विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.15
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९२
104
104838
418005
267872
2026-08-13T11:42:37Z
Geeta g hegde
6704
418005
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३५८|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude>
{{Block center|{{bold|<poem>यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते ।
स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥ १०७ ॥</poem>}}}}
{{gap}}यस्मिन्निति ॥ यस्मिन् जाते ऋणं शोधयति । येन जातेनामृतत्वं प्राप्नोति ।
तथाच श्रुतिः-'ऋणमस्सिन्समुन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य
पश्येचेज्जीवतो मुखम्' इति । स एव पितुर्धर्मेण हेतुना जातः पुत्रो भवति,
तेनैकेनैव ऋणापनयनाद्युपकारस्य कृतत्वात् । इतरांस्तु कामजान्मुनयो जानन्ति ।
ततश्च सर्वं धनं गृह्णीयादित्यस्यैवायमपि विशेषः ॥ १०७ ॥
{{Block center|{{bold|<poem>पितेव पालयेत्पुत्राज्येष्ठो भ्रातृन्यवीयसः।
पुत्रवच्चापि वर्तेरज्येष्ठे भ्रातरि धर्मतः॥ १०८ ॥</poem>}}}}
{{gap}}रितेवेति ॥ ज्येष्ठो भ्राता विभागाभावेऽनुजान् भ्रातृन्भक्ताच्छादनादिभिः पितेव
बिभृयात् । अनुजाश्च भ्रातरः पुत्रा इव ज्येष्ठे भ्रातरि धर्माय वर्तेरन् ॥ १०८ ।।
{{Block center|{{bold|<poem>ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः॥१०९॥</poem>}}}}
{{gap}}ज्येष्ट इति ॥ अकृतविभागो ज्येष्ठो यदि धार्मिको भवति तदानुजानामपि
तदनुयायित्वेन धार्मिकत्वाज्येष्टः कुलं वृद्धि नयति । यद्यधार्मिको भवति तदानु-
जानामपि तदनुयायित्वाज्येष्ठः कुलं नाशयति । तथा गुणवाञ्जयेष्ठो लोके पूज्य-
तमः साधुभिश्चगर्हितो भवति ॥ १०९॥
{{Block center|{{bold|<poem>यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः।
अज्येष्ठतिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ११०॥</poem>}}}}
{{gap}}यो ज्येष्ठ इति ॥ यो ज्येष्ठोऽनुजेषु भ्रातृपु पितृवद्वर्तेत, स पितेव मातेवागह-
पीयो भवति । यः पुनस्तथा न वर्तेत, स मातुलादिबन्धुवदर्चनीयः ॥ ११० ॥
{{Block center|{{bold|<poem>एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया ।
पृथग्विवर्धते धर्मस्तसाद्धा पृथकिया ॥ १११ ॥</poem>}}}}
{{gap}}एवमिति ॥ एवमविभक्ता भ्रातरः सह संवसेयुः । यदिवा धर्मकामनया कृत-
विभागाः पृथग्वसेयुः । यस्मात्पृथगवस्थाने सति पृथक् पृथक् पञ्चमहायज्ञाद्यनु-
ष्ठानधर्मस्तेषां वर्धते, तस्माद्विभागक्रिया धर्मार्था । तथाच बृहस्पतिः-'एकपा-
पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे' ॥११॥
{{Block center|{{bold|<poem>ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
ततोऽध मध्यमस्य स्यात्तुरीयं तु यवीयसः॥ ११२ ॥</poem>}}}}
ज्येष्टस्येति ॥ उड्रियत इत्युद्धारः
ज्येष्टस्याविभक्तसाधारणधनादुद्धृत्य
विंशति-
तमो भागः सर्वव्येभ्यश्च यच्छ्रेष्टं तद्दातव्यम् । मध्यमस्य चत्वारिंशत्तमो भागो<noinclude></noinclude>
ijjty1oh6jna6kumlufni51pon2knsn
418006
418005
2026-08-13T11:44:01Z
Geeta g hegde
6704
418006
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३५८|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude>
{{Block center|{{bold|<poem>यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते ।
स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥ १०७ ॥</poem>}}}}
{{gap}}यस्मिन्निति ॥ यस्मिन् जाते ऋणं शोधयति । येन जातेनामृतत्वं प्राप्नोति ।
तथाच श्रुतिः-'ऋणमस्सिन्समुन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य
पश्येचेज्जीवतो मुखम्' इति । स एव पितुर्धर्मेण हेतुना जातः पुत्रो भवति,
तेनैकेनैव ऋणापनयनाद्युपकारस्य कृतत्वात् । इतरांस्तु कामजान्मुनयो जानन्ति ।
ततश्च सर्वं धनं गृह्णीयादित्यस्यैवायमपि विशेषः ॥ १०७ ॥
{{Block center|{{bold|<poem>पितेव पालयेत्पुत्राज्येष्ठो भ्रातृन्यवीयसः।
पुत्रवच्चापि वर्तेरज्येष्ठे भ्रातरि धर्मतः॥ १०८ ॥</poem>}}}}
{{gap}}रितेवेति ॥ ज्येष्ठो भ्राता विभागाभावेऽनुजान् भ्रातृन्भक्ताच्छादनादिभिः पितेव
बिभृयात् । अनुजाश्च भ्रातरः पुत्रा इव ज्येष्ठे भ्रातरि धर्माय वर्तेरन् ॥ १०८ ।।
{{Block center|{{bold|<poem>ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः॥१०९॥</poem>}}}}
{{gap}}ज्येष्ट इति ॥ अकृतविभागो ज्येष्ठो यदि धार्मिको भवति तदानुजानामपि
तदनुयायित्वेन धार्मिकत्वाज्येष्टः कुलं वृद्धि नयति । यद्यधार्मिको भवति तदानु-
जानामपि तदनुयायित्वाज्येष्ठः कुलं नाशयति । तथा गुणवाञ्जयेष्ठो लोके पूज्य-
तमः साधुभिश्चगर्हितो भवति ॥ १०९॥
{{Block center|{{bold|<poem>यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः।
अज्येष्ठतिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ११०॥</poem>}}}}
{{gap}}यो ज्येष्ठ इति ॥ यो ज्येष्ठोऽनुजेषु भ्रातृपु पितृवद्वर्तेत, स पितेव मातेवागह-
पीयो भवति । यः पुनस्तथा न वर्तेत, स मातुलादिबन्धुवदर्चनीयः ॥ ११० ॥
{{Block center|{{bold|<poem>एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया ।
पृथग्विवर्धते धर्मस्तसाद्धा पृथकिया ॥ १११ ॥</poem>}}}}
{{gap}}एवमिति ॥ एवमविभक्ता भ्रातरः सह संवसेयुः । यदिवा धर्मकामनया कृत-
विभागाः पृथग्वसेयुः । यस्मात्पृथगवस्थाने सति पृथक् पृथक् पञ्चमहायज्ञाद्यनु-
ष्ठानधर्मस्तेषां वर्धते, तस्माद्विभागक्रिया धर्मार्था । तथाच बृहस्पतिः-'एकपा-
पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे' ॥११॥
{{Block center|{{bold|<poem>ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
ततोऽध मध्यमस्य स्यात्तुरीयं तु यवीयसः॥ ११२ ॥</poem>}}}}
{{gap}}ज्येष्टस्येति ॥ उड्रियत इत्युद्धारः ज्येष्टस्याविभक्तसाधारणधनादुद्धृत्य
विंशति- तमो भागः सर्वव्येभ्यश्च यच्छ्रेष्टं तद्दातव्यम् । मध्यमस्य चत्वारिंशत्तमो भागो<noinclude></noinclude>
4zdt7ga354dhbpnijbj13uqqilyrc9f
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९३
104
104839
418007
267873
2026-08-13T11:48:45Z
Geeta g hegde
6704
418007
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।{{gap}}|right=३५९}}</noinclude>
{{gap}}देयः । कनिष्ठस्य पुनरशीतितमो भागो दातव्यः । अवशिष्टं धनं समं कृत्वा विभ-
जनीयम् ॥ ११२॥
{{Block center|{{bold|<poem>ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ।
येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्थान्मध्यमं धनम् ॥ ११३।।</poem>}}}}
{{gap}}ज्येष्ठश्चेति ॥ ज्येष्टकनिष्टौ पूर्वश्लोके यथोक्तमुद्धारं गृह्णीयाताम् । ज्येष्ठकनिष्टव्य-
तिरिक्ता ये मध्यमास्तेषामेवावान्तरज्येष्टकनिष्टतामनपेक्ष्य मध्यमस्योक्तचत्वारिंश-
द्भागः प्रत्येकं दातव्यः । मध्यमानामवान्तरज्येष्ठकनिष्टदेयभागे वैषम्यवारणार्थ-
मिदम् ॥ ११३॥
{{Block center|{{bold|<poem>सर्वेषां धनजातानामाददीताग्र्यमग्रजः।
यच्च सातिशयं किंचिद्दशतश्चाप्नुयाद्वरम् ॥ ११४ ॥</poem>}}}}
{{gap}}सर्वेषामिति ॥ सर्वेषां धनप्रकाराणां मध्याद्यच्छ्रेष्टं धनं, ज्येष्ठः तद्धनं गृह्णी-
यात् । 'सर्वव्याञ्च यद्वरम्' इत्युक्तमनूदितसमुच्चयबोधनाय । यच्चैकमपि प्रकृष्टं
द्रव्यं विद्यते तदपिज्येष्ठ एव गृह्णीयात् । तथा 'दशतः पशूनाम्' इति गोतमस्मरणा-
दृशभ्यो गवादिपशुभ्य एकैकं श्रेष्टं ज्येष्टो लभते । इदं च यदि ज्येष्टो गुणवानितरे
निर्गुणास्तद्विषयं । सर्वेषां समगुणत्वे तु ॥ १४ ॥
{{Block center|{{bold|<poem>उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु ।
यत्किचिदेव देयं तु ज्यायसे मानवर्धनम् ॥ ११५ ॥</poem>}}}}
{{gap}}उद्धार इति ॥ 'दशतश्चानुयाद्वरम्' इति योऽयमुद्धार उक्तः सोऽयमध्ययनादि-
कर्मसमृद्धानां भ्रातॄणां ज्येष्टस्य नास्ति । तत्रापि यत्किंचिदस्य देयमिति। द्रव्यं
पूजावृद्धिकरं ज्येष्ठाय देयम् । एवंर सनगुणेद्वारप्रतिपेधदर्शनानपूर्वत्र गुणो-
कविशेषापेक्षयोद्धारवैषम्यं बोद्धव्यम् ॥ ११५ ॥
{{Block center|{{bold|<poem>एवं समुद्धृतोद्धारे समानंशान्कल्पयेत् ।
उद्धारेऽनुद्धृते त्वेपामियं स्यादंशकल्पना ॥ ११६ ॥</poem>}}}}
{{gap}}एवमिति ॥ एवमुक्तप्रकारेण समुद्धृतविंशद्भागाधिके धने समान्मागान् भ्रा-
तृणां कल्पयेत् । विंशतितमभागादौ पुनरनुद्धृत इयं वक्ष्यमाणभागकल्पना
भवेत् ॥ ११६ ॥
{{Block center|{{bold|<poem>एकाधिकं हरेज्येष्ठः पुत्रोऽध्यर्ध ततोऽनुजः ।
अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥११७॥</poem>}}}}
{{gap}}एकाधिकमिति ॥ एकाधिकमंशं द्वावंशाविति यावत् । ज्येष्टपुत्रो गृह्णीयात् ।
अधिकमर्थं यत्रांशे सार्धमंशं ज्येष्ठादनन्तरजातो गृह्णीयात् । कनिष्ठाः पुनरेकैकमंशं
गृह्णीयुरिति व्यवस्थितो धर्मः । इदं तु ज्येष्ठतदनुजयोर्विद्यादिगुणवत्त्वापेक्षया,
कनिष्टानां च निर्गुणवत्त्वे बोद्धव्यम् । ज्येष्टतदनुजयोरधिकदानदर्शनात् ॥ ११७<noinclude></noinclude>
l8t2kr0sk1w6q7v3vrjtmub27hoajql