मा नस् तोके, ।
आ ते पितर् मरुताꣳ सुम्नम् एतु ।
मा नः सूर्यस्य संदृशो युयोथाः ।
अभि नो वीरो अर्वति क्षमेत ।
प्रजायेमहि रुद्र प्रजाभिः ।
एवा बभ्रो वृषभ चेकितान ।
यथा देव न हृणीषे न हꣳसि ।
हावनश्रूर् नो रुद्र_इह बोधि ।
बृहद् वदेम विदथे सुवीराः ।
परि णो रुद्रस्य हेतिः, स्तुहि श्रुतम्, ।
मीड्हुष्टम_, अर्हन् बिभर्षि, ।
त्वम् अग्ने रुद्र, आ वो राजानम्, ।
अनुवाक 7
VERSE: 1 { 2.8.7.1}
सूर्यो देवीम् उषसꣳ रोचमाना {ड्युमोण्ट रोचमानाम्} मर्यः {ड्युमोण्ट मर्यो} ।
न योषाम् अभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि ।
वितन्वते प्रति भद्राय भद्रम् ।
भद्रा अश्वा हरितः सूर्यस्य ।
चित्रा एदग्वा {ड्युमोण्ट एतग्वा} अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठम् अस्थुः ।
परि द्यावापृथिवी यन्ति सद्यः ।
तत् सूर्यस्य देवत्वं तन् महित्वम् ।
मध्या कर्तोर् विततꣳ संजभार ।
VERSE: 2 { 2.8.7.2}
यदा_इद् अयुक्त हरितः सधस्थात् ।
आद् रात्री वासस् तनुते सिमस्मै ।
तन् मित्रस्य वरुणस्य_अभिचक्षे ।
सूर्यो रूपं कृणुते द्योर् उपस्थे ।
अनन्तम् अन्यद् द्रुशद् अस्य पाजः ।
कृष्णम् अन्यद् धरितः संभरन्ति ।
अद्या देवा उदिता सूर्यस्य ।
निर् अꣳहसः पिपृतान् निरवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् ।
अदितिः सिन्धुः पृथिवी उत द्यौः ।
VERSE: 3 { 2.8.7.3}
दिवो रुक्म उरुचक्षा उदेति ।
दूरे_अर्थस् तरणिर् भ्राजमानः ।
नूनं जनाः सूर्येण प्रसूताः ।
आयन्न् अर्थानि कृणवन्न् अपाꣳसि ।
शं नो भव चक्षसा शं नो अह्ना ।
शं भानुना शꣳ हिमा शं घृणेन ।
यथा शम् अस्मै {ड्युमोण्ट अध्वान्_} शम् असद् दुरोणे ।
तत् सूर्य द्रविणं धेहि चित्रम् ।
चित्रं देवानाम् उदगाद् अनीकम् ।
चक्षुर् मित्रस्य वरुणस्य_अग्नेः ।
VERSE: 4 { 2.8.7.4}
आप्रा द्यावापृथिवी अन्तरिक्षम् ।
सूर्य आत्मा जगतस् तस्थुषश् च ।
त्वष्टा दधत्, तन् नस् तुरीपम्, ।
त्वष्टा वीरं, पिशङ्गरूपः, ।
दश_इमं त्वष्टुर् जनयन्त गर्भम् ।
अतन्द्रासो युवतयो बिभर्त्रम् {ड्युमोण्ट विभृत्रम्} ।
तिग्मानीकꣳ स्वयशसं जनेषु ।
विरोचमानं परि षीं नयन्ति ।
आविष्ट्यो वर्धते चारुर् आसु ।
जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
VERSE: 5 { 2.8.7.5}
उभे त्वष्टुर् बिभ्यतुर् जायमानात् ।
प्रतीची सिꣳहं प्रतिजोषयेते ।
मित्रो जनान्, {प्} प्र स मित्र, ।
अयं मित्रो नमस्यः सुशेवः ।
राजा सुक्षत्रो अजनिष्ट वेधाः ।
तस्य वयꣳ सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम ।
अनमीवासं इडया मदन्तः ।
मितज्मवो {ड्युमोण्ट मितज्ञवो} वरिमन्न् आ पृथिव्याः ।
आदित्यस्य व्रतम् उपक्ष्यन्तः {ड्युमोण्ट उपक्षियन्तः} ।
VERSE: 6 { 2.8.7.6 }
वयं मित्रस्य सुमतौ स्याम ।
मित्रं न ईꣳ शिम्या गोषु गव्यवत् {ड्युमोण्ट गव्यवः} ।
स्वाधियो विदथे अप्स्व् अजीजनन् ।
अरेजयताꣳ {अꣳ} रोदसी पाजसा गिरा ।
प्रति प्रियं यजतं जनुषाम् अवः ।
महाꣳ आदित्यो नमसोपसद्यह् ।
यातयज्जनो गृणते सुशेवः ।
तस्मा एतत् पन्यतमाय जुष्टम् ।
अग्नौ मित्राय हविर् आजुहोत ।
आ वाꣳ रथो रोदसी बद्बधानः ।
VERSE: 7 { 2.8.7.7}
हिरण्ययो वृषभिर् यात्व् अश्वैः ।
घृतवर्तनिः पविभी रुचानः ।
इषां वोढा नृपतिर् वाजिनीवान् ।
स पप्रथानो अभि पञ्च भूम ।
त्रिवन्धुरो मनसा_आयातु युक्तः ।
विशो येन गच्छथो देवयन्तीः ।
कुत्राचिद् यामम् अश्विना दधाना ।
स्वश्वा यशसा_आयातम् अर्वाक् ।
दस्रा निधिं मधुमन्तं पिबाथः ।
वि वाꣳ रथो वध्वा यादमानः ।
VERSE: 8 { 2.8.7.8}
अन्तान् दिवो बाधते वर्तनिभ्याम् ।
युवोः श्रियं परि योषा वृणीत ।
सूरो दुहिता परितक्मियायाम् {ड्युमोण्ट परितक्म्य्āयाम्} ।
यद् देवयन्तम् अवथः शचीभिः ।
परिघ्रꣳस वां मना वां वयो गाम् {ड्युमोण्ट परि घ्रꣳसम् ओमना वां वयो गात्} ।
यो ह स्य वाꣳ रथिरा वस्त उस्राः ।
रथो युजानः परियाति वर्तिः ।
तेन नः शं योर् उषसो व्युष्टौ ।
न्य् अश्विना वहतं यज्ञे अस्मिन् ।
युवं भुज्युम् अवविद्धꣳ समुद्रे ।
VERSE: 9 { 2.8.7.9}
उदूहथुर् अर्णसो अस्रिधानैः ।
पतत्रिभिर् अश्रमैर् अव्यथिभिः ।
दꣳसनाभिर् अश्विना पारयन्ताम् ।
अग्नीषोमा यो अद्य वाम् ।
इदं वचः सपर्यति ।
तस्मै धत्तꣳ सुवीर्यम् ।
गवां पोषꣳ स्वश्वियं ।
यो अग्नीषोमा हविषा सपर्यात् ।
देवद्रीचा मनसा यो घृतेन ।
तस्य व्रतꣳ रक्षतं पातम् अꣳहसः ।
VERSE: 10 { 2.8.7.10}
विशे जनाय महि शर्म यच्छतम् ।
अग्नीषोमा य आहुतिम् ।
यो वां दाशाद् धविष्कृतिम् ।
स प्रजया सुवीर्यम् ।
विश्वम् आयुर् व्यश्नवत् ।
अग्नीषोमा चेति तद् वीर्यं वाम् ।
यद् अमुष्णीतम् अवसं पणिं गोः ।
अवातिरतं प्रथयस्य शेषः अविन्दतं ज्योतिर् एकं बहुभ्यः ।
अग्नीषोमाव् इमꣳ सु मे,
ऽग्नीषोमा हविषः प्रस्थितस्य, ।
अनुवाक 8
VERSE: 1 { 2.8.8.1}
अहम् अस्मि प्रथमजा ऋतस्य ।
पूर्वं देवेभ्यो अमृतस्य नाभिः ।
यो मा ददाति स इद् एव मा_आवाः ।
अहम् अन्नम् अन्नम् अदन्तम् अद्मि ।
पूर्वम् अग्नेर् अपि दहत्य् अन्नम् ।
यत्तौ ह_आसाते {ड्युमोण्ट हासाते} अहमुत्तरेषु ।
व्यात्तम् अस्य पशवः सुजम्भम् ।
पश्यन्ति धीराः प्रचरन्ति पाकाः ।
जहाम्य् अन्यं न जहाम्य् अन्यम् ।
अहम् अन्नं वशम् इत्_चरामि ।
VERSE: 2 { 2.8.8.2}
समानम् अर्थ्अं पर्येमि भुञ्जत् ।
को माम् अन्नं मनुष्यो दयेत ।
पराके अन्नं निहितं लोक एतत् ।
विश्वैर् देवैः पितृभिर् गुप्तम् अन्नम् ।
यद् अद्यते लुप्यते यत् परोप्यते ।
शततमी सा तनूर् मे बभूव ।
महान्तौ चरू सकृद्दुग्धेन पप्रौ ।
दिवं च पृश्नि पृथिवीं च साकम् ।
तत् संपिबन्तो न मिनन्ति वेधसः ।
न_एतद् भूयो भवति नो कनीयः ।
VERSE: 3 { 2.8.8.3}
अन्नं प्राणम् अन्नम् अपानम् आहुः ।
अन्नं मृत्युं तम् उ जीवातुम् आहुः ।
अन्नं ब्रह्माणो जरसं वदन्ति ।
अन्नम् आहुः प्रजननं प्रजानाम् ।
मोघम् अन्नं विन्दते अप्रचेताः ।
सत्यं ब्रवीमि वध इत् स तस्य ।
न_अर्यमणं पुष्यति नो सखायम् ।
केवलाघो भवति केवलादी ।
अहं मेघः स्तनयन् वर्षन्न् अस्मि ।
माम् अदन्त्य् अहम् अद्म्य् अन्यान् ।
VERSE: 4 { 2.8.8.4}
अहꣳ सद् अमृतो भवामि ।
मद् आदित्या अधि सर्वे तपन्ति ।
देवीं वाचम् अजनयन्त, यद् वाग् वदन्ति, ।
अनन्ताम् अन्ताद् अधि निर्मितां महीम् ।
यस्यां देवा अदधुर् भोजनानि ।
एकाक्षरां द्विपदाꣳ षट्पदां च ।
वाचं देवा उपजीवन्ति विश्वे ।
वाचं देवा उपजीवन्ति विश्वे ।
वाचं गन्धर्वाः पशवो मनुष्याः ।
वाचि_इमा विश्वा भुवनान्य् अर्पिता ।
VERSE: 5 { 2.8.8.5}
सा नो हवं जुषताम् इन्द्रपत्नी ।
वाग् अक्षरं प्रथमजा ऋतस्य ।
वेदानां माता_अमृतस्य नाभिः ।
सा नो जुषाणो ऽपयज्ञम् आगात् ।
अवन्ती देवी सुहवा मे अस्तु ।
याम् ऋषयो मन्त्रकृतो मनीषिणः ।
अन्वैच्छन् देवास् तपसा श्रमेण ।
तां देवीं वाचꣳ हविषा यजामहे ।
सा नो दधातु सुकृतस्य लोके ।
चत्वारि वाक् परिमिता पदानि ।
VERSE: 6 { 2.8.8.6}
तानि विदुर् ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता न_इङ्गयन्ति ।
तुरीयं वाचो मनुष्या वदन्ति ।
श्रद्धया_अग्निः समिध्यते ।
श्रद्धया विन्दते {ड्युमोण्ट हूयते} हविः ।
श्रद्धां भगस्य मूर्धनि ।
वचसा_आवेदयामसि ।
प्रियꣳ श्रद्धे ददतः ।
प्रियꣳ श्रद्धे दिदासतः ।
प्रियं भोजेषु यज्वसु ।
VERSE: 7 { 2.8.8.7}
इदं म उदितं कृधि ।
यथा देवा असुरेषु ।
श्रद्धाम् उग्रेषु चक्रिरे ।
एवं भोजेषु यज्वसु ।
अस्माकम् उदितं कृधि ।
श्रद्धां देवा {ड्युमोण्ट देवा} यजमानाः ।
वायुगोपा उपासते ।
श्रद्धाꣳ हृदय्यया_आकूत्या ।
श्रद्धया हूयते हविः {ड्युमोण्ट विन्दते वसु ?} ।
0 श्रद्धां प्रातर् हवामहे ।
VERSE: 8 { 2.8.8.8}
श्रद्धां मध्यंदिनं परि ।
श्रद्धाꣳ सूर्यस्य निम्रुचि ।
श्रद्धे श्रद्धापय_इह मा ।
श्रद्धा देवान् अधिवस्ते ।
श्रद्धा विश्वम् इदं जगत् ।
श्रद्धां { श्रद्धा} कामस्य मातरम् ।
हविषा वर्धयामसि ।
ब्रह्म जज्ञानं प्रथमं पुरस्तात् ।
वि सीमतः सुरुचो वेन आवः ।
स बुध्निया उपमा अस्य विष्ठाः ।
VERSE: 9 { 2.8.8.9}
सतश् च योनिम् असतश् च विवः ।
पिता विराजाम् ऋषभो रयीणाम् ।
अन्तरिक्षं विश्वरूप आविवेश ।
तम् अर्कैर् अभ्यर्चन्ति वह्स्áम् ।
ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः ।
ब्रह्म देवान् अजनयत् ।
ब्रह्म विश्वम् इदं जगत् ।
ब्रह्मणः क्षत्रं निर्मितम् ।
ब्रह्म ब्राह्मण आत्मना ।
0 अन्तर् अस्मिन्न् इमे लोकाः ।
VERSE: 10 { 2.8.8.10}
अन्तर् विश्वम् इदं जगत् ।
ब्रह्म_एव भूतानां ज्येष्ठम् ।
तेन को ऽर्हति स्पर्धितुम् ।
ब्रह्मन् देवास् त्रयस्त्रिꣳशत् ।
ब्रह्मन्न् इन्द्रप्रजापती ।
ब्रह्मन् ह विश्वा भूतानि ।
नावि_इव_अन्तः समाहिता ।
चतस्र आशाः प्रचरन्त्व् अग्नयः ।
इमं नो यज्ञं नयतु प्रजानन् ।
घृतं पिन्वन्न् अजरं सुवीरम् ।
VERSE: 11 { 2.8.8.11}
ब्रह्म समिद् भवत्य् आहुतीनाम् ।
आ गावो अग्मन्न् उत भद्रम् अक्रन् ।
सीदन्तु गोष्ठे रणयन्त्व् अस्मे ।
प्रजावतीः पुरुरूपा इह स्युः ।
इन्द्राय पूर्वीर् उषसो दुहानाः ।
इन्द्रो यज्वने पृणते च शिक्षति ।
उप_इद् ददाति न स्वं मुषायति ।
भूयो_भूयो रयिम् इद् अस्य वर्धयन् ।
अभिन्ने खिल्ले निदधाति देवयुम् ।
न ता नशन्ति, न ता अर्वा, ।
VERSE: 12 { 2.8.8.12}
गावो भगो गाव इन्द्रो मे अच्छात् {ड्युमोण्ट अच्छान्}, ।
गावः सोमस्य प्रथमस्य भक्षः ।
इमा या गावः स जनास इन्द्रः ।
इच्छामि_इद् धृदा मनसा चिद् इन्द्रम् ।
यूयं गावो मेदयथा कृशं चित् ।
अश्ल्īलं {ड्युमोण्ट अश्रीरं} चित् कृणुथा सुप्रतीकम् ।
भद्रं गृहं कृणुथ भद्रवाचः ।
बृहद् वो वय उच्यते सभासु ।
प्रजावतीः सूयवसꣳ रिशन्तीः {आनंदा. रुशन्तीः} ।
शुद्धा अप सुप्रपाणे पिबन्तीः ।
मा वः स्तेन ईशत मा_अघशꣳसः ।
परि वो हेती रुद्रस्य वृञ्ज्यात् {ड्युमोण्ट वृज्याः} ।
उप_इदम् उपपर्चनम् ।
आसु गोषु_उपपृच्यताम् ।
उप_ ऋषभस्य रेतसि ।
उप_इन्द्र तव वीर्ये ।
अनुवाक 9
VERSE: 1 { 2.8.9.1}
ता सूर्याचन्द्रमसा विश्वभृत्तमा {ड्युमोण्ट ।} महत् ।
तेजो वसुमद् राजतो दिवि ।
सामात्माना चरतः सामचारिणा ।
ययोर् व्रतं न ममे जातु देवयोः ।
उभाव् अन्तौ परियात अर्म्या {ड्युमोण्ट ऊर्म्या?[सिच्.]} ।
दिवो न रश्मीꣳस् तनुतो व्य् अर्णवे ।
उभा भुवन्ती भुवना कविक्रतू ।
सूर्या न चन्द्रा चरतो हतामती ।
पती द्युमद् विश्वविदा उभा दिवः ।
सूर्या उभा चन्द्रमसा विचक्षणा ।
VERSE: 2 { 2.8.9.2}
विश्ववारा विरिवो_भा वरेण्या {ड्युमोण्ट वरेण्यौ} ।
ता नो ऽवतं मतिमन्ता महिव्रता ।
विश्ववपरी प्रतरणा तरन्ता ।
सुवर्विदा दृशये भूरिरश्मी ।
सूर्या हि चन्द्रा वसु त्वेष दर्शता ।
मनस्विना_उभा_अनुचरतो नु सं दिवम् ।
अस्य श्रवो नद्यः सप्त बिभ्रति ।
द्यावाक्षामा पृथिवी दर्शतं वपुः ।
अस्मे सूर्याचन्द्रमसोभिचक्षे ।
श्रद्धे कम् इन्द्र चरतो विचर्तुरम् ।
VERSE: 3 { 2.8.9.3}
पूर्वापरं चरतो मायया_एतौ ।
शिशू क्रीडन्तौ परियातो अध्वरम् ।
विश्वान्य् अन्यो भुवना_अभिचष्टे ।
ऋतून् अन्यो विदधज् जायते पुनः ।
हिरण्यवर्णाः शुचयः पावका, यासाꣳ राजा, ।
यासां देवाः, शिवेन मा चक्षुषा पश्यत, ।
आपो भद्रा, आद् इत् पश्यामि, ।
न_असद् आसीन् नो सद् आसीत् तदानीम् ।
न_आसीद् रजो नो व्योम_अपरो यत् ।
किम् आवरीवः कुह कस्य शर्मन् ।
VERSE: 4 { 2.8.9.4}
अम्भः किम् आसीद् गहनं गभीरम् ।
न मृत्युर् अमृतं तर्हि {ड्युमोण्ट न मृत्युर् आसीद् अमृतम् न तर्हि,} न { हः ।
हेरे} रात्रिया अह्न आसीत् प्रकेतः ।
आनीद् अवातꣳ स्वधया तद् एकम् ।
तस्माद् ध_अन्यं न परः किं चन_आस ।
तम आसीत् तमसा गूढम् अग्रे {ड्युमोण्ट पुत्स् "," हेरे} प्रकेतम् {ड्युमोण्ट अप्रकेतं} ।
सलिलꣳ सर्वम् आ इदम् ।
तुच्छेनाभ्व् {ड्युमोण्ट तुच्छेन भ्व्} अपिहितं यद् आसीत् ।
तमसस् {ड्युमोण्ट तपसस्} तन् महिनाऽजायत_एकम् ।
कामस् तद् अग्रे सम् अवर्तत_अधि ।
VERSE: 5 { 2.8.9.5}
मनसो रेतः प्रथमं यद् आसीत् ।
सतो बन्धुम् असति निरविन्दन् ।
हृदि प्रतीष्या कवयो मनीषा ।
तिरश्चीनो विततो रश्मिर् एषाम् ।
अधः स्विद् {आनंदा. अधस्विद्} आसी3द् उपरि स्विद् आसी3त् ।
रेतोधा आसन् महिमान आसन् ।
स्वधा अवस्तात् प्रयतिः परस्तात् ।
को अद्धा वेद क इह प्रवोचत् ।
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनाय {ड्युमोण्ट विसर्जनेन} ।
VERSE: 6 { 2.8.9.6}
अथा को वेद यत आबभूव ।
इयं विसृष्टिर् यत आबभूव ।
यदि वा दधे यदि वा न ।
यो अस्या_अध्यक्षः परमे व्योमन् ।
सो अङ्ग वेद यदि वा न वेद ।
किꣳ स्विद् वनं क उ स वृक्ष आसीत् ।
यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छत_इद् उ तत् ।
यद् अध्यतिष्ठद् भुवनानि धारयन् ।
ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ।
VERSE: 7 { 2.8.9.7}
यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा विब्रवीमि वः ।
ब्रह्मा_अध्यतिष्ठद् भुवनानि धारयन् ।
प्रातर् अग्निं प्रातर् इन्द्रꣳ हवामहे ।
प्रातर् मित्रावरुणा प्रातर् अश्विना ।
प्रातर् भगं पूषणं ब्रह्मणस्पतिम् ।
प्रातः सोमम् उत रुद्रꣳ हुवेम ।
प्रातर् जितं भगम् उग्रꣳ हुवेम ।
वयं पुत्रम् अदितेर् यो विधर्ता ।
आध्रश् चिद् यं मन्यमानस् तुरश् चित् ।
VERSE: 8 { 2.8.9.8}
राजा चिद् यं भगं भक्षि_इत्य् आह ।
भग प्रणेतर् भग सत्यराधः ।
भग_इमां धियम् उदव ददन् नः ।
भग प्र णो जनय गोभिर् अश्वैः ।
भग प्र नृभिर् नृवन्तः स्याम ।
उत_इदानीं भगवन्तः स्याम ।
उत प्रपित्व उत मध्ये अह्नाम् ।
उत_उदिता मघवन्त् सूर्यस्य ।
वयं देवानाꣳ सुमतौ स्याम ।
भग एव भगवाꣳ अस्तु देवाः ।
VERSE: 9 { 2.8.9.9}
तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इत्_ जोहवीमि {ड्युमोण्ट जोहवीति} ।
स नो भग पुर एता भव_इह ।
सम् अध्वराय_उषसो नमन्त ।
दधिक्रावा_इव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नः ।
रथम् इव_अश्वा वाजिन आवहन्तु ।
अश्वावतीर् गोमतीर् न उषासः ।
वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीनाः ।
यूयं पात स्वस्तिभिः सदा नः ।
प्रपाठक: 1
अनुवाक 1
VERSE: 1 { 3.1.1.1}
अग्निर् नः पातु कृत्तिकाः ।
नक्षत्रं देवम् इन्द्रियम् ।
इदम् आसां विचक्षणम् ।
हविर् आसं जुहोतन ।
यस्य भान्ति रश्मयो यस्य केतवः ।
यस्य_इमा विश्वा भुवनानि सर्वा ।
स कृत्तिकाभिर् अभि संवसानः ।
अग्निर् नो देवः सुविते दधातु ।
प्रजापते रोहिणी वेतु पत्नी ।
विश्वरूपा बृहती चित्रभानुः ।
VERSE: 2 { 3.1.1.2}
सा नो यज्ञस्य सुविते दधातु ।
यथा जीवेम शरदः सवीराः ।
रोहिणी देव्य् उदगात् पुरस्तात् ।
विश्वा रूपाणि प्रतिमोदमाना ।
प्रजापतिꣳ हविषा वर्धयन्ती ।
प्रिया देवानाम् उपयातु यज्ञम् ।
सोमो राजा मृगशीर्षेण आगन्न् ।
शिवं नक्षत्रं प्रियम् अस्य धाम ।
आप्यायमानो बहुधा जनेषु ।
रेतः प्रजां यजमाने दधातु ।
VERSE: 3 { 3.1.1.3}
यत् ते नक्षत्रं मृगशीर्षम् अस्ति ।
प्रियꣳ राजन् प्रियतमं प्रियाणाम् ।
तस्मै ते सोम हविषा विधेम ।
शं न एधि द्विपदे शं चतुष्पदे ।
_ आर्द्रया रुद्रः प्रथमान एति ।
श्रेष्ठो देवानां पतिर् अघ्नियानाम् ।
नक्षत्रम् अस्य हविषा विधेम ।
मा नः प्रजाꣳ रीरिषन् मा_उत वीरान् ।
हेती रुद्रस्य परि णो वृणक्तु ।
आर्द्रा नक्षत्रं जुषताꣳ हविर् नः ।
VERSE: 4 { 3.1.1.4}
प्रमुञ्चमानौ दुरितानि विश्वा ।
अप_अघशꣳसं नुदताम् अरातिम् ।
पुनर् नो देव्य् अदितिः स्पृणोतु ।
पुनर्वसू नः पुनर् एतां यज्ञम् ।
पुनर् नो देवा अभियन्तु सर्वे ।
पुनः_पुनर् वो हविषा यजामः ।
एवा न {ड्युमोण्ट एवा न} देव्य् अदितिर् अनर्वा ।
विश्वस्य भर्त्री जगतः प्रतिष्ठा ।
पुनर्वसू हविषा वर्धयन्ती ।
प्रियं देवानाम् अप्येतु पाथः ।
VERSE: 5 { 3.1.1.5}
बृहस्पतिः प्रथमं जायमानः ।
तिष्यं नक्षत्रम् अभि संबभूव ।
श्रेष्ठो देवानां पृतनासु जिष्णुः ।
दिशो ऽनु सर्वा अभयं नो अस्तु ।
तिष्यः पुरस्ताद् उत मध्यतो नः ।
बृहस्पतिर् नः परिपातु पश्चात् ।
बाधेतां द्वेषो अभयं कृणुताम् ।
सुवीर्यस्य पतयः स्याम ।
इदꣳ सर्पेभ्यो हविर् अस्तु जुष्टम् ।
आश्रेषा येषाम् अनुयन्ति चेतः ।
VERSE: 6 { 3.1.1.6}
ये अन्तरिक्षं पृथिवीं क्षियन्ति ।
ते नः सर्पासो हवम् आगमिष्ठाः ।
ये रोचने सूर्यस्य_अपि सर्पाः ।
ये दिवं देवीम् अनु संचरन्ति ।
येषाम् आश्रेषा अनुयन्ति कामम् ।
तेभ्यः सर्पेभ्यो मधुमत्_ जुहोमि ।
उपहूताः पितरो ये मघासु ।
मनोजवसः सुकृतः सुकृत्याः ।
ते नो नक्षत्रे हवम् आगमिष्ठाः ।
स्वधाभिर् यज्ञं प्रयतं जुषन्ताम् ।
VERSE: 7 { 3.1.1.7}
ये अग्निदग्धा ये ऽनाग्निदग्धाः ।
ये ऽमुं लोकं पितरः क्षियन्ति ।
याꣳश् च विद्म याꣳ उ च न प्रविद्म ।
मघासु यज्ञꣳ सुकृतं जुषन्ताम् ।
गवां पतिः फल्गुनीनाम् असि त्वम् ।
तद् अर्यमन् वरुण मित्र चारु ।
तं त्वा वयꣳ सनितारꣳ सनीनाम् ।
जीवा जीवन्तम् उप संविशेम ।
येन_इमा विश्वा भुवनानि संजिता ।
यस्य देवा अनुसंयन्ति चेतः ।
VERSE: 8 { 3.1.1.8}
अर्यमा राजा_अजरस् तुविष्मान् ।
फल्गुनीनाम् ऋषभो रोरवीति ।
श्रेष्ठो देवानां भगवो भग_असि ।
तत् त्वा विदुः फल्गुनीस् तस्य वित्तात् ।
अस्मभ्यं क्षत्रम् अजरꣳ सुवीर्यम् ।
गोमद् अश्ववद् उप संनुद_इह ।
भगो ह दाता भग इत् प्रदाता ।
भगो देवीः फल्गुनीर् आविवेश ।
भगस्य_इत् तं प्रसवं गमेम ।
यत्र देवैः सधमादं मदेम ।
VERSE: 9 { 3.1.1.9}
आयातु देवः सविता_उपयातु ।
हिरण्ययेन सुवृता रथेन ।
वहन् हस्तꣳ सुभगं विद्मनापसम् ।
प्रयच्छन्तं पपुरिं पुण्यम् अच्छ ।
हस्तः प्रयच्छत्व् अमृतं वसीयः ।
दक्षिणेन प्रतिगृभ्णीम एनत् ।
दातारम् अद्य सविता विदेय ।
यो नो हस्ताय प्रसुवाति यज्ञम् ।
त्वष्टा नक्षत्रम् अभ्येति चित्राम् ।
सुभꣳससं युवतिꣳ रोचमानाम् ।
VERSE: 10 { 3.1.1.10}
निवेशयन्न् अमृतान् मर्त्याꣳश् च ।
रूपाणि पिꣳशन् भुवनानि विश्वा ।
तन् नस् त्वष्टा तद् उ चित्रा विचष्टाम् ।
तन् नक्षत्रं भूरिदा अस्तु मह्यम् ।
तन् नः प्रजां वीरवतीꣳ सनोतु ।
गोभिर् नो अश्वैः समनक्तु यज्ञम् ।
वायुर् नक्षत्रम् अभ्येति निष्ट्याम् ।
तिग्मशृङ्गो वृषभो रोरुवाणः ।
समीरयन् भुवना मातरिश्वा ।
अप द्वेषाꣳसि नुदताम् अरातीः ।
VERSE: 11 { 3.1.1.11}
तन् नो वायुस् तद् उ निष्ट्या शृणोतु ।
तन् नक्षत्त्रं भूरिदा अस्तु मह्यम् ।
तन् नो देवासो अनुजानन्तु कामम् ।
यथा तरेम दुरितानि विश्वा ।
दूरम् अस्मत्_शत्रवो यन्तु भीताः ।
तद् इन्द्राग्नी कृणुतां तद् विशाखे ।
तन् नो देवा अनुमदन्तु यज्ञम् ।
पश्चात् पुरस्ताद् अभयं नो अस्तु ।
नक्षत्राणाम् अधिपत्नी विशाखे ।
श्रेष्ठाव् इन्द्राग्नी भुवनस्य गोपौ ।
VERSE: 12 { 3.1.1.12}
विषूचः शत्रून् अपबाधमानौ ।
अप क्षुधं नुदताम् अरातिम् ।
पूर्णा पश्चाद् उत पूर्णा पुरस्तात् ।
उत्_मध्यतः पौर्णमासी जिगाय ।
तस्यां देवा अधि संवसन्तः ।
उत्तमे नाक इह मादयन्ताम् ।
पृथ्वी सुवर्चा युवतिः सजोषाः ।
पौर्णमास्य् उदगात्_शोभमाना ।
आप्याययन्ती दुरितानि विश्वा ।
उरुं दुहां {ड्युमोण्ट दुहां} यजमानाय यज्ञम् ।
अनुवाक 2
VERSE: 1 { 3.1.2.1}
ऋध्यास्म हव्यैर् नमसोपसद्य ।
मित्रं देवं मित्रधेयं नो अस्तु ।
अनूराधान् हविषा वर्धयन्तः ।
शतं जीवेम शरदः सवीराः ।
चित्रं नक्षत्रम् उदगात् पुरस्तात् ।
अनूराधास इति यद् वदन्ति ।
तन् मित्र एति पथिभिर् देवयानैः ।
हिरण्ययैर् विततैर् अन्तरिक्षे ।
इन्द्रो ज्येष्ठाम् अनु नक्षत्रम् एति ।
यस्मिन् वृत्रं वृत्रतूर्ये ततार ।
VERSE: 2 { 3.1.2.2}
तस्मिन् वयम् अमृतं दुहानाः ।
क्षुधं तरेम दुरितिं दुरिष्टिम् ।
पुरन्दराय वृषभाय धृष्णवे ।
अषाढाय सहमानाय मीढुषे ।
इन्द्राय ज्येष्ठा मधुमद् दुहाना ।
उरुं कृणोतु यजमानाय लोकम् ।
मूलं प्रजां वीरवतीं विदेय ।
पराच्य् एतु निर्ऋतिः पराचा ।
गोभिर् नक्षत्रं पशुभिः समक्तम् ।
अहर् भूयाद् यजमानाय मह्यम् ।
VERSE: 3 { 3.1.2.3}
अहर् नो अद्य सुविते दधातु ।
मूलं नक्षत्रम् इति यद् वदन्ति ।
पराचीं वाचा निर्ऋतिं नुदामि ।
शिवं प्रजायै शिवम् अस्तु मह्यम् ।
या दिव्या आपः पयसा संबभूवुः ।
या अन्तरिक्ष उत पार्थिवीर् याः ।
यासाम् अषाढा अनुयन्ति कामम् ।
ता न आपः शꣳ स्योना भवन्तु ।
याश् च कूप्या याश् च नाद्याः समुद्रियाः ।
याश् च वैशन्तीर् उत प्रासचीर् याः ।
VERSE: 4 { 3.1.2.4}
यासाम् अषाढा मधु भक्षयन्ति ।
ता न आपः शꣳ स्योना भवन्तु ।
तन् नो विश्वे उपशृण्वन्तु देवाः ।
तद् अषाढा अभि संयन्तु यज्ञम् ।
तन् नक्षत्रं प्रथतां पशुभ्यः ।
कृषिर् वृष्टिर् यजमानाय कल्पताम् ।
शुभ्राः कन्या युवतयः सुपेशसः ।
कर्मकृतः सुकृतो वीर्यावतीः ।
विश्वान् देवान् हविषा वर्धयन्तीः ।
अषाढाः कामम् उपयान्तु यज्ञम् ।
VERSE: 5 { 3.1.2.5}
यस्मिन् ब्रह्माभ्यजयत् सर्वम् एतत् ।
अमुं च लोकम् इदमू च सर्वम् ।
तन् नो नक्षत्रम् अभिजिद् विजित्य ।
श्रियं दधात्व् अहृणीयमानम् ।
उभौ लोकौ ब्रह्मणा संजितेमौ ।
तन् नो नक्षत्रम् अभिजिद् विचष्टाम् ।
तस्मिन् वयं पृतनाः संजयेम ।
तं नो देवासो अनुजानन्तु कामम् ।
शृण्वन्ति श्रोणाम् अमृतस्य गोपाम् ।
पुण्याम् अस्या उपशृणोमि वाचम् ।
VERSE: 6 { 3.1.2.6}
महीं देवीं विष्णुपत्नीम् अजूर्याम् ।
प्रतीचीम् एनाꣳ हविषा यजामः ।
त्रेधा विष्णुर् उरुगायो विचक्रमे ।
महीं दिवं पृथिवीम् अन्तरिक्षम् ।
तत्_श्रोणा_एति श्रव इच्छमाना ।
पुण्यꣳ श्लोकं यजमानाय कृण्वती ।
अष्टौ देवा वसवः सोम्यासः ।
चतस्रो देवीर् अजराः श्रविष्ठाः ।
ते यज्ञं पान्तु रजसः परस्तात् ।
संवत्सरीणम् अमृतꣳ स्वस्ति ।
VERSE: 7 { 3.1.2.7}
यज्ञं नः पान्तु वसवः पुरस्तात् ।
दक्षिणतो ऽभियन्तु श्रविष्ठाः ।
पुण्यं नक्षत्रम् अभि संविशाम ।
मा नो अरातिर् अघशꣳसा_आगन्न् ।
क्षत्रस्य राजा वरुणो ऽधिराजः ।
नक्षत्राणाꣳ शतभिषग् वसिष्ठः ।
तौ देवेभ्यः कृणुतो दीर्घम् आयुः । ऽ
शतꣳ सहस्रा भेषजानि धत्तः ।
यज्ञं नो राजा वरुण उपयातु ।
तन् नो विश्वे अभि संयन्तु देवाः ।
VERSE: 8 { 3.1.2.8}
तन् नो नक्षत्रꣳ शतभिषग् जुषाणम् { शतभिग्जुषाणम्} ।
दीर्घम् आयुः प्रतिरद् भेषजानि ।
अज एकपाद् उदगात् पुरस्तात् ।
विश्वा भूतानि प्रतिमोदमानः ।
तस्य देवाः प्रसवं यन्ति सर्वे ।
प्रोष्ठपदासो अमृतस्य गोपाः ।
विभ्राजमानः समिधान उग्रः ।
आ_अन्तरिक्षम् अरुहद् अगं द्याम् ।
तꣳ सूर्यं देवम् अजम् एकपादम् ।
प्रोष्ठपदासो अनुयन्ति सर्वे ।
VERSE: 9 { 3.1.2.9}
अहिर् बुध्नियः प्रथमान एति ।
श्रेष्ठो देवानाम् उत मानुषाणाम् ।
तं ब्राह्मणाः सोमपाः सोम्यासः ।
प्रोष्ठपदासो अभिरक्षन्ति सर्वे ।
चत्वार एकम् अभि कर्म देवाः ।
प्रोष्ठपदास इति यान् वदन्ति ।
ते बुध्नियं परिषद्यꣳ स्तुवन्तः ।
अहिꣳ रक्षन्ति नमसोपसद्य ।
पूषा रेवत्य् अन्वेति पन्थाम् ।
पुष्टिपती पशुपा वाजबस्त्यौ ।
VERSE: 10 { 3.1.2.10}
इमानि हव्या प्रयता जुषाणा ।
सुगैर् नो यानैर् उपयातां यज्ञम् ।
क्षुद्रान् पशून् रक्षतु रेवती नः ।
गावो नो अश्वाꣳ अन्वेतु पूषा ।
अन्नꣳ रक्षन्तौ बहुधा विरूपम् ।
वाजꣳ सनुतां यजमानाय यज्ञम् ।
तद् अश्विनाव् अश्वयुजा_उपयाताम् ।
शुभं गमिष्ठौ सुयमेभिर् अश्वैः ।
स्वं नक्षत्रꣳ हविषा यजन्तौ ।
मध्वा संपृक्तौ यजुषा समक्तौ ।
VERSE: 11 { 3.1.2.11}
यौ देवानां भिषजौ हव्यवाहौ ।
विश्वस्य दूताव् अमृतस्य गोपौ ।
तौ नक्षत्रं जुजुषाणा_उपयाताम् ।
नमो ऽश्विभ्यां कृणुमो ऽश्वयुग्भ्याम् ।
अप पाप्मानं भरणीर् भरन्तु ।
तद् यमो राजा भगवान् विचष्टाम् ।
लोकस्य राजा महतो महान् हि ।
सुगं नः पन्थाम् अभयं कृणोतु ।
यस्मिन् नक्षत्रे यम एति राजा ।
यस्मिन्न् एनम् अभ्यषिञ्चन्त देवाः ।
तद् अस्य चित्रꣳ हविषा यजाम ।
अप पाप्मानं भरणीर् भरन्तु ।
निवेशनी यत् ते देवा अदधुः ।
अनुवाक 3
VERSE: 1 { 3.1.3.1}
नवो_नवो भवति जायमानो {तै.सं.2.4.14.} यम् आदित्या अꣳशुम् आप्याययन्ति {तै.सं.2.4.14.} ।
ये विरूपे समनसा संव्ययन्ती ।
समानं तन्तुं परिता तनोत ।
विभू प्रभू अनुभू विश्वतो हुवे ।
ते नो नक्षत्रे हवम् आगमेतम् ।
वयं देवी ब्रह्मणा संविदानाः ।
सुरत्नासो देववीतिं दधानाः ।
अहोरात्रे हविषा वर्धयन्तः ।
अति पाप्मानम् अतिमुक्त्या गमेम ।
प्रत्य् उव् अदृश्य् आयती (प्रत्युवदृश्यायती) ।
VERSE: 2 { 3.1.3.2}
व्युच्छन्ती दुहिता दिवः ।
अपो मही वृणुते चक्षुषा ।
तमो ज्योतिष्कृणोति सूनरी ।
उद् उस्रियाः सचते सूर्यः ।
सचा उद्यन् नक्षत्रम् अर्चिमत् ।
तव_इद् उषो व्युषि सूर्यस्य च ।
सं भक्तेन गमेमहि ।
तन् नो नक्षत्रम् अर्चिमत् ।
भानुमत् तेज उच्चरत् ।
उप यज्ञम् इह_आगमत् ।
VERSE: 3 { 3.1.3.3}
प्र नक्षत्राय देवाय ।
इन्द्राय_इन्दुꣳ हवामहे ।
स नः सविता सुवत् सनिम् ।
पुष्टिदां वीरवत्तमम् ।
उद् उ त्यं चित्रम् ।
अदितिर् न उरुष्यतु महीमू षु मातरम् ।
इदं विष्णुः प्र तद् विष्णुः ।
अग्निर् मूर्धा भुवः ।
अनु नो ऽद्य_अनुमतिर् अन्व् इद् अनुमते त्वम् ।
हव्यवाहꣳ स्विष्टम् ।
अनुवाक 4
VERSE: 1 { 3.1.4.1}
अग्निर् वा अकामयत ।
अन्नादो देवानाꣳ स्याम् इति ।
स एतम् अग्नये कृत्तिकाभ्यः पुरोडाशम् अष्टाकपालं निरवपत् ।
ततो वै सो ऽन्नादो देवानाम् अभवत् ।
अग्निर् वै देवानाम् अन्नादः ।
यथा ह वा अग्निर् देवनाम् अन्नादः ।
एवꣳ ह वा एष मनुष्याणां भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा ।
अम्बायै स्वाहा दुलायै स्वाहा ।
नितत्न्य्áइ स्वाहा_अभ्रयन्त्यै स्वाहा ।
मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा ।
चुपुणीकायै स्वाहा_इति ।
VERSE: 2 { 3.1.4.2}
प्रजापतिः प्रजा असृजत ।
ता अस्मात् सृष्टाः पराचीर् आयन्न् ।
तासाꣳ रोहिणीम् अभ्यध्यायत् ।
सो ऽकामयत ।
उप मा_आवर्तेत {,आनंदा. मा वर्तेत) ।
सम् एनया गच्छेय_इति ।
स एतं प्रजापतये रोहिण्यै चरुं निरवपत् ।
ततो वै सा तम् उपावर्तत ।
सम् एनया_अगच्छत { एनयाऽगच्छत} ।
उप ह वा एनं प्रियम् आवर्तते ।
सं प्रियेण गच्छते ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
प्रजापतये स्वाहा रोहिण्यै स्वाहा रोचमानायै स्वाहा प्रजाभ्यः स्वाहा_इति ।
VERSE: 3 { 3.1.4.3}
सोमो वा अकामयत ।
ओषधीनाꣳ राज्यम् अभिजयेयम् इति ।
स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् ।
ततो वै स ओषधीनाꣳ राज्यम् अभ्यजयत् ।
समानानाꣳ ह वै राज्यम् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
सोमाय स्वाहा मृगशीर्षाय स्वाहा ।
इन्वकाभ्यः स्वाहा_ओषधीभ्यः स्वाहा ।
राज्याय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 4 { 3.1.4.4}
रुद्रो वा अकामयत ।
पशुमान्त् स्याम् इति ।
स एतꣳ रुद्राय_आर्द्रायै प्रैयंगवं { प्रैय्यङ्गवं} चरुं पयसि निरवपत् ।
ततो वै स पशुमान् अभवत् ।
पशुमान् ह वै भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
रुद्राय स्वाहा_आर्द्रायै स्वाहा ।
पिन्वमानायै स्वाहा पशुभ्यः स्वाहा_इति ।
VERSE: 5 { 3.1.4.5}
ऋक्षा वा इयम् अलोमका_आसीत् ।
सोकामयत ।
ओषधीभिर् वनस्पतिभिः प्रजायेय_इति ।
स_एतम् अदित्यै पुनर्वसुभ्यां चरुं निरवपत् ।
ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत ।
प्रजायते ह वै प्रजया पशुभिः ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति अदित्यै स्वाहा पुनर्वसुभ्याम् {,आनंदा. ।} स्वाहा_आभूत्यै स्वाहा प्रजात्यै स्वाहा_इति ।
VERSE: 6 { 3.1.4.6}
बृहस्पतिर् वा अकामयत ।
ब्रह्मवर्चसी स्याम् इति ।
स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् ।
ततो वै स ब्रह्मवर्चस्य् अभवत् ।
ब्रह्मवर्चसी ह वै भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
बृहस्पतये स्वाहा तिष्याय स्वाहा ।
ब्रह्मवर्चसाय स्वाहा_इति ।
VERSE: 7 { 3.1.4.7}
देवासुराः संयत्ता आसन्न् ।
ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् ।
तन् एताभिर् एव देवताभिर् उपानयन् ।
एताभिर् ह वै देवताभिर् द्विषन्तं भ्रातृव्यम् उपनयति ।
य एतेन हविषा यजते ।
य उ च_एनद् एवं वेद ।
सो ऽत्र जुहोति ।
सर्पेभ्यः स्वाहा ऽऽश्रेषाभ्यः स्वाहा ।
दन्दशूकेभ्यः स्वाहा_इति ।
VERSE: 8 { 3.1.4.8}
पितरो वा अकामयन्त ।
पितृलोक ऋध्नुयाम_इति ।
त एतं पितृभ्यो मघाभ्यः पुरोडाशꣳ षट्कपालं निरवपन्न् ।
ततो वै ते पितृलोक आर्ध्नुवन् ।
पितृलोके ह वा ऋध्नोति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
पितृभ्यः स्वाहा मघाभ्यः {,आनंदा. ।} स्वाहा_अनघाभ्यः स्वाहा_अगदाभ्यः {,आनंदा. ।} स्वाहा_अरुन्धतीभ्यः स्वाहा_इति ।
VERSE: 9 { 3.1.4.9}
अर्यमा वा अकामयत ।
पशुमान्त् स्याम् इति ।
स एतम् अर्यम्णे फल्गुनीभ्यां चरुं निरवपत् ।
ततो वै स पशुमान् अभवत् ।
पशुमान् ह वै भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अर्यम्णे स्वाहा फल्गुनीभ्याꣳ स्वाहा ।
पशुभ्यः स्वाहा_इति ।
VERSE: 10 { 3.1.4.10}
भगो वा अकामयत ।
भगी श्रेष्ठी देवानाꣳ स्याम् इति ।
स एतं भगाय फल्गुनीभ्यां चरुं निरवपत् ।
ततो वै स भगी श्रेष्ठी देवानाम् अभवत् ।
भगी ह वै श्रेष्ठी समानानां भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
भगाय स्वाहा फल्गुनीभ्याꣳ स्वाहा ।
श्रेष्ठ्याय स्वाहा_इति ।
VERSE: 11 { 3.1.4.11}
सविता वा अकामयत श्रन् मे देवा दधीरन्न् ।
सविता स्याम् इति ।
स एतꣳ सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपद् आशूनां व्रीहीणाम् ।
ततो वै तस्मै श्रद् देवा अदधत ।
सविता_अभवत् ।
श्रद्ध वा अस्मै मनुष्या दधते ।
सविता समानानां भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
सवित्रे स्वाहा हस्ताय {,आनंदा. ।} स्वाहा ददते {ड्युमोण्ट ददते} स्वाहा पृणते {,आनंदा. ।} स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहा_इति ।
VERSE: 12 { 3.1.4.12}
त्वष्टा वा अकामयत ।
चित्रं प्रजां विन्देय_इति ।
स एतं त्वष्ट्रे चित्रायै पुरोडाशम् अष्टाकपालं निरवपत् ।
ततो वै स चित्रं प्रजाम् अविन्दत ।
चित्रꣳ ह वै प्रजां विन्दते ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
त्वष्ट्रे स्वाहा चित्रायै स्वाहा ।
चैत्राय स्वाहा प्रजायै स्वाहा_इति ।
VERSE: 13 { 3.1.4.13}
वायुर् वा अकामयत ।
कामचारम् एषु लोकेष्व् अभिजयेयम् इति ।
स एतद् वायवे निष्ट्यायै गृष्ट्यै दुग्धं पयो निरवपत् ।
ततो वै स कामचारम् एषु लोकेष्व् अभ्यजयत् ।
कामचारꣳ ह वा एषु लोकेष्व् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
वायवे स्वाहा निष्ट्यायै स्वाहा ।
कामचाराय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 14 { 3.1.4.14}
इन्द्राग्नी वा अकामयेताम् ।
श्रेष्ठ्यं देवानाम् अभिजयेव_इति ।
ताव् एतम् इन्द्राग्निभ्यां विशाखाभ्यां पुरोडाशम् एकादशकपालं निरवपताम् ततो वै तौ श्रेष्ठ्यं देवानाम् अभ्यजयताम् ।
श्रेष्ठ्यꣳ ह वै समानानाम् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
इन्द्राग्निभ्याꣳ स्वाहा विशाखाभ्याꣳ स्वाहा ।
श्रेष्ठ्याय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 15 { 3.1.4.15}
अथ_एतत् पौर्णमास्या आज्यं निर्वपति ।
कामो वै पौर्णमासी ।
काम आज्यम् ।
कामेन_एव कामꣳ समर्धयति ।
क्षिप्रम् एनꣳ स काम उपनमति ।
येन कामेन यजते ।
सो ऽत्र जुहोति ।
पौर्णमास्यै स्वाहा कामाय स्वाहा_आगत्यै स्वाहा_इति ।
अनुवाक 5
VERSE: 1 { 3.1.5.1}
मित्रो वा अकामयत ।
मित्रधेयम् एषु लोकेष्व् अभिजयेयम् इति ।
स एतं मित्राय_अनूराधेभ्यश् चरुं निरवपत् ।
ततो वै स मित्रधेयम् एषु लोकेष्व् अभ्यजयत् ।
मित्रधेयꣳ ह वा एषु लोकेष्व् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
मित्राय स्वाहा_अनूराधेभ्यः स्वाहा ।
मित्रधेयाय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 2 { 3.1.5.2}
इन्द्रो वा अकामयत ।
ज्यैष्ठ्यं देवानाम् अभिजयेयम् इति ।
स एतम् इन्द्राय ज्येष्ठायै पुरोडाशम् एकादशकपालं निरवपन् महाव्रीहीणाम् ।
ततो वै स ज्यैष्ठ्यं देवानाम् अभ्यजयत् ।
ज्यैष्ठ्यꣳ ह वै समानानाम् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
इन्द्राय स्वाहा ज्येष्ठायै स्वाहा ज्यैष्ठ्याय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 3 { 3.1.5.3}
प्रजापतिर् वा अकामयत ।
मूलं प्रजां विन्देय_इति ।
स एतं प्रजापतये मूलाय चरुं निरवपत् ।
ततो वै स मूलं प्रजाम् अविन्दत ।
मूलꣳ ह वै प्रजां विन्दते ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
प्रजापतये स्वाहा मूलाय स्वाहा ।
प्रजायै स्वाहा_इति ।
VERSE: 4 { 3.1.5.4}
आपो वा अकामयन्त ।
समुद्रं कामम् अभिजयेम_इति ।
ता एतम् अद्भ्यो ऽषाढाभ्यश् चरुं निरवपन्न् ।
ततो वै ताः समुद्रं कामम् अभ्यजयन् ।
समुद्रꣳ ह वै कामम् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अद्भ्यः स्वाहा_अषाढाभ्यः स्वाहा ।
समुद्राय स्वाहा कामाय स्वाहा ।
अभिजित्यै स्वाहा_इति ।
VERSE: 5 { 3.1.5.5}
विश्वे वै देवा अकामयन्त ।
अनपजय्यं जयेम_इति ।
त एतं विश्वेभ्यो देवेभ्यो ऽषाढाभ्यश् चरुं निरवपन् ।
ततो वै ते ऽनपजय्यम् अजयन्न् ।
अनपजय्यꣳ ह वै जयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
विश्वेभ्यो देवेभ्यः स्वाहा_अषाढाभ्यः स्वाहा ।
अनपजय्याय स्वाहा जित्यै स्वाहा_इति ।
VERSE: 6 { 3.1.5.6}
ब्रह्म वा अकामयत { अकामय} ।
ब्रह्मलोकम् अभिजयेयम् इति ।
तद् एतं ब्रह्मणे ऽभिजिते चरुं निरवपत् ।
ततो वै तद् ब्रह्मलोकम् अभ्यजयत् ।
ब्रह्मलोकꣳ ह वा अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति । ब्रह्मणे स्वाहा_अभिजिते स्वाहा ।
ब्रह्मलोकाय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 7 { 3.1.5.7}
विष्णुर् वा अकामयत ।
पुण्यꣳ श्लोकꣳ शृण्वीय ।
न मा पापी कीर्तिर् आगच्छेद् इति ।
स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् ।
ततो वै स पुण्यꣳ श्लोकम् अशृणुत ।
न_एनं पापी कीर्तिर् आगच्छत् ।
पुण्यꣳ ह वै श्लोकꣳ शृणुते ।
न_एनं पापी कीर्तिर् आगच्छति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
विष्णवे स्वाहा श्रोणायै स्वाहा ।
श्लोकाय स्वाहा श्रुताय स्वाहा_इति ।
VERSE: 8 { 3.1.5.8}
वसवो वा अकामयन्त ।
अग्रं देवतानां परीयाम_इति ।
त एतं वसुभ्यः श्रविष्ठाभ्यः पुरोडाशम् अष्टाकपालं निरवपन् ।
ततो वै ते ऽग्रं देवतानां पर्यायन्न् ।
अग्रꣳ ह वै समानानां पर्येति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा ।
अग्राय स्वाहा परीत्यै स्वाहा_इति ।
VERSE: 9 { 3.1.5.9}
इन्द्रो वा अकामयत ।
दृढो ऽशिथिलः स्याम् इति ।
स एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत् कृष्णानां व्रीहीणाम् ।
ततो वै स दृढो ऽशिथिलो ऽभवत् ।
दृढो ह वा अशिथिलो भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
वरुणाय स्वाहा शतभिषजे स्वाहा ।
भेषजेभ्यः स्वाहा_इति ।
VERSE: 10 { 3.1.5.10}
अजो वा एकपाद् अकामयत ।
तेजस्वी ब्रह्मवर्चसी स्याम् इति ।
स एतम् अजाय_एकपदे प्रोष्ठपदेभ्यश् चरुं निरवपत् ।
ततो वै स तेजस्वी ब्रह्मवर्चस्य् अभवत् ।
तेजस्वी ह वै ब्रह्मवर्चसी भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अजाय_एकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा ।
तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहा_इति ।
VERSE: 11 { 3.1.5.11}
अहिर् वै बुध्नियो ऽकामयत ।
इमां प्रतिष्ठां विन्देय_इति ।
स एतम् अहये बुध्नियाय प्रोष्ठपदेभ्यः पुरोडाशं भूमिकपालं निरवपत् ।
ततो वै स इमां प्रतिष्ठाम् अविन्दत ।
इमाꣳ ह वै प्रतिष्ठां विन्दते ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा ।
प्रतिष्ठायै स्वाहा_इति ।
VERSE: 12 { 3.1.5.12}
पूषा वा अकामयत ।
पशुमान्त् स्याम् इति ।
स एतं पूष्णे रेवत्यै चरुं निरवपत् ।
ततो वै स पशुमान् अभवत् ।
पशुमान् ह वै भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
पूष्णे स्वाहा रेवत्यै स्वाहा ।
पशुभ्यः स्वाहा_इति ।
VERSE: 13 { 3.1.5.13}
अश्विनौ वा अकामयेताम् ।
श्रोत्रस्विनाव् अबधिरौ स्याव_इति ।
तव् एतम् अश्विभ्याम् अश्वयुग्भ्यां पुरोडाशं द्विकपालं निरवपताम् ।
ततो वै तौ श्रोत्रस्विनाव् अबधिराव् अभवताम् ।
श्रोत्रस्वी ह वा अबधिरो भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अश्विभ्याꣳ स्वाहा_अश्वयुग्भ्याꣳ स्वाहा ।
श्रोत्राय स्वाहा श्रुत्यै स्वाहा_इति ।
VERSE: 14 { 3.1.5.14}
यमो वा अकामयत ।
पितृणाꣳ राज्यम् अभिजयेयम् इति ।
स एतं यमाया_अपभरणीभ्यश् चरुं निरवपत् ।
ततो वै स पितृणाꣳ राज्यम् अभ्यजयत् ।
समानानाꣳ ह वै राज्यम् अभिजयति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
यमाय स्वाहा_अपभरणीभ्यः स्वाहा ।
राज्याय स्वाहा_अभिजित्यै स्वाहा_इति ।
VERSE: 15 { 3.1.5.15}
अथैतद् अमावास्याया आज्यं निर्वपति ।
कामो वा अमावास्या ।
काम आज्यम् ।
कामेन_एव कामꣳ समर्धयति ।
क्षिप्रम् एनꣳ स काम उपनमति ।
येन कामेन यजते ।
सो ऽत्र जुहोति ।
अमावास्यायै स्वाहा कामाय स्वाहा_आगत्यै स्वाहा_इति ।
अनुवाक 6
VERSE: 1 { 3.1.6.1}
चन्द्रमा वा अकामयत ।
अहोरात्रान् अर्धमासान् मासान् ऋतून्त् संवत्सरम् आप्त्वा ।
चन्द्रमसः सायुज्यꣳ सलोकताम् आप्नुयाम् इति ।
स एतं चन्द्रमसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालं निरवपत् ।
ततो वै सो ऽहोरात्रान् अर्धमासान् मासान् ऋतून्त् संवत्सरम् आप्त्वा ।
चन्द्रमसः सायुज्यꣳ सलोकताम् आप्नोत् ।
अहोरात्रान् ह वा अर्धमासान् मासान् ऋतून्त् संवत्सरम् आप्त्वा ।
चन्द्रमसः सायुज्यꣳ सलोकताम् आप्नोति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
चन्द्रमसे स्वाहा प्रतीदृश्यायै स्वाहा ।
अहोरात्रेभ्यः स्वाहा_अर्धमासेभ्यः स्वाहा ।
मासेभ्यः स्वाहा_ऋतुभ्यः स्वाहा ।
संवत्सराय स्वाहा_इति ।
VERSE: 2 { 3.1.6.2}
अहोरात्रे वा अकामयेताम् ।
अत्य् अहोरात्रे मुच्येवहि ।
न नाव् अहोरात्रे आप्नुयाताम् इति ।
ते एतम् अहोरात्राभ्यां चरुं निरवपताम् ।
द्वयानां व्रीहीणाम् ।
शुक्लानां च कृष्णानां च ।
सवात्योर् दुग्धे ।
श्वेतायै च कृष्णायै च ।
ततो वै ते अत्य् अहोरात्रे अमुच्येते ।
न_एने अहोरात्रे आप्नुताम् ।
अति ह वा अहोरात्रे मुच्यते ।
न_एनम् अहोरात्रे आप्नुतः ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अह्ने स्वाहा रात्रियै स्वाहा ।
अतिमुक्त्यै स्वाहा_इति ।
VERSE: 3 { 3.1.6.3}
उषा वा अकामयत ।
प्रिया_आदित्यस्य सुभगा स्याम् इति ।
स_एतम् उषसे चरुं निरवपत् ।
ततो वै सा प्रिया_आदित्यस्य सुभगा_अभवत् ।
प्रियो ह वै समानानाꣳ सुभगो भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
उषसे स्वाहा व्युष्ट्यै स्वाहा ।
व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा ।
व्युष्टायै स्वाहा_इति ।
VERSE: 4 { 3.1.6.4}
अथ_एतस्मै नक्षत्राय चरुं निर्वपति ।
यथा त्वं देवानाम् असि ।
एवम् अहं मनुष्याणां भूयासम् इति ।
यथा ह वा एतद् देवानाम् ।
एवꣳ ह वा एष मनुष्याणां भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
नक्षत्राय स्वाहा_उदेष्यते स्वाहा ।
उद्यते स्वाहा_उदिताय स्वाहा ।
हरसे स्वाहा भरसे स्वाहा ।
भ्राजसे स्वाहा तेजसे स्वाहा ।
तपसे स्वाहा ब्रह्मवर्चसाय स्वाहा_इति ।
VERSE: 5 { 3.1.6.5}
सूर्यो वा अकामयत ।
नक्षत्राणां प्रतिष्ठा स्याम् इति ।
स एतꣳ सूर्याय नक्षत्रेभ्यश् चरुं निरवपत् ।
ततो वै स नक्षत्राणां प्रतिष्ठा_अभवत् ।
प्रतिष्ठा ह वै समानानां भवति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा ।
प्रतिष्ठायै स्वाहा_इति ।
VERSE: 6 { 3.1.6.6}
अथ_एतम् अदित्यै चरुं निर्वपति ।
इयं वा अदितिः ।
अस्याम् एव प्रतितिष्ठति ।
सो ऽत्र जुहोति ।
अदित्यै स्वाहा प्रतिष्ठायै स्वाहा_इति ।
VERSE: 7 { 3.1.6.7}
अथ_एतं विष्णवे चरुं निर्वपति ।
यज्ञो वै विष्णुः ।
यज्ञ एव_अन्ततः प्रतितिष्ठति ।
सो ऽत्र जुहोति ।
विष्णवे स्वाहा यज्ञाय स्वाहा ।
प्रतिष्ठायै स्वाहा_इति ।
प्रपाठक: 2
अनुवाक 1
VERSE: 1 { 3.2.1.1}
तृतीयस्याम् इतो दिवि सोम आसीत् ।
तं गायत्र्य् आहरत् ।
तस्य पर्णम् अच्छिद्यत ।
तत् पर्णो ऽभवत् ।
तत् पर्णस्य पर्णत्वम् ।
ब्रह्म वै पर्णः ।
यत् पर्णशाखया वत्सान् अपाकरोति ।
ब्रह्मणा_एवैनान् अपाकरोति ।
गायत्रो वै पर्णः ।
गायत्राः पशवः ।
VERSE: 2 { 3.2.1.2}
तस्मात् त्रीणि_त्रीणि पर्णस्य पलाशानि ।
त्रिपदा गायत्री ।
यत् पर्णशाखया गाः प्रार्पयति ।
स्वया_एवैना देवतया प्रार्पयति ।
यं कामयेत_अपशुः स्याद् इति ।
अपर्णां तस्मै शुष्काग्राम् आहरेत् ।
अपशुर् एव भवति ।
यं कामयेत पशुमान्त् स्याद् इति ।
बहुपर्णां तस्मै बहुशाखाम् आहरेत् ।
पशुमन्तम् एवैनं करोति ।
VERSE: 3 { 3.2.1.3}
यत् प्राचीम् आहरेत् ।
देवलोकम् अभिजयेत् ।
यद् उदीचीं मनुष्यलोकम् ।
प्राचीम् उदीचीम् आहरति ।
उभयोर् लोकयोर् अभिजित्यै ।
इषे त्वा_ऊर्जे त्वा_इत्य् आह ।
इषम् एव_ऊर्जं यजमाने दधाति ।
वायवः स्थ_इत्य् आह ।
वायुर् वा अन्तरिक्षस्य_अध्यक्षाः ।
अन्तरिक्षदेवत्याः खलु वै पशवः ।
VERSE: 4 { 3.2.1.4}
वायव एवैनान् परिददाति ।
प्र वा एनान् एतद् आकरोति ।
यद् आह ।
वायवः स्थ_इत्य् उपायवः स्थ_इत्य् आह ।
यजमानाय_एव पशून् उपह्वयते ।
देवो वः सविता प्रार्पयत्व् इत्य् आह प्रसूत्यै ।
श्रेष्ठतमाय कर्मण इत्य् आह ।
यज्ञो हि श्रेष्ठतमं कर्म ।
तस्माद् एवम् आह ।
आप्यायध्वम् अघ्निया देवभागम् इत्य् आह ।
VERSE: 5 { 3.2.1.5}
वत्सेभ्यश् च वा एताः पुरा मनुष्येभ्यश् च_आप्यायन्त ।
देवेभ्य एवैना इन्द्राय_आप्यायति ।
ऊर्जस्वतीः पयस्वतीर् इत्य् आह ।
ऊर्जꣳ हि पयः संभरन्ति ।
प्रजावतीर् अनमीवा अयक्ष्मा इत्य् आह प्रजात्यै ।
मा वः स्तेन {आनंदा. व स्तेन} ईशत मा_अघशꣳस इत्य् आह गुप्त्यै ।
रुद्रस्य हेतिः परि वो वृणक्त्व् इत्य् आह ।
रुद्राद् एवैनास् त्रायते ।
ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर् इत्य् आह ।
ध्रुवा एवास्मिन् बह्वीः करोति ।
VERSE: 6 { 3.2.1.6}
यजमानस्य पशून् पाहि_इत्य् आह ।
पशुनां गोपीथाय ।
तस्मात् सायं पशव उप समावर्तन्ते ।
अनधः सादयति ।
गर्भाणां धृत्या अप्रपादाय ।
तस्माद् गर्भाः प्रजानाम् अप्रपादुकाः ।
उपरि_इव निदधाति ।
उपरि_इव हि सुवर्गो लोकः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
अनुवाक 2
VERSE: 1 { 3.2.2.1}
देवस्य त्वा सवितुः प्रसव इत्य् अश्वपर्शुम् आदत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् ।
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
यो वा ओषधीः पर्वशो वेद ।
न_एनाः स हिनस्ति ।
प्रजापतिर् वा ओषधीः पर्वशो वेद ।
स एना न हिनस्ति अश्वपर्श्वा बर्हिर् अच्छैति ।
प्राजापत्यो वा अश्वः सयोनित्वाय ।
VERSE: 2 { 3.2.2.2}
ओषधीनाम् अहिꣳसायै ।
यज्ञस्य घोषद् असि_इत्य् आह ।
यजमान एव रयिं दधाति ।
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्य् आह ।
रक्षसाम् अपहत्यै ।
प्र_इयम् अगाद् धिषणा बर्हिर् अच्छा_इत्य् आह ।
विद्या वै धिषणा ।
विद्यया_एवैनद् अच्छैति ।
मनुना कृता स्वधया वितष्ट_इत्य् आह ।
मानवी हि पर्शुः स्वधाकृता ।
VERSE: 3 { 3.2.2.3}
त आवहन्ति कवयः पुरस्ताद् इत्य् आह ।
शुश्रुवाꣳसो वै कवयः ।
यज्ञः पुरस्तात् ।
मुखत एव यज्ञम् आरभते ।
अथो यद् एतद् उक्त्वा यतः कुतश् च_आहरति ।
तत् प्राच्या एव दिशो भवति ।
देवेभ्यो जुष्टम् इह बर्हिर् आसद इत्य् आह ।
बर्हिषः समृद्ध्यै ।
कर्मणो ऽनपराधाय ।
देवानां परिषूतम् असि_इत्य् आह ।
VERSE: 4 { 3.2.2.4}
यद् वा इदं किं च ।
तद् देवानां परिषूतम् ।
अथो यथा वस्यसे प्रतिप्रोच्य_आह_इदं करिष्यामि_इति ।
एवम् एव तद् अध्वर्युर् देवेभ्यः प्रतिप्रोच्य बर्हिर् दाति ।
आत्मनो ऽहिꣳसायै ।
यावतः स्तम्बान् परिदिशेत् ।
यत् तेषाम् उच्छिꣳष्यात् ।
अति तद् यज्ञस्य रेचयेत् ।
एकꣳ ꣳ स्तम्बं परिदिशेत् ।
तꣳ सर्वं दायात् ।
VERSE: 5 { 3.2.2.5}
यज्ञस्य_अनतिरेकाय ।
वर्षवृद्धम् असि_इत्य् आह ।
वर्षवृद्धा वा ओषधयः ।
देवबर्हिर् इत्य् आह ।
देवेभ्य एव_एनत् करोति ।
मा त्वा_अन्वङ् मा तिर्यग् इत्य् आह_अहिꣳसायै ।
पर्व ते राध्यासम् इत्य् आह_ऋध्यै ।
आच्छेत्ता ते मा रिषम् इत्य् आह ।
न_अस्य_आत्मनो मीयते ।
य एवं वेद ।
VERSE: 6 { 3.2.2.6}
देव बर्हिश् शतवल्शं विरोह_इत्य् आह ।
प्रजा वै बर्हिः ।
प्रजानां प्रजननाय ।
सहस्रवल्शा वि वयꣳ रुहेम_इत्य् आह ।
आशिषम् एव_एताम् आशास्ते ।
पृथिव्याः संपृचः पाहि_इत्य् आह प्रतिष्ठित्यै ।
अयुं गायुं गान् {ड्युमोण्ट अयुङ्गायुङ्गान्} मुष्टीन्_लुनोति ।
मिथुनत्वाय प्रजात्यै ।
सुसंभृता त्वा संभरामि_इत्य् आह ।
ब्रह्मणा_एवैनत् संभरति ।
VERSE: 7 { 3.2.2.7}
अदित्यै रास्ना_असि_इत्य् आह ।
इयं वा अदितिः ।
अस्या एवैनद् रास्नां करोति ।
इन्द्राण्यै संनहनम् इत्य् आह ।
इन्द्राणी वा अग्रे देवतानाꣳ समनह्यत ।
सोर्ध्नोत् ।
ऋद्ध्यै संनह्यति ।
प्रजा वै बर्हिः ।
प्रजानाम् अपरावापाय ।
तस्मात् स्नावसंतताः प्रजा जायन्ते
VERSE: 8 { 3.2.2.8}
पूषा ते ग्रन्थिं ग्रथ्नात्व् इत्य् आह ।
पुष्टिम् एव यजमाने दधाति ।
स ते मा स्थाद् इत्य् आह_अहिꣳसायै ।पश्चात् प्राञ्चम् उपगूहति ।
पश्चाद् वै प्राचीनꣳ रेतो धीयते ।
पश्चाद् एवास्मै प्राचीनꣳ रेतो दधाति ।
इन्द्रस्य त्वा बाहुभ्याम् उद्यच्छ इत्य् आह ।
इन्द्रियम् एव यजमाने दधाति ।
बृहस्पतेर् मूर्ध्ना हरामि_इत्य् आह ।
ब्रह्म वै देवानां बृहस्पतिः ।
VERSE: 9 { 3.2.2.9}
ब्रह्मणा_एवैनद् धरति ।
उर्व् अन्तरिक्षम् अन्विहीत्याह गत्यै ।
देवंगमम् असीत्य् आह ।
देवान् एव_एनद् गमयति ।
अनधः सादयति ।
गर्भाणां धृत्या अप्रपादाय ।
तस्माद् गर्भाः प्रजानाम् अप्रपादुकाः ।
उपरीव निदधाति ।
उपरीव हि सुवर्गो लोकः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
अनुवाक 3
VERSE: 1 { 3.2.3.1}
पूर्वेद्युर् इध्माबर्हिः करोति ।
यज्ञम् एवाऽऽरभ्य गृहीत्वा_उपवसति ।
प्रजापतिर् यज्ञम् असृजत ।
तस्य_उखे अस्रꣳसेताम् ।
यज्ञो वै प्रजापतिः ।
यत् सांनाय्य_उखे भवतः ।
यज्ञस्यैव तद् उखे उपदधात्य् अप्रस्रꣳसाय ।
शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्य् आह ।
देवयज्याया एव_एनानि शुन्धति ।
मातरिश्वनो घर्मो ऽसि_इत्य् आह ।
VERSE: 2 { 3.2.3.2}
अन्तरिक्षं वै मातरिश्वनो घर्मः ।
एषां लोकानां विधृत्यै ।
द्यौर् असि पृथिव्यसीत्य् आह ।
दिवश् च ह्य् एषा पृथिव्याश् च संभृता ।
यद् उखा ।
तस्माद् एवम् आह ।
विश्वधाया असि परमेण धाम्ना_इत्य् आह ।
वृष्टिर् वै विश्वधायाः ।
वृष्टिम् एव_अवरुन्धे ।
दृꣳहस्व मा ह्वार् इत्य् आह धृत्यै ।
VERSE: 3 { 3.2.3.3}
वसूनां पवित्रम् असीत्य् आह ।
प्राणा वै वसवः ।
तेषां वा एतद् भागधेयम् ।
यत् पवित्रम् ।
तेभ्य एव_एनत् करोति ।
शतधारꣳ सहस्रधारम् इत्य् आह ।
प्राणेष्व् एवायुर् दधाति सर्वत्वाय ।
त्रिवृत् पलाशशाखायां दर्भमयं भवति ।
त्रिवृद् वै प्राणः ।
त्रिवृतम् एव प्राणं मध्यतो यजमाने दधाति ।
VERSE: 4 { 3.2.3.4}
सौम्यः पर्णः सयोनित्वाय ।
साक्षात् पवित्रं दर्भाः ।
प्राक् सायम् अधिनिदधाति ।
तत् प्राणापानयो रूपम् ।
तिर्यक् प्रातः ।
तद् दर्शस्य रूपम् ।
दार्श्यꣳ ह्य् एतद् अहः ।
अन्नं वै चन्द्रमाः ।
अन्नं प्राणाः ।
उभयम् एव_उपैत्य् अजामित्वाय ।
VERSE: 5 { 3.2.3.5}
तस्माद् अयꣳ सर्वतः पवते ।
हुतः स्तोको हुतो द्रप्स इत्य् आह प्रतिष्ठित्यै ।
हविशो ऽस्कन्दाय ।
न हि हुतꣳ स्वाहाकृतꣳ स्कन्दति ।
दिवि नाको नामाग्निः ।
तस्य विप्रुषो भागधेयम् ।
अग्नये बृहते नाकाय_इत्य् आह ।
नाकम् एवाग्निं भागधेयेन समर्धयति ।
स्वाहा द्यावापृथिवीभ्याम् इत्य् आह ।
द्यावापृथिव्योर् एव_एनत् प्रतिष्ठापयति ।
VERSE: 6 { 3.2.3.6}
पवित्रवत्य् आनयति ।
अपां चैव_ओषधीनां च रसꣳ सꣳसृजति ।
अथो ओषधीष्व् एव पशून् प्रतिष्ठापयति ।
अन्वारभ्य वाचं यच्छति ।
यज्ञस्य धृत्यै ।
धारयन्न् आस्ते ।
धारयन्त इव हि दुहन्ति ।
काम् अधुक्ष इत्य् आह_आ तृतीयस्यै ।
त्रय इमे लोकाः ।
इमान् एव लोकान् यजमानो दुहे ।
VERSE: 7 { 3.2.3.7}
अमूम् इति नाम गृह्णाति ।
भद्रम् एवासां कर्माविष्करोति ।
सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्म_इत्य् आह ।
इयं वै विश्वायुः ।
अन्तरिक्षं विश्वव्यचाः ।
असौ विश्वकर्मा ।
इमान् एव_एताभिर् लोकान् यथापूर्वं दुहे ।
अथो यथा प्रदात्रे पुण्यम् आशास्ते ।
एवम् एव_एना एतद् उपस्तौति ।
तस्मात् प्रादाद् इत्य् उन्नीय वन्दमाना उपस्तुवन्तः पशून् दुहन्ति ।
VERSE: 8 { 3.2.3.8}
बहु दुग्धीन्द्राय देवेभ्यो हविर् इति वाचं विसृजते ।
यथादेवतम् एव प्रसौति ।
दैव्यस्य च मानुषस्य च व्यावृत्त्यै ।
त्रिर् आह ।
त्रिषत्या हि देवाः ।
अवाचंयमो ऽनन्वारभ्य_उत्तराः ।
अपरिमितम् एवावरुन्धे ।
न दारुपात्रेण दुह्यात् ।
अग्निवद् वै दारुपात्रम् ।
यद् दारुपात्रेण दुह्यात् ।
VERSE: 9 { 3.2.3.9}
यातयाम्ना हविषा यजेत ।
अथो खल्व् आहुः ।
पुरोडाशमुखानि वै हवीꣳषि ।
न_इतैतः पुरोडाशꣳ हविषो यामो ऽस्तीति ।
कामम् एव दारुपात्रेण दुह्यात् ।
शूद्र एव न दुह्यात् ।
असतो वा एष संभूतः ।
यत्_शूद्रः ।
अहविर् एव तद् इत्य् आहुः ।
यत्_शूद्रो दोग्धीति ।
VERSE: 10 { 3.2.3.10}
अग्निहोत्रम् एव न दुह्यात्_शूद्रः ।
तद् धि न_उत्पुनन्ति ।
यदा खलु वै पवित्रम् अत्येति ।
अथ तद् धविर् इति ।
संपृच्यध्वम् ऋतावरीर् इत्य् आह ।
अपां चैव_ओषधीनां च रसꣳ सꣳसृजति ।
तस्माद् अपां च_ओषधीनां च रसम् उपजीवामः ।
मन्द्रा धनस्य सातय इत्य् आह ।
पुष्टिम् एव यजमाने दधाति ।
सोमेन त्वातनच्मीन्द्राय दधीत्य् आह ।
VERSE: 11 { 3.2.3.11}
सोमम् एव_एनत् करोति ।
यो वै सोमं भक्षयित्वा ।
संवत्सरꣳ सोमं न पिबति ।
पुनर्भक्ष्यो ऽस्य सोमपीथो भवति ।
सोमः खलु वै सांनाय्यम् ।
य एवं विद्वान्त् सांनाय्यं पिबति ।
अपुनर्भक्ष्यो ऽस्य सोमपीथो भवति ।
न मृन्मयेनापिदध्यात् ।
यन् मृन्मयेनापिदध्यात् ।
पितृदेवत्यꣳ स्यात् ।
VERSE: 12 { 3.2.3.12}
अयस्पात्रेण वा दारुपात्रेण वा_अपिदधाति ।
तद् धि सदेवम् ।
उदन्वद् भवति ।
आपो वै रक्षोघ्नीः ।
रक्षसाम् अपहत्यै ।
अदस्तम् असि विष्णवे त्वा_इत्य् आह ।
यज्ञो वै विष्णुः ।
यज्ञाय_एव_एनद् अदस्तं करोति ।
विष्णो हव्यꣳ रक्षस्व_इत्य् आह गुप्त्यै ।
अनधः सादयति ।
गर्भाणां धृत्या अप्रपादाय ।
तस्माद् गर्भाः प्रजानाम् अप्रपादुकाः ।
उपरीव निदधाति ।
उपरीव हि सुवर्गो लोकः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
अनुवाक 4
VERSE: 1 { 3.2.4.1}
कर्मणे वां देवेभ्यश् शकेयम् इत्य् आह शक्त्यै ।
यज्ञस्य वै संततिम् अनु प्रजाः पशवो यजमानस्य संतायन्ते ।
यज्ञस्य विच्छित्तिम् अनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते ।
यज्ञस्य संततिर् असि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य_इत्य् आ_आहवनीयात् संतनोति ।
यजमानस्य प्रजायै पशूनाꣳ संतत्यै ।
अपः प्रणयति ।
श्रद्धा वा आपः श्रद्धाम् एवाऽऽरभ्य प्रणीय प्रचरति ।
अपः प्रणयति ।
यज्ञो वा आपः ।
VERSE: 2 { 3.2.4.2}
यज्ञम् एवाऽऽरभ्य प्रणीय प्रचरति ।
अपः प्रणयति ।
वज्रो वा आपः ।
वज्रम् एव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति ।
अपः प्रणयति ।
आपो वै रक्षोघ्नीः ।
रक्षसाम् अपहत्यै ।
अपः प्रणयति ।
आपो वै देवानां प्रियं धाम ।
देवानाम् एव प्रियं धाम प्रणीय प्रचरति ।
VERSE: 3 { 3.2.4.3}
अपः प्रणयति ।
आपो वै सर्वा देवताः ।
देवता एवारभ्य प्रणीय प्रचरति ।
वेषाय त्वा_इत्य् आह ।
वेषाय ह्य् एनद् आदत्ते ।
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्य् आह ।
रक्षसाम् अपहत्यै ।
धूर् असीत्य् आह ।
एष वै धुर्यो ऽग्निः ।
तं यद् अनुपस्पृश्यातीयात् ।
VERSE: 4 { 3.2.4.4}
अध्वर्युं च यजमानं च प्रदहेत् ।
उपस्पृश्यात्येति ।
अध्वर्योश् च यजमानस्य चाप्रदाहाय ।
धूर्व {आनंदा. धूर्वन्} तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वाम इत्य् आह ।
द्वौ वाव पुरुषौ ।
यं चैव धूर्वति ।
यस् चैनं धूर्वति ।
ताव् उभौ शुचा_अर्पयति ।
त्वं देवानाम् असि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमम् इत्य् आह ।
यथायजुर् एव_एतत् ।
VERSE: 5 { 3.2.4.5}
अह्रुतम् असि हविर्धानम् इत्य् आह_अनार्त्यै ।
दृꣳहस्व मा ह्वार् इत्य् आह धृत्यै ।
मित्रस्य त्वा चक्षुषा प्रेक्ष इत्य् आह मित्रत्वाय ।
मा भेर् मा संविक्था मा त्वा हिꣳसिषम् इत्य् आहाहिꣳसायै ।
यद् वै किं च वातो न_अभिवाति ।
तत् सर्वं वरुणदेवत्यम् ।
उरु वाताय_इत्य् आह ।
अवारुणम् एव_एनत् करोति ।
देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
VERSE: 6 { 3.2.4.6}
अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् ।
पूष्णो हस्ताभ्याम् इत्य् आह ।
यत्यै ।
अग्नये जुष्टं निर्वपामीत्य् आह ।
अग्नय एव_एनाञ् जुष्टं निर्वपति ।
त्रिर् यजुषा ।
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
तूष्णीं चतुर्थम् ।
अपरिमितम् एव_अवरुन्धे ।
स एवम् एव_अनुपूर्वꣳ हवीꣳषि निर्वपति ।
VERSE: 7 { 3.2.4.7}
इदं देवानाम् इदम् उ नः सह_इत्य् आह व्यावृत्त्यै ।
स्फात्यै त्वा न_अरात्या इत्य् आह गुप्त्यै ।
तमसीव वा एषो ऽन्तश् चरति ।
यः परीणहि ।
सुवर् अभि विख्येषं वैश्वानरं ज्योतिर् इत्य् आह ।
सुवर् एव_अभि विपश्यति वैश्वानरं ज्योतिः ।
द्यावापृथिवी हविषि गृहीत उदवेपेताम् ।
दृꣳहन्तां दुर्या द्यावापृथिव्योर् इत्य् आह ।
गृहाणां द्यावापृथिव्योर् धृत्यै ।
उर्व् अन्तरिक्षम् अन्विहीत्य् आह गत्यै ।
अदित्यास् त्वा_उपस्थे सादयामीत्य् आह ।
इयं वा अदितिः ।
अस्या एव_एनद् उपस्थे सादयति ।
अग्ने हव्यꣳ रक्षस्व_इत्य् आह गुप्त्यै ।
अनुवाक 5
VERSE: 1 { 3.2.5.1}
इन्द्रो वृत्रम् अहन्न् ।
सो ऽपः ।
अभ्यम्रियत ।
तासां यन् मेध्यं यज्ञियꣳ सदेवम् आसीत् ।
तद् अपोदक्रामत् ।
ते दर्भा अभवन्न् ।
यद् दर्भैर् अप उत्पुनाति ।
या एव मेध्या यज्ञियाः सदेवा आपः ।
ताभिर् एव_एना उत्पुनाति ।
द्वाभ्याम् उत्पुनाति ।
VERSE: 2 { 3.2.5.2}
द्विपाद् यजमानः प्रतिष्ठित्यै ।
देवो वः सविता_उत्पुनात्व् इत्य् आह ।
सवितृप्रसूत एव_एना उत्पुनाति ।
अच्छिद्रेण पवित्रेणा_इत्य् आह ।
असौ वा अदित्यो ऽच्छिद्रं पवित्रम् ।
तेन_एव_एना उत्पुनाति ।
वसोः सूर्यस्य रश्मिभिर् इत्य् आह ।
प्राणा वा आपः { ।} प्राणा वसवः ।
प्राणा रश्मयः ।
VERSE: 3 { 3.2.5.3}
प्राणैर् एव प्राणान्त् संपृणक्ति ।
सावित्रिया_ऋचा ।
सवितृप्रसूतं मे कर्मासद् इति ।
सवितृप्रसूतम् एव_अस्य कर्म भवति ।
पच्छो गायत्रिया त्रिष्षमृद्धत्वाय ।
आपो देवीर् अग्रेपुवो अग्रेगुव इत्य् आह ।
रूपम् एवाऽऽसाम् एतन् महिमानं व्याचष्टे ।
अग्र इमं यज्ञं नयताग्रे यज्ञपतिम् इत्य् आह ।
अग्रे एव यज्ञं नयन्ति ।
अग्रे यज्ञपतिम् ।
VERSE: 4 { 3.2.5.4}
युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्य इत्य् आह ।
वृत्रꣳ ह हनिष्यन्न् इन्द्र आपो वव्रे ।
आपो ह_इन्द्रं वव्रिरे ।
संज्ञाम् एवाऽऽसाम् एतत् सामानं व्याचष्टे ।
प्रोक्षिताः स्थ_इत्य् आह ।
तेनापः प्रोक्षिताः ।
अग्नये वो जुष्टं प्रोक्षाम्य् अग्नीषोमाभ्याम् इत्य् आह ।
यथादेवतम् एव_एनान् प्रोक्षति ।
त्रिः प्रोक्षति ।
त्र्यावृद् धि यज्ञः ।
VERSE: 5 { 3.2.5.5}
अथो रक्षसाम् अपहत्यै ।
शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्य् आह ।
देवयज्याया एव_एनानि शुन्धति ।
त्रिः प्रोक्षति ।
त्र्यावृद् धि यज्ञः ।
अथो मेध्यत्वाय ।
अवधूतꣳ रक्षो ऽवधूता अरातय इत्य् आह ।
रक्षसाम् अपहत्यै ।
अदित्यास् त्वग् असीत्य् आह ।
इयं वा अदितिः ।
VERSE: 6 { 3.2.5.6}
अस्या एव_एनत् त्वचं करोति ।
प्रति त्वा पृथिवी वेत्त्व् {आनंदा. वेत्व्} इत्य् आह प्रतिष्ठित्यै ।
पुरस्तात् प्रतीचीनग्रीवम् उत्तरलोम_उपस्तृणाति मेध्यत्वाय ।
तस्मात् पुरस्तात् प्रत्यञ्चः पशावो मेधम् उपतिष्ठन्ते ।
तस्मात् प्रजा मृगं ग्राहुकाः ।
यज्ञो देवेभ्यो निलायत ।
कृष्णो रूपं कृत्वा ।
यत् कृष्णाजिने हविर् अध्यवहन्ति ।
यज्ञाद् एव तद् यज्ञं प्रयुङ्क्ते ।
हविषो ऽस्कन्दाय ।
VERSE: 7 { 3.2.5.7}
अधिषवणम् असि वानस्पत्यम् इत्य् आह ।
अधिषवणम् एव_एनत् करोति ।
प्रति त्वा_आदित्यास् त्वग् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह सयत्वाय ।
अग्नेस् तनूर् असीत्य् आह ।
अग्नेर् वा एषा तनूः ।
यद् ओषधयः ।
वाचो विसर्जनम् इत्य् आह ।
यदा हि प्रजा ओषधीनाम् अश्नन्ति ।
अथ वाचं विसृजन्ते ।
देववीतये त्वा गृह्णामीत्य् आह ।
VERSE: 8 { 3.2.5.8}
देवताभिर् एव_एनत् समर्धयति ।
अद्रिर् असि वानस्पत्य इत्य् आह ।
ग्रावाणम् एव_एनत् करोति ।
स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्व_इत्य् आह शान्त्यै ।
हविष्कृद् एहीत्य् आह ।
य एव देवानाꣳ हविष्कृतः ।
तान् ह्व्यति ।
त्रिर् ह्वयति ।
त्रिषत्या हि देवाः ।
इषम् आवद_ऊर्जम् आवद_इत्य् आह ।
VERSE: 9 { 3.2.5.9}
इषम् एव_ऊर्जं यजमाने दधाति ।
द्युमद् वदत वयꣳ संघातं जेष्म_इत्य् आह भ्रातृव्याभिभूत्यै ।
मनोः श्रद्धादेवस्य यजमानस्य_असुरघ्नी वाक् ।
यज्ञायुधेषु प्रविष्टासीत् ।
ते ऽसुरा यावन्तो यज्ञायुधानाम् उद्वदताम् उपाशृण्वन्न् ।
ते पराभवन् ।
तस्मात् स्वानां मध्ये ऽवसाय यजेत ।
यावन्तो ऽस्य भ्रातृव्या यज्ञायुधानाम् उद्वदताम् उपशृण्वन्ति ।
ते पराभवन्ति ।
उच्चैः समाहन्तवा आह विजित्यै ।
VERSE: 10 { 3.2.5.10}
वृङ्क्त एषाम् इन्द्रियं वीर्यम् ।
श्रेष्ठ एषां भवति ।
वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्त्व् {आनंदा. वेत्व्} इत्य् आह ।
वर्षवृद्धा वा ओषधयः ।
वर्षवृद्धा इषीकाः समृद्ध्यै ।
यज्ञꣳ रक्षाꣳस्य् अनु प्राविशन् ।
तान्य् अस्ना पशुभ्यो निरवादयन्त ।
तुषैर् ओषधीभ्यः ।
परापूतꣳ रक्षः परापूता अरातय इत्य् आह ।
रक्षसाम् अपहत्यै ।
VERSE: 11 { 3.2.5.11}
रक्षसां भागो ऽसीत्य् आह ।
तुषैर् एव रक्षाꣳसि निरवदयते ।
अप उपस्पृशति मेध्यत्वाय ।
वायुर् वो विविनक्त्व् इत्य् आह ।
पवित्रं वै वायुः ।
पुनात्य् एव_एनान् ।
अन्तरिक्षाद् इव वा एते प्रस्कन्दन्ति ।
ये शूर्पात् ।
देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्व् इत्य् आह प्रतिष्ठित्यै ।
हविषो ऽस्कन्दाय ।
त्रिष् फलीकर्तवा आह ।
त्र्यावृद् धि यज्ञः ।
अथो मेध्यत्वाय ।
अनुवाक 6
VERSE: 1 { 3.2.6.1}
अवधूतꣳ रक्षो ऽवधूता अरातय इत्य् आह ।
रक्षसाम् अपहत्यै ।
अदित्यास् त्वग् असीत्य् आह ।
इयं वा अदितिः ।
अस्या एव_एनत् त्वचं करोति ।
प्रति त्वा पृथिवी वेत्त्व् {आनंदा. वेत्व्} इत्य् आह प्रतिष्ठित्यै ।
पुरस्तात् प्रतीचीनग्रीवम् उत्तरलोम_उपस्तृणाति मेध्यत्वाय ।
तस्मात् पुरस्तात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते ।
तस्मात् प्रजा मृगं ग्राहुकाः ।
यज्ञो देवेभ्यो निलायत ।
VERSE: 2 { 3.2.6.2}
कृष्णो रूपं कृत्वा ।
यत् कृष्णाजिने हविर् अधिपिनष्टि ।
यज्ञाद् एव तद् यज्ञं प्रयुङ्क्ते ।
हविषो ऽस्कन्दाय ।
द्यावापृथिवी सह_आस्ताम् ।
ते शम्यामात्रम् एकम् अहर् व्यैताꣳ शम्यामात्रम् एकम् अहः ।
दिवः स्कम्भनिर् असि प्रति त्वा_आदित्यास् त्वग् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह ।
द्यावापृथिव्योर् वीत्यै ।
धिषणासि पर्वत्या प्रति त्वा दिवः स्कम्भनिर् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह ।
द्यावापृथिव्योर् विधृत्यै ।
VERSE: 3 { 3.2.6.3}
धिषणासि पार्वतेयी प्रति त्वा पर्वतिर् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह ।
द्यावापृथिव्योर् धृत्यै ।
देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् ।
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
अधिवपामीत्य् आह ।
यथादेवतम् एव_एनान् अधिवपति ।
धान्यम् असि धिनुहि देवान् इत्य् आह ।
एतस्य यजुषो वीर्येण ।
VERSE: 4 { 3.2.6.4}
यावद् एका देवता कामयते यावद् एका ।
तावद् आहुतिः प्रथते ।
न हि तद् अस्ति ।
यत् तावद् एव स्यात् ।
यावज् जुहोति ।
प्राणाय त्वा_अपानाय त्वा_इत्य् आह ।
प्राणान् एव यजमाने दधाति ।
दीर्घाम् अनु प्रसितिम् आयुषे धाम् इत्य् आह ।
आयुर् एव_अस्मिन् दधाति ।
अन्तरिक्षाद् इव वा एतानि प्रस्कन्दन्ति ।
यानि दृषदः ।
देवो वः सविता हिरण्यपानिः प्रति गृह्णात्व् इत्य् आह प्रतिष्ठित्यै ।
हविषो ऽस्कन्दाय ।
असंवपन्ती पिꣳषा_अण्ū́नि कुरुताद् इत्य् आह मेध्यत्वाय ।
अनुवाक 7
VERSE: 1 { 3.2.7.1}
धृष्टिर् असि ब्रह्म यच्छ_इत्य् आह धृत्यै ।
अपाग्ने ऽग्निम् आमादं जहि निष्क्रव्यादꣳ सेध_आ देवयजं वह_इत्य् आह ।
य एवाऽऽमात् क्रव्यात् ।
तम् अपहत्य ।
मेध्ये ऽग्नौ कपालम् उपदधाति ।
निर्दग्धꣳ रक्षो निर्दग्धा अरातय इत्य् आह ।
रक्षाꣳस्य् एव निर्दहति ।
अग्निवत्युपदधाति ।
अस्मिन्न् एव लोके ज्योतिर् धत्ते ।
अङ्गारम् अधिवर्तयति ।
VERSE: 2 { 3.2.7.2}
अन्तरिक्ष एव ज्योतिर् धत्ते ।
आदित्यम् एव_अमुष्मिन् लोके ज्योतिर् धत्ते ।
ज्योतिष्मन्तो ऽस्मा इमे लोका भवन्ति ।
य एवं वेद ।
ध्रुवम् असि पृथिवीं दृꣳह_इत्य् आह ।
पृथिवीम् एव_एतेन दृꣳहति ।
धर्त्रम् अस्य् अन्तरिक्षं दृꣳह_इत्य् आह ।
अन्तरिक्षम् एव_एतेन दृꣳहति ।
धरुणम् असि दिवं दृꣳह_इत्य् आह ।
दिवम् एव_एतेन दृꣳहति ।
VERSE: 3 { 3.2.7.3}
धर्मासि दिशो दृꣳह_इत्य् आह ।
दिश एव_एतेन दृꣳहति ।
इमान् एव_एतैर् लोकान् दृꣳहति ।
दृꣳहन्ते ऽस्मा इमे लोकाः प्रजया पशुभिः ।
य एवं वेद ।
त्रीण्य् अग्रे कपालान्य् उपदधाति ।
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
एकम् अग्रे कपालम् उपदधाति ।
एकं वा अग्रे कपालं पुरुषस्य संभवति ।
VERSE: 4 { 3.2.7.4}
अथ द्वे ।
अथ त्रीणि ।
अथ चत्वारि ।
अथ_अष्टौ ।
तस्माद् अष्टाकपालं पुरुषस्य शिरः ।
यद् एवं कपालान्य् उपदधाति ।
यज्ञो वै प्रजापतिः ।
यज्ञम् एव प्रजापतिꣳ सꣳस्करोति ।
आत्मानम् एव तत् सꣳस्करोति ।
तꣳ सꣳस्कृतम् आत्मानम् ।
VERSE: 5 { 3.2.7.5}
अमुष्मिन्_लोके ऽनु परैति ।
यद् अष्टाव् उपदधाति ।
गायत्रिया तत् संमितम् ।
यन् नव ।
त्रिवृता तत् ।
यद् दश ।
विराजा तत् ।
यद् एकादश ।
त्रिष्टुभा तत् ।
यद् द्वादश ।
VERSE: 6 { 3.2.7.6}
जगत्या तत् ।
छन्दःसंमितानि स उपदधत् कपालानि ।
इमान् लोकान् अनुपूर्वं दिशो विधृत्यै दृꣳहति ।
अथ_आयुः प्राणान् प्रजां पशून् यजमाने दधाति ।
सजातान् अस्मा अभितो बहुलान् करोति ।
चितः स्थ_इत्य् आह ।
यथायजुर् एव_एतत् ।
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् इत्य् आह ।
देवतानाम् एव_एनानि तपसा तपति ।
तानि ततः सꣳस्थिते ।
यानि घर्मे कपालान्य् उपचिन्वन्ति वेधस इति चतुष्पदया_ऋचा विमुञ्चति ।
चतुष्पादः पशवः ।
पशुष्व् एव_उपरिष्टात् प्रतितिष्ठति ।
अनुवाक 8
VERSE: 1 { 3.2.8.1}
देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् ।
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
संवपामीत्य् आह ।
यथादेवतम् एव_एनानि संवपति ।
सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन_इत्य् आह ।
आपो वा ओषधीर् जिन्वन्ति ।
ओषधयो ऽपो जिन्वन्ति ।
अन्या वा एतासाम् अन्या जिन्वन्ति ।
VERSE: 2 { 3.2.8.2}
तस्माद् एवम् आह ।
सꣳ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम् इत्य् आह ।
आपो वै रेवतीः ।
पशवो जगतीः ।
ओषधयो मधुमतीः ।
आप ओषधीः पशून् ।
तान् एव_अस्मा एकधा सꣳसृज्य ।
मधुमतः करोति ।
अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वम् इति पर्याप्लावयति ।
यथा सुवृष्ट इमाम् अनुविसृत्य ।
VERSE: 3 { 3.2.8.3}
आप ओषधीर् महयन्ति ।
तादृग् एव तत् ।
जनयत्यै त्वा संयौमीत्य् आह ।
प्रजा एव_एतेन दाधार ।
अग्नये त्वा_अग्नीषोमाभ्याम् इत्य् आह व्यावृत्त्यै ।
मखस्य शिरो ऽसीत्य् आह ।
यज्ञो वै मखः ।
तस्यैतत्_शिरः ।
यत् पुरोडाशः ।
तस्माद् एवम् आह ।
VERSE: 4 { 3.2.8.4}
घर्मो ऽसि विश्वायुर् इत्य् आह ।
विश्वम् एव_आयुर् यजमाने दधाति ।
उरु प्रथस्व_उरु ते यज्ञपतिः प्रथताम् इत्य् आह ।
यजमानम् एव प्रजया पशुभिः प्रथयति ।
त्वचं गृह्णीष्व_इत्य् आह ।
सर्वम् एव_एनꣳ सतनुं करोति ।
अथाप आनीय परि मार्ष्टि ।
माꣳस एव तत् त्वचं दधाति ।
तस्मात् त्वचा माꣳसं छन्नम् ।
घर्मो वा एषो ऽशान्तः ।
VERSE: 5 { 3.2.8.5}
अर्धमासे_ऽर्धमासे प्रवृज्यते ।
यत् पुरोडाशः ।
स ईश्वरो यजमानꣳ शुचा प्रदहः ।
पर्यग्नि करोति ।
पशुम् एव_एनम् अकः ।
शान्त्या अप्रदाहाय ।
त्रिः पर्यग्नि करोति ।
त्र्यावृद् धि यज्ञः ।
अथो रक्षसाम् अपहत्यै ।
अन्तरितꣳ रक्षो ऽन्तरिता अरातय इत्य् आह ।
VERSE: 6 { 3.2.8.6}
रक्षसाम् अन्तर्हित्यै ।
पुरोडाशं वा अधिश्रितꣳ रक्षाꣳस्य् अजिघाꣳसन् ।
दिवि नाको नामाग्नी रक्षोहा ।
स एव_अस्माद् रक्षाꣳस्य् अपाहन्न् ।
देवस् त्वा सविता श्रपयत्व् इत्य् आह ।
सवितृप्रसूत एव_एनꣳ श्रपयति ।
वर्षिष्ठे अधि नाक इत्य् आह ।
रक्षसाम् अपहत्यै ।
अग्निस् ते तनुवं मा_अतिधाग् इत्य् आहानतिदाहाय ।
अग्ने हव्यꣳ रक्षस्व_इत्य् आह गुप्त्यै ।
VERSE: 7 { 3.2.8.7}
अविदहन्तश् श्रपयत_इति वाचं विसृजते ।
यज्ञम् एव हवीꣳश्य् अभिव्याहृत्य प्रतनुते ।
पुरोरुचम् अविदाहाय शृत्यै करोति ।
मस्तिष्को वै पुरोडाशः ।
तं यन् न_अभिवासयेत् ।
आविर् मस्तिष्कः स्यात् ।
अभिवासयति ।
तस्माद् गुहा मस्तिष्कः ।
भस्मना_अभिवासयति ।
तस्मान् माꣳसेनास्थि छन्नम् ।
VERSE: 8 { 3.2.8.8}
वेदेनाभिवासयति ।
तस्मात् केशैः शिरश् छन्नम् ।
अखलतिभावुको भवति ।
य एवं वेद ।
पशोर् वै प्रतिमा पुरोडाशः ।
स न_अयजुष्कम् अभिवास्यः ।
वृथा_इव स्यात् ।
ईश्वरा यजमानस्य पशवः प्रमेतोः ।
सं ब्रह्मणा पृच्यस्व_इत्य् आह ।
प्राणा वै ब्रह्म ।
VERSE: 9 { 3.2.8.9}
प्राणाः पशवः ।
प्राणैर् एव पशून्त् संपृणक्ति ।
न प्रमायुका भवन्ति ।
यजमानो वै पुरोडाशः ।
प्रजा पशवः पुरीषम् ।
यद् एवम् अभिवासयति ।
यजमानम् एव प्रजया पशुभिः समर्धयति ।
देवा वै हविर् भृत्वा {ड्युमोण्ट मृत्वा?}_अब्रुवन्न् ।
कस्मिन्न् इदं म्रक्ष्यामह इति ।
सो ऽग्निर् अब्रवीत् ।
VERSE: 10 { 3.2.8.10}
मयि तनूः सं निधद्ध्वम् { निधध्वम्} ।
अहं वस् तं जनयिष्यामि ।
यस्मिन् म्रक्ष्यध्व इति ।
ते देवा अग्नौ तनूः सं न्यदधत ।
तस्माद् आहुः ।
अग्निः सर्वा देवता इति ।
सो ऽङ्गारेणापः ।
अभ्यपातयत् ।
तत एकतो ऽजायत ।
स द्वितीयम् अभ्यपातयत् ।
VERSE: 11 { 3.2.8.11}
ततो द्वितो ऽजायत ।
स तृतीयम् अभ्यपातयत् ।
ततस् त्रितो ऽजायत ।
यद् अद्भ्यो ऽजायन्त ।
तद् आप्यानाम् आप्यत्वम् ।
यद् आत्मभ्यो ऽजायन्त ।
तद् आत्म्यानाम् आत्म्यत्वम् ।
ते देवा आप्येष्व् अमृजत ।
आप्या अमृजत सूर्याभ्युदिते ।
सूर्याभ्युदितः सूर्याभिनिम्रुक्ते ।
VERSE: 12 { 3.2.8.12}
सूर्याभिनिम्रुक्तः कुनखिनि ।
कुनखी श्यावदति ।
श्यावदन्न् अग्रदिधिषौ ।
अग्रदिधिषुः परिवित्ते ।
परिवित्तो वीरहणि ।
वीरहा ब्रह्महणि तद् ब्रह्महणं न_अत्यच्यवत ।
अन्तर्वेदि निनयत्य् अवरुध्यै ।
उल्मुकेन_अभिगृह्णाति शृतत्वाय ।
शृतकामा इव हि देवाः ।
अनुवाक 9
VERSE: 1 { 3.2.9.1}
देवस्य त्वा सवितुः प्रसव इति स्फ्यम् आदत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् ।
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
आदद इन्द्रस्य बाहुर् असि दक्षिण इत्य् आह ।
इन्द्रियम् एव यजमाने दधाति ।
सहस्रभृष्टिः शततेजा इत्य् आह ।
रूपम् एव_अस्यैतन् महिमानं व्याचष्टे ।
वायुर् असि तिग्मतेजा इत्य् आह ।
तेजो वै वायुः ।
VERSE: 2 { 3.2.9.2}
तेज एव_अस्मिन् दधाति ।
विषाद् वै नाम_आसुर आसीत् ।
सो ऽबिभेत् ।
यज्ञेन मा देवा अभिभविष्यन्तीति ।
स पृथिवीम् अभ्यवमीत् ।
सोमेध्या_अभवत् ।
अथो यद् इन्द्रो वृत्रम् अहन् ।
तस्य लोहितं पृथिवीम् अनु व्यधावत् ।
सोमेध्या_अभवत् ।
पृथिवि देवयजनीत्य् आह ।
VERSE: 3 { 3.2.9.3}
मेध्याम् एव_एनां देवयजनीं करोति ।
ओषध्यास् ते मूलं मा हिꣳसिषम् इत्य् आह ।
ओषधीनाम् अहिꣳसायै ।
व्रजं गच्छ गोस्थानम् इत्य् आह ।
छन्दाꣳसि वै व्रजो गोस्थानः ।
छन्दाꣳस्य् एव_अस्मै व्रजं गोस्थानं करोति ।
वर्षतु ते द्यौर् इत्य् आह ।
वृष्टिर् वै द्यौः ।
वृष्टिम् एव_अवरुन्धे ।
बधान देव सवितः परमस्यां परावतीत्य् आह ।
VERSE: 4 { 3.2.9.4}
द्वौ वाव पुरुषौ ।
यं चैव द्वेष्टि ।
यश् चैनं द्वेष्टि ।
ताव् उभौ बध्नाति परमस्यां परावति शतेन पाशैः ।
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौग् इत्य् आहानिम्रुक्त्यै {ड्युमोण्ट आहानिर्मुक्त्यै} ।
अररुर् वै नाम_आसुर आसीत् ।
स पृथिव्याम् उपम्लुप्तो ऽशयत् ।
तं देवा अपहतो ऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् ।
भ्रातृव्यो वा अररुः ।
अपहतो ऽररुः पृथिव्या इति यद् आह ।
VERSE: 5 { 3.2.9.5}
भ्रातृव्यम् एव पृथिव्या अपहन्ति ।
ते ऽमन्यन्त ।
दिवं वा अयम् इतः पतिष्यतीति ।
तम् अररुस्ते दिवं मा स्कान् इति दिवः पर्यबाधन्त ।
भ्रातृव्यो वा अररुः ।
अररुस् ते दिवं मा स्कान् इति यद् आह ।
भ्रातृव्यम् एव दिवः परिबाधते ।
स्तम्बयजुर् हरति ।
पृथिव्या एव भ्रातृव्यम् अपहन्ति ।
द्वितीयꣳ हरति ।
VERSE: 6 { 3.2.9.6}
अन्तरिक्षाद् एव_एनम् अपहन्ति ।
तृतीयꣳ हरति ।
दिव एव_एनम् अपहन्ति ।
तूष्णीं चतुर्थꣳ हरति ।
अपरिमिताद् एव_एनम् अपहन्ति ।
असुराणां वा इयम् अग्र आसीत् ।
यावद् आसीनः परापश्यति ।
तावद् देवानाम् ।
ते देवा अब्रुवन् ।
अस्त्व् एव नो ऽस्याम् अपीति ।
VERSE: 7 { 3.2.9.7}
क्यन् नो दास्यथ_इति ।
यावत् स्वयं परिगृह्णीथ_इति ।
ते वसवस् त्वा_इति दक्षिणतः पर्यगृह्णन्न् ।
रुद्रास् त्वा_इति पश्चात् ।
आदित्यास् त्वा_इत्य् उत्तरतः ।
ते ऽग्निना प्राञ्चो ऽजयन्न् ।
वसुभिर् दक्षिणा ।
रुद्रैः प्रत्यञ्चः ।
आदित्यैर् उदञ्चः ।
यस्यैवं विदुषो वेदिं परिगृह्णन्ति ।
VERSE: 8 { 3.2.9.8}
भवत्य् आत्मना ।
परास्य भ्रातृव्यो भवति ।
देवस्य सवितुः सव इत्य् आह प्रसूत्यै ।
कर्म कृण्वन्ति वेधस इत्य् आह ।
इषितꣳ हि कर्म क्रियते ।
पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम् ।
प्राचीनम् उदीचीनं मेध्यम् ।
प्रतीचीनं दक्षिणा_अमेध्यम् ।
प्राचीम् उदीचीं प्रवणां करोति ।
मेध्याम् एव_एनां देवयजनीं करोति ।
VERSE: 9 { 3.2.9.9}
प्राञ्चौ वेद्यꣳसाव् उन्नयति ।
आहवनीयस्य परिगृहीत्यै ।
प्रतीची श्रोणी ।
गार्हपत्यस्य परिगृहीत्यै ।
अथो मिथुनत्वाय ।
उद्धन्ति ।
यद् एवास्या अमेध्यम् ।
तद् अपहन्ति ।
उद्धन्ति तस्माद् ओषधयः पराभवन्ति ।
VERSE: 10 { 3.2.9.10}
मूलं च्छिनत्ति ।
भ्रातृव्यस्यैव मूलं च्छिनत्ति ।
मूलं वा अतितिष्ठद् रक्षाꣳस्य् अनु_उत्पिपते ।
यद् धस्तेन छिन्द्यात् ।
कुनखिनीः प्रजाः स्युः ।
स्फ्येन च्छिनत्ति ।
वज्रो वै स्फ्यः ।
वज्रेणैव यज्ञाद् रक्षाꣳस्य् अपहन्ति ।
पितृदेवत्या_अतिखाता ।
इयतीं खनति ।
VERSE: 11 { 3.2.9.11}
प्रजापतिना यज्ञमुखेन संमिताम् ।
वेदिर् देवेभ्यो निलायत ।
तां चतुरङ्गुले ऽन्वविन्दन्न् ।
तस्माच् चतुरङ्गुलं खेया ।
चतुरङ्गुलं खनति ।
चतुरङ्गुले ह्य् ओषधयः प्रतितिष्ठन्ति ।
आ प्रतिष्ठायै खनति ।
यजमानम् एव प्रतिष्ठां गमयति ।
दक्षिणतो वर्षीयसीं करोति ।
देवयजनस्यैव रूपम् अकः ।
VERSE: 12 { 3.2.9.12}
पुरीषवतीं करोति ।
प्रजा वै पशवः पुरीषम् ।
प्रजया_एवैनं पशुभिः पुरीषवन्तं करोति ।
उत्तरं परिग्राहं परिगृह्णाति ।
एतावती वै पृथिवी ।
यावती वेदिः ।
तस्या एतावत एव भ्रातृव्यं निर्भज्य ।
आत्मन उत्तरं परिग्राहं परिगृह्णाति ।
ऋतम् अस्य् ऋतसदनम् अस्य् ऋतश्रीर् असीत्य् आह ।
यथायजुर् एवैतत् ।
VERSE: 13 { 3.2.9.13}
क्रूरम् इव वा एतत् करोति ।
यद् वेदिं करोति ।
धा असि स्वधा असीति योयुप्यते शान्त्यै ।
उर्वी चासि वस्वी चासीत्य् आह ।
उर्वीम् एवैनां वस्वीं करोति ।
पुरा क्रूरस्य विसृपो विरप्शिन्न् इत्य् आह मेध्यत्वाय ।
उदादाय पृथिवीं जीरदानुर् याम् ऐरयन् चन्द्रमसि स्वधाभिर् इत्य् आह ।
यद् एवास्या अमेध्यम् ।
तद् अपहत्य ।
मेध्यां देवयजनीं कृत्वा ।
VERSE: 14 { 3.2.9.81}
यद् अदश् चन्द्रमसि मेध्यम् ।
तद् अस्याम् एरयति ।
तां धीरासो अनुदृश्य यजन्त इत्य् आहानुख्यात्यै ।
{ज्} प्रोक्षणीर् आसादय ।
इध्माबर्हिर् उपसादय ।
स्रुवं च स्रुचश् च संमृड्ढि ।
पत्नीꣳ संनह्य ।
आज्येन_उदेहीत्य् आहानुपूर्वतायै ।
प्रोक्षणीर् आसादयति ।
आपो वै रक्षोघ्नीः ।
VERSE: 15 { 3.2.9.15}
रक्षसाम् अपहत्यै ।
स्फ्यस्य वर्त्मन्त् सादयति ।
यज्ञस्य संतत्यै ।
उवाच हासितो दैवलः ।
एतावतीर् वा अमुष्मिन्_लोक आप आसन्न् ।
यावतीः प्रोक्षणीर् इति ।
तस्माद् बह्वीर् आसाद्याः ।
स्फ्यम् उदस्यन् ।
यं द्विष्यात् तं ध्यायेत् ।
शुचा_एवैनम् अर्पयति ।
अनुवाक 10
VERSE: 1 { 3.2.10.1}
वज्रो वै स्फ्यः ।
यद् अन्वञ्चं धारयेत् ।
वज्रे ऽध्वर्युः क्षण्वीत ।
पुरस्तात् तिर्यञ्चं धारयति ।
वर्जो वै स्फ्यः ।
वज्रेणैव यज्ञस्य दक्षिणतो रक्षाꣳस्य् अपहन्ति ।
अग्निभ्यां प्राचश् च प्रतीचश् च ।
स्फ्येन_उदीचश् च_अधराचश् च ।
स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यम् अपहत्य ।
उत्करे ऽधि प्रवृश्चति ।
VERSE: 2 { 3.2.10.2}
यथा_उपधाय वृश्चन्त्य् एवम् ।
हस्ताव् अवनेनिक्ते ।
आत्मानम् एव पवयते ।
स्फ्यं प्रक्षालयति मेध्यत्वाय ।
अथो पाप्मन एव भ्रातृव्यस्य न्यङ्गं च्छिनत्ति ।
इध्माबर्हिर् उपसादयति युक्त्यै ।
यज्ञस्य मिथुनत्वाय ।
अथो पुरोरुचम् एवैतां दधाति ।
उत्तरस्य कर्मणो ऽनुख्यात्यै ।
न पुरस्तात् प्रत्यग् उपसादयेत् ।
VERSE: 3 { 3.2.10.3}
यत् पुरस्तात् प्रत्यग् उपसादयेत् ।
अन्यत्र_आहुतिपथाद् इध्मं प्रतिपादयेत् ।
प्रजा वै बर्हिः ।
अपराध्नुयाद् बर्हिषा प्रजानां प्रजननम् ।
पश्चात् प्राग् उपसादयति ।
आहुतिपथेन_इध्मं प्रतिपादयति ।
संप्रत्य् एव बर्हिषा प्रजानां प्रजननम् उपैति ।
दक्षिणम् इध्मम् ।
उत्तरं बर्हिः ।
आत्मा वा इध्मः ।
प्रजा बर्हिः ।
प्रजा ह्य् आत्मन उत्तरतरा तीर्थे ।
ततो मेधम् उपनीय ।
यथादेवतम् एवैनत् प्रतिष्ठापयति ।
प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।
प्रपाठक: 3
अनुवाक 1
VERSE: 1 { 3.3.1.1}
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्य् आह ।
रक्षसाम् अपहत्यै ।
अग्नेर् वस् तेजिष्ठेन तेजसा निष्टपामीत्य् आह मेध्यत्वाय ।
स्रुचः संमार्ष्टि ।
स्रुवम् अग्रे ।
पुमाꣳसम् एव_अभ्यः सꣳश्यति मिथुनत्वाय ।
अथ जुहूम् ।
अथ_उपभृतम् ।
अथ ध्रुवाम् ।
असौ वै जुहूः ।
VERSE: 2 { 3.3.1.2}
अन्तरिक्षम् उपभृत् ।
पृथिवी ध्रुवा ।
इमे वै लोकाः स्रुचः ।
वृष्टिः संमार्जनानि ।
वृष्टिर् वा इमान्_ लोकान् अनुपूर्वं कल्पयति ।
ते ततः क्लृप्ताः समेधन्ते ।
समेधन्ते ऽस्मा इमे लोकाः प्रजया पशुभिः ।
य एवं वेद ।
यदि कामयेत वषुकः पर्जन्यः स्याद् इति ।
अग्रतः संमृज्यात् ।
VERSE: 3 { 3.3.1.3}
वृष्टिम् एव नियच्छति ।
अर्वाचीनाग्रा { अवाचीनाग्रा} हि वृष्टिः ।
यदि कामयेतावर्षुकः स्याद् इति ।
मूलतः संमृज्यात् ।
वृष्टिम् एव_उद्यच्छति ।
तद् उ वा आहुः ।
अग्रत एव_उपरिष्टात् संमृज्यात् ।
मूलतो ऽधस्तात् ।
तद् अनुपूर्वं कल्पते ।
वर्षुको भवतीति ।
VERSE: 4 { 3.3.1.4}
प्राचीम् अभ्याकारम् ।
अग्रैर् अन्तरतः ।
एवम् इव ह्य् अन्नम् अद्यते ।
अथो अग्राद् वा ओषधीनामूर्जं प्रजा उपजीवन्ति ।
ऊर्ज एव_अन्नाद्यस्यावरुध्यै {आनंदा. _आवरुद्ध्यै} ।
अधस्तात् प्रतीचीम् ।
दण्डम् उत्तमतः ।
मूलेन मूलं प्रतिष्ठित्यै ।
तस्माद् अरत्नौ प्राञ्च्य् उपरिष्टाल् लोमानि ।
प्रत्यञ्च्य् अधस्तात् ।
VERSE: 5 { 3.3.1.5}
स्रुग् घ्य् एषा ।
प्राणो वै स्रुवः ।
जुहूर् दक्षिणो हस्तः ।
उपभृत् सव्यः ।
आत्मा ध्रुवा ।
अन्नꣳ संमार्जनानि ।
मुखतो वै प्राणो ऽपानो भूत्वा ।
आत्मानम् अन्नं प्रविश्य ।
बाह्यतस् तनुवꣳ शुभयति ।
तस्मात् स्रुवम् एव_अग्रे संमार्ष्टि ।
मुखतो हि प्राणो ऽपानो भूत्वा ।
आत्मानम् अन्नम् आविशति ।
तौ प्राणापाणौ ।
अव्यर्धुकः प्राणापानाभ्यां भवति ।
य एवं वेद ।
अनुवाक 2
VERSE: 1 { 3.3.2.1}
दिवः शिल्पम् अवततम् ।
पृथिव्याः ककुभि श्रितम् ।
तेन वयꣳ सहस्रवल्शेन ।
सपत्नं नाशयामसि स्वाहा_इति स्रुक्संमार्जनान्य् अग्नौ प्रहरति ।
आपो वै दर्भाः ।
रूपम् एव_एषाम् एतन् महिमानं व्याचष्टे ।
अनुष्टुभा_ऋचा ।
आनुष्टुभः प्रजापतिः ।
प्राजापत्यो वेदः ।
वेदस्याग्रꣳ स्रुक्संमार्जनानि ।
VERSE: 2 { 3.3.2.2}
स्वेन_एव_एनानि छन्दसा ।
स्वया देवतया समर्धयति ।
अथो ऋग् वाव योषा ।
दर्भो वृषा ।
तन् मिथुनम् ।
मिथुनम् एव_अस्य तद् यज्ञे करोति प्रजननाय ।
प्रजायते प्रजया पशुभिर् यजमानः ।
तान्य् एके वृथा_एवापास्यन्ति ।
तत् तथा न कार्यम् ।
आरब्धस्य यज्ञियस्य कर्मणः स विदोहः ।
VERSE: 3 { 3.3.2.3}
यद्य् एनानि पशवो ऽभितिष्ठेयुः ।
न तत् पशुभ्यः कम् ।
अद्भिर् मार्जयित्वा_उत्करे न्यस्येत् ।
यद् वै यज्ञियस्य कर्मणो ऽन्यत्र_आहुतीभ्यः संतिष्ठते ।
उत्करो वाव तस्य प्रतिष्ठा ।
एताꣳ हि तस्मै प्रतिष्ठां देवाः समभरन् ।
यद् अद्भिर् मार्जयति ।
तेन शान्तम् ।
यद् उत्करे न्यस्यति ।
प्रतिष्ठाम् एव_एनानि तद् गमयति ।
VERSE: 4 { 3.3.2.4}
प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।
अथो स्तम्बस्य वा एतद् रूपम् ।
यत् स्रुक्संमार्जनानि ।
स्तम्बशो वा ओषधयः ।
तासां जरत्कक्षे पशवो न रमन्ते ।
अप्रियो ह्य् एषां जरत्कक्षः ।
यावदप्रियो ह वै जरत्कक्षः पशूनाम् ।
तावदप्रियः पशूनां भवति ।
यस्यैतान्य् अन्यत्राग्नेर् दधति ।
नवदाव्यासु वा ओषधीषु पशवो रमन्ते ।
VERSE: 5 { 3.3.2.5}
नवदावो ह्य् एषां प्रियः ।
यावत्प्रियो ह वै नवदावः पशूनाम् ।
तावत्प्रियः पशूनां भवति ।
यस्यैतान्य् अग्नौ प्रहरन्ति ।
तस्माद् एतान्य् अग्नाव् एव प्रहरेत् ।
यतरस्मिन्त् संमृज्यात् ।
पशूनां धृत्यै ।
यो भूतानाम् अधिपतिः ।
रुद्रस् तन्तिचरो वृषा ।
पशून् अस्माकं मा हिꣳसीः ।
एतद् अस्तु हुतं तव स्वाहा_इत्य् अग्निसंमार्जनान्य् अग्नौ प्रहरति ।
एषा वा एतेषां योनिः ।
एषा प्रतिष्ठा ।
स्वाम् एव_एनानि योनिम् ।
स्वां प्रतिष्ठां गमयति ।
प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।
अनुवाक 3
VERSE: 1 { 3.3.3.1}
अयज्ञो वा एषः ।
यो ऽपत्नीकः ।
न प्रजाः प्रजायेरन् ।
पत्न्य् अन्वास्ते ।
यज्ञम् एव_अकः ।
प्रजानां प्रजननाय ।
यत् तिष्ठन्ती संनह्येत ।
प्रियं ज्ञातिꣳ रुन्ध्यात् ।
आसीना संनह्यते ।
आसीना ह्य् एषा वीर्यं करोति ।
VERSE: 2 { 3.3.3.2}
यत् पश्चात् प्राच्य् अन्वासीत ।
अनया समदं दधीत ।
देवानां पत्निया समदं दधीत ।
देशाद् दक्षिणत उदीच्य् अन्वास्ते ।
आत्मनो गोपीथाय ।
आशासाना सौमनसम् इत्य् आह ।
मेध्याम् एव_एनां केवलीं कृत्वा ।
आशिषा समर्धयति ।
अग्नेर् अनुव्रता भूत्वा संनह्ये सुकृताय कम् इत्य् आह ।
एतद् वै पत्नियै व्रत_उपनयनम् ।
VERSE: 3 { 3.3.3.3}
तेन_एवैनां व्रतम् उपनयति ।
तस्माद् आहुः ।
यश् चैवं वेद यश् चन ।
योक्त्रम् एव युते ।
यम् अन्वास्ते ।
तस्यामुष्मिन्_लोके भवतीति योक्त्रेण ।
यद् योक्त्रम् ।
स योगः ।
यद् आस्ते ।
स क्षेमः ।
VERSE: 4 { 3.3.3.4}
योगक्षेमस्य क्लृप्त्यै ।
युक्तं क्रियाता आशीः कामे युज्याता इति ।
आशिषः समृद्ध्यै ।
ग्रन्थिं ग्रथ्नाति ।
आशिष एव_अस्यां परिगृह्णाति ।
पुमान् वै ग्रन्थिः ।
स्त्री पत्नी ।
तन् मिथुनम् ।
मिथुनम् एव_अस्य तद् यज्ञे करोति प्रजननाय ।
प्रजायते प्रजया पशुभिर् यजमानः ।
VERSE: 5 { 3.3.3.5}
अथो अर्धो वा एष आत्मनः ।
यत् पत्नी ।
यज्ञस्य धृत्या अशिथिलंभावाय ।
सुप्रजसस् त्वा वयꣳ सुपत्नीर् उपसेदिम_इत्य् आह ।
यज्ञम् एव तन् मिथुनी करोति ।
ऊने ऽतिरिक्तं धीयाता इति प्रजात्यै ।
महीनां पयो ऽस्य् ओषधीनाꣳ रस इत्य् आह ।
रूपम् एवास्यैतन् महिमानं व्याचष्टे ।
तस्य ते ऽक्षीयमाणस्य निर्वपामि देवयज्याया इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
अनुवाक 4
VERSE: 1 { 3.3.4.1}
घृतं च वै मधु च प्रजापतिर् आसीत् ।
यतो मध्व् आसीत् {,आनंदा. आसीत्} ।
ततः प्रजा असृजत ।
तस्मान् मधुषि प्रजननम् इवास्ति ।
तस्मान् मधुषा न प्रचरन्ति ।
यातयाम हि ।
आज्येन प्रचरन्ति ।
यज्ञो वा आज्यम् ।
यज्ञेन_एव यज्ञं प्रचरन्त्य् अयातयामत्वाय ।
पत्न्य् अवेक्षते ।
VERSE: 2 { 3.3.4.2}
मिथुनत्वाय प्रजात्यै ।
यद् वै पत्नी यज्ञस्य करोति ।
मिथुनं तत् ।
अथो पत्निया एव_एष यज्ञस्यान्वारम्भो ऽनवच्छित्त्यै ।
अमेध्यं वा एतत् करोति ।
यत् पत्न्य् अवेक्षते ।
गार्हपत्ये ऽधिश्रयति मेध्यत्वाय ।
आहवनीयम् अभ्युद्द्रवति ।
यज्ञस्य संतत्यै ।
तेजो ऽसि तेजो ऽनु प्रेहीत्य् आह ।
VERSE: 3 { 3.3.4.3}
तेजो वा अग्निः ।
तेज आज्यम् ।
तेजसा_एव तेजः समर्धयति ।
अग्निस् ते तेजो मा विनैद् इत्य् आह_अहिꣳसायै ।
स्फ्यस्य वर्त्मन्त् सादयति ।
यज्ञस्य संतत्यै ।
अग्नेर् जिह्वा_असि सुभूर् देवानाम् इत्य् आह ।
यथायजुर् एव_एतत् ।
धाम्ने_धाम्ने देवेभ्यो यजुषे_यजुषे भव_इत्य् आह ।
आशिषम् एव_एताम् आशास्ते ।
VERSE: 4 { 3.3.4.4}
तद् वा अतः पवित्राभ्याम् एव_उत्पुनाति ।
यजमानो वा आज्यम् ।
प्राणापानौ पवित्रे ।
यजमान एव प्राणापानौ दधाति ।
पुनराहारम् ।
एवम् इव हि प्राणापानौ संचरतः ।
शुक्रम् असि ज्योतिर् असि तेजो ऽसीत्य् आह ।
रूपम् एव_अस्यैतन् महिमानं व्याचष्टे ।
त्रिर् यजुषा ।
त्रय इमे लोकाः ।
VERSE: 5 { 3.3.4.5}
एषां लोकानाम् आप्त्यै ।
त्रिः ।
त्र्यावृद् धि यज्ञः ।
अथो मेध्यत्वाय ।
अथ_आज्यवतीभ्याम् अपः ।
रूपम् एवासाम् एतद् वर्णं दधाति ।
अपि वा उत_आहुः ।
यथा ह वै योषा सुवर्णꣳ हिरण्यं पेशलं बिभ्रती रूपाण्य् आस्ते ।
एवम् एता एतर्हीति ।
आपो वै सर्वा देवताः ।
VERSE: 6 { 3.3.4.6}
एषा हि विश्वेषां देवानां तनूः ।
यद् आज्यम् ।
तत्र_उभयोर् मीमाꣳसा ।
जामिः { जामि} स्यात् ।
यद् यजुषा_आज्यं यजुषा_अप उत्पुनीयात् ।
छन्दसोप उत्पुनात्य् अजामित्वाय ।
अथो मिथुनत्वाय ।
सावित्रिया_ऋचा ।
सवितृप्रसूतं मे कर्मासद् इति ।
सवितृप्रसूतम् एवास्य कर्म भवति ।
पच्छो गायत्रिया त्रिःषमृद्धत्वाय ।
अद्भिर् एव_ओषधीः संनयति ।
ओषधीभिः पशून् ।
पशुभिर् यजमानम् ।
शुक्रं त्वा शुक्रायां ज्योतिस् त्वा ज्योतिष्य् अर्चिस् त्वा_अर्चिषीत्य् आह सर्वत्वाय ।
पर्याप्त्या अनन्तरायाय ।
अनुवाक 5
VERSE: 1 { 3.3.5.1}
देवासुराः संयात्ता आसन् ।
स एतम् इन्द्र आज्यस्यावकाशम् अपश्यत् ।
तेनावैक्षत ।
ततो देवा अभवन् ।
परा_असुराः ।
य एवं विद्वान् आज्यम् अवेक्षते ।
भवत्य् आत्मना ।
परा_अस्य भ्रातृव्यो भवति ।
ब्रह्मवादिनो वदन्ति ।
यदाज्येनान्यानि हवीꣳष्य् अभिघारयति ।
VERSE: 2 { 3.3.5.2}
अथ केन_आज्यम् इति ।
सत्येन_इति ब्रूयात् ।
चक्षुर् वै सत्यम् ।
सत्येनैवैनद् अभिघारयति ।
ईश्वरो वा एषो ऽन्धो भवितोः ।
यश् चक्षुषा_आज्यम् अवेक्षते ।
निमील्यावेक्षेत ।
दाधार_आत्मन् चक्षुः ।
अभ्य् आज्यं घारयति ।
आज्यं गृह्णाति ।
VERSE: 3 { 3.3.5.3}
छन्दाꣳसि वा आज्यम् ।
छन्दाꣳस्य् एव प्रीणाति ।
चतुर् जुह्वां गृह्णाति ।
चतुष्पादः पशवः ।
पशून् एव_अवरुन्धे ।
अष्टाव् उपभृति ।
अष्टाक्षरा गायत्री ।
गायत्रः प्राणः ।
प्राणम् एव पशुषु दधाति ।
चतुर् ध्रुवायाम् ।
VERSE: 4 { 3.3.5.4}
चतुष्पादः पशवः ।
पशुष्व् एव_उपरिष्टात् प्रतितिष्ठति ।
यजमानदेवत्या वै जुहूः ।
भ्रातृव्यदेवत्या_उपभृत् ।
चतुर् जुह्वां गृह्णन् भूयो गृह्णीयात् ।
अष्टाव् उपभृति गृह्णन् कनीयः ।
यजमानाय_एव भ्रातृव्यम् उपस्तिं करोति ।
गौर् वै स्रुचः ।
चतुर् जुह्वां गृह्णाति ।
तस्माच् चतुष्पदी ।
VERSE: 5 { 3.3.5.5}
अष्टाव् उपभृति ।
तस्माद् अष्टाशफा ।
चतुर् ध्रुवायाम् ।
तस्माच् चतुस्तना ।
गाम् एव तत् सꣳस्करोति ।
सोस्मै सꣳस्कृतेषमूर्जं दुहे ।
यज् जुह्वां गृह्णाति ।
प्रयाजेभ्यस् तत् ।
यद् उपभृति ।
प्रयाजानूयाजेभ्यस् तत् ।
सर्वस्मै वा एतद् यज्ञाय गृह्यते ।
यद् ध्रुवायाम् आज्यम् ।
अनुवाक 6
VERSE: 1 { 3.3.6.1}
आपो देवीर् अग्रेपुवो अग्रेगुव इत्य् आह ।
रूपम् एवाऽऽसाम् एतन् महिमानं व्याचष्टे ।
अग्र इमं यज्ञं नयताग्रे यज्ञपतिम् इत्य् आह ।
अग्र एव यज्ञं नयन्ति ।
अग्रे यज्ञपतिम् ।
युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्य इत्य् आह ।
वृत्रꣳ ह हनिष्यन्न् इन्द्र आपो वव्रे ।
आपो ह_इन्द्रं वव्रिरे ।
संज्ञाम् एवाऽऽसाम् एतत् सामानं व्याचष्टे ।
प्रोक्षिताः स्थ_इत्य् आह ।
VERSE: 2 { 3.3.6.2}
तेन_आपः प्रोक्षिताः ।
अग्निर् देवेभ्यो निलायत ।
कृष्णो रूपं कृत्वा ।
स वनस्पतीन् प्राविशत् ।
कृष्णो ऽस्य् आखरेष्ठो ऽग्नये त्वा स्वाहा_इत्य् आह ।
अग्नय एव_एनं जुष्टं करोति ।
अथो अग्नेर् एव मेधम् अवरुन्धे ।
वेदिर् असि बर्हिषे त्वा स्वहा_इत्य् आह ।
प्रजा वै बर्हिः ।
पृथिवी वेदिः ।
VERSE: 3 { 3.3.6.3}
प्रजा एव पृथिव्यां प्रतिष्ठापयति ।
बर्हिर् असि स्रुग्भ्यस् त्वा स्वाहा_इत्य् आह ।
प्रजा वै बर्हिः ।
यजमानः स्रुचः ।
यजमानम् एव प्रजासु प्रतिष्ठापयति ।
दिवे त्वा_अन्तरिक्षाय त्वा पृथिव्यै त्वा_इति बर्हिर् आसाद्य प्रोक्षति ।
एभ्य एवैनं_लोकेभ्यः प्रोक्षति ।
अथ ततः सह स्रुचा पुरस्तात् प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति ।
प्रजा वै बर्हिः ।
यथा सूत्यै काल आपः पुरस्ताद् यन्ति ।
VERSE: 4 { 3.3.6.4}
तादृग् एव तत् ।
स्वधा पितृभ्य इत्य् आह ।
स्वधाकारो हि पितृणाम् ।
ऊर्ग्भव बर्हिषद्भ्य इति दक्षिणायै श्रोणेर् आ_उत्तरस्यै निनयति संतत्यै ।
मासा वै पितरो बर्हिषदः ।
मासान् एव प्रीणाति ।
मासा वा ओषधीर् वर्धयन्ति ।
मासाः पचन्ति समृद्ध्यै ।
अनतिस्कन्दन् ह पर्जन्यो वर्षति ।
यत्र_एतद् एवं क्रियते ।
VERSE: 5 { 3.3.6.5}
ऊर्जा पृथिवीं गच्छत_इत्य् आह ।
पृथिव्याम् एव_ऊर्जं दधाति ।
तस्मात् पृथिव्या ऊर्जा भुञ्जते ।
ग्रन्थिं विस्रꣳसयति ।
प्रजनयत्य् एव तत् ।
ऊर्ध्वं प्राञ्चम् उद्गूढं प्रत्यञ्चम् आयच्छति ।
तस्मात् प्राचीनꣳ रेतो धीयते ।
प्रतीचीः प्रजा जायन्ते ।
विष्णोः स्तूपो ऽसीत्य् आह ।
यज्ञो वै विष्णुः ।
VERSE: 6 { 3.3.6.6}
यज्ञस्य धृत्यै ।
पुरस्तात् प्रस्तरं गृह्णाति ।
मुख्यम् एवैनं करोति ।
इयन्तं गृह्णाति ।
प्रजापतिना यज्ञमुखेन संमितम् ।
इयन्तं गृह्णाति ।
यज्ञपरुषा संमितम् ।
इयन्तं गृह्णाति ।
एतावद् वै पुरुषे वीर्यम् ।
वीर्यसंमितम् ।
VERSE: 7 { 3.3.6.7}
अपरिमितं गृह्णाति ।
अपरिमितस्यावरुद्ध्यै ।
तस्मिन् पवित्रे अपिसृजति ।
यजमानो वै प्रस्तरः ।
प्राणापानौ पवित्रे ।
यजमान एव प्राणापानौ दधाति ।
ऊर्णाम्रदसं त्वा स्तृणामीत्य् आह ।
यथायजुर् एवैतत् ।
स्वासस्थं देवेभ्य इत्य् आह ।
देवेभ्य एवैनत् स्वासस्थं करोति ।
VERSE: 8 { 3.3.6.8}
बर्हिः स्तृणाति ।
प्रजा वै बर्हिः ।
पृथिवी वेदिः ।
प्रजा एव पृथिव्यां प्रतिष्ठापयति ।
अनतिदृश्नꣳ स्तृणाति ।
प्रजय_एवैनं पशुभिर् अनतिदृश्नं करोति ।
धारयन् प्रस्तरं परिधीन् परिदधाति ।
यजमानो वै प्रस्तरः ।
यजमान एव तत् स्वयं परिधीन् परिदधाति ।
गन्धर्वो ऽसि विश्वावसुर् इत्य् आह ।
VERSE: 9 { 3.3.6.9}
विश्वम् एव_आयुर् यजमाने दधाति ।
इन्द्रस्य बाहुरसि दक्षिण इत्य् आह ।
इन्द्रियम् एव यजमाने दधाति ।
मित्रावरुणौ त्वा_उत्तरतः परिधत्ताम् इत्य् आह ।
प्राणापानौ मित्रावरुणौ ।
प्राणापानाव् एवास्मिन् दधाति ।
सूर्यस् त्वा पुरस्तात् पात्व् इत्य् आह ।
रक्षसाम् अपहत्यै ।
कस्याश् चिद् अभिशस् त्या इत्य् आह ।
अपरिमिताद् एवैनं पाति ।
VERSE: 10 { 3.3.6.10}
वीतिहोत्रं त्वा कव इत्य् आह ।
अग्निम् एव होत्रेण समर्धयति ।
द्युमन्तꣳ समिधीमहीत्य् आह समिद्ध्यै ।
अग्ने बृहन्तम् अध्वर इत्य् आह वृद्ध्यै ।
विशो यन्त्रे स्थ इत्य् आह ।
विशां यत्यै ।
उदीचीनाग्रे निदधाति प्रतिष्ठित्यै ।
वसूनाꣳ रुद्राणाम् आदित्यानाꣳ सदसि सीद_इत्य् आह ।
देवतानाम् एव सदने प्रस्तरꣳ सादयति ।
जुहूर् असि घृताची नाम्ना_इत्य् आह ।
VERSE: 11 { 3.3.6.11}
असौ वै जुहूः ।
अन्तरिक्षम् उपभृत् ।
पृथिवी ध्रुवा ।
तासाम् एतद् एव प्रियं नाम ।
यद् घृताचीति ।
यद् घृताचीत्य् आह ।
प्रियेणैवैना नाम्ना सादयति ।
एता असदन्त् सुकृतस्य लोक इत्य् आह ।
सत्यं वै सुकृतस्य लोकः ।
सत्य एवैनाः सुकृतस्य लोके सादयति ।
ता विष्णो पाहीत्य् आह ।
यज्ञो वै विष्णुः ।
यज्ञस्य धृत्यै ।
पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियम् इत्य् आह ।
यज्ञाय यजमानाय_आत्मने ।
तेभ्य एवाऽऽशिषम् आशास्ते ऽनार्त्यै ।
अनुवाक 7
VERSE: 1 { 3.3.7.1}
अग्निना वै होत्रा ।
देवा असुरान् अभ्यभवन् ।
अग्नये समिध्यमानायानुब्रूहीत्य् आह भ्रातृव्याभिभूत्यै ।
एकविꣳशतिम् इध्मदारूणि भवन्ति ।
एकविꣳशो वै पुरुषः ।
पुरुषस्य_आप्त्यै ।
पञ्चदश_इध्मदारूण्य् अभ्यादधाति ।
पञ्चदश वा अर्धमासस्य रात्रयः ।
अर्धमासशः संवत्सर आप्यते ।
त्रीन् परिधीन् परिदधाति ।
VERSE: 2 { 3.3.7.2}
ऊर्ध्वे समिधाव् आदधाति ।
अनूयाजेभ्यः समिधमतिशिनष्टि ।
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
ऋतून् एव प्रीणाति ।
वेदेन_उपवाजयति ।
प्राजापत्यो वै वेदः ।
प्राजापत्यः प्राणः ।
यजमान आहवनीयः ।
यजमान एव प्राणं दधाति ।
VERSE: 3 { 3.3.7.3}
त्रिर् उपवाजयति ।
त्रयो वै प्राणाः ।
प्राणान् एव_अस्मिन् दधाति ।
वेदेन_उपयत्य स्रुवेण प्राजापत्यम् आघारम् आघारयति ।
यज्ञो वै प्रजापतिः ।
यज्ञम् एव प्रजापतिं मुखत आरभते ।
अथो प्रजापतिः सर्वा देवताः ।
सर्वा एव देवताः प्रीणाति ।
अग्निम् अग्नीत् त्रिस्_त्रिः संमृड्ढीत्य् { संमृढ्ढीत्य्} आह ।
त्र्यावृद् धि यज्ञः ।
VERSE: 4 { 3.3.7.4}
अथो रक्षसाम् अपहत्यै ।
परिधीन्त् संमार्ष्टि ।
पुनात्य् एवैनान् ।
त्रिस्_त्रिः संमार्ष्टि ।
त्र्यावृद् धि यज्ञः ।
अथो मेध्यत्वाय ।
अथो एते वै देवाश्वाः ।
देवाश्वान् एव तत् संमार्ष्टि ।
सुवर्गस्य लोकस्य समष्ट्यै ।
आसीनो ऽन्यम् आघारम् आघारयति ।
VERSE: 5 { 3.3.7.5}
तिष्ठन्न् अन्यम् ।
यथा_अनो वा रथं वा युञ्ज्यात् ।
एवम् एव तद् अध्वर्युर् यज्ञं युनक्ति ।
सुवर्गस्य लोकस्याभ्यूढ्यै ।
वहन्त्य् एनं ग्राम्याः पशवः ।
य एवं वेद ।
भुवनम् असि विप्रथस्व_इत्य् आह ।
यज्ञो वै भुवनम् ।
यज्ञ एव यजमानं प्रजया पशुभिः प्रथयति ।
अग्ने यष्टर् इदं नम इत्य् आह ।
VERSE: 6 { 3.3.7.6}
अग्निर् वै देवानां यष्टा ।
य एव देवानां यष्टा ।
तस्मा एव नमस्करोति ।
जुह्व् एह्य् अग्निस् त्वा ह्वयति देवयज्याया उपभृद् एहि देवस् त्वा सविता ह्वयति देवयज्याया इत्य् आह ।
आग्नेयी वै जुहूः ।
सावित्र्य् उपभृत् ।
ताभ्याम् एवैने प्रसूत आदत्ते ।
अग्नाविष्णू मा_आवाम् अवक्रमिषम् इत्य् आह ।
अग्निः पुरस्तात् ।
विष्णुर् यज्ञः पश्चात् ।
VERSE: 7 { 3.3.7.7}
ताभ्याम् एव प्रतिप्रोच्यात्याक्रामति ।
विजिहाथां मा मा संताप्तम् इत्य् आहाहिꣳसायै ।
लोकं मे लोककृतौ कृणुतम् इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
विष्णोः स्थानम् असीत्य् आह ।
यज्ञो वै विष्णुः ।
एतत् खलु वै देवानाम् अपराजितम् आयतनम् ।
यद् यज्ञः ।
देवानाम् एव_अपराजित आयतने तिष्ठति ।
इत इन्द्रो अकृणोद् वीर्याणीत्य् आह ।
VERSE: 8 { 3.3.7.8}
इन्द्रियम् एव यजमाने दधाति ।
समारभ्य_ऊर्ध्वो अध्वरो दिविस्पृशम् इत्य् आह वृद्ध्यै ।
आघारम् आघार्यमाणम् अनु समारभ्य ।
एतस्मिन् काले देवाः सुवर्गं लोकम् आयन् ।
साक्षाद् एव यजमानः सुवर्गं लोकम् एति ।
अथो समृद्धेनैव यज्ञेन यजमानः सुवर्गं लोकम् एति ।
अह्रुतो {BI अह्नुतो} यज्ञो यज्ञपतेर् इत्य् आहानार्त्यै ।
इन्द्रावान्त् स्वाहा_इत्य् आह ।
इन्द्रियम् एव यजमाने दधाति ।
बृहद् भा इत्य् आह ।
VERSE: 9 { 3.3.7.9}
सुवर्गो वै लोको बृहद् भाः ।
सुवर्गस्य लोकस्य समष्ट्यै
यजमानदेवत्या वै जुहूः ।
भ्रातृव्यदेवत्या_उपभृत् ।
प्राण आघारः ।
यत् सꣳस्पर्शयेत् ।
भ्रातृव्ये ऽस्य प्राणं दध्यात् ।
असꣳस्पर्शयन्न् अत्याक्रामति ।
यजमान एव प्राणं दधाति ।
पाहि मा_अग्ने दुश्चरिताद् आ मा सुचरिते भज_इत्य् आह ।
VERSE: 10 { 3.3.7.10}
अग्निर् वाव पवित्रम् ।
वृजिनम् अनृतं दुश्चरितम् ।
ऋजुकर्मꣳ सत्यꣳ सुचरितम् ।
अग्निर् एवैनं वृजिनाद् अनृताद् दुश्चरितात् पाति ।
ऋजुकर्मे सत्ये सुचरिते भजति तस्माद् एवम् आशास्ते ।
आत्मनो गोपीथाय ।
शिरो वा एतद् यज्ञस्य ।
यद् आघारः ।
आत्मा ध्रुवा ।
VERSE: 11 { 3.3.7.11}
आघारम् आघार्य ध्रुवाꣳ समनक्ति ।
आत्मन्न् एव यज्ञस्य शिरः प्रतिदधाति ।
द्विः समनक्ति ।
द्वौ हि प्राणापानौ ।
तद् आहुः ।
त्रिर् एव समञ्ज्यात् ।
त्रिधातु हि शिर इति ।
शिर इव_एतद् यज्ञस्य ।
अथो त्रयो वै प्राणाः ।
प्राणान् एवास्मिन् दधाति ।
मखस्य शिरो ऽसि सं ज्योतिषा ज्योतिर् अङ्क्ताम् इत्य् आह ।
ज्योतिर् एवास्मा उपरिष्टाद् दधाति ।
सुवर्गस्य लोकस्यानुख्यात्यै ।
अनुवाक 8
VERSE: 1 { 3.3.8.1}
धिष्णिया वा एते न्युप्यन्ते ।
यद् ब्रह्मा ।
यद् होता ।
यद् अध्वर्युः ।
यद् अग्नीत् ।
यद् यजमानः ।
तान् यद् अन्तरेयात् ।
यजमानस्य प्राणान्त् संकर्षेत् ।
प्रमायुकः स्यात् ।
पुरोडाशम् अपगृह्य संचरत्य् अध्वर्युः ।
VERSE: 2 { 3.3.8.2}
यजमानाय_एव तल् लोकꣳ शिꣳषति ।
न_अस्य प्राणान्त् संकर्षति ।
न प्रमायुको भवति ।
पुरस्तात् प्रत्यङ्ङ् आसीनः ।
इडाया इडाम् आदधाति ।
हस्त्याꣳ होत्रे ।
पशवो वा इडा ।
पशवः पुरुषः ।
पशुष्व् एव पशून् प्रतिष्ठापयति ।
इडायै वा एषा प्रजातिः ।
VERSE: 3 { 3.3.8.3}
तां प्रजातिं यजमानो ऽनु प्रजायते ।
द्विर् अङ्गुलाव् अनक्ति पर्वणोः ।
द्विपाद् यजमानः प्रतिष्ठित्यै ।
सकृद् उपस्तृणाति ।
द्विर् आदधाति ।
सकृद् अभिघारयति ।
चतुः संपद्यते ।
चत्वारि वै पशोः प्रतिष्ठानानि ।
यावान् एव पशुः ।
तम् उपह्वयते ।
VERSE: 4 { 3.3.8.4}
मुखम् इव प्रत्य् उपह्वयेत ।
संमुखान् एव पशूनुपह्वयते ।
पशवो वा इडा ।
तस्मात् सोन्वारभ्या ।
अध्वर्युणा च यजमानेन च ।
उपहूतः पशुमान् असानीत्य् आह ।
उप ह्य् एनौ ह्वयते होता ।
इडायै देवतानाम् उपहवे ।
उपहूतः पशुमान् भवति ।
य एवं वेद ।
VERSE: 5 { 3.3.8.5}
यां वै हस्त्याम् इडाम् आदधाति ।
वाचः सा भागधेयम् ।
याम् उपह्वयते ।
प्राणानाꣳ सा ।
वाचं चैव प्राणाꣳश् चावरुन्धे ।
अथ वा एतर्ह्य् उपहूतायाम् इडायाम् ।
पुरोडाशस्यैव बर्हिषदो मीमाꣳसा ।
यजमानं देवा अब्रुवन् ।
हविर् नो निर्वप_इति ।
न_अहम् अभागो निर्वप्स्यामीत्य् अब्रवीत् ।
VERSE: 6 { 3.3.8.6}
न मया_अभागया_अनुवक्ष्यथ_इति वाग् अब्रवीत् ।
न_अहम् अभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या ।
न_अहम् अभागा याज्या भविष्यामीति याज्या ।
न मया_अभागेन वषट्करिष्यथ_इति वषट्कारः ।
यद् यजमानभागं निधाय पुरोडाशं बर्हिषदं करोति ।
तान् एव तद् भागिनः करोति ।
चतुर्धा करोति ।
चतस्रो दिशः ।
दिक्ष्व् एव प्रतितिष्ठति ।
बर्हिषदं करोति ।
VERSE: 7 { 3.3.8.7}
यजमानो वै पुरोडाशः ।
प्रजा बर्हिः ।
यजमानमेव प्रजासु प्रतिष्ठापयति ।
तस्माद् अस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति ।
माꣳसेनान्याः ।
अथो खल्व् आहुः ।
दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्य् अवरुध्यन्ते ।
यत् पुरोडाशं बर्हिषदं करोतीति ।
चतुर्धा करोति ।
चत्वारो ह्य् एते हविर्यज्ञस्य_ऋत्विजः ।
VERSE: 8 { 3.3.8.8}
ब्रह्मा होता_अध्वर्युर् अग्नीत् ।
तम् अभिमृशेत् ।
इदं ब्रह्मणः ।
इदꣳ होतुः ।
इदम् अध्वर्योः ।
इदम् अग्नीध इति ।
यथा_एवादः सौम्ये ऽध्वरे ।
आदेशम् ऋत्विग्भ्यो दक्षिणा नीयन्ते ।
तादृग् एव तत् ।
अग्नीधे प्रथमाया_आदधाति ।
VERSE: 9 { 3.3.8.9}
अग्निमुखा ह्य् ऋद्धिः ।
अग्निमुखाम् एव_ऋद्धिं यजमान ऋध्नोति ।
सकृद् उपस्तीर्य द्विर् आदधत् ।
उपस्तीर्य द्विर् अभिघारयति ।
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
ऋतून् एव प्रीणाति ।
वेदेन ब्रह्मणे ब्रह्मभागं परिहरति ।
प्राजापत्यो वै वेदः ।
प्राजापत्यो ब्रह्मा ।
VERSE: 10 { 3.3.8.10}
सविता यज्ञस्य प्रसूत्यै ।
अथ कामम् अन्येन ।
ततो होत्रे ।
मध्यं वा एतद् यज्ञस्य ।
यद् होता ।
मध्यत एव यज्ञं प्रीणाति ।
अथाध्वर्यवे ।
प्रतिष्ठा वा एषा यज्ञस्य ।
यद् अध्वर्युः ।
तस्माद् हविर्यज्ञस्यैताम् एवाऽऽवृतम् अनु ।
VERSE: 11 { 3.3.8.11}
अन्या दक्षिणा नीयन्ते ।
यज्ञस्य प्रतिष्ठित्यै ।
अग्निम् अग्नीत् सकृत्_सकृत् संमृढ्ढीत्य् आह ।
पराङ् इव ह्य् एतर्हि यज्ञः ।
इषिता दैव्या होतार इत्य् आह ।
इषितꣳ हि कर्म क्रियते ।
भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
स्वगा दैव्या होतृभ्य इत्य् आह ।
यज्ञम् एव तत् स्वगा करोति ।
स्वस्तिर् मानुषेभ्य इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
शंयोर् ब्रूहीत्य् आह ।
शंयुम् एव बार्हस्पत्यं भागधेयेन समर्धयति ।
अनुवाक 9
VERSE: 1 { 3.3.9.1}
अथ स्रुचाव् अनुष्टुग्भ्यां वाजवतीभ्यां व्यूहति ।
प्रतिष्ठा वा अनुष्टुक् ।
अन्नं वाजः प्रतिष्ठित्यै ।
अन्नाद्यस्यावरुध्यै ।
प्राचीं जुहूमूहति ।
जातान् एव भ्रातृव्यान् प्रणुदते ।
प्रतीचीम् उपभृतम् ।
जनिष्यमाणान् एव प्रतिनुदते ।
स विषूच एव_अपोह्य सपत्नान् यजमानः ।
अस्मिन् लोके प्रतितिष्ठति ।
VERSE: 2 { 3.3.9.2}
द्वाभ्याम् ।
द्विप्रतिष्ठो हि ।
वसुभ्यस् त्वा रुद्रेभ्यस् त्वा_आदित्येभ्यस् त्वा_इत्य् आह ।
यथायजुर् एवैतत् ।
स्रुक्षु प्रस्तरम् अनक्ति ।
इमे वै लोकाः स्रुचः ।
यजमानः प्रस्तरः ।
यजमानम् एव तेजसोनक्ति ।
त्रेधा_अनक्ति ।
त्रय इमे लोकाः ।
VERSE: 3 { 3.3.9.3}
एभ्य एवैनं लोकेभ्यो ऽनक्ति ।
अभिपूर्वम् अनक्ति ।
अभिपूर्वम् एव यजमानं तेजसानक्ति ।
अक्तꣳ रिहाणा इत्य् आह ।
तेजो वा आज्यम् ।
यजमानः प्रस्तरः ।
यजमानम् एव तेजसानक्ति ।
वियन्तु वय इत्य् आह ।
वय एवैनं कृत्वा ।
सुवर्गं लोकं गमयति ।
VERSE: 4 { 3.3.9.4}
प्रजां योनिं मा निर्मृक्षम् इत्य् आह ।
प्रजायै गोपीथाय ।
आप्यायन्ताम् आप ओषधय इत्य् आह ।
आप एव_ओषधीर् आप्याययति ।
मरुतां पृषतयः स्थ_इत्य् आह ।
मरुतो वै वृष्ट्या ईशते ।
वृष्टिम् एव_अवरुन्धे ।
दिवं गच्छ ततो नो वृष्टिम् एरय_इत्य् आह ।
वृष्टिर् वै द्यौः ।
वृष्टिम् एव_अवरुन्धे ।
VERSE: 5 { 3.3.9.5}
यावद् वा अध्वर्युः प्रस्तरं प्रहरति ।
तावद् अस्य_आयुर् मीयते ।
आयुष्पा अग्ने ऽस्य_आयुर् मे पाहीत्य् आह ।
आयुर् एवाऽऽत्मन् धत्ते ।
यावद् वा अध्वर्युः प्रस्तरं प्रहरति ।
तावद् अस्य चक्षुर् मीयते ।
चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीत्य् आह ।
चक्षुर् एवाऽऽत्मन् धत्ते ।
ध्रुवा_असीत्य् आह प्रतिष्ठित्यै ।
यं परिधिं पर्यधत्था इत्य् आह ।
VERSE: 6 { 3.3.9.6}
यथायजुर् एवैतत् ।
अग्ने देव पणिभिर् वीयमाण इत्य् आह ।
अग्नय एवैनं जुष्टं करोति ।
तं त एतम् अनु जोषं भरामीत्य् आह ।
सजातान् एवास्मा अनुकान् करोति ।
न_इद् एष त्वद् अपचेतयाता इत्य् आहानुख्यात्यै ।
यज्ञस्य पाथ उप समितम् इत्य् आह ।
भूमानम् एव_उपैति ।
परिधीन् प्रहरति ।
यज्ञस्य समिष्ट्यै ।
VERSE: 7 { 3.3.9.7}
स्रुचौ संप्रस्रावयति ।
यद् एव तत्र क्रूरम् ।
तत् तेन शमयति ।
जुह्वाम् उपभृतम् ।
यजमानदेवत्या वै जुहूः ।
भ्रातृव्यदेवत्या_उपभृत् ।
यजमानाय_एव भ्रातृव्यम् उपस्तिं करोति ।
सꣳस्रावभागाः स्थ_इत्य् आह ।
वसवो वै रुद्रा आदित्याः सꣳस्रावभागाः ।
तेषां तद् भागधेयम् ।
VERSE: 8 { 3.3.9.8}
तान् एव तेन प्रीणाति ।
वैश्वदेव्या_ऋचा ।
एते हि विश्वे देवाः ।
त्रिष्टुग् भवति ।
इन्द्रियं वै त्रिष्टुक् ।
इन्द्रियम् एव यजमाने दधाति ।
अग्नेर् वाम् अपन्नगृहस्य सदसि सादयामीत्य् आह ।
इयं वा अग्निर् अपन्नगृहः ।
अस्या एवैने सदने सादयति ।
सुम्नाय सुम्निनी सुम्ने मा धत्तम् इत्य् आह ।
VERSE: 9 { 3.3.9.9}
प्रजा वै पशवः सुम्नम् ।
प्रजाम् एव पशून् आत्मन् धत्ते ।
धुरि धुर्यौ पातम् इत्य् आह ।
जायापत्योर् गोपीथाय ।
अग्ने ऽदब्धायो ऽशीततनो इत्य् आह ।
यथायजुर् एवैतत् ।
पाहि मा_अद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरिताद् इत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
अविषं नः पितुं कृणु सुषदा योनिꣳ स्वाहा_इतीध्मसंवृश्चनान्य् अन्वाहार्यपचने ऽभ्याधाय फलीकरणहोमं जुहोति ।
अतिरिक्तानि वा इध्मसंवृश्चनानि ।
VERSE: 10 { 3.3.9.10}
अतिरिक्ताः फलीकरणाः ।
अतिरिक्तम् आज्य_उच्छेषणम् ।
अतिरिक्त एव_अतिरिक्तं दधाति ।
अथो अतिरिक्तेनैव_अतिरिक्तम् आप्त्वा_अवरुन्धे ।
वेदिर् देवेभ्यो निलायत ।
तां वेदेनान्वविन्दन् ।
वेदेन वेदिं विविदुः पृथिवीम् ।
सा पप्रथे पृथिवी पार्थिवानि ।
गर्भं बिभर्ति भुवनेष्व् अन्तः ।
ततो यज्ञो जायते विश्वदानिर् इति पुरस्तात् स्तम्बयजुषो वेदेन वेदिꣳ संमार्ष्ट्य् अनुवित्त्यै ।
VERSE: 11 { 3.3.9.11}
अथो यद् वेदश् च वेदिश् च भवतः ।
मिथुनत्वाय प्रजात्यै ।
प्रजापतेर् वा एतानि श्मश्रूणि ।
यद् वेदः ।
पत्निया उपस्थ आस्यति ।
मिथुनम् एव करोति ।
विन्दते प्रजाम् ।
वेदꣳ होता_आहवनीयात् स्तृणन्न् एति ।
यज्ञम् एव तत् संतनोत्य् आ_उत्तरस्माद् अर्धमासात् ।
तꣳ संततम् उत्तरे ऽर्धमास आलभते ।
VERSE: 12 { 3.3.9.12}
तं काले_काल आगते यजते ।
ब्रह्मवादिनो वदन्ति ।
स त्वा अध्वर्युः स्यात् ।
यो यतो यज्ञं प्रयुङ्क्ते ।
तद् एनं प्रतिष्ठापयतीति ।
वाताद् वा अध्वर्युर् यज्ञं प्रयुङ्क्ते ।
देवा गातुविदो गातुं वित्त्वा { वित्वा} गातुम् इत_इत्य् आह ।
यत एव यज्ञं प्रयुङ्क्ते ।
तद् एनं प्रतिष्ठापयति ।
प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।
अनुवाक 10
VERSE: 1 { 3.3.10.1}
यो वा अयथादेवतं यज्ञम् उपचरति ।
आ देवताभ्यो वृश्च्यते ।
पापीयान् भवति ।
यो यथादेवतम् ।
न देवताभ्य आवृश्च्यते ।
वसीयान् भवति ।
वारुणो वै पाशः ।
इमं विष्यामि वरुणस्य पाशम् इत्य् आह ।
वरुणपाशाद् एवैनां मुञ्चति ।
सवितृप्रसूतो यथादेवतम् ।
VERSE: 2 { 3.3.10.2}
न देवताभ्य आवृश्च्यते ।
वसीयान् भवति ।
धातुश् च योनौ सुकृतस्य लोक इत्य् आह ।
अग्निर् वै धाता ।
पुण्यं कर्म सुकृतस्य लोकः ।
अग्निर् एवैनां धाता ।
पुण्ये कर्मणि सुकृतस्य लोके दधाति ।
स्योनं मे सह पत्या करोमीत्य् आह ।
आत्मनश् च यजमानस्य चानात्यै {ड्युमोण्ट चानत्त्यै?} संत्वाय ।
सम् आयुषा संप्रजया_इत्य् आह ।
VERSE: 3 { 3.3.10.3}
आशिषम् एवैताम् आशास्ते पूर्णपात्रे ।
अन्ततो ऽनुष्टुभा ।
चतुष्पद् वा एतच् छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति ।
अस्मिन्_लोके प्रतितिष्ठानीति ।
अस्मिन्न् एव लोके प्रतितिष्ठति ।
अथो वाग् वा अनुष्टुक् ।
वाङ् मिथुनम् ।
आपो रेतः प्रजननम् ।
एतस्माद् वै मिथुनाद् विद्योतमानः स्तनयन् {आनंदा. विद्योतमानस्तनयन्, विद्योतमानस् तनयन्} वर्षति ।
रेतः सिञ्चन् ।
VERSE: 4 { 3.3.10.4}
प्रजाः प्रजनयन् ।
यद् वै यज्ञस्य ब्रह्मणा युज्यते ।
ब्रह्मणा वै तस्य विमोकः ।
अद्भिः शान्तिः ।
विमुक्तं वा एतर्हि योक्त्रं ब्रह्मणा ।
आदाय_एनत् पत्नी सह_अप उपगृह्णीते शान्त्यै ।
अञ्जलौ पूर्णपात्रम् आनयति ।
रेत एव_अस्यां प्रजां दधाति ।
प्रजया हि मनुष्यः पूर्णः ।
मुखं विमृष्टे ।
अवभृथस्यैव रूपं कृत्वा_उत्तिष्ठति ।
अनुवाक 11
VERSE: 1 { 3.3.11.1}
परिवेषो वा एष वनस्पतीनाम् ।
यद् उपवेषः ।
य एवं वेद ।
विन्दते परिवेष्टारम् ।
तम् उत्करे ।
यं देवा मनुष्येषु ।
उपवेषम् अधारयन् ।
ये अस्मद् अपचेतसः ।
तान् अस्मभ्यम् इह_आकुरु ।
उपवेष_उपविड्ढि नः ।
VERSE: 2 { 3.3.11.2}
प्रजां पुष्टिम् अथो धनम् ।
द्विपदो नश् चतुष्पदः ।
ध्रुवान् अनपगान् कुर्व् इति पुरस्तात् प्रत्यञ्चम् उपगूहति ।
तस्मात् पुरस्तात् प्रत्यञ्चः शूद्रा अवस्यन्ति ।
स्थविमत उपगूहति ।
अप्रतिवादिन एवैनान् कुरुते ।
धृष्टिर् वा उपवेषः ।
शुचा_ऋतो वज्रो ब्रह्मणा सꣳशितः ।
या_उपवेषे शुक् ।
सामुम् ऋच्छतु यं द्विष्म इति ।
VERSE: 3 { 3.3.11.3}
अथास्मै नामगृह्य प्रहरति ।
निर् अमुं नुद ओकसः ।
सपत्नो यः पृतन्यति ।
निर्बाध्येन हविषा ।
इन्द्र एणं पराशरीत् ।
इहि तिस्रः परावतः ।
इहि पञ्च जनाꣳ अति ।
इहि तिस्रो ऽति रोचना, यावत् ।
सूर्यो असद् दिवि ।
परमां त्वा परावतम् ।
VERSE: 4 { 3.3.11.4}
इन्द्रो नयतु वृत्रहा ।
यतो न पुनर् आयसि ।
शश्वतीभ्यः समाभ्य इति ।
त्रिवृद् वा एष वज्रो ब्रह्मणा सꣳशितः ।
शुचा_एवैनं विद्ध्वा ।
एभ्यो लोकेभ्यो निर्णुद्य ।
वज्रेण ब्रह्मणा स्तृणुते ।
हतो ऽसाव् अवधिष्मामुम् इत्य् आह स्तृत्यै ।
यं द्विष्यात् तं ध्यायेत् ।
शुचा_एवैनम् अर्पयति ।
प्रपाठक: 4
अनुवाक 1
VERSE: 1 { 3.4.1.1}
ब्रह्मणे ब्राह्मणम् आलभते ।
क्षत्राय राजन्यम् ।
मरुद्भ्यो वैश्यम् ।
तपसे शूद्रम् ।
तमसे तस्करम् ।
नारकाय वीरहणम् ।
पाप्मने क्लीबम् ।
आक्रयायायोगुम् ।
कामाय पुꣳश्चलूम् ।
अतिक्रुष्टाय मागधम् ।
अनुवाक 2
VERSE: 1 { 3.4.2.1}
गीताय सूतम् ।
नृत्ताय शैलूषम् ।
धर्माय सभाचरम् ।
नर्मय रेभम् ।
नरिष्ठायै भीमलम् ।
हसाय कारिम् ।
आनन्दाय स्त्रीषखम् ।
प्रमुदे कुमारीपुत्रम् ।
मेधायै रथकारम् ।
धैर्याय तक्षाणम् ।
अनुवाक 3
VERSE: 1 { 3.4.3.1}
श्रमाय कौलालम् ।
मायायै कार्मारम् ।
रूपाय मणिकारम् ।
शुभे वपम् ।
शरव्याया इषुकारम् ।
हेत्यै धन्वकारम् ।
कर्मणे ज्याकारम् ।
दिष्टाय रज्जुसर्गम् ।
मृत्यवे मृगयुम् ।
अन्तकाय श्वनितम् {ड्युमोण्ट श्वनिनम् } ।
अनुवाक 4
VERSE: 1 { 3.4.4.1}
संधये जारम् ।
गेहाय_उपपतिम् ।
निर्ऋत्यै परिवित्तम् ।
आर्त्यै परिविविदानम् ।
अराध्यै दिधिषूपतिम् ।
पवित्राय भिषजम् ।
प्रज्ञानाय नक्षत्रदर्शम् ।
निष्कृत्यै पेशस्कारीम् ।
बलाय_उपदाम् ।
वर्णायानूरुधम् ।
अनुवाक 5
VERSE: 1 { 3.4.5.1}
नदीभ्यः पौञ्जिष्टम् ।
ऋक्षीकाभ्यो नैषादम् ।
पुरुषव्याघ्राय दुर्मदम् ।
प्रयुद्भ्य उन्मत्तम् ।
गन्धर्वाप्सराभ्यो व्रात्यम् ।
सर्पदेवजनेभ्यो ऽप्रतिपदम् ।
अवेभ्यः {ड्युमोण्ट अयेभ्यः?} कितवम् ।
इर्यताया अकितवम् ।
पिशाचेभ्यो बिदलकारम् ।
यातुधानेभ्यः कण्टककारम् ।
अनुवाक 6
VERSE: 1 { 3.4.6.1}
उत्सादेभ्यः कुब्जम् ।
प्रमुदे वामनम् ।
द्वार्भ्यः स्रामम् ।
स्वप्नायान्धम् ।
अधर्माय बधिरम् ।
संज्ञानाय स्मरकारीम् ।
प्रकाम_उद्याय_उपसदम् ।
आशिक्षायै प्रश्निनम् ।
उपशिक्षाया अभिप्रश्निनम् ।
मर्यादायै प्रश्नविवाकम् ।
अनुवाक 7
VERSE: 1 { 3.4.7.1}
ऋत्यै स्तेनहृदयम् ।
वैरहत्याय पिशुनम् ।
विवित्त्यै { विवित्यै} क्षत्तारम् ।
औपद्रष्टाय {ड्युमोण्ट औपद्रष्ट्र्याय} संग्रहीतारम् ।
बलायानुचरम् ।
भूम्ने परिष्कन्दम् ।
प्रियाय प्रियवादिनम् ।
अरिष्ट्या अश्वसादम् ।
मेधाय वासःपल्पूलीम् ।
प्रकामाय रजयित्रीम् ।
अनुवाक 8
VERSE: 1 { 3.4.8.1}
भायै दार्वाहारम् ।
प्रभाया आग्नेन्धम् ।
नाकस्य पृष्ठायाभिषेक्तारम् ।
ब्रध्नस्य विष्टपाय पात्रनिर्णेगम् ।
देवलोकाय पेशितारम् ।
मनुष्यलोकाय प्रकरितारम् ।
सर्वेभ्यो लोकेभ्य_उपसेक्तारम् ।
अवर्त्यै वधाय_उपमन्थितारम् ।
सुवर्गाय लोकाय भागदुघम् ।
वर्षिष्ठाय नाकाय परिवेष्टारम् ।
अनुवाक 9
VERSE: 1 { 3.4.9.1}
अर्मेभ्यो हस्तिपम् ।
जवायाश्वपम् ।
पुष्ट्यै गोपालम् ।
तेजसे ऽजपालम् ।
वीर्यायाविपालम् ।
इरायै कीनाशम् ।
किलालाय सुराकारम् ।
भद्राय गृहपम् ।
श्रेयसे वित्तपम् { वित्तधम्} ।
अध्यक्षायानुक्षत्तारम् ।
अनुवाक 10
VERSE: 1 { 3.4.10.1}
मन्यवे ऽयस्तापम् ।
क्रोधाय निसरम् ।
शोकायाभिसरम् ।
उत्कीलविकूलाभ्यां त्रिस्थ्íनम् ।
योगाय योक्तारम् ।
क्षेमाय विमोक्तारम् ।
वपुषे मानस्कृतम् ।
शीलायाञ्जनीकारम् ।
निर्ऋत्यै कोशकारीम् ।
यमायासूम् ।
अनुवाक 11
VERSE: 1 { 3.4.11.1}
यम्यै यमसूम् ।
अथर्वभ्यो ऽवतोकाम् ।
संवत्सराय पर्यारिणीम् ।
परिवत्सरायाविजाताम् ।
इदावत्सरायापस्कद्वरीम् ।
इद्वत्सरायातीत्वरीम् ।
वत्सराय विजर्जराम् ।
सर्वंत्सराय पलिक्नीम् ।
वनाय वनपम् ।
अन्यतोऽरण्याय दावपम् ।
अनुवाक 12
VERSE: 1 { 3.4.12.1}
सरोभ्यो धैवरम् ।
वेशन्ताभ्यो दाशम् ।
उपस्थावरीभ्यो बइन्दम् ।
नड्वलाभ्यः शौष्कलम् ।
पार्याय कैवर्तम् ।
अवार्याय मार्गारम् ।
तीर्थेभ्य आन्दम् ।
विषमेभ्यो मैनालम् ।
स्वनेभ्यः पर्णकम् ।
गुहाभ्यः किरातम् ।
सानुभ्यो जम्भकम् ।
पर्वतेभ्यः किंपूरुषम् ।
अनुवाक 13
VERSE: 1 { 3.4.13.1}
प्रतिश्रुत्काया ऋतुलम् {ड्युमोण्ट अर्तनम्} ।
घोषाय भषम् ।
अन्ताय बहुवादिनम् ।
अनन्ताय मूकम् ।
महसे वीणावादम् ।
क्रोशाय तूणवध्मम् ।
आक्रन्दाय दुन्दुभ्याघातम् ।
अवरस्पराय शङ्खध्मम् ।
ऋभुभ्यो ऽजिनसंधायम् ।
साध्येभ्यश् चर्मम्णम् ।
अनुवाक 14
VERSE: 1 { 3.4.14.1}
बीभत्सायै पौल्कसम् ।
भूत्यै जागरणम् ।
अभूत्यै स्वपनम् ।
तुलायै वाणिजम् ।
वर्णाय हिरण्यकारम् ।
विश्वेभ्यो देवेभ्यः सिध्मलम् ।
पश्चाद्दोषाय ग्लावम् ।
ऋत्यै जनवादिनम् ।
व्यृद्ध्या अपगल्भम् ।
सꣳशराय प्रच्छिदम् ।
अनुवाक 15
VERSE: 1 { 3.4.15.1}
हसाय पुꣳश्चलूम् आलभते ।
वीणावादं गणकं गीताय ।
यादसे शाबुल्याम् ।
नर्माय भद्रवतीम् ।
तूणवध्मं ग्रामण्यं पाणिसंघातं नृत्ताय ।
मोदायानुक्रोशकम् ।
आनन्दाय तलवम् ।
अनुवाक 16
VERSE: 1 { 3.4.16.1}
अक्षराजाय कितवम् ।
कृताय सभाविनम् ।
त्रेताया आदिनवदर्शम् ।
द्वापराय बहिःसदम् ।
कलये सभास्थाणुम् ।
दुष्कृताय चरकाचार्यम् ।
अध्वने ब्रह्मचारिणम् ।
पिशाचेभ्यः सैलगम् ।
पिपासायै गोव्यच्छम् {ड्युमोण्ट गोव्यधम्?} ।
निर्ऋत्यै गोघातम् ।
क्षुधे गोविकर्तम् ।
क्षुत्तृष्णाभ्यां तम् ।
यो गां विकृन्तन्तं माꣳसं भिक्षमाण उपतिष्ठते ।
अनुवाक 17
VERSE: 1 { 3.4.17.1}
भूम्यै पीठसर्पिणम् आलभते ।
अग्नये ऽꣳसलम् ।
वायवे चाण्डालम् ।
अन्तरिक्षाय वꣳशनर्तिनम् ।
दिवे खलतिम् ।
सूर्याय हर्यक्षम् ।
चन्द्रमसे मिर्मिरम् ।
नक्षत्त्रेभ्यः किलासम् ।
अह्ने शुक्लं पिङ्गलम् ।
रात्रियै कृष्णं पिङ्गाक्षम् ।
अनुवाक 18
VERSE: 1 { 3.4.18.1}
वाचे पुरुषम् आलभते ।
प्राणम् अपानम् व्यानम् उदानꣳ समानं तान् वायवे ।
सूर्याय चक्षुर् आलभते ।
मनश् चन्द्रमसे ।
दिग्भ्यः श्रोत्रम् ।
प्रजापतये पुरुषम् ।
अनुवाक 19
VERSE: 1 { 3.4.19.1}
अथ_एतान् अरूपेभ्य आलभते ।
अतिह्रस्वम् अतिदीर्घम् ।
अतिकृशम् अत्यꣳसलम् ।
अतिशुक्लम् अतिकृष्णम् ।
अतिश्लक्ष्णम् अतिलोमशम् ।
अतिकिरिटम् अतिदन्तुरम् ।
अतिमिर्मिरम् अतिमेमिषम् ।
आशायै जामिम् ।
प्रतीक्षायै कुमारीम् ।
प्रपाठक: 5
अनुवाक 1
VERSE: 1 { 3.5.1.1}
सत्यं प्रपद्ये ।
ऋतं प्रपद्ये ।
अमृतं प्रपद्ये ।
प्रजापतेः प्रियां तनुवम् अनार्तां प्रपद्ये ।
इदम् अहं पञ्चदशेन वज्रेण ।
द्विषन्तं भ्रातृव्यम् अवक्रामामि ।
यो ऽस्मान् द्वेष्टि ।
यं च वयं द्विष्मः ।
भूर् भुवः सुवः ।
हिम् ।
अनुवाक 2
VERSE: 1 { 3.5.2.1}
प्र वो वाजा अभिद्यवः ।
हविष्मन्तो घृताच्या ।
देवाञ् जिगाति सुम्नयुः ।
अग्न आयाहि वीतये ।
गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ।
तं त्वा समिद्भिर् अङ्गिरः ।
घृतेन वर्धयामसि ।
बृहत्_शोचा यविष्ठ्य ।
स नः पृथु श्रवाय्यम् ।
VERSE: 2 { 3.5.2.2}
अच्छा देव विवाससि ।
बृहद् अग्ने सुवीर्यम् ।
ईडेन्यो {आनंदा. ईडेऽन्यो} नमस्यस्, तिरः ।
तमाꣳसि दर्शतः ।
सम् अग्निर् इध्यते वृषा ।
वृषो अग्निः समिध्यते ।
अश्वो न देववाहनः ।
तꣳ हविश्मन्त ईडते ।
वृषणं त्वा वयं वृषन् ।
वृषाणः समिधीमहि ।
VERSE: 3 { 3.5.2.3}
अग्ने दीद्यतं बृहत् ।
अग्निं दूतं वृणीमहे ।
होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ।
समिध्यमानो अध्वरे ।
अग्निः पावक ईड्यः ।
शोचिष्केशस् तम् ईमहे ।
समिद्धो अग्न आहुत ।
देवान् यक्षि स्वध्वर ।
त्वꣳ हि हव्यवाड् असि ।
आजुहोत दुवस्यत ।
अग्निं प्रयत्य् अध्वरे ।
वृणीध्वꣳ हव्यवाहनम् ।
त्वं वरुण उत मित्रो अग्ने ।
त्वां वर्धन्ति मतिभिर् वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु ।
यूयं पात स्वस्तिभिः सदा नः ।
अनुवाक 3
VERSE: 1 { 3.5.3.1}
अग्ने महाꣳ असि ब्राह्मण भारत ।
असाव् असौ ।
देव_इद्धो मन्विद्धः ।
ऋषिष्टुतो विप्रानुमदितः ।
कविशस्तो ब्रह्मसꣳशितो घृताहवनः ।
प्रणीर् यज्ञानाम् ।
रथीर् अध्वराणाम् ।
अतूर्तो होता ।
तूर्णिर् हव्यवाट् ।
आस्पात्रं जुहूर् देवानाम् ।
{ 3.5.3.2}
चमसो देवपानः ।
अराꣳ इवाग्ने नेमिर् देवाꣳस् त्वं परिभूर् असि ।
आवह देवान् यजमानाय ।
अग्निम् अग्न आवह ।
सोमम् आवह ।
अग्निम् आवह ।
प्रजापतिम् आवह ।
अग्नीषोमाव् आवह ।
इन्द्राग्नी आवह ।
इन्द्रम् आवह ।
महेन्द्रम् आवह ।
देवाꣳ आज्यपाꣳ आवह ।
अग्निꣳ होत्राय_आवह ।
स्वं महिमानम् आवह ।
आ चाग्ने देवान् वह ।
सुयजा च यज जातवेदः ।
अनुवाक 4
VERSE: 1 { 3.5.4.1}
अग्निर् होता, वेत्व् {आनंदा. वेत्त्व्} अग्निः ।
होत्रं वेत्व् {,आनंदा. वेत्तु} प्रावित्रम् ।
स्मो वयम् ।
साधु ते यजमान देवता ।
घृतवतीम् अध्वर्यो स्रुचम् आस्यस्व ।
देवायुवं विश्ववाराम् ।
ईडामहै देवाꣳ ईडेन्यान् {आनंदा. ईडेऽन्यान्} ।
नमस्याम नमस्यान् ।
यजाम यज्ञियान् ।
अनुवाक 5
VERSE: 1 { 3.5.5.1}
समिधो अग्न आज्यस्य वियन्तु ।
तनूनपाद् अग्न आज्यस्य वेतु ।
इडो अग्न आज्यस्य वियन्तु ।
बर्हिर् अग्न आज्यस्य वेतु ।
स्वाहा_अग्निम् ।
स्वाहा सोमम् ।
स्वाहा_अग्निम् ।
प्रजापतिम् ।
स्वाहा_अग्नीषोमौ ।
स्वाहा_इन्द्राग्नी ।
स्वाहा_इन्द्रम् ।
स्वाहा महेन्द्रम् ।
स्वाहा देवाꣳ आज्यपान् ।
स्वाहा_अग्निꣳ होत्राज् जुषाणाः ।
अग्न आज्यस्य वियन्तु ।
अनुवाक 6
VERSE: 1 { 3.5.6.1}
अग्निर् वृत्राणि जङ्घनत् ।
द्रविणस्युर् विपन्यया ।
समिद्धः शुक्र आहुतः ।
जुषाणो अग्निर् आज्यस्य वेतु ।
त्वꣳ सोमासि सत्पतिः ।
त्वꣳ राजा_उत वृत्रहा ।
त्वं भद्रो असि क्रतुः ।
जुषाणः सोम आज्यस्य हविषो वेतु ।
अग्निः प्रत्नेन जन्मना ।
शुम्भानस् तनुवꣳ स्वाम् ।
कविर् विप्रेण वावृधे ।
जुषाणो अग्निर् आज्यस्य वेतु ।
सोम गीर्भिष् ट्वा वयम् ।
वर्धयामो वचोविदः ।
सुमृडीको न आविश ।
जुषाणः सोम आज्यस्य हविषो वेतु ।
अनुवाक 7
VERSE: 1 { 3.5.7.1}
अग्निर् मूर्धा दिवः ककुत् ।
पतिः पृथिव्या अयम् ।
अपाꣳ रेताꣳसि जिन्वति ।
भुवो यज्ञस्य रजसश् च नेता ।
यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे सुवर्षाम् ।
जिह्वाम् अग्ने चकृषे हव्यवाहम् ।
प्रजापते न त्वद् एतान्य् अन्यः ।
विश्वा जातानि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो अस्तु ।
VERSE: 2 { 3.5.7.2}
वयꣳ स्याम पतयो रयीणाम् ।
स वेद पुत्रः पितरꣳ स मातरम् ।
स सूनुर् भुवत् स भुवत् पुनर्मघः ।
स द्याम् और्णोद् अन्तरिक्षꣳ स सुवः ।
स विश्वा भुवो अभवत् स आभवत् ।
अग्नीषोमा सवेदसा ।
सहूती वनतं गिरः ।
सं देवत्रा बभूव थुः ।
युवम् एतानि दिवि रोचनानि ।
अग्निश् च सोम सक्रतू अधत्तम् ।
VERSE: 3 { 3.5.7.3}
युवꣳ सिन्धूꣳर् अभिशस्तेर् अवद्यात् ।
अग्नीषोमाव् अमुञ्चतं गृभीतान् ।
इन्द्राग्नी रोचना दिवः ।
परि वाजेषु भूषथः ।
तद् वां चेति प्र वीर्यम् ।
श्नथद् वृत्रम् उत सनोति वाजम् ।
इन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेः ।
सहस्तमा सहसा वाजयन्ता ।
आ_इन्द्र सानसिꣳ रयिम् ।
VERSE: 4 { 3.5.7.4}
सजित्वानꣳ सदासहम् ।
वर्षिष्ठमूतये भर ।
प्र ससाहिषे पुरुहूत शत्रून् ।
ज्येष्ठस् ते शुष्म इह रातिर् अस्तु ।
इन्द्र_आभर दक्षिणेना वसूनि ।
पतिः सिन्धूनाम् असि रेवतीनाम् ।
महाꣳ इन्द्रो य ओजसा ।
पर्जन्यो वृष्टिमाꣳ इव ।
स्तोमैर् वत्सस्य वावृधे ।
महाꣳ इन्द्रो नृवद् आ चर्षणिप्राः ।
VERSE: 5 { 3.5.7.5}
उत द्विबर्हा अमिनः सहोभिः ।
अस्मद्रियग् वावृधे वीर्याय ।
उरुः पृथुः सुकृतः कर्तृभिर् भूत् ।
पिप्रीहि देवाꣳ उशतो यविष्ठ ।
विद्वाꣳ ऋतूꣳर् ऋतुपते यज_इह ।
ये दैव्या ऋत्विजस् तेभिर् अग्ने ।
त्वꣳ होतॄणाम् अस्य् आयजिष्ठः ।
अग्निꣳ स्विष्टकृतम् ।
अयाड् अग्निर् अग्नेः प्रियाधामानि ।
अयाट् सोमस्य प्रिया धामानि ।
VERSE: 6 { 3.5.7.6}
अयाड् अग्नेः प्रिया धामानि ।
अयाट् प्रजापतेः प्रिया धामानि ।
अयाड् अग्नीषोमयोः प्रिया धामानि ।
अयाड् इन्द्राग्नियोः प्रिया धामानि ।
अयाड् इन्द्रस्य प्रिया धामानि ।
अयाण् महेन्द्रस्य प्रिया धामानि ।
अयाड् देवानाम् आज्यपानां प्रिया धामानि ।
यक्षद् अग्नेर् होतुः प्रिया धामानि ।
यक्षत् स्वं महिमानम् ।
आयजताम् एज्या इषः ।
कृणोतु सो अध्वरा जातवेदाः ।
जुषताꣳ हविः ।
अग्ने यद् अद्य विशो अध्वरस्य होतः ।
पावकशोचे वेष् ट्वꣳ हि यज्वा ।
ऋता यजासि महिना वि यद् भूः ।
हव्या वह यविष्ठ या ते अद्य ।
अनुवाक 8
VERSE: 1 { 3.5.8.1}
उपहूतꣳ रथंतरꣳ सह पृथिव्या ।
उप मा रथंतरꣳ सह पृथिव्या ह्वयताम् ।
उपहूतं वामदेव्यꣳ सह_अन्तरिक्षेण ।
उप मा वामदेव्यꣳ सह_अन्तरिक्षेण ह्वयताम् ।
उपहूतं बृहत् सह दिवा ।
उप मा बृहत् सह दिवा ह्वयताम् ।
उपहूताः सप्त होत्राः ।
उप मा सप्त होत्रा ह्वयन्ताम् ।
उपहूता धेनुः सह_ऋषभा ।
उप मा धेनुः सह_ऋषभा ह्वयताम् ।
VERSE: 2 { 3.5.8.2}
उपहूतो भक्षः सखा ।
उप मा भक्षः सखा ह्वयताम् ।
उपहूता3ं हो ।
इडा_उपहूता ।
उपहूतेडा ।
उपो अस्माꣳ इडा ह्वयताम् ।
इडा_उपहूता ।
उपहूतेडा मानवी घृतपदी मैत्रावरुणी ।
ब्रह्म देवकृतम् उपहूतम् ।
VERSE: 3 { 3.5.8.3}
दैव्या अध्वर्यव उपहूताः ।
उपहूता मनुष्याः ।
य इमं यज्ञम् अवान् ।
ये यज्ञपतिं वर्धान् ।
उपहूते द्यावापृथिवी ।
पूर्वजे ऋतावरी ।
देवी देवपुत्रे ।
उपहूतो ऽयं यजमानः ।
उत्तरस्यां देवयज्यायाम् उपहूतः ।
भूयसि हविष्करण उपहूतः ।
दिव्ये धामन्न् उपहूतः ।
इदं मे देवा हविर् जुषन्ताम् इति तस्मिन्न् उपहूतः ।
विश्वम् अस्य प्रियम् उपहूतम् ।
विश्वस्य प्रियस्य_उपहूतस्य_उपहूतः ।
अनुवाक 9
VERSE: 1 { 3.5.9.1}
देवं बर्हिः ।
वसुवने वसुधेयस्य वेतु ।
देवो नराशꣳसः ।
वसुवने वसुधेयस्य वेतु ।
देवो अग्निः स्विष्टकृत् ।
सुद्रविणा मन्द्रः कविः ।
सत्यमन्मा_आयजी होता ।
होतुर्_होतुर् आयजीयान् ।
अग्ने यान् देवान् अयाट् ।
याꣳ अपिप्रेः ।
ये ते होत्रे अमत्सत ।
ताꣳ ससनुषीꣳ होत्रां देवंगमाम् ।
दिवि देवेषु यज्ञम् एरय_इमम् ।
स्विष्टकृच् चाग्ने होता_अभुः ।
वसुवने वसुधेयस्य नमोवाके वीहि ।
अनुवाक 10
VERSE: 1 { 3.5.10.1}
इदं द्यावापृथिवी भद्रम् अभूत् ।
आर्ध्म सूक्तवाकम् ।
उत नमोवाकम् ।
ऋध्यास्म { ऋध्यास्स्म} सूक्तोच्यम् अग्ने ।
त्वꣳ सूक्तवाग् असि ।
उपश्रितो दिवःपृथिव्योः ।
ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ताम् ।
शंगये {आनंदा. शङ्गये} जीरदानू ।
अत्रस्नू अप्रवेदे ।
उरुगव्यूती अभयंकृतौ ।
VERSE: 2 { 3.5.10.2}
वृष्टिद्यावा रीत्यापा ।
शम्भ्úवौ मयोभुवौ ।
ऊर्जस्वती च पयस्वती च ।
सूपचरणा च स्वधिचरणा च ।
तयोर् आविदि ।
अग्निर् इदꣳ हविर् अजुषत ।
अवीवृधत महो ज्यायो ऽकृत ।
सोम इदꣳ हविर् अजुषत ।
अवीवृधत महो ज्यायो ऽकृत ।
अग्निर् इदꣳ हविर् अजुषत ।
VERSE: 3 { 3.5.10.3}
अवीवृधत महो ज्यायो ऽकृत ।
प्रजापतिर् इदꣳ हविर् अजुषत ।
अवीवृधत महो ज्यायो ऽकृत ।
अग्नीषोमाव् इदꣳ हविर् अजुषेताम् ।
अवीवृधेतां महो ज्यायो ऽक्राताम् ।
इन्द्राग्नी इदꣳ हविर् अजुषेताम् ।
अवीवृधेतां महो ज्यायो ऽक्राताम् ।
इन्द्र इदꣳ हविर् अजुषत ।
अवीवृधत महो ज्यायो ऽकृत ।
महेन्द्र इदꣳ हविर् अजुषत ।
VERSE: 4 { 3.5.10.4}
अवीवृधत महो ज्यायो ऽकृत ।
देवा आज्यपा आज्यम् अजुषन्त ।
अवीवृधन्त महो ज्यायो ऽक्रत {आनंदा. ऽकृत} ।
अग्निर् होत्रेण_इदꣳ हविर् अजुषत ।
अवीवृधत महो ज्यायो ऽकृत ।
अस्याम् ऋधद् धोत्रायां देवंगमायाम् ।
आशास्ते ऽयं यजमानो ऽसौ ।
आयुर् आशास्ते ।
सुप्रजास्त्वम् आशास्ते ।
सजातवनस्याम् आशास्ते ।
VERSE: 5 { 3.5.10.5}
उत्तरां देवयज्याम् आशास्ते ।
भूयो हविष्करणम् आशास्ते ।
दिव्यं धाम_आशास्ते ।
विश्वं प्रियम् आशास्ते ।
यद् अनेन हविषा_आशास्ते ।
तद् अश्यात् तद् ऋध्यात् ।
तद् अस्मै देवा रासन्ताम् ।
तद् अग्निर् देवो देवेभ्यो वनते ।
वयम् अग्नेर् मानुषाः ।
इष्टं च वीतं च ।
उभे च नो द्यावापृथिवी अꣳहसः पाताम् ।
इह गतिर् वाम् अस्य_इदं च ।
नमो देवेभ्यः ।
अनुवाक 11
VERSE: 1 { 3.5.11.1}
तत्_शंयोर् आवृणीमहे ।
गातुं यज्ञाय ।
गातुं यज्ञपतये ।
दैवी स्वस्तिर् अस्तु नः ।
स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् ।
शं नो अस्तु द्विपदे ।
शं चतुष्पदे ।
अनुवाक 12
VERSE: 1 { 3.5.12.1}
आप्यायस्व, सं ते, ।
इह त्वष्टारम् अग्रियं, तन् नस् तुरीपम्, ।
देवानां पत्नीर् उशतीर् अवन्तु नः ।
प्रावन्तु नस् तुजये वाजसातये ।
याः पार्थिवासो या अपाम् अपि व्रते ।
ता नो देवीः सुहवाः शर्म यच्छत ।
उत ग्ना वियन्तु देवपत्नीः ।
इन्द्राण्य् अग्नाय्य् अश्विनी राट् ।
आ रोदसी वरुणानी शृणोतु ।
वियन्तु देवीर् य ऋतुर् जनीनाम् ।
VERSE: 2 { 3.5.12.2}
अग्निर् होता गृहपतिः स राजा ।
विश्वा वेद जनिमा जातवेदाः ।
देवानाम् उत यो मर्त्यानाम् ।
यजिष्ठः स प्रयजताम् ऋतावा ।
वयम् उ त्वा गृहपते जनानाम् ।
अग्ने अकर्म समिधा बृहन्तम् ।
अस्थूरिणो {ड्युमोण्ट अस्तूरि नो} गार्हपत्यानि सन्तु ।
तिग्मेन नस् तेजसा सꣳशिशाधि ।
अनुवाक 13
VERSE: 1 { 3.5.13.1}
उपहूतꣳ रथंतरꣳ सह पृथिव्या ।
उप मा रथंतरꣳ सह पृथिव्या ह्वयताम् ।
उपहूतं वामदेव्यꣳ सहान्तरिक्षेण ।
उप मा वामदेव्यꣳ सहान्तरिक्षेण ह्वयताम् ।
उपहूतं बृहत् सह दिवा ।
उप मा बृहत् सह दिवा ह्वयताम् ।
उपहूताः सप्त होत्राः ।
उप मा सप्त होत्रा ह्वयन्ताम् ।
उपहूता धेनुः सह_ऋषभा ।
उप मा धेनुः सह_ऋषभा ह्वयताम् ।
VERSE: 2 { 3.5.13.2}
उपहूतो भक्षः सखा ।
उप मा भक्षः सखा ह्वयताम् ।
उपहूता3ं हो ।
इडा_उपहूता ।
उपहूतेडा ।
उपो अस्माꣳ इडा ह्वयताम् ।
इडा_उपहूता ।
उपहूतेडा ।
मानवी घृतपदी मैत्रावरुणी ।
ब्रह्म देवकृतम् उपहूतम् ।
VERSE: 3 { 3.5.13.3}
दैव्या अध्वर्यव उपहूताः ।
उपहूता मनुष्याः ।
य इमं यज्ञम् अवान् ।
ये यज्ञपत्नीं वर्धान् ।
उपहूते द्यावापृथिवी ।
पूर्वजे ऋतावरी ।
देवी देवपुत्रे ।
उपहूतेयं यजमाना ।
इन्द्राणी_इवाविधवा ।
अदितिर् इव सुपुत्रा ।
उत्तरस्यां देवयज्यायाम् उपहूता ।
भूयसि हविष्करण उपहूता ।
दिव्ये धामन्न् उपहूता ।
इदं मे देवा हविर् जुषन्ताम् इति तस्मिन्न् उपहूता ।
विश्वम् अस्याः प्रियम् उपहूतम् ।
विश्वस्य प्रियस्य_उपहूतस्य_उपहूता ।
प्रपाठक: 6
अनुवाक 1
VERSE: 1 { 3.6.1.1}
अञ्जन्ति त्वाम् अध्वरे देवयन्तः ।
वनस्पते {आनंदा. ।} मधुना {BI मधुना} दैव्येन ।
यद् ऊर्ध्वस् तिष्ठाद् {ड्युमोण्ट तिष्ठा} द्रविणा_इह धत्तात् ।
यद् वा क्षयो मातुर् अस्या उपस्थे ।
उच्छ्रयस्व वनस्पते ।
वर्षमन् पृथिव्या अधि ।
सुमिती मीयमानः ।
वर्चो धा यज्ञवाहसे ।
समिद्धस्य श्रयमाणः पुरस्तात् ।
ब्रह्म वन्वानो अजरꣳ सुवीरम् ।
VERSE: 2 { 3.6.1.2}
आरे अस्मद् अमतिं बाधमानः ।
उच्छ्रयस्व महते सौभगाय ।
ऊर्ध्व ऊ षु ण ऊतये ।
तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिः ।
वाघद्भिर् विह्वयामहे ।
ऊर्ध्वो नः पाह्य् अꣳहसो निकेतुना ।
विश्वꣳ सम् अत्त्रिणं दह ।
कृधी न ऊर्ध्वान् { ऊर्ध्वाञ्} च रथाय {ड्युमोण्ट चरथाय} जीवसे ।
विदा देवेषु नो दुवः ।
VERSE: 3 { 3.6.1.3}
जातो जायते सुदिनत्वे अह्नाम् ।
स मर्य {ड्युमोण्ट समर्य} आ विदथे वर्धमानः ।
पुनन्ति धीरा अपसो मनीषा ।
देवया विप्र उदिर्यति वाचम् ।
युवा सुवासाः परिवीत आगात् ।
स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति ।
स्वाधियो मनसा देवयन्तः ।
पृथुपाजा अमर्त्यः ।
घृतनिर्णिक् स्वाहुतः ।
{ 3.6.1.4}
अग्निर् यज्ञस्य हव्यवाट् ।
तꣳ सबाधो यतस्रुचः { यतस्रुचः} ।
इत्था धिया यज्ञवन्तः ।
आचक्रुर् अग्निमूतये ।
त्वं वरुण उत मित्रो अग्ने ।
त्वां वर्धन्ति मतिभिर् वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु ।
यूयं पात स्वस्तिभिः सदा नः ।
अनुवाक 2
VERSE: 1 { 3.6.2.1}
होता यक्षद् अग्निꣳ समिधा सुषमिधा समिद्धं नाभा पृथिव्याः संगथे वामस्य ।
वर्ष्मन् दिव इडस् पदे वेत्व् आज्यस्य होतर् यज ।
होता यक्षत् तनूनपातम् अदितेर् गर्भं भुवनस्य गोपाम् ।
मध्वा_अद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज ।
होता यक्षन् नराशꣳसं नृशस्त्रं नॄꣳःप्रणेत्रम् ।
गोभिर् वपावान्त् स्याद् वीरैः शक्तीवान् रथ्ऐः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् अग्निम् इड ईडितो देवो देवाꣳ आवक्षद् दूतो हव्यवाड् अमूरः ।
उप_इमं यज्ञम् उप_इमां देवो देवहूतिम् अवतु वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् बर्हिः सुष्टरीम_ऊर्णम्रदा अस्मिन् यज्ञे वि च प्र च प्रथताꣳ स्वासस्थं देवेभ्यः ।
आ_ईम् एनद् अद्य वसवो रुद्रा आदित्याः सदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज ।
VERSE: 2 { 3.6.2.2}
होता यक्षद् दुर ऋष्वाः कवष्यो ऽकोषधावनीर् उद् आताभिर् जिहतां वि पक्षोभिः श्रयन्ताम् ।
सुप्रायणा अस्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो वियन्त्व् आज्यस्य होतर् यज ।
होता यक्षद् उषासानक्ता बृहती सुपेशसा नॄꣳःपतिभ्यो योनिं कृण्वाने ।
सꣳस्मयमाने इन्द्रेण देवैरा_इदं बर्हिः सीदतां वीताम् आज्यस्य होतर् यज ।
होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा ।
स्विष्टम् अद्यान्यः करद् इषा स्वभिगूर्तम् अन्य ऊर्जा सतवसा_इमं यज्ञं दिवि देवेषु धत्तां वीताम् आज्यस्य होतर् यज ।
VERSE: 3 { 3.6.2.3}
होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमा अच्छिद्रम् अद्य_इदम् अपस् तन्वताम् ।
देवेभ्यो देवीर् देवम् अपो वियन्त्व् आज्यस्य होतर् यज ।
होता यक्षत् त्वष्टारम् अचिष्टुम् अपाकꣳ रेतोधां विश्रवसं यशोधाम् ।
पुरुरूपम् अकामकर्शनꣳ सुपोषः पोषैः स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारꣳ शशमन् नरः ।
स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् अग्निꣳ स्वाहा_आज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् ।
स्वाहा देवाꣳ आज्यपान्त् स्वाहा_अग्निꣳ होत्राज् जुषाणा अग्न अज्यस्य वियन्तु होतर् यज ।
अनुवाक 3
VERSE: 1 { 3.6.3.1}
समिद्धो अद्य मनुषो दुरोणे ।
देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चिकित्वान् ।
त्वं दूतः कविर् असि प्रचेताः ।
तनूनपात् पथ ऋतस्य यानान् ।
मध्वा समञ्जन्त् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् ।
देवत्रा च कृणुह्य् अध्वरं नः ।
नराशꣳसस्य महिमानमेषाम् ।
उपस्तोषाम यजतस्य यज्ञैः ।
VERSE: 2 { 3.6.3.2}
ते सुक्रतवः शुचयो धियंधाः ।
स्वदन्तु देवा उभयानि हव्या ।
आजुह्वान ईड्यो वन्द्यश् च ।
आयाह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता ।
स एनान् यक्षीषितो यजीयान् ।
प्राचीनं बर्हिः प्रदिशा पृथिव्याः ।
वस्तोर् अस्या वृज्यते अग्रे अह्नाम् ।
व्य् उ प्रथते वितरं वरीयः ।
देवेभ्यो अदितये स्योनम् ।
VERSE: 3 { 3.6.3.3}
व्यचस्वतीर् उर्विया विश्रयन्ताम् ।
पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वाः ।
देवेभ्यो भवथ सुप्रायणाः ।
आ सुष्वयन्ती यजते उपाके ।
उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे ।
अधि श्रियꣳ शुक्रपिशं दधाने ।
दैव्या होतारा प्रथमा सुवाचा ।
मिमाना यज्ञं मनुषो यजध्यै ।
VERSE: 4 { 3.6.3.4}
प्रचोदयन्ता विदथेषु कारू ।
प्राचीनं ज्योतिः प्रदिशा दिशन्ता ।
आ नो यज्ञं भारती तूयम् एतु ।
इडा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् आ_इदꣳ स्योनम् ।
सरस्वतीः स्वपसः सदन्तु ।
य इमे द्यावापृथिवी जनित्री ।
रूपैर् अपिꣳशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् ।
देवं त्वष्टारम् इह यक्षि विद्वान् ।
VERSE: 5 { 3.6.3.5}
उपावसृजत् त्मन्या समञ्जन् ।
देवानां पाथ ऋतुथा हवीꣳषि ।
वनस्पतिः शमिता देवो अग्निः ।
स्वदन्तु हव्यं मधुना घृतेन ।
सद्यो जातो व्यमिमीत यज्ञम् ।
अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि ।
स्वाहाकृतꣳ हविर् अदन्तु देवाः ।
अनुवाक 4
VERSE: 1 { 3.6.4.1}
अग्निर् होता नो अध्वरे ।
वाजी सन् परिणीयते ।
देवो देवेषु यज्ञियः ।
परि त्रिविष्ट्य् अध्वरम् ।
यात्य् अग्नी रथीर् इव ।
आ देवेषु प्रयो दधत् ।
परि वाजपतिः कविः ।
अग्निर् हव्यान्य् अक्रमीत् { हव्या न्यक्रमीत्} ।
दधद् रत्नानि दाशुषे ।
अनुवाक 5
VERSE: 1 { 3.6.5.1}
अजैद् अग्निः ।
असनद् वाजं नि ।
देवो देवेभ्यो हव्या वाट् ।
प्राञ्जोभिर् हिन्वानः ।
धेनाभिः कल्पमानः ।
यज्ञस्य_आयुः प्रतिरन् ।
उपप्रेष्य होतः ।
हव्या देवेभ्यः ।
अनुवाक 6
VERSE: 1 { 3.6.6.1}
दैव्याः शमितार उत मनुष्या आरभध्वम् ।
उपनयत मेध्या दुरः ।
आशासाना मेधपतिभ्यां मेधम् ।
प्रास्मा अग्निं भरत ।
स्तृणीत बर्हिः ।
अन्व् एनं माता मन्यताम् ।
अनु पिता ।
अनु भ्राता सगर्भ्यः ।
अनु सखा सयूथ्यः ।
उदीचीनाꣳ अस्य पदो निधत्तात् ।
VERSE: 2 { 3.6.6.2}
सूर्यं चक्षुर् गमयतात् ।
वातं प्राणम् अन्ववसृजतात् ।
दिशः श्रोत्रम् ।
अन्तरिक्षम् असुम् ।
पृथिवीꣳ शरीरम् ।
एकधा_अस्य त्वचम् आच्छ्यतात् ।
पुरा नाभ्या अपिशसो वपाम् उत्खिदतात् ।
अन्तर् एव_उष्माणं वारयतात् ।
श्येनम् अस्य वक्षः कृणुतात् ।
प्रशसा बाहू ।
VERSE: 3 { 3.6.6.3}
शला दोषणी ।
कश्यपा_इवाꣳसा अच्छिद्रे श्रोणी ।
कवषा_ऊरू स्रेकपर्णा_अष्ठीवन्ता ।
षड्विꣳशतिर् अस्य वङ्क्रयः ।
ता अनुष्ठ्या_उच्च्य्āवयतात् ।
गात्रं_गात्रम् अस्यानूनं कृणुतात् ।
ऊवध्यगूहं {आनंदा. ऊवध्यगोहं} पार्थिवं खनतात् ।
अस्ना रक्षः सꣳसृजतात् ।
वनिष्ट्हुम् अस्य मा राविष्ट ।
VERSE: 4 { 3.6.6.4}
उरूकं मन्यमानाः ।
न_इद् वस् तोके तनये ।
रविता रवत्_शमितारः ।
अध्रिगो शमीध्वम् ।
सुशमि शमीध्वम् ।
शमीध्वम् अध्रिगो ।
अध्रिगुश् चापापश् च ।
उभौ देवानाꣳ शमितारौ ।
ताव् इमं पशुꣳ श्रपयतां प्रविद्वाꣳसौ ।
यथा_यथा_अस्य श्रपणं तथा_तथा ।
अनुवाक 7
VERSE: 1 { 3.6.7.1}
जुषस्व सप्रथस्तमम् ।
वचो देवप्सरस्तमम् ।
हव्या जुह्वान आसनि ।
इमं नो यज्ञम् अमृतेषु धेहि ।
इमा हव्या जातवेदो जुषस्व ।
स्तोकानाम् अग्ने मेदसो घृतस्य ।
होतः प्राशान प्रथमो निषद्य ।
घृतवन्तः पावक ते ।
स्तोकाः { स्तोका} श्चोतन्ति मेदसः ।
स्वधर्मं देववीतये ।
VERSE: 2 { 3.6.7.2}
श्रेष्ठं नो धेहि वार्यम् ।
तुभ्यꣳ स्तोका घृतश्चुतः ।
अग्ने विप्राय सन्त्य ।
ऋषिः श्रेष्ठः समिध्यसे ।
यज्ञस्य प्राविता भव ।
तुभ्यꣳ श्चोतन्त्य् अध्रिगो शचीवः ।
स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुना_आगाः ।
हव्या जुषस्व मेधिर ।
ओजिष्ठं ते मध्यतो मेद उद्भृतम् ।
प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि ।
प्रति तान् देवशो विहि ।
अनुवाक 8
VERSE: 1 { 3.6.8.1}
आ वृत्रहणा वृत्रहभिः शुष्मैः ।
इन्द्र यातं नमोभिर् अग्ने अर्वाक् ।
युवꣳ राधोभिर् अकवेभिर् इन्द्र ।
अग्ने अस्मे भवतम् उत्तमेभिः ।
होता यक्षद् इन्द्राग्नी ।
छागस्य वपाया मेदसः ।
जुषेताꣳ हविः ।
होतर् यज ।
वि ह्य् अख्यन् मनसा वस्य इच्छन् ।
इन्द्राग्नी ज्ञास उत वा सजातान् ।
VERSE: 2 { 3.6.8.2}
नान्या युवत् प्रमतिर् अस्ति मह्यम् ।
स वां धियं वाजयन्तीम् अतक्षम् ।
होता यक्षद् इन्द्राग्नी ।
पुरोडाशस्य जुषेताꣳ हविः ।
होतर् यज ।
त्वाम् ईडते अजिरं दूत्याय ।
हविष्मन्तः सदम् इन् मानुषासः ।
यस्य देवैर् आसदो बर्हिर् अग्ने ।
अहान्य् अस्मै सुदिना भवन्तु ।
होता यक्षद् अग्निम् ।
पुरोडाशस्य जुषताꣳ हविः ।
होतर् यज ।
अनुवाक 9
VERSE: 1 { 3.6.9.1}
गीर्भिर् विप्रः प्रमतिम् इच्छमानः ।
ईट्टे रयिं यशसं पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा ।
प्र णो नव्येभिस् तिरतं देष्णइः ।
मा च्छेद्म रश्मीꣳर् इति नाधमानाः ।
पितृणाꣳ शक्तीर् अनुयच्छमानाः ।
इन्द्राग्निभ्यां कं वृषणो मदन्ति ।
ता ह्य् अद्र्ī धिषणाया उपस्थे ।
अग्निꣳ सुदीतिꣳ सुदृशं गृणन्तः ।
नमस्यामस् त्वा_ī́ड्यं जातवेदः ।
त्वां दूतम् अरतिꣳ हव्यवाहम् ।
देवा अकृण्वन्न् अमृतस्य नाभिम् ।
अनुवाक 10
VERSE: 1 { 3.6.10.1}
त्वꣳ ह्य् अग्ने प्रथमो मनोता ।
अस्या धियो अभवो दस्म होता ।
त्वꣳ सीं वृषन्न् अकृणोर् दुष्टरीतु ।
सहो विश्वस्मै सहसे सहध्यै ।
अधा होता न्यसीदो यजीयान् ।
इडस् पद इषयन्न् ईड्यः सन् ।
तं त्वा नरः प्रथमं देवयन्तः ।
महो राये चितयन्तो अनुग्मन् ।
वृतेव यन्तं बहुभिर् वसव्यइः ।
त्वे रयिं जागृवाꣳसो अनुग्मन् ।
VERSE: 2 { 3.6.10.2}
रुशन्तम् अग्निं दर्शतं बृहन्तम् ।
वपावन्तं विश्वहा दीदिवाꣳसम् ।
पदं देवस्य नमसा वियन्तः ।
श्रवस्यवः श्रव आपन्न् अमृक्तम् ।
नामानि चिद् दधिरे यज्ञियानि ।
भद्रायां ते रणयन्त संदृष्टौ ।
त्वां वर्धन्ति क्षितयः पृथिव्याम् ।
त्वꣳ राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो ऽभूः ।
पिता माता सदम् इन् मानुषाणाम् ।
VERSE: 3 { 3.6.10.3}
स पर्येण्यः {ड्युमोण्ट सपर्येण्यः} स प्रियो विक्ष्व् अग्निः ।
होता मन्द्रो निषसादा यजीयान् ।
तं त्वा वयं दम आ दीदिवाꣳसम् ।
उप ज्ञ्उबाधो नमसा सदेम ।
तं त्वा वयꣳ सुधियो नव्यम् अग्ने ।
सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानः ।
दिवो अग्ने बृहता रोचनेन ।
विशां कविं विश्पतिꣳ शश्वतीनाम् ।
नितोशनं वृषभं चर्षणीनाम् ।
VERSE: 4 { 3.6.10.4}
प्रेतीषणिम् इषयन्तं पावकम् ।
राजन्तम् अग्निं यजतꣳ रयीणाम् ।
सो अग्न ईजे शशमे च मर्तः ।
यस्त आनट् समिधा हव्यदातिम् ।
य आहुतिं परि वेदा नमोभिः ।
विश्वा_इत् स वामा दधते त्वोतः ।
अस्मा उ ते महि महे विधेम ।
नमोभिर् अग्ने समिधा_उत हव्यैः ।
वेदी सूनो सहसो गीर्भिर् उक्थैः ।
आ ते भद्रायाꣳ सुमतौ यतेम ।
VERSE: 5 { 3.6.10.5}
आ यस् ततन्थ रोदसी वि भासा ।
श्रवोभिश् च श्रवस्यस् तरुत्रः ।
बृहद्भिर् वाजैः स्थविरेभिर् अस्मे ।
रेवद्भिर् अग्ने वितरं विभाहि ।
नृवद् वसो सदम् इद् धेह्य् अस्मे ।
भूरि तोकाय तनयाय पश्वः ।
पूर्वीर् इषो बृहतीर् आरे अघाः ।
अस्मे भद्रा सौश्रवसानि सन्तु ।
पुरूण्य् अग्ने पुरुधा त्वाया ।
वसूनि राजन् वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्ति ।
अग्ने वसु विधते राजनि त्वे ।
अनुवाक 11
VERSE: 1 { 3.6.11.1}
आ भरतꣳ शिक्षतं वज्रबाहू ।
अस्माꣳ इन्द्राग्नी अवतꣳ शचीभिः ।
इमे नु ते रश्मयः सूर्यस्य ।
येभिः सपित्वं पितरो न आयन् ।
होता यक्षद् इन्द्राग्नी ।
छागस्य हविष आत्ताम् अद्य ।
मध्यतो मेद उद्भृतम् ।
पुरा द्वेषोभ्यः ।
पुरा पौरुषेय्या गृभः ।
घस्तां नूनम् ।
VERSE: 2 { 3.6.11.2}
घासे_अज्राणां यवसप्रथमानाम् ।
सुमत्क्षराणाꣳ शतरुद्रियाणाम् ।
अग्निष्वात्तानां पीवोपवसनानाम् ।
पार्श्वतः श्रोणितः शितामत उत्सादतः ।
अङ्गाद्_अङ्गाद् अवत्तानाम् ।
करत एव_इन्द्रग्नी ।
जुषेताꣳ हविः ।
होतर् यज ।
देवेभ्यो वनस्पते हवीꣳषि ।
हिरण्यपर्ण प्रदिवस् ते अर्थम् ।
VERSE: 3 { 3.6.11.3}
प्रदक्षिणिद् रशनया नियूय ।
ऋतस्य वक्षि पथिभी रजिष्ट्हैः ।
होता यक्षद् वनस्पतिम्, अभि हि । {ड्युमोण्ट सुग्गेस्त् तो पुत् । बेfओरे अभि}
पिष्टतमया रभिष्ठया रशनया_अधित ।
यत्र_इन्द्राग्नियोश् छागस्य हविषः प्रिया धामानि ।
यत्र वनस्पतेः प्रिया पाथाꣳसि ।
यत्र देवानाम् आज्यपानां प्रिया धामानि ।
यत्राग्नेर् होतुः प्रिया धामानि ।
तत्र_एतं प्रस्तुत्या_इव_उपस्तुत्या_इव_उपावस्रक्षत् ।
रभीयाꣳसम् इव कृत्वी ।
VERSE: 4 { 3.6.11.4}
करद् एवं देवो वनस्पतिः ।
जुषताꣳ हविः ।
होतर् यज ।
पिप्रीहि देवाꣳ उशतो यविष्ठ ।
विद्वाꣳ ऋतूꣳ { ऋतूꣳर्} ऋतुपते यज_इह ।
ये दैव्या ऋत्विजस् तेभिर् अग्ने ।
त्वꣳ होतॄणाम् अस्य् आयजिष्ठाः ।
होता यक्षद् अग्निꣳ स्विष्टकृतम् ।
अयाड् अग्निर् इन्द्राग्नियोश् छागस्य हविषः प्रिया धामानि ।
अयाड् वनस्पतेः प्रिया पाथाꣳसि ।
अयाड् देवानाम् आज्यपानां प्रिया धामानि ।
यक्षद् अग्नेर् होतुः प्रिया धामानि ।
यक्षत् स्वं महिमानम् ।
आयजताम् एज्या इषः ।
कृणोतु सो अध्वरा जातवेदाः ।
जुषताꣳ हविः ।
होतर् यज ।
अनुवाक 12
VERSE: 1 { 3.6.12.1}
उपो ह यद् विदथं वाजिनो गुः ।
गीर्भिर् विप्राः प्रमतिम् इच्छमानाः ।
अर्वन्तो न काष्ठां नक्षमाणाः ।
इन्द्राग्नी जोहुवतो नरस् ते ।
वनसपते रशनया_अभिधाय ।
पिष्टतमया वयुनानि विद्वान् ।
वह देवत्रा दिधिषो हवीꣳषि ।
प्र च दातारम् अमृतेषु वोचः ।
अग्निꣳ स्विष्टकृतम् ।
अयाड् अग्निर् इन्द्राग्नियोश् छागस्य हविषः प्रिया धामानि ।
VERSE: 2 { 3.6.12.2}
अयाड् वनस्पतेः प्रिया पाथाꣳसि ।
अयाड् देवानाम् आज्यपानां प्रिया धामानि ।
यक्षद् अग्नेर् होतुः ।
प्रिया धामानि ।
यक्षत् स्वं महिमानम् ।
आयजताम् एज्या इषः ।
कृणोतु सो अध्वरा जातवेदाः ।
जुषताꣳ हविः ।
अग्ने यद् अद्य विशो अध्वरस्य होतः ।
पावकशोचे वेष् ट्वꣳ हि यज्वा ।
ऋता यजासि महिना वि यद् भूः ।
हव्या वह यविष्ठ या ते अद्य ।
अनुवाक 13
VERSE: 1 { 3.6.13.1}
देवं बर्हिः सुदेवं देवैः स्यात् सुवीरं वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ।
देवीर् द्वारः संघाते विड्वीर् यामन्_शिथिरा ध्रुवा देवहूतौ वत्स ईम् एनास् तरुण आमिमीयात् कुमारो वा नवजातो मा_एना अर्वा रेणुककाटः पृणग्, वसुवने वसुधेयस्य वियन्तु यज ।
देवी उषासा_नक्ता_अद्यास्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनं दैवीर् विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ।
{ 3.6.13.2}
देवी जोष्ट्री वसुधिती ययोर् अन्या_अघा द्वेषाꣳसि युयवद् आ_अन्या वक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज ।
देवी ऊर्जाहुती इषमूर्जम् अन्या_आवक्षत् सग्धिꣳ सपीतिम् अन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज ।
देवा दैव्या होतारा नेष्टारा पोतारा हताघशꣳसाव् आभरद्वसू वसुवने वसुधेयस्य वीतां यज ।
देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्यां भारत्य् आदित्यैर् अस्पृक्षत् सरस्वती_इमꣳ रुद्रैर् यज्ञम् आवीद् इहैव_इडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य वियन्तु यज ।
{ 3.6.13.3}
देवो नराशꣳसस् त्रिशीर्षा षडक्षः शतम् इद् एनꣳ शितिपृष्ठा आदधति सहस्रम् ईं प्रवहन्ति मित्रावरुणा_इद् अस्य होत्रम् अर्हतो बृहस्पतिः स्तोत्रम् अश्विना_आध्वर्यवं वसुवने वसुधेयस्य वेतु यज ।
देवो वनस्पतिर् वर्षप्रावा घृतनिर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीद् वसुवने वसुधेयस्य वेतु यज ।
देवं बर्हिर् वारितीनां निधे धासि {ड्युमोण्ट ऽधायि?} प्रच्युतीनाम् अप्रच्युतं निकामधरणं पुरुस्पार्ह्áं यशस्वद् एना बर्हिषा_अन्या बर्हीꣳष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज ।
देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मा _आयजी होता होतुर्_होतुर् आयजीयान् अग्ने यान् देवान् अयाड् याꣳ अपिप्रेर् ये ते होत्रे अमत्सत ताꣳ ससनुषीꣳ होत्रां देवंगमां दिवि देवेषु यज्ञम् एरय_इमꣳ स्विष्टकृच् चाग्ने होता_अभूर् वसुवने वसुधेयस्य नमोवाके वीहि यज ।
अनुवाक 14
VERSE: 1 { 3.6.14.1}
देवं बर्हिः ।
वसुवने वसुधेयस्य वेतु ।
देवीर् द्वारः ।
वसुवने वसुधेयस्य वियन्तु ।
देवी उषासा_नक्ता ।
वसुवने वसुधेयस्य वीताम् ।
देवी जोष्ट्री ।
वसुवने वसुधेयस्य वीताम् ।
देवी ऊर्जाहुती ।
वसुवने वसुधेयस्य वीताम् ।
VERSE: 2 { 3.6.14.2}
देवा दैव्या होतारा ।
वसुवने वसुधेयस्य वीताम् ।
देवीस् तिस्रस् तिस्रो देवीः ।
वसुवने वसुधेयस्य वियन्तु ।
देवो नराशꣳसः ।
वसुवने वसुधेयस्य वेतु ।
देवो वनस्पतिः ।
वसुवने वसुधेयस्य वेतु ।
देवं बर्हिर् वारितीनाम् ।
वसुवने वसुधेयस्य वेतु ।
VERSE: 3 { 3.6.14.3}
देवो अग्निर् स्विष्टकृत् ।
सुद्रविणा मन्द्रः कविः ।
सत्यमन्मा_आयजी होता ।
होतुर्_होतुर् आयजीयान् ।
अग्ने यान् देवान् अयाट् ।
याꣳ अपिप्रेः ।
ये ते होत्रे अमत्सत ।
ताꣳ ससनुषीꣳ होत्रां देवंगमाम् ।
दिवि देवेषु यज्ञम् एरय_इमम् ।
स्विष्टकृच् चाग्ने होता_अभुः ।
वसुवने वसुधेयस्य नमोवाके वीहि ।
अनुवाक 15
VERSE: 1 { 3.6.15.1}
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्त्ī́ः पचन् पुरोडाशं बध्नन्न् इन्द्राग्निभ्यां छागꣳ, सूपस्था अद्य देवो वनस्पतिर् अभवद् इन्द्राग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रति पचताग्रभीष्टाम् अवीवृधेतां पुरोडाशेन त्वाम् अद्य ऋष आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्य् आयक्ष्यत इति, ता या देवा देवदानान्य् अदुस्तान्य् अस्मा आ च शास्स्व_आ { शास्वा} च गुरस्व_इषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ।
प्रपाठक: 7
अनुवाक 1
VERSE: 1 { 3.7.1.1}
{अ} सर्वान् वा एषो ऽग्नौ कामान् प्रवेशयति ।
यो ऽग्नीन् अन्वाधाय व्रतम् उपैति ।
स यद् अनिष्ट्वा प्रयायात् ।
अकामप्रीता एनं कामा नानु प्रयायुः ।
अतेजा अवीर्यः स्यात् ।
स जुहुयात् ।
तुभ्यं ता {F अङ्गिरस्तम} {आनंदा. अङ्गिरस्तम} {BI अङ्गिरस्तम्} { अङ्गिरस्तम} ।
विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिर इति ।
कामान् एवास्मिन् दधाति ।
VERSE: 2 { 3.7.1.2}
कामप्रीता एनं कामा अनु प्रयान्ति ।
तेजस्वी वीर्यावान् भवति ।
संततिर् वा एषा यज्ञस्य ।
यो ऽग्नीन् अन्वाधाय व्रतम् उपैति ।
स यद् उद्वायति ।
विच्छित्तिर् एवास्य सा ।
तं प्राञ्चम् उद्धृत्य ।
मनसोपतिष्ठेत ।
मनो वै प्रजापतिः ।
प्राजापत्यो यज्ञः ।
VERSE: 3 { 3.7.1.3}
मनसा_एव यज्ञꣳ संतनोति ।
भूर् इत्य् आह ।
भूतो वै प्रजापतिः ।
भूतिम् एव_उपैति ।
वि वा एष इन्द्रियेण वीर्येण_ऋध्यते ।
यस्य_आहिताग्नेर् अग्निर् अपक्षायति ।
यावत्_शम्यया प्रविध्येत् ।
यदि तावद् अपक्षायेत् ।
तꣳ संभरेत् ।
इदं त एकं पर उत एकम् ।
VERSE: 4 { 3.7.1.4}
तृतीयेन ज्योतिषा संविशस्व ।
संवेशनस् तनुवै चारुर् एधि ।
प्रिये देवानां परमे जनित्र इति ।
ब्रह्मणा_एवैनꣳ संभरति ।
सा_एव ततः प्रायश्चित्तिः ।
यदि परस्तराम् अपक्षायेत् ।
अनुप्रयायावस्येत् ।
सो एव ततः प्रायश्चित्तिः ।
ओषधीर् वा एतस्य पशून् पयः प्रविशति ।
यस्य हविषे वत्सा अपाकृता धयन्ति ।
VERSE: 5 { 3.7.1.5}
तान् यद् दुह्यात् ।
यातयाम्ना हविषा यजेत ।
यन् न दुह्यात् ।
यज्ञपरुर् अन्तरियात् ।
वायव्यां यवागुं निर्वपेत् ।
वायुर् वै पयसः प्रदापयिता ।
स एवास्मै पयः प्रदापयति ।
पयो वा ओषधयः ।
पयः पयः ।
पयसा_एवास्मै पयो ऽवरुन्धे ।
VERSE: 6 { 3.7.1.6}
अथ_उत्तरस्मै हविषे वत्सान् अपाकुर्यात् ।
सा_एव ततः प्रायश्चित्तिः ।
अन्यतरान् वा एष देवान् भागधेयेन व्यर्धयति ।
ये यजमानस्य सायं गृहम् आगच्छन्ति ।
यस्य सायंदुग्धꣳ हविर् आर्तिम् आर्च्च्ʰáति ।
इन्द्राय व्रीहीन् निरुप्य_उपवसेत् ।
पयो वा ओषधयः ।
पय एवाऽऽरभ्य गृहीत्वा_उपवसति ।
यत् प्रातः स्यात् ।
तत्_शृतं कुर्यात् ।
VERSE: 7 { 3.7.1.7}
अथ_इतर ऐन्द्रः पुरोडाशः स्यात् ।
इन्द्रिये एवास्मै समीची दधाति ।
पयो वा ओषधयः ।
पयः पयः ।
पयसा_एवास्मै पयो ऽवरुन्धे ।
अथ_उत्तरस्मै हविषे वत्सान् अपाकुर्यात् ।
सा_एव ततः प्रायश्चित्तिः ।
उभयान् वा एष देवान् भागधेयेन व्यर्धयति ।
ये यजमानस्य सायं च प्रातश् च गृहम् आगच्छन्ति ।
यस्य_उभयꣳ हविर् आर्तिम् आर्च्ʰáति ।
VERSE: 8 { 3.7.1.8}
ऐन्द्रं पञ्चशरावम् ओदनं निर्वपेत् ।
अग्निं देवतानां प्रथमं यजेत् ।
अग्निमुखा एव देवताः प्रीणाति ।
अग्निं वा अन्व् अन्या देवताः ।
इन्द्रम् अन्व् अन्याः ।
ता एव_उभयीः प्रीणाति ।
पयो वा ओषधयः ।
पयः पयः ।
पयसा_एवास्मै पयो ऽवरुन्धे ।
अथ_उत्तरस्मै हविषे वत्सान् अपाकुर्यात् ।
VERSE: 9 { 3.7.1.9}
सा_एव ततः प्रायश्चित्तिः ।
अर्धो वा एतस्य यज्ञस्य मीयते ।
यस्य व्रत्ये ऽहन् पत्न्य् अनालम्भुका भवति ।
ताम् अपरुध्य यजेत ।
सर्वेणैव यज्ञेन यजते ।
ताम् इष्ट्वा_उपह्वयेत ।
अमू हम् अस्मि ।
सा त्वम् ।
द्यौर् अहम् ।
पृथिवी त्वम् ।
सामाहम् ।
ऋक् त्वम् ।
ताव् एहि संभवाव ।
सह रेतो दधावहै ।
पुꣳसे पुत्राय वेत्तवै ।
रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय_इति ।
अर्ध एव_एनाम् उपह्वयते ।
सा_एव ततः प्रायश्चित्तिः ।
अनुवाक 2
VERSE: 1 { 3.7.2.1}
यद् विष्षण्ण्एन {ड्युमोण्ट विष्यण्ण्एन} जुहुयात् ।
अप्रजा अपशुर् यजमानः स्यात् ।
यद् अनायतने निनयेत् ।
अनायतनः स्यात् ।
प्राजापत्यया_ऋचा वल्मीकवपायाम् अवनयेत् ।
प्राजापत्यो वै वल्मीकः ।
यज्ञः प्रजापतिः ।
प्रजापताव् एव यज्ञं प्रतिष्ठापयति ।
भूर् इत्य् आह ।
भूतो वै प्रजापतिः ।
VERSE: 2 { 3.7.2.2}
भूतिम् एव_उपैति ।
तत् कृत्वा ।
अन्यां दुग्ध्वा पुनर् होतव्यम् ।
सा_एव ततः प्रायश्चित्तिः ।
यत् कीटाँवपन्नेन जुहुयात् ।
अप्रजा अपशुर् यजमानः स्यात् ।
यद् अनायतने निनयेत् ।
अनायतनः स्यात् ।
मध्यमेन पर्णेन द्यावापृथिव्यया_ऋचा_अन्तःपरिधि निनयेत् ।
द्यावापृथिव्योर् एवैनत् प्रतिष्ठापयति ।
VERSE: 3 { 3.7.2.3}
तत् कृत्वा ।
अन्यां दुग्ध्वा पुनर् होतव्यम् ।
सा_एव ततः प्रायश्चित्तिः ।
यद् अववृष्टेन जुहुयात् ।
अपरूपम् अस्य_आत्मन् जायेत ।
किलासो वा स्याद् अर्शसो वा ।
यत् प्रत्येयात् ।
यज्ञं विच्छिन्द्यात् ।
स जुहुयात् ।
मित्रो जनान् कल्पयति प्रजानन् ।
VERSE: 4 { 3.7.2.4}
मित्रो दाधार पृथिवीम् उत द्याम् ।
मित्रः कृष्टीर् अनिमिषा_अभिचष्टे ।
सत्याय हव्यं घृतवज् जुहोत_इति ।
मित्रेणैवैनत् कल्पयति ।
तत् कृत्वा ।
अन्यां दुग्ध्वा पुनर् होतव्यम् ।
सा_एव ततः प्रायश्चित्तिः ।
यत् पूर्वस्याम् आहुत्याꣳ हुतायाम् उत्तराहुतिः स्कन्देत् ।
द्विपाद्भिः पशुभिर् यजमानो व्यृध्येत ।
यद् उत्तरया_अभिजुहुयात् ।
VERSE: 5 { 3.7.2.5}
चतुष्पाद्भिः पशुभिर् यजमानो व्यृध्येत ।
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
तत्र हव्यानि गामय_इति वानस्पत्यया_ऋचा समिधम् आधाय ।
तूष्णीम् एव पुनर् जुहुयात् ।
वनस्पतिना_एव यज्ञस्य_आर्तां चानार्तां च_आहुती विदाधार ।
तत् कृत्वा ।
अन्यां दुग्ध्वा पुनर् होतव्यम् ।
सा_एव ततः प्रायश्चित्तिः ।
यत् पुरा प्रयाजेभ्यः प्राङ् अङ्गारः स्कन्देत् ।
अध्वर्यवे च यजमानाय चाकꣳ स्यात् ।
VERSE: 6 { 3.7.2.6}
यद् दक्षिणा ।
ब्रह्मणे च यजमानाय चाकꣳ स्यात् ।
यत् प्रत्यक् ।
होत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् ।
यद् उदङ् ।
अग्नीधे च पशुभ्यश् च यजमानाय चाकꣳ स्यात् ।
यद् अभि जुहुयात् ।
रुद्रो ऽस्य पशून् घातुकः स्यात् ।
यन् न_अभिजुहुयात् ।
अशान्तः प्रह्रियेत ।
VERSE: 7 { 3.7.2.7}
स्रुवस्य बुध्नेनाभिनिदध्यात् ।
मा तमो मा यज्ञस्तमन् मा यजमानस् तमत् ।
नमस् ते अस्त्व् आयते ।
नमो रुद्र परायते ।
नमो यत्र निषीदसि ।
अमुं मा हिꣳसीर् अमुं मा हिꣳसीर् इति येन स्कन्देत् ।
तं प्रहरेत् ।
सहस्रशृङ्गो वृषभो जातवेदाः ।
स्तोमपृष्ठो घृतवान्त् सुप्रतीकः ।
मा नो हासीन् मेत्थितो न_इत् त्वा जहाम ।
गोपोषं नो वीरपोषं च यच्छ_इति ।
ब्रह्मणा_एवैनं प्रहरति ।
सा_एव ततः प्रायश्चित्तिः ।
अनुवाक 3
VERSE: 1 { 3.7.3.1}
वि वा एष इन्द्रियेण वीर्येण_ऋध्यते ।
यस्य_आहिताग्नेर् अग्निर् मथ्यमानो न जायते ।
यत्रान्यं पश्येत् ।
तत आहृत्य होतव्यम् ।
अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति ।
यद्य् अन्यं न विन्देत् ।
अजायाꣳ होतव्यम् ।
आग्नेयी वा एषा ।
यद् अजा ।
अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति ।
VERSE: 2 { 3.7.3.2}
अजस्य तु नाश्नीयात् ।
यद् अजस्याश्नीयात् ।
याम् एवाग्नाव् आहुतिं जुहुयात् ।
ताम् अद्यात् ।
तस्माद् अजस्य न_आश्यम् ।
यद्य् अजां न विन्देत् ।
ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् ।
एष वा अग्निर् वैश्वानरः ।
यद् ब्राह्मणः ।
अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति ।
VERSE: 3 { 3.7.3.3}
ब्राह्मणं तु वसत्यै नापरुन्ध्यात् ।
यद् ब्राह्मणं वसत्या अपरुन्ध्यात् ।
यस्मिन्न् एवाग्नाव् आहुतिं जुहुयात् ।
तं भागधेयेन व्यर्धयेत् ।
तस्माद् ब्राह्मणो वसत्यै नापरुध्यः ।
यदि ब्राह्मणं न विन्देत् ।
दर्भस्तम्बे होतव्यम् ।
अग्निवान् वै दर्भस्तम्बः ।
अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति ।
दर्भाꣳस् तु नाध्यासीत ।
VERSE: 4 { 3.7.3.4}
यद् दर्भान् अध्यासीत ।
याम् एवाग्नाव् आहुतिं जुहुयात् ।
ताम् अध्यासीत ।
तस्माद् दर्भा नाध्यासितव्याः ।
यदि दर्भान् न विन्देत् ।
अप्सु होतव्यम् ।
आपो वै सर्वा देवताः ।
देवतास्व् एवास्याग्निहोत्रꣳ हुतं भवति ।
आपस् तु न परिचक्षीत ।
यद् आपः परिचक्षीत ।
VERSE: 5 { 3.7.3.5}
याम् एवाप्स्व् आहुतिं जुहुयात् ।
तां परिचक्षीत ।
तस्माद् आपो न परिचक्ष्याः ।
मेध्या च वा एतस्यामेध्या च तनुवौ सꣳसृज्येते ।
यस्य_आहिताग्नेर् अन्यैर् अग्निभिर् अग्नयः सꣳसृज्यन्ते ।
अग्नये विविचये पुरोडाशम् अष्टाकपालं निर्वपेत् ।
मेध्यां चैवास्यामेध्यां च तनुवौ व्यावर्तयति ।
अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर्वपेत् ।
अग्निम् एव व्रतपतिꣳ स्वेन भागधेयेन_उपधावति ।
स एवैनं व्रतम् आलम्भयति ।
VERSE: 6 { 3.7.3.6}
गर्भꣳ स्रवन्तम् अगदम् अकः ।
अग्निर् इन्द्रस् त्वष्टा बृहस्पतिः ।
पृथिव्याम् अवचुश्चोत_एतत् ।
नाभि प्राप्नोति निर्ऋतिं पराचैः ।
रेतो वा एतद् वाजिनम् आहिताग्नेः ।
यद् अग्निहोत्रम् ।
तद् यत् स्रवेत् ।
रेतो ऽस्य वाजिनꣳ स्रवेत् ।
गर्भꣳ स्रवन्तम् अगदम् अकर् इत्य् आह ।
रेत एवास्मिन् वाजिनं दधाति ।
VERSE: 7 { 3.7.3.7}
अग्निर् इत्य् आह ।
अग्निर् वै रेतोधाः ।
रेत एव तद् दधाति ।
इन्द्र इत्य् आह ।
इन्द्रियम् एवास्मिन् दधाति ।
त्वष्टा_इत्य् आह ।
त्वष्टा वै पशूनाम् मिथुनानाꣳ रूपकृत् ।
रूपम् एव पशुषु दधाति ।
बृहस्पतिर् इत्य् आह ।
ब्रह्म वै देवानां बृहस्पतिः ।
ब्रह्मणा_एवास्मै प्रजाः प्रजनयति ।
पृथिव्याम् अवचुश्चोत_एतद् इत्य् आह ।
अस्याम् एव_एनत् प्रतिष्ठापयति
नाभि प्राप्नोति निर्ऋतिं पराचैर् इत्य् आह ।
रक्षसाम् अपहत्यै ।
अनुवाक 4
VERSE: 1 { 3.7.4.1}
याः पुरस्तात् प्रस्रवन्ति ।
उपरिष्टात् सर्वतश् च याः ।
ताभी रश्मिपवित्राभिः ।
श्रद्धां यज्ञम् आरभे ।
देवा गातुविदः ।
गातुं यज्ञाय विन्दत ।
मनसस् पतिना देवेन ।
वाताद् यज्ञः प्रयुज्यताम् ।
तृतीयस्यै दिवः ।
गायत्रिया सोम आभृतः ।
VERSE: 2 { 3.7.4.2}
सोमपीथाय संनयितुम् ।
वकलम् अन्तरम् आददे ।
आपो देवीः शुद्धाः स्थ ।
इमा पात्राणि शुन्धत ।
उपातङ्क्य्ā̀य देवानाम् ।
पर्णवल्कम् उत शुन्धत ।
पयो गृहेषु पयो अघ्नियासु ।
पयो वत्सेषु पय इन्द्राय हविषे ध्रियस्व ।
गायत्री पर्णवल्केन ।
पयः सोमं करोत्व् इमम् ।
VERSE: 3 { 3.7.4.3}
अग्निं गृह्णामि सुरथं यो मयोभूः ।
य उद्यन्तम् आरोहति सूर्यम् अह्ने ।
आदित्यं ज्योतिषां ज्योतिर् उत्तमम् ।
श्वो यज्ञाय रमतां देवताभ्यः ।
वसून् रुद्रान् आदित्यान् ।
इन्द्रेण सह देवताः ।
ताः पूर्वः परिगृह्णामि ।
स्व आयतने मनीषया ।
इमामूर्जं पञ्चदशीं ये प्रविष्टाः ।
तान् देवान् परिगृह्णामि पूर्वाः ।
VERSE: 4 { 3.7.4.4}
अग्निर् हव्यवाड् इह तान् आवहतु ।
पौर्णमासꣳ हविर् इदम् एषां मयि ।
आमावास्यꣳ हविर् इदम् एषां मयि ।
अन्तरा_अग्नी पशवः ।
देवसꣳसदम् आगमन् ।
तान् पूर्वः परिगृह्णामि ।
स्व आयतने मनीषया ।
इह प्रजा विश्वरूपा रमन्ताम् ।
अग्निं गृहपतिम् अभि संवसानाः ।
ताः पूर्वः परिगृह्णामि ।
VERSE: 5 { 3.7.4.5}
स्व आयतने मनीषया ।
इह पशवो विश्वरूपा रमन्ताम् ।
अग्निं गृहपतिम् अभि संवसानाः ।
तान् पूर्वः परिगृह्णामि ।
स्व आयतने मनीषया ।
अयं पितृणाम् अग्निः ।
अवाड् ढव्या पितृभ्य आ ।
तं पूर्वः परिगृह्णामि ।
अविषं नः पितुं करत् ।
अजस्रं त्वाꣳ सभापालाः ।
VERSE: 6 { 3.7.4.6}
विजयभागꣳ समिन्धताम् ।
अग्ने दीदाय मे सभ्य ।
विजित्यै शरदः शतम् ।
अन्नम् आवसथीयम् ।
अभिहराणि शरदः शतम् ।
आवसथे श्रियं मन्त्रम् ।
अहिर् बुध्नियो नियच्छतु ।
इदम् अहम् अग्निज्येष्ठेभ्यः ।
वसुभ्यो यज्ञं प्रब्रवीमि ।
इदम् अहम् इन्द्रज्येष्ठेभ्यः ।
VERSE: 7 { 3.7.4.7}
रुद्रेभ्यो यज्ञं प्रब्रवीमि ।
इदम् अहं वरुणज्येष्ठेभ्यः ।
आदित्येभ्यो यज्ञं प्रब्रवीमि ।
पयस्वतीर् ओषधयः ।
पयस्वद् वीरुधां पयः ।
अपां पयसो यत् पयः ।
तेन माम् इन्द्र सꣳसृज ।
अग्ने व्रतपते व्रतं चरिष्यामि ।
तत्_शकेयं तन् मे राध्यताम् ।
वायो व्रतपत आदित्य व्रतपते ।
VERSE: 8 { 3.7.4.8}
व्रतानां व्रतपते व्रतं चरिष्यामि ।
तत्_शकेयं तन् मे राध्यताम् ।
इमां प्राचीम् उदीचीम् ।
इषमूर्जम् अभि सꣳस्कृताम् ।
बहुपर्णाम् अशुष्काग्राम् ।
हरामि पशुपाम् अहम् ।
यत् कृष्णो रूपं कृत्वा ।
प्राविशस् त्वं वनस्पतीन् ।
ततस् त्वाम् एकविꣳशतिधा ।
संभरामि सुसंभृता ।
VERSE: 9 { 3.7.4.9}
त्रीन् परिधीꣳस् तिस्रः समिधः ।
यज्ञायुर् अनुसंचरान् ।
उपवेषं मेक्षणं धृष्टिम् ।
संभरामि सुसंभृता ।
या जाता ओषधयः ।
देवेभ्यस् त्रियुगं पुरा ।
तासां पर्व राध्यासम् ।
परिस्तरम् आहरन् ।
अपां मेध्यं यज्ञियम् ।
सदेवꣳ शिवम् अस्तु मे ।
VERSE: 10 { 3.7.4.10}
आच्छेत्ता वो मा रिषम् ।
जीवानि शरदः शतम् ।
अपरिमितानां परिमिताः ।
संनह्ये सुकृताय कम् ।
एनो मा निगां कतमच् चन_अहम् ।
पुनर् उत्थाय बहुला भवन्तु ।
सकृदाच्छिन्नं बर्हिर् ऊर्णामृदु ।
स्योनं पितृभ्यस् त्वा भराम्य् अहम् ।
अस्मिन्त् सीदन्तु मे पितरः सोम्याः ।
पितामहाः प्रपितामहाश् चानुगैः सह ।
VERSE: 11 { 3.7.4.11}
त्रिवृत् पलाशे दर्भः ।
इयान् प्रादेशसंमितः ।
यज्ञे पवित्रं पोतृतमम् ।
पयो हव्यं करोतु मे ।
{F इमौ} {आनंदा. इमौ} {BI इमा} { इमौ} प्राणापानौ ।
यज्ञस्याङ्गानि सर्वशः ।
आप्याययन्तौ संचरताम् ।
पवित्रे हव्यशोधने ।
पवित्रे स्थो वैष्णवी ।
वायुर् वां मनसा पुनातु ।
VERSE: 12 { 3.7.4.12}
अयं प्राणश् चापानश् च ।
यजमानम् अपिगच्छताम् ।
यज्ञे ह्य् अभूतां पोतारौ ।
पवित्रे हव्यशोधने ।
त्वया वेदिं विविदुः पृथिवीम् ।
त्वया यज्ञो जायते विश्वदानिः ।
अच्छिद्रं यज्ञम् अन्वेषि विद्वान् ।
त्वया होता संतनोत्य् अर्धमसान् ।
त्रयस्त्रिꣳशो ऽसि तन्तूनाम् ।
पवित्रेण सह_आगहि ।
VERSE: 13 { 3.7.4.13}
शिवे ऽयꣳ रज्जुर् अभिधानी ।
अघ्नियाम् उपसेवताम् ।
अप्रस्रꣳसाय यज्ञस्य ।
उखे उपदधाम्य् अहम् ।
पशुभिः संनीतं बिभृताम् ।
इन्द्राय शृतं दधि ।
उपवेषो ऽसि यज्ञाय ।
त्वां परिवेषम् अधारयन् ।
इन्द्राय हविः कृण्वन्तः ।
शिवः शग्मो भवासि नः ।
VERSE: 14 { 3.7.4.14}
अमृन्मयं देवपात्रम् ।
यज्ञस्य_आयुषि प्रयुज्यताम् ।
तिरःपवित्रम् अतिनीताः ।
आपो धारय मा_अतिगुः ।
देवेन सवित्रा_उत्पूताः ।
वसोः सूर्यस्य रश्मिभिः ।
गां दोहपवित्रे रज्जुम् ।
सर्वा पात्राणि शुन्धत ।
एता आचरन्ति मधुमद् दुहानाः ।
प्रजावतीर् यशसो विश्वरूपाः ।
VERSE: 15 { 3.7.4.15}
बह्वीर् भवन्तीर् उप जायमानाः ।
इह व इन्द्रो रमयतु गावः ।
पूषा स्थ ।
अयक्ष्मा वः प्रजया सꣳसृजामि ।
रायस् पोषेण बहुला भवन्तीः ।
ऊर्जं पयः पिन्वमाना घृतं च ।
जीवो जीवन्तीर् उप वः सदेयम् ।
द्यौश् च_इमं यज्ञं पृथिवी च संदुहाताम् ।
धाता सोमेन सह वातेन वायुः ।
यजमानाय द्रविणं दधातु ।
VERSE: 16 { 3.7.4.16}
उत्सं दुहन्ति कलशं चतुर्बिलम् ।
इडां देवीं मधुमतीꣳ सुवर्विदम् ।
तद् इन्द्राग्नी जिन्वतꣳ {ड्युमोण्ट जिन्वताꣳ} सूनृतावत् ।
तद् यजमानम् अमृतत्वे दधातु ।
काम् अधुक्षः प्र णो ब्रूहि ।
इन्द्राय हविर् इन्द्रियम् ।
अमूं यस्यां देवानाम् ।
मनुष्याणां पयो हितम् ।
बहु दुग्धीन्द्राय देवेभ्यः ।
हव्यम् आप्यायतां पुनः ।
VERSE: 17 { 3.7.4.17}
वत्सेभ्यो मनुष्येभ्यः ।
पुनर्दोहाय कल्पताम् ।
यज्ञस्य संततिर् असि ।
यज्ञस्य त्वा संततिम् अनु संतनोमि ।
अदस्तम् असि विष्णवे त्वा ।
यज्ञायापिदधाम्य् अहम् ।
अद्भिर् अरिक्तेन पात्रेण ।
याः पूताः परिशेरते ।
अयं पयः सोमं कृत्वा ।
स्वां योनिम् अपिगच्छतु ।
VERSE: 18 { 3.7.4.18}
पर्णवल्कः पवित्रम् ।
सौम्यः सोमाद् धि निर्मितः ।
इमौ पर्णं च दर्भं च ।
देवानाꣳ हव्यशोधनौ ।
प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि ।
उभाव् अग्नी उपस्तृणते ।
देवता उपवसन्तु मे ।
अहं ग्राम्यान् उपवसामि ।
मह्यं गोपतये पशून् ।
अनुवाक 5
VERSE: 1 { 3.7.5.1}
देवा देवेषु पराक्रमध्वम् ।
प्रथमा द्वितीयेषु ।
द्वितीयास् तृतीयेषु ।
त्रिरेकादशा इह मा_अवत ।
इदꣳ शकेयं यद् इदं करोमि ।
आत्मा करोत्व् आत्मने ।
इदं करिष्ये भेषजम् ।
इदं मे विश्वभेषजा ।
अश्विना प्रावतं युवम् ।
इदम् अहꣳ सेनाया अभीत्वर्यै ।
VERSE: 2 { 3.7.5.2}
मुखम् अपोहामि ।
सूर्यज्योतिर् विभाहि ।
महत इन्द्रियाय ।
आप्यायतां घृतयोनिः ।
अग्निर् हव्या_अनुमन्यताम् ।
खम् अङ्क्ष्व त्वचम् अङ्क्ष्व ।
सुरूपं त्वा वसुविदम् ।
पशूनां तेजसा ।
अग्नये जुष्टम् अभिघारयामि ।
स्योनं ते सदनं करोमि ।
VERSE: 3 { 3.7.5.3}
घृतस्य धारया सुशेवं कल्पयामि ।
तस्मिन्त् सीदामृते प्रतितिष्ठ ।
व्रीहीणां मेध सुमनस्यमानः ।
आर्द्रः प्रथस्नुर् भुवनस्य गोपाः ।
शृत उत्स्नाति जनिता मतीनाम् ।
यस् त आत्मा पशुषु प्रविष्टः ।
देवानां विष्ठाम् अनु यो वितस्थे ।
आत्मन्वान्त् सोम घृतवान् हि भूत्वा ।
देवान् गच्छ सुवर् विद { विन्द} यजमानाय मह्यम् ।
इरा भूतिः पृथिव्यै रसो मा_उत्क्रमीत् ।
VERSE: 4 { 3.7.5.4}
देवाः पितरः पितरो देवाः ।
यो ऽहम् अस्मि {,आनंदा. अस्मि} स सन् यजे ।
यस्यास्मि न तम् अन्तर् एमि ।
स्वं म इष्टꣳ स्वं दत्तम् ।
स्वं पूर्तꣳ स्वꣳ श्रान्तम् ।
स्वꣳ हुतम् ।
तस्य मे ऽग्निर् उपद्रष्टा ।
वायुर् उपश्रोता ।
आदित्यो ऽनुख्याता ।
द्यौः पिता ।
VERSE: 5 { 3.7.5.5}
पृथिवी माता ।
प्रजापतिर् बन्धुः ।
य एवास्मि स सन् यजे ।
मा भेर् {,आनंदा. भेर्} मा संविक्था मा त्वा हिꣳसिषम् ।
मा ते तेजो ऽपक्रमीत् ।
भरतम् उद्धर_इम् अनुसिञ्च { उद्धरे मनुषिंच} ।
अवदानानि ते प्रत्यवदास्यामि ।
नमस् ते अस्तु मा मा हिꣳसीः ।
यद् अवदानानि ते ऽवद्यन् ।
विलोमाकार्षम् आत्मनः ।
VERSE: 6 { 3.7.5.6}
आज्येन प्रत्यनज्म्य् एनत् ।
तत् त आप्यायतां पुनः ।
अज्यायो यवमात्रात् ।
आव्याधात् कृत्यताम् इदम् ।
मा रूरुपाम यज्ञस्य ।
शुद्धꣳ स्विष्टम् इदꣳ हविः ।
मनुना दृष्टां घृतपदीम् ।
मित्रावरुणसमीरिताम् ।
दक्षिणार्धाद् असंभिन्दन् ।
अवद्याम्य् एकतोमुखाम् ।
VERSE: 7 { 3.7.5.7}
इडे भागं जुषस्व नः ।
जिन्व गा जिन्वार्वतः ।
तस्यास् ते भक्षिवाणः स्याम ।
सर्वात्मानः सर्वगणाः ।
ब्रध्न पिन्वस्व ।
ददतो मे मा क्षायि ।
कुर्वतो मे मा_उपदसत् ।
दिशां क्लृप्तिर् असि ।
दिशो मे कल्पन्ताम् ।
कल्पन्तां मे दिशः ।
VERSE: 8 { 3.7.5.8}
दैवीश् च मानुषीश् च ।
अहोरात्रे मे कल्पेताम् ।
अर्धमासा मे कल्पन्ताम् ।
मासा मे कल्पन्ताम् ।
ऋतवो मे कल्पन्ताम् ।
संवत्सरो मे कल्पताम् ।
क्लृप्तिर् असि कल्पतां मे ।
आशानां त्वा_आशापालेभ्यः ।
चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्याध्यक्षेभ्यः ।
VERSE: 9 { 3.7.5.9}
विधेम हविषा वयम् ।
भजतां भागी भागम् ।
मा_अभागो भक्त { ऽभक्त) ।
निर् अभागं भजामः ।
अपस् पिन्व ।
ओषधीर् जिन्व ।
द्विपात् पाहि ।
चतुष्पाद् अव ।
दिवो वृष्टिम् एरय ।
ब्राह्मणानाम् इदꣳ हविः ।
VERSE: 10 { 3.7.5.10}
सोम्यानाꣳ सोमपीथिनाम् ।
निर्भक्तो ऽब्राह्मणः ।
न_इहाब्राह्मणस्यास्ति ।
समङ्क्तां बर्हिर् हविषा घृतेन ।
सम् आदित्यैर् वसुभिः सं मरुद्भिः ।
सम् इन्द्रेण विश्वेभिर् देवेभिर् अङ्क्ताम् ।
दिव्यं नभो गच्छतु यत् स्वाहा ।
इन्द्राणीवाविधवा भूयासम् ।
अदितिर् इव सुपुत्रा ।
अस्थूरि त्वा गार्हपत्य ।
VERSE: 11 { 3.7.5.11}
उप निषदे सुप्रजास्त्वाय ।
सं पत्नी पत्या सुकृतेन गच्छताम् ।
यज्ञस्य युक्तौ धुर्याव् अभूताम् ।
संजानानौ विजहताम् अरातीः ।
दिवि ज्योतिर् अजरम् आरभेताम् ।
दश ते तनुवो यज्ञ यज्ञियाः ।
ताः प्रीणातु यजमानो घृतेन ।
नारिष्ठयोः प्रशिषम् ईडमानः ।
देवानां दैव्ये ऽपि यजमानो ऽमृतो ऽभूत् ।
यं वां देवा अकल्पयन् ।
VERSE: 12 { 3.7.5.12}
ऊर्जो भागꣳ शतक्रतू ।
एतद् वां तेन प्रीणानि ।
तेन तृप्यतम् अꣳहहौ {ड्युमोण्ट अꣳहोहौ} ।
अहं देवानाꣳ सुकृताम् अस्मि लोके ।
मम_इदम् इष्टं न मिथुर् भवाति ।
अहं नारिष्ठाव् अनुयजामि विद्वान् ।
यद् आभ्याम् इन्द्रो अदधाद् भागधेयम् ।
अदारसृद् भवत {ड्युमोण्ट भवतु} देव सोम ।
अस्मिन् यज्ञे मरुतो मृडता नः ।
मा नो विदद् अभि भामो अशस्तिः ।
VERSE: 13 { 3.7.5.13}
मा नो विदद् वृजना द्वेष्या या ।
ऋषभं वाजिनं वयम् ।
पूर्णमासं यजामहे ।
स नो दोहताꣳ सुवीर्यम् ।
रायस् पोषꣳ सहस्रिणम् ।
प्राणाय सुराधसे ।
पूर्णमासाय स्वाहा ।
अमावास्या सुभगा सुशेवा ।
धेनुर् इव भूय आप्यायमाना ।
सा नो दोहताꣳ सुवीर्यम् ।
रायस् पोषꣳ सहस्रिणम् ।
अपानाय सुराधसे ।
अमावास्यायै स्वाहा ।
अभिस्तृणीहि परिधेहि वेदिम् ।
जामिं मा हिꣳसीर् अमुया शयाना ।
होतृषदना हरिताः सुवर्णाः ।
निष्का इमे यजमानस्य ब्रध्ने ।
अनुवाक 6
VERSE: 1 { 3.7.6.1}
परिस्तृणीत परिधत्ताग्निम् ।
परिहितो ऽग्निर्यजमानं भुनक्तु ।
अपाꣳ रस ओषधीनाꣳ सुवर्णः ।
निष्का इमे यजमानस्य सन्तु कामदुघाः ।
अमुत्रामुष्मिन्_लोके ।
भूपते भुवनपते ।
महतो भूतस्य पते ।
ब्रह्माणं त्वा वृणीमहे ।
अहं भूपतिर् अहं भुवनपतिः ।
अहं महतो भूतस्य पतिः ।
VERSE: 2 { 3.7.6.2}
देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि ।
देव सवितर् एतं त्वा वृणते ।
बृहस्पतिं दैव्यं ब्रह्माणम् ।
तद् अहं मनसे प्रब्रवीमि ।
मनो गायत्रियै ।
गायत्री त्रिष्टुभे ।
त्रिष्टुब् जगत्यै ।
जगत्य् अनुष्टुभे ।
अनुष्टुक् पङ्क्त्यै ।
पङ्क्तिः प्रजापतये ।
VERSE: 3 { 3.7.6.3}
प्रजापतिर् विश्वेभ्यो देवेभ्यः ।
विश्वे देवा बृहस्पतये ।
बृहस्पतिर् ब्रह्मणे ।
ब्रह्म भूर् भुवः सुवह् ।
बृहस्पतिर् देवानां ब्रह्मा ।
अहं मनुष्याणाम् ।
बृहस्पते यज्ञं गोपाय ।
इदं तस्मै हर्म्यं करोमि ।
यो वो देवाश् चरति ब्रह्मचर्यम् ।
मेधावी दिक्षु मनसा तपस्वी ।
VERSE: 4 { 3.7.6.4}
अन्तर् दूतश् चरति मानुषीषु ।
चतुःशिखण्डा युवतिः सुपेशाः ।
घृतप्रतीका भुवनस्य मध्ये ।
मर्मृज्यमाना महते सौभगाय ।
मह्यं धुक्ष्व यजमानाय कामान् ।
भूमिर् भूत्वा महिमानं पुपोष ।
ततो देवी वर्धयते पयाꣳसि ।
यज्ञिया यज्ञं वि च यन्ति सꣳ च ।
ओषधीर् आप इह शक्वरीश् च ।
यो मा हृदा मनसा यश् च वाचा ।
VERSE: 5 { 3.7.6.5}
यो ब्रह्मणा कर्मणा द्वेष्ति देवाः ।
यः श्रुतेन हृदयेन_इष्णता च ।
तस्य_इन्द्र वज्रेण शिरश् च्छिनद्मि ।
ऊर्णामृदु प्रथमानꣳ स्योनम् ।
देवेभ्यो जुष्टꣳ सदनाय बर्हिः ।
सुवर्गे लोके यजमानꣳ हि धेहि ।
मां नाकस्य पृष्ठे परमे व्योमन् ।
चतुःशिखण्डा युवतिः सुपेशाः ।
घृतप्रतीका वयुनानि वस्ते ।
सा स्तीर्यमाणा महते सौभगाय ।
VERSE: 6 { 3.7.6.6}
सा मे धुक्ष्व यजमानाय कामान् ।
शिवा च मे शग्मा चैधि ।
स्योना च मे सुषदा चैधि ।
ऊर्जस्वती च मे पयस्वती चैधि ।
इषमूर्जं मे पिन्वस्व ।
ब्रह्म तेजो मे पिन्वस्व ।
क्षत्रम् ओजो मे पिन्वस्व ।
विशं पुष्टिं मे पिन्वस्व ।
आयुर् अन्नाद्यं मे पिन्वस्व ।
प्रजां पशून् मे पिन्वस्व ।
VERSE: 7 { 3.7.6.7}
अस्मिन् यज्ञ उप भूय इन् नु मे ।
अविक्षोभाय परिधीन् दधामि ।
धर्ता धरुणो धरीयान् ।
अग्निर् द्वेषाꣳसि निर् इतो नुदातै ।
विच्छिनद्मि विधृतीभ्याꣳ सपत्नान् ।
जातान् भ्रातृब्यान् ये च जनिष्यमानाः ।
विशो यन्त्राभ्यां विधमाम्य् एनान् ।
अहꣳ स्वानाम् उत्तमो ऽसानि देवाः ।
विशो यन्त्रे नुदमाने अरातिम् ।
विश्वं पाप्मानम् अमतिं दुर्मरायुम् ।
VERSE: 8 { 3.7.6.8}
सीदन्ती देवी सुकृतस्य लोके ।
धृती स्थो विधृती स्वधृती ।
प्राणान् मयि धारयतम् ।
प्रजां मयि धारयतम् ।
पशून् मयि धारयतम् ।
अयं प्रस्तर उभयस्य धर्ता ।
धर्ता प्रयाजानाम् उतानूयाजानाम् ।
स दाधार समिधो विश्वरूपाः ।
तस्मिन्त् स्रुचो अध्य् आसादयामि ।
आरोह पथो जुहु देवयानान् ।
VERSE: 9 { 3.7.6.9}
यत्र_ऋषयः प्रथमजा ये पुराणाः ।
हिरण्यपक्षा_आजिरा सम्भृताङ्गा ।
वहासि मा सुकृतां यत्र लोकाः ।
अवाहं बाध उपभृता सपत्नान् ।
जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।
दोहं { दोहै} यज्ञꣳ सुदुघाम् इव धेनुम् ।
अहम् उत्तरो भूयासम् ।
अधरे मत् सपत्नाः ।
यो मा वाचा मनसा दुर्मरायुः ।
हृदा_अरातीयाद् अभिदासद् अग्ने ।
VERSE: 10 { 3.7.6.10}
इदम् अस्य चित्तम् अधरं ध्रुवायाः ।
अहम् उत्तरो भूयासम् ।
अधरे मत् सपत्नाः ।
ऋषभो ऽसि शाक्वरः ।
घृताचीनाꣳ सूनुः ।
प्रियेण नाम्ना प्रिये सदसि सीद ।
स्योनो मे सीद सुषदः पृथिव्याम् ।
प्रथयि प्रजया पशुभिः सुवर्गे लोके ।
दिवि सीद पृथिव्याम् अन्तरिक्षे ।
अहम् उत्तरो भूयासम् ।
VERSE: 11 { 3.7.6.11}
अधरे मत् सपत्नाः ।
इयꣳ स्थाली घृतस्य पूर्णा ।
अच्छिन्नपयाः शतधार उत्सः ।
मारुतेन शर्मणा दैव्येन ।
यज्ञो ऽसि सर्वतः श्रितः ।
सर्वतो मां भूतं भवैष्यत्_श्रयताम् ।
शतं मे सन्त्व् आशिषः ।
सहस्रं मे सन्तु सूनृताः ।
इरावतीः पशुमतीः ।
प्रजापतिर् असि सर्वतः श्रितः ।
VERSE: 12 { 3.7.6.12}
सर्वतो मां भूतं भविष्यत्_श्रयताम् ।
शतं मे सन्त्व् आशिषः ।
सहस्रं मे सन्तु सूनृताः ।
इरावतीः पशुमतीः ।
इदम् इन्द्रियम् अमृतं वीर्यम् ।
अनेन_इन्द्राय पशवो ऽचिकित्सन् ।
तेन देवा अवतो ऽप { अवतोप} माम् ।
इह_इषमूर्जं यशः सह ओजः सनेयम् ।
शृतं मयि श्रयताम् ।
यत् पृथिवीम् अचरत् तत् प्रविष्टम् ।
VERSE: 13 { 3.7.6.13}
येनासिञ्चद् बलम् इन्द्रे प्रजापतिः ।
इदं तत्_शुक्रं मधु वाजिनीवत् ।
येन_उपरिष्टाद् अधिनोन् महेन्द्रम् ।
दधि मां धिनोतु ।
अयं वेदः पृथिवीम् अन्वविन्दत् ।
गुहा सतीं गहने गह्वरेषु ।
स विन्दतु यजमानाय लोकम् ।
अच्छिद्रं यज्ञं भूरिकर्मा करोतु ।
अयं यज्ञः समसदद् धविष्मान् ।
ऋचा साम्ना यजुषा देवताभिः ।
VERSE: 14 { 3.7.6.14}
तेन लोकान्त् सूर्यवतो जयेम ।
इन्द्रस्य सख्यम् अमृतत्वम् अश्याम् ।
यो नः कनीय इह कामयातै ।
अस्मिन् यज्ञे यजमानाय मह्यम् ।
अप तम् इन्द्राग्नी भुवनान् नुदेताम् ।
अहं प्रजां वीरवतीं विदेय ।
अग्ने वाजजित् ।
वाजं त्वा सरिष्यन्तं ।
वाजं जेष्यन्तम् ।
वाजिनं वाजजितम् ।
VERSE: 15 { 3.7.6.15}
वाजजित्यायै संमार्ज्मि ।
अग्निमन्नादम् अन्नाद्याय ।
उपहूतो द्यौः पिता ।
उप मां द्यौः पिता ह्वयताम् ।
अग्निर् आग्नीध्रात् ।
आयुषे वर्चसे जीवात्वै पुण्याय ।
उपहूता पृथिवी माता ।
उप मां माता पृथिवी ह्वयताम् ।
अग्निर् आग्नीध्रात् ।
VERSE: 16 { 3.7.6.16}
आयुषे वर्चसे ।
जीवात्वै पुण्याय ।
मनो ज्योतिर् जुषताम् आज्यम् ।
विच्छिन्नं यज्ञꣳ सम् इमं दधातु ।
बृहस्पतिस् तनुताम् इमं नः ।
विश्वे देवा इह मादयन्ताम् ।
यं ते अग्न आवृश्चामि ।
अहं वा क्षिपितश् चरन् ।
प्रजां च तस्य मूलं च ।
नीचैर् देवा निवृश्चत ।
VERSE: 17 { 3.7.6.17}
अग्ने यो नो ऽभिदासति ।
समानो यश् च निष्ट्यः ।
इध्मस्य_इव प्रक्षायतः ।
मा तस्य_उच्छेषि किंचन ।
यो मां द्वेष्टि जातवेदः ।
यं चाहं द्वेष्मि यश् च माम् ।
सर्वाꣳस् तान् अग्ने संदह ।
याꣳश् चाहं द्वेष्मि ये च माम् ।
अग्ने वाजजित् ।
वाजं त्वा ससृवाꣳसम् ।
VERSE: 18 { 3.7.6.18}
वाजं जिगिवाꣳसम् ।
वाजिनं वाजजितम् ।
वाजजित्यायै संमार्ज्मि ।
अग्निम् अन्नादम् अन्नाद्याय ।
वेदिर् बर्हिः शृतꣳ हविः ।
इध्मः परिधयः स्रुचः ।
आज्यं यज्ञ ऋचो यजुः ।
याज्याश् च वषट्काराः ।
सं मे संनतयो नमन्ताम् ।
इध्मसंनहने हुते ।
VERSE: 19 { 3.7.6.19}
दिवः खीलो ऽवततः ।
पृथिव्या अध्य् उत्थितः ।
तेना सहस्रकाण्डेन ।
द्विषन्तꣳ शोचयामसि ।
द्विषन् मे बहु शोचतु ।
ओषधे मो अहꣳ शुचम् ।
यज्ञ नमस् ते यज्ञ ।
नमो नमश् च ते यज्ञ ।
शिवेन मे संतिष्ठस्व ।
स्योनेन मे संतिष्ठस्व ।
VERSE: 20 { 3.7.6.20}
सुभूतेन मे संतिष्ठस्व ।
ब्रह्मवर्चसेन मे संतिष्ठस्व ।
यज्ञस्य_ऋद्धिम् अनु संतिष्ठस्व ।
उप ते यज्ञ नमः ।
उप ते नमः ।
उप ते नमः ।
त्रिष् फलीक्रियमाणानाम् ।
यो न्यङ्गो अवशिष्यते ।
रक्षसां भागधेयम् ।
आपस् तत् प्रवहताद् इतः ।
VERSE: 21 { 3.7.6.21}
उलूखले मुसले यच् च शूर्पे ।
आशिश्लेष दृषदि यत् कपाले ।
अवप्रुषो विप्रुषः संयजामि ।
विश्वे देवा हविर् इदं जुषन्ताम् ।
यज्ञे या विप्रुषः सन्ति बह्वीः ।
अग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि ।
उद्यन्न् अद्य मित्रमहः ।
सपत्नान् मे अनीनशः ।
दिव_एनान् विद्युता जहि ।
निम्रोचन्न् अधरान् कृधि ।
VERSE: 22 { 3.7.6.22}
उद्यन्न् अद्य वि नो भज ।
पिता पुत्रेभ्यो यथा ।
दीर्घायुत्वस्य ह_इशिषे ।
तस्य नो देहि सूर्य ।
उद्यन्न् अद्य मित्रमहः ।
आरोहन्न् उत्तरां दिवम् ।
हृद्रोगं मम सूर्य ।
हरिमाणं च नाशय ।
शुकेषु मे हरिमाणम् ।
रोपणाकासु दध्मसि ।
VERSE: 23 { 3.7.6.23}
अथो हारिद्रवेषु मे ।
हरिमाणं निदध्मसि ।
उदगाद् अयम् आदित्यः ।
विश्वेन सहसा सह ।
द्विषन्तं मम रन्धयन् ।
मो अहं द्विषतो रधम् ।
यो नः शपाद् अशपतः ।
यश् च नः शपतः शपात् ।
उषाश् च तस्मै निम्रुक् च ।
सर्वं पापꣳ समूहताम् ।
{ 3.7.6.24}
यो नः सपत्नो यो रणः ।
मर्तो ऽभिदासति देवाः ।
इध्मस्य_इव प्रक्षायतः ।
मा तस्य_उच्छेषि किं चन ।
अवसृष्टः परापत ।
शरो ब्रह्मसꣳशितः ।
गच्छामित्रान् प्रविश ।
मा_एषां कं चन_उच्छिषः ।
अनुवाक 7
VERSE: 1 { 3.7.7.1}
सक्ष_इदं पश्य ।
विधर्तर् इदं पश्य ।
नाक_इदं पश्य ।
रमतिः पनिष्ठा ।
ऋतं वर्षिष्ठम् ।
अमृता यान्य् आहुः ।
सूर्यो वरिष्ठो अक्षभिर् विभाति ।
अनु द्यावापृथिवी देवपुत्रे ।
दीक्षा_असि तपसो योनिः ।
तपो ऽसि ब्रह्मणो योनिः ।
VERSE: 2 { 3.7.7.2}
ब्रह्मासि क्षत्रस्य योनिः ।
क्षत्रम् अस्य् ऋतस्य योनिः ।
ऋतम् असि भूर्, आरभे ।
श्रद्धां मनसा ।
दीक्षां तपसा ।
विश्वस्य भुवनस्याधिपत्नीम् ।
सर्वे कामा यजमानस्य सन्तु ।
वातं प्राणं मनसोन्वारभामहे ।
प्रजापतिं यो भुवनस्य गोपाः ।
स नो मृत्योस् त्रायतां पात्व् अꣳहसः ।
VERSE: 3 { 3.7.7.3}
ज्योग् जीवा जराम् अशीमहि ।
इन्द्र शाक्वर गायत्रीं प्रपद्ये ।
तां ते युनज्मि ।
इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये ।
तां ते युनज्मि ।
इन्द्र शाक्वर जगतीं प्रपद्ये ।
तां ते युनज्मि ।
इन्द्र शाक्वरानुष्टुभं प्रपद्ये ।
तां ते युनज्मि ।
इन्द्र शाक्वर पङ्क्तिं प्रपद्ये ।
VERSE: 4 { 3.7.7.4}
तां ते युनज्मि ।
आ_अहं दीक्षाम् अरुहम् ऋतस्य पत्नीम् ।
गायत्त्रेण छन्दसा ब्रह्मणा च ।
ऋतꣳ सत्य्è ऽधायि ।
सत्यम् ऋते ऽधायि ।
ऋतं च मे सत्यं चाभूताम् ।
ज्योतिर् अभूवꣳ सुवर् अगमम् ।
सुवर्गं लोकं नाकस्य पृष्ठम् ।
ब्रध्नस्य विष्टपम् अगमम् ।
पृथिवी दीक्षा ।
VERSE: 5 { 3.7.7.5}
तया_अग्निर् दीक्षया दीक्षितः ।
यया_अग्निर् दीक्षया दीक्षितः ।
तया त्वा दीक्षया दीक्षयामि ।
अन्तरिक्षं दीक्षा ।
तया वायुर् दीक्षया दीक्षितः ।
यया वायुर् दीक्षया दीक्षितः ।
तया त्वा दीक्षया दीक्षयामि ।
द्यौर् दीक्षा ।
तया_आदित्यो दीक्षया दीक्षितः ।
यया_आदित्यो दीक्षया दीक्षितः ।
VERSE: 6 { 3.7.7.6}
तया त्वा दीक्षया दीक्षयामि ।
दिशो दीक्षा ।
तया चन्द्रमा दीक्षया दीक्षितः ।
यया चन्द्रमा दीक्षया दीक्षितः ।
तया त्वा दीक्षया दीक्षयामि ।
आपो दीक्षा ।
तया वरुणो राजा दीक्षया दीक्षितः ।
यया वरुणो राजा दीक्षया दीक्षितः { दाक्षितः} ।
तया त्वा दीक्षया दीक्षयामि ।
ओषधयो दीक्षा ।
VERSE: 7 { 3.7.7.7}
तया सोमो राजा दीक्षया दीक्षितः ।
यया सोमो राजा दीक्षया दीक्षितः ।
तया त्वा दीक्षया दीक्षयामि ।
वाग् दीक्षा ।
तया प्राणो दीक्षया दीक्षितः ।
यया प्राणो दीक्षया दीक्षितः ।
तया त्वा दीक्षया दीक्षयामि ।
पृथिवी त्वा दीक्षमाणम् अनु दीक्षताम् ।
अन्तरिक्षं त्वा दीक्षमाणम् अनु दीक्षताम् ।
द्यौस् त्वा दीक्षमाणम् अनु दीक्षताम् ।
VERSE: 8 { 3.7.7.8}
दिशस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
आपस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
ओषधयस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
वाक् त्वा दीक्षमाणम् अनु दीक्षताम् ।
ऋचस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
सामानि त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
यजूꣳषि त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
अहश् च रात्रिश् च ।
कृषिश् च वृष्टिश् च ।
त्विषिश् चापचितिश् च ।
VERSE: 9 { 3.7.7.9}
आपश् च_ओषधयश् च ।
ऊर्क् च सूनृता च ।
तास् त्वा दीक्षमाणम् अनु दीक्षन्ताम् ।
स्वे दक्षे दक्षपितेह सीद ।
देवानाꣳ सुम्नो महते रणाय ।
स्वासस्थस् तनुवा संविशस्व ।
पितेव_एधि सूनव आसुशेवः ।
शिवो मा शिवम् आविश ।
सत्यं म आत्मा ।
श्रद्धा मे ऽक्षितिः ।
VERSE: 10 { 3.7.7.10}
तपो मे प्रतिष्ठा ।
सवितृप्रसूता मा दिशो दीक्षयन्तु ।
सत्यम् अस्मि ।
अहं त्वद् अस्मि मद् असि त्वम् एतत् ।
ममासि योनिस् तव योनिर् अस्मि ।
ममैव सन् वह हव्यान्य् अग्ने ।
पुत्त्रः पित्रे लोककृज् जातवेदः ।
आजुह्वानः सुप्रतीकः पुरस्तात् ।
अग्ने स्वां योनिम् आसीद साध्या ।
अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् ।
VERSE: 11 { 3.7.7.11}
विश्वे देवा यजमानश् च सीदत ।
एकम् इषे विष्णुस् त्वा_अन्वेतु ।
द्वे ऊर्जे विष्णुस् त्वा_अन्वेतु ।
त्रीणि व्रताय विष्णुस् त्वा_अन्वेतु ।
चत्वारि मायोभवाय विष्णुस् त्वा_अन्वेतु ।
पञ्च पशुभ्यो विष्णुस् त्वा_अन्वेतु ।
षड् रायस् पोषाय विष्णुस् त्वा_अन्वेतु ।
सप्त सप्तभ्यो होत्राभ्यो विष्णुस् त्वा_अन्वेतु ।
सखायः सप्तपदा अभूम ।
सख्यं ते गमेयम् ।
VERSE: 12 { 3.7.7.12}
सख्यात् ते मा योषम् ।
सख्यान् मे मा योष्ठाः ।
सोसि सुब्रह्मण्ये ।
तस्यास् ते पृथिवी पादः ।
सोसि सुब्रह्मण्ये ।
तस्यास् ते ऽन्तरिक्षं पादः ।
सोसि सुब्रह्मण्ये ।
तस्यास् ते द्यौः पादः ।
सोसि सुब्रह्मण्ये ।
तस्यास् ते दिशः पादः ।
VERSE: 13 { 3.7.7.13}
परोरजास् ते पञ्चमः पादः ।
सा न इषमूर्जं धुक्ष्व ।
तेज इन्द्रियम् ।
ब्रह्मवर्चसम् अन्नाद्यम् ।
विमिमे {आनंदा. विमिमे} त्वा पयस्वतीम् ।
देवानां धेनुꣳ सुदुघाम् अनपस्फुरन्तीम् ।
इन्द्रः सोमं पिबतु ।
क्षेमो अस्तु नः ।
इमां नराः कृणुत वेदिम् एत्य ।
वसुमतीꣳ रुद्रवतीम् आदित्यवतीम् ।
VERSE: 14 { 3.7.7.14}
{F वर्ष्मन्} {आनंदा. वर्ष्मन्} {BI वर्ष्म} { वर्ष्मन्} दिवः ।
नाभा पृथिव्याः ।
यथा_अयं यजमानो न रिष्येत् ।
देवस्य सवितुः सवे ।
चतुःशिखण्डा युवतिः सुपेशाः ।
घृतप्रतीका भुवनस्य मध्ये ।
तस्याꣳ सुपर्णाव् अधि यौ निविष्टौ ।
तयोर् देवानाम् अधि भागधेयम् ।
अप जन्यं भयं नुद ।
अप चक्राणि वर्तय ।
गृहꣳ सोमस्य गच्छतम् ।
न वा उव् एतन् म्रियसे न रिष्यसि ।
देवाꣳ इद् एषि पथिभिः सुगेभिः ।
यत्र यन्ति सुकृतो नापि दुष्कृतः ।
तत्र त्वा देवः सविता दधातु ।
अनुवाक 8
VERSE: 1 { 3.7.8.1}
यद् अस्य पारे रजसः ।
शुक्रं ज्योतिर् अजायत ।
तन् नः पर्षद् अति द्विषः ।
अग्ने वैश्वानर स्वाहा ।
यस्माद् भीषा_अवाशिष्ठाः ।
ततो नो अभयं कृधि ।
प्रजाभ्यः सर्वाभ्यो मृड ।
नमो रुद्राय मीढुषे ।
यस्माद् भीषा न्यषदः ।
ततो नो अभयं कृधि ।
VERSE: 2 { 3.7.8.2}
प्रजाभ्यः सर्वाभ्यो मृड ।
नमो रुद्राय मीढुषे ।
उद् उस्र तिष्ठ प्रतितिष्ठ मा रिषः ।
मा_इमं यज्ञं यजमानं च रीरिषः ।
सुवर्गे लोके यजमानꣳ हि धेहि ।
शं न एधि द्विपदे शं चतुष्पदे ।
यस्माद् भीषा_अवेपिष्ठाः पलायिष्ठाः समज्ञास्थाः ।
ततो नो अभयं कृधि ।
प्रजाभ्यः सर्वाभ्यो मृड ।
नमो रुद्राय मीढुषे ।
VERSE: 3 { 3.7.8.3}
य इदम् अकः ।
तस्मै नमः ।
तस्मै स्वाहा ।
न वा उव् एतन् म्रियसे, ।
आशानां त्वा, विश्वा आशाः, ।
यज्ञस्य हि स्थ ऋत्वियौ ।
इन्द्राग्नी चेतनस्य च ।
हुताहुतस्य तृप्यतम् ।
अहुतस्य हुतस्य च ।
हुतस्य चाहुतस्य च ।
अहुतस्य हुतस्य च ।
इन्द्राग्नी अस्य सोमस्य ।
वीतं पिबतं जुषेथाम् ।
मा यजमानं तमो विदत् { ऽविदत्} ।
मा_ऋत्विजो मो इमाः प्रजाः ।
मा यः सोमम् इमं पिबात् ।
सꣳसृष्टम् उभयं कृतम् ।
अनुवाक 9
VERSE: 1 { 3.7.9.1}
अनागसस् त्वा वयम् ।
इन्द्रेण प्रेषिता उप ।
वायुष् टे अस्त्व् अꣳशभूः ।
मित्रस् ते अस्त्व् अꣳशभूः ।
वरुणस् ते अस्त्व् अꣳशभूः ।
अपां क्षया ऋतस्य गर्भाः ।
भुवनस्य गोपाः श्येना अतिथयः ।
पर्वतानां ककुभः प्रयुतो नपातारः { न पातारः} ।
वग्नुना_इन्द्रꣳ ह्वयत ।
घोषेणामीवाꣳश् चातयत ।
VERSE: 2 { 3.7.9.2}
युक्ताः स्थ वहत ।
देवा ग्रावाण इन्दुर् इन्द्र इत्य् अवादिषुः ।
आ_इन्द्रम् {आनंदा. ऐन्द्रम्} अचुच्यवुः परमस्याः {आनंदा. परम् अस्याः} परावतः ।
आ_अस्मात् सधस्थात् ।
आ_उरोर् अन्तरिक्षात् ।
आ सुभूतम् असुषवुः ।
ब्रह्मवर्चसं म आसुषवुः ।
समरे रक्षाꣳस्य् अवधिषुः ।
अपहतं ब्रह्मज्यस्य ।
वाक् च त्वा मनश् च श्रिणीताम् ।
VERSE: 3 { 3.7.9.3}
प्राणश् च त्वा_अपानश् च श्रीणीताम् ।
चक्षुश् च त्वा श्रोत्रं च श्रीणीताम् ।
दक्षश् च त्वा बलं च श्रीणीताम् ।
ओजश् च त्वा सहश् च श्रीणीताम् ।
आयुश् च त्वा जरा च श्रीणीताम् ।
आत्मा च त्वा तनूश् च श्रीणीताम् ।
शृतो ऽसि शृतंकृतः ।
शृताय त्वा शृतेभ्यस् त्वा ।
यम् इन्द्रम् आहुर् वरुणं यम् आहुः ।
यं मित्रम् आहुर् यम् उ सत्यम् आहुः ।
VERSE: 4 { 3.7.9.4}
यो देवानां देवतमस् तपोजाः ।
तस्मै त्वा तेभ्यस् त्वा ।
मयि त्यद् इन्द्रियं महत् ।
मयि दक्षो मयि क्रतुः ।
मयि धायि सुवीर्यम् ।
त्रिशुग् घर्मो विभातु मे ।
आकूत्या मनसा सह ।
विराजा ज्योतिषा सह ।
यज्ञेन पयसा सह ।
तस्य दोहम् अशीमहि ।
VERSE: 5 { 3.7.9.5}
तस्य सुम्नम् अशीमहि ।
तस्य भक्षम् अशीमहि ।
वाग् जुषाणा सोमस्य तृप्यतु ।
मित्रो जनान्, प्र स मित्र, ।
यस्मान् न जातः परो अन्यो अस्ति ।
य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानः ।
त्रीणि ज्योतीꣳषि सचते स षोडशी ।
एष ब्रह्मा य ऋत्वियः ।
इन्द्रो नाम श्रुतो गणे ।
VERSE: 6 { 3.7.9.6}
प्र ते महे विदथे ऽशꣳसिषꣳ हरी ।
य ऋत्वियः प्र ते वन्वे ।
वनुषो हर्यतं मदम् ।
इन्द्रो नाम घृतं न यः ।
हरिभिश् चारु सेचते ।
श्रुतो गण आ त्वा विशन्तु ।
हरिवर्पसं गिरः ।
इन्द्राधिपते ऽधिपतिस् त्वं देवानाम् असि ।
अधिपतिं माम् ।
आयुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ।
VERSE: 7 { 3.7.9.7}
इन्द्रश् च सम्राड् वरुणश् च राजा ।
तौ ते भक्षं चक्रतुर् अग्र एतम् ।
तयोर् अनु भक्षं भक्षयामि ।
वाग् जुषाणा सोमस्य तृप्यतु ।
प्रजापतिर् विश्वकर्मा ।
तस्य मनो देवं यज्ञेन राध्यासम् ।
अर्थेगा अस्य् अजहितः {,आनंदा. अस्य जहितः} ।
अवसानपते ऽवसानं मे विन्द ।
नमो रुद्राय वास्तोष्पतये ।
आयने विद्रवणे ।
VERSE: 8 { 3.7.9.8}
उद्याने यत् परायणे ।
आवर्तने विवर्तने ।
यो गोपायति तꣳ हुवे ।
यान्य् अपामित्यान्य् अप्रतीत्तान्य् {आनंदा. अप्रतीतान्य्} अस्मि ।
यमस्य {ड्युमोण्ट येन यमस्य} बलिना चरामि ।
इहैव सन्तः प्रति तद् यातयामः ।
जीवा जीवेभ्यो निहराम एनत् ।
अनृणा अस्मिन्न् अनृणाः परस्मिन् ।
तृतीये लोके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः ।
VERSE: 9 { 3.7.9.9}
सर्वान् पथो अनृणा आक्षीयेम ।
इदमू नु श्रेयो ऽवसानम् आगन्म ।
शिवे नो द्यावापृथिवी उभे इमे ।
गोमद् धनवद् अश्ववद् ऊर्जस्वत् ।
सुवीरा वीरैर् अनु संचरेम ।
अर्कः पवित्रꣳ रजसो विमानः ।
पुनाति देवानां भुवनानि विश्वा ।
द्यावापृथिवी पयसा संविदाने ।
घृतं दुहाते अमृतं प्रपीने ।
पवित्रम् अर्को रजसो विमानः ।
पुनाति देवानां भुवनानि विश्वा ।
सुवर् ज्योतिर् यशो महत् ।
अशीमहि गाधम् उत प्रतिष्ठाम् ।
अनुवाक 10
VERSE: 1 { 3.7.10.1}
{अ} उद् अस्तांप्सीत् {आनंदा. अस्ताप्सीत्} सविता मित्रो अर्यमा ।
सर्वान् अमित्रान् अवधीद् युगेन ।
बृहन्तं माम् अकरद् वीरवन्तम् ।
रथंतरे श्रयस्व स्वाहा पृथिव्याम् ।
वामदेव्ये श्रयस्व स्वाहा_अन्तरिक्षे ।
बृहति श्रयस्व स्वाहा दिवि ।
बृहता त्वा_उपस्तभ्नोमि ।
आ त्वा ददे यशसे वीर्याय च ।
अस्मास्व् अघ्निया यूयं दधाथ_इन्द्रियं पयः ।
यस् ते द्रप्सो यस् त उदर्षः ।
VERSE: 2 { 3.7.10.2}
दैव्यः केतुर् विश्वं भुवनम् आविवेश ।
स नः पाह्य् अरिष्ट्यै स्वाहा ।
अनु मा सर्वो यज्ञो ऽयम् एतु ।
विश्वे देवा मरुतः सामार्कः ।
आप्रियश् छन्दाꣳसि निविदो यजूꣳषि ।
अस्यै पृथिव्यै यद् यज्ञियम् ।
प्रजापतेर् वर्तनिम् अनुवर्तस्व ।
अनु वीरैर् अनुराध्याम गोभिः ।
अन्व् अश्वैर् अनु सर्वैर् उ पुष्टैः ।
अनु प्रजया_अन्व् इन्द्रियेण ।
VERSE: 3 { 3.7.10.3}
देवा नो यज्ञम् ऋजुधा नयन्तु ।
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे ।
प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु ।
प्रति प्रजायां प्रतितिष्ठामि भव्ये ।
विश्वम् अन्या_अभिवावृधे ।
तद् अन्यस्याम् अधि श्रितम् ।
दिवे च विश्वकर्मणे ।
पृथिव्यै चाकरं नमः ।
अस्कान् द्यौः पृथिवीम् ।
अस्कान् ऋषभो युवा गाः ।
VERSE: 4 { 3.7.10.4}
स्कन्ना_इमा विश्वा भुवना ।
स्कन्नो यज्ञः प्रजनयतु ।
अस्कान् अजनि प्राजनि ।
आ स्कन्नाज् जायते वृषा ।
स्कन्नात् प्रजनिषीमहि ।
ये देवा येषाम् इदं भागधेयं बभूव ।
येषां प्रयाजा उतानूयाजाः ।
इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः ।
अग्निहोतृभ्यो देवेभ्यः स्वाहा ।
उत त्या नो दिवा मतिः ।
VERSE: 5 { 3.7.10.5}
अदितिर् ऊत्या_आगमत् ।
सा शन्ताची {ड्युमोण्ट शंताति} मयस् करत् ।
अप स्रिधः ।
उत त्या दैव्या भिषजा ।
शं नस् करतो अश्विना ।
यूयाताम् अस्मद् रपः ।
अप स्रिधः ।
शम् अग्निर् अग्निभिस् करत् ।
शं नस् तपतु सूर्यः ।
शं वातो वात्व् अरपाः ।
VERSE: 6 { 3.7.10.6}
अप स्रिधः ।
तद् इत् पदं न विचिकेत विद्वान् ।
यन् मृतः पुनर् अप्य् एति जीवान् ।
त्रिवृद् यद् भुवनस्य रथवृत् ।
जीवो गर्भो न मृतः स जीवात् ।
प्रत्य् अस्मै पिपीषते ।
विश्वानि विदुषे भर ।
अरंगमाय जग्मवे ।
अपश्चाद्दध्वने { अपश्चाद्दघ्वने} नरे ।
इन्दुर् इन्दुम् { इन्द्रम्} अवागात् ।
इन्दोर् इन्द्रो ऽपात् ।
तस्य त इन्दव् इन्द्रपीतस्य मधुमतः ।
उपहूतस्य_उपहूतो भक्षयामि ।
अनुवाक 11
VERSE: 1 { 3.7.11.1}
ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः ।
ब्रह्म यज्ञानाꣳ हविषाम् आज्यस्य ।
अतिरिक्तं कर्मणो यच् च हीनम् ।
यज्ञः पर्वाणि प्रतिरन्न् एति कल्पयन् ।
स्वाहाकृता_आहुतिर् एतु देवान् ।
आश्रावितम् अत्याश्रावितम् ।
वषट्कृतम् अत्यनूक्तं च यज्ञे ।
अतिरिक्तं कर्मणो यच् च हीनम् ।
यज्ञः पर्वाणि प्रतिरन्न् एति कल्पयन् ।
स्वाहाकृता_आहुतिर् एतु देवान् ।
VERSE: 2 { 3.7.11.2}
यद् वो देवा अतिपादयानि ।
वाचा चित् प्रयतं देवहेडनम् ।
अरायो अस्माꣳ {ड्युमोण्ट अरावा यो ऽस्माꣳ, च्f.ऋ.वे..10.37.2} अभि दुच्छुनायते ।
अन्यत्रास्मन् मरुतस् तन् निधेतन ।
ततं म आपस् तद् उ तायते पुनः ।
स्वादिष्ठा धीतिर् उचथाय शस्यते ।
अयꣳ समुद्र उत विश्वभेषजः ।
स्वाहाकृतस्य सम् उ तृप्णुत_ऋभुवः ।
उद् वयं तमसस् परि, ।
उद् उ त्यं, चित्रम्, ।
VERSE: 3 { 3.7.11.3}
इमं मे वरुण, तत् त्वा यामि, ।
त्वं नो अग्ने, स त्वं नो अग्ने, ।
त्वम् अग्ने अया_असि, प्रजापते, ।
इमं जीवेभ्यः परिधिं दधामि ।
मा_एषां नु गाद् अपरो अर्धम् एतम् ।
शतं जीवन्तु शरदः पुरूचीः ।
तिरो मृत्युं दधतां पर्वतेन ।
इष्टेभ्यः स्वाहा वषड् अनिष्टेभ्यः स्वाहा ।
भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा ।
दौराद्ध्यै स्वाहा दैवीभ्यस् तनूभ्यः स्वाहा ।
VERSE: 4 { 3.7.11.4}
ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा ।
यत इन्द्र भयामहे ।
ततो नो अभयं कृधि ।
मघवन् _शग्ध्í तव तन् न ऊतये ।
वि द्विषो वि मृधो जहि ।
स्वस्तिदा विशस् पतिः ।
वृत्रहा विमृधो वशी ।
वृषा_इन्द्रः पुर एतु नः ।
स्वस्तिदा अभयंकरः ।
आभिर् गीर्भिर् यद् अतो न ऊनम् ।
VERSE: 5 { 3.7.11.5}
आप्यायय हरिवो वर्धमानः ।
यदा स्तोतृभ्यो महि गोत्रा रुजासि ।
भूयिष्ठभाजो अध ते स्याम ।
अनाज्ञातं यद् आज्ञातम् ।
यज्ञस्य क्रियते मिथु ।
अग्ने तद् अस्य कल्पय ।
त्वꣳ हि वेत्थ यथातथम् ।
पुरुषसंमितो यज्ञः ।
यज्ञः पुरुषसंमितः ।
अग्ने तद् अस्य कल्पय ।
त्वꣳ हि वेत्थ यथातथम् ।
यत् पाकत्रा मनसा दीनदक्षा न ।
यज्ञस्य मन्वते मर्तासः ।
अग्निष् टद् होता क्रतुविद् विजानन् ।
यजिष्ठो देवाꣳ ऋतुशो यजाति ।
अनुवाक 12
VERSE: 1 { 3.7.12.1}
यद् देवा देवहेडनम् ।
देवासश् चकृमा वयम् ।
आदित्यास् तस्मान् मा मुञ्चत ।
ऋतस्य_ऋतेन माम् उत ।
देवा जीवनकाम्या यत् ।
वाचा_अनृतमूदिम ।
अग्निर् मा तस्माद् एनसः ।
गार्हपत्यः प्रमुञ्चतु ।
दुरिता यानि चकृम ।
करोतु माम् अनेनसम् ।
VERSE: 2 { 3.7.12.2}
ऋतेन द्यावापृथिवी ।
ऋतेन त्वꣳ सरस्वति ।
ऋतान् मा मुञ्चताꣳहसः {ड्युमोण्ट कृतान् मा मुञ्चत_एनसः} ।
यद् अन्यकृतम् आरिम ।
सजातशꣳसाद् उत वा जामिशꣳसात् ।
ज्यायसः शꣳसाद् उत वा कनीयसः ।
अनाज्ञातं देवकृतं यद् एनः ।
तस्मात् त्वम् अस्मान् जातवेदो मुमुग्धि ।
यद् वाचा यन् मनसा ।
बाहुभ्यामूरुभ्याम् अष्ठीवद्भ्याम् ।
VERSE: 3 { 3.7.12.3}
शिश्नैर् यद् अनृतं चकृमा वयम् ।
अग्निर् मा तस्माद् एनसः ।
यद् धस्ताभ्यां चकर किल्बिषाणि ।
अक्षाणां वग्नुम् उपजिघ्नमानः ।
दूरेपश्या च राष्ट्रभृच् च ।
तान्य् अप्सरसाव् अनुदत्ताम् ऋणानि ।
अदीव्यन्न् ऋणं यद् अहं चकार ।
यद् वा_अदास्यन्त् संजगारा जनेभ्यः ।
अग्निर् मा तस्माद् एनसः ।
यन् मयि माता गर्भै सति ।
VERSE: 4 { 3.7.12.4}
एनश् चकार यत् पिता ।
अग्निर् मा तस्माद् एनसः ।
यद् आपिपेष मातरं पितरम् ।
पुत्रः प्रमुदितो धयन् ।
अहिꣳसितौ पितरौ मया तत् ।
तद् अग्ने अनृणो भवामि ।
यद् अन्तरिक्षं पृथिवीम् उत द्याम् ।
यन् मातरं पितरं वा जिहिꣳसिम ।
अगिर् मा तस्माद् एनसः ।
यद् आशसा निशसा यत् पराशसा ।
VERSE: 5 { 3.7.12.5}
यद् एनश् चकृमा नूतनं यत् पुराणम् ।
अग्निर् मा तस्माद् एनसः ।
अतिक्रामामि दुरितं यद् एनः ।
जहामि रिप्रं परमे सधस्थे ।
यत्र यन्ति सुकृतो नापि दुष्कृतः ।
तम् आरोहामि सुकृतां नु लोकम् ।
त्रिते देवा अमृजत_एतद् एनः ।
त्रित एतन् मनुष्येषु मामृजे ।
ततो मा यदि किं चिद् आनशे ।
अग्निर् मा तस्माद् एनसः ।
VERSE: 6 { 3.7.12.6}
गार्हपत्यः प्रमुञ्चतु ।
दुरिता यानि चकृम ।
करोतु माम् अनेनसम् ।
दिवि जाता अप्सु जाताः ।
या जाता ओषधीभ्यः ।
अथो या अग्निजा आपः ।
ता नः शुन्धन्तु शुन्धनीः ।
यद् आपो {ड्युमोण्ट आपो} नक्तं दुरितं चराम ।
यद् वा दिवा नूतनं यत् पुराणम् ।
हिरण्यवर्णास् तत उत्पुनीत नः ।
इमं मे वरुण, तत् त्वा यामि, ।
त्वं नो अग्ने, स त्वं नो अग्ने ।
त्वम् अग्ने अया_असि, ।
अनुवाक 13
VERSE: 1 { 3.7.13.1}
यत् ते ग्राव्णा चिच्छिदुः सोम राजन् ।
प्रियाण्य् अङ्गानि स्वधिता परूꣳषि ।
तत् संधत्स्व_आज्येन_उत वर्धयस्व ।
अनागसो अधम् इत् संक्षयेम ।
यत् ते ग्रावा बाहुच्युतो अचुच्यवुः {ड्युमोण्ट अचुच्यवत्} ।
नरो यत् ते दुदुहुर् दक्षिणेन ।
तत् त आप्यायतां तत् ते ।
निष्ट्यायतां {आनंदा. निष्ट्ह्यायतां) देव सोम ।
यत् ते त्वचं बिभिदुर् यच् च योनिम् ।
यद् आस्थानात् प्रच्युतो वेनसि त्मना ।
VERSE: 2 { 3.7.13.2}
त्वया तत् सोम गुप्तम् अस्तु नः ।
सा नः संधा_असत् परमे व्योमन् ।
अहात्_शरीरं पयसा समेत्य ।
अन्योऽन्यो भवति वर्णो अस्य ।
तस्मिन् वयम् उपहूतास् तव स्मः ।
आ नो भज सदसि विश्वरूपे ।
नृचक्षाः सोम उत शुश्रुग् अस्तु ।
मा नो विहासीद् गिर आवृणानः ।
अनागास् तनुवो वावृधानः ।
आ नो रूपं वहतु जायमानः ।
VERSE: 3 { 3.7.13.3}
उपक्षरन्ति जुह्वो घृतेन ।
प्रियाण्य् अङ्गानि तव वर्धयन्तीः ।
तस्मै ते सोम नम इद् वषट् च ।
उप मा राजन्त् सुकृते ह्वयस्व ।
सं प्राणापानाभ्याꣳ सम् {आनंदा. शम्} उ चक्षुषा त्वम् ।
सꣳ श्रोत्रेण गच्छस्व सोम राजन् ।
यत् त आस्थितꣳ शम् उ तत् ते अस्तु ।
जानीतान् {आनंदा. जानीतां} नः संगमने पथीनाम् ।
एतं जानीतात् परमे व्योमन् ।
वृकाः {ड्युमोण्ट वृष्ण्याः} सधस्था विद रूपम् अस्य ।
VERSE: 4 { 3.7.13.4}
यद् आगच्छात् पथिभिर् देवयानैः ।
इष्टापूर्ते कृणुताद् आविर् अस्मै ।
अरिष्टो राजन्न् अगदः परेहि ।
नमस् ते अस्तु चक्षसे रघूयते ।
नाकम् आरोह सह यजमानेन ।
सूर्यं गच्छतात् परमे व्योमन् ।
अभूद् देवः सविता वन्द्यो नु {,आनंदा. ऽनु} नः ।
इदानीम् अह्न उपवाच्यो नृभिः ।
वि यो रत्ना भजति मानवेभ्यः ।
श्रेष्ठं नो अत्र द्रविणं यथा दधत् ।
उप नो मित्रावरुणाव् इहावतम् ।
अन्वादीध्याथाम् इह नः सखाया ।
आदित्यानां प्रसितिर् हेतिः ।
उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु ।
आप्यायस्व, {म्} सं ते, ।
अनुवाक 14
VERSE: 1 { 3.7.14.1}
यद् दिदीक्षे मनसा यच् च वाचा ।
यद् वा प्राणैश् चक्षुषा यच् च श्रोत्रेण ।
यद् रेतसा मिथुनेनाप्य् आत्मना ।
अद्भ्यो लोका दधिरे तेज इन्द्रियम् ।
शुक्रा दीक्षायै तपसो विमोचनीः ।
आपो विमोक्त्रीर् मयि तेज इन्द्रियम् ।
यद् ऋचा साम्ना यजुषा ।
पशूनां चर्मन् हविषा दिदीक्षे ।
यच् छन्दोभिर् ओषधीभिर् वनस्पतौ ।
अद्भ्यो लोका दधिरे तेज इन्द्रियम् ।
VERSE: 2 { 3.7.14.2}
शुक्रा दीक्षायै तपसो विमोचनीः ।
आपो विमोक्त्रीर् मयि तेज इन्द्रियम् ।
येन ब्रह्म येन क्षत्रम् ।
येन_इन्द्राग्नी प्रजापतिः सोमो वरुणो येन राजा ।
विश्वे देवा ऋषयो येन प्राणाः ।
अद्भ्यो लोका दधिरे तेज इन्द्रियम् ।
शुक्रा दीक्षायै तपसो विमोचनीः ।
आपो विमोक्त्रीर् मयि तेज इन्द्रियम् ।
अपां पुष्पम् अस्य् ओषधीनाꣳ रसः ।
सोमस्य प्रियं धाम ।
VERSE: 3 { 3.7.14.3}
अग्नेः प्रियतमꣳ हविः स्वाहा ।
अपां पुष्पम् अस्य् ओषधीनाꣳ रसः ।
सोमस्य प्रियं धाम ।
इन्द्रस्य प्रियतमꣳ हविः स्वाहा ।
अपां पुष्पम् अस्य् ओषधीनाꣳ रसः ।
सोमस्य प्रियं धाम ।
विश्वेषां देवानां प्रियतमꣳ हविः स्वाहा ।
वयꣳ सोम व्रते तव ।
मनस् तनूषु पिप्रतः {ड्युमोण्ट बिभ्रतः} ।
प्रजावन्तो अशीमहि ।
VERSE: 4 { 3.7.14.4}
देवेभ्यः पितृभ्यः स्वाहा ।
सोम्येभ्यः पितृभ्यः स्वाहा ।
कव्येभ्यः पितृभ्यः स्वाहा ।
देवास इह मादयध्वम् ।
सोम्यास इह मादयध्वम् ।
कव्यास इह मादयध्वम् ।
अनन्तरिताः पितरः सोम्याः सोमपीथात् ।
अपैतु मृत्युर् अमृतं न आगन् ।
वैवस्वतो नो अभयं कृणोतु ।
पर्णं वनस्पतेर् इव ।
VERSE: 5 { 3.7.14.5}
अभि नः शीयताꣳ रयिः ।
सचतां नः शचीपतिः ।
परं मृत्यो अनु परेहि पन्थाम् ।
यस् ते स्व इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि ।
मा नः प्रजाꣳ रीरिषो मा_उत वीरान् ।
इदमू नु श्रेयो ऽवसानम् आगन्म ।
यद् गोजिद् धनजिद् अश्वजिद् यत् ।
पर्णं वनस्पतेर् इव ।
अभि नः शीयताꣳ रयिः ।
सचतां नः शचीपतिः ।
प्रपाठक: 8
अनुवाक 1
VERSE: 1 { 3.8.1.1}
सांग्रहण्या_इष्ट्या यजते ।
इमां जनताꣳ संगृह्णानीति ।
द्वादशारत्नी रशना भवति ।
द्वादश मासाः संवत्सरः ।
संवत्सरम् एवावरुन्धे ।
मौञ्ज्ī́ भवति ।
ऊर्ग् वै मुञ्जाः ।
ऊर्जम् एवावरुन्धे ।
चित्रा नक्षत्रं भवति ।
चित्रं वा एतत् कर्म ।
VERSE: 2 { 3.8.1.2}
यद् अश्वमेधः समृद्ध्यै ।
पुण्यनाम देवयजनम् अध्यवस्यति ।
पुण्याम् एव तेन कीर्तिम् अभिजयति ।
अपदातीन् ऋत्विजः समावहन्त्य् आ सुब्रह्मण्यायाः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
केशश्मश्रु वपते ।
नखानि निकृन्तते ।
दतो धावते ।
स्नाति ।
अहतं वासः परिधत्ते ।
पाप्मनो ऽपहत्यै ।
वाचं यत्वा_उपवसति ।
सुवर्गस्य लोकस्य गुप्त्यै ।
रात्रिं जागरयन्त आसते ।
सुवर्गस्य लोकस्य समष्ट्यै ।
अनुवाक 2
VERSE: 1 { 3.8.2.1}
चतुष्टय्य आपो भवन्ति ।
चतुःशफ्ओ वा अश्वः प्राजापत्यः समृद्ध्यै ।
ता दिग्भ्यः समाभृता भवन्ति ।
दिक्षु वा आपः ।
अन्नं वा आपः ।
अद्भ्यो वा अन्नं जायते ।
यद् एवाद्भ्यो ऽन्नं जायते ।
तद् अवरुन्धे ।
तासु ब्रह्मौदनं पचति ।
रेत एव तद् दधाति ।
VERSE: 2 { 3.8.2.2}
चतुःशरावो भवति ।
दिक्ष्व् एव प्रति तिष्ठति ।
उभयतो रुक्मौ भवतः ।
उभयत एवास्मिन् रुचं दधाति ।
उद्धरति शृतत्वाय ।
सर्पिष्वान् भवति मेध्यत्वाय ।
चत्वार आर्षेयाः प्राश्नन्ति ।
दिशाम् एव ज्योतिषि जुहोति ।
चत्वारि हिरण्यानि ददाति ।
दिशाम् एव ज्योतीꣳष्य् अवरुन्धे ।
VERSE: 3 { 3.8.2.3}
यद् आज्यम् उच्छिष्यते ।
तस्मिन् रशनां न्युनत्ति ।
प्रजापतिर् वा ओदनः ।
रेत आज्यम् ।
यद् आज्ये रशनां न्युनत्ति ।
प्रजापतिम् एव रेतसा समर्धयति ।
दर्भमयी रशना भवति ।
बहु वा एष कुचरो ऽमेध्यम् उपगच्छति ।
यद् अश्वः ।
पवित्रं वै दर्भाः ।
VERSE: 4 { 3.8.2.4}
यद् दर्भमयी रशणा भवति ।
पुनात्य् एव_एनम् ।
पूतम् एनं मेध्यम् आलभते ।
अश्वस्य वा आलब्धस्य महिमा_उदक्रामत् ।
स महर्त्विजः प्राविशत् ।
तन् महर्त्विजां महर्त्विक्त्वम् ।
यन् महर्त्विजः प्राश्नन्ति ।
महिमानम् एवास्मिन् तद् दधति ।
अश्वस्य वा आलब्धस्य रेत उदक्रामत् ।
तत् सुवर्णꣳ हिरण्यम् अभवत् ।
यत् सुवर्णꣳ हिरण्यं ददाति ।
रेत एव तद् दधाति ।
ओदने ददाति ।
रेतो वा ओदनः ।
रेतो हिरण्यम् ।
रेतसा_एवास्मिन् रेतो दधाति ।
अनुवाक 3
VERSE: 1 { 3.8.3.1}
यो वै ब्रह्मणे देवेभ्यः प्रजापतये ऽप्रतिप्रोच्याश्वं मेध्यं बध्नाति ।
आ देवताभ्यो वृश्च्यते ।
पापीयान् भवति ।
यः प्रतिप्रोच्य ।
न देवताभ्य आवृश्च्यते ।
वसीयान् भवति ।
यद् आह ।
ब्रह्मन्न् अश्वं मेध्यं भन्त्स्य्āमि देवेभ्यः प्रजापतये तेन राध्यासम् इति ।
ब्रह्म वै ब्रह्मा ।
ब्रह्मण एव देवेभ्यः प्रजापतये प्रतिप्रोच्याश्वं मेध्यं बध्नाति ।
VERSE: 2 { 3.8.3.2}
न देवताभ्य आवृश्च्यते ।
वसीयान् भवति ।
देवस्य त्वा सवितुः प्रसव इति रशनाम् आदत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् ।
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
व्यृद्धं वा एतद् यज्ञस्य ।
यद् अयजुष्केण क्रियते ।
इमाम् अगृभ्णन् रश्नाम् ऋतस्य_इत्य् अधिवदति यजुष्कृत्यै ।
यज्ञस्य समृद्ध्यै ।
VERSE: 3 { 3.8.3.3}
तद् आहुः ।
द्वादशारत्नी रशना कर्तव्या3 त्रयोदशारत्नी3र् इति ।
ऋषभो वा एष ऋतूनाम् ।
यथा {!} संवत्सरः ।
तस्य त्रयोदशो मासो विष्टपम् ।
ऋषभ एष यज्ञानाम् ।
यद् अश्वमेधः ।
यथा वा ऋषभस्य विष्टपम् ।
एवम् एतस्य विष्टपम् ।
त्रयोदशम् अरत्निꣳ रशनायाम् उपादधाति ।
VERSE: 4 { 3.8.3.4}
यथा_ऋषभस्य विष्टपꣳ सꣳस्करोति ।
तादृग् एव तत् ।
पूर्व आयुषि विदथेषु कव्य_इत्य् आह ।
आयुर् एवास्मिन् दधाति ।
तया देवाः सुतम् आबभूवुर् इत्य् आह ।
भूतिम् एव_उपावर्तते ।
ऋतस्य सामन्त् सरम् आरपन्तीत्य् आह ।
सत्यं वा ऋतम् ।
सत्येन_एवैनम् ऋतेन_आरभते ।
अभिधा असीत्य् आह ।
VERSE: 5 { 3.8.3.5}
तस्माद् अश्वमेधयाजी सर्वाणि भूतान्य् अभिभवति ।
भुवनम् असीत्य् आह ।
भूमानम् एव_उपैति ।
यन्ता_असीत्य् आह ।
यन्तारम् एवैनं करोति ।
धर्ता_असीत्य् आह ।
धर्तारम् एवैनं करोति ।
सो ऽग्निं वैश्वानरम् इत्य् आह ।
अग्नाव् एवैनं वैश्वानरे जुहोति ।
सप्रथसम् इत्य् आह ।
VERSE: 6 { 3.8.3.6}
प्रजय_एवैनं पशुभिः प्रथयति ।
स्वाहाकृत इत्य् आह ।
होम एवास्यैषः ।
पृथिव्याम् इत्य् आह ।
अस्याम् एव_एनं प्रतिष्ठापयति ।
यन्ता राड् यन्ता_असि यमनो धर्ता_असि धरुण इत्य् आह ।
रूपम् एवास्यैतन् महिमानं व्याचष्टे ।
कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा_इत्य् आह ।
आशिषम् एव_एताम् आशास्ते ।
स्वगा त्वा देवेभ्य इत्य् आह ।
देवेभ्य एव_एनꣳ स्वगा करोति ।
स्वाहा त्वा प्रजापतय इत्य् आह ।
प्राजापत्यो वा अश्वः ।
यस्या एव देवताया आलभ्यते ।
तया_एव_एनꣳ समर्धयति ।
अनुवाक 4
VERSE: 1 { 3.8.4.1}
यः पितुर् अनुजायाः पुत्रः ।
स पुरस्तान् नयति ।
यो मातुर् अनुजायाः पुत्रः ।
स पश्चान् नयति ।
विष्वञ्चम् एवास्मात् पाप्मानं विवृहतः ।
यो अर्वन्तं जिघाꣳसति तम् अभ्यमीति वरुण इति श्वानं चतुरक्षं प्रसौति ।
परो मर्तः परः श्वा_इति शुनश् चतुरक्षस्य प्रहन्ति ।
श्वा_इव वै पाप्मा भ्रातृव्यः ।
पाप्मानम् एवास्य भ्रातृव्यꣳ हन्ति ।
सैध्रकं मुसलं भवति ।
VERSE: 2 { 3.8.4.2}
कर्म_कर्म_एवास्मै साधयति ।
पौꣳश्चलेयो हन्ति ।
पुꣳश्चल्वां वै देवाः शुचं न्यदधुः ।
शुचा_एवास्य शुचꣳ हन्ति ।
पाप्मा वा एतम् ईप्सतीत्य् आहुः ।
यो ऽश्वमेधेन यजत इति ।
अश्वस्याधस्पदम् उपास्यति ।
वज्री वा अश्वः प्राजापत्यः ।
वज्रेणैव पाप्मानं भ्रातृव्यम् अवक्रामति ।
दक्षिणा_अपप्लावयति ।
VERSE: 3 { 3.8.4.3}
पाप्मानम् एवास्मात्_शमलम् अपप्लावयति ।
ऐषीक उदूहो भवति ।
आयुर् वा इषीकाः ।
आयुर् एवास्मिन् दधति ।
अमृतं वा इषीकाः ।
अमृतम् एवास्मिन् दधति ।
वेतसशाखा_उपसंबद्धा भवति ।
अप्सुयोनिर् वा अश्वः ।
अप्सुजो वेतसः ।
स्वाद् एव_एनं योनिर् निर्मिमीते ।
पुरस्तात् प्रत्यञ्चम् अभ्युदूहति ।
पुरस्ताद् एवास्मिन् प्रतीच्य् अमृतं दधाति ।
अहं च त्वं च वृत्रहन्न् इति ब्रह्मा यजमानस्य हस्तं गृह्णाति ।
ब्रह्मक्षत्त्रे एव संदधाति ।
अभि क्रत्वा_इन्द्र भूर् अध ज्मन्न् इत्य् अध्वर्युर् यजमानं वाचयत्य् अभिजित्यै ।
अनुवाक 5
VERSE: 1 { 3.8.5.1}
चत्वार ऋत्विजः समुक्षन्ति ।
आभ्य एवैनं चतसृभ्यो दिग्भ्यो ऽभिसमीरयन्ति ।
शतेन राजपुत्रैः सहाध्वर्युः ।
पुरस्तात् प्रत्यङ् तिष्ठन् प्रोक्षति ।
अनेनाश्वेन मेध्येन_इष्ट्वा ।
अयꣳ राजा वृत्रं वध्याद् इति ।
राज्यं वा अध्वर्युः ।
क्षत्त्रꣳ {= क्षत्रꣳ } राजपुत्रः ।
राज्येन_एवास्मिन् क्षत्त्रं {= क्षत्रं } दधाति ।
शतेनाराजभिर् उग्रैः सह ब्रह्मा ।
VERSE: 2 { 3.8.5.2}
दक्षिणत उदङ् तिष्ठन् प्रोक्षति ।
अनेनाश्वेन मेध्येन_इष्ट्वा ।
अयꣳ राजाप्रतिधृष्यो ऽस्त्व् इति ।
बलं वै ब्रह्मा ।
बलम् अराजा_उग्रः ।
बलेन_एवास्मिन् बलं दधाति ।
शतेन सूतग्रामणिभिः सह होता ।
पश्चात् प्राङ् तिष्ठन् प्रोक्षति ।
अनेनाश्वेन मेध्येन_इष्ट्वा ।
अयꣳ राजा_अस्यै विशः ।
VERSE: 3 { 3.8.5.3}
बहुग्वै बह्वश्वायै बह्वजाविकायै ।
बहुव्रीहियवायै बहुमाषतिलायै ।
बहुहिरण्यायै बहुहस्तिकायै ।
बहुदासपूरुषायै रयिमत्यै पुष्टिमत्यै ।
बहुरायस्पोषायै राजा_अस्त्व् इति ।
भूमा वै होता ।
भूमा सूतग्रामण्यः ।
भूम्ना_एवास्मिन् भूमानं दधाति ।
शतेन क्षत्तसंग्रहीतृभिः सह_उद्गाता ।
उत्तरतो दक्षिणा तिष्ठन् प्रोक्षति ।
VERSE: 4 { 3.8.5.4}
अनेनाश्वेन मेध्येन_इष्ट्वा ।
अयꣳ राजा सर्वम् आयुर् एत्व् इति ।
आयुर् वा उद्गाता ।
आयुः क्षत्तसंग्रहीतारः ।
आयुषा_एवास्मिन्न् आयुर् दधाति ।
शतꣳ_शतं भवन्ति ।
शतायुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति चतुःशता भवन्ति ।
चतस्रो दिशः ।
दिक्ष्व् एव प्रतितिष्ठति ।
अनुवाक 6
VERSE: 1 { 3.8.6.1}
यथा वै हविषो गृहीतस्य स्कन्दति ।
एवं वा एतद् अश्वस्य स्कन्दति ।
यन् निक्तम् अनालब्धम् उत्सृजन्ति ।
यत् स्तोक्या अन्वाह ।
सर्वहुतम् एवैनं करोत्य् अक्सन्दाय ।
अस्कन्नꣳ हि तत् ।
यद् धुतस्य स्कन्दति ।
सहस्रम् अन्वाह ।
सहस्रसंमितः सुवर्गो लोकः ।
सुवर्गस्य लोकस्याभिजित्यै ।
VERSE: 2 { 3.8.6.2}
यत्परिमिता अनुब्र्ū́यात् ।
परिमितम् अवरुन्धीत ।
अपरिमिता अन्वाह ।
अपरिमितः सुवर्गो लोकः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
स्तोक्या जुहोति ।
या एव वर्ष्या आपः ।
ता अवरुन्धे ।
अस्यां जुहोति ।
इयं वा अग्निर् वैश्वानरः ।
VERSE: 3 { 3.8.6.3}
अस्याम् एव_एनाः प्रतिष्ठापयति ।
उवाच ह प्रजापतिः ।
स्तोक्यासु वा अहम् अश्वमेधꣳ सꣳस्थापयामि ।
तेन ततः सꣳस्थितेन चरामीति ।
अग्नये स्वाहा_इत्य् आह ।
अग्नय एवैनं जुहोति ।
सोमाय स्वाहा_इत्य् आह ।
सोमाय_एवैनं जुहोति ।
सवित्रे स्वाहा_इत्य् आह ।
सवित्र एवैनं जुहोति ।
VERSE: 4 { 3.8.6.4}
सरस्वत्यै स्वाहा_इत्य् आह ।
सरस्वत्या एवैनं जुहोति ।
पूष्णे स्वाहा_इत्य् आह ।
पूष्ण एवैनं जुहोति ।
बृहस्पतये स्वाहा_इत्य् आह ।
बृहस्पतय एवैनं जुहोति ।
अपां मोदाय स्वाहा_इत्य् आह ।
अद्भ्य एवैनं जुहोति ।
वायवे स्वाहा_इत्य् आह ।
वायव एवैनं जुहोति ।
VERSE: 5 { 3.8.6.5}
मित्राय स्वाहा_इत्य् आह ।
मित्राय_एवैनं जुहोति ।
वरुणाय स्वाहा_इत्य् आह ।
वरुणाय_एवैनं जुहोति ।
एताभ्य एवैनं देवताभ्यो जुहोति ।
दश_दश संपादं जुहोति ।
दशाक्षरा विराट् ।
अन्नं विराट् ।
विराजा_एवान्नाद्यम् अवरुन्धे ।
प्र वा एषो ऽस्माल् लोकाच् च्यवते ।
यः पराचीर् आहुतीर् जुहोति ।
पुनः_पुनर् अभ्यावर्तं जुहोति ।
अस्मिन्न् एव लोके प्रतितिष्ठति ।
एताꣳ ह वाव सो ऽश्वमेधस्य सꣳस्थितिम् उवाचास्कन्दाय ।
अस्कन्नꣳ हि तत् ।
यद् यज्ञस्य सꣳस्थितस्य स्कन्दति ।
अनुवाक 7
VERSE: 1 { 3.8.7.1}
प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात् प्रत्यङ् तिष्ठन् प्रोक्षति ।
प्रजापतिर् वै देवानाम् अन्नादो वीर्यावान् ।
अन्नाद्यम् एवास्मिन् वीर्यं दधाति ।
तस्माद् अश्वः पशूनाम् अन्नादो वीर्यावत्तमः ।
इन्द्राग्निभ्यां त्वा_इति दक्षिणतः ।
इन्द्राग्नी वै देवानाम् ओजिष्ठौ बलिष्ठौ ।
ओज एवास्मिन् बलं दधाति ।
तस्माद् अश्वः पशूनाम् ओजिष्ठो बलिष्ठः ।
वायवे त्वा_इति पश्चात् ।
वायुर् वै देवानाम् आशुः सारसारितमः ।
VERSE: 2 { 3.8.7.2}
जवम् एवास्मिन् दधाति ।
तस्माद् अश्वः ।
पशूनाम् आशुः सारसारितमः ।
विश्वेभ्यस् त्वा देवेभ्य इत्य् उत्तरतः ।
विश्वे वै देवा देवानां यशस्वितमाः ।
यश एवास्मिन् दधाति ।
तस्माद् अश्वः पशूनां यशस्वितमः ।
देवेभ्यस् त्वा_इत्य् अधस्तात् ।
देवा वै देवानाम् अपचिततमाः ।
अपचितिम् एवास्मिन् दधाति ।
तस्माद् अश्वः पशूनाम् अपचिततमः ।
VERSE: 3 { 3.8.7.3}
सर्वेभ्यस् त्वा देवेभ्य इत्य् उपरिष्टात् ।
सर्वे वै देवास् त्विषिमन्तो हरस्विनः ।
त्विषिम् एवास्मिन् हरो दधाति ।
तस्माद् अश्वः पशूनां त्विषिमान् हरस्वितमः ।
दिवे त्वा_अन्तरिक्षाय त्वा पृथिव्यै त्वा_इत्य् आह ।
एभ्य एवैनं लोकेभ्यः प्रोक्षति ।
सते त्वा_असते त्वा_अद्भ्यस् त्वा_ओषधीभ्यस् त्वा विश्वेभ्यस् त्वा भुतेभ्य इत्य् आह ।
तस्माद् अश्वमेधयाजिनꣳ सर्वाणि भूतान्य् उपजीवन्ति ।
ब्रह्मवादिनो वदन्ति ।
यत् प्राजापत्यो ऽश्वः ।
अथ कस्माद् एनम् अन्याभ्यो देवताभ्यो ऽपि प्रोक्षतीति ।
अश्वे वै सर्वा देवता अन्वायत्ताः ।
तं यद् विश्वेभ्यस् त्वा भूतेभ्य इति प्रोक्षति ।
देवता एवास्मिन्न् अन्वायातयति ।
तस्माद् अश्वे सर्वा देवता अन्वायत्ताः ।
अनुवाक 8
VERSE: 1 { 3.8.8.1}
यथा वै हविषो गृहीतस्य स्कन्दति ।
एवं वा एतद् अश्वस्य स्कन्दति ।
यत् प्रोक्षितम् अनालब्धम् उत्सृजन्ति ।
यद् अश्वचरितानि जुहोति ।
सर्वहुतम् एवैनं करोत्य् अस्कन्दाय ।
अस्कन्नꣳ हि तत् ।
यद् धुतस्य स्कन्दति ।
ईंकाराय स्वाहा_ī́ंकृताय स्वाहा_इत्य् आह ।
एतानि वा अश्वचरितानि ।
चरितैर् एवैनꣳ समर्धयति ।
VERSE: 2 { 3.8.8.2}
तद् आहुः ।
अनाहुतयो वा अश्वचरितानि ।
न_एता होतव्या इति ।
अथो खल्व् आहुः ।
होतव्या एव ।
अत्र वाव_एवं विद्वान् अश्वमेधꣳ सꣳस्थापयति ।
यद् अश्वचरितानि जुहोति ।
तस्माद् धोतव्या इति ।
बहिर्धा वा एनम् एतद् आयतनाद् दधाति ।
भ्रातृव्यम् अस्मै जनयति ।
VERSE: 3 { 3.8.8.3}
यस्यानायतने ऽन्यत्राग्नेर् आहुतीर् जुहोति ।
सावित्रिया इष्ट्याः पुरस्तात् स्विष्टकृतः ।
आहवनीये ऽश्वचरितानि जुहोति ।
आयतन एवास्य_आहुतीर् जुहोति ।
नास्मै भ्रातृव्यं जनयति ।
तद् आहुः ।
यज्ञमुखे_यज्ञमुखे होतव्याः ।
यज्ञस्य क्लृप्त्यै ।
सुवर्गस्य लोकस्यानुख्यात्या इति ।
अथो खल्व् आहुः ।
VERSE: 4 { 3.8.8.4}
यद् यज्ञमुखे_यज्ञमुखे जुहुयात् ।
पशुभिर् यजमानं व्यर्धयेत् ।
अव सुवर्गाल् लोकात् पद्येत ।
पापीयान्त् स्याद् इति ।
सकृद् एव होतव्याः ।
न यजमानं पशुभिर् व्यर्धयति ।
अभि सुवर्गं लोकं जयति ।
न पापीयान् भवति ।
अष्टाचत्वारिꣳशतम् अश्वरूपाणि जुहोति ।
अष्टाचत्वारिꣳशदक्षरा जगती ।
जागतो ऽश्वः प्राजापत्यः समृद्ध्यै ।
एकम् अतिरिक्तं जुहोति ।
तस्माद् एकः प्रजास्व् अर्धुकः ।
अनुवाक 9
VERSE: 1 { 3.8.9.1}
विभूर् मात्रा प्रभूः पित्रा_इत्य् आह ।
इयं वै माता ।
असौ पिता ।
आभ्याम् एवैनं परिददाति ।
अश्वो ऽसि हयो ऽसीत्य् आह ।
शास्त्य् एवैनम् एतत् ।
तस्मात्_शिष्टाः प्रजा जायन्ते ।
अत्यो ऽसीत्य् आह ।
तस्माद् अश्वः सर्वान् पशून् अत्येति ।
0 तस्माद् अश्वः सर्वेषां पशूनाꣳ श्रेष्ठ्यं गच्छति ।
VERSE: 2 { 3.8.9.33}
प्र यशः श्रेष्ठ्यम् आप्नोति ।
य एवं वेद ।
नरो ऽस्य् अर्वा_असि सप्तिर् असि वाज्य् असीत्य् आह ।
रूपम् एवास्यैतन् माहिमानं व्याचष्टे ।
ययुर् नामासीत्य् आह ।
एतद् वा अश्वस्य प्रियं नामधेयम् ।
प्रियेणैवैनं नामधेयेनाभिवदति ।
तस्माद् अप्य् आ_अमित्रौ संगत्य ।
नाम्ना चेद् ध्वयेते { चेध्वयेते} ।
मित्रम् एव भवतः ।
VERSE: 3 { 3.8.9.3}
आदित्यानां पत्वा_अन्विहीत्य् आह ।
आदित्यान् एवैनं गमयति ।
अग्नये स्वाहा स्वाहा_इन्द्राग्निभ्याम् इति पूर्वहोमाञ् जुहोति ।
पूर्व एव द्विषन्तं भ्रातृव्यम् अतिक्रामति ।
भूर् असि भुवे त्वा भव्याय त्वा भविष्यते त्वा_इत्य् उत्सृजति सर्वत्वाय ।
देवा आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितं गोपायत_इत्य् आह ।
शतं वै तल्प्या राजपुत्रा देवा आशापालाः ।
तेभ्य एवैनं परिददाति ।
ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः ।
इह धृतिः स्वाहा_इह विधृतिः स्वाहा_इह रन्तिः स्वाहा_इह रमतिः स्वाहा_इति चतृषु पत्सु जुहोति ।
VERSE: 4 { 3.8.9.4}
एता वा अश्वस्य बन्धनम् ।
ताभिर् एवैनं बध्नाति ।
तस्माद् अश्वः प्रमुक्तो बन्धनम् आगच्छति ।
तस्माद् अश्वः प्रमुक्तो बन्धनं न जहाति ।
राष्ट्रं वा अश्वमेधः ।
राष्ट्रे खलु वा एते व्यायच्छन्ते ।
ये ऽश्वं मेध्यꣳ रक्षन्ति ।
तेषां य उदृचं गच्छन्ति ।
राष्ट्राद् एव ते राष्ट्रं गच्छन्ति ।
अथ य उदृचं न गच्छन्ति ।
{ 3.8.9.5}
राष्ट्राद् एव ते व्यवच्छिद्यन्ते ।
परा वा एष सिच्यते ।
यो ऽबलो ऽश्वमेधेन यजते ।
यद् अमित्रा अश्वं विन्देरन् ।
हन्येतास्य यज्ञः ।
चतुश्श्अता रक्षन्ति ।
यज्ञस्याघाताय ।
अथान्यम् आनीय प्रोक्षेयुः ।
सा_एव ततः प्रायश्चित्तिः ।
अनुवाक 10
VERSE: 1 { 3.8.10.1}
प्रजापतिर् अकामयताश्वमेहेन यजेय_इति ।
स तपो ऽतप्यत ।
तस्य तेपानस्य ।
सप्त_आत्मनो देवता उदक्रामन् ।
सा दीक्षा_अभवत् ।
स एतानि वैश्वदेवान्य् अपश्यत् ।
तान्य् अजुहोत् ।
तैर् वै स दीक्षाम् अवारुन्ध ।
यद् वैश्वदेवानि जुहोति ।
दीक्षाम् एव तैर् यजमानो ऽवरुन्धे ।
VERSE: 2 { 3.8.10.2}
सप्त जुहोति ।
सप्त हि ता देवता उदक्रामन् ।
अन्वहं जुहोति ।
अन्वहम् एव दीक्षाम् अवरुन्धे ।
त्रीणि वैश्वदेवानि जुहोति ।
चत्वार्य् औद्ग्रहणानि ।
सप्त संपद्यन्ते ।
सप्त वै शीर्षण्याः प्राणाः ।
प्राणा दीक्षा ।
प्राणैर् एव प्राणान् दीक्षाम् अवरुन्धे ।
VERSE: 3 { 3.8.10.3}
एकविꣳशतिं वैश्वदेवानि जुहोति ।
एकविꣳशतिर् वै देवलोकाः ।
द्वादश मासाः पञ्च_ऋतवः ।
त्रय इमे लोकाः ।
असाव् आदित्य एकविꣳशः ।
एष सुवर्गो लोकः ।
तद् दैव्यं क्षत्त्रम् { क्षत्रम्} ।
सा श्रीः ।
तद् ब्रध्नस्य विष्टपम् ।
तत् स्वाराज्यम् उच्यते ।
VERSE: 4 { 3.8.10.4}
त्रिꣳशतम् औद्ग्रहणानि जुहोति ।
त्रिꣳशदक्षरा विराट् ।
अन्नं विराट् ।
विराजा_एवान्नाद्यम् अवरुन्धे ।
त्रेधा विभज्य देवतां जुहोति ।
त्र्यावृतो वै देवाः ।
त्र्यावृत इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
एषां लोकानां क्लृप्त्यै ।
अप वा एतस्मात् प्राणाः क्रामन्ति ।
VERSE: 5 { 3.8.10.5}
यो दीक्षाम् अतिरेचयति ।
सप्ताहं प्रचरन्ति ।
सप्त वै शीर्षन्याः प्राणः ।
प्राणा दीक्षा ।
प्राणैर् एव प्राणान् दीक्षाम् अवरुन्धे ।
पूर्णाहुतिम् उत्तमां जुहोति ।
सर्वं वै पूर्णाहुतिः ।
सर्वम् एवाऽऽप्नोति ।
अथो इयं वै पूर्णाहुतिः ।
अस्याम् एव प्रतितिष्ठति ।
अनुवाक 11
VERSE: 1 { 3.8.11.1}
प्रजापतिर् अश्वमेधम् असृजत ।
तꣳ सृष्टं न किं चन_उदयच्छत् ।
तं वैश्वदेवान्य् एव_उदयच्छन् ।
यद् वैश्वदेवानि जुहोति ।
यज्ञस्य_उद्यत्यै ।
स्वाहा_आधिम् आधीताय स्वाहा ।
स्वाहा_आधीतं मनसे स्वाहा ।
स्वाहा मनः प्रजापतये स्वाहा ।
काय स्वाह कस्मै स्वाहा कतमस्मै स्वाहा_इति प्राजापत्ये मुख्ये भवतः ।
प्रजापतिमुखाभिर् एवैनं देवताभिर् उद्यच्छते ।
VERSE: 2 { 3.8.11.2}
अदित्यै स्वाहा_अदित्यै मह्यइ स्वाहा_अदित्यै सुमृडीकायै स्वाहा_इत्य् आह ।
इयं वा अदितिः ।
अस्या एवैनं प्रतिष्ठाय_उद्यच्छते ।
सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा_इत्य् आह ।
वाग् वै सरस्वती ।
वाचा_एवैनम् उद्यच्छते ।
पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वहा_इत्य् आह ।
पशवो वै पूषा ।
पशुभिर् एवैनम् उद्यच्छते ।
त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा_इत्य् आह ।
त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृत् ।
रूपम् एव पशुषु दधाति ।
अथो रूपैर् एवैनम् उद्यच्छते ।
विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वहा विष्णवे निभूयपाय स्वाहा_इत्य् आह ।
यज्ञो वै विष्णुः ।
यज्ञाय_एवैनम् उद्यच्छते ।
पूर्णाहुतिम् उत्तमां जुहोति ।
प्रत्युत्तब्ध्यै सयत्वाय ।
अनुवाक 12
VERSE: 1 { 3.8.12.1}
सावित्रम् अष्टाकपालं प्रातर् निर्वपति ।
अष्टाक्षरा गायत्री ।
गायत्रं प्रातःसवनम् ।
प्रातःसवनाद् एवैनं गायत्रियाश् छन्दसो ऽधि निर्मिमीते ।
अथो प्रातःसवनम् एव तेन_आप्नोति ।
गायत्रीं छन्दः ।
सवित्रे प्रसवित्र एकादशकपालं मध्यंदिने ।
एकादशाक्षरा त्रिष्टुप् ।
त्रैष्टुभं माध्यंदिनꣳ सवनम् ।
माध्यंदिनाद् एवैनꣳ सवनात् त्रिष्टुभश् छन्दसो ऽधि निर्मिमीते ।
VERSE: 2 { 3.8.12.2}
अथो माध्यंदिनम् एव सवनं तेन_आप्नोति ।
त्रिष्टुभं छन्दः ।
सवित्र आसवित्रे द्वादशकपालम् अपराह्णे ।
द्वादशाक्षरा जगती ।
जागतं तृतीयसवनम् ।
तृतीयसवनाद् एवैनं जगत्याश् छन्दसो ऽधि निर्मिमीते ।
अथो तृतीयसवनम् एव तेन_आप्नोति ।
जगतीं छन्दः ।
ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः ।
इह धृतिः स्वाहा_इह विधृतिः स्वाहा_इह रन्तिः स्वाहा_इह रन्तिः स्वाहा_इति चतस्र आहुतीर् जुहोति ।
VERSE: 3 { 3.8.12.3}
चतस्रो दिशः ।
दिग्भिर् एवैनं परिगृह्णाति ।
आश्वत्थ्ओ व्रजो भवति ।
प्रजापतिर् देवेभ्यो निलायत ।
अश्वो रूपं कृत्वा ।
सो ऽश्वत्थे संवत्सरम् अतिष्ठत् ।
तद् अश्वत्थस्याश्वत्थत्वम् ।
यद् आश्वत्थ्ओ व्रजो भवति ।
स्व एवैनं योनौ प्रतिष्ठापयति ।
अनुवाक 13
VERSE: 1 { 3.8.13.1}
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् इत्य् आह ।
ब्राह्मण एव ब्रह्मवर्चसं दधाति ।
तस्मात् पुरा ब्राह्मणो ब्रह्मवर्चस्य् अजायत ।
आ_अस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् इत्य् आह ।
राजन्य एव शौर्यं महिमानं दधाति ।
तस्मात् पुरा राजन्य इषव्यः शूरो महारथो ऽजायत ।
दोग्ध्री धेनुर् इत्य् आह ।
धेन्वाम् एव पयो दधाति ।
तस्मात् पुरा दोग्ध्री धेनुर् अजायत ।
वोढा_अनड्वान् इय् आह ।
VERSE: 2 { 3.8.13.2}
अनडुह्य् एव वीर्यं दधाति ।
तस्मात् पुरा वोढा_अनड्वान् अजायत ।
आशुः सप्तिर् इत्य् आह ।
अश्व एव जवं दधाति ।
तस्मात् पुरा_आशुर् अश्वो ऽजायत ।
पुरंधिर् योषा_इत्य् आह ।
योषित्य् एव रूपं दधाति ।
तस्मात् स्त्री युवतिः प्रिया भावुका ।
जिष्णू रथेष्ठा इत्य् आह ।
आ ह वै तत्र जिष्णू रथेष्ठा जायते ।
VERSE: 3 { 3.8.13.3}
यत्र_एतेन यज्ञेन यजन्ते ।
सभेयो युवा_इत्य् आह ।
यो वै पूर्ववयसी ।
स सभेयो युवा ।
तस्माद् युवा पुमान् प्रियो भावुकः ।
आ_अस्य यजमानस्य वीरो जायताम् इत्य् आह ।
आ ह वै तत्र यजमानस्य वीरो जायते ।
यत्र_एतेन यज्ञेन यजन्ते ।
निकामे_निकामे नः पर्जन्यो वर्षत्व् इत्य् आह ।
निकामे_निकामे ह वै तत्र पर्जन्यो वर्षति ।
यत्र_एतेन यज्ञेन यजन्ते ।
फलिन्यो न ओषधयः पच्यन्ताम् इत्य् आह ।
फलिन्यो ह वै तत्र_ओषधयः पच्यन्ते ।
यत्र_एतेन यज्ञेन यजन्ते ।
योगक्षेमो नः कल्पताम् इत्य् आह ।
कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः ।
यत्र_एतेन यज्ञेन यजन्ते ।
अनुवाक 14
VERSE: 1 { 3.8.14.1}
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् ।
स आत्मन्न् अश्वमेधम् अधत्त ।
तं देवा अब्रुवन् ।
एष वाव यज्ञः ।
यद् अश्वमेधः ।
अप्य् एव नो ऽत्रास्त्व् इति ।
तेभ्य एतान् अन्नहोमान् प्रायच्छत् ।
तान् अजुहोत् ।
तैर् वै स देवान् अप्रीणात् ।
यद् अन्नहोमाञ् जुहोति ।
VERSE: 2 { 3.8.14.2}
देवान् एव तैर् यजमानः प्रीणाति ।
आज्येन जुहोति ।
अग्नेर् वा एतद् रूपम् ।
यद् आज्यम् ।
यद् आज्येन जुहोति ।
अग्निम् एव तत् प्रीणाति ।
मधुना जुहोति ।
महत्यै वा एतद् देवतायै रूपम् ।
यन् मधु ।
यन् मधुना जुहोति ।
VERSE: 3 { 3.8.14.3}
महतीम् एव तद् देवतां प्रीणाति ।
तण्डुलैर् जुहोति ।
वसूनां वा एतद् रूपम् ।
यत् तण्डुलाः ।
यत् तण्डुलैर् जुहोति ।
वसून् एव तत् प्रीणाति ।
पृथुकैर् जुहोति ।
रुद्राणां वा एतद् रूपम् ।
यत् पृथुकाः ।
यत् पृथुकैर् जुहोति ।
VERSE: 4 { 3.8.14.4}
रुद्रान् एव तत् प्रीणाति ।
लाजैर् जुहोति ।
आदित्यानां वा एतद् रूपम् ।
यल् लाजाः ।
यल् लाजैर् जुहोति ।
आदित्यान् एव तत् प्रीणाति ।
करम्बैर् जुहोति ।
विश्वेषां वा एतद् देवानाꣳ रूपम् ।
यत् करम्बाः ।
यत् करम्बैर् जुहोति ।
VERSE: 5 { 3.8.14.5}
विश्वान् एव तद् देवान् प्रीणाति ।
धानाभिर् जुहोति ।
नक्षत्राणां वा एतद् रूपम् ।
यद् धानाः ।
यद् धानाभिर् जुहोति ।
नक्षत्राण्य् एव तत् प्रीणाति ।
सक्तुभिर् जुहोति ।
प्रजापतेर् वा एतद् रूपम् ।
यत् सक्तवः ।
यत् सक्तुभिर् जुहोति ।
VERSE: 6 { 3.8.14.6}
प्रजापतिम् एव तत् प्रीणाति ।
मसूस्यैर् जुहोति ।
सर्वासां वा एतद् देवताꣳ रूपम् ।
यन् मसूस्यानि ।
यन् मसूस्यैर् जुहोति ।
सर्वा एव तद् देवताः प्रीणाति ।
प्रियङ्गुतण्डुलैर् जुहोति ।
प्रियाङ्गा ह वै नामैते ।
एतैर् वै देवा अश्वस्याङ्गानि समदधुः ।
यत् प्रियङ्गुतण्डुलैर् जुहोति ।
अश्वस्यैवाङ्गानि संदधाति ।
दशान्नानि जुहोति ।
दशाक्षरा विराट् ।
विराट् कृत्स्नस्यान्नाद्यस्यावरुद्ध्यै ।
अनुवाक 15
VERSE: 1 { 3.8.15.1}
प्रजापतिर् अश्वमेधम् असृजत ।
तꣳ सृष्टꣳ रक्षाꣳस्य् अजिघाꣳसन् ।
स एतान् प्रजापतिर् नक्तꣳहोमान् अपश्यत् ।
तान् अजुहोति ।
तैर् वै स यज्ञाद् रक्षाꣳस्य् अपाहन् ।
यन् नक्तꣳहोमाञ् जुहोति ।
यज्ञाद् एव तैर् यजमानो रक्षाꣳस्य् अपहन्ति ।
आज्येन जुहोति ।
वज्रो वा आज्यम् ।
वज्रेणैव यज्ञाद् रक्षाꣳस्य् अपहन्ति ।
VERSE: 2 { 3.8.15.2}
आज्यस्य प्रतिपदं करोति ।
प्राणो वा आज्यम् ।
मुखत एवास्य प्राणं दधाति ।
अन्नहोमाञ् जुहोति ।
शरीरवद् एवावरुन्धे ।
व्यत्यासं जुहोति ।
उभयस्यावरुध्यै ।
नक्तं जुहोति ।
रक्षसाम् अपहत्यै ।
आज्येनान्ततो जुहोति ।
VERSE: 3 { 3.8.15.3}
प्राणो वा आज्यम् ।
उभयत एवास्य प्राणं दधाति ।
पुरस्ताच् चोपरिष्टाच् च ।
एकस्मै स्वाहा_इत्य् आह ।
अस्मिन्न् एव लोके प्रतितिष्ठति ।
द्वाभ्याꣳ स्वाहा_इत्य् आह ।
अमुष्मिन्न् एव लोके प्रतितिष्ठति ।
उभयोर् एव लोकयोः प्रतितिष्ठति ।
अस्मिꣳश् चामुष्मिꣳश् च ।
शताय स्वाहा_इत्य् आह ।
शतायुर् वै पुरुषः शतवीर्यः ।
आयुर् एव वीर्यम् अवरुन्धे ।
सहस्राय स्वाहा_इत्य् आह ।
आयुर् वै सहस्रम् ।
आयुर् एवावरुन्धे ।
सर्वस्मै स्वाहा_इत्य् आह ।
अपरिमितम् एवावरुन्धे ।
अनुवाक 16
VERSE: 1 { 3.8.16.1}
प्रजापतिं वा एष ईप्सतीत्य् आहुः ।
यो ऽश्वमेधेन यजत इति ।
अथो आहुः ।
सर्वाणि भूतानीति ।
एकस्मै स्वाहा_इत्य् आह ।
प्रजापतिर् वा एकः ।
तम् एवाऽऽप्नोति ।
एकस्मै स्वाहा द्वाभ्याꣳ स्वाहा_इत्य् अभिपूर्वम् आहुतीर् जुहोति ।
अभिपूर्वम् एव सुवर्गं लोकम् एति ।
0 एकोत्तरं जुहोति ।
VERSE: 2 { 3.8.16.2}
एकवद् एव सुवर्गं लोकम् एति ।
संततं जुहोति ।
सुवर्गस्य लोकस्य संतत्यै ।
शताय स्वाहा_इत्य् आह ।
शतायुर् वै पुरुषः शतवीर्यः ।
आयुर् एव वीर्यम् अवरुन्धे ।
सहस्राय स्वाहा_इत्य् आह ।
आयुर् वै सहस्रम् ।
आयुर् एवावरुन्धे ।
अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहा_इत्य् आह ।
VERSE: 3 { 3.8.16.3}
त्रय इमे लोकाः ।
इमान् एव लोकान् अवरुन्धे ।
अर्बुदाय स्वाहा_इत्य् आह ।
वाग् वा अर्बुदम् ।
वाचम् एवावरुन्धे ।
न्यर्बुदाय स्वाहा_इत्य् आह ।
यो वै वाचो भूमा ।
तन् न्यर्बुदम् ।
वाच एव भूमानम् अवरुन्धे ।
समुद्राय स्वाहा_इत्य् आह ।
VERSE: 4 { 3.8.16.4}
समुद्रम् एवाऽऽप्नोति ।
मध्याय स्वाहा_इत्य् आह ।
मध्यम् एवाऽऽप्नोति ।
अन्ताय स्वाहा_इत्य् आह ।
अन्तम् एव_आप्नोति ।
परार्धाय स्वाहा_इत्य् आह ।
परार्धम् एवाऽऽप्नोति ।
उषसे स्वाहा व्युष्ट्यै स्वाहा_इत्य् आह ।
रातिर् वा उषाः ।
अहर् व्युष्टिः ।
अहोरात्रे एवावरुन्धे ।
अथो अहोरात्रयोर् एव प्रतितिष्ठति ।
ता यद् उभयीर् दिवा वा नक्तं वा जुहुयात् ।
अहोरात्रे मोहयेत् ।
उषसे स्वाहा व्युष्ट्यै स्वाहा_उदेष्यते स्वाहा_उद्यते स्वाहा_इत्य् अनुदिते जुहोति ।
उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा_इत्य् उदिते जुहोति ।
अहोरात्रयोर् अव्यतिमोहाय ।
अनुवाक 17
VERSE: 1 { 3.8.17.1}
विभूर् मात्रा प्रभूः पित्रा_इत्य् अश्वनामानि जुहोति ।
उभयोर् एवैनं लोकयोर् नामधेयं गमयति ।
आयनाय स्वाहा प्रायणाय स्वाहा_इत्य् उद्द्रावाञ् जुहोति ।
सर्वम् एवैनम् अस्कन्नꣳ सुवर्गं लोकं गमयति ।
अग्नये स्वाहा सोमाय स्वाहा_इति पूर्वहोमाञ् जुहोति ।
पूर्व एव द्विषन्तं भ्रातृव्यम् अतिक्रामति ।
पृथिव्यै स्वाहा_अन्तरिक्षाय स्वाहा_इत्य् आह ।
यथायजुर् एव_एतत् ।
अग्नये स्वाहा सोमाय स्वाहा_इति पूर्वदीक्षा जुहोति ।
पूर्व एव द्विषन्तं भ्रातृव्यम् अतिक्रामति ।
VERSE: 2 { 3.8.17.2}
पृथिव्यै स्वाहा_अन्तरिक्षाय स्वाहा_इत्य् एकविꣳशिनीं दीक्षां जुहोति ।
एकविꣳशतिर् वै देवलोकाः ।
द्वादश मासाः पञ्च_ऋतवः ।
त्रय इमे लोकाः ।
असाव् आदित्य एकविꣳशः ।
एष सुवर्गो लोकः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
भुवो देवानां कर्मणा_इत्य् ऋतुदीक्षा जुहोति ।
ऋतून् एवास्मै कल्पयति ।
अग्नये स्वाहा वायवे स्वाहा_इति जुहोत्य् अनन्तरित्यै ।
VERSE: 3 { 3.8.17.3}
अर्वाङ् यज्ञः संक्रामत्व् इत्य् आप्तीर् जुहोति ।
सुवर्गस्य लोकस्य_आप्त्यै ।
भूतं भव्यं भविष्यद् इति पर्याप्तीर् जुहोति ।
सुवर्गस्य लोकस्य पर्याप्त्यै ।
आ मे गृहा भवन्त्व् इत्य् आभूर् जुहोति ।
सुवर्गस्य लोकस्य_आभूत्यै ।
अग्निना तपो ऽन्वभवद् इत्य् अनुभूर् जुहोति ।
सुवर्गस्य लोकस्य_अनुभूत्यै ।
स्वाहा_आधिम् आधीताय स्वाहा_इति समस्तानि वैश्वदेवानि जुहोति ।
समस्तम् एव द्विषन्तं भ्रातृव्यम् अतिक्रामति ।
VERSE: 4 { 3.8.17.4}
दद्भ्यः स्वाहा हनूभ्याꣳ स्वाहा_इत्य् अङ्गहोमाञ् जुहोति ।
अङ्गे_अङ्गे वै पुरुषस्य पाप्मा_उपश्लिष्टः ।
अङ्गाद्_अङ्गाद् एवैनं पाप्मनस् तेन मुञ्चति ।
अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहा_इत्य् अश्वरूपाणि जुहोति ।
रूपैर् एवैनꣳ समर्धयति ।
ओषधीभ्यः स्वाहा मूलेभ्यस्ः स्वाहा_इत्य् ओषधिहोमाञ् जुहोति ।
द्वय्य्ó वा ओषधयः ।
पुष्पेभ्यो ऽन्याः फलं गृह्णन्ति ।
मूलेभ्यो ऽन्याः ।
0 ता एव_उभयीर् अवरुन्धे ।
VERSE: 5 { 3.8.17.5}
वनस्पतिभ्यः स्वाहा_इति वनस्पतिहोमाञ् जुहोति ।
आरण्यस्यान्नाद्यस्यावरुध्यै ।
मेषस् त्वा पचतैर् अवत्व् इत्य् अपाव्यानि जुहोति ।
प्राणा वै देवा अपाव्याः ।
प्राणान् एवावरुन्धे ।
कूप्याभ्यः स्वाहा_अद्भ्यः स्वाहा_इत्य् अपाꣳ होमाञ् जुहोति ।
अप्सु वा आपः ।
अन्नं वा आपः ।
अद्भ्यो वा अन्नं जायते ।
यद् एवाद्भ्यो ऽन्नं जायते ।
तद् अवरुन्धे ।
अनुवाक 18
VERSE: 1 { 3.8.18.1}
अम्भाꣳसि जुहोति ।
अयं वै लोको ऽम्भाꣳसि ।
तस्य वसवो ऽधिपतयः ।
अग्निर् ज्योतिः ।
यद् अम्भाꣳसि जुहोति ।
इमम् एव लोकम् अवरुन्धे ।
वसूनाꣳ सायुज्यं गच्छति ।
अग्निं ज्योतिर् अवरुन्धे ।
नभाꣳसि जुहोति ।
अन्तरिक्षं वै नभाꣳसि ।
VERSE: 2 { 3.8.18.2}
तस्य रुद्रा अधिपतयः ।
वायुर् ज्योतिः ।
यन् नभाꣳसि जुहोति ।
अन्तरिक्षम् एवावरुन्धे ।
रुद्राणाꣳ सायुज्यं गच्छति ।
वायुं ज्योतिर् अवरुन्धे ।
महाꣳसि जुहोति ।
असौ वै लोको महाꣳसि ।
तस्य_आदित्या अधिपतयः ।
सूर्यो ज्योतिः ।
VERSE: 3 { 3.8.18.3}
यन् महाꣳसि जुहोति ।
अमुम् एव लोकम् अवरुन्धे ।
आदित्यानाꣳ सायुज्यं गच्छति ।
सूर्यं ज्योतिर् अवरुन्धे ।
नमो राज्ञे नमो वरुणय_इति यव्यानि जुहोति ।
अन्नाद्यस्यावरुध्यै ।
मयोभूर् वातो अभि वातूस्रा इति गव्यानि जुहोति ।
पशूनाम् अवरुध्यै ।
प्राणाय स्वाहा व्यानाय स्वाहा_इति संततिहोमञ् जुहोति ।
सुवर्गस्य लोकस्य संतत्यै ।
VERSE: 4 { 3.8.18.4}
सिताय स्वाहा_असिताय स्वाहा_इति प्रमुक्तीर् जुहोति ।
सुवर्गस्य लोकस्य प्रमुक्त्यै ।
पृथिव्यै स्वाहा_अन्तरिक्षाय स्वाहा_इत्य् आह ।
यथायजुर् एवैतत् ।
दत्वते स्वहा_अदन्तकाय स्वाहा_इति शरीरहोमाञ् जुहोति ।
पितृलोकम् एव तैर् यजमानो ऽवरुन्धे ।
कस् त्वा युनक्ति स त्वा युनक्त्व् इति परिधीन् युनक्ति ।
इमे वै लोकाः परिधयः ।
इमान् एवास्मै लोकान् युनक्ति ।
सुवर्गस्य लोकस्य समष्ट्यै ।
VERSE: 5 { 3.8.18.5}
यः प्राणतो य आत्मदा इति महिमानौ जुहोति ।
सुवर्गो वै लोको महः ।
सुवर्गम् एव ताभ्यां लोकं यजमानो ऽवरुन्धे ।
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् इति समस्तानि ब्रह्मवर्चसानि जुहोति ।
ब्रह्मवर्चसम् एव तैर् यजमानो ऽवरुन्धे ।
जज्ञि बीजम् इति जुहोत्य् अनन्तरित्यै ।
अग्नये समनमत् पृथिव्यै समनमद् इति संनतिहोमाञ् जुहोति ।
सुवर्गस्य लोकस्य संनत्यै ।
भूताय स्वाहा भविष्यते स्वाहा_इति भूताभव्यौ होमौ जुहोति ।
अयं वै लोको भूतम् ।
VERSE: 6 { 3.8.18.6}
असौ भविष्यत् ।
अनयोर् एव लोकयोः प्रतितिष्ठति ।
सर्वस्य_आप्त्यै ।
सर्वस्य_अवरुद्ध्यै ।
यद् अक्रन्दः प्रथमं जायमान इत्य् अश्वस्तोमीयं जुहोति ।
सर्वस्य_आप्त्यै ।
सर्वस्य जित्यै ।
सर्वम् एव तेन_आप्नोति ।
सर्वं जयति ।
यो ऽश्वमेधेन यजते ।
VERSE: 7 { 3.8.18.7}
य उ चैनम् एवं वेद ।
यज्ञꣳ रक्षाꣳस्य् अजिघाꣳसन् ।
स एतान् प्रजापतिर् नक्तꣳहोमान् अपश्यत् ।
तान् अजुहोत् ।
तैर् वै स यज्ञाद् रक्षाꣳस्य् अपाहन् ।
यन् नक्तंहोमाञ् जुहोति ।
यज्ञाद् एव तैर् यजमानो रक्षाꣳस्य् अपहन्ति ।
उषसे स्वाहा व्युष्ट्यै स्वाहा_इत्य् अन्ततो जुहोति ।
सुवर्गस्य लोकस्य समष्ट्यै ।
अनुवाक 19
VERSE: 1 { 3.8.19.1}
एकयूपो वा_एकादशिनी वा ।
अन्येषां यज्ञानां यूपा भवन्ति ।
एकविꣳशिन्य् अश्वमेधस्य ।
स्वर्गस्य लोकस्याभिजित्यै ।
बैल्वो वा खादिरो वा पालाशो वा ।
अन्येषां यज्ञक्रतूनां यूपा भवन्ति ।
राज्जुदाल एकविꣳशत्यरत्निर् अश्वमेधस्य ।
सुवर्गस्य लोकस्य समष्ट्यै ।
नान्येषां पशूनां तेजन्या {ड्युमोण्ट तेदन्या} अवद्यन्ति ।
अवद्यन्त्य् अश्वस्य ।
VERSE: 2 { 3.8.19.2}
पाप्मा वै तेजनी {ड्युमोण्ट तेदनी} ।
पाप्मनो ऽपहत्यै ।
प्लक्षशाखायाम् अन्येषां पशूनाम् अवद्यन्ति ।
वेतसशाखायाम् अश्वस्य ।
अप्सुयोनिर् वा अश्वः ।
अप्सुजो वेतसः ।
स्व एवास्य योनाव् अवद्यति ।
यूपेषु ग्राम्यान् पशून् नियुञ्जन्ति ।
आरोकेष्व् आरण्यान् धारयन्ति ।
पशूनां व्यावृत्त्यै ।
आ ग्राम्यान् पशून्_लभन्ते ।
प्र_आरण्यान्त् सृजन्ति ।
पाप्मनो ऽपहत्यै ।
अनुवाक 20
VERSE: 1 { 3.8.20.1}
राज्जुदालम् अग्निष्ठं मिनोति ।
भ्रूणहत्याया अपहत्यै ।
पौतुद्रवाव् अभितो भवतः ।
पुण्यस्य गन्धस्यावरुध्यै ।
भ्रूणहत्याम् एवास्माद् अपहत्य ।
पुण्येन गन्धेन_उभयतः परिगृह्णाति ।
षड् बैल्वा भवन्ति ।
ब्रह्मवर्चसस्यावरुद्ध्यै ।
षट् खादिराः ।
तेजसो ऽवरुध्यै ।
VERSE: 2 { 3.8.20.2}
षट् पालाशाः ।
सोमपीथस्यावरुध्यै ।
एकविꣳशतिः संपद्यन्ते ।
एकविꣳशतिर् वै देवलोकाः ।
द्वादश मासाः पञ्च_ऋतवः ।
त्रय इमे लोकाः ।
असाव् आदित्य एकविꣳशः ।
एष सुवर्गो लोकः ।
सुवर्गस्य लोकस्य समष्ट्यै ।
शतं पशवो भवन्ति ।
VERSE: 3 { 3.8.20.3}
शतायुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
सर्वं वा अश्वमेध्य् आप्नोति ।
अपरिमिता भवन्ति ।
अपरिमितस्यावरुद्ध्यै ।
ब्रह्मवादिनो वदन्ति ।
कस्मात् सत्यात् ।
दक्षिणतो ऽन्येषां पशूनाम् अवद्यन्ति ।
उत्तरतो ऽश्वस्य_इति ।
वारुणो वा अश्वः ।
VERSE: 4 { 3.8.20.4}
एषा वै वरुणस्य दिक् ।
स्वायाम् एवास्य दिश्य् अवद्यति ।
यद् इतरेषां पशूनाम् अवद्यति ।
शतदेवत्यं तेनावरुन्धे ।
चिते ऽग्नाव् अधि वैतसे कट ऽश्वं चिनोति ।
अप्सुयोनिर् वा अश्वः अप्सुजो वेतसः ।
स्व एव_एनं योनौ प्रतिष्ठापयति ।
पुरस्तात् प्रत्यञ्चं तूपरं चिनोति ।
पश्चात् प्राचीनं गोमृगम् ।
VERSE: 5 { 3.8.20.5}
प्राणापानाव् एवास्मिन्त् सम्यञ्चौ दधाति ।
अश्वं तूपरं गोमृगम् इति सर्वहुत एताञ् जुहोति ।
एषां लोकानाम् अभिजित्यै ।
आत्मना_अभिजुहोति ।
सात्मानम् एव_एनꣳ सतनुं करोति ।
सात्मा_अमुष्मिन्_लोके भवति ।
य एवं वेद ।
अथो वसोर् एव धारां तेनावरुन्धे ।
इलुवर्दाय स्वाहा बलिवर्दाय स्वाहा_इत्य् आह ।
संवत्सरो वा इलुवर्दः ।
परिवत्सरो बलिवर्दः ।
संवत्सराद् एव परिवत्सराद् आयुर् अवरुन्धे ।
आयुर् एवास्मिन् दधाति ।
तस्माद् अश्वमेधयाजी जरसा विस्रसोमुं लोकम् एति ।
अनुवाक 21
VERSE: 1 { 3.8.21.1}
एकविꣳशो ऽग्निर् भवति ।
एकविꣳशः स्तोमः ।
एकविꣳशतिर् यूपाः ।
यथा वा अश्वा वर्षभा वा वृषाणः सꣳस्फुरेरन् ।
एवम् एतत् स्तोमाः सꣳस्फुरन्ते ।
यद् एकविꣳशाः ।
ते यत् समृच्छेरन् ।
हन्येतास्य यज्ञः ।
द्वादश एवाग्निः स्याद् इत्य् आहुः ।
द्वादशः स्तोमः ।
VERSE: 2 { 3.8.21.2}
एकादश युपाः ।
यद् द्वादशो ऽग्निर् भवति ।
द्वादश मासाः संवत्सरः ।
संवत्सरेणैवास्मा अन्नम् अवरुन्धे ।
यद् दश यूपा भवन्ति ।
दशाक्षरा विराट् ।
अन्नं विराट् ।
विराजा_एवान्नाद्यम् अवरुन्धे ।
य {आनंदा. स} एकादशः ।
स्तन एवास्यै सः ।
VERSE: 3 { 3.8.21.3}
दुह एव_एनां तेन ।
तद् आहुः ।
यद् द्वादशो ऽग्निः स्याद् द्वादशः स्तोम एकादश यूपाः ।
यथा स्थुरिणा यायात् ।
तादृक् तत् ।
एकविꣳश एवाग्निः स्याद् इत्य् आहुः ।
एकविꣳशः स्तोमः ।
एकविꣳशतिर् यूपाः ।
यथा प्रष्टिभिर् याति ।
तादृग् एव तत् ।
VERSE: 4 { 3.8.21.4}
यो वा अश्वमेधे तिस्रः ककुभो वेद ।
ककुद् ध राज्ञां भवति ।
एकविꣳशो ऽनिर् भवति ।
एकविꣳशः स्तोमः ।
एकविꣳशतिर् यूपाः ।
एता वा अश्वमेधे तिस्रः ककुभः ।
य एवं वेद ।
ककुद् ध राज्ञां भवति ।
यो वा अश्वमेधे त्रीणि शीर्षाणि वेद ।
शिरो ह राज्ञां भवति ।
एकविꣳशो ऽग्निर् भवति ।
एकविꣳशः स्तोमः ।
एकविꣳशतिर् यूपाः ।
एतानि वा अश्वमेधे त्रीणि शीर्षाणि ।
य एवं वेद ।
शिरो ह राज्ञां भवति ।
अनुवाक 22
VERSE: 1 { 3.8.22.1}
देवा वा अश्वमेधे पवमाने ।
सुवर्गं लोकं न प्राजानन् ।
तम् अश्वः प्राजानात् ।
यद् अश्वमेधे ऽश्व्èन मेध्येन_उदञ्चो बहिष्पवमानꣳ सर्पन्ति ।
सुवर्गस्य लोकस्य प्रज्ञात्यै ।
न वै मनुष्यः सुवर्गं लोकम् अञ्जसा वेद ।
अश्वो वै सुवर्गं लोकम् अञ्जसा वेद ।
यद् उद्गाता_उद्गायेत् ।
यथा_अक्षेत्रज्ञो ऽन्येन पथा प्रतिपादयेत् ।
तादृक् तत् ।
VERSE: 2 { 3.8.22.2}
उद्गातारम् अपरुद्ध्य ।
अश्वम् उद्गीथाय वृणीते ।
यथा क्षेत्रज्ञो ऽञ्जसा नयति ।
एवम् एवैनम् अश्वः सुवर्गं लोकम् अञ्जसा नयति ।
पुच्छम् अन्वारभन्ते ।
सुवर्गस्य लोकस्य समष्ट्यै ।
हिं करोति ।
सामैवाकः ।
हिं करोति ।
उद्गीथ एवास्य सः ।
VERSE: 3 { 3.8.22.3}
वडबा उपरुन्धन्ति ।
मिथुनत्वाय प्रजात्यै ।
अथो यथा_उपगातार उपगायन्ति ।
तादृग् एव तत् ।
उदगासीद् अश्वो मेध्य इत्य् आह ।
प्राजापत्यो वा अश्वः ।
प्रजापतिर् उद्गीथः ।
उद्गीथम् एवावरुन्धे ।
अथो ऋक्सामयोर् एव प्रतितिष्ठति ।
हिरण्येन_उपाकरोति ।
ज्योतिर् वै हिरण्यम् ।
ज्योतिर् एव मुखतो दधाति ।
यजमाने च प्रजासु च ।
अथो हिरण्यज्योतिर् एव यजमानः सुवर्गं लोकम् एति ।
अनुवाक 23
VERSE: 1 { 3.8.23.1}
पुरुषो वै यज्ञः ।
यज्ञः प्रजापतिः ।
यद् अश्वे पशून् नियुञ्जन्ति ।
यज्ञाद् एव तद् यज्ञं प्रयुङ्क्ते ।
अश्वं तूपरं गोमृगम् ।
तान् अग्निष्ठ आलभते ।
सेनामुखम् एव तत् सꣳश्यति ।
तस्माद् राजमुखं भीष्मं भावुकम् ।
आग्नेयं कृष्णग्रीवं पुरस्ताल् ललाटे ।
पूर्वाग्निम् एव तं कुरुते ।
VERSE: 2 { 3.8.23.2}
तस्मात् पूर्वाग्निं पुरस्तात् स्थापयन्ति ।
पौष्णम् अन्वञ्चम् ।
अन्नं वै पूषा ।
तस्मात् पूर्वाग्नाव् आहार्यम् आहरन्ति ।
ऐन्द्रापौष्णम् उपरिष्टात् ।
ऐन्द्रो वै राजन्यो ऽन्नं पूषा ।
अन्नाद्येन_एवैनम् उभयतः परिगृह्णाति ।
तस्माद् राजन्यो ऽन्नादो भावुकः ।
आग्नेयौ कृष्णग्रीवौ बाहुवोः ।
बाहुवोर् एव वीर्यं धत्ते ।
VERSE: 3 { 3.8.23.3}
तस्माद् राजन्यो बाहुबली भावुकः ।
त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः ।
सक्थ्योर् एव वीर्यं धत्ते ।
तस्माद् राजन्य ऊरुबली भावुकः ।
शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे ।
ब्रह्मवर्चसम् एव_उपरिष्टाद् धत्ते ।
अथो कवचे एवैते अभितः पर्यूहते ।
तस्माद् राजन्यः संनद्धो वीर्यं करोति ।
धात्रे पृष_उदरम् अधस्तात् ।
प्रतिष्ठाम् एवैतां कुरुते ।
अथो इयं वै धाता ।
अस्याम् एव प्रतितिष्ठति ।
सौर्यं बलक्षं पुच्छे ।
उत्सेधम् एव तं कुरुते ।
तस्माद् उत्सेधं भये प्रजा अभिसꣳश्रयन्ति ।
प्रपाठक: 9
अनुवाक 1
VERSE: 1 { 3.9.1.1}
प्रजापतिर् अश्वमेधम् असृजत ।
सो ऽस्मात् सृष्टो ऽपाक्रामत् ।
तम् अष्टादशिभिर् अनुप्रायुङ्क्त ।
तम् आप्नोत् ।
तम् आप्त्वा_अष्टादशिभिर् अवारुन्ध ।
यद् अष्टादशिन आलभ्यन्ते ।
यज्ञम् एव तैर् आप्त्वा यजमानो ऽवरुन्धे ।
संवत्सरस्य वा एषा प्रतिमा ।
यद् अष्टादशिनः ।
0 द्वादश मासाः पञ्च्_ऋतवः ।
VERSE: 2 { 3.9.1.2}
संवत्सरो ऽष्टादशः ।
यद् अष्टादशिन आलभ्यन्ते ।
संवत्सरेम् एव तैर् आप्त्वा यजमानो ऽवरुन्धे ।
अग्निष्ट्ह्è ऽन्यान् पशून् उपाकरोति ।
इतरेषु यूपेष्व् अष्टादशिनो ऽजामित्वाय ।
नव_नव_आलभ्यन्ते सवीर्यत्वाय ।
यद् आरण्यैः सꣳस्थापयेत् ।
व्यवस्येतां पितापुत्रौ ।
व्य् अध्वानः क्रामेयुः ।
विदूरं ग्रामयोर् ग्रामान्तौ स्याताम् ।
VERSE: 3 { 3.9.1.3}
ऋक्षीकाः पुरुषव्याघ्राः परिमोषिणि आव्याधिनीस् तस्करा अरण्येष्व् आजायेरन् ।
तद् आहुः ।
अपशवो वा एते ।
यद् आरण्याः ।
यद् आरण्यैः सꣳस्थापयेत् ।
क्षिप्रे यजमानम् अरण्यं मृतꣳ हरेयुः ।
अरण्यायतना ह्य् आरण्याः पशव इति ।
यत् पशून् न_आलभेत ।
अनवरुद्धा अस्य पशवः स्युः ।
यत् पर्यग्निकृतान् उत्सृजेत् ।
VERSE: 4 { 3.9.1.4}
यज्ञवैशसं { यज्ञवेशसं} कुर्यात् ।
यत् पशून् आलभते ।
तेन_एव पशून् अवरुन्धे ।
यत् पर्यग्निकृतान् उत्सृजत्य् अयज्ञवैशसाय { अयज्ञवेशसाय} ।
अवरुद्धा अस्य पशवो भवन्ति ।
न यज्ञवैशसं { यज्ञवेशसं} भवति ।
न यजमानम् अरण्यं मृतꣳ हरन्ति ।
ग्राम्यइः सꣳस्थापयति ।
एते वै पशवः क्षेमो नाम ।
सं पितापुत्राव् अवस्यतः ।
सम् अध्वानः क्रामन्ति ।
समन्तिकं ग्रामयोर् ग्रामान्तौ भवतः ।
न_ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस् तस्करा अरण्येष्व् आजायन्ते ।
अनुवाक 2
VERSE: 1 { 3.9.2.1}
प्रजापतिर् अकामयत_उभौ लोकाव् अवरुन्धीय_इति ।
स एतान् उभयान् पशून् अपश्यत् ।
ग्राम्याꣳश् च_आरण्याꣳश् च ।
तान् आलभत ।
तैर् वै स उभौ लोकाव् अवारुन्ध ।
ग्राम्यैर् एव पशुभिर् इमं लोकम् अवारुन्ध ।
आरण्यैर् अमुम् ।
यद् ग्राम्यान् पशून् आलभते ।
इमम् एव तैर् लोकम् अवरुन्धे ।
यद् आरण्यान् ।
VERSE: 2 { 3.9.2.2}
अमुं तैः ।
अनवरुद्धो वा एतस्य संवत्सर इत्य् आहुः ।
य इत_इतश् चातुर्मास्यानि संवत्सरं प्रयुङ्क्त इति ।
एतावान् वै संवत्सरः ।
यच् चातुर्मास्यानि ।
यद् एते चातुर्मास्याः पशव आलभ्यन्ते ।
प्रत्यक्षम् एव तैः संवत्सरं यजमानो ऽवरुन्धे ।
वि वा एष प्रजया पशुभिर् ऋध्यते ।
यः संवत्सरं प्रयुङ्क्ते ।
संवत्सरः सुवर्गो लोकः ।
VERSE: 3 { 3.9.2.3}
सुवर्गं तु लोकं नापराध्नोति ।
प्रजा वै पशव एकादशिनी ।
यद् एत ऐकादशिनाः पशव आलभ्यन्ते ।
साक्षाद् एव प्रजां पशून् यजमानो ऽवरुन्धे ।
प्रजापतिर् विराजम् असृजत ।
सा सृष्टा_अश्वमेधं प्रविशत् ।
तां दशिभिर् अनु प्रायुङ्क्त ।
ताम् आप्नोत् ।
ताम् आप्त्वा दशिभिर् अवारुन्ध ।
यद् दशिन आलभ्यन्ते ।
VERSE: 4 { 3.9.2.4}
विराजम् एव तैर् आप्त्वा यजमानो ऽवरुन्धे ।
एकादश दशत आलभ्यन्ते ।
एकादशाक्षरा त्रिष्टुप् ।
त्रैष्टुभाः पशवः ।
पशून् एवावरुन्धे ।
वैश्वदेवो वा अश्वः ।
नानादेवत्याः पशवो भवन्ति ।
अश्वस्य सर्वत्वाय ।
नानारूपा भवन्ति ।
तस्मान् नानारूपाः पशवः ।
बहुरूपा भवन्ति ।
तस्माद् बहुरूपाः पशवः समृद्ध्यै ।
अनुवाक 3
VERSE: 1 { 3.9.3.1}
अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते ।
अमुष्मा आरण्याः ।
यद् ग्राम्यान् पशून् आलभते ।
इमम् एव तैर् लोकम् अवरुन्धे ।
यद् आरण्यान् ।
अमुं तैः ।
उभयान् पशून् आलभते ।
ग्राम्याꣳश् च_आरण्याꣳश् च ।
उभयोर् लोकयोर् अवरुद्ध्यै ।
उभयान् पशून् आलभते ।
VERSE: 2 { 3.9.3.2}
ग्राम्याꣳश् च_आरण्याꣳश् च ।
उभयस्यान्नाद्यस्यावरुद्ध्यै ।
उभयान् पशून् आलभते ।
ग्राम्याꣳश् च_आरण्याꣳश् च ।
उभयेषां पशूनाम् अवरुद्ध्यै ।
त्रयस्_त्रयो भवन्ति ।
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
ब्रह्मवादिनो वदन्ति ।
कस्मात् सत्यात् ।
VERSE: 3 { 3.9.3.3}
अस्मिन्_ लोके बहवः कामा इति ।
यत् समानीभ्यो देवताभ्यो ऽन्येऽ_न्ये पशव आलभ्यन्ते ।
अस्मिन्न् एव तल् लोके कामान् दधाति ।
तस्माद् अस्मिन्_ लोके बहवः कामाः ।
त्रयाणां_त्रयाणाꣳ सह वपा जुहोति ।
त्र्यावृतो वै देवाः ।
त्र्यावृत इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
एषां लोकानां क्लृप्त्यै ।
पर्यग्निकृतान् आरण्यान् उत्सृजन्त्य् अहिꣳसायै ।
अनुवाक 4
VERSE: 1 { 3.9.4.1}
युञ्जन्ति ब्रध्नम् इत्य् आह ।
असौ वा आदित्यो ब्रध्नः ।
आदित्यम् एवास्मै युनक्ति ।
अरुषम् इत्य् आह ।
अग्निर् वा अरुषः ।
अग्निम् एवास्मै युनक्ति ।
चरन्तम् इत्य् आह ।
वायुर् वै चरन् ।
वायुम् एवास्मै युनक्ति ।
परितस्थुष इत्य् आह ।
VERSE: 2 { 3.9.4.2}
इमे वै लोकाः परितस्थुषः ।
इमन् एवास्मै लोकान् युनक्ति ।
रोचन्ते रोचना दिवीत्य् आह ।
नक्षत्राणि वै रोचना दिवि ।
नक्षत्राण्य् एवास्मै रोचयति ।
युञ्जन्त्य् अस्य काम्या_इत्य् आह ।
कामान् एवास्मै युनक्ति ।
हरी विपक्षसा_इत्य् आह ।
इमे वै हरी विपक्षसा ।
इमे एवास्मै युनक्ति ।
VERSE: 3 { 3.9.4.3}
शोणा धृष्णू नृवाहसा_इत्य् आह ।
अहोरात्रे वै नृवाहसा ।
अहोरात्रे एवास्मै युनक्ति ।
एता एवास्मै देवता युनक्ति ।
सुवर्गस्य लोकस्य समष्ट्यै ।
केतुं कृण्वन्न् अकेतव इति ध्वजं प्रतिमुञ्चति ।
यश एव_एनꣳ राज्ञां गमयति ।
जीमूतस्य_इव भवति प्रतीकम् इत्य् आह ।
यथायजुर् एव_एतत् ।
ये ते पन्थानः सवितः पूर्व्यास इत्य् अध्वर्युर् यजमानं वाचयत्य् अभिजित्यै ।
VERSE: 4 { 3.9.4.4}
परा वा एतस्य यज्ञ एति ।
यस्य पशुर् उपाकृतो ऽन्यत्र वेद्या एति ।
एतꣳ स्तोतर् एतेन पथा पुनर् अश्वम् आवर्तयासि न इत्य् आह ।
वायुर् वै स्तोता ।
वायुम् एवास्य परस्ताद् दधात्य् आवृत्त्यै ।
यथा वै हविषो गृहीतस्य स्कन्दति ।
एवं वा एतद् अश्वस्य स्कन्दति ।
यद् अस्य_उपाकृतस्य लोमानि शीयन्ते ।
यद् वालेषु काचान् आवयन्ति ।
लोमान्य् एवास्य तत् संभरन्ति ।
VERSE: 5 { 3.9.4.5}
भूर् भुवः सुवर् इति प्राजापत्याभिर् आवयन्ति ।
प्राजापत्यो वा अश्वः ।
स्वया_एवैनं देवतया समर्धयन्ति ।
भूर् इति महिषी ।
भुव इति वावाता ।
सुवर् इति परिवृक्त्ī́ ।
एषां लोकानाम् अभिजित्यै ।
हिरण्ययाः काचा भवन्ति ।
ज्योतिर् वै हिरण्यम् ।
राष्ट्रम् अश्वमेधः ।
VERSE: 6 { 3.9.4.6}
ज्योतिश् चैवास्मै राष्ट्रं च समीची दधाति ।
सहस्रं भवन्ति ।
सहस्रसंमितः सुवर्गो लोकः ।
सुवर्गस्य लोकस्याभिजित्यै ।
अप वा एतस्मात् तेज इन्द्रियं पशवः श्रीः क्रामन्ति ।
यो ऽश्वमेधेन यजते ।
वसवस् त्वा_अञ्जन्तु गायत्रेण छन्दसा_इति महिष्य् अभ्यनक्ति ।
तेजो वा आज्यम् ।
तेजो गायत्री ।
तेजसा_एवास्मै तेजो ऽवरुन्धे ।
VERSE: 7 { 3.9.4.7}
रुद्रास् त्वा_अञ्जन्तु त्रैष्टुभेन छन्दसा_इति वावाता ।
तेजो वा आज्यम् ।
इन्द्रियं त्रिष्टुप् ।
तेजसा_एवास्मा इन्द्रियम् अवरुन्धे ।
आदित्यास् त्वा_अञ्जन्तु जागतेन छन्दसा_इति परिवृक्त्ī́ ।
तेजो वा आज्यम् ।
पशवो जगती ।
तेजसा_एवास्मै पशून् अवरुन्धे ।
पत्नयो ऽभ्यञ्जन्ति ।
श्रिया वा एतद् रूपम् ।
VERSE: 8 { 3.9.4.8}
यत् पत्नयः ।
श्रियम् एवास्मिन् तद् दधति ।
नास्मात् तेज इन्द्रियं पशवः श्र्ī̀र् अपकामन्ति ।
लाजी3न्_ शाची3न् यशो ममा3ꣳ { ममा4ꣳ} इत्य् अतिरिक्तम् अन्नम् अश्वाय_उपाहरन्ति ।
प्रजाम् एवान्नादीं कुर्वते ।
एतद् देवा अन्नम् अत्त_एतद् अन्नम् अद्धि प्रजापत इत्य् आह ।
प्रजायाम् एवान्नाद्यं दधते ।
यदि नावजिघ्रेत् ।
अग्निः पशुर् आसीद् इत्य् अवघ्रापयेत् ।
अव हैव जिघ्रति ।
आक्रान् वाजी क्रमैर् अत्यक्रमीद् वाजी द्यौस् ते पृष्ठं पृथिवी सधस्थम् इत्य् अश्वम् अनुमन्त्रयते ।
एषां लोकानाम् अभिजित्यै ।
समिद्धो अञ्जन् कृदरं मतीनाम् इत्य् अश्वस्य_आप्रियो भवन्ति सरूपत्वाय ।
अनुवाक 5
VERSE: 1 { 3.9.5.1}
तेजसा वा एष ब्रह्मवर्चसेन व्यृध्यते ।
यो ऽश्वमेधेन यजते ।
होता च ब्रह्मा च ब्रह्मोद्यं वदतः ।
तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः ।
दक्षिणतो ब्रह्मा भवति ।
दक्षिणतāयतनो वै ब्रह्मा ।
बार्हस्पत्यो वै ब्रह्मा ।
ब्रह्मवर्चसम् एवास्य दक्षिणतो दधाति ।
तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः ।
उत्तरतो होता भवति ।
VERSE: 2 { 3.9.5.2}
उत्तरतāयतनो वै होता ।
आग्नेयो वै होता ।
तेजो वा अग्निः ।
तेज एवास्य_उत्तरतो दधाति ।
तस्माद् उत्तरो ऽर्धस् तेजस्वितरः ।
यूपम् अभितो वदतः ।
यजमानदेवत्यो वै यूपः ।
यजमानम् एव तेजसा च ब्रह्मवर्चसेन च समर्धयतः ।
किꣳ स्विद् आसीत् पूर्वचित्तिर् इत्य् आह ।
द्यौर् वै वृष्टिः पूर्वचित्तिः ।
VERSE: 3 { 3.9.5.3}
दिवम् एव वृष्टिम् अवरुन्धे ।
किꣳ स्विद् आसीद् बृहद् वय इत्य् आह ।
अश्वो वै बृहद् वयः ।
अश्वम् एवावरुन्धे ।
किꣳ स्विद् आसीत् पिशङ्गिला_इत्य् आह ।
रात्रिर् वै पिशङ्गिला ।
रात्रिम् एवावरुन्धे ।
किꣳ स्विद् आसीत् पिलिप्पिला_इत्य् आह ।
श्रीर् वै पिलिप्पिला ।
अन्नाद्यम् एवावरुन्धे ।
VERSE: 4 { 3.9.5.4}
कः स्विद् एकाकी चरतीत्य् आह ।
असौ वा आदित्य एकाकी चरति ।
तेज एवावरुन्धे ।
क उ स्विज् जायते पुनर् इत्य् आह ।
चन्द्रमा वै जायते पुनः ।
आयुर् एवावरुन्धे ।
किꣳ स्विद् धिमस्य भेषजम् इत्य् आह ।
अग्निर् वै हिमस्य भेषजम् ।
ब्रह्मवर्चसम् एवावरुन्धे ।
किꣳ स्विद् आवपनं महद् इत्य् आह ।
VERSE: 5 { 3.9.5.5}
अयं वै लोक आवपनं महत् ।
अस्मिन्न् एव लोके प्रतितिष्ठति ।
पृच्छामि त्वा परम् अन्तं पृथिव्या इत्य् आह ।
वेदिर् वै परो ऽन्तः पृथिव्याः ।
वेदिम् एवावरुन्धे ।
पृच्छामि त्वा भुवनस्य नाभिम् इत्य् आह ।
यज्ञो वै भुवनस्य नाभिः ।
यज्ञम् एवावरुन्धे ।
पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्य् आह ।
सोमो वै वृष्णो अश्वस्य रेतः ।
सोमपीथम् एवावरुन्धे ।
पृच्छामि वाचः परमं व्योम_इत्य् आह ।
ब्रह्म वै वाचः परमं व्योम ।
ब्रहम्वर्चसम् एवावरुन्धे ।
अनुवाक 6
VERSE: 1 { 3.9.6.1}
अप वा एतस्मात् प्राणाः क्रामन्ति ।
यो ऽश्वमेधेन यजते ।
प्राणाय स्वाहा व्यानाय स्वाहा_इति संज्ञप्यमान आहुतीर् जुहोति ।
प्राणान् एवास्मिन् दधाति ।
नास्मात् प्राणा अपक्रामन्ति ।
अवन्तीः स्थावन्तीस् त्वावन्तु ।
प्रियं त्वा प्रियाणाम् ।
वर्षिष्ठम् आप्यानाम् ।
निधीनां त्वा निधिपतिꣳ हवामहे वसो मम_इत्य् आह ।
अप_एवास्मै तद् ध्नुवते ।
VERSE: 2 { 3.9.6.2}
अथो धुवन्त्य् एव_एनम् ।
अथो न्य् एवास्मै ह्नुवते ।
त्रिः परियन्ति त्रय इमे लोकाः ।
एभ्य एव_एनं लोकेभ्यो धुवते ।
त्रिः पुनः परियन्ति ।
षट् संपद्यन्ते ।
षड् वा ऋतवः ।
ऋतुभिर् एवैनं धुवते ।
अप वा एतेभ्यः प्राणाः क्रामन्ति ।
VERSE: 3 { 3.9.6.3}
ये यज्ञे धुवनं तन्वते ।
नवकृत्वः परियन्ति ।
नव वै पूरुषे प्राणाः ।
प्राणान् एवाऽऽत्मन् दधते ।
न_एभ्यः प्राणा अपक्रामन्ति ।
अम्बे अम्बाल्य् अम्बिक इति पत्नीम् उदानयति ।
अह्वत_एवैनाम् ।
सुभगे काम्पीलवासिनी_इत्य् आह ।
तप एवैनाम् उपनयति ।
सुवर्गे लोके सं प्रोर्ण्वाथाम् इत्य् आह ।
VERSE: 4 { 3.9.6.4}
सुवर्गम् एव_एनां लोकं गमयति ।
आ_अहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् इत्य् आह ।
प्रजा वै पशवो गर्भः ।
प्रजाम् एव पशून् आत्मन् धत्ते ।
देवा वा अश्वमेधे पवमाने ।
सुवर्गं लोकं न प्राजानन् ।
तम् अश्वः प्राजानात् ।
यत् सूचीभिर् असिपथान् कल्पयन्ति ।
सुवर्गस्य लोकस्य प्रज्ञात्यै ।
गायत्री त्रिष्टुब् जगती_इत्य् आह ।
VERSE: 5 { 3.9.6.5}
यथायजुर् एव_एतत् ।
त्रय्यः सूच्य्ò भवन्ति ।
अयस्मय्यो रजता हरिण्यः ।
अस्य वै लोकस्य रूपम् अयस्मय्यः ।
अन्तरिक्षस्य रजताः ।
दिवो हरिण्यः ।
दिशो वा अयस्मय्यः ।
अवान्तरदिशा रजताः ।
ऊर्ध्वा हरिण्यः ।
दिश एवास्मै कल्पयति ।
कस् त्वा छ्यति कस् त्वा विशास्तीत्य् आहाहिꣳसायै ।
अनुवाक 7
VERSE: 1 { 3.9.7.1}
अप वा एतस्मात्_श्री राष्ट्रं क्रामति ।
यो ऽश्वमेधेन यजते ।
ऊर्ध्वाम् एनाम् उच्छ्रयताद् इत्य् आह ।
श्रीर् वै राष्ट्रम् अश्वमेधः ।
श्रियम् एवास्मै राष्ट्रमूर्ध्वम् उच्छ्रयति ।
वेणुभारं गिराव् इव_इत्य् आह ।
राष्ट्रं वै भारः ।
राष्ट्रम् एवास्मै पर्यूहति ।
अथास्या मध्यम् एधताम् इत्य् आह ।
श्रीर् वै राष्ट्रस्य मध्यम् ।
VERSE: 2 { 3.9.7.2}
श्रियम् एवावरुन्धे ।
शीते वाते पुनन्न् इव_इत्य् आह ।
क्षेमो वै राष्ट्रस्य शीतो वातः ।
क्षेमम् एवावरुन्धे ।
यद् धरिणी यवम् अत्तीत्य् आह ।
विड् वै हरिणी ।
राष्ट्रं यवः ।
विशं चैवास्मै राष्ट्रं च समीची दधाति ।
न पुष्टं पशु मन्यत इत्य् आह ।
तस्माद् राजा पशून् न पुष्यति ।
VERSE: 3 { 3.9.7.3}
शूद्रा यद् अर्यजारा न पोषाय धनायतीत्य् आह ।
तस्माद् वैशीपूत्रं नाभिषिञ्चन्ते ।
इयं यका शकुन्तिका_इत्य् आह ।
विड् वै शकुन्तिका ।
राष्ट्रम् अश्वमेधः ।
विशं चैवास्मै ।
राष्ट्रं च समीची दधाति ।
आहलम् इति सर्पतीत्य् आह ।
तस्माद् राष्ट्राय विशः सर्पन्ति ।
आहतं गभे पस इत्य् आह ।
विड् वै गभः ।
VERSE: 4 { 3.9.7.4}
राष्ट्रं पसः ।
राष्ट्रम् एव विश्य् आहन्ति ।
तस्माद् राष्ट्रं विशं घातुकम् ।
माता च ते पिता च त इत्य् आह ।
इयं वै माता ।
असौ पिता ।
आभ्याम् एवैनं परिददाति ।
अग्रं वृक्षस्य रोहत इत्य् आह ।
श्रीर् वै वृक्षस्याग्रम् ।
श्रियम् एवावरुन्धे ।
VERSE: 5 { 3.9.7.5}
प्रसुलामीति ते पिता गभे मुष्टिम् अतꣳसयद् इत्य् आह ।
विड् वै गभः ।
राष्ट्रं मुष्टिः ।
राष्ट्रम् एव विश्य् आहन्ति ।
तस्माद् राष्ट्रं विश घातुकम् ।
अप वा एतेभ्यः प्राणाः क्रामन्ति ।
ये यज्ञे ऽपूतं वदन्ति ।
दधिक्राव्णो अकारिषम् इति सुरभिमतीम् ऋचं वदन्ति ।
प्राणा वै सुरभयः ।
प्राणान् एवाऽऽत्मन् दधते ।
न_एभ्यः प्राणा अपक्रामन्ति ।
आपो हि ष्ठा मयोभुव इत्य् अद्भिर् मार्जयन्ते ।
आपो वै सर्वा देवताः ।
देवताभिर् एवाऽऽत्मानं पवयन्ते ।
अनुवाक 8
VERSE: 1 { 3.9.8.1}
प्रजापतिः प्रजाः सृष्ट्वा प्रेणा_अनुप्राविशत् ।
ताभ्यः पुनः संभवितुं नाशक्नोत् ।
सो ऽब्रवीत् ।
ऋध्नवद् इत् सः ।
यो मे ऽतः पुनः संभरद् इति ।
तं देवा अश्वमेधेन_एव समभरन् ।
ततो वै त आर्ध्नुवन् ।
यो ऽश्वमेधेन यजते ।
प्रजापतिम् एव सम्भरत्य् ऋध्नोति ।
पुरुषम् आलभते ।
VERSE: 2 { 3.9.8.2}
वैराजो वै पुरुषः ।
विराजम् एवाऽऽलभते ।
अथो अन्नं वै विराट् ।
अन्नम् एवावरुन्धे ।
अश्वम् आलभते ।
प्राजापत्यो वा अश्वः ।
प्रजापतिम् एवाऽऽलभते ।
अथो श्रीर् वा एकशफम् ।
श्रियम् एवावरुन्धे ।
गाम् आलभते ।
VERSE: 3 { 3.9.8.3}
यज्ञो वै गौः ।
यज्ञम् एवाऽऽलभते ।
अथो अन्नं वै गौः ।
अन्नम् एवावरुन्धे ।
अजावी आलभते भूम्ने ।
अथो पुष्टिर् वै भूमा ।
पुष्टिम् एवावरुन्धे ।
पर्यग्निकृतं पुरुषं च_आरण्याꣳश् च_उत्सृजन्त्य् अहिꣳसायै ।
उभौ वा एतौ पशू आलभ्येते ।
यश् चावमो यश् च परमः ।
ते ऽस्य_उभये यज्ञे बद्धाः ।
अभीष्टा अभिप्रीताः ।
अभिजिता अभिहुता भवन्ति ।
न_एनं दंक्ष्णवः पशवो यज्ञे बद्धाः ।
अभीष्टा अभिप्रीताः ।
अभिजिता अभिहुता हिꣳसन्ति ।
यो ऽश्वमेधेन यजते ।
य उ चैनम् एवं वेद ।
अनुवाक 9
VERSE: 1 { 3.9.9.1}
प्रथमेन वा एष स्तोमेन राध्वा ।
चतुष्टोमेन कृतेनायानाम् उत्तरे ऽहन् ।
एकविꣳशे प्रतिष्ठायां प्रतितिष्ठति ।
एकविꣳशात् प्रतिष्ठाया ऋतून् अन्वारोहति ।
ऋतवो वै पृष्ठानि ।
ऋतवः संवत्सरः ।
ऋतुष्व् एव संवत्सरे प्रतिष्ठाय ।
देवता अभ्यारोहति ।
शक्वरयः पृष्ठं भवन्त्य् अन्यद्_अन्यच् छन्दः ।
अन्ये_ऽन्ये वा एते पशव आलभ्यन्ते ।
VERSE: 2 { 3.9.9.2}
उत_इव ग्राम्याः ।
उत_इवाऽऽरण्याः ।
अहर् एव रूपेण समर्धयति ।
अथो अह्न एव_एष बलिर् ह्रियते ।
तद् आहुः ।
अपशवो वा एते ।
यद् अजावयश् च_आरण्याश् च ।
एते वै सर्वे पशवः ।
यद् गव्या इति ।
गव्यान् पशून् उत्तमे ऽहन्न् आलभते ।
VERSE: 3 { 3.9.9.3}
तेन_एव_उभयान् पशून् अवरुन्धे ।
प्राजापत्या भवन्ति ।
अनभिजितस्याभिजित्यै ।
सौरीर् नव श्वेता वशा अनूबन्ध्ā̀ भवन्ति ।
अन्तत एव ब्रह्मवर्चसम् अवरुन्धे ।
सोमाय स्वराज्ञे ऽनोवाहाव् अनड्वाहाव् इति द्वन्द्व्íनः पशून् आलभते ।
अहोरात्राणाम् अभिजित्यै ।
पशुभिर् वा एष व्यृध्यते ।
यो ऽश्वमेधेन यजते ।
छगलं कल्माषं किकिदीविं विदीगयम् इति त्वाष्ट्रान् पशून् आलभते ।
पशुभिर् एवाऽऽत्मानꣳ समर्धयति ।
ऋतुभिर् वा एष व्यृध्यते ।
यो ऽश्वमेधेन यजते ।
पिशङ्गास् त्रयो वासन्ता इत्य् ऋतुपशून् आलभते ।
ऋतुभिर् एवाऽऽत्मानꣳ समर्धयति ।
आ वा एष पशुभ्यो वृश्च्यते ।
यो ऽश्वमेधेन यजते ।
पर्यग्निकृता उत्सृजन्त्य् अनाव्रस्काय ।
अनुवाक 10
VERSE: 1 { 3.9.10.1}
प्रजापतिर् अकामयत महान् अन्नादः स्याम् इति ।
स एताव् अश्वमेधे महिमानाव् अपश्यत् ।
ताव् अगृह्णीत ।
ततो वै स महान् अन्नादो ऽभवत् ।
यः कामयेत महान् अन्नादः स्याम् इति ।
स एताव् अश्वमेधे महिमानौ गृह्णीत ।
महान् एवान्नादो भवति ।
यजमानदेवत्या वै वपा ।
राजा महिमा ।
यद् वपां महिम्ना_उभयतः परियजति ।
यजमानम् एव राज्येन_उभयतः परिगृह्णाति ।
पुरस्तात्स्वाहाकारा वा अन्ये देवाः ।
उपरिष्टात्स्वाहाकारा अन्ये ।
ते वा एते ऽश्व एव मेध्य उभये ऽवरुध्यन्ते ।
यद् वपां महिम्ना_उभयतः परियजति ।
तान् एव_उभयान् प्रीणाति ।
अनुवाक 11
VERSE: 1 { 3.9.11.1}
वैश्वदेवो वा अश्वः ।
तं यत् प्राजापत्यं कुर्यात् ।
या देवता अपिभागाः ।
ता भागधेयेन व्यर्धयेत् ।
देवताभ्यः समदं दध्यात् ।
स्तेगान् दꣳष्ट्राभ्यां मण्डूकाञ् जम्भ्येभिर् इति ।
आज्यम् अवदानं कृत्वा प्रतिसंख्यायम् आहुतीर् जुहोति ।
या एव देवता अपिभागाः ।
ता भागधेयेन समर्धयति ।
न देवताभ्यः समदं दधाति ।
VERSE: 2 { 3.9.11.2}
चतुर्दश_एतान् अनुवाकाञ् जुहोत्य् अनन्तरित्यै ।
प्रयासाय स्वाहा_इति पञ्चदशम् ।
पञ्चदश वा अर्धमासस्य रात्रयः ।
अर्धमासशः संवत्सर आप्यते ।
देवासुराः संयत्ता आसन् ।
ते ऽब्रुवन्न् अग्नयः स्विष्टकृतः ।
अश्वस्य मेध्यस्य वयम् उद्धारम् उद्धरामहै ।
अथ_एतान् अभिभवाम_इति ।
ते लोहितम् उदहरन्त ।
ततो देवा अभवन् ।
VERSE: 3 { 3.9.11.3}
परा_असुराः ।
यत् स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै ।
भवत्य् आत्मना ।
परा_अस्य भ्रातृव्यो भवति ।
गोमृगकण्ट्हेन प्रथमाम् आहुतिं जुहोति ।
पशवो वै गोमृगः ।
रुद्रो ऽग्निः स्विष्टकृत् ।
रुद्राद् एव पशून् अन्तर्दधाति ।
अथो यत्र_एषा_आहुतिर् हूयते ।
न तत्र रुद्रः पशून् अभिमन्यते ।
VERSE: 4 { 3.9.11.4}
अश्वशफेन द्वितीयाम् आहुतिं जुहोति ।
पशवो वा एकशफम् ।
रुद्रो ऽग्निः स्विष्टकृत् ।
रुद्राद् एव पशून् अन्तर्दधाति ।
अथो यत्र_एषा_आहुतिर् हूयते ।
न तत्र रुद्रः पशून् अभिमन्यते ।
अयस्मयेन कमण्डलुना तृतीयाम् आहुतिं जुहोत्य् आयास्यो वै प्रजाः ।
रुद्रो ऽग्निः स्विष्टकृत् ।रुद्राद् एव प्रजा अन्तर्दधाति ।
अथो यत्र_एषा_आहुतिर् हूयते ।
न तत्र रुद्रः प्रजा अभिमन्यते ।
अनुवाक 12
VERSE: 1 { 3.9.12.1}
अश्वस्य वा आलब्धस्य मेध उदक्रामत् ।
तद् अश्वस्तोमीयम् अभवत् ।
यद् अश्वस्तोमीयं जुहोति ।
समेधम् एवैनम् आलभते ।
आज्येन जुहोति ।
मेधो वा आज्यम् ।
मेधो ऽश्वस्तोमीयम् ।
मेधेन_एवास्मिन् मेधं दधाति ।
षट्त्रिꣳशतं जुहोति ।
षट्त्रिꣳशद् अक्षरा बृहती ।
VERSE: 2 { 3.9.12.2}
बार्हताः पशवः ।
सा पशूनां मात्रा ।
पशून् एव मात्रया समर्धयति ।
ता यद् भूयसीर् वा कनीयसीर् वा जुहुयात् ।
पशून् मत्रया व्यर्धयेत् ।
षट्त्रिꣳशतं जुहोति ।
षट्त्रिꣳशदक्षरा बृहती ।
बार्हताः पशवः ।
सा पशूनां मात्रा ।
पशून् एव मात्रया समर्धयति ।
VERSE: 3 { 3.9.12.3}
अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति ।
द्विपाद् वै पुरुषो द्विप्रतिष्ठः ।
तद् एनं प्रतिष्ठया समर्धयति ।
तद् आहुः ।
अश्वस्तोमीयं पूर्वꣳ होतव्या3ꣳ द्विपदा3 इति ।
अश्वो वा अश्वस्तोमीयम् ।
पुरुषो द्विपदाः ।
अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति ।
तस्माद् द्विपाच् चतुष्पादम् अत्ति ।
अथो द्विपद्य् एव चतुष्पदः प्रतिष्ठापयति ।
द्विपदा हुत्वा ।
नान्याम् उत्तराम् आहुतिं जुहुयात् ।
यद् अन्याम् उत्तराम् आहुतिं जुहुयात् ।
प्र प्रतिष्ठायाश् च्यवेत ।
द्विपदा अन्ततो जुहोति प्रतिष्ठित्यै ।
अनुवाक 13
VERSE: 1 { 3.9.13.1}
प्रजापतिर् अश्वमेधम् असृजत ।
सो ऽस्मात् सृष्टो ऽपाक्रामत् ।
तं यज्ञक्रतुभिर् अन्वैच्छत् ।
तं यज्ञक्रतुभिर् नान्वविन्दत् ।
तमिष्टिभिर् अन्वैच्छत् ।
तम् इष्टिभिर् अन्वविन्दत् ।
तद् इष्टीनाम् इष्टित्वम् ।
यत् संवत्सरम् इष्टिभिर् यजते ।
अश्वम् एव तद् अन्विच्छति ।
सावित्रियो भवन्ति ।
VERSE: 2 { 3.9.13.2}
इयं वै सविता ।
यो वा अस्यां नश्यति यो निलयते ।
अस्यां वाव तं विन्दन्ति ।
न वा इमाम् कश् चन_इत्य् आहुः ।
तिर्यङ् न_ऊर्ध्वो ऽत्येतुम् अर्हतीति ।
यत् सावित्रियो भवन्ति ।
सवितृप्रसूत एव_एनम् इच्छति ।
ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः ।
यत् सायं धृतीर् जुहोति ।
अश्वस्य यत्यै धृत्यै ।
VERSE: 3 { 3.9.13.3}
यत् प्रातर् इष्टिभिर् यजते ।
अश्वम् एव तद् अन्विच्छति ।
यत् सायं धृतीर् जुहोति ।
अश्वस्यैव यत्यै धृत्यै ।
तस्मात् सायं प्रजाः क्षेम्या भवन्ति ।
यत् प्रातर् इष्टिभिर् यजते ।
अश्वम् एव तद् अन्विच्छति ।
तस्माद् दिवा नष्टैष एति ।
यत् प्रातर् इष्टिभिर् यजते सायं धृतीर् जुहोति ।
अहोरात्राभ्याम् एवैनम् अन्विच्छति ।
अथो अहोरात्राभ्याम् एवास्मै योगक्षेमं कल्पयति ।
अनुवाक 14
VERSE: 1 { 3.9.14.1}
अप वा एतस्मात्_श्री राष्ट्रं क्रामति ।
यो ऽश्वमेधेन यजते ।
ब्राह्मणौ वीणागाथिनौ गायतः ।
श्रिया वा एतद् रूपम् ।
यद् वीणा ।
श्रियम् एवास्मिन् तद् धत्तः ।
यदा खलु वै पुरुषः श्रियम् अश्नुते ।
वीणा_अस्मै वाद्यते ।
तद् आहुः ।
यद् उभौ ब्राह्मणौ गायेताम् ।
VERSE: 2 { 3.9.14.2}
प्रभ्रꣳशुका_अस्मात्_श्रीः स्यात् ।
न वै ब्राह्मणे श्री रमत इति ।
ब्राह्मणो ऽन्यो गायेत् ।
राजन्यो ऽन्यः ।
ब्रह्म वै ब्राह्मणः ।
क्षत्रꣳ राजन्यः ।
तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवति ।
तद् आहुः ।
यद् उभौ दिवा गायेताम् ।
अपास्माद् राष्ट्रं क्रामेत् ।
VERSE: 3 { 3.9.14.3}
न वा ब्राह्मणे राष्ट्रꣳ रमत इति ।
यदा खलु वै राजा कामयते ।
अथ ब्राह्मणं जिनाति ।
दिवा ब्राह्मणो गायेत् ।
नक्तꣳ राजन्यः ।
ब्रह्मणो वै रूपम् अहः ।
क्षत्रस्य रात्रिः ।
तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतो राष्ट्रं परिगृहीतं भवति ।
इत्य् अददा इत्य् अयजथा इत्य् अपच इति ब्राह्मणो गायेत् ।
इष्टापूर्तं वै ब्राह्मणस्य ।
VERSE: 4 { 3.9.14.4}
इष्टापूर्तेन_एवैनꣳ स समर्धयति ।
इत्य् अजिना इत्य् अयुध्यथा इत्य् अमुꣳ संग्रामम् अहन्न् इति राजन्यः ।
युद्धं वै राजन्यस्य ।
युद्धेन_एवैनꣳ स समर्धयति ।
अक्लृप्ता वा एतस्य_ऋतव इत्य् आहुः ।
यो ऽश्वमेधेन यजत इति ।
तिस्रो ऽन्यो गायति तिस्रो ऽन्यः ।
षट्त् सम्पद्यन्ते ।
षड् वा ऋतवः ।
ऋतून् एवास्मै कल्पयतः ।
ताभ्याꣳ सꣳस्थायाम् ।
अनोयुक्ते च शते च ददाति ।
शतायुः पुरुषः शत_इन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
अनुवाक 15
VERSE: 1 { 3.9.15.1}
सर्वेषु वा एषु लोकेषु मृत्यवो ऽन्वायत्ताः ।
तेभ्यो यद् आहुतीर् न जुहुयात् ।
लोके_लोक एनं मृत्युर् विन्देत् ।
मृत्यवे स्वाहा मृत्यवे स्वाहा_इत्य् अभिपूर्वम् आहुतीर् जुहोति ।
लोकाल्_लोकाद् एव मृत्युम् अवयजते ।
न_एनं लोके_लोके मृत्युर् विन्दति ।
यद् अमुष्मै स्वाहा_अमुष्मै स्वाहा_इति जुह्वत् संचक्षीत ।
बहुं मृत्युम् अमित्रं कुर्वीत ।
मृत्यवे स्वाहा_इत्य् एकस्मा एव_एकां जुहुयात् ।
एको वा अमुष्मिन्_ लोके मृत्युः ।
VERSE: 2 { 3.9.15.2}
अशनयामृत्युर् एव ।
तम् एवामुष्मिन्_लोके ऽवयजते ।
भ्रूणहत्यायै स्वाहा_इत्य् अवभृथ आहुतिं जुहोति ।
भ्रूणहत्याम् एवावयजते ।
तद् आहुः ।
यद् भ्रूणहत्या_अपात्र्याथ ।
कस्माद् यज्ञे ऽपि क्रियत इति ।
अमृत्युर् वा अन्यो भ्रूणहत्याया इत्य् आहुः ।
भ्रूणहत्या वाव मृत्युर् इति ।
यद् भ्रूणहत्यायै स्वाहा_इत्य् अवभृथ आहुतिं जुहोति ।
VERSE: 3 { 3.9.15.3}
मृत्युम् एव_आहुत्या तर्पयित्वा परिपाणं कृत्वा ।
भ्रूणघ्ने भेषजं करोति ।
एताꣳ ह वै मुण्ड्इभ औदन्यवः । {ड्युमोण्ट सुग्गेस्त्स् तो तके ओउत् दण्ड}
भ्रूणहत्यायै प्रायश्चित्तिं विदां चकार ।
यो हास्यापि प्रजायां ब्राह्मणꣳ हन्ति ।
सर्वस्मै तस्मै भेषजं करोति ।
जुम्बकाय स्वाहा_इत्य् अवभृथ उत्तमाम् आहुतिं जुहोति ।
वरुणो वै जुम्बकः ।
अन्तत एव वरुणम् अवयजते ।
खलतेर् विक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्धन् जुहोति ।
एतद् वै वरुणस्य रूपं ।
रूपेणैव वरुणम् अवयजते ।
अनुवाक 16
VERSE: 1 { 3.9.16.1}
वारुणो वा अश्वः ।
तं देवतया व्यर्धयति ।
यत् प्राजापत्यं करोति ।
नमो राज्ञे नमो वरुणाय_इत्य् आह ।
वारुणो वा अश्वः ।
स्वया_एवैनं देवतया समर्धयति ।
नमो ऽश्वाय नमः प्रजापतय इत्य् आह ।
प्राजापत्यो वा अश्वः ।
स्वया_एवैनं देवतया समर्धयति ।
नमो ऽधिपतय इत्य् आह ।
VERSE: 2 { 3.9.16.2}
धर्मो वा अधिपतिः ।
धर्मम् एवावरुन्धे ।
अधिपतिर् अस्य् अधिपतिं मा कुर्व् अधिपतिर् अहं प्रजानां भूयासम् इत्य् आह ।
अधिपतिम् एवैनꣳ समानानां करोति ।
मां धेहि मयि धेहीत्य् आह ।
आशिषम् एवैताम् आशास्ते ।
उपाकृताय स्वाहा_इत्य् उपाकृते जुहोति ।
आलब्धाय स्वाहा_इति नियुक्ते जुहोति ।
हुताय स्वाहा_इति हुते जुहोति ।
एषां लोकानाम् अबिजित्यै ।
VERSE: 3 { 3.9.16.3}
प्र वा एष एभ्यो लोकेभ्यश् च्यवते ।
यो ऽश्वमेधेन यजते ।
आग्नेयम् ऐन्द्राग्नम् आश्विनम् ।
तान् पशून् आलभते प्रतिष्ठित्यै ।
यद् आग्नेयो भवति ।
अग्निः सर्वा देवताः ।
देवता एवावरुन्धे ।
ब्रह्म वा अग्निः ।
क्षत्रम् इन्द्रः ।
यद् ऐन्द्राग्नो भवति ।
VERSE: 4 { 3.9.16.4}
ब्रह्मक्षत्रे एवावरुन्धे ।
यद् आश्विनो भवति ।
आशिषाम् अवरुद्ध्यै ।
त्रयो भवन्ति ।
त्रय इमे लोकाः ।
एष्व् एव लोकेषु प्रतितिष्ठति ।
अग्नये ऽꣳहोमुचे ऽष्टाकपाल इति दशहविषम् इष्टिं निर्वपति ।
दशाक्षरा विराट् ।
अन्नं विराट् ।
विराजा_एवान्नाद्यम् अवरुन्धे ।
अग्नेर् मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति सर्वत्वाय ।
अनुवाक 17
VERSE: 1 { 3.9.17.1}
यद्य् अश्वम् उपतपद् विन्देत् ।
आग्नेयम् अष्टाकपालं निर्वपेत् ।
सौम्यं चरुम् ।
सावित्रम् अष्टाकपालम् ।
यद् आग्नेयो भवति ।
अग्निः सर्वा देवताः ।
देवताभिर् एवैनं भिषज्यति ।
यत् सौम्यो भवति ।
सोमो वा ओषधीनाꣳ राजा ।
याभ्य एवैनं विन्दति ।
VERSE: 2 { 3.9.17.2}
ताभिर् एवैनं भिषज्यति ।
यत् सावित्रो भवति ।
सवितृप्रसूत एवैनं भिषज्यति ।
एताभिर् एवैनं देवताभिर् भिषज्यति ।
अगदो हैव भवति ।
पौष्णं चरुं निर्वपेत् ।
यदि श्लोणः स्यात् ।
पूषा वै श्लोण्यस्य भिषक् ।
स एवैनं भिषज्यति ।
अश्लोणो हैव भवति ।
VERSE: 3 { 3.9.17.3}
रौद्रं चरुं निर्वपेत् ।
यदि महती देवता_अभिमन्येत ।
एतद्देवत्यो वा अश्वः ।
स्वया_एवैनं देवतया भिषज्यति ।
अगदो हैव भवति ।
वैश्वानरं द्वादशकपालं निर्वपेन् मृगाखरे यदि न_आगच्छेत् ।
इयं वा अग्निर् वैश्वानरः ।
इयम् एवैनम् अर्चिभ्यां परिरोधम् आनयति ।
आ हैव सुत्यम् अहर् गच्छति ।
यद्य् अधीयात् ।
VERSE: 4 { 3.9.17.4}
अग्नये ऽꣳहोमुचे ऽष्टाकपालः ।
सौर्यं पयः ।
वायव्य आज्यभागः ।
यजमानो वा अश्वः ।
अꣳहसा वा एष गृहीतः ।
यस्याश्वो मेधाय प्रोक्षितो ऽध्येति ।
यद् अꣳहोमुचे निर्वपति ।
अꣳहस एव तेन मुच्यते ।
यजमानो वा अश्वः ।
रेतसा वा एष व्यृध्यते ।
VERSE: 5 { 3.9.17.5}
यस्याश्वो मेधाय प्रोक्षितो ऽध्येति ।
सौर्यꣳ रेतः ।
यत् सौर्यं पयो भवति ।
रेतसा_एवैनꣳ स समर्धयति ।
यजमानो वा अश्वः ।
गर्भैर् वा एष व्यृध्यते ।
यस्याश्वो मेधाय प्रोक्षितो ऽध्येति ।
वायव्या गर्भाः ।
यद् वायव्य आज्यभागो भवति ।
गर्भैर् एवैनꣳ स समर्धयति ।
अथो यस्यैषाश्वमेधे प्रायश्चितिः क्रियते ।
इष्ट्वा वसीयान् भवति ।
अनुवाक 18
VERSE: 1 { 3.9.18.1}
तद् आहुः ।
द्वादश ब्रह्मौदनान्त् सꣳस्थिते निर्वपेत् ।
द्वादशभिर् वेष्टिभिर् यजेत_इति ।
यद् इष्टिभिर् यजेत ।
उपनामुक एनं यज्ञः स्यात् ।
पापीयाꣳस् तु स्यात् ।
आप्तानि वा एतस्य छन्दाꣳसि ।
य ईजानः ।
तानि क एतावदाशु पुनः प्रयुञ्जीत_इति ।
सर्वा वै सꣳस्थिते यज्ञे वाग् आप्यते ।
VERSE: 2 { 3.9.18.2}
सा_आप्ता भवति यातयाम्नी ।
क्रूरीकृतेव हि भवत्य् अरुष्कृता ।
सा न पुनः प्रयुज्या_इत्य् आहुः ।
द्वादश_एव ब्रह्मौदनान्त् सꣳस्थिते निर्वपेत् ।
प्रजापतिर् वा ओदनः ।
यज्ञः प्रजापतिः ।
उपनामुक एनं यज्ञो भवति ।
न पापीयान् भवति ।
द्वादश भवन्ति ।
0 द्वादश मासाः संवत्सरः ।
1 संवत्सर एव प्रतितिष्ठति ।
अनुवाक 19
VERSE: 3 { 3.9.19.3}
एष वै विभूर् नाम यज्ञः ।
सर्वꣳ ह वै तत्र विभु भवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै प्रभूर् नाम यज्ञः ।
सर्वꣳ ह वै तत्र प्रभु भवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वा ऊर्जस्वान् नाम यज्ञः ।
सर्वꣳ ह वै तत्र_ऊर्जस्वद्भ्अवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै पयस्वान् नाम यज्ञः ।
VERSE: 4 { 3.9.19.4}
सर्वꣳ ह वै तत्र पयस्वद् भवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै विधृतो नाम यज्ञः ।
सर्वꣳ ह वै तत्र विधृतं भवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै व्यावृत्तो नाम यज्ञः ।
सर्वꣳ ह वै तत्र व्यावृत्तं भवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै प्रतिष्ठितो नाम यज्ञः ।
सर्वꣳ ह वै तत्र प्रतिष्ठितं भवति ।
VERSE: 5 { 3.9.19.5}
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै तेजस्वी नाम यज्ञः ।
सर्वꣳ ह वै तत्र तेजस्वि भवति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै ब्रह्मवर्चसी नाम यज्ञः ।
आ ह वै तत्र ब्राह्मणो ब्रह्मवर्चसी जायते ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वा अतिव्याधी नाम यज्ञः ।
आ ह वै तत्र राजन्यो ऽतिव्याधी जायते ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै दीर्घो नाम यज्ञः ।
दीर्घायुषो ह वै तत्र मनुष्या भवन्ति ।
यत्र_एतेन यज्ञेन यजन्ते ।
एष वै क्लृप्तो नाम यज्ञः ।
कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः ।
यत्र_एतेन यज्ञेन यजन्ते ।
अनुवाक 20
VERSE: 1 { 3.9.20.1}
तार्प्येणाश्वꣳ संज्ञपयन्ति ।
यज्ञो वै तार्प्यम् ।
यज्ञेन_एवैनꣳ समर्धयन्ति ।
यामेन साम्ना प्रस्तोता_अनूपतिष्ठते ।
यमलोकम् एवैनं गमयति ।
तार्प्ये च कृत्यधीवासे चाश्वꣳ संज्ञपयन्ति ।
एतद् वै पशूनाꣳ रूपम् ।
रूपेणैव पशून् अवरुन्धे ।
हिरण्यकशिपु भवति ।
तेजसो ऽवरुद्ध्यै ।
VERSE: 2 { 3.9.20.2}
रुक्मो भवति ।
सुवर्गस्य लोकस्यानुख्यात्यै ।
अश्वो भवति ।
प्रजापतेर् आप्त्यै ।
अस्य वै लोकस्य रूपं तार्प्यम् ।
अन्तरिक्षस्य कृत्यधीवासः ।
दिवो हिरण्यकशिपु ।
आदित्यस्य रुक्मः ।
प्रजापतेर् अश्वः ।
इमम् एव लोकं तार्प्येण_आप्नोति ।
VERSE: 3 { 3.9.20.3}
अन्तरिक्षं कृत्यधीवासेन ।
दिवꣳ हिरण्यकशिपुना ।
आदित्यꣳ रुक्मेण ।
अश्वेन_एव मेध्येन प्रजापतेः सायुज्यꣳ सलोकताम् आप्नोति ।
एतासाम् एव देवतानाꣳ सायुज्यम् ।
सार्ष्टिताꣳ समानलोकताम् आप्नोति ।
यो ऽश्वमेधेन यजते ।
य उ चैनम् एवं वेद ।
अनुवाक 21
VERSE: 1 { 3.9.21.1}
आदित्याश् चाङ्गिरसश् च सुवर्गे लोके ऽस्पर्धन्त ।
ते ऽङ्गिरस आदित्येभ्यः ।
अमुम् आदित्यमश्वꣳ श्वेतं भूतं दक्षिणाम् अनयन् ।
ते ऽब्रुवन् ।
यं नो ऽनेष्ट ।
स वर्यो ऽभूद् इति ।
तस्माद् अश्वꣳ सवर्य_इत्य् आह्वयन्ति ।
तस्माद् यज्ञे वरो दीयते ।
यत् प्रजापतिर् आलब्धो ऽश्वो ऽभवत् ।
तस्माद् अश्वो नाम ।
VERSE: 2 { 3.9.21.2}
यत्_श्वयद् अरुर् आसीत् ।
तस्माद् अर्वा नाम ।
यत् सद्यो वाजन्त् समजयत् ।
तस्माद् वाजी नाम ।
यद् असुराणां लोकान् आदत्त ।
तस्माद् आदित्यो नाम ।
अग्निर्वा अश्वमेधस्य योनिर् आयतनम् ।
सूर्यो ऽग्नेर् योनिर् आयतनम् ।
यद् अश्वमेधे ऽग्नौ चित्य उत्तरवेदिम् उपवपति ।
योनिमन्तम् एवैनम् आयतनवन्तं करोति ।
VERSE: 3 { 3.9.21.78}
योनिमान् आयतनवान् भवति ।
य {आनंदा. स} एवं वेद ।
प्राणापानौ वा एतौ देवानाम् ।
यद् अर्काश्वमेधौ ।
प्राणापानाव् एवावरुन्धे ।
ओजो बलं वा एतौ देवानाम् ।
यद् अर्काश्वमेधौ ।
ओजो बलम् एवावरुन्धे ।
अग्निर् वा अश्वमेधस्य योनिर् आयतनम् ।
सूर्यो ऽग्नेर् योनिर् आयतनम् ।
यद् अश्वमेधे ऽग्नौ चित्य उत्तरवेदिं चिनोति ।
ताव् अर्काश्वमेधौ ।
अर्काश्वमेधाव् एवावरुन्धे ।
अथो अर्काश्वमेधयोर् एव प्रतितिष्ठति ।
अनुवाक 22
VERSE: 1 { 3.9.22.1}
प्रजापतिं वै देवाः पितरम् ।
पशुं भूतं मेधाय_आलभन्त ।
तम् आलभ्य_उपावसन् ।
प्रातर् यष्टास्मह इति ।
एकं वा एतद् देवानाम् अहः ।
यत् संवत्सरः ।
तस्माद् अश्वः पुरस्तात् संवत्सर आलभ्यते ।
यत् प्रजापतिर् आलब्धो ऽश्वो ऽभवत् ।
तस्माद् अश्वः ।
यत् सद्यो मेधो ऽभवत् ।
VERSE: 2 { 3.9.22.2}
तस्माद् अश्वमेधः ।
वेदुको ऽश्वम् आशुं भवति ।
य एवं वेद ।
यद् वै तत् प्रजापतिर् आलब्धो ऽश्वो ऽभवत् ।
तस्माद् अश्वः प्रजापतेः पशूनाम् अनुरूपतमः ।
आ_अस्य पुत्रः प्रतिरूपो जायते ।
य एवं वेद ।
सर्वाणि भूतानि सम्भृत्य_आलभते ।
सम् एनं देवास् तेजसे ब्रह्मवर्चसाय भरन्ति ।
यो ऽश्वमेधेन यजते ।
VERSE: 3 { 3.9.22.3}
य उ चैनम् एवं वेद ।
एतद् वै तद् देवा एतां देवताम् ।
पशुं भूतं मेधाय_आलभन्त ।
यज्ञम् एव ।
यज्ञेन यज्ञम् अयजन्त देवाः ।
कामप्रं यज्ञम् अकुर्वत ।
ते ऽमृतत्वम् अकामयन्त ।
ते ऽमृतत्वम् अगच्छन् ।
यो ऽश्वमेधेन यजते ।
देवानाम् एव_आयनेन_एति ।
VERSE: 4 { 3.9.22.4}
प्राजापत्येन_एव यज्ञेन यजते कामप्रेण ।
अपुनर्मारम् एव गच्छति ।
एतस्य वै रूपेण पुरस्तात् प्राजापत्यम् ऋषभं तूपरं बहुरूपम् आलभते ।
सर्वेभ्यः कामेभ्यः ।
सर्वस्य_आप्त्यै ।
सर्वस्य जित्यै ।
सर्वम् एव तेन_आप्नोति ।
सर्वं जयति ।
यो ऽश्वमेधेन यजते ।
य उ चैनम् एवं वेद ।
अनुवाक 23
VERSE: 1 { 3.9.23.83}
यो वा अश्वस्य मेध्यस्य लोमनी वेद ।
अश्वस्यैव मेध्यस्य लोमꣳल्लोमञ्जुहोति ।
अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी ।
यत् सायम्प्रातर् जुहोति ।
अश्वस्यैव मेध्यस्य लोमꣳल्लोमञ् जुहोति ।
एतदनुकृति ह स्म वै पुरा ।
अश्वस्य मेध्यस्य लोमꣳल्लोमञ् जुह्वति ।
यो वा अश्वस्य मेध्यस्य पदे वेद ।
अश्वस्यैव मेध्यस्य पदेपदे जुहोति ।
दर्शपूर्णमासौ वा अश्वस्य मेध्यस्य पदे ।
VERSE: 2 { 3.9.23.2}
यद् दर्शपूर्णमासौ यजते ।
अश्वस्यैव मेध्यस्य पदेपदे जुहोति ।
एतदनुकृति ह स्म वै पुरा ।
अश्वस्य मेध्यस्य पदेपदे जुह्वति ।
यो वा अश्वस्य मेध्यस्य विवर्तनं वेद ।
अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति ।
असौ वा आदित्यो ऽश्वः ।
स आहवनीयम् आगच्छति ।
तद् विवर्तते ।
यद् अग्निहोत्रं जुहोति ।
अश्वस्यैव मेध्यस्य विवर्तनेविवर्तने जुहोति ।
एतदनुकृति ह स्म वै पुरा ।
अश्वस्य मेध्यस्य विवर्तनेविवर्तने जुह्वति ।
प्रपाठक: 10
अनुवाक 1 सावित्रचयनम्
VERSE: 1 { 3.10.1.1}
संज्ञानं विज्ञानं प्रज्ञानं जानद् अभिजानत् ।
संकल्पमानं प्रकल्पमानम् उपकल्पमानम् उपक्लृप्तं क्लृप्तम् ।
श्रेयो वसीय आयत् सम्भूतं भूतम् ।
चित्रः केतुः प्रभान् आभान्त् संभान् ।
ज्योतिष्माꣳस् तेजस्वान् आतपꣳस् तपन्न् अभितपन् ।
रोचनो रोचमानः शोभनः शोभमानः कल्याणः ।
दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना ।
आप्यायमाना प्यायमाना प्याया सूनृतेरा ।
आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी ।
दाता प्रदाता_आनन्दो मोदः प्रमोदः ।
VERSE: 2 { 3.10.1.2}
आवेशयन् निवेशयन्त् संवेशनः सꣳशान्तः शान्तः ।
आभवन् प्रभवन्त् संभवन्त् संभूतो भूतः ।
प्रस्तुतं विष्टुतꣳ सꣳस्तुतं कल्याणं विश्वरूपम् ।
शुक्रम् अमृतं तेजस्वि तेजः समिद्धम् ।
अरुणं भानुमन् मरीचिमद् अभितपत् तपस्वत् ।
सविता प्रसविता दीप्तो दीपयन् दीप्यमानः ।
ज्वलञ् ज्वलिता तपन् वितपन्त् संतपन् ।
रोचनो रोचमानः शुम्भूः शुम्भमानो वामः ।
सुता सुन्वती प्रसुता सूयमाना_अभिषूयमाणा ।
पीती प्रपा संपा तृप्तिस् तर्पयन्ती ।
VERSE: 3 { 3.10.1.3}
कान्ता काम्या कामजाता_आयुष्मती कामदुघा ।
अभिशास्ता_अनुमन्ता_आनन्दो मोदः प्रमोदः ।
आसादयन् निषादयन्त् सꣳसादनः सꣳसन्नः सन्नः ।
आभूर् विभूः प्रभूः शम्भूर् भुवः ।
पवित्रं पवियिष्यन् पूतो मेध्यः ।
यशो यशस्वान् आयुर् अमृतः ।
जीवो जीविष्यन्त् स्वर्गो लोकः ।
सहस्वान्त् सहीयान् ओजस्वान्त् सहमानः ।
जयन्न् अभिजयन्त् सुद्रविणो द्रविणोदाः ।
आर्द्रपवित्रो हरिकेशो मोदः प्रमोदः ।
VERSE: 4 { 3.10.1.4}
अरुणो ऽरुणरजाः पुण्डरीको विश्वजिद् अभिजित् ।
आर्द्रः पिन्वमानो ऽन्नवान् रसवान् इरावान् ।
सर्वौषधः सम्भरो महस्वान् ।
एजत्का जोवत्काः ।
क्षुल्लकाः शिपिविष्टकाः ।
सरिस्रराः सुशेरवः ।
अजिरासो गमिष्णवः ।
इदानीं तदानीम् एतर्हि क्षिप्रम् अजिरम् ।
आशुर् निमेषः फणो द्रवन्न् अतिद्रवन् ।
त्वरꣳस् त्वरमाण आशुर् आशीयाञ् जवः {ड्युमोण्ट जवः [?]} ।
अग्निष्टोम उक्थ्यो ऽतिरात्रो द्विरात्रस् त्रिरात्रश् चतूरात्रः ।
अग्निर् ऋतुः सूर्य ऋतुश् चन्द्रमा ऋतुः ।
प्रजापतिः संवत्सरो महान् कः ।
अनुवाक 2 सावित्रचयनम्
VERSE: 1 { 3.10.2.1}
भूर् अग्निं च पृथिवीं च मां च ।
त्रीꣳश् च लोकान्त् संवत्सरं च ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
भुवो वायुं चान्तरिक्षं च मां च ।
त्रीꣳश्च लोकान्त् संवत्सरं च ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
स्वर् आदित्यं च दिवं च मां च ।
त्रीꣳश् च लोकान्त् संवत्सरं च ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
भूर् भुवः स्वश् चन्द्रमसं च दिशश् च मां च ।
त्रीꣳश् च लोकान्त् संवत्सरं च ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
अनुवाक 3 सावित्रचयनम्
VERSE: 1 { 3.10.3.1}
त्वम् एव त्वां वेत्थ यो ऽसि सो ऽसि ।
त्वम् एव त्वाम् अचैषीः ।
चितश् चासि संचितश् चास्य् अग्ने ।
एतावाꣳश् चासि भूयाꣳश् चास्य् अग्ने ।
यत् ते अग्ने न्यूनं यद् उ ते ऽतिरिक्तम् ।
आदित्यास् तद् अङ्गिरसश् चिन्वन्तु ।
विश्वे ते देवाश् चितिम् आपूरयन्तु ।
चितश् चासि संचितश् चास्य् अग्ने ।
एतावाꣳश् चासि भूयाꣳश् चास्य् अग्ने ।
मा ते अग्ने ऽचयेन मा_अतिचयेन_आयुर् आवृक्षि ।
सर्वेषां ज्योतिषां ज्योतिर् यद् अदाव् उदेति ।
तपसो जातम् अनिभृष्टम् ओजः ।
तत् ते ज्योतिर् इष्टके ।
तेन मे तप ।
तेन मे ज्वल ।
तेन मे दीदिहि ।
यावद् देवाः ।
यावद् असाति सूर्यः ।
यावद् उतापि ब्रह्म ।
अनुवाक 4 सावित्रचयनम्
VERSE: 1 { 3.10.4.1}
संवत्सरो ऽसि परिवत्सरो ऽसि ।
इदावत्सरो ऽसीदुवत्सरो ऽसि ।
इद्वत्सरो ऽसि वत्सरो ऽसि ।
तस्य ते वसन्तः सिरः ।
ग्रीष्मो दक्षिणः पक्षः ।
वर्षाः पुच्छम् ।
शरद् उत्तरः पक्षः ।
हेमन्तो मध्यम् ।
पूर्वपक्षाश् चितयः ।
अपरपक्षाः पुरीषम् ।
VERSE: 2 { 3.10.4.2}
अहोरात्राणीष्टकाः ।
ऋषभो ऽसि स्वर्गो लोकः ।
यस्यां दिशि महीयसे ।
ततो नो मह आवह ।
वायुर् भूत्वा सर्वा दिश आवाहि ।
सर्वा दिशो ऽनुविवाहि ।
सर्वा दिशो ऽनुसंवाहि ।
चित्त्या { चित्या} चितिम् आपृण ।
अचित्त्या { अचित्या} चितिम् आपृण ।
चिद् असि समुद्रयोनिः ।
VERSE: 3 { 3.10.4.3}
इन्दुर् दक्षः स्येन ऋतावा ।
हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव आनिषत्तः ।
नमस् ते अस्तु मा मा हिꣳसीः ।
आ_इति प्र_इति वीति सम् इत्य् उद् इति ।
दिवं मे यच्छ ।
अन्तरिक्षं मे यच्छ ।
पृथिवीं मे यच्छ ।
पृथिवीं मे यच्छ ।
अन्तरिक्षं मे यच्छ ।
दिवं मे यच्छ ।
अह्ना प्रसारय ।
रात्र्या समच ।
रात्र्या प्रसारय अह्ना समच ।
कामं प्रसारय ।
कामꣳ समच ।
अनुवाक 5 सावित्रचयनम्
VERSE: 1 { 3.10.5.1}
भूर् भुवः स्वः ।
ओजो बलम् ।
ब्रह्म क्षत्रम् ।
यशो महत् ।
सत्यं तपो नाम ।
रूपम् अमृतम् ।
चक्षुः स्रोत्रम् ।
मन आयुः ।
विश्वं यशो महः ।
समं तपो हरो भाः ।
जातवेदा यदि वा पावको ऽसि ।
वैश्वानरो यदि वा वैद्युतो ऽसि ।
शं प्रजाभ्यो यजमानाय लोकम् ।
ऊर्जं पुष्टिं ददद् अभ्याववृत्स्व {आनंदा. अभ्यावभृत्स्व) ।
अनुवाक 6 सावित्रचयनम्
VERSE: 1 { 3.10.6.1}
राज्ञी विराज्ञी ।
सम्राज्ञी स्वराज्ञी ।
अर्चिः शोचिः ।
तपो हरो भाः ।
अग्निर् इन्द्रो बृहस्पतिः ।
विश्वे देवा भुवनस्य गोपाः ।
ते मा सर्वे यशसा सꣳसृजन्तु ।
अनुवाक 7 सावित्रचयनम्
VERSE: 1 { 3.10.7.1}
असवे स्वाहा ।
वसवे स्वाहा ।
विभुवे स्वाहा ।
विवस्वते स्वाहा ।
अभिभुवे स्वाहा_अधिपतये स्वाहा ।
दिवां पतये स्वाहा_अꣳहस्पत्याय स्वाहा ।
चाक्षुष्मत्याय स्वाहा ज्योतिष्मत्याय स्वाहा ।
राज्ञे स्वाहा विराज्ञे स्वाहा ।
संराज्ञे स्वाहा ।
स्वराज्ञे स्वाहा ।
शूषाय स्वाहा सूर्याय स्वाहा ।
चन्द्रमसे स्वाहा ज्योतिषे स्वाहा ।
सꣳसर्पाय स्वाहा ।
कल्याणाय स्वाहा ।
अर्जुनाय स्वाहा ।
अनुवाक 8 सावित्रचयनम्
VERSE: 1 { 3.10.8.1}
विपश्चिते पवमानाय गायत ।
मही न धारा_अत्य् अन्धो अर्षति ।
अहिर् ह जीर्णाम् अतिसर्पति त्वचम् ।
अत्यो न क्रीडन्न् असरद् वृषा हरिः ।
उपयामगृहीतो ऽसि मृत्यवे त्वा जुष्टं गृह्णामि ।
एष ते योनिर् मृत्यवे त्वा ।
अप मृत्युम् अप क्षुधम् ।
अप_इतः शपथं जहि ।
अधा { अथा} नो अग्न आवह ।
रायस्पोषꣳ सहस्रिणम् ।
VERSE: 2 { 3.10.8.2}
ये ते सहस्रम् अयुतं पाशाः ।
मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया ।
सर्वान् अवयजामहे ।
भक्षो ऽस्य् अमृतभक्षः ।
तस्य ते मृत्युपीतस्यामृतवतः ।
स्वगाकृतस्य मधुमतः ।
उपहूतस्य_उपहूतो भक्षयामि ।
मन्द्रा_अभिभूतिः केतुर् यज्ञानां वाक् ।
असाव् एहि ।
VERSE: 3 { 3.10.8.3}
अन्धो जागृविः प्राण ।
असाव् एहि ।
बधिर आक्रन्दयितर् अपान ।
असाव् एहि ।
अहस्तो ऽस्ता { ऽस्त्वा} चक्षुः ।
असाव् एहि ।
अपादाशो मनः ।
असाव् एहि ।
कवे विप्रचित्ते श्रोत्र ।
असाव् एहि ।
VERSE: 4 { 3.10.8.4}
सुहस्तः सुवासाः ।
शूषो नामास्य् अमृतो मर्त्येषु ।
तं त्वा_अहं तथा वेद ।
असाव् एहि ।
अग्निर् मे वाचि श्रितः ।
वाग् हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
वायुर् मे प्राणे श्रितः ।
VERSE: 5 { 3.10.8.5}
प्राणो हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
सूर्यो मे चक्षुषि श्रितः ।
चक्षुर् हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
चन्द्रमा मे मनसि श्रितः ।
VERSE: 6 { 3.10.8.6}
मनो हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
दिशो मे श्रोत्रे श्रिताः ।
श्रोत्रꣳ हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
आपो मे रेतसि श्रिताः ।
VERSE: 7 { 3.10.8.7}
रेतो हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
पृथिवी मे शरीरे श्रिता ।
शरीरꣳ हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
ओषधिवनस्पतयो मे लोमसु श्रिताः ।
VERSE: 8 { 3.10.8.8}
लोमानि हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
इन्द्रो मे बले श्रितः ।
बलꣳ हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
पर्जन्यो मे मूर्ध्नि श्रितः ।
VERSE: 9 { 3.10.8.9}
मूर्धा हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
ईशानो मे मन्यौ श्रितः ।
मन्युर् हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
आत्मा म आत्मनि श्रितः ।
VERSE: 10 { 3.10.8.10}
आत्मा हृदये ।
हृदयं मयि ।
अहम् अमृते ।
अमृतं ब्रह्मणि ।
पुनर् म आत्मा पुनर् आयुर् आगात् ।
पुनः प्राणः पुनर् आकूतम् आगात् ।
वैश्वानरो रश्मिभिर् वावृधानः ।
अन्तस् तिष्ठत्व् अमृतस्य गोपाः ।
अनुवाक 9 सावित्रचयनम्
VERSE: 1 { 3.10.9.1}
प्रजापतिर् देवान् असृजत ।
ते पाप्मना संदिता अजायन्त ।
तान् व्यद्यत् ।
यद् व्यद्यत् ।
तस्माद् विद्युत् ।
तम् अवृश्चत् ।
यद् अवृश्चत् ।
तस्माद् वृष्टिः ।
तस्माद् यत्र_एते देवते अभिप्राप्नुतः { अभियाप्नुतः} ।
वि च हैवास्य तत्र पाप्मानं द्यतः ।
VERSE: 2 { 3.10.9.24}
वृश्चतश् च ।
सा_एषा मीमाꣳसोग्निहोत्र एव संपन्ना {,आनंदा. संपन्ना} ।
अथो आहुः ।
सर्वेषु यज्ञक्रतुष्व् इति ।
होष्यन्न् अप उपस्पृशेत् ।
विद्युद् असि विद्य मे पाप्मानम् इति ।
अथ हुत्वा_उपस्पृशेत् ।
वृश्टिर् असि वृश्च मे पाप्मानम् इति ।
यक्ष्यमाणो वा_इष्ट्वा वा ।
वि च हैवास्यैते देवते पाप्मानं द्यतः ।
VERSE: 3 { 3.10.9.3}
वृश्चतश् च ।
अत्यꣳहो ह_आरुणिः ।
ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय ।
परेहि ।
प्लक्षं दैयाम्पातिं पृच्छ ।
वेत्थ सावित्रा3न् { सावित्रा3ं} न वेत्था3 इति ।
तम् आगत्य पप्रच्छ ।
आचार्यो मा प्रा हैषीत् ।
वेत्थ सावित्रा3न् { सावित्रा3ं} न वेत्था3 इति ।
स ह_उवाच वेद_इति ।
VERSE: 4 { 3.10.9.4}
स कस्मिन् प्रतिष्ठित इति ।
परोरजसीति ।
कस् तद् यत् परोरजा इति ।
एष वाव स परोरजा इति ह_उवाच ।
य एष तपति ।
एषो ऽर्वाग्रजा इति ।
स कस्मिन् त्व् एष इति ।
सत्य इति ।
किं तत् सत्यम् इति ।
तप इति ।
VERSE: 5 { 3.10.9.5}
कस्मिन् नु तप इति ।
बल इति ।
किं तद् बलम् इति ।
प्राण इति ।
मा स्म प्राणम् अतिपृच्छ इति मा_आचार्यो ऽब्रवीद् इति ह_उवाच ब्रह्मचारी ।
स ह_उवाच प्लक्षो दैयाम्पातिः ।
यद् वै ब्रह्मचारिन् प्राणम् अत्यप्रक्ष्यः {,आनंदा. अत्यप्रक्ष्यः} ।
मूर्धा ते व्यपतिष्यत् {,आनंदा. व्यपतिष्यत्} ।
अहम् उ त आचार्यात्_श्रेयान् भविष्यामि ।
यो मा सावित्रे समवादिष्ट_इति ।
VERSE: 6 { 3.10.9.6}
तस्मात् सावित्रे न संवदेत ।
स यो ह वै सावित्रं विदुषा सावित्रे संवदते ।
सहास्मिन्_श्रियं दधाति ।
अनु ह वा अस्मा असौ तपन्_श्रियं मन्यते ।
अन्व् अस्मै श्रीस् तपो मन्यते ।
अन्व् अस्मै तपो बलं मन्यते ।
अन्व् अस्मै बलं प्राणं मन्यते ।
स यद् आह ।
संज्ञानं विज्ञानं दर्शा दृष्टा_इति ।
एष एव तत् ।
VERSE: 7 { 3.10.9.7}
अथ यद् आह ।
प्रस्तुतं विष्टुतꣳ सुता सुन्वतीति ।
एष एव तत् ।
एष ह्य् एव तान्य् अहानि ।
एष रात्रयः ।
अथ यद् आह ।
चित्रः केतुर् दाता प्रदाता सविता प्रसविता_अभिशास्ता_अनुमन्ता_इति ।
एष एव तत् ।
एष ह्य् एव ते ऽह्नो मुहूर्ताः ।
एष रात्रेः ।
VERSE: 8 { 3.10.9.8}
अथ यद् आह ।
पवित्रं पवयिष्यन्त् सहस्वान्त् सहीयान् अरुणो ऽरुणरजा इति ।
एष एव तत् ।
एष ह्य् एव ते ऽर्धमासाः ।
एष मासाः ।
अथ यद् आह ।
अग्निष्टोम उक्थ्यो ऽग्निर् ऋतुः प्रजापतिः संवत्सर इति ।
एष एव तत् ।
एष ह्य् एव ते यज्ञक्रतवः ।
एष ऋतवः ।
VERSE: 9 { 3.10.9.9}
एष संवत्सरः ।
अथ यद् आह ।
इदानीं तदानीम् इति ।
एष एव तत् ।
एष ह्य् एव ते मुहूर्तानां { मुद्वूर्तानां} मुहूर्ताः { मुद्दूर्ताः} ।
{ए} जनको ह वैदेहः ।
अहोरात्रैः समाजगाम ।
तꣳ ह_ऊचुः ।
यो वा अस्मान् वेद ।
विजहत् पाप्मानम् एति ।
VERSE: 10 { 3.10.9.10}
सर्वम् आयुर् एति ।
अभि स्वर्गं लोकं जयति ।
नास्यामुष्मिन्_लोके ऽन्नं क्षीयत इति ।
विजहद् ध वै पाप्मानम् एति ।
सर्वम् आयुर् एति ।
अभि स्वर्गं लोकं जयति ।
नास्यामुष्मिन्_लोके ऽन्नं क्षीयते ।
य एवं वेद ।
अहीना ह_आश्वत्थ्यः ।
सावित्रं विदांचकार ।
VERSE: 11 { 3.10.9.11}
स ह हꣳसो हिरण्मयो भूत्वा ।
स्वर्गं लोकम् इयाय ।
आदित्यस्य सायुज्यम् ।
हꣳसो ह वै हिरण्मयो भूत्वा ।
स्वर्गं लोकम् एति ।
आदित्यस्य सायुज्यम् ।
य एवं वेद ।
देवभागो ह श्रौतर्षः ।
सावित्रं विदांचकार ।
तꣳ ह वाग् अदृश्यमानाऽभ्युवाच ।
VERSE: 12 { 3.10.9.12}
सर्वं बत गौतमो वेद ।
यः सावित्रं वेद_इति ।
स ह_उवाच ।
का_एषा वाग् असीति ।
अयम् अहꣳ सावित्रः ।
देवानाम् उत्तमो लोकः ।
गुह्यं महो बिभ्रद् इति ।
एतावति ह गौतमः ।
यज्ञोपवीतं कृत्वा_अधो निपपात ।
नमो नम इति ।
VERSE: 13 { 3.10.9.13}
स ह_उवाच ।
मा भैषीर् गौतम ।
जितो वै ते लोक इति ।
तस्माद् ये के च सावित्रं विदुः ।
सर्वे ते जितलोकाः ।
स यो ह वै सावित्रस्याष्टाक्षरं पदꣳ श्रिया_अभिषिक्तं वेद ।
श्रिया हैवाभिषिच्यते ।
घृणिर् इति द्वे अक्षरे ।
सूर्य इति त्रीणि ।
आदित्य इति त्रीणि ।
VERSE: 14 { 3.10.9.14}
एतद् वै सावित्रस्याष्टाक्षरं पदꣳ श्रिया_अभिषिक्तम् ।
य एवं वेद ।
श्रिया हैवा_अभिषिच्यते ।
तद् एतद् ऋचा_अभ्युक्तम् ।
ऋचो अक्षरे परमे व्योमन् ।
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस् तन् न वेद किम् ऋचा करिष्यति ।
य इत् तद् विदुस् त इमे समासत इति ।
न ह वा एतस्य_ऋचा न यजुषा न साम्ना_अर्थो ऽस्ति ।
यः सावित्रं वेद ।
VERSE: 15 { 3.10.9.15}
तद् एतत् परि यद् देवचक्रम् ।
आर्द्रं पिन्वमानꣳ स्वर्गे लोक एति ।
विजहद् विश्वा भूतानि संपश्यत् ।
आर्द्रो ह वै पिन्वमानः स्वर्गे लोक एति ।
विजहन् विश्वा भूतानि संपश्यन् ।
य एवं वेद ।
शूषो ह वै वार्ष्णेयः ।
आदित्येन समाजगाम ।
तꣳ ह_उवाच ।
एहि सावित्रं विद्धि ।
अयं वै स्वर्ग्यो ऽग्निः पारयिष्णुर् अमृतात् संभूत इति ।
एष वाव स सावित्रः ।
य एष तपति ।
एहि मां विद्धि ।
इति हैवैनं तद् उवाच ।
अनुवाक 10 सावित्रचयनम्
VERSE: 1 { 3.10.10.1}
इयं वाव सरघा ।
तस्या अग्निर् एव सारघं मधु ।
या एताः पूर्वपक्षापरपक्षयो रात्रयः ।
ता मधुकृतः ।
यान्य् अहानि ।
ते मधुवृषाः ।
स यो ह वा एता मधुकृतश् च मधुवृषाꣳश् च वेद ।
क्रुवन्ति हास्यैता अग्नौ मधु ।
नास्य_इष्टापूर्तं धयन्ति ।
अथ यो न वेद ।
VERSE: 2 { 3.10.10.2}
न हास्यैता अग्नौ मधु कुर्वन्ति ।
धयन्त्य् अस्य_इष्टापूर्तम् ।
यो ह वा अहोरात्राणां नामधेयानि वेद ।
नाहोरात्रेष्व् आर्तिम् आर्च्छति ।
संज्ञानं विज्ञानं दर्शा दृष्टा_इति ।
एताव् अनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानि ।
प्रस्तुतं विष्टुतꣳ सुता सुन्वती_इति ।
एताव् अनुवाकाव् अपरपक्षस्याहोरात्राणां नामधेयानि ।
नाहोरात्रेष्व् आर्तिम् आर्च्छति ।
य एवं वेद ।
VERSE: 3 { 3.10.10.3}
यो ह वै मुहूर्तानां नामधेयानि वेद ।
न मुहूर्तेष्व् आर्तिम् आर्च्छति ।
चित्रः केतुर् दाता प्रदाता सविता प्रसविता_अभिशास्ता_अनुमन्ता_इति ।
एते ऽनुवाका मुहूर्तानां नामधेयानि ।
न मुहूर्तेष्व् आर्तिम् आर्च्छति ।
य एवं वेद ।
यो ह वा अर्धमासानां च मासानां च नामधेयानि वेद ।
नार्धमासेषु न मासेष्व् आर्तिम् आर्च्छति ।
पवित्रं पवियिष्यन्त् सहस्वान्त् सहीयान् अरुणो ऽरुणरजा इति ।
एते ऽनुवाका अर्धमासानां च मासानां च नामधेयानि ।
VERSE: 4 { 3.10.10.4}
नार्धमासेषु न मासेष्व् आर्तिम् आर्च्छति ।
य एवं वेद ।
यो ह वै यज्ञक्रतूनां च_ऋतूनां च संवत्सरस्य च नामधेयानि वेद ।
न यज्ञक्रतुषु न_ऋतुषु न संवत्सर आर्तिम् आर्च्छति ।
अग्निष्टोम उक्थ्यो ऽग्निर् ऋतुः प्रजापतिः संवत्सर इति ।
एते ऽनुवाका यज्ञक्रतूनां च_ऋतूनां च संवत्सरस्य च नामधेयानि ।
न यज्ञक्रतुषु न_ऋतुषु न संवत्सर आर्तिम् आर्च्छति ।
य एवं वेद ।
यो ह वै मुहूर्तानां मुहूर्तान् वेद ।
न मुहूर्तानां मुहूर्तेष्व् आर्तिम् आर्च्छति ।
VERSE: 5 { 3.10.10.5}
इदानीं तदानीम् इति ।
एते वै मुहूर्तानां मुहूर्ताः ।
न मुहूर्तानां मुहूर्तेष्व् आर्तिम् आर्च्छति ।
य एवं वेद ।
अथो यथा क्षेत्रज्ञो भूत्वा_अनुप्रविश्यान्नम् अत्ति ।
एवम् एव_एतान् क्षेत्रज्ञो भूत्वा_अनुप्रविश्यान्नम् अत्ति ।
स एतेषाम् एव सलोकताꣳ सायुज्यम् अश्नुते ।
अप पुनर्मृत्युं जयति ।
य एवं वेद ।
अनुवाक 11 सावित्रचयनम्
VERSE: 1 { 3.10.11.1}
कश् चिद् ध वा अस्माल् लोकात् प्रेत्य ।
आत्मानं वेद ।
आयम् अहम् अस्मीति ।
कश् चित् स्वं लोकं न प्रतिप्रजानाति ।
अग्निमुग्धो हैव धुमतान्तः ।
स्वं लोकं न प्रतिप्रजानाति ।
अथ यो हैवैतम् अग्निꣳ सावित्रं वेद ।
स एवास्माल् लोकात् प्रेत्य ।
आत्मानं वेद ।
अयम् अहम् अस्मीति ।
VERSE: 2 { 3.10.11.2}
स स्वं लोकं प्रतिप्रजानाति ।
एष उ चैवैनं { उवेवैनं} तत् सावित्रः ।
स्वर्गं लोकम् अभिवहति ।
अहोरात्रैर् वा इदꣳ सयुग्भिः क्रियते ।
इतिरात्राया_अदीक्षिषत ।
इतिरात्राय व्रतम् उपागुर् इति ।
तानि हानेवं विदुषः ।
अमुष्मिन्_ लोके शेवधिं धयन्ति ।
धीतꣳ हैव स शेवधिम् अनुपरैति ।
अथ यो हैवैतम् अग्निꣳ सावित्रं वेद ।
VERSE: 3 { 3.10.11.3}
तस्य हैवाहोरात्राणि ।
अमुष्मिन्_लोके शेवधिं न धयन्ति ।
अधीतꣳ हैव स शेवधिम् अनु परैति ।
भरद्वाजो ह त्रिभिर् आयुर्भिर् ब्रह्मचर्यम् उवास ।
तꣳ ह जीर्णिꣳ स्थविरꣳ शयानम् ।
इन्द्र उपव्रज्य_उवाच ।
भरद्वाज ।
यत् ते चतुर्थम् आयुर् दद्याम् ।
किम् एनेन कुर्या इति ।
ब्रह्मचर्यम् एव_एनेन चरेयम् इति ह_उवाच ।
VERSE: 4 { 3.10.11.4}
तꣳ ह त्रीन् गिरिरूपान् अविज्ञातान् इव दर्शयां चकार ।
तेषाꣳ ह_एकैकस्मान् मुष्टिन् आददे ।
स ह_उवाच ।
भरद्वाज_इत्य् आमन्त्र्य ।
वेदा वा एते ।
अनन्ता वै वेदाः ।
एतद् वा एतैस् त्रिभिर् आयुर्भिर् अन्ववोचथाः ।
अथ त इतरद् अननूक्तम् एव ।
एहीमं विद्धि ।
अयं वै सर्वविद्या_इति ।
VERSE: 5 { 3.10.11.5}
तस्मै हैतम् अग्निꣳ सावित्रम् उवाच ।
तꣳ स विदित्वा ।
अमृतो भूत्वा ।
स्वर्गं लोकम् इयाय ।
आदित्यस्य सायुज्यम् ।
अमृतो हैव भूत्वा ।
स्वर्गं लोकम् एति ।
आदित्यस्य सायुज्यम् ।
य एवं वेद ।
एषो एव त्रयी विद्या ।
VERSE: 6 { 3.10.11.6}
यावन्तꣳ ह वै त्रय्या विद्यया लोकं जयति ।
तावन्तं लोकं जयति ।
य एवं वेद ।
अग्नेर् वा एतानि नामधेयानि ।
अग्नेर् एव सायुज्यꣳ सलोकताम् आप्नोति ।
य एवं वेद ।
वायोर् वा एतानि नामधेयानि ।
वायोर् एव सायुज्यꣳ सलोकताम् आप्नोति ।
य एवं वेद ।
इन्द्रस्य वा एतानि नामधेयानि ।
VERSE: 7 { 3.10.11.7}
इन्द्रस्यैव सायुज्यꣳ सलोकताम् आप्नोति ।
य एवं वेद ।
बृहस्पतेर् वा एतानि नामधेयानि ।
बृहस्पतेर् एव सायुज्यꣳ सलोकताम् आप्नोति ।
य एवं वेद ।
प्रजापतेर् वा एतानि नामधेयानि ।
प्रजापतेर् एव सायुज्यꣳ सलोकताम् आप्नोति ।
य एवं वेद ।
ब्रह्मणो वा एतानि नामधेयानि ।
ब्रह्मण एव सायुज्यꣳ सलोकताम् आप्नोति ।
1 य एवं वेद ।
2 स वा एषो ऽग्निर् अपक्षपुच्छो वायुर् एव ।
3 तस्याग्निर् मुखम् ।
4 असाव् आदित्यः सिरः ।
5 स यद् एते देवते अन्तरेण ।
6 तत् सर्वꣳ सीव्यति ।
7 तस्मात् सावित्रः ।
प्रपाठक: 11
अनुवाक 1 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.1.1}
लोको ऽसि स्वर्गो ऽसि ।
अनन्तो ऽस्य् अपारो ऽसि ।
अक्षितो ऽस्य् अक्षय्यो ऽसि ।
तपसः प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 2 { 3.11.1.2}
तपो ऽसि लोके श्रितम् ।
तेजसः प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तृ विश्वस्य जनयितृ ।
तत् त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 3 { 3.11.1.3}
तेजो ऽसि तपसि श्रितम् ।
समुद्रस्य प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तृ विश्वस्य जनयितृ ।
तत् त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 4 { 3.11.1.4}
समुद्रो ऽसि तेजसि श्रितः ।
अपां प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 5 { 3.11.1.5}
आपः स्थ समुद्रे श्रिताः ।
पृथिव्याः प्रतिष्ठा युष्मासु ।
इदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः ।
ता व उपदधे कामदुघा अक्षिताः ।
प्रजापतिस्त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 6 { 3.11.1.6}
पृथिव्यस्य् अप्सु श्रिता ।
अग्नेः प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्त्री विश्वस्य जनयित्री ।
तां त्वा_उपदधे कामदुघाम् अक्षिताम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 7 { 3.11.1.7}
अग्निर् असि पृथिव्याꣳ श्रितः ।
अन्तरिक्षस्य प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 8 { 3.11.1.8}
अन्तरिक्षम् अस्य् अग्नौ श्रितम् ।
वायोः प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तृ विश्वस्य जनयितृ ।
तत् त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 9 { 3.11.1.9}
वायुर् अस्य् अन्तरिक्षे श्रितः ।
दिवः प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 10 { 3.11.1.10}
द्यौर् असि वायौ श्रिता ।
आदित्यस्य प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्त्री विश्वस्य जनयित्री ।
तां त्वा_उपदधे कामदुघाम् अक्षिताम् ।
प्रजापतिस्त्वा सादयतु तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 11 { 3.11.1.11}
आदित्यो ऽसि दिवि श्रितः ।
चन्द्रमसः प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 12 { 3.11.1.12}
चन्द्रमा अस्य् आदित्ये श्रितः ।
नक्षत्राणां प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 13 { 3.11.1.13}
नक्षत्राणि स्थ चन्द्रमसि श्रितानि ।
संवत्सरस्य प्रतिष्ठा युष्मासु ।
इदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तॄणि विश्वस्य जनयितॄणि ।
तानि व उपदधे कामदुघान्य् अक्षितानि ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 14 { 3.11.1.14}
संवत्सरो ऽसि नक्षत्रेषु श्रितः ।
ऋतूनां प्रतिष्ठा ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 15 { 3.11.1.15}
ऋतवः स्थ संवत्सरे श्रिताः ।
मासानां प्रतिष्ठा युष्मासु ।
इदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तारो विश्वस्य जनयितारः ।
तान् व उपदधे कामदुघान् अक्षितान् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 16 { 3.11.1.16}
मासाः स्थ_ऋतुषु श्रिताः ।
अर्धमासानां प्रतिष्ठा युष्मासु ।
इदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तारो विश्वस्य जनयितारः ।
तान् व उपदधे कामदुघान् अक्षितान् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 17 { 3.11.1.17}
अर्धमासाः स्थ मासु श्रिताः ।
अहोरात्रयोः प्रतिष्ठा युष्मासु ।
इदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्तारो विश्वस्य जनयितारः ।
तान् व उपदधे कामदुघान् अक्षितान् ।
प्रजापतिस् त्वा सदयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 18 { 3.11.1.18}
अहोरात्रे स्थो ऽर्धमासेषु श्रिते ।
भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे ।
युवयोर् इदमन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्त्र्यौ विश्वस्य जनयित्र्यौ ।
ते वाम् उपदधे कामदुघे अक्षिते ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 19 { 3.11.1.19}
पौर्णमास्य् अष्टका_अमावास्या ।
अन्नादाः स्थान्नदुघो युष्मासु ।
इदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः ।
ता व उपदधे कामदुघा अक्षिताः ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 20 { 3.11.1.20}
राड् असि बृहती श्रीर् असीन्द्रपत्नी धर्मपत्नी ।
विश्वं भूतम् अनु प्रभूता ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्त्री विश्वस्य जनयित्री ।
तां त्वा_उपदधे कामदुघाम् अक्षिताम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
VERSE: 21 { 3.11.1.21}
ओजो ऽसि सहो ऽसि ।
बलमसि भ्राजो ऽसि ।
देवानां धामामृतम् ।
अमर्त्यस् तपोजाः ।
त्वयीदम् अन्तः ।
विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् ।
विश्वस्य भर्ता विश्वस्य जनयिता ।
तं त्वा_उपदधे कामदुघम् अक्षितम् ।
प्रजापतिस् त्वा सादयतु ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
अनुवाक 2 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.2.1}
त्वम् अग्ने रुद्रो असुरो महो दिवः ।
त्वꣳ शर्धो मारुतं पृक्ष ईशिषे ।
त्वं वातैर् अरुणैर् यासि शङ्गयः ।
त्वं पूषा विधतः पासि नु त्मना ।
देवा देवेषु श्रयध्वम् ।
प्रथमा द्वितीयेषु श्रयध्वम् ।
द्वितीयास् तृतीयेषु श्रयध्वम् ।
तृतीयाश् चतुर्थेषु श्रयध्वम् ।
चतुर्थाः पञ्चमेषु श्रयध्वम् ।
पञ्चमाः षष्ठेषु श्रयध्वम् ।
VERSE: 2 { 3.11.2.2}
षष्ठाः सप्तमेषु श्रयध्वम् ।
सप्तमा अष्टमेषु श्रयध्वम् ।
अष्टमा नवमेषु श्रयध्वम् ।
नवमा दशमेषु श्रयध्वम् ।
दशमा एकादशेषु श्रयध्वम् ।
एकादशा द्वादशेषु श्रयध्वम् ।
द्वादशास् त्रयोदशेषु श्रयध्वम् ।
त्रयोदशाश् चतुर्दशेषु श्रयध्वम् ।
चतुर्दशाः पञ्चदशेषु श्रयध्वम् ।
पञ्चदशाः षोडशेषु श्रयध्वम् ।
VERSE: 3 { 3.11.2.3}
षोडशाः सप्तदशेषु श्रयध्वम् ।
सप्तदशा अष्टादशेषु श्रयध्वम् ।
अष्टादशा एकान्नविꣳशेषु श्रयध्वम् ।
एकान्नविꣳशा विꣳशेषु श्रयध्वम् ।
विꣳशा एकविꣳशेषु श्रयध्वम् ।
एकविꣳशा द्वाविꣳशेषु श्रयध्वम् ।
द्वाविꣳशास् त्रयोविꣳशेषु श्रयध्वम् ।
त्रयोविꣳशाश् चतुर्विꣳशेषु श्रयध्वम् ।
चतुर्विꣳशाः पञ्चविꣳशेषु श्रयध्वम् ।
पञ्चविꣳशाः षड्विꣳशेषु श्रयध्वम् ।
VERSE: 4 { 3.11.2.4}
षड्विꣳशाः सप्तविꣳशेषु श्रयध्वम् ।
सप्तविꣳशा अष्टाविꣳशेषु श्रयध्वम् ।
अष्टाविꣳशा एकान्नत्रिꣳशेषु श्रयध्वम् ।
एकान्नत्रिꣳशास् त्रिꣳशेषु श्रयध्वम् ।
त्रिꣳशा एकत्रिꣳशेषु श्रयध्वम् ।
एकत्रिꣳशा द्वात्रिꣳशेषु श्रयध्वम् ।
द्वात्रिꣳशास् त्रयस्त्रिꣳशेषु श्रयध्वम् ।
देवास् त्रिर्_एकादशास् त्रिस्_त्रयस्त्रिꣳशाः ।
उत्तरे भवत ।
उत्तरवर्त्मान उत्तरसत्वानः ।
यत्काम इदं जुहोमि ।
तन् मे समृध्यताम् ।
वयꣳ स्याम पतयो रयीणाम् ।
भूर् भुवः स्वः स्वाहा ।
अनुवाक 3 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.3.1}
अग्नाविष्णू सजोषसा ।
इमा वर्धन्तु वां गिरः ।
द्युम्नैर् वाजेभिर् आगतम् ।
राज्ञी विराज्ञी ।
सम्राज्ञी स्वराज्ञी ।
अर्चिः शोचिः ।
तपो हरो भाः ।
अग्निः सोमो बृहस्पतिः ।
विश्वे देवा भुवनस्य गोपाः ।
ते सर्वे संगत्य ।
इदं मे प्रावता वचः ।
वयꣳ स्याम पतयो रयीणाम् ।
भूर् भुवः स्वः स्वाहा ।
अनुवाक 4
VERSE: 1 { 3.11.4.1}
अन्नपते ऽन्नस्य नो देहि ।
अनमीवस्य शुष्मिणः ।
प्र प्रदातारं तरिषः ।
ऊर्जं नो धेहि द्विपदे चतुष्पदे ।
अग्ने पृथिवीपते ।
सोम वीरुधां पते ।
त्वष्टः समिधां पते ।
विष्णव् आशानां पते ।
मित्र सत्यानां पते ।
वरुण धर्मणाम् पते ।
VERSE: 2 { 3.11.4.2}
मरुतो {आनंदा. मरुतो} गणानां पतयः ।
रुद्र पशूनां पते ।
इन्द्रौजसां पते ।
बृहस्पते ब्रह्मणस् पते ।
आ रुचा रोचे ऽहꣳ स्वयम् ।
रुचा रुरुचे रोचमानः ।
अतीत्यादः स्वर् आभर_इह ।
तस्मिन् योनौ प्रजनौ प्रजायेय ।
वयꣳ स्याम पतयो रयीणाम् ।
भूर् भुवः स्वः स्वाहा ।
अनुवाक 5 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.5.1}
सप्त ते अग्ने समिधः सप्त जिह्वाः ।
सप्त_ऋषयः सप्त धाम प्रियाणि ।
सप्त होत्रा अनुविद्वान् ।
सप्त योनीर् आपृणस्वा घृतेन ।
प्राची दिक् ।
अग्निर् देवता ।
अग्निꣳ स दिशां देवं देवतानाम् ऋच्छतु ।
यो मा_एतस्यै दिशो ऽभिदासति ।
दक्षिणा दिक् ।
इन्द्रो देवता ।
VERSE: 2 { 3.11.5.2}
इन्द्रꣳ स दिशां देवं देवतानाम् ऋच्छतु ।
यो मा एतस्यै दिशो ऽभिदासति ।
प्रतीची दिक् ।
सोमो देवता ।
सोमꣳ स दिशाꣳ देवं देवतानाम् ऋच्छतु ।
यो मा_एतस्यै देशो ऽभिदासति ।
उदीची दिक् ।
मित्रावरुणौ देवता ।
मित्रावरुणौ स दिशां देवौ देवतानाम् ऋच्छतु ।
यो मा_एतस्यै दिशो ऽभिदासति ।
VERSE: 3 { 3.11.5.3}
ऊर्ध्वा दिक् ।
बृहस्पतिर् देवता ।
बृहस्पतिꣳ स दिशां देवं देवतानाम् ऋच्छतु ।
यो मा_एतस्यै दिशो ऽभिदासति ।
इयं दिक् ।
अदितिर् देवता ।
अदितिꣳ स दिशां देवीं देवतानाम् ऋच्छतु ।
यो मा_एतस्यै दिशो ऽभिदासति ।
पुरुषो दिक् ।
पुरुषो मे कामान्त् समर्धयतु ।
VERSE: 4 { 3.11.5.3}
अन्धो जागृविः प्राण ।
असाव् एहि ।
बधिर आक्रन्दयितर् अपान ।
असाव् एहि ।
उषसम्_उषसम् अशीय ।
अहम् असो ज्योतिर् अशीय ।
अहम् असो ऽपो ऽशीय ।
वयꣳ स्याम पतयो रयीणाम् ।
भूर् भुवः स्वः स्वाहा ।
अनुवाक 6 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.6.1}
यत् ते ऽचितं यद् उ चितं ते अग्ने ।
यत् त ऊनं यद् उ ते ऽतिरिक्तम् ।
आदित्यास् तद् अङ्गिरसश् चिन्वन्तु ।
विश्वे ते देवाश् चितिम् आपूरयन्तु ।
चितश् चासि संचितश् चास्य् अग्ने ।
एतावाꣳश् चासि भूयाꣳश् चास्य् अग्ने ।
लोकं पृण च्छिद्रं पृण ।
अथो सीद शिवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिः ।
अस्मिन् योनाव् असीषदन् ।
VERSE: 2 { 3.11.6.2}
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
ता अस्य सूददोहसः ।
सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशः ।
त्रिष्व् आरोचने दिवः ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
अग्ने देवाꣳ इह_आवह ।
जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ।
अगन्म महा मनसा यविष्ठम् ।
VERSE: 3 { 3.11.6.3}
यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानू रोदसी अन्तर् उर्वी ।
स्वाहुतं विश्वतः प्रत्यञ्चम् ।
मेधाकारं विदथस्य प्रसाधनम् ।
अग्निꣳ होतारं परिभूतमं मतिम् ।
त्वाम् अर्भस्य हविषः समानम् इत् ।
त्वां महो वृणते नरो नान्यं त्वत् ।
मनुष्वत् त्वा निधीमहि ।
मनुष्वत् समिधीमहि ।
अग्ने मनुष्वद् अङ्गिरः ।
VERSE: 4 { 3.11.6.4}
देवान् देवायते यज ।
अग्निर् हि वाजिनं विशे ।
ददाति विश्वचर्षणिः ।
अग्नी राये स्वाभुवम् ।
स प्रीतो याति वार्यम् ।
इषꣳ स्तोतृभ्य आभर ।
पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् ।
पृष्टो विश्वा ओषधीर् आविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः ।
स नो दिवा स रिषः पातु नक्तम् ।
अनुवाक 7 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.7.1}
अयं वाव यः पवते ।
सो ऽग्निर् नाचिकेतः ।
स यत् प्राङ् पवते ।
तद् अस्य शिरः ।
अथ यद् दक्षिणा ।
स दक्षिणः पक्षः ।
अथ यत् प्रत्यक् ।
तत् पुच्छम् ।
यद् उदङ् ।
स उत्तरः पक्षः ।
VERSE: 2 { 3.11.7.2}
अथ यत् संवाति ।
तद् अस्य समञ्चनं च प्रसारणं च ।
अथो सम्पद् एवास्य सा ।
सꣳ ह वा अस्मै स कामः पद्यते ।
यत्कामो यजते ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
यो ह वा अग्नेर् नाचिकेतस्य_आयतनं प्रतिष्ठां वेद ।
आयतनवान् भवति ।
गच्छति प्रतिष्ठाम् ।
VERSE: 3 { 3.11.7.3}
हिरण्यं वा अग्नेर् नाचिकेतस्य_आयतनं प्रतिष्ठा ।
य एवं वेद ।
आयतनवान् भवति ।
गच्छति प्रतिष्ठाम् ।
यो ह वा अग्नेर् नाचिकेतस्य शरीरं वेद ।
सशरीर एव स्वर्गं लोकम् एति ।
हिरण्यं वा अग्नेर् नाचिकेतस्य शरीरम् ।
य एवं वेद ।
सशरीर एव स्वर्गं लोकम् एति ।
अथो यथा रुक्म उत्तप्तो भाय्यात् ।
VERSE: 4 { 3.11.7.4}
एवम् एव स तेजसा यशसा ।
अस्मिꣳश् च लोके ऽमुष्मिꣳश् च भाति ।
उरवो ह वै नामैते लोकाः ।
ये ऽवरेण_आदित्यम् ।
अथ हैते वरीयाꣳसो लोकाः ।
ये परेण_आदित्यम् ।
अन्तवन्तꣳ ह वा एष क्षय्यं लोकं जयति ।
यो ऽवरेण_आदित्यम् ।
अथ हैषो ऽनन्तम् अपारम् अक्षय्यं लोकं जयति ।
यः परेण_आदित्यम् ।
VERSE: 5 { 3.11.7.41}
अनन्तꣳ ह वा अपारम् अक्षय्यं लोकं जयति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अथो यथा रथे तिष्ठन् पक्षसी पर्यावर्तमाने प्रत्यपेक्षते ।
एवम् अहोरात्रे प्रत्यपेक्षते ।
नास्याहोरात्रे लोकम् आप्नुतः ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अनुवाक 8 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.8.1}
उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ।
तꣳ ह कुमारꣳ सन्तम् ।
दक्षिणासु नीयमानासु श्रद्धा_आविवेश ।
स ह_उवाच ।
ततः कस्मै मां दास्यसीति ।
द्वितीयं तृतीयम् ।
तꣳ ह परीत उवाच ।
मृत्यवे त्वा ददामीति ।
तꣳ ह स्म_उत्थितं वाग् अभिवदति ।
VERSE: 2 { 3.11.8.2}
गौतम कुमारम् इति ।
स ह_उवाच ।
परेहि मृत्योर् गृहान् ।
मृत्यवे वै त्वा_अदाम् इति ।
तं वै प्रवसन्तं गन्ता_असीति ह_उवाच ।
तस्य स्म तिस्रो रात्रीर् अनाश्वान्ग्र्̥हे वसतात् ।
स यदि त्वा पृच्छेत् ।
कुमार कति रात्रीर् अवात्सीर् इति ।
तिस्र इति प्रतिब्रूतात् ।
किं प्रथमाꣳ रात्रिम् आश्ना इति ।
VERSE: 3 { 3.11.8.3}
प्रजां त इति ।
किं द्वितीयाम् इति ।
पशूꣳस् त इति ।
किं तृतीयाम् इति ।
साधुकृत्यां त इति ।
तं वै प्रवसन्तं जगाम ।
तस्य ह तिस्रो रात्रीर् अनाश्वान् गृह उवास ।
तम् आगत्य पप्रच्छ ।
कुमार कति रात्रीर् अवात्सीर् इति ।
तिस्र इति प्रत्युवाच ।
VERSE: 4 { 3.11.8.4}
किं प्रथमाꣳ रात्रिम् आश्ना इति ।
प्रजां त इति ।
किं द्वितीयाम् इति ।
पशूꣳस् त इति ।
किं तृतीयाम् इति ।
साधुकृत्यां त इति ।
नमस् ते अस्तु भगव इति ह_उवाच ।
वरं वृणीष्व_इति ।
पितरम् एव जीवन्न् अयानीति ।
द्वितीयं वृणीष्व_इति ।
VERSE: 5 { 3.11.8.5}
इष्टापूर्तयोर् मे ऽक्षितिं ब्रूहीति ह_उवाच ।
तस्मै हैतम् अग्निं नाचिकेतम् उवाच ।
ततो वै तस्य_इष्टापूर्ते ना क्षीयेते ।
नास्य_इष्टापूर्ते क्षीयेते ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
तृतीयं वृणीष्व_इति ।
पुनर्मृत्योर् मे ऽपजितिं {आनंदा. ऽपचितिं} ब्रूहीति ह_उवाच ।
तस्मै हैतम् अग्निं नाचिकेतम् उवाच ।
ततो वै सो ऽप पुनर्मृत्युम् अजयत् ।
VERSE: 6 { 3.11.8.6}
अप पुनर्मृत्युं जयति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
प्रजापतिर् वै प्रजाकामस् तपो ऽतप्यत ।
स हिरण्यम् उदास्यत् ।
तद् अग्नौ प्रास्यत् ।
तद् अस्मै नाच्छदयत् ।
तद् द्वितीयं प्रास्यत् ।
तद् अस्मै न_एवाच्छदयत् ।
तत् तृतीयं प्रास्यत् ।
VERSE: 7 { 3.11.8.7}
तद् अस्मै न_एवाच्छदयत् ।
तद् आत्मन्न् एव हृदय्ये ऽग्नौ वैश्वानरे प्रास्यत् ।
तद् अस्मा अच्छदयत् ।
तस्माद् धिरण्यं कनिष्ठं धनानाम् ।
भुञ्जत् प्रियतमम् ।
हृदयजꣳ हि ।
स वै तम् एव नाविन्दत् ।
यस्मै तां दक्षिणाम् अनेष्यत् ।
ताꣳ स्वाय_एव हस्ताय दक्षिणायानयत् ।
तां प्रत्यगृह्णात् ।
VERSE: 8 { 3.11.8.8}
दक्षाय त्वा दक्षिणां प्रतिगृह्णामीति ।
सो ऽदक्षत दक्षिणां प्रतिगृह्य ।
दक्षते ह वै दक्षिणां प्रतिगृह्य ।
य एवं वेद ।
एतद् ध स्म वै तद् विद्वाꣳसो वाजश्रवसा गोतमाः ।
अप्य् अनूदेश्यां दक्षिणां प्रतिगृह्णन्ति ।
उभयेन वयं दक्षिष्यामह एव दक्षिणां प्रतिगृह्य_इति ।
ते ऽदक्षन्त दक्षिणां प्रतिगृह्य ।
दक्षते ह वै दक्षिणां प्रतिगृह्य ।
य एवं वेद ।
प्र हान्यं व्लीनाति ।
अनुवाक 9 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.9.1}
तꣳ हैतम् एके पशुबन्ध एव_उत्तरवेद्यां चिन्वते ।
उत्तरवेदिसंमित एषो ऽग्निर् इति वदन्तः ।
तन् न तथा कुर्यात् ।
एतम् अग्निं कामेन व्यर्धयेत् ।
स एनं कामेन व्यृद्धः ।
कामेन व्यर्धयेत् ।
सौम्ये वाव_एनम् अध्वरे चिन्वीत ।
यत्र वा भूयिष्ठा आहुतयो हूयेरन् ।
एतम् अग्निं कामेन समर्धयति ।
स एनं कामेन समृद्धः ।
VERSE: 2 { 3.11.9.2}
कामेन समर्धयति ।
अथ हैनं पुरा_ऋषयः ।
उत्तरवेद्याम् एव सत्त्रियम् अचिन्वत ।
ततो वै ते ऽविन्दन्त प्रजाम् ।
अभि स्वर्गं लोकम् अजयन् ।
विन्दत एव प्रजाम् ।
अभि स्वर्गं लोकं जयति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अथ हैनं वायुर् ऋद्धिकामः ।
VERSE: 3 { 3.11.9.3}
यथान्युप्तम् एव_उपदधे ।
ततो वै स एताम् ऋद्धिम् आर्ध्नोत् ।
याम् इदं वायुर् ऋद्धः ।
एताम् ऋद्धिम् ऋध्नोति ।
याम् इदं वायुर् ऋद्धः ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अथ हैनं गोबलो वार्ष्णः पशुकामः ।
पाङ्क्तम् एव चिक्ये ।
पञ्च पुरस्तात् ।
VERSE: 4 { 3.11.9.4}
पञ्च दक्षिणतः ।
पञ्च पश्चात् ।
पञ्च_उत्तरतः ।
एकां मध्ये ।
ततो वै स सहस्रं पशून् प्राप्नोत् ।
प्र सहस्रं पशून् आप्नोति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अथ हैनं प्रजापतिर् ज्यैष्ठ्यकामो यशस्कामः प्रजननकामः ।
त्रिवृतम् एव चिक्ये ।
VERSE: 5 { 3.11.9.5}
सप्त पुरस्तात् ।
तिस्रो दक्षिणतः ।
सप्त पश्चात् ।
तिस्र उत्तरतः ।
एकां मध्ये ।
ततो वै स प्र यशो ज्यैष्ठ्यम् आप्नोत् ।
एतां प्रजातिं प्राजायत ।
याम् इदं प्रजाः प्रजायन्ते ।
त्रिवृद् वै ज्यैष्ठ्यम् ।
माता पिता पुत्रः ।
VERSE: 6 { 3.11.9.6}
त्रिवृत् प्रजननम् ।
उपस्थो योनिर् मध्यमा ।
प्र यशो ज्यैष्ठ्यम् आप्नोति ।
एतां प्रजातिं प्रजायते ।
याम् इदं प्रजाः प्रजायन्ते ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अथ हैनम् इन्द्रो ज्यैष्ठ्यकामः ।
ऊर्ध्वा एव_उपदधे ।
ततो वै स ज्यैष्ठ्यमगच्छत् ।
VERSE: 7 { 3.11.9.7}
ज्यैष्ठ्यं गच्छति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
अथ हैनम् असाव् आदित्यः स्वर्गकामः ।
प्राचीर् एव_उपदधे ।
ततो वै सो ऽभि स्वर्गं लोकम् अजयत् ।
अभि स्वर्गं लोकं जयति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
स यदीच्छेत् ।
VERSE: 8 { 3.11.9.8}
तेजस्वी यशस्वी ब्रह्मवर्चसी स्याम् इति ।
प्राङ् आ होतुर् धिष्ण्याद् उत्सर्पेत् ।
या_इयं प्रागाद् यशस्वती ।
सा मा प्रोर्णोतु ।
तेजसा यशसा ब्रह्मवर्चसेन_इति ।
तेजस्व्य् एव यशस्वी ब्रह्मवर्चसी भवति ।
अथ यदीच्छेत् ।
भूयिष्ठं मे श्रद्दधीरन् ।
भूयिष्ठा दक्षिणा नयेयुर् इति ।
दक्षिणासु नीयमानासु प्राच्य् एहि प्राच्य् एहीति प्राची जुषाणा वेत्व् आज्यस्य स्वाहा_इति स्रुवेण_उपहत्य_आहवनीये जुहुयात् ।
VERSE: 9 { 3.11.9.9}
भूयिष्ठम् एवास्मै श्रद्दधते ।
भूयिष्ठा दक्षिणा नयन्ति ।
पुरीषम् उपधाय ।
चितिक्लृप्तिभिर् अभिमृश्य ।
अग्निं प्रणीय_उपसमाधाय ।
चतस्र एता आहुतीर् जुहोति ।
त्वम् अग्ने रुद्र इति ।
शतरुद्रीयस्य रूपम् ।
अग्नाविष्णू इति वसोर्धारायाः ।
अन्नपत इत्य् अन्नहोमः । सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ।
अनुवाक 10 नाचिकेताग्निचयनम्
VERSE: 1 { 3.11.10.10}
यां प्रथमाम् इष्टकाम् उपदधाति ।
इमं तया लोकम् अभिजयति ।
अथो या अस्मिन्_लोके देवताः ।
तासाꣳ सायुज्यꣳ सलोकताम् आप्नोति ।
यां द्वितीयाम् उपदधाति ।
अन्तरिक्षलोकं तया_अभिजयति ।
अथो या अन्तरिक्षलोके देवताः ।
तासाꣳ सायुज्यꣳ सलोकताम् आप्नोति ।
यां तृतीयाम् उपदधाति ।
अमुं तया लोकम् अभिजयति ।
VERSE: 2 { 3.11.10.2}
अथो या अमुष्मिन्_लोके देवताः ।
तासाꣳ सायुज्यꣳ सलोकताम् आप्नोति ।
अथो या अमूर् इतरा अष्टादश ।
य एवामी उरवश् च वरीयाꣳसश् च लोकाः ।
तान् एव ताभिर् अभिजयति ।
कामचारो ह वा अस्य_उरुषु च वरीयःसु च लोकेषु भवति ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
संवत्सरो वा अग्निर् नाचिकेतः ।
तस्य वसन्तः शिरः ।
VERSE: 3 { 3.11.10.3}
ग्रीष्मो दक्षिणः पक्षः ।
वर्षा उत्तरः ।
शरत् पुच्छम् ।
मासाः कर्मकाराः ।
अहोरात्रे शतरुद्रीयम् ।
पर्जन्यो वसोर्धारा ।
यथा वै पर्जन्यः सुवृष्टं वृष्ट्वा ।
प्रजाभ्यः सर्वान् कामान्त् संपूरयति ।
एवम् एव स तस्य सर्वान् कामान्त् संपूरयति ।
यो ऽग्निं नाचिकेतं चिनुते ।
VERSE: 4 { 3.11.10.4}
य उ चैनम् एवं वेद ।
संवत्सरो वा अग्निर् नाचिकेतः ।
तस्य वसन्तः शिरः ।
ग्रीष्मो दक्षिणः पक्षः ।
वर्षाः पुच्छम् ।
शरद् उत्तरः पक्षः ।
हेमन्तो मध्यम् ।
पूर्वपक्षाश् चितयः ।
अपरपक्षाः पुरीषम् ।
अहोरात्राणीष्टकाः ।
एष वाव सो ऽग्निर् अग्निमयः पुनर्णवः ।
अग्निमयो ह वै पुनर्णवो भूत्वा ।
स्वर्गं लोकम् एति ।
आदित्यस्य सायुज्यम् ।
यो ऽग्निं नाचिकेतं चिनुते ।
य उ चैनम् एवं वेद ।
प्रपाठक: 12
अनुवाक 1 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.1.1}
तुभ्यं ता अङ्गिरस्तम,_अश्याम तं कामम् अग्ने ।
आशानां त्वा, विश्वा आशाः ।
अनु नो ऽद्यानुमतिर्, अन्व् इद् अनुमते त्वम् ।
कामो भूतस्य कामस् तद् अग्रे ।
ब्रह्म जज्ञानं, पिता विराजाम् ।
यज्ञो रायो ऽयं यज्ञः ।
आपो भद्रा आद् इत् पश्यामि ।
तुभ्यं भरन्ति यो देह्यः ।
पूर्वं देवा अपरेण, प्राणापानौ ।
हव्यवाहꣳ, स्विष्टम् ।
अनुवाक 2 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.2.1}
देवेभ्यो वै स्वर्गो लोकस् तिरो ऽभवत् ।
ते प्रजापतिम् अब्रुवन् ।
प्रजापते स्वर्गो वै नो लोकस् तिरो ऽभूत् ।
तम् अन्व् इच्छ_इति ।
तं यज्ञक्रतुभिर् अन्वैच्छत् ।
तं यज्ञक्रतुभिर् नान्वविन्दत् ।
तम् इष्टिभिर् अन्वैच्छत् ।
तम् इष्टिभिर् अन्वविन्दत् ।
तद् इष्टीनाम् इष्टित्वम् ।
एष्टयो ह वै नाम ।
ता इष्टय इत्य् आचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
VERSE: 2 { 3.12.2.2}
तम् आशा_अब्रवीत् ।
प्रजापत आशया वै श्राम्यसि ।
अहम् उ वा आशा_अस्मि ।
मां नु यजस्व ।
अथ ते सत्या_आशा भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् ।
आशायै चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्या_आशा_अभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्या ह वा अस्य_आशा भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा_आशायै स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 3 { 3.12.2.3}
तं कामो ऽब्रवीत् ।
प्रजापते कामेन वै श्राम्यसि ।
अहम् उ वै कामो ऽस्मि ।
मां नु यजस्व ।
अथ ते सत्यः कामो भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् आष्टाकपालं निरवपत् ।
कामाय चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्यः कामो ऽभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्यो ह वा अस्य कामो भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा कामाय स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 4 { 3.12.2.4}
तं ब्रह्माब्रवीत् ।
प्रजापते ब्रह्मणा वै श्राम्यसि ।
अहम् उ वै ब्रह्मास्मि ।
मां नु यजस्व ।
अथ ते ब्रह्मण्वान् यज्ञो भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् ।
ब्रह्मणे चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य ब्रह्मण्वान् यज्ञो ऽभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
ब्रह्मण्वान् ह वा अस्य यज्ञो भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 5 { 3.12.2.5}
तं यज्ञो ऽब्रवीत् ।
प्रजापते यज्ञेन वै श्राम्यसि ।
अहम् उ वै यज्ञो ऽस्मि ।
मां नु यजस्व ।
अथ ते सत्यो यज्ञो भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् ।
यज्ञाय चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्यो यज्ञो ऽभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्यो ह वा अस्य यज्ञो भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा यज्ञाय स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 6 { 3.12.2.6}
तम् आपो ऽब्रुवन् ।
प्रजापते ऽप्सु वै सर्वे कामाः श्रिताः ।
वयम् उ वा आपः स्मः ।
अस्मान् नु यजस्व ।
अथ त्वयि सर्वे कामाः श्रयिष्यन्ते ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् ।
अद्भ्यश् चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्मिन्त् सर्वे कामा अश्रयन्त ।
अनु स्वर्गं लोकम् अविन्दत् ।
सर्वे ह वा अस्मिन् कामाः श्रयन्ते ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा_अद्भ्यः स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 7 { 3.12.2.7}
तम् अग्निर् बलिमान् अब्रवीत् ।
प्रजापते ऽग्नये वै बलिमते सर्वाणि भूतानि बलिꣳ हरन्ति ।
अहम् उ वा अग्निर् बलिमान् अस्मि ।
मां नु यजस्व ।
अथ ते सर्वाणि भूतानि बलिꣳ हरिष्यन्ति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् ।
अग्नये बलिमते चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्मै सर्वाणि भूतानि बलिम् अहरन् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सर्वाणि ह वा अस्मै भूतानि बलिꣳ हरन्ति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा_अग्नये बलिमते स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 8 { 3.12.2.8}
तम् अनुवित्तिर् अब्रवीत् ।
प्रजापते स्वर्गं वै लोकम् अनुविवित्ससि ।
अहम् उ वा अनुवित्तिर् अस्मि ।
मां नु यजस्व ।
अथ ते सत्या_अनुवित्तिर् भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् ।
अनुवित्त्यै चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्या_अनुवित्तिर् अभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्या ह वा अस्यानुवित्तिर् भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये कामाय स्वाहा_अनुवित्त्यै स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 9 { 3.12.2.9}
ता वा एताः सप्त स्वर्गस्य लोकस्य द्वारः ।
दिवः श्येनयो ऽनुवित्तयो नाम ।
आशा प्रथमाꣳ रक्षति ।
कामो द्वितीयाम् ।
ब्रह्म तृतीयाम् ।
यज्ञश् चतुर्थीम् ।
आपः पञ्चमीम् ।
अग्निर् बलिमान्त् षष्ठीम् ।
अनुवित्तिः सप्तमीम् ।
अनु ह वै स्वर्गं लोकं विन्दति ।
कामचारो ऽस्य स्वर्गे लोके भवति ।
य एताभिर् इष्टिभिर् यजते ।
य उ चैना एवं वेद ।
तास्व् अन्विष्टि ।
पष्ठौहीवरां दद्यात् कꣳसं च ।
स्त्रियै च_आभारꣳ समृद्ध्यै ।
अनुवाक 3 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.3.1}
तपसा देवा देवताम् अग्र आयन् ।
तपसा_ऋषयः स्वर् अन्वविन्दन् ।
तपसा सपत्नान् प्रणुदामारातीः ।
येनेदं विश्वं परिभूतं यद् अस्ति ।
प्रथमजं देवꣳ हविषा विधेम ।
स्वयंभु ब्रह्म परमं तपो यत् ।
स एव पुत्रः स पिता स माता ।
तपो ह यक्षं प्रथमं संबभूव ।
श्रद्धया_आ देवो देवत्वम् अश्नुते ।
श्रद्धा प्रतिष्ठा लोकस्य देवी ।
VERSE: 2 { 3.12.3.2}
सा नो जुषाणा_उपयज्ञम् आगात् ।
कामवत्सा_अमृतं दुहाना ।
श्रद्धा देवी प्रथमजा ऋतस्य ।
विश्वस्य भर्त्री जगतः प्रतिष्ठा ।
ताꣳ श्रद्धाꣳ हविषा यजामहे ।
सा नो लोकम् अमृतं दधातु ।
ईशाना देवी भुवनस्याधिपत्नी ।
आगात् सत्यꣳ हविर् इदं जुषाणम् ।
यस्माद् देवा जज्ञिरे भुवनं च विश्वे ।
तस्मै विधेम हविषा घृतेन ।
VERSE: 3 { 3.12.3.3}
यथा देवैः सधमादं मदेम ।
यस्य प्रतिष्ठा_उर्व् अन्तरिक्षम् ।
यस्माद् देवा जज्ञिरे भुवनं च सर्वे ।
तत् सत्यम् अर्चद् उप यज्ञं न आगात् ।
ब्रह्म_आहुतीर् उप मोदमानम् ।
मनसो वशे सर्वम् इदं बभूव ।
नान्यस्य मनो वशम् अन्वियाय ।
भीष्मो हि देवः सहसः सहीयान् ।
स नो जुषाण उप यज्ञम् आगात् ।
आकूतीनाम् अधिपतिं चेतसां च ।
VERSE: 4 { 3.12.3.4}
संकल्पजूतिं देवं विपश्चिम् ।
मनो राजानम् इह वर्धयन्तः ।
उपहवे ऽस्य सुमतौ स्याम ।
चरणं पवित्रं विततं पुराणम् ।
येन पूतस् तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूताः ।
अति पाप्मानम् अरातिं तरेम ।
लोकस्य द्वारम् अर्चिमत् पवित्रम् ।
ज्योतिष्मद् भ्राजमानं महस्वत् ।
अमृतस्य धारा बहुधा दोहमानम् ।
चरणं नो लोके सुधितां { सुधितान्} दधातु ।
अग्निर् मूर्धा भुवः ।
अनु नो ऽद्यानुमतिर् अन्व् इद् अनुमते त्वम् ।
हव्यवाहꣳ, स्विष्टम् ।
अनुवाक 4 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.4.1}
देवेभ्यो वै स्वर्गो लोकस् तिरो ऽभवत् ।
ते प्रजापतिम् अब्रुवन् ।
प्रजापते स्वर्गो वै नो लोकस् तिरो ऽभूत् ।
तम् अन्विच्छ_इति ।
तं यज्ञक्रतुभिर् अन्वैच्छत् ।
तं यज्ञक्रतुभिर् नान्वविन्दत् ।
तम् इष्टिभिर् अन्वैच्छत् ।
तम् इष्टिभिर् अन्वविन्दत् ।
तद् इष्टीनाम् इष्टित्वम् ।
एष्टयो ह वै नाम ।
ता इष्टय इत्य् आचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः ।
VERSE: 2 { 3.12.4.2}
तं तपो ऽब्रवीत् ।
प्रजापते तपसा वै श्राम्यसि ।
अहम् उ वै तपो ऽस्मि ।
मां नु यजस्व ।
अथ ते सत्यं तपो भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् आग्नेयम् अष्टाकपालं निरवपत् ।
तपसे चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्यं तपो ऽभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्यꣳ ह वा अस्य तपो भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये स्वाहा तपसे स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 3 { 3.12.4.3}
तꣳ श्रद्धा_अब्रवीत् ।
प्रजापते श्रद्धया वै श्राम्यसि ।
अहम् उ वै श्रद्धा_अस्मि ।
मां नु यजस्व ।
अथ ते सत्या श्रद्धा भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् आग्नेयम् अष्टाकपालं निरवपत् ।
श्रद्धायै चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्या श्रद्धा_अभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्या ह वा अस्य श्रद्धा भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये स्वाहा श्रद्धायै स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 4 { 3.12.4.4}
तꣳ सत्यम् अब्रवीत् ।
प्रजापते सत्येन वै श्राम्यसि ।
अहम् उ वै सत्यम् अस्मि ।
मां नु यजस्व { यजस्य} ।
अथ ते सत्यꣳ सत्यं भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् आग्नेयम् अष्टाकपालं निरवपत् ।
सत्याय चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्यꣳ सत्यम् अभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्यꣳ ह वा अस्य सत्यं भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये स्वाहा सत्याय स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 5 { 3.12.4.5}
तं मनो ऽब्रवीत् ।
प्रजापते मनसा वै श्राम्यसि ।
अहम् उ वै मनो ऽस्मि ।
मां नु यजस्व ।
अथ ते सत्यं मनो भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् आग्नेयम् अष्टाकपालं निरवपत् ।
मनसे चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्यं मनो ऽभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्यꣳ ह वा अस्य मनो हवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये स्वाहा मनसे स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 6 { 3.12.4.6}
तं चरणम् अब्रवीत् ।
प्रजापते चरणेन वै श्राम्यसि ।
अहम् उ वै चरणम् अस्मि ।
मां नु यजस्व ।
अथ ते सत्यं चरणं भविष्यति ।
अनु स्वर्गं लोकं वेत्स्यसीति ।
स एतम् आग्नेयम् अष्टाकपालं निरवपत् ।
चरणाय चरुम् ।
अनुमत्यै चरुम् ।
ततो वै तस्य सत्यं चरणम् अभवत् ।
अनु स्वर्गं लोकम् अविन्दत् ।
सत्यꣳ ह वा अस्य चरणं भवति ।
अनु स्वर्गं लोकं विन्दति ।
य एतेन हविषा यजते ।
य उ चैनद् एवं वेद ।
सो ऽत्र जुहोति ।
अग्नये स्वाहा चरणाय स्वाहा ।
अनुमत्यै स्वाहा प्रजापतये स्वाहा ।
स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।
VERSE: 7 { 3.12.4.7}
ता वा एताः पञ्च स्वर्गस्य लोकस्य द्वारः ।
अपाघा अनुवित्तयो नाम ।
तपः प्रथमाꣳ रक्षति ।
श्रद्धा द्वितीयाम् ।
सत्यं तृतीयाम् ।
मनश् चतुर्थीम् ।
चरणं पञ्चमीम् ।
अनु ह वै स्वर्गं लोकं विन्दति ।
कामचारो ऽस्य स्वर्गे लोके भवति ।
य एताभिर् इष्टिभिर् यजते ।
य उ चैना एवं वेद ।
तास्व् अन्विष्टि ।
पष्ठौहीवरां दद्यात् कꣳसं च ।
स्त्रियै च_आभारꣳ समृद्ध्यै ।
अनुवाक 5 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.5.1}
ब्रह्म वै चतुर्होतारः ।
चतुर्होतृभ्यो ऽधि यज्ञो निर्मितः ।
न_एनꣳ शप्तम् ।
नाभिचरितम् आगच्छति ।
य एवं वेद ।
यो ह वै चतुर्होतृणां चतुर्होतृत्वं वेद ।
अथो पञ्चहोतृत्वम् ।
सर्वा हास्मै दिशः कल्पन्ते ।
वाचस्पतिर् होता दशहोतॄणाम् ।
पृथिवी होता चतुर्होतॄणाम् ।
VERSE: 2 { 3.12.5.2}
अग्निर् होता पञ्चहोतॄणाम् ।
वाग् घोता षड्ड्होतॄणाम् ।
महाहविर् होता सप्तहोतॄणाम् ।
एतद् वै चतुर्होतृणां चतुर्होतृत्वम् ।
अथो पञ्चहोतृत्वम् ।
सर्वा हास्मै दिशः कल्पन्ते ।
य एवं वेद ।
एषा वै सर्वविद्या ।
एतद् भेषजम् ।
एषा पङ्क्तिः स्वर्गस्य लोकस्याञ्जसोयनिः स्रुतिः ।
VERSE: 3 { 3.12.5.3}
एतान् यो ऽध्यैत्य् { ऽध्येत्य्} अच्छदिर् दर्शे यावत् तरसम् ।
स्वर् एति ।
अनपब्रवः सर्वम् आयुर् एति ।
विन्दते प्रजाम् ।
रायस्पोषं गौपत्यम् ।
ब्रह्मवर्चसी भवति ।
एतान् यो ऽध्यैति ।
स्पृणोत्य् आत्मानम् ।
प्रजां पितॄन् ।
एतान् वा अरुण औपवेशिर् विदाञ्चकार ।
VERSE: 4 { 3.12.5.4}
एतैर् अधिवादम् अपाजयत् ।
अथो विश्वं पाप्मानम् ।
स्वर् ययौ ।
एतान् यो ऽध्यैति ।
अधिवादं जयति ।
अथो विश्वं पाप्मानम् ।
स्वर् एति ।
एतैर् अग्निं चिन्वीत स्वर्गकामः ।
एतैर् आयुष्कामः ।
प्रजापशुकामो वा ।
VERSE: 5 { 3.12.5.5}
पुरस्ताद् दशहोतारम् उदञ्चम् उपदधाति यावत्पदम् ।
हृदयं यजुषी पत्न्यौ च ।
दक्षिणतः प्राञ्चं चतुर्होतारम् ।
पश्चाद् उदञ्चं पञ्चहोतारम् ।
उत्तरतः प्राञ्चꣳ षड्ड्होतारम् ।
उपरिष्टात् प्राञ्चꣳ सप्तहोतारम् ।
हृदयं यजूꣳषि पत्न्यश् च { पन्त्यश्च} ।
यथावकाशं ग्रहान् ।
यथावकाशं प्रतिग्रहान्_लोकंपृणाश् च ।
सर्वा हास्यैता देवताः प्रीता अभीष्टा भवन्ति ।
VERSE: 6 { 3.12.5.6}
सदेवम् अग्निं चिनुते ।
रथसंमितश् चेतव्यः ।
वज्रो वै रथः ।
वज्रेणैव पाप्मानं भ्रातृव्यꣳ स्तृणुते ।
पक्षःसंमितश् चेतव्यः ।
एतावान् वै रथः ।
यावत् पक्षः ।
रथसंमितम् एव चिनुते ।
इमम् एव लोकं पशुबन्धेनाभिजयति ।
अथो अग्निष्टोमेन ।
VERSE: 7 { 3.12.5.7}
अन्तरिक्षम् उक्थ्येन ।
स्वर् अतिरात्रेण ।
सर्वान्_लोकान् अहीनेन ।
अथो सत्रेण ।
वरो दक्षिणा ।
वरेणैव वरꣳ स्पृणोति ।
आत्मा हि वरः ।
एकविꣳशतिर् दक्षिणा ददाति ।
एकविꣳशो वा इतः स्वर्गो लोकः ।
प्र स्वर्गं लोकम् आप्नोति ।
VERSE: 8 { 3.12.5.8}
असाव् आदित्य एकविꣳशः ।
अमुम् एवाऽऽदित्यम् आप्नोति ।
शतं ददाति ।
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।
सहस्रं ददाति ।
सहस्रसंमितः स्वर्गो लोकः ।
स्वर्गस्य लोकस्याभिजित्यै ।
अन्विष्टकं दक्षिणा ददाति ।
सर्वाणि वयाꣳसि ।
VERSE: 9 { 3.12.5.9}
सर्वस्य_आप्त्यै ।
सर्वस्यावरुद्ध्यै ।
यदि न विन्देत ।
मन्थान् एतावतो दद्याद् ओदनान् वा ।
अश्नुते तं कामम् ।
यस्मै कामायाग्निश् चीयते ।
पष्ठौहीं त्व् अन्तर्वतीं दद्यात् ।
सा हि सर्वाणि वयाꣳसि ।
सर्वस्य_आप्त्यै ।
सर्वस्यावरुद्ध्यै ।
VERSE: 10 { 3.12.5.10}
हिरण्यं ददाति ।
हिरण्यज्योतिर् एव स्वर्गं लोकम् एति ।
वासो ददाति ।
तेन_आयुः प्रतिरते ।
वेदितृतीये यजेत ।
त्रिषत्या हि देवाः ।
ससत्यम् अग्निं चिनुते ।
तद् एतत् पशुबन्धे ब्राह्मणं ब्रूयात् ।
न_इतरेषु यज्ञेषु ।
यो ह वै चतुर्होतॄन् अनुसवनं तर्पयितव्यान् वेद ।
VERSE: 11 { 3.12.5.11}
तृप्यति प्रजया पशुभिः ।
उप_एनꣳ सोमपीथो नमति ।
एते वै चतुर्होतारो ऽनुसवनं तर्पयितव्याः ।
ये ब्राह्मणा बहुविदः ।
तेभ्यो यद् दक्षिणा न नयेत् ।
दुरिष्टꣳ स्यात् ।
अग्निम् अस्य वृञ्जीरन् ।
तेभ्यो यथाश्रद्धं दद्यात् ।
स्विष्टम् एव_एतत् क्रियते ।
नास्याग्निं वृञ्जते ।
VERSE: 12 { 3.12.5.12}
हिरण्य_इष्टको भवति ।
यावद् उत्तमम् अङ्गुलिकाण्डं यज्ञपरुषा संमितम् ।
तेजो हिरण्यम् ।
यदि हिरण्यं न विन्देत् ।
शर्करा अक्ता उपदध्यात् ।
तेजो घृतम् ।
सतेजसम् एवाग्निं चिनुते ।
अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्या वा ।
वीर्येण वा एष व्यृध्यते ।
यो ऽग्निं चिनुते ।
VERSE: 13 { 3.12.5.13}
यावद् एव वीर्यम् ।
तद् अस्मिन् दधाति ।
ब्रह्मणः सायुज्यꣳ सलोकताम् आप्नोति ।
एतासाम् एव देवतानाꣳ सायुज्यम् ।
सार्ष्टिताꣳ समानलोकताम् आप्नोति ।
य एतम् अग्निं चिनुते ।
य उ चैनम् एवं वेद ।
एतद् एव सावित्रे ब्राह्मणम् ।
अथो नाचिकेते ।
अनुवाक 6 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.6.1}
यच् चामृतं यच् च मर्त्यम् ।
यच् च प्राणिति यच् च न ।
सर्वास् ता इष्टकाः कृत्वा ।
उप कामदुघा दधे ।
तेन_ ऋषिणा तेन ब्रह्मणा ।
तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।
सर्वाः स्त्रियः सर्वान् पुꣳसः ।
सर्वं नस्त्रीपुमं च यत् ।
सर्वास् ताः ।
यावन्तः पाꣳसवो भूमेः ।
VERSE: 2 { 3.12.6.2}
संख्याता देवमायया ।
सर्वास् ताः ।
यावन्त ऊषाः पशूनाम् ।
पृथिव्यां पुष्टिर् हिताः ।
सर्वास् ताः ।
यावतीः सिकताः सर्वाः ।
अप्स्व् अन्तश् च याः स्रिताः ।
सर्वास् ताः ।
यावतीः शर्करा धृत्यै ।
अस्यां पृथिव्याम् अधि ।
VERSE: 3 { 3.12.6.3}
सर्वास् ताः ।
यावन्तो ऽश्मानो ऽस्यां पृथिव्याम् ।
प्रतिष्ठासु प्रतिष्ठिताः ।
सर्वास् ताः ।
यावतीर् वीरुधः सर्वाः ।
विष्ठिताः पृथिवीम् अनु ।
सर्वास् ताः ।
यावतीर् ओषधीः सर्वाः ।
विष्ठिताः पृथिवीम् अनु ।
सर्वास् ताः ।
VERSE: 4 { 3.12.6.4}
यावन्तो वनस्पतयः ।
अस्यां पृथिव्याम् अधि ।
सर्वास् ताः ।
यावन्तो ग्राम्याः पशवः सर्वे ।
आरण्याश् च ये ।
सर्वास् ताः ।
ये द्विपादश् चतुष्पादः ।
अपाद उदरसर्पिणः ।
सर्वास् ताः ।
यावद् आञ्जनम् उच्यते ।
VERSE: 5 { 3.12.6.5}
देवत्रा यच् च मानुषम् ।
सर्वास् ताः ।
यावत् कृष्णायसꣳ सर्वम् ।
देवत्रा यच् च मानुषम् ।
सर्वास् ताः ।
यावल् लोहायसꣳ सर्वम् ।
देवत्रा यच् च मानुषम् ।
सर्वास् ताः ।
सर्वꣳ सीसꣳ सर्वं त्रपु ।
देवत्रा यच् च मानुषम् ।
VERSE: 6 { 3.12.6.6}
सर्वास् ताः ।
सर्वꣳ हिरण्यꣳ रजतम् ।
देवत्रा यच् च मानुषम् ।
सर्वास् ताः ।
सर्वꣳ सुवर्णꣳ हरितम् ।
देवत्रा यच् च मानुषम् ।
सर्वास् ता इष्टकाः कृत्वा उप कामदुघा दधे ।
तेन_ ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
अनुवाक 7 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.7.1}
सर्वा दिशो दिक्षु ।
यच् चान्तर् भूतं प्रतिष्ठितम् ।
सर्वास् ता इष्टकाः कृत्वा ।
उप कामदुघा दधे ।
तेन_ ऋषिणा तेन ब्रह्मणा ।
तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
अन्तरिक्षं च केवलम् ।
यच् चास्मिन्न् अन्तराहितम् ।
सर्वास् ताः ।
आन्तरिक्ष्यश् च याः प्रजाः ।
VERSE: 2 { 3.12.7.2}
गन्धर्वाप्सरसश् च ये ।
सर्वास् ताः ।
सर्वान् उदारान्त् सलिलान् ।
अन्तरिक्षे प्रतिष्ठितान् ।
सर्वास् ताः ।
सर्वान् उदारान्त् सलिलान् ।
स्थावराः प्रोष्याश् च ये ।
सर्वास् ताः ।
सर्वां धुनिꣳ सर्वान् ध्वꣳसान् ।
हिमो यच् च शीयते ।
VERSE: 3 { 3.12.7.3}
सर्वास् ताः ।
सर्वान् मरीचीन् विततान् ।
नीहारो यच् च शीयते ।
सर्वास् ताः ।
सर्वा विद्युतः सर्वान्त् स्तनयित्नून् ।
ह्रादुनीर् यच् च शीयते ।
सर्वास् ताः ।
सर्वाः स्रवन्तीः सरितः ।
सर्वम् अप्सुचरं च यत् ।
सर्वास् ताः ।
VERSE: 4 { 3.12.7.4}
याश् च कूप्या याश् च नाद्याः समुद्रियाः ।
याश् च वैशन्तीर् उत प्रासचीर्याः ।
सर्वास् ताः ।
ये चोत्तिष्ठन्ति जीमूताः ।
याश् च वर्षन्ति वृष्टयः ।
सर्वास् ताः ।
तपस् तेज आकाशं ।
यच् च_आकाशे प्रतिष्ठितम् ।
सर्वास् ताः ।
वायुं वयाꣳसि सर्वाणि ।
VERSE: 5 { 3.12.7.5}
अन्तरिक्षचरं च यत् ।
सर्वास् ताः ।
अग्निꣳ सूर्यं चन्द्रम् ।
मित्रं वरुणं भगम् ।
सर्वास् ताः ।
सत्यꣳ श्रद्धाꣳ तपो दमम् ।
नाम रूपं च भूतानाम् ।
सर्वास् ता इष्टकाः कृत्वा उप कामदुघा दधे ।
तेन_ ऋषिणा तेन ब्रह्मणा ।
तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
अनुवाक 8 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.8.1}
सर्वां दिवꣳ सर्वान् देवान् दिवि ।
यच् चान्तर् भूतं प्रतिष्ठितम् ।
सर्वास् ता इष्टकाः कृत्वा ।
उप कामदुघा दधे ।
तेन_ ऋषिणा तेन ब्रह्मणा ।
तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
यावतीस् तारकाः सर्वाः ।
वितता रोचने दिवि ।
सर्वास् ताः ।
ऋचो यजूꣳषि सामानि ।
VERSE: 2 { 3.12.8.2}
अथर्वाङ्गिरसश् च ये ।
सर्वास् ताः ।
इतिहासपुराणं च ।
सर्पदेवजनाश् च ये ।
सर्वास् ताः ।
ये च लोका ये चालोकाः ।
अन्तर् भूतं प्रतिष्ठितम् ।
सर्वास् ताः ।
यच् च ब्रह्म यच् चाब्रह्म ।
अन्तर् ब्रह्मन् {ब्रह्मन्?} प्रतिष्ठितम् ।
VERSE: 3 { 3.12.8.3}
सर्वास् ताः ।
अहोरात्राणि सर्वाणि ।
अर्धमासाꣳश् च केवलान् ।
सर्वास् ताः ।
सर्वान् ऋतून्त् सर्वान् मासान् ।
संवत्सरं च केवलम् ।
सर्वास् ताः ।
सर्वं भूतꣳ {,आनंदा. भूतं} सर्वं भव्यम् ।
यच् चातो ऽधिभविष्यति ।
सर्वास् ता इष्टकाः कृत्वा ।
उप कामदुघा दधे ।
तेन_ऋषिणा तेन ब्रह्मणा ।
तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
अनुवाक 9 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्
VERSE: 1 { 3.12.9.1}
ऋचां प्राची महती दिग् उच्यते ।
दक्षिणाम् आहुर् यजुषाम् अपाराम् ।
अथर्वणाम् अङ्गिरसां प्रतीची ।
साम्नाम् उदीची महती दिग् उच्यते ।
ऋग्भिः पूर्वाह्णे दिवि देव ईयते ।
यजुर्वेदे तिष्ठति ।
मध्ये अह्नः ।
सामवेदेनास्तमये महीयते {ड्युमोण्ट महीयते ?} ।
वेदैर् अशून्यस् त्रिभिर् एति सूर्यः ।
ऋग्भ्यो जाताꣳ सर्वशो मूर्तिम् आहुः ।
सर्वा गतिर् याजुषी हैव शश्वत् ।
VERSE: 2 { 3.12.9.2}
सर्वं तेजः सामरूप्यꣳ ह शश्वत् {,आनंदा. शश्वत्} ।
सर्वꣳ ह_इदं ब्रह्मणा हैव सृष्टम् ।
ऋग्भ्यो जातं वैश्यं वर्णम् आहुः ।
यजुर्वेदं क्षत्रियस्य_आहुर् योनिम् ।
सामवेदो ब्राह्मणानां प्रसूतिः ।
पूर्वे पूर्वेभ्यो वच एतद् ऊचुः ।
आदर्शम् अग्निं चिन्वानाः ।
पूर्वे विश्वसृजो ऽमृताः ।
शतं वर्षसहस्राणि ।
दीक्षिताः सत्त्रम् आसत ।
VERSE: 3 { 3.12.9.3}
तप आसीद् गृहपतिः ।
ब्रह्म ब्रह्माभवत् स्वयम् ।
सत्यꣳ { सत्त्यꣳ} ह होता_एषाम् आसीत् {आसीत्?} ।
यद् विश्वसृज आसत ।
अमृतम् एभ्य उदगायत् ।
सहस्रं परिवत्सरान् ।
भूतꣳ ह प्रस्तोता_एषाम् आसीत् {आसीत्?} ।
भविष्यत् प्रति चाहरत् ।
प्राणो अध्वर्युर् अभवत् ।
इदꣳ सर्वꣳ सिषासताम् ।
VERSE: 4 { 3.12.9.4}
अपानो विद्वान् आवृतः ।
प्रति प्रातिष्ठद् अध्वरे ।
आर्तवा उपगातारः ।
सदस्या ऋतवो ऽभवन् ।
अर्धमासाश् च मासाश् च ।
चमसाध्वर्यवो ऽभवन् ।
अशꣳसद् ब्रह्मणस् तेजः ।
अच्छावाको ऽभवद् यशः ।
ऋतम् एषां प्रशास्ता_आसीत् ।
यद् विश्वसृज आसत ।
VERSE: 5 { 3.12.9.5}
ऊर्ग् राजानम् उदवहत् ।
ध्रुवगोपः सहो ऽभवत् ।
ओजो ऽभ्यष्टौद् ग्राव्णः ।
यद् विश्वसृज आसत ।
अपचितिः पोत्रीयाम् अयजत् ।
नेष्ट्रीयाम् अयजत् त्विषिः ।
आग्नीद्ध्राद् विदुषी सत्यम् { सत्त्यम्} ।
श्रद्धा हैवायजत् स्वयम् ।
इरा पत्नी विश्वसृजाम् ।
आकूतिर् अपिनड्ढविः ।
VERSE: 6 { 3.12.9.6}
इध्मꣳ ह क्षुच् चैभ्य उग्रे ।
तृष्णा च_आवहतामुभे ।
वाग् एषाꣳ सुब्रह्मण्याऽऽसीत् ।
छन्दोयोगान् विजानती ।
कल्पतन्त्राणि तन्वानाऽहःसꣳस्थाश् च सर्वशः {,आनंदा. कल्पतन्त्राणि तन्वानाहः ।
सꣳस्थाश् च} ।
अहोरात्रे पशुपाल्यौ ।
मुहूर्ताः प्रेष्या अभवन् ।
मृत्युस् तद् अभवद् धाता ।
शमिता_उग्रो विशां पतिः ।
VERSE: 7 { 3.12.9.7}
विश्वसृजः प्रथमाः सत्त्रम् आसत ।
सहस्रसमं प्रसुतेन यन्तः ।
ततो ह जज्ञे भुवनस्य गोपाः ।
हिरण्मयः शकुनिर् ब्रह्म नाम ।
येन सूर्यस् तपति तेजसा_इद्धः ।
पिता पुत्त्रेण पितृमान् योनियोनौ ।
नावेदविन् मनुते तं बृहन्तम् ।
सर्वानुभुम् आत्मानꣳ संपराये ।
एष नित्यो महिमा ब्राह्मणस्य ।
न कर्मणा वर्धते नो कनीयान् ।
VERSE: 8 { 3.12.9.8}
तस्यैवाऽऽत्मा पदवित् तं विदित्वा {,आनंदा. विदित्वा} ।
न कर्मणा लिप्यते पापकेन ।
पञ्च पश्चाशतस् त्रिवृतः संवत्सराः ।
पञ्च पञ्चाशतः पञ्चदशाः ।
पञ्च पञ्चाशतः सप्तदशाः ।
पञ्च पञ्चाशत एकविꣳशाः ।
विश्वसृजाꣳ सहस्रसंवत्सरम् ।
एतेन वै विश्वसृज इदं विश्वम् असृजन्त ।
यद् विश्वम् असृजन्त ।
तस्माद् विश्वसृजः ।
विश्वम् एनान् अनु प्रजायते ।
ब्रह्मणः सायुज्यꣳ सलोकतां यन्ति ।
एतासाम् एव देवतानाꣳ सायुज्यम् ।
सार्ष्टिताꣳ समानलोकतां यन्ति ।
य एतद् उपयन्ति ।
ये चैनत् प्राहुः ।
येभ्यश् चैनत् प्राहुः ।
This file has been copied from the following webpage, with fonts changed:
Taittiriya Brahmana
</big>
[[वर्गः:कृष्णयजुर्वेदः]]
[[वर्गः:ब्राह्मणम्]]
50n3tcj1cjngzgmcesp0zlsv4bkae4z
तैत्तिरीयसंहिता-१-४
0
13404
417990
218045
2026-08-09T09:06:53Z
~2026-39930-13
10591
ख्ष -> क्ष, थ्स -> त्स
417990
wikitext
text/x-wiki
<pre>
1.1.0.0
तैत्तिरीय संहिता प्रथमकाण्डे प्रथमः प्रश्नः ।। हरिः ओम् ।।
1.1.0.0
<इ॒षे त्वा॑ य॒ज्ञस्य॒ शुन्ध॑ध्वं॒ कर्म॑णे दे॒वोऽव॑धूत॒न्धृष्टि॒स्सं व॑पा॒म्या द॑दे॒ प्रत्यु॑ष्टं॒ कृष्णो॑ऽसि॒ भुव॑नमसि॒ वाज॑स्यो॒भा वां॒ चतु॑र्दश ।।14।। इ॒षे दृ॑ह॒ भुव॑नम॒ष्टावि॑शतिः ।।28।। इ॒षे त्वा॑ क॒ल्पया॑ति ।। >
1.1.1.0
<इ॒षे त्रिच॑त्वारिशत् । (1)>
1.1.1.1
इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒ पय॑स्वती प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑सो रु॒द्रस्य॑ हे॒ति परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। [1]
1.1.2.0
<स॒हस्र॑वल््शा अ॒ष्टात्रि॑शच्च । (2)>
1.1.2.1
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आव॑हन्ति क॒वय॑ पु॒रस्ताद्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑ दे॒वानाम्परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर््हि॒र्मा त्वा॒ऽन्वङ्मा ति॒र्यक्पर्व॑ ते राध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर््हिश्श॒तव॑ल््श॒व्विँ रो॑ह स॒हस्र॑वल््शाः [2]
1.1.2.2
वि व॒य रु॑हेम पृथि॒व्यास्स॒म्पृच॑ पाहि सुस॒म्भृता त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नम्पू॒षा ते ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पतेर्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ।। [3]
1.1.3.0
<सोमे॑ना॒ष्टौ च॑ । (3)>
1.1.3.1
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृह॑स्व॒ मा ह्वा॒र्वसू॑नाम्प॒वित्र॑मसि श॒तधा॑र॒व्वँसू॑नाम्प॒वि त्र॑मसि स॒हस्र॑धार हु॒तस्स्तो॒को हु॒तो द्र॒फ्सोऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒॒ सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॑र्मा॒ सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्य र॑क्षस्व ।। [4]
1.1.4.0
<मा त्वा॒ षट्च॑त्वारिशच्च । (4)>
1.1.4.1
कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒व्वेँषा॑य त्वा॒ प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तय्योँऽस्मान्धूर्व॑ति॒ तन्धूर्व॒ यव्वँ॒यन्धूर्वा॑म॒स्त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तम॒व्वँह्नि॑तम- न्देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धान॒न्दृह॑स्व॒ मा ह्वार्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सव्विँ॑क्था॒ मा त्वा [5]
1.1.4.2
हि॒॒सि॒ष॒मु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमाभ्यामि॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒ह स्फा॒त्यै त्वा॒ नारात्यै॒ सुव॑र॒भि वि ख्ये॑षव्वैँश्वान॒रञ्ज्योति॒र्दृह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्य र॑क्षस्व ।। [6]
1.1.5.0
<त्वा॒ भा॒ग एका॑दश च । (5)>
1.1.5.1
दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मय्यँ॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्वृँत्र॒तूर्ये॒ प्रोक्षि॑तास्स्था॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षाम्य॒ग्नीषोमाभ्या॒॒ शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा [7]
1.1.5.2
पृ॒थि॒वी वेत्त्वधि॒षव॑णमसि वानस्प॒त्यम्प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वेत्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नन्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यस्स इ॒दन्दे॒वेभ्यो॑ ह॒व्य सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒य सं॑घा॒तञ्जेष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धव्वेँत्तु॒ परा॑पूत॒॒ रक्ष॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑साम्भा॒गो॑ऽसि वा॒युर्वो॒ विवि॑नक्तु दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑ गृह्णातु ।। [8]
1.1.6.0
<प्रा॒णाय॑ त्वा॒ पञ्च॑दश च । (6)>
1.1.6.1
अव॑धूत॒॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वी वेत्तु दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वेत्तु धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वेत्तु धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वेत्तु दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒मधि॑वपामि धा॒न्य॑मसि धिनु॒हि दे॒वान्प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धान्दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑ गृह्णातु ।। [9]
1.1.7.0
<चक्षु॑र॒ष्टाच॑त्वारिशच्च । (7)>
1.1.7.1
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापाऽग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्याद॑ से॒धा दे॑व॒यज॑व्वँह॒ निर्द॑ग्ध॒॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वीन्दृ॒॒हायु॑र्दृह प्र॒जान्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृह प्रा॒णन्दृ॑हापा॒नन्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिव॑न्दृह॒ चक्षुः॑ [10]
1.1.7.2
दृ॒॒ह॒ श्रोत्र॑न्दृह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑ऽसि॒ दिशो॑ दृह॒ योनि॑न्दृह प्र॒जान्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चित॑स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒य्याँनि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ।। [11]
1.1.8.0
<स॒वि॒ता द्वावि॑शतिश्च । (8)>
1.1.8.1
सव्वँ॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ स रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्वम॒द्भ्य परि॒ प्रजा॑ता स्स्थ॒ सम॒द्भि पृ॑च्यध्व॒ञ्जन॑यत्यै त्वा॒ सय्यौँम्य॒ग्नये त्वा॒ऽग्नीषोमाभ्याम्म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑ति प्रथता॒न्त्वच॑ङ्गृह्णीष्वा॒ऽन्तरि॑त॒॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तयो दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर््षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुव॒म्माऽति॑ धा॒गग्ने॑ ह॒व्य र॑क्षस्व॒ सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा द्वि॒ताय॒ स्वाहा त्रि॒ताय॒ स्वाहा ।। [12]
1.1.9.0
<दे॒व॒यज॑न्यै व्र॒जन्तमतो॒ मा वि॑रफ्शि॒न्नेका॑दश च । (9)>
1.1.9.1
आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णस्स॒हस्र॑भृष्टिश्श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा॒ पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूल॒म्मा हि॑सिष॒मप॑हतो॒ऽररु॑ पृथि॒व्यै व्र॒जङ्ग॑च्छ गो॒स्थान॒ व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररु॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जम् [13]
1.1.9.2
ग॒च्छ॒ गो॒स्थान॒व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररु॑ पृथि॒व्या अदे॑वयजनो व्र॒जङ्ग॑च्छ गो॒स्थान॒व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा [14]
1.1.9.3
मौ॒ग॒ररु॑स्ते॒ दिव॒म्मा स्का॒न्॒ वस॑वस्त्वा॒ परि॑गृह्णन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॒ परि॑गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽऽदि॒त्यास्त्वा॒ परि॑गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तुस्स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन्नुदा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते ।। [15]
1.1.10.0
<उप॒ नी र॒श्मिभि॑श्शु॒क्र षोड॑श च । (10)>
1.1.10.1
प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि गो॒ष्ठम्मा निर्मृ॑क्षव्वाँ॒जिन॑न्त्वा सपत्नसा॒ह सम्मार्ज्मि॒ वाच॑म्प्रा॒णञ्चक्षुः॒ श्रोत्र॑म्प्र॒जाय्योँनि॒म्मा निर्मृ॑क्षव्वाँ॒जिनीन्त्वा सपत्नसा॒ही सम्मार्ज्म्या॒शासा॑ना सौमन॒सम्प्र॒जा सौभाग्यन्त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम् । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ [16]
1.1.10.2
से॒दि॒म॒ । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदाभ्यम् । इ॒मव्विँष्या॑मि॒ वरु॑णस्य॒ पाश॒य्यँमब॑ध्नीत सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ कृणोमि । समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ । म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ निः [17]
1.1.10.3
व॒पा॒मि॒ म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒॒ रसोऽद॑ब्धेन त्वा॒ चक्षु॒षाऽवेक्षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑श्शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ।। [18]
1.1.11.0
<बा॒हुर॑सि प्रि॒ये सद॑सि पञ्च॑दश च । (11)>
1.1.11.1
कृष्णोऽस्याखरे॒ष्ठोऽग्नये त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे त्वा॒ स्वाहा॑ ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर््हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छत॒ विष्णो॒स्स्तूपो॒ऽस्यूर्णाम्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्यो॑ गन्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि [19]
1.1.11.2
दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रावरु॑णौ त्वोत्तर॒त परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तस्सूर्य॑स्त्वा पु॒रस्तात्पातु॒ कस्याश्चिद॒भिश॑स्त्या वी॒तिहोत्रन्त्वा कवे द्यु॒मन्त॒॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑ना रु॒द्राणा॑मादि॒त्याना॒॒ सद॑सि सीद जु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑ घृ॒ताची॒ नाम्ना प्रि॒येण॒ नाम्ना प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्त्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्यँ॑ज्ञ॒नियम् ।। [20]
1.1.12.0
<अह्रु॑त॒ एक॑विशतिश्च । (12)>
1.1.12.1
भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑ । जुह्वेह्य॒ग्निस्त्वा ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒व्विँ जि॑हाथा॒म्मा मा॒ सन्ताप्तल्लोँ॒कम्मे॑ लोककृतौ कृणुत॒व्विँष्णो॒स्स्थान॑मसी॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्त्स्वाहा॑ बृ॒हद्भा पा॒हि माग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ।। [21]
1.1.13.0
<दिव॑ञ्च वि॒त्वा गा॒तुन्त्रयो॑दश च । (13)>
1.1.13.1
वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रा अकः । उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒क्त रिहा॑णा वि॒यन्तु॒ वयः॑ । प्र॒जाय्योँनि॒म्मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒म्पृष॑तयस्स्थ॒ दिवम् [22]
1.1.13.2
ग॒च्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य । आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वाऽसि॒ यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः । तन्त॑ ए॒तमनु॒ जोष॑म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त सस्रा॒वभा॑गास्स्थे॒षा बृ॒हन्त॑ प्रस्तरे॒ष्ठा ब॑र््हि॒षद॑श्च [23]
1.1.13.3
दे॒वा इ॒माव्वाँच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्तन्धु॒रि धु॒र्यौ॑ पात॒मग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒व पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षन्न पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुव्विँ॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ।। [24]
1.1.14.0
<जु॒षेथा॒मा स नो॑ यजा॒दा त्रयो॑विशतिश्च । (14)>
1.1.14.1
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सस्स॒ह मा॑द॒यध्यै । उ॒भा दा॒तारा॑वि॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् । अश्र॑व॒॒ हि भू॑रि॒दाव॑त्तरा वा॒व्विँ जा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्राग्नी॒ स्तोम॑ञ्जनयामि॒ नव्यम् । इन्द्राग्नी नव॒तिम्पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा । शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्येन्द्राग्नी वृत्रहणा जु॒षेथाम् ।। [25]
1.1.14.2
उ॒भा हि वा॑ सु॒हवा॒ जोह॑वीमि॒ ता वाज॑ स॒द्य उ॑श॒ते धेष्ठा । व॒यमु॑ त्वा पथस्पते॒ रथ॒न्न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि । प॒थस्प॑थः॒ परि॑पतिव्वँच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धिय सीषधाति॒ प्र पू॒षा । क्षेत्र॑स्य॒ पति॑ना व॒य हि॒तेने॑व जयामसि । गामश्व॑म्पोषयि॒त्न्वा स नः॑ [26]
1.1.14.3
मृ॒डा॒ती॒दृशे । क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिन्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ पत॑यो मृडयन्तु । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑उक्तिव्विँधेम । आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्निर्वि॒द्वान्त्स य॑जात् [27]
1.1.14.4
सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति । यद्वाहि॑ष्ठ॒न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते । अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शँय्योः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वय्यँ॒ज्ञेष्वीड्यः॑ । यद्वो॑ व॒यम्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषान्देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्दे॒वा ऋ॒तुभिः॑ क॒ल्पया॑ति ।। [28]
1.2.1.0
(वर्च॑ ओषधीर॒ष्टौ च॑) ।। 1 ।।
1.2.1.1
आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसीर्देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒याऽऽपो॑ अ॒स्मान्मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रमुदाभ्यः॒ शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि मही॒नां पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चः॑ [1]
1.2.1.2
मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्राग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒ (2) स्त्वं दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्तं॑ पाहि ।। [2]
1.2.2.0
(मा॒ योनि॑रसि त्रि॒॒शच्च॑) ।। 2 ।।
1.2.2.1
आकूत्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहाऽऽपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षं बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाह॑र्क्सा॒मयोः॒ शिल्पे स्थ॒स्ते वा॒मा र॑भे ते मा [3]
1.2.2.2
पा॒त॒माऽस्य य॒ज्ञस्यो॒दृच॑ इ॒मां धिय॒॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सशि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नाव॑ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्जं॑ मे यच्छ पा॒हि मा॒ मा मा॑ हिसी॒र्विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ॒ नक्ष॑त्राणां माऽतीका॒शात् पा॒हीन्द्र॑स्य॒ योनि॑रसि [4]
1.2.2.3
मा मा॑ हिसीः कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः॒ स्वाहा॑ य॒ज्ञं मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒॒ स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॑ य॒ज्ञं वाता॒दा र॑भे ।। [5]
1.2.3.0
(आ त्व हयो॑ऽसि॒ मम॒ भोगा॑य भव स्य॒ पञ्च॑विशतिश्च) ।। 3 ।।
1.2.3.1
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हस सुपा॒रा नो॑ अस॒द्वशे । ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहाऽग्ने॒ त्व सु जा॑गृहि व॒य सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये प्र॒बुधे॑ नः॒ पुन॑र्ददः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वम् [6]
1.2.3.2
य॒ज्ञेष्वीड्यः॑ ।। विश्वे॑ दे॒वा अ॒भि मा माऽव॑वृत्रन् पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसोर्वसु॒दावा॒ रास्वेय॑त्सो॒माऽऽभूयो॑ भर॒ मा पृ॒णन्पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव [7]
1.2.3.3
छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे त्वा॒ वरु॑णाय त्वा॒ निर्ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर््ह॑वि॒ष्य॑ इन्द्रि॒यावान्म॒दिन्त॑म॒स्तं वो॒ माऽव॑क्रमिष॒मच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रून् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नं पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋक्सा॒माभ्यां॒ यजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।। [8]
1.2.4.0
(दक्षि॑णा॒ सोम॑सखा॒ पञ्च॑ च) ।। 4 ।।
1.2.4.1
इ॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒स्तया॒ सं भ॑व॒ भ्राजं॑ गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्यास्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒व ह॒विः सूर्य॑स्य॒ चक्षु॒राऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑कां॒ यदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा[9]
1.2.4.2
अ॒सि॒ य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ऽस्यदि॑तिरस्युभ॒यतः॑शीर्ष्णी॒ सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सं भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑ध्नातु पू॒षाऽध्व॑नः पा॒त्विन्द्रा॒याध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयूथ्यः॒ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ रु॒द्रस्त्वाऽऽव॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या ।। [10]
1.2.5.0
(अ॒स्य॒ ग्री॒वा एका॒न्नत्रि॒॒शच्च॑) ।। 5 ।।
1.2.5.1
वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखित॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः[11]
1.2.5.2
अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः॒ सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं वि॑देय॒ तव॑ सं॒दृशि॒ माऽह रा॒यस्पोषे॑ण॒ वि यो॑षम् ।। [12]
1.2.6.0
(अनु॑ स॒प्त च॑ ) ।। 6 ।।
1.2.6.1
अ॒॒शुना॑ ते अ॒॒शुः पृ॑च्यतां॒ परु॑षा॒ परु॑र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहो॒ऽभि त्यं दे॒व स॑वि॒तार॑मू॒ण्योः क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वस रत्न॒धाम॒भि प्रि॒यं म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ । प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ।। [13]
1.2.7.0
(ऊ॒रुं द्वावि॑शतिश्व) ।। 7 ।।
1.2.7.1
सोमं॑ ते क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं वी॒र्या॑वन्तमभिमाति॒षाह॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्यास्ते सहस्रपो॒षं पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ स्यो॒नः स्यो॒न स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन्न् ।। [14]
1.2.8.0
(हृ॒त्सु पञ्च॑त्रिशच्च) ।। 8 ।।
1.2.8.1
उदायु॑षा स्वा॒युषोदोष॑धीना॒॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आसी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒त्सु [15]
1.2.8.2
क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रा॒वुदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यम् ।। उस्रा॒वेतं॑ धूर््षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ।। [16]
1.2.9.0
(मि॒त्रस्य॒ त्रयो॑विशतिश्च) ।। 9 ।।
1.2.9.1
प्रच्य॑वस्व भुवस्पते॒ विश्वान्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः स॑स्कृ॒तं यज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसं॒ येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒त स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शसत॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ।। [17]
1.2.10.0
(आ मैकं॑ च ) ।। 10 ।।
1.2.10.1
अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञं ग॑य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ[18]
1.2.10.2
सी॒द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शं॒योर्दे॒वाना॑ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छित्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्यना॑धृष्टम- स्यनाधृ॒ष्यं दे॒वाना॒मोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेष सुवि॒ते मा॑ धाः[19]
1.2.11.0
(त्वयि॑ चत्वारि॒॒शच्च॑) ।। 11 ।।
1.2.11.1
अ॒॒शुर॑शुस्ते देव सो॒माऽऽप्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽ प्या॑यय॒ सखीन्त्स॒न्या मे॒धया स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने व्रतपते॒ त्वं व्र॒तानां व्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑[20]
1.2.11.2
या तव॑ त॒नूरि॒य सा मयि॑ स॒ह नौ व्रतपते व्र॒तिनोर्व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्यास्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर््षि॑ष्ठा गह्वरे॒ष्ठोग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒॒ स्वाहा ।। [21]
1.2.12.0
(नाम॑ सुप्रजा॒वनिः॒ स्वाहा॑ सि॒॒हीः पञ्च॑त्रिशच्च) ।। 12 ।।
1.2.12.1
वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं वि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ योऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्यां पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑[22]
1.2.12.2
य॒ज्ञियं॒ तेन॒ त्वाऽऽद॑धे सि॒॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्तात्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्वात्पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सि॒॒हीः [23]
1.2.12.3
अ॒सि॒ रा॒य॒स्पो॒ष॒वनिः॒ स्वाहा॑ सि॒॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सि॒॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीं दृ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृहाच्युत॒क्षिद॑सि॒ दिवं॑ दृहा॒ग्नेर्भस्मास्य॒ग्नेः पुरी॑षमसि ।। [24]
1.2.13.0
(अ॒स्य॒ य॒च्छैका॒न्नच॑त्वारि॒॒शच्च॑) ।। 13 ।।
1.2.13.1
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।। सु॒वाग्दे॑व॒ दुर्या॒॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यतां कर्म॒ण्यो॑ य सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी । इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य [25]
1.2.13.2
पा॒॒सु॒र इरा॑वती धेनु॒मती॒ हि भू॒त सू॑यव॒सिनी॒ मन॑वे यश॒स्ये । व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः ।। प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जीह्वरत॒मत्र॑ रमेथां॒ वर्ष्म॑न्पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यै॑रा प्र य॑च्छ [26]
1.2.13.3
दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि॒ यो अस्क॑भाय॒दुत्त॑र स॒धस्थं॑ विचकमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।। [27]
1.2.14.0
(अ॒घश॑सः॒ स ते॑ जरता रुजामि ह॒ दिवैक॑चत्वारिशच्च) ।। 14 ।।
1.2.14.1
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ।। तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपू॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ।। प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घश॑सः[28]
1.2.14.2
यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् । उद॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒ न्य॑मित्रा॑ ओषतात्तिग्महेते । यो नो॒ अरा॑ति समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कम् ।। ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्यान्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनाञ्जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ।। स ते[29]
1.2.14.3
जा॒ना॒ति॒ सु॒म॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वान्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौत् ।। सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ।। अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्सं ते॑ वा॒वाता॑ जरताम्[30]
1.2.14.4
इ॒यङ्गीः । स्वश्वास्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ।। इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्त- र्दीदि॒वास॒मनु॒ द्यून् । कीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वासो॒ जना॑नाम् ।। यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ।। म॒हो रु॑जामि[31]
1.2.14.5
ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।। त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ।। अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो निष॒द्याऽग्ने॒ तव॑ नः पान्त्वमूर ।। ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑[32]
1.2.14.6
दे॒भुः॒ ।। त्वया॑ व॒य स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणीत्यश्याम॒ वाजा॑न् । उ॒भा शसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ।। अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोम॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ।। र॒क्षो॒हणं॑ वा॒जिन॒माऽऽजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः कतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा[33]
1.2.14.7
स रि॒षः पा॑तु॒ नक्तम् ।। वि ज्योति॑षा बृह॒ता भात्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे ।। उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ।। [34]
1.3.0.0
दे॒वस्य॑ रक्षो॒हणो॑ वि॒भूस्त्व सो॒मात्य॒न्यानगां पृथि॒व्या इ॒षे त्वाऽऽद॑दे॒ वाक्ते॒ सं ते॑ समु॒द्र ह॒विष्म॑तीऱ्हृ॒दे त्वम॑ग्ने रु॒द्रश्चतु॑र्दश ।। दे॒वस्य॑ ग॒मध्ये॑ ह॒विष्म॑तीः पवस॒ एक॑त्रिशत् ।। दे॒वस्या॒र्चयः॑ ।। हरिः॑ ओम् । श्रीकृष्णार्पणमस्तु ।।
1.3.1.0
(द्वेष॑ इ॒मा अ॒ष्टाद॑श च ) ।। 1 ।।
1.3.1.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्यां पू॒ष्णो हस्ताभ्या॒माद॒देऽभ्रि॑रसि॒ नारि॑रसि॒ परि॑लिखित॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद्द्वेषः॑ [1]
1.3.1.2
य॒वयारा॑तीः पितृ॒णा सद॑नम॒स्युद्दिव॑ स्तभा॒नाऽन्तरि॑क्षं पृण पृथि॒वीं दृ॑ह द्युता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॑ सुप्रजा॒वनि॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृह क्ष॒त्रं दृ॑ह प्र॒जां दृ॑ह रा॒यस्पोषं॑ दृह घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदो॑ऽसि विश्वज॒नस्य॑ छा॒या परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतो॑ वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑य॒ इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ।। [2]
1.3.2.0
(ह॒न्तेन्द्रा॑य॒ द्वे च॑ ) ।। 2 ।।
1.3.2.1
र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑नामी॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रं करोमि॒ यो नः॑ समा॒नो योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒साऽव॑बाढो वल॒गः किमत्र॑ भ॒द्रं तन्नौ॑ स॒ह वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सां ना॒ष्ट्राणा॑ ह॒न्ता [3]
1.3.2.2
र॒क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान् यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑ती रक्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।। [4]
1.3.3.0
(अनी॑केना॒ष्टौ च॑ ) ।। 3 ।।
1.3.3.1
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः श्वा॒त्रो॑ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दा उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्युर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑ स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानः प्र॒तक्वा॑ऽसि॒ नभ॑स्वा॒नसं॑मृष्टोऽसि हव्य॒सूद॑ ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योति॒र्ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ऽजोऽस्येक॑पा॒दहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि माऽग्ने पिपृ॒हि मा॒ मा मा॑ हिसीः ।। [5]
1.3.4.0
(गा॒तु॒विद॒भ्येक॑त्रिशच्च) ।। 4 ।।
1.3.4.1
त्व सो॑म तनू॒कृद्भ्यो॒ द्वेषोभ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒॒ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॒ऽयं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒य शत्रूञ्जयतु॒ जर्हृ॑षाणो॒ ऽयं वाजं॑ जयतु॒ वाज॑सातौ ।। उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नः कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ।। सोमो॑ जिगाति गातु॒विद् [6]
1.3.4.2
दे॒वाना॑मेति निष्कृ॒तमृ॒तस्य॒ योनि॑मा॒सद॒मदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॑दै॒ष वो॑ देव सवितः॒ सोम॒स्त र॑क्षध्वं॒ मा वो॑ दभदे॒तत् त्व सो॑म दे॒वो दे॒वानुपा॑गा इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्यान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्य॑ इ॒दम॒हं निर्वरु॑णस्य॒ पाशा॒त् सुव॑र॒भि [7]
1.3.4.3
वि ख्ये॑षं वैश्वान॒रं ज्योति॒रग्ने व्रतपते॒ त्वं व्र॒तानां व्र॒तप॑तिरसि॒ या मम॑ त॒नूस्त्वय्यभू॑दि॒य सा मयि॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॑ यथाय॒थं नौ व्रतपते व्र॒तिनोर्व्र॒तानि॑ ।। [8]
1.3.5.0
(यं दश॑ च ) ।। 5 ।।
1.3.5.1
अत्य॒न्यानगां॒ नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविदं प॒रोऽव॑रै॒स्तं त्वा॑ जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वोष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒र्दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्षं॒ मध्ये॑न॒ मा हि॑सीः पृथि॒व्या सं भ॑व॒ वन॑स्पते श॒तव॑ल््शो॒ वि रो॑ह स॒हस्र॑वल््शा॒ वि व॒य रु॑हेम॒ यं त्वा॒ऽय स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याऽच्छि॑न्नो॒ रायः॑ सु॒वीरः॑ ।। [9]
1.3.6.0
(उ॒श्म॒सी॒ पोष॒मेका॒न्नवि॑श॒तिश्च॑) ।। 6 ।।
1.3.6.1
पृ॒थि॒व्यै त्वा॒ऽन्तरि॑क्षाय त्वा दि॒वे त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः पितृ॒णा सद॑नमसि स्वावे॒शोऽस्यग्रे॒गा ने॑तृ॒णां वन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑ वित्ताद्दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ उद्दिव॑ स्तभा॒नान्तरि॑क्षं पृण पृथि॒वीमुप॑रेण दृह॒ ते ते॒ धामान्युश्मसि [10]
1.3.6.2
ग॒मध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः पर॒मं प॒दमव॑ भाति॒ भूरेः ।। विष्णोः॒ कर्मा॑णि पश्यत॒ यतो व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा ।। तद्विष्णोः पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ।। ब्र॒ह्म॒वनिं॑ त्वा क्षत्त्र॒वनि॑ सुप्रजा॒वनि॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृह क्ष॒त्त्रं दृ॑ह प्र॒जां दृ॑ह रा॒यस्पोषं॑ दृह परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो व्ययन्तां॒ परी॒म रा॒यस्पोषो॒ यज॑मानं मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ।। [11]
1.3.7.0
(भव॑त॒मेक॑त्रिशच्च) ।। 7 ।।
1.3.7.1
इ॒षे त्वो॑प॒वीर॒स्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒र्वह्नी॑रु॒शिजो॒ बृह॑स्पते धा॒रया॒ वसू॑नि ह॒व्या ते स्वदन्तां॒ देव॑ त्वष्ट॒र्वसु॑ रण्व॒ रेव॑ती॒ रम॑ध्वम॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ घृ॒तेना॒क्ते वृष॑णं दधाथां गाय॒त्रं छन्दोऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भं॒ जाग॑तं॒ छन्दोऽनु॒ प्रजा॑यस्व॒ भव॑तं [12]
1.3.7.2
नः॒ सम॑नसौ॒ समो॑कसावरे॒पसौ । मा य॒ज्ञ हि॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ।। अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्त्रो अ॑धिरा॒ज ए॒षः । स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते जुहोमि॒ मा दे॒वानां मिथु॒याक॑र्भाग॒धेयम् ।। [13]
1.3.8.0
(दे॒वेन॒ चतु॑श्चत्वारिशच्च) ।। 8 ।।
1.3.8.1
आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नाऽऽर॑भे॒ धऱ्षा॒ मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षाम्य॒पां पे॒रुर॑सि स्वा॒त्तं चि॒त् सदे॑व ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒॒ सं ते प्रा॒णो वा॒युना॑ गच्छता॒॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धाऽऽवि॑श॒तोरो॑ अन्तरिक्ष स॒जूर्दे॒वेन॑ [14]
1.3.8.2
वाते॑ना॒ऽस्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वऱ्षी॑यो॒ वऱ्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः पृथि॒व्याः स॒म्पृचः॑ पाहि॒ नम॑स्त आतानाऽन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णाऽऽपो॑ देवीः शुद्धायुवः शु॒द्धा यू॒यं दे॒वा ऊड्ढ्व शु॒द्धा व॒यं परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ।। [15]
1.3.9.0
(अ॒द्भ्यो वीहि॒ पञ्च॑ च ) ।। 9 ।।
1.3.9.1
वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्या॑यता॒॒ श्रोत्रं॑ त॒ आ प्या॑यतां॒ या ते प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रं॒ यत् ते क्रू॒रं यदास्थि॑तं॒ तत् त॒ आ प्या॑यतां॒ तत् त॑ ए॒तेन॑ शुन्धतां॒ नाभि॑स्त॒ आ प्या॑यतां पा॒युस्त॒ आ प्या॑यता शु॒द्धाश्च॒रित्राः॒ शम॒द्भ्यः [16]
1.3.9.2
शमोष॑धीभ्यः॒ शं पृ॑थि॒व्यै शमहोभ्या॒मोष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒ रक्ष॑सां भा॒गो॑ऽसी॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दमे॑नमध॒मं तमो॑ नयामी॒षे त्वा॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मच्छि॑न्नो॒ रायः॑ सु॒वीर॑ उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ स्तो॒काना॒॒ स्वाहो॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ।। [17]
1.3.10.0
(वात॑स्या॒ष्टावि॑शतिश्च) ।। 10 ।।
1.3.10.1
सं ते॒ मन॑सा॒ मनः॒ सं प्रा॒णेन॑ प्रा॒णो जुष्टं॑ दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒त् स्वाहै॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि देध्यदै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा श्रीणा॒त्वापः॒ सम॑रिण॒न्वात॑स्य [18]
1.3.10.2
त्वा॒ ध्रज्यै॑ पू॒ष्णो रह्या॑ अ॒पामोष॑धीना॒॒ रोहि॑ष्यै घृ॒तं घृ॑तपावानः पिबत॒ वसां वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा त्वा॒ऽन्तरि॑क्षाय॒ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॒ स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ।। [19]
1.3.11.0
(अ॒सि॒ षड्वि॑शतिश्च) ।। 11 ।।
1.3.11.1
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॒ऽग्निं वैश्वान॒रं ग॑च्छ॒ स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नूं त्वचं॑ पु॒त्त्रं नप्ता॑रमशीय॒ शुग॑सि॒ तम॒भि शो॑च॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ।। [20]
1.3.12.0
(ह॒विष्म॑ती॒श्चतु॑स्रिशत्) ।। 12 ।।
1.3.12.1
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मान् दे॒वो अ॑ध्व॒रो ह॒विष्मा॒॒ आ वि॑वासति ह॒विष्मा॑ अस्तु॒ सूर्यः॑ ।। अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनीः सु॒म्ने मा॑ धत्तेन्द्राग्नि॒योर्भा॑ग॒धेयीः स्थ मि॒त्रावरु॑णयोर्भाग॒धेयीः स्थ॒ विश्वे॑षां दे॒वानां भाग॒धेयीः स्थ य॒ज्ञे जा॑गृत ।। [21]
1.3.13.0
(नु स॒प्तच॑त्वारिशच्च) ।। 13 ।।
1.3.13.1
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वो॒र्ध्वमि॒मम॑ध्व॒रं कृ॑धि दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ॒ सोम॑ राज॒न्नेह्यव॑ रोह॒ मा भेर्मा सं वि॑क्था॒ मा त्वा॑ हिसिषं प्र॒जास्त्वमु॒पाव॑रोह प्र॒जास्त्वामु॒पाव॑ रोहन्तु शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणाश्च दे॒वीः । शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु [22]
1.3.13.2
य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे । देवी॑रापो अपां नपा॒द्य ऊ॒र्मिऱ्ह॑वि॒ष्य॑ इन्द्रि॒यावान्म॒दिन्त॑म॒स्तं दे॒वेभ्यो॑ देव॒त्रा ध॑त्त शु॒क्र शु॑क्र॒पेभ्यो॒ येषां भा॒गः स्थ स्वाहा॒ काऱ्षि॑र॒स्यपा॒पां मृ॒ध्र स॑मु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑ये । यम॑ग्ने पृ॒त्सु मर्त्य॒मावो॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषः॑ ।। (1) [23]
1.3.14.0
पु॒रु॒नि॒ष्ठः पु॑र्वणीक भरा॒ऽभि वयो॑भि॒र्य आयू॑षि॒ विप्र॒श्शुचि॒श्चतु॑र्दश च ।। 14 ।।
1.3.14.1
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्व शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना ।। आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्र होता॑र सत्य॒यज॒॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ।। अ॒ग्निर्होता॒ निष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तुस्सु॑र॒भावु॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठः [24]
1.3.14.2
ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ।। सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्याम् । स आयु॒रागात्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ।। अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो विहीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।। त्वे वसू॑नि पुर्वणीक [25]
1.3.14.3
हो॒त॒र्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्स सौभ॑गानि दधि॒रे पा॑व॒के ।। तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ।। अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒त्य॑श्याम॑ र॒यि र॑यिवः सु॒वीरम् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ।। श्रेष्ठं॑ यविष्ठ भार॒ताग्ने द्यु॒मन्त॒माभ॑र । [26]
1.3.14.4
वसो॑ पुरु॒स्पृह॑ र॒यिम् ।। स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्वन्न्॑ ।। आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरेण्यः । पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष्म॑ सुवामि ते ।। आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि [27]
1.3.14.5
र॒क्ष॒ता॒दि॒मम् ।। तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑ऱ्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ।। दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ।। शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ।। दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद् दु॒र्मऱ्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भिः [28]
1.3.14.6
यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः ।। आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑न स्वा॒धियं॑ जनयत्सू॒दय॑च्च ।। स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ।। अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यः [29]
1.3.14.7
च॒ऱ्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ।। तम॑ग्ने पृतना॒सह॑ र॒यि स॑हस्व॒ आ भ॑र । त्व हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ।। उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे । स्तोमैर्विधेमा॒ग्नये ।। व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्नम् । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षेष्य॒न्तः ।। अग्न॒ आयू॑षि [30]
1.3.14.8
प॒व॒स॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यम् । दध॒त्पोष॑ र॒यिं मयि॑ ।। अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ।। स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वा इ॒हा व॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ।। अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्र॒श्शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ।। उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योती॑ष्य॒र्चयः॑ ।। [31]
1.4.1.0
(यु॒ष्माक॑ स्वर॒ यत्ते॒ नव॑ च) ।। 1 ।।
1.4.1.1
आ द॑दे॒ ग्रावास्यध्वर॒कृद् दे॒वेभ्यो॑ गम्भी॒रमि॒मम॑ध्व॒रं कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोम॒॒ सुषु॑तं॒ मधु॑मन्तं॒ पय॑स्वन्तं वृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाऽभिमाति॒घ्न इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदेव्यावते श्वा॒त्राः स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर्देव॒त्रेमं य॒ज्ञं ध॒त्तोप॑हूताः॒ सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माकम् [1]
1.4.1.2
सोमः॑ पिबतु॒ यत्ते॑ सोम दि॒वि ज्योति॒र्यत् पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती वी॑डयेथा॒मूर्जं॑ दधाथा॒मूर्जं॑ मे धत्तं॒ मा वा॑ हिसिषं॒ मा मा॑ हिसिष्टं॒ प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र । यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा ।। [2]
1.4.2.0
(वा॒चः स॒प्तच॑त्वारिशत्) ।। 2 ।।
1.4.2.1
वा॒चस्पत॑ये पवस्व वाजि॒न् वृषा॒ वृष्णो॑ अ॒॒शुभ्यां॒ गभ॑स्तिपूतो दे॒वो दे॒वानां प॒वित्र॑मसि॒ येषां भा॒गोऽसि॒ तेभ्य॑स्त्वा॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वेभ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनिः॑ प्रा॒णाय॑ त्वा ।। [3]
1.4.3.0
(दे॒वेभ्यः॑ स॒प्त च॑) ।। 3 ।।
1.4.3.1
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑मुरु॒ष्य रायः॒ समिषो॑ यजस्वा॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष स॒जोषा॑ दे॒वैरव॑रैः॒ परैश्चान्तर्या॒मे म॑घवन् मादयस्व॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वेभ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनि॑रपा॒नाय॑ त्वा ।। [4]
1.4.4.0
(आ वा॑यो॒ त्रिच॑त्वारिशत्) ।। 4 ।।
1.4.4.1
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पूर्व॒पेयम् ।। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒रा ग॑त॒मिन्द॑वो वामु॒शन्ति॒ हि ।। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रवा॒युभ्यां त्वै॒ष ते॒ योनिः॑ स॒जोषाभ्यां त्वा ।। [5]
1.4.5.0
(अ॒यं वां विश॒तिः ) ।। 5 ।।
1.4.5.1
अ॒यं वां मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒॒ हवम् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वै॒ष ते॒ योनि॑र् ऋता॒युभ्यां त्वा ।। [6]
1.4.6.0
(या वा॑म॒ष्टाद॑श) ।। 6 ।।
1.4.6.1
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां त्वै॒ष ते॒ योनि॒र्माध्वीभ्यां त्वा ।। [7]
1.4.7.0
(प्रा॒त॒र्युजा॒वेका॒न्नवि॑शतिः ) ।। 7 ।।
1.4.7.1
प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒मश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये ।। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां त्वै॒ष ते॒ योनि॑र॒श्विभ्यां त्वा ।। [8]
1.4.8.0
(अ॒यं वे॒नः पञ्च॑विशतिः) ।। 8 ।।
1.4.8.1
अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने । इ॒मम॒पा स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।। उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां पाहि ।। [9]
1.4.9.0
(त षड्वि॑शतिः ) ।। 9 ।।
1.4.9.1
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा ज्ये॒ष्ठता॑तिं बर््हि॒षद॑ सुव॒र्विदं॑ प्रतीची॒नं वृ॒जनं॑ दोहसे गि॒राऽऽशुं जय॑न्तमनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ।। [10]
1.4.10.0
(त्रि॒॒शद् द्विच॑त्वारिशत्) ।। 11 ।।
1.4.10.0
(ये दे॑वा॒स्त्रिच॑त्वारिशत्) ।। 10 ।।
1.4.10.1
ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थाऽप्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञमि॒मं जु॑षध्वमुपया॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वाग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [11]
1.4.11.1
त्रि॒॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिव॑ रु॒द्राः पृ॑थि॒वीं च॑ सचन्ते । ए॒का॒द॒शासो॑ अप्सु॒षदः॑ सु॒त सोमं॑ जुषन्ता॒॒ सव॑नाय॒ विश्वे ।। उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वाग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [12]
1.4.12.0
(उ॒प॒या॒मगृ॑हीतो॒ द्वावि॑शतिः ) ।। 12 ।।
1.4.12.1
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत् त॑ इन्द्र बृ॒हद्वय॒स्तस्मै त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे ।। [13]
1.4.13.0
(मू॒र्धानं॒ पञ्च॑त्रिशत्) ।। 13 ।।
1.4.13.1
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निम् । क॒वि स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र॒ग्नये त्वा वैश्वान॒राय॑ ।। [14]
1.4.14.0
(मधु॑स्त्रि॒॒शत्) ।। 14 ।।
1.4.14.1
मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्चोपया॒मगृ॑हीतोऽसि स॒॒सर्पोऽस्यहस्प॒त्याय॑ त्वा ।। [15]
1.4.15.0
(इन्द्राग्नी विश॒तिः ) ।। 15 ।।
1.4.15.1
इन्द्राग्नी॒ आ ग॑त सु॒तं गी॒र्भिर्नभो॒ वरेण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां त्वा ।। [16]
1.4.16.0
(इन्द्राग्नी॒ ओमा॑सो विश॒तिर्वि॑शतिः) ।। 16 ।।
1.4.16.1
ओमा॑सश्चर््षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वासो॑ दा॒शुषः॑ सु॒तम् ।। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वेभ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [17]
1.4.17.0
(म॒रुत्व॑न्त॒॒ षड्वि॑शतिः) ।। 17 ।।
1.4.17.1
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्य शा॒समिन्द्रम् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्र स॑हो॒दामि॒ह त हु॑वेम ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। [18]
1.4.18.0
(इन्द्रैका॒न्नत्रि॒॒शत्) ।। 18 ।।
1.4.18.1
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। [19]
1.4.19.0
(इन्द्र॑ मरुत्वो म॒रुत्वा॒नेका॒न्न त्रि॒॒शदेका॒न्न त्रि॒॒शत्) ।। 19 ।।
1.4.19.1
म॒रुत्वा॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्व राजा॑सि प्र॒दिवः॑ सु॒तानाम् ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। [20]
1.4.20.0
(म॒हानेका॒न्नवि॑शतिः) ।। 20 ।।
1.4.20.1
म॒हा इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒मा इ॑व । स्तोमैर्व॒त्सस्य॑ वावृधे ।। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। [21]
1.4.21.0
(म॒हान्नृ॒वत्षड्वि॑शतिः ) ।। 21 ।।
1.4.21.1
म॒हा इन्द्रो॑ नृ॒वदा च॑र््षणि॒प्रा उ॒त द्वि॒बर््हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। [22]
1.4.22.0
अ॒र्वाची॑ सुम॒तिर्व॑वृत्याद॒॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ।। विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया त्वा श्रीणामि ।। 22 ।। (वः॒ स॒प्तवि॑शतिश्च) । 22 ।
1.4.22.1
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा ।। क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ।। य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वः॑ [23]
1.4.23.0
(वा॒मं चतु॑र्विशतिः ) ।। 23 ।।
1.4.23.1
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ।। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ।। [24]
1.4.24.0
(अद॑ब्धेभि॒स्त्रयो॑विशतिः ) ।। 24 ।।
1.4.24.1
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्व शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गयम् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑स ईशत ।। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ।। [25]
1.4.25.0
(हिर॑ण्यपाणिं॒ चतु॑र्दश) ।। 25 ।।
1.4.25.1
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ।। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ।। [26]
1.4.26.0
(सु॒शर्मा॒ द्वाद॑श) ।। 26 ।।
1.4.26.1
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [27]
1.4.27.0
(बृह॒स्पति॑सुतस्य॒ पञ्च॑दश) ।। 26 ।।
1.4.27.1
बृह॒स्पति॑सुतस्य त इन्द्रो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं॑ गृह्णा॒म्यग्ना ३ इ पत्नी॒वा ३ स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा ।। [28]
1.4.28.0
(हरिः॒ षड्वि॑शतिः ) ।। 28 ।।
1.4.28.1
हरि॑रसि हारियोज॒नो हर्योः स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्तं॒ ग्रहं॑ गृह्णामि ह॒रीः स्थ॒ हर्योर्धा॒नाः स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा ।। [29]
1.4.29.0
(अग्न॒ आयू॑षि॒ त्रयो॑वि शतिः ) ।। 29 ।।
1.4.29.1
अग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र॒ग्नये त्वा॒ तेज॑स्वते ।। [30]
1.4.30.0
(उ॒त्तिष्ठ॒न्नेक॑विशतिः) ।। 30 ।।
1.4.30.1
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ।। [31]
1.4.31.0
(त॒रणि॑र्विश॒तिः) ।। 31 ।।
1.4.31.1
त॒रणि॑र्वि॒श्वद॑र््शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ।। उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते ।। [32]
1.4.32.0
(आ प्या॑यस्व॒ नव॑) ।। 32 ।।
1.4.32.1
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ।। [33]
1.4.33.0
(ई॒युरेका॒न्नवि॑शतिः) ।। 33 ।।
1.4.33.1
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ।। [34]
1.4.34.0
(ज्योति॑ष्मती॒॒ षट्त्रि॑शत्) ।। 34 ।।
1.4.34.1
ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒भव॑न्तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ।। [35]
1.4.35.0
(प्र॒या॒साय॒ चतु॑र्विशतिः ) ।। 35 ।।
1.4.35.1
प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहोद्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [36]
1.4.36.0
(चि॒त्तम॒ष्टाद॑श) ।। 36 ।।
1.4.36.1
चि॒त्त स॑न्ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पति॑ स्थूलहृद॒येना॒ग्नि हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒वम॒न्तःपार्श्वेनौषिष्ठ॒हन॑ शिङ्गीनिको॒श्याभ्याम् ।। [37]
1.4.37.0
(आ ति॑ष्ठ॒ षड्वि॑शतिः ) ।। 37 ।।
1.4.37.1
आ ति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी । अ॒र्वा॒चीन॒॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [38]
1.4.38.0
(इन्द्र॒मित्त्रयो॑विशतिः) ।। 38 ।।
1.4.38.1
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवस॒मृषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [39]
1.4.39.0
(असा॑वि स॒प्तवि॑शतिः) ।। 39 ।।
1.4.39.1
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒य रजः॒ सूर्यं॒ न र॒श्मिभिः॑ ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [40]
1.4.40.0
(सर्व॑स्य॒ षड्वि॑शतिः) ।। 40 ।।
1.4.40.1
सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त । स्यो॒नास्मै॑ सु॒षदा॑ भव॒ यच्छास्मै॒ शर्म॑ स॒प्रथाः ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [41]
1.4.41.0
(सर्व॑स्य म॒हान्थ्षड्वि॑शति॒ष्षड्वि॑शतिः ) ।। 41 ।।
1.4.41.1
म॒हा इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ योऽस्मान् द्वेष्टि॑ ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [42]
1.4.42.0
(स॒जोषास्त्रि॒॒शत्) ।। 42 ।।
1.4.42.1
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒॒ रप॒ मृधो॑ नुद॒स्वाऽथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [43]
1.4.43.0
(रू॒पेण॑ सद॒स्यै॑र॒ष्टाद॑श च ) ।। 43 (37) ।।
1.4.43.1
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यम् ।। चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।। अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जुहुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ।। दिवं॑ गच्छ॒ सुवः॑ पत रू॒पेण॑ [44]
1.4.43.2
वो॒ रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ । तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर््षि॑ष्ठे॒ अधि॒ नाके ।। ए॒तत् ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युतं॒ तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीर्ब्राह्म॒णम॒द्य राध्यास॒मृषि॑मार््षे॒यं पि॑तृ॒मन्तं॑ पैतृम॒त्य सु॒धातु॑दक्षिणं॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्षं॒ यत॑स्व सद॒स्यै॑र॒स्मद्दात्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदा॒तार॒मा वि॑श॒तान॑वहाया॒स्मान् दे॑व॒याने॑न प॒थेत॑ सु॒कृतां लो॒के सी॑दत॒ तन्नः॑ सस्कृ॒तम् ।। । [45]
1.4.44.0
(कृ॒णो॒तु॒ तान॒ष्टाच॑त्वारिशच्च) ।। 44 (38) ।।
1.4.44.1
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पति॑र्नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ।। समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ स सू॒रिभि॑र्मघव॒न्त्स स्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ सुम॒त्या य॒ज्ञिया॑नाम् ।। सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ वरि॑वः कृणोतु [46]
1.4.44.2
अनु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ।। यद॒द्य त्वा प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑याहि वि॒द्वान् ।। स्व॒गा वो॑ देवाः॒ सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दं जु॑षा॒णाः । ज॒क्षि॒वासः॑ पपि॒वास॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ।। यानाऽव॑ह उश॒तो दे॑व दे॒वान् तान् [47]
1.4.44.3
प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे । वह॑माना॒ भर॑माणा ह॒वीषि॒ वसुं॑ घ॒र्मं दिव॒मा ति॑ष्ठ॒तानु॑ ।। यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसूक्तवाकः सु॒वीरः॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ।। [48]
1.4.45.0
(दमे॑दम॒ ओष॑धय॒ आ षट् च॑) ।। 45 (39) ।।
1.4.45.1
उ॒रु हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ।। श॒तं ते॑ राजन् भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒ निऱ्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ।। अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशो॒ऽग्नेरनी॑कम॒प आ वि॑वेश । अपां नपात् प्रति॒रक्ष॑न्नसु॒र्यं॑ दमे॑दमे [49]
1.4.45.2
स॒मिधं॑ यक्ष्यग्ने ।। प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्येत् समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तः । सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताऽऽपो॑ य॒ज्ञस्य॑ त्वा यज्ञपते ह॒विर्भिः॑ ।। सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒माव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽया॒डव॒ मर्त्यै॒र्मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः [50]
1.4.45.3
सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तं वः॒ सुप्री॑त॒॒ सुभृ॑तमकर्म दे॒वेषु॑ नः सु॒कृतो ब्रूता॒त् प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॒ एधोऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिष॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वा अग्न॒ आऽग॑मं॒ तं मा॒ स सृ॑ज॒ वर्च॑सा ।। [51]
1.4.46.0
(म॒घवा॑नं मन्दे॒ ह्य॑ग्ने॒ चतु॑र्दश च) ।। 46 ।।
1.4.46.1
यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ।। यस्मै॒ त्व सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् । अ॒श्विन॒॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्त र॒यिं न॑शते स्व॒स्ति ।। त्वे सु पु॑त्त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ।। उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑न [52]
1.4.46.2
सु॒तासः॑ । यदी॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ।। अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हाऽमी॑व॒चात॑नः ।। अ॒पो अन्व॑चारिष॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वा अग्न॒ आऽग॑मं॒ तं मा॒ स सृ॑ज॒ वर्च॑सा ।। वसु॒र्वसु॑पति॒र््हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ।। त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे [53]
1.4.46.3
अ॒ध्व॒रेषु॑ राजन्न् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् । त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो॑ रास्व सु॒वीर्यम् ।। अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒य शत्रूञ्जयतु॒ जर््हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ।। अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा । ह॒व्य॒वाड् जु॒ह्वास्यः ।। त्व ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे ।। उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॑षा ।। [54]
1.5.1.0
(अशी॑यत॒ तत् तेन॒ वेद॑ द॒र्भैः पञ्च॑विशतिश्च) ।। 1 ।।
1.5.1.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मं वसु॒ सं न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒ तेनापाक्राम॒त् तद्दे॒वा वि॒जित्या॑व॒रुरु॑त्समाना॒ अन्वा॑य॒न् तद॑स्य॒ सह॒साऽदि॑त्सन्त॒ सो॑ऽरोदी॒द्यदरो॑दी॒त् तद्रु॒द्रस्य॑ रुद्र॒त्वं यदश्र्वशी॑यत॒ तद् [1]
1.5.1.2
र॒ज॒त हिर॑ण्यमभव॒त् तस्माद्रज॒त हिर॑ण्यमदक्षि॒ण्यम॑श्रु॒ज हि यो ब॒र््॒हिषि॒ ददा॑ति पु॒राऽस्य॑ संवत्स॒राद्गृ॒हे रु॑दन्ति॒ तस्माद्ब॒र््॒हिषि॒ न देय॒॒ सोऽग्निर॑ब्रवीद्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेयं॑ ते॒ केव॑ल॒मित्य॑ब्रुवन्नृ॒ध्नव॒त् खलु॒ स इत्य॑ब्रवी॒द्यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति॒ तं पू॒षाऽऽध॑त्त॒ तेन॑ [2]
1.5.1.3
पू॒षाऽऽर्ध्नो॒त् तस्मात् पौ॒ष्णाः प॒शव॑ उच्यन्ते॒ तं त्वष्टाऽऽध॑त्त॒ तेन॒ त्वष्टाऽऽर्ध्नो॒त् तस्मात् त्वा॒ष्ट्राः प॒शव॑ उच्यन्ते॒ तं मनु॒राऽध॑त्त॒ तेन॒ मनु॑रार्ध्नो॒त् तस्मान्मान॒व्यः॑ प्र॒जा उ॑च्यन्ते॒ तं धा॒ताऽऽध॑त्त॒ तेन॑ धा॒ताऽऽर्ध्नोत् संवत्स॒रो वै धा॒ता तस्मात् संवत्स॒रं प्र॒जाः प॒शवोऽनु॒ प्र जा॑यन्ते॒ य ए॒वं पु॑नरा॒धेय॒स्यर्द्धिं॒ वेद॑ [3]
1.5.1.4
ऋ॒ध्नोत्ये॒व योऽस्यै॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान् भवति भाग॒धेयं॒ वा अ॒ग्निराहि॑त इ॒च्छमा॑नः प्र॒जां प॒शून् यज॑मान॒स्योप॑ दोद्रावो॒द्वास्य॒ पुन॒रा द॑धीत भाग॒धेये॑नै॒वैन॒॒ सम॑र्धय॒त्यथो॒ शान्ति॑रे॒वास्यै॒षा पुन॑र्वस्वो॒रा द॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रं॒ यत्पुन॑र्वसू॒ स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति द॒र्भैरा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ।। [4]
1.5.2.0
(आऽप॑राभावाय पुरो॒डाश॑मे॒ते आहु॑ती॒ तत॒ष्षट्त्रि॑शच्च) ।। 2 ।।
1.5.2.1
परा॒ वा ए॒ष य॒ज्ञं प॒शून् व॑पति॒ योऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ योऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन् प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व वी॒रं नि॑रव॒दाया॒ग्निं पुन॒रा [5]
1.5.2.2
ध॒त्ते॒ श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यदाग्ने॒य सर्वं॒ भव॑ति॒ सैवास्यर्धिः॒ सं वा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ योऽग्निमु॑द्वा॒सय॑ते॒ स वाच॒॒ ससृ॑ष्टां॒ यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय [6]
1.5.2.3
विभ॑क्तिं करोति॒ ब्रह्मै॒व तद॑करुपा॒॒शु य॑जति॒ यथा॑ वा॒मं वसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निं प्रति॑ स्विष्ट॒कृतं॒ निरा॑ह॒ यथा॑ वा॒मं वसु॑ विविदा॒नः प्र॑का॒शं जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती [7]
1.5.2.4
जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जुः॒ सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्याः सम्भा॒रा न यजुः॑ कर्त॒व्य॑मित्यथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः क॑र्त॒व्यं॑ यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुत्स्यू॒तं वासः॑ पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान् पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रं जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ ततः॑ [8]
1.5.2.5
ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ योऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादाग्निवारु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व हन्ति॒ यश्चास्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ।। [9]
1.5.3.0
(त्वा॒ जि॒ह्वाः स॒प्त सु॒केत॒स्ते न॒स्त्रयो॑दश च) ।। 3 ।।
1.5.3.1
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ।। आऽयं गौः पृश्ञि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्त्सुवः॑ ।। त्रि॒॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒ द्युभिः॑ ।। अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन्महि॒षः सुवः॑ ।। यत् त्वा [10]
1.5.3.2
क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत् तव॒ पुन॒स्त्वोद्दी॑पयामसि ।। यत् ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ।। मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।। स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त [11]
1.5.3.3
ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ।। पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ।। स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ।। लेकः॒ सले॑कः सु॒लेक॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ विव॑स्वा॒॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ।। [12]
1.5.4.0
(ए॒तमे॒व जि॒ह्वा ए॒तान् पञ्च॑विशतिश्च) ।। 4 ।।
1.5.4.1
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑मपश्य॒त् ततो॒ वै ते जी॒र्णास्त॒नूरपाघ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार््ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वाऽऽध॒त्तेऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒त्सैतं [13]
1.5.4.2
मन्त्र॑मपश्य॒त् ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार््ह॑पत्यमा॒दधात्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत् पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒व [14]
1.5.4.3
ए॒न॒॒ सं भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ योऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञ सं द॑धाति॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः [15]
1.5.4.4
इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुं लो॒कमा॑य॒न्ते॑ऽमुष्मि॑ल्लोँ॒के व्य॑तृष्य॒न्त इ॒मं लो॒कं पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवु॒स्त आर्ध्नुव॒न् ते सु॑व॒र्गंल्लो॒कमा॑य॒न्॒ यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान् होमाञ्जुहुया॒द्यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न् तामे॒वर्ध्नो॑ति ।। [16]
1.5.5.0
(आ॒हु॒वध्यै॑ र॒यिं मे॒ वर्च॑सा स॒प्तद॑श च ) ।। 5 ।।
1.5.5.1
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये । आ॒रे अ॒स्मे च॑ शृण्व॒ते ।। अ॒स्य प्र॒त्नामनु॒ द्युत॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषिम् ।। अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत् पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति ।। अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र््होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भुवं॑ वि॒शेवि॑शे ।। उ॒भा वा॑मिन्द्राग्नी आहु॒वध्यै [17]
1.5.5.2
उ॒भा राध॑सः स॒ह मा॑द॒यध्यै । उ॒भा दा॒तारा॑वि॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।। अ॒यं ते॒ योनि॑र््ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।। अग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यम् । दध॒त्पोष॑ र॒यिं [18]
1.5.5.3
मयि॑ ।। अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ।। स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वा इ॒हाऽऽव॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ।। अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ।। उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योती॑ष्य॒र्चयः॑ ।। आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे [19]
1.5.5.4
दे॒हि॒ व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येन्धा॑नास्त्वा श॒त हिमा द्यु॒मन्तः॒ समि॑धीमहि॒ वय॑स्वन्तो वय॒स्कृतं॒ यश॑स्वन्तो यश॒स्कृत॑ सु॒वीरा॑सो॒ अदाभ्यम् । अग्ने॑ सपत्न॒दम्भ॑नं॒ वर््षि॑ष्ठे॒ अधि॒ नाके ।। सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽगथाः॒ समृषी॑णा स्तु॒तेन॒ सं प्रि॒येण॒ धाम्ना । त्वम॑ग्ने॒ सूर्य॑वर्चा असि॒ सं मामायु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ।। [20]
1.5.6.0
(भू॒या॒स्त॒ स्व॒स्तयेऽग्ने॑ पुष्यासं धृ॒षद्व॑र्ण॒मेका॒न्नत्रि॒॒शच्च॑) ।। 6 ।।
1.5.6.1
सं प॑श्यामि प्र॒जा अ॒हमिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे ।। अम्भः॒ स्थाम्भो॑ वो भक्षीय॒ महः॑ स्थ॒ महो॑ वो भक्षीय॒ सहः॑ स्थ॒ सहो॑ वो भक्षी॒योर्जः॒ स्थोर्जं॑ वो भक्षीय॒ रेव॑ती॒ रम॑ध्वम॒स्मिल्लोँ॒केऽस्मिन् गो॒ष्ठेऽस्मिन् क्षये॒ऽस्मिन् योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त [21]
1.5.6.2
स॒॒हि॒तासि॑ विश्वरू॒पीरा मो॒र्जा वि॒शाऽऽगौ॑प॒त्येनाऽऽरा॒यस्पोषे॑ण सहस्रपो॒षं वः॑ पुष्यासं॒ मयि॑ वो॒ रायः॑ श्रयन्ताम् ।। उप॑ त्वाऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि । राज॑न्तमध्व॒राणां गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒॒ स्वे दमे ।। स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये ।। अग्ने [22]
1.5.6.3
त्वं नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ।। तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः ।। ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वः पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडाः स्थ मधु॒कृतः॑ स्यो॒ना माऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं वः॑ पुष्यासं [23]
1.5.6.4
मयि॑ वो॒ रायः॑ श्रयन्ताम् ।। तत् स॑वि॒तुर्वरेण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दयात् ।। सो॒मान॒॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जम् ।। क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ।। अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयास सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒त हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् ।। [24]
1.5.7.0
(मू॒र्धानं॒ वै तिष्ठ॑त आह श॒तम॒ह षोड॑श च) ।। 7 ।।
1.5.7.1
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मं लो॒कं प्र॒जामे॒व प॒शूनि॒मं लो॒कमुपैत्य॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः प्र॒त्नः सु॑व॒र्गमे॒व लो॒क स॒मारो॑हत्य॒ग्निर्मू॒र्धा दि॒वः क॒कुदित्या॑ह मू॒र्धानम् [25]
1.5.7.2
ए॒वैन॑ समा॒नानां करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑ करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ऽयं ते॒ योनि॑र््ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड््भिरुप॑ तिष्ठते॒ षड्वै [26]
1.5.7.3
ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड््भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो जीर्यति संवत्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते पुनर्न॒वमे॒वैन॑म॒जरं॑ करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते [27]
1.5.7.4
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हाऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒हीत्या॑ह [28]
1.5.7.5
तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे प्र॒जायै॑ पशू॒नामू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्राह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तम् [29]
1.5.7.6
हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणा शतत॒र््॒हा स्तृ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अछ॑म्बट््कार॒॒ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हं भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते ।। [30]
1.5.8.0
(ऊर्जं॑ वो भक्षी॒येति॒ प्र गार््ह॑पत्यमुप॒तिष्ठ॑ते वसति॒ ज्योति॑ष्मती॒मेका॒न्नत्रि॒॒शच्च॑) ।। 8 ।।
1.5.8.1
सं प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रु॒न्धेऽम्भः॒ स्थाम्भो॑ वो भक्षी॒येत्या॒हाम्भो॒ ह्ये॑ता महः॑ स्थ॒ महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः सहः॑ स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्ज॒स्थोर्जं॑ वो भक्षी॒येति॑ [31]
1.5.8.2
आ॒होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः प॒शूने॒वात्मन् र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाः कुरुत इष्टक॒चिद्वा अ॒न्योऽग्निः प॑शु॒चिद॒न्यः स॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒त्सम॒भि मृ॑श॒त्युपै॒वैनं॑ धत्ते पशु॒चित॑मेनं कुरुते॒ प्र [32]
1.5.8.3
वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑मुप॒तिष्ठ॑ते॒ गार््ह॑पत्य॒मुप॑ तिष्ठते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार््ह॑पत्यायै॒व नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन् ध॒त्तेऽथो॒ यदे॒तं तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार््ह॑पत्यं॒ वा अनु॑ द्वि॒पादो॑ वी॒राः प्रजा॑यन्ते॒ य ए॒वं वि॒द्वान् द्वि॒पदा॑भि॒र्गार््ह॑पत्यमुप॒तिष्ठ॑ते [33]
1.5.8.4
आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते॒ तत्स॑वि॒तुर्वरेण्य॒मित्या॑ह॒ प्रसूत्यै सो॒मान॒॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒ न स्त॒री रात्रिं॑ वसति [34]
1.5.8.5
य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते॒ परि॑ त्वाग्ने॒ पुरं॑ व॒यमित्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह यथाय॒जुरे॒वैतच्छ॒त हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रो जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ।। [35]
1.5.9.0
(सि॒क्तस्य॑ स॒ह भ॑वति॒ यो यत्खलु॒ वै प॒शुभि॒स्त्रयो॑दश च ) ।। 9 ।।
1.5.9.1
अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वं तस्यै॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑न॒॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सीः॒ प्रजा॑यन्ते॒ यत्सा॒यं जु॒होति॒ रेत॑ ए॒व तत्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑ सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒ प्रजा॑यते याव॒च्छो वै रेत॑सः सि॒क्तस्य॑ [36]
1.5.9.2
त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वःश्वो॒ भूयान् भवति॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॒तेऽह॑र्दे॒वाना॒मासी॒द्रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒वानां वि॒त्तं वेद्य॒मासी॒त्तेन॑ स॒ह [37]
1.5.9.3
रात्रिं॒ प्रावि॑श॒न् ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑ इ॒ममे॒वाग्नि स्त॑वाम॒ स नः॑ स्तु॒तः प॒शून् पुन॑र्दास्य॒तीति॒ तेऽग्निम॑स्तुव॒न्त्स एभ्यः स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरार्ज॒त् ते दे॒वाः प॒शून् वि॒त्वा कामा॑ अकुर्वत॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान् भ॑वति [38]
1.5.9.4
आ॒दि॒त्यो वा अ॒स्माल्लो॒काद॒मुं लो॒कमै॒त् सो॑ऽमुं लो॒कं ग॒त्वा पुन॑रि॒मं लो॒कम॒भ्य॑ध्याय॒त् स इ॒मं लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑युत इव॒ ह्य॑यं लो॒कः सो॑ऽमन्यते॒ममे॒वाग्नि स्त॑वानि॒ स मा स्तु॒तः सु॑व॒र्गं लो॒कं ग॑मयिष्य॒तीति॒ सोऽग्निम॑स्तौ॒त् स ए॑न स्तु॒तः सु॑व॒र्गं लो॒कम॑गमय॒द्यः [39]
1.5.9.5
ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षोऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः स हि नक्तं॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेया॑श्च॒ पापी॑याश्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्यत् [40]
1.5.9.6
नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ऽग्नी ३ र्नोप॒स्थेया ३ इत्या॑हुर्मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नं॒ याच॑ति॒ स इन्न्वै तमुपार्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयोऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कं यज॑मानो यजत॒ इत्ये॒षा खलु॒ वै [41]
1.5.9.7
आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जाप॑तिः प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑श॒न् ताञ्छन्दो॑भि॒रन्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ङ्॒ विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैनं॑ प्र॒त्योष॑ति॒ न विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति ।। [42]
1.5.10.0
(अषा॑ढ॒ ओष॑धय उपचि॒न्वन्ति॒ पञ्च॑चत्वारिशच्च) ।। 10 ।।
1.5.10.1
मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे । तत्त्वं बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हं नाम॑ बिभराण्यग्ने ।। मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वं जी॒वसे॑ व॒यं य॑थाय॒थं वि परि॑ दधावहै॒ पुन॒स्ते ।। नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे । अषा॑ढः [43]
1.5.10.2
अ॒ग्निर्बृ॒हद्व॑या विश्व॒जित्सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः ।। त्वत्पि॑तारो अग्ने दे॒वास्त्वामा॑हुतय॒स्त्वद्वि॑वाचनाः । सं मामायु॑षा॒ सं गौ॑प॒त्येन॒ सुहि॑ते मा धाः ।। अ॒यम॒ग्निः श्रेष्ठ॑तमो॒ऽयं भग॑वत्तमो॒ऽय स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्यम् ।। मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ ताः सं द॑धामि ह॒विषा॑ घृ॒तेन॑ ।। पय॑स्वती॒रोष॑धयः [44]
1.5.10.3
पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ स सृ॑ज ।। अग्ने व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् ।। अ॒ग्नि होता॑रमि॒ह त हु॑वे दे॒वान् य॒ज्ञिया॑नि॒ह यान् हवा॑महे ।। आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ।। कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ [45]
1.5.10.4
वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू विमु॑ञ्चताम् ।। अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न् पुनः॑ । इ॒ध्मो वेदिः॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञस्याऽऽयु॒रनु॒ सं च॑रन्ति ।। त्रय॑स्त्रिश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञ स्व॒धया॒ दद॑न्ते॒ तेषां छि॒न्नं प्रत्ये॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वा अप्ये॑तु ।। [46]
1.5.11.0
(दिवा॒ स स॑ह॒स्रिणं॒ वैश्वा॑नराऽऽदित्य॒ तू नो॑ऽने॒हस॑ सु॒शर्मा॑ण॒मेका॒न्नवि॑श॒तिश्च॑) ।। 11 ।।
1.5.11.1
वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ।। ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पतिम् । अज॑स्रं घ॒र्ममी॑महे ।। वै॒श्वा॒न॒रस्य॑ द॒॒सनाभ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ।। पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ सः [47]
1.5.11.2
रि॒षः पा॑तु॒ नक्तम् ।। जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।। त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वा अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ।। अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्त्रम॒जर॑ सु॒वीर्यम् । व॒यं ज॑येम श॒तिन॑ सह॒स्रिणं॒ वैश्वा॑नर [48]
1.5.11.3
वाज॑मग्ने॒ तवो॒तिभिः॑ ।। वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिकं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ।। अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेना॑सि शिश्रथः कृ॒तानि॑ ।। उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒म श्र॑थाय । अथा॑ व॒यमा॑दित्य [49]
1.5.11.4
व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।। द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।। सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयू॑षि तारिषत् ।। आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचा॑सि ।। अ॒ग्निर्मू॒र्धा भुवः॑ । मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू नः॑ [50]
1.5.11.5
उप॑ गन्तन ।। या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीरम् ।। अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वह॑सः ।। म॒हीमू॒ षु मा॒तर॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्त्राम॒जर॑न्तीमुरू॒ची सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् ।। सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् । दैवीं॒ नाव॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये ।। इ॒मा सु नाव॒माऽरु॑ह श॒तारि॑त्रा श॒तस्फ्याम् । अच्छि॑द्रां पारयि॒ष्णुम् ।। [51]
1.6.1.0
(स॒त्यायु॒रोज॑से य॒न्त्राय॒ त्रय॑स्त्रिशच्च) ।। 1 ।।
1.6.1.1
तैत्तिरीयसंहितायां प्रथमकाण्डे षष्ठप्रश्नप्रारम्भः । हरिः ओम् । सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ।। आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रं वैश्वदे॒वमुत्पू॑तशुष्म स॒त्यौजाः॒ सहो॑ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायुः॑ [1]
1.6.1.2
अ॒सि॒ स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय पञ्चा॒नां त्वा॒ वाता॑नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्व॑र्तू॒नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ दि॒शां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ पञ्चज॒नानां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒ ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ [2]
1.6.1.3
ध॒र्त्राय॑ गृह्णामि वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि सु॒वीर्या॑य त्वा गृह्णामि सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि रा॒यस्पोषा॑य त्वा गृह्णामि ब्रह्मवर्च॒साय॑ त्वा गृह्णामि॒ भूर॒स्माक॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वानां त्वा दे॒वताभ्यो गृह्णामि॒ कामा॑य त्वा गृह्णामि ।। [3]
1.6.2.0
(रिष्यात् सपत्न॒क्षय॑ण्यन्ना॒दो भू॑यास॒॒ षट््त्रि॑शच्च) ।। 2 ।।
1.6.2.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रोऽस्यु॒ग्रो॑ऽह स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒भूर॑स्यभि॒भूर॒ह स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः । इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यं ते ।। यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्यात् [4]
1.6.2.2
यद्वा॒ स्कन्दा॒दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्नं॑ दुर्मरा॒युमैनं॑ दधामि॒ निऱ्ऋ॑त्या उ॒पस्थे । भूर्भुवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवेद्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि प्राजाप॒त्यं मन॑सा मा भू॒तेनाऽऽवि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी [5]
1.6.2.3
वा॒चा मेन्द्रि॒येणाऽऽवि॑श वस॒न्तमृ॑तू॒नां प्री॑णामि॒ स मा प्री॒तः प्री॑णातु ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स मा प्री॒तः प्री॑णातु व॒र््॒षा ऋ॑तू॒नां प्री॑णामि॒ ता मा प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ सा मा प्री॒ता प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ तौ मा प्री॒तौ प्री॑णीताम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयासम॒ग्नेर॒हं दे॑वय॒ज्ययान्ना॒दो भू॑यासं [6]
1.6.2.4
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेयम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हं दे॑वय॒ज्ययेन्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒हं दे॑वय॒ज्ययेन्द्रिया॒वी भू॑यासं महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेयम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ।। [7]
1.6.3.0
(उ॒प॒ह॒वं जुष्टा॑ नस्त्वा॒ षट् च॑) ।। 3 ।।
1.6.3.1
अ॒ग्निर्मा॒ दुरि॑ष्टात् पातु सवि॒ताऽघश॑सा॒द्यो मेऽन्ति॑ दू॒रे॑ऽराती॒यति॒ तमे॒तेन॑ जेष॒॒ सुरू॑पवर््षवर्ण॒ एही॒मान् भ॒द्रान् दुर्या॑ अ॒भ्येहि॒ मामनु॑व्रता॒ न्यु॑ शी॒र््षाणि॑ मृढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि॒ जुष्टे॒ जुष्टिं॑ तेऽशी॒योप॑हूत उपह॒वं [8]
1.6.3.2
ते॒ऽशी॒य॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒ मन॑सा॒ तच्छ॑केयं य॒ज्ञो दिव॑ रोहतु य॒ज्ञो दिवं॑ गच्छतु॒ यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वा अप्येत्व॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा नः॑ प्रि॒या सु॒प्रतूर्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नः [9]
1.6.3.3
अ॒सि॒ जुष्टिं॑ ते गमेयं॒ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।। ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत् प्र॒जाप॑तेर्भा॒गोऽस्यूर्ज॑स्वा॒न् पय॑स्वान् प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् लो॒के ।। [10]
1.6.4.0
(इन्द्र॑स्या॒हमिन्द्र॑वन्तः॒ सोम॑स्या॒हं दे॑वय॒ज्यया॒ चतु॑श्चत्वारिशच्च) ।। 4 ।।
1.6.4.1
ब॒र््॒हिषो॒ऽहं दे॑वय॒ज्यया प्र॒जावान् भूयासं॒ नरा॒शस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यासम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒॒ सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒- मनूज्जे॑ष॒मिन्द्र॑स्या॒हम् [11]
1.6.4.2
उज्जि॑ति॒मनूज्जे॑षं महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रा अकः ।। उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ।। एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः [12]
1.6.4.3
व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ प्र॒जामिषम् ।। रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां गमयतु॒ हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑ दे॒वतां गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ यच्च॑ भ॒द्रं प्र णो ब्रूताद्भाग॒धान् दे॒वता॑सु ।। विष्णोः शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒॒ सोम॑स्या॒हं दे॑वय॒ज्यया [13]
1.6.4.4
सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒ना रू॒पं पु॑षेयं दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यासं वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि क॒रुण॑मसि क्रि॒यास॑ स॒निर॑सि सनि॒तासि॑ स॒नेयं॑ घृ॒तव॑न्तं कुला॒यिन॑ रा॒यस्पोष॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिनम् ।। [14]
1.6.5.0
(दक्षि॑णायां द्वि॒ष्मो विष्णो॒रेका॒न्नत्रि॒॒शच्च॑) ।। 5 ।।
1.6.5.1
आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञंय॑ज्ञं॒ प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्न् ।। प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑स्त्वा दधामि स॒ह यज॑मानेन॒ सद॑सि॒ सन्मे॑ भूयाः॒ सर्व॑मसि॒ सर्वं॑ मे भूयाः पू॒र्णम॑सि पू॒र्णं मे॑ भूया॒ अक्षि॑तमसि॒ मा मे क्षेष्ठाः॒ प्राच्यां दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायां [15]
1.6.5.2
दि॒शि मासाः पि॒तरो॑ मार्जयन्तां प्र॒तीच्यां दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒मुदीच्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वायां दि॒शि य॒ज्ञः सं॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्तां॒ विष्णोः॒ क्रमोऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ऽन्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।। [16]
1.6.6.0
(द्वि॒ष्मः सु॒वीर्य॒॒ स आ पञ्च॑त्रिशच्च) ।। 6 ।।
1.6.6.1
अग॑न्म॒ सुवः॒ सुव॑रगन्म सं॒दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ माऽऽवृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्योऽस्यै दि॒वोऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः । [17]
1.6.6.2
सं ज्योति॑षाऽभूवमै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते॒ सम॒हं प्र॒जया॒ सं मया प्र॒जा सम॒ह रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषः॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासं॒ वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒मग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यम् । [18]
1.6.6.3
दध॒त् पोष॑ र॒यिं मयि॑ । अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयास सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒त हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒माशा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ विमु॑ञ्च॒त्वग्ने व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि य॒ज्ञो ब॑भूव॒ स आ [19]
1.6.6.4
ब॒भू॒व॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मा अधि॑पतीन् करोतु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। गोमा॑ अ॒ग्नेऽवि॑मा अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वा ए॒षो अ॑सुर प्र॒जावान् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ।। [20]
1.6.7.0
(परि॑ मनु॒ष्या॑ इन्द्रि॒य सा॒क्षात् त्रीणि॑ च) ।। 7 ।।
1.6.7.1
यथा॒ वै स॑मृतसो॒मा ए॒वं वा ए॒ते स॑मृतय॒ज्ञा यद्द॑र््शपूर्णमा॒सौ कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां यज॑मानानां॒ यो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑मा॒यत॑नं॒ यदा॑हव॒नीयोऽन्त॒राग्नी प॑शू॒नां गार््ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वताः॒ परि॑ [21]
1.6.7.2
गृ॒ह्णा॒ति॒ ताः श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिर्ब्राह्म॒णो व्र॑त॒भृद् व्र॒तमु॑पै॒ष्यन् ब्रू॑या॒दग्ने व्रतपते व्र॒तं च॑रिष्या॒मीत्य॒ग्निर्वै दे॒वानां व्र॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमाल॑भते ब॒र््॒हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति व॒त्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑नमुप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्मनु॒ष्याः [22]
1.6.7.3
इन्न्वा उप॑स्तीर्णमि॒च्छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसान॒मुपास्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान॒ग्निमु॑पस्तृ॒णाति॒ यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हु॒र्यद्ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान् यदनाश्वानुप॒वसेत् पितृदेव॒त्यः॑ स्यादार॒ण्यस्याश्ञातीन्द्रि॒यं [23]
1.6.7.4
वा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन् ध॑त्ते॒ यदनाश्वानुप॒वसे॒त् क्षोधु॑कः स्या॒द्यद॑श्ञी॒याद्रु॒द्रोऽस्य प॒शून॒भिम॑न्येता॒पोऽश्ञाति॒ तन्नेवा॑शि॒तं नेवान॑शितं॒ न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒ वज्रो॒ वै य॒ज्ञः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदनाश्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्य हन्ति ।। [24]
1.6.8.0
(वै मनः॒ स्फ्य इति॑ युन॒क्त्वेका॑दश च) ।। 8 ।।
1.6.8.1
यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒ऽपः प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजत उ॒भयेऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑न्नेद॒न्त्यति॒ वाचं॒ मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒ प्र ण॑यती॒यं वै मनः॑ [25]
1.6.8.2
अ॒नयै॒वैनाः॒ प्र ण॑य॒त्यस्क॑न्नहविर्भवति॒ य ए॒वं वेद॑ यज्ञायु॒धानि॒ संभ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तत्संभ॑रति॒ यदेक॑मेक सं॒भरेत् पितृदेव॒त्या॑नि स्यु॒र्यत् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वेद्वे॒ संभ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒व यो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तोऽस्य य॒ज्ञः क॑ल्पते॒ स्फ्यः [26]
1.6.8.3
च॒ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तोऽस्य य॒ज्ञः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्तेऽस्य दे॒वा ह॒व्य ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्नि होता॑रमि॒ह त हु॑व॒ इति॑ [27]
1.6.8.4
दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्तेऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञं त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय॒ यो वै य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।। [28]
1.6.9.0
(उ॒क्थ्ये॑नोपा॒प्नोत्य॑गच्छतां॒ यः पु॑रो॒डाशं॑ च चत्वारि॒॒शच्च॑) ।। 9 ।।
1.6.9.1
प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रं चाग्निष्टो॒मं च॑ पौर्णमा॒सीं चो॒क्थ्यं॑ चामावा॒स्यां चातिरा॒त्रं च॒ तानुद॑मिमीत॒ याव॑दग्निहो॒त्रमासी॒त् तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑ याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वं वि॒द्वान॑ग्निहो॒त्रं जु॒होति॒ याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपाऽऽप्नोति॒ य ए॒वं वि॒द्वान् पौर्णमा॒सीं यज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॑ [29]
1.6.9.2
ताव॒दुपाऽऽप्नोति॒ य ए॒वं वि॒द्वान॑मावा॒स्यां यज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपाऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसी॒त् तेन॒ स प॑र॒मां काष्ठा॑मगच्छ॒त् तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त् तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑मगच्छ॒त् तेनेन्द्रं॑ नि॒रवा॑सायय॒त् तेनेन्द्रः॑ पर॒मां काष्ठा॑मगच्छ॒त् तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त् तेना॒ग्नीषोमौ॑ पर॒मां काष्ठा॑मगच्छतां॒ यः [30]
1.6.9.3
ए॒वं वि॒द्वान् द॑र््शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठां गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ द्वाद॑श॒ मासाः संवत्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर््शपूर्णमा॒सयो॒स्तानि॑ सं॒पाद्या॒नीत्या॑हुर्व॒त्सं चो॑पावसृ॒जत्यु॒खां चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाशं॑ च [31]
1.6.9.4
अ॒धि॒श्रय॒त्याज्यं॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदिं॑ च परिगृ॒ह्णाति॒ पत्नीं च॒ सं न॑ह्यति॒ प्रोक्ष॑णीश्चाऽऽसा॒दय॒त्याज्यं॑ चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर््शपूर्णमा॒सयो॒स्तानि॒ य ए॒व सं॒पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।। [32]
1.6.10.0
(तेनै॒व ब्रह्म॑ रा॒ष्ट्रमे॒वास्य॑ य॒ज्ञस्य॑ प्राजाप॒त्य षट््त्रि॑शच्च) ।। 10 ।।
1.6.10.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैनान् कुरुत उ॒ग्रोऽस्यु॒ग्रो॑ऽह स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादिन ए॒वैनान्कुरुतेऽभि॒भूर॑स्यभि॒भूर॒ह स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैनं॑ प्रत्यु॒त्पिपी॑ते॒ तमुपास्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेन॑ [33]
1.6.10.2
ए॒वैनं॑ युनक्ति य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन् य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्॒ यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तत्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयत्यग्निहो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खं वा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ [34]
1.6.10.3
कु॒रु॒ते॒ सं॒व॒त्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑सादये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रं परि॑गृह्णाति दर््शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र्व्याहृ॑तीभिर्् ह॒वीष्यासा॑दयेद्यज्ञमु॒खं वै द॑र््शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते संवत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रं परि॑गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना क्रि॒यते॑ रा॒ष्ट्रं [35]
1.6.10.4
य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यदृ॒चा विशं॑ य॒ज्ञस्या॒ऽऽशीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नीर॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ताद्दध्या॒द् ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा ब्राह्म॒णः साशीर्केण य॒ज्ञेन॑ यजते॒ यं का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑यां दध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोऽनुवा॒क्या भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्य॑ [36]
1.6.10.5
आ॒शीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्त्स॒माव॑त्येनान् य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑या अर्ध॒र्च एकां दध्याद्या॒ज्या॑यै पु॒रस्ता॒देकां या॒ज्या॑या अर्ध॒र्च एकां॒ तथै॑नान्त्स॒माव॑ती य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ वर््ष॑त्ये॒वं य॒ज्ञो यज॑मानाय वर््षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञं यज॑मानः॒ परि॑गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं [37]
1.6.10.6
मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्मन् ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मेन्द्रि॒येणाऽऽवि॒शेत्या॑है॒न्द्री वै वाग्वाच॑मे॒वैन्द्रीमा॒त्मन् ध॑त्ते ।। [38]
1.6.11.0
(प्र॒ति॒ष्ठाम॑ह्व॒दस्तु॑ वि॒द्युतं॑ वस॒न्तमे॒वेन्द्र॑स्या॒ऽष्टात्रि॑शच्च) ।। 11 ।।
1.6.11.1
यो वै स॑प्तद॒शं प्र॒जाप॑तिं य॒ज्ञम॒न्वाय॑त्तं॒ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्र॑शत॒ आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरं॒ यजेति॒ द्व्य॑क्षरं॒ ये यजा॑मह॒ इति॒ पञ्चाक्षरं द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शः प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वं वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्र॑शते॒ यो वै य॒ज्ञस्य॒ प्राय॑णं प्रति॒ष्ठाम् [39]
1.6.11.2
उ॒दय॑नं॒ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒॒स्थां ग॑च्छ॒त्या श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒ य ए॒वं वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒॒स्थां ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहं॒ वेद॑ दु॒ह ए॒वैनां य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्व॒दस्तु॑ [40]
1.6.11.3
श्रौष॒डित्यु॒पावास्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑सदद्वषट्का॒रेण॑ दोग्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वं वेद॑ दु॒ह ए॒वैनां दे॒वा वै स॒त्रमा॑सत॒ तेषां॒ दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्रां प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒ब्भ्र सम॑प्लावय॒न्॒ यजेति॑ वि॒द्युतम् [41]
1.6.11.4
अ॒ज॒न॒य॒न्॒ ये यजा॑मह॒ इति॒ प्राव॑र््षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य ए॒वं वेद॒ प्रास्मै॒ दिशः॑ प्यायन्ते प्र॒जाप॑तिं त्वो॒वेद॑ प्र॒जाप॑तिस्त्वंवेद॒ यं प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ पुण्यो॑ भवति वस॒न्तम् [42]
1.6.11.5
ऋ॒तू॒नां प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ तेऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वं वेदा॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयास॒मित्या॑हा॒ग्नीषोमाभ्यां॒ वै य॒ज्ञश्चक्षु॑ष्मा॒न् ताभ्या॑मे॒व चक्षु॑रा॒त्मन् ध॑त्ते॒ऽग्नेर॒हं दे॑वय॒ज्ययान्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्तेनै॒व [43]
1.6.11.6
अ॒न्नाद्य॑मा॒त्मन् ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय॒मित्या॑है॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न् तयै॒व भ्रातृ॑व्यं दभ्नोत्य॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒ग्नीषोमाभ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न् ताभ्या॑मे॒व भ्रातृ॑व्य स्तृणुत इन्द्राग्नि॒योर॒हं दे॑वय॒ज्ययेन्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्य [44]
1.6.11.7
अ॒हं दे॑वय॒ज्ययेन्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मानं॑ गच्छत्य॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हायु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ।। 45 ।।
1.6.12.0
(वृ॒त्र॒हत्येऽनु॑ गाय॒त्रिणोऽध्व॒राणां परा॒वतो॒ऽस्याम॒ष्टाच॑त्वारिशच्च) ।। 12 ।।
1.6.12.1
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जनेभ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ।। इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।। इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।। अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये । अनु॑ [46]
1.6.12.2
क्ष॒त्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये ।। आ यस्मिन्त्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र््ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ।। आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्य॑ रोहयो दि॒वि । घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे॒ गिरः॑ ।। इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत ।। गाय॑न्ति त्वा गाय॒त्रिणः॑ [47]
1.6.12.3
अर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद्व॒॒शमि॑व येमिरे ।। अ॒॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिं गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः ।। वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ । अह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ।। प्र स॒म्राजं॑ प्रथ॒मम॑ध्व॒राणाम् [48]
1.6.12.4
अ॒॒हो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पां नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ ।। वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दं तमीं कृधि॒ यो अ॒स्मा अ॑भि॒दास॑ति ।। इन्द्र॑ क्ष॒त्त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर््षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ।। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वतः॑ [49]
1.6.12.5
आ ज॑गामा॒ पर॑स्याः । सृ॒क स॒॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रून् ताढि॒ वि मृधो॑ नुदस्व ।। वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ।। त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒॒ हवे॑हवे सु॒हव॒॒ शूर॒मिन्द्रम् । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्र॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ।। मा ते॑ अ॒स्याम् [50]
1.6.12.6
स॒ह॒सा॒व॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ।। अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्तम् । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ।। वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ।। [51]
1.7.1.0
(वि॒द्वान्ध्या॑ये॒ द्यं प्रा॒श्ञन्ति॒ यां वै म॒ एका॒न्नवि॑श॒तिश्च॑) ।। 1 ।।
1.7.1.1
तैत्तिरीयसंहितायां प्रथमकाण्डे सप्तमप्रश्नप्रारम्भः । हरिः ओम् । पा॒क॒य॒ज्ञं वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञः सैषान्त॒रा प्र॑याजानूया॒जान् यज॑मानस्य लो॒केऽव॑हिता॒ तामाह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर््षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञं वै दे॒वा अदु॑ह्रन् य॒ज्ञोऽसु॑रा अदुह॒त् तेऽसु॑रा य॒ज्ञदु॑ग्धाः॒ परा॑ऽभव॒न्॒ यो वै य॒ज्ञस्य॒ दोहं॑ वि॒द्वान् [1]
1.7.1.2
यज॒तेऽप्य॒न्यं यज॑मानं दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैनं॑ दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒त्सो यर््हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर््हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒युं मन॑सा ध्यायेत् [2]
1.7.1.3
मा॒त्रे व॒त्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गं लो॒कमा॑यन् पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒त्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीचीं दे॒वाः परा॑ची॒मसु॑राः॒ सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यं का॒मये॑ताप॒शुः स्या॒दिति॒ परा॑चीं॒ तस्येडा॒मुप॑ह्वयेताप॒शुरे॒व भ॑वति॒ यं [3]
1.7.1.4
का॒मये॑त पशु॒मान्त्स्या॒दिति॑ प्र॒तीचीं॒ तस्येडा॒मुप॑ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ह्वयेत॒ य इडा॑मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतूर्तिर्म॒घोनीत्या॒हेडा॑मे॒वोप॒हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ [4]
1.7.1.5
सा॒मि मार्जयन्त ए॒तत् प्रति॒ वा असु॑राणां य॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वाः सम॑दधु॒र्बृह॒स्पति॑स्तनुतामि॒मं न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञ संद॑धाति॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति॒ यां वै [5]
1.7.1.6
य॒ज्ञे दक्षि॑णां॒ ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ संक्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑ऽप॒शुर्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑ देव॒त्रा द॒त्तं कु॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॒ ब्रध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तं कु॑रुत आ॒त्मन् प॒शून् र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ।। [6]
1.7.2.0
(गौर्वा अ॑स्यै॒ तत् प्र॑ति॒ष्ठाऽह्व॑था॒ इति॑ विश॒तिश्च॑) ।। 2 ।।
1.7.2.1
सश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यत्स॒त्रिणा॒॒ होताऽभूः॒ कामिडा॒मुपाह्वथा॒ इति॒ तामुपाह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान् दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तॄनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒ वा अ॑स्यै॒ तदुपाह्वथा॒ इति॑ होवाच॒ गौर्वै [7]
1.7.2.2
अ॒स्यै॒ शरी॑रं॒ गां वाव तौ तत्पर्य॑वदतां॒ या य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ यां पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन् य ए॒वं वेद॑ पशु॒मान् भ॑व॒त्यथ॒ वै तामुपाह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ वा अ॑स्यै॒ तत् [8]
1.7.2.3
उपाह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं वेदान्ना॒दो भ॑व॒त्यथ॒ वै तामुपाह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑ प्रति॒ष्ठां वा अ॑स्यै॒ तदुपाह्वथा॒ इति॑ होवाचे॒यं वा अ॑स्यै प्रति॒ष्ठा [9]
1.7.2.4
इ॒यं वै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑गृह्णाति॒ प्रत्या॒भव॑न्तीर्गृह्णाति॒ य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपाह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपाह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः पिबन्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ।। [10]
1.7.3.0
(अ॒न्वा॒हा॒र्ये॑ण प्र॒जाप॑तेरसि॒ ह्य॑मुष्मि॑ल्लोँ॒के पञ्च॑दश च) ।। 3 ।।
1.7.3.1
प॒रोक्षं॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यक्षं॒ यद् ब्राह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒ तद॑न्वाहा॒र्ये॑ण [11]
1.7.3.2
अ॒न्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वं दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒त् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्य॒त् तमा॒त्मन्न॑धत्त॒ स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं वि॒दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नो॒त्यप॑रिमितो नि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑तेः [12]
1.7.3.3
आप्त्यै॑ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यस्यै॒वं वि॒दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं वि॒दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसि [13]
1.7.3.4
इत्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒न् पय॑स्वा॒नित्या॒होर्ज॑मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्तेऽक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे क्षेष्ठा अ॒मुत्रा॒मुष्मि॑ल्लोँ॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑ल्लोँ॒केऽन्न॑मि॒तः प्र॑दान॒॒ ह्य॑मुष्मि॑ल्लोँ॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भिमृ॒शत्यक्षि॑तिमे॒वैन॑द्गमयति॒ नास्या॒मुष्मि॑ल्लोँ॒केऽन्नं॑ क्षीयते ।। [14]
1.7.4.0
(द॒र््॒श॒पू॒र्ण॒मा॒सयो॑रुभ॒यतो॑ देवा॒श्वाः सु॒रेताः प्र॒जाप॑तिर्मिथु॒नेनाऽऽप्नोत्य॒ष्टौ च॑) ।। 4 ।।
1.7.4.1
ब॒र््॒हिषो॒ऽहं दे॑वय॒ज्यया प्र॒जावान् भूयास॒मित्या॑ह ब॒र््॒हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जाः सृ॑जते॒ नरा॒शस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒मित्या॑ह॒ नरा॒शसे॑न॒ वै प्र॒जाप॑तिः प॒शून॑सृजत॒ तेनै॒व प॒शून्त्सृ॑जते॒ऽग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हाऽऽयु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर््शपूर्णमा॒सयोः [15]
1.7.4.2
र्वै दे॒वा उज्जि॑ति॒मनूद॑जयन् दर््शपूर्णमा॒साभ्या॒मसु॑रा॒नपा॑नुदन्ता॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मित्याह दर््शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒ यज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर््शपूर्णमा॒साभ्यां॒ भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्यां॒ व्यू॑ह॒त्यन्नं॒ वै वाजोऽन्न॑मे॒वाव॑रुन्धे॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यतः॑ [16]
1.7.4.3
ए॒व य॒ज्ञं दु॑हे पु॒रस्ताच्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर््हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर््हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञं दु॑हे पु॒रस्ताच्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वाः [17]
1.7.4.4
यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रं प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मान सुव॒र्गं लो॒कं ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैनं॒ वि मु॑ञ्चति॒ विष्णोः शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सु॒रेताः [18]
1.7.4.5
रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒ना रू॒पं पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ रूप॒कृत्तेनै॒व प॑शू॒ना रू॒पमा॒त्मन् ध॑त्ते दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒मित्या॑है॒तस्मा॒द्वै मि॑थु॒नात्प्र॒जाप॑तिर्मिथु॒नेन॑ [19]
1.7.4.6
प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां वि॒त्तं वेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑ वेद॒त्वं यद्य॒द् भ्रातृ॑व्यस्याभि॒ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त् तदे॒वास्य॒ सर्वं॑ वृङ्क्ते घृ॒तव॑न्तं कुला॒यिन॑ रा॒यस्पोष॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्र स॒हस्रं॑ प॒शूनाप्नो॒त्याऽस्य॑ प्र॒जायां वा॒जी जा॑यते॒ य ए॒वं वेद॑ ।। [20]
1.7.5.0
(इत्ये॒तद॑वभृ॒थो दिशः॑ स॒प्त च॑) ।। 5 ।।
1.7.5.1
ध्रु॒वां वै रिच्य॑मानां य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा ध्रु॒वामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जाः प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑ स्त्वा दधामि स॒ह यज॑माने॒नेति॑ [21]
1.7.5.2
आ॒हा॒यं वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैनं॑ दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गं प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒ वै य॒ज्ञो यावान्॑ यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गं प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ष्ठापयत्ये॒तद्वै सू॒यव॑स॒॒ सोद॑कं॒ यद्ब॒र््॒हिश्चाऽऽप॑श्चै॒तत् [22]
1.7.5.3
यज॑मानस्या॒ऽऽयत॑नं॒ यद्वेदि॒र्यत् पूर्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽयत॑ने सू॒यव॑स॒॒ सोद॑कं कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृतं॑ य॒ज्ञमे॒वामृत॑मा॒त्मन्ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति॒ प्राच्यां दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र््शपूर्णमा॒सयो॑रवभृ॒थः [23]
1.7.5.4
यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑नप- ज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमोऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्लोँ॒कान् य॑थापू॒र्वम॒भि ज॑यति ।। [24]
1.7.6.0
(यः स मा॒शिषं॑ गृहपत॒ इत्या॑ह॒ यस्य॑ पु॒त्रो व्र॒तमे॒व खलु॒ वै चतु॑र्विशतिश्च) ।। 6 ।।
1.7.6.1
अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति सं॒दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह यथाय॒जुरे॒वैतत् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते॒ प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ यः [25]
1.7.6.2
वि॒ष्णु॒क्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒माल्लोँ॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्योऽस्यै दि॒व इती॒माने॒व लो॒कान्भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॒त्यव॑रोहति॒ सं [26]
1.7.6.3
ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽ- वृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हं प्र॒जया॒ सं मया प्र॒जेत्या॑हा॒ऽऽशिषम् [27]
1.7.6.4
ए॒वैतामा शास्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जुरे॒वैतद्वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते ब॒हु वै गार््ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्यां॒ गार््ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नी॒त आ॒त्मानं॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह [28]
1.7.6.5
य॒था॒य॒जुरे॒वैतच्छ॒त हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रः [29]
1.7.6.6
जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञं प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ यु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं वै व्र॒तमवि॑सृष्टं प्र॒दहोऽग्ने व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व [30]
1.7.6.7
वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ्॒ वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान् यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैनं॒ पुन॒राल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्निः॒ सन्न॑स॒भः प॒शवः॒ खलु॒ वै ब्राह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द्गोमा॑ अ॒ग्नेऽवि॑मा अ॒श्वी य॒ज्ञ इत्यव॑ स॒भा रु॒न्धे प्र स॒हस्रं॑ प॒शूनाप्नो॒त्यास्य॑ प्र॒जायां वा॒जी जा॑यते ।। [31]
1.7.7.0
(अ॒प्सु न्य॒ङ्कौ पञ्च॑दश च) ।। 7 ।।
1.7.7.1
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ।। इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् ।। वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।। अ॒प्सु [32]
1.7.7.2
अ॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ।। वा॒युर्वा त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तवि॑शतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाद॑धुः ।। अपां नपादाशुहेम॒न्॒ य ऊ॒र्मिः क॒कुद्मा॒न् प्रतूर्तिर्वाज॒सात॑म॒स्तेना॒यं वाज॑ सेत् ।। विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमस्य॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वा॒न्तं वा॑ता॒ग्रमनु॑ सं॒चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावान्पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु ।। [33]
1.7.8.0
(स्क॒भ्नी॒त॒ यु॒य॒व॒न्पि॒तरा॒ द्विच॑त्वारिशच्च) ।। 8 ।।
1.7.8.1
दे॒वस्या॒ह स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेषं दे॒वस्या॒ह स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर््षि॑ष्ठं॒ नाक॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् । अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वान्त्स॒मत्सु॑ वाजय ।। अर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाजं॑ धावत म॒रुतां प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒मध्व॑नः स्कभ्नीत [34]
1.7.8.2
काष्ठां गच्छत॒ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः ।। ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनः॑ ।। मि॒तद्र॑वः सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्न॑ समि॒थेषु॑ जभ्रि॒रे शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु ।। दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृक॒॒ रक्षा॑सि॒ सनेम्य॒स्मद्यु॑यवन्न् [35]
1.7.8.3
अमी॑वाः ।। ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवीत्वत् प॒थामङ्का॒॒स्यन्वा॒पनी॑फणत् ।। उ॒त स्मास्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण्णः॑ स॒होर्जा तरि॑त्रतः ।। आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्तां पि॒तरा [36]
1.7.8.4
मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ।। वाजि॑नो वाजजितो॒ वाज॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒ बृह॒स्पतेर्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाज॑ ससृ॒वासो॒ वाजं॑ जिगि॒वासो॒ बृह॒स्पतेर्भा॒गे नि मृ॑ढ्वमि॒यं वः॒ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण स॒मध॑ध्व॒मजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ।। [37]
1.7.9.0
(अ॒पा॒नो वाजा॑य॒ नव॑ च) ।। 9 ।।
1.7.9.1
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒हं ना॑वु॒भयोः॒ सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नः [38]
1.7.9.2
य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पता॒॒ सुव॑र्दे॒वा अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया॒ सं मया प्र॒जा सम॒ह रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ।। [39]
1.7.10.0
(र॒यि स॑वि॒तार॒॒ षट््त्रि॑शच्च) ।। 10 ।।
1.7.10.1
वाज॑स्ये॒मं प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोम॒॒ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य रा॒ष्ट्रे जाग्रियाम पु॒रोहि॑ताः ।। वाज॑स्ये॒दं प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राजं॒ पर्ये॑ति प्रजा॒नन् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ।। वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिं [40]
1.7.10.2
च॒ नः॒ सर्व॑वीरां॒ नि य॑च्छतु ।। अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ।। प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग्दे॒वी द॑दातु नः ।। अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒॒ सर॑स्वती सवि॒तारम् [41]
1.7.10.3
च॒ वा॒जिनम् ।। सोम॒॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिम् ।। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्यां पू॒ष्णो हस्ताभ्या॒॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पतेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चामि ।। [42]
1.7.11.0
(अ॒ज॒य॒त् षट््च॑त्वारिशच्च) ।। 11 ।।
1.7.11.1
अ॒ग्निरेकाक्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयतां॒ विष्णु॒स्त्र्य॑क्षरेण॒ त्रील्लोँ॒कानुद॑जय॒त् सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जयत् पू॒षा पञ्चाक्षरेण प॒ङ्क्तिमुद॑जयद्धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दा॒॒ शक्व॑री॒मुद॑जय॒न् बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो नवाक्षरेण त्रि॒वृत॒॒ स्तोम॒मुद॑जयत् [43]
1.7.11.2
वरु॑णो॒ दशाक्षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द् विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न् वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शस्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒श स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒श स्तोम॒मुद॑जय॒न्नदि॑ति॒ष्षोड॑शाक्षरेण षोड॒श स्तोम॒मुद॑जयत् प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒श स्तोम॒मुद॑जयत् ।। [44]
1.7.12.0
(कोश॑स्त॒नुवां॒ त्रयो॑दश च) ।। 12 ।।
1.7.12.1
उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रु॒षदं॑ भुवन॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽस्यप्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽसि पृथिवि॒षदं॑ त्वाऽन्तरिक्ष॒सदं॑ नाक॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।। ये ग्रहाः पञ्चज॒नीना॒ येषां ति॒स्रः प॑रम॒जाः । दैव्यः॒ कोशः॑ [45]
1.7.12.2
समु॑ब्जितः । तेषां॒ विशि॑प्रियाणा॒मिष॒मूर्ज॒॒ सम॑ग्रभीमे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।। अ॒पा रस॒मुद्व॑यस॒॒ सूर्य॑रश्मि स॒माभृ॑तम् । अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।। अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः । स प्रत्युदैद्ध॒रुणो॒ मध्वो॒ अग्र॒॒ स्वायां॒ यत्त॒नुवां त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ।। [46]
1.7.13.0
(ज॒रसा॒ मा ते॑ हर्यश्व सु॒वीर्य॒स्याध्येकं॑ च) ।। 13 ।।
1.7.13.1
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ।। अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये । अनु॒ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये ।। इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम् । न ह्य॒स्या अप॒रं च॒न ज॒रसा [47]
1.7.13.2
मर॑ते॒ पतिः॑ ।। नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर् ऋ॒ते । यस्ये॒दमप्य॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति ।। यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ।। आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत् स॒मर॑न्त॒ सेनाः । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते [48]
1.7.13.3
मनो॑ विष्व॒द्रिय॒ग्विचा॑रीत् ।। मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत् ते । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन् त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ।। आ तू भ॑र॒ माकि॑रे॒तत् परि॑ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत् ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व [49]
1.7.13.4
प्र य॑न्धि ।। प्र॒दा॒तार॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ।। प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा । अ॒स्मिन् य॒ज्ञे ब॒र््हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं योः ।। इन्द्रः॑ सु॒त्रामा॒ स्ववा॒॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य [50]
1.7.13.5
पत॑यः स्याम ।। तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववा॒॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ।। रे॒वतीर्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ।। प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत् स॒ङ्गे स॒मत्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषाम् । ज्या॒का अधि॒ धन्व॑सु ।। [51]
1.8.1.0
(अ॒ग्नी॒षो॒मीयं॒ चतु॑स्त्रिशच्च) ।। 1 ।।
1.8.1.1
अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति धे॒नुर्दक्षि॑णा॒ ये प्र॒त्यञ्चः॒ शम्या॑या अव॒शीय॑न्ते॒ तन्नैर्॑ऋ॒तमेक॑कपालं कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा॒ वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण ए॒ष ते॑ निर््ऋते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेममह॑सः॒ स्वाहा॒ नमो॒ य इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं निर्व॑पति॒ वरो॒ दक्षि॑णाऽऽग्नावैष्ण॒वमेका॑दशकपालं वाम॒नो व॒ही दक्षि॑णाऽग्नीषो॒मीयम् [1]
1.8.1.2
एका॑दशकपाल॒॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो व॒ही दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालमै॒न्द्रं दध्यृ॑ष॒भो व॒ही दक्षि॑णैन्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुं प्र॑थम॒जो व॒त्सो दक्षि॑णा सौ॒म्य श्या॑मा॒कं च॒रुं वासो॒ दक्षि॑णा॒ सर॑स्वत्यै च॒रु सर॑स्वते च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णा ।। [2]
1.8.2.0
(आ॒ग्ने॒यम॒ष्टाद॑श) ।। 2 ।।
1.8.2.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रु सा॑वि॒त्रं द्वाद॑शकपाल सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुं मा॑रु॒त स॒प्तक॑पालं वैश्वदे॒वीमा॒मिक्षां द्यावापृथि॒व्य॑मेक॑कपालम् ।। [3]
1.8.3.0
(व॒यं यद् वि॑श॒तिश्च॑) ।। 3 ।।
1.8.3.1
ऐ॒न्द्रा॒ग्नमेका॑दशकपालं मारु॒तीमा॒मिक्षां वारु॒णीमा॒मिक्षां का॒यमेक॑कपालं प्रघा॒स्यान्॑ हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः कर॒म्भेण॑ स॒जोष॑सः ।। मो षू ण॑ इन्द्र पृ॒त्सु दे॒वास्तु॑ स्म ते शुष्मिन्नव॒या । म॒ही ह्य॑स्य मी॒ढुषो॑ य॒व्या । ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ।। यद् ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायां॒ यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्य॑ एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि॒ स्वाहा ।। अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑योभु॒वा ।। दे॒वेभ्यः॒ कर्म॑ कृ॒त्वाऽस्तं॒ प्रेत॑ सुदानवः ।। [4]
1.8.4.0
(ह॒रा॒ नि॒हारं॑ त्रि॒॒शच्च॑) ।। 4 ।।
1.8.4.1
अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति सा॒क सूर्ये॑णोद्य॒ता म॒रुद्भ्यः॑ सान्तप॒नेभ्यो॑ म॒ध्यंदि॑ने च॒रुं म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒ सर्वा॑सां दु॒ग्धे सा॒यं च॒रुं पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपूर्णा॒ पुन॒राप॑त । व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्ज॑ शतक्रतो ।। दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हार॒मिन्नि मे॑ हरा नि॒हारम् [5]
1.8.4.2
नि ह॑रामि ते ।। म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाश॑ स॒प्तक॑पालं॒ निर्व॑पति सा॒क सूर्ये॑णोद्य॒ताग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रु सा॑वि॒त्रं द्वाद॑शकपाल सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुमैन्द्रा॒ग्नमेका॑दशकपालमै॒न्द्रं च॒रुं वैश्वकर्म॒णमेक॑कपालम् ।। [6]
1.8.5.0
(हरी॒ मन्म॑भि॒रा चतु॑श्चत्वारिशच्च) ।। 5 ।।
1.8.5.1
सोमा॑य पितृ॒मते॑ पुरो॒डाश॒॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑ बर््हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्योऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒तत् ते॑ तत॒ ये च॒ त्वामन्वे॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दध्व सुसं॒दृशं॑ त्वा व॒यं मघ॑वन् मन्दिषी॒महि॑ ।। प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशा॒॒ अनु॑ ।। योजा॒ न्वि॑न्द्र ते॒ हरी ।। [7]
1.8.5.2
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती ।। योजा॒ न्वि॑न्द्र ते॒ हरी ।। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑ ।। परे॑त पितरः सोम्या गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।। अथा॑ पि॒तॄन्त्सु॑वि॒दत्रा॒॒ अपी॑त य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।। मनो॒ न्वा हु॑वामहे नाराश॒॒सेन॒ स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः ।। आ [8]
1.8.5.3
न॒ ए॒तु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे ।। ज्योक् च॒ सूर्यं॑ दृ॒शे ।। पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ ।। जी॒वं व्रात॑ सचेमहि ।। यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिसि॒म ।। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार््ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नसम् ।। [9]
1.8.6.0
(सुभे॑षजमिहि॒ त्रीणि॑ च) ।। 6 ।।
1.8.6.1
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्याः स्मस्तेभ्यः॒ कम॑करं पशू॒ना शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒ज सुभे॑षजम् [10]
1.8.6.2
यथाऽस॑ति ।। सु॒गं मे॒षाय॑ मे॒ष्या॑ अवाम्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् ।। यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑ नः पशु॒मतः॒ कर॒द्यथा॑ नो व्यवसा॒ययात् ।। त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृतात् ।। ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ।। [11]
1.8.7.0
(तेभ्यः॒ पञ्च॑चत्वारिशच्च) ।। 7 ।।
1.8.7.1
ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं वाय॒व्यं॑ पयः॑ सौ॒र्यमेक॑कपालं द्वादशग॒व सीरं॒ दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं च॒रुमै॒न्द्रं दधि॑ वारु॒णं य॑व॒मयं॑ च॒रुं व॒हिनी॑ धे॒नुर्दक्षि॑णा॒ ये दे॒वाः पु॑रः॒सदो॒ऽग्निनेत्रा दक्षिण॒सदो॑ य॒मनेत्राः पश्चा॒त्सदः॑ सवि॒तृनेत्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ [12]
1.8.7.2
नम॒स्तेभ्यः॒ स्वाहा॒ समू॑ढ॒॒ रक्षः॒ संद॑ग्ध॒॒ रक्ष॑ इ॒दम॒ह रक्षो॒ऽभि सं द॑हाम्य॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा प्रष्टिवा॒ही रथो॒ दक्षि॑णा दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्यां पू॒ष्णो हस्ताभ्या॒॒ रक्ष॑सो व॒धं जु॑होमि ह॒त रक्षोऽव॑धिष्म॒ रक्षो॒ यद्वस्ते॒ तद्दक्षि॑णा ।। [13]
1.8.8.0
(निर॒ष्टौ च) ।। 8 ।।
1.8.8.1
धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑प॒त्यनु॑मत्यै च॒रु रा॒कायै॑ च॒रु सि॑नीवा॒ल्यै च॒रुं कु॒ह्वै॑ च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णाऽऽग्नावैष्णव॒मेका॑दशकपालं॒ निर्व॑पत्यैन्द्रावैष्ण॒वमेका॑दशकपालं वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो व॒ही दक्षि॑णा ऽग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पतीन्द्रासो॒मीय॒मेका॑दशकपाल सौ॒म्यं च॒रुं ब॒भ्रुर्दक्षि॑णा सोमापौ॒ष्णं च॒रुं निर्व॑पत्यैन्द्रापौ॒ष्णं च॒रुं पौ॒ष्णं च॒रु श्या॒मो दक्षि॑णा वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा वारु॒णं य॑व॒मयं॑ च॒रुमश्वो॒ दक्षि॑णा ।। [14]
1.8.9.0
(सा॒वि॒त्रं द्वाद॑शकपाल॒माश्व॑त्थे॒ त्रय॑स्त्रिशच्च) ।। 9 ।।
1.8.9.1
बा॒र््॒ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपाल राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णा ऽऽदि॒त्यं च॒रुं महि॑ष्यै गृ॒हे धे॒नुर्दक्षि॑णा नैऱ्ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां व्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा कू॒टा दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पाल सेना॒न्यो॑ गृ॒हे हिर॑ण्यं॒ दक्षि॑णा वारु॒णं दश॑कपाल सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा मारु॒त स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्ञि॒र्दक्षि॑णा सावि॒त्रं द्वाद॑शकपालं [15]
1.8.9.2
क्ष॒त्तुर्गृ॒ह उ॑पध्व॒स्तो दक्षि॑णाऽऽश्वि॒नं द्वि॑कपा॒ल सं॑ग्रही॒तुर्गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑ गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ प्रति॒ निर्व॑प॒तीन्द्रा॑याहो॒मुचे॒ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्यान्मैत्राबार््हस्प॒त्यं भ॑वति श्वे॒तायै श्वे॒तव॑त्सायै दु॒ग्धे स्व॑यंमू॒र्ते स्व॑यंमथि॒त आज्य॒ आश्व॑त्थे [16]
1.8.9.3
पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाश्चाक॑र्णाश्च तण्डु॒लान् वि चि॑नुया॒द्ये क॒र्णाः स पय॑सि बार््हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः स्व॑यंकृ॒ता वेदि॑र्भवति स्वयंदि॒नं ब॒र््हिः स्व॑यंकृ॒त इ॒ध्मः सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा ।। [17]
1.8.10.0
(प॒शू॒नां व्राताः॒ पञ्च॑विशतिश्च) ।। 10 ।।
1.8.10.1
अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति कृ॒ष्णानां व्रीही॒णा सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कं च॒रु स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालमाशू॒नां व्री॑ही॒णा रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रं च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒मेका॑दशकपालं म॒हाव्री॑हीणां मि॒त्राय॑ स॒त्याया॒ऽऽम्बानां च॒रुं वरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रु स॑वि॒ता त्वा प्रस॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒॒ सोमो॒ वन॒स्पती॑ना रु॒द्रः प॑शू॒नां [18]
1.8.10.2
बृह॒स्पति॑र्वा॒चामिन्द्रो ज्ये॒ष्ठानां मि॒त्रः स॒त्यानां॒ वरु॑णो॒ धर्म॑पतीनां॒ ये दे॑वा देव॒सुवः॒ स्थ त इ॒ममा॑मुष्याय॒णम॑- नमि॒त्राय॑ सुवध्वं मह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजा॒ प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धायि॒ स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒च्छुचेर्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्वि मि॒त्र एवै॒ररा॑तिमतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒ड् विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि ।। [19]
1.8.11.0
(अत्येका॑दश च) ।। 11 ।।
1.8.11.1
अ॒र्थेतः॑ स्था॒ऽपां पति॑रसि॒ वृषास्यू॒र्मिर्वृ॑षसे॒नो॑ऽसि व्रज॒क्षितः॑ स्थ म॒रुता॒मोजः॑ स्थ॒ सूर्य॑वर्चसः स्थ॒ सूर्य॑त्वचसः स्थ॒ मान्दाः स्थ॒ वाशाः स्थ॒ शक्व॑रीः स्थ विश्व॒भृतः॑ स्थ जन॒भृतः॑ स्था॒ऽग्नेस्ते॑ज॒स्याः स्था॒ऽपामोष॑धीना॒॒ रस॑स्स्था॒ऽपो दे॒वीर्मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः । याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्॒ याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ।। रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒ स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑ दत्त ।। [20]
1.8.12.0
(शिशु॒रिन्द्र॒स्यैक॑चत्वारिशच्च) ।। 12 ।।
1.8.12.1
देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वं॒ महि॒ वर्चः॑ क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑ क्ष॒त्रिया॑य॒ दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि शु॒क्रा वः॑ शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ।। स॒ध॒मादो द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः । प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पा शिशुः॑ [21]
1.8.12.2
मा॒तृत॑मास्व॒न्तः ।। क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर्गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णावृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒प्यावि॑न्नो॒ ऽयम॒सावा॑मुष्याय॒णोऽस्यां वि॒श्य॑स्मिन् रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजेन्द्र॑स्य [22]
1.8.12.3
वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒यं वृ॒त्रं व॑ध्याच्छत्रु॒बाध॑नाः स्थ पा॒त मा प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वाभ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णावु॒षसां विरो॒केऽयः॑ स्थूणा॒वुदि॑तौ॒ सूर्य॒स्याऽऽरो॑हतं वरुण मित्र॒ गर्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च ।। [23]
1.8.13.0
(अ॒नु॒ष्टुप्त्व॑र्त॒पाश्च॑ सरीसृ॒पेभ्यः॒ स्वाहा) ।। 13 ।।
1.8.13.1
स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृत्स्तोमो॑ रथन्त॒र सामा॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णमु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु पञ्चद॒शः स्तोमो॑ बृ॒हत्सामेन्द्रो॑ दे॒वता क्ष॒त्त्रं द्रवि॑णं वि॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः स्तोमो॑ वैरू॒प साम॑ म॒रुतो॑ दे॒वता॒ विड्द्रवि॑ण॒मुदी॑ची॒मा ति॑ष्ठानु॒ष्टुप् त्वा [24]
1.8.13.2
छन्द॑सामवत्वेकवि॒॒शः स्तोमो॑ वैरा॒ज साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बलं॒ द्रवि॑णमू॒र्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रि॒॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णमी॒दृङ् चान्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माश्च स॒त्यश्च॑र्त॒पाश्च॑ [25]
1.8.13.3
अत्य॑हाः । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाऽशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहौष॑धीभ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा ।। [26]
1.8.14.0
(अ॒ग्नेस्तैका॑दश च) ।। 14 ।।
1.8.14.1
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयाद॒मृत॑मसि मृ॒त्योर्मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवेष्टा दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑ ।। सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाच॑ सुवन्तां॒ ते ते प्रा॒ण सु॑वन्तां॒ ते ते॒ चक्षुः॑ सुवन्तां॒ ते ते॒ श्रोत्र॑ सुवन्ता॒॒ सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेः [27]
1.8.14.2
तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर्वी॒र्ये॑ण म॒रुता॒मोज॑सा क्ष॒त्त्राणां क्ष॒त्त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रहिं॑ बु॒ध्निय॒मनु॑ सं॒चर॑न्ती॒स्ताः पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ।। रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। [28]
1.8.15.0
(हि॒॒सि॒षं॒ मर्त॒जास्त्रीणि॑ च) ।। 15 ।।
1.8.15.1
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यान्मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न॒ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि म॒रुतां प्रस॒वे जे॑षमा॒प्तं मनः॒ सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण पशू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒न्नमो॑ मा॒त्रे पृ॑थि॒व्यै माऽहं मा॒तरं॑ पृथि॒वी हि॑सिषं॒ मा [29]
1.8.15.2
मां मा॒ता पृ॑थि॒वी हि॑सी॒दिय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒ह्यूर्ग॒स्यूर्जं॑ मे धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ ह॒॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒- सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।। [30]
1.8.16.0
(स॒त्यौजाश्चत्वारि॒॒शच्च॑) ।। 16 ।।
1.8.16.1
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒ सम॒हं विश्वैर्दे॒वैः क्ष॒त्त्रस्य॒ नाभि॑रसि क्ष॒त्त्रस्य॒ योनि॑रसि स्यो॒नामा सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिसी॒न्मा मा॑ हिसी॒न्निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा साम्राज्याय सु॒क्रतु॒र्ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑वो॒ ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजाः [31]
1.8.16.2
ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्तेन॑ मे रध्य॒ दिशो॒ऽभ्य॑य राजा॑ऽभू॒त् सुश्लो॒काँ 4 सुम॑ङ्ग॒लाँ 4 सत्य॑रा॒जा ३ न् । अ॒पां नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहा ।। [32]
1.8.17.0
(आ॒ग्ने॒यं द्विच॑त्वारिशत्) ।। 17 ।।
1.8.17.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा सारस्व॒तं च॒रुं व॑त्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑शकपालमुपध्व॒स्तो दक्षि॑णा पौ॒ष्णं च॒रु श्या॒मो दक्षि॑णा बार््हस्प॒त्यं च॒रु शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वारु॒णं दश॑कपालं म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यं च॒रुं ब॒भ्रुर्दक्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पाल शु॒ण्ठो दक्षि॑णा वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो दक्षि॑णा ।। [33]
1.8.18.0
(वा॒र॒व॒न्तीयं॑ च॒त्वारि॑ च) ।। 18 ।।
1.8.18.1
स॒द्यो दीक्षयन्ति स॒द्यः सोमं॑ क्रीणन्ति पुण्डरिस्र॒जां प्र य॑च्छति द॒शभि॑र्वत्सत॒रैः सोमं॑ क्रीणाति दश॒पेयो॑ भवति श॒तं ब्राह्म॒णाः पि॑बन्ति सप्तद॒श स्तो॒त्रं भ॑वति प्राका॒शाव॑ध्व॒र्यवे॑ ददाति॒ स्रज॑मुद्गा॒त्रे रु॒क्म होत्रेऽश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्यां॒ द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ व॒शां मैत्रावरु॒णाय॑र््ष॒भं ब्राह्मणाच्छ॒॒सिने॒ वास॑सी नेष्टापो॒तृभ्या॒॒ स्थूरि॑ यवाचि॒तम॑च्छावा॒काया॑न॒ड्वाह॑म॒ग्नीधे॑ भार्ग॒वो होता॑ भवति श्राय॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति वारव॒न्तीय॑मग्निष्टोमसा॒म सा॑रस्व॒तीर॒पो गृ॑ह्णाति ।। [34]
1.8.19.0
(आ॒ग्ने॒य स॒प्तच॑त्वारिशत्) ।। 19 ।।
1.8.19.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वैश्वदे॒वं च॒रुं पि॒शङ्गी॑ पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णीमा॒मिक्षां व॒शा दक्षि॑णा बार््हस्प॒त्यं च॒रु शि॑तिपृ॒ष्ठो दक्षि॑णाऽऽदि॒त्यां म॒ल््॒हां ग॒र्भिणी॒मा ल॑भते मारु॒तीं पृश्निं॑ पष्ठौ॒हीम॒श्विभ्यां पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रु स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं तिसृध॒न्व शु॑ष्कदृ॒तिर्दक्षि॑णा ।। [35]
1.8.20.0
(आ॒ग्ने॒यं चतु॑स्त्रिशत्) ।। 20 ।।
1.8.20.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रु सा॑वि॒त्रं द्वाद॑शकपालं बार््हस्प॒त्यं च॒रुं त्वा॒ष्ट्रम॒ष्टाक॑पालं वैश्वान॒रं द्वाद॑शकपालं॒ दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा सारस्व॒तं च॒रुं निर्व॑पति पौ॒ष्णं च॒रुं मै॒त्रं च॒रुं वा॑रु॒णं च॒रुं क्षैत्रप॒त्यं च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा ।। [36]
1.8.21.0
(भोज॑नानि॒ षड््वि॑शतिश्च) ।। 21 ।।
1.8.21.1
स्वा॒द्वीं त्वा स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न सृ॒जामि॒ ससोमे॑न॒ सोमोऽस्य॒श्विभ्यां पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व पु॒नातु॑ ते परि॒स्रुत॒॒ सोम॒॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना ।। वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा ।। कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र््॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।। आ॒श्वि॒नं धू॒म्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भमै॒न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒त्रं द्वाद॑शकपालं वारु॒णं दश॑कपाल॒॒ सोम॑प्रतीकाः पितरस्तृप्णुत॒ वड॑बा॒ दक्षि॑णा ।। [37]
1.8.22.0
(बृ॒ह॒तः शव॑सा॒ रथः॒ पपु॑रिं च दि॒वो जन॑ना॒ पञ्च॑विशतिश्च) ।। 22 ।।
1.8.22.1
अग्ना॑विष्णू॒ महि॒ तद्वां महि॒त्वं वी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत् ।। अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं वां वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒तीर्वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्येत् ।। प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु । आ नो॑ दि॒वो बृ॑ह॒तः [38]
1.8.22.2
पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ।। बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे ।। ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। बृह॑स्पते॒ अति॒ यद॒र्यो अर््हाद्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑सा [39]
1.8.22.3
ऋ॒त॒प्र॒जा॒त॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।। आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजा॑सि सुक्रतू ।। प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ।। अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑डे॒ वसू॑नाम् । स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षेत्र॒साध॑सम् ।। म॒क्षू दे॒वव॑तो॒ रथः॑ [40]
1.8.22.4
शूरो॑ वा पृ॒त्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ।। न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।। अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यम् ।। नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।। उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च [41]
1.8.22.5
श्र॒व॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ।। सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निर््ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्रमु॑मुक्तम॒स्मत् ।। सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ।। सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिम् ।। इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमा॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां जनदु॒स्रिया॑सु ।। [42]
2.1.0.0
वा॒य॒व्यं॑ प्र॒जाप॑ति॒स्ता वरु॑णन्देवासु॒रा ए॒ष्व॑सावा॑दि॒त्यो दश॑र््षभा॒मिन्द्रो॑ व॒लस्य॑ बार््हस्प॒त्यव्वँ॑षट्का॒रो॑ऽसौ सौ॒रीव्वँरु॑णमाश्वि॒नमिन्द्र॑व्वोँ॒ नर॒ एका॑दश ।। 11 ।। वा॒य॒व्य॑माग्ने॒यीङ्कृ॑ष्णग्री॒वीम॒सावा॑दि॒त्यो वा अ॑होरा॒त्राणि॑ वषट्का॒रः प्र॑जनयि॒ता हु॑वे तु॒राणां॒ पञ्च॑षष्टिः ।। 65 ।। वा॒य॒व्यं॑ प्रमो॑षीः ।। --------------------- ।। प्रथमः प्रश्नः समाप्तः ।। ------------------------
2.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसँहिता द्वितीयकाण्डे प्रथमप्रश्नः ।।
2.1.1.0
अप्र॑दाहाय॒ भव॑त्ये॒व प्र॒जाया॑ आ॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ प्र॒जाका॑म॒स्तान् यूप॒स्त्रयो॑दश च । (1)
2.1.1.1
वा॒य॒व्य॑ श्वे॒तमाल॑भेत॒ भूति॑कामो वा॒युर्वैH क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॒ भूति॑ङ्गमयति॒ भव॑त्ये॒वाति॑क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्त॑व्वाँ॒यवे॑ नि॒युत्व॑त॒ आल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्द्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व (1)
2.1.1.2
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति द्ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः (2)
2.1.1.3
अप॑क्रामतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै प्राणापा॒नाभ्यां प्र॒जां प्रज॑नयति वि॒न्दते प्र॒जाँव्वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत् प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ (3)
2.1.1.4
धा॒व॒ति॒ स ए॒वास्मि॑न्प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत प्र॒जाः प॒शून्त्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ग्नौ प्रागृ॑ह्णा॒त्ततो॒ऽजस्तू॑प॒रस्सम॑भव॒त्त स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः (4)
2.1.1.5
प॒शुका॑म॒स्स्यात्स ए॒तं प्रा॑जाप॒त्यम॒जन्तू॑प॒रमाल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै प्र॒जां प॒शून्प्रज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणा रू॒पय्यँत्तू॑प॒रस्तदश्वा॑ना॒य्यँद॒न्यतो॑द॒न्तद्गवा॒य्यँदव्या॑ इव श॒फास्तदवी॑ना॒य्यँद॒ज- स्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् (5)
2.1.1.6
रू॒पेणै॒वाव॑रुन्धे सोमापौ॒ष्णन्त्रै॒तमाल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भिजाये॑ते॒ ऊर्जं॒ पुष्टि॑न्तृ॒तीय॑स्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ प॒शून्प्रज॑नयत॒स्सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्रज॑नय॒त्यौदु॑म्बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑रुन्धे ।।6।।
2.1.2.0
ल॒भे॒त॒ वरु॑णव्वँ॒शैतामवि॑व्वँ॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल््हा आल॑भेत॒ तान्ये॒व सैवास्मि॒न्त्सोम॑श्श्वे॒तो भ॑वति॒ त्रिच॑त्वारिशच्च । (2) ।
2.1.2.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाः परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सोऽब्रवी॒द्वर॑व्वृँणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासा॒व्वँर॒माऽल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीत॒स्स्यात्स ए॒तव्वाँ॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒माल॑भेत॒ वरु॑णम् (7)
2.1.2.2
ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑व्वँरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रस्सूर्य॒न्तम॑साऽविद्ध्य॒त्तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मन्तमो॒ऽपाघ्न॒न्त्सा कृ॒ष्णाऽवि॑रभव॒द्यद्द्वि॒तीय॒॒ सा फल्गु॑नी॒ यत्तृ॒तीय॒॒ सा ब॑ल॒क्षी यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒न्त्साऽवि॑ऽर्व॒शा (8)
2.1.2.3
सम॑भव॒त्ते दे॒वा अ॑ब्रुवन्देवप॒शुर्वा अ॒य सम॑भू॒त्कस्मा॑ इ॒ममाल॑फ्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामवि॑व्वँ॒शामा॑दि॒त्येभ्यः॒ कामा॒याऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामवि॑व्वँ॒शामा॑दि॒त्येभ्यः॒ कामा॑य (9)
2.1.2.4
आ ल॑भेतादि॒त्याने॒व काम॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वैनं॑ प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल््हा आल॑ऽभन्ताग्ने॒यीङ्कृ॑ष्णग्री॒वी स॑हि॒तामै॒न्द्री श्वे॒तां बा॑र््हस्प॒त्यान्ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ता म॒ल््हा आल॑भेत (10)
2.1.2.5
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वी स॑हि॒तामै॒न्द्री श्वे॒तां बा॑र््हस्प॒त्यामे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता प्रा॒तराग्ने॒यीङ्कृ॑ष्णग्री॒वीमाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सहि॒तामै॒न्द्री श॒रद्य॑परा॒ह्णे श्वे॒तां बा॑र््हस्प॒त्यान्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा॑सि व॒सन्ता प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजा॑सि॒ तान्ये॒व (11)
2.1.2.6
अव॑ रुन्धे सव्वँत्स॒रं प॒र्याल॑भ्यन्ते सव्वँत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता स॑व्वँत्स॒र ए॒वास्मै ब्रह्मवर्च॒सं प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यव्वैँ गर्भ॑ इन्द्रि॒यमे॒वास्मि॑न्दधति सारस्व॒तीं मे॒षीमाल॑भेत॒ य ईश्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सैवास्मिन्न्॑ (12)
2.1.2.7
वाच॑न्दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मान्मनु॒ष्यास्सर्वा॒व्वाँच॑व्वँदन्त्याग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुञ्ज्योगा॑मयाव्य॒ग्निव्वाँ ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोम॒॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं ब॒भ्रुमाल॑भेताग्ने॒यङ्कृ॒ष्णग्री॑वं प्र॒जाका॑म॒स्सोमः॑ (13)
2.1.2.8
वै रे॑तो॒धा अ॒ग्निः प्र॒जानां प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधात्य॒ग्निः प्र॒जां प्रज॑नयति वि॒न्दते प्र॒जामाग्ने॒यङ्कृ॒ष्ण- ग्री॑व॒माल॑भेत सौ॒म्यं ब॒भ्रुय्योँ ब्राह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदाग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑हन्ति श्वे॒तो भ॑वति (14)
2.1.2.9
रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुस्सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न्दधात्याग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यं ब॒भ्रुमाग्ने॒यङ्कृ॒ष्णग्री॑वं पुरो॒धाया॒॒ स्पर्ध॑मान आग्ने॒यो वै ब्राह्म॒णस्सौ॒म्यो रा॑ज॒न्यो॑ऽभित॑स्सौ॒म्यमाग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नन्दधते ।। (15)
2.1.3.0
स॒ङ्ग्रा॒मे तेनाल॑मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमैनं॒ पञ्च॑दश च । 3 ।
2.1.3.1
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तव्विँष्णु॑र्वाम॒नम॑पश्य॒त्त स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स इ॒माल्लोँ॒कान॒भ्य॑जयद्वैष्ण॒वव्वाँ॑म॒नमाल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति॒ विष॑म॒ आल॑भेत॒ विष॑मा इव॒ हीमे लो॒कास्समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशॄ॒ङ्गमाल॑भेत सङ्ग्रा॒मे (16)
2.1.3.2
सय्यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ त स॑ङ्ग्रा॒ममिन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमाल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेन॑ (17)
2.1.3.3
ऐ॒न्द्रो यत्पृश्ञि॒स्तेन॑ मारु॒तस्समृ॑द्ध्यै प॒श्चात्पृ॑श्ञिस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति सौ॒म्यं ब॒भ्रुमाल॑भे॒तान्न॑कामस्सौ॒म्यव्वाँ अन्न॒॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒प समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमाल॑भेत॒ यमलम् (18)
2.1.3.4
रा॒ज्याय॒ सन्त॑ रा॒ज्यन्नोप॒नमेत्सौ॒म्यव्वैँ रा॒ज्य सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑न रा॒ज्यन्न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒प समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमाल॑भेत ग॒तश्रीः प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा (19)
2.1.3.5
ल॒भे॒त॒ यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वाभि॑माति॒हन॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मात्पा॒प्मान॑म॒भिमा॑तिं॒ प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमाल॑भेत॒ यमल॑ रा॒ज्याय॒ सन्त॑ रा॒ज्यन्नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिण॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ वज्रं॒ प्रय॑च्छति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्ध॒ उपै॑न रा॒ज्यन्न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒प समृ॑द्ध्यै ।। (20)
2.1.4.0
म॒द्ध्यन्दि॑ने॒ कद्रु॑य्यँ॒मस्य॒ स्पर्द्ध॑मानो वैष्णावरु॒णीन्तमिन्द्रोऽस्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो वाय॒व्य॑न्द्विच॑त्वारिशच्च । (4) ।
2.1.4.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तान्दश॑र््षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तान्दश॑र््षभा॒माऽल॑भेता॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्म- वर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता प्रा॒तस्त्रील्लँ॒लामा॒नाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने (21)
2.1.4.2
त्रीञ्छि॑तिपृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा॑सि व॒सन्ता प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजा॑सि॒ तान्ये॒वाव॑रुन्धे॒ त्रय॑स्त्रय॒ आल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति सव्वँत्स॒रं प॒र्याल॑भ्यन्ते सव्वँत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता स॑व्वँत्स॒र ए॒वास्मै ब्रह्मवर्च॒सं प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति सव्वँत्स॒रस्य॑ प॒रस्तात्प्राजाप॒त्यङ्कद्रुम् (22)
2.1.4.3
आल॑भेत प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वतास्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्ण श्या॒ममाल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्लोँ॒केऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यव्वीँ॒र्य॑मयुवत॒ तद्य॒मस्य॑ (23)
2.1.4.4
य॒म॒त्वन्ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒य स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्त्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वैष्णावरु॒णीव्वँ॒शामाऽल॑भन्तै॒न्द्रमु॒क्षाण॒न्तव्वँरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्येन्द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्द्ध॑मानो वैष्णावरु॒णीम् (24)
2.1.4.5
व॒शामाल॑भेतै॒न्द्रमु॒क्षाण॒व्वँरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्येन्द्रि॒यव्वृँ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न्तव्वृँ॒त्रो ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर््ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिन्द्रः॑ (25)
2.1.4.6
अ॒चा॒य॒त्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति॒ स आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भतै॒न्द्रमृ॑ष॒भन्तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणेन्द्रि॒यमा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तस्स्यात्स आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेतै॒न्द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः (26)
2.1.4.7
पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणेन्द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यान्धे॒नुमाल॑भेत॒ ज्योग॑परुद्धो॒ ऽनयो॒र््हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठाङ्ग॑मयतः॒ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्योँ ज्योग॑परुद्ध॒स्समृ॑द्ध्यै वाय॒व्यम् (27)
2.1.4.8
व॒त्समा ल॑भेत वा॒युर्वा अ॒नयोर्व॒त्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ इ॒माल्लोँ॒काऩ् विशं॒ प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒कास्स्नु॑वन्ति भुञ्ज॒त्ये॑नं॒ विडुप॑तिष्ठते ।। (28)
2.1.5.0
भ॒व॒त्यु॒न्न॒तः प॒शवो॑ जनयन्ति वि॒न्दते॑ऽभव॒त्सन्नैतस्ये॒द्ध्मस्त्रीणि॑ च ।। (5) ।।
2.1.5.1
इन्द्रो॑ व॒लस्य॒ बिल॒मपौर्णो॒त्स य उ॑त्त॒मः प॒शुरासी॒त्तं पृ॒ष्ठं प्रति॑ स॒ङ्गृह्योद॑क्खिद॒त्त स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्त्स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्यात्स ए॒तमै॒न्द्रमु॑न्न॒तमाल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तः (29)
2.1.5.2
भ॒व॒ति॒ सा॒ह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑रुन्धे य॒दा स॒हस्रं॑ प॒शून्प्राप्मु॒यादथ॑ वैष्ण॒वव्वाँ॑म॒नमा ल॑भेतै॒तस्मि॒न्वै तत्स॒हस्र॒मद्ध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नस्समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठान्द॑धाति॒ को॑ऽर््हति स॒हस्रं॑ प॒शून्प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्र॑ सं॒पाद्याल॑भेत प॒शवः॑ (30)
2.1.5.3
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठाङ्ग॑मय॒त्योष॑धीभ्यो वे॒हत॒माल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः प्र॒जां प्रज॑नयन्ति वि॒न्दते (31)
2.1.5.4
प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑त॒स्सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वव्वेँद॒ यश्च॒ नाप॒स्त्वावास॑त॒- स्सद्द॑द॒तीत्यै॒न्द्री सू॒तव॑शा॒माल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒ भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोतीन्द्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑वत् (32)
2.1.5.5
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॒ भूति॑ङ्गमयति॒ भव॑त्ये॒व य सू॒त्वा व॒शा स्यात्तमै॒न्द्रमे॒वाल॑भेतै॒तद्वाव तदि॑न्द्रि॒य सा॒क्षादे॒वेन्द्रि॒यमव॑रुन्ध ऐन्द्रा॒ग्नं पु॑नरुत्सृ॒ष्टमाल॑भेत॒ य आ तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्राह्म॒णस्सन्ना (33)
2.1.5.6
तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑न सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्वैँ सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे॒ यदाग्ने॒यो भव॑त्याग्ने॒यो वै ब्राह्म॒णस्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति पुनरुत्सृ॒ष्टो भ॑वति पुनरुत्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ (34)
2.1.5.7
सो॒म॒पी॒थस्समृ॑द्ध्यै ब्राह्मणस्प॒त्यन्तू॑प॒रमाल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रस्समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र््हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनम् ।। (35)
2.1.6.0
अ॒स्मा॒ इन्द्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै प्राजाप॒त्यो हि त्रीणि॑ च ।। (6) ।।
2.1.6.1
बा॒ऱ्ह॒स्प॒त्य शि॑तिपृ॒ष्ठमाल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठ स॑मा॒नाना॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॑ पृ॒ष्ठ स॑मा॒नानाङ्करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार््हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्ण श्या॒ममाल॑भे॒तान्न॑का॒मोऽन्न॒व्वैँ पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै (36)
2.1.6.2
अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒प समृ॑द्ध्यै मारु॒तं पृश्ञि॒माल॑भे॒तान्न॑का॒मोऽन्न॒व्वैँ म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्ञि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒प समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमाल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व (37)
2.1.6.3
स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमान्भवत्ये॒तद्वा इन्द्र॑स्य रू॒प समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमाल॑भेत स॒निका॑मस्सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑षः (38)
2.1.6.4
दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमाल॑भे॒तान्न॑कामो वैश्वदे॒वव्वाँ अन्न॒व्विँश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒प ह्यन्न॒॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै (39)
2.1.6.5
स॒जा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यन्तू॑प॒रमाल॑भेत॒ यस्यानाज्ञातमिव॒ ज्योगा॒मयेत्प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्यानाज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒न्तस्मा॒त्स्रामान्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।। (40)
2.1.7.0
अ॒भि खलु॒ वृष्टि॒श्छन्द॑सामे॒व रसे॑न प्र॒जामव॑ वैश्वदे॒वा वै ब्र॑ह्मवर्च॒सय्यूँप॒ एका॒न्नवि॑श॒तिश्च॑ । (7) ।
2.1.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरोऽच्छिन॒त्तस्यै॒ रसः॒ परा॑ऽपत॒त्तं बृह॒स्पति॒रुपा॑गृह्णा॒त्सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राप॑त॒त्तं मि॒त्रावरु॑णा॒वुपा॑गृह्णीता॒॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्यस्तृ॒तीयः॑ प॒राप॑त॒त्तव्विँश्वे॑ दे॒वा उपा॑गृह्ण॒न्त्सा ब॑हुरू॒पा व॒शाऽभ॑व॒द्यश्च॑तु॒र्थः प॒राप॑त॒त्स पृ॑थि॒वीं प्रावि॑श॒त्तं बृह॒स्पति॑र॒भि (41)
2.1.7.2
अ॒गृ॒ह्णा॒दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शस्सम॑भव॒द्यल्लोहि॑तं प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒त्सा रौ॒द्री रोहि॑णी व॒शाऽभ॑व- द्बार््हस्प॒त्या शि॑तिपृ॒ष्ठामाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्म- वर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॑ (42)
2.1.7.3
वै ब्र॑ह्मवर्च॒सञ्छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत॒ वृष्टि॑कामो मै॒त्रव्वाँ अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर््षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां प॒र्जन्य॑व्वँर््षयत॒श्छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न (43)
2.1.7.4
रसं॒ वृष्टि॒मव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत प्र॒जाका॑मो मै॒त्रव्वाँ अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां प्र॒जां प्रज॑नयत॒श्छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ (44)
2.1.7.5
रु॒न्धे॒ वै॒श्व॒दे॒वीं ब॑हुरू॒पामाल॑भे॒तान्न॑कामो वैश्वदे॒वव्वाँ अन्न॒व्विँश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॒ञ्छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै (45)
2.1.7.6
स॒जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रस॑ सजा॒तानव॑रुन्धे बार््हस्प॒त्यमु॑क्षव॒शमाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धाव॒ति स ए॒वास्मि॑न्ब्रह्मवर्च॒सम् (46)
2.1.7.7
द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति॒ वश॒व्वाँ ए॒ष च॑रति॒ यदु॒क्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सव्वँशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑रुन्धे रौ॒द्री रोहि॑णी॒माल॑भेताभि॒चर॑न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र््हिः शृ॒णात्ये॒वैन॒व्वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनम् ।। (47)
2.1.8.0
अ॒सौ श़ृ॒णाति॑ मिथु॒नानान्नयति यच्छति ।। (8)
2.1.8.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता सौ॒री श्वे॒ताव्वँ॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ता सौ॒री श्वे॒ताव्वँ॒शामाल॑भेता॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल््वो यूपो॑ भवत्य॒सौ (48)
2.1.8.2
वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒त्सयोन्ये॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेताभि॒चर॑न्वारु॒णन्दश॑कपालं पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒प समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र््हिः शृ॒णाति॑ (49)
2.1.8.3
ए॒वैन॒व्वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑व्वैँष्ण॒वव्वाँ॑म॒नमाल॑भेत॒ यय्यँ॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ य॒ज्ञं प्रय॑च्छ॒त्युपै॑नय्यँ॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रव्वँ॑ड॒बमाल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाम् (50)
2.1.8.4
प्र॒ज॒न॒यि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्रज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्त्सन्व॑ड॒बस्सा॒क्षादे॒व प्र॒जां प॒शूनव॑रुन्धे मै॒त्र श्वे॒तमाल॑भेत सङ्ग्रा॒मे सय्यँ॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सन्न॑यति (51)
2.1.8.5
वि॒शा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यङ्कृ॒ष्णमाल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒र्जन्य॑व्वँर््षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒प रू॒पेणै॒व वृष्टि॒मव॑रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र््षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति ।। (52)
2.1.9.0
अ॒न्ना॒दोऽन्ना॒द ए॒व भ॑वत्यविन्द॒न्पञ्च॑चत्वारिशच्च । 9 ।
2.1.9.1
वरु॑ण सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नम॒त्स ए॒ताव्वाँ॑रु॒णीङ्कृ॒ष्णाव्वँ॒शाम॑पश्य॒त्ता स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॒त्स ए॒ताव्वाँ॑रु॒णीङ्कृ॒ष्णाव्वँ॒शामाल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒दः (53)
2.1.9.2
ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्र श्वे॒तमाल॑भेत वारु॒णङ्कृ॒ष्णम॒पा़ञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॒ अन्नं॒ प्रय॑च्छतोऽन्ना॒द ए॒व भ॑वति (54)
2.1.9.3
अ॒पाञ्चौष॑धीनाञ्च स॒न्धावाल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्र श्वे॒तमा ल॑भेत वारु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑ण शमयति॒ यद्वा॑रु॒णस्सा॒क्षादे॒वैन॑व्वँरुण- पा॒शान्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टि॒न्नावि॑न्दन्न् (55)
2.1.9.4
तां मि॑थु॒ने॑ऽपश्य॒न्तस्या॒न्न सम॑राधय॒न्ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा ए॒षा मैतस्याव्वँदद्ध्व॒मिति॒ साऽश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑काम॒स्स्यात्स ए॒तामाश्वि॒नीय्यँ॒मीव्वँ॒शामाल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॒न्पुष्टि॑न्धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ।। (56)
2.1.10.0
ल॒लाम॒स्स ए॒व षट्च॑त्वारिशच्च ।। 10 ।।
2.1.10.1
आ॒श्वि॒नन्धू॒म्रल॑लाम॒माल॑भेत॒ यो दुर्ब्राह्मण॒स्सोमं॒ पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ता॒न्तौ प॒श्चा सो॑मपी॒थं प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्राह्मण॒स्सोमं॒ पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑न सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑हन्ति ल॒लामः॑ (57)
2.1.10.2
भ॒व॒ति॒ मु॒ख॒त ए॒वास्मि॒न्तेजो॑ दधाति वाय॒व्य॑ङ्गोमृ॒गमाल॑भेत॒ यमज॑घ्निवासमभि॒शसे॑यु॒रपू॑ता॒ वा ए॒तव्वाँगृ॑च्छति॒ यमज॑घ्निवासमभि॒शस॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवासमभि॒शस॑न्ति वा॒युर्वै दे॒वानां प॒वित्र॑व्वाँ॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒व (58)
2.1.10.3
ए॒नं॒ प॒व॒य॒ति॒ परा॑ची॒ वा ए॒तस्मै व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒ प्रवि॑शति॒ यस्याश्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमाल॑भेता॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒त्तमः॑ पा॒प्मान॒मप॑हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मान॑ हते ।। (59)
2.1.11.0
नामा॒ग्निस्स शव॑सो॒ रक्ष॑माणा धी॒र्या॑चि॒देका॒न्नप॑ञ्चा॒शच्च॑ ।। 11 ।।
2.1.11.1
इन्द्र॑व्वोँ वि॒श्वत॒स्परीन्द्र॒न्नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या व॒श्शर्म॑ । भरे॒ष्विन्द्र॑ सु॒हव॑ हवामहेऽहो॒मुच॑ सु॒कृत॒न्दैव्य॒ञ्जनम् । अ॒ग्निं मि॒त्रव्वँरु॑ण सा॒तये॒ भग॒न्द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये । म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र््हा म॒मत्तु॒ वातो॑ अ॒पाव्वृँष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वन्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । प्रि॒या वो॒ नाम॑ (60)
2.1.11.2
हु॒वे॒ तु॒राणाम् । आयत्तृ॒पन्म॑रुतो वावशा॒नाः । श्रि॒यसे॒ कं भा॒नुभि॒स्संमि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ । अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒त्सोमो॑ रु॒द्रेभि॑र॒भिर॑क्षतु॒ त्मना । इन्द्रो॑ म॒रुद्भि॑ऱ्ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑ण॒स्सशि॑शातु । सन्नो॑ दे॒वो वसु॑भिर॒ग्निस्सम् (61)
2.1.11.3
सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑र्य॒ज्ञियै॒स्समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् । यथा॑ऽऽदि॒त्या वसु॑भिस्संबभू॒वुर्म॒रुद्भी॑ रु॒द्रास्स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वास्सम॑नसो भवन्तु । कुत्रा॑चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर््ह॑न्तश्चि॒द्यमि॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ज॒न्तवः॑ । सय्यँदि॒षो वना॑महे॒ स ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः (62)
2.1.11.4
ऋ॒तस्य॑ र॒श्मिमाद॑दे । य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आवो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्या- द॒॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् । शुचि॑र॒पस्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑क्षेति वृ॒द्धव॑यास्सु॒वीरः॑ । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ । धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणाः (63)
2.1.11.5
अ॒सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ । ति॒स्रो भूमीर्धारय॒न्त्री रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन्वरुण मित्र॒ चारु॑ । त्यान्नु क्ष॒त्रिया॒॒ अव॑ आदि॒त्यान् या॑चिषामहे । सु॒मृ॒डी॒का अ॒भिष्ट॑ये । न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑चिद्वसवो धी॒र्या॑चित् (64)
2.1.11.6
यु॒ष्मानी॑तो॒ अभ॑य॒ञ्ज्योति॑रश्याम् । आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मय्यँ॒ज्ञन्द॑धतु॒ श्रोष॑माणाः । इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युराच॑के । तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशास्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शस॒ मा न॒ आयुः॒ प्रमो॑षीः ।। (65)
2.2.0.0
।। तैत्तिरीयसंहितायां द्वितीयकाण़्डे द्वितीयः प्रश्नः प्रारंभः ।। हरिः ओम् ।
2.2.1.0
प्र॒जाका॑म इन्द्रा॒ग्नी उ॑पप्र॒यात्यैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्वी॒र्यं॑ पू॒षण॑मे॒वैका॒न्नच॑त्वारि॒॒शच्च॑ ।। 1 ।
2.2.1.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टा इ॑न्द्रा॒ग्नी अपा॑गूहता॒॒ सो॑ऽचायत्प्र॒जाप॑तिरिन्द्रा॒ग्नी वै मे प्र॒जा अपा॑घुक्षता॒मिति॒ स ए॒तमैन्द्रा॒ग्नमेका॑दशकपालमपश्य॒त्तन्निर॑वप॒त्ताव॑स्मै प्र॒जाः प्रासा॑धयतामिन्द्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑गूहतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दत॑ ऐन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पेत्प्र॒जाका॑म इन्द्रा॒ग्नी (1)
2.2.1.2
ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै प्र॒जां प्रसा॑धयतो वि॒न्दते प्र॒जामैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पे॒त् स्पर्द्ध॑मानः॒ क्षेत्रे॑ वा सजा॒तेषु॑ वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ताभ्या॑मे॒वेन्द्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जय॒तेऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यव्वीँ॒र्यं॑ क्रामति॒ यस्स॑ङ्ग्रा॒ममु॑पप्र॒यात्यैन्द्रा॒ग्नमेका॑दशकपाल॒न्निः (2)
2.2.1.3
व॒पे॒त्स॒ङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्धत्तस्स॒हेन्द्रि॒येण॑ वी॒र्ये॑णोप॒प्रया॑ति॒ जय॑ति॒ त स॑ङ्ग्रा॒मव्विँ वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते॒ यस्स॑ङ्ग्रा॒मञ्जय॑त्यैन्द्रा॒ग्नमेका॑दश- कपाल॒न्निर्व॑पेत्सङ्ग्रा॒मञ्जि॒त्वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्वीँ॒र्यम् (3)
2.2.1.4
ध॒त्तो॒ नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्य॒तेऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यव्वीँ॒र्य॑ङ्क्रामति॒ य एति॑ ज॒नता॑मैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पेज्ज॒नता॑मे॒ष्यन्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्धत्तस्स॒हेन्द्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति पौ॒ष्णञ्च॒रुमनु॒निर्व॑पेत्पू॒षा वा इ॑न्द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता पू॒षण॑मे॒व (4)
2.2.1.5
स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ इन्द्रि॒यव्वीँ॒र्य॑मनु॒ प्रय॑च्छति क्षैत्रप॒त्यञ्च॒रुन्निर्व॑पेज्ज॒नता॑मा॒गत्ये॒यव्वैँ क्षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑तिष्ठत्यैन्द्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेद॒स्यामे॒व प्र॑ति॒ष्ठायेन्द्रि॒यव्वीँ॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ।। (5)
2.2.2.0
व्र॒तप॑तये॒ निशि॑ताया॒न्निर्व॑पे॒त्पुरु॑षास्सङ्ग्रा॒मन्न च॒त्वारि॑ च ।। 2 ।।
2.2.2.1
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यो द॑र््शपूर्णमासया॒जी सन्न॑मावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽतिपा॒दयेत्प॒थो वा ए॒षोऽद्ध्यप॑थेनैति॒ यो द॑र््शपूर्णमासया॒जी सन्न॑मावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽतिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒मप॑था॒त्पन्था॒मपि॑ नयत्यन॒ड्वान्दक्षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या अ॒ग्नये व्र॒तप॑तये (6)
2.2.2.2
पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्य आहि॑ताग्नि॒स्सन्न॑व्र॒त्यमि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑व्व्रँ॒तमालं॑भयति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्य रक्षा॑सि॒ सचे॑रन्न॒ग्निमे॒व र॑क्षो॒हण॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒द्रक्षा॒॒स्यप॑हन्ति॒ निशि॑ताया॒न्निर्व॑पेत् (7)
2.2.2.3
निशि॑ताया॒॒ हि रक्षा॑सि प्रे॒रते॑ सं॒प्रेर्णान्ये॒वैना॑नि हन्ति॒ परि॑श्रिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय रक्षो॒घ्नी याज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑सा॒॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रा त॒नूर्यद्रु॒द्रस्तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षाः (8)
2.2.2.4
वा॒ प्र॒मीये॑र॒न्॒ यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्यत्सु॑रभि॒मती॒ तयै॒वास्मै॑ भेष॒जङ्क॑रोति सुरभि॒मते॑ भवति पूतीग॒न्धस्याप॑हत्या अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत्सङ्ग्रा॒मे सय्यँ॑त्ते भाग॒धेये॑नै॒वैन॑ शमयि॒त्वा परा॑न॒भि निर्दि॑शति॒ यमव॑रेषा॒व्विँद्ध्य॑न्ति॒ जीव॑ति॒ स यं परे॑षां॒ प्र स मी॑यते॒ जय॑ति॒ त स॑ङ्ग्रा॒मम् (9)
2.2.2.5
अ॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषां पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर्ह्य॑स्य प्रि॒यत॑मा॒ऽग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्भाग॒धेये॑नै॒वैन॑ शमयति॒ नैषां पु॒राऽऽयु॒षोऽप॑रः॒ प्रमी॑यते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान्दह॑त्य॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्भाग॒धेये॑नै॒वैन॑ शमयति॒ नास्याप॑रङ्गृ॒हान्द॑हति ।। (10)
2.2.3.0
भ्रातृ॑व्यस्यास्मि॒न्तेज॑स्वते पुरो॒डाश॑म॒ष्टात्रि॑शच्च ।। 3 ।।
2.2.3.1
अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यङ्कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ङ्कामे॑न॒ सम॑र्द्धय॒त्युपै॑न॒ङ्कामो॑ नमत्य॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒त्स्पर्द्ध॑मानः॒ क्षेत्रे॑ वा सजा॒तेषु॑ वा॒ऽग्निमे॒व यवि॑ष्ठ॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तेनै॒वेन्द्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य (11)
2.2.3.2
यु॒व॒ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ऽग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेदभिच॒र्यमा॑णो॒ऽग्निमे॒व यवि॑ष्ठ॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒द्रक्षा॑सि यवयति॒ नैन॑मभि॒चरन्त्स्तृणुते॒ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒मायु॑रिया॒मित्य॒ग्निमे॒वायु॑ष्मन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मिन्न्॑ (12)
2.2.3.3
आयु॑र्दधाति॒ सर्व॒मायु॑रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्भूति॑कामो॒ऽग्निमे॒व जा॒तवे॑दस॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॒ भूति॑ङ्गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्रुक्का॑मो॒ऽग्निमे॒व रुक्म॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॒न्रुच॑न्दधाति॒ रोच॑त ए॒वाग्नये॒ तेज॑स्वते पुरो॒डाशम् (13)
2.2.3.4
अ॒ष्टाक॑पाल॒न्निर्व॑पे॒त्तेज॑स्कामो॒ऽग्निमे॒व तेज॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॒न्तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒त्सीक्ष॑माणो॒ऽग्निमे॒व सा॑ह॒न्त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तेनै॒व स॑हते॒ य सीक्ष॑ते ।। (14)
2.2.4.0
क॒रो॒त्य॒न्ना॒दो द॑धाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति करोति॒ वाज॒य्यँज॑मान॒मुदे॒वास्य॒ षट्च॑ ।। 4 ।।
2.2.4.1
अ॒ग्नयेऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॒तान्न॑वान्त्स्या॒मित्य॒ग्निमे॒वान्न॑वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒मन्न॑वन्तङ्करो॒त्यन्न॑वाने॒व भ॑वत्य॒ग्नयेऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒ न्निर्व॑पे॒द्यः का॒मये॑तान्ना॒दस्स्या॒मित्य॒ग्निमे॒वान्ना॒द स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑मन्ना॒दङ्क॑रोत्यन्ना॒दः (15)
2.2.4.2
ए॒व भ॑वत्य॒ग्नयेऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॒तान्न॑पतिस्स्या॒मित्य॒ग्निमे॒वान्न॑पति॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒मन्न॑पतिङ्करो॒त्यन्न॑पतिरे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये (16)
2.2.4.3
पा॒व॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒ आयु॑रे॒वास्मि॒न्तेन॑ दधात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒वैतामे॒व निर्व॑पे॒च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति (17)
2.2.4.4
उ॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒दिन्द्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालं प्र॒जाका॑मो़॒ऽग्निरे॒वास्मै प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्रय॑च्छत्य॒ग्नये॒ रस॑वतेऽजक्षी॒रे च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्त्स्या॒मित्य॒ग्निमे॒व रस॑वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒॒ रस॑वन्तङ्करोति (18)
2.2.4.5
रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒क्षादे॒व रस॒मव॑रुन्धे॒ऽग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्त्स्या॒मित्य॒ग्निमे॒व वसु॑मन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ वसु॑मन्तङ्करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत्सङ्ग्रा॒मे सय्यँ॑त्ते॒ वाजम् (19)
2.2.4.6
वा ए॒ष सि॑सीर््षति॒ यस्स॑ङ्ग्रा॒मञ्जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वानाव्वाँज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ धाव॑ति॒ वाज॒॒ हन्ति॑ वृ॒त्रञ्जय॑ति॒ त स॑ङ्ग्रा॒ममथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवत्य॒ग्नयेऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑यु॒र्निर्दि॑ष्टभागो॒ वा ए॒तयो॑र॒न्योऽनि॑र्दिष्टभागो॒ऽन्यस्तौ सं॒भव॑न्तौ॒ यज॑मानम् (20)
2.2.4.7
अ॒भिसंभ॑वत॒स्स ईश्व॒र आर्ति॒मार्तो॒र्यद॒ग्नयेऽग्नि॒वते॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनौ॑ शमयति॒ नार्ति॒मार्छ॑ति॒ यज॑मानो॒ऽग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्या॒ग्निरुद्धृ॒तोऽहु॑तेऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न का॒र्य॑य्यँद्भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ऽभ्युत् (21)
2.2.4.8
ह्रि॒ये॒तेति॒ तान्ये॒वाव॒क्षाणा॑नि सन्नि॒धाय॑ मन्थेदि॒तः प्र॑थ॒मञ्ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यव्वँ॑हतु प्रजा॒नन्निति॒ छन्दो॑भिरे॒वैन॒॒ स्वाद्योनेः॒ प्रज॑नयत्ये॒ष वाव सोऽग्निरित्या॑हु॒र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतित॒न्तदे॒वाव॑रुन्धे ।। (22)
2.2.5.0
प्र॒जाका॑मस्सव्वँत्स॒रः पु॒नात्ये॒वैनं॑ पू॒तस्सम॑ष्ट्यै ता॒दृङ्मा॑रु॒तो भ॑व॒त्येका॒न्नत्रि॒॒शच्च॑ ।। 5 ।।
2.2.5.1
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्वारु॒णञ्च॒रुन्द॑धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वैश्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रेणै॒वैन॑ स्वदय॒त्यप॑ पा॒पव्वँर्ण॑ हते वारु॒णेनै॒वैन॑व्वँरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा प॒वित्र॒व्वैँ हिर॑ण्यं पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्नं॑ भवत्ये॒तामे॒व निर्व॑पेत्प्र॒जाका॑मः सव्वँत्स॒रः (23)
2.2.5.2
वा ए॒तस्याशान्तो॒ योनिं॑ प्र॒जायै॑ पशू॒नान्निर्द॑हति॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॒ यद्वैश्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सोऽस्मै शा॒न्तः स्वाद्योनेः प्र॒जां प्रज॑नयति वारु॒णेनै॒वैन॑व्वँरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा प॒वित्र॒व्वैँ हिर॑ण्यं पु॒नात्ये॒वैनम् (24)
2.2.5.3
वि॒न्दते प्र॒जाव्वैँश्वान॒रन्द्वाद॑शकपालं॒ निर्व॑पेत्पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैनं॑ ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्य॑न्दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वा- स्मि॑न्निन्द्रि॒यं द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति॒ यस्मि॑ञ्जा॒त ए॒तामिष्टि॑न्नि॒र्वप॑ति पू॒तः (25)
2.2.5.4
ए॒व ते॑ज॒स्व्य॑न्ना॒द इ॑न्द्रिया॒वी प॑शु॒मान्भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र््शपूर्णमासया॒जी सन्न॑मावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽतिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर््शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रन्द्वाद॑श- कपाल॒न्निर्व॑पेदमावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽति॒पाद्य॑ सव्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्वँत्स॒रमे॒वास्मा॒ उप॑दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै (26)
2.2.5.5
अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गल्लोँ॒कमे॑ति वीर॒हा वा ए॒ष दे॒वाना॒य्योँऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेद्वैश्वान॒रन्द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन् यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यङ्क॑रो॒त्यथो॒ यथा॒ जन॑य्यँ॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृक् (27)
2.2.5.6
ए॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासास्सव्वँत्स॒रस्स॑व्वँत्स॒रः खलु॒ वा अ॒ग्नेर्योनि॒स्स्वामे॒वैन॒य्योँनि॑ङ्गमयत्या॒द्य॑म॒स्यान्नं॑ भवति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मारु॒त स॒प्तक॑पाल॒ङ्ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑श्रयति॒ गार््ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासास्सव्वँत्स॒रस्स॑व्वँत्स॒रेणै॒वास्मै॑ सजा॒ताश्च्या॑वयति मारु॒तो भ॑वति (28)
2.2.5.7
म॒रुतो॒ वै दे॒वाना॒व्विँशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धेऽनू॒च्यमा॑न॒ आसा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ।। (29)
2.2.6.0
मृ॒जा॒ते॒ नि॒र्व॒रु॒णव्वँ॑पेदुभ॒याद॒द्यो वै स॑व्वँत्स॒र षट्त्रि॑शच्च । (6)
2.2.6.1
आ॒दि॒त्यञ्च॒रुन्निर्व॑पेत्सङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॒यव्वाँ अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑तिष्ठन्ति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदा॒यतन॑ङ्ग॒त्वा स॑व्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रः खलु॒ वै दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्॒ यद्वैश्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति दे॒वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ त स॑ङ्ग्रा॒ममे॒तस्मि॒न्वा ए॒तौ मृ॑जाते (30)
2.2.6.2
यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्विद्विषा॒णयो॒रन्न॑ञ्ज॒ग्ध्वा स॑व्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते सव्वँत्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र्यः पूर्वो॑ऽभि॒द्रुह्य॑ति॒ तव्वँरु॑णो गृह्णाति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्सममा॒नयोः॒ पूर्वो॑ऽभि॒द्रुह्य॑ सव्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रमे॒वाप्त्वा नि॑र्वरु॒णम् (31)
2.2.6.3
प॒रस्ता॑द॒भिद्रु॑ह्यति॒ नैन॒व्वँरु॑णो गृह्णात्या॒व्य॑व्वाँ ए॒ष प्रति॑गृह्णाति॒ योऽविं॑ प्रतिगृ॒ह्णाति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पे॒दविं॑ प्रति॒गृह्य॑ सव्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति॒ नाव्यं॑ प्रति॑गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णात्यश्व॑व्वाँ॒ पुरु॑षव्वाँ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदुभ॒याद॑त् (32)
2.2.6.4
प्र॒ति॒गृह्य॑ सव्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँत्स॒रस्व॑दितमे॒व प्रति॑गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्स॒निमे॒ष्यन्त्स॑व्वँत्स॒रो वा अ॒ग्निर्वैश्वान॒रो य॒दा खलु॒ वै स॑व्वँत्स॒रञ्ज॒नता॑या॒ञ्चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒ यद्वैश्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति सव्वँत्स॒रसा॑तामे॒व स॒निम॒भि प्रच्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै स॑व्वँत्स॒रम् (33)
2.2.6.5
प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वैश्वान॒रं पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तं भा॑ग॒धेये॑न॒ विमु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्ज्वोत्त॒माङ्गामा॒जेत्तां भ्रातृ॑व्याय॒ प्रहि॑णुया॒न्निऱ्ऋ॑तिमे॒वास्मै॒ प्रहि॑णोति ।। (34)
2.2.7.0
इ॒न्द्रि॒याव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सोऽर्कव॑न्त॒॒ स्वेन॑ भाग॒धेये॑नै॒वेन्द्रा॑यास्मा॒न्मृधोऽस्मै स॒प्त च॑ । 7 ।
2.2.7.1
ऐ॒न्द्रञ्च॒रुन्निर्व॑पेत्प॒शुका॑म ऐ॒न्द्रा वै प॒शव॒ इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑वति च॒रुर्भ॑वति॒ स्वादे॒वास्मै॒ योनेः प॒शून्प्रज॑नय॒तीन्द्रा॑येन्द्रि॒याव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत्प॒शुका॑म इन्द्रि॒यव्वैँ प॒शव॒ इन्द्र॑मे॒वेन्द्रि॒याव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सः (35)
2.2.7.2
ए॒वास्मा॑ इन्द्रि॒यं प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सव्वैँ घ॒र्म इन्द्र॑मे॒व घ॒र्मव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑व॒तीन्द्रा॑या॒र्कव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दन्न॑कामो॒ऽर्को वै दे॒वाना॒मन्न॒मिन्द्र॑मे॒वार्कव॑न्त॒॒ स्वेन॑ भाग॒धेये॑न (36)
2.2.7.3
उप॑धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्रा॑येन्द्रि॒याव॑त॒ इन्द्रा॑या॒र्कव॑ते॒ भूति॑कामो॒ यदिन्द्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑येन्द्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑या॒र्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑तिष्ठति॒ भव॑त्ये॒वेन्द्रा॑य (37)
2.2.7.4
अ॒॒हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तस्स्यात्पा॒प्मा वा अह॒ इन्द्र॑मे॒वाहो॒मुच॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॑ पा॒प्मनोऽह॑सो मुञ्च॒तीन्द्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यं मृधो॒ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑ वा॒ऽभिस॑मि॒युरिन्द्र॑मे॒व वै॑मृ॒ध स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒न्मृधः॑ (38)
2.2.7.5
अप॑ह॒न्तीन्द्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेद्ब॒द्धो वा॒ परि॑यत्तो॒ वेन्द्र॑मे॒व त्रा॒तार॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑न्त्रायत॒ इन्द्रा॑यार्कश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यं म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्यान्त्ये॑ त॒नू यद॑र्काश्वमे॒धाविन्द्र॑मे॒वार्काश्वमे॒धव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञञ्च्या॑वय॒त्युपै॑नं महाय॒ज्ञो न॑मति ।। (39)
2.2.8.0
अपि॒ त स्यु॑र्वैन्ध भवति॒ चतु॑र्दश च ।। 7 ।।
2.2.8.1
इन्द्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्ग्राम॑काम॒ इन्द्र॑मे॒वान्वृ॑जु॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ताननु॑कान्करोति ग्रा॒म्ये॑व भ॑वतीन्द्रा॒ण्यै च॒रुन्निर्व॑पे॒द्यस्य॒ सेनाऽस॑शितेव॒ स्यादि॑न्द्रा॒णी वै सेना॑यै दे॒वतेन्द्रा॒णीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सैवास्य॒ सेना॒॒ सश्य॑ति॒ बल्ब॑जा॒नपि॑ (40)
2.2.8.2
इ॒द्ध्मे सन्न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒ उद॑तिष्ठ॒न्गवा॑मे॒वैनं॑ न्या॒यम॑पि॒नीय॒ गा वे॑दय॒तीन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत्सङ्ग्रा॒मे सय्यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तम् (41)
2.2.8.3
स॒ङ्ग्रा॒ममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नास्स्व॒यंपा॑प इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑नास्स्व॒यंपा॑प॒ इन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ न ह॒तम॑नास्स्व॒यंपा॑पो भव॒तीन्द्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जास्स्युः॑ (42)
2.2.8.4
इतीन्द्र॑मे॒व दा॒तार॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तीन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येतेन्द्र॑मे॒व प्र॑दा॒तार॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ प्रदा॑पय॒तीन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दप॑रुद्धो वा (43)
2.2.8.5
अ॒प॒रु॒द्ध्यमा॑नो॒ वेन्द्र॑मे॒व सु॒त्रामा॑ण॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑न्त्रायतेऽनपरु॒द्ध्यो भ॑व॒तीन्द्रो॒ वै स॒दृङ्् दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपाल॒न्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒य म॑दधा॒च्छक्व॑री याज्यानुवा॒क्ये॑ अकरो॒द्वज्रो॒ वै शक्व॑री॒ स ए॑न॒व्वँज्रो॒ भूत्या॑ ऐन्ध (44)
2.2.8.6
सो॑ऽभव॒त्सो॑ऽबिभेद्भू॒तः प्र मा॑ धक्ष्य॒तीति॒ स प्र॒जाप॑तिं॒ पुन॒रुपा॑धाव॒त्स प्र॒जाप॑ति॒श्शक्व॑र्या॒ अधि॑ रे॒वती॒न्निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय॒ योऽल॑ श्रि॒यै सन्त्स॒दृङ्ख्स॑मा॒नैस्स्यात्तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति रे॒वती॑ पुरोनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑न॒व्वँज्रो॒ भूत्या॑ इन्धे॒ भव॑त्ये॒व ।। (45)
2.2.9.0
ब्रह्म॑णै॒वैन॑म॒भिच॑रति य॒ज्ञो न तावे॒वास्येन्द्रि॒यमाप्नोति दे॒वतास्स॒प्तत्रि॑शच्च । 9 ।
2.2.9.1
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दकपाल॒न्निर्व॑पेदभि॒चर॒न्त्सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यदाग्नावैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैन॑य्यँ॒ज्ञेन॑ चा॒भिच॑रति॒ सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती वा॒चैवैन॑म॒भिच॑रति बार््हस्प॒त्यश्च॒रुर्भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भिच॑रति (46)
2.2.9.2
प्रति॒ वै प॒रस्ता॑दभि॒चर॑न्तम॒भिच॑रन्ति॒ द्वेद्वे॑ पुरोनुवा॒क्ये॑ कुर्या॒दति॒प्रयु॑क्त्या ए॒तयै॒व य॑जेताभिच॒र्यमा॑णो दे॒वता॑भिरे॒व दे॒वताः प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञव्वाँ॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वताश्चै॒व य॒ज्ञञ्च॑ मद्ध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति॒ नैन॑मभि॒चरन्स्तृणुत आग्नावैष्ण॒वमेका॑दशकपाल॒न्निर्व॑पे॒द्यय्यँ॒ज्ञो न (47)
2.2.9.3
उ॒प॒नमे॑द॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञोऽग्निञ्चै॒व विष्णु॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ य॒ज्ञं प्रय॑च्छत॒ उपै॑नय्यँ॒ज्ञो न॑मत्याग्नावैष्ण॒वङ्घृ॒ते च॒रुन्निर्व॑पे॒च्चक्षु॑ष्कामो॒ऽग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निञ्चै॒व विष्णु॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒व (48)
2.2.9.4
अ॒स्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति धे॒न्वै वा ए॒तद्रेतो॒ यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चक्षुः॒ प्रज॑नयति घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒तन्तेज॒श्चक्षु॒स्तेज॑सै॒वास्मै॒ तेज॒श्चक्षु॒रव॑रुन्ध इन्द्रि॒यव्वैँ वी॒र्य॑व्वृँङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नोऽय॑जमानस्याद्ध्व॒रक॑ल्पां॒ प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒ नास्येन्द्रि॒यम् (49)
2.2.9.5
वी॒र्य॑व्वृँङ्क्ते पु॒रा वा॒चः प्रव॑दितो॒र्निर्व॑पे॒द्याव॑त्ये॒व वाक्तामप्रो॑दितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाचं॑ प्र॒वद॑न्तीम॒न्या वाचोऽनु॒ प्रव॑दन्ति॒ ता इ॑न्द्रि॒यव्वीँ॒र्य॑य्यँज॑माने दधत्याग्नावैष्ण॒वम॒ष्टाक॑पाल॒न्निर्व॑पेत्प्रातस्सव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तस्सव॒नं प्रा॑तस्सव॒नमे॒व तेनाप्नोति (50)
2.2.9.6
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पे॒न्माद्ध्य॑न्दिनस्य॒ सव॑नस्याका॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माद्ध्य॑न्दिन॒॒ स॑वनं॒ माद्ध्य॑न्दिनमे॒व सव॑न॒न्तेनाप्नोत्याग्नावैष्ण॒वन्द्वाद॑शकपाल॒न्निर्व॑पेत्तृतीयसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तन्त़ृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेनाप्नोति दे॒वता॑भिरे॒व दे॒वताः (51)
2.2.9.7
प्र॒ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञव्वाँ॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दा॑स्या॒प्नोति॑ पुरो॒डाशै॒स्सव॑नानि मैत्रावरु॒णमेक॑कपाल॒न्निर्व॑पेद्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शाऽनू॑ब॒न्ध्या॑ सो ए॒वैषैतस्यैक॑कपालो भवति॒ नहि क॒पालैः प॒शुमर््ह॒त्याप्तुम् ।। (52)
2.2.10.0
रु॒द्रो भे॑ष॒जव्विँ॒न्दते॒ यदि॑ स्तृणी॒याद॒र्द्धन्द्वाद॑श च । 10 ।
2.2.10.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒त सो॑मारौ॒द्रञ्च॒रुन्निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒त सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पे॒त्सोम॑ञ्चै॒व रु॒द्रञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रः (53)
2.2.10.2
वै ति॒ष्य॑स्सोमः॑ पू॒र्णमा॑सस्सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै श्वे॒तव॑त्सायै दु॒ग्धं म॑थि॒तमाज्यं॑ भव॒त्याज्यं॒ प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒सन्तत्सर्व॑ङ्करो॒त्यति॑ ब्रह्मवर्च॒सङ्क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किञ्च॒ मनु॒रव॑द॒त्तद्भे॑ष॒जम् (54)
2.2.10.3
भे॒ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णञ्च॒रुन्निर्व॑पेत्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्रञ्च॒रुन्निर्व॑पेत्प्र॒जाका॑म॒स्सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधात्य॒ग्निः प्र॒जां प्रज॑नयति वि॒न्दते (55)
2.2.10.4
प्र॒जा सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेदभि॒चरन्त्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निस्स्वाया॑ ए॒वैन॑न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ता॒जगार्ति॒मार्च्छ॑ति सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोम॒व्वाँ ए॒तस्य॒ रसो॑ गच्छत्य॒ग्नि शरी॑र॒य्यँस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रस॑न्निष्क्री॒णात्य॒ग्नेश्शरी॑रमु॒त यदि॑ (56)
2.2.10.5
इ॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तङ्ग्र॑सि॒त होता॒ निष्खि॑दति॒ स ईश्व॒र आर्ति॒मार्तो॑रन॒ड्वान््होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान््वह्नि॒र््होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मान॑ स्पृणोति सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ स्वेऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयेय॒मिति॒ वेदिं॑ परि॒गृह्या॒र्द्धमु॑द्ध॒न्याद॒र्द्धन्नार्द्धं ब॒र््हिषः॑ स्तृणी॒याद॒र्द्धं नार्द्धमि॒द्ध्मस्याभ्याद॒द्ध्याद॒र्द्धं न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयति ।। (57)
2.2.11.0
विश॑मे॒व ति॑ष्ठन्त्ये॒तामे॒वाथै॒न्द्रस्य॑ याज्यानुवा॒क्ये॑ तव्वँरु॑णाय॒ चतु॑र्दश च । 11 ।
2.2.11.1
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पेन्मारु॒त स॒प्तक॑पाल॒ङ्ग्राम॑काम॒ इन्द्र॑ञ्चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐ॒न्द्रमधि॑श्रयति॒ गार््ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धेऽनू॒च्यमा॑न॒ आसा॑दयति॒ विश॑मे॒व (58)
2.2.11.2
अ॒स्मा॒ अनु॑वर्त्मानङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त क्ष॒त्राय॑ च वि॒शे च॑ स॒मद॑न्दद्ध्या॒मित्यै॒न्द्रस्या॑व॒द्यन्ब्रू॑या॒दिन्द्रा॒यानु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयान्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑व॒द्यन्ब्रू॑यान्म॒रुद्भ्योऽनु॑ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिन्द्र॑य्यँ॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मद॑न्दधाति वितृहा॒णास्ति॑ष्ठन्त्ये॒तामे॒व (59)
2.2.11.3
निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒तम॑व॒दाय॑ यथादेव॒तय्यँ॑जेद्भाग॒धेये॑नै॒वैनान्॑ यथाय॒थङ्क॑ल्पयति॒ कल्प॑न्त ए॒वैन्द्रमेका॑दशकपाल॒न्निर्व॑पेद्वैश्वदे॒वन्द्वाद॑शकपाल॒ङ्ग्राम॑काम॒ इन्द्र॑ञ्चै॒व विश्वा॑श्च दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यै॒न्द्रस्या॑व॒दाय॑ वैश्वदे॒वस्याव॑द्ये॒दथै॒न्द्रस्य॑ (60)
2.2.11.4
उ॒परि॑ष्टादिन्द्रि॒येणै॒वास्मा॑ उभ॒यत॑स्सजा॒तान्परि॑गृह्णात्युपाधा॒य्य॑पूर्वय॒व्वाँसो॒ दक्षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्ञि॑यै दु॒ग्धे प्रैय॑ङ्गवञ्च॒रुन्निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्ञि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः पृश्ञि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये (61)
2.2.11.5
भ॒व॒तः॒ प्रि॒यमे॒वैन॑ समा॒नानाङ्करोति द्वि॒पदा॑ पुरोनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑रुन्धे देवासु॒रास्सय्यँ॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते ऽन्योन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्धा व्य॑क्रामन्न॒ग्निर्वसु॑भि॒स्सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैस्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तम् (62)
2.2.11.6
ए॒तया॑ सं॒ज्ञान्या॑ऽयाजयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वप॒त्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल॒व्वँरु॑णायाऽऽदि॒त्यव॑ते च॒रुन्ततो॒ वा इन्द्र॑न्दे॒वा ज्यैष्ठ्या॑या॒भि सम॑जानत॒ यस्स॑मा॒नैर्मि॒थो विप्रि॑यः॒ स्यात्तमे॒तया॑ सं॒ज्ञान्या॑ याजयेद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒त्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल॒व्वँरु॑णायाऽऽदि॒त्यव॑ते च॒रुमिन्द्र॑मे॒वैनं॑ भू॒तञ्ज्यैष्ठ्या॑य समा॒ना अ॒भिसञ्जा॑नते॒ वसि॑ष्ठः समा॒नानां भवति ।। (63)
2.2.12.0
दधा॑नो जि॒नोषि॑ देभुः॒ प्र ह॒व्यं ब॒भूथ॒ मा याभि॑श्चत्वारि॒॒शच्च॑ ।। (12)
2.2.12.0
प्र॒जाप॑ति॒स्तास्सृ॒ष्टा अ॒ग्नये॑ पथि॒कृते॒ऽग्नये॒ कामा॑या॒ग्नयेऽन्न॑वते वैश्वान॒रमा॑दि॒त्यञ्च॒रुमै॒न्द्रञ्च॒रुमिन्द्रा॒यान्वृ॑जव आग्नावैष्ण॒वम॒सौ सो॑मारौ॒द्रमै॒न्द्रमेका॑दशकपाल हिरण्यग॒र्भो द्वाद॑श ।। (12) प्र॒जाप॑तिर॒ग्नये॒ कामा॑या॒भि सम्भ॑वतो॒ यो वि॑द्विषा॒णयो॑रि॒द्ध्मे सन्न॑ह्येदाग्नावैष्ण॒वमु॒परि॑ष्टा॒द्यासि॑ दा॒श्वास॒मेक॑सप्ततिः ।। (71) प्र॒जाप॑तिः॒ प्रेदु॑ हरिवश्श्रु॒तस्य॑ ।। ।। द्वितीयप्रश्नः समाप्तः ।। हरिः ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.2.12.1
हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत्प्रजा॑पते । स वे॑द पु॒त्रः पि॒तर॒॒ स मा॒तर॒॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒॒ स सुव॒स्स विश्वा॒ भुवो॑ अभव॒त्स आऽभ॑वत् । उदु॒त्यञ्चि॒त्रम् । सप्र॑त्न॒वन्नवी॑य॒साऽग्ने द्यु॒म्नेन॑ स॒य्यँता । बृ॒हत्त॑तन्थ भा॒नुना । निकाव्या॑ वे॒धस॒श्शश्व॑तस्क॒र््हस्ते॒ दधा॑नः (64)
2.2.12.2
नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णा स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा । हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् । वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑स्स्याम । बडि॒त्था पर्व॑तानाङ्खि॒द्रं बि॑भर््षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ (65)
2.2.12.3
म॒हि॒नि॒ । स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाज॒न्न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि । ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्येद्धर्यश्व पी॒तः । अ॒यय्यँस्सोमो॒ न्यधाय्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यच्छ॑ । आपान्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒श्शिमी॑वा॒ञ्छरु॑मा ऋजी॒षी । सोमो॒ विश्वान्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः । प्र (66)
2.2.12.4
सु॒वा॒नस्सोम॑ ऋत॒युश्चि॑के॒तेन्द्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्चन्न्॑ । वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ गृण॒ते ध॒र्त्रं दृ॑ह । स॒बाध॑स्ते॒ मद॑ञ्च शुष्म॒यञ्च॒ ब्रह्म॒ नरो ब्रह्म॒कृत॑स्सपर्यन्न् । अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिन्द्रो॑ दधते पृ॒त्सु तु॒र्याम् । वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । (67)
2.2.12.5
वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यश्श॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑वीया॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के । किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्रयद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑गूह ए॒तद्यद॒न्यरू॑पस्समि॒थे ब॒भूथ॑ । (68)
2.2.12.6
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् । शि॒शी॒हि न॑स्सूनु॒मतः॑ । दा नो॑ अग्ने श॒तिनो॒ दास्स॑ह॒स्रिणो॑ दु॒रो न वाज॒॒ श्रुत्या॒ अपा॑वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ विदि॑द्युतुः । अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निर््ऋषिं॒ यस्स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमात॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा । मा (69)
2.2.12.7
नो॒ म॒र्द्धी॒रा तू भ॑र । घृ॒तं न पू॒तं त॒नूर॑रे॒पाश्शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः । उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इष॑ स्तो॒तृभ्य॒ आ भ॑र । वायो॑ श॒त हरी॑णां यु॒वस्व॒ पोष्या॑णाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा । प्र याभिः॑ (70)
2.2.12.8
यासि॑ दा॒श्वास॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यि सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यञ्च॒ राधः॑ । रे॒वतीर्नस्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म । रे॒वा इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रेदु॑ हरिवश्श्रु॒तस्य॑ ।। (71)
2.3.0.0
आ॒दि॒त्येभ्यो॑ दे॒वा वै मृ॒त्योर्दे॒वा वै स॒त्रम॑र्य॒म्णे प्र॒जाप॑ते॒स्त्रय॑स्त्रिशत्प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्य॑न्देवासु॒रास्तान्रज॑नो द्ध्रु॒वो॑ऽसि॒ यन्नव॑म॒ग्निव्वैँ प्र॒जाप॑ति॒र्वरु॑णाय॒ या वा॑मिन्द्रावरुणा॒ सप्र॑त्न॒वच्चतु॑र्दश ।।14।। आ॒दि॒त्येभ्य॒स्त्वष्टु॑रस्मै॒ दान॑कामा ए॒वाव॑रुन्धे॒ऽग्निव्वैँ सप्र॑त्न॒वथ्षट्प॑ञ्चा॒शत् ।।56।। आ॒दि॒त्येभ्य॒स्सुव॑र॒पो जि॑गाय ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे तृतीयः प्रश्नः ।।
2.3.1.0
धा॒रय॑द्वतो मरुतो गच्छति॒ विश॒मवै॒तद॒ष्टाद॑श च ।।1।।
2.3.1.1
आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॒म्भूतिं॑ गमयन्ति॒ भव॑त्ये॒वादि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुं निर्व॑पे॒दप॑रुद्धो वाऽपरु॒ध्यमा॑नो वाऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वतः [1]
2.3.1.2
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ वि॒शि दाध्रत्यनपरु॒ध्यो भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यं वा अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्याशीरित्या॑ह स॒त्यामे॒वाशिषं॑ कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसः करो॒त्युप॒ प्रेत॑ मरुतः [2]
2.3.1.3
सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना॒भ्य॑मु राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो वि॒श्पति॑र्वि॒शैवन॑ रा॒ष्ट्रेण॒ सम॑र्धयति॒ यः प॒रस्ताद्ग्राम्यवा॒दी स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाश्च॑ कृ॒ष्णाश्च॒ वि चि॑नुया॒द्ये शु॒क्लाः स्युस्तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑ गच्छति [3]
2.3.1.4
अव॑गतास्य॒ विडन॑वगत रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णाः स्युस्तव्वाँ॑रु॒णं च॒रुन्निर्व॑पेद्वारु॒णं वै रा॒ष्ट्रमु॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गं निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ [3]
2.3.1.5
ग॒म॒य॒न्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान्म॒यूखान्त्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यादि॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यं च॒रुं निर्व॑पेदि॒ध्मेऽपि॑ म॒यूखा॒न्त्सं न॑ह्येदनपरु॒ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति म॒रुतां॒ वा ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ।। [5]
2.3.2.0
इ॒न्द्रि॒येऽस्मि॒न्भूम्या॑ ए॒तामिन्द्रः॒ स्यात्तस्मै॒ सोमो॑ बहुरू॒पा हि प॒शव॒ एक॑चत्वारिशच्च ।।2।।
2.3.2.1
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न्तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्या श॒तकृ॑ष्णलां॒ निर॑वप॒त्तयै॒वैष्व॒मृत॑मदधा॒द्यो मृ॒त्योर्बि॑भी॒यात्तस्मा॑ ए॒ताम्प्रा॑जाप॒त्या श॒तकृ॑ष्णलां॒ निर्व॑पेत्प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये [6]
2.3.2.2
प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृत॒॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृतं॑ च स॒मीची॑ दधाति च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒त सौ॒र्यं च॒रुं निर॑वप॒न्तेनै॒वास्मिन्न्॑ [7]
2.3.2.3
रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒त सौ॒र्यं च॒रुं निर्व॑पेद॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति प्रया॒जेप्र॑याजे कृ॒ष्णलं॑ जुहोति दि॒ग्भ्य ए॒वास्मै ब्रह्मवर्च॒समव॑ रुन्द्ध आग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेत्सावि॒त्रं द्वाद॑शकपाल॒म्भूम्यै [8]
2.3.2.4
च॒रुं यः का॒मये॑त॒ हिर॑ण्यं विन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति॒ यदाग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑न॒॒ हिर॑ण्यं नमति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं वि॒न्दत॑ ए॒ताम् [9]
2.3.2.5
ए॒व निर्व॑पे॒द्धिर॑ण्यं वि॒त्त्वा नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यत ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्यं॒ नश्ये॒द्यदाग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यां वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒तीन्द्रः॑ [10]
2.3.2.6
त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒त्स विष्व॒ङ्व्यार्च्छ॒त्स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्यार्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒त सो॑मे॒न्द्र श्या॑मा॒कं च॒रुन्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒य सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यः सोमं॒ वमि॑ति॒ यः सो॑मवा॒मी स्यात्तस्मै [11]
2.3.2.7
ए॒त सो॑मे॒न्द्र श्या॑मा॒कं च॒रुं निर्व॑पे॒त्सोमं॑ चै॒वेन्द्रं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒य सो॑मपी॒थं ध॑त्तो॒ नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते॒ यत्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्द्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑ [12]
2.3.2.8
सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे॒ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम् प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति वृ॒द्धानिन्द्रः॒ प्र य॑च्छति॒ दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒व प॒शूनव॑ रुन्द्धे पञ्चगृही॒तम्भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति बहुरू॒पा हि प॒शवः॑ [13]
2.3.2.9
समृ॑द्ध्यै प्राजाप॒त्यम्भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ।। [14]
2.3.3.0
तेजः॑ स॒मीची ब्रह्मवर्च॒स्ये॑व ग्राम॑काम॒स्त्रिच॑त्वारिशच्च ।।3।।
2.3.3.1
दे॒वा वै स॒त्त्रमा॑स॒तर्द्धि॑परिमितं॒ यश॑स्कामा॒स्तेषा॒॒ सोम॒॒ राजा॑नं॒ यश॑ आर्च्छ॒त्स गि॒रिमुदै॒त्तम॒ग्निरनूदै॒त्ताव॒ग्नीषोमौ॒ सम॑भवता॒न्ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जय॑त॒म्मेति॒ तस्मा॑ ए॒तामिष्टिं॒ निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपाल सौ॒म्यं च॒रुन्तयै॒वास्मि॒न्तेजः॑ [15]
2.3.3.2
इ॒न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ता॒य्योँ य॒ज्ञवि॑भ्रष्टः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपाल सौ॒म्यं च॒रुय्यँदाग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेनाग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षये॒त्तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सं च॑ स॒मीची [16]
2.3.3.3
द॒धा॒त्य॒ग्नी॒षो॒मीय॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्राह्म॒णः स सोम॑म्पिबति॒ स्वामे॒व दे॒वता॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्यग्नीषो॒मीय॑म॒ष्टाक॑पालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व [17]
2.3.3.4
भ॒व॒ति॒ यद॒ष्टाक॑पाल॒स्तेनाग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यः समृ॑द्ध्यै॒ सोमा॑य वा॒जिने श्यामा॒कं च॒रुं निर्व॑पे॒द्यः क्लैव्याद्बिभी॒याद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्याद्बिभाय॒ सोम॑मे॒व वा॒जिन॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒ वाजि॑नं दधाति॒ न क्ली॒बो भ॑वति ब्राह्मणस्प॒त्यमेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑कामः [18]
2.3.3.5
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान्प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः सजा॒तैरे॒वैनं॑ ग॒णव॑न्तं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त॒ ब्रह्म॒न्विशं॒ वि ना॑शयेय॒मिति॑ मारु॒ती याज्यानुवा॒क्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व विशं॒ वि ना॑शयति ।। [19]
2.3.4.0
ए॒व निरग्र॑मे॒तस्य॑ च॒त्वारि॑ च ।।4।।
2.3.4.1
अ॒र्य॒म्णे च॒रुं निर्व॑पेत्सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्योऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑ सुव॒र्गं लो॒कं ग॑मयत्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रित्य॒सौ वा आ॑दि॒त्योऽर्य॒मा यः खलु॒ वै ददा॑ति॒ सोऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒व [20]
2.3.4.2
अ॒स्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्योऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ निः [21]
2.3.4.3
अ॒व॒प॒त्तेनै॒वैन॒मग्रं॑ दे॒वता॑ना॒म्पर्य॑णयद्बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादे॒वैन॒मग्र॒म्पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्र॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्रम् [22]
2.3.4.4
परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै॒ यो ब्राह्म॒ण आ॑नुजाव॒रः स्यात्तस्मा॑ ए॒तम्बा॑ऱ्हस्प॒त्यमा॑नुषू॒कं च॒रुं निर्व॑पे॒द्बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्र॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्र॒म्परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै ।। [23]
2.3.5.0
ए॒वोपै॒तम॑स्मि॒न्त्रयो॑दश च ।।5।।
2.3.5.1
प्र॒जाप॑ते॒स्त्रय॑स्त्रिशद्दुहि॒तर॑ आस॒न्ताः सोमा॑य॒ राज्ञे॑ऽददा॒त्तासा॑ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्तीः॒ पुन॑रगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सोऽब्रवीदृ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त्ता अ॑स्मै॒ पुन॑रददा॒त्तासा॑ रोहि॒णीमे॒वोप॑ [24]
2.3.5.2
ऐ॒त्तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ता अ॑ब्रुव॒न्वरं॑ वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒तम् [25]
2.3.5.3
आ॒दि॒त्यं च॒रुं निर॑वप॒न्तेनै॒वैन॑म्पा॒पात्स्रामा॑दमुञ्च॒न््यः पा॑पय॒क्ष्मगृ॑हीतः॒ स्यात्तस्मा॑ ए॒तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ पा॒पात्स्रामान्मुञ्चन्त्यमावा॒स्या॑यां॒ निर्व॑पेद॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या अ॒॒शुमाप्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया प्याययति ।। [26]
2.3.6.0
पु॒रो॒डाश॒न्त्रय॒ष्षड्वि॑शतिश्च ।।6।।
2.3.6.1
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॒ व्यादि॑श॒त्सोऽब्रवी॒द्यदि॒माल्लोँ॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒माल्लोँ॒कान॒भ्यत्य॑रिच्य॒तेन्द्र॒॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्र॑ स्व॒राजा॑न॒न्ततो॒ वै स इ॒माल्लोँ॒कास्त्रे॒धादु॑ह॒त्तत्त्रि॒धातोस्त्रिधातु॒त्वय्यं का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाशम् [27]
2.3.6.2
एका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयं वा इन्द्रो॒ राजा॒यमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्रः॑ स्व॒राडि॒माने॒व लो॒कान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒त्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वमे॒वेमाल्लोँ॒कान्प्रत्ता॒न्काम॑म॒न्नाद्यं॑ दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्लोँ॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्यायान्भवत्ये॒वमि॑व॒ हीमे लो॒काः समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारव्व्यँ॒त्यास॒मन्वा॒हानि॑र्दाहाय ।। [28]
2.3.7.0
इ॒न्द्रि॒यका॑मस्सवि॒तुस्तेज॒स्तत्पु॑रो॒डाशो॒ऽष्टात्रि॑शच्च ।।7।।
2.3.7.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते दे॒वाः प॑राजिग्या॒ना असु॑राणां॒ वैश्य॒मुपा॑य॒न्तेभ्य॑ इन्द्रि॒यं वी॒र्य॑मपाक्राम॒त्तदिन्द्रो॑ऽचाय॒त्तदन्वपाक्राम॒त्तद॑व॒रुधं॒ नाश॑क्नो॒त्तद॑स्मादभ्य॒र्धो॑ऽचर॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तमे॒तया॒ सर्व॑पृष्ठयाऽयाजय॒त्तयै॒वास्मि॑न्निन्द्रि॒यं वी॒र्य॑मदधा॒द्य इ॑न्द्रि॒यका॑मः [29]
2.3.7.2
वी॒र्य॑कामः॒ स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ दधति॒ यदिन्द्रा॑य॒ राथं॑तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य॒ बाऱ्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तत् [30]
2.3.7.3
ए॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुतां॒ तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्ध ए॒ताव॑न्ति॒ वै तेजा॑सि॒ तान्ये॒वाव॑ रुन्द्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशः॑ [31]
2.3.7.4
भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑ सम॒न्तम्प॒र्यव॑द्यति सम॒न्तमे॒वेन्द्रि॒यं वी॒र्यं॑ यज॑माने दधाति व्य॒त्यास॒मन्वा॒हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तः सा दक्षि॑णा वृष॒त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः ।। [32]
2.3.8.0
वि ह्य॑ष्टावि॑शतिश्च ।।8।।
2.3.8.1
रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒ जान॑किं चक्षु॒र्वन्य॑मया॒त्तस्मा॑ ए॒तामिष्टिं॒ निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्तयै॒वास्मि॒ञ्चक्षु॑रदधा॒द्यश्चक्षु॑ष्कामः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि [33]
2.3.8.2
प॒श्य॒न्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति॒ यदाग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒ यत्सौ॒र्यो नासि॑कां॒ तेना॒भितः॑ सौ॒र्यमाग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते समा॒नी याज्यानुवा॒क्ये॑ भवतः समा॒न हि चक्षुः॒ समृ॑द्ध्या॒ उदु॒ त्यं जा॒तवे॑दस स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्प्र य॑च्छति॒ चक्षु॑रे॒वास्मै॒ प्र य॑च्छति॒ यदे॒व तस्य॒ तत् ।। [34]
2.3.9.0
स्वाहाम॑नमसि सजा॒ताना॑ रुन्द्धे॒ पञ्च॑ च ।।9।।
2.3.9.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हं का॑मये हृ॒दा ते मां का॑मयन्ता हृ॒दा तान्म॒ आम॑नसः कृधि॒ स्वाहाम॑नमसि [35]
2.3.9.2
आम॑नस्य देवा॒ याः स्त्रियः॒ सम॑नस॒स्ता अ॒हं का॑मये हृ॒दा ता मां का॑मयन्ता हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑ वैश्वदे॒वी साङ्ग्रह॒णीं निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति साङ्ग्रह॒णी भ॑वति मनो॒ग्रह॑णं॒ वै सं॒ग्रह॑ण॒म्मन॑ ए॒व स॑जा॒तानाम् [36]
2.3.9.3
गृ॒ह्णा॒ति॒ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्व॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वं वि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का याः स्त्रिय॒स्ताने॒वाव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ।। [37]
2.3.10.0
विश्वे॑षां दे॒वानां प्रा॒णो॑ऽसि त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सोम॒ आयु॑ष्मा॒न्पञ्च॑विशतिश्च ।।10।।
2.3.10.1
यन्नव॒मैत्तन्नव॑नीतमभव॒द्यदस॑र्प॒त्तत्स॒र्पिर॑भव॒द्यदध्रि॑यत॒ तद्घृ॒तम॑भवद॒श्विनोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां दे॒वानाम्प्रा॒णो॑ऽसि [38]
2.3.10.2
तस्य॑ ते ददतु॒ येषाम्प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑ । तत्त्वा॒ विष्णुः॒ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् । पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपा॒॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयोस्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत् [39]
2.3.10.3
सृ॒ज॒तु॒ जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒य रेतो॑ वरुण सोम राजन्न् । मा॒तेवास्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् । अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्राह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि ।। [40]
2.3.11.0
रस॑न्दे॒वाना॒॒ स्तोमे॒नेति॒ हिर॑ण्या॒दस॒दिति॒ द्वावि॑शतिश्च ।।11।।
2.3.11.1
अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒॒ रसो॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पाल सौ॒म्यं च॒रुं वा॑रु॒णं दश॑कपाल सारस्व॒तं च॒रुमाग्नावैष्ण॒वमेका॑दशकपालम॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रसम् [41]
2.3.11.2
वा॒रु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधात्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत्तन्नव॑नीतमभव॒दित्याज्य॒मवेक्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ऽश्विनोः प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानाम् [42]
2.3.11.3
भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षां दे॒वानाम्प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत्पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ [43]
2.3.11.4
आ॒ह॒ प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयोस्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्यात् [44]
2.3.11.5
घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृत॒॒ हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मान स्या॒त्समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्निरायु॑ष्मा॒निति॒ हस्तं॑ गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ।। [45]
2.3.12.0
मु॒ञ्च॒ति॒ च॒रु स॒प्तद॑श च ।।12।।
2.3.12.1
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनय॒त्स स्वां दे॒वता॑मार्च्छ॒त्स पर्य॑दीर्यत॒ स ए॒तं वा॑रु॒णं चतु॑ष्कपालमपश्य॒त्तं निर॑वप॒त्ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ योऽश्व॑म्प्रतिगृ॒ह्णाति॒ याव॒तोऽश्वान्प्रतिगृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति [46]
2.3.12.2
चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒ एक॒मति॑रिक्तं॒ निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यं वा॒ नाध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते॒ यद्यप॑रम्प्रतिग्रा॒ही स्यात्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वादि॒त्यमु॑च्चा॒रं कु॑रुते॒ऽपो॑ऽवभृ॒थमवैत्य॒प्सु वै वरु॑णः सा॒क्षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीयं॑ च॒रुम्पुन॒रेत्य॒ निर्व॑पेद॒प्सुयो॑नि॒र्वा अश्वः॒ स्वामे॒वैनं॒ योनिं॑ गमयति॒ स ए॑न शा॒न्त उप॑ तिष्ठते ।। [47]
2.3.13.0
ए॒तस्य॑ पय॒स्या॑याम्पाति॒ षड्वि॑शतिश्च ।।13।।
2.3.13.1
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममह॑सो मुञ्चत॒य्याँ वा॑मिन्द्रावरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममह॑सो मुञ्चत॒य्योँ वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ चतु॑ष्पात्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इन्द्रो॒ वा ए॒तस्य॑ [48]
2.3.13.2
इ॒न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒तः स्यात्तस्मा॑ ए॒तामैन्द्रावरु॒णीम्प॑य॒स्यां निर्व॑पे॒दिन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यं द॑धाति॒ वरु॑ण एनं वरुणपा॒शान्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति पय॒स्या॑याम् [49]
2.3.13.3
पु॒रो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैनं॑ करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑तु॒र्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ पुनः॒ समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति स॒मूह्याव॑ द्यति॒ यथावि॑द्धं निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैन॑म्पाति॒ यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ।। [50]
2.3.14.0
यु॒वव्वीँ॒तमा॒ विवा॑सति॒ पन्था॑नो दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार दे॒वा नव॑ च ।।14।।
2.3.14.1
स प्र॑त्न॒वन्नि काव्येन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ । त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सखा । या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्याँ पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः सु॒मना॒ अहे॑ड॒न्राजन्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः । यु॒वम् [51]
2.3.14.2
ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒व सिन्धू॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् । अग्नी॑षोमावि॒म सु मे॑ शृणु॒तं वृ॑षणा॒ हवम् । प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तं दा॒शुषे॒ मयः॑ । आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् । अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तम् [52]
2.3.14.3
हर्य॑तं वृषणा जु॒षेथाम् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः । आ प्या॑यस्व॒ सं ते । ग॒णानां त्वा ग॒णप॑ति हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति [53]
2.3.14.4
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिम् । स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒ल रु॑रोज फलि॒ग रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् । मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ । अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नाम्पुरुहू॒तो अऱ्हन्न्॑ । स॒ह॒स्रा॒क्षो गोत्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु । ये तेऽर्यमन्ब॒हवो॑ देव॒यानाः॒ पन्था॑नः [54]
2.3.14.5
रा॒ज॒न्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे । बु॒ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृहि॒तान्यै॑रत् । रु॒जद्रोधा॑सि कृ॒त्रिमाण्येषा॒॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार । बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनाम् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ।। [55]
2.3.14.6
प्र यो ज॒ज्ञे वि॒द्वा अ॒स्य बन्धुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्यान्नी॒चादु॒च्चा स्व॒धया॒भि प्र त॑स्थौ । म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्या सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒ध्नादाष्ट ज॒नुषा॒भ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् । बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लं वि पुरो॑ दर्दरीति॒ कनि॑क्रद॒त्सुव॑र॒पो जि॑गाय ।। [56]
2.4.0.0
दे॒वा म॑नु॒ष्या॑ देवासु॒रा अ॑ब्रुवन्देवासु॒रास्तेषाङ्गाय॒त्री प्र॒जाप॑ति॒स्ता यत्राग्ने॒ गोभि॑श्चि॒त्रया॑ मारु॒तन्देवा॑ वसव्या॒ अग्ने॑ मारु॒तमिति॒ देवा॑ वसव्या॒ देवाश्शर्मण्या॒स्त्वष्टा॑ ह॒तपु॑त्रो दे॒वा वै रा॑ज॒न्यान्नवो॑नव॒श्चतु॑र्दश ।।14।। दे॒वा म॑नु॒ष्याः प्र॒जाम्प॒शून्देवा॑ वसव्याः परिद॒ध्यादि॒दमस्म्य॒ष्टाच॑त्वारिशत् ।।48।। दे॒वा म॑नु॒ष्या॑ मादयध्वम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे चतुर्थः प्रश्नः ।।
2.4.1.0
वृ॒णा॒म॒है॒ यत्पु॒रस्ता॒द्रक्षा॑सि वपेद॒ग्नये॑ विबा॒धव॑त ए॒वञ्च॒त्वारि॑ च ।।1।।
2.4.1.1
दे॒वा म॑नु॒ष्याः पि॒तर॒स्तेऽन्यत॑ आस॒न्नसु॑रा॒ रक्षा॑सि पिशा॒चास्तेऽन्यत॒स्तेषान्दे॒वाना॑मु॒त यदल्पं॒ लोहि॑त॒मकु॑र्व॒न्तद्रक्षा॑सि॒ रात्री॑भिरसुभ्न॒न्तान्त्सु॒ब्धान्मृ॒तान॒भि व्यौच्छ॒त्ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयम्म्रि॒यते॒ रक्षा॑सि॒ वा इ॒मं घ्न॒न्तीति॒ ते रक्षा॒॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्वरं॑ वृणामहै॒ यत् [1]
2.4.1.2
असु॑रा॒ञ्जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न्तेऽसु॑राञ्जि॒त्वा रक्षा॒॒स्यपा॑नुदन्त॒ तानि॒ रक्षा॒॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तं दे॒वान्पर्य॑विश॒न्ते दे॒वा अ॒ग्नाव॑नाथन्त॒ तेऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न््यान्ये॒व पु॒रस्ता॒द्रक्षा॑सि [2]
2.4.1.3
आस॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षा॒॒स्यास॒न्तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रक्षा॒॒स्यास॒न्तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते [3]
2.4.1.4
अ॒ग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तं तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तं तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तं तेनाप॑ नुदते॒ प्र श्रेया॑स॒म्भ्रातृ॑व्यं नुद॒तेऽति॑ स॒दृशं॑ क्रामति॒ नैन॒म्पापी॑यानाप्नोति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते ।। [4]
2.4.2.0
इ॒न्द्रि॒याव॑ती॒ भूत्या॑ उ॒तैका॒न्नप॑ञ्चा॒शच्च॑ ।।2।।
2.4.2.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॑ब्रुव॒न््यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒न्त्वं वै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सोऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यम॑हो॒मुगि॒यं वि॑मृ॒धेयमि॑न्द्रि॒याव॑ती [5]
2.4.2.2
इत्य॑ब्रवी॒त्त इन्द्रा॑याहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याहो॒मुचे॑ नि॒रव॑प॒न्नह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापाघ्नत॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत॒ त्रय॑स्त्रिशत्कपालम्पुरो॒डाशं॒ निर॑वप॒न्त्रय॑स्त्रिश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत॒ भूत्यै [6]
2.4.2.3
तां वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑याहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ यदिन्द्रा॑याहो॒मुचे॑ नि॒र्वप॒त्यह॑स ए॒व तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मात्समा॒नेष्व॒न्यः श्रेया॑नु॒त [7]
2.4.2.4
अभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्ध॑त्ते॒ त्रय॑स्त्रिशत्कपालम्पुरो॒डाशं॒ निर्व॑पति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑म्भयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ।। [8]
2.4.3.0
बल॑मस्ये॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्वीँ॒र्य॑म्पञ्च॑चत्वारिशच्च ।।3।।
2.4.3.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेषां गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्त्सं॒गृह्या॒दाया॑प॒क्रम्या॑तिष्ठ॒त्ते॑ऽमन्यन्त यत॒रान््वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तां व्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राश्च॒ नोपाव॑र्तत॒ ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि [9]
2.4.3.2
भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत॒ यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः सव्वँत्स॒रो वै गा॑य॒त्री सं॑वत्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्यम् [10]
2.4.3.3
प्र॒जाम्प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ता सं॑व॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ संव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्त शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति ।। [11]
2.4.4.0
व॒पे॒त्प्र॒जाप॑ति॒व्वैँ दधा॑ति पू॒षा त्रीणि॑ च ।।4।।
2.4.4.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाः परा॑चीराय॒न्ता यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता बृह॒स्पति॑श्चा॒न्ववै॑ता॒॒ सोऽब्रवी॒द्बृह॒स्पति॑र॒नया त्वा॒ प्र ति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॒ तम्प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात्तस्मा॑ ए॒तम्प्रा॑जाप॒त्यं गार्मु॒तं च॒रुं निर्व॑पेत्प्र॒जाप॑तिम् [12]
2.4.4.2
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै प्र॒जाम्प्र ज॑नयति प्र॒जाप॑तिः प॒शून॑सृजत॒ तेऽस्मात्सृ॒ष्टाः पराञ्च आय॒न्ते यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्तान्पू॒षा चा॒न्ववै॑ता॒॒ सोऽब्रवीत्पू॒षानया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति॒ माम्प्र ति॒ष्ठेति॒ सोमोऽब्रवी॒न्मम॒ वै [13]
2.4.4.3
अ॒कृ॒ष्ट॒प॒च्यमित्यु॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवी॒त्तौ प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑मः॒ स्यात्तस्मा॑ ए॒त सो॑मापौ॒ष्णं गार्मु॒तं च॒रुं निर्व॑पेत्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून्प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्र ज॑नयति ।। [14]
2.4.5.0
अ॒मृत॑म॒ष्टात्रि॑शच्च ।।5।।
2.4.5.1
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ।। स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ।। धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ।। त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ।। येन॑ दे॒वा अ॒मृतम् [15]
2.4.5.2
दी॒र्घ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां कु॒ल्मिं जी॒वस॒ आ यु॑वस्व । अ॒ग्निर्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा । अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्यात्प॒थो मा यो॑षं मू॒र्धा भू॑यास॒॒ स्वाहा ।। [16]
2.4.6.0
अ॒स्मै॒ त ए॒व द्वाद॑श च ।।6।।
2.4.6.1
चि॒त्रया॑ यजेत प॒शुका॑म इ॒यं वै चि॒त्रा यद्वा अ॒स्यां विश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यं चि॒त्रा य ए॒वं वि॒द्वाश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ प्रैवाग्ने॒येन॑ वापयति॒ रेतः॑ सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ भ॑वत ए॒तद्वै दैव्य॑म्मिथु॒नं दैव्य॑मे॒वास्मै [17]
2.4.6.2
मि॒थु॒नम्म॑ध्य॒तो द॑धाति॒ पुष्ट्यै प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपैत्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒न स॒प्तैतानि॑ ह॒वीषि॑ भवन्ति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्या॒ अथै॒ता आहु॑तीर्जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टिं॑ दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ।। [18]
2.4.7.0
पू॒र्तिरा॒वृद्द्विच॑त्वारिशच्च ।।7।।
2.4.7.1
मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपां धाराम्भिन्द्धि र॒मय॑त मरुतः श्ये॒नमा॒यिन॒म्मनो॑जवसं॒ वृष॑ण सुवृ॒क्तिम् । येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्त स्व॒स्ति । पु॒रो॒वा॒तो वऱ्ष॑ञ्जि॒न्वरा॒वृत्स्वाहा॑ वा॒ताव॒द्वऱ्ष॑न्नु॒ग्ररा॒वृत्स्वाहा स्त॒नय॒न्वऱ्ष॑न्भी॒मरा॒वृत्स्वाहा॑नश॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वऱ्ष॑न्त्वे॒षरा॒वृत्स्वाहा॑तिरा॒त्रं वऱ्ष॑न्पू॒र्तिरा॒वृत् [19]
2.4.7.2
स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृत्स्वाहा॒तप॑ति॒ वऱ्ष॑न्वि॒राडा॒वृत्स्वाहा॑व॒स्फूर्ज॑न्दि॒द्युद्वऱ्ष॑न्भू॒तरा॒वृत्स्वाहा॒ मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑तीः॒ सुफे॑नाः । मित्र॑भृतः॒ क्षत्र॑भृतः॒ सुराष्ट्रा इ॒ह मा॑ऽवत । वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ।। [20]
2.4.8.0
य॒न्ति॒ दे॒वा वि॑शति॒श्च॑ ।।8।।
2.4.8.1
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः शर्मण्या॒ मित्रा॑वरुणार्यमन्न् । देवाः सपीत॒योऽपां नपादाशुहेमन्न् । उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत । दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॒थि॒वीं यद्व्यु॒न्दन्ति॑ । आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति [21]
2.4.8.2
वृ॒ष्टयः॑ । उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑ऱ्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत । सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम्पृ॑ण । अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रियम् । उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृतिम् । ये दे॒वा दि॒विभा॑गा॒ येऽन्तरि॑क्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मं य॒ज्ञम॑वन्तु॒ त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ।। [22]
2.4.9.0
अ॒ष्टौ भव॑न्ति नाम॒धेयै॒रैका॒न्नत्रि॒॒शच्च॑ ।।9।।
2.4.9.1
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं वासः॑ कृ॒ष्णतू॑ष॒म्परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒प सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वऱ्षयति र॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒ऱ्षस्याव॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वऱ्षयत्य॒ष्टौ [23]
2.4.9.2
जु॒हो॒ति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टि॒॒ सम्प्र च्या॑वयति कृष्णाजि॒ने सं यौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सं यौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नाना शी॒ऱ्षाणि॒ परा॑पत॒न्ते ख॒र्जूरा॑ अभव॒न्तेषा॒॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क॒रीराण्यभवन्त्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति [24]
2.4.9.3
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे॒ मधु॑षा॒ सं यौत्य॒पां वा ए॒ष ओष॑धीना॒॒ रसो॒ यन्मध्व॒द्भ्य ए॒वौष॑धीभ्यो वऱ्ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टिं॒ नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सं यौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा ब्रू॒यादसा॒वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा [25]
2.4.9.4
च्या॒व॒य॒ति॒ वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑ऱ्षति रू॒पेणै॒वैन॒॒ सम॑र्धयति व॒ऱ्षस्याव॑रुद्ध्यै ।। [26]
2.4.10.0
अ॒स्मै॒ धा॒व॒ति॒ ता वा एक॑विशतिश्च ।।10।।
2.4.10.1
देवा॑ वसव्या॒ देवाः शर्मण्या॒ देवाः सपीतय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्व॒हं वृष्टि॑मिच्छति॒ यदि॒ वऱ्षे॒त्ताव॑त्ये॒व हो॑त॒व्य॑य्यँदि॒ न वऱ्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वऱ्षति॒ नक्तं॑ वा॒ हि दिवा॑ वा॒ वऱ्ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै [27]
2.4.10.2
अ॒हो॒रा॒त्राभ्याम्प॒र्जन्यं॑ वऱ्षयतो॒ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मारु॒त स॒प्तक॑पाल सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टां न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑ वऱ्षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑ऱ्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताः [28]
2.4.10.3
ए॒वास्मै॑ प॒र्जन्यं॑ वऱ्षयन्त्यु॒ताव॑ऱ्षिष्य॒न्वऱ्ष॑त्ये॒व सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम्पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पः सम॑र्धय॒त्यथो॑ आ॒भिरे॒वामूरच्छैत्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतदुन्न॑म्भय पृथि॒वीमिति॑ वऱ्षा॒ह्वां जु॑होत्ये॒षा वा ओष॑धीनां वृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ।। [29]
2.4.11.0
जग॑त्याऽभि॒चर॒न्त्सर्वो॒ वै ग॑च्छति य॒ज्ञस्तेज॑ ए॒व त्रि॒॒शच्च॑ ।।11।।
2.4.11.1
सर्वा॑णि॒ छन्दा॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑ यत्क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दा॒॒स्यव॑ रुन्द्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒ यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि॒ यज्जग॑त्या [30]
2.4.11.2
प॒रि॒द॒ध्यादन्तं॑ य॒ज्ञं ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यं वै वी॒र्यं॑ त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वेभ्यो॒ हि कामेभ्यो य॒ज्ञः प्र॑यु॒ज्यते त्रैधात॒वीये॑न यजेताभि॒चर॒न्त्सर्वो॒ वै [31]
2.4.11.3
ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒॒ सर्वे॑णै॒वैनं॑ य॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चरन्त्स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ वा ए॒ष प॑शू॒नां ग॑च्छति [32]
2.4.11.4
यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ता स्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वं वि॒द्वास्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैनान्त्सृजत॒ उपै॑न॒मुत्त॑र स॒हस्रं॑ नमति दे॒वताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञः [33]
2.4.11.5
यत्त्रै॑धात॒वीय॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालास्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्यायान्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒प समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कार॒॒ हिर॑ण्यं ददाति॒ तेज॑ ए॒व [34]
2.4.11.6
अव॑ रुन्द्धे ता॒र्प्यं द॑दाति प॒शूने॒वाव॑ रुन्द्धे धे॒नुं द॑दात्या॒शिष॑ ए॒वाव॑ रुन्द्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्य॒य्यँजु॑षां ता॒र्प्यमु॑क्थाम॒दानां धे॒नुरे॒ताने॒व सर्वा॒न््वर्णा॒नव॑ रुन्द्धे ।। [35]
2.4.12.0
प्र॒व॒णव्विँष्णु॒र्वा इ॒दमि॒दम॒हय्योँ भ॑व॒त्येक॑विशतिश्च ।।12।।
2.4.12.1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमैच्छत॒ तं नोपाह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वः प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त्प्रव॒णम् [36]
2.4.12.2
आसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्र॒व्विँष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तऱ्हि॒ विष्णुः॑ [37]
2.4.12.3
अ॒न्या दे॒वता॑सी॒त्सोऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38]
2.4.12.4
मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [39]
2.4.12.5
मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒हम् [40]
2.4.12.6
इ॒दमस्मि॒ तत्ते॒ प्र दास्या॒मीति॒ त्वी (३) इत्य॑ब्रवीत्स॒न्धान्तु सं द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्माम्प्र॑वि॒शेः किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवी॒त्तव्वृँ॒त्रः प्रावि॑शदु॒दरं॒ वै वृ॒त्रः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यः [41]
2.4.12.7
ए॒वं वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त्त्रिः प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातोस्त्रिधातु॒त्वय्यँद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैन्द्रावैष्ण॒व ह॒विर्भ॑वति॒ यद्वा इ॒दं किं च॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृचः॒ सामा॑नि॒ यजू॑षि स॒हस्रं॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्मात्स॒हस्र॑दक्षिणम् ।। [42]
2.4.13.0
ए॒न॒न्द्वाद॑श च ।।13।।
2.4.13.1
दे॒वा वै रा॑ज॒न्याज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्तं॒ दाम्नापौम्भ॒न्त्स वा ए॒षोऽपोब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान्घ्नश्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान्घ्नश्च॑रे॒दिति॒ तस्मा॑ ए॒तमैन्द्राबाऱ्हस्प॒त्यं च॒रुं निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान्मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा सा॒क्षादे॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ।। [43]
2.4.14.0
तदीशा॑न॒मद्रि॑स्त॒स्थुष॑स्त्रि॒॒शच्च॑ ।।14।।
2.4.14.1
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां के॒तुरु॒षसा॑मे॒त्यग्रे । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमास्तिरति दी॒र्घमायुः॑ । यमा॑दि॒त्या अ॒॒शुमाप्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः । प्राच्यां दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदीच्यां वृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्तत् [44]
2.4.14.2
जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ । इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथास॑त् । अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगूर्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य । अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम् [45]
2.4.14.3
अ॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ । त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः । यद्द्याव॑ इन्द्र ते श॒त श॒तम्भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्त्स॒हस्र॒॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी । पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ । [46]
2.4.14.4
सो॒तुर्बा॒हुभ्या॒॒ सुय॑तो॒ नार्वा । रे॒वतीर्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म । उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दस स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुषः॑ [47]
2.4.14.5
च॒ । विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑ऱ्हवन॒श्रुतः॑ । जु॒षन्तां॒ युज्य॒म्पयः॑ । विश्वे॑ देवाः शृणु॒तेम हव॑म्मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒ऱ्हिषि॑ मादयध्वम् ।। [48]
2.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे पञ्चमः प्रश्नः ।।
2.5.0.0
वि॒श्वरू॑प॒स्त्वष्टेन्द्रं॑ वृ॒त्रम्ब्र॑ह्मवा॒दिनः॒ स त्वै नासो॑मयाज्ये॒ष वै दे॑वर॒थो दे॒वा वै नर्चि नाय॒ज्ञोऽग्ने॑ म॒हान्त्रीन्निवी॑त॒मायु॑ष्टे॒ द्वाद॑श ।। 12 ।। वि॒श्वरू॑पो॒ नैन॑ शीतरू॒राव॒द्य वसु॑ पूर्वे॒द्युर्वाजा॒ इत्यग्ने॑ म॒हान्निवी॑तम॒न्या यन्ति॒ चतुः॑सप्ततिः ।।74।। वि॒श्वरू॒पोऽनु॑ ते दायि ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.5.1.0
यत्सो॑म॒पान॑न्ते वृ॒क्णात्तस्य॒ नाश्य॑व्वँदेत॒ मारु॑को॒ याऽख॑र्वेण वा॒ त्रीणि॑ च ।।1।।
2.5.1.1
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीत्स्व॒स्रीयोऽसु॑राणा॒न्तस्य॒ त्रीणि॑ शी॒ऱ्षाण्या॑सन्त्सोम॒पान॑ सुरा॒पान॑म॒न्नाद॑न॒॒ स प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोक्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यक्ष॑म्भा॒गं व॑दन्ति॒ यस्मा॑ ए॒व प॒रोक्षं॒ वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रं वि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒ऱ्षाण्य॑च्छिन॒द्यत्सो॑म॒पानम् [1]
2.5.1.2
आसी॒त्स क॒पिञ्ज॑लोऽभव॒द्यत्सु॑रा॒पान॒॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑न॒॒ स ति॑त्ति॒रिस्तस्याञ्ज॒लिना ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ता सं॑वत्स॒रम॑बिभ॒स्तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॒ साब्र॑वी॒द्वरं॑ वृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते [2]
2.5.1.3
सं॒व॒त्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त्तस्मात्पु॒रा सं॑वत्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृत॒॒ ह्य॑स्यै॒ तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त्तत्स्वकृ॑त॒मिरि॑णमभव॒त्तस्मा॒दाहि॑ताग्निः श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒ स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ तेऽब्रुव॒न्वरं॑ वृणामहै वृ॒क्णात् [3]
2.5.1.4
प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूया॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त्तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूया॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒॒ ह्ये॑षा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्स नि॑र्या॒सो॑ऽभव॒त्तस्मान्निर्या॒सस्य॒ नाश्य॑म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्यम् [4]
2.5.1.5
काम॑म॒न्यस्य॒ स स्त्री॑षसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरं॑ वृणामहा॒ ऋत्वि॑यात्प्र॒जां वि॑न्दामहै॒ काम॒मा विज॑नितोः॒ सम्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒त्स्त्रियः॑ प्र॒जां वि॑न्दन्ते॒ काम॒मा विज॑नितोः॒ सम्भ॑वन्ति॒ वारे॑वृत॒॒ ह्या॑सा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्सा मल॑वद्वासा अभव॒त्तस्मा॒न्मल॑वद्वाससा॒ न सं व॑देत [5]
2.5.1.6
न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒ याम्मल॑वद्वासस स॒म्भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै स्ते॒नो याम्परा॑चीं॒ तस्यै ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या [6]
2.5.1.7
अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै श्या॒वद॒न््या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै क्ली॒बो या रज्जु॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्रीर्व्र॒तं च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ।। [7]
2.5.2.0
अ॒स्य॒ मा वेदा द्यावा॑पृथि॒व्योर॑ब्रवी॒दिति॒ तस्माच्च॒त्वारि॑ च ।।2।।
2.5.2.1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमैच्छत॒ तं नोपाह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वय्यँदब्र॑वी॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ तस्मा॑दस्य [8]
2.5.2.2
इन्द्रः॒ शत्रु॑रभव॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द् यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्र॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [9]
2.5.2.3
प्र हा॑रा॒वम॒न्तः स्व॒ इति॒ मम॒ वै यु॒व स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒न्ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒- मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छ॒त्ताव॑ब्रूताम॒भि संद॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मनः॑ शीतरू॒राव॑जनय॒त्तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒व शी॑तरू॒रयो॒र्जन्म॒ वेद॑ [10]
2.5.2.4
नैन॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒त्तस्माज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम्प्राणापा॒नौ वा ए॑नं॒ तद॑जहिताम् प्रा॒णो वै दक्षो॑ऽपा॒नः क्रतु॒स्तस्माज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दक्षक्र॒तू इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒ऱ्हूय॒ वार्त्र॑घ्न ह॒विः पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑स॒ आ [11]
2.5.2.5
अ॒मा॒वा॒स्या॑याम्प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनूच्येते॒ वृध॑न्वती अमावा॒स्या॑या॒न्तत्स॒॒स्थाप्य॒ वार्त्र॑घ्न ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूता॒व्वँरं॑ वृणावहै॒ नक्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्रवि॑हिता॒ऽहमिती॒यन्तस्मा॒न्नक्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यय्यँ ए॒वं द्यावा॑पृथि॒व्योः [12]
2.5.2.6
वरं॒ वेदैनं॒ वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्र ह॒त्वाऽग्नीषोमा॑वब्रुवऩ््ह॒व्यं नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ तेऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति॒ साऽब्र॑वीत् [13]
2.5.2.7
वरं॑ वृणै॒ मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त्तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तत्सोम॑स्य॒ यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेन्द्रं॑ ज्ये॒ष्ठम्पु॒त्रं नि॒रवा॑सायय॒दिति॒ तस्माज्ज्ये॒ष्ठम्पु॒त्रं धने॑न नि॒रव॑साययन्ति ।। [14]
2.5.3.0
दधि॑ मे ज॒घ्नुष॑ इन्द्रि॒यव्वीँ॒र्य॑मित्य॑ब्रवीदे॒तद॑स्मा अव॒देय॑न्तनक्ति नो॒ द्विच॑त्वारिशच्च ।।3।।
2.5.3.1
इन्द्रं॑ वृ॒त्रं ज॑घ्नि॒वास॒म्मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं वै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त्तं निर॑वप॒त्तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हत॒ इन्द्रो॑ वृ॒त्र ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्यार्ध्यत॒ स ए॒तमाग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यदै॒न्द्रं दधि॑ [15]
2.5.3.2
तं निर॑वप॒त्तेन॒ वै स दे॒वताश्चेन्द्रि॒यं चावा॑रुन्द्ध॒ यदाग्ने॒योऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑त्यै॒न्द्रं दधि॑ दे॒वताश्चै॒व तेनेन्द्रि॒यं च॒ यज॑मा॒नोऽव॑ रुन्द्ध॒ इन्द्र॑स्य वृ॒त्रं ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्य॑म्पृथि॒वीमनु॒ व्यार्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्यम् [16]
2.5.3.3
पृ॒थि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ सं न॑य॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्त्सम॑नय॒न्तत्प्रत्य॑दुह॒न््यत्स॒मन॑य॒न्तत्सान्ना॒य्यस्य॑ सान्नाय्य॒त्वं यत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषः॑ प्रतिधु॒क्त्व सम॑नैषुः॒ प्रत्य॑धुक्ष॒न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [17]
2.5.3.4
शृ॒तं कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निन्द्रि॒यं वावास्मि॑न्वी॒र्यं॑ तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्व सम॑नैषुः॒ प्रत्य॑धुक्षञ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नः पूर्व॑स्याव॒देयम् [18]
2.5.3.5
दधि॒ हि पूर्वं॑ क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकैर्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्यात्सौ॒म्यं तद्यत्क्व॑लै राक्ष॒सं तद्यत्त॑ण्डु॒लैर्वैश्वदे॒वं तद्यदा॒तञ्च॑नेन मानु॒षं तद्यद्द॒ध्ना तत्सेन्द्रं॑ द॒ध्ना त॑नक्ति [19]
2.5.3.6
से॒न्द्र॒त्वायाग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ संत॑त्या॒ इन्द्रो॑ वृ॒त्र ह॒त्वा पराम्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्त्सोऽब्रवीत्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॒ तम्पि॒तरोऽन्व॑विन्द॒न्तस्मात्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्याम्प्रत्याग॑च्छ॒त्तं दे॒वा अ॒भि सम॑गच्छ॒न्तामा वै नः॑ [20]
2.5.3.7
अ॒द्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानां॒ वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑ सान्ना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रं॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ।। [21]
2.5.4.0
ए॒तान्तदौदु॑म्बर॒॒ स्वा त्रि॒॒शच्च॑ ।।4।।
2.5.4.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒ सेन्द्र॑ ऐ॒न्द्रं दध्य॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वःश्वोऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ताम् [22]
2.5.4.2
इष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपाल॒॒ सर॑स्वत्यै च॒रु सर॑स्वते च॒रुं ताम्पौर्णमा॒स स॒॒स्थाप्यानु॒ निर॑वप॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स पौर्णमा॒स स॒॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत्पौर्णमा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्याग्नावैष्ण॒वेन॑ दे॒वताश्च य॒ज्ञं च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान्प॒शून्त्सा॑रस्व॒ताभ्यां॒ याव॑दे॒वास्यास्ति॒ तत् [23]
2.5.4.3
सर्वं॑ वृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्या॑ ह॒त्वा भ्रातृ॑व्यं॒ ना प्या॑ययति साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददात्य॒न्यस्मै॑ मह॒ता पू॒र्ण हो॑त॒व्य॑न्तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदु॑म्बरम् [24]
2.5.4.4
भ॒व॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे॒ नाग॑तश्रीर्महे॒न्द्रं य॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषाम्महे॒न्द्रो दे॒वता॒ यो वै स्वां दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म्प्राप्नो॑ति॒ पापी॑यान्भवति संवत्स॒रमिन्द्रं॑ यजेत संवत्स॒र हि व्र॒तं नाति॒ स्वा [25]
2.5.4.5
ए॒वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे॒ वसी॑यान्भवति संवत्स॒रस्य॑ प॒रस्ता॑द॒ग्नये व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् संवत्स॒रमे॒वैनं॑ वृ॒त्रं ज॑घ्नि॒वास॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ कामं॑ यजेत ।। [26]
2.5.5.0
च॒न्द्रमा॒ द्वे दे॑वलो॒कमे॒व यद्य॒ज्ञं प॑ल्पूलयेयु॒ष्षट्च॑ ।।5।।
2.5.5.1
नासो॑मयाजी॒ सं न॑ये॒दना॑गतं॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी सं॒नयेत्परिमो॒ष ए॒व सोऽनृ॑तं करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सं न॑ये॒त्पयो॒ वै सोमः॒ पयः॑ सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते॒ वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यं॒ यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ताच्च॒न्द्रमाः [27]
2.5.5.2
अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान््वि भ॑जे॒द्ये म॑ध्य॒माः स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धश्च॒रुय्येँऽणि॑ष्ठा॒स्तान््विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्र य॑च्छति य॒ज्ञो वै विष्णुः॑ प॒शवः॒ शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति॒ न द्वे [28]
2.5.5.3
य॒जे॒त॒ यत्पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट्कु॑र्या॒द्यदुत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भोऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्द्ध इ॑न्द्रि॒यमुत्त॑रया देवलो॒कमे॒व [29]
2.5.5.4
पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपैत्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सं न॑येन्मैत्रावरु॒ण्याऽऽ- मिक्ष॑यामावा॒स्या॑यां यजेत पू॒र्णमा॑से॒ वै दे॒वाना॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑त॒स्तेषाम्मैत्रावरु॒णी व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑ यत् [30]
2.5.5.5
पू॒र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒त्सान॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व सम्मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्या सम्पा॑दयति॒ स ए॒तम॑र्धमा॒स स॑ध॒मादं॑ दे॒वैः सोम॑म्पिबति॒ यन्मैत्रावरु॒ण्यामि॑क्षयामावा॒स्या॑यां॒ यज॑ते॒ यैवासौ दे॒वानां व॒शानू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑ सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षां य॒ज्ञम् [31]
2.5.5.6
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒ऱ्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद्व्र॒तं नानृ॑तं वदे॒न्न मा॒॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासः॑ पल्पूलयेयुरे॒तद्धि दे॒वाः सर्वं॒ न कु॒र्वन्ति॑ ।। [32]
2.5.6.0
प॒श्य॒ति॒ ताभ्या॒मह॑रैदसाव॒ फल॑ स॒प्त च॑ ।।6।।
2.5.6.1
ए॒ष वै दे॑वर॒थो यद्द॑र््शपूर्णमा॒सौ यो द॑र््शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परू॑षि संवत्स॒रस्य॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॒तेऽङ्गा॒परू॑ष्ये॒व सं॑वत्स॒रस्य॒ प्रति॑ दधात्ये॒ते वै सं॑वत्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं लो॒कमनु॑ पश्यति [33]
2.5.6.2
ए॒षा वै दे॒वानां॒ विक्रान्ति॒र्यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रान्ति॒मनु॒ वि क्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्त स॒मारो॑हत्ये॒तौ वै दे॒वाना॒॒ हरी॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वाना॒॒ हरी॒ ताभ्याम् [34]
2.5.6.3
ए॒वैभ्यो॑ ह॒व्यं व॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्धा॒नी यो द॑र््शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रं जु॑होति॒ यज॑ते दर््शपूर्णमा॒सावह॑रहऱ्हविर्धा॒निना॑ सु॒तो य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बऱ्हि॒ष्यं॑ द॒त्तम्भ॑वति दे॒वा वा अहः॑ [35]
2.5.6.4
य॒ज्ञियं॒ नावि॑न्द॒न्ते द॑र््शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒ स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरि॑न्द्रियः स्या॒त्सोम॑स्य॒ वै राज्ञोऽर्धमा॒सस्य॒ रात्र॑यः॒ पत्न॑य आस॒न्तासा॑ममावा॒स्यां च पौर्णमा॒सीं च॒ नोपैत् [36]
2.5.6.5
ते ए॑नम॒भि सम॑नह्येता॒न्तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्त- त्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूता॒व्वँरं॑ वृणावहा आ॒वं दे॒वानाम्भाग॒धे अ॑साव [37]
2.5.6.6
आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मात्स॒दृशी॑ना॒॒ रात्री॑णाममावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वानाम्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑ भू॒तानि॒ क्षुध॑मघ्नन्त्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संवत्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते संवत्स॒रे वन॒स्पत॑यः॒ फलं॑ गृह्णन्ति॒ य ए॒वं वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्यम् ।। [38]
2.5.7.0
ब॒र््सव्वोँ॑ जायन्ते॒ प्र वो॒ वाजा॑ लभेत दधाति॒ सन्दश॑ च ।।7।।
2.5.7.1
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिं क॑रोति॒ सामै॒वाक॒र््हिं क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिं क॑रोति वा॒च ए॒वैष योगो॒ हिं क॑रोति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माय्यँ॒ज्ञस्यै॒व तद्ब॒ऱ्सम् [39]
2.5.7.2
न॒ह्य॒त्यप्र॑स्रसाय॒ संत॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ राथं॑तरीम्प्रथ॒मामन्वा॑ह॒ राथं॑तरो॒ वा अ॒यं लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बाऱ्ह॑तीमुत्त॒मामन्वा॑ह॒ बाऱ्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वः॑ [40]
2.5.7.3
वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ प्र वो॒ वाजा॒ इत्या॑न्वाह॒ तस्मात्प्रा॒चीन॒॒ रेतो॑ धीय॒तेऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मात्प्र॒तीचीः प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजाः [41]
2.5.7.4
इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानः सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामाव॑ रुन्द्धे॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ संत॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत [42]
2.5.7.5
प्रा॒णेनै॒वास्या॑पा॒नं दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्नि सा॑मिधे॒नीनां॒ वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुतेऽर्ध॒र्चौ सं द॑धात्ये॒ष वा अ॑र॒त्निः सा॑मिधे॒नीना॒य्यँ ए॒वं वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुत॒ ऋषेर््॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यत्सा॑मिधे॒न्य॑स्ता यदसं॑युक्ताः॒ स्युः प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ संद॑धाति॒ सं यु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ संयु॑क्ता॒ अव॑रुद्धाः॒ सर्वा॑मा॒शिषं॑ दुह्रे ।। 43 ।।
2.5.8.0
अशान्तावाह॒ पञ्च॑दशाब्रवी॒दन्वा॑है॒तया॑ वरिष्यते॒ मामेका॒न्नत्रि॒॒शच्च॑ ।।8।।
2.5.8.1
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथंत॒रस्यै॒ष वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तत्साम॑न्वन्तं करोत्य॒ग्निर॒मुष्मि॑ल्लोँ॒क आसी॑दादि॒त्योऽस्मिन्तावि॒मौ लो॒कावशान्तौ [44]
2.5.8.2
आ॒स्ता॒न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्लोँ॒केऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑ल्लोँ॒क आ॑दि॒त्यन्ततो॒ वा इ॒मौ लो॒काव॑शाम्यता॒य्यँदे॒वम॒न्वाहा॒नयोर्लो॒कयोः॒ शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वं वेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश [45]
2.5.8.3
वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वत्स॒र आप्यते॒ तासां॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीः संवत्स॒रस्य॒ रात्र॑योऽक्षर॒श ए॒व सं॑वत्स॒रमाप्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रेऽग्निं ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒त्स धू॒मम॑जनय॒त्परु॑च्छेपो॒ऽभ्य॑वद॒त्सोऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवीत् [46]
2.5.8.4
यत्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहं वर्णं॑ वे॒देत्य॑ब्रवी॒द्यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑सां॒ वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒ यदृचः॒ स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒ यत्सा॑मिधे॒न्यो॑ वृष॑ण्वती॒मन्वा॑ह [47]
2.5.8.5
तेन॒ पुस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वानां दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ता॒॒ स प्र॒जाप॑तिर॒ग्निं दू॒तं वृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑वन्प॒रासु॑रा॒ यस्यै॒वं वि॒दुषो॒ऽग्निं दू॒तं वृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्यध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया [48]
2.5.8.6
ध्व॒र॒ति॒ शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिःपरि॒धि स्कन्द॑ति ता॒दृगे॒व तत्त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां कव्य॒वाह॑नः पितृ॒णा स॒हर॑क्षा॒ असु॑राणा॒न्त ए॒तऱ्ह्या श॑सन्ते॒ मां व॑रिष्यते॒ माम् [49]
2.5.8.7
इति॑ वृणी॒ध्व ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वानां॒ तं वृ॑णीत आऱ्षे॒यं वृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ संत॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मात्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्यान्पित॒रोऽनु॒ प्र पि॑पते ।। [50]
2.5.9.0
विप्रा॑नुमदित॒ इत्या॑ह च॒नास्मै॒ होतो॑प॒भृद्दे॒वता॑ ए॒व त्रीणि॑ च ।।9।।
2.5.9.1
अग्ने॑ म॒हा अ॒सीत्या॑ह म॒हान््ह्ये॑ष यद॒ग्निर्ब्राह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒ऱ्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्द्धर््षि॑ष्टुत॒ इत्या॒हऱ्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह [51]
2.5.9.2
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वासः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वासो॒ ब्रह्म॑सशित॒ इत्या॑ह॒ ब्रह्म॑सशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिऱ्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीऱ्ह्ये॑ष य॒ज्ञाना॑ र॒थीर॑ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तं कश्च॒न [52]
2.5.9.3
तर॑ति॒ तूर्णि॑ऱ्हव्य॒वाडित्या॑ह॒ सर्व॒॒ ह्ये॑ष तर॒त्यास्पात्रं॑ जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूऱ्ह्ये॑ष दे॒वानाञ्चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽरा इ॑वाग्ने ने॒मिर्दे॒वा स्त्वम्प॑रि॒भूर॒सीत्या॑ह दे॒वान््ह्ये॑ष प॑रि॒भूर्यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [53]
2.5.9.4
ज॒न॒ये॒दा व॑ह दे॒वान््यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तद्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चाग्ने दे॒वान््वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तत्स श्य॑ति॒ सोऽस्य॒ सशि॑तो दे॒वेभ्यो॑ ह॒व्यं व॑हत्य॒ग्निऱ्होता [54]
2.5.9.5
इत्या॑हा॒ग्निर्वै दे॒वाना॒॒ होता॒ य ए॒व दे॒वाना॒॒ होता॒ तं वृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वं ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ यद्ब्रू॒याद्योऽग्नि होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑प॒भृत् [55]
2.5.9.6
यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह दे॒वान््ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒॒ ह्ये॑षाव॒तीडा॑महै दे॒वा ई॒डेन्यान्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गं य॑जति ।। [56]
2.5.10.0
का॒मये॑त॒ प्रति॑ष्ठित्यै प॒शून्त्स॒प्तच॑त्वारिशच्च ।।10।।
2.5.10.1
त्री स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्यात्पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति॒ पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वैन॒॒ स्तोमे॒ प्रति॑ ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दध्यादिन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति॒ यदि॑ का॒मये॑त [57]
2.5.10.2
ब्र॒ह्म॒व॒र्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सं वै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्यः॒ स्व ए॒वैन॒॒ स्तोमे॒ प्रति॑ ष्ठापयति॒ जग॑त्या॒ परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णा॒त्येक॑विशति॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्यैकवि॒॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै [58]
2.5.10.3
चतु॑र्विशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै ब्रह्मवर्च॒समव॑ रुन्द्धे त्रि॒॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे॒ द्वात्रि॑शत॒मनु॑ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रि॑शदक्षरानु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रि॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒ षट्त्रि॑शदक्षरा बृह॒ती बाऱ्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शून् [59]
2.5.10.4
अव॑ रुन्द्धे॒ चतु॑श्चत्वारिशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे॒ऽष्टाच॑त्वारिशत॒मनु॑ ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ सर्वा॑णि॒ छन्दा॒॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॒ सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒॒स्यव॑रुन्द्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ।। [60]
2.5.11.0
वा आ॑र॒ण्याश्चाव॑ रु॒न्धेऽथो॑ प॒शुभिः॒ सोऽब्रवीद्दक्षिणा॒र्ध्य॑न्त्रय॑ इव ध्रु॒वा दे॒वाश्च॑त्वारि॒॒शच्च॑ ।।11।।
2.5.11.1
निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतं दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न््ह्याश्रु॑ततरं॒ वद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रं तद्यन्म॒न्द्रम्मा॑नु॒षं तद्यद॑न्त॒रा तत्सदे॑वमन्त॒रानूच्य॑ सदेव॒त्वाय॑ वि॒द्वासो॒ वै [61]
2.5.11.2
पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑नः॒ सम॑रुक्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्यो- ऽथान्वा॒हाध्व॑नां॒ विधृ॑त्यै प॒थामस॑रोहा॒याथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्द्धेऽथो॒ परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रु॒न्द्धेऽथो ग्रा॒म्याश्चै॒व प॒शूना॑र॒ण्याश्चाव॑ रु॒न्द्धेऽथो [62]
2.5.11.3
दे॒व॒लो॒कं चै॒व म॑नुष्यलो॒कं चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्त्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न््यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलूक्षो भवति॒ य ए॒वं वेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ [63]
2.5.11.4
य ए॒वं वेद॒ यदेक॑याघा॒रये॒देकाम्प्रीणीया॒द्यद्द्वाभ्यां॒ द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒सा घा॑रयति॒ मन॑सा॒ ह्यनाप्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कार॒व्वाँक्च॒ मन॑श्चार्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒ वाग॑ब्रवीद॒हं दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ता॒॒ सोऽब्रवीत् [64]
2.5.11.5
प्र॒जाप॑तिर्दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्त्सम्मार्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मं त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑क्षिणा॒र्ध्यं॑ त्रयः॑ [65]
2.5.11.6
इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्यं॑ त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ संवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व [66]
2.5.11.7
वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ जि॒ह्मं तस्या घा॑रयेत्प्रा॒णमे॒वास्माज्जि॒ह्मं न॑यति ता॒जक्प्र मी॑यते॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [67]
2.5.11.8
आ॒घा॒रमा॒घार्य॑ ध्रु॒वा सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधात्यग्निर्दे॒वानां दू॒त आसी॒द्दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमैता॒॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वानां॒ तम॑वृणीत॒ ततो॑ दे॒वाः [68]
2.5.11.9
अभ॑व॒न्परा॑सुरा॒ यस्यै॒वं वि॒दुषः॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्राह्म॒णश्चाब्राह्मणश्च प्र॒श्ञमे॒याताम्ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्राह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्राह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह॒ तस्माद्ब्राह्म॒णो न प॒रोच्यः॑ ।। [69]
2.5.12.0
य॒ह्वीः सम॑ध्व॒राय॑ नो॒ वरु॑ण राज॒॒ श्चतु॑श्चत्वारिशच्च ।।12।।
2.5.12.1
आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ सं तेऽव॑ ते॒ हेड॒ उदु॑त्त॒मम्प्र णो॑ दे॒व्या नो॑ दि॒वोऽग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मं मे॑ वरुण॒ तत्त्वा॑ या॒म्युदु॒ त्यं चि॒त्रम् । अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः । तस्य॒ ज्येष्ठ॑म्महि॒मानं॒ वह॑न्ती॒ऱ्हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः । सम् [70]
2.5.12.2
अ॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति । तमू॒ शुचि॒॒ शुच॑यो दीदि॒वास॑म॒पां नपा॑त॒म्परि॑ तस्थु॒रापः॑ । तमस्मे॑रा युव॒तयो॒ युवा॑नम्मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ । स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु । इन्द्रा॒वरु॑णयोर॒ह स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे । इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नः [71]
2.5.12.3
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ । आ नो॑ मित्रावरुणा॒ प्र बा॒हवा । त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत् । स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णम् [72]
2.5.12.4
ररा॑णो वी॒हि मृ॑डी॒क सु॒हवो॑ न एधि । प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुम्पृ॑तनासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ । प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे प्रत्न राजन्न् । [73]
2.5.12.5
वि पाज॑सा॒ वि ज्योति॑षा । स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् । त सु॒प्रती॑क सु॒दृश॒॒ स्वञ्च॒मवि॑द्वासो वि॒दुष्ट॑र सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् । अ॒॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ वि न॑ इ॒न्द्रेन्द्र॑ क्ष॒त्रमि॑न्द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ।। [74]
2.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे षष्ठः प्रश्नः ।।
2.6.0.0
स॒मिध॒श्चक्षु॑षी प्र॒जाप॑ति॒राज्य॑न्दे॒वस्य॒ स्फ्यम्ब्र॑ह्मवा॒दिनो॒ऽद्भिर॒ग्नेस्त्रयो॒ मनुः॑ पृथि॒व्याः प॒शवो॒ऽग्नीधे॑ दे॒वा वै य॒ज्ञस्य॑ यु॒क्ष्वोशन्त॑स्त्वा॒ द्वाद॑श ।।12।। स॒मिधो॑ या॒ज्या॑ तस्मा॒न्नाभा॒ग हि तमन्वित्या॑ह प्र॒जा वा आ॒हेत्या॑ह यु॒क्ष्वा हि स॑प्त॒तिः ।।70।। स॒मिध॑स्सौमन॒से स्या॑म ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.6.1.0
य॒ज॒ति॒ य॒ज्ञमेवा॒व॑रुन्धे॒ तनू॒नपा॑तय्यँजति प्रया॒जाना॑मे॒वव्वेँद॒ प्र रक्षोभ्यः॒ साधा॑रण॒म्पञ्च॑त्रिशच्च ।।1।।
2.6.1.1
स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्द्धे॒ तनू॒नपा॑तं यजति ग्री॒ष्ममे॒वाव॑ रुन्द्ध इ॒डो य॑जति व॒ऱ्षा ए॒वाव॑ रुन्द्धे ब॒ऱ्हिर्य॑जति श॒रद॑मे॒वाव॑ रुन्द्धे स्वाहाका॒रं य॑जति हेम॒न्तमे॒वाव॑ रुन्द्धे॒ तस्मा॒त्स्वाहा॑कृता॒ हेम॑न्प॒शवोऽव॑ सीदन्ति स॒मिधो॑ यजत्यु॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्द्धे॒ तनू॒नपा॑तं यजति य॒ज्ञमे॒वाव॑ रुन्द्धे [1]
2.6.1.2
इ॒डो य॑जति प॒शूने॒वाव॑ रुन्द्धे ब॒ऱ्हिर्य॑जति प्र॒जामे॒वाव॑ रुन्द्धे स॒मान॑यत उप॒भृत॒स्तेजो॒ वा आज्य॑म्प्र॒जा ब॒ऱ्हिः प्र॒जास्वे॒व तेजो॑ दधाति स्वाहाका॒रं य॑जति॒ वाच॑मे॒वाव॑ रुन्द्धे॒ दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे स॒मिधो॑ यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ तनू॒नपा॑तं यजति [2]
2.6.1.3
य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑ तिष्ठति ब॒ऱ्हिर्य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स्तेष्वे॒व प्रति॑ तिष्ठति स्वाहाका॒रं य॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठति देवासु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ ते दे॒वाः प्र॑या॒जैरे॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒ तत्प्र॑या॒जानाम् [3]
2.6.1.4
प्र॒या॒ज॒त्वय्यँस्यै॒वं वि॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदतेऽभि॒क्रामं॑ जुहोत्य॒भिजि॑त्यै॒ यो वै प्र॑या॒जानाम्मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व यजति॒ तनू॒नपा॑त॒मेक॑मिव मिथु॒नं तदि॒डो ब॒ह्वीरि॑व यजति ब॒ऱ्हिरेक॑मिव मिथु॒नं तदे॒तद्वै प्र॑या॒जानाम्मिथु॒नम् य ए॒वं वेद॒ प्र [4]
2.6.1.5
प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते दे॒वानां॒ वा अनि॑ष्टा दे॒वता॒ आस॒न्नथासु॑रा य॒ज्ञम॑जिघास॒न्ते दे॒वा गा॑य॒त्रीं व्यौ॑ह॒न् पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय॒ यत्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒द्वरू॑थम्पु॒रस्ता॒द्वऱ्षी॑यः प॒श्चाद्ध्रसी॑यो दे॒वा वै पु॒रा रक्षोभ्यः [5]
2.6.1.6
इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञ स॒॒स्थाप्य॑मपश्य॒न्त स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापय॒न्वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सस्था॒पय॑न्ति प्रया॒जानि॒ष्ट्वा ह॒वीष्य॒भि घा॑रयति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो॑ ह॒विरे॒वाक॒रथो॑ यथापू॒र्वमुपै॑ति पि॒ता वै प्र॒याजाः प्र॒जानू॑या॒जा यत्प्र॑या॒जानि॒ष्ट्वा ह॒वीष्य॑भिघा॒रय॑ति पि॒तैव तत्पु॒त्रेण॒ साधा॑रणम् [6]
2.6.1.7
कु॒रु॒ते॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑लं क॒था साधा॑रणम्पि॒तुरित्यस्क॑न्नमे॒व तद्यत्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति गाय॒त्र्ये॑व तेन॒ गर्भं॑ धत्ते॒ सा प्र॒जाम्प॒शून््यज॑मानाय॒ प्र ज॑नयति ।। [7]
2.6.2.0
दे॒वता॑नाङ्करोत्यु॒परि॑ष्टाल्ल॒क्ष्माऽऽज्य॑भागौ॒ प्रति॑ श॒क्नोत्ये॒व द्वे च॑ ।।2।।
2.6.2.1
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ॒ यदाज्य॑भागौ॒ यज॑ति॒ चक्षु॑षी ए॒व तद्य॒ज्ञस्य॒ प्रति॑ दधाति पूर्वा॒र्धे जु॑होति॒ तस्मात्पूर्वा॒र्धे चक्षु॑षी प्र॒बाहु॑ग्जुहोति॒ तस्मात्प्र॒बाहु॒क्चक्षु॑षी देवलो॒कं वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति पितृलो॒क सोमे॑नोत्तरा॒र्धेऽग्नये॑ जुहोति दक्षिणा॒र्धे सोमा॑यै॒वमि॑व॒ हीमौ लो॒काव॒नयोर्लो॒कयो॒रनु॑ख्यात्यै॒ राजा॑नौ॒ वा ए॒तौ दे॒वता॑नाम् [8]
2.6.2.2
यद॒ग्नीषोमा॑वन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नां॒ विधृ॑त्यै॒ तस्मा॒द्राज्ञा॑ मनु॒ष्या॑ विधृ॑ता ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येना॒न्यतो॑दतश्च प॒शून्दा॒धारो॑भ॒यतो॑दत॒श्चेत्यृच॑म॒नूच्याज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार मूर्ध॒न्वती॑ पुरोनुवा॒क्या॑ भवति मू॒र्धान॑मे॒वैन॑ समा॒नानां करोति [9]
2.6.2.3
नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शून्नि यु॑वते के॒शिन॑ ह दा॒र्भ्यं के॒शी सात्य॑कामिरुवाच स॒प्तप॑दां ते॒ शक्व॑री॒॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न््यस्यै॑ वी॒र्ये॑णो॒भयोर्लो॒कयो॒र्ज्योति॑र्ध॒त्ते यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान्भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुरिति॑ पु॒रस्ताल्लक्ष्मा पुरोनुवा॒क्या॑ भवति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दत उ॒परि॑ष्टाल्लक्ष्मा [10]
2.6.2.4
या॒ज्या॑ जनि॒ष्यमा॑णाने॒व प्रति॑ नुदते पु॒रस्ताल्लक्ष्मा पुरोनुवा॒क्या॑ भवत्य॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्त उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑मुष्मि॑न्ने॒व लो॒के ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तावस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वं वेद॑ पु॒रस्ताल्लक्ष्मा पुरोनुवा॒क्या॑ भवति॒ तस्मात्पूर्व॒र्धेना॑न॒ड्वान्भु॑नक्त्यु॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ तस्माज्जघना॒र्धेन॑ धे॒नुर्य ए॒वं वेद॑ भु॒ङ्क्त ए॑नमे॒तौ वज्र॒ आज्यं॒ वज्र॒ आज्य॑भागौ [11]
2.6.2.5
वज्रो॑ वषट्का॒रस्त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑र॒त्यछ॑म्बट्कारमप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ गाय॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्या ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति॒ तस्माद्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॒ प्रैवैन॑म्पुरोनुवा॒क्य॑याह॒ प्र ण॑यति या॒ज्य॑या ग॒मय॑ति वषट्का॒रेणैवैन॑म्पुरोनुवा॒क्य॑या दत्ते॒ प्र य॑च्छति या॒ज्य॑या॒ प्रति॑ [12]
2.6.2.6
व॒ष॒ट्का॒रेण॑ स्थापयति त्रि॒पदा॑ पुरोनुवा॒क्या॑ भवति॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे द्व्यक्ष॒रो व॑षट्का॒रो द्वि॒पाद्यज॑मानः प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति गाय॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्यै॑षा वै स॒प्तप॑दा॒ शक्व॑री॒ यद्वा ए॒तया॑ दे॒वा अशि॑क्ष॒न्तद॑शक्नुव॒न््य ए॒वं वेद॑ श॒क्नोत्ये॒व यच्छिक्ष॑ति ।। [13]
2.6.3.0
प्रा॒जा॒प॒त्यन्तेऽक्षोऽनु॑पाक्तो वे॒देना॒भि वा॑सयति॒ तस्मा॒द्यज॑मानस्य॒ द्वात्रि॑शच्च ।।3।।
2.6.3.1
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स आ॒त्मन्नाज्य॑मधत्त॒ तं दे॒वा अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोत्रा॒स्त्विति॒ सोऽब्रवी॒द्यजान्॑ व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्यज॒न्त्याज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्याद्या॒तया॑मान्य॒न्यानि॑ ह॒वीष्यया॑तयाम॒माज्य॒मिति॑ प्राजाप॒त्यम् [14]
2.6.3.2
इति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वानाम्प्र॒जाप॑ति॒रिति॒ छन्दा॑सि दे॒वेभ्योऽपाक्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुरव॒त्तम॑धारयन्पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्तं जु॒होति॒ छन्दा॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑ह॒न्त्यङ्गि॑रसो॒ वा इ॒त उ॑त्त॒माः सु॑व॒र्गं लो॒कमा॑य॒न्तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॒न्ते [15]
2.6.3.3
अ॒प॒श्य॒न्पु॒रो॒डाशं॑ कू॒र्मम्भू॒त सर्प॑न्तं॒ तम॑ब्रुव॒न्निन्द्रा॑य ध्रियस्व॒ बृह॒स्पत॑ये ध्रियस्व॒ विश्वेभ्यो दे॒वेभ्यो ध्रिय॒स्वेति॒ स नाध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये ध्रिय॒स्वेति॒ सोऽग्नयेऽध्रियत॒ यदाग्ने॒योऽष्टाक॑पालोऽमावा॒स्या॑यां च पौर्णमा॒स्यां चाच्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन्क॒थाहास्था॒ इत्यनु॑पाक्तोऽभूव॒मित्य॑ब्रवी॒द्यथाक्षोऽनु॑पाक्तः [16]
2.6.3.4
अ॒वार्च्छ॑त्ये॒वमवा॑र॒मित्यु॒परि॑ष्टाद॒भ्यज्या॒धस्ता॒दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ सर्वा॑णि क॒पालान्य॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑ल्लोँ॒के॑ऽभि ज॑यति॒ यो विद॑ग्धः॒ स नैर््॑ऋ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता शृतं॒कृत्यः॑ सदेव॒त्वाय॒ भस्म॑ना॒भि वा॑सयति॒ तस्मान्मा॒॒सेनास्थि॑ छ॒न्नं वे॒देना॒भि वा॑सयति॒ तस्मात् [17]
2.6.3.5
केशैः॒ शिर॑श्छ॒न्नं प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कादग॑तं देवलो॒कं यच्छृ॒त ह॒विरन॑भिघारितमभि॒घार्योद्वा॑सयति देव॒त्रैवैन॑द्गमयति॒ यद्येकं॑ क॒पालं॒ नश्ये॒देको॒ मासः॑ संवत्स॒रस्यान॑वेतः॒ स्यादथ॒ यज॑मानः॒ प्र मी॑येत॒ यद्द्वे नश्ये॑तां॒ द्वौ मासौ॑ संवत्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्र मी॑येत सं॒ख्यायोद्वा॑सयति॒ यज॑मानस्य [18]
2.6.3.6
गो॒पी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒नं द्वि॑कपा॒लं निर्व॑पेद्द्यावापृथि॒व्य॑मेक॑कपालम॒श्विनौ॒ वै दे॒वानाम्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒नयो॑रे॒वैन॑द्विन्दति॒ प्रति॑ष्ठित्यै ।। [19]
2.6.4.0
भ॒ज॒ति॒ प्र॒जाप॑तिनेव॒ वै त्रय॑स्त्रिशच्च ।।4।।
2.6.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै॑ श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह॒ वज्र॑मे॒व तत्स श्य॑ति॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्त्स्त॑म्बय॒जुऱ्ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं॒ निर्भ॑जति [20]
2.6.4.2
तस्मा॒न्नाभा॒गं निर्भ॑जन्ति॒ त्रिऱ्ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॒ निर्भ॑जति तू॒ष्णीं च॑तु॒र्थ ह॑र॒त्यप॑रिमितादे॒वैनं॒ निर्भ॑ज॒त्युद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति॒ मूलं॑ छिनत्ति॒ भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति पितृदेव॒त्याति॑खा॒तेय॑तीं खनति प्र॒जाप॑तिना [21]
2.6.4.3
य॒ज्ञ॒मु॒खेन॒ सम्मि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति दक्षिण॒तो वऱ्षी॑यसीं करोति देव॒यज॑नस्यै॒व रू॒पम॑कः॒ पुरी॑षवतीं करोति प्र॒जा वै प॒शवः॒ पुरी॑षम्प्र॒जयै॒वैन॑म्प॒शुभिः॒ पुरी॑षवन्तं करो॒त्युत्त॑रम्परिग्रा॒हम्परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्या॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑ गृह्णाति क्रू॒रमि॑व॒ वै [22]
2.6.4.4
ए॒तत्क॑रोति॒ यद्वेदिं॑ क॒रोति॒ धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॒ प्रोक्ष॑णी॒रा सा॑दय॒त्यापो॒ वै र॑क्षो॒घ्नी रक्ष॑सा॒मप॑हत्यै॒ स्फ्यस्य॒ वर्त्मन्त्सादयति य॒ज्ञस्य॒ संत॑त्यै॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ।। [23]
2.6.5.0
आ॒साद्य॒ प्रान॑तिदृश्ञं करोति हरति वियु॒याद्यज॑मानमे॒वाग्निरिति॑ स॒प्तद॑श च ।।5।।
2.6.5.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिऱ्ह॒वीषि॒ प्रौक्षीः॒ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भिऱ्ह्ये॑व ह॒वीषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒प इ॒ध्माब॒ऱ्हिः प्रोक्ष॑ति॒ मेध्य॑मे॒वैन॑त्करोति॒ वेदि॒म्प्रोक्ष॑त्यृ॒क्षा वा ए॒षाऽलो॒मका॑ऽमे॒ध्या यद्वेदि॒र्मेध्या॑मे॒वैनां करोति दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒ऱ्हिरा॒साद्य॒ प्र [24]
2.6.5.2
उ॒क्ष॒त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पो नि न॑यति॒ शान्त्यै॑ पु॒रस्तात्प्रस्त॒रं गृ॑ह्णाति॒ मुख्य॑मे॒वैनं॑ करो॒तीय॑न्तं गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम्ब॒ऱ्हिः स्तृ॑णाति प्र॒जा वै ब॒ऱ्हिः पृ॑थि॒वी वेदिः॑ प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ ष्ठापय॒त्यन॑तिदृश्न स्तृणाति प्र॒जयै॒वैन॑म्प॒शुभि॒रन॑तिदृश्ञं करोति [25]
2.6.5.3
उत्त॑रम्ब॒ऱ्हिषः॑ प्रस्त॒र सा॑दयति प्र॒जा वै ब॒ऱ्हिर्यज॑मानः प्रस्त॒रो यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्त्या अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैन॑ सुव॒र्गं लो॒कं ग॑मयति त्रे॒धान॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति॒ न प्रति॑ शृणाति॒ यत्प्र॑तिशृणी॒यादनूर्ध्वम्भावुकं॒ यज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑रति [26]
2.6.5.4
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒को नि य॑च्छति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति॒ नात्य॑ग्र॒म्प्र ह॑रे॒द्यदत्य॑ग्रम्प्र॒हरे॑दत्यासा॒रिण्य॑ध्व॒र्यो- र्नाशु॑का स्या॒न्न पु॒रस्ता॒त्प्रत्य॑स्ये॒द्यत्पु॒रस्तात्प्र॒त्यस्येत्सुव॒र्गाल्लो॒काद्यज॑मान॒म्प्रति॑ नुदे॒त्प्राञ्च॒म्प्र ह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति॒ न विष्व॑ञ्चं॒ वि यु॑या॒द्यद्विष्व॑ञ्चं वियु॒यात् [27]
2.6.5.5
स्त्र्य॑स्य जायेतो॒र्ध्वमुद्यौत्यू॒र्ध्वमि॑व॒ हि पु॒॒सः पुमा॑ने॒वास्य॑ जायते॒ यत्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं य॒ज्ञस्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत्प्र॑स्त॒रमा॑हव॒नीये प्र॒हर॑ति॒ यज॑मानमे॒व [28]
2.6.5.6
सु॒व॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्यज॑मानो लिशते॒ यत्प्र॑स्त॒रं यो॑यु॒प्यन्ते॑ ब॒ऱ्हिरनु॒ प्रह॑रति॒ शान्त्या॑ अनारम्भ॒ण इ॑व॒ वा ए॒तऱ्ह्य॑ध्व॒र्युः स ईश्व॒रो वे॑प॒नो भवि॑तोर्ध्रु॒वासीती॒माम॒भि मृ॑शती॒यं वै ध्रु॒वाऽस्यामे॒व प्रति॑ तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा(३)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒यादग॑न्न॒ग्निरित्य॒ग्नाव॒ग्निं ग॑मये॒न्निर्यज॑मान सुव॒र्गाल्लो॒काद्भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति ।। [29]
2.6.6.0
श॒प्तस्स्प॑र्शयति भू॒ताना॑म॒ग्नि रु॒द्रस्य॑ स॒प्तत्रि॑शच्च ।।6।।
2.6.6.1
अ॒ग्नेस्त्रयो॒ ज्याया॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सोऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ सो॑ऽपः प्रावि॑श॒त्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तम्मत्स्यः॒ प्राब्र॑वी॒त्तम॑शपद्धि॒याधि॑या त्वा वध्यासु॒र्यो मा॒ प्रावो॑च॒ इति॒ तस्मा॒न्मत्स्यं॑ धि॒याधि॑या घ्नन्ति श॒प्तः [30]
2.6.6.2
हि तमन्व॑विन्द॒न्तम॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति परि॒धीन्परि॑ दधाति॒ रक्ष॑सा॒मप॑हत्यै॒ स स्प॑र्शयति [31]
2.6.6.3
रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षा॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षा॒॒स्यप॑ हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो य॒ज्ञस्यार्त्या॒ वसी॑या॒न्त्स्यादिति॒ भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानाम् [32]
2.6.6.4
पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञस्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑यान्भवति॒ भूय॑सी॒ऱ्हि दे॒वताः प्री॒णाति॑ जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑वुपाशुया॒जम॑न्त॒रा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाया॒ग्निर॒मुष्मि॑ल्लोँ॒क आसीद्य॒मोऽस्मिन्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्निम् [33]
2.6.6.5
उ॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒मं तस्मा॑द॒ग्निर्दे॒वाना॑मन्ना॒दो य॒मः पि॑तृ॒णा राजा॒ य ए॒वं वेद॒ प्र रा॒ज्यम॒न्नाद्य॑माप्नोति॒ तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छ॒न््यद॒ग्नये स्विष्ट॒कृते॑ऽव॒द्यन्ति॒ यद॒ग्नये स्विष्ट॒कृते॑ऽव॒द्यति॑ भाग॒धेये॑नै॒व तद्रु॒द्र सम॑र्धयति स॒कृत्स॑कृ॒दव॑ द्यति स॒कृदि॑व॒ हि रु॒द्र उ॑त्तरा॒र्धादव॑ द्यत्ये॒षा वै रु॒द्रस्य॑ [34]
2.6.6.6
दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते॒ द्विर॒भि घा॑रयति चतुरव॒त्तस्याप्त्यै॑ प॒शवो॒ वै पूर्वा॒ आहु॑तय ए॒ष रु॒द्रो यद॒ग्निर्यत्पूर्वा॒ आहु॑तीर॒भि जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्यादति॒हाय॒ पूर्वा॒ आहु॑तीर्जुहोति पशू॒नां गो॑पी॒थाय॑ ।। [35]
2.6.7.0
आ॒ह॒ धे॒नुरे॒ताव्वँर्धा॒नित्या॑ह॒ धाम॒न्नुप॑हूत॒श्चतु॑स्त्रिशच्च ।।7।।
2.6.7.1
मनुः॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒त्स घृ॒तं निषि॑क्तमविन्द॒त्सोऽब्रवी॒त्कोऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॒ ताव॑ब्रूताम्मि॒त्रावरु॑णौ॒ गोरे॒वावमीश्व॒रौ कर्तोः स्व॒ इति॒ तौ ततो॒ गा समै॑रयता॒॒ सा यत्र॑यत्र॒ न्यक्रा॑म॒त्ततो॑ घृ॒तम॑पीड्यत॒ तस्माद्घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूत रथन्त॒र स॒ह पृ॑थि॒व्येत्या॑ह [36]
2.6.7.2
इ॒यं वै र॑थन्त॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयत॒ उप॑हूतं वामदे॒व्य स॒हान्तरि॑क्षे॒णेत्या॑ह प॒शवो॒ वै वा॑मदे॒व्यम्प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयत॒ उप॑हूतम्बृ॒हत्स॒ह दि॒वेत्या॑है॒रं वै बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयत॒ उप॑हूतास्स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑ ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नुः [37]
2.6.7.3
स॒हऱ्ष॒भेत्या॑ह मिथु॒नमे॒वोप॑ ह्वयत॒ उप॑हूतो भ॒क्षः सखेत्या॑ह सोमपी॒थमे॒वोप॑ ह्वयत॒ उप॑हू॒ताँ (4) हो इत्या॑हा॒त्मान॑मे॒वोप॑ ह्वयत आ॒त्मा ह्युप॑हूतानां॒ वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒ऱ्ह्ये॑ताम् [38]
2.6.7.4
अग्रेऽप॑श्यद्घृ॒तप॒दीत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपीड्यत॒ तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑ना स॒मैर॑यता॒म्ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते॒ य इ॒मं य॒ज्ञमवा॒न््ये य॒ज्ञप॑तिं॒ वर्धा॒नित्या॑ह [39]
2.6.7.5
य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शास्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयं यज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्यां देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूतः [40]
2.6.7.6
इत्या॑ह प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑ण सुव॒र्गो लो॒को दि॒व्यं धामे॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामोप॑ ह्वयते॒ विश्व॑मस्य प्रि॒यमुप॑हूत॒मित्या॒हाछ॑म्बट्कारमे॒वोप॑ ह्वयते ।। [41]
2.6.8.0
प्रा॒श्ञी॒याद्धोता॑ य॒ज्ञन्निर॑हर॒न्तच्चक्षु॑रा॒स्य॑ङ्किञ्च॒न हि॒नस्ति॒ सो॑ऽबिभे॒च्चतु॑श्चत्वारिशच्च ।।8।।
2.6.8.1
प॒शवो॒ वा इडा स्व॒यमा द॑त्ते॒ काम॑मे॒वात्मना॑ पशू॒नामा द॑त्ते॒ न ह्य॑न्यः काम॑म्पशू॒नाम्प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै चतुरव॒त्तम्भ॑वति ह॒विर्वै च॑तुरव॒त्तम्प॒शव॑श्चतुरव॒त्तय्यँद्धोता प्राश्नी॒याद्धोता [42]
2.6.8.2
आर्ति॒मार्च्छे॒द्यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्याद्वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह प॒रोक्ष॑मे॒वैन॑ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्न॑न्ति ती॒र्थ ए॒व प्राश्न॑न्ति॒ दक्षि॑णां ददाति ती॒र्थ ए॒व दक्षि॑णां ददाति॒ वि वा ए॒तद्य॒ज्ञम् [43]
2.6.8.3
छि॒न्द॒न्ति॒ यन्म॑ध्य॒तः प्रा॒श्नन्त्य॒द्भिर्मार्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ सं त॑न्वन्ति दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑य॒न्त्स य॒ज्ञम॑विध्य॒त्तं दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां न इ॒दमिति॒ तेऽब्रुव॒न्त्स्वि॑ष्टं॒ वै न॑ इ॒दम्भ॑विष्यति॒ यदि॒म रा॑धयि॒ष्याम॒ इति॒ तत्स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वन्तस्यावि॑द्धं॒ निः [44]
2.6.8.4
अ॒कृ॒न्त॒न््यवे॑न॒ सम्मि॑तं॒ तस्माद्यवमा॒त्रमव॑ द्ये॒द्यज्ज्यायो॑ऽव॒द्येद्रो॒पये॒त्तद्य॒ज्ञस्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतःसश्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः सम्प॑द्यते द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत्ति॑र॒श्चीन॑मति॒हरे॒दन॑भिविद्धं य॒ज्ञस्या॒भि वि॑ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत्पू॒ष्णे पर्य॑हर॒न्तत् [45]
2.6.8.5
पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त्तस्मात्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तं दे॒वा अ॑ब्रुव॒न्वि वा अ॒यमार्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्बृह॒स्पत॑ये॒ पर्य॑हर॒न्त्सो॑ऽबिभे॒द्बृह॒स्पति॑रि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स ए॒तम्मन्त्र॑मपश्य॒त्सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॑ [46]
2.6.8.6
किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत्प्रतिगृ॒ह्णन्त॑म्मा हिसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒म्प्रति॑ गृह्णा॒मीत्य॑ब्रवीत्सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य॑गृह्णा॒त्सो॑ऽबिभेत्प्रा॒श्नन्त॑म्मा हिसिष्य॒तीत्य॒ग्नेस्त्वा॒स्ये॑न॒ प्राश्ना॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्यं॑ किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत् [47]
2.6.8.7
प्राशि॑तम्मा हिसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ब्रवी॒न्न हि ब्राह्म॒णस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मात्प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रम्प्रा॒श्नात्य॒द्भिर्मार्जयि॒त्वा प्रा॒णान्त्सम्मृ॑शते॒ऽमृतं॒ वै प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ।। [48]
2.6.9.0
श्रि॒तस्ते॒ प्र त्रि॒ष्टुभ॑मे॒तद्द्यावा॑पृथि॒वी या अयाक्ष्म प्रा॒णाने॒व षट्च॑त्वारिशच्च ।।9।।
2.6.9.1
अ॒ग्नीध॒ आ द॑धात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति स॒मिध॒मा द॑धा॒त्युत्त॑रासा॒माहु॑तीना॒म्प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्ये॒व जु॑होति परि॒धीन्त्सम्मार्ष्टि पु॒नात्ये॒वैनान्त्स॒कृत्स॑कृ॒त्सम्मार्ष्टि॒ परा॑ङिव॒ ह्ये॑तऱ्हि॑ य॒ज्ञश्च॒तुः सम्प॑द्यते॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे॒ ब्रह्म॒न्प्र स्थास्याम॒ इत्या॒हात्र॒ वा ए॒तऱ्हि॑ य॒ज्ञः श्रि॒तः [49]
2.6.9.2
यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते॒ यद्धस्ते॑न प्र॒मीवेद्वेप॒नः स्या॒द्यच्छी॒र्ष्णा शी॑ऱ्षक्ति॒मान्त्स्या॒द्यत्तू॒ष्णीमासी॒तास॑म्प्रत्तो य॒ज्ञः स्या॒त्प्र ति॒ष्ठेत्ये॒व ब्रू॑याद्वा॒चि वै य॒ज्ञः श्रि॒तो यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒॒ सम्प्र य॑च्छति॒ देव॑ सवितरे॒तत्ते॒ प्र [50]
2.6.9.3
आ॒हेत्या॑ह॒ प्रसूत्यै॒ बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठः॒ स य॒ज्ञम्पा॑हि॒ स य॒ज्ञप॑तिम्पाहि॒ स माम्पा॒हीत्या॑ह य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽनार्त्या आ॒श्राव्या॑ह दे॒वान््य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दा॒॒सीति॑ ब्रूयाद्गाय॒त्रीं त्रि॒ष्टुभम् [51]
2.6.9.4
जग॑ती॒मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दा॒॒सीति॒ ताने॒व तद्य॑जति दे॒वानां॒ वा इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒त्तं दे॒वा आहु॑तीभिरनूया॒जेष्वन्व॑विन्द॒न््यद॑नूया॒जान््यज॑त्य॒ग्निमे॒व तत्समि॑न्द्ध ए॒तदु॒र्वै नामा॑सु॒र आ॑सी॒त्स ए॒तऱ्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त॒ यद्ब्रू॒यादे॒तत् [52]
2.6.9.5
उ॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्रम॑भू॒दित्ये॒तदु॑मे॒वासु॒रं य॒ज्ञस्या॒शिषं॑ गमयेदि॒दं द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व य॒ज्ञस्या॒शिष॑म्गमय॒त्यार्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमित्या॑हे॒दम॑रा॒त्स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वः पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योऱ्हि य॒ज्ञ उप॑श्रित॒ ओम॑न्वती ते॒ऽस्मिन््य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी [53]
2.6.9.6
स्ता॒मित्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ यद्ब्रू॒यात्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानः स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शास्ते॒ न प्र॒मायु॑को भवति॒ तयो॑रा॒विद्य॒ग्निरि॒द ह॒विर॑जुष॒तेत्या॑ह॒ या अयाक्ष्म [54]
2.6.9.7
दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शेत्प्रति॑वेशं य॒ज्ञस्या॒शीर्ग॑च्छे॒दा शास्ते॒ऽयं यज॑मानो॒ऽसावित्या॑ह नि॒र्दिश्यै॒वैन॑ सुव॒र्गं लो॒कं ग॑मय॒त्यायु॒रा शास्ते सुप्रजा॒स्त्वमा शास्त॒ इत्या॑हा॒शिष॑मे॒वैतामा शास्ते सजातवन॒स्यामा शास्त॒ इत्या॑ह प्रा॒णा वै स॑जा॒ताः प्रा॒णाने॒व [55]
2.6.9.8
नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒यम्म॑नु॒ष्येभ्य॒ इति॒ वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दं च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह॒ याश्चै॒व दे॒वता॒ यज॑ति॒ याश्च॒ न ताभ्य॑ ए॒वोभयीभ्यो॒ नम॑स्करोत्या॒त्मनोऽनार्त्यै ।। [56]
2.6.10.0
प्र॒जायाः करोति॒ तत्क्रि॑यते॒ त्रय॑स्त्रिशच्च ।।10।।
2.6.10.1
दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तारं॒ नावि॑न्द॒न्ते श॒य्युँम्बा॑ऱ्हस्प॒त्यम॑ब्रुवन्नि॒मं नो॑ य॒ज्ञ स्व॒गा कु॒र्विति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒वाब्राह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै॒ सा मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॒ तस्मा॒द्यदब्राह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते श॒य्युँमे॒व तस्य॑ बाऱ्हस्प॒त्यं य॒ज्ञस्या॒शीर्ग॑च्छत्ये॒तन्ममेत्य॑ब्रवी॒त्किम्मे प्र॒जायाः [57]
2.6.10.2
इति॒ यो॑ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑त्स॒हस्रे॑ण यातया॒द्यो लोहि॑तं क॒रव॒द्याव॑तः प्र॒स्कद्य॑ पा॒सून्त्सं॑गृ॒ह्णात्ताव॑तः संवत्स॒रान्पि॑तृलो॒कं न प्र जा॑ना॒दिति॒ तस्माद्ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न नि ह॑न्या॒न्न लोहि॑तं कुर्यादे॒ताव॑ता॒ हैन॑सा भवति॒ तच्छ॒य्योँरा वृ॑णीमह॒ इत्या॑ह य॒ज्ञमे॒व तत्स्व॒गा क॑रोति॒ तत् [58]
2.6.10.3
श॒य्योँरा वृ॑णीमह॒ इत्या॑ह श॒य्युँमे॒व बा॑ऱ्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तय॒ इत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ सोमं॑ यजति॒ रेत॑ ए॒व तद्द॑धाति॒ त्वष्टा॑रं यजति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वाना॒म्पत्नीर्यजति मिथुन॒त्वाया॒ग्निं गृ॒हप॑तिं यजति॒ प्रति॑ष्ठित्यै जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते [59]
2.6.10.4
यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसंया॒जा ऋच॑म॒नूच्य॑ पत्नीसंया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ प॒ङ्क्तिप्रा॑यणो॒ वै य॒ज्ञः प॒ङ्क्त्यु॑दयनः॒ पञ्च॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारः॑ पत्नीसंया॒जाः स॑मिष्टय॒जुः प॑ञ्च॒मम्प॒ङ्क्तिमे॒वानु॑ प्र॒ यन्ति॑ प॒ङ्क्तिमनूद्य॑न्ति ।। [60]
2.6.11.0
य॒ज्ञममै॒रधि॑ वृष॒न्नेका॒न्नवि॑श॒तिश्च॑ ।।11।।
2.6.11.1
यु॒क्ष्वा हि दे॑व॒हूत॑मा॒॒ अश्वा॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः । उ॒त नो॑ देव दे॒वा अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि । त्व ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ । अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् । तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञम् [61]
2.6.11.2
अ॒ङ्गि॒रः॒ । तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिम् । कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे । मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्नि॑याः । मा नः॑ समस्य दू॒ढ्यः॑ परि॑द्वेषसो अह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् । नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमैः [62]
2.6.11.3
अ॒मित्र॑मर्दय । कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् । उरु॑कृदु॒रु ण॑स्कृधि । मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्ग॒॒ स र॒यिञ्ज॑य । अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना । वर्धा॑ नो॒ अम॑व॒च्छवः॑ । यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति । पर॑स्या॒ अधि॑ [63]
2.6.11.4
सं॒वतोऽव॑रा अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ता अ॑व । वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे । य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ । सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒॒ स्तोमं॑ चा॒ग्नये । वऱ्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते । सस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वान्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र । प्रजा॑पते॒ स वे॑द॒ सोमा॑पूषणे॒मौ दे॒वौ ।। [64]
2.6.12.0
भ॒वा॒स्मभ्य॒मसु॒य्यँद॑ग्ने मदन्ति सौमन॒स एक॑ञ्च ।।12।।
2.6.12.1
उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह॒ पि॒तॄन््ह॒विषे॒ अत्त॑वे । त्व सो॑म॒ प्रचि॑कितो मनी॒षा त्व रजि॑ष्ठ॒मनु॑ नेषि॒ पन्थाम् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः । त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः । व॒न्वन्नवा॑तः परि॒धी रपोर्णु वी॒रेभि॒रश्वैर्म॒घवा॑ भव [65]
2.6.12.2
नः॒ । त्व सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒य स्या॑म॒ पत॑यो रयी॒णाम् । अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒ऱ्हिष्यथा॑ र॒यि सर्व॑वीरं दधातन । बऱ्हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्वम् । त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॒स्मभ्यम् [66]
2.6.12.3
शय्योँर॑र॒पो द॑धात । आहं पि॒त़ॄन्त्सु॑वि॒दत्रा॑ अवित्सि॒ नपा॑तञ्च वि॒क्रम॑णञ्च॒ विष्णोः । ब॒र््हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः । उप॑हूताः पि॒तरो॑ बर््हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुम् [67]
2.6.12.4
य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु । इ॒दम्पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒न सु॑वृ॒जना॑सु वि॒क्षु । अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न् । यद॑ग्ने [68]
2.6.12.5
क॒व्य॒वा॒ह॒न॒ पि॒तॄन््यक्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ । त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवाड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीषि॑ । मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒र््ऋक्व॑भिर्वावृधा॒नः । याश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति । [69]
2.6.12.6
इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒ मन्त्राः कविश॒स्ता व॑हन्त्वे॒ना रा॑जन््ह॒विषा॑ मादयस्व । अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्त हुवे॒ यः पि॒ता ते॒ऽस्मिन््य॒ज्ञे ब॒ऱ्हिष्या नि॒षद्य॑ । अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां व॒य सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।। [70]
3.1.0.0
प्र॒जाप॑तिरकामयतै॒ष ते॑ य॒ज्ञव्वैँ प्र॒जाप॑ते॒र्जाय॑मानाः प्राजाप॒त्या यो वा अय॑थादेवतमि॒ष्टर्गो॑ निग्रा॒भ्याः स्थ॒ यो वै दे॒वाञ्जुष्टो॒ऽग्निना॑ र॒यिमेका॑दश ।।11।। प्र॒जाप॑तिरकामयत प्र॒जाप॑ते॒र्जाय॑माना॒ व्याय॑च्छन्ते॒ मह्य॑मि॒मान्मा॒या मा॒यिना॒न्द्विच॑त्वारिशत् ।।42।। प्र॒जाप॑तिरकामयता॒ग्नि स॑मु॒द्रवा॑ससम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे प्रथमः प्रश्नः ।।
3.1.1.0
यज॑मानो दी॒क्षा हन्तोर्ब्राह्म॒णाश्चतु॑र्विशतिश्च ।।1।।
3.1.1.1
प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स द्वि॒तीय॑म- तप्यत॒ स वया॑स्यसृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तं दीक्षितवा॒दम॑पश्य॒त्तम॑वद॒त्ततो॒ वै स प्र॒जा अ॑सृजत॒ यत्तप॑स्त॒प्त्वा दीक्षितवा॒दं वद॑ति प्र॒जा ए॒व तद्यज॑मानः [1]
3.1.1.2
सृ॒ज॒ते॒ यद्वै दीक्षि॒तो॑ऽमे॒ध्यम्पश्य॒त्यपास्माद्दी॒क्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्येत्यब॑द्ध॒म्मनो॑ द॒रिद्रं॒ चक्षुः॒ सूर्यो॒ ज्योति॑षा॒॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्माद्दी॒क्षाप॑ क्रामति॒ नास्य॒ नीलं॒ न हरो॒ व्ये॑ति॒ यद्वै दीक्षि॒तम॑भि॒वऱ्ष॑ति दि॒व्या आपोऽशान्ता॒ ओजो॒ बलं॑ दी॒क्षाम् [2]
3.1.1.3
तपोऽस्य॒ निर्घ्न॑न्त्युन्द॒तीर्बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा मे॑ दी॒क्षाम्मा तपो॒ निर्व॑धि॒ष्टेत्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते॒ नास्यौजो॒ बलं॒ न दी॒क्षां न तपो॒ निर्घ्न॑न्त्य॒ग्निर्वै दीक्षि॒तस्य॑ दे॒वता॒ सोऽस्मादे॒तऱ्हि॑ ति॒र इ॑व॒ यऱ्हि॒ याति॒ तमीश्व॒र रक्षा॑सि॒ हन्तोः [3]
3.1.1.4
भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑न॒॒ सम्पा॑रय॒त्येदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह देव॒यज॑न॒॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह॒ विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्राह्म॒णा ऋ॑ख्सा॒माभ्यां॒ यजु॑षा सं॒तर॑न्त॒ इत्या॑हर्ख्सा॒माभ्या॒॒ ह्ये॑ष यजु॑षा सं॒तर॑ति॒ यो यज॑ते रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मे॒वैतामा शास्ते ।। [4]
3.1.2.0
ए॒व ति॑ष्ठति॒ यो वा॑य॒व्य॑मस्य॒ ग्रह॒व्वैँका॒न्नवि॑श॒तिश्च॑ ।।2।।
3.1.2.1
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒माना॒॒ साम्राज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता॒द्यो वै सोम॒॒ राजा॑न॒॒ साम्राज्यं लो॒कं ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वाना॒॒ साम्राज्यं॒ छन्दा॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञः॒ साम्राज्यो लो॒कः पु॒रस्ता॒त्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्राज्यमे॒व [5]
3.1.2.2
ए॒नं॒ लो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वाना॒॒ साम्राज्य॒य्योँ वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒त्त्रिरव॑ जिघ्रेत्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यः [6]
3.1.2.3
वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त्तस्मात्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म्प्रति॑ष्ठित्यै॒ यो वा अ॑ध्व॒र्योः स्वं वेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वं वा॑य॒व्य॑मस्य [7]
3.1.2.4
स्वं च॑म॒सोऽस्य॒ स्वं यद्वा॑य॒व्यं॑ वा चम॒सं वाऽन॑न्वारभ्याश्रा॒वये॒त्स्वादि॑या॒त्तस्मा॑दन्वा॒रभ्या॒श्राव्य॒॒ स्वादे॒व नैति॒ यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठितः॒ सोमो॒ भव॒त्यप्र॑तिष्ठितः॒ स्तोमोऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युर्वा॑य॒व्यं॑ वै सोम॑स्य प्रति॒ष्ठा च॑म॒सोऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ वा गृही॒त्वा च॑म॒सं वो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्या॒त्प्रत्ये॒व सोम॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ।। [8]
3.1.3.0
भू॒त्वा तत॒ष्षड्वि॑शतिश्च ।।3।।
3.1.3.1
य॒ज्ञं वा ए॒तत्सम्भ॑रन्ति॒ यत्सो॑म॒क्रय॑ण्यै प॒दय्यँ॑ज्ञमु॒ख ह॑वि॒र्धाने॒ यऱ्हि॑ हवि॒र्धाने॒ प्राची प्रव॒र्तये॑यु॒स्तऱ्हि॒ तेनाक्ष॒मुपाञ्ज्याद्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सं त॑नोति॒ प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वना॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ईश्व॒रो रु॒द्रो भू॒त्वा [9]
3.1.3.2
प्र॒जाम्प॒शून््यज॑मानस्य॒ शम॑यितो॒र्यऱ्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्चं॒ नय॑न्ति॒ तऱ्हि॒ तस्य॑ पशु॒श्रप॑ण हरे॒त्तेनै॒वैन॑म्भा॒गिनं॑ करोति॒ यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानं॒ वा ए॒तद्वि क॑ऱ्षन्ते॒ यदा॑हव॒नीयात्पशु॒श्रप॑ण॒॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यं॑ वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॒ यदि॑ प॒शोर॑व॒दानं॒ नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्ये॒त्सैव ततः॒ प्राय॑श्चित्ति॒र्ये प॒शुं वि॑मथ्नी॒रन््यस्तान्का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाग्नीध्रे जुहुया॒न्नमो॑वृक्तिमे॒वैषां वृङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ।। [10]
3.1.4.0
ईशे प्रमु॒ञ्चमा॑ना य॒ज्ञन्त्व षोड॑श च ।।4।।
3.1.4.1
प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वा अनु॑ मन्यताम् । इ॒मम्प॒शुम्प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् । प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे प्रा॒णमङ्गेभ्यः॒ पर्या॒चर॑न्तम् । सु॒व॒र्गं या॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः । येषा॒मीशे [11]
3.1.4.2
प॒शु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदाम् । निष्क्री॑तो॒ऽयं य॒ज्ञिय॑म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु । ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ता अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ता अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । प्र॒मु॒ञ्चमा॑नाः [12]
3.1.4.3
भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑त शशमा॒नं यदस्थाज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ । नाना प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः । यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वान्मुञ्च॒त्वह॑सः । शमि॑तार उ॒पेत॑न य॒ज्ञम् [13]
3.1.4.4
दे॒वेभि॑रिन्वि॒तम् । पाशात्प॒शुम्प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒म्परि॑ । अदि॑तिः॒ पाश॒म्प्र मु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि । अ॒रा॒ती॒यन्त॒मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाशम् । त्वामु॒ ते द॑धिरे हव्य॒वाह॑ शृतंक॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑क्षः॒ सत॑नु॒ऱ्हि भू॒त्वाऽथ॑ ह॒व्या जा॑तवेदो जुषस्व । जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्व हि होता प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृत ह॒विर॑दन्तु दे॒वाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा ।। [14]
3.1.5.0
व्यावृ॑त्त्या अ॒भितो॑ व॒पां पञ्च॑ च ।।5।।
3.1.5.1
प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषा॑ रु॒द्रोऽधि॑पति॒र्यदे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मे॒वैन॑म्प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽनाव्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒न्नाना प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै [15]
3.1.5.2
यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायां॒ वा आह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रु॒न्द्धेऽथो॑ शृत॒त्वाय॑ पु॒रस्तात्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टात्स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां जु॑होति॒ ताने॒वोभयान्प्रीणाति ।। [16]
3.1.6.0
अ॒न्तरि॑क्षेण बृह॒ती त्रय॑स्त्रिशच्च ।।6।।
3.1.6.1
यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॒त्या दे॒वताभ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्यर्चाग्नीध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्यान्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण [17]
3.1.6.2
ते॒ स॒ह यु॒नज्मि॒ वाच॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपा॒॒शोः पात्र॑मसि॒ सोमो॑ दे॒वता त्रि॒ष्टुप्छन्दोऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र्दे॒वता॑ऽनु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनोः॒ पात्र॑मसि॒ सूर्यो॑ दे॒वता॑ बृह॒ती [18]
3.1.6.3
छन्दः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒म्पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट्छन्दो ध्रु॒वस्य॒ पात्र॑मसि ।। [19]
3.1.7.0
प्रा॒णा॒पा॒नयोर्भू॒तव्वृँ॑ङ्क्ते॒ऽष्टावि॑शतिश्च ।।7।।
3.1.7.1
इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्ये॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यत आस॒न्यान्मा॒ मन्त्रात्पाहि॒ कस्याश्चिद॒भिश॑स्त्या॒ इति॑ पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ एव॒ तद॑ध्व॒र्युः पु॒रस्ता॒च्छर्म॑ नह्य॒तेऽनार्त्यै संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभूत्यै॒ स्वाहा॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒म्प्राणा॑पानौ॒ मा मा॑ हासिष्टं दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयोः [20]
3.1.7.2
व्याय॑च्छन्ते॒ येषा॒॒ सोमः॑ समृ॒च्छते॑ संवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दा॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दा॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरेत्य॒द्य वाव र॑थंत॒र श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति भू॒तम् [21]
3.1.7.3
वाव र॑थंत॒रम्भ॑वि॒ष्यद्बृ॒हद्भू॒ताच्चै॒वैन॑म्भविष्य॒तश्चा॒न्तरे॑ति॒ परि॑मितं॒ वाव र॑थंत॒रमप॑रिमितम्बृ॒हत्परि॑मिताच्चै॒वैन॒मप॑रि- मिताच्चा॒न्तरे॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒॒ स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्य॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ यस्य॒ भूया॑सो यज्ञक्र॒तव॒ इत्या॑हुः॒ स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒त्स्यादु॒क्थ्यं॑ कुर्वीत॒ यद्यु॒क्थ्यः॑ स्याद॑तिरा॒त्रं कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान्भवति ।। [22]
3.1.8.0
त॒र्पय॑त माऽभिषू॒यमा॑णस्य॒ यश्च॒ दश॑ च ।।8।।
3.1.8.1
नि॒ग्रा॒भ्याः स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णम्मे॑ तर्पयतापा॒नम्मे॑ तर्पयत व्या॒नम्मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्र॑म्मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाच॑म्मे तर्पयता॒त्मान॑म्मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जाम्मे॑ तर्पयत प॒शून्मे॑ तर्पयत गृ॒हान्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत स॒र्वग॑णम्मा तर्पयत त॒र्पय॑त मा [23]
3.1.8.2
ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒ वै राज्ञः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रः सोमोऽवी॑वृधं वो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संविदा॒ना अनु॑ मन्यन्ता॒॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैन॒॒ स्वायै॑ वि॒शः स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य [24]
3.1.8.3
प्र॒थ॒मोऽ॑शुः स्कन्द॑ति॒ स ईश्व॒र इ॑न्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून््यज॑मानस्य॒ निऱ्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता मास्कान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धी॒रित्या॒शिष॑मे॒वैतामा शास्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः ।। [25]
3.1.9.0
द॒धा॒त्वा॒यत॑नवती॒र्या उ॑पजीव॒नीयो॑ भवति॒ तेऽदु॒र्वै यत्रै॒तमेका॑दश च ।।9।।
3.1.9.1
यो वै दे॒वान्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्यान्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहान्गृह्णी॒यात्तानु॑पा॒॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वास्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेनार्पयति मनु॒ष्यान्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्येष्व॒ग्निः प्रा॑तःसव॒ने पात्व॒स्मान््वैश्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नः॑ पाव॒को द्रवि॑णं दधातु [26]
3.1.9.2
आयु॑ष्मन्तः स॒हभ॑क्षाः स्याम । विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वाना॑ सुम॒तौ स्या॑म । इ॒दं तृ॒तीय॒॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु । आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः [27]
3.1.9.3
सौ॒म्यास्ता अ॑नायत॒ना ऐन्द्रवाय॒वमा॒दाया॑घा॒रमा घा॑रयेदध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒तायाध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृत॒व॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान्भवति॒ य ए॒वं वेदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति [28]
3.1.9.4
य ए॒वं वेदै॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व वि॒देर्गौ॑प॒त्य रा॒यस्पोष॑ सु॒वीर्य॑ संवत्स॒रीणा॑ स्व॒स्तिम् । मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒त्स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यं॒ वस॑न्तं॒ निर॑भज॒त्स आग॑च्छ॒त्सोऽब्रवीत्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवी॒दङ्गि॑रस इ॒मे स॒त्तमा॑सते॒ ते [29]
3.1.9.5
सु॒व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि॒ ते सु॑व॒र्गं लो॒कय्यँन्तो॒ य ए॑षाम्प॒शव॒स्तास्ते॑ दास्य॒न्तीति॒ तदेभ्योऽब्रवी॒त्ते सु॑व॒र्गं लो॒कय्यँन्तो॒ य ए॑षाम्प॒शव॒ आस॒न्तान॑स्मा अददु॒स्तम्प॒शुभि॒श्चर॑न्तं यज्ञवा॒स्तौ रु॒द्र आग॑च्छ॒त्सोऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै [30]
3.1.9.6
मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्माद्यज्ञवा॒स्तु नाभ्य॒वेत्य॒॒ सोऽब्रवीद्य॒ज्ञे मा भ॒जाथ॑ ते प॒शून्नाभि म॑स्य॒ इति॒ तस्मा॑ ए॒तम्म॒न्थिनः॑ सस्रा॒वम॑जुहो॒त्ततो॒ वै तस्य॑ रु॒द्रः प॒शून्नाभ्य॑मन्यत॒ यत्रै॒तमे॒वं वि॒द्वान्म॒न्थिनः॑ सस्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते ।। [31]
3.1.10.0
प॒रि॒वा॒पात्प्र॒जां मयि॑ दुह्रते॒ चतु॑र्दश च ।।10।।
3.1.10.1
जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒त्तस्मि॑न्मा धाः॒ स्वाहा॒ सर॑स्वत्यै । ऋ॒चा स्तोम॒॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि । यस्ते द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अ॒॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्थात् । अ॒ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि । यो द्र॒प्सो अ॒॒शुः प॑ति॒तः पृ॑थि॒व्याम्प॑रिवा॒पात् [32]
3.1.10.2
पु॒रो॒डाशात्कर॒म्भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रात्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि । यस्ते द्र॒प्सो मधु॑मा इन्द्रि॒यावा॒न्त्स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि । अ॒ध्व॒र्युर्वा ऋ॒त्विजाम्प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जाम्मयि॑ [33]
3.1.10.3
च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्र॒हान्गृही॒त्वा ब॑हिष्पवमा॒न सर्प॑न्ति॒ पराञ्चो॒ हि यन्ति॒ परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाक॒र्विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्सं॑ दुह्रते॒ अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना प्या॑ययति ।। [34]
3.1.11.0
वी॒र इष॑ ह॒व्यमु॒षसो॑ मरुतश्च॒ वृष्टिं॒ भग॑स्य॒ द्वाद॑श च ।।11।।
3.1.11.1
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ।। गोमा॑ अ॒ग्नेऽवि॑मा अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वा ए॒षो अ॑सुर प्र॒जावान्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ।। आ प्या॑यस्व॒ सं ते ।। इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ।। तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः [35]
3.1.11.2
क॒र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः । शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना । य॒ज्ञेय॑ज्ञे न॒ उद॑व । पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ । प्र णो॑ दे॒व्या नो॑ दि॒वः । पी॒पि॒वास॒॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । धु॒क्षी॒महि॑ प्र॒जामिषम् ।। [36]
3.1.11.3
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां ते सु॒म्नमी॑महे । यस्य॑ व्र॒तम्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॒ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्त सर॑स्वन्त॒मव॑से हुवेम । दि॒व्य सु॑प॒र्णं व॑य॒सम्बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ त सर॑स्वन्त॒मव॑से हुवेम । सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा । जु॒षस्व॑ ह॒व्यम् [37]
3.1.11.4
आहु॑तम्प्र॒जां दे॑वि दिदिड्ढि नः । या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन । इन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ । असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आऽव॑वृत्र॒न्त्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते । हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसः॑ [38]
3.1.11.5
नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः । आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा । वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि । पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुतः [39]
3.1.11.6
ऋ॒ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे । अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृति॒॒ सु क॑ऱ्ष॒ विषि॑तं॒ न्य॑ञ्च स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः । त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः । अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ [40]
3.1.11.7
मा॒या मा॒यिनां विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो । दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुतेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ । पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथेष्वा॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् । उ॒द॒प्रुतो॑ मरुत॒स्ता इ॑यर्त॒ वृष्टिम् [41]
3.1.11.8
ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या । घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ । उदु॒ त्यञ्चि॒त्रम् । औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्नि स॑मु॒द्रवा॑ससम् । आ स॒व स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जि हु॑वे । अ॒ग्नि स॑मु॒द्रवा॑ससम् । हु॒वे वात॑स्वनं क॒विम्प॒र्जन्य॑क्रन्द्य॒॒ सहः॑ । अ॒ग्नि स॑मु॒द्रवा॑ससम् ।। [42]
3.2.0.0
यो वै पव॑मानाना॒न्त्रीणि॑ परि॒भूः स्फ्यस्स्व॒स्तिर्भक्षेहि॑ मही॒नां पयो॑ऽसि॒ देव॑ सवितरे॒तत्ते श्ये॒नाय॒ यद्वै होतो॑पयाम॒गृ॑हीतोऽसि वाक्ष॒सत्प्र सो अ॑ग्न॒ एका॑दश ।।11।। यो वै स्फ्यः स्व॒स्तिः स्व॒धायै॒ नमः॒ प्र मु़॑ञ्च॒ तिष्ठ॑तीव॒ षट्च॑त्वारिशत् ।।46।। यो वै पव॑मानानां॒ वि क्र॑मस्व ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे द्वितीयः प्रश्नः ।।
3.2.1.0
ए॒ते वि द्विच॑त्वारिशच्च ।।1।।
3.2.1.1
यो वै पव॑मानानामन्वारो॒हान््वि॒द्वान््यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय॒ सघा॑सि॒ जग॑तीछन्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑र॒येत्या॑है॒ते [1]
3.2.1.2
वै पव॑मानानामन्वारो॒हास्तान््य ए॒वं वि॒द्वान््यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते॒ यो वै पव॑मानस्य॒ संत॑तिं॒ वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते प्र॒जाम्पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृत्तान््यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानं॒ वि [2]
3.2.1.3
छि॒न्द्या॒त्तं वि॒च्छिद्य॑मानमध्व॒र्योः प्रा॒णोऽनु॒ विच्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीय॒व्विँश्वेभ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॒म्पव॑मानमे॒व तत्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते प्र॒जाम् ।। [3]
3.2.2.0
अप॑श्यन्तोऽग्नीषो॒मीय॑मा॒त्मना॒ परा॒ त्रीणि॑ च ।।2।।
3.2.2.1
त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृ॒तीय॒॒ सव॑न॒मव॑ लुम्पन्त्यन॒॒शु कु॒र्वन्त॑ उपा॒॒शु हु॒त्वोपा॑शुपा॒त्रेऽ॑शुम॒वास्य॒ तं तृ॑तीयसव॒ने॑ऽपि॒सृज्या॒भि षु॑णुया॒द्यदाप्या॒यय॑ति॒ तेना॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वाण्ये॒व तत्सव॑नान्यशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒ द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः । तयोः॒ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः [4]
3.2.2.2
सेतु॒नाति॑ यन्त्य॒न्यम् । द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्यसि॑तं॒ वसा॑नः शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै । दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताऽ- ग्निहो॒त्रं व्र॒तम॑कुर्वत॒ तस्मा॒द्द्विव्र॑तः स्या॒द्द्विऱ्ह्य॑ग्निहो॒त्रं जुह्व॑ति पौर्णमा॒सं य॒ज्ञम॑ग्नीषो॒मीयम् [5]
3.2.2.3
प॒शुम॑कुर्वत दा॒र्श्यं य॒ज्ञमाग्ने॒यम्प॒शुम॑कुर्वत वैश्वदे॒वम्प्रा॑तःसव॒नम॑कुर्वत वरुणप्रघा॒सान्माध्यं॑दिन॒॒ सव॑न साकमे॒धान्पि॑तृय॒ज्ञं त्र्य॑म्बकास्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगास॒न्तं नान्ववा॑य॒न्तेऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ तद॑ध्व॒रस्याध्वर॒त्वन्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति ।। [6]
3.2.3.0
वा॒चे रू॒पेभ्यो॑ वर्चो॒दा आ॑मया॒वी पञ्च॑चत्वारिशच्च ।।3।।
3.2.3.1
प॒रि॒भूर॒ग्निम्प॑रि॒भूरिन्द्र॑म्परि॒भूर्विश्वान्दे॒वान्प॑रि॒भूर्मा स॒ह ब्र॑ह्मवर्च॒सेन॒ स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते॒ श रा॑ज॒न्नोष॑धी॒भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे । प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वापा॒नाय॑ व्या॒नाय॑ वा॒चे [7]
3.2.3.2
द॒क्ष॒क्र॒तुभ्या॒ञ्चक्षु॑र्भ्याम्मे वर्चो॒दौ वर्च॑से पवेथा॒॒ श्रोत्रा॑या॒त्मनेऽङ्गेभ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षां दे॒वानां ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒ को॑ऽसि॒ को नाम॒ कस्मै त्वा॒ काय॑ त्वा॒ यं त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सोमे॒नामी॑मद सुप्र॒जाः प्र॒जया॑ भूयास सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषै॒र्विश्वेभ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः [8]
3.2.3.3
वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे । बुभू॑ष॒न्नवेक्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो भूत्या॒ऽभि प॑वते ब्रह्मवर्च॒सका॒मोऽवेक्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑तिस्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत आमया॒वी [9]
3.2.3.4
अवेक्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्त आयु॑षा॒भि प॑वतेऽभि॒चर॒न्नवेक्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तः प्रा॑णापा॒नाभ्यां वा॒चो द॑क्षक्र॒तुभ्यां॒ चक्षु॑र्भ्या॒॒ श्रोत्राभ्यामा॒त्मनोऽङ्गेभ्य॒ आयु॑षो॒ऽन्तरे॑ति ता॒जक्प्र ध॑न्वति ।। [10]
3.2.4.0
म॒खो वा अ॒न्तरि॑क्षात्प्र॒सर्प॑न्त॒न्त्रय॑स्त्रिशच्च ।।4।।
3.2.4.1
स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर््शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृतः॑ स्थ॒ ते मा॒स्मिन््य॒ज्ञ उप॑ ह्वयध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपास्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ता॒न्नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशोऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खः [11]
3.2.4.2
य॒ज्ञं वाव स तद॑ह॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽनार्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नीध्रं॒ तस्मा॑ ए॒व न॑मङस्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽनार्त्यै नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा॒ निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शास्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै [12]
3.2.4.3
दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒ सद॒स्यार्ति॒मार्प॑यन्ति॒ ता य ए॒वं वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒ माह॑सस्पात॒॒ सूर्यो॑ मा दे॒वो दि॒व्यादह॑सस्पातु वा॒युर॒न्तरि॑क्षात् [13]
3.2.4.4
अ॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्येभ्यो॒ देवी द्वारौ॒ मा मा॒ सं ता॑प्त॒म् नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒ नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ योऽस्मत्पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च गेषम्पा॒तम्मा द्यावापृथिवी अ॒द्याह्नः॒ सदो॒ वै प्र॒सर्प॑न्तम् [14]
3.2.4.5
पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्धम्परेक्षे॒ताग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयास सुप्र॒जसो॒ मया॑ यू॒यम्भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽनार्त्यै ।। [15]
3.2.5.0
वि॒श्व॒च॒र््ष॒णे॒ त्रि॒ष्टुफ्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीत॒स्याति॑ स्तु॒तस्तो॑मस्य जी॒वाय॒ नमो॑ वः पितरो बभूव॒ चतु॑श्चत्वारिशच्च ।।5।।
3.2.5.1
भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शंतनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दोऽस्य॒श्विनोस्त्वा बा॒हुभ्या॑ सघ्यासम् नृ॒चक्ष॑सं त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषम् म॒न्द्राभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचऱ्षणे [16]
3.2.5.2
श॒म्भूर्म॑यो॒भूः स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ।। वसु॑मद्गणस्य सोम देव ते मति॒विदः॑ प्रातःसव॒नस्य॑ गाय॒त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्यं॑दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य [17]
3.2.5.3
पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयाम्यादि॒त्यव॑द्गणस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि । आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे । हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒ऱ्षीनुप॑ तिष्ठस्व॒ मा मेऽवा॒ङ्नाभि॒मति॑ [18]
3.2.5.4
गाः॒ । अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य । यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहार्जा॒तवे॑दा॒ विच॑ऱ्षणिः । पुन॑र॒ग्निश्चक्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वं चक्षु॒रा ध॑त्तम॒क्ष्योः । इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य [19]
3.2.5.5
श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि । आ॒पूर्याः॒ स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गम्म॑न्दध्व॒म् नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः [20]
3.2.5.6
स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑ल्लोँ॒के स्थ यु॒ष्मास्तेऽनु॒ येऽस्मिल्लोँ॒के मां तेऽनु॒ य ए॒तस्मि॑ल्लोँ॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ येऽस्मिल्लोँ॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयास॒म् प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।। [21]
3.2.5.7
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् । दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सोऽ- व॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्य॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑ सु॒तस्ये॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षंकृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ।। [22]
3.2.6.0
ते॒ पृ॒ष॒दा॒ज्यम्प्रा॒णो वै योनेः प्रा॒णन्द्वावि॑शतिश्च ।।6।।
3.2.6.1
म॒ही॒नाम्पयो॑ऽसि॒ विश्वे॑षां दे॒वानां त॒नूर््ऋ॒ध्यास॑म॒द्य पृ॑षतीनां॒ ग्रह॒म्पृष॑तीनां॒ ग्रहो॑ऽसि॒ विष्णो॒ऱ्हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वानु॒ वि च॑क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रम्पृश्नि॑यै दु॒ग्धम् याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते [23]
3.2.6.2
ग्रह॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् । यत्कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वाऽव॑मृ॒शेच्चतु॑ष्पादो- ऽस्य प॒शवः॑ प्र॒मायु॑काः स्यु॒र्यत्स्कन्दे॒द्यज॑मानः प्र॒मायु॑कः स्यात्प॒शवो॒ वै पृ॑षदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्य स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यम्प्रा॒णो वै [24]
3.2.6.3
ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्य स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒ हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतं॒ वै हिर॑ण्यम्प्रा॒णः पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वः॑ प्राजाप॒त्यः प्रा॒णः स्वादे॒वास्मै॒ योनेः प्रा॒णं निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्य स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञ सं त॑नोति ।। [25]
3.2.7.0
श॒स्त्रव्वैँ श॒स्त्रन्दु॑हा॒न्द्वावि॑शतिश्च ।।7।।
3.2.7.1
देव॑ सवितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सु॒व प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पात्साम्नः॑ स॒त्या व॑ आ॒शिषः॑ सन्तु स॒त्या आकू॑तय ऋ॒तं च॑ स॒त्यं च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्य॑ स्तु॒तं दु॑हा॒मा मा स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम् [26]
3.2.7.2
अ॒स्यूर्ज॒म्मह्य॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्यादिन्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिषम् । सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयात् ब्रह्मवर्च॒सम्मा ग॑म्यात् । य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मा अधि॑पतीन्करोतु व॒य स्या॑म॒ पत॑यो रयी॒णाम् । य॒ज्ञो वा॒ वै [27]
3.2.7.3
य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञं दु॑हे॒ स यः स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न््यज॑ते॒ तं य॒ज्ञो दु॑हे स इ॒ष्ट्वा पापी॑यान्भवति॒ य ए॑नयो॒र्दोहं॑ वि॒द्वान््यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्य॑ स्तु॒तं दु॑हा॒मा मा स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्ज॒म्मह्य॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं॒ य ए॒वं वि॒द्वान््यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ।। [28]
3.2.8.0
एन॑सा विश्वकर्म॒न््यो दक्षि॑णां॒ न स॑र्पिर्ग्री॒वी वैश्वान॒राश्च॑त्वारि॒॒शच्च॑ ।।8।।
3.2.8.1
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमः॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णा॒॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णा॒॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट्त्स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृ॒म्पन्ता॒॒ होत्रा॒ मधोर्घृ॒तस्य॑ य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा [29]
3.2.8.2
आ॒हुः॒ । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ स्तो॒कावप॒ तौ र॑राध । सं न॒स्ताभ्या॑ सृजतु वि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चक्षु॑ष एषा॒म्मन॑सश्च सं॒धौ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ । नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्त्सो॑म॒पान्मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्त्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् । तं वि॑श्वकर्मन्न् [30]
3.2.8.3
प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसून्यानृ॒हुः । यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्विष्टिं न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा । नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न््यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा न॒स्तस्मा॒देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्यास्ते॒ सर्वे॑ दक्षि॒ण्यास्तेभ्यो॒ यो दक्षि॑णां॒ न [31]
3.2.8.4
न॒ये॒दैभ्यो॑ वृश्च्येत॒ यद्वैश्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकित्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्नु॒तः । पुमान्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः । आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचता॒॒ समो॑कसा । य आसि॑च॒त्संदु॑ग्धं कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः । स॒र्पि॒र्ग्री॒वी [32]
3.2.8.5
पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यः सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिर॑ स॒ह कु॒म्भ्यादात् । आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑ण॒॒ सव॑र्चसम् । सं॒जय॒न्क्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्या अध॑रान्त्स॒पत्नान्॑ । भू॒तम॑सि भू॒ते मा॑ धा॒ मुख॑मसि॒ मुख॑म्भूयास॒म् द्यावा॑पृथि॒वीभ्यां त्वा॒ परि॑ गृह्णामि॒ विश्वे त्वा दे॒वा वैश्वान॒राः [33]
3.2.8.6
प्र च्या॑वयन्तु दि॒वि दे॒वान्दृ॑हा॒न्तरि॑क्षे॒ वया॑सि पृथि॒व्याम्पार्थि॑वान्ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्म सु॒मना॒ अस॑त् । यथा॑ न॒ इन्द्र॒ इद्विशः॒ केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ऽस्माकं॒ केव॑लीरसन्न्॑ ।। [34]
3.2.9.0
सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते॒ त्रीण्ये॒तान्य॒क्षरा॑णीन्द्रि॒यम्माध्य॑न्दिन॒॒ सव॑न॒न्नोद्गा॑तृ॒णाम॑ध्व॒र्युर्नैति॑ वर्तयत्य॒ष्टौ च॑ ।।9।।
3.2.9.1
यद्वै होताध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नं गा॑यत्रि॒यैव प्रा॑तःसव॒ने वज्र॑म॒न्तर्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्यं॑दिन॒॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्यं॑दिन॒॒ सव॑नं त्रि॒ष्टुभै॒व माध्यं॑दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते [35]
3.2.9.2
उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति स त्वा अ॑ध्व॒र्युः स्या॒द्यो य॑थासव॒नम्प्र॑तिग॒रे छन्दा॑सि सम्पा॒दये॒त्तेजः॑ प्रातःसव॒न आ॒त्मन्दधी॑तेन्द्रि॒यम्माध्यं॑दिने॒ सव॑ने प॒शूस्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि [36]
3.2.9.3
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नम्प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे छन्दा॑सि॒ सम्पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रातःसव॒नं तेज॑ ए॒व प्रा॑तःसव॒न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्यं॑दिन॒॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्यं॑दिन॒॒ सव॑न॒म्माध्यं॑दिन ए॒व सव॑ने प्रतिग॒रे छन्दा॑सि॒ सम्पा॑दय॒त्यथो॑ इन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यम्माध्यं॑दिन॒॒ सव॑नम् [37]
3.2.9.4
इ॒न्द्रि॒यमे॒व माध्यं॑दिने॒ सव॑न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दा॑सि॒ सम्पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नम्प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते॒ यद्वै होताध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्न [38]
3.2.9.5
अ॒प॒हनी॑त पु॒रास्य॑ संवत्स॒राद्गृ॒ह आ वे॑वीर॒ञ्छोसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑ताम्प्र॒तीक्ष॑त ए॒वम॑ध्व॒र्युः प्र॑तिग॒रम्प्रतीक्षते॒ यद॑भिप्रतिगृणी॒याद्यथाय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् [39]
3.2.9.6
ऋ॒चः प्र॑ण॒व उ॑क्थश॒॒सिनाम्प्रतिग॒रो॑ऽध्वर्यू॒णाम् य ए॒वं वि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायां वा॒जी जा॑यत इ॒यम्वै होता॒साव॑ध्व॒र्युर्यदासी॑नः॒ शस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत्तिष्ठ॑न्प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नैति॑ [40]
3.2.9.7
तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑नः॒ शस॑ति॒ तस्मा॑दि॒तःप्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतः॑प्रदानम्मनु॒ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासी॑नः॒ शस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मात्प्रा॒चीन॒॒ रेतो॑ धीयते प्र॒तीचीः प्र॒जा जा॑यन्ते॒ यद्वै होताध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ।। [41]
3.2.10.0
र॒क्ष॒स्व॒ भ्रातृ॑व्य॒स्त्रयो॑दश च ।।10।।
3.2.10.1
उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्यां त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतो- ऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्यां त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्यां त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वेभ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्त र॑क्षस्व [42]
3.2.10.2
तं ते॑ दु॒श्चक्षा॒ माव॑ ख्य॒त् मयि॒ वसुः॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि॒ मयि॒ वसु॑र्वि॒दद्व॑सुश्चक्षु॒ष्पाश्चक्षु॑र्मे पाहि॒ मयि॒ वसुः॑ सं॒यद्व॑सुः श्रोत्र॒पाः श्रोत्र॑म्मे पाहि॒ भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम्प्रा॑ण॒पाः प्रा॒णम्मे॑ पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि॒ यो न॑ इन्द्रवायू मित्रावरुणावश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हं तमध॑रम्पादयामि॒ यथेन्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ।। [43]
3.2.11.0
इ॒षाऽथ॑ त्वा॒ त्रयो॑दश च ।।11।।
3.2.11.1
प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्व स॒ख्यमावि॑थ । प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योती॑षि॒ बिभ्र॑ते॒ न वे॒धसे । अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन्न् । सं वां॒ कर्म॑णा॒ समि॒षा [44]
3.2.11.2
हि॒नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता । उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् । त्रीण्यायू॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथ॑ [45]
3.2.11.3
भ॒व॒ यज॑मानाय॒ शं योः । अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्री॑रेकाद॒शा इ॒ह । यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे । इन्द्रा॑विष्णू दृहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒क ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् । उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथाब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ।। [46]
3.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे तृतीयः प्रश्नः ।।
3.3.0.0
अग्ने॑ तेजस्विन्वा॒युर्वस॑वस्त्वै॒तद्वा अ॒पां वा॒युर॑सि प्रा॒णो नाम॑ दे॒वा वै यद्य॒ज्ञेन॒ न प्र॒जाप॑तिर्देवासु॒राना॑यु॒र्दा ए॒तय्युँवा॑न॒॒ सूर्यो॑ दे॒व इ॒दव्वाँ॒मेका॑दश ।।11।। अग्ने॑ तेजस्विन्वा॒युर॑सि॒ छन्द॑सां वी॒र्यं॑ मा॒तर॑ञ्च॒ षट्त्रि॑शत् ।।36।। अग्ने॑ तेजस्विश्चिकि॒तुषे॑ दधातु ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.3.1.0
क्ष॒त्रस्य॑ च॒ मयि॒ त्रयो॑विशतिश्च ।।1।।
3.3.1.1
अग्ने॑ तेजस्विन्तेज॒स्वी त्वं दे॒वेषु॑ भूया॒स्तेज॑स्वन्त॒म्मामायु॑ष्मन्तं॒ वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु दी॒क्षायै॑ च त्वा॒ तप॑सश्च॒ तेज॑से जुहोमि तेजो॒विद॑सि॒ तेजो॑ मा॒ मा हा॑सी॒न्माऽहं तेजो॑ हासिष॒म्मा मां तेजो॑ हासी॒दिन्द्रौ॑जस्विन्नोज॒स्वी त्वं दे॒वेषु॑ भूया॒ ओज॑स्वन्त॒म्मामायु॑ष्मन्तं॒ वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु॒ ब्रह्म॑णश्च त्वा क्ष॒त्रस्य॑ च [1]
3.3.1.2
ओज॑से जुहोम्योजो॒विद॒स्योजो॑ मा॒ मा हा॑सी॒न्माहमोजो॑ हासिष॒म्मा मामोजो॑ हासी॒त्सूर्य॑ भ्राजस्विन्भ्राज॒स्वी त्वं दे॒वेषु॑ भूया॒ भ्राज॑स्वन्त॒म्मामायु॑ष्मन्तं॒ वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु वा॒योश्च॑ त्वा॒ऽपां च॒ भ्राज॑से जुहोमि सुव॒र्विद॑सि॒ सुव॑र्मा॒ मा हा॑सी॒न्माह सुव॑ऱ्हासिष॒म्मा मा सुव॑ऱ्हासी॒न्मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ।। [2]
3.3.2.0
श॒॒सि॒ष॒द्विश्वे॑ दे॒वा अ॒ष्टावि॑शतिश्च ।।2।।
3.3.2.1
वा॒युऱ्हिं॑क॒र्ताऽग्निः प्र॑स्तो॒ता प्र॒जाप॑तिः॒ साम॒ बृह॒स्पति॑रुद्गा॒ता विश्वे॑ दे॒वा उ॑पगा॒तारो॑ म॒रुतः॑ प्रतिह॒र्तार॒ इन्द्रो॑ नि॒धनं॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णम्मयि॑ दधत्वे॒तद्वै सर्व॑मध्व॒र्युरु॑पाकु॒र्वन्नु॑द्गा॒तृभ्य॑ उ॒पाक॑रोति॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णम्मयि॑ दध॒त्वित्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्त॒ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शसिष॒द्विश्वे॑ दे॒वाः [3]
3.3.2.2
सू॒क्त॒वाच॒ः पृथि॑वि मात॒र्मा मा॑ हिसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यास शुश्रू॒षेण्याम्मनु॒ष्येभ्य॒स्तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ।।[4]
3.3.3.0
शक्व॑रीष्व॒ग्नेर्बृह॒स्पतिः॒ पञ्च॑विशतिश्च ।।3।।
3.3.3.1
वस॑वस्त्वा॒ प्र वृ॑हन्तु गाय॒त्रेण॒ छन्द॑सा॒ऽग्नेः प्रि॒यम्पाथ॒ उपे॑हि रु॒द्रास्त्वा॒ प्र वृ॑हन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्र॑स्य प्रि॒यम्पाथ॒ उपेह्यादि॒त्यास्त्वा॒ प्र वृ॑हन्तु॒ जाग॑तेन॒ छन्द॑सा॒ विश्वे॑षां दे॒वानाम्प्रि॒यम्पाथ॒ उपे॑हि॒ मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नोमि भ॒न्दना॑सु॒ कोत॑नासु॒ नूत॑नासु॒ रेशी॑षु॒ मेषी॑षु॒ वाशी॑षु विश्व॒भृत्सु॒ माध्वी॑षु ककु॒हासु॒ शक्व॑रीषु [5]
3.3.3.2
शु॒क्रासु॑ ते शुक्र शु॒क्रमा धू॑नोमि शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒म्यह्नो॑ रू॒पेण॒ सूर्य॑स्य र॒श्मिभिः॑ । आऽस्मि॑न्नु॒ग्रा अ॑चुच्यवुर्दि॒वो धारा॑ असश्चत । क॒कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हत्सोमः॒ सोम॑स्य पुरो॒गाः शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहो॒शिक्त्वं दे॑व सोम गाय॒त्रेण॒ छन्द॑सा॒ऽग्नेः [6]
3.3.3.3
प्रि॒यम्पाथो॒ अपी॑हि व॒शी त्वं दे॑व सोम॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्र॑स्य प्रि॒यम्पाथो॒ अपीह्य॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ जाग॑तेन॒ छन्द॑सा॒ विश्वे॑षां दे॒वानाम्प्रि॒यम्पाथो॒ अपी॒ह्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ आन्तरि॑क्षाद्दि॒वस्परि॑ । आयुः॑ पृथि॒व्या अध्य॒मृत॑मसि प्रा॒णाय॑ त्वा । इ॒न्द्रा॒ग्नी मे॒ वर्चः॑ कृणुतां॒ वर्चः॒ सोमो॒ बृह॒स्पतिः॑ । वर्चो॑ मे॒ विश्वे॑ दे॒वा वर्चो॑ मे धत्तमश्विना । द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ।। [7]
3.3.4.0
उ॒ग्रा ए॒त्याप॒स्त्रीणि॑ च ।।4।।
3.3.4.1
ए॒तद्वा अ॒पां ना॑म॒धेयं॒ गुह्यं॒ यदा॑धा॒वा मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नो॒मीत्या॑हा॒पामे॒व ना॑म॒धेये॑न॒ गुह्ये॑न दि॒वो वृष्टि॒मव॑ रुन्द्धे शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒मीत्या॑है॒तद्वा अह्नो॑ रू॒पं यद्रात्रिः॒ सूर्य॑स्य र॒श्मयो॒ वृष्ट्या॑ ईश॒तेऽह्न॑ ए॒व रू॒पेण॒ सूर्य॑स्य र॒श्मिभि॑र्दि॒वो वृ॑ष्टिं च्यावय॒त्याऽस्मि॑न्नु॒ग्राः [8]
3.3.4.2
अ॒चु॒च्य॒वु॒रित्या॑ह यथाय॒जुरे॒वैतत्क॑कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हदित्या॑है॒तद्वा अ॑स्य ककु॒ह रू॒पं यद्वृष्टी॑ रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे॒ यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॒वीत्या॑है॒ष ह॒ वै ह॒विषा॑ ह॒विर्य॑जति॒ योऽदाभ्यं गृही॒त्वा सोमा॑य जु॒होति॒ परा॒ वा ए॒तस्यायुः॑ प्रा॒ण ए॑ति [9]
3.3.4.3
योऽ॑शुं गृ॒ह्णात्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ इत्या॒हायु॑रे॒व प्रा॒णमा॒त्मन्ध॑त्ते॒ऽमृत॑मसि प्रा॒णाय॒ त्वेति॒ हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒णो॑ऽमृते॑नै॒वायु॑रा॒त्मन्ध॑त्ते श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्य॒प उप॑ स्पृशति भेष॒जं वा आपो॑ भेष॒जमे॒व कु॑रुते ।। [10]
3.3.5.0
व्यो॑मन ऋ॒तस्य॑ प्रा॒णः प॒शूने॒व विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॒ षट्च॑त्वारिशच्च ।।5।।
3.3.5.1
वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्येऽपा॒नम्मे॑ दा॒श्चक्षु॑रसि॒ श्रोत्रं॒ नाम॑ धा॒तुराधि॑पत्य॒ आयु॑र्मे दा रू॒पम॑सि॒ वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये प्र॒जाम्मे॑ दा ऋ॒तम॑सि स॒त्यं नामेन्द्र॒स्याधि॑पत्ये क्ष॒त्रम्मे॑ दा भू॒तम॑सि॒ भव्यं॒ नाम॑ पितृ॒णामाधि॑पत्ये॒ऽपामोष॑धीनां॒ गर्भं॑ धा ऋ॒तस्य॑ त्वा॒ व्यो॑मन ऋ॒तस्य॑ [11]
3.3.5.2
त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒ विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑ त्वा॒ ज्योति॑षे प्र॒जाप॑तिर्वि॒राज॑मपश्य॒त्तया॑ भू॒तं च॒ भव्यं॑ चासृजत॒ तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त्तां ज॒मद॑ग्नि॒स्तप॑साऽपश्य॒त्तया॒ वै स पृश्नी॒न्कामा॑नसृजत॒ तत्पृ॑श्नीनाम्पृश्नि॒त्वम् यत्पृश्न॑यो गृ॒ह्यन्ते॒ पृश्नी॑ने॒व तैः कामा॒न््यज॑मा॒नोऽव॑ रुन्द्धे वा॒युर॑सि प्रा॒णः [12]
3.3.5.3
नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुन्द्धे॒ चक्षु॑रसि॒ श्रोत्रं॒ नामेत्या॒हायु॑रे॒वाव॑ रुन्द्धे रू॒पम॑सि॒ वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुन्द्ध ऋ॒तम॑सि स॒त्यं नामेत्या॑ह क्ष॒त्रमे॒वाव॑ रुन्द्धे भू॒तम॑सि॒ भव्यं॒ नामेत्या॑ह प॒शवो॒ वा अ॒पामोष॑धीनां॒ गर्भः॑ प॒शूने॒व [13]
3.3.5.4
अव॑ रुन्द्ध ए॒ताव॒द्वै पुरु॑षम्प॒रित॒स्तदे॒वाव॑ रुन्द्ध ऋ॒तस्य॑ त्वा॒ व्यो॑मन॒ इत्या॑हे॒यं वा ऋ॒तस्य॒ व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विभू॑मन॒ इत्या॑हा॒न्तरि॑क्ष॒व्वाँ ऋ॒तस्य॒ विभू॑मा॒न्तरि॑क्षमे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒ द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॑ [14]
3.3.5.5
त्वा॒ स॒त्यायेत्या॑ह॒ दिशो॒ वा ऋ॒तस्य॑ स॒त्यं दिश॑ ए॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ ज्योति॑ष॒ इत्या॑ह सुव॒र्गो वै लो॒क ऋ॒तस्य॒ ज्योतिः॑ सुव॒र्गमे॒व लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्ताने॒वाभि ज॑यति दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।। [15]
3.3.6.0
अ॒भिजि॑त्या॒ ओष॑धयो॒ऽष्टाच॑त्वारिशच्च ।।6।।
3.3.6.1
दे॒वा वै यद्य॒ज्ञेन॒ नावारु॑न्धत॒ तत्परै॒रवा॑रुन्धत॒ तत्परा॑णाम्पर॒त्वम् यत्परे॑ गृ॒ह्यन्ते॒ यदे॒व य॒ज्ञेन॒ नाव॑रु॒न्द्धे तस्याव॑रुद्ध्यै॒ यम्प्र॑थ॒मं गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यं द्वि॒तीय॑म॒न्तरि॑क्षं॒ तेन॒ यं तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि ज॑यति यदे॒ते गृ॒ह्यन्त॑ ए॒षां लो॒काना॑म॒भिजि॑त्यै [16]
3.3.6.2
उत्त॑रे॒ष्वहः॑स्व॒मुतो॒ऽर्वाञ्चो॑ गृह्यन्तेऽभि॒जित्यै॒वेमाल्लोँ॒कान्पुन॑रि॒मं लो॒कम्प्र॒त्यव॑रोहन्ति॒ यत्पूर्वे॒ष्वहः॑स्वि॒तः पराञ्चो गृ॒ह्यन्ते॒ तस्मा॑दि॒तः पराञ्च इ॒मे लो॒का यदुत्त॑रे॒ष्वहः॑स्व॒मुतो॒ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒ तस्मा॑द॒मुतो॒ऽर्वाञ्च॑ इ॒मे लो॒कास्तस्मा॒द- या॑तयाम्नो लो॒कान्म॑नु॒ष्या॑ उप॑ जीवन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्याद॒द्भ्य ओष॑धयः॒ सम्भ॑व॒न्त्योष॑धयः [17]
3.3.6.3
म॒नु॒ष्या॑णा॒मन्न॑म्प्र॒जाप॑तिम्प्र॒जा अनु॒ प्र जा॑यन्त॒ इति॒ परा॒नन्विति॑ ब्रूया॒द्यद्गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धयः॒ सम्भ॑वन्ति॒ यद्गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो मनु॒ष्या॑णा॒मन्न॒म् यद्गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये गृह्णा॒मीति॒ तस्मात्प्र॒जाप॑तिम्प्र॒जा अनु॒ प्र जा॑यन्ते ।। [18]
3.3.7.0
स छन्द॑साव्वीँ॒र्य॑व्वाँ ए॒व तद॒ष्टौ च॑ ।।7।।
3.3.7.1
प्र॒जाप॑तिर्देवासु॒रान॑सृजत॒ तदनु॑ य॒ज्ञो॑ऽसृज्यत य॒ज्ञं छन्दा॑सि॒ ते विष्व॑ञ्चो॒ व्य॑क्राम॒न्त्सोऽसु॑रा॒ननु॑ य॒ज्ञोऽपाक्रामद्य॒ज्ञं छन्दा॑सि॒ ते दे॒वा अ॑मन्यन्ता॒मी वा इ॒दम॑भूव॒न््यद्व॒य स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्त्सोऽब्रवीत्प्र॒जाप॑ति॒श्छन्द॑सां वी॒र्य॑मा॒दाय॒ तद्वः॒ प्र दास्या॒मीति॒ स छन्द॑सां वी॒र्यम् [19]
3.3.7.2
आ॒दाय॒ तदेभ्यः॒ प्राय॑च्छ॒त्तदनु॒ छन्दा॒॒स्यपाक्राम॒ञ्छन्दा॑सि य॒ज्ञस्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं छन्द॑सां वी॒र्यं॑ वेदा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो भव॑त्या॒त्मना॒ पराऽस्य॒ भ्रातृ॑व्यो भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मै॒ कम॑ध्व॒र्युरा श्रा॑वय॒तीति॒ छन्द॑सां वी॒र्या॑येति॑ ब्रूयादे॒तद्वै [20]
3.3.7.3
छन्द॑सां वी॒र्य॑मा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ सवीर्यैरे॒व छन्दो॑भिरर्चति॒ यत्किं चार्च॑ति॒ यदिन्द्रो॑ वृ॒त्रमह॑न्नमे॒ध्यं तद्यद्यती॑न॒पाव॑पदमे॒ध्यं तदथ॒ कस्मा॑दै॒न्द्रो य॒ज्ञ आ सस्था॑तो॒रित्या॑हु॒रिन्द्र॑स्य॒ वा ए॒षा य॒ज्ञिया॑ त॒नूर्यद्य॒ज्ञस्तामे॒व तद्य॑जन्ति॒ य ए॒वं वेदोपै॑नं य॒ज्ञो न॑मति ।। [21]
3.3.8.0
कुसी॑द॒न्त्वन्न॑ एनमोषे॒द्यदि॑ पु॒र आ॑दि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ।।8।।
3.3.8.1
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तम्पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम् । आ वृ॑श्च्यते॒ वा ए॒तद्यज॑मानो॒ऽग्निभ्यां॒ यदे॑नयोः शृतं॒कृत्याथा॒न्यत्रा॑वभृ॒थम॒वैत्या॑यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒ण इत्य॑वभृ॒थम॑वै॒ष्यञ्जु॑हुया॒दाहु॑त्यै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यत्कुसी॑दम् [22]
3.3.8.2
अप्र॑तीत्त॒म्मयि॒ येन॑ य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्नि॒रव॑दये॒ तदे॒तत्तद॑ग्ने अनृ॒णो भ॑वामि । विश्व॑लोप विश्वदा॒वस्य॑ त्वा॒सञ्जु॑होम्य॒ग्धादेको॑ऽहु॒तादेकः॑ समस॒नादेकः॑ । ते नः॑ कृण्वन्तु भेष॒ज सदः॒ सहो॒ वरेण्यम् । अ॒यं नो॒ नभ॑सा पु॒रः स॒॒स्फानो॑ अ॒भि र॑क्षतु । गृ॒हाणा॒मस॑मर्त्यै ब॒हवो॑ नो गृ॒हा अ॑सन्न् । स त्वं नः॑ [23]
3.3.8.3
न॒भ॒स॒स्प॒त॒ ऊर्जं॑ नो धेहि भ॒द्रया । पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि । देव॑ सस्फान सहस्रपो॒षस्ये॑शिषे॒ स नो॑ रा॒स्वाज्या॑नि रा॒यस्पोष॑ सु॒वीर्य॑ संवत्स॒रीणा॑ स्व॒स्तिम् । अ॒ग्निर्वाव य॒म इ॒यं य॒मी कुसी॑दं॒ वा ए॒तद्य॒मस्य॒ यज॑मान॒ आ द॑त्ते॒ यदोष॑धीभि॒र्वेदि॑ स्तृ॒णाति॒ यदनु॑पौष्य प्रया॒याद्ग्री॑वब॒द्धमे॑नम् [24]
3.3.8.4
अ॒मुष्मि॑ल्लोँ॒के ने॑नीयेर॒न््यत्कुसी॑द॒मप्र॑तीत्त॒म्मयीत्युपौ॑षती॒हैव सन््य॒मं कुसी॑दं निरव॒दाया॑नृ॒णः सु॑व॒र्गं लो॒कमे॑ति॒ यदि॑ मि॒श्रमि॑व॒ चरे॑दञ्ज॒लिना॒ सक्तून्प्रदा॒व्ये॑ जुहुयादे॒ष वा अ॒ग्निर्वैश्वान॒रो यत्प्र॑दा॒व्यः॑ स ए॒वैन॑ स्वदय॒त्यह्नां वि॒धान्या॑मेकाष्ट॒काया॑मपू॒पं चतुः॑शरावम्प॒क्त्वा प्रा॒तरे॒तेन॒ कक्ष॒मुपौ॑षे॒द्यदि॑ [25]
3.3.8.5
दह॑ति पुण्य॒सम॑म्भवति॒ यदि॒ न दह॑ति पाप॒सम॑मे॒तेन॑ ह स्म॒ वा ऋ॑षयः पु॒रा वि॒ज्ञाने॑न दीर्घस॒त्त्रमुप॑ यन्ति॒ यो वा उ॑पद्र॒ष्टार॑मुपश्रो॒तार॑मनुख्या॒तारं॑ वि॒द्वान््यज॑ते॒ सम॒मुष्मि॑ल्लोँ॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽग्निर्वा उ॑पद्र॒ष्टा वा॒युरु॑पश्रो॒ताऽऽ- दि॒त्यो॑ऽनुख्या॒ता तान््य ए॒वं वि॒द्वान््यज॑ते॒ सम॒मुष्मि॑ल्लोँ॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽयं नो॒ नभ॑सा पु॒रः [26]
3.3.8.6
इत्या॑हा॒ऽग्निर्वै नभ॑सा पु॒रोऽग्निमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ स त्वं नो॑ नभसस्पत॒ इत्या॑ह वा॒युर्वै नभ॑स॒स्पति॑र्वा॒युमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ देव॑ सस्फा॒नेत्या॑हा॒सौ वा आ॑दि॒त्यो दे॒वः स॒॒स्फान॑ आदि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ।। [27]
3.3.9.0
पू॒षा क्रि॒यन्त॑ ए॒षोऽष्टौ च॑ ।।9।।
3.3.9.1
ए॒तं युवा॑न॒म्परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ । मा नः॑ शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । नमो॑ महि॒म्न उ॒त चक्षु॑षे ते॒ मरु॑ताम्पित॒स्तद॒हं गृ॑णामि । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् । दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पां गर्भ॒ ओष॑धीषु॒ न्य॑क्तः । सोम॑स्य द्र॒प्सम॑वृणीत पू॒षा [28]
3.3.9.2
बृ॒हन्नद्रि॑रभव॒त्तदे॑षाम् । पि॒ता व॒त्साना॒म्पति॑रघ्नि॒याना॒मथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम् । व॒त्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॒ मस्तु॑ घृ॒तम॑स्य॒ रेतः॑ । त्वां गावो॑ऽवृणत रा॒ज्याय॒ त्वा ह॑वन्त म॒रुतः॑ स्व॒र्काः । वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि । व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते॒ यस्यै॒तानि॒ न क्रि॒यन्त॑ ए॒ष ह॒ त्वै समृ॑द्धेन यजते॒ यस्यै॒तानि॑ क्रि॒यन्ते ।। [29]
3.3.10.0
ग॒वी॒न्यौ॑ वि चतु॑श्चत्वारिशच्च ।।10।।
3.3.10.1
सूर्यो॑ दे॒वो दि॑वि॒षद्भ्यो॑ धा॒ता क्ष॒त्राय॑ वा॒युः प्र॒जाभ्यः॑ । बृह॒स्पति॑स्त्वा प्र॒जाप॑तये॒ ज्योति॑ष्मतीं जुहोतु । यस्यास्ते॒ हरि॑तो॒ गर्भोऽथो॒ योनि॑ऱ्हिर॒ण्ययी । अङ्गा॒न्यह्रु॑ता॒ यस्यै॒ तां दे॒वैः सम॑जीगमम् । आ व॑र्तन वर्तय॒ नि नि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभि॒रा व॑र्तया॒ पुनः॑ । वि ते॑ भिनद्मि तक॒रीं वि योनिं॒ वि ग॑वी॒न्यौ । वि [30]
3.3.10.2
मा॒तरं॑ च पु॒त्रं च॒ वि गर्भं॑ च ज॒रायु॑ च । ब॒हिस्ते॑ अस्तु॒ बालिति॑ । उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दुः॒ पव॑मानो॒ धीर॑ आनञ्ज॒ गर्भम् । एक॑पदी द्वि॒पदी त्रि॒पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी॒ षट्प॑दी स॒प्तप॑द्य॒ष्टाप॑दी॒ भुव॒नानु॑ प्रथता॒॒ स्वाहा । म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। [31]
3.3.11.0
भामा॑सो॒ दाता॒ त्वम॒न्तरि॑क्ष॒॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु॒ श्रव॑णं॒ चतु॑र्विशतिश्च ।।11।।
3.3.11.1
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थम्मद॑श्च शस्यते । अ॒यं वा॒म्परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती । चारु॒र्मदा॑य पी॒तये । अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्त शत॒ग्विनम् । अश्वा॑वन्त सह॒स्रिणम् । बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु । वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः [32]
3.3.11.2
शु॒चे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ । त्वाम॑ग्ने॒ मानु॑षीरीडते॒ विशो॑ होत्रा॒विदं॒ विवि॑चि रत्न॒धात॑मम् । गुहा॒ सन्त॑ सुभग वि॒श्वद॑र्शतं तुविष्म॒णस॑ सु॒यजं॑ घृत॒श्रियम् । धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् । धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे धा॒तेदं विश्व॒म्भुव॑नं जजान । धा॒ता पु॒त्रं यज॑मानाय॒ दाता [33]
3.3.11.3
तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम । धा॒ता द॑दातु नो र॒यिम्प्राचीं जी॒वातु॒मक्षि॑ताम् । व॒यं दे॒वस्य॑ धीमहि सुम॒ति स॒त्यरा॑धसः । धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे । तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः । अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ । अन्विद॑नुमते॒ त्वम् [34]
3.3.11.4
मन्या॑सै॒ शं च॑ नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयू॑षि तारिषः । अनु॑ मन्यतामनु॒मन्य॑माना प्र॒जाव॑न्त र॒यिमक्षी॑यमाणम् । तस्यै॑ व॒य हेड॑सि॒ मापि॑ भूम॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु । यस्या॑मि॒दम्प्र॒दिशि॒ यद्वि॒रोच॒तेऽनु॑मति॒म्प्रति॑ भूषन्त्या॒यवः॑ । यस्या॑ उ॒पस्थ॑ उ॒र्व॑न्तरि॑क्ष॒॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ।। [35]
3.3.11.5
रा॒काम॒ह सु॒हवा॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना । सीव्य॒त्वपः॑ सू॒च्याऽच्छि॑द्यमानया॒ ददा॑तु वी॒र श॒तदा॑यमु॒क्थ्यम् । यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒ष सु॑भगे॒ ररा॑णा । सिनी॑वालि॒ या सु॑पा॒णिः । कु॒हूम॒ह सु॒भगां विद्म॒नाप॑सम॒स्मिन््य॒ज्ञे सु॒हवां जोहवीमि । सा नो॑ ददातु॒ श्रव॑णम्पितृ॒णां तस्यास्ते देवि ह॒विषा॑ विधेम । कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अ॒स्य ह॒विष॑श्चिकेतु । सं दा॒शुषे॑ कि॒रतु॒ भूरि॑ वा॒म रा॒यस्पोषं॑ चिकि॒तुषे॑ दधातु ।। [36]
3.4.0.0
वि वा ए॒तस्या वा॑यो इ॒मे वै चि॒त्तञ्चा॒ग्निर्भू॒तानान्दे॒वा वा अ॑भ्याता॒नानृ॑ता॒षाड्रा॒ष्ट्रका॑माय॒ देवि॑का॒ वास्तोष्पते॒ त्वम॑ग्ने बृ॒हदेका॑दश ।।11।। वि वा ए॒तस्येत्या॑ह मृ॒त्युर्ग॑न्ध॒र्वोऽव॑ रुन्धे मध्य॒तस्त्वम॑ग्ने बृ॒हथ्षट्च॑त्वारिशत् ।।46।। वि वा ए॒तस्य॑ प्रि॒यासः॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे चतुर्थः प्रश्नः ।।
3.4.1.0
व॒र्त॒येत्या॑ह न॒ इति॒ वै नाभ्या॒ उल्ब॑मि॒वैक॑विशतिश्च ।।1।।
3.4.1.1
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति॒ रक्षा॑सि॒ वा ए॒तत्प॒शु स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति॒ यस्यास्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैनां गमयति॒ रक्ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒येत्या॑ह [1]
3.4.1.2
ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथाय॒जुरे॒वैतदु॑रुद्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुः॑ प्र॒जयै॒वैन॑म्प॒शुभिः॒ सम॑र्धयति॒ दिवं॒ वै य॒ज्ञस्य॒ व्यृ॑द्धं गच्छति पृथि॒वीमति॑रिक्त॒न्तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्यज॑मानो म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इति॑ [2]
3.4.1.3
आ॒ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ भस्म॑ना॒भि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैनं॑ दधाति॒ यद॑व॒द्येदति॒ तद्रे॑चये॒द्यन्नाव॒द्येत्प॒शोराल॑ब्धस्य॒ नाव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्पु॒रस्ता॒द्वै नाभ्यै [3]
3.4.1.4
प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑ अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒ दक्षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मः प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितम्भवत्ये॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व मा॒॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुन्द्धे॒ यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ।। [4]
3.4.2.0
सर॑स्वत्यै॒ स्वाहा॒ मनु॒स्त्रयो॑दश च ।।2।।
3.4.2.1
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पूर्व॒पेयम् । आकूत्यै त्वा॒ कामा॑य त्वा स॒मृधे त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते प्रा॒णं वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वीभ्या॒॒ स्वाहा॑ किक्कि॒टा ते॒ वाच॒॒ सर॑स्वत्यै॒ स्वाहा [5]
3.4.2.2
त्वं तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आश॑यत् । व॒शा त्वं व॒शिनी॑ गच्छ दे॒वान्त्स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः । अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्या सी॑दो॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः । तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जनम् । मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म ।। [6]
3.4.3.0
यत्स्वेन॑ सारस्व॒तीमा ल॑भेत॒ यः कामा॑य त्वा॒ कामोऽप॒ इत्य॒भ्रो द्विच॑त्वारिशच्च ।।3।।
3.4.3.1
इ॒मे वै स॒हास्ता॒न्ते वा॒युर्व्य॑वा॒त्ते गर्भ॑मदधाता॒न्त सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत॒ स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पाल- मपश्य॒त्तं निर॑वप॒त्तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणा॒त्तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेद॒ग्ने- रे॒वैना॒मधि॑ नि॒ष्क्रीया ल॑भते॒ यत् [7]
3.4.3.2
वा॒युर्व्यवा॒त्तस्माद्वाय॒व्या॑ यदि॒मे गर्भ॒मद॑धातां॒ तस्माद्द्यावापृथि॒व्या॑ यत्सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॒ यद॒नयोर्विय॒त्योर्वागव॑द॒त्तस्मात्सारस्व॒ती यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त्तस्मात्प्राजाप॒त्या सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा वा॑य॒व्या॑मा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ [8]
3.4.3.3
भा॒ग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूतिं॑ गमयति द्यावापृथि॒व्या॑मा ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वऱ्षति॒ व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यम्भ॑वत्यग्नीषो॒मीया॒मा ल॑भेत॒ यः का॒मये॒तान्न॑वानन्ना॒दः स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्द्धे॒ सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति सारस्व॒तीमा ल॑भेत॒ यः [9]
3.4.3.4
ई॒श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्वाचं॑ दधाति प्राजाप॒त्यामा ल॑भेत॒ यः का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भि- जितम॒भि ज॑यति वाय॒व्य॑यो॒पाक॑रोति वा॒योरे॒वैना॑मव॒रुध्या ल॑भत॒ आकूत्यै त्वा॒ कामा॑य त्वा [10]
3.4.3.5
इत्या॑ह यथाय॒जुरे॒वैतत्कि॑क्किटा॒कारं॑ जुहोति किक्किटाका॒रेण॒ वै ग्रा॒म्याः प॒शवो॑ रमन्ते॒ प्रार॒ण्याः प॑तन्ति॒ यत्कि॑क्किटा॒कारं॑ जु॒होति॑ ग्रा॒म्याणाम्पशू॒नां धृत्यै॒ पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति॒ जीव॑न्तीमे॒वैना॑ सुव॒र्गं लो॒कङ्ग॑मयति॒ त्वं तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह देव॒त्रैवैनां गमयति स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑है॒ष वै कामः॑ [11]
3.4.3.6
यज॑मानस्य॒ यदनार्त उ॒दृचं॒ गच्छ॑ति॒ तस्मा॑दे॒वमा॑हा॒जासि॑ रयि॒ष्ठेत्या॑है॒ष्वे॑वैनां लो॒केषु॒ प्रति॑ ष्ठापयति दि॒वि ते॑ बृ॒हद्भा इत्या॑ह सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति॒ तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोत्यनुल्ब॒णं व॑यत॒ जोगु॑वा॒मप॒ इति॑ [12]
3.4.3.7
आ॒ह॒ यदे॒व य॒ज्ञ उ॒ल्बणं॑ क्रि॒यते॒ तस्यै॒वैषा शान्ति॒र्मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॒मित्या॑ह मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः कुरुते॒ मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै॒ गात्रा॑णां ते गात्र॒भाजो॑ भूया॒स्मेत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रः [13]
3.4.3.8
भव॑ति॒ यदाल॑ब्धायाम॒भ्रः स्याद॒प्सु वा प्रवे॒शये॒त्सर्वां वा॒ प्राश्नी॑या॒द्यद॒प्सु प्र॑वे॒शयेद्यज्ञवेश॒सं कु॑र्या॒त्सर्वा॑मे॒व प्राश्नी॑यादिन्द्रि॒यमे॒वात्मन्ध॑त्ते॒ सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा संवत्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॒स्त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाप्ता ।।14।।
3.4.4.0
उप॒ पञ्च॑विशतिश्च ।।4।।
3.4.4.1
चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर््श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथंत॒रं च॑ प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑ देवासु॒राः संय॑त्ता आस॒न्त्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न्प्राय॑च्छ॒त्तान॑जुहो॒त्ततो॒ वै दे॒वा असु॑रानजय॒न््य- दज॑य॒न्तज्जया॑नां जय॒त्व स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व ताम्पृत॑नाम् ।।[15]
3.4.5.0
अ॒व॒रे॒ स॒प्तद॑श च ।।5।।
3.4.5.1
अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑व॒त्विन्द्रो ज्ये॒ष्ठानां य॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणा॒म्बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ऽपा स॑मु॒द्रः स्रो॒त्याना॒मन्न॒॒ साम्राज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीना सवि॒ता प्र॑स॒वाना॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानाम्म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑वन्तु॒ पित॑रः पितामहाः परेऽवरे॒ ततास्ततामहा इ॒ह मा॑वत । अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रेऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑- म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहूत्याम् ।। [16]
3.4.6.0
प्रा॒जा॒प॒त्याः सोऽष्टाद॑श च ।।6।।
3.4.6.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न्तान॒भ्यात॑न्वत॒ यद्दे॒वानां॒ कर्मासी॒दार्ध्य॑त॒ तद्यदसु॑राणां॒ न तदार्ध्यत॒ येन॒ कर्म॒णेर्त्से॒त्तत्र॑ होत॒व्या॑ ऋ॒ध्नोत्ये॒व तेन॒ कर्म॑णा॒ यद्विश्वे॑ दे॒वाः स॒मभ॑र॒न्तस्मा॑दभ्याता॒ना वैश्वदे॒वा यत्प्र॒जाप॑ति॒र्जया॒न्प्राय॑च्छ॒त्तस्मा॒ज्जयाः प्राजाप॒त्याः [17]
3.4.6.2
यद्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्राष्ट्र॒भृता॑ राष्ट्रभृ॒त्त्वन्ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑मभ्यातान॒त्वय्यँज्जयै॒रज॑य॒न्तज्जया॑नां जय॒त्वय्यँद्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्राष्ट्र॒भृता॑ राष्ट्रभृ॒त्त्वन्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स ए॒ताञ्जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयैर्जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति ।। [18]
3.4.7.0
मनो॑ऽमृड॒यष्षट्च॑त्वारिशच्च ।।7।।
3.4.7.1
ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पान्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रसः॑ स्त॒वाः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19]
3.4.7.2
ग॒न्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑य इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापोऽप्स॒रसो॑ मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑नि रा॒यस्पोष॑ सु॒वीर्य॑ संवत्स॒रीणा॑ स्व॒स्तिम् । प॒र॒मे॒ष्ठ्यधि॑पति- र्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑ सुक्षि॒तिः सुभू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतोऽप्स॒रसो॒ रुचो॑ दू॒रेहे॑तिरमृड॒यः [20]
3.4.7.3
मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयोऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पान्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒ स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ।। [21]
3.4.8.0
ग्रा॒मी यु॑नक्ती॒ध्मः स्व ए॒वैना॑न॒न्नाद्यं॑ यच्छ॒न्त्येका॒न्नप॑ञ्चा॒शच्च॑ ।।8।।
3.4.8.1
रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्द्धे रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रं यच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्द्धे॒ वसि॑ष्ठः समा॒नानाम्भवति॒ ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्र स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्र स॑जा॒तानव॑ रुन्द्धे ग्रा॒मी [22]
3.4.8.2
ए॒व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै राष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्द्ध ओज॒स्व्ये॑व भ॑वति॒ यो रा॒ष्ट्रादप॑भूतः॒ स्यात्तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒ स्युस्तान्ब्रू॑याद्यु॒ङ्ग्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युनक्ति [23]
3.4.8.3
आहु॑तयो॒ वा ए॒तस्याकॢ॑प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒ दक्षि॑णं च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये सं॑ग्रा॒म सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तं सं॑ग्रा॒मं मान्धु॒क इ॒ध्मः [24]
3.4.8.4
भ॒व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति॒ य उ॒न्माद्ये॒त्तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्राष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैनाञ्छमयति॒ नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थः॒ प्लाक्ष॒ इती॒ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाप्स॒रसां गृ॒हाः स्व ए॒वैनान्॑ [25]
3.4.8.5
आ॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒म हो॑त॒व्याः प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निर््ऋ॑तिगृहीतं॒ निर््ऋ॑तिगृहीत ए॒वैनं॒ निर््ऋ॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रन्तेन॒ वष॑ट्करोति वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑ का॒मये॑ता॒न्नाद्यम् [26]
3.4.8.6
आ द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात्प्र॒जाप॑तिर्वै भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्य॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिऱ्ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवोऽस्मा॒ अनु॒ प्र य॑च्छन्ति [27]
3.4.8.7
यो ज्ये॒ष्ठब॑न्धु॒रप॑भूतः॒ स्यात्त स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑शरावम्प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै राष्ट्र॒भृतो॒ वर्ष्म॒ स्थलं॒ वर्ष्म॑णै॒वैनं॒ वर्ष्म॑ समा॒नानां गमयति॒ चतुः॑शरावो भवति दि॒क्ष्वे॑व प्रति॑ तिष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑- न्दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वान्भवति मेध्य॒त्वाय॑ च॒त्वार॑ आऱ्षे॒याः प्राश्न॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति ।। [28]
3.4.9.0
प॒शुका॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ ग्राम॑ङ्कल्पयत्ये॒ता ए॒व निरु॑त्त॒मन्धा॒तारं॑ करोति मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पेद॒ष्टौ द॑हन्ति॒ नव॑ च ।।9।। देविकाः प्रजाकामो मिथुनी पशुकाम
3.4.9.1
देवि॑का॒ निर्व॑पेत्प्र॒जाका॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै प्र॒जाः प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता ए॒व निर्व॑पेत्प॒शुका॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि [29]
3.4.9.2
इ॒व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून्प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्कु॒ह्वा प्रति॑ ष्ठापयत्ये॒ता ए॒व निर्व॑पे॒द्ग्राम॑काम॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सीव॒ खलु॒ वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्रामम् [30]
3.4.9.3
अव॑ रुन्द्धे मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनं॒ ग्राम॑स्य दधात्ये॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ खलु॒ वा ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरे॒वैन॑मग॒दं क॑रोति मध्य॒तो धा॒तारं॑ करोति मध्य॒तो वा ए॒तस्याकॢ॑प्तं॒ यस्य॒ ज्योगा॒मय॑ति मध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता ए॒व निः [31]
3.4.9.4
व॒पे॒द्यं य॒ज्ञो नोप॒नमे॒च्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दा॑सि दधा॒त्युपै॑नं य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पेदीजा॒नश्छन्दा॑सि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दा॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करोति [32]
3.4.9.5
उ॒परि॑ष्टादे॒वास्मै॒ छन्दा॒॒स्यया॑तयामा॒न्यव॑ रुन्द्ध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पे॒द्यम्मे॒धा नोप॒नमे॒च्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यम्मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दा॑सि दधा॒त्युपै॑नम्मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पेत् [33]
3.4.9.6
रुक्का॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सीव॒ खलु॒ वै रुक्छन्दो॑भिरे॒वास्मि॒न्रुचं॑ दधाति क्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न्दधति मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैन॑ रु॒चो द॑धाति गाय॒त्री वा अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवाल्य॑नु॒ष्टुप्कु॒हूर्धा॒ता व॑षट्का॒रः पूर्वप॒क्षो रा॒काप॑रप॒क्षः कु॒हूर॑मावा॒स्या॑ सिनीवा॒ली पौर्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ताऽष्टौ [34]
3.4.9.7
वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टुब्द्वाद॑शादि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब्धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दा॑सि॒ सर्वाश्च दे॒वता॑ वषट्का॒रस्ता यत्स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नम्प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निर्व॑पे॒त्तथो॑ ए॒वोत्त॑रे॒ निर्व॑पे॒त्तथै॑नं॒ न प्र द॑ह॒न्त्यथो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाभि॒रुपाप्नोति ।। [35]
3.4.10.0
ध॒त्ते॒ऽर्वा॒चीन॑ स्यात्स॒मारो॑हयति॒ पञ्च॑चत्वारिशच्च ।।10।।
3.4.10.1
वास्तोष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे । वास्तोष्पते श॒ग्मया॑ स॒॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या । आवः॒ क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः । यत्सा॒यम्प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते [36]
3.4.10.2
यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यत्सा॒यम्प्रा॑तर्जु॒होत्य॑होरा॒त्राण्ये॒वाप्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑ जुहोति॒ दशाक्षरा वि॒राड्वि॒राज॑मे॒वाप्त्वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञमाप्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्त्ववास्त्वे॒व तद्यत्ततोऽर्वा॒चीनम् [37]
3.4.10.3
रु॒द्रः खलु॒ वै वास्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद्रु॒द्र ए॑नम्भू॒त्वाग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैन॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिं जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ क्षेम॒ आहु॑तिं जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीय॑ स्यात् [38]
3.4.10.4
दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैन॑ शमयति॒ यदेक॑या जुहु॒याद्द॑र्विहो॒मं कु॑र्यात्पुरोनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒ यद्धु॒त आ॑द॒ध्याद्रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्यद॑व॒- क्षाणा॒न्यस॑म्प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञवेश॒सं वा॒दह॑नं वा ता॒दृगे॒व तद॒यं ते॒ योनि॑र््ऋ॒त्विय॒ इत्य॒रण्योः स॒मारो॑हयति [39]
3.4.10.5
ए॒ष वा अ॒ग्नेर्योनिः॒ स्व ए॒वैनं॒ योनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वा॑हु॒र्यद॒रण्योः स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत्पुनरा॒धेयः॑ स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्त्स॒मारो॑हयते॒ यज॑मानो॒ वा अ॒ग्नेर्योनिः॒ स्वाया॑मे॒वैनं॒ योन्या॑ स॒मारो॑हयते ।। [40]
3.4.11.0
सोमो॒ गोषु॒ मा र॒यिं मन्त्रो॒ यच्छि॑थि॒रा स॒प्त च॑ ।।11।।
3.4.11.1
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे । क॒विर्गृ॒हप॑ति॒र्युवा ।। ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒ऱ्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒क्सम्मि॑मीहि॒ श्रवा॑सि । त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तोत्रो॒ वन॒स्पतिः॑ । ब्र॒ह्मा दे॒वानाम्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णाम्महि॒षो मृ॒गाणाम् । श्ये॒नो गृ॑ध्राणा॒॒ स्वधि॑ति॒र्वना॑ना॒॒ सोमः॑ [41]
3.4.11.2
प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ । आ वि॒श्वदे॑व॒॒ सत्प॑ति सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑व सवि॒तारम् ।। आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒म्मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्न्॑ । यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे । यथा॑ तो॒काय॑ रु॒द्रियम् । मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा [42]
3.4.11.3
नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीऱ्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते । उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन्न् । ह॒॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्यन्न्॑ । बृह॒स्पति॑रभि॒ कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वा अ॑गायत् । एन्द्र॑ सान॒सि र॒यिम् [43]
3.4.11.4
स॒जित्वा॑न सदा॒सहम् । वऱ्षि॑ष्ठमू॒तये॑ भर । प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् । त्व सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो । भु॒वस्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रः॑ [44]
3.4.11.5
वि॒श्व॒च॒ऱ्ष॒णे॒ । मि॒त्रस्य॑ चऱ्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । स॒त्यं चि॒त्रश्र॑वस्तमम् । मि॒त्रो जना॑न््यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम । प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न््यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒महो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् । यत् [45]
3.4.11.6
चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि । यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒ह- म्म॑नु॒ष्याश्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः । कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ।। [46]
3.5.0.0
पू॒र्णर््ष॑यो॒ऽग्निना॒ ये दे॒वास्सूर्यो॑ मा॒ सन्त्वा॑ नह्यामि वषट्का॒रस्स ख॑दि॒र उ॑पया॒मगृ॑हीतोऽसि॒ याव्वैँ त्वे क्रतु॒म्प्र दे॒वमेका॑दश ।।11।। पू॒र्णा स॑ह॒जान्तवाग्ने प्रा॒णैरे॒व षट्त्रि॑शत् ।।36।। पू॒र्णा सन्ति॑ दे॒वाः ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे पञ्चमः प्रश्नः ।।
3.5.1.0
वर्च॑सा॒ वै ते द॑र््शपूर्णमा॒सावप॑ तनुते॒ सर॑स्वत्यै॒ पञ्च॑विशतिश्च ।।1।।
3.5.1.1
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौर्णमा॒सी जि॑गाय । तस्यां दे॒वा अधि॑ सं॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीरम् । नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसून्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒ष सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा [1]
3.5.1.2
सं॒वि॒दा॒ना । अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसून्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् । मा॒ध्य हि पौर्णमा॒सं जु॒षेथा॒म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्य॑ स॒हवी॑रा र॒यिं नि य॑च्छतम् । आ॒दि॒त्याश्चाङ्गि॑रसश्चा॒ग्नीनाद॑धत॒ ते द॑र््शपूर्णमा॒सौ प्रैप्स॒न्तेषा॒मङ्गि॑रसां॒ निरु॑प्त ह॒विरासी॒दथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र््शपूर्णमा॒सौ [2]
3.5.1.3
पूर्व॒ आल॑भन्त दर््शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ताज्जुहुयात्सा॒क्षादे॒व द॑र््शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र््शपूर्णमा॒सावाल॑भेत॒ य ए॑नयोरनुलो॒मं च॑ प्रतिलो॒मं च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्वं तद॑नुलो॒म- म्पौर्णमा॒स्यै प्र॑ती॒चीनं॒ तत्प्र॑तिलो॒मय्यँत्पौर्णमा॒सीम्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒क्षीय॑माण॒मन्वप॑ [3]
3.5.1.4
क्षी॒ये॒त॒ सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ताज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒वमेका॑दशकपालम्पु॒रस्ता॒न्निर्व॑पे॒त्सर॑स्वत्यै च॒रु सर॑स्वते॒ द्वाद॑शकपाल॒य्यँदाग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खं य॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ताद्धत्ते॒ यद्वैष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न्तावे॒व सा॒क्षादा र॑भत ऋ॒ध्नोत्याभ्या॒न्द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजात्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।। [4]
3.5.2.0
जि॒न्वेत्यव॑ प्र॒जा जि॑न्व प्रा॒णन्त्रि॒॒शच्च॑ ।।2।।
3.5.2.1
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यक्षं॒ नाप॑श्य॒न्तं वसि॑ष्ठः प्र॒त्यक्ष॑म्पश्य॒त्सोऽब्रवी॒द्ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑ ए॒तान्त्स्तोम॑भागानब्रवी॒त्ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒ तस्माद्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जि॒न्वेति॑ [5]
3.5.2.2
आ॒ह॒ दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्येभ्य ए॒व य॒ज्ञम्प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राह॑ विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ [6]
3.5.2.3
रु॒न्द्धे॒ प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसूञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञम्प्राहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सं त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व [7]
3.5.2.4
इत्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सं त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सं त॑नोति रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णम् [8]
3.5.2.5
जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजात्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ।। [9]
3.5.3.0
बृ॒ह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ षट्च॑त्वारिशच्च ।।3।।
3.5.3.1
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथंत॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान्भ्रातृ॑व्या॒नध॑रान्पादया॒म्यवै॑नान्बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो विष्णोः॒ क्रमे॒णात्ये॑नान्क्रामा॒मीन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण [10]
3.5.3.2
स॒ह॒जान््विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जानिन्द्रे॑ण स॒युजो॑ व॒य सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति । यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑च॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒स्तेना॒ह ह॑र॒स्वी भू॑यासम् ।। [11]
3.5.4.0
स॒वि॒त॒र्दे॒वा य॑ज्ञ॒मुषः॒ सर्वा॑ दे॒वता॒स्त्रिच॑त्वारिशच्च ।।4।।
3.5.4.1
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र्यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । यास्ते॒ रात्रीः सवितः [12]
3.5.4.2
दे॒व॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजा॑सि । ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । येनेन्द्रा॑य स॒मभ॑रः॒ पया॑स्युत्त॒- मेन॑ ह॒विषा॑ जातवेदः । तेनाग्ने॒ त्वमु॒त व॑र्धये॒म स॑जा॒ताना॒॒ श्रैष्ठ्य॒ आ धेह्येनम् । य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ [13]
3.5.4.3
स॒न्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒कास्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वताश्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यम्पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः [14]
3.5.4.4
पाङ्क्तो॑ य॒ज्ञो दे॒वताश्चै॒व य॒ज्ञं चाव॑ रुन्द्धे गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तं छन्द॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालं क॒रोत्य॒ष्टाक॑पालः का॒र्योऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्गा॑य॒त्रछ॑न्दाः॒ स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ।। [15]
3.5.5.0
स॒मा॒नाना॒मोष॑धीष्वे॒व प॒शून्मह्य॒य्यँज॑माना॒यैक॑ञ्च ।।5।।
3.5.5.1
सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चऱ्षण ए॒तेभिः॑ सोम॒ नाम॑भिर्विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते । अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हं ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑द॒ह सूर्य॑मुभ॒यतो॑ ददर््शा॒हम्भू॑यासमुत्त॒मः स॑मा॒नानाम् [16]
3.5.5.2
आ स॑मु॒द्रादाऽन्तरि॑क्षात्प्र॒जाप॑तिरुद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ वऱ्षय॒न्तून्न॑म्भय पृथि॒वीम्भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृतिम् । प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्यं जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् [17]
3.5.5.3
प्रति॑ ष्ठापयति क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒ सनी॑यान् । यास्ते॒ विश्वाः स॒मिधः॒ सन्त्य॑ग्ने॒ याः पृ॑थि॒व्याम्ब॒ऱ्हिषि॒ सूर्ये॒ याः । तास्ते॑ गच्छ॒न्त्वाहु॑तिं घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ । आ॒शासा॑नः सु॒वीर्य॑ रा॒यस्पोष॒॒ स्वश्वि॑यम् । बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ ।। [18]
3.5.6.0
पाश॒व्वृँष्णि॑यावतस्त्रि॒॒शच्च॑ ।।6।।
3.5.6.1
सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प ओष॑धीभिः । सं त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दीक्षि॒ता स॑नवो॒ वाज॑म॒स्मे । प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ वर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदाभ्यम् । इ॒मं वि ष्या॑मि॒ वरु॑णस्य॒ पाशम् [19]
3.5.6.2
यमब॑ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि । प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदि॑ति॒र्मध्यं॑ ददता रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑ हिसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वेभ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावतः [20]
3.5.6.3
तवाग्ने वा॒मीरनु॑ सं॒दृशि॒ विश्वा॒ रेता॑सि धिषी॒याग॑न्दे॒वान््य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्त्सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒ताऽनु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ।। [21]
3.5.7.0
जु॒हूरथो॒ ब्रह्म॑ स्रु॒चा स॒प्तद॑श च ।।7।।
3.5.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरोऽच्छिन॒त्तस्यै॒ रसः॒ परा॑पत॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तं गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑च्छिद्यत॒ तत्प॒र्णो॑ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जु॒हूः [22]
3.5.7.2
भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्तेऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोत्सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒प श्लोक॑ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नं॒ विण्मा॑रु॒तोऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्द्धेऽथो॒ ब्रह्म॑ [23]
3.5.7.3
ए॒व वि॒श्यध्यू॑हति रा॒ष्ट्रं वै प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति प्र॒जाप॑ति॒र्वा अ॑जुहो॒त्सा यत्राहु॑तिः प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त्ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चा रू॒पं यस्यै॒वरू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वाण्ये॒वैन॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ।। [24]
3.5.8.0
ओष॑धीभ्य॒श्चतु॑र्दश च ।।8।।
3.5.8.1
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्योऽग्निजि॒ह्वेभ्य॑- स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्यात्मभ्यो दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वापेन्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वेभ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ।। [25]
3.5.9.0
उ॒प॒या॒मगृ॑हीतो जुहोमि॒ त्रिच॑त्वारिशच्च ।।9।।
3.5.9.1
यां वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात्प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वताभ्य ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णा॒य्यँस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑सां॒ वा ए॒तद्दे॒वता॑ना रू॒पं यदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वाण्ये॒वैन॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्त उपया॒मगृ॑हीतः [26]
3.5.9.2
अ॒सि॒ प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैन॑ समा॒नानां करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्यो गृह्णा॒त्यपेन्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि [27]
3.5.9.3
इत्या॑ह प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒ सर्वाभ्य ए॒वैनं॑ दे॒वताभ्यो जुहोत्याज्यग्र॒हं गृ॑ह्णीया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑न्तेज॒स्व्ये॑व भ॑वति सोमग्र॒हं गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सं वै सोमो ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हं गृ॑ह्णीयात्प॒शुका॑म॒स्योर्ग्वै दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ।। [28]
3.5.10.0
तत्प्रा॑णग्र॒हाः स॒प्तत्रि॑शच्च ।।10।।
3.5.10.1
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा । प्रा॒ण॒ग्र॒हान्गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒ स्तोमा॒श्छन्दा॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ तत् [29]
3.5.10.2
अव॑ रुन्द्धे ज्ये॒ष्ठा वा ए॒तान्ब्राह्म॒णाः पु॒रा वि॒द्वाम॑क्र॒न्तस्मा॒त्तेषा॒॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न््यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वास्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः [30]
3.5.10.3
प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं योने॒श्च्यव॑ते दश॒मेऽह॑न्वामदे॒व्यं योनेश्च्यवते॒ यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ।। [31]
3.5.11.0
वोढ॑वे दू॒तस्त्वन्तमु॑ सीद॒त्वा यत्र॑ च॒त्वारि॑ च ।।11।।
3.5.11.1
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् । अ॒यमु॒ ष्य प्र दे॑व॒युऱ्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना । अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः । इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे । [32]
3.5.11.2
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तम्प्रथ॒मः सी॑द॒ योनिम् । कु॒ला॒यिनं॑ घृ॒तव॑न्त सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु । सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञ सु॑कृ॒तस्य॒ योनौ । दे॒वा॒वीर्दे॒वान््ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः । नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वा अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः । त्वं दू॒तस्त्वम् [33]
3.5.11.3
उ॒ नः॒ प॒र॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः । अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे । म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः । त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ । तमु॑ [34]
3.5.11.4
त्वा॒ द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरंद॒रम् । तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒य रणे॑रणे । उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे । आ य हस्ते॒ न खा॒दिन॒॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्नि स्व॑ध्व॒रम् । प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु । आ [35]
3.5.11.5
जा॒तं जा॒तवे॑दसि प्रि॒य शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् । अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा । ह॒व्य॒वाड्जु॒ह्वास्यः । त्व ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे । तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिनम् । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑म्महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।। [36]
4.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे प्रथमः प्रश्नः ।।
4.1.0.0
यु॒ञ्जा॒न इ॒माम॑गृभ्णन्दे॒वस्य॒ सन्ते॒ वि पाज॑सा॒ वस॑वस्त्वा॒ समास्त्वो॒र्ध्वा अ॒स्याकू॑ति॒य्यँद॑ग्ने॒ यान्यग्ने॒ यय्यँ॒ज्ञमेका॑दश ।।11।। यु॒ञ्जा॒नो वर्म॑ च स्थ आदि॒त्यास्त्वा॒ भार॑ती॒ स्वा अह षट्च॑त्वारिशत् ।।46।। यु॒ञ्जा॒नो वाजे॑वाजे ।। हरिः ओम् । श्रीकृष्णार्पणमस्तु ।।
4.1.1.0
इद्य॒ज्ञं प्र सु॑व॒ नारि॒रानु॑ष्टुभेन त्वा॒ छन्द॑सा॒ त्रीणि॑ च ।।1।।
4.1.1.1
यु॒ञ्जा॒नः प्र॑थ॒मम्मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्निं ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् । यु॒क्त्वाय॒ मन॑सा दे॒वान्त्सुव॑र्य॒तो धि॒या दिवम् । बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वति॒ तान् । यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै । यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् [1]
4.1.1.2
म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः । यु॒जे वा॒म्ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः । यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मर्च॑तः । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना । देव॑ सवितः॒ प्र सु॑व य॒ज्ञम्प्र सु॑व [2]
4.1.1.3
य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः । इ॒मं नो॑ देव सवितर्य॒ज्ञं प्र सु॑व देवा॒युव॑ सखि॒विद॑ सत्रा॒जितं॑ धन॒जित॑ सुव॒र्जितम् । ऋ॒चा स्तोम॒॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम्गाय॒त्रेण॒ छन्द॒साऽऽद॑दे ऽङ्गिर॒स्वदभ्रि॑रसि॒ नारिः॑ [3]
4.1.1.4
अ॒सि॒ पृ॒थि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्बभ्रि॑रसि॒ नारि॑रसि॒ त्वया॑ व॒य स॒धस्थ॒ आग्नि श॑केम॒ खनि॑तुम्पुरी॒ष्यं॑ जाग॑तेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्धस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ हिर॒ण्ययीम् । तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निं खा॒त्वी न॒ आ भ॒रानु॑ष्टुभेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वत् ।।
4.1.2.0
प्र॒तूर्व॒न्त्सूर्य॑स्य तिष्ठ॒ जिघ॑र्मि भे॒त्तारं॑ विश॒तिश्च॑ ।।2।।
4.1.2.1
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुर््ऋ॒तस्य॒ सामन्त्स॒रमा॒रप॑न्ती । प्रतूर्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वतम् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ नाभिः॑ पृथि॒व्यामधि॒ योनिः॑ । यु॒ञ्जाथा॒॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निम्भर॑न्तमस्म॒युम् । योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये । प्र॒तूर्वन्न्॑ [5]
4.1.2.2
एह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन्न् । पू॒ष्णा स॒युजा॑ स॒ह । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छेह्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒- स्वद्भ॑रिष्यामो॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः । अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य [6]
4.1.2.3
पु॒रु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान । आ॒गत्य॑ वा॒ज्यध्व॑नः॒ सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्नि स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते । आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं व॒यम् । द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्ष समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ [7]
4.1.2.4
पृ॒त॒न्य॒तः । उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थानाद्द्रविणो॒दा वा॑जिन्न् । व॒य स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः । उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाकः॒ स लो॒क सुकृ॑तम्पृथि॒व्याः । ततः॑ खनेम सु॒प्रती॑कम॒ग्नि सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे । अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॒॒ स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः। जिघ॑र्मि [8]
4.1.2.5
अ॒ग्निम्मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्त॒म्भुव॑नानि॒ विश्वा । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्न॑ रभ॒सं विदा॑नम् । आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒नुवा॒ जर््हृ॑षाणः । परि॒ वाज॑पतिः क॒विर॒ग्निर््ह॒व्या न्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे । परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒॒राव॑तः । त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वनेभ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ।। [9]
4.1.3.0
स्थ॒ ई॒धे॒ शोच॑स्व स॒प्तवि॑शतिश्च ।।3।।
4.1.3.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम्पृथि॒व्याः स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्व- त्ख॑नामि । ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम् । शि॒वम्प्र॒जाभ्योऽहि॑सन्त- म्पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि । अ॒पाम्पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निम्भ॑रि॒ष्यदप॑रावपिष्ठम् । वर्ध॑मानम्म॒ह आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व । शर्म॑ च स्थः [10]
4.1.3.2
वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं व॑साथाम्भ॒र्तम॒ग्निम्पु॑री॒ष्यम् । सं व॑साथा सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना । अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् । पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः । अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने । त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ । तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे [11]
4.1.3.3
अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरन्द॒रम् । तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒य रणे॑रणे । सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञ सु॑कृ॒तस्य॒ योनौ । दे॒वा॒वीर्दे॒वान््ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः । नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वा अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः । स सी॑दस्व म॒हा अ॑सि॒ शोच॑स्व [12]
4.1.3.4
दे॒व॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षम्मि॑येध्य सृ॒ज प्र॑शस्त दर््श॒तम् । जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर््होता॒ नि ष॑सादा॒ यजी॑यान् ।। [13]
4.1.4.0
सु॒श॒स्तिभि॑श्शि॒वो भ॑व याहि॒ षट्त्रि॑शच्च ।।4।।
4.1.4.1
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नायै॒ हृद॑यं॒ यद्विलि॑ष्टम् । दे॒वानां॒ यश्चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्यम् । सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑दः॒ सुवः॑ । वासो॑ अग्ने वि॒श्वरू॑प॒॒ सं व्य॑यस्व विभावसो । उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ । [14]
4.1.4.2
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे । स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमा॑स्य॒क्तः प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः । स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन्न् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑नः । शि॒वो भ॑व [15]
4.1.4.3
प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पतीन्॑ । प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा । भर॑न्न॒ग्निम्पु॑री॒ष्य॑म्मा पा॒द्यायु॑षः पु॒रा । रास॑भो वां॒ कनि॑क्रद॒त्सुयु॑क्तो वृषणा॒ रथे । स वा॑म॒ग्निम्पु॑री॒ष्य॑मा॒शुर्दू॒तो व॑हादि॒तः । वृषा॒ग्निं वृ॑षण॒म्भर॑न्न॒पां गर्भ॑ समु॒द्रियम् । अग्न॒ आ या॑हि [16]
4.1.4.4
वी॒तय॑ ऋ॒त स॒त्यम् । ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒त शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान् । व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑तीर्नि॒षीद॑न्नो॒ अप॑ दुर्म॒ति ह॑नत् । ओष॑धयः॒ प्रति॑ मोदध्वमेन॒म्पुष्पा॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्न स॒धस्थ॒मास॑दत् ।। [17]
4.1.5.0
मि॒त्रः क॑रोत्व॒न्तरि॑क्षमसि॒ प्र च॒त्वारि॑ च ।।5।।
4.1.5.1
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒ह सु॒हव॑स्य॒ प्रणी॑तौ । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । मि॒त्रः [18]
4.1.5.2
स॒॒सृज्य॑ पृथि॒वीम्भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसम॒ग्निं वैश्वान॒रं वि॒भुम् । अ॒य॒क्ष्माय॑ त्वा॒ स सृ॑जामि प्र॒जाभ्यः॑ । विश्वे त्वा दे॒वा वैश्वान॒राः स सृ॑ज॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् । रु॒द्राः स॒म्भृत्य॑ पृथि॒वीम्बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषाम्भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते । ससृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः कर्म॒ण्याम्मृदम् । हस्ताभ्याम्मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली क॑रोतु [19]
4.1.5.3
ताम् । सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते मह॒ ओखां द॑धातु॒ हस्त॑योः । उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निम्बि॑भर्तु॒ गर्भ॒ आ । म॒खस्य॒ शिरो॑ऽसि य॒ज्ञस्य॑ प॒दे स्थः॑ । वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत्पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद॒न्तरि॑क्षमसि [20]
4.1.5.4
आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्द्यौर॑सि॒ विश्वे त्वा दे॒वा वैश्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद्दिशो॑ऽसि ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान््यज॑माना॒यादि॑त्यै॒ रास्ना॒स्यदि॑तिस्ते॒ बिलं॑ गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑साङ्गिर॒स्वत् । कृ॒त्वाय॒ सा म॒हीमु॒खाम्मृ॒न्मयीं॒ योनि॑म॒ग्नये । ताम्पु॒त्रेभ्यः॒ सम्प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ।। [21]
4.1.6.0
पत्नी॑रि॒मा रु॒द्रास्त्वाच्छृ॑न्द॒न्त्वेका॒न्नवि॑श॒तिश्च॑ ।।6।।
4.1.6.1
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे त्वा दे॒वा वैश्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वददि॑तिस्त्वा दे॒वी वि॒श्वदेव्यावती पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वत्ख॑नत्ववट दे॒वानां त्वा॒ पत्नीः [22]
4.1.6.2
दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वद्द॑धतूखे धि॒षणास्त्वा दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थे ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरूत्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वत्प॑चन्तूखे । मित्रै॒तामु॒खाम्प॑चै॒षा मा भे॑दि । एातां ते॒ परि॑ ददा॒म्यभि॑त्त्यै । अ॒भीमाम् [23]
4.1.6.3
म॒हि॒ना दिव॑म्मि॒त्रो ब॑भूव स॒प्रथाः । उ॒त श्रव॑सा पृथि॒वीम् । मि॒त्रस्य॑ चर््षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् । दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒॒रिः । सु॒बा॒हुरु॒त शक्त्या । अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् । वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वा च्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे त्वा दे॒वा वैश्वान॒रा आच्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।। [24]
4.1.7.0
इ॒मे शि॒वो अ॒ग्नेऽति॒ सौभ॑गाय॒ चतु॑स्त्रिशच्च ।।7।।
4.1.7.1
समास्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः । सं चे॒ध्यस्वाग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये । त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [25]
4.1.7.2
सं॒वर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन्न् । इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः । क्ष॒त्रेणाग्ने॒ स्वायुः॒ स र॑भस्व मि॒त्रेणाग्ने मित्र॒धेये॑ यतस्व । स॒जा॒तानाम्मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह । अति॑ [26]
4.1.7.3
निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ स॒हवी॑रा र॒यिं दाः । अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह । विश्वा॒ आशाः प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे । बृह॑स्पते सवितर्बो॒धयै॑न॒॒ सशि॑तं चित्संत॒रा स शि॑शाधि । व॒र्धयै॑नम्मह॒ते सौभ॑गाय [27]
4.1.7.4
विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः । अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः । उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। [28]
4.1.8.0
अ॒ग्नेः स सर॑स्वती॒ द्या स॒ह विश्व॒ञ्चतु॑स्त्रिHशश्च ।।8।।
4.1.8.1
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीष्य॒ग्नेः । द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः । तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ । मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शसो॑ अग्ने । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः । अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा । अ॒ग्नि स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ । स य॑क्षदस्य महि॒मान॑म॒ग्नेः सः [29]
4.1.8.2
ई॒ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च । द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः । ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता । इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑ । दैव्या॑ होतारावू॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् । कृ॒णु॒तं नः॒ स्वि॑ष्टिम् । ति॒स्रो दे॒वीर्ब॒र्हिरेद स॑द॒न्त्विडा॒ सर॑स्वती [30]
4.1.8.3
भार॑ती । म॒ही गृ॑णा॒ना । तन्न॑स्तु॒रीप॒मद्भु॑तम्पुरु॒क्षु त्वष्टा॑ सु॒वीरम् । रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे । वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर््ह॒व्य श॑मि॒ता सू॑दयाति । अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् । हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्याम् [31]
4.1.8.4
उ॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । य आत्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्र र॒सया॑ स॒ह [32]
4.1.8.5
आ॒हुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑ता॒म्मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तं येन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । आपो॑ ह॒ यन्म॑ह॒तीर्विश्वम् [33]
4.1.8.6
आय॒न्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। [34]
4.1.9.0
वी॒रय॒स्वा तप॑न्विश॒तिश्च॑ ।।9।।
4.1.9.1
आकू॑तिम॒ग्निम्प्र॒युज॒॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निम्प्र॒युज॒॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निम्प्र॒युज॒॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निम्प्र॒युज॒॒ स्वाहा प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॒ मा सु भि॑त्था॒ मा सु रि॑षो॒ दृह॑स्व वी॒डय॑स्व॒ सु । अम्ब॑ धृष्णु वी॒रय॑स्व [35]
4.1.9.2
अ॒ग्निश्चे॒दं क॑रिष्यथः । दृह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ । जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन्न् । मित्रै॒तामु॒खां त॑पै॒षा मा भे॑दि । ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै । द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरेण्यः । सह॑सस्पु॒त्रो अद्भु॑तः । पर॑स्या॒ अधि॑ सं॒वतोऽव॑रा अभ्या [36]
4.1.9.3
त॒र॒ । यत्रा॒हमस्मि॒ ता अ॑व । प॒र॒मस्याः परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि । पु॒री॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ । सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थे॒ विश्वान्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्या शु॒क्रज्यो॑ति॒र्वि भा॑हि । अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्व हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व । शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ।। [37]
4.1.10.0
नाभा॒ वने॒ येन॑ यामि॒ क्षामा॑ रु॒क्मोऽष्टात्रि॑शच्च ।।10।।
4.1.10.1
यद॑ग्ने॒ यानि॒ कानि॒ चा ते॒ दारू॑णि द॒ध्मसि॑ । तद॑स्तु॒ तुभ्य॒मिद्घृ॒तं तज्जु॑षस्व यविष्ठ्य । यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य । रात्रि॑रात्रि॒मप्र॑याव॒म्भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒समस्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम । नाभा [38]
4.1.10.2
पृ॒थि॒व्याः स॑मिधा॒नम॒ग्नि रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒र॒म्म॒दम्बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निम्पृ॑तनासु सास॒हिम् । याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्तास्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये । दष्ट्राभ्याम्म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑रा उ॒त । हनूभ्यास्ते॒नान्भ॑गव॒स्तास्त्वं खा॑द॒ सुखा॑दितान् । ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने । ये [39]
4.1.10.3
कक्षेष्वघा॒यव॒स्तास्ते॑ दधामि॒ जम्भ॑योः । यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान् दिप्साच्च॒ सर्वं॒ तम्म॑स्म॒सा कु॑रु । सशि॑तं मे॒ ब्रह्म॒ सशि॑तं वीर्यं॑ बलम् । सशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः । उदे॑षाम्बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बलम् । क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि [40]
4.1.10.4
स्वा अ॒हम् । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर््ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः । विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति । नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मः [41]
4.1.10.5
अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः । सु॒प॒र्णोऽसि ग॒रुत्मान्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षुः॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम्बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञिय॒म्पुच्छं॒ छन्दा॒॒स्यङ्गा॑नि॒ धिष्णि॑याः श॒फा॒ यजू॑षि॒ नाम॑ । सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ सुवः॑ पत ।। [42]
4.1.11.0
पू॒रु॒ष॒त्वता॑ यज॒तन्ते॑ अ॒न्यत्सह॑न्ते॒ चनो॑हितो॒ऽष्टौ च॑ ।।11।।
4.1.11.1
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति । सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे । ताभि॑र्नोऽवि॒ता भ॑व । अ॒ग्निर्मू॒र्धा भुवः॑ । त्वं नः॑ सोम॒ या ते॒ धामा॑नि । तत्स॑वि॒तुर्वरेण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दयात् । अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता । [43]
4.1.11.2
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः । चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती । पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्र शर॒ण स॒जोषा॑ दुरा॒धर््षं॑ गृण॒ते शर्म॑ यसत् । पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाज॑ सनोतु नः । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् [44]
4.1.11.3
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु । ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धाव॒द्वृष॑णम्मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र््हिषि॑ प्रि॒ये । प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहा॑सि॒ सह॑सा॒ सह॑न्ते [45]
4.1.11.4
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ । विश्वे॑ दे॒वा विश्वे॑ देवाः । द्यावा॑ नः पृथि॒वी इ॒म सि॒ध्रम॒द्य दि॑वि॒स्पृशम् । य॒ज्ञं दे॒वेषु॑ यच्छताम् । प्र पूर्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्व॒॒ सद॑ने ऋ॒तस्य॑ । आ नो द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यात॒म्महि॑ वां॒ वरू॑थम् । अ॒ग्नि स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् । स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति । शं नो॑ भवन्तु॒ वाजे॑वाजे ।। [46]
4.2.0.0
विष्णोः॒ क्रमो॑ऽसि दि॒वस्पर्यन्न॑प॒तेऽपे॑त॒ समि॑त॒य्याँ जा॒ता मा नो॑ हिसीद्ध्रु॒वाऽस्या॑दि॒त्यङ्गर्भ॒मिन्द्राग्नी रोच॒नैका॑दश ।।11।। विष्णो॑रस्मिन््ह॒व्येति॑ त्वा॒ऽहं धी॒तिभि॒र््होत्रा॑ अ॒ष्टाच॑त्वारिशत् ।।48।। विष्णोः॒ क्रमो॑ऽसि॒ स त्वन्नो॑ अग्ने ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
4.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे द्वितीयः प्रश्नः ।।
4.2.1.0
दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यन्द्वि॒ष्मो विष्णो॒र्धने॒नाग्ने॑ऽध॒मम॒स्याः शु॑चि॒षथ्षोड॑श च ।।1।।
4.2.1.1
विष्णोः॒ क्रमोऽस्यभिमाति॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽस्यभिशस्ति॒हा त्रैष्टु॑भं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽ स्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः [1]
4.2.1.2
क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः । अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः । अग्नेऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया प्र॒जया॒ धने॑न । अग्ने [2]
4.2.1.3
अ॒ङ्गि॒रः॒ श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि । पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ । स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ । उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मम् [3]
4.2.1.4
वि म॑ध्य॒म श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम । आ त्वा॑हार््षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठा- वि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय । अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागात् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मान्यप्राः । सीद॒ त्वम्मा॒तुर॒स्याः [4]
4.2.1.5
उ॒पस्थे॒ विश्वान्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्या शु॒क्रज्यो॑ति॒र्वि भा॑हि । अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्व हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व । शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः । ह॒॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ।। [5]
4.2.2.0
तृ॒तीये त्वा॒ गर्भ॒ आ य॑वि॒ष्ठा यच्च॒त्वारि॑ च ।।2।।
4.2.2.1
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीय॒म्परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः । वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तम्पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ । स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊधन्न्॑ । तृ॒तीये त्वा [6]
4.2.2.2
रज॑सि तस्थि॒वास॑मृ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् । अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः । उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्तेष्व॒ग्निर॒मृतो॒ निधा॑यि । इय॑र्ति धू॒मम॑रु॒षम्भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् । विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ [7]
4.2.2.3
रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ । श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्म॑नी॒षाणा॒म्प्रार्प॑णः॒ सोम॑गोपाः । वसोः सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः । यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रां वस्यो॒ अच्छा॒भि द्यु॒म्नं दे॒वभ॑क्तं यविष्ठ । आ [8]
4.2.2.4
तम्भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः । त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर््ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः ।। [9]
4.2.3.0
आ तवो॒र्जाऽनु॒ षोड॑श च ।।3।।
4.2.3.1
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्रप्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः । प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हि॑सीस्त॒नुवा प्र॒जाः । स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आ [10]
4.2.3.2
अ॒स्मि॒न््ह॒व्या जु॑होतन । प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुम् पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ । आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्व सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नीर्मा॒तेव॑ पु॒त्रम्बि॑भृ॒ता स्वे॑नम् । अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॑ [11]
4.2.3.3
सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ । गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि । प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न्पुन॒रास॑दः । पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्या शि॒वत॑मः । पुन॑रू॒र्जा [12]
4.2.3.4
नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ । स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ । पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धता॒म्पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः । बोधा॑ नो अ॒स्य वच॑सो यविष्ठ॒ महि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ वन्दे अग्ने । स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य॑स्मद्द्वेषा॑सि ।। [13]
4.2.4.0
अ॒स्त्वोष॑धीषु जा॒नन्न॒ष्टाच॑त्वारिशच्च ।।4।।
4.2.4.1
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ऽव॒सान॑म्पृथि॒व्या अक्र॑न्नि॒मम् पि॒तरो॑ लो॒कम॑स्मै । अ॒ग्नेर्भस्मास्य॒ग्नेः पुरी॑षमसि सं॒ज्ञान॑मसि काम॒धर॑ण॒म्मयि॑ ते काम॒धर॑णम्भूयात् । सं या वः॑ प्रि॒यास्त॒नुवः॒ सम्प्रि॒या हृ॑दयानि वः । आ॒त्मा वो॑ अस्तु [14]
4.2.4.2
सम्प्रि॑यः॒ सम्प्रि॑यास्त॒नुवो॒ मम॑ । अ॒य सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्ति॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः । अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वा ऊ॑चिषे॒ धिष्णि॑या॒ ये । याः प॒रस्ताद्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ । अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीषु [15]
4.2.4.3
अ॒प्सु वा॑ यजत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः । पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः । जु॒षन्ता॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः । इडा॑मग्ने पुरु॒दस॑ स॒निं गोः श॑श्वत्त॒म हव॑मानाय साध । स्यान्नः॑ सु॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भूत्व॒स्मे । अ॒यं ते॒ योनि॑र््ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न् [16]
4.2.4.4
अ॒ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् । चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द परि॒चिद॑सि॒ तया॑ दे॒वत॑याऽ ङ्गिर॒स्वद्ध्रु॒वा सी॑द लो॒कम्पृ॑ण छि॒द्रम्पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन्न् । ता अ॑स्य॒ सूद॑दोहसः॒ सोम॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ।। [17]
4.2.5.0
समो॑कसौ विश्वरूपे वि॒दुर्निर््ऋ॑तिर॒भि च॑ष्ट इ॒ह मि॒त्राय॒ द्वावि॑शतिश्च ।।5।।
4.2.5.1
समि॑त॒॒ सं क॑ल्पेथा॒॒ सम्प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं वा॒म्मना॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ । इष॒मूर्जं॒ यज॑मानाय धेहि । पु॒री॒ष्य॑स्त्वम॑ग्ने रयि॒मान्पु॑ष्टि॒मा अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः । भव॑तं नः॒ सम॑नसौ॒ समो॑कसौ [18]
4.2.5.2
अ॒रे॒पसौ । मा य॒ज्ञ हि॑सिष्ट॒म्मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ । मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्नि स्वे योना॑वभारु॒खा । तां विश्वैर्दे॒वैर््ऋ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु । यद॒स्य पा॒रे रज॑सः शु॒क्रं ज्योति॒रजा॑यत । तन्नः॑ पर््ष॒दति॒ द्विषोऽग्ने॑ वैश्वानर॒ स्वाहा । नमः॒ सु ते॑ निर््ऋते विश्वरूपे [19]
4.2.5.3
अ॒य॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वं य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑ रोहये॒मम् । यत्ते॑ दे॒वी निर््ऋ॑तिरा ब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विच॒र्त्यम् । इ॒दं ते॒ तद्वि ष्या॒म्यायु॑षो॒ न मध्या॒दथा॑ जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः । यस्यास्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षाम्ब॒न्धाना॑मव॒सर्ज॑नाय । भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निर््ऋ॑तिः [20]
4.2.5.4
इति॑ त्वा॒हम्परि॑ वेद वि॒श्वतः॑ । असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यां तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर््ऋते॒ तुभ्य॑मस्तु । दे॒वीम॒हं निर््ऋ॑तिं॒ वन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒ वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिरः॑शिरः॒ प्रति॑ सू॒री वि च॑ष्टे । नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे [21]
4.2.5.5
शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् । सं व॑र॒त्रा द॑धातन॒ निरा॑हा॒वान्कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒द्रिणं॑ व॒यं विश्वाहाद॑स्त॒मक्षि॑तम् । निष्कृ॑ताहावमव॒ट सु॑वर॒त्र सु॑षेच॒नम् । उ॒द्रिण॑ सिञ्चे॒ अक्षि॑तम् । सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या । यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह [22]
4.2.5.6
बीजम् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्या॑ प॒क्वमाय॑त् । लाङ्ग॑ल॒म्पवी॑रव सु॒शेव॑ सुम॒तित्स॑रु । उदित्कृ॑षति॒ गामवि॑म्प्रफ॒र्व्यं॑ च॒ पीव॑रीम् । प्र॒स्थाव॑द्रथ॒वाह॑नम् । शु॒नं नः॒ फाला॒ वि तु॑दन्तु॒ भूमि॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नम्प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् । कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ । घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वैर्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒भ्याव॑वृत्स्व ।। [23]
4.2.6.0
रपः॑ पत॒त्रिणी॒र्या अह॑सो॒ याः खना॑मि वो॒ऽष्टाद॑श च ।।6।।
4.2.6.1
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा । मन्दा॑मि ब॒भ्रूणा॑मह श॒तं धामा॑नि स॒प्त च॑ । श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मुत वो॒ रुहः॑ । अथा॑ शतक्रत्वो यू॒यमि॒मम्मे॑ अग॒दं कृ॑त । पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ । ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । रपा॑सि विघ्न॒तीरि॑त॒ रपः॑ [24]
4.2.6.2
चा॒तय॑मानाः । अ॒श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्णे वो॑ वस॒तिः कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् । यद॒हं वा॒जय॑न्नि॒मा ओष॑धी॒र््हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा । यदोष॑धयः सं॒गच्छ॑न्ते॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः । निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒य स्थ॒ संकृ॑तीः । स॒राः प॑त॒त्रिणीः [25]
4.2.6.3
स्थ॒न॒ यदा॒मय॑ति॒ निष्कृ॑त । अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ । उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धन॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष । अति॒ विश्वाः परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒र्यत् किं च॑ त॒नुवा॒॒ रपः॑ । याः [26]
4.2.6.4
त॒ आ॒त॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः । तास्ते॒ यक्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व । सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या । अ॒श्वा॒व॒ती सो॑मव॒तीमू॒र्जय॑न्ती॒- मुदो॑जसम् । आ वि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये । याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वह॑सः । याः [27]
4.2.6.5
ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तासां॒ त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव । अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धयः॒ परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः । याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रम्परा॑गताः । इ॒ह सं॒गत्य॒ ताः सर्वा॑ अस्मै॒ सं द॑त्त भेष॒जम् । मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माक॒॒ सर्व॑म॒स्त्वना॑तुरम् । ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्त रा॑जन्पारयामसि ।। [28]
4.2.7.0
आ मन्द॑स्व सान॒सिमेका॒न्नच॑त्वारि॒॒शच्च॑ ।।7।।
4.2.7.1
मा नो॑ हिसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तोऽव॑ सर्पतु । अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यद्य॒ज्ञियम् । तद्दे॒वेभ्यो॑ भरामसि । इष॒मूर्ज॑म॒हमि॒त आ [29]
4.2.7.2
द॒द॒ ऋ॒तस्य॒ धाम्नो॑ अ॒मृत॑स्य॒ योनेः । आ नो॒ गोषु॑ विश॒त्वौष॑धीषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् । अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्त्य॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं॑ दधा॑सि दा॒शुषे॑ कवे । इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र््श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सि र॒यिम् । ऊर्जो॑ नपा॒ज्जात॑वेदः सुश॒स्तिभि॒र्मन्द॑स्व [30]
4.2.7.3
धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सं द॑धु॒र्भूरि॑रेतसश्चि॒त्रोत॑यो वा॒मजा॑ताः । पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर््षि भा॒नुना । पु॒त्रः पि॒तरा॑ वि॒चर॒न्नुपा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी । ऋ॒तावा॑नम्महि॒षं वि॒श्वच॑र््षणिम॒ग्नि सु॒म्नाय॑ दधिरे पु॒रो जनाः । श्रुत्क॑र्ण स॒प्रथ॑स्तमन्त्वा गि॒रा दैव्य॒म्मानु॑षा यु॒गा । नि॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒॒ राध॑से म॒हे । रा॒तिम्भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम्पृ॒णक्षि॑ सान॒सिम् [31]
4.2.7.4
र॒यिम् । चितः॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वाः सी॑दत । आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे । सं ते॒ पया॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्णि॑यान्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑स्युत्त॒मानि॑ धिष्व ।। [32]
4.2.8.0
म॒होऽनु॑ यातु॒धाना॑ना॒मेका॑दश च ।।8।।
4.2.8.1
अ॒भ्य॑स्था॒द्विश्वाः॒ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह । बृह॒स्पतिः॑ सवि॒ता तन्म॑ आह पु॒षा मा॑धात्सुकृ॒तस्य॑ लो॒के । यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादुत वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुतं॒ जनि॑म॒ तत्ते॑ अर्वन्न् । अ॒पाम्पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानम्म॒हः [33]
4.2.8.2
आ च॒ पुष्क॑रं दि॒वो मात्र॑या व॒रिणा प्र॑थस्व । ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॑ [34]
4.2.8.3
द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः । नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ । ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ । या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒॒ रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।। [35]
4.2.9.0
प्र॒ति॒ष्ठायै॑ स॒हस्र॑वीर्या पर॒मं वि॒राट्त्स॒प्त तीरे॑ च॒त्वारि॑ च ।।9।।
4.2.9.1
ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा॒ सुकृ॑ता । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृ॑ह । प्र॒जाप॑तिस्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्प्रथो॑ऽसि पृथि॒व्य॑सि॒ भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री पृ॑थि॒वीं य॑च्छ पृथि॒वीं दृ॑ह पृथि॒वीम्मा हि॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै [36]
4.2.9.2
च॒रित्रा॑या॒ग्निस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । काण्डात्काण्डात् प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्यास्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्या [37]
4.2.9.3
अ॒सि॒ सा मा॑ जिन्व । मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वीर्नः स॒न्त्वोष॑धीः । मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒॒ रजः। मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑मा अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः । म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः । तद्विष्णोः पर॒मम् [38]
4.2.9.4
प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । ध्रु॒वासि॑ पृथिवि॒ सह॑स्व पृतन्य॒तः । स्यू॒ता दे॒वेभि॑र॒मृते॒नागाः । यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि । या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्राग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते । वि॒राट् [39]
4.2.9.5
ज्योति॑रधारयत्स॒म्राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वह॑न्त्या॒शवः॑ । यु॒क्ष्वा हि दे॑व॒हूत॑मा॒॒ अश्वा॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त [40]
4.2.9.6
होत्राः । अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वैश्वान॒रस्य॑ च । अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान्रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् । ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेनाः । अ॒न्तर््हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् । तस्मिन्त्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वताभ्यः । तस्या॑सते॒ हर॑यः स॒प्त तीरे स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धाराम् ।। [41]
4.2.10.0
अग्ने॒ मा हि॑सी॒रग्ने॒ मोष्ट्र॑मार॒ण्यमनु॑ शर॒भं नव॑ च ।।10।। आ॒दि॒त्यमि॒मन्द्वि॒पाद॑म्म॒युव्वाँत॒स्याश्व॑मि॒ममेक॑शफङ्गौ॒रमज॑स्रङ्गव॒यव्वँरूत्रि॒मवि॑मि॒मामूर्णा॒युमुष्ट्र॒य्योँ अ॒ग्निर॒ग्नेश्श॑र॒भम् ।।
4.2.10.1
आ॒दि॒त्यं गर्भ॒म्पय॑सा सम॒ञ्जन्त्स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् । परि॑ वृङ्ग्धि॒ हर॑सा॒ माभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः । इ॒मम्मा हि॑सीर्द्वि॒पाद॑म्पशू॒ना सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः । म॒युमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । वात॑स्य॒ ध्राजिं॒ वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒न स॑रि॒रस्य॒ मध्ये । शिशुं॑ न॒दीना॒॒ हरि॒मद्रि॑बुद्ध॒मग्ने॒ मा हि॑सीः [42]
4.2.10.2
प॒र॒मे व्यो॑मन्न् । इ॒मम्मा हि॑सी॒रेक॑शफम्पशू॒नां क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । अज॑स्र॒मिन्दु॑मरु॒षम्भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तौ॒ नमो॑भिः । स पर्व॑भिर््ऋतु॒शः कल्प॑मानो॒ गाम्मा हि॑सी॒रदि॑तिं वि॒राजम् । इ॒म स॑मु॒द्र श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑न॒म्भुव॑नस्य॒ मध्ये । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा [43]
4.2.10.3
हि॒॒सीः॒ प॒र॒मे व्यो॑मन्न् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । वरूत्रिं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒ना रज॑सः॒ पर॑स्मात् । म॒ही सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑सीः॒ पर॒मे व्यो॑मन्न् । इ॒मामूर्णा॒युं वरु॑णस्य मा॒यां त्वच॑म्पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जानाम्प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हि॑सीः पर॒मे व्यो॑मन्न् । उष्ट्र॑मार॒ण्यमनु॑ [44]
4.2.10.4
ते॒ दि॒शा॒मि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । यो अ॒ग्निर॒ग्नेस्तप॒सोऽधि॑ जा॒तः शोचात्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒ व्यान॒ट्तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु । अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒त्सा वा अ॑पश्यज्जनि॒तार॒मग्रे । तया॒ रोह॑माय॒न्नुप॒ मेध्या॑स॒स्तया॑ दे॒वा दे॒वता॒मग्र॑ आयन्न् । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।। [45]
4.2.11.0
हि वृ॒ता म॒ एका॑दश च ।।11।।
4.2.11.1
इन्द्राग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां चेति॒ प्र वी॒र्यम् । श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता । प्र च॑र््ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्राग्नी॒ विश्वा॒ भुव॒नात्य॒न्या । मरु॑तो॒ यस्य॒ हि [46]
4.2.11.2
क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ । य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणु॒ता हवम् । श्रि॒यसे॒ कम्भा॒नुभिः॒ सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ । अव॑ ते॒ हेड॒ उदु॑त्त॒मम् । कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा । कया॒ शचि॑ष्ठया वृ॒ता । [47]
4.2.11.3
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर््हृणा॒यून् । आ॒सन्नि॑षून््हृ॒त्स्वसो॑ मयो॒भून््य ए॑षाम् भृ॒त्यामृ॒णध॒त्स जी॑वात् । अग्ने॒ नया दे॒वाना॒॒ शं नो॑ भवन्तु॒ वाजे॑वाजे । अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ । वृषा॑ सोम द्यु॒मा अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे । इ॒मम्मे॑ वरुण तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने ।। [48]
4.3.0.0
अ॒पां त्वेम॑न्न॒यं पु॒रो भुवः॒ प्राची ध्रु॒वक्षि॑ति॒स्त्र्यवि॒रिन्द्राग्नी॒ मा छन्द॑ आ॒शुस्त्रि॒वृद॒ग्नेर्भा॒गोऽस्येक॑ये॒यमे॒व सा याग्ने॑ जा॒तान॒ग्निर्वृ॒त्राणि॒ त्रयो॑दश ।।13।। अ॒पां त्वेन्द्राग्नी इ॒यमे॒व दे॒वता॑ता॒ षट्त्रि॑शत् ।।36।। अ॒पां त्वेम॑न््ह॒विषा॒ वर्ध॑नेन ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
4.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे तृतीयः प्रश्नः ।।
4.3.1.0
योनौ॒ पञ्च॑दश च ।।1।।
4.3.1.1
अ॒पां त्वेमन्त्सादयाम्य॒पां त्वोद्मन्त्सादयाम्य॒पां त्वा॒ भस्मन्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पां क्षये॑ सीदा॒पा सधि॑षि सीदा॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्री छन्द॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दो॑ऽनु॒ष्टुप्छन्दः॑ प॒ङ्क्तिश्छन्दः॑ ।। [1]
4.3.2.0
त्वया॒ मनो॑ ज॒मद॑ग्नि॒र््ऋषिः॑ प्र॒जाप॑तिगृहीतया त्रि॒॒शच्च॑ ।।2।।
4.3.2.1
अ॒यम्पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रं गा॑य॒त्रादु॑पा॒॒शु- रु॑पा॒॒शोस्त्रि॒वृत्त्रि॒वृतो॑ रथंत॒र र॑थंत॒राद्वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यो॒ऽयं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डाद॑न्तर्या॒मोऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद्बृ॒हद्बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ [2]
4.3.2.2
गृ॒ह्णा॒मि॒ प्र॒जाभ्यो॒ऽयम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र््षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र््षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒रात्सुव॒स्तस्य॒ श्रोत्र॑ सौ॒व श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒र स्वा॒रान्म॒न्थी म॒न्थिन॑ एकवि॒॒श ए॑कवि॒॒शाद्वै॑रा॒जं वै॑रा॒जाज्ज॒मद॑ग्नि॒र््ऋषिः॑ प्र॒जाप॑तिगृहीतया [3]
4.3.2.3
त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो वाच्याय॒नः प॒ङ्क्तिर््है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आग्रय॒णात्त्रि॑णवत्रयस्त्रि॒शौ त्रि॑णवत्रयस्त्रि॒शाभ्या॑ शाक्वररैव॒ते शाक्वररैव॒ताभ्यां वि॒श्वक॒र्मर््षिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्रजाभ्यः ।। [4]
4.3.3.0
विट्प॑ष्ठ॒वाड्वयो॒ऽष्टावि॑शतिश्च ।।3।।
4.3.3.1
प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णं त्रि॒वृत्स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑नां पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शां ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता क्ष॒त्रं द्रवि॑णम्पञ्चद॒शः स्तोमः॒ स उ॑ सप्तद॒शव॑र्तनिर्दित्य॒वाड्वय॒स्त्रेताया॑नां दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑ प्र॒तीची॑ दि॒शां व॒र््षा ऋ॑तू॒नां विश्वे॑ दे॒वा दे॒वता॒ विट् [5]
4.3.3.2
द्रवि॑ण सप्तद॒शः स्तोमः॒ स उ॑वेकवि॒॒शव॑र्तनिस्त्रिव॒त्सो वयो द्वाप॒रोऽया॑नाम्पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शा श॒रदृ॑तू॒नाम्मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टं द्रवि॑णमेकवि॒॒शः स्तोमः॒ स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड्वय॑ आस्क॒न्दो-ऽ या॑नामुत्तराद्वा॒तो वातः॑ प्र॒त्न ऋषि॑रू॒र्ध्वा दि॒शा हे॑मन्तशिशि॒रावृ॑तू॒नाम्बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णं त्रिण॒वः स्तोमः॒ स उ॑ त्रयस्त्रि॒॒शव॑र्तनिः पष्ठ॒वाद्वयो॑ऽभि॒भूरया॑नां विष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः॑ पि॒तरः॑ पिताम॒हाः परेऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रेऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहूत्याम् ।। [6]
4.3.4.0
सु॒वीरं॒ भुव॑नानामु॒र्व्या स॒प्तद॑श च ।।4।।
4.3.4.1
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वं योनि॒मा सी॑द सा॒ध्या । उख्य॑स्य के॒तुम्प्र॑थ॒मम्पु॒रस्ता॑द॒श्विनाध्व॒र्यू सा॑दयतामि॒ह त्वा । स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सं वि॑शस्व पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॒श्विनाध्व॒र्यू सा॑दयतामि॒ह त्वा । कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिं नो॑ वर्ध बहु॒ल सु॒वीरम् । [7]
4.3.4.2
अपा॑मतिं दुर्म॒तिम्बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र्धेहि॒ यज॑मानाय॒ पोष॑म॒श्विनाध्व॒र्यू सा॑दयतामि॒ह त्वा । अ॒ग्नेः पुरी॑षमसि देव॒यानी॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्वा॒श्विनाध्व॒र्यू सा॑दयतामि॒ह त्वा । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॑र्वि॒ष्टम्भ॑नी दि॒शामधि॑पत्नी॒ भुव॑नानाम् । [8]
4.3.4.3
ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विनाध्व॒र्यू सा॑दयतामि॒ह त्वा । स॒जूर््ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जू रु॒द्रैः स॒जूरा॑दि॒त्यैः स॒जूर्विश्वैर्दे॒वैः स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये त्वा वैश्वान॒राया॒श्विनाध्व॒र्यू सा॑दयतामि॒ह त्वा । प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्र॑म्मे श्लोकया॒पस्पि॒न्वौष॑धीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य ।। [9]
4.3.5.0
पुरु॑षो॒ वय॒ष्षड्वि॑शतिश्च ।।5।।
4.3.5.1
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट्छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिहा॒ छन्द॑स्तुर्य॒वाड्वयो॑ऽ- नु॒ष्टुप्छन्दः॑ पष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वयः॑ स॒तोबृ॑हती॒ छन्द॑ ऋष॒भो वयः॑ क॒कुच्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दो॑ऽ- न॒ड्वान््वयः॑ प॒ङ्क्तिश्छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒लं छन्दः॒ पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो व्या॒घ्रो वयोऽ- ना॑धृष्टं॒ छन्दः॑ सि॒॒हो वय॑श्छ॒दिश्छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दः॑ क्ष॒त्रं वयो॒ मयं॑दं॒ छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ ।। [10]
4.3.6.0
छ॒र्दिषा॑ पिन्व॒ षट्च॑ ।।6।।
4.3.6.1
इन्द्राग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृहतं यु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धताम् ।। वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्भास्व॑ती सूरि॒मती॒मा या द्याम्भास्या पृ॑थि॒वीमोर्व॑न्तरि॑क्षम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृहा॒न्तरि॑क्ष॒म्मा हि॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा [11]
4.3.6.2
शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि दक्षि॒णा दिक्स॒म्राड॑सि प्र॒तीची॒ दिक्स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र्मे पाहि प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्र॑म्मे पाहि॒ मनो॑ मे जिन्व॒ वाच॑म्मे पिन्वा॒त्मान॑म्मे पाहि॒ ज्योति॑र्मे यच्छ ।। [12]
4.3.7.0
दे॒वताऽऽयु॑षे त्वा॒ षट्च॑ ।।7।।
4.3.7.1
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दोऽस्री॒विश्छन्दः॑ प॒ङ्क्तिश्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप्छन्दो॑ वि॒राट्छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दः॑ पृथि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौश्छन्दः॒ समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छन्दः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ऽजा छन्दोऽश्व॒श्छन्दः॑ । अ॒ग्निर्दे॒वता [13]
4.3.7.2
वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्धासि॒ राड्ध्रु॒वासि॑ ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड्ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ।। [14]
4.3.8.0
आ॒शुस्स॒प्तत्रि॑शत् ।।8।।
4.3.8.1
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः प्रतूर्तिरष्टाद॒शस्तपो॑ नवद॒शो॑ऽभिव॒र्तः स॑वि॒॒शो ध॒रुण॑ एकवि॒॒शो वर्चो द्वावि॒॒शः स॒म्भर॑णस्त्रयोवि॒॒शो योनि॑श्चतुर्वि॒॒शो गर्भाः पञ्चवि॒॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒॒शो नाकः॑ षट्त्रि॒॒शो वि॑व॒र्तोऽष्टाचत्वारि॒॒शो ध॒र्त्रश्च॑तुष्टो॒मः ।। [15]
4.3.9.0
वसू॑नां भा॒गो॑ऽसि॒ षट्च॑त्वारिशच्च ।।9।।
4.3.9.1
अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्य॒म्ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोम॒ इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्र स्पृ॒तम्प॑ञ्चद॒शः स्तोमो॑ नृ॒चक्ष॑साम्भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ स्पृ॒त स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृ॒ष्टिर्वाताः स्पृ॒ता ए॑कवि॒॒शः स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोजः॑ स्पृ॒तं त्रि॑ण॒वः स्तोमो॒ वसू॑नाम्भा॒गो॑ऽसि [16]
4.3.9.2
रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात्स्पृ॒तं च॑तुर्वि॒॒शः स्तोम॑ आदि॒त्यानाम्भा॒गो॑ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भाः स्पृ॒ताः प॑ञ्चवि॒॒शः स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्य स॒मीची॒र्दिशः॑ स्पृ॒ताश्च॑तुष्टो॒मः स्तोमो॒ यावा॑नाम्भा॒गोऽस्यया॑वाना॒माधि॑पत्यम्प्र॒जाः स्पृ॒ताश्च॑तुश्चत्वारि॒॒शः स्तोम॑ ऋभू॒णाम्भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यम्भू॒तं निशान्त स्पृ॒तं त्र॑यस्त्रि॒॒शः स्तोमः॑ ।। [17]
4.3.10.0
स॒व्वँ॒त्स॒रोऽधि॑पति॒र्वि पञ्च॑त्रिशच्च ।।10।।
4.3.10.1
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒ताना॒म्पति॒रधि॑पतिरासीत्स॒प्तभि॑रस्तुवत सप्त॒ऱ्षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरा- सीन्न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत॒र्तवो॑ऽसृज्यन्तार्त॒वोऽधि॑पतिरासीत् त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिः [18]
4.3.10.2
आ॒सी॒त्प॒ञ्च॒द॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत्सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासी- न्नवद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्त्रयो॑विशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्पञ्च॑विशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्स॒प्तवि॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी वि [19]
4.3.10.3
ऐ॒तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न्तेषा॒माधि॑पत्यमासी॒न्नव॑विशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽ- धि॑पतिरासी॒देक॑त्रिशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒ चाधि॑पत्यमासी॒त्त्रय॑स्त्रिशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ।। [20]
4.3.11.0
ऊर्ज॒मेका प्रतिमु॒ञ्चमा॑ना भू॒यास॒मेकं॒ पत्न्येका॒न्नवि॑श॒तिश्च॑ ।।11।।
4.3.11.1
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनाम्महि॒मानः॑ सचन्ते ।। छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॑ सं॒चर॑न्ती । सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ।। ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षागुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका [21]
4.3.11.2
व्र॒तमेका॑ रक्षति देवयू॒नाम् ।। च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती । गा॒य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभ॑म्बृ॒हद॒र्कं यु॑ञ्जा॒नाः सुव॒राभ॑रन्नि॒दम् ।। प॒ञ्चभि॑र्धा॒ता वि द॑धावि॒दं यत्तासा॒॒ स्वसॄ॑रजनय॒त्पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ।। त्रि॒॒शत्स्वसा॑र॒ उप॑ यन्ति निष्कृ॒त स॑मा॒नं के॒तुम्प्र॑तिमु॒ञ्चमा॑नाः । [22]
4.3.11.3
ऋ॒तूस्त॑न्वते क॒वयः॑ प्रजान॒तीर्मध्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः । ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे । ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भ॑म्महि॒मान॒मिन्द्रम् । तेन॒ दस्यू॒न्व्य॑सहन्त दे॒वा ह॒न्तासु॑राणामभव॒च्छची॑भिः । अना॑नुजामनु॒जाम्माम॑कर्त स॒त्यं वद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒यासम् [23]
4.3.11.4
अ॒स्य॒ सु॒म॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त । अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम् । भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त । पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गाम्पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॒ कॢ॒प्ताः स॑मा॒नमूर्ध्नीर॒भि लो॒कमेकम् ।। [24]
4.3.11.5
ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मान॑म्बिभर्ति । सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैकां॒ नि य॑च्छति । या प्र॑थ॒मा व्यौच्छ॒त्सा धे॒नुर॑भवद्य॒मे । सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तरा॒॒ समाम् । शु॒क्रऱ्ष॑भा॒ नभ॑सा॒ ज्योति॒षागाद्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॒मा॒नमर्थ॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आगाः । ऋ॒तू॒नाम्पत्नी प्रथ॒मेयमागा॒दह्नां ने॒त्री ज॑नि॒त्री प्र॒जानाम् । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजीर्णा॒ त्वं ज॑रयसि॒ सर्व॑म॒न्यत् ।। [25]
4.3.12.0
अ॒स्य॒ङ्कु॒पञ्छन्द॒स्त्रय॑स्त्रिशच्च ।।12।।
4.3.12.1
अग्ने॑ जा॒तान्प्र णु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न्तव॑ स्या॒॒ शर्म॑न्त्रि॒वरू॑थ उ॒द्भित् । सह॑सा जा॒तान्प्र णु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्र णु॑दा नः स॒पत्नान्॑ । च॒तु॒श्च॒त्वा॒रि॒॒शः स्तोमो॒ वर्चो॒ द्रवि॑ण षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णम्पृथि॒व्याः पुरी॑षमसि [26]
4.3.12.2
अप्सो॒ नाम॑ । एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒ सिन्धु॒श्छन्दः॑ समु॒द्रं छन्दः॑ सलि॒लं छन्दः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथंत॒रं छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्दः॑ स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छन्दः॑ क॒कुच्छन्द॑स्त्रिक॒कुच्छन्दः॑ का॒व्यं छन्दोऽङ्कु॒पं छन्दः॑ [27]
4.3.12.3
प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ क्षु॒रो भृज्वा॒ञ्छन्दः॑ प्र॒च्छच्छन्दः॑ प॒क्षश्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लं छन्दो॒ विष्प॑र्धा॒श्छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दोऽङ्का॒ङ्कं छन्दः॑ ।। [28]
4.3.13.0
सूर्य॑स्य॒ मनु॑षो मरुतः॒ पाव॑क॒ महो॑भी रथे॒शुभं॒ केन॒ षट्च॑त्वारिशच्च ।।13।।
4.3.13.1
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया । समि॑द्धः शु॒क्र आहु॑तः ।। त्व सो॑मासि॒ सत्प॑ति॒स्त्व राजो॒त वृ॑त्र॒हा । त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ।। भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ।। भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । [29]
4.3.13.2
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरूक्षितं दृ॒श आ रू॒पे अन्नम् । सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वा आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने द्यु॒मदु॒त रे॒वद्दि॑दीहि । स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । यत्सी॒महि॑ दिविजात॒ प्रश॑स्तं॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् । यथा॑ होत॒र्मनु॑षः [30]
4.3.13.3
दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वानो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ।। अ॒ग्निमी॑डे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम् । होता॑र रत्न॒धात॑मम् ।। वृषा॑ सोम द्यु॒मा अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ।। सान्त॑पना इ॒द ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ।। यो नो॒ मर्तो॑ वसवो दुऱ्हृणा॒युस्ति॒रः स॒त्यानि॑ मरुतः [31]
4.3.13.4
जिघा॑सात् । द्रु॒हः पाश॒म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् । सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॑रु॒क्षयाः॒ सग॑णा॒ मानु॑षेषु । तेऽस्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वह॑सः सांतप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ । पि॒प्री॒हि दे॒वा उ॑श॒तो य॑विष्ठ वि॒द्वा ऋ॒तूर््ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्व होतॄ॑णाम॒स्याय॑जिष्ठः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑क [32]
4.3.13.5
शो॒चे॒ वेष्ट्व हि यज्वा । ऋ॒ता य॑जासि महि॒ना वि यद्भूऱ्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य । अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ।। ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑म नो भव । गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन । प्र॒मु॒ञ्चन्तो॑ नो॒ अह॑सः । पू॒र्वीभि॒ऱ्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । महो॑भिः [33]
4.3.13.6
च॒ऱ्ष॒णी॒नाम् । प्र बु॒ध्निया॑ ईरते वो॒ महा॑सि॒ प्र णामा॑नि प्रयज्यवस्तिरध्वम् । स॒ह॒स्रियं॒ दम्य॑म्भा॒गमे॒तं गृ॑हमे॒धीय॑म्मरुतो जुषध्वम् । उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तोऱ्॑ह॒विष्म॑ती घृ॒ताची । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः । इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ई सुर॒भीणि॑ वियन्तु । क्री॒डं वः॒ शर्धो॒ मारु॑तमन॒र्वाण॑ रथे॒शुभम् । [34]
4.3.13.7
कण्वा॑ अ॒भि प्र गा॑यत । अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः । प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यम्म॑हि॒त्वम्प॑नयन्त॒ धूत॑यः । उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ [35]
4.3.13.8
चि॒त्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते । अ॒ग्निम॑ग्नि॒॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पतिम् । ह॒व्य॒वाह॑म्पुरुप्रि॒यम् । त हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता । अ॒ग्नि ह॒व्याय॒ वोढ॑वे । इन्द्राग्नी रोच॒ना दि॒वः श्नथ॑द्वृ॒त्रमिन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरो॒ विश्व॑कर्मन््ह॒विषा॑ वावृधा॒नो विश्व॑कर्मन््ह॒विषा॒ वर्ध॑नेन ।। [36]
4.4.0.0
र॒श्मिर॑सि॒ राज्ञ्य॑स्य॒यं पु॒रो हरि॑केशो॒ऽग्निर्मू॒र्धेन्द्रा॒ग्निभ्यां॒ बृह॒स्पति॑र्भूय॒स्कृद॑स्य॒ग्निना॑ विश्वा॒षाट्प्र॒जाप॑ति॒र्मन॑सा॒ कृत्ति॑का॒ मधु॑श्च स॒मिद्दि॒शान्द्वाद॑श ।।12।। र॒श्मिर॑सि॒ प्रति॑ धे॒नुम॑सि स्तनयित्नु॒सनि॑रस्यादि॒त्याना॑ स॒प्तत्रि॑शत् ।।37।। र॒श्मिर॑सि॒ को अ॒द्य यु॑ङ्क्ते ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
4.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे चतुर्थः प्रश्नः ।।
4.4.1.0
उ॒शिग॑सि प्रा॒णाय॒ त्रिच॑त्वारिशच्च ।।1।।
4.4.1.1
र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जिन्व सं॒धिर॑स्य॒न्तरि॑क्षाय त्वा॒न्तरि॑क्षं जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वीं जि॑न्व विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै त्वा॒ वृष्टिं॑ जिन्व प्र॒वास्यह्ने॒ त्वाह॑र्जिन्वानु॒वासि॒ रात्रि॑यै त्वा॒ रात्रिं॑ जिन्वो॒शिग॑सि [1]
4.4.1.2
वसु॑भ्यस्त्वा॒ वसूञ्जिन्व प्रके॒तो॑ऽसि रु॒द्रेभ्य॑स्त्वा रु॒द्राञ्जि॑न्व सुदी॒तिर॑स्यादि॒त्येभ्य॑स्त्वाऽऽदि॒त्याञ्जि॒न्वौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॑न्व रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जिन्वाभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वाधि॑पतिरसि प्रा॒णाय॑ [2]
4.4.1.3
त्वा॒ प्रा॒णं जि॑न्व य॒न्तास्य॑पा॒नाय॑ त्वापा॒नं जि॑न्व स॒॒सर्पो॑ऽसि॒ चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्रं॑ जिन्व त्रि॒वृद॑सि प्र॒वृद॑सि सं॒वृद॑सि वि॒वृद॑सि सरो॒हो॑ऽसि नीरो॒हो॑ऽसि प्ररो॒होऽस्यनुरो॒हो॑ऽसि वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ।। [3]
4.4.2.0
प्र॒तीची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयश्चत्वारि॒॒शच्च॑ ।।2।।
4.4.2.1
राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निऱ्हे॑ती॒नाम्प्र॑तिध॒र्ता त्रि॒वृत्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑य॒त्वाज्य॑मु॒क्थ- मव्य॑थयत्स्तभ्नातु रथंत॒र साम॒ प्रति॑ष्ठित्यै वि॒राड॑सि दक्षि॒णा दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नाम्प्र॑तिध॒र्ता प॑ञ्चद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑यतु॒ प्रउ॑गमु॒क्थमव्य॑थयत्स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्यै स॒म्राड॑सि प्र॒तीची॒ दिक् [4]
4.4.2.2
आ॒दि॒त्यास्ते॑ दे॒वा अधि॑पतयः॒ सोमो॑ हेती॒नाम्प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑यतु मरुत्व॒तीय॑मु॒क्थ- मव्य॑थयत्स्तभ्नातु वैरू॒प साम॒ प्रति॑ष्ठित्यै स्व॒राड॒स्युदी॑ची॒ दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नाम्प्र॑तिध॒र्तैक॑- वि॒॒शस्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थयत्स्तभ्नातु वैरा॒ज साम॒ प्रति॑ष्ठित्या॒ अधि॑पत्न्यसि बृह॒ती दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयः [5]
4.4.2.3
बृह॒स्पति॑ऱ्हेती॒नाम्प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒॒शौ त्वा॒ स्तोमौ॑ पृथि॒व्या श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थयन्ती स्तभ्नीता शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षा॒यऱ्ष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे सु॑व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। [6]
4.4.3.0
प्र॒म्लोच॑न्ती च॒ य स्व॒स्त्याष्टावि॑शतिश्च ।।3।।
4.4.3.1
अ॒यम्पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चाप्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षा॑सि॒ प्रहे॑तिर॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चाप्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑तिर॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ प्र॒म्लोच॑न्ती च [7]
4.4.3.2
अ॒नु॒म्लोच॑न्ती चाप्स॒रसौ॑ स॒र्पा हे॒तिर्व्या॒घ्राः प्रहे॑तिर॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑तिर॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑- वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यम् [8]
4.4.3.3
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधाम्या॒योस्त्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒यायां॒ नमः॑ समु॒द्राय॒ नमः॑ समु॒द्रस्य॒ चक्ष॑से परमे॒ष्ठी त्वा॑ सादयतु दि॒वः पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वतीं वि॒भूम॑तीम्प्र॒भूम॑तीम्परि॒भूम॑तीं॒ दिवं॑ यच्छ॒ दिवं॑ दृह॒ दिव॒म्मा हि॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य॒ सूर्य॑स्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । प्रोथ॒दश्वो॒ न यव॑से अवि॒ष्यन््य॒दा म॒हः सं॒वर॑णा॒द्व्यस्थात् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ।। [9]
4.4.4.0
जना॑ना॒मङ्गि॑रस॒ इष॑ सु॒शमी॑ तिग्मजम्भ पुपूर्या अ॒र्वाङ्वसु॑श्रवाः॒ पञ़्च॑ च ।।4।।
4.4.4.1
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति ।। त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।। अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ।। भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे सुव॒ऱ्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहम् ।। अबोध्य॒ग्निः स॒मिधा॒ जना॑नाम् [10]
4.4.4.2
प्रति॑ धे॒नुमि॑वाय॒तीमु॒षासम् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ । अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वीव॑ रु॒क्ममु॒र्व्यञ्च॑मश्रेत् । जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ । त्वाम॑ग्ने॒ अङ्गि॑रसः [11]
4.4.4.3
गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः । य॒ज्ञस्य॑ के॒तुम्प्र॑थ॒मम्पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समि॑न्धते । इन्द्रे॑ण दे॒वैः स॒रथ॒॒ स ब॒ऱ्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ । त्वं चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शम्पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे । सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषम् [12]
4.4.4.4
स्तोमं॑ चा॒ग्नये । वऱ्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते । सस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वान्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र । ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं चेति॑ष्ठमर॒ति स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृतम् । स यो॑जते अरु॒षो वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी [13]
4.4.4.5
वसू॑नां दे॒व राधो॒ जना॑नाम् । उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ढुषः॑ । उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमि॑न्धते॒ नरः॑ । अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ । स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्य॑म्पुर्वणीक दीदिहि । क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजम्भ [14]
4.4.4.6
र॒क्षसो॑ दह॒ प्रति॑ । आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जरम् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीष॑ स्तो॒तृभ्य॒ आ भ॑र । आ ते॑ अग्न ऋ॒चा ह॒विः शु॒क्रस्य॑ ज्योतिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट्तुभ्य॑ हूयत॒ इष॑ स्तो॒तृभ्य॒ आ भ॑र । उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्याः [15]
4.4.4.7
उ॒क्थेषु॑ शवसस्पत॒ इष॑ स्तो॒तृभ्य॒ आ भ॑र । अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्र हृ॑दि॒स्पृशम् । ऋ॒ध्यामा॑ त॒ ओहैः । अधा॒ ह्य॑ग्ने॒ क्रतोर्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीर््ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ । आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः । ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ् [16]
4.4.4.8
सुव॒र्न ज्योतिः॑ । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः । अ॒ग्नि होता॑रम्मन्ये॒ दास्व॑न्त॒व्वँसोः सू॒नु सह॑सो जा॒तवे॑दसम् । विप्रं॒ न जा॒तवे॑दसम् । य ऊ॒र्ध्वया स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्राष्टि॒मनु॑ शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य स॒र्पिषः॑ । अग्ने॒ त्वन्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ । तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः । वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः ।। [17]
4.4.5.0
साऽष्टाच॑त्वारिशच्च ।।5।।
4.4.5.1
इ॒न्द्रा॒ग्निभ्यां त्वा स॒युजा॑ यु॒जा यु॑नज्म्याघा॒राभ्यां॒ तेज॑सा॒ वर्च॑सो॒क्थेभिः॒ स्तोमे॑भि॒श्छन्दो॑भी र॒य्यै पोषा॑य सजा॒तानाम्मध्यम॒स्थेया॑य॒ मया त्वा स॒युजा॑ यु॒जा यु॑नज्म्य॒म्बा दु॒ला नि॑त॒त्निर॒भ्रय॑न्ती मे॒घय॑न्ती व॒ऱ्षय॑न्ती चुपु॒णीका॒ नामा॑सि प्र॒जाप॑तिना त्वा॒ विश्वा॑भिर्धी॒भिरुप॑ दधामि पृथि॒व्यु॑दपु॒रमन्ने॑न वि॒ष्टा म॑नु॒ष्यास्ते गो॒प्तारो॒ऽग्निर्विय॑त्तोऽस्यां॒ ताम॒हम्प्र प॑द्ये॒ सा [18]
4.4.5.2
मे॒ शर्म॑ च॒ वर्म॑ चा॒स्त्वधि॑द्यौर॒न्तरि॑क्ष॒म्ब्रह्म॑णा वि॒ष्टा म॒रुत॑स्ते गो॒प्तारो॑ वा॒युर्विय॑त्तोऽस्यां॒ ताम॒हम्प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु॒ द्यौरप॑राजिता॒मृते॑न वि॒ष्टादि॒त्यास्ते॑ गो॒प्तारः॒ सूर्यो॒ विय॑त्तोऽस्यां॒ ताम॒हम्प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु ।। [19]
4.4.6.0
वि॒द्यु॒त्सनि॑र्द्यु॒त्वैका॒न्नत्रि॒॒शच्च॑ ।।6।।
4.4.6.1
बृह॒स्पति॑स्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छा॒ग्निस्तेऽधि॑पतिर्- वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ वा॒युस्तेऽधि॑पतिः प्र॒जाप॑तिस्त्वा सादयतु दि॒वः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ परमे॒ष्ठी तेऽधि॑पतिः पुरोवात॒सनि॑रस्यभ्र॒सनि॑रसि विद्यु॒त्सनिः॑ [20]
4.4.6.2
अ॒सि॒ स्त॒न॒यि॒त्नु॒सनि॑रसि वृष्टि॒सनि॑रस्य॒ग्नेर्यान्य॑सि दे॒वाना॑मग्ने॒यान्य॑सि वा॒योर्यान्य॑सि दे॒वानां वायो॒यान्य॑स्य॒न्तरि॑क्षस्य॒ यान्य॑सि दे॒वाना॑मन्तरिक्ष॒यान्य॑स्य॒न्तरि॑क्षमस्य॒न्तरि॑क्षाय त्वा सलि॒लाय॑ त्वा॒ सर्णी॑काय त्वा॒ सती॑काय त्वा॒ केता॑य त्वा॒ प्रचे॑तसे त्वा॒ विव॑स्वते त्वा दि॒वस्त्वा॒ ज्योति॑ष आदि॒त्येभ्य॑स्त्व॒र्चे त्वा॑ रु॒चे त्वा द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा यशो॒दां त्वा॒ यश॑सि तेजो॒दां त्वा॒ तेज॑सि पयो॒दां त्वा॒ पय॑सि वर्चो॒दां त्वा॒ वर्च॑सि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि॒ तेनऱ्षि॑णा॒ तेन॒ ब्रह्म॑णा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ।। [21]
4.4.7.0
व्या॒नम्मे॒ द्वात्रि॑शच्च ।।7।।
4.4.7.1
भू॒य॒स्कृद॑सि वरिव॒स्कृद॑सि॒ प्राच्य॑स्यू॒र्ध्वास्य॑न्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सीदाप्सु॒षद॑सि श्येन॒सद॑सि गृध्र॒सद॑सि सुपर्ण॒सद॑सि नाक॒सद॑सि पृथि॒व्यास्त्वा॒ द्रवि॑णे सादयाम्य॒न्तरि॑क्षस्य त्वा॒ द्रवि॑णे सादयामि दि॒वस्त्वा॒ द्रवि॑णे सादयामि दि॒शां त्वा॒ द्रवि॑णे सादयामि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे [22]
4.4.7.2
पा॒ह्यायु॑र्मे पाहि वि॒श्वायु॑र्मे पाहि स॒र्वायु॑र्मे पा॒ह्यग्ने॒ यत्ते॒ पर॒॒ हृन्नाम॒ तावेहि॒ स र॑भावहै॒ पाञ्च॑जन्ये॒ष्वप्येध्यग्ने॒ यावा॒ अया॑वा॒ एवा॒ ऊमाः॒ सब्दः॒ सग॑रः सु॒मेकः॑ ।। [23]
4.4.8.0
अ॒ग्निनैका॒न्नप॑ञ्चा॒शत् ।।8।।
4.4.8.1
अ॒ग्निना॑ विश्वा॒षाट्त्सूर्ये॑ण स्व॒राट्क्रत्वा॒ शची॒पति॑र््ऋष॒भेण॒ त्वष्टा॑ य॒ज्ञेन॑ म॒घवा॒न्दक्षि॑णया सुव॒र्गो म॒न्युना॑ वृत्र॒हा सौहार्द्येन तनू॒धा अन्ने॑न॒ गयः॑ पृथि॒व्यास॑नोदृ॒ग्भिर॑न्ना॒दो व॑षट्का॒रेण॒र्द्धः साम्ना॑ तनू॒पा वि॒राजा॒ ज्योति॑ष्मा॒न् ब्रह्म॑णा सोम॒पा गोभि॑र्य॒ज्ञं दा॑धार क्ष॒त्रेण॑ मनु॒ष्या॑नश्वे॑न च॒ रथे॑न च व॒ज्र्यृ॑तुभिः॑ प्र॒भुः सं॑वत्स॒रेण॑ परि॒भूस्तप॒साना॑धृष्टः॒ सूर्यः॒ सन्त॒नूभिः॑ ।। [24]
4.4.9.0
रु॒द्र एक॑विशतिश्च ।।8।।
4.4.9.1
प्र॒जाप॑ति॒र्मन॒सान्धोऽच्छे॑तो धा॒ता दी॒क्षाया॑ सवि॒ता भृ॒त्याम्पू॒षा सो॑म॒क्रय॑ण्या॒व्वँरु॑ण॒ उप॑न॒द्धोऽसु॑रः क्री॒यमा॑णो मि॒त्रः क्री॒तः शि॑पिवि॒ष्ट आसा॑दितो न॒रंधि॑षः प्रो॒ह्यमा॒णोऽधि॑पति॒राग॑तः प्र॒जाप॑तिः प्रणी॒यमा॑नो॒ऽग्निराग्नीध्रे॒ बृह॒स्पति॒राग्नीध्रात्प्रणी॒यमा॑न॒ इन्द्रो॑ हवि॒र्धानेऽदि॑ति॒रासा॑दितो॒ विष्णु॑रुपावह्रि॒यमा॒णोऽथ॒र्वोपोत्तो य॒मो॑ऽभिषु॑तोऽपूत॒पा आ॑धू॒यमा॑नो वा॒युः पू॒यमा॑नो मि॒त्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीर्वैश्वदे॒व उन्नी॑तो रुद्र॒ आहु॑तो वा॒युरावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्ष आग॑तः पितृ॒णां ना॑राश॒॒सोऽसु॒रात्तः॒ सिन्धु॑रवभृ॒थम॑वप्र॒यन्त्स॑मु॒द्रोऽव॑गतः सलि॒लः प्रप्लु॑तः सुव॑रु॒दृचं॑ ग॒तः ।। [25]
4.4.10.0
फल्गु॑नी॒ नक्ष॑त्रं॒ वस॑व॒स्त्रय॑स्त्रिशच्च ।।10।।
4.4.10.1
कृत्ति॑का॒ नक्ष॑त्रम॒ग्निर्दे॒वता॒ग्ने रुचः॑ स्थ प्र॒जाप॑तेर्धा॒तुः सोम॑स्य॒र्चे त्वा॑ रु॒चे त्वा द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा रोहि॒णी नक्ष॑त्रम्प्र॒जाप॑तिर्दे॒वता॑ मृगशी॒ऱ्षं नक्ष॑त्र॒॒ सोमो॑ दे॒वता॒र्द्रा नक्ष॑त्र रु॒द्रो दे॒वता॒ पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑ति- र्दे॒वता॑ ति॒ष्यो॑ नक्ष॑त्र॒म्बृह॒स्पति॑र्दे॒वताश्रे॒षा नक्ष॑त्र स॒र्पा दे॒वता॑ म॒घा नक्ष॑त्रम्पि॒तरो॑ दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्रम् [26]
4.4.10.2
अ॒र्य॒मा दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्र॒म्भगो॑ दे॒वता॒ हस्तो॒ नक्ष॑त्र सवि॒ता दे॒वता॑ चि॒त्रा नक्ष॑त्र॒मिन्द्रो॑ दे॒वता स्वा॒ती नक्ष॑त्रं वा॒युर्दे॒वता॒ विशा॑खे॒ नक्ष॑त्रमिन्द्रा॒ग्नी दे॒वता॑ऽनूरा॒धा नक्ष॑त्रम्मि॒त्रो दे॒वता॑ रोहि॒णी नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ वि॒चृतौ॒ नक्ष॑त्रम्पि॒तरो॑ दे॒वता॑षा॒ढा नक्ष॑त्र॒मापो॑ दे॒वता॑षा॒ढा नक्ष॑त्रं॒ विश्वे॑ दे॒वा दे॒वता श्रो॒णा नक्ष॑त्त्रं॒ विष्णु॑र्दे॒वता॒ श्रवि॑ष्ठा॒ नक्ष॑त्रं॒ वस॑वः [27]
4.4.10.3
दे॒वता॑ श॒तभि॑ष॒ङ्नक्ष॑त्र॒मिन्द्रो॑ दे॒वता प्रोष्ठप॒दा नक्ष॑त्रम॒ज एक॑पाद्दे॒वता प्रोष्ठप॒दा नक्ष॑त्र॒महि॑र्बु॒ध्नियो॑ दे॒वता॑ रे॒वती॒ नक्ष॑त्रम्पू॒षा दे॒वताश्व॒युजौ॒ नक्ष॑त्रम॒श्विनौ॑ दे॒वता॑प॒भर॑णी॒र्नक्ष॑त्रं य॒मो दे॒वता॑ पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ।। [28]
4.4.11.0
सव्र॑ता रु॒द्राणा॑म॒युत॑ञ्च॒ पञ्च॑चत्वारिशच्च ।।11।।
4.4.11.1
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑वृ॒तू नभ॑श्च नभ॒स्य॑श्च॒ वाऱ्षि॑कावृ॒तू इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू तप॑श्च तप॒स्य॑श्च शैशि॒रावृ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धीः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः [29]
4.4.11.2
येऽग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी शै॑शि॒रावृ॒तू अ॒भि कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॒भि सं वि॑शन्तु सं॒यच्च॒ प्रचे॑ताश्चा॒ग्नेः सोम॑स्य॒ सूर्य॑स्यो॒ग्रा च॑ भी॒मा च॑ पितृ॒णां य॒मस्येन्द्र॑स्य ध्रु॒वा च॑ पृथि॒वी च॑ दे॒वस्य॑ सवि॒तुर्म॒रुतां॒ वरु॑णस्य ध॒र्त्री च॒ धरि॑त्री च मि॒त्रावरु॑णयोर्मि॒त्रस्य॑ धा॒तुः प्राची॑ च प्र॒तीची॑ च॒ वसू॑ना रु॒द्राणाम् [30]
4.4.11.3
आ॒दि॒त्याना॒न्ते तेऽधि॑पतय॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि स॒हस्र॑स्य प्र॒मा अ॑सि स॒हस्र॑स्य प्रति॒मा अ॑सि स॒हस्र॑स्य वि॒मा अ॑सि स॒हस्र॑स्यो॒न्मा अ॑सि साह॒स्रो॑ऽसि स॒हस्रा॑य त्वे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च [31]
4.4.11.4
नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु ष॒ष्टिः स॒हस्र॑म॒युत॒मक्षी॑यमाणा ऋत॒स्थाः स्थ॑र्ता॒वृधो॑ घृत॒श्चुतो॑ मधु॒श्चुत॒ ऊर्ज॑स्वतीः स्वधा॒विनी॒स्ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु वि॒राजो॒ नाम॑ काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑ल्लोँ॒के ।। [32]
4.4.12.0
महि॑ सप्तद॒शेना॑व॒स्युवा॑ता अ॒भि नोऽनु॑ न॒श्चतु॑र्दश च ।।12।।
4.4.12.1
स॒मिद्दि॒शामा॒शया॑ नः सुव॒र्विन्मधो॒रतो॒ माध॑वः पात्व॒स्मान् । अ॒ग्निर्दे॒वो दु॒ष्टरी॑तु॒रदाभ्य इ॒दं क्ष॒त्र र॑क्षतु॒ पात्व॒स्मान् । र॒थं॒त॒र साम॑भिः पात्व॒स्मान्गा॑य॒त्री छन्द॑सां वि॒श्वरू॑पा । त्रि॒वृन्नो॑ वि॒ष्ठया॒ स्तोमो॒ अह्ना॑ समु॒द्रो वात॑ इ॒दमोजः॑ पिपर्तु । उ॒ग्रा दि॒शाम॒भिभू॑तिर्वयो॒धाः शुचिः॑ शु॒क्रे अह॑न्योज॒सीना । इन्द्राधि॑पतिः पिपृता॒दतो॑ नो॒ महि॑ [33]
4.4.12.2
क्ष॒त्रं वि॒श्वतो॑ धारये॒दम् । बृ॒हत्साम॑ क्षत्र॒भृद्वृ॒द्धवृ॑ष्णियं त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम् । इन्द्र॒ स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष । प्राची॑ दि॒शा स॒हय॑शा॒ यश॑स्वती॒ विश्वे॑ देवाः प्रा॒वृषाह्ना॒॒ सुव॑र्वती । इ॒दं क्ष॒त्रं दु॒ष्टर॑म॒स्त्वोजोऽना॑धृष्ट सह॒स्रिय॒॒ सह॑स्वत् । वै॒रू॒पे साम॑न्नि॒ह तच्छ॑केम॒ जग॑त्यैनं वि॒क्ष्वा वे॑शयामः । विश्वे॑ देवाः सप्तद॒शेन॑ [34]
4.4.12.3
वर्च॑ इ॒दं क्ष॒त्र स॑लि॒लवा॑तमु॒ग्रम् । ध॒र्त्री दि॒शां क्ष॒त्रमि॒दं दा॑धारोप॒स्थाशा॑नाम्मि॒त्रव॑द॒स्त्वोजः॑ । मित्रा॑वरुणा श॒रदाह्नां चिकित्नू अ॒स्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यच्छतम् । वै॒रा॒जे साम॒न्नधि॑ मे मनी॒षानु॒ष्टुभा॒ सम्भृ॑तं वी॒र्य॑ सहः॑ । इ॒दं क्ष॒त्रम्मि॒त्रव॑दा॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ रक्ष॑त॒माधि॑पत्यैः । स॒म्राड्दि॒शा स॒हसाम्नी॒ सह॑स्वत्यृ॒तुऱ्हे॑म॒न्तो वि॒ष्ठया॑ नः पिपर्तु । अ॒व॒स्युवा॑ताः [35]
4.4.12.4
बृ॒ह॒तीर्नु शक्व॑रीरि॒मं य॒ज्ञम॑वन्तु नो घृ॒ताचीः । सुव॑र्वती सु॒दुघा॑ नः॒ पय॑स्वती दि॒शां दे॒व्य॑वतु नो घृ॒ताची । त्वं गो॒पाः पु॑रए॒तोत प॒श्चाद्बृह॑स्पते॒ याम्यां युङ्ग्धि॒ वाचम् । ऊ॒र्ध्वा दि॒शा रन्ति॒राशौष॑धीना संवत्स॒रेण॑ सवि॒ता नो॒ अह्नाम् । रे॒वत्सामाति॑च्छन्दा उ॒ छन्दोजा॑तशत्रुः स्यो॒ना नो॑ अस्तु । स्तोम॑त्रयस्त्रिशे॒ भुव॑नस्य पत्नि॒ विव॑स्वद्वाते अ॒भि नः॑ [36]
4.4.12.5
गृ॒णा॒हि॒ । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑ नो अस्तु । ध्रु॒वा दि॒शां वि॑ष्णुप॒त्न्यघो॑रा॒स्येशा॑ना॒ सह॑सो॒ या म॒नोता । बृह॒स्पति॑र्मात॒रिश्वो॒त वा॒युः सं॑धुवा॒ना वाता॑ अ॒भि नो॑ गृणन्तु । वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या अ॒स्येशा॑ना॒ जग॑तो॒ विष्णु॑पत्नी । वि॒श्वव्य॑चा इ॒षय॑न्ती॒ सुभू॑तिः शि॒वा नो॑ अ॒स्त्वदि॑तिरु॒पस्थे । वै॒श्वा॒न॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒व्यनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वङ्कया॑ नश्चि॒त्र आ भु॑व॒त्को अ॒द्य यु॑ङ्क्ते ।। [37]
4.5.0.0
नम॑स्ते रुद्र॒ नमो॒ हिर॑ण्यबाहवे॒ नम॒स्सह॑मानाय॒ नम॑ आव्या॒धिनीभ्यो॒ नमो॑ भ॒वाय॒ नमो ज्ये॒ष्ठाय॒ नमो॑ दुन्दु॒भ्या॑य॒ नम॒स्सोमा॑य॒ नम॑ इरि॒ण्या॑य॒ द्रापे॑ स॒हस्रा॒ण्येका॑दश ।।11।। नम॑स्ते रुद्र॒ नमो॑ भ॒वाय॒ द्रापे॑ स॒प्तवि॑शतिः ।।27।। नम॑स्ते रुद्र॒ तव्वोँ॒ जम्भे॑ दधामि ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
4.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे पञ्चमः प्रश्नः ।।
4.5.1.0
हस्ते॑ दि॒क्ष्विष॑व उ॒भाभ्यां॒ द्वावि॑शतिश्च ।।1।।
4.5.1.1
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ । या त॒ इषुः॑ शि॒वत॑मा शि॒वम्ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि । यामिषुं॑ गिरिशन्त॒ हस्ते [1]
4.5.1.2
बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑सीः॒ पुरु॑षं॒ जग॑त् । शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्म सु॒मना॒ अस॑त् । अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अही॑श्च॒ सर्वाञ्ज॒म्भय॒न्त्सर्वाश्च यातुधा॒न्यः॑ । अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒मा रु॒द्रा अ॒भितो॑ दि॒क्षु [2]
4.5.1.3
श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒॒ हेड॑ ईमहे । अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ । उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः । नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ । प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः [3]
4.5.1.4
परा॒ ता भ॑गवो वप । अ॒व॒तत्य॒ धनु॒स्त्व सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्याना॒म्मुखा॑ शि॒वो नः॑ सु॒मना॑ भव । विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वा उ॒त । अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒स्मान््वि॒श्वत॒स्त्वम॑यक्ष॒मया॒ परि॑ ब्भुज । नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने । परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ।। [4]
4.5.2.0
वना॑ना॒म्पत॑ये॒ नमो॒ नम॒ एका॒न्नत्रि॒॒शच्च॑ ।।2।।
4.5.2.1
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नाम्पत॑ये॒ नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नाम्पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑ना॒म्पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टाना॒म्पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑ता॒म्पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णा॒म्पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्याय॒ वना॑ना॒म्पत॑ये॒ नमो॒ नमः॑ [5]
4.5.2.2
रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणा॒म्पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णा॒म्पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीना॒म्पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नाम्पत॑ये॒ नमो॒ नमः॑ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑ना॒म्पत॑ये॒ नमः॑ ।। [6]
4.5.3.0
कु॒लु॒ञ्चाना॒म्पत॑ये॒ नमो॒ नमोऽश्व॑पतिभ्य॒स्त्रीणि॑ च ।।3।।
4.5.3.1
नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑ना॒म्पत॑ये॒ नमो॒ नमः॑ ककु॒भाय॑ निष॒ङ्गिणे स्ते॒नाना॒म्पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणा॒म्पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नाम्पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्याना॒म्पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒ जिघा॑सद्भ्यो मुष्ण॒ताम्पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्ताना॒म्पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चाना॒म्पत॑ये॒ नमो॒ नमः॑ [7]
4.5.3.2
इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ।। [8]
4.5.4.0
रथेभ्यः॒ श्वप॑तिभ्यश्च॒ द्वे च॑ ।।4।।
4.5.4.1
नम॑ आव्या॒धिनीभ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्रातेभ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथेभ्यः [9]
4.5.4.2
रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒ सेनाभ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारेभ्यश्च वो॒ नमो॒ नमः॑ पु॒ञ्जिष्टेभ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ।। [10]
4.5.5.0
स॒व्वृँध्व॑ने च॒ पञ्च॑विशतिश्च ।।5।।
4.5.5.1
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वऱ्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च सं॒वृध्व॑ने च [11]
4.5.5.2
नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒ नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ।। [12]
4.5.6.0
प्र॒ति॒श्र॒वाय॑ च॒ पञ्च॑विशतिश्च ।।6।।
4.5.6.1
नमो ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च [13]
4.5.6.2
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ।। [14]
4.5.7.0
वै॒श॒न्ताय॑ च त्रि॒॒शच्च॑ ।।7।।
4.5.7.1
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च [15]
4.5.7.2
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ।। [16]
4.5.8.0
शि॒वत॑राय च त्रि॒॒शच्च॑ ।।8।।
4.5.8.1
नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑ शं॒गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च [17]
4.5.8.2
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ।। [18]
4.5.9.0
उ॒ल॒प्या॑य च॒ त्रय॑स्त्रिशच्च ।।9।।
4.5.9.1
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमः॑ किशि॒लाय॑ च॒ क्षय॑णाय च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमः॑ पास॒व्या॑य च रज॒स्या॑य च॒ नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च [19]
4.5.9.2
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒ नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिऱ्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ।। [20]
4.5.10.0
अ॒स्मि स्त॒नुवः॑ स्तु॒हि पिना॑क॒मेका॒न्नत्रि॒॒शच्च॑ ।।10।।
4.5.10.1
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षाम्पुरु॑षाणामे॒षाम्प॑शू॒नाम्मा भेर्मारो॒ मो ए॑षां॒ किं च॒नाम॑मत् । या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे । इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तिम् । यथा॑ नः॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्व॑म्पु॒ष्टम्ग्रा॒मे॑ अ॒स्मिन्न् [21]
4.5.10.2
अना॑तुरम् । मृ॒डा नो॑ रु॒द्रोत नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ । मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कम्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तर॒म्मोत मा॒तर॑म्प्रि॒या मा न॑स्त॒नुवः॑ [22]
4.5.10.3
रु॒द्र॒ री॒रि॒षः॒ । मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीऱ्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते । आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बऱ्हाः । स्तु॒हि [23]
4.5.10.4
श्रु॒तं ग॑र्त॒सदं॒ युवा॑नम्मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः । परि॑ णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय । मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कम् [24]
4.5.10.5
बिभ्र॒दा ग॑हि । विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः । स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। [25]
4.5.11.0
ती॒र्थानि॒ यश्च॒ षट्च॑ ।।11।।
4.5.11.1
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्याम् । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि । अ॒स्मिन्म॑ह॒त्य॑र्ण॒वेऽ- न्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाः शिति॒कण्ठाः श॒र्वा अ॒धः क्ष॑माच॒राः । नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ रु॒द्रा उप॑श्रिताः । ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ । ये प॒थाम्प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ । ये ती॒र्थानि॑ [26]
4.5.11.2
प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ । य ए॒ताव॑न्तश्च॒ भूया॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि । नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒ऱ्षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ।। [27]
4.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे षष्ठः प्रश्नः ।।
4.6.0.0
अश्म॒न््य इ॒मोदे॑नमा॒शुः प्राचीं जी॒मूत॑स्य॒ यदक्र॑न्दो॒ मा नो॑ मि॒त्रो ये वा॒जिनं॒ नव॑ ।। 9 ।। अश्म॑न्मनो॒युजं॒ प्राची॒मनु॒ शर्म॑ यच्छतु॒ तेषा॑म॒भिगूर्तिः॒ षट्च॑त्वारिशत् । अश्म॑न् ह॒विष्मान्॑ ।। हरिः॑ ओम् । श्रीकृष्णार्पणमस्तु ।।
4.6.0.0
अश्म॒न््य इ॒मोदे॑नमा॒शुः प्राचीं जी॒मूत॑स्य॒ यदक्र॑न्दो॒ मा नो॑ मि॒त्रो ये वा॒जिनं॒ नव॑ ।। 9 ।। अश्म॑न्मनो॒युजं॒ प्राची॒मनु॒ शर्म॑ यच्छतु॒ तेषा॑म॒भिगूर्तिः॒ षट्च॑त्वारिशत् । अश्म॑न् ह॒विष्मान्॑ ।। हरिः॑ ओम् । श्रीकृष्णार्पणमस्तु ।।
4.6.1.0
उप॑ दे॒वान् वट्प्रा॑ण॒दाश्चतु॑श्चत्वारिशच्च ।। 1 ।।
4.6.1.1
अश्म॒न्नूर्ज॒म्पर्व॑ते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ सम्भृ॑तां॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सररा॒णाः । अश्म॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मः । स॒मु॒द्रस्य॑ त्वा॒ऽवाक॒याग्ने॒ परि॑ व्ययामसि । पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व । हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ शि॒वो भ॑व । उप॑ [1]
4.6.1.2
ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि । मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञम् । पा॒व॒कव॑र्ण शि॒वं कृ॑धि । पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ । अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया । आ दे॒वान् [2]
4.6.1.3
व॒क्षि॒ यक्षि॑ च । स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वा इ॒हा व॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः । अ॒पामि॒दं न्यय॑न समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व । नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व । नृ॒षदे॒ वट् [3]
4.6.1.4
अ॒प्सु॒षदे॒ वड्व॑न॒सदे॒ वड्ब॑ऱ्हि॒षदे॒ वट्त्सु॑व॒र्विदे॒ वट् । ये दे॒वा दे॒वानां य॒ज्ञिया॑ य॒ज्ञिया॑ना संवत्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं जु॑हुध्व॒म्मधु॑नो घृ॒तस्य॑ । ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न््ये ब्रह्म॑णः पुरए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ । प्रा॒ण॒दाः [4]
4.6.1.5
अ॒पा॒न॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यस॒द्विश्वं॒ न्य॑त्रिणम् । अ॒ग्निर्नो॑ वसते र॒यिम् । सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वा आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने द्यु॒मदु॒त रे॒वद्दि॑दीहि ।। [5]
4.6.2.0
ज॒जानै॒नौष॑धीनां॒ भूमिं॑ ज॒नय॑न्नू॒तये॒ नमो॒ नव॑ च ।। 2 ।।
4.6.2.1
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒ऱ्होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश । वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒ऱ्षीन्प॒र एक॑मा॒हुः । यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ । [6]
4.6.2.2
यो दे॒वानां नाम॒धा एक॑ ए॒व त स॑म्प्र॒श्ञम्भुव॑ना यन्त्य॒न्या । त आय॑जन्त॒ द्रवि॑ण॒॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ । न तं वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति । प॒रो दि॒वा प॒र ए॒ना [7]
4.6.2.3
पृ॒थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । क स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे । तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑त॒य्यँस्मि॑न्नि॒दं विश्व॒म्भुव॑न॒- मधि॑ श्रि॒तम् । वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम् [8]
4.6.2.4
अ॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा । चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् । वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ । कि स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नयन्न्॑ [9]
4.6.2.5
वि॒श्वक॑र्मा॒ वि द्यामौर्णोन्महि॒ना वि॒श्वच॑क्षाः । कि स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ । या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये [10]
4.6.2.6
म॒नो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा । विश्व॑कर्मन््ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु । विश्व॑कर्मन््ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् । स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म्पत॑ये॒ नमः॑ । न॒दीना॒॒ सर्वा॑साम्पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्य ह॒विः ।। [11]
4.6.3.0
दे॒वाः श॒तप॑या अ॒भि वाज॑स्य॒ षड्वि॑शतिश्च ।।3 ।।
4.6.3.1
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ स सृ॑ज प्र॒जया॑ च॒ धने॑न च । इन्द्रे॒मम्प्र॑त॒रां कृ॑धि सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् । यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ । उदु॑ त्वा॒ विश्वे॑ दे॒वाः [12]
4.6.3.2
अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः । पञ्च॒ दिशो॒ दैवीर्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं दुर्म॒तिम्बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः । रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒त्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं घ॒र्मम्प॑रि॒गृह्या॑यजन्त । ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे । दे॒व॒श्रीः श्रीम॑णाः श॒तप॑याः [13]
4.6.3.3
प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन्न् । सूर्य॑रश्मि॒ऱ्हरि॑केशः पु॒रस्तात्सवि॒ता ज्योति॒रुद॑या॒॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं या॑ति दे॒वः स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः । दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒त श॑मि॒त्रे श॑मि॒ता य॒जध्यै । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ताम् । वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि [14]
4.6.3.4
च॒ष्टे॒ घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् । उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनि॑म्पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्ञि॒रश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ । इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑म रथी॒नां वाजा॑ना॒॒ सत्प॑ति॒म्पतिम् । सु॒म्न॒हूर्य॒ज्ञो दे॒वा आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो दे॒वा आ च॑ वक्षत् । वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रा अकः । उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ।। [15]
4.6.4.0
दी॒या॒ दा॒यो ज॑यन्त्व॒मित्रा॒न्प्र च॑त्वारि॒॒शच्च॑ ।। 4 ।।
4.6.4.1
आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चऱ्षणी॒नाम् । स॒ङ्क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒त सेना॑ अजयत्सा॒कमिन्द्रः॑ । सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा । स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन। स॒॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यूर्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता । बृह॑स्पते॒ परि॑ दीय [16]
4.6.4.2
रथे॑न रक्षो॒हामित्रा॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेनाः प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् । गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒म स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ सखा॒योऽनु॒ स र॑भध्वम् । ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान््वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् । अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यः [17]
4.6.4.3
वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒॒ सेना॑ अवतु॒ प्र यु॒त्सु । इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनाम्म॒रुतो॑ य॒न्त्वग्रे । इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानाम्म॒रुता॒॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसाम्भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् । अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । [18]
4.6.4.4
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु । उद्ध॑ऱ्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नाम्माम॒काना॒म्महा॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ । उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यच्छत्वनाधृ॒ष्या यथास॑थ । अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सशिता । गच्छा॒मित्रा॒न्प्र [19]
4.6.4.5
वि॒श॒ मैषां॒ कं च॒नोच्छि॑षः । मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भि व॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः । यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ।। [20]
4.6.5.0
अ॒गा॒ स॒ह॒स्रा॒क्ष॒ दे॒वा॒स्स॒हस्र॑धारा॒मत्य॑हा॒ अनु॑वर्त्मानः॒ षोड॑श च ।। 5 ।।
4.6.5.1
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वम् । पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात्सुव॒र्ज्योति॑रगाम् [21]
4.6.5.2
अ॒हम् । सुव॒र्यन्तो॒ नापेक्षन्त॒ आ द्या रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धार॒॒ सुवि॑द्वासो वितेनि॒रे । अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒ यज॑मानाः स्व॒स्ति । नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः । अग्ने॑ सहस्राक्ष [22]
4.6.5.3
श॒त॒मू॒र्ध॒ञ्छ॒तं ते प्रा॒णाः स॒हस्र॑मपा॒नाः । त्व सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा । सु॒प॒र्णो॑ऽसि ग॒रुत्मान्पृथि॒व्या सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒सान्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृ॑ह । आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां योनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवाः [23]
4.6.5.4
यज॑मानश्च सीदत । प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वा शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः । वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तम्प्र त्वे ह॒वीषि॑ जुहुरे॒ समि॑द्धे । ता स॑वि॒तुर्वरेण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑ना स॒हस्र॑धाराम् [24]
4.6.5.5
पय॑सा म॒हीं गाम् । स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तऱ्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ । ई॒दृङ्चान्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माश्च स॒त्यश्च॑र्त॒पाश्चात्य॑हाः । [25]
4.6.5.6
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रेअ॑मित्रश्च ग॒णः । ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः । ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ सम्मि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मं यज॑मानं॒ दैवीश्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ।। [26]
4.6.6.0
धन्व॑न्महि॒मानं॒ ब्राह्म॑णा॒सोऽदि॑तिः पृथि॒व्याः परि॑ दू॒रादेक॑चत्वारिशच्च ।। 6 ।।
4.6.6.1
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे । अना॑विद्धया त॒नुवा॑ जय॒ त्व स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु । धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः प्र॒दिशो॑ जयेम । व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑म्प्रि॒य सखा॑यम्परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्वन्न्॑ [27]
4.6.6.2
ज्या इ॒य सम॑ने पा॒रय॑न्ती । ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम्बि॑भृतामु॒पस्थे । अप॒ शत्रून््॑विध्यता संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रान्॑ । ब॒ह्वी॒नाम्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः । रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नाम्महि॒मानम् [28]
4.6.6.3
प॒ना॒य॒त॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ । ती॒व्रान्घोषान्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रान्क्षि॒णन्ति॒ शत्रू॒॒रन॑पव्ययन्तः । र॒थ॒वाह॑न ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्म स॑देम वि॒श्वाहा॑ व॒य सु॑मन॒स्यमा॑नाः । स्वा॒दु॒ष॒॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो व्रातसा॒हाः । ब्राह्म॑णासः [29]
4.6.6.4
पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घश॑स ईशत । सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यसन्न् । ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः [30]
4.6.6.5
शर्म॑ यच्छतु । आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घना॒॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वान्त्स॒मत्सु॑ चोदय । अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिम्प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमा॑स॒म्परि॑ पातु वि॒श्वतः॑ । वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि । दि॒वः पृ॑थि॒व्याः परि॑ [31]
4.6.6.6
ओज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑त॒॒ सहः॑ । अ॒पामो॒ज्मान॒म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्र॑ ह॒विषा॒ रथं॑ यज । इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कम्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय । उप॑ श्वासय पृथि॒वीमु॒त द्याम्पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒रात् [32]
4.6.6.7
दवी॑यो॒ अप॑ सेध॒ शत्रून्॑ । आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व । आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।। [33]
4.6.7.0
विपृ॑क्तो दि॒वा वी॒र्य॑मुपैका॒न्नच॑त्वारि॒॒शच्च॑ ।। 7 ।।
4.6.7.1
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒म्महि॑ जा॒तं ते॑ अर्वन्न् । य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणम्प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट । असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्तः [34]
4.6.7.2
आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि । त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न््यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्रम् । इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फाना॑ सनि॒तुर्नि॒धाना । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः । आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा [35]
4.6.7.3
प॒तय॑न्तम्पतं॒गम् । शिरो॑ अपश्यम्प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानम्पत॒त्रि । अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः । अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीनाम् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यम् [36]
4.6.7.4
ते॒ । हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न््यो अर्व॑न्तम्प्रथ॒मो अ॒ध्यति॑ष्ठत् । ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ स शूर॑णासो दि॒व्यासो॒ अत्याः । ह॒॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः । तव॒ शरी॑रम्पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति । उप॑ [37]
4.6.7.5
प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः । उप॒ प्रागात्पर॒मं यत्स॒धस्थ॒मर्वा॒॒ अच्छा॑ पि॒तर॑म्मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शास्ते दा॒शुषे॒ वार्या॑णि ।। [38]
4.6.8.0
इदु॒तो क्र॒विषः॑ श्रिषत्स॒प्त च॑ ।। 8 ।।
4.6.8.1
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन्न् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि । यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒ताम्मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ । ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदेव्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेत् [39]
4.6.8.2
ए॒न॒॒ सौ॒श्र॒व॒साय॑ जिन्वति । यद्ध॒विष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः । होताध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॑ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् । यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑न स॒म्भर॑न्त्यु॒तो [40]
4.6.8.3
तेषा॑म॒भिगूर्तिर्न इन्वतु । उप॒ प्रागात्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानाम्पु॒ष्टे च॑कृमा सु॒बन्धुम् । यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑ऱ्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृण॒॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । यदश्व॑स्य क्र॒विषः॑ [41]
4.6.8.4
मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेध॑ शृत॒पाकं॑ पचन्तु । यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ।। [42]
4.6.9.0
घा॒सिं कश॑या तपद्र॒यिं नव॑ च ।। 9 ।।
4.6.9.1
ये वा॒जिन॑म्परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निऱ्ह॒रेति॑ । ये चार्व॑तो मासभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगूर्तिर्न इन्वतु । यन्नीक्ष॑णम्मा॒॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्वम् । नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिम् [43]
4.6.9.2
ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगूर्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्वम् । यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्व॑न्त॒म्पड्बी॑शम्प्रि॒या दे॒वेष्वा या॑मयन्ति । यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या [44]
4.6.9.3
वा॒ तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि । चतु॑स्त्रिशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त । एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒म्प्र जु॑होम्य॒ग्नौ । मा त्वा॑ तपत् [45]
4.6.9.4
प्रि॒य आ॒त्मापि॒यन्त॒म्मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः । न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वा इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपास्थाद्वा॒जी धु॒रि रास॑भस्य । सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यम्पु॒॒सः पु॒त्रा उ॒त वि॑श्वा॒पुष॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनता ह॒विष्मान्॑ ।। [46]
4.7.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे सप्तमः प्रश्नः ।।
4.7.1.0
अ॒पा॒नस्त॒नूश्च॑ मे॒ऽष्टाद॑श च ।।1।।
4.7.1.1
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नः [1]
4.7.1.2
च॒ मे॒ व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परू॑षि च मे॒ शरी॑राणि च मे ।। [2]
4.7.2.0
जग॒च्चर्द्धि॒श्चतु॑र्दश च ।।2।।
4.7.2.1
ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च [3]
4.7.2.2
मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे कॢ॒प्तं च॑ मे॒ कॢप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ।। [4]
4.7.3.0
विश्वं॑ च॒ शय॑नम॒ष्टौ च॑ ।।3।।
4.7.3.1
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च [5]
4.7.3.2
मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ।। [6]
4.7.4.0
वि॒भु च॑ म॒सुरा॒श्चतु॑र्दश च ।।4।।
4.7.4.1
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ [7]
4.7.4.2
मे॒ प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवाश्च मे॒ माषाश्च मे॒ तिलाश्च मे मु॒द्गाश्च॑ मे ख॒ल्वाश्च मे गो॒धूमाश्च मे म॒सुराश्च मे प्रि॒यंग॑वश्च॒ मेऽण॑वश्च मे श्या॒माकाश्च मे नी॒वाराश्च मे ।। [8]
4.7.5.0
कृ॒ष्ट॒प॒च्यञ्चा॒ष्टाच॑त्वारिशच्च ।।5।।
4.7.5.1
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ [9]
4.7.5.2
मे॒ऽकृ॒ष्ट॒प॒च्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताव्विँ॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ।। [10]
4.7.6.0
त्वष्टा॑ च॒ द्यौश्च॑ म॒ एक॑विशतिश्च ।।6।।
4.7.6.1
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च [11]
4.7.6.2
म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षञ्च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ।। [12]
4.7.7.0
ऋ॒तु॒ग्र॒हाश्च॒ चतु॑स्त्रिशच्च ।।7।।
4.7.7.1
अ॒॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदाभ्यश्च॒ मेऽधि॑पतिश्च म उपा॒॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ [13]
4.7.7.2
मे॒ऽति॒ग्रा॒ह्याश्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीयाश्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ।। [14]
4.7.8.0
गृ॒हाश्च॒ षोड॑श च ।।8।।
4.7.8.1
इ॒ध्मश्च॑ मे ब॒ऱ्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नीध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशाश्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ।। [15]
4.7.9.0
दी॒क्षाऽष्टाद॑श च ।।9।।
4.7.9.1
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मेऽहोरा॒त्रयोर्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ।। [16]
4.7.10.0
ऋ॒ष॒भश्च॑ चत्वारि॒॒शच्च॑ ।।10।।
4.7.10.1
गर्भाश्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ [17]
4.7.10.2
मे॒ वे॒हच्चमेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पताम्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पताव्व्याँ॒नो य॒ज्ञेन॑ कल्पता॒ञ्चक्षु॑र्य॒ज्ञेन॑ कल्पता॒॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पता॒म्मनो॑ य॒ज्ञेन॑ कल्पता॒व्वाँग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पताय्यँ॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।। [18]
4.7.11.0
त्रय॑स्त्रिशच्च॒ व्यश्ञि॑य॒ एका॑दश च ।।11।।
4.7.11.1
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विशतिश्च मे॒ त्रयो॑विशतिश्च मे॒ पञ्च॑विशतिश्च मे स॒प्तवि॑शतिश्च मे॒ नव॑विशतिश्च म॒ एक॑त्रिशच्च मे॒ त्रय॑स्त्रिशच्च [19]
4.7.11.2
मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विश॒तिश्च॑ मे॒ चतु॑र्विशतिश्च मे॒ऽष्टावि॑शतिश्च मे॒ द्वात्रि॑शच्च मे॒ षट्त्रि॑शच्च मे चत्वारि॒॒शच्च॑ मे॒ चतु॑श्चत्वारिशच्च मे॒ऽष्टाच॑त्वारिशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ।। [20]
4.7.12.0
धनेष्व॒पो दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॒ द्वे च॑ ।।12।।
4.7.12.1
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वैर्दे॒वैर्धन॑सातावि॒हाव॑तु । विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे । वाज॑स्य प्रस॒वं दे॑वा॒ रथैर्याता हिर॒ण्ययैः । अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र्म॒रुतः॒ सोम॑पीतये । वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु [21]
4.7.12.2
वि॒प्रा॒ अ॒मृ॒ता॒ ऋ॒त॒ज्ञाः॒ । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः । वाजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वा ऋ॒तुभिः॑ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नंन॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर्भवेयम् । पयः॑ पृथि॒व्याम्पय॒ ओष॑धीषु॒ पयो॑ दिव्य॒न्तरि॑क्षे॒ पयो॑ धाम् । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्यम् । सम्मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सम्मा॑ सृजाम्य॒पः [22]
4.7.12.3
ओष॑धीभिः । सो॑ऽहं वाज॑ सनेयमग्ने । नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः । स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑ऽसि म॒रुतां ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑व॒स्युर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा ।। [23]
4.7.13.0
ध्रु॒वः स॒त्रङ्कृ॑णुते॒ यस्स॒प्तत्रि॑शच्च ।।13।।
4.7.13.1
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्य सु॑प॒र्णं वय॑सा बृ॒हन्तम् । तेन॑ व॒यम्प॑तेम ब्र॒ध्नस्य॑ वि॒ष्टप॒॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे । इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्या॒॒ रक्षा॑स्यप॒हस्य॑ग्ने । ताभ्याम्पतेम सु॒कृता॑मु लो॒कं यत्रऱ्ष॑यः प्रथम॒जा ये पु॑रा॒णाः । चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युर्म॒हान्त्स॒धस्थे ध्रु॒वः [24]
4.7.13.2
आ निष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिसी॒र्विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑यम॒न्तरायु॒र्द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते । उ॒द्नो द॑त्तोद॒धिम्भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे । येनऱ्ष॑य॒स्तप॑सा स॒त्त्रम् [25]
4.7.13.3
आस॒तेन्धा॑ना अ॒ग्नि सुव॑रा॒भर॑न्तः । तस्मि॑न्न॒हं नि द॑धे॒ नाके॑ अ॒ग्निमे॒तं यमा॒हुर्मन॑वः स्ती॒र्णब॑ऱ्हिषम् । तम्पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुते [26]
4.7.13.4
ये पृ॑त॒न्यवः॑ । अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन्न् । वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑ । सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒यानान्कृणुध्वम् । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत । येना॑ स॒हस्रं॒ वह॑सि॒ येनाग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह देव॒यानो॒ यः [27]
4.7.13.5
उ॒त्त॒मः । उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्येनमिष्टापू॒र्ते ससृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्वस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाता॑सी॒त् त्वयि॒ तन्तु॑मे॒तम् । अ॒यं ते॒ योनि॑र््ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।। [28]
4.7.14.0
व॒नि॒ष॒न्त॒ पु॒रस्ता॒न्मा त्रिच॑त्वारिशच्च ।।14।।
4.7.14.1
ममाग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒नुव॑म्पुषेम । मह्यं॑ नमन्ताम्प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम । मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन्न् । मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ता॒म्मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त [29]
4.7.14.2
पूर्वेऽरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः । मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता मे । देवीः षडुर्वीरु॒रु णः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा हास्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् । अ॒ग्निर्म॒न्युम्प्र॑तिनु॒दन्पु॒रस्तात् [30]
4.7.14.3
अद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषां चि॒त्तम्प्र॒बुधा॒ वि ने॑शत् । धा॒ता धा॑तृ॒णाम्भुव॑नस्य॒ यस्पति॑र्दे॒व स॑वि॒तार॑मभिमाति॒षाहम् । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पान्तु॒ यज॑मानं न्य॒र्थात् । उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यसद॒स्मिन््हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा [31]
4.7.14.4
नो॒ री॒रि॒षो॒ मा परा॑ दाः । ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृश॑म्मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन्न् । अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः । इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ।। [32]
4.7.15.0
गन्ता॑ दू॒षय॒न्त्स्तौमि॒ ययो॒श्शर्धोऽनु॑मति॒रनु॑ च॒न चतु॑स्त्रिशच्च ।।15।।
4.7.15.1
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यम्पाञ्च॑जन्यम्ब॒हवः॑ समि॒न्धते । विश्व॑स्यां वि॒शि प्र॑विविशि॒वास॑मीमहे॒ स नो॑ मुञ्च॒त्वह॑सः । यस्ये॒दम्प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् । स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वह॑सः । इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता [33]
4.7.15.2
स नो॑ मुञ्च॒त्वह॑सः । यः सं॑ग्रा॒मं नय॑ति॒ सं व॒शी यु॒धे यः पु॒ष्टानि॑ ससृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वह॑सः । म॒न्वे वाम्मित्रावरुणा॒ तस्य॑ वित्त॒॒ सत्यौ॑जसा दृहणा॒ यं नु॒देथे । या राजा॑न स॒रथं॑ या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः । यो वा॒॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षयन्न्॑ । स्तौमि॑ [34]
4.7.15.3
मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः । वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावात्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः । उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्न् । स्तौमि॑ वा॒यु स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः । र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः । ययोः [35]
4.7.15.4
वां॒ दे॒वौ॒ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः । यदया॑तं वह॒तु सू॒र्यायास्त्रिच॒क्रेण॑ स॒॒सद॑मि॒च्छमा॑नौ । स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः । म॒रुताम्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे । आ॒शून््हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । ति॒ग्ममायु॑धं वीडि॒त सह॑स्वद्दि॒व्य शर्धः॑ [36]
4.7.15.5
पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । दे॒वानाम्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे । आ॒शून््हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । यदि॒दम्मा॑भि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वान्दे॒वान्ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । अनु॑ नो॒ऽद्यानु॑मति॒रनु॑ [37]
4.7.15.6
इद॑नुमते॒ त्वव्वैँश्वान॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि । ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ वसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मह॑सः । उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मह॑सः । यत्ते॑ व॒यम्पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वासश्चकृ॒मा कच्च॒न [38]
4.7.15.7
आगः॑ । कृ॒धी स्व॑स्मा अदि॑ते॒रना॑गा॒ व्येना॑सि शिश्रथो॒ विष्व॑गग्ने । यथा॑ ह॒ तद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वा त्वम॒स्मत्प्र मु॑ञ्चा॒ व्यहः॒ प्रातार्यग्ने प्रत॒रां न॒ आयुः॑ ।। [39]
</pre>
[[वर्गः:कृष्णयजुर्वेदः]]
3ws70tch8r5x3yi2jctp7b9bf52qyh8
तैत्तिरीयसंहिता-५-७
0
13405
417991
218046
2026-08-09T09:08:21Z
~2026-39930-13
10591
ख्ष -> क्ष, थ्स -> त्स
417991
wikitext
text/x-wiki
<pre>
5.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे प्रथमः प्रश्नः ।।
5.1.0.0
अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्विच॑त्वारिशच्च ।।11।।
5.1.1.0
का॒मये॑त गाय॒त्रोऽर्ध॒येति॑ च स॒प्तवि॑शतिश्च ।।1।।
5.1.1.1
सा॒वि॒त्राणि॑ जुहोति॒ प्रसूत्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दा॑सि दे॒वेभ्योऽपाक्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दा॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति॒ यं का॒मये॑त [1]
5.1.1.2
पापी॑यान्त्स्या॒दित्येकै॑कं॒ तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑ गृह्णाति॒ पापी॑यान्भवति॒ यं का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑ य॒ज्ञस्यै॒वैषाभिक्रान्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्या॒ योऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रः [2]
5.1.1.3
अ॒ग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति॒ यदि॑ का॒मये॑त॒ छन्दा॑सि यज्ञयश॒सेनार्पयेय॒मित्यृच॑मन्त॒मां कु॑र्या॒च्छन्दा॑स्ये॒व य॑ज्ञयश॒सेनार्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं यज्ञयश॒सेनार्पयेय॒मिति॒ यजु॑रन्त॒मं कु॑र्या॒द्यज॑मानमे॒व य॑ज्ञयश॒सेनार्पयत्यृ॒चा स्तोम॒॒ सम॑र्ध॒येति॑ [3]
5.1.1.4
आ॒ह॒ समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसूत्या अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणु॒म्प्रावि॑श॒त्स ए॒तामू॒तिमनु॒ सम॑चर॒द्यद्वेणोः सुषि॒र सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय॒ स यत्र॑य॒त्राव॑स॒त्तत्कृ॒ष्णम॑भवत्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या उभयतः॒क्ष्णूर्भ॑वती॒तश्चा॒मुत॑श्चा॒र्कस्याव॑रुद्ध्यै व्याममा॒त्री भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑व्वीँ॒र्य॑सम्मि॒ताऽप॑रिमिता भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्पती॑नाम्फल॒ग्रहिः॒ स ए॑षां वी॒र्या॑वान्फल॒ग्रहि॒र्वेणु॑र्वैण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ।। [4]
5.1.2.0
आ॒ह॒ पापी॑यान्रु॒द्रादे॒व येनाग्रं॑ व॒ज्री वै स॒प्तद॑श च ।।2।।
5.1.2.1
व्यृ॑द्धं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतूर्तं वाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे यु॒ञ्जाथा॒॒ रास॑भं यु॒वमिति॑ गर्द॒भमस॑त्ये॒व ग॑र्द॒भम्प्रति॑ ष्ठापयति॒ तस्मा॒दश्वाद्गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह [5]
5.1.2.2
योगे॑योग ए॒वैनं॑ युङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुन्द्धे॒ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तम्प्र॒जाप॑ति॒रन्व॑विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒ सम्भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सं वा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒नं कर्म॑ कु॒र्वन्ति॒ पापी॑यान् [6]
5.1.2.3
ह्यश्वाद्गर्द॒भोऽश्व॒म्पूर्वं॑ नयन्ति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेया॑स॒म्पापी॑यान्प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष योऽग्निञ्चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व [7]
5.1.2.4
प॒शून्नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अध्व॑ना संने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑ना॒॒ सम॑भरन्पृथि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒ सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह येन॑ [8]
5.1.2.5
सं॒गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निः स॒म्भृत्य॒ इत्या॑हुरि॒यं वै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒ यद्व॒ल्मीको॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्नि सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑राम॒ इत्या॑ह॒ येन॑ सं॒गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्तेऽन्व॒ग्निरु॒षसा॒मग्रम् [9]
5.1.2.6
अ॒ख्य॒दित्या॒हानु॑ख्यात्या आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑ वाजिन्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैन॒म्पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं लो॒केभ्यः॑ प्र॒जाप॑तिः॒ समै॑रयद्रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे व॒ज्री वा ए॒ष यदश्वो॑ द॒द्भिर॒न्यतो॑दद्भ्यो॒ भूया॒ल्लोँम॑भिरुभ॒याद॑द्भ्यो॒ यं द्वि॒ष्यात्तम॑धस्प॒दं ध्या॑ये॒द्वज्रे॑णै॒वैन॑ स्तृणुते ।।10।।
5.1.3.0
अ॒न्धोऽध्व॒र्युर्म॒हान्भ॑वति त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री त्रयो॑दश च ।।3।।
5.1.3.1
उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ॒न्त्योष॑धीः प्रति॒तिष्ठ॑न्तीः प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून््य॒ज्ञो य॒ज्ञं यज॑मानो॒ यज॑मानम्प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धोऽध्व॒र्युः [11]
5.1.3.2
स्या॒द्रक्षा॑सि य॒ज्ञ ह॑न्यु॒र््हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धोऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञ रक्षा॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्निम्मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति प्रति॒क्ष्यन्त॒म्भुव॑नानि॒ विश्वेत्या॑ह॒ सर्व॒॒ ह्ये॑ष प्र॒त्यङ्क्षेति॑ पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाल्पो॒ ह्ये॑ष जा॒तो म॒हान् [12]
5.1.3.3
भव॑ति॒ व्यचि॑ष्ठ॒मन्न॑ रभ॒सं विदा॑न॒मित्या॒हान्न॑मे॒वास्मै स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदा त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒द्यत्पुरु॑षो॒ मन॑साभि॒गच्छ॑ति॒ तद्वा॒चा व॑दत्यर॒क्षसेत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑चितिमे॒वास्मि॑न्दधा॒त्यप॑चितिमान्भवति॒ य ए॒वं [13]
5.1.3.4
वेद॒ मन॑सा॒ त्वै तामाप्तु॑मऱ्हति॒ याम॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जु॒होति॒ मन॑स्वतीभ्यां जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञ रक्षा॑सि जिघासन्त्ये॒तऱ्हि॒ खलु॒ वा ए॒तद्य॑ज्ञमु॒खं यऱ्ह्ये॑न॒दाहु॑तिरश्ञु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभिः॒ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मा॒द्रक्षा॒॒स्यप॑ हन्ति [14]
5.1.3.5
गा॒य॒त्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैन॒म्परि॑ गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैन॒म् परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुप्सर्वा॑णि॒ छन्दा॑सि परि॒भूः पर्याप्त्यै मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप्तस्मान्मध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप्तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञम्परि॑ गृह्णाति ।। [15]
5.1.4.0
ऐव प॒शूनिति॑ गृणाति होत॒रिति॑ स॒प्तवि॑शतिश्च ।।4।।
5.1.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसूत्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सोऽग्निर्जा॒तः प्र॒जाः शु॒चार्प॑य॒त्तं दे॒वा अ॑र्ध॒र्चेना॑शमयञ्छि॒वम्प्र॒जाभ्योऽहि॑सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ शमयति॒ द्वाभ्यां खनति॒ प्रति॑ष्ठित्या अ॒पाम्पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा [16]
5.1.4.2
ह॒र॒त्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्ण रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ सम्भ॑रति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्ण सयो॑निमे॒वाग्नि सम्भ॑रति कृष्णाजि॒नेन॒ सम्भ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञ सम्भ॑रति॒ यद्ग्रा॒म्याणाम्पशू॒नां चर्म॑णा स॒म्भरेद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑येत्कृष्णाजि॒नेन॒ सम्भ॑रत्यार॒ण्याने॒व प॒शून् [17]
5.1.4.3
शु॒चार्प॑यति॒ तस्मात्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑यासः शु॒चा ह्यृ॑ता लो॑म॒तः सम्भ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्य॑ङ्कृष्णाजि॒नं च॑ पुष्करप॒र्णं च॒ स स्तृ॑णाती॒यं वै कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वान्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इति॑ [18]
5.1.4.4
आ॒ह॒ य ए॒वैन॑म॒न्वप॑श्य॒त्तेनै॒वैन॒॒ सम्भ॑रति॒ त्वाम॑ग्ने॒ पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्तमु॑ त्वा द॒ध्यङ्ङृषि॒रित्या॑ह द॒ध्यङ्वा आ॑थर्व॒णस्ते॑ज॒स्व्या॑सी॒त्तेज॑ ए॒वास्मि॑न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि गृ॑णाति [19]
5.1.4.5
च॒त॒सृभिः॒ सम्भ॑रति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒व गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्राह्म॒णस्त्रि॒॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ यं का॒मये॑त॒ वसी॑यान्त्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ सम्भ॑रे॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधात्यष्टा॒भिः सम्भ॑रत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्त सम्भ॑रति॒ सीद॑ होत॒रित्या॑ह दे॒वता॑ ए॒वास्मै॒ स सा॑दयति॒ नि होतेति॑ मनु॒ष्यान्त्स सी॑द॒स्वेति॒ वया॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒मित्या॑ह देवमनु॒ष्याने॒वास्मै॒ सस॑न्ना॒न्प्र ज॑नयति ।। [20]
5.1.5.0
अ॒स्त्व॒नु॒ष्टुब॑सि सादय॒त्यारू॑ढः॒ पत्वेति॒ गर्भ॑म॒सौ मो॑दध्वं॒ द्विच॑त्वारिशच्च ।।5।।
5.1.5.1
क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्यै॒ शुच॑ शमयति॒ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युः प्रा॒णेनै॒वास्यै प्रा॒ण सं द॑धाति॒ सं ते॑ वा॒युरित्या॑ह॒ तस्माद्वा॒युप्र॑च्युता दि॒वो वृ॑ष्टिरीर्ते॒ तस्मै॑ च देवि॒ वष॑डस्तु [21]
5.1.5.2
तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टिं॑ दधाति॒ तस्मा॒त्सर्वा॑नृ॒तून््व॑ऱ्षति॒ यद्व॑षट्कु॒र्याद्रक्षा॑सि य॒ज्ञ ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञ रक्षा॑सि घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यत्यनु॒ष्टुप् [22]
5.1.5.3
सर्वा॑णि॒ छन्दा॑सि॒ छन्दा॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनं॑ त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒ य ए॒वं वेद॑ वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒ षु ण॑ ऊ॒तय॒ इति॑ सावि॒त्रीभ्या॒मुत्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वां व॑रुणमे॒निमुत्सृ॑जति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ स जा॒तो गर्भो॑ असि [23]
5.1.5.4
रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्निस्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तं वि॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒ इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैन॒म्प्र च्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति [24]
5.1.5.5
सं न॑ह्यत्ये॒वैन॑मे॒तया स्थे॒म्ने ग॑र्द॒भेन॒ सम्भ॑रति॒ तस्माद्गर्द॒भः प॑शू॒नाम्भा॑रभा॒रित॑मो गर्द॒भेन॒ सम्भ॑रति॒ तस्माद्गर्द॒भो ऽप्य॑नाले॒शेत्य॒न्यान्प॒शून्मेद्य॒त्यन्न॒॒ ह्ये॑नेना॒र्क स॒म्भर॑न्ति गर्द॒भेन॒ सम्भ॑रति॒ तस्माद्गर्द॒भो द्वि॒रेताः॒ सन्कनि॑ष्ठम्पशू॒नाम्प्र जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनिं॑ नि॒र्दह॑ति प्र॒जासु॒ वा ए॒ष ए॒तऱ्ह्यारू॑ढः [25]
5.1.5.6
स ईश्व॒रः प्र॒जाः शु॒चा प्र॒दहः॑ शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒द्रास॑भः॒ पत्वेति॑ [26]
5.1.5.7
आ॒ह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑द॒न्भर॑न्न॒ग्निम्पु॑री॒ष्य॑मित्या॑हा॒ग्नि ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षः पु॒रेत्या॒हायु॑रे॒वास्मि॑न्दधाति॒ तस्माद्गर्द॒भः सर्व॒मायु॑रेति॒ तस्माद्गर्द॒भे पु॒रायु॑षः॒ प्रमी॑ते बिभ्यति॒ वृषा॒ग्निं वृष॑ण॒म्भर॒न्नित्या॑ह वृषा॒ ह्ये॑ष वृषा॒ग्निर॒पां गर्भम् [27]
5.1.5.8
स॒मु॒द्रिय॒मित्या॑हा॒पा ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒नयोर्लो॒कयो॒र्वीत्यै॒ प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तः प्रति॒ष्ठा स ए॒तऱ्ह्य॑ध्व॒र्युं च॒ यज॑मानं च ध्यायत्यृ॒त स॒त्यमित्या॑हे॒यं वा ऋ॒तम॒सौ [28]
5.1.5.9
स॒त्यम॒नयो॑रे॒वैन॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒तमित्या॑ह॒ शान्त्यै॒ व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑ती॒रित्या॑ह॒ रक्ष॑सा॒मप॑हत्यै नि॒षीद॑न्नो॒ अप॑ दुर्म॒ति ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धयः॒ प्रति॑ मोदध्वम् [29]
5.1.5.10
ए॒न॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेय॒न्ताभि॑रे॒वैन॒॒ सम॑र्धयति॒ पुष्पा॑वतीः सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्त्य॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्न स॒धस्थ॒मास॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैन॑म्प्रच्या॒वय॑ति॒ तास्वे॒वैन॒म्प्रति॑ ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑हरति॒ प्रति॑ष्ठित्यै ।। [30]
5.1.6.0
तेनै॒व लोम॑भिः॒ समे॒ते अ॑भि॒चर॑त॒ एक॑विशतिश्च ।।6।।
5.1.6.1
वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ वि स्र॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं वरुणमे॒निं वि सृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुच॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुच॑ शमयति मि॒त्रः स॒॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒व [31]
5.1.6.2
ए॒न॒॒ स सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणा॒म्पात्रा॑णां क॒पालैः ससृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येदर्मकपा॒लैः स सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चार्प॑यति॒ शर्क॑राभिः॒ स सृ॑जति॒ धृत्या॒ अथो॑ शं॒त्वाया॑जलो॒मैः स सृ॑जत्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैनं॑ त॒नुवा॒ स सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भिः॒ सम् [32]
5.1.6.3
सृ॒ज॒ति॒ य॒ज्ञो वै कृ॑ष्णाजि॒नय्यँ॒ज्ञेनै॒व य॒ज्ञ स सृ॑जति रु॒द्राः स॒म्भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ सम॑भर॒न्ताभि॑रे॒वैन॒॒ सम्भ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒तच्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते [33]
5.1.6.4
प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै॒ छन्दो॑भिः करोति वी॒र्यं॑ वै छन्दा॑सि वी॒र्ये॑णै॒वैनां करोति॒ यजु॑षा॒ बिलं॑ करोति॒ व्यावृ॑त्त्या॒ इय॑तीं करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तान्द्विस्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतु॑स्स्तनां करोति पशू॒नां दोहा॑या॒ष्टास्त॑नां करोति॒ छन्द॑सां॒ दोहा॑य॒ नवाश्रिमभि॒चर॑तः कुर्यात्त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वतास्वे॒वैना॒म्प्रति॑ ष्ठापयति ।। [34]
5.1.7.0
आ॒ह॒ दे॒वानां॒ वै पत्नीः पृणै॒षा षट्च॑ ।।7।।
5.1.7.1
स॒प्तभि॑र्धूपयति स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः शिर॑ ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒ऱ्षन्ने॒व य॒ज्ञस्य॑ प्रा॒णान्द॑धाति॒ तस्मात्स॒प्त शी॒ऱ्षन्प्रा॒णा अ॑श्वश॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑ सयोनि॒त्वायादि॑ति॒स्त्वेत्या॑हे॒यं वा अदि॑ति॒रदि॑त्यै॒वादि॑त्यां खनत्य॒स्या अक्रू॑रंकाराय॒ न हि स्वः स्व हि॒नस्ति॑ दे॒वानां त्वा॒ पत्नी॒रित्या॑ह दे॒वानाम् [35]
5.1.7.2
वा ए॒ताम्पत्न॒योऽग्रे॑ऽकुर्व॒न्ताभि॑रे॒वैनां दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्द्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दा॑सि॒ वै ग्नाश्छन्दो॑भिरे॒वैना॑ श्रपयति॒ वरूत्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरूत्रयो॒ होत्रा॑भिरे॒वैनाम्पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानां॒ वै पत्नीः [36]
5.1.7.3
जन॑य॒स्ताभि॑रे॒वैनाम्पचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनाम्पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विः सं॑वत्स॒रस्य॑ स॒स्यम्प॑च्यते वारु॒ण्यु॑खाभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैना॒म्ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण [37]
5.1.7.4
इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्य॑म्पात्र॒- मनाच्छृण्ण॒मा च्छृ॑णत्ति देव॒त्राक॑रजक्षी॒रेणा च्छृ॑णत्ति पर॒मं वा ए॒तत्पयो॒ यद॑जक्षी॒रम्प॑र॒मेणै॒वैना॒म्पय॒सा च्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दा॒॒स्या च्छृ॑णत्ति ।। [38]
5.1.8.0
याव॑न्तोऽस्य मुख॒तश्चित्य॑स्य वर्धयत्यादि॒त्योऽष्टावि॑शतिश्च ।।8।।
5.1.8.1
एक॑विशत्या॒ माषैः पुरुषशी॒ऱ्षमच्छैत्यमे॒ध्या वै माषा॑ अमे॒ध्यम्पु॑रुषशी॒ऱ्षम॑मे॒ध्यैरे॒वास्या॑मे॒ध्यं नि॑रव॒दाय॒ मेध्यं॑ कृ॒त्वा ह॑र॒त्येक॑विशतिर्भवन्त्येकवि॒॒शो वै पुरु॑षः॒ पुरु॑ष॒स्याप्त्यै॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒ऱ्ष स॑प्त॒धा वितृ॑ण्णां वल्मीकव॒पाम्प्रति॒ नि द॑धाति स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः प्रा॒णैरे॒वैन॒त्सम॑र्धयति मेध्य॒त्वाय॒ याव॑न्तः [39]
5.1.8.2
वै मृ॒त्युब॑न्धव॒स्तेषां य॒म आधि॑पत्य॒म्परी॑याय यमगा॒थाभिः॒ परि॑ गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभिः॒ परि॑ गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देय॒ङ्गाथा॒ हि तद्वृ॒ङ्क्तेऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नयः॒ कामा॑ने॒वाव॑ रुन्द्धे॒ यत्प॒शून्नालभे॒तान॑वरुद्धा अस्य [40]
5.1.8.3
प॒शवः॑ स्यु॒र्यत्पर्य॑ग्निकृतानुत्सृ॒जेद्य॑ज्ञवेश॒सं कु॑र्या॒द्यत्स॑स्था॒पयेद्या॒तया॑मानि शी॒ऱ्षाणि॑ स्यु॒र्यत्प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्द्धे॒ यत्पर्य॑ग्निकृतानुत्सृ॒जति॑ शी॒र्ष्णामया॑तयामत्वाय प्राजाप॒त्येन॒ स स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒तः [41]
5.1.8.4
आ॒त्मान॒माप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्यप॑रिमितछन्दसो भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः प्रजात्यै लोम॒शं वै नामै॒तच्छन्दः॑ प्र॒जाप॑तेः प॒शवो॑ लोम॒शाः प॒शूने॒वाव॑ रुन्द्धे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य [42]
5.1.8.5
भ॒व॒न्त्येक॑विशति सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कवि॒॒शो रुच॑मे॒व ग॑च्छ॒त्यथो प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒॒शश्चतु॑र्विशति॒मन्वा॑ह॒ चतु॑र्विशतिरर्धमा॒साः सं॑वत्स॒रः सं॑वत्स॒रोऽग्निर्वैश्वान॒रः सा॒क्षादे॒व वैश्वान॒रमव॑ रुन्द्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः समास्त्वाग्न ऋ॒तवो॑ वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निं व॑र्धयति [43]
5.1.8.6
ऋ॒तुभिः॑ संवत्स॒रव्विँश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वास्मा॒दप॑ नुद॒त्युद्व॒यं तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यं गच्छति॒ न सं॑वत्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।। [44]
5.1.9.0
प्र॒जाप॑तिर््ऋच्छे॒त्स्वामे॒वान्नं॒ तेज॑सा॒ चतु॑स्त्रिशच्च ।।9।।
5.1.9.1
ष॒ड्भिर्दीक्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ दीक्षयति स॒प्तभि॑र्दीक्षयति स॒प्त छन्दा॑सि॒ छन्दो॑भिरे॒वैनं॑ दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभोत्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्तस्मात्प्रा॒णानां॒ वागु॑त्त॒मैक॑स्माद॒क्षरा॒दनाप्तम्प्रथ॒मम्प॒दम् तस्मा॒द्यद्वा॒चोऽनाप्तं॒ तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः [45]
5.1.9.2
प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्र वृ॑णक्ति भवि॒ष्यदे॒वाव॑ रुन्द्धे भवि॒ष्यद्धि भूयो॑ भू॒ताद्द्वाभ्या॒म्प्र वृ॑णक्ति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा सा यद्भिद्ये॒तार्ति॒मार्च्छेत् [46]
5.1.9.3
यज॑मानो ह॒न्येतास्य य॒ज्ञो मित्रै॒तामु॒खां त॒पेत्या॑ह॒ ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैना॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालैः॒ स सृ॑जे॒त्सैव ततः॒ प्राय॑श्चित्ति॒र्यो ग॒तश्रीः॒ स्यान्म॑थि॒त्वा तस्याव॑ दध्याद्भू॒तो वा ए॒ष स स्वां [47]
5.1.9.4
दे॒वता॒मुपै॑ति॒ यो भूति॑कामः॒ स्याद्य उ॒खायै॑ स॒म्भवे॒त्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष स॒म्भव॑त्ये॒ष वै स्व॑य॒म्भूर्नाम॒ भव॑त्ये॒व यं का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒न्यत॒स्तस्या॒हृत्याव॑ दध्यात्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यं जनयत्यम्ब॒रीषा॒- दन्न॑काम॒स्याव॑ दध्यादम्ब॒रीषे॒ वा अन्न॑म्भ्रियते॒ सयोन्ये॒वान्नम् [48]
5.1.9.5
अव॑ रुन्द्धे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कम्प्रावि॑शत् क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्द्ध॒ आज्ये॑न॒ सं यौत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्य॑म् प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा [49]
5.1.9.6
वैकं॑कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विदं॑ गच्छ॒त्यथो प्रा॒णाने॒वात्मन्ध॑त्ते ।। [50]
5.1.10.0
रक्षा॒॒स्यौदु॑म्बरी आदि॒त्य उ॒द्यत्य॒ स़ञ्चतु॑र्विशतिश्च ।।10।।
5.1.10.1
न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै प्रयो॒ग ए॒वऱ्षि॑रस्वदय॒द्यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्णमे॒वास्मै स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ त सृ॒ष्ट रक्षा॑सि [51]
5.1.10.2
अ॒जि॒घा॒॒स॒न्त्स ए॒तद्राक्षो॒घ्नम॑पश्य॒त्तेन॒ वै स रक्षा॒॒स्यपा॑हत॒ यद्राक्षो॒घ्नम्भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षा॒॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै वन॒स्पती॑ना सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ स॑शितम्मे॒ ब्रह्मोदे॑षाम्बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदु॑म्बरी [52]
5.1.10.3
वा॒च॒य॒ति॒ ब्रह्म॑णै॒व क्ष॒त्र स श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्माद्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यम्ब्राह्म॒णं तस्माद्राज॒न्यो ब्राह्म॒णवा॒नत्य॒न्य रा॑ज॒न्य॑म्मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृत॒॒ हिर॑ण्य रु॒क्ममन्त॑र॒म्प्रति॑ मुञ्चते॒ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒ एक॑विशतिनिर्बाधो भव॒त्येक॑विशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्यः [53]
5.1.10.4
ए॒क॒वि॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रान्निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धानां निर्बाध॒त्वन्नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑ मुञ्चते॒ प्रसूत्यै॒ नक्तो॒षासेत्युत्त॑रयाहोरा॒त्राभ्या॑- मे॒वैन॒मुद्य॑च्छते दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ [54]
5.1.10.5
प्रा॒णैर्दा॑धा॒रासी॑नः॒ प्रति॑ मुञ्चते॒ तस्मा॒दासी॑नाः प्र॒जाः प्र जा॑यन्ते कृष्णाजि॒नमुत्त॑र॒न्तेजो॒ वै हिर॑ण्य॒म्ब्रह्म॑ कृष्णाजि॒नन्तेज॑सा चै॒वैन॒म्ब्रह्म॑णा चोभ॒यतः॒ परि॑ गृह्णाति॒ षडु॑द्याम शि॒क्य॑म्भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒मुद्य॑च्छते॒ यद्द्वाद॑शोद्याम संवत्स॒रेणै॒व मौ॒ञ्जम्भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैन॒॒ सम॑र्धयति सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवेक्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति ।। [55]
5.1.11.0
अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्विच॑त्वारिशच्च ।।11।।
5.1.11.1
समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी वह॑न्वा॒जिनं॑ जातवेदो दे॒वानां वक्षि प्रि॒यमा स॒धस्थम् । घृ॒तेना॒ञ्जन्त्सम्प॒थो दे॑व॒यानान्प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ता स्व॒धाम॒स्मै यज॑मानाय धेहि । ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा [56]
5.1.11.2
दे॒वैर्वसु॑भिः स॒जोषाः प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः । स्ती॒र्णम्ब॒ऱ्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम्पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु । ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उदातैः । ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु । अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने । उ॒षासा॑ वाम् [57]
5.1.11.3
सु॒हि॒र॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि । प्र॒थ॒मा वा॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा । अपि॑प्रयं॒ चोद॑ना वा॒म्मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता । आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त । त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
5.1.11.4
त्वष्टे॒दं विश्व॒म्भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः । अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वा ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑र्देवलो॒कम्प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् । प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ।। [59]
5.2.0.0
विष्णु॑मुखा॒ अन्न॑पते॒ याव॑ती॒ वि वै पु॑रुषमा॒त्रेणाग्ने॒ तव॒ श्रवो॒ ब्रह्म॑ जज्ञा॒न स्व॑यमातृ॒ण्णामे॒षां वै प॒शुर्गा॑य॒त्री कस्त्वा॒ द्वाद॑श ।।12।। विष्णु॑मुखा॒ अप॑चितिमा॒न््वि वा ए॒तावग्ने॒ तव॑ स्वयमातृ॒ण्णाव्विँ॑षू॒चीना॑नि गाय॒त्री चतु॑ष्षष्टिः ।।64।। विष्णु॑मुखास्त॒नुवे॑ भुवत् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे द्वितीयः प्रश्नः ।।
5.2.1.0
सृ॒ष्टोऽभ्ये॑तया॑ भवति॒ सद्व॑त्युप॒तिष्ठ॑ते॒ द्विच॑त्वारिशच्च ।।1।।
5.2.1.1
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमोऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्ठु॑भम॒न्तरि॑क्ष॒म् जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्लोँ॒कान््य॑थापू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सोऽस्मात्सृ॒ष्टः [1]
5.2.1.2
परा॑ङै॒त्तमे॒तयान्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सोऽग्नेः प्रि॒यं धामावा॑रुन्द्ध॒ यदे॒ताम॒न्वाहा॒ग्नेरे॒वैतया प्रि॒यं धामाव॑ रुन्द्ध ईश्व॒रो वा ए॒ष पराङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान्क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दा॑सि॒ छन्दा॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि [2]
5.2.1.3
प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते॒ शुनः॒शेप॒माजी॑गर्तिं॒ वरु॑णोऽगृह्णा॒त्स ए॒ताव्वाँ॑रु॒णीम॑पश्य॒त्तया॒ वै स आ॒त्मानं॑ वरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खाम्प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदित्या॑हा॒त्मान॑मे॒वैतया [3]
5.2.1.4
व॒रु॒ण॒पा॒शान्मु॑ञ्च॒त्या त्वा॑हाऱ्ष॒मित्या॒हा ह्ये॑न॒॒ हर॑ति ध्रु॒वस्ति॒ष्ठावि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वित्या॑ह वि॒शैवैन॒॒ सम॑र्धयत्य॒स्मिन्रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑क॒र्यं का॒मये॑त रा॒ष्ट्र स्या॒दिति॒ तम्मन॑सा ध्यायेद्रा॒ष्ट्रमे॒व भ॑वति [4]
5.2.1.5
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्था॒दित्या॒हाग्र॑मे॒वैन॑ समा॒नानां करोति निर्जग्मि॒वान्तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षागा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒वाति॑छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैन॑ समा॒नानां करोति॒ सद्व॑ती [5]
5.2.1.6
भ॒व॒ति॒ स॒त्त्वमे॒वैनं॑ गमयति वात्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑त्स॒प्रीर्भा॑लन्द॒नोऽग्नेः प्रि॒यं धामावा॑रुन्द्धा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुन्द्ध एकाद॒शम्भ॑वत्येक॒धैव यज॑माने वी॒र्यं॑ दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मिल्लोँ॒क आर्ध्नुव॒ञ्छन्दो॑भिर॒मुष्मि॒न्स्तोम॑स्येव॒ खलु॒ वा ए॒तद्रू॒पं यद्वात्स॒प्रम्यद्वात्स॒प्रेणो॑प॒तिष्ठ॑ते [6]
5.2.1.7
इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑य॒ति यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति पूर्वे॒द्युः प्र क्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्योगे॒ऽन्यासाम्प्र॒जाना॒म्मनः॒ क्षेमे॒ऽन्यासा॒न्तस्माद्यायाव॒रः क्षे॒म्यस्ये॑शे॒ तस्माद्यायाव॒रः क्षे॒म्यम॒ध्यव॑स्यति मु॒ष्टी क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्यै ।। [7]
5.2.2.0
वै विश्वे॑ दे॒वा ज्योति॑ष्मा॒नप॑चिततमौ त्रि॒वृद्वा आ॑दि॒त्या द्विच॑त्वारिशच्च ।।2।।
5.2.2.1
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑पतिः॒ स ए॒वास्मा॒ अन्न॒म्प्र य॑च्छत्यनमी॒वस्य॑ शु॒ष्मिण॒ इत्या॑हाय॒क्ष्मस्येति॒ वावैतदा॑ह॒ प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑हा॒शिष॑मे॒वैतामा शास्त॒ उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः [8]
5.2.2.2
प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒॒ सम॑र्धयति चत॒सृभि॒रा सा॑दयति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒वाति॑च्छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैन॑ समा॒नानां करोति॒ सद्व॑ती भवति स॒त्त्वमे॒वैनं॑ गमयति॒ प्रेद॑ग्ने॒ ज्योति॑ष्मान् [9]
5.2.2.3
या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ य हि॒नस्ति॒ मा हि॑सीस्त॒नुवा प्र॒जा इत्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ शमयति॒ रक्षा॑सि॒ वा ए॒तद्य॒ज्ञ स॑चन्ते॒ यदन॑ उ॒त्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रक्ष॑सा॒मप॑हत्या॒ अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑न्दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमौ [10]
5.2.2.4
अप॑चितिमान्भवति॒ य ए॒वं वेद॑ स॒मिधा॒ऽग्निं दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति॒ यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्गा॑यत्रि॒या ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्राह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्योऽप्सु भस्म॒ प्र वे॑शयत्य॒प्सुयो॑नि॒र्वा अ॒ग्निः स्वामे॒वैनं॒ योनिं॑ गमयति ति॒सृभिः॒ प्र वे॑शयति त्रि॒वृद्वै [11]
5.2.2.5
अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठां ग॑मयति॒ परा॒ वा ए॒षोऽग्निं व॑पति॒ योऽप्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधाति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जाम्प॒शून््व॑पति॒ योऽप्सु भस्म॑ प्रवे॒शय॑ति॒ पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ पुन॑स्त्वादि॒त्याः [12]
5.2.2.6
रु॒द्रा वस॑वः॒ समि॑न्धता॒मित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ समैन्धत॒ ताभि॑रे॒वैन॒॒ समि॑न्द्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते बो॒धय॑त्ये॒वैन॒न्तस्मात्सु॒प्त्वा प्र॒जाः प्र बु॑ध्यन्ते यथास्था॒नमुप॑ तिष्ठते॒ तस्माद्यथास्था॒नम्प॒शवः॒ पुन॒रेत्योप॑ तिष्ठन्ते ।। [13]
5.2.3.0
अ॒द्ध्य॒व॒सा॒यय॑ति॒ ह्ये॑तद्वि॒श्वामि॑त्रस्यादधत॒ द्वे लो॒कस्य॑ लो॒केषु॑ स॒प्तच॑त्वारिशच्च ।।3।।
5.2.3.1
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्य॒म्परी॑याय॒ यो वै य॒मं दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ग्निं चि॑नु॒ते य॒मायै॑न॒॒ स चि॑नु॒तेऽपे॒तेत्य॒ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒त्मने॒ऽग्निं चि॑नुत इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒ नावि॑न्द॒न्ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेनाध्यवसा॒यय॑ति [14]
5.2.3.2
अना॑मृत ए॒वाग्निं चि॑नुत॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ हन्त्य॒पोऽवोक्षति॒ शान्त्यै॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ रू॒प रू॒पेणै॒व वैश्वान॒रमव॑ रुन्द्ध॒ ऊषा॒न्नि व॑पति॒ पुष्टि॒र्वा ए॒षा प्र॒जन॑नं॒ यदूषाः॒ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निं चि॑नु॒तेऽथो॑ सं॒ज्ञान॑ ए॒व सं॒ज्ञान॒॒ ह्ये॑तत् [15]
5.2.3.3
प॒शू॒नां यदूषा॒ द्यावा॑पृथि॒वी स॒हास्ता॒न्ते वि॑य॒ती अ॑ब्रूता॒मस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त्तद॒स्याम॑दधा॒त्त ऊषा॑ अभव॒न््यद॒स्या य॒ज्ञिय॒मासी॒त्तद॒मुष्या॑मदधा॒त्तद॒दश्च॒न्द्रम॑सि कृ॒ष्णमूषान्नि॒वप॑न्न॒दो ध्या॑ये॒द्द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निं चि॑नुते॒ऽय सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य [16]
5.2.3.4
सू॒क्तम्भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं धामावा॑रुन्द्धा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुन्द्धे॒ छन्दो॑भि॒र्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒ञ्चत॑स्रः॒ प्राची॒रुप॑ दधाति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति॒ तेषा॑ सुव॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ ते द्वे पु॒रस्तात्स॒मीची॒ उपा॑दधत॒ द्वे [17]
5.2.3.5
प॒श्चात्स॒मीची॒ ताभि॒र्वै ते दिशो॑ऽदृह॒न्॒ यद्द्वे पु॒रस्तात्स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चात्स॒मीची॑ दि॒शां विधृ॑त्या॒ अथो॑ प॒शवो॒ वै छन्दा॑सि पशूने॒वास्मै॑ स॒मीचो॑ दधात्य॒ष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्तं चि॑नुते॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री सु॑व॒र्गं लो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑ लो॒कस्य॑ [18]
5.2.3.6
प्रज्ञात्यै॒ त्रयो॑दश लोकम्पृ॒णा उप॑ दधा॒त्येक॑विशतिः॒ सम्प॑द्यन्ते प्रति॒ष्ठा वा ए॑कवि॒॒शः प्र॑ति॒ष्ठा गाऱ्ह॑पत्य एकवि॒॒शस्यै॒व प्र॑ति॒ष्ठां गाऱ्ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निं चि॑क्या॒नस्ति॑ष्ठति॒ य ए॒वं वेद॒ पञ्च॑चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्द्धे॒ त्रिचि॑तीकं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॑ [19]
5.2.3.7
प्रति॑ तिष्ठ॒त्येक॑चितीकं चिन्वीत तृ॒तीयं॑ चिन्वा॒न ए॑क॒धा वै सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑व॒र्गं लो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒ तस्मान्मा॒॒सेनास्थि॑ छ॒न्नन्न दु॒श्चर्मा॑ भवति॒ य ए॒वं वेद॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।। [20]
5.2.4.0
ऋ॒तुभि॑रे॒षा परा॑ची॒रुपा॒ष्टाच॑त्वारिशच्च ।।4।।
5.2.4.1
वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर्यश्चो॒खाया॒॒ समि॑त॒मिति॑ चत॒सृभिः॒ सं नि व॑पति च॒त्वारि॒ छन्दा॑सि॒ छन्दा॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒ स शास्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्र समे॑ति॒ यत्सं॒न्युप्य॑ वि॒हर॑ति॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्रं व्येत्यृ॒तुभिः॑ [21]
5.2.4.2
वा ए॒तं दीक्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रे॒वैनं॑ दीक्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑न्नैर््ऋ॒तीः कृ॒ष्णास्ति॒स्रस्तुष॑पक्वा भवन्ति॒ निर््ऋ॑त्यै॒ वा ए॒तद्भा॑ग॒धेयं॒ यत्तुषा॒ निर््ऋ॑त्यै रू॒पं कृ॒ष्ण रू॒पेणै॒व निर््ऋ॑तिं नि॒रव॑दयत इ॒मां दिशं॑ यन्त्ये॒षा [22]
5.2.4.3
वै निर््ऋ॑त्यै॒ दिक्स्वाया॑मे॒व दि॒शि निर््ऋ॑तिं नि॒रव॑दयते॒ स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद्वै निर््ऋ॑त्या आ॒यत॑न॒॒ स्व ए॒वायत॑ने॒ निर््ऋ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति नैर््ऋ॒तो वै पाशः॑ सा॒क्षादे॒वैनं॑ निर््ऋतिपा॒शान्मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निर््ऋ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑ [23]
5.2.4.4
द॒धा॒ति॒ परा॑चीमे॒वास्मा॒न्निर््ऋ॑ति॒म्प्र णु॑द॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒ निर््ऋ॑त्या अ॒न्तऱ्हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते मेध्य॒त्वाय॒ गाऱ्ह॑पत्य॒मुप॑ तिष्ठन्ते निर््ऋतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त एक॒धैव यज॑माने वी॒र्यं॑ दधति नि॒वेश॑नः सं॒गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैन॑म्प॒शुभिः॒ सम॑र्धयन्ति ।। [24]
5.2.5.0
च॒ भ॒व॒त्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑य्यँत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ दिख्सीता॑ अग्नि॒चिदव॒ पञ्च॑विशतिश्च ।।5।।
5.2.5.1
पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑षः॒ सम्मि॑तो यज्ञप॒रुषै॒वैनं॒ वि मि॑मीते॒ यावा॒न्पुरु॑ष ऊ॒र्ध्वबा॑हु॒स्तावान्भव- त्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑व्वीँ॒र्ये॑णै॒वैनं॒ वि मि॑मीते प॒क्षी भ॑वति॒ न ह्य॑प॒क्षः पति॑तु॒मऱ्ह॑त्यर॒त्निना॑ प॒क्षौ द्राघी॑यासौ भवत॒स्तस्मात्प॒क्षप्र॑वयासि॒ वया॑सि व्याममा॒त्रौ प॒क्षौ च॒ पुच्छं॑ च भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यम् [25]
5.2.5.2
वी॒र्य॑सम्मितो॒ वेणु॑ना॒ वि मि॑मीत आग्ने॒यो वै वेणुः॑ सयोनि॒त्वाय॒ यजु॑षा युनक्ति॒ यजु॑षा कृषति॒ व्यावृ॑त्त्यै षड्ग॒वेन॑ कृषति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ कृषति॒ यद्द्वा॑दशग॒वेन॑ संवत्स॒रेणै॒वेयं वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒त्सैतद्द्वि॑गु॒णम॑पश्यत्कृ॒ष्टं चाकृ॑ष्टं च॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यत्कृ॒ष्टं चाकृ॑ष्टं च [26]
5.2.5.3
भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णं त्वा अ॒ग्निमुद्य॑न्तुमऱ्ह॒तीत्या॑हु॒र्यत्कृ॒ष्टं चाकृ॑ष्टं च॒ भव॑त्य॒ग्नेरुद्य॑त्या ए॒ताव॑न्तो॒ वै प॒शवो द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान््यत्प्राच॑ उत्सृ॒जेद्रु॒द्रायापि॑ दध्या॒द्यद्द॑क्षि॒णा पि॒तृभ्यो॒ नि धु॑वे॒द्यत्प्र॒तीचो॒ रक्षा॑सि हन्यु॒रुदी॑च॒ उत्सृ॑जत्ये॒षा वै दे॑वमनु॒ष्याणा॑ शा॒न्ता दिक् [27]
5.2.5.4
तामे॒वैना॒ननूत्सृ॑ज॒त्यथो॒ खल्वि॒मां दिश॒मुत्सृ॑जत्य॒सौ वा आ॑दि॒त्यः प्रा॒णः प्रा॒णमे॒वैना॒ननूत्सृ॑जति दक्षि॒णा प॒र्याव॑र्तन्ते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒त्पराञ्चः प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ति॒स्रस्ति॑स्रः॒ सीताः [28]
5.2.5.5
कृ॒ष॒ति॒ त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तय॒त्योष॑धीर्वपति॒ ब्रह्म॒णान्न॒मव॑ रुन्द्धे॒ऽर्केऽर्कश्ची॑यते चतुर्द॒शभि॑र्वपति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॑धयः प्रति॒तिष्ठ॑न्त्यनुसी॒तं व॑पति॒ प्रजात्यै द्वाद॒शसु॒ सीता॑सु वपति॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रेणै॒वास्मा॒ अन्न॑म्पचति॒ यद॑ग्नि॒चित् [29]
5.2.5.6
अन॑वरुद्धस्याश्ञी॒यादव॑रुद्धेन॒ व्यृ॑द्ध्येत॒ ये वन॒स्पती॑नाम्फल॒ग्रह॑य॒स्तानि॒ध्मेऽपि॒ प्रोक्षे॒दन॑वरुद्ध॒स्याव॑रुद्ध्यै दि॒ग्भ्यो लो॒ष्टान्त्सम॑स्यति दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शां वी॒र्येऽग्निं चि॑नुते॒ यं द्वि॒ष्याद्यत्र॒ स स्यात्तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे॒दिष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑मे॒वोर्जं॒ तस्यै॑ दि॒शोऽव॑ रुन्द्धे॒ क्षोधु॑को भवति॒ यस्तस्यां दि॒शि भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्या ह्य॑ग्निश्ची॒यतेऽथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शूने॒वाव॑ रु॒न्द्धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ।। [30]
5.2.6.0
इन्द्रः॑ प॒शुका॑मस्य भवत्यविश॒त्सयो॑निव्विँश॒तिश्च॑ ।।6।।
5.2.6.1
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ सू॒क्त सू॒क्तेनै॒व वैश्वान॒रमव॑ रुन्द्धे ष॒ड्भिर्नि व॑पति॒ षड्वा ऋ॒तव॑स्सव्वँत्स॒रः सं॑वत्स॒रोऽग्निर्वैश्वान॒रः सा॒क्षादे॒व वैश्वान॒रमव॑ रुन्द्धे समु॒द्रं वै नामै॒तच्छन्दः॑ समु॒द्रमनु॑ प्र॒जाः प्र जा॑यन्ते॒ यदे॒तेन॒ सिक॑ता नि॒वप॑ति प्र॒जानाम्प्र॒जन॑ना॒येन्द्रः॑ [31]
5.2.6.2
वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒त्स्फ्यस्तृती॑य॒॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑य॒य्येँऽन्तःश॒रा अशीर्यन्त॒ ताः शर्क॑रा अभव॒न्तच्छर्क॑राणा शर्कर॒त्वव्वँज्रो॒ वै शर्क॑राः प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्निम्प॑रिमि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून्परि॑ गृह्णाति॒ तस्मा॒द्वज्रे॑ण प॒शवः॒ परि॑गृहीता॒स्तस्मा॒त्स्थेया॒नस्थे॑यसो॒ नोप॑ हरते त्रिस॒प्ताभिः॑ [32]
5.2.6.3
प॒शुका॑मस्य॒ परि॑ मिनुयात्स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः प्रा॒णाः प॒शवः॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्द्धे त्रिण॒वाभि॒- र्भ्रातृ॑व्यवतस्त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमिताभिः॒ परि॑ मिनुया॒दप॑रिमित॒स्याव॑रुद्ध्यै॒ यं का॒मये॑ताप॒शुः स्या॒दित्यप॑रिमित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीन॒॒ रेतः॒ परा॒ सिञ्चत्यप॒शुरे॒व भ॑वति [33]
5.2.6.4
यं का॒मये॑त पशु॒मान्त्स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒त्परि॑गृहीत ए॒वास्मै॑ समी॒चीन॒॒ रेतः॑ सिञ्चति पशु॒माने॒व भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्द॑धाति गायत्रि॒या ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्राह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ श॒य्युँम्बा॑ऱ्हस्प॒त्यम्मेधो॒ नोपा॑नम॒त्सोऽग्निम्प्रावि॑शत् [34]
5.2.6.5
सोऽग्नेः कृष्णो॑ रू॒पं कृ॒त्वोदा॑यत॒ सोऽश्व॒म्प्रावि॑श॒त्सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द्यदश्व॑माक्र॒मय॑ति॒ य ए॒व मेधोऽश्व॒म्प्रावि॑श॒त्तमे॒वाव॑ रुन्द्धे प्र॒जाप॑तिना॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निं चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्ण सयो॑निमे॒वाग्निं चि॑नुते॒ऽपाम्पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्ण रू॒पेणै॒वैन॒दुप॑ दधाति ।। [35]
5.2.7.0
वन॒स्पत॑यो दक्षिण॒तो ध॑त्त एन॒न्तस्मा॑दक्ष्ण॒या पञ्च॑ च ।।7।।
5.2.7.1
ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒ तस्माद्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑थि॒व्यां नान्तरि॑क्षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत्पृ॑थि॒व्यां चि॑न्वी॒त पृ॑थि॒वी शु॒चार्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः [36]
5.2.7.2
प्र जा॑येर॒न््यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्ष शु॒चार्प॑ये॒न्न वया॑सि॒ प्र जा॑येर॒न््यद्दि॒वि चि॑न्वी॒त दिव॑ शु॒चार्प॑ये॒न्न प॒र्जन्यो॑ वऱ्षेद्रु॒क्ममुप॑ दधात्य॒मृतं॒ वै हिर॑ण्यम॒मृत॑ ए॒वाग्निं चि॑नुते॒ प्रजात्यै हिर॒ण्मय॒म्पुरु॑ष॒मुप॑ दधाति यजमानलो॒कस्य॒ विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात्प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दध्याद्दक्षिण॒तः [37]
5.2.7.3
प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कन्न प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति प्रा॒णाना॒मुत्सृ॑ष्ट्यै द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रास्वे॒वैन॒म्प्रति॑ ष्ठापयति॒ स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णां कार्ष्मर्य॒मयीं द॒ध्नः पू॒र्णामौदु॑म्बरीमि॒यं वै कार्ष्मर्य॒मय्य॒सावौदु॑म्बरी॒मे ए॒वोप॑ धत्ते [38]
5.2.7.4
तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाप्तु॒मऱ्ह॑ति॒ दक्षि॑णां कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदु॑म्बरी॒न्तस्मा॑द॒स्या अ॒सावुत्त॒राज्य॑स्य पू॒र्णां कार्ष्मर्य॒मयी॒व्वँज्रो॒ वा आज्यं॒ वज्रः॑ कार्ष्म॒र्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒॒स्यप॑ हन्ति द॒ध्नः पू॒र्णामौदु॑म्बरीम्प॒शवो॒ वै दध्यूर्गु॑दु॒म्बरः॑ प॒शुष्वे॒वोर्जं॑ दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैनम् [39]
5.2.7.5
अ॒मुष्मि॑ल्लोँ॒क उप॑ तिष्ठेते वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॒॑हुः स्रुग्वै वि॒राड्यत्स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निं चि॑नुते यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञ रक्षा॑सि जिघासन्ति यज्ञमु॒ख रु॒क्मो यद्रु॒क्मं व्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रक्षा॒॒स्यप॑ हन्ति प॒ञ्चभि॒र्व्याघा॑रयति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रक्षा॒॒स्यप॑ हन्त्यक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ।। [40]
5.2.8.0
ए॒ष वै प॒शुर्यम॑सर्पदे॒ष यत्तस्मा॒त्तस्मात्स॒प्तवि॑शतिश्च ।।8।।
5.2.8.1
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं वै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां दधा॒त्यथो प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वै [41]
5.2.8.2
अ॒ग्निर्वैश्वान॒रो यद्ब्राह्म॒णस्तस्मै प्रथ॒मामिष्ट॑कां॒ यजु॑ष्कृता॒म्प्र य॑च्छे॒त्ताम्ब्राह्म॒णश्चोप॑ दध्याताम॒ग्नावे॒व तद॒ग्निं चि॑नुत ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्योऽवि॑द्वा॒निष्ट॑कामुप॒दधा॑ति॒ त्रीन््वरान्दद्या॒त्त्रयो॒ वै प्रा॒णाः प्रा॒णाना॒॒ स्पृत्यै॒ द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒ एको॒ हि प्रा॒णः प॒शुः [42]
5.2.8.3
वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ काण्डात्काण्डात्प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं वै त्र्या॑लिखि॒ता तामुत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒मसु॑रा॒ यम् [43]
5.2.8.4
का॒मये॑त॒ वसी॑यान्त्स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑ दध्या॒द्वसी॑याने॒व भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्त्स्या॒दित्यध॑र- लक्ष्माणं॒ तस्योप॑ दध्यादसुरयो॒निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान्भवति त्र्यालिखि॒ता भ॑वती॒मे वै लो॒का- स्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यङ्गि॑रसः सुव॒र्गं लो॒कं य॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वानु॒ प्रास॑र्पत् [44]
5.2.8.5
यत्कू॒र्ममु॑प॒दधा॑ति॒ यथा क्षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैनं॑ कू॒र्मः सु॑व॒र्गं लो॒कमञ्ज॑सा नयति॒ मेधो॒ वा ए॒ष प॑शू॒नां यत्कू॒र्मो यत्कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेध॒म्पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते श्मशा॒नं वा ए॒तत्क्रि॑यते॒ यन्मृ॒तानाम्पशू॒ना शी॒ऱ्षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तं कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत् [45]
5.2.8.6
कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैन॑ङ्ग्रा॒म्यव्वाँ ए॒तदन्नं॒ यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणाभ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑हा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति॒ प्राञ्च॒मुप॑ दधाति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्तात्प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मात् [46]
5.2.8.7
पु॒रस्तात्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति॒ स ए॑नमीश्व॒रो हिसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभिः॒ सना॑भिमे॒वाग्निं चि॑नु॒तेऽहि॑साया॒ औ॑दुम्बरम्भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्मध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्भवति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वैष्ण॒वा वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति ।। [47]
5.2.9.0
ऊ॒नान्तस्योप॑ प्रा॒णास्स्या॒दिति॒ वै प॒शवो॑ रुन्धे॒ चतु॑श्चत्वारिशच्च ।।9।।
5.2.9.1
ए॒षां वा ए॒तल्लो॒कानां॒ ज्योतिः॒ सम्भृ॑तं॒ यदु॒खा यदु॒खामु॑प॒दधात्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति॒ तस्मान्मध्य॒तो ज्योति॒रुपास्महे॒ सिक॑ताभिः पूरयत्ये॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ रू॒प रू॒पेणै॒व वैश्वान॒रमव॑ रुन्द्धे॒ यं का॒मये॑त॒ क्षोधु॑कः स्या॒दित्यू॒नां तस्योप॑ [48]
5.2.9.2
द॒ध्या॒त्क्षोधु॑क ए॒व भ॑वति॒ यं का॒मये॒तानु॑पदस्य॒दन्न॑मद्या॒दिति॑ पू॒र्णां तस्योप॑ दध्या॒दनु॑पदस्यदे॒वान्न॑मत्ति स॒हस्रं॒ वै प्रति॒ पुरु॑षः पशू॒नां य॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मध्ये॑ पुरुषशी॒ऱ्षमुप॑ दधाति सवीर्य॒त्वायो॒खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्गमयति॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒ऱ्षम॒मृतं॒ खलु॒ वै प्रा॒णाः [49]
5.2.9.3
अ॒मृत॒॒ हिर॑ण्यम्प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्गमयि॒त्वा प्रा॒णैः सम॑र्धयति द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुद्ध्यै पशुशी॒ऱ्षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒ऱ्षाणि॑ प॒शूने॒वाव॑ रुन्द्धे॒ यं का॒मये॑ताप॒शुः स्या॒दिति॑ [50]
5.2.9.4
वि॒षू॒चीना॑नि॒ तस्योप॑ दध्या॒द्विषू॑च ए॒वास्मात्प॒शून्द॑धात्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्त्स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दध्यात्स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति पशु॒माने॒व भ॑वति पु॒रस्तात्प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात्प्रा॒चीन॑मृष॒भस्याप॑शवो॒ वा अ॒न्ये गो॑अ॒श्वेभ्यः॑ प॒शवो॑ गोअ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒ताव॑न्तो॒ वै प॒शवः॑ [51]
5.2.9.5
द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान््वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत्प॑शुशी॒ऱ्षाण्यु॑प॒दधात्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूञ्छुच॒मनूत्सृ॑जति॒ तस्मात्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑यासः शु॒चा ह्यृ॑ताः स॑र्पशी॒ऱ्षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्द्धे [52]
5.2.9.6
यत्स॑मी॒चीन॑म्पशुशी॒ऱ्षैरु॑पद॒ध्याद्ग्रा॒म्यान्प॒शून्दशु॑काः स्यु॒र्यद्वि॑षू॒चीन॑मार॒ण्यान््यजु॑रे॒व व॑दे॒दव॒ तां त्विषि॑ रुन्द्धे॒ या स॒र्पे न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तां त्विषि॒मव॑ रुन्द्धे॒ या स॒र्पे यद्यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् ।। [53]
5.2.10.0
प॒श्चादे॒ताः पु॒रोऽक्ष्ण॒या कल्प॒तेऽस॑य्यँत॒म्पञ्च॑त्रिशच्च ।।10।।
5.2.10.1
प॒शुर्वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः प॒शवः॑ प॒शूने॒वास्मै॒ प्र ज॑नयति॒ पञ्च॑ दक्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् [54]
5.2.10.2
प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीन॒॒ रेतो॑ धीयते प॒श्चादे॒वास्मै प्रा॒चीन॒॒ रेतो॑ दधाति॒ पञ्च॑ पु॒रस्तात्प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात्प्राची॒स्तस्मात्प्रा॒चीन॒॒ रेतो॑ धीयते प्र॒तीचीः प्र॒जा जा॑यन्ते॒ पञ्चोत्तर॒तश्छ॑न्द॒स्याः प॒शवो॒ वै छ॑न्द॒स्याः प॒शूने॒व प्रजा॑ता॒न्त्स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यं वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒त्सैताः [55]
5.2.10.3
अ॒प॒स्या॑ अपश्य॒त्ता उपा॑धत्त॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यद॑प॒स्या॑ उप॒दधात्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दित्स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान्द॑धाति॒ तस्मा॒द्वद॑न्प्रा॒णन्पश्य॑ञ्छृ॒ण्वन्प॒शुर्जा॑यते॒ऽयम्पु॒रः [56]
5.2.10.4
भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑र्दाधारा॒यं द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तो मन॑ ए॒वैताभि॑र्दाधारा॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒ इति॑ प॒श्चाच्चक्षु॑रे॒वैताभि॑र्दाधारे॒दमु॑त्त॒रात्सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑र्दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वायाक्ष्ण॒या [57]
5.2.10.5
उप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒र्वसि॑ष्ठ आर्ध्नो॒द्या द॑क्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒ याः प्र॒तीची॒स्ताभि॑र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑र्ज॒मद॑ग्नि॒र्या ऊ॒र्ध्वास्ताभि॑र्वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धिं॒ वेद॒र्ध्नोत्ये॒व य आ॑सामे॒वम्ब॒न्धुतां॒ वेद॒ बन्धु॑मान्भवति॒ य आ॑सामे॒वं कॢप्तिं॒ वेद॒ कल्प॑ते [58]
5.2.10.6
अ॒स्मै॒ य आ॑सामे॒वमा॒यत॑नं॒ वेदा॒यत॑नवान्भवति॒ य आ॑सामे॒वम्प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑ सं॒यत॒ उप॑ दधाति प्रा॒णाने॒वास्मि॑न्धि॒त्वा सं॒यद्भिः॒ सं य॑च्छति॒ तत्सं॒यता॑ संय॒त्त्वमथो प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मात्प्राणापा॒नौ सं च॑रतो॒ विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ यद्वा अ॒ग्नेरस॑य्यँतम् [59]
5.2.10.7
असु॑वर्ग्यमस्य॒ तत्सु॑व॒र्ग्योऽग्निर्यत्स॒य्यँत॑ उप॒दधा॑ति॒ समे॒वैनं॑ यच्छति सुव॒र्ग्य॑मे॒वाक॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑भिरे॒वाया॒नव॑ रु॒न्द्धेऽयै॒र्वया॑सि स॒र्वतो॑ वायु॒मतीर्भवन्ति॒ तस्मा॑द॒य स॒र्वतः॑ पवते ।। [60]
5.2.11.0
नारीस्त्रि॒॒शच्च॑ ।।11।।
5.2.11.1
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुक्प॒ङ्क्त्या॑ स॒ह । बृ॒ह॒त्यु॑ष्णिहा॑ क॒कुत्सू॒चीभिः॑ शिम्यन्तु त्वा । द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ या च॒ षट्प॑दा । सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा । म॒हानाम्नी रे॒वत॑यो॒ विश्वा॒ आशाः प्र॒सूव॑रीः । मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शिम्यन्तु त्वा । र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य वा॒जिन॑स्त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा । नारीः [61]
5.2.11.2
ते॒ पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया । दे॒वाना॒म्पत्नी॒र्दिशः॑ सू॒चीभिः॑ शिम्यन्तु त्वा । कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒ऱ्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।। [62]
5.2.12.0
विलि॑ष्टन्त्रि॒॒शच्च॑ ।।12।।
5.2.12.1
कस्त्वा छ्यति॒ कस्त्वा॒ वि शास्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः । ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒त्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा । दैव्या॑ अध्व॒र्यव॑स्त्वा॒ छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः कृण्वन्तु॒ शिम्य॑न्तः । अ॒र्ध॒मा॒साः परू॑षि ते॒ मासाश्छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टं [63]
5.2.12.2
सू॒द॒य॒न्तु॒ ते॒ । पृ॒थि॒वी ते॒ऽन्तरि॑क्षेण वा॒युश्छि॒द्रम्भि॑षज्यतु । द्यौस्ते॒ नक्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या । शं ते॒ परेभ्यो॒ गात्रेभ्यः॒ शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत् ।। [64]
5.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे तृतीयः प्रश्नः ।।
5.3.0.0
उ॒त्स॒न्न॒य॒ज्ञ इन्द्राग्नी दे॒वा वा अ॑क्षणयास्तो॒मीया॑ अ॒ग्नेर्भा॒गोऽस्यग्ने॑ जा॒तान्र॒श्मिरिति॑ नाक॒सद्भि॒श्छन्दा॑सि॒ सर्वाभ्यो वृष्टि॒सनीर्देवासु॒राः कनी॑यासः प्र॒जाप॑ते॒रक्षि॒ द्वाद॑श ।।12।। उ॒त्स॒न्न॒य॒ज्ञो दे॒वा वै यस्य॒ मुख्य॑वतीर्नाक॒सद्भि॑रे॒वैताभि॑र॒ष्टाच॑त्वारिशत् ।।48।। उ॒त्स॒न्न॒य॒ज्ञः स॑र्व॒त्वाय॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.3.1.0
कॢप्त्या॑ उप॒धाय॑ प्राण॒भृतः॒ सम॑नसः कृ॒ष्णे पुरु॑षो॒ वय॒ इति॒ पञ्च॑ च ।।1।।
5.3.1.1
उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदाश्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वानाम्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जं क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नां कॢप्त्यै [1]
5.3.1.2
पञ्चोप॑ दधाति पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान्क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मात्समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ तस्मात्समा॒नाः सन्त॑ ऋ॒तवो॒ न जीर्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृतः॑ [2]
5.3.1.3
उ॒प॒दधा॑ति॒ तस्मा॒त्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्त्ति वृष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑ऱ्षेदनुपरि॒हार॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून््व॑ऱ्षति॒ यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्माद्वा॒युप्र॑च्युता दि॒वो वृ॑ष्टिरीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनसः॒ खलु॒ वै प॒शवो॒ नानाव्रता॒स्ते॑ऽप ए॒वाभि सम॑नसः [3]
5.3.1.4
यं का॒मये॑ताप॒शुः स्या॒दिति॑ वय॒स्यास्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒दसंज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्त्स्या॒दित्य॑प॒स्यास्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्यात्सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभिः॑ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रः पु॒रस्ता॒दुप॑ दधाति॒ तस्माच्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे [4]
5.3.1.5
मू॒र्ध॒न्वतीर्भवन्ति॒ तस्मात्पु॒रस्तान्मू॒र्धा पञ्च॒ दक्षि॑णाया॒॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मात्प॒श्चाद्वऱ्षी॑यान् पु॒रस्तात्प्रवणः प॒शुर्ब॒स्तो वय॒ इति॒ दक्षि॒णेऽस॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॒रेऽसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सि॒॒हो वय॒ इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्यं॑ दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षः पशू॒नामधि॑पतिः ।। [5]
5.3.2.0
अश्व॒मुप॑ पु॒रस्ता॒दुप॒ बार््ह॑ता ए॒ताश्चतु॑स्त्रिशच्च ।।2।।
5.3.2.1
इन्द्राग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒ वा इ॒मौ लो॒कौ विधृ॑ताव॒नयोर्लो॒कयो॒र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्राग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑- म॒न्तरि॑क्षे चिनुते॒ धृत्यै स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षं॒ वै स्व॑यमातृ॒ण्णान्तरि॑क्षमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ [6]
5.3.2.2
घ्रा॒प॒य॒ति॒ प्रा॒णमे॒वास्यां दधा॒त्यथो प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वानां॒ वै सु॑व॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृह॒न्॒यद्दिश्या॑ उप॒दधा॑ति दि॒शां विधृ॑त्यै॒ दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑ [7]
5.3.2.3
द॒धा॒ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ताद्धत्ते॒ तस्मात्पु॒रस्तात्प्रा॒णा ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मात्प्रा॒णानां॒ वाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशाक्षरा वि॒राड्वि॒राट्छन्द॑सां॒ ज्योति॒र्ज्योति॑रे॒व पु॒रस्ताद्धत्ते॒ तस्मात्पु॒रस्ता॒ज्ज्योति॒रुपास्महे॒ छन्दा॑सि प॒शुष्वा॒जिम॑यु॒स्तान्बृ॑ह॒त्युद॑जय॒त्तस्मा॒द्बाऱ्ह॑ताः [8]
5.3.2.4
प॒शव॑ उच्यन्ते॒ मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्माद्दक्षि॒णावृ॑तो॒ मासाः पृथि॒वी छन्द॒ इति॑ प॒श्चात्प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ षट्त्रि॑श॒त्सम्प॑द्यन्ते॒ षट्त्रि॑शदक्षरा बृह॒ती बाऱ्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्द्धे बृह॒ती छन्द॑सा॒॒ स्वाराज्य॒म्परी॑याय॒ यस्यै॒ताः [9]
5.3.2.5
उ॒प॒धी॒यन्ते॒ गच्छ॑ति॒ स्वाराज्य स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चात्स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णा द्वाववाञ्चौ प्रा॒णाना॑ सवीर्य॒त्वाय॑ मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात्प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ।। [10]
5.3.3.0
वै त्रि॒वृदिति॑ पु॒रस्तात्स॒व्यस्त्र॑योवि॒॒श इति॑ सुव॒र्गो वै पञ्च॑ च ।।3।। आ॒शुर्व्यो॑म ध॒रुणो॑ भा॒न्तः प्रतूर्तिरभिव॒र्तो वर्च॒स्तपो॒ योनि॒र्गर्भा॒ ओज॑स्स॒म्भर॑णः॒ क्रतु॑र्ब्र॒ध्नस्य॑ प्रति॒ष्ठा नाक॒ष्षोड॑श ।।
5.3.3.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्य॒न्ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति य॒ज्ञमु॒खं वै त्रि॒वृत् [11]
5.3.3.2
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑ दक्षिण॒तोऽन्नं॒ वै व्यो॑मान्न॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकवि॒॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा वा ए॑कवि॒॒शः प्रति॑ष्ठित्यै भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै भा॒न्त ओजः॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ प्रतूर्तिरष्टाद॒श इति॑ पु॒रस्तात् [12]
5.3.3.3
उप॑ दधाति॒ द्वौ त्रि॒वृता॑वभिपू॒र्वं य॑ज्ञमु॒खे वि या॑तयत्यभिव॒र्तः स॑वि॒॒श इति॑ दक्षिण॒तोऽन्नं॒ वा अ॑भिव॒र्तोऽन्न॑ सवि॒॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते॒ वर्चो द्वावि॒॒श इति॑ प॒श्चाद्यद्वि॑श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒तस्तस्मात्स॒व्यः [13]
5.3.3.4
हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्वि॒॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ चतु॑र्विशत्यक्षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खम् य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः पञ्चवि॒॒श इति॑ दक्षिण॒तोऽन्नं॒ वै गर्भा॒ अन्न॑म्पञ्चवि॒॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति स॒म्भर॑णस्त्रयोवि॒॒श इति॑ [14]
5.3.3.5
उ॒त्त॒र॒तस्तस्मात्स॒व्यो हस्त॑योः सम्भा॒र्य॑तरः॒ क्रतु॑रेकत्रि॒॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञमु॒खं वाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒॒श इति॑ दक्षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ब्रह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा त्र॑यस्त्रि॒॒श इति॑ प॒श्चात्प्रति॑ष्ठित्यै॒ नाकः॑ षट्त्रि॒॒श इत्यु॑त्तर॒तः सु॑व॒र्गो वै लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। [15]
5.3.4.0
वै ज॒नित्रं॑ पञ्चद॒शोऽदि॑त्यै भा॒गो वै ध॒र्त्रस्स॒माव॑द्वीर्यौ वि॒धा ततो॒ वा इ॒दं चतु॑र्दश च ।।4।। अ॒ग्नेर्नृ॒चक्ष॑साञ्ज॒नित्रं॑ मि॒त्रस्येन्द्र॑स्य॒ वसू॑नामादि॒त्याना॒मदि॑त्यै दे॒वस्य॑ सवि॒तुस्सा॑वि॒त्रव॑ती ध॒र्त्रो यावा॑नामृभू॒णाव्विँ॑व॒र्तश्चतु॑र्दश ।।
5.3.4.1
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वा अ॒ग्निर्य॑ज्ञमु॒खं दी॒क्षा य॑ज्ञमु॒खम्ब्रह्म॑ यज्ञमु॒खं त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति नृ॒चक्ष॑साम्भा॒गो॑ऽसीति॑ दक्षिण॒तः शु॑श्रु॒वासो॒ वै नृ॒चक्ष॒सोऽन्नं॑ धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्माज्जा॒तोऽन्न॑मत्ति ज॒नित्र॑ स्पृ॒त स॑प्तद॒शः स्तोम॒ इत्या॒हान्नं॒ वै ज॒नित्रम् [16]
5.3.4.2
अन्न॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न्दधाति दि॒वो वृ॒ष्टिर्वाताः स्पृ॒ता ए॑कवि॒॒शः स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कवि॒॒शः प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑ क्ष॒त्रमोजः॑ पञ्चद॒शः [17]
5.3.4.3
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ वसू॑नाम्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै वस॑वो ॑यज्ञमु॒ख रु॒द्रा य॑ज्ञमु॒खं च॑तुर्वि॒॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयत्यादि॒त्यानाम्भा॒गो॑ऽसीति॑ दक्षिण॒तोऽन्नं॒ वा आ॑दि॒त्या अन्न॑म्म॒रुतोऽन्नं॒ गर्भा॒ अन्न॑म्पञ्चवि॒॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गः [18]
5.3.4.4
अ॒सीति॑ प॒श्चात्प्र॑ति॒ष्ठा वा अदि॑तिः प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वः प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒ वै दे॒वः स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्धो ब्रह्मवर्च॒सित॑रः सावि॒त्रव॑ती भवति॒ प्रसूत्यै॒ तस्माद्ब्राह्म॒णाना॒मुदी॑ची स॒निः प्रसू॑ता ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै ध॒र्त्रः [19]
5.3.4.5
य॒ज्ञ॒मु॒खं च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ यावा॑नाम्भा॒गो॑ऽसीति॑ दक्षिण॒तो मासा॒ वै यावा॑ अर्धमा॒सा अया॑वा॒स्तस्माद्दक्षि॒णावृ॑तो॒ मासा॒ अन्नं॒ वै यावा॒ अन्न॑म्प्र॒जा अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत ऋभू॒णाम्भा॒गो॑ऽसीति॑ प॒श्चात् प्रति॑ष्ठित्यै विव॒र्तोऽष्टाचत्वारि॒॒श इत्यु॑त्तर॒तो॑ऽनयोर्लो॒कयोः सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ [20]
5.3.4.6
यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्यास्य॒ मुख्यो॑ जायते॒ यस्यान्न॑वतीर्दक्षिण॒तोऽत्त्यन्न॒मास्यान्ना॒दो जा॑यते॒ यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्यास्यौ॑ज॒स्वी जा॑यते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रय्यँदे॒षा वि॒धा [21]
5.3.4.7
वि॒धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्त्यन्न॒मास्यान्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वं वेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुन्द्धे॒ न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न्ता उपा॑दधत॒ ततो॒ वा इ॒दं व्यौच्छ॒द्यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते ।। [22]
5.3.5.0
उ॒त्त॒र॒तो ध॑त्ते॒ तस्मा॑दुपधी॒यन्त॒ ऋष॑योऽसृजत॒ यत्त्रिच॑त्वारिशच्च ।।5।।
5.3.5.1
अग्ने॑ जा॒तान्प्र णु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारि॒॒शः स्तोम॒ इति॑ दक्षिण॒तो ब्र॑ह्मवर्च॒सं वै च॑तुश्चत्वारि॒॒शो ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो ब्रह्मवर्च॒सित॑रः षोड॒शः स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मात् [23]
5.3.5.2
उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति॒ वज्रो॒ वै च॑तुश्चत्वारि॒॒शो वज्रः॑ षोड॒शो यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒ताश्चै॒व ज॑नि॒ष्यमा॑णाश्च॒ भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒ पुरी॑षवती॒म्मध्य॒ उप॑ दधाति॒ पुरी॑षं॒ वै मध्य॑मा॒त्मनः॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेदै॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते [24]
5.3.5.3
नास्य॑ स॒पत्नो॑ भवति प॒शुर्वा ए॒ष यद॒ग्निर्वि॒राज॑ उत्त॒मायां॒ चित्या॒मुप॑ दधाति वि॒राज॑मे॒वोत्त॒माम्प॒शुषु॑ दधाति॒ तस्मात्पशु॒मानु॑त्त॒मां वाचं॑ वदति॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वायाक्ष्ण॒योप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै छन्दा॑सि सुव॒र्ग्याण्यास॒न्तैर्दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तेनऱ्ष॑यः [25]
5.3.5.4
अ॒श्रा॒म्य॒न्ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑सापश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॒ ता उपा॑दधत॒ ताभि॒र्वै ते सु॑व॒र्गं लो॒कमा॑य॒न्॒ यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दा॑सि सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः स्तोम॑भागैरे॒वासृ॑जत॒ यत् [26]
5.3.5.5
स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ बृह॒स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निं चि॑नुते॒ बृह॒स्पति॒र्वा ए॒तां य॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ।। [27]
5.3.6.0
यु॒क्तग्रा॑वा प्र॒जा मि॑थु॒न्य॑न्तरि॑क्ष॒न्द्वाद॑श च ।।6।।
5.3.6.1
र॒श्मिरित्ये॒वादि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिव॑ सं॒धिरित्य॒न्तरि॑क्षम्प्रति॒धिरिति॑ पृथि॒वीव्विँ॑ष्ट॒म्भ इति॒ वृष्टि॑म्प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसून्प्रके॒त इति॑ रु॒द्रान्त्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄस्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून्रे॒वदित्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॑वा [28]
5.3.6.2
इन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्र॒म्पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒न स॒॒सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒ श्रोत्र॒न्ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न्तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त्ताः प्र॒जा मि॑थु॒नी [29]
5.3.6.3
भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः स॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राज॑नय॒त्ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न्ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒ सात्मा॒न्तरि॑क्ष रोहति॒ सप्रा॑णो॒ऽमुष्मि॑ल्लोँ॒के प्रति॑ तिष्ठ॒त्यव्य॑र्धुकः प्राणापा॒नाभ्याम्भवति॒ य ए॒वं वेद॑ ।। [30]
5.3.7.0
सम्भृ॑त॒य्यँन्ना॑क॒सदो॒ यन्ना॑क॒सद॒स्तत्प॑शू॒नामे॒षाव्वैँ द्वावि॑शतिश्च ।।7।।
5.3.7.1
ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तन्ना॑क॒सदां नाकस॒त्त्वय्यँन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म्भवति यजमानायत॒नं वै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधात्या॒यत॑नमे॒व तद्यज॑मानः कुरुते पृ॒ष्ठानां॒ वा ए॒तत्तेजः॒ सम्भृ॑तं॒ यन्ना॑क॒सदो॒ यन्ना॑क॒सदः॑ [31]
5.3.7.2
उ॒प॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्द्धे पञ्च॒चोडा॒ उप॑ दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑ल्लोँ॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वताभ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् [32]
5.3.7.3
प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मात्प॒श्चात्प्राची॒ पत्न्यन्वास्ते स्वयमातृ॒ण्णां च॑ विक॒र्णीं चोत्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी प्रा॒णं चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मात्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्या॒द्यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नाम् [33]
5.3.7.4
च॒ यज॑मानस्य च प्रा॒णं चायु॒श्चापि॑ दध्या॒त्तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां दधा॒त्यथो प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ए॒षा वै दे॒वानां॒ विक्रान्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रान्ति॒मनु॒ वि क्र॑मत उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒तउ॑पचारो॒ऽग्निर्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ।। [34]
5.3.8.0
तेज॑ ए॒व प॒शवः॑ प॒शवो॒ यज॑मान॒ एक॑ञ्च ।।8।।
5.3.8.1
छन्दा॒॒स्युप॑ दधाति प॒शवो॒ वै छन्दा॑सि प॒शूने॒वाव॑ रुन्द्धे॒ छन्दा॑सि॒ वै दे॒वानां वा॒मम्प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्द्ध ए॒ता ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिं॑ वि॒दां च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्द्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्द्धे गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व [35]
5.3.8.2
मु॒ख॒तो ध॑त्ते मूर्ध॒न्वतीर्भवन्ति मू॒र्धान॑मे॒वैन॑ समा॒नानां करोति त्रि॒ष्टुभ॒ उप॑ दधातीन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते॒ जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धेऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप्प्रा॒णाना॒मुत्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः प॒ङ्क्तीर॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दा॒॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवः॑ प॒शवः॑ [36]
5.3.8.3
छन्दा॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुन्द्धे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्वेँदाति॑च्छन्दस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ यदति॑च्छन्दसमुप॒दधा॑ति॒ वर्ष्मै॒वैन॑ समा॒नानां करोति द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ।। [37]
5.3.9.0
सु॒व॒र्गमे॒व ता ए॒व च॒त्वारि॑ च ।।9।।
5.3.9.1
सर्वाभ्यो॒ वै दे॒वताभ्यो॒ऽग्निश्ची॑यते॒ यत्स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निं वृ॑ञ्जीर॒न्॒ यत्स॒युज॑ उप॒दधात्या॒त्मनै॒वैन॑ स॒युजं॑ चिनुते॒ नाग्निना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ संत॑त ए॒वमे॒वैताभि॑र॒ग्निः संत॑तो॒ऽग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ता अ॒मूः कृ॑त्तिका अभव॒न््यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व [38]
5.3.9.2
लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्र वि॑शति॒ नार्ति॒मार्च्छ॑त्य॒ग्निं चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो प्रा॒णाने॒वैता यज॑मानस्य दाध्रत्ये॒ता वै दे॒वताः सुव॒र्ग्यास्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति ।। [39]
5.3.10.0
ए॒वं प्रा॒प्नोत्या॑दि॒त्या अ॑र्धय॒त्येका॒न्नप॑ञ्चा॒शच्च॑ ।।10।।
5.3.10.1
वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑ऱ्षेदनुपरि॒हार॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून््व॑ऱ्षति पुरोवात॒सनि॑र॒सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒प रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे सं॒यानी॑भि॒र्वै दे॒वा इ॒माल्लोँ॒कान्त्सम॑यु॒स्तत्सं॒यानी॑ना संयानि॒त्वय्यँत्सं॒यानी॑रुप॒दधा॑ति॒ यथा॒प्सु ना॒वा सं॒यात्ये॒वम् [40]
5.3.10.2
ए॒वैताभि॒र्यज॑मान इ॒माल्लोँ॒कान्त्सं या॑ति प्ल॒वो वा ए॒षोऽग्नेर्यत्सं॒यानी॒र्यत्सं॒यानी॑रुप॒दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्नि हर॒न्त्यहृ॑त ए॒वास्या॒ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याः [41]
5.3.10.3
ए॒वैन॒म्भूतिं॑ गमयन्त्य॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ योऽग्निं चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधात्य॒सावे॒वास्मि॑न्नादि॒त्यो रुचं॑ दधाति॒ यथा॒सौ दे॒वाना॒॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णा रोचते घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तम्प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति [42]
5.3.10.4
अथो॒ तेज॑सानुपरि॒हार॑ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्यार्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते॒ पञ्चोप॑ दधाति॒ पाङ्क्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न््यशो॑ दधाति ।। [43]
5.3.11.0
अभ॑व॒न्नायु॑रे॒वर्त॒व्या॑ उप॒ षड्वि॑शतिश्च ।।11।।
5.3.11.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्कनी॑यासो दे॒वा आस॒न्भूया॒॒सोऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूया॑सोऽभव॒न्वन॒स्पति॑भि॒रोष॑धीभिर्वरिव॒स्कृद॒सीती॒माम॑जय॒न्प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन्नू॒र्ध्वासीत्य॒मूम॑जयन्नन्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजय॒न्ततो॑ दे॒वा अभ॑वन्न् [44]
5.3.11.2
परासु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्यप्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒प रू॒पेणै॒वाग्निमव॑ रुन्द्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र्लो॒कान् द्रवि॑णावतः कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒व [45]
5.3.11.3
अ॒स्मि॒न्द॒धा॒त्यग्ने॒ यत्ते॒ पर॒॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ प्रि॒यमे॒वास्य॒ धामोपाप्नोति॒ तावेहि॒ स र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्येध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नाम्प्रि॒यं धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यं धामाव॑ रुन्द्धे सु॒मेक॒ इत्या॑ह संवत्स॒रो वै सु॒मेकः॑ संवत्स॒रस्यै॒व प्रि॒यं धामोपाप्नोति ।। [46]
5.3.12.0
सर्वं॑ पा॒प्मान॑मवृह॒द्द्वाद॑श च ।।12।।
5.3.12.1
प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑पत॒त्तदश्वो॑ऽभव॒द्यदश्व॑य॒त्तदश्व॑स्याश्व॒त्वन्तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑ति॒॒ सर्वं॑ करोति॒ योऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒ज सर्वं॒ वा ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्त्सर्व॑म्पा॒प्मानम् [47]
5.3.12.2
त॒र॒ति॒ तर॑ति ब्रह्मह॒त्यां योऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वं वेदोत्त॑रं॒ वै तत्प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तोऽन्येषाम्पशू॒नाम्वै॑त॒सः कटो॑ भवत्य॒प्सुयो॑नि॒र्वा अश्वोऽप्सु॒जो वे॑त॒सः स्व ए॒वैनं॒ योनौ॒ प्रति॑ ष्ठापयति चतुष्टो॒मः स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मः स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ।। [48]
5.4.0.0
दे॒वा॒सु॒राः तेनर्त॒व्या॑ रु॒द्रोऽश्म॑न्नृ॒षदे॒ वडुदे॑नं॒ प्राची॒मिति॒ वसो॒र्धारा॑म॒ग्निर्दे॒वेभ्यः॑ सुव॒र्गाय॑ यत्राकू॒ताय॑ छन्द॒श्चितं॒ पव॑स्व॒ द्वाद॑श ।।12।। दे॒वा॒सु॒रा अ॒जायां॒ वै ग्रु॑मु॒ष्टिः प्र॑थ॒मो दे॑वय॒तामे॒तद्वै छन्द॑सामृ॒ध्नोत्य॒ष्टौ प॑ञ्चाशचत् ।।58।। दे॒वा॒सु॒राः सर्वं॑ जयति ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे चतुर्थः प्रश्नः ।।
5.4.1.0
भ्रातृ॑व्यो लो॒क ए॒वैतान्येक॑चत्वारिशच्च ।।1।।
5.4.1.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यं वी॑र्यमा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्नि सत॑नुं चिनुते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यः [1]
5.4.1.2
भ॒व॒ति॒ य॒ज्ञो दे॒वेभ्योऽपाक्राम॒त्तम॑व॒रुधं॒ नाश॑क्नुव॒न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्द्धे॒ त्रय॑स्त्रिशत॒मुप॑ दधाति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽथो॒ सात्मा॑नमे॒वाग्नि सत॑नुं चिनुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के [2]
5.4.1.3
भ॒व॒ति॒ य ए॒वं वेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैन॒॒ समि॑न्द्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योती॑षि॒ तान्ये॒वाव॑ रुन्द्धे सु॒कृतां॒ वा ए॒तानि॒ ज्योती॑षि॒ यन्नक्ष॑त्राणि॒ तान्ये॒वाप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॑ [3]
5.4.1.4
ज्योती॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ यत्सस्पृ॑ष्टा उपद॒ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दध्या॒दव॑ऱ्षुकः प॒र्जन्यः॑ स्या॒दस॑स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कं क॑रोति॒ वऱ्षु॑कः प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याः प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्तस्मात्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ।। [4]
5.4.2.0
सयो॑निमे॒ता वै क॑रो॒त्येका॒न्नच॑त्वारि॒॒शच्च॑ ।।2।।
5.4.2.1
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नां कॢप्त्यै द्वं॒द्वमुप॑ दधाति॒ तस्माद्द्वं॒द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्वं॒द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑ अन्तः॒श्लेष॑णं॒ वा ए॒ताश्चिती॑नां॒ यदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चितीनां॒ विधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनिः॒ सयो॑निम् [5]
5.4.2.2
ए॒वाग्निं चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दित्स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ संवत्स॒रो वा ए॒तम्प्र॑ति॒ष्ठायै॑ नुदते॒ योऽग्निं चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीं चितिं॑ चिनुते॒ षड्वा ऋ॒तवः॑ संवत्स॒र ऋ॒तुष्वे॒व सं॑वत्स॒रे प्रति॑ तिष्ठत्ये॒ता वै [6]
5.4.2.3
अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नानाम्भवति॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वताभ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यङ्गि॑रसः सुव॒र्गं लो॒कं यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त्तामृषि॑भ्यः॒ प्रत्यौ॑ह॒न् तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करोति [7]
5.4.2.4
अथो॑ रू॒पेणै॒वैन॒॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गं लो॒कमे॑ति साह॒स्रव॑ता॒ प्रोक्ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः कुरुते॒ ता ए॑नं काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑ल्लोँ॒क उप॑ तिष्ठन्ते ।। [8]
5.4.3.0
प॒शू॒नाय्यँन्तोऽग्रे॑ जुहो॒त्यप॑रिवर्गमे॒वैन॑ शमयति त्रि॒॒शच्च॑ ।।3।।
5.4.3.1
रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तऱ्हि॑ जा॒तो यऱ्हि॒ सर्व॑श्चि॒तः स यथा॑ व॒त्सो जा॒तः स्तन॑म्प्रे॒फ्सत्ये॒वं वा ए॒ष ए॒तऱ्हि॑ भाग॒धेय॒म्प्रेप्स॑ति॒ तस्मै॒ यदाहु॑तिं॒ न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेच्छतरु॒द्रीयं॑ जुहोति भाग॒धेये॑नै॒वैन॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ यद्ग्रा॒म्याणाम्पशू॒नाम् [9]
5.4.3.2
पय॑सा जुहु॒याद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्याञ्ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिलाश्च ग॒वीधु॑का॒श्चेत्य॑जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यानङ्गि॑रसः सुव॒र्गं लो॒कं यन्तः॑ [10]
5.4.3.3
अ॒जायां घ॒र्मम्प्रासि॑ञ्च॒न्त्सा शोच॑न्ती प॒र्णम्परा॑जिहीत॒ सो ऽर्को॑ऽभव॒त्तद॒र्कस्यार्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒ङ्तिष्ठ॑ञ्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते चर॒माया॒मिष्ट॑कायां जुहोत्यन्त॒त ए॒व रु॒द्रं नि॒रव॑दयते त्रेधाविभ॒क्तं जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्त्स॒माव॑द्वीर्यान्करो॒तीय॒त्यग्रे॑ जुहोति [11]
5.4.3.4
अथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ षट्त्सम्प॑द्य॒न्ते षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ शमयति॒ यद॑नुपरि॒क्रामं॑ जुहु॒याद॑न्तरवचा॒रिण॑ रु॒द्रं कु॑र्या॒दथो॒ खल्वा॑हुः॒ कस्यां॒ वाह॑ दि॒शि रु॒द्रः कस्यां॒ वेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैन॑ शमयति [12]
5.4.3.5
ए॒ता वै दे॒वताः सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानं वाचयति॒ ताभि॑रे॒वैन॑ सुव॒र्गं लो॒कं ग॑मयति॒ यं द्वि॒ष्यात्तस्य॑ संच॒रे प॑शू॒नां न्य॑स्ये॒द्यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ।। [13]
5.4.4.0
शुग्वे॑त॒सो॑ऽपाम॑ष्टा॒भिर्विक॑र््षति॒ नान्तरेका॒न्नप॑ञ्चा॒शच्च॑ ।।4।।
5.4.4.1
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑नं तृ॒प्तोऽक्षु॑ध्य॒न्नशो॑चन्न॒मुष्मि॑ल्लोँ॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वं वेद॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सररा॒णा इत्या॒हान्नं॒ वा ऊर्गन्न॑म्म॒रुतोऽन्न॑मे॒वाव॑ रु॒न्द्धेऽश्म॑स्ते॒ क्षुद॒मुं ते॒ शुक् [14]
5.4.4.2
ऋ॒च्छ॒तु॒ यं द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चार्पयति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुच॑ शमयति॒ त्रिः पुनः॒ पर्ये॑ति॒ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुच॑ शमयत्य॒पां वा ए॒तत्पुष्पं॒ यद्वे॑त॒सो॑ऽपाम् [15]
5.4.4.3
शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑ऱ्ष॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुच॑ शमयति॒ यो वा अ॒ग्निं चि॒तम्प्र॑थ॒मः प॒शुर॑धि॒क्राम॑तीश्व॒रो वै त शु॒चा प्र॒दहो म॒ण्डूके॑न॒ वि क॑ऱ्षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॒ तमे॒व शु॒चार्प॑यत्यष्टा॒भिर्वि क॑ऱ्षति [16]
5.4.4.4
अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुच॑ शमयति पाव॒कव॑तीभि॒रन्नं॒ वै पा॑व॒कोऽन्ने॑नै॒वास्य॒ शुच॑ शमयति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नम् काऱ्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर्ध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒ऽन्तर॒न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यां नान्तः [17]
5.4.4.5
ए॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्य॑ रुन्द्धे॒ नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑यासमुप॒चर॑न्त्य॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति पाव॒को अ॒स्मभ्य॑ शि॒वो भ॒वेत्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या॒॒ शान्त्यै ।। [18]
5.4.5.0
दे॒वाः प्रा॑जाप॒त्यो वृ॒त्रश्चि॒रं पा॒प्मन॑श्चत्वारि॒॒शच्च॑ ।।5।।
5.4.5.1
नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भतेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑मास्य वषट्का॒रः स्या॒द्यन्न व॑षट्कु॒॒र्याद्रक्षा॑सि य॒ज्ञ ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञ रक्षा॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वाः [19]
5.4.5.2
अ॒हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभयान्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावोक्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानः प्रीणाति॒ ते यज॑मानम्प्रीणन्ति द॒ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षाहु॒तादो ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनावोक्षति प्राजाप॒त्यः [20]
5.4.5.3
वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्या अनुपरि॒चार॒मवोक्ष॒त्यप॑रिवर्गमे॒वैनान्प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑र््ऋध्यते॒ योऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रः [21]
5.4.5.4
ह॒तः षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्स ए॒ताम॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒ यद॒ग्नयेऽनी॑कवत॒ आहु॑तिं जु॒होत्य॒ग्निरे॒वास्यानी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त चि॒रम्पा॒प्मनः॑ [22]
5.4.5.5
निर्मु॑च्ये॒तेत्येकै॑कं॒ तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त ता॒जक्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒तेऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्यां जुहोति॒ नानै॒व सू॒क्तयोर्वी॒र्यं॑ दधा॒त्यथो॒ प्रति॑ष्ठित्यै ।। [23]
5.4.6.0
प्रा॒णैः पोषोऽप्र॒त्याग्नीध्रे॒ पति॑मे॒ष दश॑ च ।।6।।
5.4.6.1
उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृगे॒व तत्ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मै॑ भाग॒धेयं॑ करो॒त्यौदु॑म्बरीर्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णैः [24]
5.4.6.2
ए॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवीर्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒तेऽपाम॑तिं दुर्म॒तिम्बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ [25]
5.4.6.3
प॒शूने॒वाव॑ रुन्द्धे ष॒ड्भिऱ्ह॑रति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒ऱ्हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसूत्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न्तेन॒ वै तेऽप्र॒ति [26]
5.4.6.4
असु॑रानजय॒न्तदप्र॑तिरथस्याप्रतिरथ॒त्वय्यँदप्र॑तिरथं द्वि॒तीयो॒ होता॒न्वाहाप्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ्जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चम्भ॑वति॒ दशाक्षरा वि॒राड्वि॒राजे॒मौ लो॒कौ विधृ॑ताव॒नयोर्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वाग्नीध्र॒माग्नीध्रे [27]
5.4.6.5
अश्मा॑नं॒ नि द॑धाति स॒त्त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मध्ये॑ दि॒वो निहि॑तः पृश्नि॒रश्मेत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुन्द्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒ विश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑ना॒॒ सत्प॑ति॒म्पतिम् [28]
5.4.6.6
इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे सुम्न॒हूर्य॒ज्ञो दे॒वा आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्नम्प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ यक्ष॑द॒ग्निर्दे॒वो दे॒वा आ च॑ वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒ नि गृ॑ह्णाति ।। [29]
5.4.7.0
अग्ने॒ प्रेह्यव॑ स्म दुहे॒ तां प्र॒जाप॑तेः सा॒क्षान्म॑नुष्यवि॒शमेक॑विशतिश्च ।।7।।
5.4.7.1
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒ क्रम॑ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्त्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापेक्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ [30]
5.4.7.2
प्र॒थ॒मो दे॑वय॒तामित्या॑हो॒भयेष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोनुवा॒क्या॑मन्वा॑ह॒ प्रत्त्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ [31]
5.4.7.3
रु॒न्द्धे॒ द॒ध्नः पू॒र्णामौदु॑म्बरी स्वयमातृ॒ण्णायां जुहो॒त्यूर्ग्वै दध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णामुष्या॑मे॒वोर्जं॑ दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदुम्ब॑री॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म [32]
5.4.7.4
वै दे॒वा असु॑राणा शतत॒ऱ्हास्तृ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारव्विँ॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे॒ ता स॑वि॒तुर्वरेण्यस्य चि॒त्रामिति॑ शमी॒मयी॒॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चितं॑ दु॒हेऽग्नि॒चिद्वा॒ग्निं दु॑हे॒ ताम् [33]
5.4.7.5
स॒वि॒तुर्वरेण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त्तेन॑ ह स्मैन॒॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒दधात्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑तेः [34]
5.4.7.6
आप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्द्धे द॒ध्ना पु॒रस्ताज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रोऽग्निर्वैश्वान॒रः सा॒क्षात् [35]
5.4.7.7
ए॒व वैश्वान॒रमव॑ रुन्द्धे॒ यत्प्र॑याजानूया॒जान्कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञस्य॑ दर्विहो॒मं क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं वै वैश्वान॒रो विण्म॒रुतो वैश्वान॒र हु॒त्वा मा॑रु॒ताञ्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बध्नात्यु॒च्चैर्वैश्वान॒रस्या श्रा॑वयत्युपा॒॒शु मा॑रु॒ताञ्जु॑होति॒ तस्माद्रा॒ष्ट्रं विश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्द्धे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्द्धे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ।। [36]
5.4.8.0
वि वै य॒ज्ञस्साम॑ च म॒ इत्या॑ह च ति॒स्रश्चैका॒न्नप॑ञ्चा॒शच्च॑ ।।8।।
5.4.8.1
वसो॒र्धारां जुहोति॒ वसोर्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मि॑ल्लोँ॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्द्धेऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुन्द्धे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒ वि [37]
5.4.8.2
छि॒न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यं॒ विच्छि॑नत्ति॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒॒ सं त॑नुया॒मिति॒ संत॑तां॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्य॒॒ सं त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः संवत्स॒रः संवत्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रु॒न्द्धेऽन्नं॑ च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒तद्वै [38]
5.4.8.3
अन्न॑स्य रू॒प रू॒पेणै॒वान्न॒मव॑ रुन्द्धे॒ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयोन्ये॒वान्न॒मव॑ रुन्द्धेऽर्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्द्धे॒ यत्सर्वे॑षाम॒र्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम्भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञः [39]
5.4.8.4
वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्द्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒प रू॒पेणै॒व य॒ज्ञमव॑ रुन्द्धेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒प रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्ध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑ह [40]
5.4.8.5
ए॒तद्वै छन्द॑सा रू॒प रू॒पेणै॒व छन्दा॒॒स्यव॑ रुन्द्धे॒ गर्भाश्च मे व॒त्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒व प॒शूनव॑ रुन्द्धे॒ कल्पाञ्जुहो॒त्यकॢ॑प्तस्य॒ कॢप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायोत्त॒राव॑ती भवतो॒ऽभिक्रान्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं वा एका॑ च ति॒स्रश्च॑ [41]
5.4.8.6
म॒नु॒ष्य॒छ॒न्द॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सं चै॒व म॑नुष्यछन्द॒सं चाव॑ रुन्द्ध॒ आ त्रय॑स्त्रिशतो जुहोति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्द्ध॒ आष्टाच॑त्वारिशतो जुहोत्य॒ष्टाच॑त्वारिशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति ।। [42]
5.4.9.0
ओष॑धयः स॒प्ताभि दिशो॒ऽन्यथा॒ द्वे च॑ ।।9।।
5.4.9.1
अ॒ग्निर्दे॒वेभ्योऽपाक्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒ यद्वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्त [43]
5.4.9.2
आ॒र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्द्धे॒ऽग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णा॒न्तस्मा॑दग्नि॒चिद्वऱ्ष॑ति॒ न धा॑वे॒दव॑रुद्ध॒॒ ह्य॑स्यान्न॒मन्न॑मिव॒ खलु॒ वै व॒ऱ्षय्यँद्धावे॑द॒न्नाद्याद्धावेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभि [44]
5.4.9.3
उ॒पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै श्वे॒तव॑त्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्यं॑ दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्द्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशः॑ [45]
5.4.9.4
अ॒भि ज॑यत्यग्नि॒चित॑ ह॒ वा अ॒मुष्मि॑ल्लोँ॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मि॑ल्लोँ॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्द्धे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒प रू॒पेणै॒व वात॒मव॑ रुन्द्धेऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथाहु॑तिरव॒कल्प॑ते ।। [46]
5.4.10.0
त्रि॒वृदथ॒ तिष्ठ॑न्त्यग्न्या॒धेये॑न॒ नाचि॑नुत स॒प्तद॑श च ।।10।।
5.4.10.1
सुव॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैन॒॒ स ए॑नं यु॒क्तः सु॑व॒र्गं लो॒कम॒भि व॑हति॒ यत्सर्वा॑भिः प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तोऽस्या॒ग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातःसव॒ने॑ऽभि मृ॑शति त्रि॒वृत् [47]
5.4.10.2
वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं यु॑नक्ति॒ यथान॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न््वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तोऽन्वारो॑हति॒ द्वाभ्या॒म्प्रति॑ष्ठित्या॒ एक॒याप्र॑स्तुत॒म्भव॒त्यथ॑ [48]
5.4.10.3
अ॒भि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ संत॑त्यै॒ प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ योऽग्निं चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ यां वा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒ स्रव॑ति॒ वै सा ता स्रव॑न्तीं य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञं यज॑मानो॒ यत्पु॑नश्चि॒तिं चि॑नु॒त आहु॑तीना॒म्प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति [49]
5.4.10.4
न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैनं॒ छन्द॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैनं॑ चिनुते नपा॒त्को वै नामै॒षोऽग्निर्यत्पु॑नश्चि॒तिर्य ए॒वं वि॒द्वान्पु॑नश्चि॒तिं चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति॒ यथा॒ वै पु॑नरा॒धेय॑ ए॒वम्पु॑नश्चि॒तिर्योऽग्न्या॒धेये॑न॒ न [50]
5.4.10.5
ऋ॒ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ योऽग्निं चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिं चि॑नुते॒ यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा व्या॒घ्र सु॒प्तम्बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑यासम्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॒त्स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत॒ तया॒ वै स आर्ध्नो॒द्यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्यै ।। [51]
5.4.11.0
प्र भ॑वति यजमानायत॒नं वा अ॒ष्टाच॑त्वारिशच्च ।।11।।
5.4.11.1
छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दा॑सि पशु॒माने॒व भ॑वति श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सा॒म्पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं लो॒कम्प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त शीऱ्ष॒ण्वान॒मुष्मि॑ल्लोँ॒के स्या॒मिति॑ शीऱ्ष॒ण्वाने॒वामुष्मि॑ल्लोँ॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒ चतुः॑सीतम्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्रउग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्प्र [52]
5.4.11.2
ए॒व भ्रातृ॑व्यान्नुदत उभ॒यतः॑प्रउगं चिन्वीत॒ यः का॒मये॑त॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्रथचक्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्य॒वान््वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रति द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑म्भ्रियते॒ सयोन्ये॒वान्न॒मव॑ रुन्द्धे समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति [53]
5.4.11.3
प॒रि॒चा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं वै [54]
5.4.11.4
होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यं वी॒र्य॑मव॑ रुन्द्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे॒ षण्मार्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ।। [55]
5.4.12.0
अह॑र्भवति॒ वा अश्वोऽह॑र्भवति॒ दश॑ च ।।12।।
5.4.12.1
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत्ति॒स्रो॑ऽनु॒ष्टुभ॒स्तस्मा॒दश्श्व॑स्त्रि॒भिस्तिष्ठ॑ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒त्सर्वा॑श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒त्पला॑यते पर॒मा वा ए॒षा छन्द॑सां॒ यद॑नु॒ष्टुक्प॑र॒मश्च॑तुष्टो॒मः स्तोमा॑नाम्पर॒मस्त्रि॑रा॒त्रो य॒ज्ञानाम्पर॒मोऽश्वः॑ पशू॒नाम्पर॑मेणै॒वैन॑म्पर॒मतां गमयत्येकवि॒॒शमह॑र्भवति [56]
5.4.12.2
यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति॒ शक्व॑रयः पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्येन्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑र॒ण्या यच्छक्व॑रयः पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति र॒श्मिना॒ वा अश्वः॑ [57]
5.4.12.3
य॒त ईश्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ पराम्परा॒वतं॒ गन्तो॒र्त्पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ संकृ॑त्यच्छावाकसा॒मम्भ॑वत्युत्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यत्संकृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्याप्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेनाप्नोति॒ सर्वं॑ जयति ।। [58]
5.5.0.0
यदेके॑न प्र॒जाप॑तिः प्रे॒णानु॒ यजु॒षापो॑ वि॒श्वक॒र्माग्न॒ आ या॑हि सुव॒र्गाय॒ वज्रो॑ गाय॒त्रेणाग्न॑ उदधे स॒मीचीन्द्रा॑य म॒युर॒पां बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः शका॒ रुरु॑रल॒जस्सु॑प॒र्ण आग्ने॒योऽश्वो॒ऽग्नयेऽनी॑कवते॒ चतु॑र्विशतिः ।।24।। यदेके॑न॒ स पापी॑याने॒तद्वा अ॒ग्नेर्धनु॒स्तद्दे॒वास्त्वेन्द्र॑ज्येष्ठा अ॒पां नप्रेऽश्व॑स्तूप॒रो द्विष॑ष्टिः ।।62।। यदेके॒नैक॑शितिपा॒त्पेत्वः॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे पञ्चमः प्रश्नः ।।
5.5.1.0
य॒द्रिय॑ङ्वा॒युर्यच्छ्म॑श्रु॒णस्तद्वा॒योर्नि॒र्वप॑ति दे॒वता॒स्तस्मा॑दा॒प्त्वाष्टात्रि॑शच्च ।।1।।
5.5.1.1
यदेके॑न सस्था॒पय॑ति य॒ज्ञस्य॒ संत॑त्या॒ अवि॑च्छेदायै॒न्द्राः प॒शवो॒ ये मु॑ष्क॒रा यदै॒न्द्राः सन्तो॒ऽग्निभ्य॑ आल॒भ्यन्ते॑ दे॒वताभ्यः स॒मदं॑ दधात्याग्ने॒यीस्त्रि॒ष्टुभो॑ याज्यानुवा॒क्याः कुर्या॒द्यदाग्ने॒यीस्तेनाग्ने॒या यत्त्रि॒ष्टुभ॒स्तेनै॒न्द्राः समृ॑द्ध्यै॒ न दे॒वताभ्यः स॒मदं॑ दधाति वा॒यवे॑ नि॒युत्व॑ते तूप॒रमा ल॑भते॒ तेजो॒ऽग्नेर्वा॒युस्तेज॑स ए॒ष आ ल॑भ्यते॒ तस्माद्य॒द्रिय॑ङ्वा॒युः [1]
5.5.1.2
वाति॑ त॒द्रिय॑ङ्ङ॒ग्निर्द॑हति॒ स्वमे॒व तत्तेजोऽन्वे॑ति॒ यन्न नि॒युत्व॑ते॒ स्यादुन्माद्ये॒द्यज॑मानो नि॒युत्व॑ते भवति॒ यज॑मान॒स्यानु॑न्मादाय वायु॒मती श्वे॒तव॑ती याज्यानुवा॒क्ये॑ भवतः सतेज॒स्त्वाय॑ हिरण्यग॒र्भः सम॑वर्त॒ताग्र॒ इत्या॑घा॒रमा घा॑रयति प्र॒जाप॑ति॒र्वै हि॑रण्यग॒र्भः प्र॒जाप॑तेरनुरूप॒त्वाय॒ सर्वा॑णि॒ वा ए॒ष रू॒पाणि॑ पशू॒नाम्प्रत्या ल॑भ्यते॒ यच्छ्म॑श्रु॒णस्तत् [2]
5.5.1.3
पुरु॑षाणा रू॒पम् यत्तू॑प॒रस्तदश्वा॑ना॒य्यँद॒न्यतो॑द॒न्तद्गवा॒य्यँदव्या॑ इव श॒फास्तदवी॑ना॒य्यँद॒जस्तद॒जानाव्वाँ॒युर्वै प॑शू॒नाम्प्रि॒यं धाम॒ यद्वा॑य॒व्यो॑ भव॑त्ये॒तमे॒वैन॑म॒भि सं॑जाना॒नाः प॒शव॒ उप॑ तिष्ठन्ते वाय॒व्यः॑ का॒र्या(३)ः प्रा॑जाप॒त्या(३) इत्या॑हु॒र्यद्वा॑य॒व्यं॑ कु॒र्यात्प्र॒जाप॑तेरिया॒द्यत्प्रा॑जाप॒त्यं कु॒र्याद्वा॒योः [3]
5.5.1.4
इ॒या॒द्यद्वा॑य॒व्यः॑ प॒शुर्भव॑ति॒ तेन॑ वा॒योर्नैति॒ यत्प्रा॑जाप॒त्यः पु॑रो॒डाशो॒ भव॑ति॒ तेन॑ प्रा॒जाप॑ते॒र्नैति॒ यद्द्वाद॑शकपाल॒स्तेन॑ वैश्वान॒रान्नैत्याग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पति दीक्षि॒ष्यमा॑णो॒ऽग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वताश्चै॒व य॒ज्ञं चा र॑भते॒ऽग्निर॑व॒मो दे॒वता॑नां॒ विष्णुः॑ पर॒मो यदाग्नावैष्ण॒वमेका॑दशकपालं नि॒र्वप॑ति दे॒वताः [4]
5.5.1.5
ए॒वोभ॒यतः॑ परि॒गृह्य॒ यज॑मा॒नोऽव॑ रुन्द्धे पुरो॒डाशे॑न॒ वै दे॒वा अ॒मुष्मि॑ल्लोँ॒क आर्धुवञ्च॒रुणा॒स्मिन््यः का॒मये॑ता॒मुष्मि॑ल्लोँ॒क ऋ॑ध्नुया॒मिति॒ स पु॑रो॒डाशं॑ कुर्वीता॒मुष्मि॑न्ने॒व लो॒क ऋ॑ध्नोति॒ यद॒ष्टाक॑पाल॒स्तेनाग्ने॒यो यत्त्रि॑कपा॒लस्तेन॑ वैष्ण॒वः समृ॑द्ध्यै॒ यः का॒मये॑ता॒स्मिल्लोँ॒क ऋ॑ध्नुया॒मिति॒ स च॒रुं कु॑र्वीता॒ग्नेर्घृ॒तं विष्णोस्तण्डु॒लास्तस्मात् [5]
5.5.1.6
च॒रुः का॒र्योऽस्मिन्ने॒व लो॒क ऋ॑ध्नोत्यादि॒त्यो भ॑वती॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठ॒त्यथो॑ अ॒स्यामे॒वाधि॑ य॒ज्ञं त॑नुते॒ यो वै सं॑वत्स॒रमुख्य॒मभृ॑त्वा॒ग्निं चि॑नु॒ते यथा॑ सा॒मि गर्भो॑ऽव॒पद्य॑ते ता॒दृगे॒व तदार्ति॒मार्च्छेद्वैश्वान॒रं द्वाद॑शकपालम् पु॒रस्ता॒न्निर्व॑पेत्संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रो यथा॑ संवत्स॒रमा॒प्त्वा [6]
5.5.1.7
का॒ल आग॑ते वि॒जाय॑त ए॒वमे॒व सं॑वत्स॒रमा॒प्त्वा का॒ल आग॑ते॒ऽग्निं चि॑नुते॒ नार्ति॒मार्च्छ॑त्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वैश्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्द्धे॒ त्रीण्ये॒तानि॑ ह॒वीषि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒॒ रोहा॑य ।। [7]
5.5.2.0
अ॒ग्नि॒वान्प॑शु॒मान॑सा॒नीति॒ वा अ॒ग्निर्ध॑विष्ये मृशेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द॒ तेन॒ ताना॑दि॒त्या अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यञ्च॑त्वारि॒॒शच्च॑ ।।2।।
5.5.2.1
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णानु॒ प्रावि॑श॒त्ताभ्यः॒ पुनः॒ सम्भ॑वितुं॒ नाश॑क्नो॒त्सोऽब्रवीदृ॒ध्नव॒दित्स यो मे॒तः पुनः॑ संचि॒नव॒दिति॒ तं दे॒वाः सम॑चिन्व॒न्ततो॒ वै त आर्ध्नुव॒न््यत्स॒मचि॑न्व॒न्तच्चित्य॑स्य चित्य॒त्वम् य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒ध्नोत्ये॒व कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुरग्नि॒वान् [8]
5.5.2.2
अ॒सा॒नीति॒ वा अ॒ग्निश्ची॑यतेऽग्नि॒वाने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर्दे॒वा मा॑ वेद॒न्निति॒ वा अ॒ग्निश्ची॑यते वि॒दुरे॑नं दे॒वाः कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर्गृ॒ह्य॑सा॒नीति॒ वा अ॒ग्निश्ची॑यते गृ॒ह्ये॑व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः पशु॒मान॑सा॒नीति॒ वा अ॒ग्निः [9]
5.5.2.3
ची॒य॒ते॒ प॒शु॒माने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः स॒प्त मा॒ पुरु॑षा॒ उप॑ जीवा॒निति॒ वा अ॒ग्निश्ची॑यते॒ त्रयः॒ प्राञ्च॒स्त्रयः॑ प्र॒त्यञ्च॑ आ॒त्मा स॑प्त॒म ए॒ताव॑न्त ए॒वैन॑म॒मुष्मि॑ल्लोँ॒क उप॑ जीवन्ति प्र॒जाप॑तिर॒ग्निम॑चिकीषत॒ तम्पृ॑थि॒व्य॑ब्रवी॒न्न मय्य॒ग्निं चेष्य॒सेति॑ मा धक्ष्यति॒ सा त्वा॑तिद॒ह्यमा॑ना॒ वि ध॑विष्ये [10]
5.5.2.4
स पापी॑यान्भविष्य॒सीति॒ सोऽब्रवी॒त्तथा॒ वा अ॒हं क॑रिष्यामि॒ यथा त्वा॒ नाति॑ध॒क्ष्यतीति॒ स इ॒माम॒भ्य॑मृशत् प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देती॒मामे॒वेष्ट॑कां कृ॒त्वोपा॑ध॒त्तान॑तिदाहाय॒ यत्प्रत्य॒ग्निं चि॑न्वी॒त तद॒भि मृ॑शेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द [11]
5.5.2.5
इती॒मामे॒वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽन॑तिदाहाय प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तमुख्य॑मपश्य॒त्त सं॑वत्स॒रम॑बिभ॒स्ततो॒ वै स प्राजा॑यत॒ तस्मात्संवत्स॒रम्भा॒र्यः॑ प्रैव जा॑यते॒ तं वस॑वोऽब्रुव॒न्प्र त्वम॑जनिष्ठा व॒यम्प्र जा॑यामहा॒ इति॒ तं वसु॑भ्यः॒ प्राय॑च्छ॒त्तं त्रीण्यहान्यबिभरु॒स्तेन॑ [12]
5.5.2.6
त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिशतं च॒ तस्मात्त्र्य॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ तान्रु॒द्रा अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यम्प्र जा॑यामहा॒ इति॒ त रु॒द्रेभ्यः॒ प्राय॑च्छ॒न्त षडहान्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिशतं च॒ तस्मात्षड॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ ताना॑दि॒त्या अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यम् [13]
5.5.2.7
प्र जा॑यामहा॒ इति॒ तमा॑दि॒त्येभ्यः॒ प्राय॑च्छ॒न्तं द्वाद॒शाहान्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिशतं च॒ तस्माद्द्वादशा॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ तेनै॒व ते स॒हस्र॑मसृजन्तो॒खा स॑हस्रत॒मीय्यँ ए॒वमुख्य॑ साह॒स्रं वेद॒ प्र स॒हस्र॑म्प॒शूनाप्नोति ।। [14]
5.5.3.0
यु॒ञ्जा॒नेष्वग्ने प्रा॒चीन॑मुत्ता॒नव्वाँ॑म॒भृत॒ञ्चतु॑र्विशतिश्च ।।3।।
5.5.3.1
यजु॑षा॒ वा ए॒षा क्रि॑यते॒ यजु॑षा पच्यते॒ यजु॑षा॒ वि मु॑च्यते॒ यदु॒खा सा वा ए॒षैतऱ्हि॑ या॒तयाम्नी॒ सा न पुनः॑ प्र॒युज्येत्या॑हु॒रग्ने॑ यु॒क्ष्वा हि ये तव॑ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒॒ इत्यु॒खायां जुहोति॒ तेनै॒वैना॒म्पुनः॒ प्र यु॑ङ्क्ते॒ तेनाया॑तयाम्नी॒ यो वा अ॒ग्निं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेष्वग्ने [15]
5.5.3.2
यु॒क्ष्वा हि ये तव॑ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒॒ इत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ब्रह्मवा॒दिनो॑ वदन्ति न्य॑ङ्ङ॒ग्निश्चे॑त॒व्या(३) उ॑त्ता॒ना(३) इति॒ वय॑सां॒ वा ए॒ष प्र॑ति॒मया॑ चीयते॒ यद॒ग्निर्यन्न्य॑ञ्चं चिनु॒यात्पृ॑ष्टि॒त ए॑न॒माहु॑तय ऋच्छेयु॒र्यदु॑त्ता॒नं न पति॑तु शक्नुया॒दसु॑वर्ग्योऽस्य स्यात्प्रा॒चीन॑मुत्ता॒नम् [16]
5.5.3.3
पु॒रु॒ष॒शी॒र््षमुप॑ दधाति मुख॒त ए॒वैन॒माहु॑तय ऋच्छन्ति॒ नोत्ता॒नं चि॑नुते सुव॒र्ग्योऽस्य भवति सौ॒र्या जु॑होति॒ चक्षु॑रे॒वास्मि॒न्प्रति॑ दधाति॒ द्विर्जु॑होति॒ द्वे हि चक्षु॑षी समा॒न्या जु॑होति समा॒न हि चक्षुः॒ समृ॑द्ध्यै देवासु॒राः संय॑त्ता आस॒न्ते वा॒मं वसु॒ सं न्य॑दधत॒ तद्दे॒वा वा॑म॒भृता॑वृञ्जत॒ तद्वा॑म॒भृतो॑ वामभृ॒त्त्वय्यँद्वा॑म॒भृत॑मुप॒दधा॑ति वा॒ममे॒व तया॒ वसु॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ हिर॑ण्यमूर्ध्नी भवति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑र्वा॒मञ्ज्योति॑षै॒वास्य॒ ज्योति॑र्वा॒मं वृ॑ङ्क्ते द्विय॒जुर्भ॑वति॒ प्रति॑ष्ठित्यै ।। [17]
5.5.4.0
ओष॑धयः॒ कञ्जु॑होति स्वप॒त्याया॒ष्टाद॑श च ।।4।।
5.5.4.1
आपो॒ वरु॑णस्य॒ पत्न॑य आस॒न्ता अ॒ग्निर॒भ्य॑ध्याय॒त्ताः सम॑भव॒त्तस्य॒ रेतः॒ परा॑पत॒त्तदि॒यम॑भव॒द्यद्द्वि॒तीय॑म्प॒राप॑त॒त्तद॒सा- व॑भवदि॒यं वै वि॒राड॒सौ स्व॒राड्यद्वि॒राजा॑वुप॒दधा॑ती॒मे ए॒वोप॑ धत्ते॒ यद्वा अ॒सौ रेतः॑ सि॒ञ्चति॒ तद॒स्याम्प्रति॑ तिष्ठति॒ तत्प्र जा॑यते॒ ता ओष॑धयः [18]
5.5.4.2
वी॒रुधो॑ भवन्ति॒ ता अ॒ग्निर॑त्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यो रे॑त॒स्वी स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑मु॒भे उप॑ दध्यादि॒मे ए॒वास्मै॑ स॒मीची॒ रेतः॑ सिञ्चतो॒ यः सि॒क्तरे॑ताः॒ स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑म॒न्यामुप॑ दध्यादुत्त॒माया॑- म॒न्या रेत॑ ए॒वास्य॑ सि॒क्तमा॒भ्यामु॑भ॒यतः॒ परि॑ गृह्णाति संवत्स॒रं न कम् [19]
5.5.4.3
च॒न प्र॒त्यव॑रोहे॒न्न हीमे कं च॒न प्र॑त्यव॒रोह॑त॒स्तदे॑नयोर्व्र॒तय्योँ वा अप॑शीऱ्षाणम॒ग्निं चि॑नु॒तेऽप॑शीऱ्षा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ यः सशी॑ऱ्षाणं चिनु॒ते सशी॑ऱ्षा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहोत्रा ऋता॒वृधः॑ समु॒द्रस्य॑ व॒युन॑स्य॒ पत्म॑ञ्जु॒होमि॑ वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्य ह॒विरिति॑ स्वयमातृ॒ण्णामु॑प॒धाय॑ जुहोति [20]
5.5.4.4
ए॒तद्वा अ॒ग्नेः शिरः॒ सशी॑ऱ्षाणमे॒वाग्निं चि॑नुते॒ सशी॑ऱ्षा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेद॑ सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तस्य॒ यदय॑थापूर्वं क्रि॒यतेऽसु॑वर्ग्यमस्य॒ तत्सु॑व॒र्ग्योऽग्निश्चिति॑मुप॒धाया॒भि मृ॑शे॒च्चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्तान्रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरु॒ष्येति॑ यथापू॒र्वमे॒वैना॒मुप॑ धत्ते॒ प्राञ्च॑मेनं चिनुते सुव॒र्ग्योऽस्य भवति ।। [21]
5.5.5.0
ब्र॒ह्म॒वा॒दिनो॒ व्य॑न्यादे॒षु यज॑मान॒स्त्रीणि॑ च ।।5।।
5.5.5.1
वि॒श्वक॑र्मा दि॒शाम्पतिः॒ स नः॑ प॒शून्पा॑तु॒ सोऽस्मान्पा॑तु॒ तस्मै॒ नमः॑ प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर्दि॒शाम्पतिः॒ स नः॑ प॒शून्पा॑तु॒ सोऽस्मान्पा॑तु॒ तस्मै॒ नम॑ ए॒ता वै दे॒वता॑ ए॒तेषाम्पशू॒नामधि॑पतय॒स्ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यः प॑शुशी॒ऱ्षाण्यु॑प॒दधा॑ति हिरण्येष्ट॒का उप॑ दधात्ये॒ताभ्य॑ ए॒व दे॒वताभ्यो॒ नम॑स्करोति ब्रह्मवा॒दिनः॑ [22]
5.5.5.2
व॒द॒न्त्य॒ग्नौ ग्रा॒म्यान्प॒शून्प्र द॑धाति शु॒चार॒ण्यान॑र्पयति॒ किं तत॒ उच्छि॑ष॒तीति॒ यद्धि॑रण्येष्ट॒का उ॑प॒दधात्य॒मृतं॒ वै हिर॑ण्यम॒मृते॑नै॒व ग्रा॒म्येभ्यः॑ प॒शुभ्यो॑ भेष॒जं क॑रोति॒ नैनान्॑ हिनस्ति प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा व्या॒नो द्वि॒तीया॑पा॒नस्तृ॒तीयानु॒ प्राण्यात्प्रथ॒मा स्व॑यमातृ॒ण्णामु॑प॒धाय॑ प्रा॒णेनै॒व प्रा॒ण सम॑र्धयति॒ व्य॑न्यात् [23]
5.5.5.3
द्वि॒तीया॑मुप॒धाय॑ व्या॒नेनै॒व व्या॒न सम॑र्धय॒त्यपान्यात्तृ॒तीया॑मुप॒धाया॑पा॒नेनै॒वापा॒न सम॑र्धय॒त्यथो प्रा॒णैरे॒वैन॒॒ समि॑न्द्धे॒ भूर्भुवः॒ सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ए॒ताभिः॒ खलु॒ वै व्याहृ॑तीभिः प्र॒जाप॑तिः॒ प्राजा॑यत॒ यदे॒ताभि॒र्व्याहृ॑तीभिः स्वयमातृ॒ण्णा उ॑प॒दधा॑ती॒माने॒व लो॒कानु॑प॒धायै॒षु [24]
5.5.5.4
लो॒केष्वधि॒ प्र जा॑यते प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒ चक्षु॑षे त्वा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑दा॒ग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कम॑जिगास॒न्तेन॒ पति॑तुं॒ नाश॑क्नुव॒न्त ए॒ताश्चत॑स्रः स्वयमातृ॒ण्णा अ॑पश्य॒न्ता दि॒क्षूपा॑दधत॒ तेन॑ स॒र्वत॑श्चक्षुषा सुव॒र्गं लो॒कमा॑य॒न्॒यच्चत॑स्रः स्वयमातृ॒ण्णा दि॒क्षू॑प॒दधा॑ति स॒र्वत॑श्चक्षुषै॒व तद॒ग्निना॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति ।। [25]
5.5.6.0
रू॒पाणि॒ सूद॑दोहस॒स्तया॒ षोड॑श च ।।6।।
5.5.6.1
अग्न॒ आ या॑हि वी॒तय॒ इत्या॒हाह्व॑तै॒वैन॑म॒ग्निं दू॒तं वृ॑णीमह॒ इत्या॑ह हू॒त्वैवैनं॑ वृणीते॒ऽग्निना॒ग्निः समि॑ध्यत॒ इत्या॑ह॒ समि॑न्द्ध ए॒वैन॑म॒ग्निर्वृ॒त्राणि॑ जङ्घन॒दित्या॑ह॒ समि॑द्ध ए॒वास्मि॑न्निन्द्रि॒यं द॑धात्य॒ग्नेः स्तोम॑म्मनामह॒ इत्या॑ह मनु॒त ए॒वैन॑मे॒तानि॒ वा अह्ना॑ रू॒पाणि॑ [26]
5.5.6.2
अ॒न्व॒हमे॒वैनं॑ चिनु॒तेऽवाह्ना॑ रू॒पाणि॑ रुन्द्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्याद्या॒तयाम्नीर॒न्या इष्ट॑का॒ अया॑तयाम्नी लोकम्पृ॒णेत्यैन्द्रा॒ग्नी हि बा॑ऱ्हस्प॒त्येति॑ ब्रूयादिन्द्रा॒ग्नी च॒ हि दे॒वाना॒म्बृह॒स्पति॒श्चाया॑तयामानोऽनुच॒रव॑ती भव॒त्यजा॑मित्वायानु॒ष्टुभानु॑ चरत्या॒त्मा वै लो॑कम्पृ॒णा प्रा॒णो॑ऽनु॒ष्टुप्तस्मात्प्रा॒णः सर्वा॒ण्यङ्गा॒न्यनु॑ चरति॒ ता अ॑स्य॒ सूद॑दोहसः [27]
5.5.6.3
इत्या॑ह॒ तस्मा॒त्परु॑षिपरुषि॒ रसः॒ सोम॑ श्रीणन्ति॒ पृश्ञ॑य॒ इत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुन्द्धे॒ऽर्को वा अ॒ग्निर॒र्कोऽन्न॒मन्न॑मे॒वाव॑ रुन्द्धे॒ जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒व इत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोति॒ यो वा इष्ट॑कानाम्प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देत्या॑है॒षा वा इष्ट॑कानाम्प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति ।। [28]
5.5.7.0
ऐ॒न्द्रि॒या पु॒र उ॑त्त॒राद्धनु॒स्तद॒ग्नय॑ आहा॒ष्टौ च॑ ।।7।।
5.5.7.1
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निर्वज्र॑ एकाद॒शिनी॒ यद॒ग्नावे॑काद॒शिनीम्मिनु॒याद्वज्रे॑णैन सुव॒र्गाल्लो॒का- द॒न्तर्द॑ध्या॒द्यन्न मि॑नु॒यात्स्वरु॑भिः प॒शून्व्य॑र्धयेदेकयू॒पम्मि॑नोति॒ नैनं॒ वज्रे॑ण सुव॒र्गाल्लो॒काद॑न्त॒र्दधा॑ति॒ न स्वरु॑भिः प॒शून्व्य॑र्धयति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ योऽग्निं चि॒न्वन्न॑धि॒क्राम॑त्यैन्द्रि॒या [29]
5.5.7.2
ऋ॒चाक्रम॑ण॒म्प्रतीष्ट॑का॒मुप॑ दध्या॒न्नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यते रु॒द्रो वा ए॒ष यद॒ग्निस्तस्य॑ ति॒स्रः श॑र॒व्याः प्र॒तीची॑ ति॒रश्च्य॒नूची॒ ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ योऽग्निं चि॑नु॒तेऽग्निं चि॒त्वा ति॑सृध॒न्वमया॑चितम्ब्राह्म॒णाय॑ दद्या॒त्ताभ्य॑ ए॒व नम॑स्करो॒त्यथो॒ ताभ्य॑ ए॒वात्मानं॒ निष्क्री॑णीते॒ यत्ते॑ रुद्र पु॒रः [30]
5.5.7.3
धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र संवत्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्र दक्षि॒णा धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र परिवत्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्र प॒श्चाद्धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदावत्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रोत्त॒राद्धनु॒स्तत् [31]
5.5.7.4
वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदुवत्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रो॒परि॒ धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र वत्स॒रेण॒ नम॑स्करोमि रु॒द्रो वा ए॒ष यद॒ग्निः स यथा व्या॒घ्रः क्रु॒द्धस्तिष्ठ॑त्ये॒वं वा ए॒ष ए॒तऱ्हि॒ संचि॑तमे॒तैरुप॑ तिष्ठते नमस्का॒रैरे॒वैन॑ शमयति॒ येऽग्नयः॑ [32]
5.5.7.5
पु॒री॒ष्याः प्रवि॑ष्टाः पृथि॒वीमनु॑ । तेषां॒ त्वम॑स्युत्त॒मः प्र णो॑ जी॒वात॑वे सुव । आपं॑ त्वाग्ने॒ मन॒सापं॑ त्वाग्ने॒ तप॒सापं॑ त्वाग्ने दी॒क्षयापं॑ त्वाग्न उप॒सद्भि॒रापं॑ त्वाग्ने सु॒त्ययापं॑ त्वाग्ने॒ दक्षि॑णाभि॒रापं॑ त्वाग्नेऽवभृ॒थेनापं॑ त्वाग्ने व॒शयापं॑ त्वाग्ने स्वगाका॒रेणेत्या॑है॒षा वा अ॒ग्नेराप्ति॒स्तयै॒वैन॑माप्नोति ।। [33]
5.5.8.0
श्यै॒त॒त्वं प्र॒तीच्या त्वा दि॒शा सा॑दयामि॒ यः सात्मा॑नञ्चिनु॒ते द्वावि॑शतिश्च ।।8।।
5.5.8.1
गा॒य॒त्रेण॑ पु॒रस्ता॒दुप॑ तिष्ठते प्रा॒णमे॒वास्मि॑न्दधाति बृहद्रथन्त॒राभ्याम्प॒क्षावोज॑ ए॒वास्मि॑न्दधात्यृतु॒स्थाय॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ॑मृ॒तुष्वे॒व प्रति॑ तिष्ठति पृ॒ष्ठैरुप॑ तिष्ठते॒ तेजो॒ वै पृ॒ष्ठानि॒ तेज॑ ए॒वास्मि॑न्दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सोऽस्मात्सृ॒ष्टः परा॑ङै॒त्तं वा॑रव॒न्तीये॑नावारयत॒ तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्व श्यै॒तेन॑ श्ये॒ती अ॑कुरुत॒ तच्छ्यै॒तस्य॑ श्यैत॒त्वम् [34]
5.5.8.2
यद्वा॑रव॒न्तीये॑नोप॒तिष्ठ॑ते वा॒रय॑त ए॒वैन॑ श्यै॒तेन॑ श्ये॒ती कु॑रुते प्र॒जाप॑ते॒ऱ्हृद॑येनापिप॒क्षम्प्रत्युप॑ तिष्ठते प्रे॒माण॑मे॒वास्य॑ गच्छति॒ प्राच्या त्वा दि॒शा सा॑दयामि गाय॒त्रेण॒ छन्द॑सा॒ग्निना॑ दे॒वत॑या॒ग्नेः शी॒र्ष्णाग्नेः शिर॒ उप॑ दधामि॒ दक्षि॑णया त्वा दि॒शा सा॑दयामि॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्रे॑ण दे॒वत॑या॒ग्नेः प॒क्षेणा॒ग्नेः प॒क्षमुप॑ दधामि प्र॒तीच्या त्वा दि॒शा सा॑दयामि [35]
5.5.8.3
जाग॑तेन॒ छन्द॑सा सवि॒त्रा दे॒वत॑या॒ग्नेः पुच्छे॑ना॒ग्नेः पुच्छ॒मुप॑ दधा॒म्युदीच्या त्वा दि॒शा सा॑दया॒म्यानु॑ष्टुभेन॒ छन्द॑सा मि॒त्रावरु॑णाभ्यां दे॒वत॑या॒ग्नेः प॒क्षेणा॒ग्नेः प॒क्षमुप॑ दधाम्यू॒र्ध्वया त्वा दि॒शा सा॑दयामि॒ पाङ्क्ते॑न॒ छन्द॑सा॒ बृह॒स्पति॑ना दे॒वत॑या॒ग्नेः पृ॒ष्ठेना॒ग्नेः पृ॒ष्ठमुप॑ दधामि॒ यो वा अपात्मानम॒ग्निं चि॑नु॒तेऽपात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ यः सात्मा॑नं चिनु॒ते सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वत्यात्मेष्ट॒का उप॑ दधात्ये॒ष वा अ॒ग्नेरा॒त्मा सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेद॑ ।। [36]
5.5.9.0
दु॒ध्रस्त॒नूर््ह॒विर्भा॑गाः पातु॒ द्वात्रि॑शच्च ।।9।।
5.5.9.1
अग्न॑ उदधे॒ या त॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्यास्ते॒ नम॒स्तस्यास्त॒ उप॒ जीव॑न्तो भूया॒स्माग्ने॑ दुध्र गह्य किशिल वन्य॒ या त॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्यास्ते॒ नम॒स्तस्यास्त॒ उप॒ जीव॑न्तो भूयास्म॒ पञ्च॒ वा ए॒तेऽग्नयो॒ यच्चित॑य उद॒धिरे॒व नाम॑ प्रथ॒मो दु॒ध्रः [37]
5.5.9.2
द्वि॒तीयो॒ गह्य॑स्तृ॒तीयः॑ किशि॒लश्च॑तु॒र्थो वन्यः॑ पञ्च॒मस्तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च॒ प्र द॑हेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैनाञ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒णोऽक्ष्योश्चक्षुः॒ कर्ण॑योः॒ श्रोत्र॑म्बाहु॒वोर्बल॑मूरु॒वोरोजोऽरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः [38]
5.5.9.3
त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिसी॒रप॒ वा ए॒तस्मात्प्रा॒णाः क्रा॑मन्ति॒ योऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒ण इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते॒ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नावि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्त्वाहु॑तिभागा॒ वा अ॒न्ये रु॒द्रा ह॒विर्भा॑गाः [39]
5.5.9.4
अ॒न्ये श॑तरु॒द्रीय॑ हु॒त्वा गा॑वीधु॒कं च॒रुमे॒तेन॒ यजु॑षा चर॒माया॒मिष्ट॑कायां॒ नि द॑ध्याद्भाग॒धेये॑नै॒वैन॑ शमयति॒ तस्य॒ त्वै श॑तरु॒द्रीय॑ हु॒तमित्या॑हु॒र्यस्यै॒तद॒ग्नौ क्रि॒यत॒ इति॒ वस॑वस्त्वा रु॒द्रैः पु॒रस्तात्पान्तु पि॒तर॑स्त्वा य॒मरा॑जानः पि॒तृभि॑र्दक्षिण॒तः पान्त्वादि॒त्यास्त्वा॒ विश्वैर्दे॒वैः प॒श्चात्पान्तु द्युता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तः पा॑तु [40]
5.5.9.5
दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ताच्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोक्षि॑तो॒ यदे॑न॒मतः॑ प्रा॒चीन॑म्प्रो॒क्षति॒ यत्संचि॑त॒माज्ये॑न प्रो॒क्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोक्षि॑तः ।। [41]
5.5.10.0
प्र॒तीची॒ दिक्तस्यास्ते द्वि॒ष्मो यश्च॑ निलि॒म्पा नामे॒ह गृ॒हा इति॑ लू॒क्षो वसी॑यान्भवति ।।10।।
5.5.10.1
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्तस्यास्ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयता॒न्ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्योज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्यास्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्यास्ते [42]
5.5.10.2
सोमोऽधि॑पतिः स्व॒जो॑ऽव॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्यास्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑राजि॒रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्यास्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो व॒शिनी॒ नामा॑सी॒यं दिक्तस्यास्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयता॒न्ते यं द्वि॒ष्मो यश्च॑ [43]
5.5.10.3
नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्ये॒ता वै दे॒वता॑ अ॒ग्निं चि॒त र॑क्षन्ति॒ ताभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैनाञ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो हे॒तयो॒ नाम॑ स्थ॒ तेषां वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो निलि॒म्पा नाम॑ [44]
5.5.10.4
स्थ॒ तेषां वो दक्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑वः॒ सग॑रो व॒ज्रिणो॒ नाम॑ स्थ॒ तेषां वः प॒श्चाद्गृ॒हाः स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रोऽव॒स्थावा॑नो॒ नाम॑ स्थ॒ तेषां व उत्त॒राद्गृ॒हा आपो॑ व॒ इष॑वः समु॒द्रोऽधि॑पतयो॒ नाम॑ स्थ॒ तेषां व उ॒परि॑ गृ॒हा व॒ऱ्षं व॒ इष॒वोऽव॑स्वान्क्र॒व्या नाम॑ स्थ॒ पार्थि॑वा॒स्तेषां व इ॒ह गृ॒हाः [45]
5.5.10.5
अन्नं॑ व॒ इष॑वो निमि॒षो वा॑तना॒मन्तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि हु॒तादो॒ वा अ॒न्ये दे॒वा अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभयान्प्रीणाति द॒ध्ना म॑धुमि॒श्रेणै॒ता आहु॑तीर्जुहोति भाग॒धेये॑नै॒वैनान्प्रीणा॒त्यथो॒ खल्वा॑हु॒रिष्ट॑का॒ वै दे॒वा अ॑हु॒ताद॒ इति॑ [46]
5.5.10.6
अ॒नु॒प॒रि॒क्रामं॑ जुहो॒त्यप॑रिवर्गमे॒वैनान्प्रीणाती॒म स्तन॒मूर्ज॑स्वन्तं धया॒पाम्प्रप्या॑तमग्ने सरि॒रस्य॒ मध्ये । उत्सं॑ जुषस्व॒ मधु॑मन्तमूर्व समु॒द्रिय॒॒ सद॑न॒मा वि॑शस्व । यो वा अ॒ग्निम्प्र॒युज्य॒ न वि॑मु॒ञ्चति॒ यथाश्वो॑ यु॒क्तोऽवि॑मुच्यमानः॒ क्षुध्य॑न्परा॒भव॑त्ये॒वम॑स्या॒ग्निः परा॑ भवति॒ तम्प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ सोऽग्निं चि॒त्वा लू॒क्षः [47]
5.5.10.7
भ॒व॒ती॒म स्तन॒मूर्ज॑स्वन्तं धया॒पामित्याज्य॑स्य पू॒र्णा स्रुचं॑ जुहोत्ये॒ष वा अ॒ग्नेर्वि॑मो॒को वि॒मुच्यै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न सु॒धाय॑ ह॒ वै वा॒जी सुहि॑तो दधा॒तीत्य॒ग्निर्वाव वा॒जी तमे॒व तत्प्री॑णाति॒ स ए॑नम्प्री॒तः प्री॑णाति॒ वसी॑यान्भवति ।। [48]
5.5.11.0
इन्द्रा॑या॒ष्टावि॑शतिः ।।11।।
5.5.11.1
इन्द्रा॑य॒ राज्ञे॑ सूक॒रो वरु॑णाय॒ राज्ञे॒ कृष्णो॑ य॒माय॒ राज्ञ॒ ऋश्य॑ ऋष॒भाय॒ राज्ञे॑ गव॒यः शार्दू॒लाय॒ राज्ञे॑ गौ॒रः पु॑रुषरा॒जाय॑ म॒र्कटः॑ क्षिप्रश्ये॒नस्य॒ वर्ति॑का॒ नीलं॑गोः॒ क्रिमिः॒ सोम॑स्य॒ राज्ञः॑ कुलु॒ङ्गः सिन्धोः शिशु॒मारो॑ हि॒मव॑तो ह॒स्ती ।। [49]
5.5.12.0
म॒युस्त्रयो॑विशतिः ।।12।।
5.5.12.1
म॒युः प्रा॑जाप॒त्य ऊ॒लो हलीक्ष्णो वृषद॒॒शस्ते धा॒तुः सर॑स्वत्यै॒ शारिः॑ श्ये॒ता पु॑रुष॒वाख्सर॑स्वते॒ शुकः॑ श्ये॒तः पु॑रुष॒वागा॑र॒ण्यो॑ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णा वा॒चे क्रौ॒ञ्चः ।। [50]
5.5.13.0
अ॒पामेका॒न्नवि॑शतिः ।।13।।
5.5.13.1
अ॒पां नप्त्रे॑ ज॒षो ना॒क्रो मक॑रः कुली॒कय॒स्तेऽकू॑पारस्य वा॒चे पैङ्गरा॒जो भगा॑य कु॒षीत॑क आ॒ती वा॑ह॒सो दर्वि॑दा॒ ते वा॑य॒व्या॑ दि॒ग्भ्यश्च॑क्रवा॒कः ।। [51]
5.5.14.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.14.1
बला॑याजग॒र आ॒खुः सृ॑ज॒या श॒यण्ड॑क॒स्ते मै॒त्रा मृ॒त्यवे॑ऽसि॒तो म॒न्यवे स्व॒जः कु॑म्भी॒नसः॑ पुष्करसा॒दो लो॑हिता॒हिस्ते त्वा॒ष्ट्राः प्र॑ति॒श्रुत्का॑यै वाह॒सः ।। [52]
5.5.15.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.15.1
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑से गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नामे॒ण्यह्ने॒ कृष्णो॒ रात्रि॑यै पि॒कः क्ष्विङ्का॒ नील॑शीर्ष्णी॒ तेऽर्य॒म्णे धा॒तुः क॑त्क॒टः ।। [53]
5.5.16.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.16.1
सौ॒री ब॒लाकर्श्यो॑ म॒यूरः॑ श्ये॒नस्ते ग॑न्ध॒र्वाणा॒व्वँसू॑नां क॒पिञ्ज॑लो रु॒द्राणां तित्ति॒री रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॒मर॑ण्याय सृम॒रः ।। [54]
5.5.17.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.17.1
पृ॒ष॒तो वैश्वदे॒वः पि॒त्वो न्यङ्कुः॒ कश॒स्तेऽनु॑मत्या अन्यवा॒पोऽर्धमा॒सानाम्मा॒सां क॒श्यपः॒ क्वयिः॑ कु॒टरु॑र्दात्यौ॒हस्ते सि॑नीवा॒ल्यै बृह॒स्पत॑ये शित्पु॒टः ।। [55]
5.5.18.0
बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तश्शका॒ष्टाद॑शा॒ष्टाद॑श ।।14-18।।
5.5.18.1
शका॑ भौ॒मी पा॒न्त्रः कशो॑ मान्थी॒लव॒स्ते पि॑तृ॒णामृ॑तू॒नां जह॑का संवत्स॒राय॒ लोपा॑ क॒पोत॒ उलू॑कः श॒शस्ते नैर््॑ऋ॒ताः कृ॑क॒वाकुः॑ सावि॒त्रः ।। [56]
5.5.19.0
रुरु॑र्विश॒तिः ।।19।।
5.5.19.1
रुरू॑ रौ॒द्रः कृ॑कला॒सः श॒कुनिः॒ पिप्प॑का॒ ते श॑र॒व्या॑यै हरि॒णो मा॑रु॒तो ब्रह्म॑णे शा॒र्गस्त॒रक्षुः॑ कृ॒ष्णः श्वा च॑तुर॒क्षो ग॑र्द॒भस्त इ॑तरज॒नाना॑म॒ग्नये॒ धूङ्क्ष्णा ।। [57]
5.5.20.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.20.1
अ॒ल॒ज आन्तरि॒क्ष उ॒द्रो म॒द्गुः प्ल॒वस्ते॑ऽपामदि॑त्यै हस॒साचि॑रिन्द्रा॒ण्यै कीर््शा॒ गृध्रः॑ शितिक॒क्षी वार्ध्राण॒सस्ते दि॒व्या द्या॑वापृथि॒व्या श्वा॒वित् ।। [58]
5.5.21.0
अ॒ल॒जस्सु॑प॒र्णोऽष्टाद॑शाष्टा॒द॑श ।।21।।
5.5.21.1
सु॒प॒र्णः पार्ज॒न्यो ह॒॒सो वृको॑ वृषद॒॒शस्त ऐ॒न्द्रा अ॒पामु॒द्रोऽर्य॒म्णे लो॑पा॒शः सि॒॒हो न॑कु॒लो व्या॒घ्रस्ते म॑हे॒न्द्राय॒ कामा॑य॒ पर॑स्वान् ।। [59]
5.5.22.0
आ॒ग्ने॒यो द्वावि॑शतिः ।।22।।
5.5.22.1
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑ऱ्हस्प॒त्यः शि॒ल्पो वैश्वदे॒व ऐ॒न्द्रो॑ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑हि॒तो॑ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः पेत्वः॑ ।। [60]
5.5.23.0
अश्व॒ष्षोड॑श ।।23।।
5.5.23.1
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्या आग्ने॒यौ कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ शि॑तिपृ॒ष्ठौ बा॑ऱ्हस्प॒त्यौ धा॒त्रे पृ॑षोद॒रः सौ॒र्यो ब॒लक्षः॒ पेत्वः॑ ।। [61]
5.5.24.0
अ॒ग्नयोऽनी॑कवते॒ द्वावि॑शतिः ।।24।।
5.5.24.1
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शंगौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णो॑ऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्वः॑ ।। [62]
5.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे षष्ठः प्रश्नः ।।
5.6.0.0
हिर॑ण्यवर्णा अ॒पां ग्रहान्भूतेष्ट॒काः स॒जूस्स॑व्वँत्स॒रं प्र॒जाप॑ति॒स्स क्षु॒रप॑विर॒ग्नेर्वै दी॒क्षया॑ सुव॒र्गाय॒ तय्यँन्न सू॒यते प्र॒जाप॑तिर््ऋ॒तुभी॒ रोहि॑तः॒ पृश्ञिः॑ शितिबा॒हुरु॑न्न॒तः क॒र्णाश्शु॒ण्ठा इन्द्रा॒यादि॑त्यै सौ॒म्या वा॑रु॒णाः सोमा॒यैका॑दश पि॒शङ्गा॒स्त्रयो॑विशतिः ।।23।। हिर॑ण्यवर्णा भूतेष्ट॒काश्छन्दो॒ यत्कनी॑यासन्त्रि॒वृद्ध्य॑ग्निर्वा॑रु॒णाश्चतुः॑पञ्चाशत् ।।54।। हिर॑ण्यवर्णा॒ निव॑क्षसः ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.6.1.0
उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचाम्मा॒तरो॒ द्वावि॑शतिश्च ।।1।।
5.6.1.1
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ श स्यो॒ना भ॑वन्तु । यासा॒॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ श स्यो॒ना भ॑वन्तु । यासां दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
5.6.1.2
शु॒क्रास्ता न॒ आपः॒ श स्यो॒ना भ॑वन्तु । शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वा॑ अ॒ग्नी र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त । यद॒दः स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः । यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभ॑ स॒मव॑ल्गत । [2]
5.6.1.3
तदाप्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन । अ॒प॒का॒म स्यन्द॑माना॒ अवी॑वरत वो॒ हिकम् । इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् । एको॑ दे॒वो अप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते । आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचाम् [3]
5.6.1.4
अ॒रं॒ग॒म आ मा प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् । आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तऱ्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सम्भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ।। [4]
5.6.2.0
अ॒मृत॑मस्मै जायते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ प॒र्जन्य॑ उप॒दधा॑ति सा॒क्षात्स॒प्तच॑त्वारिशच्च ।।2।।
5.6.2.1
अ॒पां ग्रहान्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ यदे॒ते ग्रहाः स॒वोऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चाग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पोऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्य॒मृतम् [5]
5.6.2.2
वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेदान्नं॒ वा आपः॑ प॒शव॒ आपोऽन्न॑म्प॒शवोऽन्ना॒दः प॑शु॒मान्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रेणै॒वास्मै [6]
5.6.2.3
अन्न॒मव॑ रुन्द्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयोन्ये॒वान्न॒मव॑ रुन्द्ध॒ आ द्वा॑द॒शात्पुरु॑षा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑ कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजात्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ [7]
5.6.2.4
चै॒ना॒ ए॒वं वेद॒ शुग्वा अ॒ग्निः सोऽध्व॒र्युं यज॑मानम्प्र॒जाः शु॒चार्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ऽपां वा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ स सृ॑जति॒ वऱ्षु॑कः प॒र्जन्यः॑ [8]
5.6.2.5
भ॒व॒ति॒ यो वा ए॒तासा॑मा॒यत॑नं॒ कॢप्तिं॒ वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा कॢप्ति॒र्य ए॒वं वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मै द्व॒न्द्वम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॒ अन्नं॒ वा इष्ट॑का ए॒तत्खलु॒ वै सा॒क्षादन्नं॒ यदे॒ष च॒रुर्यदे॒तं च॒रुमु॑प॒दधा॑ति सा॒क्षात् [9]
5.6.2.6
ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ अन्नं॑ दधाति॒ तस्मान्मध्य॒तोऽन्न॑मद्यते बाऱ्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्द्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वं वेद॑ ।। [10]
5.6.3.0
त ए॒वान्वव॑स्रावयत्ये॒तद॒ष्टाच॑त्वारिशच्च ।।3।।
5.6.3.1
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रात्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चित्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवेष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒वै प्र॒त्यगे॑नमभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष योऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वाना॑ स॒वास्त ए॒व [11]
5.6.3.2
अ॒स्मै॒ स॒वान्प्र य॑च्छन्ति॒ त ए॑न सुवन्ते स॒वोऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑म्ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्तात्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ शीऱ्ष॒तो॑ऽभि षि॑ञ्चति शीऱ्ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति [12]
5.6.3.3
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒ साम्राज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पतेस्त्वा॒ साम्राज्येना॒भि षि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्राज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधात्ये॒तत् [13]
5.6.3.4
वै रा॑ज॒सूय॑स्य रू॒पय्यँ ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चाग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्य॑म्परा॑पत॒त्तद्दे॒वाः सौत्राम॒ण्या सम॑भरन्त्सू॒यते॒ वा ए॒ष योऽग्निं चि॑नु॒तेऽग्निं चि॒त्वा सौत्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्य॑ स॒म्भृत्या॒त्मन्ध॑त्ते ।। [14]
5.6.4.0
यद॑लेलाय॒त्स उ॑त्तर॒त उ॒पाद॑धादे॒व द्वात्रि॑शच्च ।।4।।
5.6.4.1
स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दसो॑भिः स॒जूर॒ग्निर्वैश्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ संवत्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संवत्स॒रोऽग्निर्वैश्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒त सं॑वत्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते संवत्स॒रेणै॒वास्मै॑ प॒शून्प्र ज॑नयति दर्भस्त॒म्बे जु॑होति॒ यत् [15]
5.6.4.2
वा अ॒स्या अ॒मृतं॒ यद्वी॒र्यं॑ तद्द॒र्भास्तस्मि॑ञ्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ताद्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं वेदापो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒त्सः [16]
5.6.4.3
प्र॒ति॒ष्ठां नावि॑न्द॒त स ए॒तद॒पां कु॒लाय॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्याम्पु॒रस्ता॑दु॒पा- द॑धा॒त्तच्छिरो॑ऽभव॒त्सा प्राची॒ दिग्यां द॑क्षिण॒त उ॒पाद॑धा॒त्स दक्षि॑णः प॒क्षो॑ऽभव॒त्सा द॑क्षि॒णा दिग्याम्प॒श्चादु॒पा- द॑धा॒त्तत्पुच्छ॑मभव॒त्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धात् [17]
5.6.4.4
स उत्त॑रः प॒क्षो॑ऽभव॒त्सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त्तत्पृ॒ष्ठम॑भव॒त्सोर्ध्वा दिगि॒यव्वाँ अ॒ग्निः पञ्चेष्टक॒स्तस्मा॒द्यद॒स्यां खन॑न्त्य॒भीष्ट॑कां तृ॒न्दन्त्य॒भि शर्क॑रा॒॒ सर्वा॒ वा इ॒यं वयोभ्यो॒ नक्तं॑ दृ॒शे दीप्यते॒ तस्मा॑दि॒मां वया॑सि॒ नक्तं॒ नाध्या॑सते॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते प्रत्ये॒व [18]
5.6.4.5
ति॒ष्ठ॒त्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्राह्म॒णस्तस्माद्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑क॒॒ स्वामे॒व तद्दिश॒मन्वेत्य॒पां वा अ॒ग्निः कु॒लाय॒न्तस्मा॒दापो॒ऽग्नि हारु॑काः॒ स्वामे॒व तद्योनि॒म्प्र वि॑शन्ति ।। [19]
5.6.5.0
दा॒धा॒र॒ त्रि॒ष्टुभ॑मि॒ममे॒वैवं च॒त्वारि॑ च ।।5।।
5.6.5.1
सं॒व॒त्स॒रमुख्य॑म्भृ॒त्वा द्वि॒तीये॑ संवत्स॒र आग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेदै॒न्द्रमेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम् बाऱ्हस्प॒त्यं च॒रुं वैष्ण॒वं त्रि॑कपा॒लन्तृ॒तीये॑ संवत्स॒रे॑ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्याग्ने॒यं गा॑य॒त्रम्प्रा॑तःसव॒नम् प्रा॑तःसव॒नमे॒व तेन॑ दाधार गाय॒त्रं छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रं त्रैष्टु॑भ॒म्माध्यं॑दिन॒॒ सव॑न॒म्माध्यं॑दिनमे॒व सव॑नं॒ तेन॑ दाधार त्रि॒ष्टुभम् [20]
5.6.5.2
छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वं जाग॑तं तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑तीं॒ छन्दो॒ यद्बा॑ऱ्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ यद्वैष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व तेन॑ दाधार॒ यत्तृ॒तीये॑ संवत्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒ यत्सं॑वत्स॒रमुख्य॑म्बि॒भर्ती॒ममे॒व [21]
5.6.5.3
तेन॑ लो॒क स्पृ॑णोति॒ यद्द्वि॒तीये॑ संवत्स॒रेऽग्निं चि॑नु॒तेऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ यत्तृ॒तीये॑ संवत्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒क स्पृ॑णोत्ये॒तं वै पर॑ आट्णा॒रः क॒क्षीवा॑ औशि॒जो वी॒तह॑व्यः श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒त्स्यः प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्र॑सहस्रम्पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्ताम्मात्रा॑माप्नोति॒ यां तेऽग॑च्छ॒न््य ए॒वं वि॒द्वाने॒तम॒ग्निं चि॑नु॒ते ।। [22]
5.6.6.0
अ॒ग्निस्तत्स॒॒स्कृत्या॒ग्नेर्दश॑ च ।।6।।
5.6.6.1
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाति॑ष्ठ॒त्तं दे॒वा बिभ्य॑तो॒ नोपा॑य॒न्ते छन्दो॑भिरा॒त्मानं॑ छादयि॒त्वोपा॑य॒न्तच्छन्द॑सां छन्द॒स्त्वम्ब्रह्म॒ वै छन्दा॑सि॒ ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वात्मानं॑ छादयि॒त्वाग्निमुप॑ चरत्या॒त्मनोऽहि॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्निः [23]
5.6.6.2
अ॒न्ये वा॒ वै नि॒धिमगु॑प्तं वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पां कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्नाक्रम्येति॑ नैर््ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर््ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाक्रम्या॑ पुरुषशी॒ऱ्षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् [24]
5.6.6.3
प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒त ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निं चि॒नोति॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेद॒ शरी॑रं॒ वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वैश्वान॒रो यच्चि॒ते वैश्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒॒स्कृत्य॑ [25]
5.6.6.4
अ॒भ्यारो॑हति॒ शरी॑रं॒ वा ए॒तद्यज॑मानः॒ सस्कु॑रुते॒ यद॒ग्निं चि॑नु॒ते यच्चि॒ते वैश्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒॒स्कृत्या॒त्मना॒भ्यारो॑हति॒ तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यं वा अ॒ग्निर्वैश्वान॒रस्तस्यै॒षा चिति॒र्यत्पुरी॑षम॒ग्निमे॒व वैश्वान॒रं चि॑नुत ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वैश्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्द्धे ।। [26]
5.6.7.0
स्या॒त्त्रयो॑दश त्रि॒॒शत॒॒ रात्रीर्दीक्षि॒तः स्या॒द्वै तेऽष्टावि॑शतिश्च ।।7।।
5.6.7.1
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो रात्रीर्दीक्षि॒तः स्यात्त्रि॒पदा॑ वि॒राड्वि॒राज॑माप्नोति॒ षड्रात्रीर्दीक्षि॒तः स्या॒त् षड्वा ऋ॒तवः॑ संवत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ दश॒ रात्रीर्दीक्षि॒तः स्या॒द्दशाक्षरा वि॒राड्वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्रीर्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्रीर्दीक्षि॒तः स्या॒त्त्रयो॑दश [27]
5.6.7.2
मासाः संवत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्रीर्दीक्षि॒तः स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वत्स॒र आप्यते संवत्स॒रो वि॒राड्वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्रीर्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ चतु॑र्विशति॒॒ रात्रीर्दीक्षि॒तः स्या॒च्चतु॑र्विशतिरर्धमा॒साः सं॑वत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति त्रि॒॒शत॒॒ रात्रीर्दीक्षि॒तः स्यात् [28]
5.6.7.3
त्रि॒॒शद॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒ मासं॑ दीक्षि॒तः स्या॒द्यो मासः॒ स सं॑वत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दीक्षि॒तः स्याच्च॒तुरो॒ वा ए॒तम्मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाज॑यन्गाय॒त्रीं छन्दो॒ऽष्टौ रु॒द्रास्ते ऽन्तरि॑क्ष॒माज॑यन्त्रि॒ष्टुभं॒ छन्दो॒ द्वाद॑शादि॒त्यास्ते दिव॒माज॑य॒ञ्जग॑तीं॒ छन्द॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्यं॑ दे॒वाना॒म् तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाग्निं चि॑न्वीत॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रोऽग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनं चिनु॒तेऽथो व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्य॑ समा॒नानाम् ।। [29]
5.6.8.0
मि॒नु॒यात्तृ॒तीयं॑ चिन्वा॒नस्त्रियं॒ पौत्र॑श्च॒ वै स॒प्तद॑श च ।।8।।
5.6.8.1
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं यन्नान्वा॒रोहेत्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत पृथि॒वीमाक्र॑मिषम्प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒माक्र॑मिषम्प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माक्र॑मिष॒॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑- म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत्प॒क्षस॑म्मिताम्मिनु॒यात् [30]
5.6.8.2
कनी॑यासं यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒त्मनः॑ प्र॒जा स्या॒द्वेदि॑सम्मिताम्मिनोति॒ ज्याया॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒त्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑सम्मितो॒ वा अ॒यं लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्रं॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒नः [31]
5.6.8.3
त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं लो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रि॒ष्टुभै॒वान्तरि॑क्षम॒भ्यारो॑हति ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑त्यै॒वामुं लो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीयं॑ चि॒त्वान्यस्य॒ स्त्रियम् [32]
5.6.8.4
उपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां च॒नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒ताथो॒ खल्वा॑हुरप्रज॒स्यं तद्यन्नोपे॒यादिति॒ यद्रे॑तः॒सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒ त्रीणि॒ वाव रेता॑सि पि॒ता पु॒त्रः पौत्रः॑ [33]
5.6.8.5
यद्द्वे रे॑तः॒सिचा॑वुपद॒ध्याद्रेतोऽस्य॒ विच्छि॑न्द्यात्ति॒स्र उप॑ दधाति॒ रेत॑सः॒ संत॑त्या इ॒यं वाव प्र॑थ॒मा रे॑तः॒सिग्वाग्वा इ॒यं तस्मा॒त्पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाचं॒ वद॑न्तीम॒न्तरि॑क्षं द्वि॒तीया प्रा॒णो वा अ॒न्तरि॑क्षं॒ तस्मा॒न्नान्तरि॑क्ष॒म्पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त्पश्य॑न्त्य॒मूम्पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒मां च॑ [34]
5.6.8.6
अ॒मूं चोप॑ दधाति॒ मन॑सा मध्य॒मामे॒षां लो॒कानां॒ कॢप्त्या॒ अथो प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दानु॑ तक्षुः॒ सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रुक्थाम॒दानि॑ शसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थन्तेनै॒वैन॒मनु॑ शसति ।। [35]
5.6.9.0
षो॒ढा॒वि॒हि॒तो वै वैष्ण॒वीर॒न्यो वि॑श॒तिश्च॑ ।।9।।
5.6.9.1
सू॒यते॒ वा ए॒षोऽग्नी॒नां य उ॒खायाम्भ्रि॒यते॒ यद॒धः सा॒दये॒द्गर्भाः प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैनं॑ करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्य॑य्यँच्छि॒क्या॑दु॒खां नि॒रूहे॒द्योने॒र्गर्भं॒ निऱ्ह॑ण्या॒थ्षडु॑द्याम शि॒क्य॑म्भवति षोढाविहि॒तो वै [36]
5.6.9.2
पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गान्या॒त्मन्ने॒वैन॑म्बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒केऽग्निं दु॑हे संवत्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाः प्राजाप॒त्या वैष्ण॒वीः [37]
5.6.9.3
वै॒श्व॒क॒र्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्य॑म्बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यत्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं वै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒ तं वा ए॒तं यज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्यश्चि॑नु॒याद्यत्तं दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ योऽस्या॒ग्निं चि॑नु॒यात्तं दक्षि॑णाभी राधयेद॒ग्निमे॒व तत्स्पृ॑णोति ।। [38]
5.6.10.0
अव॒ चित॑यः॒ पुरी॑षं॒ पञ्च॑दश च ।।10।।
5.6.10.1
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभिः॑ संवत्स॒रव्वँ॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णम्प॒क्षव्वँ॒ऱ्षाभिः॒ पुच्छ॑ श॒रदोत्त॑रम्प॒क्ष हे॑म॒न्तेन॒ मध्य॒म्ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पूर्वा॒र्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णम्प॒क्षम्प॒शुभिः॒ पुच्छ॑व्विँ॒शोत्त॑रम्प॒क्षमा॒शया॒ मध्य॒य्यँ ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ [39]
5.6.10.2
रु॒न्द्धे॒ शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्न॒॒ रोच॑त इ॒यं वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒ वया॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षय्यँ॒ज्ञश्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑ष॒य्यँज॑मानः पञ्च॒मी प्र॒जा पुरी॑ष॒य्यँत्त्रिचि॑तीकं चिन्वी॒त य॒ज्ञं दक्षि॑णामा॒त्मान॑म्प्र॒जाम॒न्तरि॑या॒त्तस्मा॒त्पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्व॑ स्पृणोति॒ यत्ति॒स्रश्चित॑यः [40]
5.6.10.3
त्रि॒वृद्ध्य॑ग्निर्यद्द्वे द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशाक्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्त स्पृ॑णो॒त्यथो॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संवत्स॒रो वै ष॒ष्ठी चिति॑र््ऋ॒तवः॒ पुरी॑ष॒॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति ।। [41]
5.6.11.0
।।11।।
5.6.11.1
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्यास्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒र्यो॑ मैत्राबाऱ्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ।। [42]
5.6.12.0
रोहि॑तः॒ पृश्ञि॒ष्षड्वि॑शति॒ष्षड्वि॑शतिः ।।12।।
5.6.12.1
पृश्ञि॑स्तिर॒श्चीन॑पृश्ञिरू॒र्ध्वपृ॑श्ञि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वैश्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबाऱ्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ।। [43]
5.6.13.0
।।13।।
5.6.13.1
शि॒ति॒बा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्त ऐन्द्रवाय॒वाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मैत्रावरु॒णाः शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आश्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै॑श्वदे॒व्य॑स्ति॒स्रः श्येनीः परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः ।। [44]
5.6.14.0
शि॒ति॒बा॒हुरु॑न्न॒तः पञ्च॑विशतिः॒ पञ्च॑विशतिः ।।14।।
5.6.14.1
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐन्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः शिति॑भस॒त्त ऐन्द्राबाऱ्हस्प॒त्याः शिति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐन्द्रावैष्ण॒वास्ति॒स्रः सि॒ध्मा व॒शा वैश्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐन्द्रापौ॒ष्णाः श्येत॑ललामास्तूप॒राः ।। [45]
5.6.15.0
क॒र्णास्त्रयो॑विशतिः ।।15।।
5.6.15.1
क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नान्ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणा॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ।। [46]
5.6.16.0
शु॒ण्ठा वि॑श॒तिः ।।16।।
5.6.16.1
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्यानान्त्रिव॒त्सास्ति॒स्रोऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ।। [47]
5.6.17.0
इन्द्रा॑य॒ राज्ञे॒ द्वावि॑शतिः ।।17।।
5.6.17.1
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒ध्यानान्ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ।। [48]
5.6.18.0
अदि॑त्या अ॒ष्टाद॑श ।।18।।
5.6.18.1
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ।। [49]
5.6.19.0
सौ॒म्या एका॒न्नवि॑शतिः ।।19।।
5.6.19.1
सौ॒म्यास्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रंगाः पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल््हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गास्तूप॒राः ।। [50]
5.6.20.0
वा॒रु॒णा वि॑श॒तिः ।।20।।
5.6.20.1
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तोललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्ञ॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ।। [51]
5.6.21.0
सोमा॑य स्व॒राज्ञे॒ चतु॑स्त्रिशत् ।।21।।
5.6.21.1
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्याम्बल॒दाभ्या॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ।। [52]
5.6.22.0
एका॑दश॒ पञ्च॑विशतिः ।।22।।
5.6.22.1
एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐन्द्रा॒ग्न आश्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ।। [53]
5.6.23.0
पि॒शङ्गा॑ विश॒तिः ।।23।।
5.6.23.1
पि॒शंगा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वाऱ्षि॑काः॒ पृश्ञ॑य॒स्त्रयः॑ शार॒दाः पृ॑श्ञिस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑ शैशि॒राः सं॑वत्स॒राय॒ निव॑क्षसः ।। [54]
5.7.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे सप्तमः प्रश्नः ।।
5.7.0.0
यो वा अय॑थादेवत॒न्त्वाम॑ग्न॒ इन्द्र॑स्य॒ चित्ति॒य्यँथा॒ वै वयो॒ वै यदाकू॑ता॒द्यास्ते॑ अग्ने॒ मयि॑ गृह्णामि प्र॒जाप॑ति॒स्सोऽस्मात्स्ते॒गान् वाजं॑ कू॒र्मान् योक्त्रं॑ मि॒त्रावरु॑णा॒विन्द्र॑स्य पू॒ष्ण ओज॑ आन॒न्दमह॑र॒ग्नेर्वा॒योः पन्था॒ङ्क्रमै॒र्द्यौस्ते॒ऽग्निः प॒शुरा॑सी॒थ्षड्वि॑शतिः ।।26।। यो वा ए॒वाहु॑तिमभवन्प॒थिभि॑रव॒रुध्या॑न॒न्दम॒ष्टौप॑ञ्चा॒शत् ।।58।। यो वा अय॑थादेवत॒य्यँद्य॑व॒जिघ्र॑सि ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.7.1.0
ए॒नमे॒तदह्नो॒ऽष्टाच॑त्वारिशच्च ।।1।।
5.7.1.1
यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वताभ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत्त्रि॒ष्टुभा द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्प॒ङ्क्त्या प॑ञ्च॒मीय्यँ॑थादेव॒तमे॒वाग्निं चि॑नुते॒ न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनम् [1]
5.7.1.2
चि॒नु॒ते॒ यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॒नोति॒ नार्ति॒मार्च्छ॒त्यश्वा॑व॒भित॑स्तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दक्षि॑ण॒- स्तावा॒लभ्येष्ट॑का॒ उप॑ दध्यादे॒तद्वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्वः॑ सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॑नोति॒ नार्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पं यच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नः॑ [2]
5.7.1.3
रू॒पं यदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒तमश्व॑म॒भि मृ॑शे॒त्पुरी॑षमुपधा॒स्यन्कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैनं॑ चिनुते हिरण्यपा॒त्रम्मधोः पू॒र्णं द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्यावेक्षते चि॒त्रमे॒व भ॑वति म॒ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति ।। [3]
5.7.2.0
प्रा॒जा॒प॒त्याल्लोँ॒काय॑ देवाः पितो दध्यादाग्रय॒णं पञ्च॑विशतिश्च ।।2।।
5.7.2.1
त्वाम॑ग्ने वृष॒भं चेकि॑तान॒म्पुन॒र्युवा॑नञ्ज॒नय॑न्नु॒पागाम् । अ॒स्थू॒रि णो॒ गाऱ्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ स शि॑शाधि । प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्यांचित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्माद्यू॒थेयू॑थ ऋष॒भः । सं॒व॒त्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास॑ते । प्र॒जा सु॒वीरां कृ॒त्वा विश्व॒मायु॒र्व्य॑श्ञवत् । प्रा॒जा॒प॒त्याम् [4]
5.7.2.2
ए॒तामुप॑ दधाती॒यं वावैषैकाष्ट॒का यदे॒वैकाष्ट॒काया॒मन्नं॑ क्रि॒यते॒ तदे॒वैतयाव॑ रुन्द्ध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒केऽग्निं दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न््येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मानः स्व॒स्ति । सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ [5]
5.7.2.3
ची॒य॒ते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्य॒॒ समि॑न्द्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवीर्याय श॒तोत॑येऽभिमाति॒षाहे । श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा । ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ यो अज्या॑नि॒मजी॑तिमा॒ वहा॒त्तस्मै॑ नो देवाः [6]
5.7.2.4
परि॑ दत्ते॒ह सर्वे । ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद्व॒ऱ्षाः सु॑वि॒तं नो॑ अस्तु । तेषा॑मृतू॒ना श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम । इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां व॒य सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ताः स्याम । भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑व॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो [7]
5.7.2.5
आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे स्यो॒नः । अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तवः॑ संवत्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वताभ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑ उ॒दज॑य॒न््यदृ॒तुभ्यो॑ नि॒र्वपेद्दे॒वताभ्यः स॒मदं॑ दध्यादाग्रय॒णं नि॒रुप्यै॒ता आहु॑तीर्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्त्सं॑वत्स॒रम्प्री॑णाति॒ न दे॒वताभ्यः स॒मद॑न्दधाति भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ।। [8]
5.7.3.0
उपै॒तान्धारा॑यै॒ षट्च॑त्वारिशच्च ।।3।।
5.7.3.1
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ताद्दक्षिण॒तः प॒श्चादु॑त्तर॒तो॑ऽघा॒युर॑भि॒दास॑त्ये॒त सोऽश्मा॑नमृच्छतु । दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त॒ तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑ [9]
5.7.3.2
द॒धा॒ति॒ दे॒व॒पु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किन्देव॒त्या॑ वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒र्वसु॒स्तस्यै॒षा धाराग्नावैष्ण॒व्यर्चा वसो॒र्धारां जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ताम् [10]
5.7.3.3
ए॒वाहु॑तिमा॒यत॑नवतीं करोति॒ यत्का॑म एनां जु॒होति॒ तदे॒वाव॑ रुन्द्धे रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान्या यच्छ॑तरु॒द्रीयं॑ जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तां तेन॑ शमयति॒ यद्वसो॒र्धारां जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तां तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै [11]
5.7.3.4
प्र॒ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न्ब्रह्मौद॒नम्प॑चे॒त्तम्ब्राह्म॒णाश्च॒त्वारः॒ प्राश्ञी॑युरे॒ष वा अ॒ग्निर्वैश्वान॒रो यद्ब्राह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वैश्वान॒रः प्रि॒याया॑मे॒वैनां त॒नुवा॒म्प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒त्ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒केऽग्निं दु॑हे ।। [12]
5.7.4.0
भा॒ग॒धेय॒ञ्जुह्व॑ति पर॒मा रा॒ष्ट्रन्द॑धाति स॒प्त च॑ ।।4।।
5.7.4.1
चित्ति॑ञ्जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादाभ्या॒ वै नामै॒षाहु॑तिर्वैश्वकर्म॒णी नैनं॑ चिक्या॒नम्भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमार॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्द्धे॒ऽग्निर्दे॒वेभ्योऽपाक्रामद्भाग॒धेयम् [13]
5.7.4.2
इ॒च्छमा॑न॒स्तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तऱ्हि॒ खलु॒ वा ए॒ष जा॒तो यऱ्हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नम्प्री॒तः प्री॑णाति॒ वसी॑यान्भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गाऱ्ह॑पत्यश्ची॒यतेऽथ॒ क्वास्याहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न््हि सर्वाभ्यो दे॒वताभ्यो॒ जुह्व॑ति [14]
5.7.4.3
य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋध्नो॒त्यग्ने॑ यशस्वि॒न््यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह । अ॒यम्मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः समा॒नाना॑मुत्त॒मश्लो॑को अस्तु । भ॒द्रम्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑ क्ष॒त्रम्बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु । धा॒ता वि॑धा॒ता प॑र॒मा [15]
5.7.4.4
उ॒त सं॒दृक्प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा । स्तोमा॒श्छन्दा॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम । अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒य शा॒स्ताधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ स र॑भध्वमि॒मम्प॒श्चादनु॑ जीवाथ॒ सर्वे । रा॒ष्ट्रभृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑न्रा॒ष्ट्रं द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्माद्रा॒ष्ट्रम्भ्र॑शते ।। [16]
5.7.5.0
तम॑साऽऽदि॒त्योऽस्तीति॒ दिश॑ आदि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा॒ऽसौ पञ्च॑चत्वारिशच्च ।।6।।
5.7.5.1
यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं वा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्यं॑ कु॒र्याद्विच्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒त्स ए॒व पुनः॑ प॒रीध्यः॒ स्वादे॒वैनं॒ योनेर्जनयति॒ नास्मै॒ भ्रातृ॑व्यं जनयति॒ तमो॒ वा ए॒तं गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तमः॑ कृ॒ष्णं वासः॑ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सा [17]
5.7.5.2
ए॒व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वात्मन्ध॑त्ते॒ सुव॒र्न घ॒र्मः स्वाहा॒ सुव॒र्नार्कः स्वाहा॒ सुव॒र्न शु॒क्रः स्वाहा॒ सुव॒र्न ज्योतिः॒ स्वाहा॒ सुव॒र्न सूर्यः॒ स्वाहा॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यः [18]
5.7.5.3
अ॒श्व॒मे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योती॑षि॒ सं द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स ए॒ताम्प्र॒जाप॑तिः प्रथ॒मां चिति॑मपश्य॒त्तामुपा॑धत्त॒ तदि॒यम॑भव॒त्तं वि॒श्वक॑र्माब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒कोऽस्तीति॑ [19]
5.7.5.4
अ॒ब्र॒वी॒त्स ए॒तां द्वि॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभव॒त्स य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒त्तन्दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता दिशः॑ [20]
5.7.5.5
अ॒भ॒व॒न्त्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणं च य॒ज्ञं चाब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रूता॒॒ स ए॒तां तृ॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒साव॑भव॒त्स आ॑दि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा [21]
5.7.5.6
आ॒या॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणं च य॒ज्ञं चाब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रूता॒॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकम्पृ॒णयेत्य॑ब्रवी॒त्तं लो॑कम्पृ॒णयो॒पैत्तस्मा॒दया॑तयाम्नी लोकम्पृ॒णाऽया॑तयामा॒ ह्य॑सौ [22]
5.7.5.7
आ॒दि॒त्यस्तानृष॑योऽब्रुव॒न्नुप॑ व॒ आया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒न्तान्द्वाभ्यां॒ चितीभ्यामु॒पाय॒न्त्स पञ्च॑चितीकः॒ सम॑पद्यत॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति वि॒दुरे॑नं दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑ना॒॒ सायु॑ज्यं गच्छति ।। [23]
5.7.6.0
पृ॒थि॒वीय्यँ॑च्छ॒ यत्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ धेह्यृ॒चाग्निश्चि॑नु॒ते त्रीणि॑ च ।।7।।
5.7.6.1
वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित्प॒क्षिणोऽश्ञी॒यात्तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छेत्संवत्स॒रं व्र॒तं च॑रेत्संवत्स॒र हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर््हि॒नस्ति॒ खलु॒ वै तम्प॒शुर्य ए॑नम्पु॒रस्तात्प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मात्प॒श्चात्प्राङु॑प॒चर्य॑ आ॒त्मनोऽहि॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं य॑च्छ [24]
5.7.6.2
पृ॒थि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ यच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधात्ये॒षां लो॒कानां॒ विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒ऱ्हिर॑ण्य॒य्यँत्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ [25]
5.7.6.3
हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भान्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि । या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्राग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते । रुचं॑ नो धेहि [26]
5.7.6.4
ब्रा॒ह्म॒णेषु॒ रुच॒॒ राज॑सु नस्कृधि । रुचं॑ वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुचम् । द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यं ग॑च्छत्य॒ग्निं वा॑ चि॒तमी॑जा॒नं वा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒यं ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्योऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा [27]
5.7.6.5
जु॒हु॒या॒च्छान्ति॑रे॒वैषाग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष योऽग्निं चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वं वा ए॒ष स्क॑न्दति॒ योऽग्निं चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्यामिक्ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपैत्या॒त्मनोऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां वेद॒र्तुर््ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति संवत्स॒रो वा अ॒ग्निः [28]
5.7.6.6
ऋ॒तु॒स्थास्तस्य॑ वस॑न्तः॒ शिरो ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒ऱ्षाः पुच्छ॑ श॒रदुत्त॑रः प॒क्षो हे॑म॒न्तो मध्य॑म्पूर्वप॒क्षाश्चित॑योऽपरप॒क्षाः पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर््ऋ॑तु॒स्था य ए॒वं वेद॒र्तुर््ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ।। [29]
5.7.7.0
आ॒गच्छा॒त्तद्व्या॑न॒शुस्तेने॒मय्यँ॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे॒ चतु॑र्दश च ।।7।।
5.7.7.1
यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं यत्रऱ्ष॑यः प्रथम॒जा ये पु॑रा॒णाः । ए॒त स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहाच्छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ त स्म॑ जानीत पर॒मे व्यो॑मन्न् । जा॒नी॒तादे॑नम्पर॒मे व्यो॑म॒न्देवाः सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छात् [30]
5.7.7.2
प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै । सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒यानान्कृणुध्वम् । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत । प्र॒स्त॒रेण॑ परि॒धिना स्रु॒चा वेद्या॑ च ब॒ऱ्हिषा । ऋ॒चेमं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । यदि॒ष्टय्यँत्प॑रा॒दानं॒ यद्द॒त्तं या च॒ दक्षि॑णा । तत् [31]
5.7.7.3
अ॒ग्निर्वैश्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् । येना॑ स॒हस्रं॒ वह॑सि॒ येनाग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । येनाग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञं वह॑न्त्यृ॒त्विजः॑ । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । येनाग्ने सु॒कृतः॑ प॒था मधो॒र्धारा व्यान॒शुः । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । यत्र॒ धारा॒ अन॑पेता॒ मधोर्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वैश्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ।। [32]
5.7.8.0
यान्य॒ग्नय॒ इत्या॒हेष्ट॑काना॒॒ षोड॑श च ।।8।।
5.7.8.1
यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन्न् । उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वा अ॑ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॑ [33]
5.7.8.2
धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यंचि॒तिर॒ग्निरे॒व तद॒ग्निं चि॑नोति॒ नाध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॑ इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्न् । घृ॒तम्पिन्व॑न्न॒जर॑ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत्कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह [34]
5.7.8.3
दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भनी॑त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न््यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाः प॒शव॒श्छन्दा॑सि रू॒प सर्वा॒न््वर्णा॒निष्ट॑कानां कुर्याद्रू॒पेणै॒व प्र॒जाम्प॒शूञ्छन्दा॒॒स्यव॑ रु॒न्द्धेऽथो प्र॒जाभ्य॑ ए॒वैन॑म्प॒शुभ्य॒श्छन्दोभ्योऽव॒रुद्ध्य॑ चिनुते ।। [35]
5.7.9.0
अपि॑ स॒य्यौँति॑ वैश्वान॒रो यदे॒ष वै पञ्च॑विशतिश्च ।।9।।
5.7.9.1
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्नि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः । यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व॑न्तरम॑र्त्यो॒ मर्त्या॑ आवि॒वेश॑ । तमा॒त्मन्परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्मा अ॑व॒हाय॒ परा॑ गात् । यद॑ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ग्निं चि॑नु॒याद्योऽस्य॒ स्वोऽग्निस्तमपि॑ [36]
5.7.9.2
यज॑मानाय चिनुयाद॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात्प॒शवः॑ स्यु॒र्मयि॑ गृह्णाम्यग्रे॑ अ॒ग्निमित्या॑हा॒त्मन्ने॒व स्वम॒ग्निं दा॑धार॒ नास्मात्प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मान्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒ इति॒ यद॒द्भिः सं॒यौति॑ [37]
5.7.9.3
आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैन॒॒ स सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यं वा अ॒ग्निर्वैश्वान॒रोऽग्निनै॒व तद॒ग्निं चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भिश्चि॒नोत्य॒ग्नयो॒ वै छन्दा॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यं वा अ॒ग्निर्वैश्वान॒रो यत् [38]
5.7.9.4
मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ यो वा अ॒ग्नि स॒र्वतो॑मुखं चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीम्पु॒रस्ता॒दुप॑ दधाति त्रिष्टुभं॑ दक्षिण॒तो जग॑तीम्प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिम्मध्य॑ ए॒ष वा अ॒ग्निः स॒र्वतो॑मुख॒स्तं य ए॒वं वि॒द्वाश्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिश॒म्प्र व॑यति॒ तस्माद्दि॒शि दिक्प्रोता ।। [39]
5.7.10.0
ए॒न॒म॒स्यान्न॒म्भूयो॒स्यान्न॑म्भवति ।।10।।
5.7.10.1
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सोऽस्मात्सृ॒ष्टः प्राङ्प्राद्र॑व॒त्तस्मा॒ अश्व॒म्प्रत्यास्य॒त्स द॑क्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिम्प्रत्यास्य॒त्स प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भम्प्रत्यास्य॒त्स उद॒ङ्ङाव॑र्तत॒ तस्मै॑ ब॒स्तम्प्रत्यास्य॒त्स ऊ॒र्ध्वोऽद्रव॒त्तस्मै॒ पुरु॑ष॒म्प्रत्यास्य॒त् यत्प॑शुशी॒ऱ्षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैनम् [40]
5.7.10.2
अ॒व॒रुध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒श्चक्षु॑ष्मती॒रिष्ट॑का॒ यत्प॑शुशी॒ऱ्षाणि॒ यत्प॑शुशी॒ऱ्षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भान्ति मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्न॑म्प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒ऱ्षाणि॒ यं का॒मये॑त॒ कनी॑यो॒ऽस्यान्नम् [41]
5.7.10.3
स्या॒दिति॑ संत॒रां तस्य॑ पशुशी॒ऱ्षाण्युप॑ दध्या॒त्कनी॑य ए॒वास्यान्न॑म्भवति॒ यं का॒मये॑त स॒माव॑द॒स्यान्न॑ स्या॒दिति॑ मध्य॒तस्तस्योप॑ दध्यात्स॒माव॑दे॒वास्यान्न॑म्भवति॒ यं का॒मये॑त॒ भूयो॒ऽस्यान्न॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे॒ भूयो॒ऽस्यान्न॑म्भवति ।। [42]
5.7.11.0
स्ते॒गान्द्वावि॑शतिः ।।11।।
5.7.11.1
स्ते॒गान्दष्ट्राभ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒राद॑कां खा॒देनोर्ज॑ ससू॒देनार॑ण्यं॒ जाम्बी॑लेन॒ मृद॑म्ब॒र्स्वे॑भिः॒ शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑रामुत्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालु॒॒ सर॑स्वतीं जिह्वा॒ग्रेण॑ ।। [43]
5.7.12.0
वाज॒म्पञ्च॑विशतिः ।।12।।
5.7.12.1
वाज॒॒ हनूभ्याम॒प आ॒स्ये॑नादि॒त्याञ्छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणानूका॒शम्प्र॑का॒शेन॒ बाह्य॑ स्तनयि॒त्नुं नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्याव्विँ॒द्युतौ॑ क॒नान॑काभ्याम॒शनि॑म्म॒स्तिष्के॑ण॒ बल॑म्म॒ज्जभिः॑ ।। [44]
5.7.13.0
कू॒र्मान्त्रयो॑विशतिः ।।13।।
5.7.13.1
कू॒र्माञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्त्साम॒ कुष्ठि॑काभिर्ज॒वं जङ्घा॑भिरग॒दं जानु॑भ्याव्वीँ॒र्यं॑ कु॒हाभ्याम्भ॒यम्प्र॑चा॒लाभ्या॒म् गुहो॑पप॒क्षाभ्या॑म॒श्विना॒वसाभ्या॒मदि॑ति शी॒र्ष्णा निर््ऋ॑तिं॒ निर्जाल्मकेन शी॒र्ष्णा ।। [45]
5.7.14.0
योक्त्र॒मेक॑विशतिः ।।14।।
5.7.14.1
योक्त्रं॒ गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तम्मन्या॑भिः संक्रो॒शान्प्रा॒णैः प्र॑का॒शेन॒ त्वच॑म्पराका॒शेनान्त॑राम्म॒शका॒न्केशै॒रिन्द्र॒॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ।। [46]
5.7.15.0
।।15।।
5.7.15.1
मि॒त्रावरु॑णौ॒ श्रोणीभ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑ सवि॒तार॒म्पुच्छे॑न गन्ध॒र्वाञ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्या॒म्पव॑मानम्पा॒युना॑ प॒वित्र॒म्पोत्राभ्यामा॒क्रम॑ण स्थू॒राभ्याम्प्रति॒क्रम॑णं॒ कुष्ठाभ्याम् ।। [47]
5.7.16.0
मि॒त्रावरु॑णा॒विन्द्र॑स्य॒ द्वावि॑शति॒र्द्वावि॑शतिः ।।16।।
5.7.16.1
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्य॑न्दि॒शां ज॒त्रवो॑ जी॒मूतान्हृदयौप॒शाभ्या॑म॒न्तरि॑क्षम्पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीम्प्ली॒ह्ना व॒ल्मीकान्क्लो॒म्ना गि॒रीन्प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रम्भस्म॑ना ।। [48]
5.7.17.0
पू॒ष्णश्चतु॑र्विशतिः ।।17।।
5.7.17.1
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेः स्थू॑रगु॒दा स॒र्पान्गुदा॑भिर््ऋ॒तून्पृ॒ष्टीभि॒र्दिव॑म्पृ॒ष्ठेन॒ वसू॑नाम्प्रथ॒मा कीक॑सा रु॒द्राणां द्वि॒तीया॑दि॒त्यानां तृ॒तीयाङ्गि॑रसां चतु॒र्थी सा॒ध्यानाम्पञ्च॒मी विश्वे॑षां दे॒वाना॑ ष॒ष्ठी ।। [49]
5.7.18.0
ओजो॑ विश॒तिः ।।18।।
5.7.18.1
ओजो ग्री॒वाभि॒र्निर््ऋ॑तिम॒स्थभि॒रिन्द्र॒॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लः स्क॒न्धो॑ऽहोरा॒त्रयोर्द्वि॒तीयोऽर्धमा॒सानां तृ॒तीयो॑ मा॒सां च॑तु॒र्थ ऋ॑तू॒नाम्प॑ञ्च॒मः सं॑वत्स॒रस्य॑ ष॒ष्ठः ।। [50]
5.7.19.0
आ॒न॒न्द षोड॑श ।।19।।
5.7.19.1
आ॒न॒न्दं न॒न्दथु॑ना॒ काम॑म्प्रत्या॒साभ्याम्भ॒य शि॑ती॒मभ्याम्प्र॒शिष॑म्प्रशा॒साभ्या॑ सूर्याचन्द्र॒मसौ॒ वृक्याभ्या श्यामशब॒लौ मत॑स्नाभ्या॒व्व्युँ॑ष्टि रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ।। [51]
5.7.20.0
अह॑र॒ष्टावि॑शतिः ।।20।।
5.7.20.1
अह॑र्मा॒॒सेन॒ रात्रि॒म्पीव॑सा॒पो यू॒षेण॑ घृ॒त रसे॑न॒ श्यां वस॑या दू॒षीका॑भिऱ्ह्रा॒दुनि॒मश्रु॑भिः॒ पृष्वा॒न्दिव॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीं चर्म॑णा छ॒वीं छ॒व्यो॑पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा ।। [52]
5.7.21.0
अ॒ग्नेरेका॒न्नत्रि॒॒शत् ।।21।।
5.7.21.1
अ॒ग्नेः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिः॒ सोम॑स्य तृ॒तीया॒पां च॑तु॒र्थ्योष॑धीनाम्पञ्च॒मी सं॑वत्स॒रस्य॑ ष॒ष्ठी म॒रुता॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षां दे॒वानां द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वय्यँ॒मस्य॑ पाटू॒रः ।। [53]
5.7.22.0
वा॒योर॒ष्टावि॑शतिः ।।22।।
5.7.22.1
वा॒योः प॑क्ष॒तिः सर॑स्वतो॒ निप॑क्षतिश्च॒न्द्रम॑सस्तृ॒तीया॒ नक्ष॑त्राणां चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणा॑ सप्त॒म्य॑र्य॒म्णोऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वय्यँ॒म्यै॑ पाटू॒रः ।। [54]
5.7.23.0
पन्था॒न्द्वावि॑शतिः ।।23।।
5.7.23.1
पन्था॑मनू॒वृग्भ्या॒॒ संत॑ति स्नाव॒न्याभ्या॒॒ शुकान्पि॒त्तेन॑ हरि॒माणं॑ य॒क्ना हलीक्ष्णान्पापवा॒तेन॑ कू॒श्माञ्छक॑भिः शव॒र्तानूव॑ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पाल्लोँ॑हितग॒न्धेन॒ वया॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑ ।। [55]
5.7.24.0
क्रमै॑र॒ष्टाद॑श ।।24।।
5.7.24.1
क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वैर्दे॒वैर्य॒ज्ञियैः संविदा॒नः । स नो॑ नय सुकृ॒तस्य॑ लो॒कं तस्य॑ ते व॒य स्व॒धया॑ मदेम ।। [56]
5.7.25.0
द्यौः पञ्च॑विशतिः ।।25।।
5.7.25.1
द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्ष समु॒द्रो योनिः॒ सूर्य॑स्ते॒ चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्र॒म्मासाश्चार्धमा॒साश्च॒ पर्वाण्यृ॒तवोङ्गा॑नि संवत्स॒रो म॑हि॒मा ।। [57]
5.7.26.0
यस्मि॑न्न॒ष्टौ च॑ ।।26।।
5.7.26.1
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒कस्तं जेष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒कस्तस्मात्त्वा॒न्तरेष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्नादि॒त्यः स ते॑ लो॒कस्तं जेष्यसि॒ यद्य॑व॒जिघ्र॑सि ।। [58]
6.1.0.0
प्रा॒चीन॑वश॒य्याँव॑न्त ऋख्सा॒मे वाग्वै दे॒वेभ्यो॑ दे॒वा वै दे॑व॒यज॑नङ्क॒द्रूश्च॒ तद्धिर॑ण्य॒॒ षट्प॒दानि॑ ब्रह्मवा॒दिनो॑ वि॒चित्यो॒ यत्क॒लया॑ ते वारु॒णो वै क्री॒तस्सोम॒ एका॑दश ।।11।। प्रा॒चीन॑वश॒॒ स्वाहेत्या॑ह॒ येऽन्तश्श॒रा ह्ये॑ष सन्तप॑सा च॒ यत्क॑र्णगृही॒तेति॑ लोम॒तो वा॑रु॒णष्षट्त्स॑प्ततिः ।।76।। प्रा॒चीन॑वश॒म्परि॑चरति ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे प्रथमः प्रश्नः ।।
6.1.1.0
अ॒ती॒का॒शान्क॑रो॒त्यवे॑शयन्ती॒र्थे स्ना॑ति प्रघा॒तो म॑नु॒ष्या॑णा॒न्तद्वा आङ्क्ते॑ मित्र॒त्वाय॑ प॒ञ्चभि॒रप॑रिवर्गम॒ष्टाच॑त्वारिशच्च ।।1।।
6.1.1.1
प्रा॒चीन॑वशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राचीन्दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीचीम्मनु॒ष्या॑ उदी॑ची रु॒द्रा यत्प्रा॒चीन॑वशं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तऱ्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒का- न्नास्माल्लो॒कात्स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि तद्वेद॒ यद्य॒मुष्मि॑ल्लोँ॒केऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्वती॑का॒शान्क॑रोति [1]
6.1.1.2
उ॒भयोर्लो॒कयो॑र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्यङ्गि॑रसः सुव॒र्गं लो॒कय्यँन्तो॒ऽफ्सु दीक्षात॒पसी॒ प्रावे॑शयन्न॒फ्सु स्ना॑ति सा॒क्षादे॒व दीक्षात॒पसी॒ अव॑ रुन्द्धे ती॒र्थे स्ना॑ति ती॒र्थे हि ते ताम्प्रावे॑शयन्ती॒र्थे स्ना॑ति [2]
6.1.1.3
ती॒र्थमे॒व स॑मा॒नानाम्भवत्य॒पोऽश्ञात्यन्तर॒त ए॒व मेध्यो॑ भवति॒ वास॑सा दीक्षयति सौ॒म्यं वै क्षौम॑न्दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शास्ते॒ऽग्नेस्तू॑षा॒धान॑व्वाँ॒योर्वा॑त॒पान॑म्पितृ॒णान्नी॒विरोष॑धीनाम्प्रघा॒तः [3]
6.1.1.4
आ॒दि॒त्यानाम्प्राचीनता॒नो विश्वे॑षान्दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तद्वा ए॒तत्स॑र्वदेव॒त्यं॑ यद्वासो॒ यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीक्षयति ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नम्प्रा॒णोऽश्ञाति॒ सप्रा॑ण ए॒व दीक्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति घृ॒तं दे॒वाना॒म्मस्तु॑ पितृ॒णान्निष्प॑क्वम्मनु॒ष्या॑णा॒न्तद्वै [4]
6.1.1.5
ए॒तत्स॑र्वदेव॒त्यं॑ यन्नव॑नीत॒य्यँन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षोऽस्माल्लो॒कादग॑तो देवलो॒कय्योँ दीक्षि॒तोऽन्त॒रेव॒ नव॑नीत॒न्तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मय्यँजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒ परा॑पत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒ दक्षि॑ण॒म्पूर्व॒माङ्क्ते [5]
6.1.1.6
स॒व्य हि पूर्व॑म्मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आङ्क्ते॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ परि॑मित॒माङ्क्तेऽप॑रिमित॒॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒याङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयाञ्जी॒त वज्र॑ इव स्या॒त्सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ [6]
6.1.1.7
इन्द्रो॑ वृ॒त्रम॑ह॒न्त्सोऽ पोऽ भ्य॑म्रियत॒ तासा॒य्यँन्मेध्यं॑ य॒ज्ञिय॒॒ सदे॑व॒मासी॒त्तदपोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्॒ यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ताभि॑रे॒वैन॑म्पवयति॒ द्वाभ्याम्पवयत्यहोरा॒त्राभ्या॑मे॒वैन॑म्पवयति त्रि॒भिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति प॒ञ्चभिः॑ [7]
6.1.1.8
प॒व॒य॒ति॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैन॑म्पवयति ष॒ड्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति स॒प्तभिः॑ पवयति स॒प्त छन्दा॑सि॒ छन्दो॑भिरे॒वैन॑म्पवयति न॒वभिः॑ पवयति॒ नव॒ वै पुरु॑षे प्रा॒णाः सप्रा॑णमे॒वैन॑म्पव- य॒त्येक॑विशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑वि॒॒शो यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गम् [8]
6.1.1.9
प॒व॒य॒ति॒ चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैन॑म्पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैन॑म्पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शास्ते ।। [9]
6.1.2.0
अ॒ग्नये॒ ता वृ॑धात्वृ॒चा स॒ख्यन्तेन॑ जुहोति॒ पञ्च॑दश च ।।2।।
6.1.2.1
याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्॒ य ए॒वं वि॒द्वान््य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒त्वान्तः प्र पा॑दयति मनुष्यलो॒क ए॒वैन॑म्पवयि॒त्वा पू॒तन्दे॑वलो॒कम्प्र ण॑य॒त्यदीक्षित॒ एक॒याहु॒त्येत्या॑हुः स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीम्पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒ आकूत्यै प्र॒युजे॒ऽग्नये [10]
6.1.2.2
स्वाहेत्या॒हाकूत्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै सर॑स्वती पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्त॒ आपो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑ह॒ या वै वर्ष्या॒स्ताः [11]
6.1.2.3
आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वश॑म्भुवो॒ यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या आपोऽशान्ता इ॒मल्लोँ॒कमा ग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्माच्छा॒न्ता इ॒मल्लोँ॒कमा ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योऱ्हि य॒ज्ञ उ॒र्व॑न्तरि॑क्ष॒मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु [12]
6.1.2.4
इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्द्धे॒ यद्ब्रू॒याद्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छेद्वृधा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सोऽस्मात्सृ॒ष्टः परा॑ङै॒त्स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यदृगु॒दय॑च्छ॒त्तदौद्ग्रह॒णस्यौद्ग्रहण॒त्वमृ॒चा [13]
6.1.2.5
जु॒हो॒ति॒ य॒ज्ञस्योद्य॑त्या अनु॒ष्टुप्छन्द॑सा॒मुद॑यच्छ॒दित्या॑हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श वात्सब॒न्धान्युद॑यच्छ॒न्नित्या॑हु॒स्तस्माद्द्वाद॒शभि॑र्वात्सबन्ध॒विदो॑ दीक्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नु॒ष्टुग्यदे॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैन॒॒ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम् [14]
6.1.2.6
इत्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑ द्यु॒म्नं वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीक्षयति स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒ यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति॒ यानि॑ च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाक्ष॑रा॒ तेन॑ [15]
6.1.2.7
गा॒य॒त्री यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग्यद्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दा॑सि॒ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्दीक्षयति स॒प्ताक्ष॑रम्प्रथ॒मम्प॒द स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्ध॒ एक॑स्माद॒क्षरा॒दनाप्तम्प्रथ॒मम्प॒दन्तस्मा॒द्यद्वा॒चोऽनाप्त॒न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒॒ सृष्ट्यै ।। [16]
6.1.3.0
रु॒न्ध॒ ए॒ष तस्माच्छर॒मयी॒ यूप॒स्तृती॑यम्मिथुन॒त्वाय॒ जन्म॒ हस्ते॑ना॒ष्टाच॑त्वारिशच्च ।।3।।
6.1.3.1
ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वाप॒क्रम्या॑तिष्ठता॒न्ते॑ऽमन्यन्त॒ यं वा इ॒मे उ॑पाव॒र्त्स्यतः॒ स इ॒दं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयोर्महि॒मान॑मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ यत्कृ॒ष्णमृ॑क्सा॒मयोः॒ शिल्पे स्थ॒ इत्या॑हर्क्सा॒मे ए॒वाव॑ रुन्ध ए॒षः [17]
6.1.3.2
वा अह्नो॒ वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णं यदे॒वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्द्धे कृष्णाजि॒नेन॑ दीक्षयति॒ ब्रह्म॑णो॒ वा ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नम्ब्रह्म॑णै॒वैनं॑ दीक्षयती॒मान्धिय॒॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्गर्भो॒ वा ए॒ष यद्दीक्षि॒त उल्बं॒ वासः॒ प्रोर्णु॑ते॒ तस्मात् [18]
6.1.3.3
गर्भाः॒ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपोर्ण्वीत॒ यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः प्र॒जानाम्परा॒पातु॑काः स्युः क्री॒ते सोमेऽपोर्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑यासम्प्रत्यपोर्णु॒ते ता॒दृगे॒व तदङ्गि॑रसः सुव॒र्गं लो॒कय्यँन्त॒ ऊर्जं॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी [19]
6.1.3.4
मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्द्धे मध्य॒तः सन्न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्मध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वं वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यं यन्म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यं॑ चै॒वास्या॑मे॒ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒त्स्फ्यस्तृती॑य॒॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यम् [20]
6.1.3.5
येऽन्तःश॒रा अशीर्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणा॑ शर॒त्वव्वँज्रो॒ वै श॒राः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुध॒म्भ्रातृ॑व्यम्मध्य॒तोऽप॑ हते त्रि॒वृद्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑ना॒व्व्याँवृ॑त्त्यै॒ मेख॑लया॒ यज॑मानन्दीक्षयति॒ योक्त्रे॑ण॒ पत्नीम्मिथुन॒त्वाय॑ [21]
6.1.3.6
य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्ता सम॑भव॒त्तदिन्द्रो॑ऽचाय॒त्सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ ताम्प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒माच्छि॑न॒त्सा सू॒तव॑शाभव॒त्तत्सू॒तव॑शायै॒ जन्म॑ [22]
6.1.3.7
ता हस्ते॒ न्य॑वेष्टयत॒ ताम्मृ॒गेषु॒ न्य॑दधा॒त्सा कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिसी॒रिति॑ कृष्णविषा॒णाम्प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञं क॑रोति॒ सयो॑नि॒न्दक्षि॑णा॒॒ सयो॑नि॒मिन्द्र॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्ति॒ यद्धस्ते॑न [23]
6.1.3.8
क॒ण्डू॒येत॑ पामन॒म्भावु॑काः प्र॒जाः स्यु॒र्यत्स्मये॑त नग्न॒म्भावु॑काः कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒ नेतोः कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒ नेतोः कृष्णविषा॒णामव॑चृ॒तेद्योनिः॑ प्र॒जानाम्परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम्प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑ल॒य्योँनिः॑ कृष्णविषा॒णा योना॑वे॒व योनि॑न्दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।। [24]
6.1.4.0
भु॒ञ्ज॒ते॒ऽयञ्छि॑न्द्याद्रुन्धे॒ऽग्निरा॑ह दे॒व इय॑द्दे॒वताभ्य॒ आ त्रय॑स्त्रिशच्च ।।4।।
6.1.4.1
वाग्वै दे॒वेभ्योऽपाक्रामद्यज्ञा॒याति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑श॒त्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑या॒य्यँद्दीक्षितद॒ण्डम्प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्द्ध॒ औदु॑म्बरो भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒ मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्मुख॒त ऊ॒र्जा भु॑ञ्जते [25]
6.1.4.2
क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम्प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचं॑ वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञम्मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योऱ्हि य॒ज्ञः स्वाहो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं वाता॒दार॑भ॒ इत्या॑हा॒यम् [26]
6.1.4.3
वाव यः पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अदीक्षिष्टा॒यम्ब्राह्म॒ण इति॒ त्रिरु॑पा॒॒श्वा॑ह दे॒वेभ्य॑ ए॒वैन॒म्प्राह॒ त्रिरु॒च्चैरु॒भयेभ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒ प्राह॒ न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒ वि सृ॑जे॒द्यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑ विसृ॒जेद्य॒ज्ञं विच्छि॑न्द्यात् [27]
6.1.4.4
उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ वि सृ॑जति य॒ज्ञव्र॑तो॒ वै दीक्षि॒तो य॒ज्ञमे॒वाभि वाचं॒ वि सृ॑जति॒ यदि॑ विसृ॒जेद्वैष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञ सं त॑नोति॒ दैवी॒न्धिय॑म्मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्द्धे [28]
6.1.4.5
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा(३)इ न हो॑त॒व्या(३)मिति॑ ह॒विर्वै दीक्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न जु॑हु॒याद्य॑ज्ञप॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोक्षं॑ जुहोति॒ तन्नेव॑ हु॒तं नेवाहु॑त स्व॒पन्तं॒ वै दीक्षि॒त रक्षा॑सि जिघासन्त्य॒ग्निः [29]
6.1.4.6
खलु॒ वै र॑क्षो॒हाग्ने॒ त्व सु जा॑गृहि व॒य सु म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दीक्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां व्र॒तप॑तिः॒ स ए॒वैनं॑ व्र॒तमाल॑म्भयति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वः [30]
6.1.4.7
ह्ये॑ष सन्मर्त्ये॑षु॒ त्वं य॒ज्ञेष्वीड्य॒ इत्या॑है॒त हि य॒ज्ञेष्वीड॒तेऽप॒ वै दीक्षि॒तात्सु॑षु॒पुष॑ इन्द्रि॒यं दे॒वताः क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्नित्या॑हेन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं न॑यति॒ यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑ स्यू॒ रास्वेय॑त् [31]
6.1.4.8
सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुन्द्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति वा॒यवे त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवतं॒ दक्षि॑णा गमये॒दा दे॒वताभ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वताभ्य॒ आ [32]
6.1.4.9
वृ॒श्च्य॒ते॒ देवी॑रापो अपां नपा॒दित्या॑ह॒ यद्वो॒ मेध्यं॑ य॒ज्ञिय॒॒ सदे॑वं॒ तद्वो॒ माव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒ तन्तु॑म्पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ।। [33]
6.1.5.0
प्रज्ञात्यै पश्यत्यनूया॒जव॒द्यज॑मा॒नोऽनु॑ पुरोनुवा॒क्यास्ता अ॒ष्टौ च॑ ।।5।।
6.1.5.1
दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न्तेऽ न्योन्यमुपा॑धाव॒न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्या॒॒ सम॑ध्रियन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ साब्र॑वी॒द्वरं॑ वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः॒ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शाम्प्रज्ञात्यै [34]
6.1.5.2
अथो॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पथ्या॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिश॒म्प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीची॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वाम्पथ्या॑ स्व॒स्तिं य॑जति॒ प्राची॑मे॒व तया॒ दिश॒म्प्र जा॑नाति॒ पथ्या॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्यति [35]
6.1.5.3
अ॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ यजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वादि॑तिं यजती॒यं वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वाना॒व्विँशो॑ देववि॒शं खलु॒ वै कल्प॑मानम्मनुष्यवि॒श- मनु॑ कल्पते॒ यन्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां कॢप्त्यै ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒जम्प्रा॑य॒णीयं॑ का॒र्य॑मनूया॒जव॑त् [36]
6.1.5.4
अ॒प्र॒या॒जमु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जाः सैव सा य॒ज्ञस्य॒ संत॑ति॒स्तत्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒जानू॑या॒जा यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑नूया॒जान॑न्तरि॒यात्प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञः परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॑ [37]
6.1.5.5
परा॑ भवति प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीयं॑ का॒र्य॑म्प्रया॒जव॑दनूया॒जव॑दुदय॒नीयं॒ नात्मान॑मन्त॒रेति॒ न प्र॒जां न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ संत॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः कु॒र्यात्परा॑ङ॒मुं लो॒कमा रो॑हेत्प्र॒मायु॑कः स्या॒द्याः प्रा॑य॒णीय॑स्य पुरोनुवा॒क्यास्ता उ॑दय॒नीय॑स्य या॒ज्याः करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।। [38]
6.1.6.0
निष्क्री॑णीष्व॒ दक्षि॑णाभिश्च वदन्ति॒ मन्य॑न्ते गन्ध॒र्वेभ्यो॑ ब॒हुत॑याः पिङ्गा॒क्ष्या दश॑ च ।।6।।
6.1.6.1
क॒द्रूश्च॒ वै सु॑प॒र्णी चात्मरू॒पयो॑रस्पर्धेता॒॒ सा क॒द्रूः सु॑प॒र्णीम॑जय॒त्साब्र॑वीत्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वेती॒यं वै क॒द्रूर॒सौ सु॑प॒र्णी छन्दा॑सि सौपर्णे॒याः साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णीष्व [39]
6.1.6.2
इति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒च्चतु॑र्दशाक्षरा स॒ती साप्राप्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒॒ सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छन्द॑साम्पश॒व्य॑तमा॒ तस्मात्पशु॒मन्तं॑ दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाक्षरा स॒ती साप्राप्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒॒ सा दक्षि॑णाभिश्च [40]
6.1.6.3
तप॑सा॒ चाग॑च्छ॒त्तस्मात्त्रि॒ष्टुभो॑ लो॒के माध्यं॑दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाभ्य॑रुन्द्ध॒ तद॒जाया॑ अज॒त्व सा सोमं॒ चाह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि साष्टाक्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति [41]
6.1.6.4
कस्मात्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑सा स॒ती य॑ज्ञमु॒खम्परी॑या॒येति॒ यदे॒वादः सोम॒माह॑र॒त्तस्माद्यज्ञमु॒खम्पर्यै॒त् तस्मात्तेज॒स्विनी॑तमा प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैक॒य्यँन्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द्द्वे सव॑ने शु॒क्रव॑ती प्रातःसव॒नं च॒ माध्यं॑दिनं च॒ तस्मात्तृतीयसव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्ते [42]
6.1.6.5
आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒त्त सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य॑मुष्णा॒त्स ति॒स्रो रात्रीः॒ परि॑मुषितोऽवस॒त्तस्मात्ति॒स्रो रात्रीः क्री॒तः सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्त्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वाः स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाच॒॒ स्त्रिय॒मेक॑हायनीं कृ॒त्वा तया॒ निर॑क्रीण॒न्त्सा रो॒हिद्रू॒पं कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ [43]
6.1.6.6
अ॒प॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन्दे॒वाः सा दे॒वान्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्गाय॑न्त॒॒ स्त्रियः॑ कामयन्ते॒ कामु॑का एन॒॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेदाथो॒ य ए॒वं वि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑याः [44]
6.1.6.7
भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैन॒॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑ वद॒न्त्यकू॑ट॒याऽक॑र्ण॒याऽ का॑ण॒याऽश्लो॑ण॒याऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैनं॑ क्रीणाति॒ यच्छ्वे॒तया क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानः स्या॒द्यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्या॒द्यद्द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒प स्वयै॒वैनं॑ दे॒वत॑या क्रीणाति ।। [45]
6.1.7.0
सत॑नु॒व्विँष्ण॑व॒ इत्या॑ह स॒मारो॑हति॒ ध्याय॑ति॒ तद्वा॒चा यज॑मानः स्यात्करोति क्रू॒रो वेद॑ ।।7।।
6.1.7.1
तद्धिर॑ण्यमभव॒त्तस्मा॑द॒द्भ्यो हिर॑ण्यम्पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्तेऽ- स्थ॒न्वतीर्जायन्त॒ इति॒ यद्धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्तेऽस्थ॒न्वतीर्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं तेजो॒ हिर॑ण्यमि॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒ इत्या॑ह॒ सते॑जसमे॒वैन॒॒ सत॑नुम् [46]
6.1.7.2
क॒रो॒त्यथो॒ सम्भ॑रत्ये॒वैन॒य्यँदब॑द्धमवद॒ध्याद्गर्भाः प्र॒जानाम्परा॒पातु॑काः स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्य॑म्बध्नाति प्र॒जानाम्प्र॒जन॑नाय॒ वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह [47]
6.1.7.3
य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैनां॒ जुष्टां करोति॒ तस्यास्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुन्द्धे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ रक्षा॑सि जिघासन्त्ये॒ष खलु॒ वा अर॑क्षोहतः॒ पन्था॒ योऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहतः॒ पन्था॒स्त स॒मारो॑हति [48]
6.1.7.4
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नासीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत्तस्माच्छि॒ष्टाः प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति म॒नासीत्या॑ह॒ यद्धि मन॑साभि॒गच्छ॑ति॒ तत्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा [49]
6.1.7.5
वद॑ति॒ दक्षि॑णा॒सीत्या॑ह॒ दक्षि॑णा ह्ये॑षा य॒ज्ञिया॒सीत्या॑ह य॒ज्ञिया॑मे॒वैनां करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षादि॑तिरस्युभ॒यतः॑शी॒ऱ्ष्णीत्या॑ह॒ यदे॒वादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता स्या॒द्यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्यात् [50]
6.1.7.6
यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒त्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒वैनाम्प॒दि ब॑ध्नाति पू॒षाध्व॑नः पा॒त्वित्या॑हे॒यं वै पू॒षेमामे॒वास्या॑ अधि॒पाम॑क॒स्सम॑ष्ट्या॒ इन्द्रा॒याध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑क्षं करोति [51]
6.1.7.7
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हानु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वः सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ यदे॒तद्यजु॒र्न ब्रू॒यात्पराच्ये॒व सो॑म॒क्रय॑णीयाद्रु॒द्रस्त्वा व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रः [52]
6.1.7.8
दे॒वाना॒न्तमे॒वास्यै॑ प॒रस्ताद्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाचं॑ ध॒त्तेऽनु॑पदासुकास्य॒ वाग्भ॑वति॒ य ए॒वं वेद॑ ।। [53]
6.1.8.0
म॒हि॒मान॒॒ स्वाहाप॑हत्या अध्व॒र्युर्धी॑यते॒ चतु॑र्विHशतिश्च ।।8।।
6.1.8.1
षट्प॒दान्यनु॒ नि क्रा॑मति षड॒हं वाङ्नाति॑ वदत्यु॒त सं॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्रासीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मानम् [54]
6.1.8.2
व्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हावृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा यद्दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत्प॒दं यत्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहा [55]
6.1.8.3
इत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपीड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धोऽध्व॒र्युः स्या॒द्रक्षा॑सि य॒ज्ञ ह॑न्यु॒र््हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धोऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञ रक्षा॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ रक्षा॑सि जिघासन्ति॒ परि॑लिखित॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै [56]
6.1.8.4
इ॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दय्याँ॑वत्त्मू॒त सं व॑पति प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मे राय॒ इति॒ सं व॑पत्या॒त्मान॑मे॒वाध्व॒र्युः [57]
6.1.8.5
प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिन्द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गाऱ्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गाऱ्ह॑पत्य उप॒वपे॑द॒स्मिल्लोँ॒के प॑शु॒मान्त्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मि॑ल्लोँ॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैन॑ल्लोँ॒कयोः पशु॒मन्तं॑ करोति ।। [58]
6.1.9.0
इत॑रम्पशु॒मान्त्स्याद्या॒त्यन॑सो॒त्सर्ग॑न्तू॒ष्णी स॑र्वदेव॒त्य॑व्वैँ त्रय॑स्त्रिशच्च ।।9।।
6.1.9.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा (३) न वि॒चित्या (३) इति॒ सोमो॒ वा ओष॑धीना॒॒ राजा॒ तस्मि॒न््यदाप॑न्नं ग्रसि॒तमे॒वास्य॒ तद्यद्वि॑चिनु॒याद्यथा॒स्याद्ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्यथा॒क्षन्नाप॑न्नं वि॒धाव॑ति ता॒दृगे॒व तत्क्षोधु॑कोऽध्व॒र्युः स्यात्क्षोधु॑को॒ यज॑मानः॒ सोम॑विक्रयि॒न्त्सोम॑ शोध॒येत्ये॒व ब्रू॑या॒द्यदीत॑रम् [59]
6.1.9.2
यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति॒ तस्मात्सोमविक्र॒यी क्षोधु॑कोऽरु॒णो ह॑ स्मा॒हौप॑वेशिः सोम॒क्रय॑ण ए॒वाहं तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ पशू॒नां चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्द्धे प॒शवो॒ हि तृ॒तीय॒॒ सव॑न॒य्यँङ्का॒मये॑ताप॒शुः स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत॒र्क्षं वा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्त्स्यात् [60]
6.1.9.3
इति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वत्य॒पामन्ते क्रीणाति॒ सर॑समे॒वैनं॑ क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैनं॑ कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहोऽन॒साच्छ॑ याति महि॒मान॑मे॒वास्याच्छ॑ या॒त्यन॑सा [61]
6.1.9.4
अच्छ॑ याति॒ तस्मा॑दनोवा॒ह्य॑ स॒मे जीव॑न॒य्यँत्र॒ खलु॒ वा ए॒त शी॒ऱ्ष्णा हर॑न्ति॒ तस्माच्छीऱ्षहा॒र्यं॑ गि॒रौ जीव॑नम॒भि त्यं दे॒व स॑वि॒तार॒मित्यति॑छन्दस॒र्चा मि॑मी॒तेऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्मिमीते॒ वऱ्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वऱ्ष्मै॒वैन॑ समा॒नानां करो॒त्येक॑यैकयो॒त्सर्गम् [62]
6.1.9.5
मि॒मी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैन॑म्मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑यः॒ सर्वास्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मात्स॒माव॑द्वीर्यो॒ऽन्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒त्सर्वा॒ अनु॒ सं च॑रति॒ यत्स॒ह सर्वा॑भि॒र्मिमी॑त॒ सश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒न्नेक॑यैकयो॒त्सर्ग॑म्मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीम् [63]
6.1.9.6
दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे॒ यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्द्धे॒ यत्तू॒ष्णीम्भ॑वि॒ष्यद्यद्वै तावा॑ने॒व सोमः॒ स्याद्याव॑न्त॒म्मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नाम्प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वाभ॑जति॒ वास॒सोप॑ नह्यति सर्वदेव॒त्यं॑ वै [64]
6.1.9.7
वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति प॒शवो॒ वै सोमः॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मात्स्व॒पन्त॑म्प्रा॒णा न ज॑हति ।। [65]
6.1.10.0
सशु॑क्रमे॒व रु॑न्ध॒ इति॒ येन॒ हिर॑ण्येन॒ स्वान॒ चतु॑श्चत्वारिशच्च ।।10।।
6.1.10.1
यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑अर्घ॒॒ सोमं॑ कु॒र्यादगो॑अर्घं॒ यज॑मान॒मगो॑अर्घमध्व॒र्युङ्गोस्तु म॑हि॒मानं॒ नाव॑ तिरे॒द्गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद्गोअ॒र्घमे॒व सोमं॑ क॒रोति॑ गोअ॒र्घं यज॑मानं गोअ॒र्घम॑ध्व॒र्युन्न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया क्रीणाति॒ सत॑पसमे॒वैनं॑ क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒व [66]
6.1.10.2
ए॒नं॒ क्री॒णा॒ति॒ धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैनं॑ क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैनं॑ क्रीणात्यन॒डुहा क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान््वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्यां क्रीणाति मिथु॒नस्याव॑रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यं॑ वै वासः॒ सर्वाभ्य ए॒वैनं॑ दे॒वताभ्यः क्रीणाति॒ दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [67]
6.1.10.3
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑त आ॒त्मनोऽनाव्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूनाप्नोति॒ य ए॒वं वेद॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन [68]
6.1.10.4
सोमं॑ क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ऽस्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा॒ सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ता समा॑ स॒र्पाः स्यु॑रि॒दम॒ह स॒र्पाणां दन्द॒शूका॑नां ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्ता समा॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ विध्यति॒ स्वान॑ [69]
6.1.10.5
भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑ल्लोँ॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न््यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॑ऽमुष्मि॑ल्लोँ॒के सोम॑ रक्षेयु॒र्यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तोऽस्य॒ सोमो॑ भवत्ये॒तेऽस्या॒मुष्मि॑ल्लोँ॒के सोम॑ रक्षन्ति ।। [70]
6.1.11.0
अ॒न्वा॒रभ्योत्सर्वा॑भिरे॒व सूर्यं॑ भू॒ताना॒॒ ह्ये॑ति॒ यदा॑हुस्स॒प्तवि॑शतिश्च ।।11।।
6.1.11.1
वा॒रु॒णो वै क्री॒तः सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै य सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन्ने॒ष खलु॒ वा ए॒तऱ्हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वान्वा॒रभ्योत् [71]
6.1.11.2
ति॒ष्ठ॒त्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो ह्ये॑तऱ्हि॒ सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒ण सन्त॑म्मै॒त्रं क॒रोति॑ वारु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑ वै वासः॒ सर्वा॑भिरे॒व [72]
6.1.11.3
ए॒नं॒ दे॒वता॑भिः॒ सम॑र्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षं त॒तान॒ वाज॒मर्व॒त्स्वित्या॑ह॒ वाज॒॒ ह्यर्व॑त्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒त्सु क्रतु॒मित्या॑ह हृ॒त्सु हि क्रतु॒व्वँरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निन्दि॒वि सूर्यम् [73]
6.1.11.4
इत्या॑ह दि॒वि हि सूर्य॒॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒ त्यं जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम्प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑ धूऱ्षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒ताना॒॒ हि [74]
6.1.11.5
ए॒ष पति॒र्विश्वान्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादः सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वछित्त्यै॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् [75]
6.1.11.6
क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमं॒ वह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दीक्षि॒तो यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त्तस्य॒ नाश्य॑म्पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हुर॒ग्नीषोमाभ्या॒व्वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्माद्वा॒श्य॑व्वाँरु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑ चरति ।। [76]
6.2.0.0
यदु॒भौ दे॑वासु॒रा मि॒थस्तेषा॑ सुव॒र्गय्यँद्वा अनी॑शानः पु॒रोह॑विषि॒ तेभ्य॒स्सोत्त॑रवे॒दिर्ब॒द्धन्दे॒वस्याभ्रि॒॒ शिरो॒ वा एका॑दश ।।11।। यदु॒भावित्या॑ह दे॒वानाय्यँ॒ज्ञो दे॒वेभ्यो॒ न रथा॑य॒ यज॑मानाय प॒रस्ता॑द॒र्वाची॒न्नव॑पञ्चा॒शत् ।।59।। यदु॒भौ दु॒ह ए॒वैनाम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे द्वितीयः प्रश्नः ।।
6.2.1.0
पत्नि॑या ए॒व जग॑त्या॒ आ त्रि॒वृद्वै प॑रि॒धीन् व॑द॒न्त्येक॑चत्वारिशच्च ।।1।।
6.2.1.1
यदु॒भौ वि॒मुच्या॑ति॒थ्यं गृ॑ह्णी॒याद्य॒ज्ञं विच्छि॑न्द्या॒द्यदु॒भाववि॑मुच्य॒ यथाना॑गतायाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान्भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒ निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒व [1]
6.2.1.2
ए॒ष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै॒ याव॑द्भि॒र्वै राजा॑नुच॒रैरा॒गच्छ॑ति॒ सर्वेभ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दा॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्यै [2]
6.2.1.3
ए॒वैतेन॑ करोत्य॒ग्नये त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा [3]
6.2.1.4
अह॑र॒त्तस्माद्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ताच्चो॒परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मान्नव॒धा शिरो॒ विष्यू॑त॒न्नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑ ए॒व य॒ज्ञस्य॑ शी॒ऱ्षन्द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता प्रा॒णेन॒ सम्मि॑तास्त्रि॒वृद्वै [4]
6.2.1.5
प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं य॒ज्ञस्य॑ शी॒ऱ्षन्द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐक्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची प्र॒जाप॑तेरे॒व तच्चक्षुः॒ सम्भ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाः काऱ्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते कार्ष्मर्य॒मयान्परि॒धीन् [5]
6.2.1.6
अ॒कु॒र्व॒त॒ तैर्वै ते रक्षा॒॒स्यपाघ्नत॒ यत्कार्ष्मर्य॒मयाः परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सस्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षा॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षा॒॒स्यप॑हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति [6]
6.2.1.7
अ॒ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒तेऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ।। [7]
6.2.2.0
यो वा ओज॑ आह॒ यद॑शी॒येति॒ तेऽग्न॒ एका॑दश च ।।2।।
6.2.2.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्तेऽ न्योन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्नि- र्वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विश्वैर्दे॒वैस्ते॑ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दम्भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास्त॒नुव॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निर््ऋ॑च्छा॒द्यः [8]
6.2.2.2
नः॒ प्र॒थ॒मोऽ न्योन्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑नूनप्त्रिणाम्प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत्ता॑नून॒प्त्र स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वोऽव॑ द्यति पञ्च॒धा हि ते तत्स॑म॒वाद्य॒न्ताथो॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वै [9]
6.2.2.3
आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒ शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठ॒॒ हि ते तदा॒त्मनः॑ सम॒वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्ट॒॒ ह्ये॑तद॑नाधृ॒ष्यन्दे॒वाना॒मोजः॑ [10]
6.2.2.4
इत्या॑ह दे॒वाना॒॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा ह्ये॑तद॑नभिशस्ते॒न्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तं वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्य॒॒शुर॑शुस्ते देव सो॒मा प्या॑यता॒मित्या॑ह॒ यत् [11]
6.2.2.5
ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑यय॒त्या तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्रं॑ च॒ सोमं॒ चा प्या॑यय॒त्या प्या॑यय॒ सखीन्त्स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वा प्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय [12]
6.2.2.6
इत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्यन्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ रायः॒ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मिल्लोँ॒के प्रति॑ तिष्ठन्ति देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा बिभ्य॑तो॒ऽग्निम्प्रावि॑श॒न्तस्मा॑दाहुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ ते [13]
6.2.2.7
अ॒ग्निमे॒व वरू॑थं कृ॒त्वासु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया॑ संत॒राम्मेख॑ला स॒माय॑च्छते प्र॒जा ह्यात्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर्मार्जयते॒ निऱ्ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द्दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै ।। [14]
6.2.3.0
अ॒सि॒ष्य॒तीति॑ जुहु॒यात्सा॒यम्प्रा॑तरुप॒सद॒श्चतु॑र्विशति॒स्सञ्च॒तुरोऽग्रे॒ षोड॑श च ।।3।।
6.2.3.1
तेषा॒मसु॑राणान्ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतु॒न्नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीष॒न्तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒ त इषु॒॒ सम॑स्कुर्वता॒ग्निमनी॑क॒॒ सोम॑ श॒ल्यं विष्णु॒न्तेज॑न॒न्तेऽब्रुव॒न्क इ॒माम॑सिष्य॒तीति॑ [15]
6.2.3.2
रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रू॒रः सोऽस्य॒त्विति॒ सोऽब्रवी॒द्वरं॑ वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्माद्रु॒द्रः प॑शू॒नामधि॑पति॒स्ता रु॒द्रोऽवा॑सृज॒त्स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै॒ नान्यामाहु॑तिम्पु॒रस्ताज्जुहुया॒द्यद॒न्यामाहु॑तिम्पु॒रस्ताज्जुहु॒यात् [16]
6.2.3.3
अ॒न्यन्मुखं॑ कुर्यात्स्रु॒वेणा॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञात्यै॒ परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ्जि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ याः सा॒य रात्रि॑यै॒ ताभि॒र्यत्सा॒यम्प्रा॑तरुप॒सदः॑ [17]
6.2.3.4
उ॒प॒स॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ याः प्रा॒तर्या॒ज्याः स्युस्ताः सा॒यम्पु॑रोनुवा॒क्याः कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णाति॒ चतु॑र्विशतिः॒ सम् [18]
6.2.3.5
प॒द्य॒न्ते॒ चतु॑र्विशतिरर्धमा॒सा अ॑र्धमा॒साने॒व प्री॑णा॒त्याराग्रामवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒स्मिन्मे॑ लो॒केऽर्धु॑क स्या॒दित्येक॒मग्रेऽथे॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आराग्रावान्तरदी॒क्षास्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति प॒रोव॑रीयसीमवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न्मे लो॒केऽर्धु॑क स्या॒दिति॑ च॒तुरोऽग्रेऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ।। [19]
6.2.4.0
रु॒न्धे॒ वा॒म॒मो॒षो वे॑दि॒त्वमसु॑राणाव्वेँदि॒त्वम्भ॑वन्ति॒ पञ्च॑विशतिश्च ।।4।।
6.2.4.1
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषा॒य्यँ उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सून्नीयमिव॒ यो वै स्वा॒र्थेताय्यँ॒ता श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मात्स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒ध्नोन्न॑येतै॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒व प॒शूनव॑ रुन्द्धे [20]
6.2.4.2
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा स पृ॑थि॒वीम्प्रावि॑श॒त्तं दे॒वा हस्तान्त्स॒॒रभ्यैच्छ॒न्तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒त् सोऽब्रवी॒त्को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हं दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सोऽब्रवीद्दु॒र्गे वै हन्ता॑वोचथा वरा॒हो॑ऽयं वा॑ममो॒षः [21]
6.2.4.3
स॒प्ता॒नां गि॑री॒णाम्प॒रस्ताद्वि॒त्तं वेद्य॒मसु॑राणाम्बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॒ स द॑र्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन्भि॒त्त्वा तम॑ह॒न्त्सोऽब्रवीद्दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमेभ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑र॒द्यत्तद्वि॒त्तं वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकं॒ वेद्यै॑ वेदि॒त्वमसु॑राणाम् [22]
6.2.4.4
वा इ॒यमग्र॑ आसी॒द्याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द्दे॒वाना॒न्ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒य स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑ वेदि॒त्वम् [23]
6.2.4.5
सा वा इ॒य सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रि॒॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रि॑श॒त्प्राची॒ चतु॑र्विशतिः पु॒रस्तात्ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ब॒ऱ्हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रम्ब॒ऱ्हिष॑ उत्तरब॒ऱ्हिः स्तृ॑णाति प्र॒जा वै ब॒ऱ्हिर्यज॑मान उत्तरब॒ऱ्हिर्यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ।। [24]
6.2.5.0
ए॒तद्वै क्रू॒र इ॒वैक॑व्रता आ॒त्मना॒ यज॑मानस्य॒ त्रयो॑दश च ।।5।।
6.2.5.1
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद्द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒त्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैक॒॒ स्तनं॑ व्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒तद्वै [25]
6.2.5.2
क्षु॒रप॑वि॒ नाम॑ व्र॒तं येन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तनान्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्य॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व [26]
6.2.5.3
रा॒ज॒न्यो॑ वज्र॑स्य रू॒प समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॒ पयो ब्राह्म॒णस्य॒ तेजो॒ वै ब्राह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद्दीक्षि॒तो यद॑स्य॒ पयो व्र॒तम्भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः [27]
6.2.5.4
दे॒वाः प्रा॒तर्म॒ध्यंदि॑ने सा॒यं तन्मनोर्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒ध्यं क्षु॒धो रू॒पं तत॒स्ते परा॑भवन्म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्त्सुव॒र्गं लो॒कमा॑य॒न््यद॑स्य म॒ध्यंदि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना [28]
6.2.5.5
पराऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद्दीक्षि॒तो योनि॑र्दीक्षितविमि॒तं यद्दीक्षि॒तो दीक्षितविमि॒तात्प्र॒वसे॒द्यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्यद्दीक्षि॒तः प्र॒वसे॒त्स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दक्षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒यत॑न॒॒ स्व ए॒वायत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ।। [29]
6.2.6.0
यात॒वै ह॑वि॒र्धान॑ञ्च प॒शून्पा॒प्मना॒ऽष्टाद॑श च ।।6।।
6.2.6.1
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गं लो॒कं ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नं॒ यस्य॒ होता प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गं लो॒कं ज॑यत्या॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्त॒म्पन्थां वाधिस्प॒र््शये॑त्क॒र्तं वा॒ याव॒न्नान॑से॒ यात॒वै [30]
6.2.6.2
न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्यं॒ नैन॒म्भ्रातृ॑व्य आप्नो॒त्येकोन्नते देव॒यज॑ने याजयेत्प॒शुका॑म॒मेकोन्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒त स्या॑दे॒तद्वा एकोन्नतं देव॒यज॑नम्पशु॒माने॒व भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने याजयेत्सुव॒र्गका॑म॒न्त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः सुव॒र्गं लो॒कमा॑यन्नन्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च [31]
6.2.6.3
उ॒न्न॒त स्या॑दन्त॒रा ह॑वि॒र्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गाऱ्ह॑पत्यं चै॒तद्वै त्र्यु॑न्नतं देव॒यज॑न सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितं देव॒यज॑नं॒ यत्स॒र्वतः॑ स॒मम्प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस्तद्या॑जयेत्प॒शुका॑ममे॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒वास्मै॑ प॒शून् [32]
6.2.6.4
अव॑ रुन्द्धे पशु॒माने॒व भ॑वति॒ निर््ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यं का॒मये॑त॒ निर््ऋ॑त्यास्य य॒ज्ञं ग्रा॑हयेय॒मित्ये॒तद्वै निर््ऋ॑तिगृहीतं देव॒यज॑नं॒ यत्स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षन्निर््ऋ॑त्यै॒वास्य॑ य॒ज्ञं ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मं॒ यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमा॑सेरन्प्रा॒चीन॑माहव॒नीयात्प्रव॒ण स्यात्प्रती॒चीनं॒ गाऱ्ह॑पत्यादे॒तद्वै व्यावृ॑त्तं देव॒यज॑न॒व्विँ पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमासन्ते का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामं का॒र्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व ।। [33]
6.2.7.0
मि॒मी॒ते॒ नाम॑ ध्रु॒वाऽप॑ शु॒चा त्रीणि॑ च ।।7।।
6.2.7.1
तेभ्य॑ उत्तरवे॒दिः सि॒॒ही रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान््वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साब्र॑वी॒द्वरं॑ वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञवथ॒ पूर्वां तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॒ तस्मा॑दुत्तरवे॒दिम्पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृत॒॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते [34]
6.2.7.2
मात्रै॒वास्यै॒ साऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्द्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान््ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान््ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान््ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर्नभो॒ नाम॑ [35]
6.2.7.3
अग्ने॑ अङ्गिर॒ इति॒ त्रिऱ्ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒स्ताने॒वाव॑ रुन्द्धे तू॒ष्णीं च॑तु॒र्थ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्द्धे सि॒॒हीर॑सि महि॒षीर॒सीत्या॑ह सि॒॒हीऱ्ह्ये॑षा रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा [36]
6.2.7.4
अ॒सीति॒ स ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्तात्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोक्ष॑ति दे॒वाश्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दप॑ [37]
6.2.7.5
अ॒नु॒द॒त॒ मनो॑जवाः पि॒तृभि॑र्दक्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद्वि॒श्वक॑र्मादि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिम्प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत॒ इन्द्रो॒ यतीन्त्सालावृ॒केभ्यः॒ प्राय॑च्छ॒त्तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न््यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रं तत्तेन॑ शमयति॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ।। [38]
6.2.8.0
वि॒त्त्वा दे॑वय॒त ए॒षाम॑ब्रुव॒न््यानि॒ चतु॑श्चत्वारिशच्च ।।8।।
6.2.8.1
सोत्त॑रवे॒दिर॑ब्रवी॒त्सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः सि॒॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न्भ्रातृ॑व्यान॒भ्य॑भव॒न्तेऽसु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑कामयन्त प्र॒जां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां वि॒त्त्वा [39]
6.2.8.2
अ॒का॒म॒य॒न्त॒ प॒शून््वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून््वि॒त्त्वाऽ का॑मयन्त प्रति॒ष्ठां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒॒हीर॑स्यादित्य॒वनिः॒ स्वाहेति॒ त इ॒माम्प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒माम्प्र॑ति॒ष्ठां वि॒त्त्वाका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुः सि॒॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते [40]
6.2.8.3
यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न्पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान्परि॒धीन्परि॑ दधात्ये॒षाम् [41]
6.2.8.4
लो॒काना॒व्विँधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्याया॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सोऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ स याव्वँन॒स्पति॒ष्वव॑स॒त्ताम्पूतु॑द्रौ॒ यामोष॑धीषु॒ ता सु॑गन्धि॒तेज॑ने॒ याम्प॒शुषु॒ ताम्पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तमन्व॑विन्द॒न्तम॑ब्रुवन्न् [42]
6.2.8.5
उप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषा॒न्तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यानि॑ [43]
6.2.8.6
अ॒स्थान्यशा॑तयत॒ तत्पूतु॑द्र्वभव॒द्यन्मा॒॒समुप॑मृतं॒ तद्गुल्गु॑लु॒ यदे॒तान्त्स॑म्भा॒रान्त्स॒म्भर॑त्य॒ग्निमे॒व तत्सम्भ॑रत्य॒ग्नेः पुरी॑षम॒सीत्या॑हा॒ग्नेऱ्ह्ये॑तत्पुरी॑षं॒ यत्सं॑भा॒रा अथो॒ खल्वा॑हुरे॒ते वावैनं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत्पौतु॑द्रवाः परि॒धय॒ इति॑ ।। [44]
6.2.9.0
पत्नी॑ हन्युर्वा पृथि॒व्या विष्यू॑त॒व्विँष्णोः॒ षड्वि॑शतिश्च ।।9।।
6.2.9.1
ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः॒ स यदु॒त्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युत्स॑र्जेत् सु॒वाग्दे॑व॒ दुर्या॒॒ आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्नी [45]
6.2.9.2
उपा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रम्मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञ रक्षा॑सि जिघासन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्याव्वँर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षा॒॒स्यप॑ हन्ति॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धोऽध्व॒र्युः स्या॒द्रक्षा॑सि य॒ज्ञ ह॑न्युः [46]
6.2.9.3
हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धोऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञ रक्षा॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथा॒व्वँर्ष्म॑न्पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत्पृ॑थि॒व्या यद्दे॑व॒यज॑न॒॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑न्दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्याः [47]
6.2.9.4
इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीं नि ह॑न्ति शीऱ्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्द्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिन॒द्यत्तृ॒तीयं॑ छ॒दिऱ्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॒व्विँष्णो॑ र॒राट॑मसि॒ विष्णोः पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑त॒व्विँष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वम॒सीत्या॑ह वैष्ण॒व हि दे॒वत॑या हवि॒र्धान॒य्यँम्प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ।। [48]
6.2.10.0
अप॑हत्यै॒ तस्मात्पितृदेव॒त्य॑न्तेनै॒व नव॑छदि॒ तस्मा॒त्सदः॒ पञ्च॑दश च ।।10।।
6.2.10.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम्पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ रक्षा॑सि जिघासन्ति॒ परि॑लिखित॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै [49]
6.2.10.2
इ॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैनाल्लोँ॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाची॒म्प्रोक्ष॑ति॒ तस्मात् [50]
6.2.10.3
प॒रस्ता॑द॒र्वाचीम्मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑ ऊ॒र्जैवोर्ज॒॒ सम॑र्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति पितृ॒णा सद॑नम॒सीति॑ ब॒ऱ्हिरव॑ स्तृणाति पितृदेव॒त्यम् [51]
6.2.10.4
ह्ये॑तद्यन्निखा॑त॒य्यँद्ब॒ऱ्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒ऱ्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनाम्मिनो॒त्यथो स्वा॒रुह॑मे॒वैनाङ्करो॒त्युद्दिव॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षाल्लोँ॒काना॒व्विँधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑म्बरीम्मिनोति॒ तेनै॒व [52]
6.2.10.5
ए॒ना॒म्मि॒नो॒ति॒ ब्र॒ह्म॒वनि॑न्त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑साऽनक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्र हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यत्सदो॒ नव॑छदि [53]
6.2.10.6
तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशछदीन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विशतिछदि प्रति॒ष्ठाका॑मस्यैकवि॒॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ वै सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम्मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मात् [54]
6.2.10.7
म॒ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि छ॒दीषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रोऽन्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यम्प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्र हि दे॒वत॑या॒ सदो॒ यम्प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ।। [55]
6.2.11.0
व॒पा॒मि॒ यव॑मती॒रव॑ नयति हवि॒र्धान॑मे॒व त्रयो॑विशतिश्च ।।11।।
6.2.11.1
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वा ह॑वि॒र्धाने॑ खायन्ते॒ तस्माच्छी॒ऱ्षन्प्रा॒णा अ॒धस्तात्खायन्ते॒ तस्मा॑द॒धस्ताच्छी॒र्ष्णः प्रा॒णा र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानाम्प्रा॒णेषु॑ वल॒गान्न्य॑खन॒न्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्माद्बाहुमा॒त्राः खा॑यन्त इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि [56]
6.2.11.2
यं नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गं नि॒खन॑त॒स्तमे॒वोद्व॑पति॒ सं तृ॑णत्ति॒ तस्मा॒त्संतृ॑ण्णा अन्तर॒तः प्रा॒णा न सम्भि॑नत्ति॒ तस्मा॒दस॑म्भिन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णा यव॑मती॒रव॑ नयति [57]
6.2.11.3
ऊर्ग्वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्जं॑ दधाति ब॒ऱ्हिरव॑ स्तृणाति॒ तस्माल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्य॑म्प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सं तृ॑ण॒त्त्यसं॑तृण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे सं॒तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानम् [58]
6.2.11.4
प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दर॒॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒दरं॑ गच्छति॒ तस्माद्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे दोहं॒ वेद॑ दु॒ह ए॒वैना॑मि॒यं वै वि॒राट्तस्यै॒ त्वक्चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वं वेद॑ दु॒ह ए॒वैनाम् ।। [59]
6.3.0.0
चात्वा॑लात्सुव॒र्गाय॒ यद्वै॑सर्ज॒नानि॑ वैष्ण॒व्यर्चा पृ॑थि॒व्यै सा॒ध्या इ॒षे त्वेत्य॒ग्निना॒ पर्य॑ग्नि प॒शोः प॒शुमा॒लभ्य॒ मेद॑सा॒ स्रुचा॒वेका॑दश ।।11।। चात्वा॑लाद्दे॒वानु॒पैति॑ मुञ्चति प्रह्रि॒यमा॑णाय॒ पर्य॑ग्नि प॒शुमा॒लभ्य॒ चतु॑ष्पादो॒ द्विष॑ष्टिः ।।62।। चात्वा॑लात्प॒शुषु॑ दधाति ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।
6.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे तृतीयः प्रश्नः ।।
6.3.1.0
स्तु॒ते वि॒न्दते॒ हि वी॑यन्ते प्र॒तीची॑रुद्गा॒त्र उ॒प्यन्ते॒ चतु॑र्दश च ।।1।।
6.3.1.1
चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञस्य॑ सयोनि॒त्वाय॑ दे॒वा वै य॒ज्ञम्परा॑जयन्त॒ तमाग्नीध्रा॒त्पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नीध्र॒य्यँदाग्नीध्रा॒द्धिष्णि॑यान््वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजितं॒ तत॑ ए॒वैन॒म्पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒न सर्प॑न्ति बहिष्पवमा॒ने स्तु॒ते [1]
6.3.1.2
आ॒हाग्नी॑द॒ग्नीन््वि ह॑र ब॒ऱ्हिः स्तृ॑णाहि पुरो॒डाशा॒॒ अलं॑ कु॒र्विति॑ य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस्तृ॒तीय॑ सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा अ॒मुष्मि॑ल्लोँ॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्तम॑न्व॒वाय॒न्तम्पर्य॑विश॒न््य ए॒वं वेद॑ वि॒न्दते [2]
6.3.1.3
प॒रि॒वे॒ष्टार॒न्ते सो॑मपी॒थेन॒ व्यार्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमैच्छन्त॒ तान्दे॒वा अ॑ब्रुव॒न्द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्र वा॒प्स्यथ॒ न वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्माद्द्वि॒नामा ब्राह्म॒णोऽर्धु॑क॒स्तेषां॒ ये नेदि॑ष्ठम्प॒र्यवि॑श॒न्ते सो॑मपी॒थं प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑ट्करोति॒ वि हि [3]
6.3.1.4
ए॒ते सो॑मपी॒थेनार्ध्य॑न्त दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्तास्ताभिः॒ प्राणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्तास्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्व्याघा॑रयति प॒श्चाच्चै॒व पु॒रस्ताच्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीचीः [4]
6.3.1.5
जा॒य॒न्ते॒ प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑ध्व॒र्युः प्र॒त्यङ्धिष्णि॑यानति॒सर्पेत्प्रा॒णान्त्सं क॑ऱ्षेत्प्र॒मायु॑कः स्या॒न्नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोतो॒र्ध्वः खलु॒ वै नाभ्यै प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युः प्र॒त्यङ्होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात् प्र॒मायु॑कः स्या॒न्नाध्व॒र्युरुप॑ गाये॒द्वाग्वीर्यो॒ वा अ॑ध्व॒र्युर्यद॑ध्व॒र्युरु॑प॒गाये॑दुद्गा॒त्रे [5]
6.3.1.6
वाच॒॒ सम्प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्याद्ब्रह्मवा॒दिनो॑ वदन्ति॒ नास॑स्थिते॒ सोमेऽध्व॒र्युः प्र॒त्यङ्ख्सदोऽती॑या॒दथ॑ क॒था दाक्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ वाया॑मं॒ वानु॑ ज्ञास्य॒न्तीत्युत्त॑रे॒णाग्नीध्रं प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्त्सं क॑ऱ्षति॒ न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये यान्नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति॒ यान्न नि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ।। [6]
6.3.2.0
अथ॑ ददते॒ स्वया॒ सन्त्स्व॑धाका॒रो हि वि॑न्दति ।।2।।
6.3.2.1
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि॒ द्वाभ्यां॒ गाऱ्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नीध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा क्र॑मत आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति दे॒वान््वै सु॑व॒र्गं लो॒कं य॒तो रक्षा॑स्यजिघास॒न्ते सोमे॑न॒ राज्ञा॒ रक्षा॑स्यप॒हत्या॒प्तुमा॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्रक्ष॑सा॒मनु॑पलाभा॒यात्तः॒ सोमो॑ भव॒त्यथ॑ [7]
6.3.2.2
वै॒स॒र्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै॒ त्व सो॑म तनू॒कृद्भ्य॒ इत्या॑ह तनू॒कृद्ध्ये॑ष द्वेषोभ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि रक्षा॑स्यु॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑हो॒रु ण॑स्कृ॒धीति॒ वावैतदा॑ह जुषा॒णो अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मानं कृ॒त्वा सु॑व॒र्गं लो॒कं ग॑मयति॒ रक्ष॑सा॒मनु॑पलाभा॒या सोमं॑ ददते [8]
6.3.2.3
आ ग्राव्ण्ण॒ आ वा॑य॒व्यान्या द्रो॑णकल॒शमुत्पत्नी॒मा न॑य॒न्त्यन्वना॑सि॒ प्र व॑र्तयन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒ नय॑वत्य॒र्चाग्नीध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनीत्यै॒ ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नीध्र॒ उप॑ वासयति॒ वि ह्ये॑नं॒ तैर्गृ॒ह्णते॒ यत्स॒होप॑वा॒सये॑दपुवा॒येत॑ सौ॒म्यर्चा प्र पा॑दयति॒ स्वया [9]
6.3.2.4
ए॒वैनं॑ दे॒वत॑या॒ प्र पा॑दय॒त्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवितः॒ सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वताभ्यः॒ सम्प्र य॑च्छत्ये॒तत्त्व सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष सन् [10]
6.3.2.5
दे॒वानु॒पैती॒दम॒हम्म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो ह्ये॑ष सन्म॑नु॒ष्या॑नु॒पैति॒ यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानः स्यात्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभिः॑ स॒हेमं लो॒कमु॒पाव॑र्तते॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वाना॑ स्व॒धा पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि [11]
6.3.2.6
पि॒तृ॒णामि॒दम॒हं निर्वरु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽग्ने व्रतपत आ॒त्मनः॒ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः॒ को हि तद्वेद॒ यद्वसी॑या॒न्त्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति॒ ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना य ए॒वं वि॒द्वान्ग्राव्ण्ण॒ आग्नीध्र उपवा॒सय॑ति॒ नैन॑म्मलिम्लुसे॒ना वि॑न्दति ।। [12]
6.3.3.0
जु॒षे॒ सते॑जस॒मन॑क्षसङ्गं बहुशा॒खं वृ॑श्चेदे॒ष वै य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञ आप्त्या॒ एका॒न्नवि॑श॒तिश्च॑ ।।3।।
6.3.3.1
वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॒याच्छै॒त्यत्य॒न्यानगां॒ नान्यानुपा॑गा॒मित्या॒हाति॒ ह्य॑न्यानेति॒ नान्यानु॒पैत्य॒र्वाक्त्वा॒ परै॑रविदम्प॒रोऽव॑रै॒रित्या॑हा॒र्वाग्घ्ये॑न॒म्परैर्वि॒न्दति॑ प॒रोव॑रै॒स्तं त्वा॑ जुषे [13]
6.3.3.2
वै॒ष्ण॒वं दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑नं जु॒षते॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मन॒क्त्योष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः॒ शान्त्यै॒ स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒ यः प्र॑थ॒मः शक॑लः परा॒पते॒त्तमप्या ह॑रे॒त्सते॑जसम् [14]
6.3.3.3
ए॒वैन॒मा ह॑रती॒मे वै लो॒का यूपात्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्ष॒म्मध्ये॑न॒ मा हि॑सी॒रित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ वन॑स्पते श॒तव॑ल््शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒ तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूया॑स॒ उत्ति॑ष्ठन्ति स॒हस्र॑वल््शा॒ वि व॒य रु॑हे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॒स्तेऽन॑क्षसङ्गम् [15]
6.3.3.4
वृ॒श्चे॒द्यद॑क्षस॒ङ्गं वृ॒श्चेद॑धई॒षं यज॑मानस्य प्र॒मायु॑क स्या॒द्यं का॒मये॒ताप्र॑तिष्ठितः स्या॒दित्या॑रो॒हं तस्मै॑ वृश्चेदे॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तोऽप्र॑तिष्ठित ए॒व भ॑वति॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑प॒र्णं तस्मै॒ शुष्काग्रं वृश्चेदे॒ष वै वन॒स्पती॑नामपश॒व्यो॑ऽप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्त्स्या॒दिति॑ बहुप॒र्णं तस्मै॑ बहुशा॒खं वृ॑श्चेदे॒ष वै [16]
6.3.3.5
वन॒स्पती॑नाम्पश॒व्यः॑ पशु॒माने॒व भ॑वति॒ प्रति॑ष्ठितं वृश्चेत्प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑ना॒म्प्रति॑ष्ठितो॒ यः स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढः प्रत्ये॒व ति॑ष्ठति॒ यः प्र॒त्यङ्ङुप॑नत॒स्तं वृ॑श्चे॒त्स हि मेध॑म॒भ्युप॑नतः॒ पञ्चा॑रत्निं॒ तस्मै॑ वृश्चे॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञः [17]
6.3.3.6
न॒म॒ति॒ षड॑रत्निम्प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति स॒प्तार॑त्निम्प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒ नवा॑रत्निं॒ तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑तं॒ तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशारत्नि- मिन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशारत्नि॒म्भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निम्प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विशत्यरत्निम्प्रति॒ष्ठाका॑मस्यैक- वि॒॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या अ॒ष्टाश्रि॑र्भवत्य॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ।। [18]
6.3.4.0
द॒धा॒ति॒ प्रत्यृ॒चा सम॑र्धयेय॒मित्यू॒र्जैन॒व्विँश्वे॑षाय्यूँप॒त्वमति॑रिक्तमे॒तद्द्विच॑त्वारिशच्च ।।4।।
6.3.4.1
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॒ प्रोक्ष॑ति॒ पराञ्च॒म्प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यवो॒ यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति [19]
6.3.4.2
पि॒तृ॒णा सद॑नम॒सीति॑ ब॒ऱ्हिरव॑ स्तृणाति पितृदेव॒त्य ॒ ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒ऱ्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्यो॑ निखा॑तः स्याद्ब॒ऱ्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैन॑म्मिनोति यूपशक॒लमवास्यति॒ सते॑जसमे॒वैन॑म्मिनोति दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मनक्ति सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इति॑ च॒षाल॒म्प्रति॑ [20]
6.3.4.3
मु॒ञ्च॒ति॒ तस्माच्छीऱ्ष॒त ओष॑धयः॒ फलं॑ गृह्णन्त्य॒नक्ति॒ तेजो॒ वा आज्यं॒ यज॑मानेनाग्नि॒ष्ठाश्रिः॒ सम्मि॑ता॒ यद॑ग्नि॒ष्ठा- मश्रि॑म॒नक्ति॒ यज॑मानमे॒व तेज॑सानक्त्या॒न्तम॑नक्त्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्ति स॒र्वतः॒ परि॑ मृश॒त्यप॑रिवर्गमे॒वा- स्मि॒न्तेजो॑ दधा॒त्युद्दिव॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै वैष्ण॒व्यर्चा [21]
6.3.4.4
क॒ल्प॒य॒ति॒ वै॒ष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॑या कल्पयति॒ द्वाभ्यां कल्पयति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मित्य॑ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीया॑दि॒त्थं वे॒त्थं वाति॑ नावये॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मिति॑ [22]
6.3.4.5
अ॒ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीये॑न॒ सम्मि॑नुया॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतत्परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒ यं का॒मये॑तो॒र्जैनम् [23]
6.3.4.6
व्य॑र्धयेय॒मित्यू॒र्ध्वां वा॒ तस्यावा॑चीं॒ वावो॑हेदू॒र्जैवैनं॒ व्य॑र्धयति॒ यदि॑ का॒मये॑त॒ वऱ्षु॑कः प॒र्जन्यः॑ स्या॒दित्यवा॑ची॒मवो॑हे॒- द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑ऱ्षुकः स्या॒दित्यू॒र्ध्वामुदू॑हे॒द्वृष्टि॑मे॒वोद्य॑च्छति पितृ॒णां निखा॑तम्मनु॒ष्या॑णामू॒र्ध्वं निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीना रश॒ना विश्वे॑षाम् [24]
6.3.4.7
दे॒वाना॑मू॒र्ध्व र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षाल॑ सा॒ध्याना॒मति॑रिक्त॒॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूप॑- म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः प्रीणाति य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न्तद्यूप॑स्य यूप॒त्वम् [25]
6.3.4.8
यद्यूप॑म्मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै पु॒रस्तान्मिनोति पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यतेऽप्र॑ज्ञात॒॒ हि तद्यदति॑पन्न आ॒हुरि॒दं का॒र्य॑मासी॒दिति॑ सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान््य॒ज्ञो नास्पृ॑श॒त्तान््यद्य॒ज्ञस्याति॑रिक्त॒मासी॒त्तद॑स्पृश॒- दति॑रिक्तं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒तत् [26]
6.3.4.9
यूप॑स्य॒ यदू॒र्ध्वं च॒षाला॒त्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति दे॒वा वै सस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न्प्र यूपं॒ ते॑ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒र स्रु॒चान्नि॒ष्क्रय॑णमपश्य॒न्त्स्वरुं॒ यूप॑स्य॒ सस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒र हर॑ति जु॒होति॒ स्व॒रुमय॑ज्ञवेशसाय ।। [27]
6.3.5.0
यज॑मानमाह॒ वृष॑णौ जाता॒यानु॑ब्रू॒ह्यप्य॒ष्टाद॑श च ।।5।।
6.3.5.1
सा॒ध्या वै दे॒वा अ॒स्मिल्लोँ॒क आ॑स॒न्नान्यत्किंच॒न मि॒षत्तेऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त॒ न ह्य॑न्यदा॑ल॒म्भ्य॑मवि॑न्द॒न्ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति प्र॒जानाम्प्र॒जन॑नाय रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुर्यत्प॒शुमा॒लभ्या॒ग्निम्मन्थेद्रु॒द्राय॒ यज॑मानम् [28]
6.3.5.2
अपि॑ दध्यात्प्र॒मायु॑कः स्या॒दथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत्प॒शुरिति॒ यत्प॒शुमा॒लभ्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयत्युपा॒कृत्यै॒व मन्थ्य॒स्तन्नेवाल॑ब्धं॒ नेवाना॑लब्धम॒ग्नेर्ज॒नित्र॑म॒सीत्या॑हा॒ग्नेऱ्ह्ये॑तज्ज॒नित्र॒व्वृँष॑णौ स्थ॒ इत्या॑ह॒ वृष॑णौ [29]
6.3.5.3
ह्ये॑तावु॒र्वश्य॑स्या॒युर॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं दधाथा॒मित्या॑ह॒ वृष॑ण॒॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निङ्गा॑य॒त्रं छन्दोऽनु॒ प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैन॒म्प्र ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्मन्थति जा॒ताया॑नु ब्रूहि [30]
6.3.5.4
प्र॒ह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑ क्रियमा॑णे॒ सम॑र्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्धयत्य॒ग्निः पु॒रा भव॑त्य॒ग्निम्म॑थि॒त्वा प्र ह॑रति॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒ शान्त्यै प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्य॑म्प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा ।। [31]
6.3.6.0
वसू॒निति॑ प्रस॒व इत्य॒द्भ्योऽन्तर॒त ए॒वैन॒न्दश॑ च ।।6।।
6.3.6.1
इ॒षे त्वेति॑ ब॒ऱ्हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒रित्या॑ह॒ दैवी॒ऱ्ह्ये॑ता विशः॑ स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नीति॑ [32]
6.3.6.2
आ॒ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ह॒व्या ते स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः प॒शूने॒वास्मै॑ रमयति दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ [33]
6.3.6.3
र॒श॒नामा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम्पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒ना र॑भ॒ इत्या॑ह स॒त्यं वा ऋ॒त स॒त्येनै॒वैन॑मृ॒तेना र॑भतेऽक्ष्ण॒या परि॑ हरति॒ वध्य॒॒ हि प्र॒त्यञ्च॑म्प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ धऱ्षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्या॑ अ॒द्भ्यः [34]
6.3.6.4
त्वौष॑धीभ्यः॒ प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्यः स॒म्भव॑ति॒ यत्प॒शुर॒पाम्पे॒रुर॒सीत्या॑है॒ष ह्य॑पाम्पा॒ता यो मेधा॑यार॒भ्यते स्वा॒त्तं चि॒त्सदे॑व ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्ये॒वैन॑मु॒परि॑ष्टा॒त्प्रोक्ष॑त्यु॒परि॑ष्टादे॒वैन॒म्मेध्यं॑ करोति पा॒यय॑त्यन्तर॒त ए॒वैन॒म्मेध्यं॑ करोत्य॒धस्ता॒दुपोक्षति स॒र्वत॑ ए॒वैन॒म्मेध्यं॑ करोति ।। [35]
6.3.7.0
आ॒घा॒रम्प॑द्यन्ते॒ द्वाद॑शा॒त्मन्ने॒व य॒ज्ञस्य॒ मेध्य॑मे॒व खलु॒ वा अ॒ष्टाद॑श च ।।7।।
6.3.7.1
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वत्स॒रः सं॑वत्स॒रम्प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जानाम्प्र॒जन॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्त्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रम् [36]
6.3.7.2
आघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न््यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त्तं दे॒वास्तूष्णीहो॒मेना॑वृञ्जत॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञं वृ॑ङ्क्ते परि॒धीन्त्सम्मार्ष्टि पु॒नात्ये॒वैना॒न्त्रिस्त्रिः॒ सम्मार्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श [37]
6.3.7.3
मासाः संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ संवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रोऽग्निः सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीऱ्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मानः॒ सर्वा॑ दे॒वता॒ अव॑ रुन्द्धे॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शु सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॑ [38]
6.3.7.4
शिरः॒ प्रति॑ दधाति॒ सं ते प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒शिषं॑ गमयति वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात्प॒शुम॒भ्य॑वमी॒त्तस्मा॑दु॒परि॑ष्टात्प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टात्प॒शु स॑म॒नक्ति॒ मेध्य॑मे॒व [39]
6.3.7.5
ए॒नं॒ क॒रो॒त्यृ॒त्विजो॑ वृणीते॒ छन्दा॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्या॒ एका॑दश प्रया॒जान््य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तम्प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवात्मान॒म्परि॑ शये॒ वज्रो॒ वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तं खलु॒ वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्घृ॒तेना॒क्तौ प॒शं त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा ल॑भते ।। [40]
6.3.8.0
लो॒काय॑ नीयते॒ यद्ब॒र््ही र॒श्मयः॑ स॒प्तत्रि॑शच्च ।।8।।
6.3.8.1
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दा॒यास्क॑न्न॒॒ हि तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्यः॑ प॒शू (३) र्नान्वा॒रभ्या (३) इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तय्यँद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒दथो॒ खल्वा॑हुः सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् [41]
6.3.8.2
प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्ध॒मुप॒ प्रेष्य॑ होतऱ्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒त हि कर्म॑ क्रि॒यते॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धा वि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्याः सं॒पृचः॑ पा॒हीति॑ ब॒ऱ्हिः [42]
6.3.8.3
उपास्य॒त्यस्क॑न्दा॒यास्क॑न्न॒॒ हि तद्यद्ब॒ऱ्हिषि॒ स्कन्द॒त्यथो॑ बऱ्हि॒षद॑मे॒वैनं॑ करोति॒ परा॒ङा व॑र्ततेऽध्व॒र्युः प॒शोः संज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्नि ह्नु॑त आ॒त्मनोनाव्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूनाप्नोति॒ य ए॒वं वेद॑ प॒श्चाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हादि॒त्यस्य॒ वै र॒श्मयः॑ [43]
6.3.8.4
आ॒ता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑हा॒शिष॑मे॒वैतामा शास्त॒ आपो॑ देवीः शुद्धायुव॒ इत्या॑ह यथाय॒जुरे॒वैतत् ।। [44]
6.3.9.0
स्वधि॑तिश्चै॒वाच्छि॑न्नो ह॒व्येने॒ष्येत्या॑ह॒ षट्च॑त्वारिशच्च ।।9।।
6.3.9.1
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यताम्प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुच॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वी शुक्प्र वि॑शति॒ शमहोभ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुच॑ शमय॒त्योष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः [45]
6.3.9.2
शान्त्यै॑ पार्श्व॒त आच्छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीन॒॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑साम्भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒ऱ्हिर॒क्त्वापास्यत्य॒स्नैव रक्षा॑सि नि॒रव॑दयत इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व [46]
6.3.9.3
द्वे॒ष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं तमो॑ नयती॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्रु॒द्रोऽस्य प॒शून्घातु॑कः स्या॒द्यन्नोप॑तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्त्यछि॑न्नः [47]
6.3.9.4
रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत्क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्व॒पामु॑त्खि॒दत्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुम्मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येन॑ [48]
6.3.9.5
अन्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरेद्दे॒वता॒ अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्ताः स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ वा ए॒तत्प॑शू॒नां यद्व॒पाग्र॒मोष॑धीनाम्ब॒ऱ्हिरग्रे॑णै॒वाग्र॒॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह [49]
6.3.9.6
य॒ज्ञस्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्ध्वन॑भसम्मारु॒तं ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां वपा॒श्रप॑णी॒ प्रह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ ।। [50]
6.3.10.0
ए॒तौ प॑शू॒ना समे॑धस्यै॒व तस्यावोत्त॒मस्याव॑ द्य॒तीति॒ पञ्च॑चत्वारिशच्च ।।10।।
6.3.10.1
प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते व॒पया प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑च्छति शृ॒त ह॒वीः (३) श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा योऽशृ॑त शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नाम् [51]
6.3.10.2
यत्पृ॑षदा॒ज्यम्प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति॒ यत्पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श्छि॒त्त्वा मेध॒म्प्राक्षा॑रय॒न्त्स प्र॒क्षो॑ऽभव॒त्तत्प्र॒क्षस्य॑ प्रक्ष॒त्वं यत्प्ल॑क्षशा॒खोत्त॑रब॒ऱ्हिर्भव॑ति॒ समे॑धस्यै॒व [52]
6.3.10.3
प॒शोरव॑ द्यति प॒शुं वै ह्रि॒यमा॑ण॒॒ रक्षा॒॒स्यनु॑ सचन्तेऽन्त॒रा यूपं॑ चाहव॒नीयं॑ च हरति॒ रक्ष॑सा॒मप॑हत्यै प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्द्ध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑ [53]
6.3.10.4
द्य॒ति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं यस्यै॒वम॑व॒दाय॑ यथा॒काम॒मुत्त॑रेषामव॒द्यति॑ यथापू॒र्वमे॒वास्य॑ प॒शोरव॑त्तम्भवति मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति [54]
6.3.10.5
उ॒त्त॒मो हि प्रा॒णो यदीत॑रं॒ यदीत॑रमु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै ब्राह्म॒णस्त्रि॒भिर््ऋ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णऱ्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयते॒ तद॑व॒दाना॑नामवदान॒त्वन्दे॑वासु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॒ग्निम॑ब्रुव॒न्त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॑ [55]
6.3.10.6
सोऽब्रवी॒द्वरं॑ वृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पूर्वा॒र्धस्य॑ गु॒दम्म॑ध्य॒तः श्रोणिं॑ जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यत्त्र्य॒ङ्गाणा॑ समव॒द्यति॒ भ्रातृ॑व्या॒भिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्यक्ष्ण॒याव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ।। [56]
6.3.11.0
घ्नन्ति॒ यन्त॒ङ्खलु॑ च॒तुरुप॑ ह्वयत॒ आज्य॒य्यँत्पृ॑षदा॒ज्येन॒ षट्च॑ ।। 11।।
6.3.11.1
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्श्वेन॑ वसाहो॒मम्प्र यौ॑ति॒ मध्यं॒ वा ए॒तत्प॑शू॒नां यत्पा॒र्श्व रस॑ ए॒ष प॑शू॒नां यद्वसा॒ यत्पा॒र्श्वेन॑ वसाहो॒मम्प्र॒यौति॑ मध्य॒त ए॒व प॑शू॒ना रसं॑ दधाति॒ घ्नन्ति॑ [57]
6.3.11.2
वा ए॒तत्प॒शुं यत्संज्ञ॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि देध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ यत्सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॑ते सन्तः॒ सल॑क्ष्माण ए॒तऱ्हि॒ भव॑न्ति देव॒त्रा यन्तम् [58]
6.3.11.3
अव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हानु॑मतमे॒वैन॑म्मा॒त्रा पि॒त्रा सु॑व॒र्गं लो॒कं ग॑मयत्यर्ध॒र्चे व॑साहो॒मं जु॑होत्य॒सौ वा अ॑र्ध॒र्च इ॒यम॑र्ध॒र्च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्ज॒॒ रस॒मव॑ रुन्द्धे प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं वा॑नस्प॒त्याः खलु॑ [59]
6.3.11.4
वै दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्यान्यस्य समव॒त्त स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते [60]
6.3.11.5
चतु॑ष्पादो॒ हि प॒शवो॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑मे॒दस्कं॒ तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैन॑म्प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्त्स्या॒दिति॒ मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्यम् [61]
6.3.11.6
पु॒रस्ता॑दसृजत प॒शुम्म॑ध्य॒तः पृ॑षदा॒ज्यम्प॒श्चात्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तः पृ॑षदा॒ज्येना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चात्सृ॒ष्ट ह्येका॑दशानूया॒जान््य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत्प॒शुं यत्संज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं यत्पृ॑षदा॒ज्येना॑नूया॒जान््यज॑ति प्राणापा॒नावे॒व प॒शुषु॑ दधाति ।। [62]
6.4.0.0
य॒ज्ञेन॒ ता उ॑प॒यड्भि॑र्दे॒वा वै य॒ज्ञमाग्नीध्रे ब्रह्मवा॒दिन॒स्सत्वै दे॒वस्य॒ ग्रावा॑णम्प्रा॒ण उ॑पा॒॒श्व॑ग्रा दे॒वा वा उ॑पा॒॒शौ वाग्वै मि॒त्रय्यँ॒ज्ञस्य॒ बृह॒स्पति॑र्दे॒वा वा आग्रय॒णाग्रा॒नेका॑दश ।।11।। य॒ज्ञेन॑ लो॒के प॑शु॒मान्त्स्या॒त्सव॑न॒म्माध्य॑न्दिन॒व्वाँग्वा अरि॑क्तानि॒ तत्प्र॒जा अ॒भ्येक॑पञ्चा॒शत् ।।51।। य॒ज्ञेन॒ गौर॒भि निव॑र्तते ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे चतुर्थः प्रश्नः ।।
6.4.1.0
रेतो॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ नभो॑ हृदयशू॒लन्द्वात्रि॑शच्च ।।1।।
6.4.1.1
य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते जघना॒र्धादव॑ द्यति जघना॒र्धाद्धि प्र॒जाः प्र॒जाय॑न्ते स्थविम॒तोऽव॑ द्यति स्थविम॒तो हि प्र॒जाः प्र॒जाय॒न्तेऽस॑म्भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मस॑म्भेदाय॒ न प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदाव॒र्तः प्र॒जा ग्राहु॑कः स्यात्समु॒द्रं ग॑च्छ॒ स्वाहेत्या॑ह रेतः॑ [1]
6.4.1.2
ए॒व तद्द॑धात्य॒न्तरि॑क्षं गच्छ॒ स्वाहेत्या॑हा॒न्तरि॑क्षेणै॒वास्मै प्र॒जाः प्र ज॑नयत्य॒न्तरि॑क्ष॒॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हाहोरा॒त्राभ्या॑मे॒वास्मै प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहा [2]
6.4.1.3
इत्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोमं॑ गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः करोति॒ छन्दा॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दा॑सि प॒शूने॒वाव॑ रुन्द्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति नभः॑ [3]
6.4.1.4
दि॒व्यं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ नि य॑च्छत्य॒ग्निं वैश्वान॒रं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ ष्ठापयति प्रा॒णानां॒ वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा आल॑ब्धस्य॒ हृद॑य॒॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒लम् [4]
6.4.1.5
अ॒भि समे॑ति॒ यत्पृ॑थि॒व्या हृ॑दयशू॒लमु॑द्वा॒सयेत्पृथि॒वी शु॒चार्प॑ये॒द्यद॒प्स्व॑पः शु॒चार्प॑ये॒च्छुष्क॑स्य चा॒र्द्रस्य॑ च सं॒धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ।। [5]
6.4.2.0
स्या॒दिन्द्रो॑ गृह्णी॒याद॑स्त्व॒मुष्मि॑न्क्रि॒यते॒ षड्वि॑शतिश्च ।।2।।
6.4.2.1
दे॒वा वै य॒ज्ञमाग्नीध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒वरी॑णां वसतीवरि॒त्वम् तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्तद॒फ्सु प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्वसती॒वरीर्गृह्णाति य॒ज्ञो वै व॑सती॒वरीर्य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञः स्यात् [6]
6.4.2.2
य॒ज्ञं वि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं वाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नां गृह्णीया॒त्स हि गृ॑ही॒तव॑सतीवरीको वसती॒वरीर्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पं तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शवः॑ स्युः प्रती॒पं तिष्ठ॑न्गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒तीन्द्रः॑ [7]
6.4.2.3
वृ॒त्रम॑ह॒न्त्सो ऽपो ऽभ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न्वह॑न्तीनां गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒ न स्था॑व॒राणां गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा यत्स्था॑व॒राणां गृह्णी॒यात् [8]
6.4.2.4
वरु॑णेनास्य य॒ज्ञं ग्रा॑हये॒द्यद्वै दिवा॒ भव॑त्य॒पो रात्रिः॒ प्र वि॑शति॒ तस्मात्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्त॒म्भव॑त्य॒पोऽहः॒ प्र वि॑शति॒ तस्माच्च॒न्द्रा आपो॒ नक्तं॑ ददृश्रे छा॒यायै॑ चा॒तप॑तश्च सं॒धौ गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्णं॑ गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्मा॑ अस्तु [9]
6.4.2.5
सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग्वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒ त्रिः सा॑दयति स॒प्त सम्प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मै वै लो॒काय॒ गाऱ्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गाऱ्ह॑पत्य उपसा॒दये॑द॒स्मिल्लोँ॒के प॑शु॒मान्त्स्या॒द्ययदा॑हव॒नीये॒ऽमुष्मिन्न्॑ [10]
6.4.2.6
लो॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनं॑ लो॒कयोः पशु॒मन्तं॑ करोति स॒र्वतः॒ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या इन्द्राग्नि॒योर्भा॑ग॒धेयी॒स्स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नीध्र॒ उप॑ वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नीध्र॒य्यँदे॒व य॒ज्ञस्याप॑राजितं॒ तदे॒वैना॒ उप॑ वासयति॒ यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ रक्षा॒॒स्यव॑ चरन्ति॒ यद्वह॑न्तीनां गृ॒ह्णाति॑ क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ।। [11]
6.4.3.0
वा॒चो हव॑म॒भिघृ॑तानां गृह्णात्यु॒त पञ्च॑विशतिश्च ।।3।।
6.4.3.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्त्सर्वाभ्यो दे॒वताभ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्येभ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्य उ॒पाव॑हरति पु॒रा वा॒चः [12]
6.4.3.2
प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे॒ऽपोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचं॒ वि सृ॑जति॒ सर्वा॑णि॒ छन्दा॒॒स्यन्वा॑ह प॒शवो॒ वै छन्दा॑सि प॒शूने॒वाव॑ रुन्द्धे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभेन्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजान्न॑कामस्य शृ॒णोत्व॒ग्निः स॒मिधा॒ हवम् [13]
6.4.3.3
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वताभ्यो नि॒वेद्या॒पोऽच्छैत्य॒प इ॑ष्य होत॒रित्या॑हेषि॒त हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवी॑रापो अपां नपा॒दित्या॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति [14]
6.4.3.4
काऱ्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति समु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो व॑सती॒वरीऱ्॑होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ स॒॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यध्व॒र्योऽवे॑र॒पा (३) इत्या॑हो॒तेम॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परि॒धौ नि मार्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नां व्यावृ॑त्त्यै ।। [15]
6.4.4.0
यजु॑षा मिमीत एनं॒ जागृ॒वीति॒ चतु॑श्चत्वारिशच्च ।।4।।
6.4.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो व्या॒न उ॑पाशु॒सव॑नो॒ यदु॑पाशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒तीन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते [16]
6.4.4.2
पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीन्दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे श्वा॒त्राः स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष वा अ॒पा सो॑मपी॒थो य ए॒वं वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति॒ यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑है॒भ्य ए॒वैनम् [17]
6.4.4.3
लो॒केभ्यः॒ सम्भ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्याय॒त्स दिशोऽनु॒ प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैन॒॒ सम्भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्द्धेऽम्ब॒ नि ष्व॒रेत्या॑ह॒ कामु॑का एन॒॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेद॒ यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॒वीति॑ [18]
6.4.4.4
आ॒है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वं वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒ घ्नन्ति॒ वा ए॒तत्सोमं॒ यद॑भिषु॒ण्वन्त्य॒॒शूनप॑ गृह्णाति॒ त्राय॑त ए॒वैन॑म्प्रा॒णा वा अ॒॒शवः॑ प॒शवः॒ सोमो॒ऽ॒शून्पुन॒रपि॑ सृजति प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒द्द्वौद्वौ प्रा॒णाः ।। [19]
6.4.5.0
माध्य॑न्दिनम॒ष्टाव॑ष्टावे॒ष मन॑स्त्वा प॒र्जन्यो॒ऽमुष्य॒ पुरु॑षो॒ द्वे च॑ ।।5।।
6.4.5.1
प्रा॒णो वा ए॒ष यदु॑पा॒॒शुर्यदु॑पा॒॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒हौप॑वेशिः प्रातःसव॒न ए॒वाहं य॒ज्ञ सस्था॑पयामि॒ तेन॒ ततः॒ सस्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नम् प्रा॑तःसव॒नमे॒व तेनाप्नो॒त्येका॑दश॒ कृत्वो द्वि॒तीय॒मेका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्यं॑दिनम् [20]
6.4.5.2
सव॑न॒म्माध्यं॑दिनमे॒व सव॑नं॒ तेनाप्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीय॒न्द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेनाप्नोत्ये॒ता ह॒ वाव स य॒ज्ञस्य॒ सस्थि॑तिमुवा॒चास्क॑न्दा॒यास्क॑न्न॒॒ हि तद्यद्य॒ज्ञस्य॒ सस्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तःसव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एन॒म्भ्रातृ॑व्यो भवति॒ य ए॒वं वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ [21]
6.4.5.3
कृत्वो॑ऽभि॒षुत्य॑म्ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपा॒॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयात् वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैन॑म्पवयति॒ वृष्णो॑ अ॒॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑ताव॒॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑नम्प॒वय॑ति दे॒वो दे॒वानाम्प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑षः [22]
6.4.5.4
सन्दे॒वानाम्प॒वित्र॒य्येँषाम्भा॒गोऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषा॒॒ ह्ये॑ष भा॒गस्तेभ्य॑ एनं गृ॒ह्णाति॒ स्वांकृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒ मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒द स्व॑दयति॒ विश्वेभ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्य॒ इत्या॑हो॒भयेष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒ मन॑स्त्वा [23]
6.4.5.5
अ॒ष्ट्वित्या॑ह॒ मन॑ ए॒वाश्ञु॑त उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो॑ हि प्रा॒णः स्वाहा त्वा सुभवः॒ सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोक्षं॑ जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हादि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषां॒ तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒ वऱ्षु॑कः प॒र्जन्यः॑ [24]
6.4.5.6
स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑ऱ्षुकः स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒वोद्य॑च्छति॒ यद्य॑भि॒चरे॑द॒मुं ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैन॑म्प्रे॒प्सन््ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत्प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒ यद्य॑भि॒चरे॑द॒मुष्य॑ [25]
6.4.5.7
त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिर॒॒शुभिः॑ पवयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति॒ त्रिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्यात्त्रयः॑ पशू॒ना हस्ता॑दाना॒ इति॒ यत्त्रिरु॑पा॒॒शु हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त्त्रयः॑ पशू॒ना हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ।। [26]
6.4.6.0
त॒ उ॒भयान्गृह्यते॒ चतु॑श्चत्वारिशच्च ।।6।।
6.4.6.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा उ॑पा॒॒शौ य॒ज्ञ स॒॒स्थाप्य॑मपश्य॒न्तमु॑पा॒॒शौ सम॑स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धाव॒न्तानिन्द्रोऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्यान्तर्याम॒त्वम् यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ऽन्तर्ध॑त्ते॒ऽन्तस्ते [27]
6.4.6.2
द॒धा॒मि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑है॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒य स्म इति॒ तेऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भयान्॑ [28]
6.4.6.3
अ॒न्वाभ॑जत्स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाः परे॒ य चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जत्यन्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मानं॒ नान्तरेत्युपया॒मगृ॑हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒ यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑ताम्प्रा॒णम॑पा॒नोऽनु॒ न्यृ॑च्छेत्प्र॒मायु॑कः स्यात्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते [29]
6.4.6.4
प्रा॒णा॒पा॒नयो॒र्विधृ॑त्यै प्राणापा॒नौ वा ए॒तौ यदु॑पाश्वन्तर्या॒मौ व्या॒न उ॑पाशु॒सव॑नो॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दित्यस॑स्पृष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒जक्प्रमी॑यते॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ सस्पृ॑ष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सं त॑नोति॒ सर्व॒मायु॑रेति ।। [30]
6.4.7.0
स्व॒द॒य॒ सोमास्स॒हाष्टावि॑शतिश्च ।।7।।
6.4.7.1
वाग्वा ए॒षा यदैन्द्रवाय॒वो यदैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति वा॒युं दे॒वा अ॑ब्रुव॒न्त्सोम॒॒ राजा॑न हना॒मेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्त्सो॑ऽपूय॒त् तं दे॒वा नोपा॑धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मं नः॑ स्वदय [31]
6.4.7.2
इति॒ सोऽब्रवी॒द्वरं॑ वृणै मद्देव॒त्यान्ये॒व वः॒ पात्राण्युच्यान्ता॒ इति॒ तस्मान्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्यान्युच्यन्ते॒ तमेभ्यो वा॒युरे॒वास्व॑दय॒त्तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते वि ष॑जन्ति वा॒युऱ्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्द॒न्त्साऽदि॑तिरब्रवी॒द्वरं॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम्मद्देव॒त्या॑ ए॒व वः॒ सोमाः [32]
6.4.7.3
स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑हीतो॒ऽसीत्या॑हादितिदेव॒त्यास्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्राण्य॒स्यै तानि॒ योनेः॒ सम्भू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षात्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग्वै परा॒च्यव्या॑कृतावद॒त्ते दे॒वा इन्द्र॑मब्रुवन्नि॒मां नो॒ वाचं॒ व्याकु॒र्विति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑ चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्तस्मा॑दि॒यं व्याकृ॑ता॒ वागु॑द्यते॒ तस्मात्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ।। [33]
6.4.8.0
ए॒ष चैन्द्रवाय॒वो द्वावि॑शतिश्च ।।8।।
6.4.8.1
मि॒त्रं दे॒वा अ॑ब्रुव॒न्त्सोम॒॒ राजा॑न हना॒मेति॒ सोऽब्रवी॒न्नाह सर्व॑स्य॒ वा अ॒हम्मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न््हना॑मै॒वेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ पय॑सै॒व मे॒ सोम॑ श्रीण॒न्निति॒ तस्मान्मैत्रावरु॒णम्पय॑सा श्रीणन्ति॒ तस्मात्प॒शवोऽपाक्रामन् मि॒त्रः सन्क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒षः [34]
6.4.8.2
क॒रो॒ति॒ यः सोमे॑न॒ यज॑ते॒ तस्मात्प॒शवोऽप॑ क्रामन्ति॒ यन्मैत्रावरु॒णम्पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्र स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मानम्पु॒रा खलु॒ वावैवम्मि॒त्रो॑ऽवे॒दप॒ मत्क्रू॒रं च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑णं दे॒वा अ॑ब्रुव॒न्त्वया॑श॒भुवा॒ सोम॒॒ राजा॑न हना॒मेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑ च [35]
6.4.8.3
ए॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मान्मैत्रावरु॒णः स॒ह गृ॑ह्यते॒ तस्मा॒द्राज्ञा॒ राजा॑नमश॒भुवा घ्नन्ति॒ वैश्ये॑न॒ वैश्य॑ शू॒द्रेण॑ शू॒द्रन्न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दं नो॒ वि वा॑सयत॒मिति॒ ताव॑ब्रूता॒व्वँरं॑ वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ ग्रहो गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाश्वन्तर्या॒मौ मि॒त्रोऽह॒रज॑नय॒द्वरु॑णो॒ रात्रि॒न्ततो॒ वा इ॒दं व्यौच्छ॒द्यन्मैत्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ।। [36]
6.4.9.0
म॒नु॒ष्य॒च॒रावु॑दपा॒त्रमु॑प॒ह्वये॑त द्विदेव॒त्याः षट्च॑त्वारिशच्च ।।9।।
6.4.9.1
य॒ज्ञस्य॒ शिरोऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन्भि॒षजौ॒ वै स्थ॑ इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूता॒व्वँरं॑ वृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑मे॒तमाश्वि॒नम॑गृह्ण॒न्ततो॒ वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्ता॒म् यदाश्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ [37]
6.4.9.2
भि॒षजा॒विति॒ तस्माद्ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॑मपू॑तो॒ ह्ये षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑मे॒तमाश्वि॒नम॑गृह्ण॒न्तस्माद्बहिष्पवमा॒ने स्तु॒त आश्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वं वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयोस्त्रे॒धा भैष॑ज्यं॒ वि न्य॑दधुर॒ग्नौ तृ॑तीयम॒प्सु तृती॑यम्ब्राह्म॒णे तृती॑य॒न्तस्मा॑दुदपा॒त्रम् [38]
6.4.9.3
उ॒प॒नि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्या॒द्याव॑दे॒व भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तम्भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देकोऽन्तर॒तः प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टात्प्रा॒णाः प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः प॒शव॒ इडा॒ यदिडा॒म्पूर्वां द्विदेव॒त्येभ्य उप॒ह्वये॑त [39]
6.4.9.4
प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्याद्द्विदेव॒त्यान्भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐन्द्रवाय॒वश्चक्षु॑र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वम्भ॑क्षयति॒ तस्मात्पु॒रस्ताद्वा॒चा व॑दति पु॒रस्तान्मैत्रावरु॒णं तस्मात्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑ परि॒हार॑माश्वि॒नं तस्मात्स॒र्वतः॒ श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः [40]
6.4.9.5
अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ रक्षा॒॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्या सा॑दयति वा॒च्ये॑व वाचं॑ दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ।। [41]
6.4.10.0
आ॒त्मना॒ परा॒ निष्प्र शु॒क्रशो॑चिषा॒ यव॑स्य स॒प्तत्रि॑शच्च ।।10।।
6.4.10.1
बृह॒स्पति॑र्दे॒वानाम्पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणा॒म्ब्रह्म॑ण्वन्तो दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्ते ऽन्योन्यं नाश॑क्नुवन्न॒भिभ॑वितु॒न्ते दे॒वाः शण्डा॒मर्का॒वुपा॑मन्त्रयन्त॒ ताव॑ब्रूता॒व्वँरं॑ वृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्या॒त्मना॒ परा [42]
6.4.10.2
अ॒स्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवु॒रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यं द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒मः संकृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्यः शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒गृह्य॒ प्राञ्चौ॒ निः [43]
6.4.10.3
क्रा॒म॒त॒स्तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्तस्मात्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितः॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ता स्ताभिः॒ प्र [44]
6.4.10.4
अ॒नु॒द॒न्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्तास्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ताच्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीचीर्जायन्ते शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते॒ऽत्त्रीश्चा॒द्याश्च सु॒वीराः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि शु॒क्रः शु॒क्रशो॑चिषा [45]
6.4.10.5
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒ताः सु॑प्र॒जा या आ॒द्या॑ य ए॒वं वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाद्या प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑पत॒त्तद्विक॑ङ्कत॒म्प्रावि॑श॒त्तद्विक॑ङ्कते॒ नार॑मत॒ तद्यव॒म्प्रावि॑श॒त् तद्यवे॑ऽरमत॒ तद्यव॑स्य [46]
6.4.10.6
य॒व॒त्वय्यँद्वैक॑ङ्कतम्मन्थिपा॒त्रम्भव॑ति॒ सक्तु॑भिः श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ सम्भ॑रति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्यान्म॑न्थिपा॒त्र सदो॒ नाश्नु॑त॒ इत्यार्तपा॒त्र हीति॑ ब्रूया॒द्यद॑श्नुवी॒तान्धोऽध्व॒र्युः स्या॒दार्ति॒मार्च्छे॒त्तस्मा॒न्नाश्नु॑ते ।। [47]
6.4.11.0
आ॒हा॒ग्र॒य॒ण॒त्वम्प्र॒जाप॑तिरे॒वेति॑ विश॒तिश्च॑ ।।11।।
6.4.11.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आग्रय॒णाग्रा॒न्ग्रहा॑नपश्य॒न्तान॑गृह्णत॒ ततो॒ वै तेऽग्र॒म्पर्या॑य॒न्॒ यस्यै॒वं वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्भ्रातृ॑व्यस्यै॒व रु॒क्त्वाग्र॑ समा॒नाना॒म्पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑ह [48]
6.4.11.2
ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒ वाग्वै दे॒वेभ्योऽपाक्रामद्य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायां तू॒ष्णीं ग्रहा॑नगृह्णत॒ साऽम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साग्र॑य॒णम्प्रत्याग॑च्छ॒त्तदाग्रय॒णस्याग्रयण॒त्वम् [49]
6.4.11.3
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत्तू॒ष्णीम्पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा त्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑ध्व॒र्युराग्रय॒णं गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचं॒ वि सृ॑जते॒ त्रिऱ्हिं क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदाग्रय॒णो यदाग्रय॒णं गृ॑ही॒त्वा हिं॑क॒रोति॑ प्र॒जाप॑तिरे॒व [50]
6.4.11.4
तत्प्र॒जा अ॒भि जि॑घ्रति॒ तस्माद्व॒त्सं जा॒तं गौर॒भि जि॑घ्रत्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदाग्रय॒णः सव॑नेसवने॒ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञ सं त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धात्य॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तद्ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्मात्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑सा स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै गा॑यत्रि॒यै व॒त्सो यदाग्रय॒णस्तमे॒व तद॑भिनि॒वर्त॒॒ सर्वा॑णि॒ सव॑नानि वहति॒ तस्माद्व॒त्सम॒पाकृ॑तं॒ गौर॒भि नि व॑र्तते ।। [51]
6.5.0.0
इन्द्रो॑ वृ॒त्रायायु॒र्वै य॒ज्ञेन॑ सुव॒र्गायेन्द्रो॑ म॒रुद्भि॒रदि॑तिरन्तर्यामपा॒त्रेण॑ प्रा॒ण उ॑पाशुपा॒त्रेणेन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॒ ग्रहा॒न्॒ वै प्रान्यान्येका॑दश ।।11।। इन्द्रो॑ वृ॒त्राय॒ पुन॑र््ऋ॒तुना॑ह मिथु॒नम्प॒शवो॒ नेष्टः॒ पत्नी॑मुपाश्वन्तर्या॒मयो॒र्द्विच॑त्वारिशत् ।।42।। इन्द्रो॑ वृ॒त्राय॑ पाङ्क्त॒त्वम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे पञ्चमः प्रश्नः ।।
6.5.1.0
इतीन्द्रि॒यमे॒व पुनः॑पुनर्नये॒त्त्रय॑स्त्रिशच्च ।।1।।
6.5.1.1
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒त्स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒त्सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑म्प्राय॑च्छ॒त्तस्मै द्वि॒तीय॒मुद॑यच्छ॒त्सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॑ [1]
6.5.1.2
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त्तं विष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तं निर्मा॑यम्भू॒तम॑हन््य॒ज्ञो हि तस्य॑ मा॒यासी॒द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [2]
6.5.1.3
तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तम्प्राय॑च्छ॒त्तस्मै त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिऱ्हि स तं तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑ऱ्हविर॒सीत्या॑ह॒ पुनः॑पुनः [3]
6.5.1.4
ह्य॑स्मान्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्तस्मा॑दु॒क्थ्य॑ हु॒त सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒ यन्त॑म्ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नाम्भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ताध्व॒र्युरा॒त्मानं॑ यज्ञयश॒सेनार्पयेय॒मित्य॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च॒ तिष्ठ॒न्नव॑ नयेत् [4]
6.5.1.5
आ॒त्मान॑मे॒व य॑ज्ञयश॒सेनार्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं यज्ञयश॒सेनार्पयेय॒मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नये॒द्यज॑मानमे॒व य॑ज्ञयश॒सेनार्पयति॒ यदि॑ का॒मये॑त सद॒स्यान्॑ यज्ञयश॒सेनार्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेत्सद॒स्या॑ने॒व य॑ज्ञयश॒सेनार्पयति ।। [5]
6.5.2.0
ध्रु॒वस्तस्मा॑दे॒व य॒ज्ञस्यैका॒न्नच॑त्वारि॒॒शच्च॑ ।।2।।
6.5.2.1
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व उ॑त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मम्मू॒र्धानं॑ दि॒वो अ॑र॒तिम्पृ॑थि॒व्या इत्या॑ह मू॒र्धान॑मे॒वैन॑ समा॒नानां करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒र हि दे॒वत॒यायु॑रुभ॒यतो॑वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतः॑ प्रा॒णा अ॒धस्ताच्चो॒परि॑ष्टाच्चा॒र्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्धी ध्रु॒वस्तस्मात् [6]
6.5.2.2
अ॒र्ध्यवाङ्प्रा॒णोऽन्येषाम्प्रा॒णाना॒मुपोप्ते॒ऽन्ये ग्रहाः सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति मा॒॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीम्प॒र्याचि॑कीऱ्ष॒न्तान्दे॒वा ध्रु॒वेणा॑दृह॒न्तद्ध्रु॒वस्य॑ ध्रुव॒त्वय्यँद्ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्या॒ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्य॑ [7]
6.5.2.3
आयु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वैश्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वायु॑र्दधाति ।। [8]
6.5.3.0
को जी॑वन्ति॒ द्विः स्यु॒श्चतु॑स्त्रिशच्च ।।3।।
6.5.3.1
य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते सं॑वत्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्॒यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रस्य॒ प्रज्ञात्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒द्द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑मुखमृतुपा॒त्रम्भ॑वति॒ कः [9]
6.5.3.2
हि तद्वेद॒ यत॑ ऋतू॒नाम्मुख॑मृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून्प्री॑णाति॒ द्विः पुन॑र््ऋ॒तुना॑ह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः [10]
6.5.3.3
पुन॑र््ऋ॒तुना॑ह॒ तस्माद्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्त्यृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विः पुन॑र््ऋ॒तुना॑हा॒क्रम॑णमे॒व तत्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ नान्योन्यमनु॒ प्र प॑द्येत॒ यद॒न्योऽन्यम॑नु प्र॒पद्ये॑त॒र्तुर््ऋ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑काः स्युः [11]
6.5.3.4
प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धम्प्रतिप्रस्था॒तोत्त॑रेण॒ तस्मा॑दादि॒त्यः षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेणोपया॒मगृ॑हीतोऽसि स॒॒सर्पोऽस्यहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत्प्री॑णाति ।। [12]
6.5.4.0
तस्मा॑द॒सावा॑दि॒त्यस्त्रि॒॒शच्च॑ ।।4।।
6.5.4.1
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदैन्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒ यदि॑न्द्रा॒ग्नी यदैन्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्द्धे वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः [13]
6.5.4.2
सर्वाः प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒त्सर्व॑ ए॒व म॑न्यते॒ माम्प्रत्युद॑गा॒दिति॑ वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो यद्वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ।। [14]
6.5.5.0
प्र॒थ॒मेना॑गृह्णीत दे॒वतास्व॒ष्टावि॑शतिश्च ।।5।।
6.5.5.1
इन्द्रो॑ म॒रुद्भिः॒ सांवि॑द्येन॒ माध्यं॑दिने॒ सव॑ने वृ॒त्रम॑ह॒न्॒यन्माध्यं॑दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒ तस्य॑ वृ॒त्रं ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्त्स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णा॒त्ततो॒ वै स ऋ॒तून्प्राजा॑ना॒द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नाम्प्रज्ञात्यै॒ वज्रं॒ वा ए॒तं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ [15]
6.5.5.2
य॒च्छ॒ति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒नायु॑धं॒ वा ए॒तद्यज॑मानः॒ सस्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः॒ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॒नेन्द्रो॑ वृ॒त्र ह॒त्वा पराम्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मानः॒ स हरि॑तोऽभव॒त्स ए॒तान्म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्य॒त्तान॑गृह्णीत [16]
6.5.5.3
प्रा॒णमे॒व प्र॑थ॒मेनास्पृणुतापा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॒नेन्द्रो॑ वृ॒त्रम॑ह॒न्तं दे॒वा अ॑ब्रुवन्म॒हान््वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒ तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्व स ए॒तम्मा॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत वृ॒त्र ह॒त्वान्यासु॑ दे॒वता॒स्वधि॒ यन्मा॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तं यज॑मान॒ उद्ध॑रते॒ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्र शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ।। [17]
6.5.6.0
ए॒व य॒ज्ञाज्ज॒रायु॒ तदे॒व तद॒न्तर्द॑धाति॒ न स॒प्तवि॑शतिश्च ।।6।।
6.5.6.1
अदि॑तिः पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो ब्रह्मौद॒नम॑पच॒त्तस्या॑ उ॒च्छेष॑णमददु॒स्तत्प्राश्ना॒त्सा रेतो॑ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒त्साम॑न्यतो॒च्छेष॑णान्म इ॒मेऽज्ञत॒ यदग्रे प्राशि॒ष्यामी॒तो मे॒ वसी॑यासो जनिष्यन्त॒ इति॒ साग्रे॒ प्राश्ना॒त्सा रेतो॑ऽधत्त॒ तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ सादि॒त्येभ्य॑ ए॒व [18]
6.5.6.2
तृ॒तीय॑मपच॒द्भोगा॑य म इ॒द श्रा॒न्तम॒स्त्विति॒ तेऽब्रुव॒न्वरं॑ वृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माक॒॒ स एको॑ऽस॒द्योऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माक॒म्भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ऽजायत॒ तस्य॒ वा इ॒यम्प्र॒जा यन्म॑नु॒ष्यास्तास्वेक॑ ए॒वर्द्धो यो यज॑ते॒ स दे॒वाना॒म्भोगा॑य भवति दे॒वा वै य॒ज्ञात् [19]
6.5.6.3
रु॒द्रम॒न्तरा॑य॒न्त्स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्यान्प्राप॑द्यन्त॒ तान्न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒ वध्य॒म्प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्माद्द्विदेव॒त्येभ्य आदि॒त्यो निर्गृ॑ह्यते॒ यदु॒च्छेष॑णा॒दजा॑यन्त॒ तस्मा॑दु॒च्छेष॑णाद्गृह्यते ति॒सृभि॑र््ऋ॒ग्भिर्गृ॑ह्णाति मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒नमुल्बं॒ गर्भो॑ ज॒रायु॒ तदे॒व तत् [20]
6.5.6.4
मि॒थु॒नम्प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒ध्ना म॑ध्य॒तः श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्वं दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति [21]
6.5.6.5
ए॒ष वै विव॑स्वानादि॒त्यो यदु॑पाशु॒सव॑नः॒ स ए॒तमे॒व सो॑मपी॒थम्परि॑ शय॒ आ तृ॑तीयसव॒नाद्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒ विव॑स्वन्तमे॒वादि॒त्य सो॑मपी॒थेन॒ सम॑र्धयति॒ या दि॒व्या वृष्टि॒स्तया त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒द्वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदि॑ ता॒जक्प्र॒स्कन्दे॒द्वऱ्षु॑कः प॒र्जन्यः॑ स्या॒द्यदि॑ चि॒रमव॑ऱ्षुको॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वान्वीक्षेत॒ यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑क स्या॒त्तस्मा॒न्नान्वीक्ष्यः॑ ।। [22]
6.5.7.0
विश्वे॒ प्र पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्येका॒न्नवि॑श॒तिश्च॑ ।।7।।
6.5.7.1
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमाग्रय॒णाद्गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदाग्रय॒णः प्र॒जानाम्प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒ यत्स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदाग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमाग्रय॒णाद्गृ॒ह्णाति॒ स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ विश्वे [23]
6.5.7.2
दे॒वास्तृ॒तीय॒॒ सव॑नं॒ नोद॑यच्छ॒न्ते स॑वि॒तार॑म्प्रातःसव॒नभा॑ग॒॒ सन्तं॑ तृतीयसव॒नम॒भि पर्य॑णय॒न्ततो॒ वै ते तृ॒तीय॒॒ सव॑न॒मुद॑यच्छ॒न्॒यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशाद्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वैश्वदे॒वः क॒लशः॑ सवि॒ता प्र॑स॒वाना॑मीशे॒ यत्स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशाद्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै प्र॒जाः प्र [24]
6.5.7.3
ज॒न॒य॒ति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्द॑धाति सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्येभ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्येभ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः ।। [25]
6.5.8.0
पत्नीः सुव॒र्गमुप॑स्तितरमिन्द्रियाव॒ इत्यपि॑ सीद मिथु॒न्य॑ष्टौ च॑ ।।8।।
6.5.8.1
प्रा॒णो वा ए॒ष यदु॑पा॒॒शुर्यदु॑पाशुपा॒त्रेण॑ प्रथ॒मश्चोत्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदाग्रय॒णः प्रा॒ण उ॑पा॒॒शुः पत्नीः प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाशुपा॒त्रेण॑ पात्नीव॒तमाग्रय॒णाद्गृ॒ह्णाति॑ प्र॒जानाम्प्र॒जन॑नाय॒ तस्मात्प्रा॒णम्प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒तइ॑तः॒ पत्नीः सुव॒र्गम् [26]
6.5.8.2
लो॒कम॑जिगास॒न्ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्त ए॒तम्पात्नीव॒तम॑पश्य॒न्तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गं लो॒कम्प्राजा॑न॒न्॒ यत्पात्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै॒ स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तं घृ॒तं वज्रं॑ कृ॒त्वाघ्न॒न्तं निरि॑न्द्रियम्भू॒तम॑गृह्ण॒न्तस्मा॒त्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात्पु॒॒स उप॑स्तितरम् [27]
6.5.8.3
व॒द॒न्ति॒ यद्घृ॒तेन॑ पात्नीव॒त श्री॒णाति॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा गृ॑ह्णात्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यं वा उ॑पया॒मस्तस्मा॑दि॒माम्प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व तद्द॑धातीन्द्रियाव॒ इति॑ [28]
6.5.8.4
आ॒ह॒ प्र॒जा वा इ॑न्द्रि॒यम्प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(३) इत्या॑हा॒ग्निर्वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑म्पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑रमजिघास॒न्त्स पत्नीः॒ प्राप॑द्यत॒ तं न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॑ [29]
6.5.8.5
वध्य॒म्प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्मात्पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒द्यन्नानु॑वषट्कु॒र्यादशान्तम॒ग्नीत्सोम॑म्भक्षयेदुपा॒॒श्वनु॒ वष॑ट्करोति॒ न रु॒द्रम्प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीत्सोम॑म्भक्षय॒त्यग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द [30]
6.5.8.6
नेष्टः॒ पत्नी॑मु॒दान॒येत्या॑हा॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑यामुद्गा॒त्रा सं ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जानाम्प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तत्सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्नं॒कृत्यो॒रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑ प्र॒जाः प्र जा॑यन्ते ।। [31]
6.5.9.0
अ॒श्री॒णा॒द॒न्तरा॑धानाभ्या॒मल्पाः स्थापयन्ति ।।9।।
6.5.9.1
इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ शीऱ्षकपा॒लमुदौब्ज॒त्स द्रो॑णकल॒शो॑ऽभव॒त्तस्मा॒त्सोमः॒ सम॑स्रव॒त्स हा॑रियोज॒नो॑ऽभव॒त्तं व्य॑चिकित्सज्जु॒हवा॒नी(३) मा हौ॒षा(३) मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒म होष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒सं क॑रिष्या॒मीति॒ तम॑ध्रियत॒ होतु॒॒ सोऽग्निर॑ब्रवी॒न्न मय्या॒म होष्य॒सीति॒ तं धा॒नाभि॑रश्रीणात् [32]
6.5.9.2
त शृ॒तम्भू॒तम॑जुहो॒द्यद्धा॒नाभि॑ऱ्हारियोज॒न श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैन॑म्भू॒तं जु॑होति ब॒ह्वीभिः॑ श्रीणात्ये॒ताव॑ती- रे॒वास्या॒मुष्मि॑ल्लोँ॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्माद्ब॒ह्वीभिः॑ श्रीणीयादृक्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः परि॒धय॑ आ॒धान॒य्यँदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्याम् [33]
6.5.9.3
घा॒सम्प्र य॑च्छेत्प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सम्प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तऱ्ह्य॑ध्व॒र्युः स्व॒गाकृ॑तो॒ यद॑ध्व॒र्युर्जु॑हु॒याद्यथा॒ विमु॑क्त॒म्पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒ऱ्षन्न॑धिनि॒धाय॑ जुहोति शीऱ्ष॒तो हि स स॒मभ॑वद्वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्त्समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर्यत्स॑म्भि॒न्द्यादल्पाः [34]
6.5.9.4
ए॒न॒म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेर॒न्॒यन्न स॑म्भि॒न्द्याद्ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न्मन॑सा॒ सम्बा॑धत उ॒भयं॑ करोति ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒वमि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुन्धत उत्तरवे॒द्यां नि व॑पति प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ।। [35]
6.5.10.0
यथा॑ पि॒ता तस्मा॑दप॒क्राम॑ति ता॒दृगे॒व तद्यद॒ष्टाद॑श च ।।10।।
6.5.10.1
ग्रहा॒न््वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाश्वन्तर्या॒माव॑जा॒वयः॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हानेक॑शफा आदित्यग्र॒हं गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिर््ऋ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒द्गावः॑ पशू॒नाम्भूयि॑ष्ठा॒ यत्त्रिरु॑पा॒॒शु हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द्द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदाग्रय॒णः पु॒त्रः क॒लशो॒ यदाग्रय॒ण उ॑प॒दस्येत्क॒लशाद्गृह्णीया॒द्यथा॑ पि॒ता [36]
6.5.10.2
पु॒त्रं क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीया॒द्यथा॑ पु॒त्रः पि॒तरं॑ क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदाग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञं निष्क॑रो॒त्यवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदाग्रय॒णस्स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मात् [37]
6.5.10.3
गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हाव॑भृ॒थमव॑ यन्ति॒ परा स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒त्स्त्रियं॑ जा॒ताम्परास्य॒न्त्यु- त्पुमा॑स हरन्ति॒ यत्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तद्यद्ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तद्यत्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तद्यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्यदृ॒चा तद्दृ॒ढम्पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै ।। [38]
6.5.11.0
भ॒व॒न्ति॒ यानि॒ पुनः॒ शस॑ति॒ तद्विष्व॒ङ्किञ्चतु॑र्दश च ।।11।।
6.5.11.1
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑पुनरिव॒ ह्य॑यं लो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑ [39]
6.5.11.2
प्र॒यु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णां नि॒दानं॒ वेद॑ नि॒दान॑वान्भव॒त्याज्य॒मित्यु॒क्थं तद्वै ग्रहा॑णां नि॒दान॒य्यँदु॑पा॒॒शु शस॑ति॒ तत् [40]
6.5.11.3
उ॒पा॒॒श्व॒न्त॒र्या॒मयो॒र्यदु॒च्चैस्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां नि॒दान॒य्यँ ए॒वं वेद॑ नि॒दान॑वान्भवति॒ यो वै ग्रहा॑णाम्मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णाम्मिथु॒नय्यँ ए॒वं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒त्स विष्वङ्ङ्॑ [41]
6.5.11.4
व्यार्च्छ॒त्स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒त्स ए॒तान॑नुसव॒नम्पु॑रो॒डाशा॑नपश्य॒त्तान्निर॑वप॒त्तैर्वै स आ॒त्मन्ना॒रम॑णमकुरुत॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॑ना॒म्प्राश्नी॑यादा॒त्मन्ने॒वारम॑णं कुरुते॒ नैन॒॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिराप्य॒तेऽथ॒ किं य॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑र॒म्भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिराप्यते॒ तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ।। [42]
6.6.0.0
सु॒व॒र्गाय॒ यद्दाक्षि॒णानि॑ समिष्टय॒जूष्य॑वभृथय॒जूषि॒ स्फ्येन॑ प्र॒जाप॑तिरेकाद॒शिनी॒मिन्द्रः॒ पत्नि॑या॒ घ्नन्ति॑ दे॒वा वा इ॑न्द्रि॒यन्दे॒वा वा अदाभ्ये दे॒वा वै प्र॒बाहु॑क्प्र॒जाप॑तिर्दे॒वेभ्य॒स्स रि॑रिचा॒नष्षो॑डश॒धैका॑दश ।।11।। सु॒व॒र्गाय॑ यजति प्र॒जास्सौ॒म्येन॑ गृह्णी॒यात्प्र॒त्यञ्च॑ङ्गृह्णी॒यात्प्र॒जां प॒शून्त्रिच॑त्वारिशत् ।।43।। सु॒व॒र्गाय॒ वज्र॑स्य रू॒प समृ॑द्ध्यै ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे षष्ठः प्रश्नः ।।
6.6.1.0
हिर॑ण्य॒॒ राधो॑ राध्यासम॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेत्य॒ष्टात्रि॑शच्च ।।1।।
6.6.1.1
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्दाक्षि॒णानि॒ द्वाभ्यां॒ गाऱ्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नीध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा क्र॑मते॒ सदो॒ऽभ्यैति॑ सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति सौ॒रीभ्या॑मृ॒ग्भ्यां गाऱ्ह॑पत्ये जुहोत्य॒मुमे॒वैनं॑ लो॒क स॒मारो॑हयति॒ नय॑वत्य॒र्चाग्नीध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनीत्यै॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेति॒ हिर॑ण्यम् [1]
6.6.1.2
हु॒त्वोद्गृ॑ह्णाति सुव॒र्गमे॒वैनं॑ लो॒कङ्ग॑मयति रू॒पेण॑ वो रू॒पम॒भ्यैमीत्या॑ह रू॒पेण॒ ह्या॑सा रू॒पम॒भ्यैति॒ यद्धिर॑ण्येन तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑ज॒त्वित्या॑ह तु॒थो ह॑ स्म॒ वै वि॒श्ववे॑दा दे॒वानां॒ दक्षि॑णा॒ वि भ॑जति॒ तेनै॒वैना॒ वि भ॑जत्ये॒तत्ते॑ अग्ने॒ राधः॑ [2]
6.6.1.3
ऐति॒ सोम॑च्युत॒मित्या॑ह॒ सोम॑च्युत॒॒ ह्य॑स्य॒ राध॒ ऐति॒ तन्मि॒त्रस्य॑ प॒था न॒येत्या॑ह॒ शान्त्या॑ ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ इत्या॑ह स॒त्यं वा ऋ॒त स॒त्येनै॒वैना॑ ऋ॒तेन॒ वि भ॑जति य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्ती॒रित्या॑ह य॒ज्ञस्य॒ ह्ये॑ताः प॒था यन्ति॒ यद्दक्षि॑णा ब्राह्म॒णम॒द्य राध्यासम् [3]
6.6.1.4
ऋषि॑माऱ्षे॒यमित्या॑है॒ष वै ब्राह्म॒ण ऋषि॑राऱ्षे॒यो यः शु॑श्रु॒वान्तस्मा॑दे॒वमा॑ह॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्ष॒मित्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ यत॑स्व सद॒स्यै॑रित्या॑ह मित्र॒त्वाया॒स्मद्दात्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्र दा॒तार॒मा वि॑श॒तेत्या॑ह व॒यमि॒ह प्र॑दा॒तारः॒ स्मोऽस्मान॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेति॑ [4]
6.6.1.5
वावैतदा॑ह॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑रे॒व पु॒रस्ताद्धत्ते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नीधे॑ ददात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति ब्र॒ह्मणे॑ ददाति॒ प्रसूत्यै॒ होत्रे॑ ददात्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यद्धोता॒त्मान॑मे॒व य॒ज्ञस्य॒ दक्षि॑णाभिः॒ सम॑र्धयति ।। [5]
6.6.2.0
यजू॑षि य॒ज्ञ एक॑चत्वारिशच्च ।।2।।
6.6.2.1
स॒मि॒ष्ट॒य॒जूषि॑ जुहोति य॒ज्ञस्य॒ समि॑ष्ट्यै॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒ यद॒त्येति॒ यन्नात्येति॒ यद॑तिक॒रोति॒ यन्नापि॑ क॒रोति॒ तदे॒व तैः प्री॑णाति॒ नव॑ जुहोति॒ नव॒ वै पुरु॑षे प्रा॒णाः पुरु॑षेण य॒ज्ञः सम्मि॑तो॒ यावा॑ने॒व य॒ज्ञस्तम्प्री॑णाति॒ षडृग्मि॑याणि जुहोति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ त्रीणि॒ यजू॑षि [6]
6.6.2.2
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं ग॒च्छेत्या॑ह य॒ज्ञप॑तिमे॒वैनं॑ गमयति॒ स्वां योनिं॑ ग॒च्छेत्या॑ह॒ स्वामे॒वैनं॒ योनिं॑ गमयत्ये॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसूक्तवाकः सु॒वीर॒ इत्या॑ह॒ यज॑मान ए॒व वी॒र्यं॑ दधाति वासि॒ष्ठो ह॑ सात्यह॒व्यो दे॑वभा॒गम्प॑प्रच्छ॒ यत्सृञ्ज॑यान्बहुया॒जिनोऽयी॑यजो य॒ज्ञे [7]
6.6.2.3
य॒ज्ञम्प्रत्य॑तिष्ठि॒पा ३ य॒ज्ञप॒ता ३ विति॒ स हो॑वाच य॒ज्ञप॑ता॒विति॑ स॒त्याद्वै सृञ्ज॑याः॒ परा॑ बभूवु॒रिति॑ होवाच य॒ज्ञे वाव य॒ज्ञः प्र॑ति॒ष्ठाप्य॑ आसी॒द्यज॑मान॒स्याप॑राभावा॒येति॒ देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॒तेत्या॑ह य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति॒ यज॑मान॒स्याप॑राभावाय ।। [8]
6.6.3.0
रक्षा॑सि प्रया॒जानृ॒तवो॒ वै न॑म॒स्यन्तो॒ द्वाद॑श च ।।3।।
6.6.3.1
अ॒व॒भृ॒थ॒य॒जूषि॑ जुहोति॒ यदे॒वार्वा॒चीन॒मेक॑हायना॒देनः॑ क॒रोति॒ तदे॒व तैरव॑ यजते॒ऽपो॑ऽवभृ॒थमवैत्य॒फ्सु वै वरु॑णः सा॒क्षादे॒व वरु॑ण॒मव॑ यजते॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञ रक्षा॑सि जिघासन्ति॒ साम्ना प्रस्तो॒तान्ववै॑ति॒ साम॒ वै र॑क्षो॒हा रक्ष॑सा॒मप॑हत्यै॒ त्रिर्नि॒धन॒मुपै॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षा॑सि [9]
6.6.3.2
अप॑ हन्ति॒ पुरु॑षःपुरुषो नि॒धन॒मुपै॑ति॒ पुरु॑षःपुरुषो॒ हि र॑क्ष॒स्वी रक्ष॑सा॒मप॑हत्या उ॒रु हि राजा॒ वरु॑णश्च॒कारेत्या॑ह॒ प्रति॑ष्ठित्यै श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॒मित्या॑ह भेष॒जमे॒वास्मै॑ करोत्य॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शमे॒वाभि ति॑ष्ठति ब॒ऱ्हिर॒भि जु॑हो॒त्याहु॑तीना॒म्प्रति॑ष्ठित्या॒ अथो॑ अग्नि॒वत्ये॒व जु॑हो॒त्यप॑बऱ्हिषः प्रया॒जान् [10]
6.6.3.3
य॒ज॒ति॒ प्र॒जा वै ब॒ऱ्हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्च॒त्याज्य॑भागौ यजति य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति॒ वरु॑णं यजति वरुणपा॒शादे॒वैन॑म्मुञ्चत्य॒ग्नीवरु॑णौ यजति सा॒क्षादे॒वैनं॑ वरुणपा॒शान्मु॑ञ्च॒त्यप॑बऱ्हिषावनूया॒जौ य॑जति प्र॒जा वै ब॒ऱ्हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्चति च॒तुरः॑ प्रया॒जान््य॑जति॒ द्वाव॑नूया॒जौ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तवः॑ [11]
6.6.3.4
ऋ॒तुष्वे॒व प्रति॑ तिष्ठ॒त्यव॑भृथ निचङ्कु॒णेत्या॑ह यथोदि॒तमे॒व वरु॑ण॒मव॑ यजते समु॒द्रे ते॒ हृद॑यम॒फ्स्व॑न्तरित्या॑ह समु॒द्रे ह्य॑न्तर्वरु॑णः॒ सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॒ इत्या॑हा॒द्भिरे॒वैन॒मोष॑धीभिः स॒म्यञ्चं॑ दधाति॒ देवी॑राप ए॒ष वो॒ गर्भ॒ इत्या॑ह यथाय॒जुरे॒वैतत्प॒शवो॒ वै [12]
6.6.3.5
सोमो॒ यद्भि॑न्दू॒नाम्भ॒क्षयेत्पशु॒मान्त्स्या॒द्वरु॑ण॒स्त्वे॑नं गृह्णीया॒द्यन्न भ॒क्षये॑दप॒शुः स्या॒न्नैनं॒ वरु॑णो गृह्णीयादुप॒स्पृश्य॑मे॒व प॑शु॒मान्भ॑वति॒ नैनं॒ वरु॑णो गृह्णाति॒ प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒ वरु॑णस्या॒न्तऱ्हि॑त्या॒ एधोऽस्येधिषीम॒हीत्या॑ह स॒मिधै॒वाग्निं न॑म॒स्यन्त॑ उ॒पाय॑न्ति॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह॒ तेज॑ ए॒वात्मन्ध॑त्ते ।। [13]
6.6.4.0
वै सम॑ष्ट्यै॒ पुमा॑ने॒वास्य॒ यमे॒व रु॑न्धे त्रि॒॒शच्च॑ ।।4।।
6.6.4.1
स्फ्येन॒ वेदि॒मुद्ध॑न्ति रथा॒क्षेण॒ वि मि॑मीते॒ यूप॑म्मिनोति त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒ यद॑न्तर्वे॒दि मि॑नु॒याद्दे॑वलो॒कम॒भि ज॑ये॒द्यद्ब॑हिर्वे॒दि म॑नुष्यलो॒कं वेद्य॒न्तस्य॑ सं॒धौ मि॑नोत्यु॒भयोर्लो॒कयो॑र॒भिजि॑त्या॒ उप॑रसम्मिताम्मिनुयात्पितृलो॒कका॑मस्य रश॒नस॑म्मिताम्मनुष्यलो॒कका॑मस्य च॒षाल॑सम्मितामिन्द्रि॒यका॑मस्य॒ सर्वान्त्स॒मान्प्र॑ति॒ष्ठाका॑मस्य॒ ये त्रयो॑ मध्य॒मास्तान्त्स॒मान्प॒शुका॑मस्यै॒तान््वै [14]
6.6.4.2
अनु॑ प॒शव॒ उप॑ तिष्ठन्ते पशु॒माने॒व भ॑वति॒ व्यति॑षजे॒दित॑रान्प्र॒जयै॒वैन॑म्प॒शुभि॒र्व्यति॑षजति॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ गर्त॒मितं॒ तस्य॑ मिनुयादुत्तरा॒र्ध्यं॑ वऱ्षि॑ष्ठ॒मथ॒ ह्रसी॑यासमे॒षा वै ग॑र्त॒मिद्यस्यै॒वम्मि॒नोति॑ ता॒जक्प्र मी॑यते दक्षिणा॒र्ध्यं॑ वऱ्षि॑ष्ठम्मिनुयात्सुव॒र्गका॑म॒स्याथ॒ ह्रसी॑यासमा॒क्रम॑णमे॒व तत्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै [15]
6.6.4.3
यदेक॑स्मि॒न््यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये वि॑न्दते॒ यन्नैका॑ रश॒नां द्वयो॒र्यूप॑योः परि॒व्यय॑ति॒ तस्मा॒न्नैका॒ द्वौ पती॑ विन्दते॒ यं का॒मये॑त॒ स्त्र्य॑स्य जाये॒तेत्यु॑पा॒न्ते तस्य॒ व्यति॑षजे॒त्स्त्र्ये॑वास्य॑ जायते॒ यं का॒मये॑त॒ पुमा॑नस्य जाये॒तेत्या॒न्तं तस्य॒ प्र वेष्टये॒त्पुमा॑ने॒वास्य॑ [16]
6.6.4.4
जा॒य॒तेऽसु॑रा॒ वै दे॒वान्द॑क्षिण॒त उपा॑नय॒न्तान्दे॒वा उ॑पश॒येनै॒वापा॑नुदन्त॒ तदु॑पश॒यस्यो॑पशय॒त्वं यद्द॑क्षिण॒त उ॑पश॒य उ॑प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒ सर्वे॒ वा अ॒न्ये यूपाः पशु॒मन्तोऽथो॑पश॒य ए॒वाप॒शुस्तस्य॒ यज॑मानः प॒शुर्यन्न नि॑र्दि॒शेदार्ति॒- मार्च्छे॒द्यज॑मानो॒ऽसौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्याद्यमे॒व [17]
6.6.4.5
द्वेष्टि॒ तम॑स्मै प॒शुं निर्दि॑शति॒ यदि॒ न द्वि॒ष्यादा॒खुस्ते॑ प॒शुरिति॑ ब्रूया॒न्न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यान्प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सोऽन्नाद्ये॑न॒ व्यार्ध्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै सोऽन्नाद्य॒मवा॑रुन्द्ध॒ यद्दश॒ यूपा॒ भव॑न्ति॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [18]
6.6.4.6
य ए॑काद॒शः स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैनां॒ तेन॒ वज्रो॒ वा ए॒षा सम्मी॑यते॒ यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्तात्प्र॒त्यञ्चं॑ य॒ज्ञ सम्म॑र्दितो॒र्यत्पात्नीव॒तम्मि॒नोति॑ य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।। [19]
6.6.5.0
रेतो॒ यज॑माने दधाति लो॒क ऐ॒न्द्र स॒प्तत्रि॑शच्च ।।5।।
6.6.5.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै स आयु॑रिन्द्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते॒ यो यज॑ते॒ स ए॒तऱ्हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॒त्यायु॑रे॒व तयेन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ प्रैवाग्ने॒येन॑ वापयति मिथु॒न सा॑रस्व॒त्या क॑रोति॒ रेतः॑ [20]
6.6.5.2
सौ॒म्येन॑ दधाति॒ प्र ज॑नयति पौ॒ष्णेन॑ बाऱ्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै प्र॒जाः प्र ज॑नयति वैश्वदे॒वो भ॑वति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जा ए॒वास्मै॒ प्र ज॑नयतीन्द्रि॒यमे॒वैन्द्रेणाव॑रुन्द्धे॒ विश॑म्मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ सावि॒त्रो नि॑र्वरुण॒त्वाय॑ वारु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते मध्य॒त ए॒वेन्द्रि॒यं यज॑माने दधाति [21]
6.6.5.3
पु॒रस्ता॑दै॒न्द्रस्य॑ वैश्वदे॒वमाल॑भते वैश्वदे॒वं वा अन्न॒मन्न॑मे॒व पु॒रस्ताद्धत्ते॒ तस्मात्पु॒रस्ता॒दन्न॑मद्यत ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते॒ विड्वै म॒रुतो॒ विश॑मे॒वास्मा॒ अनु॑ बध्नाति॒ यदि॑ का॒मये॑त॒ योऽव॑गतः॒ सोऽप॑ रुध्यतां॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छ॒त्वित्यै॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत वारु॒णस्य॑ लो॒क ऐ॒न्द्रम् [22]
6.6.5.4
य ए॒वाव॑गतः॒ सोऽप॑ रुध्यते॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छति॒ यदि॑ का॒मये॑त प्र॒जा मु॑ह्येयु॒रिति॑ प॒शून्व्यति॑षजेत्प्र॒जा ए॒व मो॑हयति॒ यद॑भिवाह॒तो॑ऽपां वा॑रु॒णमा॒लभे॑त प्र॒जा वरु॑णो गृह्णीयाद्दक्षिण॒त उद॑ञ्च॒मा ल॑भतेऽपवाह॒तो॑ऽ- पाम्प्र॒जाना॒मव॑रुणग्राहाय ।। [23]
6.6.6.0
व॒पया॒ षट्त्रि॑शच्च ।।6।।
6.6.6.1
इन्द्रः॒ पत्नि॑या॒ मनु॑मयाजय॒त्ताम्पर्य॑ग्निकृता॒मुद॑सृज॒त्तया॒ मनु॑रार्ध्नो॒द्यत्पर्य॑ग्निकृतम्पात्नीव॒तमु॑त्सृ॒जति॒ यामे॒व मनु॒र््ऋद्धि॒- मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञः परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ यदाज्ये॑न पात्नीव॒त स॑स्था॒पय॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै य॒ज्ञम्प्र॑ति॒तिष्ठ॑न्तं॒ यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठती॒ष्टं व॒पया [24]
6.6.6.2
भव॒त्यनि॑ष्टं व॒शयाथ॑ पात्नीव॒तेन॒ प्र च॑रति ती॒र्थ ए॒व प्र च॑र॒त्यथो॑ ए॒तऱ्ह्ये॒वास्य॒ याम॑स्त्वा॒ष्ट्रो भ॑वति॒ त्वष्टा॒ वै रेत॑सः सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति॒ तमे॒व वृ॑षाण॒म्पत्नी॒ष्वपि॑ सृजति॒ सोऽस्मै रू॒पाणि॒ वि क॑रोति ।। [25]
6.6.7.0
अव॑ दाधार मि॒त्रेणै॒व प्री॑णाति॒ षट्च॑ ।।7।।
6.6.7.1
घ्नन्ति॒ वा ए॒तत्सोमं॒ यद॑भिषु॒ण्वन्ति॒ यत्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तद्यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा जुहु॒याद्दे॒वताभ्यः स॒मदं॑ दध्याद्दक्षिणा॒र्धे जु॑होत्ये॒षा वै पि॑तृ॒णां दिख्स्वाया॑मे॒व दि॒शि पि॒तॄन्नि॒रव॑दयत उद्गा॒तृभ्यो॑ हरन्ति सामदेव॒त्यो॑ वै सौ॒म्यो यदे॒व साम्न॑श्छम्बट्कु॒र्वन्ति॒ तस्यै॒व स शान्ति॒रव॑ [26]
6.6.7.2
ई॒क्ष॒न्ते॒ प॒वित्रं॒ वै सौ॒म्य आ॒त्मान॑मे॒व प॑वयन्ते॒ य आ॒त्मानं॒ न प॑रि॒पश्ये॑दि॒तासुः॑ स्यादभिद॒दिं कृ॒त्वावेक्षेत॒ तस्मि॒न््ह्यात्मान॑म्परि॒पश्य॒त्यथो॑ आ॒त्मान॑मे॒व प॑वयते॒ यो ग॒तम॑नाः॒ स्यात्सोऽवेक्षेत॒ यन्मे॒ मनः॒ परा॑गतं॒ यद्वा॑ मे॒ अप॑रागतम् । राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॒ मन॑ ए॒वात्मन्दा॑धार [27]
6.6.7.3
न ग॒तम॑ना भव॒त्यप॒ वै तृ॑तीयसव॒ने य॒ज्ञः क्रा॑मतीजा॒नादनी॑जानम॒भ्याग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजत्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वताश्चै॒व य॒ज्ञं च॑ दाधारोपा॒॒शु य॑जति मिथुन॒त्वाय॑ ब्रह्मवा॒दिनो॑ वदन्ति मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टं युवते॒ वरु॑णो॒ दुरि॑ष्टं॒ क्व॑ तऱ्हि॑ य॒ज्ञः क्व॑ यज॑मानो भव॒तीति॒ यन्मैत्रावरु॒णीं व॒शामा॒लभ॑ते मि॒त्रेणै॒व [28]
6.6.7.4
य॒ज्ञस्य॒ स्वि॑ष्ट शमयति॒ वरु॑णेन॒ दुरि॑ष्टं॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यथा॒ वै लाङ्ग॑लेनो॒र्वराम्प्रभि॒न्दन्त्ये॒वमृ॑क्सा॒मे य॒ज्ञम्प्र भि॑न्तो॒ यन्मैत्रावरु॒णीं व॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववास्यति॒ शान्त्यै॑ या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दा॑सि॒ य ई॑जा॒नश्छन्द॑सामे॒ष रसो॒ यद्व॒शा यन्मैत्रावरु॒णीं व॒शामा॒लभ॑ते॒ छन्दा॑स्ये॒व पुन॒रा प्री॑णा॒त्यया॑तयामत्वा॒याथो॒ छन्दः॑स्वे॒व रसं॑ दधाति ।। [29]
6.6.8.0
उ॒क्थ्ये॑ दे॒वा अ॒मुष्मि॑ल्लोँ॒क एका॒न्नच॑त्वारि॒॒शच्च॑ ।।8।।
6.6.8.1
दे॒वा वा इ॑न्द्रि॒यं वी॒र्यं व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑तिग्रा॒ह्या॑ अभव॒न्तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वय्यँद॑तिग्रा॒ह्या॑ गृ॒ह्यन्त॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ तेज॑ आग्ने॒येनेन्द्रि॒यमै॒न्द्रेण॑ ब्रह्मवर्च॒स सौ॒र्येणो॑प॒स्तम्भ॑नं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑तिग्रा॒ह्याश्च॒क्रे पृ॒ष्ठानि॒ यत्पृष्ठ्ये॒ न गृ॑ह्णी॒यात्प्राञ्चं॑ य॒ज्ञम्पृ॒ष्ठानि॒ स शृ॑णीयु॒र्यदु॒क्थ्ये [30]
6.6.8.2
गृ॒ह्णी॒यात्प्र॒त्यञ्चं॑ य॒ज्ञम॑तिग्रा॒ह्याः स शृ॑णीयुर्विश्व॒जिति॒ सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स प्रि॒यास्त॒नूरप॒ न्य॑धत्त॒ तद॑तिग्रा॒ह्या॑ अभव॒न्वित॑नु॒स्तस्य॑ य॒ज्ञ इत्या॑हु॒र्यस्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒ इत्यप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ दे॒वता॒ वै सर्वाः स॒दृशी॑रास॒न्ता न व्या॒वृतमगच्छ॒न्ते दे॒वाः [31]
6.6.8.3
ए॒त ए॒तान्ग्रहा॑नपश्य॒न्तान॑गृह्णताग्ने॒यम॒ग्निरै॒न्द्रमिन्द्रः॑ सौ॒र्य सूर्य॒स्ततो॒ वै तेऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒न््यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छती॒मे लो॒का ज्योति॑ष्मन्तः स॒माव॑द्वीर्याः का॒र्या॑ इत्या॑हुराग्ने॒येना॒स्मिल्लोँ॒के ज्योति॑र्धत्त ऐ॒न्द्रेणा॒न्तरि॑क्ष इन्द्रवा॒यू हि स॒युजौ॑ सौ॒र्येणा॒मुष्मि॑ल्लोँ॒के [32]
6.6.8.4
ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति स॒माव॑द्वीर्यानेनान्कुरुत ए॒तान््वै ग्रहान्ब॒म्बावि॒श्वव॑यसाववित्ता॒म् ताभ्या॑मि॒मे लो॒काः पराञ्चश्चा॒र्वाञ्च॑श्च॒ प्राभु॒र्यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒ प्रास्मा॑ इ॒मे लो॒काः पराञ्चश्चा॒र्वाञ्च॑श्च भान्ति ।। [33]
6.6.9.0
द॒भ्नो॒त्यन॑भिषुतस्य गृह्णा॒त्येका॒न्नवि॑श॒तिश्च॑ ।।9।।
6.6.9.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा अदाभ्ये॒ छन्दा॑सि॒ सव॑नानि॒ सम॑स्थापय॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषोऽदाभ्यो गृ॒ह्यते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ यद्वै दे॒वा असु॑रा॒नदाभ्ये॒ना- द॑भ्नुव॒न्तददाभ्यस्यादाभ्य॒त्वय्यँ ए॒वं वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्यं॒ नैन॒म्भ्रातृ॑व्यो दभ्नोति [34]
6.6.9.2
ए॒षा वै प्र॒जाप॑तेरतिमो॒क्षिणी॒ नाम॑ त॒नूर्यददाभ्य॒ उप॑नद्धस्य गृह्णा॒त्यति॑मुक्त्या॒ अति॑ पा॒प्मान॒म्भ्रातृ॑व्यम्मुच्यते॒ य ए॒वं वेद॒ घ्नन्ति॒ वा ए॒तत्सोमं॒ यद॑भिषु॒ण्वन्ति॒ सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते य॒ज्ञे यज॑मानो ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येन॒ जीवन्त्सुव॒र्गं लो॒कमेतीति॑ जीवग्र॒हो वा ए॒ष यददा॒भ्योऽन॑भिषुतस्य गृह्णाति॒ जीव॑न्तमे॒वैन॑ सुव॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यददाभ्ये सस्था॒पय॑न्त्य॒॒शूनपि॑ सृजति य॒ज्ञस्य॒ संत॑त्यै ।। [35]
6.6.10.0
दि॒क्ष्व॑निति विश॒तिश्च॑ ।।10।।
6.6.10.1
दे॒वा वै प्र॒बाहु॒ग्ग्रहा॑नगृह्णत॒ स ए॒तम्प्र॒जाप॑तिर॒॒शुम॑पश्य॒त्तम॑गृह्णीत॒ तेन॒ वै स आर्ध्नो॒द्यस्यै॒वं वि॒दुषो॒ऽ॒शुर्गृ॒ह्यत॑ ऋ॒ध्नोत्ये॒व स॒कृद॑भिषुतस्य गृह्णाति स॒कृद्धि स तेनार्ध्नो॒न्मन॑सा गृह्णाति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ औदु॑म्बरेण गृह्णा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒ चतुः॑स्रक्ति भवति दि॒क्षु [36]
6.6.10.2
ए॒व प्रति॑ तिष्ठति॒ यो वा अ॒॒शोरा॒यत॑नं॒ वेदा॒यत॑नवान्भवति वामदे॒व्यमिति॒ साम॒ तद्वा अ॑स्या॒यत॑न॒म्मन॑सा॒ गाय॑मानो गृह्णात्या॒यत॑नवाने॒व भ॑वति॒ यद॑ध्व॒र्युर॒॒शुं गृ॒ह्णन्नार्धये॑दु॒भाभ्यां॒ नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च॒ यद॒र्धये॑दु॒भाभ्या॑मृध्ये॒तान॑वानं गृह्णाति॒ सैवास्यर्द्धि॒र््हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒ण आयु॑षै॒वामृत॑म॒भि धि॑नोति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।। [37]
6.6.11.0
लो॒को वि॒दुषः॑ षोड॒शी गृ॒ह्यते॒ यदु॒क्थ्ये॑ धाम॑ कल्पयन्ति स॒प्तच॑त्वारिशच्च ।।11।।
6.6.11.1
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स रि॑रिचा॒नो॑ऽमन्यत॒ स य॒ज्ञाना॑ षोडश॒धेन्द्रि॒यं वी॒र्य॑मा॒त्मान॑म॒भि सम॑क्खिद॒त् तथ्षो॑ड॒श्य॑भव॒न्न वै षो॑ड॒शी नाम॑ य॒ज्ञोऽस्ति॒ यद्वाव षो॑ड॒श स्तो॒त्र षो॑ड॒श श॒स्त्रं तेन॑ षोड॒शी तथ्षो॑ड॒शिनः॑ षोडशि॒त्वय्यँथ्षो॑ड॒शी गृ॒ह्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒कः [38]
6.6.11.2
न प्राभ॑व॒त्त ए॒त षो॑ड॒शिन॑मपश्य॒न्तम॑गृह्णत॒ ततो॒ वै तेभ्यः॑ सुव॒र्गो लो॒कः प्राभ॑व॒द्यथ्षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒त षो॑ड॒शिन॒म्प्राय॑च्छ॒त्तम॑गृह्णीत॒ ततो॒ वै सोऽग्रं॑ दे॒वता॑ना॒म्पर्यै॒द्यस्यै॒वं वि॒दुषः॑ षोड॒शी गृ॒ह्यते [39]
6.6.11.3
अग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति प्रातःसव॒ने गृ॑ह्णाति॒ वज्रो॒ वै षो॑ड॒शी वज्रः॑ प्रातःसव॒न स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ सव॑नेसवने॒ऽभि गृ॑ह्णाति॒ सव॑नात्सवनादे॒वैन॒म्प्र ज॑नयति तृतीयसव॒ने प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी प॒शव॑स्तृतीयसव॒नव्वँज्रे॑णै॒वास्मै॑ तृतीयसव॒नात्प॒शूनव॑ रुन्द्धे॒ नोक्थ्ये॑ गृह्णीयात्प्र॒जा वै प॒शव॑ उ॒क्थानि॒ यदु॒क्थ्ये [40]
6.6.11.4
गृ॒ह्णी॒यात्प्र॒जाम्प॒शून॑स्य॒ निर्द॑हेदतिरा॒त्रे प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒ रात्रि॑यो॒परि॑ष्टाच्छमय॒त्यप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयाद्व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते सा॒ह्न ए॒वास्मै॒ वज्रं॑ गृह्णाति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्द्धे॒ निर्वा दहत्येकवि॒॒श स्तो॒त्रम्भ॑वति॒ प्रति॑ष्ठित्यै॒ हरि॑वच्छस्यत॒ इन्द्र॑स्य प्रि॒यं धाम॑ [41]
6.6.11.5
उपाप्नोति॒ कनी॑यासि॒ वै दे॒वेषु॒ छन्दा॒॒स्यास॒ञ्ज्याया॒॒स्यसु॑रेषु॒ ते दे॒वाः कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श्छन्दो॒ऽभि व्य॑शस॒न्ततो॒ वै तेऽसु॑राणां लो॒कम॑वृञ्जत॒ यत्कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श्छन्दो॒ऽभि वि॒शस॑ति॒ भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते॒ षड॒क्षरा॒ण्यति॑ रेचयन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति च॒त्वारि॒ पूर्वा॒ण्यव॑ कल्पयन्ति [42]
6.6.11.6
चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे॒ द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुन्द्धेऽनु॒ष्टुभ॑म॒भि सम्पा॑दयन्ति॒ वाग्वा अ॑नु॒ष्टुप्तस्मात्प्रा॒णानां॒ वागु॑त्त॒मा स॑मयाविषि॒ते सूर्ये॑ षोड॒शिनः॑ स्तो॒त्रमु॒पाक॑रोत्ये॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन्त्सा॒क्षादे॒व वज्र॒म्भ्रातृ॑व्याय॒ प्र ह॑रत्यरुणपिशं॒गोऽश्वो॒ दक्षि॑णै॒तद्वै वज्र॑स्य रू॒प समृ॑द्ध्यै ।। [43]
7.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे प्रथमः प्रश्नः ।।
7.1.0.0
Wrt srpton ॑out Pr॒sn॒
7.1.1.0
अस्थू॑रि॒रोष॑धीषु ज्येष्ठय॒ज्ञ इति॑ बृ॒हद॑नु॒ष्टुप्छन्दः॒ प्रति॑ष्ठिता॒ नव॑ च ।।1।।
7.1.1.1
प्र॒जन॑न॒ञ्ज्योति॑र॒ग्निर्दे॒वता॑ना॒ञ्ज्योति॑र्वि॒राट्छन्द॑सा॒ञ्ज्योति॑र्वि॒राड्वा॒चोऽग्नौ सं ति॑ष्ठते वि॒राज॑म॒भि सम्प॑द्यते॒ तस्मा॒- त्तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ प्रातःसव॒नं व॑हतो॒ यथा प्रा॒णश्चा॑पा॒नश्च॒ द्वौ माध्यं॑दिन॒॒ सव॑नं॒ यथा॒ चक्षु॑श्च॒ श्रोत्रं॑ च॒ द्वौ तृ॑तीयसव॒नं यथा॒ वाक्च॑ प्रति॒ष्ठा च॒ पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः [1]
7.1.1.2
यं कामं॑ का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्ञुते॒ सर्व॒॒ ह्यस्थू॑रिणाभ्यश्ञु॒तेऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त्तासा॒म्परि॑गृहीतानामश्वत॒रोऽत्य॑प्रवत॒ तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट्तस्माद्गर्द॒भो द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बायां॒ न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ अथो॑ आहु॒रोष॑धीषु [2]
7.1.1.3
न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुः प्र॒जासु॒ न्य॑मा॒र्डिति॒ तस्माद्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि तस्माद्ब॒ऱ्हिष्यन॑वकॢप्तः सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑कॢ॒प्तोऽति॒ ह्यप्र॑वत॒ य ए॒वं वि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताः प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ [3]
7.1.1.4
प्र॒जाप॑ति॒र्वाव ज्येष्ठः॒ स ह्ये॑तेनाग्रेऽय॑जत प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृतं॒ निर॑मिमीत॒ तम॒ग्नि- र्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथंत॒र साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जः प॑शू॒नान्तस्मा॒त्ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्तोर॑सो बा॒हुभ्याम्पञ्चद॒शं निर॑मिमीत॒ तमिन्द्रो॑ दे॒वतान्व॑सृज्यत त्रि॒ष्टुप्छन्दो॑ बृ॒हत् [4]
7.1.1.5
साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविः॑ पशू॒नान्तस्मा॒त्ते वी॒र्या॑वन्तो वी॒र्याद्ध्यसृ॑ज्यन्त मध्य॒तः स॑प्तद॒शं निर॑मिमीत॒ तं विश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒प साम॒ वैश्यो॑ मनु॒ष्या॑णां॒ गावः॑ पशू॒नान्तस्मा॒त्त आ॒द्या॑ अन्न॒धाना॒- द्ध्यसृ॑ज्यन्त॒ तस्मा॒द्भूया॑सो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त प॒त्त ए॑कवि॒॒शं निर॑मिमीत॒ तम॑नु॒ष्टुप्छन्दः॑ [5[]
7.1.1.6
अन्व॑सृज्यत वैरा॒ज साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वः॑ पशू॒नान्तस्मा॒त्तौ भू॑तसंक्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्माच्छू॒द्रो य॒ज्ञेऽन॑वकॢप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त्पादा॒वुप॑ जीवतः प॒त्तो ह्यसृ॑ज्येताम्प्रा॒णा वै त्रि॒वृद॑र्धमा॒साः प॑ञ्चद॒शः प्र॒जाप॑तिः सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒॒श ए॒तस्मि॒न्वा ए॒ते श्रि॒ता ए॒तस्मि॒न्प्रति॑ष्ठिता॒ य ए॒वं वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ।। [6]
7.1.2.0
ताव॑न्तो लो॒कास्त्रयो॑दश च ।।2।।
7.1.2.1
प्रा॒तः॒स॒व॒ने वै गा॑य॒त्रेण॒ छन्द॑सा त्रि॒वृते॒ स्तोमा॑य॒ ज्योति॒र्दध॑देति त्रि॒वृता ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकवि॒॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व तत्स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्र ण॑यति॒ याव॑न्तो॒ वै स्तोमा॒स्ताव॑न्तः॒ कामा॒स्ताव॑न्तो लो॒कास्ताव॑न्ति॒ ज्योती॑ष्ये॒ताव॑त ए॒व स्तोमा॑ने॒ताव॑तः॒ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योती॒॒ष्यव॑ रुन्द्धे ।। [7]
7.1.3.0
स॒प्त॒द॒शम॑न्त॒र्यन्ति॑ वि॒राजीति॒ चतु॑श्चत्वारिशच्च ।।3।।
7.1.3.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ योऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णास्तस्या॒न्तर्य॑न्ति प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्यं॑ तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒शम॑न्त॒र्यन्ति॑ [8]
7.1.3.2
प्र॒जां तस्या॒न्तर्य॑न्ति प्र॒जाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्यै॑कवि॒॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठां तस्या॒न्तर्य॑न्ति प्रति॒ष्ठाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूश्च॒ तस्य॑ नक्ष॒त्रियां च वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नक्ष॒त्रिया॑यां च वि॒राजीति॑ [9]
7.1.3.3
खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रयस्त्रि॒॒शम॑न्त॒र्यन्ति॑ दे॒वता॒स्तस्या॒न्तर्य॑न्ति दे॒वता॑सु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यो वै स्तोमा॑नामव॒मम्प॑र॒मतां॒ गच्छ॑न्तं॒ वेद॑ पर॒मता॑मे॒व ग॑च्छति त्रि॒वृद्वै स्तोमा॑नामव॒म- स्त्रि॒वृत्प॑र॒मो य ए॒वं वेद॑ पर॒मता॑मे॒व ग॑च्छति ।। [10]
7.1.4.0
उत्त॑रेण रथन्त॒रम्पूर्वेऽन्वेक॑विशतिश्च ।।4।।
7.1.4.1
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत॒ ते सु॑व॒र्गं लो॒कमा॑य॒न्तेषा॑ ह॒विष्मा॑श्च हवि॒ष्कृच्चा॑हीयेता॒न्ताव॑कामयेता सुव॒र्गं लो॒कमि॑या॒वेति॒ तावे॒तं द्वि॑रा॒त्रम॑पश्यता॒न्तमाह॑रता॒न्तेना॑यजेता॒न्ततो॒ वै तौ सु॑व॒र्गं लो॒कमै॑ता॒य्यँ ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैता॒म्पूर्वे॒णाऽह्नाऽग॑च्छता॒मुत्त॑रेण [11]
7.1.4.2
अ॒भि॒प्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑र॒ञ्ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्द्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑र॒॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै गाय॒त्रम्पूर्वेह॒न्त्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सन्तेज॑ ए॒व ब्र॑ह्मवर्च॒स- मा॒त्मन्ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते रथंत॒रम्पूर्वे [12]
7.1.4.3
अह॒न्त्साम॑ भवती॒यं वै र॑थंत॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हुः॒ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑ वैखान॒सम्पूर्वेऽह॒न्त्साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑हु॒र्यत्स॑मा॒नेऽ र्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑र॒न्नानै॒वार्ध॑मा॒सयोर्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै ।। [13]
7.1.5.0
अ॒ब्र॒वी॒च्च॒ तद॒न्तरि॑क्षन्ददात्यच्छावा॒कश्च॒ देयेति॑ स॒प्तच॑त्वारिशच्च ।।5।।
7.1.5.1
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒त्स इ॒माम॑पश्य॒त्तां व॑रा॒हो भू॒त्वाह॑र॒त्तां वि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒र्ट्त्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वन्तस्या॑मश्राम्यत्प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसून्रु॒द्राना॑दि॒त्यान्ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न्प्र जा॑यामहा॒ इति॒ सोऽब्रवीत् [14]
7.1.5.2
यथा॒हं यु॒ष्मास्तप॒सासृ॑क्ष्ये॒वं तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑न॒म्प्राय॑च्छदे॒तेना॒यत॑नेन श्राम्य॒तेति॒ तेऽग्निना॒यत॑नेनाश्राम्य॒न्ते सं॑वत्स॒र एकां॒ गाम॑सृजन्त॒ तां वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राय॑च्छन्ने॒ता र॑क्षध्व॒मिति॒ तां वस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च [15]
7.1.5.3
श॒तानि॒ त्रय॑स्त्रिशतं॒ चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त्ते दे॒वाः प्र॒जाप॑तिमब्रुवन्त्स॒हस्रे॑ण नो याज॒येति॒ सोऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त्त इ॒मं लो॒कम॑जय॒न्तच्चा॑ददुः॒ स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त्तेऽन्तरि॑क्षमजय॒न्तच्चा॑ददुः॒ सो॑ऽतिरा॒त्रेणा॑- दि॒त्यान॑याजय॒त्ते॑ऽमुं लो॒कम॑जय॒न्तच्चा॑ददु॒स्तद॒न्तरि॑क्षम् [16]
7.1.5.4
व्यवैर्यत॒ तस्माद्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भम्मध्य॒मस्याह्न॒ आज्य॑म्भवति सं॒याना॑नि सू॒क्तानि॑ शसति षोड॒शिन॑ शस॒त्यह्नो॒ धृत्या॒ अशि॑थिलम्भावाय॒ तस्मात्त्रिरा॒त्रस्याग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षां लो॒कानां॒ विधृ॑त्यै॒ त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददाति [17]
7.1.5.5
ए॒षां लो॒काना॒मनु॒ संत॑त्यै द॒शतं॒ न विच्छि॑न्द्याद्वि॒राजं॒ नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेता॒॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं विष्णुः॑ स॒हस्रं॑ वर्क्ष्यत॒ इति॒ तस्या॑मकल्पेता॒न्द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनूच्यत उ॒भा जि॑ग्यथु॒रिति॒ तां वा ए॒ताम॑च्छावा॒कः [18]
7.1.5.6
ए॒व श॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रं॒ वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होतानाप्तस्यापयि॒ता- था॑हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हुः॒ सर्वेभ्यः सद॒स्येभ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वशं॑ चरे॒दित्यथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ [19]
7.1.5.7
द्विभा॑गम्ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वैष्ण॒वोऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा ए॒तत्स॒हस्र॒स्याय॑न स॒हस्र॑ स्तो॒त्रीयाः स॒हस्रं॒ दक्षि॑णाः स॒हस्र॑सम्मितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।। [20]
7.1.6.0
ए॒तदे॒तस्यां वी॒र्य॑मस्य त्रि॒भिश्च॑ द॒त्ता स॑हस्रत॒मी तस्मा॑दे॒व वर॒स्सम्मात्रा॒मेका॒न्नच॑त्वारि॒॒शच्च॑ ।।6।।
7.1.6.1
सोमो॒ वै स॒हस्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो न्याग॑च्छ॒त्ताव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही ३ इत्य॑ब्रूता॒॒ स य॒म एक॑स्यां वी॒र्य॑म्पर्य॑पश्यदि॒यं वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म्बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यम्ममास्त्वे॒तद्यु॒वयो॒रिति॒ ताव॑ब्रूता॒॒ सर्वे॒ वा ए॒तदे॒तस्यां वी॒र्यम् [21]
7.1.6.2
परि॑ पश्या॒मोऽश॒मा ह॑रामहा॒ इति॒ तस्या॒मश॒माह॑रन्त॒ ताम॒प्सु प्रावे॑शय॒न्त्सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पं कृ॒त्वा त्रय॑स्त्रिशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्रीणीया॒द्य ए॒वं वि॒द्वान्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्री॒णाति॒ त्रय॑स्त्रिशता चै॒वास्य॑ त्रि॒भिश्च॑ [22]
7.1.6.3
श॒तैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पं कृ॒त्वा त्रय॑स्त्रिशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑णीं लक्ष्म॒णाम्प॑ष्ठौ॒हीं वार्त्र॑घ्नीं दद्या॒द्य ए॒वं वि॒द्वान्रोहि॑णीं लक्ष्म॒णाम्प॑ष्ठौ॒हीं वार्त्र॑घ्नीं॒ ददा॑ति॒ त्रय॑स्त्रिशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता [23]
7.1.6.4
भ॒व॒ति॒ ताम॒प्सु प्रावे॑शयन््य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पं कृ॒त्वा त्रय॑स्त्रिशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒ज्जर॑तीम्मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुर्वीत॒ य ए॒वं वि॒द्वाञ्जर॑तीम्मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुरु॒ते त्रय॑स्त्रिशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सामुष्मि॑ल्लोँ॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मात् [24]
7.1.6.5
वरो॒ देयः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द्वरो॒ न प्र॑ति॒गृह्यः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ प्रति॑गृहीत- म्भवती॒यं वर॒ इति॑ ब्रूया॒दथा॒न्याम्ब्रू॑यादि॒यम्ममेति॒ तथास्य॒ तत्स॒हस्र॒मप्र॑तिगृहीतम्भवत्युभयतए॒नी स्या॒त्तदा॑हुरन्यत- ए॒नी स्यात्स॒हस्र॑म्प॒रस्ता॒देत॒मिति॒ यैव वरः॑ [25]
7.1.6.6
क॒ल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒त्सा हि वरः॒ समृ॑द्ध्यै॒ तामुत्त॑रे॒णाग्नीध्रम्पर्या॒णीया॑हव॒नीय॒स्यान्ते द्रोणकल॒शमव॑ घ्रापये॒दा जि॑घ्र क॒लश॑म्मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः॒ सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्या सम् [26]
7.1.6.7
अ॒र्ध॒य॒ति॒ प्र॒जावान्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ तया॑ स॒हाग्नीध्रम्प॒रेत्य॑ पु॒रस्तात्प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथा॒मिति॑ त्रेधाविभ॒क्तं वै त्रि॑रा॒त्रे स॒हस्र॑ साह॒स्रीमे॒वैनां करोति स॒हस्र॑स्यै॒वैना॒म्मात्राम् [27]
7.1.6.8
क॒रो॒ति॒ रू॒पाणि॑ जुहोति रू॒पैरे॒वैना॒॒ सम॑र्धयति॒ तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृत॑म्मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नं दे॒वा बु॑ध्यन्ते ।। [28]
7.1.7.0
लो॒कान्ग॑मयति॒ सावि॑द्वान्त्सु॒शेवा॒ मावि॑श॒ यज॑मान॒न्द्वाद॑श च ।।7।।
7.1.7.1
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानः सुव॒र्गं लो॒कमे॑ति॒ सैन॑ सुव॒र्गं लो॒कं ग॑मयति॒ सा मा॑ सुव॒र्गं लो॒कं ग॑म॒येत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तं लो॒कं ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनं॑ लो॒कं ग॑मय॒ति सा मा॒ सर्वा॒न्पुण्या- ल्लोँ॒कान्ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैन॒म्पुण्याल्लोँ॒कान्ग॑मयति॒ सा [29]
7.1.7.2
मा॒ प्र॒ति॒ष्ठां ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्याम्प्रति॑ ष्ठापयति प्र॒जावान्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वाध्व॒र्यवे॑ वा दद्यात्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ यस्तामवि॑द्वान् [30]
7.1.7.3
प्र॒ति॒गृ॒ह्णाति॒ ताम्प्रति॑ गृह्णीया॒देका॑सि॒ न स॒हस्र॒मेकां त्वा भू॒ताम्प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॒मित्येका॑मे॒वैनाम्भू॒ताम्प्रति॑ गृह्णाति॒ न स॒हस्रं॒ य ए॒वं वेद॑ स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॑श [31]
7.1.7.4
इत्या॑ह स्यो॒नैवैन॑ सु॒षदा॑ सु॒शेवा॑ भू॒ता वि॑शति॒ नैन॑ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्र॑ सहस्रत॒म्यन्वे॒ती ३ स॑हस्रत॒मी स॒हस्रा ३ मिति॒ यत्प्राची॑मुत्सृ॒जेत्स॒हस्र॑ सहस्रत॒म्यन्वि॑या॒त्तत्स॒हस्र॑मप्रज्ञा॒त्र सु॑व॒र्गं लो॒कं न प्र जा॑नीयात्प्र॒तीची॒मुत्सृ॑जति॒ ता स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गं लो॒कमे॑ति॒ यज॑मानम॒भ्युत्सृ॑जति क्षि॒प्रे स॒हस्र॒म्प्र जा॑यत उत्त॒मा नी॒यते प्रथ॒मा दे॒वान्ग॑च्छति ।। [32]
7.1.8.0
तत्तेज॑ ए॒वाष्टाद॑श च ।।8।।
7.1.8.1
अत्रि॑रददा॒दौर्वा॑य प्र॒जाम्पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वीर्यः शिथि॒लो या॒तया॑मा॒ स ए॒तं च॑तूरा॒त्रम॑पश्य॒त् तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आजा॑यन्त॒ सुहो॑ता॒ सूद्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ य ए॒वं वि॒द्वाश्च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सूद्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्वि॒॒शाः पव॑माना ब्रह्मवर्च॒सं तत् [33]
7.1.8.2
य उ॒द्यन्तः॒ स्तोमाः॒ श्रीः सात्रि॑ श्र॒द्धादे॑वं॒ यज॑मानं च॒त्वारि॑ वीर्याणि॒ नोपा॑नम॒न्तेज॑ इन्द्रि॒यम्ब्र॑ह्मवर्च॒सम॒न्नाद्य॒॒ स ए॒ताश्च॒तुर॒श्चतु॑ष्टोमा॒न्त्सोमा॑नपश्य॒त्तानाह॑र॒त्तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्धेन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ य ए॒वं वि॒द्वाश्च॒तुर॒श्चतु॑ष्टोमा॒न्त्सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध इन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ यामे॒वात्रि॒र््ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति ।। [34]
7.1.9.0
ज॒मद॑ग्निर॒ष्टाच॑त्वारिशत् ।।9।।
7.1.9.1
ज॒मद॑ग्निः॒ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान्पोषा॑ अपुष्य॒त्तस्मात्पलि॒तौ जाम॑दग्नियौ॒ न सं जा॑नाते ए॒ताने॒व पोषान्पुष्यति॒ य ए॒वं वि॒द्वाश्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशः॑ प॒शूने॒वाव॑ रु॒न्द्धेऽन्नं॒ वै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुन्द्धेऽन्ना॒दः प॑शु॒मान्भ॑वति॒ य ए॒वं वि॒द्वाश्च॑तूरा॒त्रेण॒ यज॑ते ।। [35]
7.1.10.0
ते व्याव॑र्तन्त प्रवदि॒ता स्या॒मिति॒ स ए॒तम्प़॑ञ्चरा॒त्रमा स॑व्वँत्स॒रो॑ऽभिजि॑त्यै ।।10।।
7.1.10.1
सं॒व॒त्स॒रो वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत॒र्तून्त्सृ॑जे॒येति॒ स ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒न् तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त [36]
7.1.10.2
य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्त्स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्र॑म्प॒शून्प्राप्नो॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्र॑म्प॒शूनाप्नोति बब॒रः प्रावा॑हणिरकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमा [37]
7.1.10.3
अ॒ह॒र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताभ॑व॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनं वा॒चस्पति॒रित्या॑हु॒रनाप्तश्चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते सम्प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवत्स॒रः [38]
7.1.10.4
ऋ॒तुष्वे॒व स॑व्वँत्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चवि॒॒शोऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ।। [39]
7.1.11.0
ध॒रुणः॒ प़ञ्च॑विशतिश्च ।।11।।
7.1.11.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒मा द॑द इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुर््ऋ॒तस्य॒ सामन्त्स॒रमा॒रप॑न्ती । अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्तासि॒ सोऽग्निं वैश्वान॒र सप्र॑थसं गच्छ॒ स्वाहा॑कृतः पृथि॒व्यां य॒न्ता राड्य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुणः॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॑ स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वेभ्यस्त्वा भू॒तेभ्यः॑ ।। [40]
7.1.12.0
रन्ति॒स्स्वाहा॒ द्वावि॑शतिश्च ।।12।।
7.1.12.1
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामास्यादि॒त्याना॒म्पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहेन्द्रा॒ग्निभ्या॒॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा॒ विश्वेभ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वाभ्यो दे॒वेताभ्य इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वेभ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तं गोपायत ।। [41]
7.1.13.0
आय॑ना॒योत्त॑रमा॒पला॑यिताय॒ षड्वि॑शतिः ।। 13 ।।
7.1.13.1
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहोद्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ऽऽपला॑यिताय॒ स्वाहा॒ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ऽऽय॒ते स्वाहा प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [42]
7.1.14.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.14.1
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒पाम्मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 43 ।।
7.1.15.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.15.1
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा प्र॒तीच्यै॑ दि॒शे स्वाहोदीच्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यः स्वाहा॑ऽ- वान्तरदि॒शाभ्यः॒ स्वाहा॒ समाभ्यः॒ स्वाहा॑ श॒रद्भ्यः॒ स्वाहा॑ऽहोरा॒त्रेभ्यः॒ स्वाहाऽर्धमा॒सेभ्यः॒ स्वाहा॒ मासेभ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा॑ संवत्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 44 ।।
7.1.16.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.16.1
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒ऽपाम्मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 45 ।।
7.1.17.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.17.1
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ऽग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहाऽह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒ स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुक्षि॒त्यै स्वाहा क्षु॒धे स्वाहा॑ऽऽशिति॒म्ने स्वाहा॒ रोगा॑य॒ स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑ऽऽत॒पाय॒ स्वाहाऽर॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 46 ।।
7.1.18.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.18.1
भुवो॑ दे॒वानां॒ कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि रु॒द्रेभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयाम्यादि॒त्येभि॑- र्दे॒वेभि॑र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒ऱ्षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒ विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒यानु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि [47]
7.1.18.2
श॒रदा त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यङ्गि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्यां त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याहं दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नीं गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्त स॒त्ये॑ऽधा स॒त्यमृ॒ते॑ऽधाम् । म॒हीमू॒ षु सु॒त्रामा॑णमि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा ।। 48 ।।
7.1.19.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.19.1
ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ऽव॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा घ्रा॒ताय॒ स्वाहा प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ संदी॒यमा॑नाय॒ स्वाहा॒ संदि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑परस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेक्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषत्स्य॒ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ [49]
7.1.19.2
आ॒सि॒ष्य॒ते स्वाहाऽऽसी॑नाय॒ स्वाहा॑ऽऽसि॒ताय॒ स्वाहा॑ निपत्स्य॒ते स्वाहा॑ नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑ शयि॒ताय॒ स्वाहा॑ सम्मीलिष्य॒ते स्वाहा॑ स॒म्मील॑ते॒ स्वाहा॒ सम्मी॑लिताय॒ स्वाहा स्वप्स्य॒ते स्वाहा स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा प्रभोत्स्य॒ते स्वाहा प्र॒बुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा श्रु॒ताय॒ स्वाहा॑ वीक्षिष्य॒ते स्वाहा [50]
7.1.19.3
वीक्ष॑माणाय॒ स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सहास्य॒ते स्वाहा॑ स॒ञ्जिहा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्त्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहोत्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहोत्क्रस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रान्ताय॒ स्वाहा॑ चंक्रमिष्य॒ते स्वाहा॑ चंक्र॒म्यमा॑णाय॒ स्वाहा॑ चंक्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त्क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा प्र॒जाभ्यः॒ स्वाहा प्रजन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [51]
7.1.20.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.20.1
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्तम॑स्यृ॒तस्य॒र्तम॑सि स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वानां छा॒यामृ॑तस्य॒ नाम॒ तत्स॒त्यं यत्त्वम्प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन्प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा ।। 52 ।।
7.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे द्वितीयः प्रश्नः ।।
7.2.0.0
Wrt srpton ॑out Pr॒sn॒
7.2.1.0
पृ॒ष्ठानि॑ सप्तद॒शः सु॑व॒र्गो ज॑यन्ति य॒दैका॑दश च ।।1।।
7.2.1.1
सा॒ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒त ष॑ड्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं लो॒कमा॑य॒न््य ए॒वं वि॒द्वासः॑ षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्ति देवस॒त्त्रं वै ष॑ड्रा॒त्रः प्र॒त्यक्ष॒॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वं वि॒द्वासः॑ षड्रा॒त्रमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति षड्रा॒त्रो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ [1]
7.2.1.2
पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवत्स॒रन्ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धते पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शः [2]
7.2.1.3
भ॒व॒त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्धानं॒ चाग्नीध्रं च भवत॒स्तद्धि सु॑व॒र्ग्य॑ञ्च॒क्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गः [3]
7.2.1.4
लो॒कः सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यानः॒ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न्प्रति॒षज्य॑ प्रति॒ष्ठां ग॑च्छन्ति य॒दा दश॑ श॒तं कु॒र्वन्त्यथैक॑मु॒त्थान॑ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒त स॒हस्रं॑ कु॒र्वन्त्यथैक॑मु॒त्थान॑ स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति य॒दैषाम्प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थान॒न्तद्धि ती॒र्थम् ।। [4]
7.2.2.0
तेज॑ उपे॒युः प्र॒त्यक्ष॒न्द्विच॑त्वारिशच्च ।।2।।
7.2.2.1
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्त्स्या॒मिति॒ स ए॒त स॑प्तरा॒त्रमाह॑र॒त्तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स्तानवा॑रुन्द्ध॒ य ए॒वं वि॒द्वान्त्स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुन्द्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेजः॑ [5]
7.2.2.2
ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चवि॒॒शोऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत्प्र॒त्यक्ष॒म्पूर्वे॒ष्वहः॑सु पृ॒ष्ठान्यु॑पे॒युः प्र॒त्यक्षम् [6]
7.2.2.3
वि॒श्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममहः॑ स्या॒न्नैक॑रा॒त्रश्च॒न स्याद्बृहद्रथन्त॒रे पूर्वे॒ष्वहः॒सूप॑ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत्प्र॒त्यक्षं॑ विश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्तां दु॒हे ता॒दृगे॒व तत् ।। [7]
7.2.3.0
दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे॒ऽभिजि॑त्यै ।। 3।।
7.2.3.1
बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वं वि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्द्धेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्धे [8]
7.2.3.2
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चवि॒॒शोऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ।। [9]
7.2.4.0
कल्प॑न्ते प्र॒जाना॒न्त्रय॑स्त्रिशच्च ।।4।।
7.2.4.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टाः क्षुधं॒ न्या॑य॒न्त्स ए॒तं न॑वरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽ कल्पत॒ यऱ्हि॑ प्र॒जाः क्षुधं॑ नि॒गच्छे॑यु॒स्तऱ्हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासां लो॒का अकॢ॑प्ता॒ अथै॒ताः क्षुधं॒ नि ग॑च्छन्ती॒माने॒वाभ्यो॑ लो॒कान्क॑ल्पयति॒ तान्कल्प॑मानान्प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते [10]
7.2.4.2
अ॒स्मा॒ इ॒मे लो॒का ऊर्ज॑म्प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमं लो॒कं क॑ल्पयति त्रिरा॒त्रेणा॒न्तरि॑क्षं त्रिरा॒त्रेणा॒मुं लो॒कं यथा॑ गु॒णे गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलम्भावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒ताः स्तोमा॑ भवन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्रं॑ प्र॒जानाम् [11]
7.2.4.3
ग॒च्छ॒ति॒ न॒व॒रा॒त्रो भ॑वत्यभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्यात्स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।। [12]
7.2.5.0
प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रस्त्रि॑क॒कुद्वा ए॒ता वै जा॑यत॒ एक॑त्रिशच्च ।।5।।
7.2.5.1
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं दश॑होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्राजा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुया॒द्दश॑होत्रै॒व द॑शरा॒त्र सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः [13]
7.2.5.2
य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तं द॑शरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वै [14]
7.2.5.3
ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः क॒कुत्प॑ञ्चद॒शः क॒कुदे॑कवि॒॒शः क॒कुत्त्र॑यस्त्रि॒॒शो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नानाम्भवति॒ यज॑मानः पञ्चद॒शो यज॑मान एकवि॒॒शो यज॑मानस्त्रयस्त्रि॒॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति॒ नैन॑मभि॒चरन्त्स्तृणुते देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒ताः [15]
7.2.5.4
दे॒व॒पु॒रा अ॑पश्य॒न््यद्द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषां॒ न कुत॑श्च॒नोपाव्या॒धो॑ऽभव॒त्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं कुरुते जा॒मि वै [16]
7.2.5.5
ए॒तत्कु॑र्वन्ति॒ यज्ज्याया॑स॒॒ स्तोम॑मु॒पेत्य॒ कनी॑यासमुप॒यन्ति॒ यद॑ग्निष्टोमसा॒मान्य॒वस्ताच्च प॒रस्ताच्च॒ भव॒न्त्यजा॑मित्वाय त्रि॒वृद॑ग्निष्टो॒मोऽग्नि॒ष्टुदाग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो वैश्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुन्द्धे सप्तद॒शोऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मोऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते [17]
7.2.5.6
ए॒क॒वि॒॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते सप्तद॒शोऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रि॒॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जित्सर्व॑पृष्ठोऽ तिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ।। [18]
7.2.6.0
तस्माद्गाय॒त्र्येका॒न्नप॑ञ्चा॒शच्च॑ ।।6।।
7.2.6.1
ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां नावि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जा सृ॑जेमहि प्र॒जामव॑ रुन्धीमहि प्र॒जां वि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न्तदार्त॒वाना॑मार्तव॒त्वमृ॑तू॒नां वा ए॒ते पु॒त्रास्तस्मात् [19]
7.2.6.2
आ॒र्त॒वा उ॑च्यन्ते॒ य ए॒वं वि॒द्वास॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुन्धते प्र॒जां वि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ताद्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवत्स॒रन्ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्वि॒॒शो भ॑वति॒ चतु॑र्विशत्यक्षरा गाय॒त्री [20]
7.2.6.3
गा॒य॒त्रम्ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारि॒॒शो भ॑वति॒ चतु॑श्चत्वारिशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारि॒॒शो भ॑वत्य॒ष्टाच॑त्वारिशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वार्त॒वेषु॑ संवत्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै ।। [21]
7.2.7.0
प्र॒मीये॑त मनु॒ष्य॑ ऋध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒ वाग्वा ए॒व पू॒र्णान्ग्रहा॒न्पञ्च॑विशतिश्च ।।7।।
7.2.7.1
ऐ॒न्द्र॒वा॒य॒वाग्रान्गृह्णीया॒द्यः का॒मये॑त यथापू॒र्वम्प्र॒जाः क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै कॢप्ति॒मनु॑ प्र॒जाः क॑ल्पन्ते य॒ज्ञस्याकॢ॑प्ति॒मनु॒ न क॑ल्पन्ते यथापू॒र्वमे॒व प्र॒जाः क॑ल्पयति॒ न ज्याया॑सं॒ कनी॑या॒नति॑ क्रामत्यैन्द्रवाय॒वाग्रान्गृह्णीयादामया॒विनः॑ प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ यस्या॒मय॑ति प्रा॒ण ऐन्द्रवाय॒वः प्रा॒णेनै॒वैन॒॒ सम॑र्धयति मैत्रावरु॒णाग्रान्गृह्णीर॒न््येषां दीक्षि॒तानाम्प्र॒मीये॑त [22]
7.2.7.2
प्रा॒णा॒पा॒नाभ्यां॒ वा ए॒ते व्यृ॑ध्यन्ते॒ येषां दीक्षि॒तानाम्प्र॒मीय॑ते प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तः परि॑ हरन्त आश्वि॒नाग्रान्गृह्णीतानुजाव॒रोऽश्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्र॒म्पर्यैताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्र॒म्परि॑ णयतः शु॒क्राग्रान्गृह्णीत ग॒तश्रीः प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यः शु॒क्र ए॒षोऽन्तोऽन्त॑म्मनु॒ष्यः॑ [23]
7.2.7.3
श्रि॒यै ग॒त्वा नि व॑र्त॒तेऽन्ता॑दे॒वान्त॒मा र॑भते॒ न ततः॒ पापी॑यान्भवति म॒न्थ्य॑ग्रान्गृह्णीताभि॒चर॑न्नार्तपा॒त्रं वा ए॒तद्यन्म॑न्थिपा॒त्रम्मृ॒त्युनै॒वैनं॑ ग्राहयति ता॒जगार्ति॒मार्च्छ॑त्याग्रय॒णाग्रान्गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॒ स्यादथ॒ तन्न प्राप्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॑ [24]
7.2.7.4
भव॒त्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒ यदाग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑र्धयति॒ न ततः॒ पापी॑यान्भव- त्यु॒क्थ्याग्रान्गृह्णीताभिच॒र्यमा॑णः॒ सर्वे॑षां॒ वा ए॒तत्पात्रा॑णामिन्द्रि॒यं यदु॑क्थ्यपा॒त्र सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते॒ सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ पुरो॒रुचं॑ कुर्या॒द्वाग्वै [25]
7.2.7.5
सर॑स्वती वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑च्छति पू॒र्णान्ग्रहान्गृह्णीयादामया॒विनः॑ प्रा॒णान््वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति प्रा॒णा ग्रहाः प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व पू॒र्णान्ग्रहान्गृह्णीया॒द्यऱ्हि॑ प॒र्जन्यो॒ न वऱ्षेत्प्रा॒णान््वा ए॒तऱ्हि॑ प्र॒जाना॒॒ शुगृ॑च्छति॒ यऱ्हि॑ प॒र्जन्यो॒ न॒ वऱ्ष॑ति प्रा॒णा ग्रहाः प्रा॒णाने॒व प्र॒जाना॑ शु॒चो मु॑ञ्चति ता॒जक्प्र व॑ऱ्षति ।। [26]
7.2.8.0
ए॒तद्वै प॑ञ्च॒मेऽह॒न्त्रैष्टु॑भ ए॒तद्गृ॑ह्यते य॒ज्ञस्य॑ प़ञ्च॒मम॒न्यस्मा॒ एक॑ञ्च ।।8।।
7.2.8.1
गा॒य॒त्रो वा ऐन्द्रवाय॒वो गा॑य॒त्रम्प्रा॑य॒णीय॒मह॒स्तस्मात्प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भन्द्वि॒तीय॒मह॒स्तस्माद्द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आग्रय॒णो जाग॑तं तृ॒तीय॒मह॒स्तस्मात्तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै [27]
7.2.8.2
य॒ज्ञमा॑प॒द्यच्छन्दा॑स्या॒प्नोति॒ यदाग्रय॒णः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुनः॒ प्र यु॑ङ्क्ते॒ जग॑न्मुखो॒ वै द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ राथं॑तरो॒ वा ऐन्द्रवाय॒वो राथं॑तरम्पञ्च॒ममह॒स्तस्मात्पञ्च॒मेऽहन्न्॑ [28]
7.2.8.3
ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बाऱ्ह॑तो॒ वै शु॒क्रो बाऱ्ह॑त ष॒ष्ठमह॒स्तस्मात्ष॒ष्ठेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दा॑स्या॒प्नोति॒ यच्छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुनः॒ प्र यु॑ङ्क्ते त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः [29]
7.2.8.4
शु॒क्रो यत्स॑प्त॒मेऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आग्रय॒णो वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐन्द्रवाय॒वः प्रा॒णो न॑व॒ममह॒स्तस्मान्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तत् [30]
7.2.8.5
वै तृ॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दा॑स्या॒प्नोति॒ यदैन्द्रवाय॒वः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुनः॒ प्र यु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽध्यप॑थेन यन्ति॒ येऽन्येनैन्द्रवाय॒वात्प्र॑ति॒पद्य॒न्तेऽन्तः॒ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्य॑ [31]
7.2.8.6
ए॒वान्तं॑ ग॒त्वाप॑था॒त्पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सारं॒ वह॑न्ति ता॒दृगे॒व तच्छन्दा॑स्य॒न्योन्यस्य॑ लो॒कम॒भ्य॑ध्याय॒न्तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑नं॒ यच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑नं॒ यत्प॑ञ्च॒मम् [32]
7.2.8.7
अह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑नं॒ यत्ष॒ष्ठमह॒स्तस्मि॑ञ्छु॒क्रो गृ॑ह्यते॒ तस्माच्छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दा॑स्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमाप्नोति॒ य ए॒वं वेदाथो॑ दे॒वताभ्य ए॒व य॒ज्ञे सं॒विदं॑ दधाति॒ तस्मा॑दि॒दमन्योन्यस्मै॑ ददाति ।। [33]
7.2.9.0
अ॒ग्नि॒ष्टो॒मौ यत्सु॑व॒र्गल्लों॒कं प्रि॒यः प्र॒जाना॒म्पञ्च॑ च ।।9।।
7.2.9.1
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं द्वा॑दशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ यत् [34]
7.2.9.2
अ॒ग्नि॒ष्टो॒मं पूर्व॑म्प्रयुञ्जी॒रन्ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्तस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तः क॒नीनि॑के॒ प्रति॑ दधति॒ यो वै गा॑य॒त्रीं ज्योतिः॑पक्षां॒ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः स आ॒त्मैषा वै गा॑य॒त्री ज्योतिः॑पक्षा॒ य ए॒वं वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कम् [35]
7.2.9.3
ए॒ति॒ प्र॒जाप॑तिर्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद्द्वा॑दशरा॒त्रो याव॑तिरा॒त्रौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः स आ॒त्मा प्र॒जाप॑तिर्वावैष सन्त्सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति प्रा॒णा वै सत्प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सां॒ वा ए॒ते प्र॒जानाम्प्रा॒णैरा॑सते॒ ये स॒त्त्रमास॑ते॒ तस्मात्पृच्छन्ति॒ किमे॒ते स॒त्त्रिण॒ इति॑ प्रि॒यः प्र॒जाना॒मुत्थि॑तो भवति॒ य ए॒वं वेद॑ ।। [36]
7.2.10.0
अय॑च्छ॒दधि॑ रभते द्वादशा॒हेन॑ च॒त्वारि॑ च ।।10।।
7.2.10.1
न वा ए॒षोऽन्यतो॑वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त्ते दे॒वा ए॒तं वैश्वान॒रं पर्यौ॑हन्त्सुव॒र्गस्य॑ लो॒कस्य॒ प्रभूत्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न्तेष्वार्ध्नो॒दधि॒ तदृ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वं वि॒द्वान्द्वा॑दशा॒हेन॒ यज॑ते॒ तेऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छत् [37]
7.2.10.2
यवं॑ ग्री॒ष्मायौष॑धीर्व॒ऱ्षाभ्यो व्री॒हीञ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्या॒न्तेनेन्द्र॑म्प्र॒जाप॑तिरयाजय॒त्ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त्तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाग्रेऽय॑जतै॒ष ह॒ वै कु॒णप॑मत्ति॒ यः स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पङ्गौर्वा अन्न॒य्येँन॒ पात्रे॒णान्न॒म्बिभ्र॑ति॒ यत्तन्न नि॒र्णेनि॑जति॒ ततोऽधि॑ [38]
7.2.10.3
मलं॑ जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्ध्नो॒द्द्वाद॑श॒ रात्रीर्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद्द्वाद॑शोप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञं ताभिः॒ सम्भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञं ताभि॒रा र॑भते [39]
7.2.10.4
यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ मा॒॒स सोऽत्ति॒ यः पु॑रो॒डाश॑म्म॒स्तिष्क॒॒ स यः प॑रिवा॒पम्पुरी॑ष॒॒ स य आज्य॑म्म॒ज्जान॒॒ स यः सोम॒ स्वेद॒॒ सोऽपि॑ ह॒ वा अ॑स्य शीऱ्ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्माद्द्वादशा॒हेन॒ न याज्य॑म्पा॒प्मनो॒ व्यावृ॑त्त्यै ।। [40]
7.2.11.0
नव॑चत्वारिशते॒ स्वाहैका॒न्नैक॑विशतिश्च ।।11।।
7.2.11.1
एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒॒ स्वाहा त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहाऽष्टा॒भ्यः स्वाहा॑ न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा द्वाद॒शभ्यः॒ स्वाहा त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहाऽष्टाद॒शभ्यः॒ स्वाहैका॒न्न वि॑श॒त्यै स्वाहा॒ नव॑विशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒॒शते॒ स्वाहा॒ नव॑चत्वारिशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्या॑ श॒ताभ्या॒॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [41]
7.2.12.0
एक॑स्मै त्रि॒भ्यः प॑ञ्चा॒शत् ।।12।।
7.2.12.1
एक॑स्मै॒ स्वाहा त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न वि॑श॒त्यै स्वाहा॒ नव॑विशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒॒शते॒ स्वाहा॒ नव॑चत्वारिशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [42]
7.2.13.0
द्वाभ्या॑म॒ष्टान॑वत्यै॒ षड्वि॑शतिः ।।13।।
7.2.13.1
द्वाभ्या॒॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहाऽष्टा॒भ्यः स्वाहा॑ द॒शभ्यः॒ स्वाहा द्वाद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहाऽष्टाद॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [43]
7.2.14.0
त्रि॒भ्योऽष्टाचत्वारि॒॒शत् ।।14।।
7.2.14.1
त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न वि॑श॒त्यै स्वाहा॒ नव॑विशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒॒शते॒ स्वाहा॒ नव॑चत्वारिशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [44]
7.2.15.0
च॒तुर्भ्यः॒ षण्ण॑वत्यै॒ षोड॑श ।।15।।
7.2.15.1
च॒तुर्भ्यः॒ स्वाहाऽष्टा॒भ्यः स्वाहा द्वाद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [45]
7.2.16.0
प॒ञ्चभ्यः॒ प़ञ्च॑नवत्यै॒ चतु॑र्दश ।।16।।
7.2.16.1
प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [46]
7.2.17.0
द॒शभ्यो॒ द्वावि॑शतिः ।।17।।
7.2.17.1
द॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा त्रि॒॒शते॒ स्वाहा॑ चत्वारि॒॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [47]
7.2.18.0
वि॒॒श॒त्यै द्वाद॑श ।।18।।
7.2.18.1
वि॒॒श॒त्यै स्वाहा॑ चत्वारि॒॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [48]
7.2.19.0
प॒ञ्चा॒शते॒ द्वात्रि॑शत् ।।19।।
7.2.19.1
प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्या॑ श॒ताभ्या॒॒ स्वाहा त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑ श॒तेभ्यः॒ स्वाहाऽष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [49]
7.2.20.0
श॒ताया॒ष्टात्रि॑शत् ।।20।।
7.2.20.1
श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा प्र॒युता॑य॒ स्वाहाऽर्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मध्या॑य॒ स्वाहाऽन्ता॑य॒ स्वाहा॑ परा॒र्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहोद्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [50]
7.3.0.0
प्र॒जवं॑ ब्रह्मवा॒दिनः॒ किमे॒ष वा आ॒प्त आ॑दि॒त्या उ॒भयोः प्र॒जाप॑ति॒रन्वा॑य॒न्निन्द्रो॒ वै स॒दृङ्ङिन्द्रो॒ वै शि॑थि॒लः प्र॒जाप॑तिरकामयतान्ना॒दः सा वि॒राड॒सावा॑दि॒त्योऽर्वाङ्भू॒तमा मे॒ऽग्निना॒ स्वाहा॒धिन्द॒द्भ्योऽञ्ज्ये॒ताय॑ कृ॒ष्णायौष॑धीभ्यो॒ वन॒स्पति॑भ्यो विश॒तिः ।।20।। प्र॒जवं॑ प्र॒जाप॑ति॒र्यद॑छन्दो॒मन्ते॑ हुवे सवा॒हमोष॑धीभ्यो॒ द्विच॑त्वारिशत् ।।42।। प्र॒जव॒॒ सर्व॑स्मै॒ स्वाहा ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
7.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे तृतीयः प्रश्नः ।।
7.3.1.0
व्याह॒ स दृ॑शी॒कवोऽर्चि॒तारः॒ स एक॑ञ्च ।।1।।
7.3.1.1
प्र॒जवं॒ वा ए॒तेन॑ यन्ति॒ यद्द॑श॒ममहः॑ पापाव॒हीयं॒ वा ए॒तेन॑ भवन्ति॒ यद्द॑श॒ममह॒र्यो वै प्र॒जवं॑ य॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णु हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्ञु॒तेऽथ॒ यो व्याह॒ सः [1]
7.3.1.2
ही॒य॒ते॒ तस्माद्दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन््य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्निति॒ यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्धं॒ तद्यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॑ [2]
7.3.1.3
स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तःसद॒साद्व्युच्य॒य्यँदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्य॒न्तद्व्युच्य॑मे॒वाथ॒ वा ए॒तत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ती॒यं वै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्यां किं चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒य स॑र्परा॒ज्ञी ते यदे॒व किं च॑ वा॒चानृ॒चुर्यद॒तोऽध्य॑र्चि॒तारः॑ [3]
7.3.1.4
तदु॒भय॑मा॒प्त्वाव॒रुध्योत्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थः स॒द्यः पर्याप्तुमऱ्हति॒ मनो॒ वा इ॒मा स॒द्यः पर्याप्तुमऱ्हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजू॒॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत॒ स प्र॑तिग॒रः ।। [4]
7.3.2.0
शक्व॑री॒मित्येक॑चत्वारिशच्च ।।2।।
7.3.2.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ यज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किं द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किं तृ॒तीये॒नेति॒ त्रीनि॒माल्लोण॒कानिति॒ किं च॑तु॒र्थेनेति॒ चतु॑ष्पदः प॒शूनिति॒ किम्प॑ञ्च॒मेनेति॒ पञ्चाक्षराम्प॒ङ्क्तिमिति॒ कि ष॒ष्ठेनेति॒ षडृ॒तूनिति॒ कि स॑प्त॒मेनेति॑ स॒प्तप॑दा॒॒ शक्व॑री॒मिति॑ [5]
7.3.2.2
किम॑ष्ट॒मेनेत्य॒ष्टाक्ष॑रां गाय॒त्रीमिति॒ किं न॑व॒मेनेति॑ त्रि॒वृत॒॒ स्तोम॒मिति॒ किं द॑श॒मेनेति॒ दशाक्षरां वि॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाक्षरां त्रि॒ष्टुभ॒मिति॒ किं द्वा॑द॒शेनेति॒ द्वाद॑शाक्षरां॒ जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते ।। [6]
7.3.3.0
वित॑ता॒ त्रिच॑त्वारिशच्च ।।3।।
7.3.3.1
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत्त्र॑योदशरा॒त्रः स॑मा॒न ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ऽपा॒नस्तृ॒तीयः॑ प्राणापानोदा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒मायु॑र्यन्ति॒ य ए॒वं वि॒द्वा॑सस्त्रयोदशरा॒त्रमास॑ते॒ तदा॑हु॒र्वाग्वा ए॒षा वित॑ता [7]
7.3.3.2
यद्द्वा॑दशा॒हस्तां विच्छि॑न्द्यु॒र्यन्मध्ये॑ऽतिरा॒त्रं कु॒र्युरु॑प॒दासु॑का गृ॒हप॑ते॒र्वाक्स्या॑दु॒परि॑ष्टाच्छन्दो॒मानाम्महाव्र॒तं कु॑र्वन्ति॒ संत॑तामे॒व वाच॒मव॑ रुन्द्ध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्भ॑वति प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म्महाव्र॒तय्यँदु॒परि॑ष्टाच्छन्दो॒माना- म्महाव्र॒तं कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ।। [8]
7.3.4.0
पृ॒ष्ठानि॒ चतु॑स्त्रिशच्च ।।4।।
7.3.4.1
आ॒दि॒त्या अ॑कामयन्तो॒भयोर्लो॒कयोर्॑ऋध्नुया॒मेति॒ त ए॒तं च॑तुर्दशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै त उ॒भयोर्लो॒कयो॑रार्ध्नुवन्न॒स्मिश्चा॒मुष्मि॑श्च॒ य ए॒वं वि॒द्वास॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर््॑ऋध्नुवन्त्य॒- स्मिश्चा॒मुष्मि॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॑ [9]
7.3.4.2
भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रि॒॒शौ म॑ध्य॒तः स्तोमौ॑ भवतः॒ साम्राज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नानाम्भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [10]
7.3.5.0
आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन्त्स॑विवध॒त्वाय॒ प्रति॑ष्ठित्या॒ एक॑त्रिशच्च ।।5।।
7.3.5.1
प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा अन्वा॑य॒न्ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न्ते दे॒वा अ॑ब्रुव॒न््यान्प॒शूनु॒पाजी॑विष्म॒ त इ॒मेऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रम्प्रत्यौ॑ह॒न्त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं लो॒कमारो॑हन्त्र्य॒हाभ्या॑म॒स्मिल्लोँ॒के प॒शून्प्रत्यौ॑हन्पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑ल्लोँ॒क आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन् [11]
7.3.5.2
लो॒के प॒शवो॒ य ए॒वं वि॒द्वास॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ऋध्नुवन्त्य॒स्मिश्चा॒मुष्मि॑श्च पृ॒ष्ठैरे॒वामुष्मि॑ल्लोँ॒क ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिल्लोँ॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ [12]
7.3.5.3
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर््॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒ या दश॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [13]
7.3.6.0
अ॒न्तरि॑क्षमिन्द्रि॒यस्यैक॑ञ्च ।।6।।
7.3.6.1
इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त् तेना॑यजत॒ ततो॒ वै सोऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वासः॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षम् [14]
7.3.6.2
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वा वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ।। [15]
7.3.7.0
ग॒च्छ॒न्त्य॒ग्नि॒ष्टुता॑ पा॒प्मान॒न्निर॒न्तरि॑क्षल्लोँ॒कम्प्र॒जायै॒ द्वे च॑ ।।7।।
7.3.7.1
इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒त्सोऽसु॑रेभ्योऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रं वज्र॒म्प्राय॑च्छ॒त् तेनासु॑रान्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मानं॒ निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वं वि॒द्वासः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रियं॑ गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मानं॒ निः [16]
7.3.7.2
द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्द॑धत ए॒ता ए॒व प॑श॒व्याः पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽ- र्धमास॒शः सं॑वत्स॒र आप्यते संवत्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मात्पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वत्स॒र आप्यते संवत्स॒रः सु॑व॒र्गो लो॒कस्तस्मात्सुव॒र्ग्या ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षम् [17]
7.3.7.3
गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कम् [18]
7.3.7.4
य॒न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासां॒ या दश॒ दशाक्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒- मव॑ रुन्धते॒ याः पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम्परि॑गृहीत्यै ।। [19]
7.3.8.0
ए॒तत्स॒प्तत्रि॑श्चच्च ।।8।।
7.3.8.1
प्र॒जाप॑तिरकामयतान्ना॒दः स्या॒मिति॒ स ए॒त स॑प्तदशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽन्ना॒दो॑ऽभव॒द्य ए॒वं वि॒द्वासः॑ सप्तदशरा॒त्रमास॑तेऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवत्स॒र ऋ॒तुष्वे॒व सं॑वत्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒तेऽस॑त्त्रं॒ वा ए॒तत् [20]
7.3.8.2
यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [21]
7.3.9.0
वृ॒ञ्ज॒ते॒ ब्रह्म॒ चान्न॑ञ्च सुव॒र्गमे॒ते सु॑व॒र्गन्त्रयो॑विशतिश्च ।।9।।
7.3.9.1
सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द्ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भय॒॒ सं वृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒ त ए॒ता वि॑श॒ति रात्री॑रपश्य॒न्ततो॒ वै त उ॒भय॒॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनोऽन्ना॒दा अ॑भव॒न््य ए॒वं वि॒द्वास॑ ए॒ता आस॑त उ॒भय॑मे॒व सं वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च [22]
7.3.9.2
ब्र॒ह्म॒व॒र्च॒सिनोऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति वि॒॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गम् [23]
7.3.9.3
लो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदाभ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर्॑ ऋ॒द्ध्वोत्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [24]
7.3.10.0
गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑नै॒वोभ॒यतो॒ नाप्र॑तिष्ठिता॒ आस॑त॒ एक॑विशतिश्च ।।10।।
7.3.10.1
अ॒सावा॑दि॒त्योऽस्मिल्लोँ॒क आ॑सी॒त्तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं लो॒कम॑गमय॒न्परै॑र॒वस्ता॒त्पर्य॑गृह्णन्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न्परैः प॒रस्ता॒त्पर्य॑गृह्णन्पृ॒ष्ठैरु॒पावा॑रोह॒न्त्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑ल्लोँ॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ यत्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं यज॑माना यन्ति॒ परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न [25]
7.3.10.2
सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः प॒रस्ता॒त्परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत्परे॑ प॒रस्ता॒न्न स्युः पराञ्चस्सुव॒र्गाल्लो॒कान्निष्प॑द्येर॒न््यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्य॑म्परः॑सामानो भवन्ति सुव॒र्ग ए॒वैनाल्लोँ॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्य॑ संवत्स॒रः परः॑सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्परः॑ सामानो भवन्ति संवत्स॒र ए॒वोभ॒यतः॑ [26]
7.3.10.3
प्रति॑ तिष्ठन्ति पृ॒ष्ठं वै दि॑वाकी॒र्त्य॑म्पा॒र्श्वे परः॑सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्परः॑सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठम्पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठ शस्यते य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थं ग्र॑थ्न॒न्त्यवि॑स्रसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं लो॒कं न [27]
7.3.10.4
प्र॒त्य॒व॒रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न््यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम्प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविशतिरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनोऽप्र॑तिष्ठिताः [28]
7.3.10.5
स्युस्त ए॑कविशतिरा॒त्रमा॑सीर॒न्द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविशति- रा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽरोचत॒ य ए॒वं वि॒द्वा॑स एकविशतिरा॒त्रमास॑ते॒ रोच॑न्त ए॒वैक॑विशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कवि॒॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒॒शो॑-ऽ तिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।। [29]
7.3.11.0
उप॒ ग्रह॒मिडा॑मा॒शिषो॒ द्वात्रि॑शच्च ।।11।।
7.3.11.1
अ॒र्वाङ्य॒ज्ञः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ यः पु॒रोहि॑तः । निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न््हीयतां॒ योऽस्मान्द्वेष्टि॑ । शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मिन्त्सीदतु॒ योऽस्मान्द्वेष्टि॑ । यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स्तेन॒ सं क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान््य॒ज्ञस्य॒ तप॑सा॒ ते सवा॒हमा हु॑वे । इ॒ष्टेन॑ प॒क्वमुप॑ [30]
7.3.11.2
ते॒ हु॒वे॒ स॒वा॒हम् । सन्ते॑ वृञ्जे सुकृ॒त सम्प्र॒जाम्प॒शून् । प्रै॒षान्त्सा॑मिधे॒नीरा॑घा॒रावाज्य॑भागा॒वाश्रु॑तम्प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्त्स्वि॑ष्ट॒कृत॒मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ । अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्याभ्या॒मुप॑ ते हुवे स्वा॒हं य॒ज्ञमा द॑दे ते॒ वष॑ट्कृतम् । स्तु॒त श॒स्त्रम्प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिषः॑ [31]
7.3.11.3
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒या॒जानुप॑ ते हुवे सवा॒ह स॑मिष्टय॒जुरा द॑दे॒ तव॑ । प॒शून्त्सु॒तम्पु॑रो॒डाशा॒न्त्सव॑ना॒न्योत य॒ज्ञम् । दे॒वान्त्सेन्द्रा॒नुप॑ ते हुवे सवा॒हम॒ग्निमु॑खा॒न्त्सोम॑वतो॒ ये च॒ विश्वे ।। [32]
7.3.12.0
भुव॑श्च॒त्वारि॑ च ।।12।।
7.3.12.1
भू॒तम्भव्य॑म्भवि॒ष्यद्वष॒ट्त्स्वाहा॒ नम॒ ऋक्साम॒ यजु॒र्वष॒ट्त्स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ वष॒ट्त्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षं॒ द्यौर्वष॒ट्त्स्वाहा॒ नमो॒ऽग्निर्वा॒युः सूर्यो॒ वष॒ट्त्स्वाहा॒ नमः॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्त्स्वाहा॒ नमोऽन्नं॑ कृ॒षिर्वृष्टि॒र्वष॒ट्त्स्वाहा॒ नमः॑ पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्त्स्वाहा॒ नमो॒ भूर्भुवः॒सुव॒र्वष॒ट्त्स्वाहा॒ नमः॑ ।। [33]
7.3.13.0
अ॒ग्नि॒ष्टो॒मो वि॑शत्व॒ष्टाद॑श च ।।13।।
7.3.13.1
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् । आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुक्स्तु॑तश॒स्त्रे मा वि॑शता स॒मीची । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् । आ माग्निष्टो॒मो वि॑शतू॒क्थ्य॑श्चातिरा॒त्रो मा वि॑शत्वापिशर्व॒रः । ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा॒ प्र हा॑सीत् ।। [34]
7.3.14.0
ब्रा॒ह्म॒णेनैक॑ञ्च ।।14।।
7.3.14.1
अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान््वाते॑न प्रा॒णान्त्सूर्ये॑ण॒ द्याञ्च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पितॄन्राज्ञा॑ मनु॒ष्यान्फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिनावीर्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒म्बरे॒णोर्ज॑ङ्गायत्रि॒या छन्दा॑सि त्रि॒वृता॒ स्तोमान्ब्राह्म॒णेन॒ वाचम् ।। [35]
7.3.15.0
पु॒रु॒रूपा॑य॒ स्वाहा॒ दश॑ च ।।15।।
7.3.15.1
स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ स्वाहाधी॑त॒म्मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहादि॑त्यै॒ स्वाहादि॑त्यै म॒ह्यै स्वाहादि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्वस्मै॒ स्वाहा ।। [36]
7.3.16.0
पा॒र्श्वाभ्या॒॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॒ षट्च॑ ।।16।।
7.3.16.1
द॒द्भ्यः स्वाहा॒ हनूभ्या॒॒ स्वाहोष्ठाभ्या॒॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्या॒॒ स्वाहा॒क्षीभ्या॒॒ स्वाहा॒ कर्णाभ्या॒॒ स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्येभ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑वा॒र इ॒क्षवः॑ पा॒र्येभ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ शी॒ऱ्ष्णे स्वाहा भ्रू॒भ्या स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशेभ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा ग्री॒वाभ्यः॒ स्वाहा स्क॒न्धेभ्यः॒ स्वाहा॒ कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒ स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्या॒॒ स्वाहा [37]
7.3.16.2
असाभ्या॒॒ स्वाहा॑ दो॒षभ्या॒॒ स्वाहा॑ बा॒हुभ्या॒॒ स्वाहा॒ जङ्घाभ्या॒॒ स्वाहा॒ श्रोणीभ्या॒॒ स्वाहो॒रुभ्या॒॒ स्वाहाष्ठी॒वद्भ्या॒॒ स्वाहा॒ जङ्घाभ्या॒॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ण्डाभ्या॒॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा प्र॒जाभ्यः॒ स्वाहा प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ मा॒॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहाङ्गेभ्यः॒ स्वाहा॒त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [38]
7.3.17.0
रू॒पाय॒ स्वाहा॒ द्वे च॑ ।।17।।
7.3.17.1
अ॒ञ्ज्ये॒ताय॒ स्वाहाञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा श्वे॒तानू॑काशाय॒ स्वाहा॒ञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहासि॑तज्ञवे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑रुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृ॒शाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [39]
7.3.18.0
कृ॒ष्णाय॒ षट्च॑त्वारिशत् ।।18।।
7.3.18.1
कृ॒ष्णाय॒ स्वाहा श्वे॒ताय॒ स्वाहा॑ पि॒शंगा॑य॒ स्वाहा॑ सा॒रंगा॑य॒ स्वाहा॑रु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒ रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा श्या॒वाय॒ स्वाहा श्या॒माय॒ स्वाहा॑ पाक॒लाय॒ स्वाहा॑ सुरू॒पाय॒ स्वाहानु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒ प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्न॑ये॒ स्वाहा॑ पृश्ञिस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [40]
7.3.19.0
ओष॑धीभ्य॒श्चतु॑र्विशतिः ।।19।।
7.3.19.1
ओष॑धीभ्यः॒ स्वाहा॒ मूलेभ्यः॒ स्वाहा॒ तूलेभ्यः॒ स्वाहा॒ काण्डेभ्यः॒ स्वाहा॒ वल््शेभ्यः॒ स्वाहा॒ पुष्पेभ्यः॒ स्वाहा॒ फलेभ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [41]
7.3.20.0
वन॒स्पति॑भ्यः॒ स्कन्धोभ्यः शि॒ष्टाय॑ रि॒क्ताय॒ षट्च॑त्वारिशत् ।।20।।
7.3.20.1
वन॒स्पति॑भ्यः॒ स्वाहा॒ मूलेभ्यः॒ स्वाहा॒ तूलेभ्यः॒ स्वाहा॒ स्कन्धोभ्यः॒ स्वाहा॒ शाखाभ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒ पुष्पेभ्यः॒ स्वाहा॒ फलेभ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑ शि॒ष्टाय॒ स्वाहाति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सशि॑ष्टाय॒ स्वाहोच्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहारि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सरि॑क्ताय॒ स्वाहोद्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [42]
7.4.0.0
बृह॒स्पतिः॒ श्रद्यथा॒ वा ऋ॒क्षा वै प्र॒जाप॑ति॒र्येन॑येन॒ द्वे वाव दे॑वस॒त्रे आ॑दि॒त्या अ॑कामयन्त सुव॒र्गव्वँसि॑ष्ठस्सव्वँत्स॒राय॑ सुव॒र्गय्येँ स॒त्रम्ब्र॑ह्मवा॒दिनो॑ऽतिरा॒त्रो ज्योति॑ष्टोमं मे॒षः कूप्याभ्यो॒ऽद्भ्यो यो नमो॑ मयो॒भूः कि स्वि॒दम्बे॒ भूः प्रा॒णाय॑ सि॒ताय॒ द्वावि॑शतिः ।।22।। बृह॒स्पतिः॒ प्रति॑तिष्ठन्ति॒ वै द॑शरा॒त्रेण॑ सुव॒र्गं यो अर्व॑न्तं॒ भूस्त्रिप़॑ञ्चा॒शत् ।।53।। बृह॒स्पति॒स्सर्व॑स्मै॒ स्वाहा ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
7.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे चतुर्थः प्रश्नः ।।
7.4.1.0
अ॒सावायु॑रा॒भ्यामे॒व पञ्च॑चत्वारिशच्च ।।1।।
7.4.1.1
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यम्पुरो॒धामिति॒ स ए॒तं च॑तुर्विशतिरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत्पुरो॒धाय्यँ ए॒वं वि॒द्वास॑श्चतुर्विशतिरा॒त्रमास॑ते॒ श्रदेभ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धाञ्ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायुः॑ [1]
7.4.1.2
इ॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑ह॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
7.4.1.3
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति चतुर्विशतिरा॒त्रो भ॑वति॒ चतु॑र्विशतिरर्धमा॒साः सं॑वत्स॒रः सं॑वत्स॒रः सु॑व॒र्गो लो॒कः सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।। [3]
7.4.2.0
म॒नु॒ष्य॑स्य मध्य॒तः प॒शव॒स्ताभ्या॑मे॒व स॑व्वँत्स॒रश्चतु॑र्विशतिश्च ।।2।।
7.4.2.1
यथा॒ वै म॑नु॒ष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न्ते॑ऽकामय॒न्ताव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवी॑ स॒॒सदं॑ गच्छे॒मेति॒ त ए॒तं च॑तुर्विशतिरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवी॑ स॒॒सद॑मगच्छ॒न््य ए॒वं वि॒द्वा॑सश्चतुर्विशतिरा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रियं॑ गच्छन्ति॒ श्रीऱ्हि म॑नु॒ष्य॑स्य [4]
7.4.2.2
दैवी॑ स॒॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॑ संवत्स॒रस्तम्मासा॑ अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवी॑ स॒॒सद॑मगच्छ॒न््य ए॒वं वि॒द्वा॑सश्चतुर्विशतिरा॒त्रमास॑ते संवत्स॒रमे॒व प्र॒विश्य॒ वस्य॑सी स॒॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शा अ॒वस्ताद्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शाः प॒रस्तात्त्रयस्त्रि॒॒शैरे॒वोभ॒यतोऽव॑र्तिम्पा॒प्मान॑मप॒हत्य॒ दैवी॑ स॒॒सद॑म्मध्य॒तः [5]
7.4.2.3
ग॒च्छ॒न्ति॒ पृ॒ष्ठानि॒ हि दैवी॑ स॒॒सज्जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्त्रय॑स्त्रयस्त्रि॒॒शा अ॒न्वञ्चो॒ मध्येऽनि॑रुक्तो भवति॒ तेनाजाम्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वाश्छ॑न्दो॒मा उ॒भाभ्या॑ रू॒पाभ्या॑ सुव॒र्गं लो॒कं य॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒त्ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ [6]
7.4.2.4
छ॒न्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शा अ॒वस्ताद्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शाः प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रि॒॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽनार्त्यै बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व [7]
7.4.2.5
सु॒व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्क्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर््॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑ना॒॒ सम्प॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं वाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विशतिरा॒त्रो भ॑वति॒ चतु॑र्विशतिरर्धमा॒साः सं॑वत्स॒रः सं॑वत्स॒रः सु॑व॒र्गो लो॒कः सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।। [8]
7.4.3.0
ओष॑धीस्सव्वँत्स॒र ए॒वाव॑ प्रति॒ष्ठाय॒ व्यति॑ष॒क्तैका॒न्नप॑ञ्चा॒शच्च॑ ।।3।।
7.4.3.1
ऋ॒क्षा वा इ॒यम॑लो॒मका॑सी॒त्साका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रि॒॒शत॒॒ रात्री॑रपश्य॒त्ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं वा अ॑क्षुध्य॒त्सैतां वि॒राज॑मपश्य॒त्तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रु॒न्द्धौष॑धीः [9]
7.4.3.2
वन॒स्पतीन्प्र॒जाम्प॒शून्तेना॑वर्धत॒ सा जे॒मान॑म्महि॒मान॑मगच्छ॒द्य ए॒वं वि॒द्वास॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वा- ऽन्नाद्य॒मव॑ रुन्धते॒ वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मान॑म्महि॒मानं॑ गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑- ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवत्स॒रन्ते सं॑वत्स॒र ए॒व [10]
7.4.3.3
प्रति॑ तिष्ठन्ति त्रयस्त्रि॒॒शात्त्र॑यस्त्रि॒॒शमुप॑ यन्ति य॒ज्ञस्य॒ संत॑त्या॒ अथो प्र॒जाप॑ति॒र्वै त्र॑यस्त्रि॒॒शः प्र॒जाप॑तिमे॒वा र॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ [11]
7.4.3.4
रु॒न्ध॒ते॒ स॒प्त॒द॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते चतुर्वि॒॒शो भ॑वति॒ चतु॑र्विशतिरर्धमा॒साः सं॑वत्स॒रः सं॑वत्स॒रः सु॑व॒र्गो लो॒कः सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान््वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं वि॒द्वास॑ ए॒ता आस॑ते चतुर्वि॒॒शात्पृ॒ष्ठान्युप॑ यन्ति संवत्स॒र ए॒व प्र॑ति॒ष्ठाय॑ [12]
7.4.3.5
दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रि॒॒शात्त्र॑यस्त्रि॒॒शमुप॑ यन्ति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॑ दे॒वतास्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कवि॒॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्माद्ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता [13]
7.4.3.6
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं वि॒द्वास॑ ए॒ता आस॒तेऽकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गं लो॒कं य॑न्त्युच्चाव॒चान््हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्ध्वाः कॢ॒प्ताः स्तोमा॒ भव॑न्ति कॢ॒प्ता ए॒व सु॑व॒र्गं लो॒कं य॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः कल्पते त्रि॒॒शदे॒तास्त्रि॒॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [14]
7.4.4.0
ग॒च्छ॒न्ति॒ य॒न्ति॒ त्रि॒॒शद॑क्षरा॒ द्वावि॑शतिश्च ।।4।।
7.4.4.1
प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्त ए॒ता द्वात्रि॑शत॒॒ रात्री॑रपश्य॒न् द्वात्रि॑शदक्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वाभ्या॒रुह्य॑ सुव॒र्गं लो॒कमा॑य॒न््य ए॒वं वि॒द्वास॑ ए॒ता आस॑ते॒ द्वात्रि॑शदे॒ता द्वात्रि॑शदक्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रियं॑ गच्छन्ति [15]
7.4.4.2
श्रीऱ्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रि॑शदे॒ता द्वात्रि॑शदक्षरानु॒ष्टुग्वाग॑नु॒ष्टुप्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रियं॒ गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑- रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति बृहद्रथंत॒राभ्यां यन्ति [16]
7.4.4.3
इ॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर््॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ द्वात्रि॑शदे॒तास्तासां॒ यास्त्रि॒॒शत्त्रि॒॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्या॑ रू॒पाभ्या॑ सुव॒र्गं लो॒कं य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [17]
7.4.5.0
अ॒ह॒र॒न्ने॒ष्व॑वान्त॒र षोड॑श स॒ह स॒प्तद॑श च ।।5।।
7.4.5.1
द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिशद॒हश्च॒ य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन्न् [18]
7.4.5.2
अह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वै ते प्र॒बाहु॑गार्ध्नुव॒न््य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति॒ सर्वे॒ ग्राम॑णीय॒म्प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संवत्स॒र ऋ॒तुष्वे॒व सं॑वत्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चाक्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ य॒ज्ञमे॒वाव॑ रुन्धते॒ त्रीण्याश्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षु [19]
7.4.5.3
ए॒व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्येन्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत्पु॒रस्ताद्द्वादशा॒हमु॑पे॒युरनाप्तां॒ वाच॒मुपे॑युरुप॒दासु॑कैषां॒ वाक्स्या॑दु॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामोऽवान्त॒रम् [20]
7.4.5.4
वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ता ह॒ वा उ॑द॒ङ्कः शौल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑र्द्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित्स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हाति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑त॒ ऐ॑षां द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [21]
7.4.6.0
अ॒ति॒रा॒त्र ओज॑स्ये॒व षट्त्रि॑शच्च ।।6।।
7.4.6.1
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं लो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं लो॒कमा॑य॒न्त ए॒त ष॑ट्त्रिशद्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं लो॒कम्प्राजा॑नन्त्सुव॒र्गं लो॒कमा॑य॒न््य ए॒वं वि॒द्वासः॑ षट्त्रिशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कम्प्र जा॑नन्ति सुव॒र्गं लो॒कं य॑न्ति॒ ज्योति॑रतिरा॒त्रः [22]
7.4.6.2
भ॒व॒ति॒ ज्योति॑रे॒व पु॒रस्ताद्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व [23]
7.4.6.3
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्त्रिशद्रा॒त्रो भ॑वति॒ षट्त्रि॑शदक्षरा बृह॒ती बाऱ्ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑सा॒॒ स्वाराज्यमाश्नुताश्नु॒वते॒ स्वाराज्यं॒ य ए॒वं वि॒द्वासः॑ षट्त्रिशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ।। [24]
7.4.7.0
वज्र॑ आ॒त्मन्प्र॒जया॒ द्वावि॑शतिश्च ।।7।।
7.4.7.1
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति॒ स ए॒तमे॑कस्मान्नपञ्चा॒शम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वं वि॒द्वास॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒न्दन्ते प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति॒ त्रय॑स्त्रि॒वृतोऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुख॒॒ स श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रः॑ [25]
7.4.7.2
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒मद्द॑श॒ममह॑र्भवति॒ वज्र॑ ए॒व वी॒र्यं॑ दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवत्स॒रन्ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकवि॒॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्न् [26]
7.4.7.3
द॒ध॒ते॒ ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडाश्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टाच॑त्वारिशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वं वि॒द्वास॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [27]
7.4.8.0
ए॒तच्छ॒म्बट्कु॑र्वन्ति॒ तेषा॒ञ्चतु॑स्त्रिशच्च ।।8।।
7.4.8.1
सं॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां दीक्षेरन्ने॒षा वै सं॑वत्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒ वा ए॒ष ए॒ता रात्रिं॑ वसति सा॒क्षादे॒व सं॑वत्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तं॒ वा ए॒ते सं॑वत्स॒रस्या॒भि दीक्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒ वा ए॒ते सं॑वत्स॒रस्या॒भि दीक्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनीपूर्णमा॒से दीक्षेर॒न्मुखं॒ वा ए॒तत् [28]
7.4.8.2
सं॒व॒त्स॒रस्य॒ यत्फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒त ए॒व सं॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्यैकै॒व नि॒र्या यत्साम्मेघ्ये विषू॒वान्त्स॒म्पद्य॑ते चित्रापूर्णमा॒से दीक्षेर॒न्मुखं॒ वा ए॒तत्सं॑वत्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सं॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्तात्पौर्णमा॒स्यै दीक्षेर॒न्तेषा॑मेकाष्ट॒कायां क्र॒यः सम्प॑द्यते॒ तेनै॑काष्ट॒कां न छ॒म्बट्कु॑र्वन्ति॒ तेषाम् [29]
7.4.8.3
पू॒र्व॒प॒क्षे सु॒त्या सम्प॑द्यते पूर्वप॒क्षम्मासा॑ अ॒भि सम्प॑द्यन्ते॒ ते पूर्वप॒क्ष उत्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति॒ तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठ॒त्यरात्सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राध्नुवन्ति ।। [30]
7.4.9.0
सु॒व॒र्गम्प॑ञ्चा॒शत् ।।9।।
7.4.9.1
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ ये स॒त्त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मान॑ श्रपयन्त उप॒सद्भि॒र्द्वाभ्यां॒ लोमाव॑ द्यन्ति॒ द्वाभ्या॒न्त्वच॒न्द्वाभ्या॒मसृ॒द्द्वाभ्याम्मा॒॒सन्द्वाभ्या॒मस्थि॒ द्वाभ्याम्म॒ज्जान॑मा॒त्मद॑क्षिणं॒ वै स॒त्त्रमा॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं लो॒कं य॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑यासः सुव॒र्गं लो॒कम॑या॒मेति॑ ।। [31]
7.4.10.0
त एका॒न्नप॑ञ्चा॒शच्च॑ ।।10।।
7.4.10.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां कस्मा॒त्तम्प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मम्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म्मुख॑म्मुख॒त ए॒व स्तोमा॒न्प्र यु॑ञ्जते॒ ते [32]
7.4.10.2
सस्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट्सु॑व॒र्गमे॒व तेन॑ लो॒कं य॑न्ति रथंत॒रं दिवा॒ भव॑ति रथंत॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम्बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ।। [33]
7.4.11.0
वि॒राज॑मे॒तेन॑ द्वाद॒शावे॒ताव॒द्वा अ॒ष्टौ च॑ ।।11।।
7.4.11.1
ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒र्यदे॒तान्त्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते सस्तु॑ता वि॒राजम् [34]
7.4.11.2
अ॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुन्धते॒ ते न क्षु॒धार्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुत्स॑म्बाधा इव॒ हि स॒त्त्रिणोऽग्निष्टो॒माव॒भितः॑ प्र॒धी तावु॒क्थ्या॑ मध्ये॒ नभ्यं॒ तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रय्यँदे॒तेन॑ [35]
7.4.11.3
ष॒ड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतोज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ द्वाद॒शौ [36]
7.4.11.4
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विशति॒रहा॑नि॒ सम्प॑द्यन्ते॒ चतु॑र्विशतिरर्धमा॒साः सं॑वत्स॒रस्तत्सं॑वत्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितः संवत्स॒र इति॒ खलु॒ वा आ॑हु॒र्वऱ्षी॑यान्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सं॑वत्स॒रस्य॒ ब्राह्म॑णं॒ याव॑न्मा॒सो मा॒सिमास्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ।। [37]
7.4.12.0
मे॒षष्षट्त्रि॑शत् ।।12।।
7.4.12.1
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागैः शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृत्स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वावन्तु प्रि॒यं त्वा प्रि॒याणां॒ वऱ्षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पति॑ हवामहे वसो मम ।। [38]
7.4.13.0
कूप्याभ्यश्चत्वारि॒॒शत् ।।13।।
7.4.13.1
कूप्याभ्यः॒ स्वाहा॒ कूल्याभ्यः॒ स्वाहा॑ विक॒र्याभ्यः॒ स्वाहा॑ऽव॒ट्याभ्यः॒ स्वाहा॒ खन्याभ्यः॒ स्वाहा॒ ह्रद्याभ्यः॒ स्वाहा॒ सूद्याभ्यः॒ स्वाहा॑ सर॒स्याभ्यः॒ स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्याभ्यः॒ स्वाहा॒ वर्ष्याभ्यः॒ स्वाहा॑ऽव॒र्ष्याभ्यः॒ स्वाहा ह्रा॒दुनीभ्यः॒ स्वाहा॒ पृष्वाभ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑ सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रियाभ्यः॒ स्वाहा॒ सर्वाभ्यः॒ स्वाहा ।। [39]
7.4.14.0
अ॒द्भ्य एका॒न्नत्रि॒॒शत् ।।14।।
7.4.14.1
अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं वह॑न्तीभ्यः॒ स्वाहा॒ शीघ्रं॒ वह॑न्तीभ्यः॒ स्वाहा॒ शीभं॒ वह॑न्तीभ्यः॒ स्वाहो॒ग्रं वह॑न्तीभ्यः॒ स्वाहा॑ भी॒मं वह॑न्तीभ्यः॒ स्वाहाऽम्भोभ्यः॒ स्वाहा॒ नभोभ्यः॒ स्वाहा॒ महोभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [40]
7.4.15.0
वि॒वि॒दद्द्वे च॑ ।। 15 ।।
7.4.15.1
यो अर्व॑न्तं॒ जिघा॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः श्वा । अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सम्ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ । अ॒भि क्रत्वेन्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मान॒॒ रजा॑सि । स्वेना॒ हि वृ॒त्र शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते ।। [41]
7.4.16.0
नम॒ एका॒न्नत्रि॒॒शत् ।।16।।
7.4.16.1
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जानाम्भूयास॒म्मां धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा ।। [42]
7.4.17.0
इ॒न्द्रा॒ष्टात्रि॑शच्च ।।17।।
7.4.17.1
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड । याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ । या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासा॒॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒म्पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र [43]
7.4.17.2
गो॒ष्ठे रि॑रीहि । प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वैर्दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां व॒यम्प्र॒जया॒ स स॑देम । इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒हीमू॒ षु सु॒त्रामा॑णम् ।। [44]
7.4.18.0
सूर्य॑ एका॒की च॑रति॒ षट्च॑त्वारिशच्च ।।18।।
7.4.18.1
कि स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि स्वि॑दासीद्बृ॒हद्वयः॑ । कि स्वि॑दासीत्पिशंगि॒ला कि स्वि॑दासीत्पिलिप्पि॒ला । द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशंगि॒लावि॑रासीत्पिलिप्पि॒ला । कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि स्वि॑द्धि॒मस्य॑ भेष॒जं कि स्वि॑दा॒वप॑नम्म॒हत् । सूर्य॑ एका॒की च॑रति [45]
7.4.18.2
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निऱ्हि॒मस्य॑ भेष॒जम्भूमि॑रा॒वप॑नम्म॒हत् । पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभिम् । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म । वेदि॑माहुः॒ पर॒मन्त॑म्पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभिम् । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ।। [46]
7.4.19.0
आ॒सा॒मत्ति॒ न रो॑हतो॒ जिन्व॑थ च॒त्वारि॑ च ।।19।।
7.4.19.1
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । तौ स॒ह च॒तुरः॑ प॒दः सम्प्र सा॑रयावहै । वृषा॑ वा रेतो॒धा रेतो॑ दधा॒तूत्स॒क्थ्योर्गृ॒दं धेह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑साम् [47]
7.4.19.2
बि॒ल॒धाव॑नः । प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ । य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम्प॒राव॑धीत् । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रं गि॒रावि॑व । अथास्या॒ मध्य॑मेधता शी॒ते वाते॑ पु॒नन्नि॑व । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । यद्ध॑रि॒णी यव॒मत्ति॒ न [48]
7.4.19.3
पु॒ष्टम्प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । इ॒यं य॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः । [49]
7.4.19.4
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तसयत् । द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑षि तारिषत् । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। [50]
7.4.20.0
ब्र॒ध्नम्पञ्च॑विशतिश्च ।।20।।
7.4.20.1
भूर्भुवः॒ सुव॒र्वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वाञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वाञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑म्प्रि॒याम् । ए॒त स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः । लाजी (३) ञ्छाची (३) न््यशो॑ म॒मा (4)म् । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते । यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्त॒म्परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि । यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा । के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे । समु॒षद्भि॑रजायथाः ।। [51]
7.4.21.0
प्रा॒णाया॒ष्टावि॑शतिः ।। 21।।
7.4.21.1
प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑ संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ सं॒धानेभ्यः॒ स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [52]
7.4.22.0
सि॒ताया॒ष्टात्रि॑शत् ।।22।।
7.4.22.1
सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहा॒ऽभिहि॑ताय॒ स्वाहाऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहाHऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहोद्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒वञ्च॑ते॒ स्वाहा॑ऽनु॒वञ्च॑ते॒ स्वाहो॒द्वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [53]
7.5.0.0
गावो॒ गाव॒स्सिषा॑सन्तीः प्रथ॒मे मा॒सि स॑मा॒न्यो॑ यदि॒ सोमौ॑ षड॒हैरु॒त्सृज्या(३)न्दे॒वाना॑म॒र्क्ये॑ण॒ चर्माव॑ पृथि॒व्यै द॒त्वते॒ कस्त्वा॒ग्नये॒ यो वै यः प्रा॑ण॒तो य आत्म॒दा आ ब्रह्म॒न्नाक्रा॒ञ्जज्ञि॒ बीज॑माग्ने॒योऽष्टाक॑पालो॒ऽग्नयेऽ॑हो॒मुचे॒ऽ- ष्टाक॑पालो॒ऽग्नये॒ सम॑नम॒द्ये ते॒ पन्था॑नो॒ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ प़ञ्च॑विशतिः ।।25।। गावः॑ समा॒न्य॑स्सव॑नमष्टा॒भिर्वा ए॒ते दे॒वकृ॑तञ्चाभि॒जित्या॒ इत्या॑हु॒र्वरु॑णो॒ऽद्भिस्साम्ने॒ चतुः॑पञ्चा॒शत् ।। 54 ।। गावो॒ योनि॑स्समु॒द्रो बन्धुः॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
7.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे पञ्चमः प्रश्नः ।।
7.5.1.0
गो॒स॒त्त्रव्वाँ ए॑ति सव्वँत्स॒रोऽर्धमा॒सा मि॑थु॒नम्म॑ध्य॒तो दे॑व॒याने॑नै॒व वी॒र्य॑न्त्रयो॑दश च ।।1।।
7.5.1.1
गावो॒ वा ए॒तत्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॑ तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गाण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒त्स्मेत्यथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑वत्स॒रमा॒प्त्वोद॑तिष्ठ॒न्नरा॒त्स्मेति॒ यासां॒ चाजा॑यन्त॒ यासां च॒ न ता उ॒भयी॒रुद॑तिष्ठ॒न्नरा॒त्स्मेति॑ गोस॒त्त्रं वै [1]
7.5.1.2
सं॒व॒त्स॒रो य ए॒वं वि॒द्वासः॑ संवत्स॒रमु॑प॒यन्त्यृ॑ध्नु॒वन्त्ये॒व तस्मात्तूप॒रा वाऱ्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्त्राभि॑जित॒॒ ह्य॑स्यै॒ तस्मात्संवत्सर॒सदो॒ यत्किं च॑ गृ॒हे क्रि॒यते॒ तदा॒प्तमव॑रुद्धम॒भिजि॑तं क्रियते समु॒द्रं वा ए॒ते प्र प्ल॑वन्ते॒ ये सं॑वत्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॒ पारं॒ न पश्य॑ति॒ न वै स तत॒ उदे॑ति संवत्स॒रः [2]
7.5.1.3
वै स॑मु॒द्रस्तस्यै॒तत्पा॒रं यद॑तिरा॒त्रौ य ए॒वं वि॒द्वासः॑ संवत्स॒रमु॑प॒यन्त्यनार्ता ए॒वोदृच॑ङ्गच्छन्ती॒यं वै पूर्वो॑ऽतिरा॒त्रो॑ऽ- सावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः पूर्वो॑ऽपा॒न उत्त॑रः प्र॒रोध॑न॒म्पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒ ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ताद्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै चतुर्वि॒॒शः प्रा॑य॒णीयो॑ भवति चतु॑र्विशतिरर्धमा॒साः [3]
7.5.1.4
सं॒व॒त्स॒रः प्र॒यन्त॑ ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीः संवत्स॒रस्य॒ रात्र॑य उ॒भे ए॒व सं॑वत्स॒रस्य॑ रू॒पे आप्नुवन्ति॒ ते सस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तवः॑ संवत्स॒र ऋ॒तुष्वे॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चायु॑श्च मध्य॒तः स्तोमौ॑ भवतः संवत्स॒रस्यै॒व तन्मि॑थु॒नम्म॑ध्य॒तः [4]
7.5.1.5
द॒ध॒ति॒ प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दा॑स्ये॒व तद्वि॒मोकं॑ य॒न्त्यथो॑ उभ॒यतोज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं लो॒कं य॑न्ति ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑ ब्रूया॒च्छन्दा॑सि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगायु॒र्जग॑ती यदे॒ते स्तोमा॒ भव॑न्ति देव॒याने॑नै॒व [5]
7.5.1.6
तत्प॒था य॑न्ति समा॒न साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व न य॑न्त्य॒न्याअ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्यं देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो ब्र॑ह्मसा॒मम्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्या अभि॒जिद्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमास्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमास्ये॒व वी॒र्यं॑ दधति मा॒साम्प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒साम्पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फलं॑ गृह्णन्ति ।। [6]
7.5.2.0
ति॒ष्ठा॒मेति॒ तासा॒न्तस्मा॒द्द्वे च॑ ।।2।।
7.5.2.1
गावो॒ वा ए॒तत्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृ॑ङ्गाणि॒ सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गाण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒त्स्मोत्ति॑ष्ठा॒माव॒ तं काम॑मरुत्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा वा॒ याव॑ती॒र्वासा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ संवत्स॒र स॒म्पाद्योत्ति॑ष्ठा॒मेति॒ तासाम् [7]
7.5.2.2
द्वा॒द॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आर्ध्नुव॒न््याश्च॒ शृङ्गा॒ण्यस॑न्व॒न््याश्चोर्ज॑म॒वारु॑न्धत॒र्ध्नोति॑ द॒शसु॑ मा॒सूत्तिष्ठ॑न्नृ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वं वेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन्तद्वा ए॒तदृ॒द्धमय॑न॒न्तस्मा॑दे॒तद्गो॒सनि॑ ।। [8]
7.5.3.0
स॒मु॒द्रव्वैँ चतु॑स्त्रिशच्च ।।3।।
7.5.3.1
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै साप॑राभ्यां॒ दोहाभ्यां दु॒हेऽथ॒ कुतः॒ सा धोक्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संवत्स॒र स॒म्पाद्योत्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना य॒ज्ञम्प॒शूनव॑ रुन्धते समु॒द्रं वै [9]
7.5.3.2
ए॒ते॑ऽनवा॒रम॑पा॒रम्प्र प्ल॑वन्ते॒ ये सं॑वत्स॒रमु॑प॒यन्ति॒ यद्बृ॑हद्रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्त- दनु॑त्सर्गम्बृहद्रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वेभ्यो॒ वै कामेभ्यः स॒न्धिर्दु॑हे॒ तद्यज॑मानाः॒ सर्वा॒न्कामा॒नव॑ रुन्धते ।। [10]
7.5.4.0
आ॒दि॒त्यस्तस्यै॒व द्वे च॑ ।।4।।
7.5.4.1
स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒त्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यम्मनुष्यलो॒कम्प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒ वै छन्दा॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णं ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑ त्रयस्त्रि॒॒श स्तोमा॒स्तस्मा॒ज्ज्याया॑सं॒ कनी॑यान्प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒ विश्वान्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यः [11]
7.5.4.2
गृ॒ह्य॒त॒ इ॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्योन्यो गृह्येते मिथुन॒त्वाय॒ प्रजात्या अवान्त॒रं वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ता ह॒ वा उ॑द॒ङ्कः शौल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्तिः॑ ।। [12]
7.5.5.0
छन्दो॑भिरे॒वैषा॒मवैका॒न्नवि॑श॒तिश्च॑ ।।5।।
7.5.5.1
यदि॒ सोमौ॒ ससु॑तौ॒ स्याताम्मह॒ति रात्रि॑यै प्रातरनुवा॒कमु॒पाकु॑र्या॒त्पूर्वो॒ वाच॒म्पूर्वो॑ दे॒वताः॒ पूर्व॒श्छन्दा॑सि वृङ्क्ते॒ वृष॑ण्वतीम्प्रति॒पदं॑ कुर्यात्प्रातःसव॒नादे॒वैषा॒मिन्द्रं॑ वृ॒ङ्क्तेऽथो॒ खल्वा॑हुः सवनमु॒खेस॑वनमुखे का॒र्येति॑ सवनमु॒खात्स॑वनमुखादे॒वैषा॒मिन्द्रं॑ वृङ्क्ते संवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभूत्यै॒ स्वाहा॒ छन्दा॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वैषाम् [13]
7.5.5.2
छन्दा॑सि वृङ्क्ते सज॒नीय॒॒ शस्य॑व्विँह॒व्य॑ शस्य॑म॒गस्त्य॑स्य कयाशु॒भीय॒॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते॒ यदि॑ प्रातःसव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न््यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णुं॒ तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णुः॑ शिविपि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाव॑ रुन्धते॒ यदि॑ म॒ध्यंदि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धन॒॒ साम॑ कुर्युर्वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑द्गमयन्ति॒ यदि॑ तृतीयसव॒न ए॒तदे॒व ।। [14]
7.5.6.0
उ॒दच॒त्युद्येऽह॑रा॒प्त्वा पञ्च॑दश च ।।6।।
7.5.6.1
ष॒ड॒हैर्मासान्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति षड॒हैऱ्हि मासान्त्स॒म्पश्य॑न्त्यर्धमा॒सैर्मासान्त्स॒म्पाद्याह॒रुत्सृ॑जन्त्यर्धमा॒सैऱ्हि मासान्त्स॒म्पश्य॑न्त्यमावा॒स्य॑या॒ मासान्त्स॒म्पाद्याह॒रुत्सृ॑जन्त्यमावा॒स्य॑या॒ हि मासान्त्स॒म्पश्य॑न्ति पौर्णमा॒स्या मासान्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति पौर्णमा॒स्या हि मासान्त्स॒म्पश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति [15]
7.5.6.2
प्रा॒णम॑स्मि॒न्त्स द॑धाति॒ यत्पौर्णमा॒स्या मासान्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ संवत्स॒रायै॒व तत्प्रा॒णं द॑धति॒ तदनु॑ स॒त्त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नोत्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒व सं॑वत्स॒रो वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत्पौर्णमा॒स्या मासान्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ संवत्स॒रायै॒व तदु॑दा॒नं द॑धति॒ तदनु॑ स॒त्त्रिण॒ उत् [16]
7.5.6.3
अ॒न॒न्ति॒ नार्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वाना॑ सु॒तो यत्पौर्णमा॒स्या मासान्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञम्प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्ष॑ड॒हसं॑तत॒॒ सन्त॒मथाह॑रुत्सृ॒जन्ति॑ प्राजाप॒त्यम्प॒शुमाल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ सं त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽहः॑ [17]
7.5.6.4
उ॒त्सृ॒जन्ति॑ तु॒रीयं॒ खलु॒ वा ए॒तत्सव॑नं॒ यत्सान्ना॒य्यय्यँत्सान्ना॒य्यम्भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तत्सो॑मपीथा॒ ह्ये॑तऱ्हि॑ यथायत॒नं वा ए॒तेषा॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुत्सृ॒जन्त्य॑नुसव॒नं पु॑रो॒डाशा॒न्निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते॒ऽष्टाक॑पालान्प्रातःसव॒न एका॑दशकपाला॒- न्माध्य॑न्दिने॒ सव॑ने॒ द्वाद॑शकपालास्तृतीयसव॒ने छन्दा॑स्ये॒वाप्त्वाव॑ रुन्धते वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वं वै तृ॑तीयसव॒नन्तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ।। [18]
7.5.7.0
नादि॑ष्टङ्कु॒र्वन्ति॑ द्वाद॒शभि॒रिति॑ विश॒तिश्च॑ ।।7।।
7.5.7.1
उ॒त्सृज्या (३) न्नोत्सृज्या (३) मिति॑ मीमासन्ते ब्रह्मवा॒दिन॒स्तद्वा॑हुरु॒त्सृज्य॑मे॒वेत्य॑मावा॒स्या॑यां च पौर्णमा॒स्यां चो॒त्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञं वह॑त॒ इति॒ ते त्वाव नोत्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रं य॒ज्ञम्भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒त्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ नादि॑ष्टम् [19]
7.5.7.2
उत्सृ॑जेयु॒र्यदादि॑ष्टमुत्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त षड॒हैर्मासान्त्स॒म्पाद्य॒ यत्स॑प्त॒ममह॒- स्तस्मि॒न्नुत्सृ॑ज्येयु॒स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेयुरै॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः प्रातःसव॒नय्यँद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं कु॒र्वन्ति॑ [20]
7.5.7.3
सव॑नमष्टा॒भिरुप॑ यन्ति॒ यदैन्द्रं दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्यं॑दिन॒॒ सव॑नं॒ यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒ विश्वे॑षां॒ वै दे॒वाना॑मृभु॒मतां तृतीयसव॒नय्यँद्वैश्वदे॒वं द्वाद॑शकपालं नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः कु॒र्वन्ति॒ सव॑नं द्वाद॒शभिः॑ [21]
7.5.7.4
उप॑ यन्ति प्राजाप॒त्यम्प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गायाभिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तत्सु॑व॒र्गं लो॒कम॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒क इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा । शिक्षा॑ नो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒मुत॑ आय॒ता षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वत्य॒यव्वैँ लो॒को ज्योतिः॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒कम्पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ।। [22]
7.5.8.0
सद॑सस्सप्तद॒शं प्र॒जाप॑तेर्गायति दि॒ग्भ्य ए॒वान्नाद्य॒म्प्रत्येका॑दश च ।।8।।
7.5.8.1
दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑मिन्द्रि॒यं वी॒र्य॑मपाक्राम॒त्तत्क्रो॒शेनावा॑ रुन्धत॒ तत्क्रो॒शस्य॑ क्रोश॒त्वय्यँत्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेन्द्रि॒यं वी॒र्य॑मव॑ रुन्धते स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒ऱ्हृद॑येन हवि॒र्धाने॒ऽन्तः स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒त्सद॑सः [23]
7.5.8.2
स्तु॒व॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑रध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒यं द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒ तस्मा॒त्पुरु॑षः॒ सर्वाण्य॒न्यानि॑ शी॒र्ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न पञ्च॑द॒श र॑थन्त॒रम्भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शम् [24]
7.5.8.3
बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒॒शम्भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजात्यै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒साम॒ह रा॒ज्यम्परी॑या॒मिति॒ तासा॑ राज॒नेनै॒व रा॒ज्यम्पर्यै॒त्तद्रा॑ज॒नस्य॑ राजन॒त्वय्यँद्रा॑ज॒नम्भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यम्परि॑ यन्ति पञ्चवि॒॒शम्भ॑वति प्र॒जाप॑तेः [25]
7.5.8.4
आप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सम्प॑द्यन्ते॒ दशाक्षरा वि॒राडन्नं॑ वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्येकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्य॒॒ सम्भ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य ए॒वान्नाद्यम् [26]
7.5.8.5
स॒म्भृत्य॒ तेज॑ आ॒त्मन्द॑धते॒ तस्मा॒देकः॑ प्रा॒णः सर्वा॒ण्यङ्गान्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒मं कु॑रु॒त ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दीमु॑द्गा॒ता रो॑हति॒ साम्राज्यमे॒व ग॑च्छन्ति प्ले॒ङ्ख होता॒ नाक॑स्यै॒व पृ॒ष्ठ रो॑हन्ति कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गच्छन्त्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व तत्सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। [27]
7.5.9.0
व्यृ॑द्ध॒मक्षो॑धुका॒स्ता समाम्प्र॒जाः प॑र॒मामे॒व च॑ त्रि॒॒शच्च॑ ।।9।।
7.5.9.1
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इलान्दे॒नेरां॒ लूता॒मवा॑रुन्द्ध॒ यद॒र्क्य॑म्भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त॒ इलान्दम्भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒मव॑ रुन्धते॒ तस्मा॒द्या समा॑ स॒त्त्र समृ॑द्धं॒ क्षोधु॑का॒स्ता समाम्प्र॒जा इष॒॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ या समां॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्ता समाम्प्र॒जाः [28]
7.5.9.2
न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दं कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन्दधा॑ना वा॒णः श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिं धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै दुन्दु॒भीन्त्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व [29]
7.5.9.3
वाच॒मव॑ रुन्धते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां वाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां वा॒चामव॑रुद्ध्या आ॒र्द्रे चर्म॒न्व्याय॑च्छेते इन्द्रि॒यस्याव॑रुद्ध्या॒ आन्यः क्रोश॑ति॒ प्रान्यः श॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्त्स स यः प्र॒शस॑ति पू॒तेष्वे॒वान्नाद्यं॑ दधा॒त्यृषि॑कृतं च [30]
7.5.9.4
वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते॒ यद्भू॑ते॒च्छदा॒॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑वत्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ सम्भ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति ।। [31]
7.5.10.0
चर्मैका॒न्नप॑ञ्चा॒शत् ।।10।।
7.5.10.1
चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माप॑ रात्सी॒र्माति॑ व्यात्सी॒रित्या॑ह सम्प्र॒त्ये॑वैषाम्पा॒प्मान॒मव॑ भिन्दन्त्युदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म्परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दम्म॑धुं॒ गाय॑न्त्यो॒ मधु॒ वै दे॒वानाम्पर॒मम॒न्नाद्य॑म्पर॒ममे॒वान्नाद्य॒मव॑ रुन्धते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ।। [32]
7.5.11.0
स॒व्वँर््ष॑ते॒ रैभीभ्यः॒ स्वाहा॒ द्वे च॑ ।।11।।
7.5.11.1
पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ सम्प्लोष्य॒ते स्वाहा॑ स॒म्प्लव॑मानाय॒ स्वाहा॒ सम्प्लु॑ताय॒ स्वाहा॑ मेघायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा प्रास॒चाय॒ स्वाहा प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ संवि॒द्योत॑मानाय॒ स्वाहा स्तनयिष्य॒ते स्वाहा स्त॒नय॑ते॒ स्वाहो॒ग्र स्त॒नय॑ते॒ स्वाहा॑ वऱ्षिष्य॒ते स्वाहा॒ वऱ्ष॑ते॒ स्वाहा॑भि॒वऱ्ष॑ते॒ स्वाहा॑ परि॒वऱ्ष॑ते॒ स्वाहा॑ सं॒वऱ्ष॑ते [33]
7.5.11.2
स्वाहा॑नु॒वऱ्ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा प्रोषिष्य॒ते स्वाहा प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहोद्ग्रहीष्य॒ते स्वाहोद्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑तप्स्य॒ते स्वाहा॒तप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाह॒र्ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहाङ्गि॑रोभ्यः॒ स्वाहा॒ वेदेभ्यः॒ स्वाहा॒ गाथाभ्यः॒ स्वाहा॑ नाराश॒॒सीभ्यः॒ स्वाहा॒ रैभीभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [34]
7.5.12.0
म॒न॒स्विने॒ स्वाहाऽनात्मने॒ स्वाहा॒ द्वे च॑ ।।12।।
7.5.12.1
द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहा प्रा॒णिने॒ स्वाहाऽप्रा॒णाय॒ स्वाहा॒ मुख॑वते॒ स्वाहा॑ऽमु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑- ऽनासि॒काय॒ स्वाहाऽक्ष॒ण्वते॒ स्वाहा॑ऽन॒क्षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ऽक॒र्णका॑य॒ स्वाहा॑ शीऱ्ष॒ण्वते॒ स्वाहा॑ऽ- शी॒ऱ्षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑ऽपा॒दका॑य॒ स्वाहा प्राण॒ते स्वाहाऽप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहाऽव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहाऽप॑श्यते॒ स्वाहा॑ शृण्व॒ते स्वाहाऽशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा [35]
7.5.12.2
अ॒म॒नसे॒ स्वाहा॑ रेत॒स्विने॒ स्वाहा॑ऽरे॒तस्का॑य॒ स्वाहा प्र॒जाभ्यः॒ स्वाहा प्र॒जन॑नाय॒ स्वाहा॒ लोम॑वते॒ स्वाहा॑ऽलो॒मका॑य॒ स्वाहा त्व॒चे स्वाहा॒ऽत्वक्का॑य॒ स्वाहा॒ चर्म॑ण्वते॒ स्वाहा॑ऽच॒र्मका॑य॒ स्वाहा॒ लोहि॑तवते॒ स्वाहा॑ऽलोहि॒ताय॒ स्वाहा॑ मास॒न्वते॒ स्वाहा॑ऽमा॒॒सका॑य॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहाऽस्ना॒वका॑य॒ स्वाहाऽस्थ॒न्वते॒ स्वाहा॑ऽन॒स्थिका॑य॒ स्वाहा॑ मज्ज॒न्वते॒ स्वाहा॑ऽम॒ज्जका॑य॒ स्वाहा॒ऽङ्गिने॒ स्वाहा॑ऽन॒ङ्गाय॒ स्वाहा॒ऽऽत्मने॒ स्वाहाऽनात्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [36]
7.5.13.0
कस्त्वा॒ऽष्टात्रि॑शत् ।।13।।
7.5.13.1
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्य॒॒ संन॑त्या अ॒मुष्मै॒ कामा॒यायु॑षे त्वा प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वाराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ।। [37]
7.5.14.0
अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै स॒प्तच॑त्वारिशत् ।।14।।
7.5.14.1
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बाऱ्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वेभ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वाऱ्षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेक- वि॒॒शाभ्यां वैरा॒जाभ्या॑ शार॒दाभ्याम्पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छन्द॒साय॑ त्रयस्त्रि॒॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुः का॒य एक॑कपालः ।। [38]
7.5.15.0
अशान्तस्सुषुवा॒णेनैक॑चत्वारिशच्च ।।15।।
7.5.15.1
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं यद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यत्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशान्त उपो॒त्थाय॑ प्र॒जाम्प॒शून््यज॑मानस्या॒भि म॑न्येत॒ यत्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैन॑ शमयति॒ नास्य॑ रु॒द्रोऽशान्तः [39]
7.5.15.2
उ॒पो॒त्थाय॑ प्र॒जाम्प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशाक्षरा वि॒राडन्नं॑ वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमैः पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेन॑ [40]
7.5.15.3
अ॒भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनु॑म्मनु॒ष्यास्तस्मान्मनुस॒वो यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वम्भ॑वति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोनुवा॒क्या॑ भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै ।। [41]
7.5.16.0
यः प्रा॑ण॒तो द्यौरा॑दि॒त्योऽष्टात्रि॑शत् ।।16।।
7.5.16.1
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा ।। [42]
7.5.17.0
य आत्म॒दाः पृ॑थि॒व्य॑ग्निरेका॒न्नच॑त्वारि॒॒शत् ।।17।।
7.5.17.1
य आत्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा ।। [43]
7.5.18.0
आ ब्रह्म॒न्नेक॑चत्वारिशत् ।।18।।
7.5.18.1
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒न्दोग्ध्री॑ धे॒नुर्वोढा॑ऽ- न॒ड्वाना॒शुः सप्तिः॒ पुरं॑धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य यज॑मानस्य वी॒रो जा॑यतान्निका॒मेनि॑कामे नः प॒र्जन्यो॑ वऱ्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ताय्योँगक्षे॒मो नः॑ कल्पताम् ।। [44]
7.5.19.0
वा॒युस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सन्त्रिच॑त्वारिशच्च ।।19।।
7.5.19.1
आक्रा॑न््वा॒जी पृ॑थि॒वीम॒ग्निं युज॑मकृत वा॒ज्यर्वाक्रा॑न््वा॒ज्य॑न्तरि॑क्षं वा॒युं युज॑मकृत वा॒ज्यर्वा॒ द्यां वा॒ज्याऽक्र॑स्त॒ सूर्यं॒ युज॑मकृत वा॒ज्यर्वा॒ग्निस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय वा॒युस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् [45]
7.5.19.2
पा॒र॒यादि॒त्यस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय प्राण॒धृग॑सि प्रा॒णम्मे॑ दृह व्यान॒धृग॑सि व्या॒नम्मे॑ दृहापान॒धृग॑स्यपा॒नम्मे॑ दृह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्र॒म्मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ।। [46]
7.5.20.0
जज्ञि॒ बीज॒मेक॑त्रिशत् ।।20।।
7.5.20.1
जज्ञि॒ बीज॒व्वँऱ्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्य सु॑पिप्प॒ला ओष॑धयः स्वधिचर॒णेय सू॑पसद॒नोऽग्निः स्व॑ध्य॒क्षम॒न्तरि॑क्ष सुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तप॑न््यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनोऽर्धमा॒सास्त्रि॒॒शिनो॒ मासाः कॢ॒प्ता ऋ॒तवः॑ शा॒न्तः सं॑वत्स॒रः ।। [47]
7.5.21.0
आ॒ग्ने॒यश्चतु॑र्विशतिः ।।21।।
7.5.21.1
आ॒ग्ने॒योऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रोऽष्टाक॑पालः पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागच्छे॑द॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पालः सौ॒र्यम्पयो॑ वाय॒व्य॑ आज्य॑भागः ।। [48]
7.5.22.0
अ॒ग्नयेऽ॑हो॒मुचे त्रि॒॒शत् ।।22।।
7.5.22.1
अ॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इन्द्रा॑याहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्याम्पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्यां च॒रुर॒श्विभ्या॑मागो॒मुग्भ्यां धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒ विश्वेभ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑महो॒मुग्भ्यां द्विकपा॒लः ।। [49]
7.5.23.0
अ॒द्भ्यः सम॑नम॒द्यथा॒ मह्य॑ञ्च॒त्वारि॑ च ।।23।।
7.5.23.1
अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒द्यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सं न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा [50]
7.5.23.2
वरु॑णो॒ऽद्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत्क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒दश्वेभ्यः॒ सम॑नम॒द्यथा॒ रथोऽश्वैः प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नम॒द्यथा प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सं न॑मन्तु ।। [51]
7.5.24.0
ये ते॒ चतु॑श्चत्वारिशत् ।।24।।
7.5.24.1
ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि । नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवेऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ।। [52]
7.5.25.0
व्यात्त॑मवह॒द्द्वाद॑श च ।।25।।
7.5.25.1
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीऱ्ष॒ण्वान्मेध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्र॒न्दिशः॒ पादा॑ अवान्तरदि॒शाः पर््श॑वोऽहोरा॒त्रे नि॑मे॒षोऽर्धमा॒साः पर्वा॑णि॒ मासाः सं॒धानान्यृ॒तवोऽङ्गा॑नि संवत्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नक्ष॑त्राणि रू॒पन्तार॑का अ॒स्थानि॒ नभो॑ मा॒॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुख॑व्वैँश्वान॒रो व्यात्तम् [53]
7.5.25.2
स॒मु॒द्र उ॒दर॑म॒न्तरि॑क्षम्पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तत्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑ऱ्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ताज्जायते॒ रात्रि॑रेनम्महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒ सम्ब॑भूवतु॒र््हयो॑ दे॒वान॑वह॒दर्वासु॑रान््वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्यान्त्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ।। [54]
</pre>
[[वर्गः:कृष्णयजुर्वेदः]]
399bhcmg6hfw81xk531o2rnq1572j4v
तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः ५
0
19614
417989
366852
2026-08-09T09:01:21Z
~2026-39930-13
10591
ब्रम -> ब्रह्म
417989
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">2.5 प्रपाठक: 5 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.5.1 अनुवाक 1 इष्टिविधानम्। अग्नीषोमीयहविर्विध्युपोद्घातः
1 विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् । तस्य त्रीणि शीर्षाण्य् आसन्त् सोमपानꣳ सुरापानम् अन्नादनम् । स प्रत्यक्षं देवेभ्यो भागम् अवदत् परोऽक्षम् असुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस् तस्माद् इन्द्रो ऽबिभेद् ईदृङ् वै राष्ट्रं वि पर्यावर्तयतीति तस्य वज्रम् आदाय शीर्षाण्य् अच्छिनद् यत् सोमपानम्
2 आसीत् स कपिञ्जलो ऽभवत् यत् सुरापानꣳ स कलविङ्को यद् अन्नादनꣳ स तित्तिरिः । तस्याञ्जलिना ब्रह्महत्याम् उपागृह्णात् ताꣳ संवत्सरं अबिभस् तम् भूतान्य् अभ्य् अक्रोशन् ब्रह्महन्न् इति । स पृथिवीम् उपासीदद् अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृहाणेति साब्रवीद् वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा भूवम् इति पुरा ते
3 संवत्सराद् अपि रोहाद् इत्य् अब्रवीत् तस्मात् पुरा संवत्सरात् पृथिव्यै खातम् अपि रोहति वारेवृतꣳ ह्य् अस्यै तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णात् तत् स्वकृतम् इरिणम् अभवत् तस्माद् आहिताग्निः श्रद्धादेवः स्वकृत इरिणे नाव स्येद् ब्रह्महत्यायै ह्य् एष वर्णः । स वनस्पतीन् उपासीदद् अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति ते ऽब्रुवन् वरं वृणामहै वृक्णात्
4 पराभविष्यन्तो मन्यामहे ततो मा परा भूमेति । आव्रश्चनाद् वो भूयाꣳस उत् तिष्ठान् इत्य् अब्रवीत् तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाꣳस उत् तिष्ठन्ति वारेवृतꣳ ह्य् एषाम् । तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् स निर्यासो ऽभवत् तस्मान् निर्यासस्य नाश्यम् ब्रह्महत्यायै ह्य् एष वर्णो ऽथो खलु य एव लोहितो यो वाऽऽव्रश्चनान् निर्येषति तस्य नाऽऽश्यम्
5 कामम् अन्यस्य । स स्त्रीषꣳसादम् उपासीदद् अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति ता अब्रुवन् वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनितोः सम् भवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः सम् भवन्ति वारेवृतꣳ ह्य् आसाम् । तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न सं वदेत
6 न सहाऽऽसीत नास्या अन्नम् अद्याद् ब्रह्महत्यायै ह्य् एषा वर्णम् प्रतिमुच्याऽऽस्ते । अथो खल्व् आहुर् अभ्यञ्जनं वाव स्त्रिया अन्नम् अभ्यञ्जनम् एव न प्रतिगृह्यं कामम् अन्यद् इति । याम् मलवद्वाससꣳ सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो याम् पराचीं तस्यै ह्रीतमुख्य् अपगल्भो या स्नाति तस्या अप्सु मारुको या
7 अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुꣳ सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस् तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय ॥
2.5.2 अनुवाक 2 अग्नीषोमीय पुरोडाशः
1 त्वष्टा हतपुत्रो वीन्द्रꣳ सोमम् आहरत् तस्मिन्न् इन्द्र उपहवम् ऐच्छत तं नोपाह्वयत पुत्रम् मे ऽवधीर् इति स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् तस्य यद् अत्यशिष्यत तत् त्वष्टाहवनीयम् उप प्रावर्तयत् स्वाहेन्द्रशत्रुर् वर्धस्वेति यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम् । यद् अब्रवीत् स्वाहेन्द्रशत्रुर् वर्धस्वेति तस्माद् अस्य ॥
2 इन्द्रः शत्रुर् अभवत् स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत् स इषुमात्रमिषुमात्रं विष्वङ्ङ् अवर्धत स इमाँल्लोकान् अवृणोत् । यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् । तस्माद् इन्द्रो ऽबिभेत् स प्रजापतिम् उपाधावत् । शत्रुर् मे ऽजनीति तस्मै वज्रꣳ सिक्त्वा प्रायच्छत् । एतेन जहीति तेनाभ्य् आयत ताव् अब्रूताम् अग्नीषोमौ मा
3 प्र हार् आवम् अन्तः स्व इति मम वै युवꣳ स्थ इत्य् अब्रवीन् माम् अभ्य् एतम् इति तौ भागधेयम् ऐच्छेताम् । ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालम् पूर्णमासे प्रायच्छत् ताव् अब्रूताम् अभि संदष्टौ वै स्वो न शक्नुव ऐतुम् इति स इन्द्र आत्मनः शीतरूराव् अजनयत् तच् छीतरूरयोर् जन्म य एवꣳ शीतरूरयोर् जन्म वेद
4 नैनꣳ शीतरूरु हतस् ताभ्याम् एनम् अभ्य् अनयत् तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम् प्राणापानौ वा एनं तद् अजहिताम् प्राणो वै दक्षो ऽपानः क्रतुस् तस्माज् जञ्जभ्यमानो ब्रूयात् । मयि दक्षक्रतू इति प्राणापानाव् एवात्मन् धत्ते सर्वम् आयुर् एति स देवता वृत्रान् निर्हूय वार्त्रघ्नꣳ हविः पूर्णमासे निर् अवपत् । घ्नन्ति वा एनम् पूर्णमास आ
5 अमावास्यायाम् प्याययन्ति तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् । तत् सꣳस्थाप्य वार्त्रघ्नꣳ हविर् वज्रम् आदाय पुनर् अभ्य् आयत ते अब्रूतां द्यावापृथिवी मा प्र हार् आवयोर् वै श्रित इति ते अब्रूताम् । वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् ।
तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् । य एवं द्यावापृथिव्योः
6 वरं वेदैनं वरो गच्छति स आभ्याम् एव प्रसूत इन्द्रो वृत्रम् अहन् ते देवा वृत्रꣳ हत्वाऽग्नीषोमाव् अब्रुवन् हव्यं नो वहतम् इति ताव् अब्रूताम् अपतेजसौ वै त्यौ वृत्रे वै त्ययोस् तेज इति ते ऽब्रुवन् क इदम् अच्छैतीति गौर् इत्य् अब्रुवन् गौर् वाव सर्वस्य मित्रम् इति साब्रवीत् ।
7 वरं वृणै मय्य् एव सतो ऽभयेन भुनजाध्वा इति तद् गौर् आहरत् तस्माद् गवि सतो ऽभयेन भुञ्जते । एतद् वा अग्नेस् तेजो यद् घृतम् एतत् सोमस्य यत् पयः । य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति ब्रह्मवादिनो वदन्ति किंदेवत्यम् पौर्णमासम् इति प्राजापत्यम् इति ब्रूयात् तेनेन्द्रं ज्येष्ठम् पुत्रं निरवासाययद् इति तस्माज् ज्येष्ठम् पुत्रं धनेन निरवसाययन्ति ॥
2.5.3 अनुवाक 3 पौर्णमास्यां वैमृध पुरोडाशः, अमावास्यायां सांनाय्यादियागः
1 इन्द्रं वृत्रं जघनिवाꣳसम् मृधो ऽभि प्रावेपन्त स एतं वैमृधम् पूणमासे ऽनुनिर्वाप्यम् अपश्यत् तं निर् अवपत् तेन वै स मृधो ऽपाहत यद् वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति मृध एव तेन यजमानो ऽप हते । इन्द्रो वृत्रꣳ हत्वा देवताभिश् चेन्द्रियेण च व्य् आर्ध्यत स एतम् आग्नेयम् अष्टाकपालम् अमावास्यायाम् अपश्यद् ऐन्द्रं दधि ॥
2 तं निर् अवपत् तेन वै स देवताश् चेन्द्रियं चावारुन्द्ध यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाम् भवत्य् ऐन्द्रं दधि देवताश् चैव तेनेन्द्रियं च यजमानो ऽव रुन्द्धे । इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् पृथिवीम् अनु व्य् आर्छत् तद् ओषधयो वीरुधो ऽभवन् स प्रजापतिम् उपाधावद् वृत्रम् मे जघ्नुष इन्द्रियं वीर्यम्
3 पृथिवीम् अनु व्य् आरत् तद् ओषधयो वीरुधो ऽभूवन् इति तत् पशव ओषधीभ्यो ऽध्य् आत्मन्त् सम् अनयन् तत् प्रत्य् अदुहन् यत् समनयन् तत् सांनाय्यस्य सांनाय्यत्वं यत् प्रत्यदुहन् तत् प्रतिधुषः प्रतिधुक्त्वम् । सम् अनैषुः प्रत्य् अधुक्षन् न तु मयि श्रयत इत्य् अब्रवीद् एतद् अस्मै
4 शृतं कुरुतेत्य् अब्रवीत् तद् अस्मै शृतम् अकुर्वन्न् इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् । सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम् ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयम् ।
5 दधि हि पूर्वं क्रियत इत्य् अनादृत्य तच् छृतस्यैव पूर्वस्याव द्येद् इन्द्रियम् एवास्मिन् वीर्यꣳ श्रित्वा दध्नोपरिष्टाद् धिनोति यथापूर्वम् उपैति यत् पूतीकैर् वा पर्णवल्कैर् वातञ्च्यात् सौम्यं तद् यत् क्वलै राक्षसं तद् यत् तण्डुलैर् वैश्वदेवं तद् यद् आतञ्चनेन मानुषं तद् यद् दध्ना तत् सेन्द्रं दध्ना ऽऽतनक्ति
6 सेन्द्रत्वाय । अग्निहोत्रोच्छेषणम् अभ्यातनक्ति यज्ञस्य संतत्यै । इन्द्रो वृत्रꣳ हत्वा पराम् परावतम् अगच्छद् अपाराधम् इति मन्यमानस् तं देवताः प्रैषम् ऐच्छन्त् सो ऽब्रवीत् प्रजापतिर् यः प्रथमो ऽनुविन्दति तस्य प्रथमम् भागधेयम् इति तम् पितरो ऽन्व् अविन्दन् तस्मात् पितृभ्यः पूर्वेद्युः क्रियते सो ऽमावास्याम् प्रत्य् आगच्छत् तं देवा अभि सम् अगच्छन्तामा वै नः
7 अद्य वसु वसतीतीन्द्रो हि देवानां वसु तद् अमावास्याया अमावास्यत्वम् ब्रह्मवादिनो वदन्ति किंदेवत्यꣳ सांनाय्यम् इति वैश्वदेवम् इति ब्रूयाद् विश्वे हि तद् देवा भागधेयम् अभि समगच्छन्तेत्य् अथो खल्व् ऐन्द्रम् इत्य् एव ब्रूयाद् इन्द्रं वाव ते तद् भिषज्यन्तो ऽभि सम् अगच्छन्तेति ॥
2.5.4 अनुवाक 4 भ्रातृव्यवतः पशुकामस्य च पौर्णमास्याम् अनुनिर्वाप्यौ। आग्नावैष्णवादियागविधिः।
1 ब्रह्मवादिनो वदन्ति स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति तेन पूर्णमासः सेन्द्र ऐन्द्रं दध्य् अमावास्यायां तेनामावास्या सेन्द्रा य एवं विद्वान् दर्शपूर्णमासौ यजते सेन्द्राव् एवैनौ यजते श्वःश्वो ऽस्मा ईजानाय वसीयो भवति देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एताम्
2 इष्टिम् अपश्यन् । आग्नावैष्णवम् एकादशकपालꣳ सरस्वत्यै चरुꣳ सरस्वते चरुं ताम् पौर्णमासꣳ सꣳस्थाप्यानु निर् अवपन् ततो देवा अभवन् परासुराः । यो भ्रातृव्यवान्त् स्यात् स पौर्णमासꣳ सꣳस्थाप्यैताम् इष्टिम् अनु निर् वपेत् पौर्णमासेनैव वज्रम् भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश् च यज्ञं च भ्रातृव्यस्य वृङ्क्ते मिथुनान् पशून्त् सारस्वताभ्यां यावद् एवास्यास्ति तत्
3 सर्वं वृङ्क्ते पौर्णमासीम् एव यजेत भ्रातृव्यवान् नामावास्याꣳ हत्वा भ्रातृव्यं नाऽऽ प्याययति साकम्प्रस्थायीयेन यजेत पशुकामः । यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्य् आत्मना ददात्य् अन्यस्मै महता पूर्णꣳ होतव्यम् । तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति दारुपात्रेण जुहोति न हि मृन्मयम् आहुतिं आनशे । औदुम्बरम्
4 भवत्य् ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे नागतश्रीर् महेन्द्रं यजेत त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यस् तेषाम् महेन्द्रो देवता यो वै स्वां देवतां अतियजते प्र स्वायै देवतायै च्यवते न पराम् प्राप्नोति पापीयान् भवति संवत्सरम् इन्द्रं यजेत संवत्सरꣳ हि व्रतं नाति स्वा ॥
5 एवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान् भवति संवत्सरस्य परस्ताद् अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेत् संवत्सरम् एवैनं वृत्रं जघ्निवाꣳसम् अग्निर् व्रतपतिर् व्रतम् आ लम्भयति ततो ऽधि कामं यजेत ॥
2.5.5 अनुवाक 5 अभ्युदयेष्टिः, दाक्षायणयज्ञः<ref>तु. माश [https://sa.wikisource.org/s/eqo २.४.४]</ref>
1 नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी यद् असोमयाजी संनयेत् परिमोष एव सो ऽनृतं करोति । अथो परैव सिच्यते सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते वि वा एतम् प्रजया पशुभिर् अर्धयति वर्धयत्य् अस्य भ्रातृव्यं यस्य हविर् निरुप्तम् पुरस्ताच् चन्द्रमाः ॥
2 अभ्य् उदेति त्रेधा तण्डुलान् वि भजेद् ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद् ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधꣳश् चरुम् । ये ऽणिष्ठास् तान् विष्णवे [https://vipin110012.tripod.com/pur_index28/shipivishta.htm शिपिविष्टाय] शृते चरुम् अग्निर् एवास्मैप्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति न द्वे
3 यजेत यत् पूर्वया सम्प्रति यजेतोत्तरया छम्बट् कुर्याद् यद् उत्तरया सम्प्रति यजेत पूर्वया छम्बट् कुर्यान् नेष्टिर् भवति न यज्ञस् तद् अनु ह्रीत मुख्यपगल्भो जायते । एकाम् एव यजेत प्रगल्भो ऽस्य जायते । अनादृत्य तद् द्वे एव यजेत यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया देवता एव पूर्वयावरुन्द्ध इन्द्रियम् उत्तरया देवलोकम् एव
4 पूर्वयाभिजयति मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैति । एषा वै सुमना नामेष्टिर् यम् अद्येजानम् पश्चाच् चन्द्रमा अभ्य् उदेत्य् अस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति दाक्षायणयज्ञेन सुवर्गकामो यजेत पूर्णमासे सं नयेन् मैत्रावरुण्यामिक्षयामावास्यायां यजेत पूर्णमासे वै देवानाꣳ सुतस् तेषाम् एतम् अर्धमासम् प्रसुतस् तेषाम् मैत्रावरुणी वशाऽमावास्यायाम् अनूबन्ध्या यत्
5 पूर्वेद्युर् यजते वेदिम् एव तत् करोति यद् वत्सान् अपाकरोति सदोहविर्धाने एव सम् मिनोति यद् यजते देवैर् एव सुत्याꣳ सम् पादयति स एतम् अर्धमासꣳ सधमादं देवैः सोमम् पिबति यन् मैत्रावरुण्यामिक्षयामावास्यायां यजते यैवासौ देवानां वशानूबन्ध्या सो एवैषैतस्य साक्षाद् वा एष देवान् अभ्यारोहति य एषां यज्ञम्
6 अभ्यारोहति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर् ह्य् एष यज्ञस् ताजक् पुण्यो वा भवति प्र वा मीयते तस्यैतद् व्रतम् । नानृतं वदेन् न माꣳसम् अश्नीयान् न स्त्रियम् उपेयान् नास्य पल्पूलनेन वासः पल्पूलयेयुर् एतद् धि देवाः सर्वं न कुर्वन्ति ॥
2.5.6 अनुवाक 6 दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्
1 एष वै देवरथो यद् दर्शपूर्णमासौ यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति । एतानि वा अङ्गापरूꣳषि संवत्सरस्य यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूꣳष्य् एव संवत्सरस्य प्रति दधाति । एते वै संवत्सरस्य चक्षुषी यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते ताभ्याम् एव सुवर्गं लोकम् अनु पश्यति ॥
2 एषा वै देवानां विक्रान्तिर् यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते देवानाम् एव विक्रान्तिम् अनु वि क्रमते । एष वै देवयानः पन्था यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते य एव देवयानः पन्थास् तꣳ समारोहति । एतौ वै देवानाꣳ हरी यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते याव् एव देवानाꣳ हरी ताभ्याम्
3 एवैभ्यो हव्यं वहति । एतद् वै देवानाम् आस्यं यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते साक्षाद् एव देवानाम् आस्ये जुहोति । एष वै हविर्धानी यो दर्शपूर्णमासयाजी सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाꣳ सुतः । य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति देवा वा अहः
4 यज्ञियं नाविन्दन् ते दर्शपूर्णमासाव् अपुनन् तौ वा एतौ पूतौ मेध्यौ यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते पूताव् एवैनौ मेध्यौ यजते नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् । यद् उपेयान् निरिन्द्रियः स्यात् सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन् तासाम् अमावास्यां च पौर्णमासीं च नोपैत् ॥
5 ते एनम् अभि समनह्येताम् । तं यक्ष्म आर्छत् । राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म यत् पापीयान् अभवत् तत् पापयक्ष्मस्य यज् जायाभ्याम् अविन्दत् तज् जायेन्यस्य य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति स एते एव नमस्यन्न् उपाधावत् ते अब्रूताम् । वरं वृणावहा आवं देवानाम् भागधे असाव
6 आवद् अधि देवा इज्यान्ता इति तस्मात् सदृशीनाꣳ रात्रीणाम् अमावास्यायां च पौर्णमास्यां च देवा इज्यन्ते । एते हि देवानाम् भागधे भागधा अस्मै मनुष्या भवन्ति य एवं वेद भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस्
तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥
2.5.7 अनुवाक 7 सामिधेनी मन्त्रव्याख्यानम्
1 देवा वै नर्चि न यजुष्य् अश्रयन्त ते सामन्न् एवाश्रयन्त हिं करोति सामैवाकर् हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते हिं करोति वाच एवैष योगः । हिं करोति प्रजा एव तद् यजमानः सृजते त्रिः प्रथमाम् अन्व् आह त्रिर् उत्तमाम् । यज्ञस्यैव तद् बर्सम्
2 नह्यत्य् अप्रस्रꣳसाय संततम् अन्व् आह प्राणानाम् अन्नाद्यस्य संतत्यै । अथो रक्षसाम् अपहत्यै राथंतरीम् प्रथमाम् अन्व् आह राथंतरो वा अयं लोकः । इमम् एव लोकम् अभि जयति त्रिर् वि गृह्णाति त्रय इमे लोकाः । इमान् एव लोकान् अभि जयति बार्हतीम् उत्तमाम् अन्व् आह बार्हतो वा असौ लोकः । अमुम् एव लोकम् अभि जयति प्र वः
3 वाजा इत्य् अनिरुक्ताम् प्राजापत्याम् अन्व् आह यज्ञो वै प्रजापतिः । यज्ञम् एव प्रजापतिम् आ रभते प्र वो वाजा इत्य् अन्व् आह । अन्नं वै वाजः । अन्नम् एवाव रुन्द्धे प्र वो वाजा इत्य् अन्व् आह तस्मात् प्राचीनꣳ रेतो धीयते । अग्न आ याहि वीतय इत्य् आह तस्मात् प्रतीचीः प्रजा जायन्ते प्र वो वाजाः
4 इत्य् अन्व् आह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर् घृताची यज्ञो देवाञ् जिगाति यजमानः सुम्नयुः । इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामाव रुन्द्धे यं कामयेत सर्वम् आयुर् इयाद् इति प्र वो वाजा इति तस्यानूच्याग्न आ याहि वीतय इति सं ततम् उत्तरम् अर्धर्चम् आ लभेत ॥
5 प्राणेनैवास्यापानं दधार सर्वम् आयुर् एति यो वा अरत्निꣳ सामिधेनीनां वेदारत्नाव् एव भ्रातृव्यं कुरुते । अर्धर्चौ सं दधाति । एष वा अरत्निः सामिधेनीनाम् । य एवं वेदारत्नाव् एव भ्रातृव्यं कुरुते । ऋषेर्ऋषेर् वा एता निर्मिता यत् सामिधेन्यस् ता यद् असंयुक्ताः स्युः प्रजया पशुभिर् यजमानस्य वि तिष्ठेरन् । अर्धर्चौ संदधाति सं युनक्त्य् एवैनास् ता अस्मै संयुक्ता अवरुद्धाः सर्वाम् आशिषं दुह्रे ॥
2.5.8 अनुवाक 8 सामिधेनी मन्त्रव्याख्यानम्
1 अयज्ञो वा एष यो ऽसामा । अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस् तं त्वा समिद्भिर् अङ्गिर इत्य् आह वामदेव्यस्यैष वर्णः । बृहद् अग्ने सुवीर्यम् इत्य् आह बृहत एष वर्णः । यद् एतं तृचम् अन्वाह यज्ञम् एव तत् सामन्वन्तं करोति । अग्निर् अमुष्मिम्̐ लोक आसीद् आदित्यो ऽस्मिन् ताव् इमौ लोकाव् अशान्तौ
2 आस्ताम् । ते देवा अब्रुवन् । एतेमौ वि पर्य् ऊहामेति । अग्न आ याहि वीतय इत्य् अस्मिम्̐ लोके ऽग्निम् अदधुर् बृहद् अग्ने सुवीर्यम् इत्य् अमुष्मिम्̐ लोक आदित्यम् । ततो वा इमौ लोकाव् अशाम्यताम् । यद् एवम् अन्वाहानयोर् लोकयोः शान्त्यै शाम्यतो ऽस्मा इमौ लोकौ य एवं वेद पञ्चदश सामिधेनीर् अन्व् आह पञ्चदश
3 वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते तासां त्रीणि च शतानि षष्टिश् चाक्षराणि तावतीः संवत्सरस्य रात्रयः । अक्षरश एव संवत्सरम् आप्नोति नृमेधश् च [[ऋग्वेदः सूक्तं १.१२७|परुच्छेपश्]] च ब्रह्मवाद्यम् अवदेताम् अस्मिन् दाराव् आर्द्रे ऽग्निं जनयाव यतरो नौ ब्रह्मीयान् इति नृमेधो ऽभ्य् अवदत् स धूमम् अजनयत् परुच्छेपो ऽभ्य् अवदत् सो ऽग्निम् अजनयत् । ऋष इत्य् अब्रवीत् ॥
4 यत् समावद् विद्व कथा त्वम् अग्निम् अजीजनो नाहम् इति सामिधेनीनाम् एवाहं वर्णं वेदेत्य् अब्रवीत् । यद् घृतवत् पदम् अनूच्यते स आसां वर्णस् तं त्वा समिद्भिर् अङ्गिर इत्य् आह सामिधेनीष्व् एव तज् ज्योतिर् जनयति स्त्रियस् तेन यद् ऋच स्त्रियस् तेन यद् गायत्रिय स्त्रियस् तेन यत् सामिधेन्यः ।
वृषण्वतीम् अन्व् आह ॥
5 तेन पुꣳस्वतीस् तेन सेन्द्रास् तेन मिथुनाः । अग्निर् देवानां दूत आसीद् उशना काव्यो ऽसुराणाम् । तौ प्रजापतिम् प्रश्नम् ऐताम् स प्रजापतिर् अग्निं दूतं वृणीमह इत्य् अभि पर्यावर्तत ततो देवा अभवन् परासुराः । यस्यैवं विदुषो ऽग्निं दूतं वृणीमह इत्य् अन्वाह भवत्य् आत्मना परास्य भ्रातृव्यो भवति । अध्वरवतीम् अन्व् आह भ्रातृव्यम् एवैतया
6 ध्वरति शोचिष्केशस् तम् ईमह इत्य् आह पवित्रम् एवैतत् । यजमानम् एवैतया पवयति समिद्धो अग्न आहुतेत्य् आह परिधिम् एवैतम् परि दधात्य् अस्कन्दाय यद् अत ऊर्ध्वम् अभ्यादध्याद् यथा बहिःपरिधि स्कन्दति तादृग् एव तत् त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाꣳ सहरक्षा असुराणाम् । त एतर्ह्य् आ शꣳसन्ते मां वरिष्यते माम्
7 इति वृणीध्वꣳ हव्यवाहनम् इत्य् आह य एव देवानां तं वृणीते । आर्षेयं वृणीते बन्धोर् एव नैति । अथो संतत्यै परस्ताद् अर्वाचो वृणीते तस्मात् परस्ताद् अर्वाञ्चो मनुष्यान् पितरो ऽनु प्र पिपते ॥
2.5.9 अनुवाक 9 प्रवरादिमन्त्रव्याख्यानम्
1 अग्ने महाꣳ असीत्य् आह महान् ह्य् एष यद् अग्निः । ब्राह्मणेत्य् आह ब्राह्मणो ह्य् एष भारतेत्य् आहैष हि देवेभ्यो हव्यम् भरति देवेद्ध इत्य् आह देवा ह्य् एतम् ऐन्धत मन्विद्ध इत्य् आह मनुर् ह्य् एतम् उत्तरो देवेभ्य ऐन्द्ध । ऋषिष्टुत इत्य् आहर्षयो ह्य् एतम् अस्तुवन् विप्रानुमदित इत्य् आह ।
2 विप्रा ह्य् एते यच् छुश्रुवाꣳसः कविशस्त इत्य् आह कवयो ह्य् एते यच् छुश्रुवाꣳसः । ब्रह्मसꣳशित इत्य् आह ब्रह्मसꣳशितो ह्य् एष घृताहवन इत्य् आह घृताहुतिर् ह्य् अस्य प्रियतमा प्रणीर् यज्ञानाम् इत्य् आह प्रणीर् ह्य् एष यज्ञानाम् । रथीर् अध्वराणाम् इत्य् आहैष हि देवरथः । अतूर्तो होतेत्य् आह न ह्य् एतं कश् चन
3 तरति तूर्णिर् हव्यवाड् इत्य् आह सर्वꣳ ह्य् एष तरति । आस्पात्रं जुहूर् देवानाम् इत्य् आह जुहूर् ह्य् एष देवानाम् । चमसो देवपान इत्य् आह चमसो ह्य् एष देवपानः । अराꣳ इवाग्ने नेमिर् देवाꣳस् त्वम् परिभूर् असीत्य् आह देवान् ह्य् एष परिभूः ।
यद् ब्रूयात् । आ वह देवान् देवयते यजमानायेति भ्रातृव्यम् अस्मै
4 जनयेत् । आ वह देवान् यजमानायेत्य् आह यजमानम् एवैतेन वर्धयति । अग्निम् अग्न आ वह सोमम् आ वहेत्य् आह देवता एव तद् यथापूर्वम् उप ह्वयते । आ चाग्ने देवान् वह सुयजा च यज जातवेद इत्य् आह । अग्निम् एव तत् सꣳ श्यति सो ऽस्य सꣳशितो देवेभ्यो हव्यं वहति । अग्निर् होता
5 इत्य् आह । अग्निर् वै देवानाꣳ होता य एव देवानाꣳ होता तं वृणीते स्मो वयम् इत्य् आहात्मानम् एव सत्त्वं गमयति साधु ते यजमान देवतेत्य् आहाशिषम् एवैताम् आ शास्ते यद् ब्रूयात् । यो ऽग्निꣳ होतारम् अवृथा इत्य् अग्निनोभयतो यजमानम् परि गृह्णीयात् प्रमायुकः स्यात् । यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्यो उपभृत् </span></poem>[[File:Juhu - sruvaa जुहू - स्रुवा.jpg|thumb|जुहू - स्रुवा]]
<poem><span style="font-size: 14pt; line-height: 200%">
6 यद् द्वे इव ब्रूयाद् भ्रातृव्यम् अस्मै जनयेत् । घृतवतीम् अध्वर्यो स्रुचम् आऽस्यस्वेत्य् आह यजमानम् एवैतेन वर्धयति देवायुवम् इत्य् आह देवान् ह्य् एषावति विश्ववाराम् इत्य् आह विश्वꣳ ह्य् एषावति । ईडामहै देवाꣳ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः । देवता एव तद् यथाभागं यजति ॥
2.5.10 अनुवाक 10 नैमित्तिकीनां काम्यानां च सामिधेनीनां विधानम्
1 त्रीꣳस् तृचान् अनु ब्रूयाद् राजन्यस्य त्रयो वा अन्ये राजन्यात् पुरुषा ब्राह्मणो वैश्यः शूद्रस् तान् एवास्मा अनुकान् करोति पञ्चदशानु ब्रूयाद् राजन्यस्य पञ्चदशो वै राजन्यः स्व एवैनꣳ स्तोमे प्रति ष्ठापयति त्रिष्टुभा परि दध्यात् । इन्द्रियं वै त्रिष्टुग् इन्द्रियकामः खलु वै राजन्यो यजते त्रिष्टुभैवास्मा इन्द्रियम् परि गृह्णाति यदि कामयेत
2 ब्रह्मवर्चसम् अस्त्व् इति गायत्रिया परि दध्यात् । ब्रह्मवर्चसं वै गायत्री ब्रह्मवर्चसम् एव भवति सप्तदशानु ब्रूयाद् वैश्यस्य सप्तदशो वै वैश्यः स्व एवैनꣳ स्तोमे प्रति ष्ठापयति जगत्या परि दध्यात् । जागता वै पशवः पशुकामः खलु वै वैश्यो यजते जगत्यैवास्मै पशून् परि गृह्णाति । एकविꣳशतिम् अनु ब्रूयात् प्रतिष्ठाकामस्य । एकविꣳश स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै ।
3 चतुर्विꣳशतिम् अनु ब्रूयाद् ब्रह्मवर्चसकामस्य चतुर्विꣳशत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैवास्मै ब्रह्मवर्चसम् अव रुन्द्धे त्रिꣳशतम् अनु ब्रूयाद् अन्नकामस्य त्रिꣳशदक्षरा विराड् अन्नं विराड् विराजैवास्मा अन्नाद्यम् अव रुन्द्धे द्वात्रिꣳशतम् अनुब्रूयात् प्रतिष्ठाकामस्य द्वात्रिꣳशदक्षरानुष्टुग् अनुष्टुप् छन्दसाम् प्रतिष्ठा प्रतिष्ठित्यै षट्त्रिꣳशतम् अनु ब्रूयात् पशुकामस्य षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवः । बृहत्यैवास्मै पशून्
4 अव रुन्द्धे चतुश्चत्वारिꣳशतम् अनु ब्रूयाद् इन्द्रियकामस्य चतुश्चत्वारिꣳशदक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुप् त्रिष्टुभैवास्मा इन्द्रियम् अव रुन्द्धे । अष्टाचत्वारिꣳशतम् अनु ब्रूयात् पशुकामस्य । अष्टाचत्वरिꣳशदक्षरा जगती जागताः पशवः । जगत्यैवास्मै पशून् अव रुन्द्धे सर्वाणि छन्दाꣳस्य् अनु ब्रूयाद् बहुयाजिनः सर्वाणि वा एतस्य छन्दाꣳस्य् अवरुन्द्धानि यो बहुयाजी । अपरिमितम् अनु ब्रूयात् । अपरिमितस्यावरुद्ध्यै ॥
2.5.11 अनुवाक 11 सामिधेनीषु होतुर्नियमविशेषः
1 निवीतम् मनुष्याणाम् प्राचीनावीतम् पितृणाम् उपवीतं देवानाम् उप व्ययते देवलक्ष्मम् एव तत् कुरुते तिष्ठन्न् अन्व् आह तिष्ठन् ह्य् आश्रुततरं वदति तिष्ठन्न् अन्व् आह सुवर्गस्य लोकस्याभिजित्यै । आसीनो यजति । अस्मिन्न् एव लोके प्रति तिष्ठति यत् क्रौञ्चम् अन्वाहाऽऽसुरं तत् । यन् मन्द्रम् मानुषं तत् । यद् अन्तरा तत् सदेवम् अन्तरानूच्यम् । सदेवत्वाय विद्वाꣳसो वै
2 पुरा होतारो ऽभूवन् तस्माद् विधृता अध्वानो ऽभूवन् न पन्थानः सम् अरुक्षन् । अन्तर्वेद्य् अन्यः पादो भवति बहिर्वेद्य् अन्यः । अथान्व् आह । अध्वनां विधृत्यै पथाम् असꣳरोहाय । अथो भूतं चैव भविष्यच् चाव रुन्द्धे । अथो परिमितं चैवापरिमितं चाव रुन्द्धे । अथो ग्राम्याꣳश् चैव पशून् आरण्याꣳश् चाव रुन्द्धे । अथो
3 देवलोकं चैव मनुष्यलोकं चाभि जयति देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन् । स प्रजापतिस् तूष्णीम् आघारम् आघारयत् ततो वै देवा यज्ञम् अन्व् अपश्यन् यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै । अथो सामिधेनीर् एवाभ्य् अनक्ति । अलूक्षो भवति य एवं वेद । अथो तर्पयत्य् एवैनास् तृप्यति प्रजया पशुभिः
4 य एवं वेद यद् एकयाघारयेद् एकाम् प्रीणीयात् । यद् द्वाभ्यां द्वे प्रीणीयात् । यत् तिसृभिर् अति तद् रेचयेत् । मनसा घारयति मनसा ह्य् अनाप्तम् आप्यते तिर्यञ्चम् आ घारयत्य् अच्छम्बट्कारम् । वाक् च मनश् चार्तीयेताम् अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस् तौ प्रजापतिम् प्रश्नम् ऐताम् । सो ऽब्रवीत्
5 प्रजापतिः । दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत् तस्मान् मनसा प्रजापतये जुह्वति मन इव हि प्रजापतिः प्रजापतेर् आप्त्यै परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान् त्रिर् मध्यमं त्रयो वै प्राणाः
6 इमे लोका इमान् एव लोकान् अभि जयति त्रिर् उत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस् तान् एवाभि जयति त्रिर् उप वाजयति त्रयो वै देवलोका देवलोकान् एवाभि जयति द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरम् एव प्रीणाति । अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै । आघारम् आ घारयति तिर इव
7 वै सुवर्गो लोकः सुवर्गम् एवास्मै लोकम् प्र रोचयति । ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै । अथो रक्षसाम् अपहत्यै यं कामयेत प्रमायुकः स्याद् इति जिह्मं तस्याऽऽ घारयेत् प्राणम् एवास्माज् जिह्मं नयति ताजक् प्र मीयते शिरो वा एतद् यज्ञस्य यद् आघार आत्मा ध्रुवा
8 आघारम् आघार्य ध्रुवाꣳ सम् अनक्ति । आत्मन्न् एव यज्ञस्य शिरः प्रति दधाति । अग्निर् देवानां दूत आसीद् दैव्यो ऽसुराणाम् । तौ प्रजापतिम् प्रश्नम् ऐताम् । स प्रजापतिर् ब्राह्मणम् अब्रवीत् । एतद् वि ब्रूहीति । आ श्रावयेतीदं देवाः शृणुतेति वाव तद् अब्रवीद् अग्निर् देवो होतेति य एव देवानां तम् अवृणीत ततो देवाः
9 अभवन् परासुराः । यस्यैवं विदुषः प्रवरम् प्रवृणते भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयाताम् ब्राह्मणायाधि ब्रूयात् । यद् ब्राह्मणायाध्याहाऽऽत्मने ऽध्य् आह यद् ब्राह्मणम् पराहाऽऽत्मनम् पराऽऽह तस्माद् ब्राह्मणो न परोच्यः ॥
2.5.12 अनुवाक 12 काम्येष्टियाज्यापुरोनुवाक्याः
1 आयुष् टे । आयुर्दा अग्ने । आ प्यायस्व सं ते । अव ते हेडः । उद् उत्तमम् प्र णो देवी । आ नो दिवः । अग्नाविष्णू अग्नाविष्णू इमं मे वरुण तत् त्वा यामि । उद् उ त्यम् । चित्रम् अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः सम्
2 अन्या यन्त्य् उप यन्त्य् अन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसम् अपां नपातम् परि तस्थुर् आपः ॥ तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेण शिक्वना रेवद् अग्निर् दीदायानिध्मो घृतनिर्णिग् अप्सु ॥ इन्द्रावरुणयोर् अहꣳ सम्राजोर् अव आ वृणे । ता नो मृडात ईदृशे ॥ इन्द्रावरुणा युवम् अध्वराय नः
3 विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥ आ नो मित्रावरुणा प्र बाहवा त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत् स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्
4 रराणो वीहि मृडीकꣳ सुहवो न एधि प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ।
5 वि पाजसा वि ज्योतिषा स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत् तꣳ सुप्रतीकꣳ सुदृशꣳ स्वञ्चम् अविद्वाꣳसो विदुष्टरꣳ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥ अꣳहोमुचे विवेष यन् मा वि न इन्द्र । इन्द्र क्षत्रम् इन्द्रियाणि शतक्रतो अनु ते दायि ॥
2.5.1 अनुवाक 1 इष्टिविधानम्। अग्नीषोमीयहविर्विध्युपोद्घातः
1
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् ।
तस्य त्रीणि शीर्षाण्य् आसन्त् सोमपानꣳ सुरापानम् अन्नादनम् ।
स प्रत्यक्षं देवेभ्यो भागम् अवदत् परोऽक्षम् असुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्
तस्माद् इन्द्रो ऽबिभेद्
ईदृङ् वै राष्ट्रं वि पर्यावर्तयतीति
तस्य वज्रम् आदाय शीर्षाण्य् अच्छिनद् यत् सोमपानम्
2
आसीत् स कपिञ्जलो ऽभवत् यत् सुरापानꣳ स कलविङ्को यद् अन्नादनꣳ स तित्तिरिः । तस्याञ्जलिना ब्रह्महत्याम् उपागृह्णात् ताꣳ संवत्सरं अबिभस् तम् भूतान्य् अभ्य् अक्रोशन्
ब्रह्महन्न् इति । स पृथिवीम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृहाणेति
साब्रवीद्
वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा भूवम् इति
पुरा ते
3
संवत्सराद् अपि रोहाद् इत्य् अब्रवीत् तस्मात् पुरा संवत्सरात् पृथिव्यै खातम् अपि रोहति वारेवृतꣳ ह्य् अस्यै
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णात् तत् स्वकृतम् इरिणम् अभवत् तस्माद् आहिताग्निः श्रद्धादेवः स्वकृत इरिणे नाव स्येद् ब्रह्महत्यायै ह्य् एष वर्णः । स वनस्पतीन् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ते ऽब्रुवन्
वरं वृणामहै वृक्णात्
4
पराभविष्यन्तो मन्यामहे ततो मा परा भूमेति ।
आव्रश्चनाद् वो भूयाꣳस उत् तिष्ठान् इत्य् अब्रवीत् तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाꣳस उत् तिष्ठन्ति वारेवृतꣳ ह्य् एषाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् स निर्यासो ऽभवत् तस्मान् निर्यासस्य नाश्यम् ब्रह्महत्यायै ह्य् एष वर्णो ऽथो खलु य एव लोहितो यो वाऽऽव्रश्चनान् निर्येषति तस्य नाऽऽश्यम्
5
कामम् अन्यस्य । स स्त्रीषꣳसादम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ता अब्रुवन्
वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनितोः सम् भवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः सम् भवन्ति वारेवृतꣳ ह्य् आसाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न सं वदेत
6
न सहाऽऽसीत नास्या अन्नम् अद्याद् ब्रह्महत्यायै ह्य् एषा वर्णम् प्रतिमुच्याऽऽस्ते ।
अथो खल्व् आहुर्
अभ्यञ्जनं वाव स्त्रिया अन्नम् अभ्यञ्जनम् एव न प्रतिगृह्यं कामम् अन्यद् इति । याम् मलवद्वाससꣳ सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो याम् पराचीं तस्यै ह्रीतमुख्य् अपगल्भो या स्नाति तस्या अप्सु मारुको या
7
अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुꣳ सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस्
तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय ॥
2.5.2 अनुवाक 2
अग्नीषोमीय पुरोडाशः
1
त्वष्टा हतपुत्रो वीन्द्रꣳ सोमम् आहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम् ।
यद् अब्रवीत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति तस्माद् अस्य ॥
2
इन्द्रः शत्रुर् अभवत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रमिषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत्
स प्रजापतिम् उपाधावत् ।
शत्रुर् मे ऽजनीति
तस्मै वज्रꣳ सिक्त्वा प्रायच्छत् ।
एतेन जहीति तेनाभ्य् आयत
ताव् अब्रूताम् अग्नीषोमौ
मा
3
प्र हार् आवम् अन्तः स्व इति
मम वै युवꣳ स्थ इत्य् अब्रवीन् माम् अभ्य् एतम् इति
तौ भागधेयम् ऐच्छेताम् ।
ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालम् पूर्णमासे प्रायच्छत्
ताव् अब्रूताम्
अभि संदष्टौ वै स्वो न शक्नुव ऐतुम् इति
स इन्द्र आत्मनः शीतरूराव् अजनयत्
तच् छीतरूरयोर् जन्म
य एवꣳ शीतरूरयोर् जन्म वेद
4
नैनꣳ शीतरूरु हतस्
ताभ्याम् एनम् अभ्य् अनयत्
तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम्
प्राणापानौ वा एनं तद् अजहिताम्
प्राणो वै दक्षो ऽपानः क्रतुस्
तस्माज् जञ्जभ्यमानो ब्रूयात् ।
मयि दक्षक्रतू इति
प्राणापानाव् एवात्मन् धत्ते
सर्वम् आयुर् एति
स देवता वृत्रान् निर्हूय वार्त्रघ्नꣳ हविः पूर्णमासे निर् अवपत् ।
घ्नन्ति वा एनम् पूर्णमास आ
5
अमावास्यायाम् प्याययन्ति
तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् ।
तत् सꣳस्थाप्य वार्त्रघ्नꣳ हविर् वज्रम् आदाय पुनर् अभ्य् आयत
ते अब्रूतां द्यावापृथिवी
मा प्र हार् आवयोर् वै श्रित इति
ते अब्रूताम् ।
वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् ।
तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् ।
य एवं द्यावापृथिव्योः
6
वरं वेदैनं वरो गच्छति
स आभ्याम् एव प्रसूत इन्द्रो वृत्रम् अहन्
ते देवा वृत्रꣳ हत्वाऽग्नीषोमाव् अब्रुवन्
हव्यं नो वहतम् इति
ताव् अब्रूताम्
अपतेजसौ वै त्यौ वृत्रे वै त्ययोस् तेज इति
ते ऽब्रुवन्
क इदम् अच्छैतीति
गौर् इत्य् अब्रुवन् गौर् वाव सर्वस्य मित्रम् इति
साब्रवीत् ।
7
वरं वृणै मय्य् एव सतो ऽभयेन भुनजाध्वा इति
तद् गौर् आहरत्
तस्माद् गवि सतो ऽभयेन भुञ्जते ।
एतद् वा अग्नेस् तेजो यद् घृतम्
एतत् सोमस्य यत् पयः ।
य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति
ब्रह्मवादिनो वदन्ति
किंदेवत्यम् पौर्णमासम् इति
प्राजापत्यम् इति ब्रूयात्
तेनेन्द्रं ज्येष्ठम् पुत्रं निरवासाययद् इति
तस्माज् ज्येष्ठम् पुत्रं धनेन निरवसाययन्ति ॥
2.5.3 अनुवाक 3
पौर्णमास्यां वैमृध पुरोडाशः, अमावास्यायां सांनाय्यादियागः
1
इन्द्रं वृत्रं जघनिवाꣳसम् मृधो ऽभि प्रावेपन्त स एतं वैमृधम् पूणमासे ऽनुनिर्वाप्यम् अपश्यत् तं निर् अवपत् तेन वै स मृधो ऽपाहत यद् वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति मृध एव तेन यजमानो ऽप हते ।
इन्द्रो वृत्रꣳ हत्वा देवताभिश् चेन्द्रियेण च व्य् आर्ध्यत स एतम् आग्नेयम् अष्टाकपालम् अमावास्यायाम् अपश्यद् ऐन्द्रं दधि ॥
2
तं निर् अवपत् तेन वै स देवताश् चेन्द्रियं चावारुन्द्ध
यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाम् भवत्य् ऐन्द्रं दधि देवताश् चैव तेनेन्द्रियं च यजमानो ऽव रुन्द्धे ।
इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् पृथिवीम् अनु व्य् आर्छत् तद् ओषधयो वीरुधो ऽभवन्
स प्रजापतिम् उपाधावद्
वृत्रम् मे जघ्नुष इन्द्रियं वीर्यम्
3
पृथिवीम् अनु व्य् आरत् तद् ओषधयो वीरुधो ऽभूवन् इति
तत् पशव ओषधीभ्यो ऽध्य् आत्मन्त् सम् अनयन् तत् प्रत्य् अदुहन् यत् समनयन् तत् सांनाय्यस्य सांनाय्यत्वं यत् प्रत्यदुहन् तत् प्रतिधुषः प्रतिधुक्त्वम् ।
सम् अनैषुः प्रत्य् अधुक्षन् न तु मयि श्रयत इत्य् अब्रवीद् एतद् अस्मै
4
शृतं कुरुतेत्य् अब्रवीत् तद् अस्मै शृतम् अकुर्वन्न् इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् ।
सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम्
ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयम् ।
5
दधि हि पूर्वं क्रियत इत्य् अनादृत्य तच् छृतस्यैव पूर्वस्याव द्येद् इन्द्रियम् एवास्मिन् वीर्यꣳ श्रित्वा दध्नोपरिष्टाद् धिनोति यथापूर्वम् उपैति
यत् पूतीकैर् वा पर्णवल्कैर् वातञ्च्यात् सौम्यं तद् यत् क्वलै राक्षसं तद् यत् तण्डुलैर् वैश्वदेवं तद् यद् आतञ्चनेन मानुषं तद् यद् दध्ना तत् सेन्द्रं दध्ना ऽऽतनक्ति
6
सेन्द्रत्वाय ।
अग्निहोत्रोच्छेषणम् अभ्यातनक्ति यज्ञस्य संतत्यै ।
इन्द्रो वृत्रꣳ हत्वा पराम् परावतम् अगच्छद् अपाराधम् इति मन्यमानस् तं देवताः प्रैषम् ऐच्छन्त् सो ऽब्रवीत् प्रजापतिर् यः प्रथमो ऽनुविन्दति तस्य प्रथमम् भागधेयम् इति तम् पितरो ऽन्व् अविन्दन् तस्मात् पितृभ्यः पूर्वेद्युः क्रियते
सो ऽमावास्याम् प्रत्य् आगच्छत् तं देवा अभि सम् अगच्छन्तामा वै नः
7
अद्य वसु वसतीतीन्द्रो हि देवानां वसु तद् अमावास्याया अमावास्यत्वम्
ब्रह्मवादिनो वदन्ति किंदेवत्यꣳ सांनाय्यम् इति वैश्वदेवम् इति ब्रूयाद् विश्वे हि तद् देवा भागधेयम् अभि समगच्छन्तेत्य् अथो खल्व् ऐन्द्रम् इत्य् एव ब्रूयाद् इन्द्रं वाव ते तद् भिषज्यन्तो ऽभि सम् अगच्छन्तेति ॥
2.5.4 अनुवाक 4
भ्रातृव्यवतः पशुकामस्य च पौर्णमास्याम् अनुनिर्वाप्यौ। आग्नावैष्णवादियागविधिः।
1
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति
वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति तेन पूर्णमासः सेन्द्र ऐन्द्रं दध्य् अमावास्यायां तेनामावास्या सेन्द्रा य एवं विद्वान् दर्शपूर्णमासौ यजते सेन्द्राव् एवैनौ यजते श्वःश्वो ऽस्मा ईजानाय वसीयो भवति
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एताम्
2
इष्टिम् अपश्यन् ।
आग्नावैष्णवम् एकादशकपालꣳ सरस्वत्यै चरुꣳ सरस्वते चरुं ताम् पौर्णमासꣳ सꣳस्थाप्यानु निर् अवपन् ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स पौर्णमासꣳ सꣳस्थाप्यैताम् इष्टिम् अनु निर् वपेत् पौर्णमासेनैव वज्रम् भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश् च यज्ञं च भ्रातृव्यस्य वृङ्क्ते
मिथुनान् पशून्त् सारस्वताभ्यां यावद् एवास्यास्ति तत्
3
सर्वं वृङ्क्ते
पौर्णमासीम् एव यजेत भ्रातृव्यवान् नामावास्याꣳ हत्वा भ्रातृव्यं नाऽऽ प्याययति
साकम्प्रस्थायीयेन यजेत पशुकामः ।
यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्य् आत्मना ददात्य् अन्यस्मै महता पूर्णꣳ होतव्यम् ।
तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति
दारुपात्रेण जुहोति
न हि मृन्मयम् आहुतिं आनशे ।
औदुम्बरम्
4
भवत्य् ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे
नागतश्रीर् महेन्द्रं यजेत
त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यस् तेषाम् महेन्द्रो देवता यो वै स्वां देवतां अतियजते प्र स्वायै देवतायै च्यवते न पराम् प्राप्नोति पापीयान् भवति
संवत्सरम् इन्द्रं यजेत संवत्सरꣳ हि व्रतं नाति स्वा ॥
5
एवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान् भवति
संवत्सरस्य परस्ताद् अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेत्
संवत्सरम् एवैनं वृत्रं जघ्निवाꣳसम् अग्निर् व्रतपतिर् व्रतम् आ लम्भयति
ततो ऽधि कामं यजेत ॥
2.5.5 अनुवाक 5 अभ्युदयेष्टिः, दाक्षायणयज्ञः
1
नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी
यद् असोमयाजी संनयेत् परिमोष एव सो ऽनृतं करोति ।
अथो परैव सिच्यते
सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते
वि वा एतम् प्रजया पशुभिर् अर्धयति वर्धयत्य् अस्य भ्रातृव्यं यस्य हविर् निरुप्तम् पुरस्ताच् चन्द्रमाः ॥
2
अभ्य् उदेति
त्रेधा तण्डुलान् वि भजेद्
ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद्
ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधꣳश् चरुम् ।
ये ऽणिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम्
अग्निर् एवास्मैप्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति
यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति
न द्वे
3
यजेत
यत् पूर्वया सम्प्रति यजेतोत्तरया छम्बट् कुर्याद्
यद् उत्तरया सम्प्रति यजेत पूर्वया छम्बट् कुर्यान् नेष्टिर् भवति न यज्ञस् तद् अनु ह्रीत मुख्यपगल्भो जायते ।
एकाम् एव यजेत प्रगल्भो ऽस्य जायते ।
अनादृत्य तद् द्वे एव यजेत
यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया देवता एव पूर्वयावरुन्द्ध इन्द्रियम् उत्तरया देवलोकम् एव
4
पूर्वयाभिजयति मनुष्यलोकम् उत्तरया
भूयसो यज्ञक्रतून् उपैति ।
एषा वै सुमना नामेष्टिर् यम् अद्येजानम् पश्चाच् चन्द्रमा अभ्य् उदेत्य् अस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति
दाक्षायणयज्ञेन सुवर्गकामो यजेत
पूर्णमासे सं नयेन् मैत्रावरुण्यामिक्षयामावास्यायां यजेत
पूर्णमासे वै देवानाꣳ सुतस् तेषाम् एतम् अर्धमासम् प्रसुतस्
तेषाम् मैत्रावरुणी वशाऽमावास्यायाम् अनूबन्ध्या यत्
5
पूर्वेद्युर् यजते वेदिम् एव तत् करोति
यद् वत्सान् अपाकरोति सदोहविर्धाने एव सम् मिनोति
यद् यजते देवैर् एव सुत्याꣳ सम् पादयति स एतम् अर्धमासꣳ सधमादं देवैः सोमम् पिबति
यन् मैत्रावरुण्यामिक्षयामावास्यायां यजते यैवासौ देवानां वशानूबन्ध्या सो एवैषैतस्य
साक्षाद् वा एष देवान् अभ्यारोहति य एषां यज्ञम्
6
अभ्यारोहति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर् ह्य् एष यज्ञस् ताजक् पुण्यो वा भवति प्र वा मीयते
तस्यैतद् व्रतम् ।
नानृतं वदेन् न माꣳसम् अश्नीयान् न स्त्रियम् उपेयान् नास्य पल्पूलनेन वासः पल्पूलयेयुर् एतद् धि देवाः सर्वं न कुर्वन्ति ॥
2.5.6 अनुवाक 6 दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्
1
एष वै देवरथो यद् दर्शपूर्णमासौ
यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति ।
एतानि वा अङ्गापरूꣳषि संवत्सरस्य यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूꣳष्य् एव संवत्सरस्य प्रति दधाति ।
एते वै संवत्सरस्य चक्षुषी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ताभ्याम् एव सुवर्गं लोकम् अनु पश्यति ॥
2
एषा वै देवानां विक्रान्तिर् यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते देवानाम् एव विक्रान्तिम् अनु वि क्रमते ।
एष वै देवयानः पन्था यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते य एव देवयानः पन्थास् तꣳ समारोहति ।
एतौ वै देवानाꣳ हरी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते याव् एव देवानाꣳ हरी ताभ्याम्
3
एवैभ्यो हव्यं वहति ।
एतद् वै देवानाम् आस्यं यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते साक्षाद् एव देवानाम् आस्ये जुहोति ।
एष वै हविर्धानी यो दर्शपूर्णमासयाजी
सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाꣳ सुतः ।
य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति
देवा वा अहः
4
यज्ञियं नाविन्दन् ते दर्शपूर्णमासाव् अपुनन्
तौ वा एतौ पूतौ मेध्यौ यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते पूताव् एवैनौ मेध्यौ यजते
नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् ।
यद् उपेयान् निरिन्द्रियः स्यात्
सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन्
तासाम् अमावास्यां च पौर्णमासीं च नोपैत् ॥
5
ते एनम् अभि समनह्येताम् ।
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म
यत् पापीयान् अभवत् तत् पापयक्ष्मस्य
यज् जायाभ्याम् अविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एते एव नमस्यन्न् उपाधावत्
ते अब्रूताम् ।
वरं वृणावहा आवं देवानाम् भागधे असाव
6
आवद् अधि देवा इज्यान्ता इति
तस्मात् सदृशीनाꣳ रात्रीणाम् अमावास्यायां च पौर्णमास्यां च देवा इज्यन्ते ।
एते हि देवानाम् भागधे
भागधा अस्मै मनुष्या भवन्ति य एवं वेद
भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस्
तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति
य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥
2.5.7 अनुवाक 7 सामिधेनी मन्त्रव्याख्यानम्
1
देवा वै नर्चि न यजुष्य् अश्रयन्त
ते सामन्न् एवाश्रयन्त
हिं करोति सामैवाकर्
हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते
हिं करोति वाच एवैष योगः ।
हिं करोति प्रजा एव तद् यजमानः सृजते
त्रिः प्रथमाम् अन्व् आह त्रिर् उत्तमाम् ।
यज्ञस्यैव तद् बर्सम्
2
नह्यत्य् अप्रस्रꣳसाय
संततम् अन्व् आह प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
राथंतरीम् प्रथमाम् अन्व् आह
राथंतरो वा अयं लोकः ।
इमम् एव लोकम् अभि जयति
त्रिर् वि गृह्णाति
त्रय इमे लोकाः ।
इमान् एव लोकान् अभि जयति
बार्हतीम् उत्तमाम् अन्व् आह
बार्हतो वा असौ लोकः ।
अमुम् एव लोकम् अभि जयति
प्र वः
3
वाजा इत्य् अनिरुक्ताम् प्राजापत्याम् अन्व् आह
यज्ञो वै प्रजापतिः ।
यज्ञम् एव प्रजापतिम् आ रभते
प्र वो वाजा इत्य् अन्व् आह ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
प्र वो वाजा इत्य् अन्व् आह
तस्मात् प्राचीनꣳ रेतो धीयते ।
अग्न आ याहि वीतय इत्य् आह
तस्मात् प्रतीचीः प्रजा जायन्ते
प्र वो वाजाः
4
इत्य् अन्व् आह
मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर् घृताची यज्ञो देवाञ् जिगाति यजमानः सुम्नयुः ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामाव रुन्द्धे
यं कामयेत
सर्वम् आयुर् इयाद् इति प्र वो वाजा इति तस्यानूच्याग्न आ याहि वीतय इति सं ततम् उत्तरम् अर्धर्चम् आ लभेत ॥
5
प्राणेनैवास्यापानं दधार सर्वम् आयुर् एति
यो वा अरत्निꣳ सामिधेनीनां वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
अर्धर्चौ सं दधाति ।
एष वा अरत्निः सामिधेनीनाम् ।
य एवं वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
ऋषेर्ऋषेर् वा एता निर्मिता यत् सामिधेन्यस्
ता यद् असंयुक्ताः स्युः प्रजया पशुभिर् यजमानस्य वि तिष्ठेरन् ।
अर्धर्चौ संदधाति
सं युनक्त्य् एवैनास्
ता अस्मै संयुक्ता अवरुद्धाः सर्वाम् आशिषं दुह्रे ॥
2.5.8 अनुवाक 8 सामिधेनी मन्त्रव्याख्यानम्
1
अयज्ञो वा एष यो ऽसामा ।
अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह वामदेव्यस्यैष वर्णः ।
बृहद् अग्ने सुवीर्यम् इत्य् आह बृहत एष वर्णः ।
यद् एतं तृचम् अन्वाह यज्ञम् एव तत् सामन्वन्तं करोति ।
अग्निर् अमुष्मिम्̐ लोक आसीद् आदित्यो ऽस्मिन्
ताव् इमौ लोकाव् अशान्तौ
2
आस्ताम् ।
ते देवा अब्रुवन् ।
एतेमौ वि पर्य् ऊहामेति ।
अग्न आ याहि वीतय इत्य् अस्मिम्̐ लोके ऽग्निम् अदधुर् बृहद् अग्ने सुवीर्यम् इत्य् अमुष्मिम्̐ लोक आदित्यम् ।
ततो वा इमौ लोकाव् अशाम्यताम् ।
यद् एवम् अन्वाहानयोर् लोकयोः शान्त्यै
शाम्यतो ऽस्मा इमौ लोकौ य एवं वेद
पञ्चदश सामिधेनीर् अन्व् आह
पञ्चदश
3
वा अर्धमासस्य रात्रयः ।
अर्धमासशः संवत्सर आप्यते
तासां त्रीणि च शतानि षष्टिश् चाक्षराणि
तावतीः संवत्सरस्य रात्रयः ।
अक्षरश एव संवत्सरम् आप्नोति
नृमेधश् च परुच्छेपश् च ब्रह्मवाद्यम् अवदेताम्
अस्मिन् दाराव् आर्द्रे ऽग्निं जनयाव यतरो नौ ब्रह्मीयान् इति
नृमेधो ऽभ्य् अवदत् स धूमम् अजनयत्
परुच्छेपो ऽभ्य् अवदत् सो ऽग्निम् अजनयत् ।
ऋष इत्य् अब्रवीत् ॥
4
यत् समावद् विद्व कथा त्वम् अग्निम् अजीजनो नाहम् इति
सामिधेनीनाम् एवाहं वर्णं वेदेत्य् अब्रवीत् ।
यद् घृतवत् पदम् अनूच्यते स आसां वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह सामिधेनीष्व् एव तज् ज्योतिर् जनयति
स्त्रियस् तेन यद् ऋच स्त्रियस् तेन यद् गायत्रिय स्त्रियस् तेन यत् सामिधेन्यः ।
वृषण्वतीम् अन्व् आह ॥
5
तेन पुꣳस्वतीस् तेन सेन्द्रास् तेन मिथुनाः ।
अग्निर् देवानां दूत आसीद् उशना काव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम्
स प्रजापतिर् अग्निं दूतं वृणीमह इत्य् अभि पर्यावर्तत
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽग्निं दूतं वृणीमह इत्य् अन्वाह भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
अध्वरवतीम् अन्व् आह
भ्रातृव्यम् एवैतया
6
ध्वरति
शोचिष्केशस् तम् ईमह इत्य् आह
पवित्रम् एवैतत् ।
यजमानम् एवैतया पवयति
समिद्धो अग्न आहुतेत्य् आह
परिधिम् एवैतम् परि दधात्य् अस्कन्दाय
यद् अत ऊर्ध्वम् अभ्यादध्याद् यथा बहिःपरिधि स्कन्दति तादृग् एव तत्
त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाꣳ सहरक्षा असुराणाम् ।
त एतर्ह्य् आ शꣳसन्ते
मां वरिष्यते माम्
7
इति
वृणीध्वꣳ हव्यवाहनम् इत्य् आह
य एव देवानां तं वृणीते ।
आर्षेयं वृणीते
बन्धोर् एव नैति ।
अथो संतत्यै
परस्ताद् अर्वाचो वृणीते
तस्मात् परस्ताद् अर्वाञ्चो मनुष्यान् पितरो ऽनु प्र पिपते ॥
2.5.9 अनुवाक 9
प्रवरादिमन्त्रव्याख्यानम्
1
अग्ने महाꣳ असीत्य् आह महान् ह्य् एष यद् अग्निः ।
ब्राह्मणेत्य् आह ब्राह्मणो ह्य् एष
भारतेत्य् आहैष हि देवेभ्यो हव्यम् भरति
देवेद्ध इत्य् आह देवा ह्य् एतम् ऐन्धत
मन्विद्ध इत्य् आह मनुर् ह्य् एतम् उत्तरो देवेभ्य ऐन्द्ध ।
ऋषिष्टुत इत्य् आहर्षयो ह्य् एतम् अस्तुवन्
विप्रानुमदित इत्य् आह ।
2
विप्रा ह्य् एते यच् छुश्रुवाꣳसः
कविशस्त इत्य् आह कवयो ह्य् एते यच् छुश्रुवाꣳसः ।
ब्रह्मसꣳशित इत्य् आह ब्रह्मसꣳशितो ह्य् एष
घृताहवन इत्य् आह घृताहुतिर् ह्य् अस्य प्रियतमा
प्रणीर् यज्ञानाम् इत्य् आह प्रणीर् ह्य् एष यज्ञानाम् ।
रथीर् अध्वराणाम् इत्य् आहैष हि देवरथः ।
अतूर्तो होतेत्य् आह न ह्य् एतं कश् चन
3
तरति
तूर्णिर् हव्यवाड् इत्य् आह
सर्वꣳ ह्य् एष तरति ।
आस्पात्रं जुहूर् देवानाम् इत्य् आह जुहूर् ह्य् एष देवानाम् ।
चमसो देवपान इत्य् आह चमसो ह्य् एष देवपानः ।
अराꣳ इवाग्ने नेमिर् देवाꣳस् त्वम् परिभूर् असीत्य् आह देवान् ह्य् एष परिभूः ।
यद् ब्रूयात् ।
आ वह देवान् देवयते यजमानायेति भ्रातृव्यम् अस्मै
4
जनयेत् ।
आ वह देवान् यजमानायेत्य् आह यजमानम् एवैतेन वर्धयति ।
अग्निम् अग्न आ वह सोमम् आ वहेत्य् आह देवता एव तद् यथापूर्वम् उप ह्वयते ।
आ चाग्ने देवान् वह सुयजा च यज जातवेद इत्य् आह ।
अग्निम् एव तत् सꣳ श्यति
सो ऽस्य सꣳशितो देवेभ्यो हव्यं वहति ।
अग्निर् होता
5
इत्य् आह ।
अग्निर् वै देवानाꣳ होता
य एव देवानाꣳ होता तं वृणीते
स्मो वयम् इत्य् आहात्मानम् एव सत्त्वं गमयति
साधु ते यजमान देवतेत्य् आहाशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् ।
यो ऽग्निꣳ होतारम् अवृथा इत्य् अग्निनोभयतो यजमानम् परि गृह्णीयात्
प्रमायुकः स्यात् ।
यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्यो उपभृत् </span></poem>[[File:Juhu - sruvaa जुहू - स्रुवा.jpg|thumb|जुहू - स्रुवा]]
<poem><span style="font-size: 14pt; line-height: 200%">
6
यद् द्वे इव ब्रूयाद् भ्रातृव्यम् अस्मै जनयेत् ।
घृतवतीम् अध्वर्यो स्रुचम् आऽस्यस्वेत्य् आह यजमानम् एवैतेन वर्धयति
देवायुवम् इत्य् आह देवान् ह्य् एषावति
विश्ववाराम् इत्य् आह विश्वꣳ ह्य् एषावति ।
ईडामहै देवाꣳ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ।
देवता एव तद् यथाभागं यजति ॥
2.5.10 अनुवाक 10 नैमित्तिकीनां काम्यानां च सामिधेनीनां विधानम्
1
त्रीꣳस् तृचान् अनु ब्रूयाद् राजन्यस्य
त्रयो वा अन्ये राजन्यात् पुरुषा ब्राह्मणो वैश्यः शूद्रस् तान् एवास्मा अनुकान् करोति
पञ्चदशानु ब्रूयाद् राजन्यस्य
पञ्चदशो वै राजन्यः
स्व एवैनꣳ स्तोमे प्रति ष्ठापयति
त्रिष्टुभा परि दध्यात् ।
इन्द्रियं वै त्रिष्टुग्
इन्द्रियकामः खलु वै राजन्यो यजते
त्रिष्टुभैवास्मा इन्द्रियम् परि गृह्णाति
यदि कामयेत
2
ब्रह्मवर्चसम् अस्त्व् इति गायत्रिया परि दध्यात् ।
ब्रह्मवर्चसं वै गायत्री
ब्रह्मवर्चसम् एव भवति
सप्तदशानु ब्रूयाद् वैश्यस्य
सप्तदशो वै वैश्यः
स्व एवैनꣳ स्तोमे प्रति ष्ठापयति
जगत्या परि दध्यात् ।
जागता वै पशवः
पशुकामः खलु वै वैश्यो यजते
जगत्यैवास्मै पशून् परि गृह्णाति ।
एकविꣳशतिम् अनु ब्रूयात् प्रतिष्ठाकामस्य ।
एकविꣳश स्तोमानाम् प्रतिष्ठा
प्रतिष्ठित्यै ।
3
चतुर्विꣳशतिम् अनु ब्रूयाद् ब्रह्मवर्चसकामस्य
चतुर्विꣳशत्यक्षरा गायत्री
गायत्री ब्रह्मवर्चसम् ।
गायत्रियैवास्मै ब्रह्मवर्चसम् अव रुन्द्धे
त्रिꣳशतम् अनु ब्रूयाद् अन्नकामस्य
त्रिꣳशदक्षरा विराड्
अन्नं विराड्
विराजैवास्मा अन्नाद्यम् अव रुन्द्धे
द्वात्रिꣳशतम् अनुब्रूयात् प्रतिष्ठाकामस्य
द्वात्रिꣳशदक्षरानुष्टुग्
अनुष्टुप् छन्दसाम् प्रतिष्ठा
प्रतिष्ठित्यै
षट्त्रिꣳशतम् अनु ब्रूयात् पशुकामस्य
षट्त्रिꣳशदक्षरा बृहती
बार्हताः पशवः ।
बृहत्यैवास्मै पशून्
4
अव रुन्द्धे
चतुश्चत्वारिꣳशतम् अनु ब्रूयाद् इन्द्रियकामस्य
चतुश्चत्वारिꣳशदक्षरा त्रिष्टुग्
इन्द्रियं त्रिष्टुप्
त्रिष्टुभैवास्मा इन्द्रियम् अव रुन्द्धे ।
अष्टाचत्वारिꣳशतम् अनु ब्रूयात् पशुकामस्य ।
अष्टाचत्वरिꣳशदक्षरा जगती
जागताः पशवः ।
जगत्यैवास्मै पशून् अव रुन्द्धे
सर्वाणि छन्दाꣳस्य् अनु ब्रूयाद् बहुयाजिनः
सर्वाणि वा एतस्य छन्दाꣳस्य् अवरुन्द्धानि यो बहुयाजी ।
अपरिमितम् अनु ब्रूयात् ।
अपरिमितस्यावरुद्ध्यै ॥
2.5.11 अनुवाक 11
सामिधेनीषु होतुर्नियमविशेषः
1
निवीतम् मनुष्याणाम्
प्राचीनावीतम् पितृणाम्
उपवीतं देवानाम्
उप व्ययते
देवलक्ष्मम् एव तत् कुरुते
तिष्ठन्न् अन्व् आह
तिष्ठन् ह्य् आश्रुततरं वदति
तिष्ठन्न् अन्व् आह
सुवर्गस्य लोकस्याभिजित्यै ।
आसीनो यजति ।
अस्मिन्न् एव लोके प्रति तिष्ठति
यत् क्रौञ्चम् अन्वाहाऽऽसुरं तत् ।
यन् मन्द्रम् मानुषं तत् ।
यद् अन्तरा तत् सदेवम्
अन्तरानूच्यम् ।
सदेवत्वाय
विद्वाꣳसो वै
2
पुरा होतारो ऽभूवन्
तस्माद् विधृता अध्वानो ऽभूवन् न पन्थानः सम् अरुक्षन् ।
अन्तर्वेद्य् अन्यः पादो भवति बहिर्वेद्य् अन्यः ।
अथान्व् आह ।
अध्वनां विधृत्यै पथाम् असꣳरोहाय ।
अथो भूतं चैव भविष्यच् चाव रुन्द्धे ।
अथो परिमितं चैवापरिमितं चाव रुन्द्धे ।
अथो ग्राम्याꣳश् चैव पशून् आरण्याꣳश् चाव रुन्द्धे ।
अथो
3
देवलोकं चैव मनुष्यलोकं चाभि जयति
देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन् ।
स प्रजापतिस् तूष्णीम् आघारम् आघारयत्
ततो वै देवा यज्ञम् अन्व् अपश्यन्
यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै ।
अथो सामिधेनीर् एवाभ्य् अनक्ति ।
अलूक्षो भवति य एवं वेद ।
अथो तर्पयत्य् एवैनास्
तृप्यति प्रजया पशुभिः
4
य एवं वेद
यद् एकयाघारयेद् एकाम् प्रीणीयात् ।
यद् द्वाभ्यां द्वे प्रीणीयात् ।
यत् तिसृभिर् अति तद् रेचयेत् ।
मनसा घारयति मनसा ह्य् अनाप्तम् आप्यते
तिर्यञ्चम् आ घारयत्य् अच्छम्बट्कारम् ।
वाक् च मनश् चार्तीयेताम्
अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस्
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
सो ऽब्रवीत्
5
प्रजापतिः ।
दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति
तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत्
तस्मान् मनसा प्रजापतये जुह्वति
मन इव हि प्रजापतिः
प्रजापतेर् आप्त्यै
परिधीन्त् सम् मार्ष्टि
पुनात्य् एवैनान्
त्रिर् मध्यमं त्रयो वै प्राणाः
6
इमे लोका इमान् एव लोकान् अभि जयति
त्रिर् उत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस् तान् एवाभि जयति
त्रिर् उप वाजयति त्रयो वै देवलोका देवलोकान् एवाभि जयति
द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः
संवत्सरम् एव प्रीणाति ।
अथो संवत्सरम् एवास्मा उप दधाति
सुवर्गस्य लोकस्य समष्ट्यै ।
आघारम् आ घारयति
तिर इव
7
वै सुवर्गो लोकः
सुवर्गम् एवास्मै लोकम् प्र रोचयति ।
ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः
संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
यं कामयेत
प्रमायुकः स्याद् इति जिह्मं तस्याऽऽ घारयेत्
प्राणम् एवास्माज् जिह्मं नयति
ताजक् प्र मीयते
शिरो वा एतद् यज्ञस्य यद् आघार आत्मा ध्रुवा
8
आघारम् आघार्य ध्रुवाꣳ सम् अनक्ति ।
आत्मन्न् एव यज्ञस्य शिरः प्रति दधाति ।
अग्निर् देवानां दूत आसीद् दैव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
स प्रजापतिर् ब्राह्मणम् अब्रवीत् ।
एतद् वि ब्रूहीति ।
आ श्रावयेतीदं देवाः शृणुतेति वाव तद् अब्रवीद् अग्निर् देवो होतेति
य एव देवानां तम् अवृणीत
ततो देवाः
9
अभवन् परासुराः ।
यस्यैवं विदुषः प्रवरम् प्रवृणते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यद् ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयाताम् ब्राह्मणायाधि ब्रूयात् ।
यद् ब्राह्मणायाध्याहाऽऽत्मने ऽध्य् आह
यद् ब्राह्मणम् पराहाऽऽत्मनम् पराऽऽह
तस्माद् ब्राह्मणो न परोच्यः ॥
2.5.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः
1
आयुष् टे ।
आयुर्दा अग्ने ।
आ प्यायस्व
सं ते ।
अव ते हेडः ।
उद् उत्तमम्
प्र णो देवी ।
आ नो दिवः ।
अग्नाविष्णू
अग्नाविष्णू
इमं मे वरुण
तत् त्वा यामि ।
उद् उ त्यम् ।
चित्रम्
अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः
सम्
2
अन्या यन्त्य् उप यन्त्य् अन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसम् अपां नपातम् परि तस्थुर् आपः ॥
तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेण शिक्वना रेवद् अग्निर् दीदायानिध्मो घृतनिर्णिग् अप्सु ॥
इन्द्रावरुणयोर् अहꣳ सम्राजोर् अव आ वृणे । ता नो मृडात ईदृशे ॥
इन्द्रावरुणा युवम् अध्वराय नः
3
विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
आ नो मित्रावरुणा
प्र बाहवा
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत्
स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्
4
रराणो वीहि मृडीकꣳ सुहवो न एधि
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ।
5
वि पाजसा
वि ज्योतिषा
स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत्
तꣳ सुप्रतीकꣳ सुदृशꣳ स्वञ्चम् अविद्वाꣳसो विदुष्टरꣳ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥
अꣳहोमुचे
विवेष यन् मा
वि न इन्द्र ।
इन्द्र क्षत्रम्
इन्द्रियाणि शतक्रतो
अनु ते दायि ॥
</span></poem>
ck875cm78ifq1glmd7q5l4r1soiqe5p
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८८
104
104834
417987
267868
2026-08-08T12:19:29Z
Geeta g hegde
6704
417987
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३५४|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude>
{{Block center|{{bold|<poem>या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥ ८२ ॥</poem>}}}}
{{gap}}येति ॥ या पुनर्व्याधिता सती पत्युरनुकूला भवति शीलवती च स्यात्तामनु-
ज्ञाप्यान्यो विवाहः कार्यः । कदाचिच्चासौ नावमाननीया ॥ ८२ ॥
{{Block center|{{bold|<poem>अधिविना तु या नारी निर्गच्छेदुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ।। ८३ ॥</poem>}}}}
{{gap}}अधिविन्नेति ॥ या पुनः कृताधिवेदना स्त्री कुपिता निर्गच्छति सा तदहरेव र-
ज्वादिना बवा स्थापनीया आकोपनिवृत्तेः । पित्रादिकुलसंनिधौ वा त्याज्या ॥८॥
{{Block center|{{bold|<poem>प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि ।
प्रेक्षासमा गच्छेदा सा दण्ड्या कृष्णलानि षट् ॥ ८४ ॥</poem>}}}}
{{gap}}प्रतिषिद्धापीति ॥ या पुनः क्षत्रियादिका स्त्री भनीदिनिवारिता विवाहाद्युत्सवे-
प्वपि निषिद्धमद्यं पिबेन्नृत्यादिस्थानजनसमूहो वा गच्छेत्सा सुवर्णकृष्णलानि षट्
व्यवहारप्रकरणाद्राज्ञा दण्डनीया ॥ ८४ ॥
{{Block center|{{bold|<poem>यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः।
तासां वर्णक्रमेण स्थाज्यैष्ठ्यं पूजा च वेश्म च ॥ ८५ ॥</poem>}}}}
{{gap}}यदीति ॥ यदि द्विजातयः स्वजातीया विजातीयाश्चोदहेयुस्तदा तासां द्विजाति-
क्रमेण वाक्संमानदायविभागोत्कर्थ ज्येष्टत्वं पूजा च वस्त्रालंकारादिदानेन गृहं
च प्रधानं स्यात् ॥ ८५ ॥
{{Block center|{{bold|<poem>भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथंचन ॥ ८६ ॥</poem>}}}}
{{gap}}भर्तुरिति ॥ भर्तुदेहपरिचर्यामन्नदानादिरूपां धर्मकायै च भिक्षादानातिथिपरि-
वेषणहोमीयद्रव्योपकल्पनादि प्रात्यहिकं सर्वेपां द्विजातीनां सजातिभायैव कुर्यान्न
तु कदाचिद्विजातीयेति ॥ ८६ ॥
{{Block center|{{bold|<poem>यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः॥ ८७ ॥</poem>}}}}
{{gap}}यः पुनः स्वजातीयया संनिहितया देहशुश्रूषादिकं कर्तव्यं विजा-
नीयया मौात्कारयेत्स यथा ब्राह्मण्यां शूद्राजातो ब्राह्मणचाण्डालस्तथैव पूर्व-
ऋषिभिदृष्ट इति पूर्वानुवादः ॥ ८७ ॥
{{Block center|{{bold|<poem>उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥ ८८ ॥</poem>}}}}<noinclude></noinclude>
4p8d5ne7yrhb6vmuu0zldqjxu1vx1z8