विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.17
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
बाष्कलमन्त्रोपनिषत्
0
165546
418103
418101
2026-08-26T12:51:09Z
~2026-39930-13
10591
418103
wikitext
text/x-wiki
॥ अथ बाष्कलमन्त्रोपनिषत् ॥
मेधातिथिं काण्वमिन्द्रो जहार द्या मेषभूयोपगतो विदानः ।
तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १॥
को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति ।
सुशेवमिच्चङ्क्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २॥
नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति ।
तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥
इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसासहिस्तपसा मा विचक्षे ।
स इद्देवो ऋतमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥
कुहेव मावशमितो नयातै कुहेव ते चित्रतमप्रतिष्ठा ।
कुहाचिदेष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥ ५॥
प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा ।
न मामिमे नूनमित्था पथो विदुर्ये मा न यन्ति मिथु चाकशानाः ॥ ६॥
परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः ।
न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥
अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् ।
अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८॥
मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी ।
अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९॥
प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रा अकरोदनीकैः।
को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥ १०॥
को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा ।
रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११॥
विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः ।
अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२॥
अहमु ह प्रवतिं यज्ञियामियां
अहं वेद भुवनस्य नाभिम् ।
आपिः पिता सूरहमस्य विष्वङ्ङहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥
अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् ।
अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४॥
अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् ।
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५॥
अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः ।
अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६॥
अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् ।
अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः प्रजाः ॥ १७॥
अह चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः ।
यो मा वेद निहितं गुहा चित्स इदित्था बोभवीदाशयध्यै ॥ १८॥
अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।
मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९॥
न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः ।
न मेऽनाश्वानुत दाश्वानजग्रभीत्सर्व इन्मामुपयन्ति विश्वतः ॥ २०॥
क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि ।
यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥ २१॥
यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे ।
ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२॥
अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् ।
अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥ २३॥
विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः ।
हंसो विशोको अजरः पुराण ऋतीयमानो अहमस्मि नाम ॥ २४॥
अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः ।
अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥ २५॥
॥ इति बाष्कलमन्त्रोपनिषत् समाप्ता ॥
[[वर्गः:उपनिषदः]][[वर्गः:प्रमुखोपनिषदः]]
aarw3nupaw6w8u4tvwxa9o595z11xe5
तारारहस्यवृत्तिः
0
165547
418104
2026-08-27T11:32:07Z
Shubha
190
{{header | title = तारारहस्यवृत्तिः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> Description: Description by Mark S.G. Dyczkowski: The Tārārahasya, of which this is a commentary, was written in Bengal by Brahmānanda in 1735 śaka era, i.e. 1659 CE. It deals with worship of the goddess Tārā, who... नवीन पृष्ठं निर्मीत अस्ती
418104
wikitext
text/x-wiki
{{header
| title = तारारहस्यवृत्तिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
Description:
Description by Mark S.G. Dyczkowski:
The Tārārahasya, of which this is a commentary, was written in Bengal by Brahmānanda in 1735 śaka era, i.e. 1659 CE. It deals with worship of the goddess Tārā, who is considered to be a form of Kālī, although originally a Buddhist goddess. This manuscript of the Tārārahasyavṛtti appears to be a separate version of the Tārārahasyavṛttikā by gauḍīya (Bengali) Saṅkarācārya, which is already up amongst the etexts of Muktabodha. Although the identity of the two texts is discernable, the differences are so substantial that it warrants separate consideration and comparison of the two.
प्. १अ)
ओं नमः श्रीगुरुगणेशाय नमः |
श्रीभवान्यै नमः |
ऊर्ज्जितानन्दगहनां सर्वदेवस्वरुपिणीं |
पराम्बाग्रुपिणीं वन्दे महानीलसरस्वतीं ||
नीलतन्त्रन्समाज्ञाय सिद्धसारस्वतं परं |
वीरतन्त्रं मत्स्यसूक्तङ्गाधार्वे भैरवी तथा ||
गुरुणाश्च मतं ज्ञात्वा कृता श्रीशंकरेण वैः |
सर्वाम्नायसंपन्नं वै तारारहस्यवृत्तिका ||
सर्वकर्मसुसिद्धार्थं लिख्यते पूजनादिकं |
प्रथमे पटले देव्या नित्यपूजा प्रकाशिता ||
द्वितीये पटले तावद् दीक्षाविधिविशेषतः |
तृतीये तु पुरश्चर्या येन मंत्रत्व लभ्यते ||
प्. १ब्)
नैमित्तिकं चतुर्थे स्यात् पञ्चमे काम्यनिर्णयः |
रहस्य निर्णयः षष्टे कुमारी सप्तमे तथा ||
अष्टमे तु पुरश्चर्या तारायाः परिकीर्तिताः |
नवमे पटले देव्या मंत्राणां परिनिर्णयः ||
दशमे पटले स्तोत्रं फलमेकादशे तथा |
द्वादशे पटले सम्यक् भावना परिनिर्णयः ||
नित्यपूजा प्रयोगस्तु पटले तु त्रयोदशे |
सम्यग् विधानं होमस्य तारायाश्च चतुर्दशे ||
पञ्चदशे तु मंत्राणां वासना तत्व निर्णयः |
इति तारारहस्यं तु सम्यगध्यायनिर्णयः ||
प्. २अ)
अथ ब्राह्मे मुहुर्ते उत्थाय मूलाधार पद्मे तद्द्रित्कोटि करालां
मूलविद्यामयीं कुण्डलणीं ध्यात्वा सुषुम्ना ब्रह्मणा परतेजसि
सङ्गमर्यदमृतधारया लोलैभूताश्चैतन्यमयी पुनमूलाधारमालयेत् |
तथा च श्रुतिः |
प्रकाशमानां प्रथमे प्रयाणे प्रति प्रयानेप्यमृतायमानाः |
अंतः पदव्यामनु सश्चरन्तीमानन्दरूपाममलाप्रपद्ये ||
तदुत्थायावश्यकङ्कुर्यात् |
तदुक्तमत्स्यसूक्ते |
प्. २ब्)
उत्थायचोत्तरे यामे कुण्डलिन्तं डिडा कृतिं |
ध्यात्वा सिद्धिः स्वरो भूत्वामुभागी भवेत् नरः ||
नीलतन्त्रेपि ||
उत्थाय चोत्तरे यामे चिंतयदुग्र तारिणी |
मुलादि ब्रह्मरंध्रान्तं चिसन्तु तनीयसीं ||
मूलमंत्रमयी साक्षादमृतानन्दरूपिणीं |
सूर्यकोटिप्रतीकीशी चन्द्रकोटि सुशीतलां ||
तडित्कोटि समप्रख्या कामानन्दशिखोपरि |
तत्प्रभापटलव्याप्त पाटलीकृत देहवान् ||
प्. ३अ)
सर्वमंगलसम्पन्नः स्नानकर्मसमाचरेत् |
मृत्कूशानपि संगृह्य गत्वा जलान्निकं ततः ||
मलापकर्षणस्नात्वा मंत्रस्नानं समाचरेत् |
विद्यया त्रिणिमज्यैवमाचामेत्पापशान्तयेत् ||
मूलान्ते तर्पयामीति स्वाहान्तं तर्पणन्मतं |
एवं त्रिधा तर्पणं तु सर्वपापक्षयो भवेत् ||
ततः स्नानकाले संप्राप्ते यथा विधि स्नात्वा सन्तर्पणं कृत्वा
मूलविद्यान्तेन श्रीनीलसरस्वती श्री उग्रताराम्वा एकजटाम्वा तर्पयामिति
त्रिःसंतर्पयेत् ||
प्. ३ब्)
कुशान्ते मेढ्रपुष्पचन्दनपुष्पङ्कुशाक्षतं |
प्रस्थाग्राहितामुपात्रे कृत्वा चार्घन्निवेदयेत् ||
मूलान्ते उद्येदादित्य वर्तिन्यै शिवचैतन्य मयै स्वाहा |
इति मनुः |
स्मृतसूर्यार्घप्रज्ञायैवं पूजास्यानमथा चरेत् |
सूर्यमण्डले देवी चिन्तयेत् |
ततो बिल्वाक्षत जवारक्तचंदनवज्रपुष्पसाधिनार्घ्यं निवेद्यतङ्गायत्रा
मूलविद्यया वा |
तदुक्तं |
कालिकातंत्रे |
भगवत्येक जटे विद्महे विकट दन्ते धीमहि तन्नोस्तारा प्रचोदयात् |
ततो हृदि ध्यात्वा |
अष्टोत्तरे शतं जप्त्वा जलस्थानं यायात् |
प्. ४ऽ)
तदुक्तं |
फेत्कारिणि तन्त्रे |
एकलिंगे श्मशाने वा शून्यागारे चतुःपथेः |
तत्रस्थः साधयेद् योगी विद्यात्रिभुवनेश्वरीं ||
तत्रेव |
पञ्चक्रोशान्तरे यत्र लिङ्गान्तरन्न दृश्यते |
तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा ||
चतुस्पथ लक्षण तन्त्रान्तरे |
चतुस्पथं विजानीयाद् यत्रास्ते तारिणी शिला |
तत्र यत्नेन तं तव्यं जप्तव्यं सिद्धिकाक्षिभिः ||
अन्यत्रापि |
उज्जटे पर्वते वापि निर्जने वा चतुष्पथे |
देवागारेथवा शून्ये निर्ज्जने कान्तवेश्मनि ||
इति स्थान |
वीरतन्त्रे |
शून्यागारे श्मशाने यदि जपति जनस्त्वेक लिङ्गे तडागे गङ्गागरभे
गिरौधासुचिविमलमतिः सर्वदा भक्तियुक्तः |
प्. ४ब्)
विद्याश्रीनीलचान्याभुवभजनपति सर्वशास्तार्थ वेत्ता देहान्ते योगि मुख्य
परमशिवपदं ब्रह्म निर्वाणमेति |
एवं यथास्थानमाश्रित्य तत्र पीठं विचिंतयेत् |
तदुक्तङ्गधर्वतंत्रे |
श्मशानन्तत्र सञ्चित्य तत्र कल्पद्रुम स्मरेत् |
तन्मूले मनिपीठश्च नामणिविभूषणं ||
नानालंकारभूषाद्यान् मूनिदेवैश्च मण्डित |
शिवाभिर्बहुमांसास्थि मोदमानाभिरन्ततः ||
प्. ५अ)
चतुर्दिक्षुशवाङ्गानां चिताभस्मस्थि भूषिताः |
तन्मध्ये भावयेद् देवी यथोक्त ध्यानयोगतः ||
इति ध्यात्वा |
ओं वज्रोदके हुं फट् स्वाहा तज्जलमधिष्टाय | ओं ह्रीं स्वाहा इत्यनेन हस्तौ
पादौ प्रक्षाल्य | ओं ह्रीं सुविसुद्धधर्म सर्वपापाणि
मयाशयविकल्पमपनय हूं फट् स्वाहा |
इत्याचम्य |
ओं मणिधरि वज्रिणि सर्ववशंकरि हुं फट् स्वाहेति शिखावंधनः |
रक्ष २ स्वाहेति जलाभिषेकाद्भुमिशोधनं | ओं सर्वविघ्नानुत्सारय हुं फट्
स्वाहा |
इति अक्षतन्प्रक्षिप्य अक्षतक्षेया यानुत्तरं नाना च मुद्रया त्रिविघ्नानुत्सारयेत् |
ओं अपवित्र वज्रभुमे हुं फट् स्वाहेतिं भूमिजलेनाभि मन्त्राजलेन ||
तत्र कश्चल कोमल विस्तरामृद्वासनान्यास्तीर्य | आ आः सुरेखेवजखे हुं फट्
स्वाहेति रक्तचन्दन पुष्पाभ्यां तामन्त्र्यर्च्य स्वस्तिकाद्यासन क्रमेण
तत्रोपविशेत् |
तदुक्तं मत्स्यासूक्ते ||
मृदुकम्बल आसीनो अन्येषु कोमलेषु वा |
विष्टरेषु समासीनः साधयेत् सिद्धिमुत्तमं ||
प्. ६अ)
सङ्ग्रामे पतिवापि व्यादिकमधूद्रकं | षण्मासान्तिः
सितन्प्राप्यचितायाम्वातदन्तिके ||
अस्यायर्थः |
दशमासादद्याक् षण्मासपर्यन्तं यावत् | गर्भच्युतबालकम्विदुः अचूडको
अकृतचूडाकरणः ||
उपनयन समयादद्याक् चूडाकरणाप्राक् कोमलमविधनं एषामभावे
विष्टरे कुशेषु वा |
तदुक्त श्रीक्रमे |
वीरासनमभावे तु मृतासनं शृणु प्रिये |
पञ्चवर्षाभ्यन्तरं यावत् मृतम्बालक चूडकं षण्मासाभ्यान्तरं
यावत् दशमा साच्च पूर्वकम् |
प्. ६ब्)
गर्भयुतम्बालं शृगर्भाष्टमान्पुरःसरं | एतत् कोमल विद्या हविष्टरेषु
कुशेषु वा || तदुक्तं मत्स्यसूक्ते |
कृष्णसारद्वीपि चर्म अचूडकन्तरं तथा |
पीतश्च श्वेतनील च आसनाय प्रकल्पयेत् ||
प्रत तु विष्टरं वाथ अथवा कुण्डली कृतमिति | एवमासनरहस्यमाराध्य
गुरुमुखादवगन्तव्यमिति || ओं मणिधरणि वजिणि महावजिणि महाप्रतिसरे
रक्ष २ मा हुं फट् स्वाहेति वस्त्रन्तिके रक्षाग्रत्थिम्बध्नियात् |
प्. ७अ)
ओं आः हू आ हू स्वाहेति कराभ्यां व्यापक तद्योकाय वाक्चित्त शोधनं |
ओं नमः पुष्पकेकंतुराजार्हते तथा गताय सम्यक् संबुद्धाय पुष्पे पुष्पे
महापुष्पे सुपुष्पे भूषितेषुष्प च यावकीर्णे हुं फट् स्वाहा |
इति पुष्पादिन्मंत्रं मयं कृत्वा सुवर्णादि पीठे
रक्तचन्दनगोरोचनाकुंकुमवज्रपुष्पादिलिप्ने |
ओं आः सुलेखे वज्ररेखे हुं फट् स्वाहेति मन्त्रेण अधोमुख त्रिकोण
गर्भितमष्टदलपद्मं चतुद्वारात्मकं रात्रमुद्धरेत् ||
प्. ७ब्)
तदुक्तञ्च चूडामणौ |
ततः कुलरसेन च पीठन्निर्माय यत्नतः |
अं आः सुरेखे हुं फट् द्वयमेव च ||
मंत्रेनानेन संलिख्ये वसुपत्रन्मनोहरः |
तस्य पद्मस्य पूर्वदले ह्रीं लिखेत् | याम्ये त्रीं लिखेत् | उत्तरे फ लिखेत् | पश्चिमे
ट लिखेत् | त्रिकोण मध्ये हूं लिखेत् | तदुक्तं फेरवीतन्त्रे ||
स योनी चन्दनेनाष्ट यत्र मन्त्रं लिखेत् ततः |
मृदुमासनमासाद्यः मायां पूर्वदले लिखे ||
प्. ८अ)
मध्यबीजं द्वितीये तु चोत्तर पश्चिमे वचः |
मध्यबीजं लिखेन्नार भूतशुद्धिमथाचरेत् ||
तारं हुंकार हुंकारस्य ताराप्रणवंदेने प्रसिद्ध त्वात् |
अथवा उग्रायानीलसरस्वत्या विधाने साध्यतारस्य ||
अथवा उग्रायानीलसरस्वत्या विधाने मध्ये तारस्य विधार केचित् |
मध्य षट्कोणाङ्कित पद्ममिति केचित् ||
तदुक्तं गान्धर्वे ||
षट्कोणानन्तरं पद्मं भूबिम्बद्वितयं पुनः |
तन्मध्ये पूअजयेद् देव्यावाहनम्वच ||
इति बीज लिखने भूपूर्ववत् | तत्रैव विशेषो यदा |
प्. ८ब्)
षट्कोनान्ते लिखेद् बीजं प्रेताक्षं पूर्ववछवं |
सारस्वतार्थिनान्तु विशेष तन्त्रान्तरमुक्तं ||
तदुक्तन्नीलतन्त्रे ||
व्यामे द्वौ रसनार्णकर्णितमचान्द्वन्द्वौ स्फुरत्
केशरवर्गाल्लासितमुछदम्बसुमती गेहेन संवेष्टितं |
ताराधीश्वरवारिवर्णविलसत् द्विक्कोण संशोभितं यन्त्रोमीलतनोः
परन्निगदितं सर्वार्थसिद्धिप्रदं |
एवमेतेषामन्यतमं विरचर्यपुरतो गम्भार्यादि पीठे निधाय पीठमर्चयेत् |
ओं हूं श्मशानायै नमः |
प्. ९अ)
कनक द्रुमाय २ | तन्मूले | ओं शान्त्यै २ | ओं पुष्पै २ | ओं ष्ठौ २ | ओं
मणिपीठाये २ | ओं नानामणिभ्यो नमः | ओं नानालंकारेभ्यो २ |
देवेभ्यो २ | ओं बहुमासास्थिमोदमानशिवाभ्यो २ | ओं
शवमुण्डचिताङ्गारास्थिभ्यो २ | चतुर्द्दिक्षु | ततोष्टदले | ओं लक्ष्मै नम | ओं
सरस्वत्यै २ | ओं रत्यै २ | ओं कान्त्यै २ | ओं पुष्ट्यै २ | ओं तुष्ट्यै २ |
एवमुत्तरान्तरे समभ्यर्च्य | ह्मौ महाप्रेतासनाय नमः | तदुपरिमूले
कल्पयेत् | तदुक्तसिद्धि सारस्वते |
प्. ९ब्)
लक्ष्मीः सरस्वती चैव रती प्रीति तथैव च |
कीर्तिशान्तिश्च पुष्टिश्चतुष्टिरित्यष्टशक्तयः ||
देव्या नीलसरस्वत्याः पीठशय दुरिताः |
तथा वीरतन्त्रे |
तन्मध्ये पूजयेद् देव्यावाहनं त्रावमेव च |
इति पीठपूजा क्रमः | अथ भूतशुद्धि | यथा * * (?)
स्ताय फट् | करौ संसोध्य | तेनैव छोटिकाभिस्तालत्रय दशदिग्बन्धवं
कृत्वा प्राणायाम क्रण अङ्गै हस्तौ कृत्वाहं स इति मन्त्रेण आधारात्
कुण्डलिनी हृदयाज्जीवात्मानं
प्. १०अ)
पश्चतिं शति तत्वानि सुषुम्नावर्मणा परम तेजसि संगमये कुंभकेन
झंकारं नाभौ ध्यात्वा तदुद्भूतेनाग्निना स्वदेहं
विचिन्त्यकारपीठवर्णन् हृदि विचिन्त्य तदुन्भूतेन वायुना तद्भस्म प्रोत्सार्य
हूंकारं श्वेतवर्णं शिरशि विचिन्त्य तदूद्भूतेनाम्बुना तदस्थि प्लाविनं
कृत्वा समस्तमपगतमलं शरीर मामाप्लावयेत् | ततः आत्मानमपं
गंतव्यं तन्निर्मलं देवता भेदेन ध्यायेत् |
प्. १०ब्)
तस्मिं विश्वव्यापके वारिणी आःकाराद्रक्तपंकजन्ध्यात्वा तदुपरिदाङ्कारात्
शुत्रयंपजविचिन्त्य तदुपरि नीरसन्निभं हूंकारं त्वा ह्रीं बीजभूषितो
कर्णिकाध्याये |
आ हूं क्रौ स्वाहेत्येकादशवारजपन् प्रतिष्टाप्यधायेत् |
तदुक्तं फेत्कारीये |
मायान्नाभौ रक्तवर्णान् ध्यात्वा तज्जात वह्निना |
शुस्कं पापान्मकं देहं दग्धं संचिंतयेत् ततः ||
त्रांकारं हृदिपीताहन्तदुद्भूतेन वायुना |
भस्मप्रोत्सारितं कृत्वा ललाटे चिन्तयेत् ततः ||
प्. ११अ)
कुर्वन्तुषारवर्णाभन्तदुद्भूता मृतेन च |
तदस्थि प्लावितं कृत्वा तदात्मानं विचिन्तयेत् ||
सर्वव्यथाविनिर्मुक्तन्निर्मलं देवतात्मकं |
विश्वव्यापकतो यान्तं श्रोताकोद्भवकर्णिकं ||
तदुपरिनीलसन्निभं हूंकारं ध्यात्वा हूंकर बीजाद्भूषितां कर्तृकान्
ध्यायेत् |
तदुपरि खर्वामभिनवजलधरनीलां लम्बोदरी
व्याघ्रचर्मावृतकटीपीनोन्तनययोधरारक्तवर्तुल त्रिनेत्रां
ललजिह्वाद्रष्टाकरालवदनां पिंगौग्रैक जटांजूटान्तदुपरिपार्श्वद्वये
लम्बमान
प्. ११ब्)
नीलोत्पलमालां अतिनीलनागवर्द्धजटां ललाटश्वेतास्थि पट्टिका संयुक्त
कपालपंचत्रयाञ्च वा कुसुमसंकाशन्तक्षकनागकृतकर्णकुण्डलां
अतिशुभ्रनागकृतहारान्दुर्वादलश्यामनागकृत##-
सरक्तमांसखण्डमण्डितमुष्टि
विनिविष्टजटाजूटांग्रसंलग्नोग्रखड्गविभूषितकरां रक्तनाल किञ्चिद्
विकसरनीलोत्पलकरां अधस्ताद् दक्षिणकरे बीजविभूषित
प्. १२अ)
वृत्तकर्तृकभूषितकराम्बा मे त्रिजगज्जाड्य समेतशुत्रमंडितकरां
भूजतुष्टे धूम्राभनागकृत केयूरां कनकाभनागकृतकङ्कणां
शवारूढान्निर्भरयन्त्रिनाभिप्रायेनशव हृदयसंकुचिताद् दक्षिण
चरणाशवपादद्वयस्थित प्रसारितवामचरणां कुन्दाभनागकृतकटि
सुत्रां |
इषद्रक्त नागकृटनूपुरां सद्यहतगलद्रुधिरधारयान्योन्य
केशग्रंत्थिता पादपद्म द्वय लम्बितपंचाशचतुष्टय नृमुण्डमालां
प्. १२ब्)
ज्वलदनरचितामध्यस्थान् द्वीपि चर्मो कृतोदरीयं वस्त्रायोषिदशेषोलंकार
भूषितां मौलावक्षोभ्यशोभितां सावेशस्मेराननां एवं
रूपमात्मानन्ध्यायेदिति भूतसुद्धिः |
तदुक्तं रुद्रयामले |
तस्यागुणरूपं यहृत्स्वकीयमिव भावयेत् |
नीलतन्त्रेपि |
भूतशुद्धिविधायाथ शून्यम्विश्वम्विचिन्तयेत् |
निल्लेपनिर्गुणं शुद्धमात्मानं तारिणी मयं ||
अन्तरिक्षे ततो ध्यायेदाकाराद्रक्त पंकजं |
भूयो तस्योपरिध्यायत् हूंकारन्निलसन्निभं ||
प्. १३अ)
ततो हुंकारबीजात् तु कर्त्तृकाबीजभूषितां |
शवोपरिगतान्ध्यायेदात्मानं तारिणी मयं ||
ध्यानप्रकारं |
प्रत्यालीढपदां घोरान्मुण्डमालाम्विभूषिताम् |
खर्वालम्बोदरीभीमां व्याघ्रचर्मावृतां कटौ ||
नवयोवनसंपन्नां पञ्चमुद्रा विभूषिताम् |
सुमुखञ्चतुरश्रञ्च वृत्तगोमुखमेव च ||
योनिमुद्रेति विख्याता मुद्रापञ्च नमस्कृतैः |
चतुर्भुजां ललज्जिह्वान्महाभीमाम्वर प्रदां ||
प्. १३ब्)
खड्गकर्तृ समायुक्तां सव्येतर भुजद्वयं |
कपालोत्पल संयुक्त सव्यपाणि युगान्वितां ||
पिंगोग्रेकजटाध्याये मौलावक्षोभ्य भूषितां |
पञ्चभूषितामिति ललाटे श्वेतास्थि पट्टिका चतुष्टयान्वितकपालपश्च
तयान्वितामिति मन्त्रसारान्तर्गत शिवदीक्षाटिकायां |
तेन सुमुखमित्यादि नमस्कृतावित्ये ननु कपाट एवन्त्री शंकराचार्येण
भगवत्त्याप्युक्तः |
विचित्रास्थिकपालां ललाटे च पञ्चान्वितन्धरन्तीमिति मौलावक्षोभ्य
विभूषितामिति |
प्. १४अ)
मौलो मस्तके अक्षोभ्य अविनासि चन्द्रकला इति टीकाकारः |
ततः चन्द्रावतंसामिनि सर्वध्यानेनुक्तत्वात् ||
वस्तुतस्तु |
देवीमन्त्रमादाय गुरुरभ्यो वासुकी नागरूपः वटुरक्षोभ्य तिष्टतिति जूट
इत्यपि |
इति मत्स्यसूक्त वचन श्रवणात् |
अत एवास्मिन्नाम्नाय | अक्षोभ्य ऋषिरुक्तः | भावचूडामणौ |
अक्षोभ्यनाग अक्षोभ्यदेविमूर्द्धन्यस्त्रिमूर्तिन्नागरूपधृक् |
इति सर्वार्थसिद्ध्यै ध्यायेत् | ध्यानानुकूलश्रुतिर्यथा ||
प्. १४ब्)
प्रतिस्य शुन्यालयथोपविश्य अचूडकादौ शवविष्टरादिषु |
उत्सार्यविघ्नानर्थचैकमानसाविचिन्तयेद् विश्वमथा चिदात्मकं |
विचिन्त्यबीजैरथभूतशुद्धिं विधाय तत्रैव नभो गतेन | उदग्र हूंकार
ककर्तृकेन स्मरेत् स्वमात्मामपितारिर्णिमयम्बिरुद्धवाक्यार्थ स
वह्निमण्डलेन वांबुदा भाङ्गुणसंनतोदरीं | अतीव खर्वानवयौवन
स्थितामधस्थ शार्दुल कृत बन्धजंघिलो |
प्. १५अ)
अनेकमाहात्मशवोपरिस्थितां शवोर्द्धमालीढतयादपंकजां |
विशीर्णवर्णामृशिरश्रजोद्भटान्त्रयीविवर्तारुणलोचनत्रयां ||
अभेदपिंगैकजटाविराजिताम्विभूषणास्थि नृकपालभीषणां |
महाष्टसिद्धि प्रकटा हि भूषणामट्टाट्टहासै जगतामभितिदा ||
जटा अनन्तः श्रवणौ च तक्षकौ महादि पद्मो हृदिहारभूषणां |
तथैव कर्कोटकृतोपवीतिकां सुमेखलायामथ देव वाशुकिं ||
स शंखपाले न च ककणो गतेः पदेषु पद्मः किलनूपुरे श्रियं |
उजेषुनागः कुलिकोङ्गदो मतो भुजोर्द्धमालामनुजास्थिभिर्मताः ||
प्. १५ब्)
शितञ्च रक्तो धवलश्च मेचकस्तथैव पीताप्यशितञ्च पाण्डुव |
भुजङ्गमाला इह वर्णजातयो भवंति सर्वे मणिभिर्ज्वलम्बिता ||
कपालकर्तृग्रन्थितोग्रमूर्द्धजां समानमन्दीवरकान्तिमालिकां |
विकोषखड्गशततश्च दक्षिणे स्वपौरुषे पैदेधतीं भुजैः सदा ||
पदाब्जद्रष्टा द्वय पंचमुद्रयाविराजमानामसितोत्पलश्रजा |
अचिन्तयेन्ता च कवित्वकाणिं मनोगतार्थञ्च जत्मुतारिणीं ||
प्. १६अ)
इति श्रुतय |
अथ श्रीशङ्करभगवत्पूज्यपादमतन्ध्यायेत् |
श्रीनीलसारदायै नमः |
ज्वलत्यावक ज्वालमालाति भास्वच्चितामध्यसंस्थां सुपुष्टां सुखर्वां |
शवम्वामपादेन कण्ठे निपीडा स्थितान् दक्षिणेनांघ्रिणान्निपीड्यं || १ ||
बृहल्लम्बमानोदरी मेघमर्णं सुमुन्तृगपीनस्तनाभोगरम्यां |
जवारागाञ्ज प्रवृत्त त्रिनेत्रां ललजिह्वया द्रंष्ट्रयाभीषणास्यां || २ ||
प्. १६ब्)
लसद्वीपि चर्मावृताङ्गास्मितास्यां जटाजूटमध्ये स्थितेन्दीवराङ्गी |
शिरोदेशभास्वत्पिशङ्गाति सर्प्याजटाजूटमध्यस्थिताक्षोभ्यमूर्क्तिम् || ३ ||
मिथः केशवंद्धाशिरछिन्नसम्यक् गलल्लोहितान्मानवीमुण्डमालां |
दधानानृपञ्चाशदखेन संख्याशिरछिन्नमुण्डावली निर्मिताङ्गी || ४ ||
सदोद्यन्नृमांसन्कराधार्य सव्यस्फुरत्यानिनाधारयंतीन्महासिं |
करे वाम इषत्स्युरद्रक्तनालस्फुरन्नीलयं केरुहन्धारयंती || ५ ||
प्. १७अ)
करे सव्य उच्चैरधस्ताद्दधानां सिताङ्कर्तृकाम्वामपाणौ कपालां |
जगत्मूर्तिं संसारजाड्याति पूर्णङ्करे कर्तृकाधारया खण्डयन्ती || ६ ||
वनाभा हि बद्धं जटाजूटमूच्चैर्जवारागनागोल्लसत्कुण्डलाश्च |
लसद्धुमरोविर्महानागकाय स्फुरच्चारुकेयुरसोभाभिरामां || ७ ||
सुवर्णाभनागोल्लसत्कंकणेन स्फरन्नीलसत्स्वेतनागभिरामां |
शरीरे च दुर्वादलस्यामनागैः कृतश्चारु यज्ञोपवीतन्दधाना || ८ ||
दधानां च कुन्दाभ नागेन सम्यक् कृतश्चारु कोटेय सूत्रं पवित्र |
प्. १७ब्)
महापाटालोभेन नागेन वृत्ताम्विभूषणाश्च पादद्वये सदधानां || ९ ||
विचित्रास्थिमालाङ्कपालं करालं ललाटे च पश्चान्वितन्धारयन्ती |
चिरश्चिन्तयामीदृशांश्चारुरूपां समेयामदोषामतर्क्यामपारां || १० ||
मुरश्रेणिमौरिप्रभारंजिताघ्रिंनताशेषदोषापदामिष्टदात्रीं |
यदीय प्रसादादीदम्विश्वजातां यशः प्राप्नुयान्मोदते सास्वतीति || ११ ||
सदैमंस्तवं यः पठेद् देकचित्तो वसस्तस्य लोके भवेदत्रनूनं |
प्. १८अ)
न दारिद्र्यपापै न वा दुर्मतिः स्याल्लभेतापि मोक्षन्तथा धर्मकामो || १२ ||
एते ध्यान भेदादकजटाविद्यान् सुन्दरतया तत्तत्प्रकरण दर्शनत् |
इति श्रीशंकराचार्य विरचितो देव्याभुजङ्गप्रयातध्यानभेदः |
एवं भूतमात्मानं ध्यात्वा भूतशुद्धिः |
अथ स्ववामभागे त्रिकोणसुवर्त्तुल चतुरश्रमण्डलं कृत्वा तत्र साधारं
कपालादि पात्रन्निधाय तदुक्त कपालं स्फुटंमत्र सिद्धिजनक इत्यादि
तन्त्रराजवचनात् |
प्. १८ब्)
तं मूल मन्त्रेण विमलजलेनापूर्य बिल्वपत्र रक्तचन्दन वज्रपुष्पाक्षतादि
निक्षिप्यार्घ्यास्य अंगयादिषु मध्ये दिक्षु षडंगादि विन्यस्य ततः |
दशधामूलविद्यं जप्त्वा तेजो मयेन तज्जप्तेन जलेन सर्वविद्यामयं
कृत्वार्घ्यम्विप्राणायामादिकं कुर्यात् |
तदुक्तं फेत्कारिण्यां |
भूतशुद्धिम्विधायाथ अर्घ्यादिस्थापनश्चरेत् |
प्राणायाम ततः कुर्याद् ऋष्यादि न्यासमाचरेत् ||
न्यासौकरांगकौ कृत्वा आत्मानन्तारिणीं स्मरेत् |
प्. १९अ)
ततो वामनासापुटे मूलविद्यया चतुर्वालं जपन् वामनासापुटेन
वायुमार्पुर्य तस्यैव षोडशवारं जपन् मध्यनाड्यां कुंभयित्वा
बालाष्टक जयेन दक्षिणनासापुठे रेचयेत् | इत्यशक्तौ ||
शक्तसु षोडशचतुःषष्टिद्वात्रिंशत्संख्याया कुर्यात् | शिरसि |
अक्षोभ्य ऋषये नमः | मुखे वृहटिछन्दसे नमः | हृदि एकजटाये
देवताये नमः | हूं बीजाय नमः | गुह्ये शेषमुच्चार्यकीलकाये नमः |
पुनस्तथैव च | मम हुत कवित्वा पांडित्यादि सिद्ध्यर्थे विनियोगः |
प्. १९ब्)
नीलतन्त्रे |
अक्षोत्य ऋषिरेतस्य बृहती छन्द * * रितं |
नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ||
हूंकारबीजमन्त्र शक्तिः स्याच्चतुर्वर्गाफलप्रदं |
करांग न्यासौ कुर्यात् | यतः | ह्रां अखिलवाग्रूपिण्यै नमः | अंगुष्टये |
ह्रीं अखण्डवाग्रूपिण्यै नमः | तर्जन्यौः | हूं ब्रह्मवाग्रूपिण्यै नमः |
मध्यमयोः | ह्रैं विष्णुवाग्रूपिण्यै नमः | अनामयोः | ह्रौं
रद्रवाग्रूपिण्यै नमः | कनिष्टयोः | हूः सर्वग्रूपिण्यै नमः |
प्. २०अ)
करतल पृष्टयोः | इति करांग न्यासो विधाय | पुनः | ह्रां अखिलवाग्रूपिण्यै
नमः | मध्यमयोः | हृदयाय नमः | इति तर्जनीमध्यमानामिकाभिः |
हृदये | ह्रीं अखण्डवाग्रूपिण्यै नमः शिरसे स्वाहा | इति तर्जनी
मध्यमाभ्यां शिरसे | हूं ब्रह्मवाग्रूपिण्यै नमः | शिखायै वषट् |
इत्यधोङ्गुष्टयोः | शिखायां | ह्रैं विजटे अस्त्राय फट् | इति
तर्जनीमध्यमाभ्यां | ऊर्द्धोद्धतारत्रयछोतिकाभिर्देशदिग्वंधनं
कार्यं | एवं षडंगविन्यस्य ब्रह्माजलि विरच्य आत्माभेदेन क्षणं ||
प्. २०ब्)
ध्याये | यथा |
प्रत्यालीढ पदार्पितांघ्रिण च हृतघोराट्टहासाय
खद्गेन्दावरकतृखर्पस्तुता हूंकारबीजोद्भवां |
खर्वानीलविशालपिंगलजटाजूटोग्रनाग्रैर्युताजाड्यं न्यस्य कपालके
त्रीजगतां हं उग्रतारा स्वयं |
तत्करकलितदुर्वाक्षत रक्तं चन्दनाक्षताद्दिमिलित दिनकरे
किरणरुणकुसुमांजलौमातृकामन्तुध्यात्वा हृदयान्मूलमन्त्र तेजो सयी
शुद्धज्ञान चैतन्य
प्. २१अ)
मयीं तां षट्चक्रन्नेदक्रमेण शिरः स्थितसहस्रदलकमलकर्णिकान्त गत
परमशिवन्प्रापयित्वा समभिहारेण तदमृतांबुधौ विश्राम्य तदमृत
लोलाभूतामानन्दमचीन्ता प्रवहं चासापुटेनानीय कल्पित मूर्त्तौ
समावाहयेत् | देवेशि भक्ति सुलभे | परिवारसमन्विते |
यावत् त्वा पूजयिष्यामि तावत् त्वं सुस्थिरा भव |
एकजटे इहावह २ इत्यञ्जलि स्थापनेन दर्शयेत् ||
इह तिष्ट २ इति सयवाध्यै मुखः | इति सन्निधे हि | इत्यङ्गुष्टमुष्टिभ्यां
प्. २१ब्)
इह सन्निरुध्यस्य | सर्वांगुष्टभर्भिनीम्ष्टिभ्यां | ततः आदे न्यङ्गे खड्ग
विन्यसेत् |
ओं आं ह्रीं क्रों हूं स्वाहेति प्राणप्रतिष्ठा कृत्वा | श्रीमदेकजटे
वज्रपुष्पं न प्रतिछ हूं फट् स्वाहेत्यनेन पञ्चोपचारैरर्चयेत् | ततो
योनिमुद्रां प्रदर्शयेत् | आग्नेर्यं | ह्रां एकजटायै हृदयायै नमः |
ऐशान्या | ततो अं अ कं खं गं घं पुनस्ततः | त्याक्ता च दक्षिणमूजं
स्पृसेत् साधक सत्तमः | ङं चं छं जं सुमुच्चार्य झं ञं टं
ठं डं ढं तथा इति वाम भुजे न्यस्य
प्. २२अ)
णं तं थं दं पुनःस्तरैत् | धं नं पं फं बं भं इति दक्षिणे
जंघके न्यसेत् | मं यं रं लं शं षं सं हं क्षं इति वामके | इति
व्याध्य प्रविन्यश्य मूलविद्यामुच्चरेत् |
सप्तधाव्यापकङ्कुर्यात् येन देवी मयो भवेत् |
ततः पूर्वोक्तं यधेष्टध्यात्वा कलकलितदुर्वाक्षतवज्रपुष्पादि मिलित दिनकर
किरण कुसुमाञ्जलौ मातृकामन्त्र ध्यात्वा हृदयान्मूलमन्त्र तेजोमयीं
शुद्धज्ञान चैतन्य रूपतां षट्चक्रभेदक्रमेण शिरोवस्थित सहश्रदल
प्. २२ब्)
कमलान्तर्गतं परमशिवन् प्रापयित्वा क्रियासमभिहारेण तदमृतावुधौ
विश्राम्य तदमृतलोलीभूतामानन्द चैतन्यमयीम्वहं नासापूटेनानीय
कल्पितमूर्त्तौ समावाहयेत् |
देवेशि भक्तिसुरभे परिवार समन्विते |
यावत् त्वा पूजयिष्यामि तावत्वं सुस्थिरो भव ||
श्रीमद्देक जटे इहावह २ इत्यंजलिं स्थापने दर्श | इह तिष्ट इत्यधो मुख इह
सन्निधे हि | इत्यंगुष्टमुष्टिकाभ्यां | इह सन्निरुद्ध स्व २
सर्वाङ्गुष्टगर्भिणी | तत आत्मवद् देव्यंगे
प्. २३अ)
षडङ्गानि विन्यसेत् | आं ह्रीं स्वाहा इति प्राणप्रतिस्थाप्य मूल विद्या यान्ते
श्रीमद्देकजटे वज्रपुष्प प्रतिछ हूं फट् स्वाहा |
इत्यनेन पाद्यादिभिः षोडशोपचारैरर्चयेत् |
तदुक्तं फेत्कालितन्त्रे |
आवाह्य स्थापयित्वा तु ध्यात्वैव पूजयेतत् |
श्रीमद्देक जटे वज्र पुष्पन्प्रतीछमित्यपि ||
मूलेनाग्नि प्रियान्तेन सतालेन यजेत् पुन |
नीलतन्त्रे |
सर्वमन्त्र युत कृत्वा देवतायै निवेदयेत् |
अभावे वज्रपुष्पस्य स्मरणात् फलभाग् भवेत् ||
प्. २३ब्)
महातंत्रे |
मन्त्रनीलसरस्वत्यां पाद्यार्घ्यार्चामनीयस्नानवसनाभरणानि च
गंधपुष्पधूपदीपनैवेद्याचमनन्ततः |
ताम्बुलमर्चनास्तोत्रं तर्पणंञ्च नमस्कृया |
प्रयोजयेदर्चनायामुपचारास्तु षोडश ||
तदुक्तफेत्कालिण्यं |
षडङ्गमर्चयेद् देव्या देहे वा केशरेषु वा |
अस्मिन्नेव समये देव्या वायव्यादिशानान्तं गुरुपक्तिमर्चयेत् | तदशक्तौ |
गुरुत्रयान् | अथवा ऋषिमानं |
प्. २४अ)
तदुक्तम्भावचूडामणौ |
श्री ईश्वर उवाच |
मातद्देवि महामाये बन्धमोक्ष प्रवर्तिनी |
इदानी श्रोतुमिच्छामि गुरुक्रममनुत्तमं ||
श्रीदेव्युवाच ||
गुरु क्रमस्तु बहुधा मंत्रगौरवविस्तरात् |
सुगंधिश्वेतलोहित्य कुसुमैरर्चये सदा ||
अथवा गंधायो नैवेद्याः पूजापंचोपचारिका |
तत्र पुष्प | नाम्नि यथा | तदुक्तमत्स्य सूक्ते |
सुगंधिश्वेतलोहित्य कुसुमैरर्चयेत् सदा |
बिल्वमरुवकाद्यैश्च तुलशी वर्जतैः शुभैः ||
प्. २४ब्)
ओद्रपुष्पैर्विशेषेण वज्रप्ष्पणसिंत्रितं |
सर्वपुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा इति ||
अथवा तदुक्तं मंत्रचूडामणौ |
अर्घदत्त्वाज्जवापुष्पं दापयेत् मन्त्रमुच्चरेत् |
वज्रपुष्पं प्रतीछेति सम्बोधन पदान्वितमिति ||
नैवेद्यश्च यथामत्स्यसूक्ते |
पायसं कृशरं दद्यात् सर्करागुडसंयुतं |
गव्यन्दधिमधुमिश्रं तथान्तानि निवेदयेत् ||
शांलमत्स्यश्च पाटीनं गोधिकामां समुत्तमं |
अत्र च मधुना युक्तं यधा दद्याच्च मंत्रवित् ||
प्. २५अ)
ततो योनि मुद्रांन्प्रदर्श्याज्ञाप्रथ्यपरिवारमर्चयेत् |
यथा केशराग्नीसासुरवायुषुमध्ये दिक्षु च |
देव्यास्तु तदङ्गे वा षडङ्गमर्चन्येत् ||
पूर्वादि दिग्नियमस्तु |
पूज्यपूजकयोर्मध्य प्राचीतिकिर्त्यते बुधैः |
तदक्षिणं दक्षिणं स्यादुत्तरं चोत्तरंन्मतं ||
पृष्ठस्तु पश्चिमन्प्रोक्तं सर्वत्रैवन्प्रपूज्य च |
ह्रां अखिलवाग्रूपिण्यै हृदयाये नमः ||
एक जटायै नमः |
शिरसे स्वाहेति क्रमेण वामानसोल्लसे |
गुरुक्रमन्देवं लयमगौ भविष्यति ||
प्. २५ब्)
नेष्टमन्त्रमार्गो विघनेन तादृक् सिद्धिगोचरः |
गुरुणां शिष्यभूतानां स्त्रिचेत् सन्तति क्रमः ||
तत्र मन्त्राश्च विद्याश्च निफलानात्र संशयः |
उनविंशति पुरुषान्वापी नवसप्तत्रयोयि वा ||
न ज्ञात्वा गुरुवंशानां शिष्य चेत् नष्ट संतति |
स्ववंशादधिकं ज्ञेयं गुरुवंशं शुभाशुभं ||
जनकादधिकं ज्ञेयं मन्त्रदस्व महेश्वरः |
तस्माद् यत्नेन देवेशि संछेपाच्छृणु पार्वती ||
शृणुतारागुन्वक्ष दृष्टादष्टफलप्रदान् |
प्. २६अ)
उर्द्ध्वकेशो व्योमकेशो नीलकेशो वृषध्वजः |
दिव्यौघा सिद्ध दाह्यते सिद्धोघान् शृणु तत्वतः ||
वशिष्टकुर्मनाथश्च मीननाथो महेश्वरः |
हरिनाथो मानवौघान् वक्ष्यामि गुरुता शृणु ||
तारावती भानुमती जयाविद्या मनोहरी |
मुखानन्द परानन्द पारिजातः कुलेश्वराः ||
विरुपाक्ष भैरवी च कथितन्तारिणी कुलं |
सिद्धौघामानवोघे च दिव्यौघ परमेश्वरी ||
अक्षोभ्यः सर्वमूर्द्धन्यं स्त्रिमूर्तिनागरूपधृक् |
आनन्दनाथ सब्दान्ता गुरवे सर्व सिद्धिदाः ||
प्. २६ब्)
स्त्रियोपि गुरुरूपाश्च देव्याना परिकीर्तिता |
अथवा सर्वशास्त्रेषु गुरव सर्वसूचिताः ||
कुलचूडामण्यौ देवः गुरुन् शृणु महेश्वरः |
येषु येषु च मंत्रेषु ये ये ऋषिगणा स्मृताः ||
ते ते पूज्या सपर्यादौ संक्षेपां गदितं मया |
अशक्तानाश्च संक्षेपाङ्गुर्वर्चनं यथा भवेत् ||
तथ तत्रैवोक्तं ||
आज्ञातगुरुनाम्ना वै गुरु त्रितयमर्चयेत् |
चतुष्टयम्वासंवाचो न च कर्या ततः परं ||
अथ प्रकारान्तरं
प्. २७अ)
यथा तदप्युक्तन्तारार्णवे | परसादि गुरुणां निर्णयोः | यथा
आदौ सर्वत्र देवेशः मन्त्रदः परमा गुरुः |
परापर गुरुस्त्वं हि परमेष्टिरहं स्वतः ||
सर्वमन्त्रेषु विद्याषु स्वयन् प्रकृतिरूपिणी |
गुरुपरगुरुं चैव परापर गुरुन्ततः ||
परमेष्टि गुरुं चैव कथिता गुरवस्ततः | इति श्रीगुरु निर्णयः |
अक्षोभ्यवज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
तदुक्तं फेत्कारिण्यं |
वज्रपुष्पप्रतीछ हूं फट् स्वाहा | इति मन्त्रतः |
प्. २७ब्)
एतत् मन्त्रे नाम सात्रं बिल्व चैव न संशयः |
अनेन मनुना सर्वान् परिवार यथार्चयेत् ||
ओं शंपाण्डुरवज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
ओं पद्मनाभवज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
ओं अमिताभ वज्र पुष्पन्प्रतीछ हूं फट् स्वाहा |
ओं मामक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा |
ओं मामक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा |
ओं पाण्डव वज्र पुष्पं प्रतीछ हूं फट् स्वाहा |
ओं तारे वज्र पुष्पं प्रतीछ हूं फट् स्वाहा | इति |
पूर्वादिवारचतुष्टये |
प्. २८अ)
ओं पद्मान्तक वज्र पुष्पं प्रतिछ हूं फट् स्वाहा |
ओं यमान्तक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा |
ओं विघ्नान्तक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा |
ओं नरान्तक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा |
तदुक्तं फेत्कालिये |
ओं अक्षोभ्य वज्रपुष्पादौ तारिणीं मूर्द्धि पूजयेत् |
तथा वै लोचनं शंखं पाण्डरं पद्मनाभकं ||
अमिताभं यजेत् मन्त्री दिक्षु पूर्वादि चतुष्टये |
नामकं मामकश्चैव पाण्डरन्तरया सह ||
प्. २८ब्)
ब्रह्मादिषु चतुःकोणे मन्त्रै स्वै स्वै क्रमाद् यजेत् |
द्वारे पूवादितः पद्मान्तकश्चापि यमान्तकं ||
विघ्नान्तकं समभ्यर्च्य पूजयेत् नरकान्तकं |
इति संपूघनित्यहोमं कुर्यात् | सोम तुजगावल्ल्यां |
नाजप्तः सिद्ध्यते मंत्रो ना हूं तश्च बलप्रदः |
ना पूज्यो प्राप्यते काम्यन् तस्मान्त्रित्तयमाचरेत् ||
पूजाया लभते पूजां जपात् सिद्धि न संशयः |
विभूतिश्चाग्नि कार्येन सर्वसिद्धिश्च विन्दति ||
नीलतन्त्रेपि |
प्. २९अ)
नित्यहोमं प्रवक्षामि सर्वार्थं येन विन्दति |
सपर्या सम्यगा साद्य बलिः पूर्वश्चरेत् विधिः ||
ततो जपन्तर्पणश्च चरेत् साधकमुत्तमः |
वलिवैश्वादिकञ्चापि ब्राह्मणसमुपाचरेत् ||
विधिवदग्निमानीयः क्रव्यादेभ्यो नमोनमः |
क्रव्यादांशं परित्यज्य ततोग्नि साधयेत् सुधी ||
ततोमूलंमुच्चार्य कुण्डे वा स्थण्डिलेपि वा |
भूमौ वासस्तरे वह्नि व्याहृति तृतयेन तुः ||
आहुति त्रयमुत्क्षिप्य षडंगहनं ततः |
ततो देवी समावाह्य मूलमंत्रेण षोडशः ||
प्. २९ब्)
हुत्वास्तुत्वा विसृजे बिन्दु मण्डलं |
ततः स्ववामे त्रिकोणवृत्तचतुरस्रमंडलं कृत्वा पुष्पै समभ्यर्च तत्र
विहित बलि द्रव्यभरितं पात्रन्निधाय अंगुष्टानामिकाभ्यां स्पृष्ट्वा |
ओं ह्रीं एकजटायै महायक्षाधियायै उपनीत वलीं गृह्न २ गृह्नापय २
मम शान्तिं कुरु २ परविद्यामाकृष्य क्रुट् २ छिंन्ध २ ह्री स्वाहा | इति त्रिवार
पठित्वा बलि दद्यात् | रहस्य मालया यथाशक्तिं जपेत् | निगदेन उपांशुना
वामानसे वा यथा ||
प्. ३०अ)
शंख्य सहश्रशत अष्टाधिकं जपेत् | जपलक्षण विमला तन्त्रे यथा |
मनः सहरणं शौच मौनं मंत्रानुचिन्तनं |
अव्यग्रत्वमनिर्दश्य जयाः संपत्ति हेतवेः ||
मन्त्रमुच्चारयेद् वाचा निगदः सजयः स्मृतः |
शनैरुच्चारयन्मन्त्रमीषदोष्टं प्रचारयेत् ||
किञ्चिछ्रवयोग्यं स्यादुपांशुः स्याछतगुणः सहसौ मानसो जपः |
जपरहस्यं यथा |
मूलाधारस्वधिस्थान मणिपूरकेषु तडित्कोटिक तारां बीजव्याप्तिं विभाव्य
तथैव फत्कारस्य हृदये |
प्. ३०ब्)
तथोक्तं |
नारां षट्पद्यां | फत्कारं हृदये ध्यायेत् | तदुक्तं नीलतन्त्रे |
मंत्रध्यानं प्रवक्ष्यामि जपात् सर्वज्ञतां भवेत् |
मन्त्रध्यानान् महेशानि सिद्ध्यन्ते मन्त्रजातयः ||
मूलचक्रेपहृल्लेषा सूर्यकोटिसमप्रभां |
मूलादि ब्रह्मरध्रान्तं सर्वाम्विद्या विभावयेत् ||
सूर्यकोटी प्रतीकाशा योगिभिर्दुषपूर्विकां |
अथवा पूर्णचन्द्राभं कूर्चमूर्द्ध्नि सुधा स्मृत्रां ||
प्. ३१अ)
अथवा सर्वविद्यानां जिह्वायान् दीपरूपिणीं |
विभाव्य तत्प्रभापटलै जिह्वामपि दीपरूपाम्विभाव्यजेयेत् ||
तदुक्तं फेत्कारीये |
जिह्वायांनेसनादेवमूकोपि सुकविर्भवेदिति ||
नित्य पूजा जपनिर्णयस्तु ||
सहस्रैकं जपेत् मन्त्रं शनं दिन जन्तु वा |
विंशत्या वा जपेत् मन्त्रं मतो न्यूनं न पूज्यते ||
ततश्च |
गुह्यातिगुह्यगोप्तीत्वं गृहानस्मत्कृतं जपं |
सिद्धिर्भवतु मे देवि त्वत् प्रशादा त्वयि स्थिते ||
इत्यार्घ्योदकाज्जलकुसुमैर्देव्या वामहस्ते तेजो मयं जपं समर्पयेति |
प्. ३१ब्)
विशेषफलकाक्षाभिःरयं क्रमो निशायामा चरणीयः |
तदुक्तं फेत्कारिये |
बलिपूजादिकं यत्नां निशायां क्रियते सदा |
तत्तदक्षयतां याति तारादेव्याः प्रसादतः ||
अर्द्धरात्रात्परं यच्च मुहुर्तद्वयमेव च |
सामाहारात्रिरुद्दिष्टानिसा सापि प्रकीर्तिता ||
मायातन्त्रे | चन्द्रचूडामणौ च |
रात्रौ प्रयतनश्चैव रात्रौ च शक्ति पूजनं |
न करोति कथं देव साधकः कौलिको भवेत् ||
प्. ३२अ)
ततः प्रदक्षिणीं कृत्वत् स्तुत्वा साष्टाङ्ग पातेन प्रणमेत् |
यथास्तुति |
ओं घोररूपे महारावे सर्वशत्रुक्षयंकरि |
भकेभ्यो वरदे देवि त्राहिमां शरणागतंः ||
सुरासुरार्चिते देवि सिद्धगन्धर्व सेविते |
जाड्यपापहरे देवि त्राहिमां शरणागतं ||
जटाजूट समायुक्ते लोलजिह्वानुकारिणी |
द्रुतपुष्टिकरे देवि त्राहि मां || ३ ||
सौम्यरूपे क्रोढरूपे चन्दरूपे नमोस्तुते |
सृष्टिरूपे नमस्तुभ्यां त्राहि मां || ४ ||
प्. ३२ब्)
जडानां जडता हंसि भक्तानां भक्तवत्सले |
मूढतां हर मे देवि त्राहि मां || ५ ||
हूं हूंकार मये देवि बलि होम प्रिये नमः |
उग्रतारे नमस्तुभ्यं त्राहि मां || ६ ||
बुद्धिन् देहि यशो देहि कवित्वन् देहि देहि मे |
दुर्बुद्धिं हर मे देवि त्राहि मां शरण || ७ ||
इन्द्रादि दिविषद्वृन्दवंदिते करुणा मयि |
तारे ताराधि नाथस्य त्राहि मां शरणागतं ||
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेत् नरः |
षण्मासै सिद्धि माप्नोति नात्र कार्याविचारणा ||
प्. ३३अ)
मोक्षार्थि लभते मोक्षं धनार्थि धनमाप्नुयात् |
विद्यार्थी लभते विद्या तर्कव्याकरणादिकं ||
इदं स्तोत्रं पठेद् यस्तु सततं लभते नरः |
तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते ||
पीडायामपि सङ्ग्रामे जाप्यदाने तथा भये |
य इदं पठति स्तोत्रं सुभन्तस्य न संशयः ||
एवं स्तुत्वा दण्डवत् प्रणम्य योनि मुद्रां प्रदर्शयेत् |
आत्मसमया पद्भ्यां कराभ्यां जानुभ्यां सुरसा शिरसा दृशा ||
प्. ३३ब्)
मनसा वचसा वापि प्रणामोष्टाङ्ग दुरितः |
विशेष नमस्कारस्तु शंकेत तंत्रे ||
तत्रिकोण काराताराया प्रकिर्तिता |
इत्यत्र त्रिकोणाकारः सर्वत्रनमिः शक्तैरुदिरिताः ||
अर्द्धचन्द्रमहेशस्य पृष्टतो नाति दीरितः |
वेद्यविद्याधनं दत्वा सम्यक् यज्ञस्य यत्फलं ||
तत्फलं समवाप्नोति सकृत्कृत्वा प्रदक्षिणां |
वाराहितन्त्रे |
प्रदक्षिणत्रयं कुर्यात् देषक्रसमुदाहृतः |
कुलमुद्रामिति गो बलिवर्दन्या येनोक्तं ||
प्. ३४अ)
आकृति देवतामिति देव्यञ्गै निक्षिप्य | आत्मसमर्पणं कृत्वा क्षमस्वमेति
सुषुम्न्नावर्त्मणा स्वहृदि समानीय | पुनः प्राणायामं कृत्वा
तन्मनसात्मामन्विभाव्यः | ततो ऐशान्यान्निर्माल्य वासिन्यै नमः ||
इत्यभ्यर्च्य शेषनिर्माल्य शिरसि धृत्वा नैवे जातं स्वीकृत्त्यसिद्धि
संकल्पः | सुमुखी भूत्वा यथा सुखम्विहरेदिति |
इति शंकराचार्यविरचितायान्तारहस्यवृर्त्तौ नित्यपूजानिर्णयः प्रथमः
पटलः || १ ||
प्. ३४ब्)
अथ दीक्षाविधिर्लिख्यते |
तदुक्तं महोग्रताराकल्पे |
कल्पे दृष्टा तु तारा वै यो गृह्नाति नरोत्तमः |
सम्वत्सर सहश्रैस्तुः निःकृतिर्नैव जायते ||
गुरोमुखात्महाविद्या गृह्नीयात् पाप नाशिनीं |
ततः गुरुलक्षणं य कल्पते ||
ओं नीलवाग्देयै | मातर्नीलसरस्वती प्रणमतां सौभाग्य संपत्प्रदे
प्रत्यालीढपदस्थिते शव हृदि स्मेराननांभो रुहे |
प्. ३५अ)
पुल्लेंदीवर लोचने त्रिनयने कर्त्री कपालोत्पले खड्गश्चादधतीत्वमेव
शरणं त्वामीश्वरीमाश्रये || १ ||
वाचामिश्वरि भक्त कल्पलतिके सर्वार्थसिद्धिश्वरी गद्यप्राकृत
पद्यजातचरणे सान्निध्य सिद्धि प्रदे |
नीलेन्दिवरलोचने त्रययुते कारुण्य वारान्निधे सौभाग्यामृतवर्षिणी न
कृपद्यासिञ्चन्तिमस्मादृशं || २ ||
खर्वे खर्वे सहश्र पुरित तनो सर्वाङ्गवेशो ज्वले
व्याघ्रत्वक्यरिवीतसुन्दरकटी व्याबद्धजूटाङ्किते |
प्. ३५ब्)
सद्यः कृत्तगलद्रजः परिमिलन्मुण्डत्रयीमूर्द्धजे ग्रंथि श्रेणि
नृमुण्डदामललिने भीमे भयं नाशयः || ३ ||
मायाचाङ्गविकाररूप परमनीन्वद्धचूडात्मिके हूं फट् कारमयीत्वमेव
शरणमन्त्रात्मिकमादृशः |
मूर्तिस्तेजननीस्त्रिधामघटितास्थूला हि सूक्ष्मापरावेदानामपि गोचरं
कथमपि प्राप्तान्नतात् प्रापयः || ४ ||
त्वत्पादाम्बुजसैरयासुकृतिनो गछन्ति सा पूज्यतां तस्यं श्रीपरमेश्वर
हरिहरब्रह्मादि साम्यान्मकं |
प्. ३६अ)
संसारांबुधिमज्जनत्पटुतनून्देवेन्द्रमुख्यामुरान्मातस्त्वत्पद सेवितोदि
मुखान् किन्नधीः सेवते || ५ ||
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवासुरसंगरे विजयिनो
निःसङ्गसङ्गाङ्गताः |
सौवोहं भुवने रसेन महसास्पर्धा वहन्नशनै स्वन्तुल्यान्तिरत यथा
सुविरविन्यशं व्रजन्ती स्वयं || ६ ||
त्वं नामस्मरणात् परायण पराद्रष्टुन्न शक्रस्तुते भूत प्रेतपिशाच
राक्षसगणायक्षाश्च नागाधिपाः |
प्. ३६ब्)
दैत्यादानवपुंगवाञ्च खचराव्याघ्रादिका जन्तवो डाकिन्यः
कुपितान्तकाश्च मनुजामानक्षणं भूतले || ७ ||
लक्ष्मी सिद्धि गणाश्च पादुकमुखासिद्धास्तथा चारिणां नघश्चापि रणां
गणे गजघटी स्तंभस्तथा मोहनं |
मातस्त्वत्पदसेवया खलु नृणां सिध्यंतिते ते गुणाः
क्रान्तकात्तमनोभवश्च भवति क्षुद्रोहि वाचस्पति || ८ ||
उग्रताराष्टकमिदं भक्ति मान्य पठेत् नरः |
प्रातमध्याह्नकाले च सायं च निनशुचिः ||
प्. ३७अ)
लभते कवितां दिव्यां सर्वं शास्त्रार्थ विद्भवेत् |
लक्ष्मीमनस्वरान्प्राप्य भुक्ताभोगान्यथेप्सितान् ||
कीर्तिशान्तिश्च वैरुज्यं सर्वेषां प्रियतां भवेत् |
विख्यातश्चैव लोकेषु प्राप्यंते मुक्तिमाप्नुयात् ||
इति नीलतन्त्रे |
तस्मात् सर्व प्रयत्नेन कुलीनं गुरुमाश्रयेत् |
कुलीनः सर्वविद्यानामधिकारी भवेद् ध्रुवम् ||
दीक्षा प्रभुः स एवात्मा सर्वमन्त्रस्य नापरः |
श्रैवोपि सर्वविद्यानामुपदेष्टा न शंशयः ||
प्. ३७ब्)
विष्णुविष्णुमनस्थानां सौरसौरविदांसतां |
गणपत्यस्तु देवेशि गणादीक्षप्रवर्तकंः ||
शैवः शकोपि सर्वत्र दीक्षा स्वामि न संशयः ||
स्थान नीयमो मत्स्यसूक्ते |
गोष्टे शिवालये शून्ये श्मशाने च नदी तटे |
गोष्टे चे ग्रहणं कृत्वा पूजये सिद्धि वाश्चकः ||
एवं सिद्धि लभैत्मंत्री नान्यथा नामवाप्नुयात् |
कृष्णपक्षस्य चाष्टम्यं शुभे लग्ने शुभे क्षणे ||
पूर्वभाद्रपदायुक्ता मित्रतारादि संयुते |
अथवा चानुराधायां रेवत्यं नाप्रशस्यते ||
प्. ३८अ)
जानीयाछोभनं कालं मन्त्रस्य ग्रहणन्प्रति |
तदुक्तं नीलतन्त्रे |
रोहिणीश्रवणाद्द्रावधनिष्टाचोत्तरात्रयं |
पुष्पः शतभिषा चैव दीक्षा नक्षत्रमुच्यते ||
इषे चैव विशेषेण कार्तिकेराविशेषतः |
अष्टोत्तरशतं होम बिल्वपत्रेण कारयेत् ||
अथवाष्टादशं कुर्यादष्टाविंसतिमेव वा |
पायसं कृसरन्दद्यात् मोदकं खण्डशर्करा ||
बलिं दद्याछागलश्च गोधामांसमनुत्तमं |
रंभापुष्पं शालमत्स्यं जुहूयाच्च प्रयत्नतः ||
प्. ३८ब्)
यवक्षीरं ततो दद्यात् शाल्पन्नं मधुना युतं |
नारिकेर जलन्दद्यात् कांश्यस्य तदनंतरं ||
शर्करासंरतन् दद्यात् मत्स्यण्डिं घनवर्तितं |
पायसं कृशरं मांसं माधिःतम्वटकन्तथा ||
बलिं दद्या च महिषं पक्षिणम्वन्य जातिकं |
पानं नानाविधं देयं स्वर्णाद्याभरणानि च ||
कौशेयं चैव कार्या संशूक्ष्मवासांसि मेव च |
गोभूहिरण्यवस्त्राद्यैः स्तोषयेद् गुरुमात्मनः ||
प्. ३९अ)
सर्वस्वन्दक्षिणां दद्यात् गाश्च दद्यात् पयस्विनी |
भूमिं वृत्तिकरीन् दद्यात् पुत्रपौत्रार्थ दायिनीं ||
गुरुवे दक्षिणान् दद्यान्सुवर्णाम्वा ससान्वितं |
गुरुसंतोषमात्रेण सिद्धिर्भवतु सास्वती ||
अन्यथा नैव सिद्धि स्यादभिचाराय कल्पते |
विप्रेभ्यो भोजनन् दद्याद् बहुमान पुरःसर ||
इति विशेषः |
अत्र विरोधि सामान्यमपि कर्तव्यमिति |
इति तारारहस्यवृत्तौ दीक्षाविधिं नाम द्वितीयपटलः || २ ||
एवं सद्गुरोराहित दीक्ष्यास्ततः |
शुद्धये पुरश्चरणमारभेत् |
प्. ३९ब्)
गान्धर्वतन्त्रे |
सुवासिनीङ्कुमारीन्तु भोजयेद् वहु यत्नतः |
आराध्याभरणन् दद्याद् यथा तुष्येत देवता ||
इति नीलतन्त्रे |
एवं कृत्वा हविष्याशी जपलक्षन्मनन्यधिः |
ततः प्रयोगं सर्वेषाम् वश्यादीनाश्च कारयेत् ||
वीरतन्त्रेपि |
स्वेछाचारषरो मन्त्री पुरश्चरण सिद्धये |
रहस्यमालामादाय लक्षमेकं सदा जपेत् ||
फेत्कारिणी |
जडोपि शूद्र स्याद् भारनावस तत्पराः |
लभते श्रीमताम्वाणी मन्त्रस्य लक्षजापत ||
प्. ४०अ)
श्रीमतां व्यास वशिष्टादीनां कांम् विद्यात् प्राप्य क्रयो भारतादीन् प्रचक्रिरे
| इत्युत्वात् |
केचिन्त्र भावन शक्तानात् तत्तदाचार सहितानांश्चतुर्गुणं जपमाचरेति |
तदुक्तमेकवीरातन्त्रे |
भावनारहितानान्तु क्षुद्राणां क्षुद्र चेतसां |
चतुर्गुण जपः प्रोक्तः सिद्धये नान्यथा भवेत् ||
एवंन्महाचीन क्रमाशक्तानां ब्राह्मणांदिनांमपि चतुर्गुणविधानेन
जपः कार्यः |
जडोपि यदि सुद्र स्याद् भावनावस तत्परः |
इत्यादि श्रवणात् |
प्. ४०ब्)
तत्तदाचार निरताः सर्वं वर्णाद्विजातयः |
तदनुष्टान निरताः सर्वे वर्णा पृथक् पृथक् ||
इति अत्र सिद्धि विद्यायाश्चतुर्गुण युगमेवा |
परिश्रमो नास्ति |
तदुक्त फेत्कारीये ||
विशेषतः कलियुगे मत्प्रसादाद् भविष्यति |
मन्त्रचूडामणौ |
सिद्धिमन्त्र तयानात्र युगसेवा परिश्रमो नास्ति |
तदुक्तं फेत्कालीये |
विशेषतः कलियुगे मत्प्रशादात् भविष्यति |
तन्त्रचूडामण्यौ |
प्. ४१अ)
सिद्धिमन्त्र तयानात्र युगशेवा परिश्रमः |
नक्तभोजी हविक्षासि जपेद् विद्यान् दिवा शुचि ||
तत्कृत्वा सिद्धिमाप्नोति जपेच्च मनसा स्थिरं |
मन्त्रकाले च जापे च भार्या यत्नेन वर्जयेद् विष्णुकल्पञ्च वर्जयेत् तुलसीदल |
वर्जयेन् मालती पुष्पं वर्जयेदन्य पूजन |
हस्तप्रक्षालनं क्षौचमाचान्तन्तु सदा भवेत् ||
देवीनाञ्च तथा पुष्पं पृथक् पात्रेषु स्थापयेत् |
एकीभावं न कर्तव्यं यदित्छेत् सिद्धिमात्मनः ||
प्. ४१ब्)
नैवेद्यादि फले स्तोयैज्जानीयादेष एवभाक् |
हविर्नाना विधैर्गंधैः पायसे मोदकादिभिः ||
एवं क्रमे नियूञ्जीत दधिक्षीरन्तथैव च |
रहस्यमाला यथा |
अकस्मादीहितासिद्धिर्महासंखाख्यमालया पंचाशत्मणिभिन्नानानिर्मिता
सर्वकामदा इति |
महाशंख इति नृललाटास्थिभिः |
कान्तेनारचितामाला तया प्रजप्तोग्रतारैक जटानील सरस्वती मंत्रः शीघ्रप्रदो
भवति |
नृललाटास्थ्य भावे तु घटनासौत्कर्ष्यनिमित्तन्देहान्तरस्याप्यस्थि ग्राह्या |
प्. ४२अ)
शिवदीक्षान्तर्गन टीका |
तदुक्तं शाम्रवीसंहितायं |
स्यूतसूत्रन्तितीहोत्र आवृत्तिद्धितय पुनः |
दिवानिशाकरौ प्रोक्तौ तस्मात् तेजप्तयी शुभाः ||
इदृश्याक्षन्त्र?जाघंस्तु कुरुते जपमुत्तमं |
अपमृत्युकविभ्यासमुच्यते नात्र शंशयः ||
गोपनीये प्रयत्नेन यदिच्छे सिद्धिमात्मनः |
करमालानिर्णयो यथा | तदुक्तहहंस परमेश्वरे |
पर्वद्वयमनामायाः परिवर्तेन वै क्रमात् |
पर्वत्रयं मध्यमायान्तर्जन्येकं समाहरेत् ||
प्. ४२ब्)
शाक्तमाला समाख्याता सर्वमन्त्र पदीपिका |
तदुक्तं नीलतन्त्रे |
एकैकन्मणिमादाय ब्रह्मग्रंथि विनिर्दिशेत् |
अनुलोमे विलोमाभ्यां मातृकान्तरितां जपेत् ||
तेन सर्वगुणोपेता जपं ते सर्वसिद्धि भाक् |
तदुक्तं मे कविरातन्त्रे |
कुल्लुकां च ततो नत्वा माला पूजा विधाय च |
हृहीयादक्षिणे नाथ न च वामेन संस्पृशेत् ||
नाभिहृद् शिरदेशे तु कुल्लुकां परिचिन्तयेत् |
यदि सुत्र कृतामाला देव्या प्रीति करी सदा ||
प्. ४३अ)
अकारादि क्षकारान्ताश्चाक्षमाला प्रकीर्तिता |
अथवा महाशंखा भावेन पश्चाशन्मणिमालया स्फटिकी मालाया वा जपेत्
|
तदुक्तं तारार्णवे महाशंखप्य शक्तश्चेत् स्फाटिकी मालया जपेत् |
अथवारमयोग्यानं रहस्यातिरहस्य लिख्यते |
तदुक्तं विशुद्धेश्वर महातन्त्रे |
कृपया शंकरेणोक्ता पार्वत्ये रक्षमालिकां |
मालाविधान परमं शृणु पार्वति तत्वतः ||
येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् |
असुलोमेन मन्त्रमान्त्रविभेदनः |
प्. ४३ब्)
मन्त्रेणान्तरितानान्तु वर्योनान्तरितन्मनुः |
कुर्यात् मन्त्रमयी मालां सर्वमन्त्रार्थ बोधिनी ||
वरमर्णन् मेरु रूपं लंघयेत्त कदाचन |
मेरुशिरश्च सर्वेषां यथा देवे तथा हरिः ||
तस्मान्तु स्थिर कार्येन कर्मकुर्याद् दहर्निशं |
एतत् परं रहस्यानां मयोक्तं ते यशस्विनी ||
त्वया गुप्ततरं कार्यन् नाक्षयं यस्य कस्यचित् |
ततः सिद्धय गुरुभक्ति भावात् परिचरतिं विधेमङ्गाकृत्य उत्तराभिमुखः
शिरसि कुल्लुकां क्षिप्ता यथा संख्यं जपेत् |
तदुक्तं |
प्. ४४अ)
गुरुचरण सरोज सर्वदा भक्ति भावात् परिचरति विधेयो वास्य सर्वाङ्गना स्यात् |
अनुदिन मनुमेनन्मानयन्मानवौ सौ भवति जगति वादि द्वैत सिद्धान्त हन्ता |
मत्स्यसूक्ते |
न जानाति च यो मूढ कुल्लुकान्तरिणिं जपेत् |
यावज्जिवन्तु जप्तव्यन्न सिद्ध्यंति कदाचनः ||
महामंत्रं परित्यज्य पूजयेद् यस्तु तारिणीं |
पश्चत्वं जायते तस्य अवश्यम्वातुलो भवेत् ||
एवं पूर्वोक्तास्यानादिमनुधेयं |
एवं मुक्तेन जप्तातदशांशेन होमं तेणाभिषेक ब्राह्मण भोजन
गुरुदक्षिणाश्च क्रमेनाचरेत् |
प्. ४४ब्)
तदुक्तं |
लक्षमेकं जपेत् मन्त्रं हविष्याशी जितेन्द्रियः |
तत्तस्थान यथा तत्तदासनं संस्थितो सुधिं ||
पूर्वोक्त पूजनं कृत्वा विप्राराधन तत्परः |
अनंतरन् दशांशेन क्रमाद्धोमादिकश्चरेत् ||
रात्रौ बलिं सदादेय सर्वसिद्धिमभीप्सुभिः |
पुरश्चरणहोमोङ्गस्तु |
विधेयं नीलोत्पले साज्येन बिल्वपत्रेण वा विधेयः |
तदुक्तं सिद्ध सारस्वते |
प्. ४५अ)
एवं जपं यथा कृत्वा दशांशमसितोत्पवैः |
आज्याक्तै जुहुयान्मन्त्री तर्द्दशांशेन तर्पणं ||
कालागुरुद्रवोपेतैर्विमलैर्गान्धवारिभिः |
तदशांशं ब्राह्मणान्तु भोजनं समुपाचरेत् ||
इत्येवं सिद्धिमंत्रेण सर्वकर्माणि कारयेत् |
मत्स्यसूक्तेपि |
अक्षतम्वित्यपश्च दशांशं जुहुया ततः इति |
के वलिं तिलाज्यतिति गुरवः | गुरवे दक्षिणाश्च दद्याद् यथा |
अज्ञात्वा कुल्लुकान्देवीमत्रप्ता गुरु पादुकां |
न दत्वा दक्षिणं सम्यगकृत्वा क्रम पूजनं ||
प्. ४५ब्)
योस्मिं तंत्रे प्रवर्तंते ततपीडद्यसे ध्रुवं |
इति मत्स्यसूक्तवचना |
अत्र तु सर्वज्ञेश्वरवेदान्त सांख्यकार योगशास्त्रे सामूहनिः स्नेहास्थि
स्पर्शे महामन्त्र प्रभावात् |
प्रायश्चित्त प्रकाशना प्रशंगात् |
क्वापिशवोपरिताम्बुलश्चर्वन् जपश्च प्रदर्शितः |
वीरसाधनादौ शवोपरि प्रतिविहितः ||
तत्र स्नानमात्रमपि प्रायश्चित्तन्न प्रकाशितमाचार्येन |
प्. ४६अ)
महाचीन बौद्धस्य व्यपदेश बौद्धस्य व्यवहारः स्पृप्ता
स्पृष्टित्वन्मन्त्ररविरुद्धाचारोत्र मन्त्र प्रभान् |
आरोपहार्यपवर्गा प्रदायकमिति | मन्त्राणाम्बहुनाचारेणवासमनस्मृति
विरोधः || ते मन्त्र वन दोषः |
तदाहंकुच्चिकादौ |
यस्मिन् मन्त्रेय आचारस्तत्र धर्मस्तु तादृशः |
कृतार्थस्तेन जायते स्वर्गो वा मोक्षमेव वा ||
भ्रान्तिरत्र न कर्तव्यो सिद्धि हानि प्रजायतेः |
विशुद्धि चित्तोत्र भवेत् सिद्धिस्योदपवर्गदा ||
ननु सोममाभिचरण जपेदितिं न्यायादभिचार्यसिद्धिः |
प्. ४६ब्)
पाप प्रसङ्गस्य कथन्न स्यात् |
ननूपरपाय प्रशक्तस्य सिद्धिर्न भवति स ऊप पद्यते |
पापमष्यसिद्धिर्न भवति | सदुपपद्यते | पापमनुष्यस्य तस्याशम्रवाः | अत
एव पापं न भवेदिति |
अनेन विद्धिना कुत्राप्यत्र उक्त व्यवहार दर्शनात् | साधक शरीरं निकलुषं
लक्षते व्यवहार विधेरनिष्टासिद्धि सूचनाच्चेति |
इति तारारहस्य वृत्तौ पुरश्चरण निर्णयोस्तृतीयः पटलः || ३ ||
अथ नैमित्तिका स्थान क्रमो यथा | तदुक्तं स्वतन्त्रतन्त्रे |
प्. ४७अ)
नित्यनैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः |
अन्यथा चेद् भवेदित्थ कुर्यादायत्परं परांः ||
नीलतन्त्रे |
नित्याचार रतो मंत्री कुर्यात् नैमित्तिकार्चनं |
नैमित्तिकार्चने सिद्धे कुर्यात् काम्यमखण्डितं ||
मत्स्यसूक्ते |
अष्टम्यं च चतुर्दश्यां पूजयेच्च प्रयत्नतः |
यद्यत् प्रार्थयते मंत्री तत्तदाप्नोति नित्यशः ||
लभते मंजुलां वाणिन्तथाष्टम्यां महा यजेत् |
अष्टम्यां पूजयेद् देव्या सर्वकामफलप्रद ||
प्. ४७ब्)
रमापुष्पबीजपुरं सुगंधिपरिपूरितं |
मिश्रीकृतबलिं दद्यादष्टम्याञ्च विशेषत ||
स्वर्णमाला तथा देव्यै दद्याङ्गंधैर्विशेषतः |
फलक्षीरेन्तथारघाङ्गोविकं शर्करान्विता ||
तस्मात् सर्व प्रयत्नेन संपत्ये पूजयेछिवां |
दानश्चाक्षर्य सिद्धान्तन्दद्या देव्यै प्रयत्नतः ||
नीलतन्त्रे |
अष्टम्याश्च चतुर्दश्यां पूजयेच्च यथाविधिं |
आज्ञासिद्धिमवाप्नोति जवापुष्पं च वर्वरां ||
चन्दनश्चार्ककुसुमं दद्यात् स्वेता पराजितां |
श्वेता या द्विगुणं पुण्यं दद्यात् कृष्णापराजिता ||
प्. ४८अ)
बन्धूकामालया तुष्ये यथा छाग प्रदानवत् |
अर्घ्यन्दद्यात् प्रयत्नेन नित्यपूजासु सर्वदा ||
अष्टोत्तरशतं जाप्यं यावज्जीवति संख्यया |
यस्तु संपूजयते दुर्गा महाष्टम्यान् प्रयत्नतः ||
त्रिजन्मनार्जितं पापन् तत्क्षणादेव नाशयेत् |
दुर्गामिति तारिणी | प्रकरणानुकृतत्वात् |
ये जानन्ति महामायां ज्ञात्वा तत्वेन भैरव |
आज्ञासिद्धि मवाप्यन्ते ध्रुवं याति शिवालयं ||
तारिणी यत्र पीठे तु शीला रूपेण तिष्टति |
यत्र यत्नेन गंतव्यं फलं सश्यान विद्यते ||
प्. ४८ब्)
लक्षत्रयं जपेन् मंत्रन् तारिणी यत्र तिष्टति |
निस्पृशः स्थिरचित्तेन सिद्धिर्भवति तत्क्षणात् ||
संख्याकृतान्मूर्तिकाश्च अक्षतश्च तथैव च |
मधुनापायसञ्चैव क्षीरं साज्यश्च शर्करा ||
बलिं दद्याच्च गोधा वै आसनश्च प्रशस्यते |
रम्भापुष्पं शालमत्स्यं जुहूयान्मन्त्रवित्तमः ||
सर्वसिद्धिमनुप्राप्य अन्ते मोक्षमवाप्नुयात् |
साक्षतम् बिल्वपत्रश्च जुहुमाच्च सहश्रकं ||
प्. ४९अ)
लभते मंजुलाम्वाणिं महाष्टम्यांश्च साधकः |
कुल्लुकाश्च न जानन्ति महामंत्रं जपेत् नरः ||
पश्चत्वं जायते तस्य अथवा वितुलो भवेत् |
तारिणीश्चण्डिकायाश्च मन्त्रः कुल्लुक वर्जितः ||
मतिमान्यो द्विजातीनात्रायास्ते यः कदाचनः |
कुल्लुकाश्च शिरे धृत्वा सर्वयज्ञफलं भवेत् ||
सो सौ पूजा सदाव्यर्था स सयज्ञस्तथैव च |
तारामंत्रश्च कुल्लुकं अक्षरन्मत्रमुत्तमः ||
मन्त्र चूडामणौ |
कुजवारे कुलाष्टम्यश्चतुर्दश्या विशेषतः |
योगिनी पूजनन्तत्र प्रधानं कूलपूजनं ||
प्. ४९ब्)
यथा विष्णु तिथौ विष्णुः पूजितो वांछित प्रदं |
यथाकुलतिथौ शक्तिः पूजिता वरदायिनीति ||
मत्स्यसूक्ते |
अष्टम्यांश्च चतुर्दश्यां पूजयेच्च विशेषतः |
शंखस्थि तन्नो यः पूर्णं जवापुष्पंश्च वर्वरां ||
चन्दनश्चार्क कुसुमं शुक्ला चैवापराजिता |
अर्घादानम्विशेषेण नित्य पूजा क्रमः स्मृतः ||
अष्टोत्तर शतं जाप्यं यावज्जीवति शंख्यया |
सहश्रम्वा जपे देवे नित्य पूजा विधौ शृणुः ||
प्. ५०अ)
महामाया सदा पूजा पूजने कुल्लका परा |
स्तोत्रमंत्ररनादीनामनुष्टाने च सर्वदा ||
अनुष्टानत् तातुष्याः सर्वन्त निस्फलं भवेत् |
महाविद्याश्च सन् ध्याया वासुदेवंश्च योर्चयेत् ||
प्राप्नोति तत्फलं सर्व हरिसायुज्यताम्व्रजेत् |
वासुदेवो हरो ब्रह्मा नारिणी प्रकटिः सदाः ||
एकमूर्तिः सदा चिन्त्य एकमूर्ति सदा स्थिताः |
स्वर्गामोक्ष प्रदा देवि जयविद्या प्रदायिनीं ||
धनविद्या यशो लक्ष्मीरायुरारोग्यवर्द्धनी |
तस्मा प्रपूजयेद् देवि गंधपुष्पैश्च धूपकैः ||
प्. ५०ब्)
नैवेद्यैर्विविधैर्भक्त्या पूजयेत् तारिणीं सदा |
अथ नैमितिक विशषार्चनं | मायातंत्रे |
आषाडे शयनं कुर्यात् सिंहे च परिवर्तत |
आश्विने पूजये देवी पशुम्पायस मोदकैः ||
रात्रौ पवित्रेण चरजापते सुरसुन्दरी | देवाप्रबोधयत् |
स्वर्गेपि न कदाचना शुक्लाष्टम्यां षडाष्टम्यां महाष्टम्यां युगस्य च
|
मासं मेषस्य च रतारात्रौ प्रपूजयेत् सुद्धी |
अथ पीठार्चनं |
प्. ५१अ)
पीठानां परमं पीठ कामरूप महाफलं |
तत्र यत्क्रियते पूजा सकृद्वापि महेश्वरः ||
विहाय सर्वपीठानि तस्य देहे वसाम्यहं |
तस्माच्छत गुणं प्रोक्तं कामाक्षा योनि मण्डलं ||
तेषां फलं महादेवं कथम्वक्तुश्च शक्यते |
यत्र कोटिगुणं सार्द्धं अर्धे वसति तारिणी ||
यत्पीठं ब्रह्मणे प्रोक्तं गुप्तं सर्वसुखावहं |
यतो देवांश्च देवीश्च मुनयश्चैव भावजाः ||
सर्वप्राविद्भवत्त्यत्र तेन गुप्तं सदा कुरुः |
द्विविधश्चैव यत्पीठं दुरायं साधकोत्तमैः ||
प्. ५१ब्)
गुप्तं सर्वत्र देवेश लभ्यते कुलसुन्दरी |
तत्र चूडामणौ |
एकश्चेत् कुलशास्त्रज्ञः पूजाहस्तत्र भैरवः |
सर्वत्र च सुरापूजाः सद्यो ब्रह्म शिवादयः ||
एकाचेद् युवती तत्र पूजिता चावलोकिता |
सर्वा एव परादेव्यः पूजितः कुल भैरवः ||
आदौ चान्ते च मध्ये च लक्ष मूर्तौ विशेषतः |
न पूजयंति चेत् कान्तां तदा विघ्नैर्विलुप्यतेः ||
पूर्वाजितं फलं नास्ति काकव्यापर पूजनेः |
पुरश्चरण काले च यदी स्यात् पीठ दर्शनं ||
प्. ५२अ)
तदा तत्र पीठ पूजा मनसापि न हीयते |
देवि कूटे महाभोगां उद्रियाने च भैरवी ||
योगनिद्रा कामरूपे महिषासुरमर्द्दिनी |
कात्यायनीं कामगिरौ कामाक्षां कामदायिनीं ||
जालढर तु पूर्णेशी पूर्णे शैले च चंडिकां |
कामरूपे तदा देव पूज्यादि कूचरवासिनी ||
अथवा कामरूपस्य दर्शनं यदि भाग्यतः |
तदा भगादि देवीमापूजा तत्र विधीयते ||
कुलाचारे कुलाष्टम्यां चतुर्दश्याम्विशेषतः |
योगिनी पूजनन्तत्र प्रधानं कुल पूजनं ||
प्. ५२ब्)
यथा विष्णु तिथौ विष्णु पूजितो वांछित प्रदः |
तथा कुलतिथौ शक्ति पूजिता वरदायिनी ||
मत्स्यसूक्तेः |
द्वादश्यां पूजयेद् विष्णुश्चतुर्द्दश्यामुमापतिं |
अष्टम्यां पूजये शक्ति सर्वसिद्धिमभीप्सुभिः ||
अथ शिवावलि | मन्त्रचूडामणौ |
बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः |
मांसप्रदानन्नैवेद्यं संध्याकाले निवेदयेत् ||
कालिकालीति वक्तव्ये मन्त्रोथ पशुरूपिणी |
पशुरूपा समायाति परिवार गणैः सहः ||
प्. ५३अ)
मुक्तारेति पदैशान्यान् मुखयुक्तोल्प सुन्दरी |
तदैव मङ्गलं तस्य नान्यथा कुल दूषणं ||
अवश्यं मन्त्र दानेन नियतन्तोषयछिवां |
नित्य श्राद्धं तथा सन्ध्या वदनं पितृतर्पणं ||
तथैवं कुलसेव्यानां नित्यनाकूल पूजनेः |
पशुरुपां शिवान् देवीं योर्चयंति नितार्चने ||
शिवारवि न तश्याशु सर्वन्नस्यति निश्चितं |
जप पूजा विधानानि यत् किंचित् सुकृतानि च ||
गृहित्वा शापमापाद्य शिवारोदिति निर्जने |
एकया भुज्यते देवि शिवाया तत्र वै बलिं ||
प्. ५३ब्)
तत्रैव सर्व देवानां प्रीति परमदुर्लभा |
पशुभक्तिर्नरे शक्ति पक्षिशक्तिस्तथैव च ||
पूजितानिर्गुणङ्कर्म सगुणं साधयेद् यतः |
तेन सर्व प्रयत्नेन कर्तव्यां पूजनं महत् ||
राजादि भयमापन्ने देशान्तर भयान्तरे |
शुभाशुभानि कर्माणि विचिन्त्य वलि माहरेत् ||
गृह्न देवि महाभागे शिवे कामाग्नि रूपिणी |
शुभाशुभफलं व्यक्तिं ब्रुहि गृह्न बलिं तथा ||
प्. ५४अ)
एवमुच्चार्य दातव्यो बलिं कुलजन प्रिये |
यदि न भुज्यते वत्स तदा नैव शुभं भवेत् ||
शुभं यदि भवेत् तत्र भुज्यते तद शेषत |
एवं ज्ञात्वा महेशान शान्ति स्वस्त्ययनं चरे ||
इति शिवावलिः || अथोक्ताचार नियमः | नीलतन्त्रे |
प्रातरुत्थायमंत्रज्ञ कुलवृक्ष प्रणम्य च |
शिरः पद्मे गुरुन्ध्यात्वा तत् सुधा प्लावितां स्मरेत् ||
मानसैरुपचारैर्स्तां मालाध्यनियताशयः |
मूलादि ब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ||
प्. ५४ब्)
सूर्यकोटिप्रतिकाशां सुधा प्रावित विग्रहा |
कुलवृक्षनिर्णय रुद्रयामलोक्तः |
पादाद्यादांदशोकोकदनमदिरया केशरः कर्णिकारश्च
तोविक्षहसात्पातिलकनरुणमे प्रीणयानश्च गीत्या |
सलायात्कार्णिकारः कुलवकनरुवलिङ्गानान्सिन्धूवारः कादम्वा
कामिनीनान्मदयति नियतं यर्शनाच्चम्यशाखी |
तथा च श्रुति |
दशकुलवृक्षानामरुपप्लवः | अथ समयाचार |
श्रीदेव्युवाच |
प्. ५५अ)
श्रिणु पुत्र रहस्यं मे समयाचार लक्षणं |
येन हीना न सिध्यन्ति मन्त्राकोटि सहश्रशः ||
मानुषां कुलशाखाणां कुलाचारानुसारिणां |
सिद्धाः स्युर्नास्ति संदेहो वैष्णवाचार तत्परः ||
परनिन्दा सहिष्णु स्यादुपकाररतः सदा |
सर्वे विपिने चैव निर्जिने शून्यमण्डले ||
चतुष्पथे जलमध्ये यत्र देवाकृति भवेत् |
क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद् यथा विधिः ||
तथा |
गृध्रम्वीक्ष महाकालीन्नमस्कुर्याद् यथाक्षितं |
क्षेमंकरी तथा वीक्ष जंबुकीयमदुतिकां ||
प्. ५५ब्)
कृशादरी महामुण्डे अजकेशी वली प्रिये |
कुलाचार प्रसन्नास्य नमस्ते शंकर प्रिये ||
तथा च स्मशानश्च शवन्दृष्ट्वा प्रदक्षिणमनुव्रजे |
प्रणम्यानेन मंत्रेन मंत्री मन्त्र फलं लभेत् ||
घोरद्रष्टे कोटलाक्षी किटिशब्द प्रशाधिनी |
घनघोरे रवास्फारे नमस्ते चिति वासिनि ||
रक्त वस्त्रां रक्त पुष्पां विलोक्य त्रिपुराम्विकां |
प्रणम्यो दण्डवद् भूमौ द्धिमन्मन्त्रमुदीरयेत् ||
बंधूकपुष्पसंकांशे त्रिपुरे भयनाशिनी |
प्. ५६अ)
भाग्योदय समुत्पन्ने नमस्ते वरवर्णिनी ||
कृष्णवर्णेन्तथा पुष्पं राजपुत्रकं |
हस्त्येश्च रथशास्त्राणि फलकाम्वीर पौरुषान् ||
महिषकुलनाधश्च स्मृत्वा महिषमर्द्दिनी |
प्रणम्यदण्डवद्भूमौ दुर्गाम्वा जय मंगलम् ||
प्रणम्य जगतोन्माद्या सर्व च विघ्नैन्न लिप्यते |
जय देवी जगधात्री त्रिपुराघे त्रिदेवते ||
भक्तेभ्यो वरदे देवी महिषघ्नि नमोस्तुते |
मद्यभाशुं समालोक्य मत्स्यन्मांस स्वरत्रियं |
प्. ५६ब्)
दृष्ट्वा च भैरवीन् देवीन् प्रणम्य विमृषेन्मनुः |
घोरविघ्नविनाशाय कुलाचार समृद्धये ||
नमामि वरदे देवि मुण्डमाला विभूषिते |
रक्तमाला समाकीर्णम्वरदे त्वान् नमाम्यहं ||
एतेषांन्दर्शनादेव यदि नैवन्प्रकुर्वते |
शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायतेः ||
इति नैमित्तिकविधिः |
इति श्रीतारारहस्यवृत्तौ नैमित्तकविधि चतुर्विध चतुर्थोध्यायः || ४ ||
अथ काम्यानुच्चानुविधि लिष्यते | मत्स्यसूक्ते |
प्. ५७अ)
होमतर्पण पूजा च भावना जपमेव हि |
यन्त्रस्य धारणञ्चैव मारणोच्चटनो तथा ||
एतानि काम्यकर्माणि प्रयोगो न्यसमर्चरेत् |
तदुच्चरेत् | सोमतुजवल्यां |
शान्तिकं शिशिरे ज्ञेयं हेमन्ते पौष्टिकन्तथा |
आकर्षणम्वसन्ते च ग्रीष्मे विद्वेषणं स्मृतं ||
प्रावृत्युच्चाटनं कुर्याछरत्कालेषु चेतानि कुरुते साधकः सदा |
अर्द्धरात्रं शरत्कालो हेमन्तञ्च प्रभातकः ||
पूर्वाह्न च वसंतस्यान्मध्याह्नो ग्रीष्म एव च |
प्रवृटरुपोपराह्नः स्यात् प्रदोषः शिशिरः स्मृतः ||
प्. ५७ब्)
अत्रपाकुलिखितदिवरात्रि होमस्त्वेक जटापक्षे |
नीलसरस्वती पक्षे | केवलन्दि | वैवहोमञ्च तन्त्रत्तोक्तत्वात् | अत एवमद्वयं
लिखितं | अथवा |
उषायोगो च हेमन्ते प्रभाते शिशिरा गमे |
प्रहरार्द्धे वसंते च ग्रीस्मन्मध्य दिनान्तरे ||
तूर्ययामे च वर्षाख्ये शरदस्यं गते रवौ |
तदुक्तं फेत्कारिणीतन्त्रे विद्याकामेन होतव्यन्तिलाज्य मधु संयुतं ||
तिलमधुसंयुक्तमित्यासेय |
प्. ५८अ)
सिद्धिसारस्वते |
बन्धुक्पुष्पहोमेन दाशवत् कुरे नृपान् |
सर्पिल्लवणहोमेन समाकर्षति सुन्दरी ||
वकुलप्रसवै होमात् सौभाग्य लभते नरः |
मल्लिका जाति पुन्नाग कदम्वैः पुष्टिमाप्नुयात् ||
राजपुष्पप्रसूनस्य होमात् संपदमाप्नुयात् |
दुर्वा तिलाज्य होमेन दीर्घमायुरवाप्नुयात् ||
संपूज्यमूलमंत्रेण बिल्वपत्रै घृतान्वितैः |
सहश्र प्रत्यहं कृत्वा प्राप्नोति परमां गतिं ||
प्. ५८ब्)
घृताक्तमालती पुष्प होमद्दूत कवीर्भवेत् |
तस्य होमस्य सर्वस्य नियमो युत संक्षकः ||
इति होमप्रकरणं | मत्स्यसूक्त तर्पणं |
मधुनातर्पणन्देव्याः सर्वकामप्रपूरकं |
मन्त्रसिद्धिकरं साक्षान् माया पातक नाशनं ||
तथैव जप प्रकारं च |
हविष्याशीन्मुक्तेशो जप्यादयुत सादरं |
गद्य पद्य मयी वानी तस्य सर्वविधा भवेत् ||
ध्यान प्रकारान्तर |
उच्चातयति पिंगाक्षी मन्त्रा सयति केकला |
विद्रावयति मुक्तास्या सन्द्रावयति घूर्णिता ||
प्. ५९अ)
विक्षोभयति संक्षुब्धा संघातयति सन्धरा |
प्रक्षोभयति संक्षुब्धा विप्ररुद्धा विरोधयेत् ||
अत्र सर्वस्य कर्तव्यं भावनानि विचिन्तनं |
अत्रोच्चटनादिषु सर्वदा सर्वत्रैव यतो जपेदिति ||
तदुक्तं सिद्ध सारस्वते |
शताभिजपमात्रेण रोचना तिलकन्नरः |
कृत्वा पश्यति मंत्रीत कुर्याद् दाशवद् दश ||
फेत्कारिणी तन्त्रेपि |
पुष्करिणी ये जले अङ्गाढे यष्टिकष्टतमाग्रहे |
दण्डनानीय तन्नूर्णतिलकन्नेन कारयेत् ||
प्. ५९ब्)
तेनैव मधु घृतेन पद्मनी पद्म पात्रके |
लिखेत् मुत्रावली मध्ये मूलमन्त्रे विदर्भितं ||
तत्कण्टे चतुस्रे तु निक्षिप्य जुहुयादपि |
सहस्रक्षीर नीलाक्तं पद्मानां लोहितान्वितां ||
अस्यार्थ |
नमो ग्रहे निशाकरे सूर्ये वा निक्षिप्येति |
कुण्डमध्यद्वादशाङ्गुलोधो भागे निक्षिप्येत्यर्थः ||
मूलमंत्र विदर्भितमिति मंत्रस्तु हृल्लेखा |
रेफमध्य स सद्रुत कवित्व सिद्धि कुरु २ इत्याख्या सहितं लिखेत् |
प्. ६०अ)
ततः प्रयोगान्तरं | पद्मावती मन्त्रेण बलिन् दद्यात् | यथा |
ओं पद्मे पद्मे महापद्मे पद्मावती माय स्वाहेति मंत्रेणायथा
नैमित्तिकपट्लोक्तवद् दद्यात् |
फेत्कारिणीये |
प्रणवं पूर्वमुद्धृत्य पद्मे युग्मन्तथैव च |
महापद्म पदं ब्रुर्यात् पद्मावती पदन्ततः ||
माहे स्वाहेति यथा पूर्ववच्च बलिं हरेत् |
एवं यः कुरुते कर्म तस्माद्रुत कवि ध्रुवं ||
अथ सकल सिद्धये वक्षमाण वलि मन्त्रेण नित्य पूजोक्त वलि मंत्रेण वा रात्रौ
चतुःपठे वलिन् दद्यात् |
प्. ६०ब्)
फेत्कारिण्यं |
उपचारविशेषेण राजपत्नी वसं नयेत् |
राजानं जपमात्रेण बलिना सकलं जगत् ||
अस्यार्थ | उपचार विशेषेणति | मत्स्यसूक्ते |
रुम्राजाति बीजपूर सुगंधिपरिमिश्रितं |
मिश्रीकृत्य बलिं दद्यादष्टम्यांश्च विशेषतः ||
राजानाजपमात्रेणेति पूजादि विहिते नैवेति यावत् |
मन्त्र सहित योग पल्लवादि प्रयोगेण राजा वश्यो भवति ||
वलिनासकलं जगदि |
प्. ६१अ)
मत्स्योसूक्तोक्ते नैमित्तिकपटलानुमानेन बोद्धव्यां |
नीलतन्त्रे |
प्रयोगवलिमन्त्रोय प्रयोगात् सोधयेद् यदि |
अर्द्धरात्रे ततो नित्यम् वलि दद्या चतुःपठे ||
परसैन्यग्रहारिष्ट रोगासोक शनिवारणः |
प्रणवं पूर्वे मुच्चार्य उग्रतारततपरं ||
विकट द्रष्टे परपक्षे मोहये युग्ममुच्चरेत् |
खादय परमर्थ तथा द्वयन्द्वयम्वदेत् ||
येमां हि सितु मुद्यता निन्दितुमुद्यतस्यता योगिनि चक्रैस्तानाहार हूं फट्
स्वाहा ||
प्. ६१ब्)
परविद्यामाकर्षयच्छेदय कपाले गृह्न २ स्वाहेति तन्मनुस्वय
वलिमन्त्रेणानेन च वलिं दद्यथा रुचि |
तत्रैव छागादि दानं |
सरक्षणपशु देव्यग्रे सस्थाप्यन्त्रर्घोदकेन सन्प्रोक्षास्त्रेण
संलक्षकवचेनावगुण्ठ्यो धेनुमुद्राया अमृतिकृत्य कर्णे धृत्वा
मंत्रं पठेत् | गन्धपुष्पाक्षताद्यैः संपूज्य | पशुपाशाय विद्महे
विश्वकर्माय धीमहि तन्नो जीव प्रचोदयात् |
इति पशुजागः |
प्. ६२अ)
अथ खड्ग |
ह्रीं कालिकालि वज्रेरिलोहदण्डायै नमः | इति सजूप्य खड्गं पूजयेत् ||
हूं वागेश्वरी ब्रह्मणांभ्यां नमः | हूं लक्ष्मी नारायणाभ्यां
नमः ||
हूं उमामहेश्वराभ्यां नमः | इत्येनेन मंत्रेण शिवशाक्त ब्रह्मविष्णु
युक्ताय खड्गा नमः || इति ध्यात्वा संपूज्य |
ओं खड्गाय खलुनाशाय शक्तिकार्याय तत्परः |
पशुछेद्यस्त्वया शीघ्रं खड्गनाथं नमोस्तुते ||
ततो मन्त्रेण दुर्वाक्षतान्वित पानीयं गृहीत्वा दीर्घायुस्त्वनिवृत्ति परमपद
गमन पूर्वकशास्वत समावछिन्न
प्. ६२ब्)
हर्षबीजय कामः श्रीनीलशरस्वत्यै इमं पपशुन्तुभ्यमहं सन्प्रददे |
देव्याज्ञान् प्रार्थ्य पशु निवेदयेत् | यथोक्त विधानेन तुत्यमस्तुयार्पितं ||
ततछिन्ने |
दक्षिणे पति मे सिद्धिर्वामभागे च निन्दितं |
देन्यमध्ये च पतितं देवि छदं स्मरेद् वधः ||
ततः कुण्डान्तिकं दत्वा आहुती दशपञ्चभिः |
तेनैव दुःकृतन्दोषम्वलिं लक्षं सलक्षणं ||
ततो रुधिरमासभक्तान्वित वटुक योगिनी क्षेत्रपालगणेशादीना
वलिमन्त्रैर्वलिं हवेत् |
प्. ६३अ)
हूं वां वटुकभैरवाय नमः | गंधाक्षत कुसुमैः संपूज्य | नै##-
ह्रां यां योगिनीभ्यो नमः | गंधाक्षत कुसुमैः संपूज्य || इशाने |
ह्रां क्षेत्रपालाय नमः | गंधाक्षत कुसुमैः संपूज्य || नै-ऋत्य |
ह्रां यां योगिनीभ्यो नमः | गंधाक्षत कुसुमैः संपूज्य || आग्नेयै |
हूं गणेशाय नमः | गंधपुष्पैः संपूज्य || वलि दद्यात् ||
अनि ग्रहान्प्रपाया | तदुक्तम्वीरतन्त्रे |
श्मशानाङ्गारमादाय मंगले वासरे निशि |
प्. ६३ब्)
कृष्णवस्त्रेण सम्वेष्टा वध्नीयाद् रक्त तन्तुना ||
शताभिमंत्रितन्तर्चा निःक्षिपेत् परवेश्मनि |
सप्ताहाच्चान्तरे तेषान्मुच्चातनमिदं महत् ||
फेत्कारीये |
नरास्थिनी लिखेन्मन्त्रन् क्षारयुक्तं हरिद्रया |
सहस्रं परिसंजप्य निशायां रवि वासरे ||
निक्षिप्यते यस्य गेहे मृत्यस्य त्रिमासतः |
क्षेत्रे तु शस्य हानिः स्याज्जवहानिस्तुरंगमे ||
धनहानिर्द्धनागारे ग्राममध्ये तु तत्क्षणात् |
द्वेष द्वेष तयोर्नास्ति तस्य द्वेषो महान् भवेत् ||
प्. ६४अ)
लिखेत् मंत्रमिति |
मन्त्रलिखित्वा हृल्लेषा रेफ मध्ये अमुक मारय २ इत्यादि | साध्य
सहितमिन्यर्थ | अथवा साध्य लिखित्वा तदन्ते मन्त्र लिखेत् | सहस्र परिमितं जपेत्
| अमुकं मारय २ इत्यन्त मन्त्रजापः | द्वेष्ये तु | अमुकामुकयो विद्वेषं कुरु २
इत्यर्थान्त मन्त्रमुच्चार्य सहस्रं जपेत् | अथ शाकाद्यै धारणायन्त्र लिख्यते |
फेत्कारिणीये |
प्. ६४ब्)
योनि युग्मं लिखेन्मन्त्रं मूलं हेमशलाकया |
क्लीं वमन्त्रान् दीर्घवर्णान् षट्कोणे विलिखेत् ततः ||
अष्टपत्रे अष्टवर्णान् तद्वहि भूपुर द्वयं |
अष्टवजं भूपुरश्च विलिखे साधकोत्तमः ||
सुवर्णपट्टरोप्ये वा भूर्ये वाप्यथ सुव्रतः |
विलिखे हेमा लेखिन्या गंधाष्टक समन्वितं ||
दुर्वाकाणेन वा लेख्य कुशमूलेन वा पुनः |
एकवीराकल्पे |
वेष्टितं पीतवस्त्रेण तन्तुना परिवेष्टितं ||
वध्नीयात् पीतवस्त्रेण शिशुनाङ्कण्ठ भूषणं |
स्त्रीणाम्वामकरे चैव अन्यथान्दक्षिणे भुजे ||
प्. ६५अ)
वन्ध्या तु लभते पुत्रं निर्द्धनो धनवान् भवेत् |
इमां रक्षां पुरा वध्न्या ज्ञानार्थङ्गौतमादिभिः ||
कीत्त्यर्थ पार्थिवैश्चान्ये संग्रामे जयकांक्षिभिः |
अस्यार्थ |
योनि युग्मे षट्कोणे तन्मध्ये हेमशलाकया भूजपत्रादौ
कुङ्कुमगोरोचनाचन्दनसीविधाय पंक्तिरूपेणे मूलमन्त्र लिखित्वा तस्य
हृल्लेखा रेफमध्ये अमुकस्य रक्षां कुरु २ अमुकीनां शतपुत्रन्मुत्पादय
२ यस्याज्ञान सिद्धिं कुरु २ इत्यादि साध्यसतम्विलिख्य षट्कोणे
प्. ६५ब्)
क्लींव भिन्नवर्णान् ऋ ॠ ऌ ॡ रहितान् | तदुक्तं |
स्वरानांमधामं यस्तु तच्चतुष्कं नपुसकं |
दीर्घवर्णान् | अ ई ऊ ऐ औ अः | इत्यैक लिखेत् |
अष्टवर्णे त्वष्टवर्णान्यथा | ऐं ह्रीं ओं ऐ ह्री फट् स्वाहा ||
तदुक्तं नीलतन्त्रे |
वाग्भव कुलदेवीश्च तारकं वाग्भवं तथा |
हृल्लेखां अष्टमन्त्रान्ते वह्निजाययवधिर्मनुः ||
अष्टाक्षरो मनुं प्रोक्तो मंत्राणाशार इरितः |
अन्यत्र नाना तन्त्र जामले प्रोक्ता कालिका प्रयोगा
प्. ६६अ)
अत्र प्रयोज्या अत्र प्रयोगा कालिका विद्याक्ता अत्रापि कार्याः | एते प्रयोगास्तत्रापि
कार्या | तदुक्तं फेत्कारीये |
कालिकामन्त्रयन्त्रोक्तान् प्रयोगानि फचाचरेत् |
अन्त्रोक्त सम्यक् तन्त्रापि प्रयोगानपि चाचरेत् ||
मत्स्यसूक्ते |
कालिकामन्त्रतन्त्रोक्तान् सरस्वत्यां समाचरेत् |
सरस्वत्यांन्तु यो प्रोक्ता ते कल्पान्तु समाचरेत् ||
यथाकाली तथा तारा न भेद परमार्थतः |
अथ शिशुसंस्कारो |
दक्षिणपाणिना मधुना लाजात्यान्नाडि
प्. ६६ब्)
छेदान्प्राकवारत्रयं सर्मार्ये हेमशलाकयान्यदुर्वया वा यज्ञदारु
शिखया बालकस्य जिह्वायां ओष्ठे वा लिखेत् |
तल्लिखनन्तु नैमित्तिक संस्कारानन्तरं एकादशाहातु केचित् |
एतदादौ तु देवतां संपूज्य मन्त्रं लिखेदिति गुरवः ||
महोग्रतारा कल्पे तु प्रथमं लिषितं | पश्चद्देवता पूजयेत् ||
यदि पीतादुरुस्थो भवति तदा मातुलो वापि तृव्यो वा लिखेत् |
मत्स्यसूक्ते |
अथवा मधुलाजात्यं जिहायांम्बालकस्य तु |
नाडीछेदाद्यथा पूरवेद्यस्तु शलाकया ||
प्. ६७अ)
मूलमन्त्र लिखेत् मन्त्री जिह्वायाम् वापि ओष्टके |
वाक्योच्चारणमात्रेण वाग्मी द्रुत कवित्व करणं भवेत् ||
महोग्रताराकल्पे |
जन्मसंस्कारान्नाम पुत्रयाते प्रशश्यते |
जिह्वायां तु लिखेत् मंत्रं यज्ञदा कुरुशेन वा ||
वारत्रयत्रन्तु मार्य दक्षिणैव पाणिना |
मन्त्रमुच्चार्यव्रुत्येद्धं पंक्ति कुर्यान्तु शोभनं ||
आदौ शंस्कारः कर्तव्यस्तदप्ते विलिखेत्मनं |
गंधचन्दनपुष्पैश्च तदन्तै पूजयेछिवां ||
प् ६७ब्)
उर्त्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमं |
पूजयेत् तारिणीं देवीन्नाना भक्षैश्च शोभनैः ||
कविर्वाग्मी भवे पुत्रः सत्यवादि जितेन्द्रियः |
पितुरेव लिखेन्मन्त्रं कदाचन ||
मातुः क्रोडे तु संस्थाप्यदभानास्तीर्य यत्नतः |
शान्ति कुर्याद् बालकस्य ब्राह्मणैः सहसंयवः ||
अथार्वसंहितायां श्रुतिः |
ओं नमं पुत्रङ्कामयत कामजानां इहैवेति देवेत्यः पूष्णाति सर्वमिदन्
मजजनं |
प्. ६८अ)
शिवः शान्ति तारायै केशवेत्यतारायै रुद्रेत्य तारायै शिवाय शिवद्यससे
मंत्रान्ते सर्वरुपायै तारकायै अनिरुद्र शरस्वत्यै स्वाहायै मन्त्र द्वयेन
शांति कुर्यात् |
ततस्तस्य मातृकर्णै शान्ति स्तोत्र पठेत् | महानीलतन्त्रे |
तस्य मातुः कर्णेषु तत स्तोत्रं समाचरेत् |
ओं नमो भगवत्यै अकण्डवाग्वादिन्यै ||
ओं मातर्देवि नमस्तेस्तु ब्रह्मरूपे धरे नघे |
कृपया हर मे विघ्नन्मत्रसिद्धिन् प्रयच्छ मे || १ ||
माहेशी वरदे देवि परमानन्दरूपिणी |
कृपयाः मन्त्रसिद्धिं || २ ||
प्. ६८ब्)
कौमारी सर्वविद्येशे कुमारि क्रीडते वरे |
कृपया मन्त्रसिद्धि || ३ ||
विष्णुरूप धरे देवी विनतासुतवाहिणी |
कृपया मन्त्रसिद्धिं || ४ ||
वाराही वरदे देवि दष्ट्रोद्धतवसुन्धरे |
कृपया मन्त्रसिद्धि || ५ ||
शक्ररूपधरे देवि शक्रादि सुरपूजिते |
कृपया मन्त्रसिद्धि || ६ ||
चामुण्डे मुण्डमाला श्रक् चर्चिते विघ्ननाशिनी |
कृपया मन्त्रसिद्धिं || ७ ||
महालक्ष्मी महामोहे क्षोभसन्तापनाशिनी |
कृपया मन्त्रसिद्धिं || ८ ||
प्. ६९अ)
इति मातृमये देविमिति मातृवहिस्कृते |
एके वहुतरे देवि विश्वरूपे नमोस्तुते || ९ ||
एतत् स्तोत्रं पठेद् यस्तु कर्मारंभेषु संयतः |
विदग्याम्वा सवालोक्य तस्य विघ्नन्न जायते || १० ||
कुलीनस्य दानके वा कथितास्तव पुत्रका |
दीक्षाकाले नित्य जाप समये नाच्चयेद् यदि ||
तस्य पूजा फलं वत्स नीयते यक्षराक्षसौ |
इति तारारहस्यवृत्तौ काम्यानुष्टाननिर्णयः सातादिप्रयोगविधिः पञ्चमः
पटलः || ५ ||
प्. ६९ब्)
उपचारविशेषेण राजपत्नी वसन्नयेत् |
राजानां जपमात्रेण वलिनासकलं जगत् ||
इति अस्यार्थ | जपध्यान |
वलिप्रदानपूजा कृत्वां अत्वां अभिष्टद्रव्यहोम न भूपालपत्नी आत्मीयं
स्थानमानयेत् | किमन्यामनधिष्टितां स्त्रियां |
जपमात्रेण राजानमहिपतिं वलिना सकला पृथिवीमिति ||
अयमाशयः |
उपचार विशेषेण राजपत्न्यां याकृष्टिमां चरेदिति | राजानमिति
मन्त्रमुच्चार्यसुस्वकृतये वसमानयेति राजानाम्वात्वा भवन्ति |
प्. ७०अ)
जपमात्रेण पूजारहीतेन केवलजपमात्रेणेत्यर्थः | वलिनेति |
पूर्वोक्त मत्स्यसूक्तोक्त वलिमात्रेण वा निलतन्त्रोक्तेन वा वलिमन्त्रेण वलि दद्यात्
|
उपच्चारस्तु मत्स्यसूक्तोक्तः सकृतां |
मत्स्यमांसं सुरामाषमोदनमधु च त्रयं ||
पायसेथ संकुल्य वलिं देव्यै प्रकल्पयेत् |
वलिन्दद्यास्तु गोधा वै आसवञ्जप्रसस्यते ||
इति वल्ल्युपचारः | आकृतोपचारस्तथैव |
प्. ७०ब्)
रंभापुष्पं सालमत्स्यं जुहुयात् मन्त्र वित्तमः |
अन्ते वज्रयान् मत्स्यं पुष्पञ्चापि घृतप्लुतं ||
इति सर्वासिद्धिमवाप्नोति मत्ते मोक्षमवाप्नुयात् |
स घृतम्बिल्वपत्रं च जुहुयाच्च संहस्रकं ||
लभते मञ्जुलाम्वाणिन्महाष्टम्याञ्च साधकः |
तत्रैवरन्युपचार विशेषः |
रम्भाजाती विजपूरं सुगंधि परिपूरितं |
मिश्रिकृत्य वलिन् दद्यादष्टम्याञ्च विशेषतः ||
काम्यानुष्टान पद्धति |
अथ माहाचिनभावनाधीनासिद्धियश्चास्मिन्तत्ते सर्वा प्रतिपादिताः सन्प्रति
तद्यथा तदुक्तं |
प्. ७१अ)
तारार्णवे |
श्रीदेव्युवाच |
महाचीन क्रमन्देव भूचि तन्न प्रकाशितं |
कथयस्व तदेदानीं यदि प्रेमोस्ति मान्प्रति ||
श्रीभवानुवाच |
महाचीन क्रमन्देवि सर्वतन्त्रेषु गोपितां |
न वक्तव्यं त्रिभुवने शुद्ध भावेन भाविनी ||
केचिद् देवा नराः किञ्चि दानवायक्षराक्षसा |
नागलोका किन्नराश्च गन्धर्वाप्सर साङ्गणा ||
ये वा पशुमृगाः पक्षाये केचिज्जगताङ्गता |
एते जद्रतराः सर्वे परस्पर स्वरात्मिकाः ||
प्. ७१ब्)
कुकल्पनारताः सर्वे कुमार्गा दर्शनोत्सुकाः |
एतेषां कोपि विज्ञानमानन्दम्ब्रह्मवित्सुखं ||
न जानामि महादेव कथनुत् कथयामि ते |
नित्यमुक्त स्वभावोयस्तस्मै तदनुमीरितं ||
क्षमस्व देविच्चार्वङ्गी न वक्तव्यं त्वया नघे |
श्रीदेव्युवाच ||
नमस्ते शिव रूपाय नमस्ते गुरु रूपिणे |
नमस्ते वरदस्वामित्करुणा निधये नमः ||
नान्यदेवरता ये च त्वत्पादाम्बुज काक्षिणः |
तेषामेवाधिकफलंमभक्ताणां व्यवस्थितं ||
प्. ७२अ)
सिंहव्याघ्रादयो ये च ये च विघ्नान्त कारिणः |
रिपवञ्च यथा सर्पा ये चान्यमुपजन्तवः ||
ते सर्वे विलटी यान्ति पतङ्गा इव पावकाः |
देहन्दीप शिखाकार दृश्यते दुष्ट जंतुभिः ||
केवलन्प्रेम भावेन त्वयैव चिन्तया प्रभो |
कियशकं दानवाराक्षसामर्त्याये चान्यदेवतागणाः ||
राजानाञ्च तथा चान्ये सर्वे तत्पाद वर्तिनः |
आज्ञां भजन्ति गन्धर्वाः के पुनर्नर किंकराः ||
यत्र यत्र भवेद् वाञ्छात् तत्र सिद्धिं करेस्थिता |
सदातंगापनीवांणी तु जातेति सुनिश्चये ||
प्. ७२ब्)
दुष्टभावं परित्यज्य किमन्यद् बहुजल्पितैः |
मोक्षार्थी लभते मोक्ष धनार्थि धनमाप्नुयात् ||
अन्ते च जायते गौरी लोके शिव इवापरः |
सिद्धा भवं तु मद्भक्ताः कथयस्व ममागतः ||
नवक्तव्यमभक्ताय परभक्ताय पापिने |
श्रीभवानुवाच |
महाचीन क्रमन्देवि विविध कथितन्तुवि |
तदुक्तम्वीरतन्त्रे |
स्नानादि मानसं शौचन्मानसः प्रवरो जपः |
पूजनन्मानसं दिव्यन् मानसं कल्पनादिक ||
प्. ७३अ)
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् |
न विशेषो दिवारात्रौ न सन्ध्यायान्महानिशि ||
वस्त्राद्यमासनं सौचं दहस्पर्शादि वारिणः |
शुद्धिन्न चर्चये तत्र निर्विकल्पन्मनञ्चरेत् ||
नात्रशुद्धेरपेक्षास्ति न चामेध्याति दूषणं |
य एवं चिन्तयेन् मन्त्री सर्वं कामार्थ सिद्धयेत् ||
ये ये यत्र भवेद् वाञ्छा तत् तत् सिद्धि करेस्थिताः |
गद्यपद्यमयी वाणी सभयां तस्य जायते ||
प्. ७३ब्)
तस्य दर्शनमात्रेण वादिनो निःप्रभा मता |
राजानोपि हि दाशत्वं भजन्ते किं परे जनाः ||
सर्वथा पूजयेद् देवीमस्नातः कृत भोजनः |
महानिश्यशुचौ देशे वलिमन्त्रेण दापयेत् ||
स्त्री द्वेच्चो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः |
जपस्थाने महाशंखं निवेश्योर्द्धं जपश्चरेत् ||
स्त्रियं गछत्स्पृशन् पश्यन् यत्र कुत्राप्य चूडके |
ताम्बुलमन्यान् भक्षाश्च भक्षितव्यान्यथारुचीन् ||
मांसमत्स्यादधिक्षोद्रान् भक्षतव्यान् यथारुचित् |
भुक्ताद्यशेषभक्षाञ्च भुक्ताभैक्षञ्चरेज्जयं ||
प्. ७४अ)
दिक्कालनियमो नावस्थित्यादि नियमो न च |
जपकालोपि नैवास्ति वलिपूजा क्रमादिकं ||
स्वेछाभक्षोत्र नियमो महामन्त्रस्य साधने |
नाधर्मो विद्यते शत्रु किञ्चिधर्मो महान्नवेत् ||
स्वेछानोव्रगदितप्रजये हृष्टमानसः |
कृतार्थसन्यमानस्तु सन्तुष्टो निजमानसं ||
इति महाचीनक्रमंः | अथ रहस्यानन्तरं |
गान्धर्वतन्त्रे |
पृथ्वी ऋतुमतीविक्षसहस्रं यदि नित्यसः |
उदारधीः सुसिद्धान्तः कृतः क्षितितलं न्यसेत् ||
प्. ७४ब्)
नित्य स इति उनपञ्चाशद्दिनं | पृथ्वीं ऋतुमतीमित्यादि
सर्वङ्गुरुमुखादवगन्तव्यं ||
पर्वते हस्तमारोप्य निर्भयो यतमानसः |
कवितां लभते सोपि अमृतञ्च स गछति ||
नीलतन्त्रेपि |
पद्मन्दृष्ट्वा च चन्द्रविम्बः खंजनं शिखरं तथा |
चामरं रविबिम्बं च नीलपुष्पं सरोवरं ||
त्रिशूत्रवीक्ष्य जप्त्वा तु शत्तशशुद्धभावतः |
अथ प्रसादसुमुख लोचन सुहास्यकं सुजनं स्वयमेव च ||
प्. ७५अ)
लभते च यथा संख्य शृणु पार्वति सादरं |
महाचीन क्रमन्देवी ध्यात्वा तत्र प्रपूज्यतः ||
तद्रुमोद्भवपुष्पेन पूजयेद् भक्तिभावतः |
स भवेत् कुलदेवस्य कुलक्रमगतः शुचिः ||
ब्रह्मतरोर्महापद्मे देवी ध्यात्वा यथा विधि |
तत्सुधासारसारेण तर्पये मातृकानने ||
स भवे साधक श्रेष्टो मातृणाश्च प्रियो भवेत् |
महाचीन क्रमलतावेष्टितः साधकोत्तमः ||
रात्रौ यदि जपेन्मत्रं सैव कल्पलता भवेत् |
तिथि क्रमेण संख्याभिर्वेष्टितो यदि ||
प्. ७५ब्)
तदा मानेन सिद्धिः स्यात् सहस्र जपमानसः |
अष्टम्यांश्च चतुर्दश्यां द्विगुणं यदि दृश्चते ||
तदैव महती सिद्धि देवानामपि दुर्ल्लभा |
महाचीन क्रमे जप्तं लिखित्वा कुङ्कुमेन च ||
तत्पार्श्वे साध्यमालिष्य ताडये दृष्टि दृष्टिभिः |
तत्र गच्छति कामार्ता यत्र यत्रोपगछति ||
महाचिनद्रुभरसैनोक्तं पिण्डविधाय च |
यत्राम्ना दीयते देवसोविरान्मृत्युमर्हति ||
महानीत्तक्रमन्मूल मज्जाभिर्विल्वपत्रकैः |
सहस्रन् देवि मत्यर्च श्मशाने साधकोत्तमः ||
प्. ७६अ)
तत्र राज्यमवाप्नोति यदिमनः पलायते |
तस्या षोडशांशेन कलानार्हन्ति ते शवा ||
शवासनाधिक फलं लतागेह प्रवेशने |
एवं भूतः सदादेवि साधको भुवि दुर्लभः ||
यया कदाचिद्दिघ्ना?वायः को वा तु विदृश्यते |
तत्तत्प्रकाशनाद् देवि मृत्युर्भवति नान्यथा ||
एतत् साधक निन्दाम्वा एतत् तत्रस्य वा पुनः |
महाभूत गणैः सार्द्धन्तस्य सर्वं हराम्यहं ||
योगिनी चक्र सहितैः स्वयन्तद्वधकारिणी |
प्. ७६ब्)
अथ सारस्वत प्रयोगः | तदुक्तं फेत्कारीये |
जिह्वायां न्यसनादेवमूकोपि सुकविर्भवेत् |
अस्यार्थ |
जिह्वाबुध्यामुखे हस्तमारोप्ये जपेदिति केचित् |
मनो संस्कारे मधुना लाजाभ्यां लिखनादि केचित् ||
वस्तु तस्तु |
तेजो रूपां विद्यां जिह्वायां भावयेदिति सन्यसनार्थः |
वीरतन्त्रे |
जिह्वायां भावयेद् यस्तु तारिणीं दीपरूपिणीं |
बृहस्पति समस्तस्य कविता शुक्ल निर्जिता ||
नीलतन्त्रे |
प्. ७७अ)
ब्राह्मे मुहुर्ते उत्थाय कृतावश्य सुसंयतः |
जिह्वायां भावयन् विद्या तेजोरूपाञ्जपेत् सुधीः ||
अमृतस्पन्दिनी तस्य वाणी सर्वविधानवित् |
एकवीरातन्त्रे |
प्रातविद्याम्विभाव्यै च जिह्वायान्दीपरूपिणीं |
मातृका सहिताम्विद्यान्त्रिरावृत्याञ्जलिं पिबेत् ||
जलपान विधानेन मूकोपि सुकविर्भवेत् |
अजत्र भावनान्यासान् साधकः सुकृती सुधी ||
कविर्वाग्मी तथा योगी भुक्तिभागी न संशयः |
अन्यत्रापि शर्वाच्चतुर्विध पाण्डित्यमुपजायते ||
अथ रहस्यान्तरं |
प्. ७७ब्)
वीरतन्त्रे |
कुलयुवतिषु योनौ मन्त्रवर्णान्विलिख्य निखिलनिगम मन्त्रान् लुप्तदोषादि
दुष्टान् |
विदित कुलकुलान्तवार्ज्यवत्माविधिज्ञो मनुपुटितपटीयान् साधयेत् सांत चेताः |
कुलपटमनुसंध्योयासितायां सुभूमौ तव निजनिजनोयस्तर्प्ययेत् तिर्थतोयेः |
रुधिरतरसु पुष्पैर्गन्धमाल्यानुलेपैरचित युवति वेदास्तद्धिया ध्यायते सः |
परिचरति समस्तैर्न्यासिपुरैः समस्तैस्तवपरिजनजालैः योगिचक्रैः प्रपूजा |
प्. ७८अ)
सुविमर्लज्ञात्वा ह्री घृणावर्जितोष स्वयमपि रवित्यज्ञः क्षोभकृद्
योगिनीनां | पशुरिपु कुलचक्रं सस्यशन्मध्य साखं सुरगुरुसुरनाथं
शापभ्रष्टः स्वरेणः | कुलपतिनाथं तद्वयं योजयित्वा मनुपुटित
विमृग्यं योजयन्तद्विहियः | जननि तव कलानां को विदां कामरूपः कुमति
रहित चित्तः संलिखेत् तान्त्रि धारे | विगत भय विषादधान्त जालः
सुधाश्युस्तव चरणनितान्तः संस्मरं वै विशुद्धः |
प्. ७८ब्)
परिकलितकपुस्तद्वन्मतिर्देव पूज्यः परिचरतिति सज्ञो मोक्षपर्याधिपः सः |
अथ मन्त्रा सिद्ध्यर्थन्दू न महारहस्यं |
विशुद्धे स्वर माहातन्त्रे |
श्रीदेव्युवाच |
शृणु देवि परिज्ञानं सर्वज्ञानोत्तमोत्तमं |
येन विज्ञान मात्रेण क्षिप्र विद्या प्रसीदति ||
मूलकन्दे तया शान्ति भुजंगाकालरूपिणी |
तदा सावत्तवातोय प्राण इत्युच्यते बुधैः ||
क्लिन्ना वा व्युक्तमधुरा कुजन्ती सततोत्थिता |
गछंति ब्रह्मरंध्रेन भविष्यन्ति स्वकेतने ||
प्. ७९अ)
यातायात क्रमेणैव तत्र कुर्यात्मनोलयं |
तेन मन्त्र शिखायाता सर्वसिद्धि प्रदीपिका ||
तमः पूर्णे गृहे यद् यद्यत् किञ्चित् प्रविभाषिते |
शिखाहीनास्तथा मन्त्रा न सिध्यति कदाचन ||
शिखोपदेशाः सर्वैवः गोपिता परमेश्वरि |
विनानेन सिद्धिः स्याद् वर्षकोटि शतैरपि ||
तस्मात् तुर्यापि गिरिजे गोपनीय प्रयत्नतः |
अथ रहस्यान्तरं | नीलतंत्रे |
लुप्तानिद्रापितामत्ता विद्रावणरताः पराः |
समदोषजालेन ग्रन्थिता पुरसुन्दरि ||
प्. ७९ब्)
निशिचारन्दिवाचारं सन्ध्याचारञ्च पल्लवं |
दर्भितम्बीजसंयोगं भावनं योगमेव च ||
ज्ञात्वा प्रवर्धयेद् वीर गुरुपत्नैव कारणं |
निशिचारमित्यादि |
निशिचारम्वामनासायाम्वायोरुदयः |
तथैव दक्षिणनाद्यां उदयो दिवा च ||
सन्ध्याचारं उभयनाडी प्रवाहः |
तदुक्तम्विष्णु संहितायां |
स्वापकाले तु मन्त्राणां जपोनर्थं फलप्रदः |
तत्रैवोक्तं | स्वापकालो दक्षिणावहत | प्रबोधो दक्षिणावहः |
प्. ८०अ)
अग्रे यस्य मनो सौम्य मन्त्रस्यै तद्विपर्ययः |
बुबोधः कालजानीया उभयोरुभयोरपि ||
कर्मणो वह्नि तारान्मवियन्प्रायाः समीरताः |
आग्नेयमपि सौम्याश्च भूजिष्ठेत्वमिताक्षराः ||
तदुक्तं | स्वतन्त्रे |
तदात्मिका स्मृता विद्या मन्त्रा देवि प्रदात्मिका |
एवम्वामन्त्र आग्नेर्या |
विद्यासौम्याः वामे वहेद् यथा वायुदीर्घानामुदयस्तदा |
दक्षिणस्यां यदा वायुस्तदा ह्रस्व फलप्रदाः ||
उभयस्थो यदा वायुस्तदा सर्व फल प्रदाः ||
प्. ८०ब्)
इति विज्ञान भट्ट चरणाः |
एवम्वाम भागे बीजे उभयन्तु बीज संयोगात् सर्वविद्या फलाप्तयेस्तु | एवन्
दक्षिणभागे सर्वे मन्त्राः | रहस्यान्ये तु |
दीर्घयोगाद्विद्या जपसत्वरं फलप्रदः | एवं ह्रस्व सयोगादक्षिण गणाः ||
पल्लवं यथा |
तदुक्तं स्वरतन्त्रराजे |
आदायोग भवेदन्ते पल्लव संपुटो द्वयोः |
एकान्तरितग्रन्थेन विदर्भो अन्तरी कृतः || अस्यार्थ |
आदयोग इत्यादिना श्लोकेन मन्त्रेषु मध्य कर्म योजन प्रकारमुप विंशति ||
प्. ८१अ)
तदुक्तं भवति |
मन्त्रविद्ययोराद्यसाधन कर्मणां योजने योगसंज्ञामन्त्रविद्ययोरन्ते
पूर्वोक्तयोजनात् पल्लव इति संज्ञा | मन्त्र विद्ययोराद्यन्तश्च पूर्वोक्त योजना
संपूटेति संज्ञा | मंत्र विद्ययोगुक्तानाञ्च एकैकाक्षरतो अन्योन्य योजना
ग्रन्थन इति संज्ञा | मन्त्र विद्ययोः प्रागुक्तानाश्च अन्योन्यक्षरद्वय योजना
विदर्भ इति संज्ञा | स च त्रिविधः |
प्. ८१ब्)
मन्त्राक्षर द्वयान्तरे स्याध्याक्षरन्तरे साध्याक्षरमेकं जपेदि एकप्रकारः
|
साध्याक्षराणाद्वयान्तरे मंत्रादीनामेकाक्षरं योजयेदित्यपरः |
मन्त्रादीनमक्षर द्वयोनन्तरे साध्यादीनामक्षर द्वयं ||
योजयेदेषन्ये | एवन्त्रिविधमिति | बीजसंयोगो यथा | तदुक्तम्विमलतन्त्रे |
प्रणवो मातृका देवि हृल्लेखाद्यन्मृतद्वयं |
अमृतभृयं योगातदुष्टमंत्रोपि सिद्ध्यति ||
भाव संयोग इति निर्णय प्रकारेण बोधव्यमिति | कुलचूडामणौ |
प्. ८२अ)
नियमः पुरुषो ज्ञेयो न योषित्सु कथश्चन |
यद्वातद्वायेन तेन सर्वदा सर्वदोपि च ||
योषितान्ध्यान योगेन सिद्धयः स्यूर्न संशयः |
यथा यस्कान्त मात्रेणं गूढमिद्धशिलोचयः ||
स्वयमेव बहीर्याति यथा वासौरतेजसा |
सूर्यकान्तं पुटं रौतियथा वाचेन्द्र रस्मिभिः ||
चन्द्रकान्तन्द्रावायति यथा वर्षा सुवारिदैः |
जलकाति तथा प्लाभूरसपूर्णाप्रचक्षते ||
क्षुधार्तक्षीरपानेन यथा तृप्तो हि जायते |
कुलपुष्प प्रदानेन यथाशक्ति प्रतुष्पति ||
प्. ८२ब्)
गुरुसेवैक मात्रेण मंत्रसिद्धिर्यथा भवेत् |
महापद्मं वनध्याना यथा सिद्धाञ्चरो भवेत् ||
त्रिपुराध्यानमात्रेण भुक्तिमुक्ति यथा भवेत् |
महादुर्गा प्रसादेन यथा सिद्धिश्वरो भवेत् ||
गंगास्मरण मात्रेण निपापो जायते यथा |
यकाकर्षणमात्रेण शिव एव प्रजायते ||
योषिचिन्मनमात्रेण यथैवम्वरदायिनी |
तस्मात् सर्व प्रयत्नेन दीक्षयेत् निजकौलिकीमिति ||
प्. ८३अ)
इति श्रीतारारहस्यवृत्तौ भवनिर्णयः षष्टपटलः || ६ ||
अथ कुमारीकल्पः |
रुद्रयामले उक्तं |
कथयामि न सन्देहः कुमार्या पूजनं शुभं |
यस्या पूजनमात्रेण त्रैलोक्य पूजनं भवेत् ||
कुमारी पूजनाशे हन्त्रिता मूर्ति व्यवस्थिताः | परावैवतीया च परा परा ||
यत्र कालेन किञ्चित् स्याद् देवासुर महोरगाः |
तिलोक्यन्त त्वयाहञ्च तथा जाता कुमारिका ||
आद्या षृष्टिकरी या तु प्रत्यक्षा सा तु तन्निधा |
उमाकन्या तु सा जाता सृष्टिरूपो भवान्तरे ||
प्. ८३ब्)
एकवर्षा भवेच्चण्डी द्विवर्षा तु सरस्वती |
त्रिवर्षा च त्रिधामूर्तिश्चतुर्वर्षा च कालिका ||
सुभगापञ्च वर्षा तु षट्वर्षां तु उमा भवत् |
सप्तवर्षा मालिनी च अष्टवर्षा तु कुब्जिका ||
नवभिः कालसंकर्षणी दशभिश्चापराजिता |
एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी ||
त्रयोदशे महालक्ष्मी द्विसप्तपीठ नायिका |
क्षेत्रज्ञा पञ्चदशभि षोडसे चर्चिका मता ||
एवं क्रमेण पूज्ये तयावत् पुष्पं न विद्यते |
प्रति प्रदादि पूर्णंत्तम्वृद्धि भेदेन पूजयेत् ||
प्. ८४अ)
महापर्वेषु सर्वेषु विशेषा च पवित्रका |
महानवम्यान् देवेशि कुमारी सुप्रपूजयेत् ||
पिङ्गलां पूजयेद् यस्तु षोडशैश्चैव भक्तिमान् |
पूजयेत् कुलविद्यानान्मेकया नव भैरवी ||
एवन्प्रणवयोगेन चैतन्य तत्व * र्चयेत् |
ऐं ह्रीं श्रीं हूं | ऐं ह्रां श्रीं ह्रां हूं एते पञ्चप्रणवाः |
इदश्चैतन्य बीजाक्षरौ ||
एकन्द्वाभ्यां त्रिभिश्चैव सप्ताष्ट नवधा पुनः |
नित्यक्रमेण देवेशि पूजयेद् विप्रमुत्तमं ||
प्. ८४ब्)
घ्नन्ति विघ्नान् पूजयित्वा तथा शत्रुन्महोत्कटं |
व्याधयः सर्वविद्यानिदुर्न्निमित्तनिनाशयेत् ||
ग्रहयक्षाः क्षयं यान्ति भूतवेताल पन्नगा |
असुरागुह्यका प्रेता योगिनी गुह्य डाकिनी ||
महाभयानि दुर्भिक्षं मुत्पातानि कुलेश्वरः |
दुःस्वप्नमपमृत्युञ्च अन्ये ये ये समुद्भवा ||
कुमारी पूजना देवि न तस्य प्रभवन्ति हि |
अनिमादीनि सिद्धानिघ्नाताल गुटिकांजनं ||
प्. ८५अ)
उछिष्टं दिव्य वेतालो भवेत् कुमारिकार्चनात् |
ऐंकारेण जलान् देयं ह्रींकारे पादशौ वनं ||
श्रीकारेणोर्घ दद्या कुर्चबीजेन चन्दनं |
शक्तिबीजेनुपुष्पादि षष्ठे धूपञ्च दापयेत् ||
ऐं ह्रीं श्रीं ह्रौं इमां कुलकुमारिके हृदयाये नमः |
हें रें ह्रैं ह्रीं श्रीं ऐं स्वाहाशिलसे स्वाहा ||
ओं ह्रीं सें शिखायै वषट् |
ऐं कुलवागीश्वर वागीश्वरी कुवचाय हूं ||
ह्रीं फट् स्वाहा ऐं सिद्ध जय अस्त्राय फट् |
ऐं ह्रीं सिद्धजयाय पूर्वक्त्राये नमः ||
प्. ८५ब्)
ए ऐं जये जय उत्तराय वक्तुय नमः |
ऐं ह्रीं श्रीं कुब्जिको पश्चिमवक्त्राय नमः ||
ऐं फ्रैं कालिके दक्षिण वक्त्राय नमः |
वाग्भवेन पुरक्षोभं मायाबीज गुणाष्टकं ||
श्रियो बीजे श्रियोलाभं ह्रीं बीजं अलिसंक्षयं |
भैरवेन तु बीजेन खगत्वममरादिभिः ||
कुमारीका ह्यहं नाथ सदात्वञ्च कुमारिका |
अष्टोत्तर शतं वापि एकाकन्यान् प्रपूजयेत् ||
ष्टजिताप्रतिपूज्यन्ते निर्दहन्न्यपमानिता |
कुमारी योगिनी साक्षात् कुमारी सर्वदेवता ||
प्. ८६अ)
भूर्भुवामूर्तिपादेका कुमारीत्रिकपूजिताः |
असुरादुष्टनागाश्च एते दुष्ट ग्रहा अपि ||
भूता वेताल गन्धर्वा डाकिनी यक्षराक्षसाः |
हृदये देवता सर्वा भूर्भुवश्चैव भैरवाः ||
पृथिव्यादीनि भूतानि ब्रह्माण्डं स चराचरं |
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ||
ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् |
कालाग्नि शिवपर्यन्तत् तथा गौर्यादि संस्थिताः ||
सप्तद्वीपाः समुद्राश्च भुवनानि चतुर्दशः |
विधियुक्त कुमारीति भोजयेच्चैक भैरवीं ||
प्. ८६ब्)
पाद्यमर्घ तथा धूपं कुंकुमं चन्दनं शुभं |
भक्ति भावेन संपूज सर्वन्तस्मैदिवेदयेत् ||
प्रदक्षिण त्रयं कृत्वा आदि मध्ये शुभश्चरेत् |
पश्चाच्च दक्षिणादेयारततं स्वर्णमौक्तिकं ||
विवाहयेत् स्वयङ्कन्यां ब्रह्महत्याम् विनश्यति |
शोवधम्वनिताद्यं तं सर्वपापन् प्रणश्यति ||
माता च पितरौ चैव श्राभरं चैव सर्वतः |
ये तु यस्तु पुनः सर्वे कन्यादानन् प्रकल्पयेत् |
प्. ८७अ)
भुक्ति मुक्ति फलन्तस्य सौभाग्यं सर्व सम्वदः |
रुद्रलोके वसेन् नित्यन् त्रिनेत्रो भगवान् हरिः ||
षष्टिकोटि सहस्राणि अस्वमेध फलं लभेत् |
एतत्फलं लभेत् सत्यः कंन्यास्तु विवाहयेत् ||
बालुका सागरं ज्ञेयं तावदब्दं नरेश्वरुः |
एकैकं कुलमुद्धृत्य मर्त्यलोके च सेच्चिरं ||
तावद् भुजंति ते भोगा यावद् भूमि दिवौकसः |
कन्यादानं महादानं सर्वदानोत्तमोत्तमं ||
सौभाग्यन्न विनश्यन्ति क्षिप्रं सौभाग्य वर्तते |
राजद्वारे लभेत् पूजां राजमान्य स्वयम्वरः ||
सषाश्च कुमारीश्च पूजयेच्च प्रयत्नतः |
प्. ८७ब्)
महद्भये समुत्पन्ने ह्यत्पाते ह्यति दारुणे |
कोष्टके सा रसे ये वा द्रोण काकेष्युलुकिके |
गृध्रे वकेषु चारावे यज्ञाते शान्ति कर्मणि |
महापूजा प्रकर्तव्या कुमारी भोजयेद् विधिः |
नातः परतरं शान्तिं नृणां कल्पान कृत्परं |
महाभये महोत्पाते कन्याचैकाश्च पूजयेत् |
तत्क्षणाल्लभते सौख्यम् सत्य सत्यञ्च भैरवः ||
इति श्रीतारारहस्यवृत्तौ कुमारीतत्वनिर्णयः सप्तमः पटलः || ७ ||
प्. ८८अ)
श्रीभैरव उवाच |
महाचीन क्रमं देव सुचितन्न प्रकाशितं |
कथयस्व महादेव सर्वसिद्धि प्रदं भवेत् ||
ब्रह्मविष्णुमहेशानां दिक्पालश्चैव भाविनिः |
भैरवानाञ्च सर्वेषां गन्धर्वाश्च योगिनां ||
सिखसिद्धि प्रदन्देवि सर्वेषां मालयन् महत् |
नान्यसिद्धि प्रदन्देवि वीरसाधन वर्जितं ||
महाबलो महाबुद्धिर्महासाहसिकं शुचिः |
महास्वछोदयावञ्च सर्वभूतहितेरतः ||
तेषां कृते महेशानि कथितम्वीर साधनं |
अष्टम्यांश्चतुर्दश्यां पक्षयोरुभयोरपि ||
प्. ८८ब्)
कृष्णापक्षे विशेषेण साधयेदन पाहितं |
भौमवारेतमिश्रायां मे याते च भाविनि ||
तद्भक्त्याभ्यन्तरे सम्यक् पूजोपकरणाम्बितं |
आमिषांनं गुडच्छागं सुरापिष्टक पायसं ||
नानाफलञ्च नैवेद्यं स्व स्व कल्पोक्त साधनं |
चिता स्थानं समानीय बहुभिः शस्त्र पाणिभिः ||
समान गुणसम्पत्यै साधको वितभिः स्वयं |
चितालकरणं यथा |
असंस्कृता ग्राह्या न तु संस्कारसंस्कृता |
चाण्डालादिष्ट संप्राप्ता केवलं शीघ्र सिद्धिदा ||
प्. ८९अ)
वीरतन्त्रेपि |
शवम्वापि समानीत्वा बध्या गत्वा यथासुखं |
स्नात्वा रक्षासुवध्वा वै देवता ध्यान तत्परः ||
भीतश्चेत् साधकस्तत्र चतुर्दशि च साधकः |
नोचेत्स्वयं केवलोसौभैरवः परिकीर्तिता ||
वस्त्रालङ्कारभूषाद्यैर्भूषितं पूर्वसन्मुखं |
अस्त्रान्तमूलमन्त्रेण प्रोक्षणं योगभूमिषुः ||
गुरुपादरजो ध्यात्वा गणेशम्वटुकन्तथा |
योगिनि मातृकाश्चैव वायुः पादपुरःसरं ||
प्. ८९ब्)
ये चात्र संस्थितादेवा राक्षसाञ्च भयानकाः |
पिशाचायक्षासिद्धश्च गन्धर्वाप्सरसां गणाः ||
योगिण्यो मातरोभूताः सवाञ्च खचरस्त्रियः |
सिद्धिदास्ते भवन्तत्र तथा च मम रक्षकाः ||
प्रणम्य मनुनानेन पुष्पाञ्जलि त्रयं क्षिपेत् |
श्मशानाधिपति पञ्चाद् भैरवं कालभैरवं ||
महाकालं यजेत् पश्चात् पूर्वादिक चतुष्टये |
पाद्यादिभिञ्च मन्त्रज्ञो बलिं पञ्चान्निवेदयेत् ||
प्. ९०अ)
कूर्चबीजं ततः पश्चात् श्मशानाधिपतिं परं |
इमन्मन्त्रे सामिषान्नम्वलिं गृह्न ततः परं ||
गृह्नापय पदन्द्वन्द्वम्विघ्ननिवारणन् ततः |
कुरु सिद्धिस्तु मे भान्नन् प्रयछ स्वाहया युतं ||
प्राणवाद्येन मनुना प्रथमो बलिं रुच्यतेः |
मायान्ते भैरव पश्चात् श्मशानाधिप तत्परं ||
प्रयछेति द्विधाप्रोक्ता भायानक मत परं |
पूर्ववत् मनुमुद्धृत्य दक्षिणे बलिमाहरेत् ||
हूं मन्त्रे च महाकाल पञ्चान् पूर्ववदुर्द्धरे |
पश्चिमे काल देवाय प्रणवाद्येन दापयेत् ||
प्. ९०ब्)
शब्दान्ते कालशब्दञ्च भैरवेति ततः पर |
श्मशानाधिपति इत्येवं पूर्ववच्चोत्तरे हरेत् ||
चितामध्ये ततो दद्याद् बलि त्रय मनुत्रयं |
कालरात्रीर्महाकालि कालिके घोरनिःस्वने ||
गृहाणेमम्बलिमातर्देहि सिद्धिम्वल प्रदां |
कालिका यै वलिन् दत्वा भूतनाथ यदा चयेत् ||
शब्देन्ते भूतनाथाय श्मशानाधिपति इत्यपि |
प्रणवाद्येन मनुना दापयेद् वलिमुत्तमं ||
हुं शब्दान्ते सर्वगणनाथान्ते चाधिपाय च |
श्मशानममुके दत्वा पूर्ववच्च समुद्धरेत् ||
प्. ९१अ)
तारान्तोय वलिं दत्वा पञ्चगव्येन सुन्दरि |
अंभसा प्रोक्षणं कृत्वा पीतवस्त्रे लिखेत् ततः ||
भूर्जे वाप्यथवा पत्रे तत्र पीठ मनु न्यसेत् |
पीटमास्तीर्य तस्मिन् वै वद्धवीरा सनन्ततः ||
विरदेवेविशिरक्षादिक्षु प्रकल्पयेत् |
कुर्चयुग्मंन्द्वयन् देवि माया युग्मा तदंतरं ||
कालिके घोरद्रंष्ट्रे च प्रचण्डे चण्डनायिके |
दानवान्दारयेत्युग्रारहनेति द्वितयं ततः ||
शवतनु महाविघ्ने छेदयेति पुनश्चरेत् |
प्. ९१ब्)
द्विरस्त्र चर्मशस्त्रान्तो वीरकर्म मनुस्मृतः |
अनेन मन्त्रितं लोष्ट्रं दशं द्विक्षुसमास्तरेत् ||
तन्मध्ये भैरवो देवो न विघ्नैः परिभूयते |
यदि प्रमादे देवेशि साधको भयविह्वलः ||
तत्र तेस्तैः सुहृद्वर्गौ रक्षितो नाभिभूयते |
तस्मिन् महादीपे विघ्नैश्च परिभूयते ||
अर्कैस्तु शित * * * * * (?)
न्निर्मितवर्तिर्मितवर्तिका | प्रदीपं तत्र स स्थाप्य अस्त्रन्त प्रपूजयेत् |
हेते तस्मिन् महादीपे विघ्नैश्च परिभूयते |
तदधश्चास्त्र मन्त्रेण लिखनेन कुलदीपिकां ||
प्. ९२अ)
ततत्कुलविधिना भूतं शुध्यादिकञ्चरेत् |
षोढाम्वा तारम्वापि विन्यसेत् पूजयेत् ततः ||
मन्त्राध्यानचरो भूत्वा जपेन्मंत्रं मनन्यधी |
एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् ||
द्व्यक्षरश्चाष्टसाहस्रं त्र्यक्षरं त्वयुतार्द्धकं |
ततः परं तु मन्त्रज्ञो गःजान्तश्च सहस्रकं ||
निशायां जपमारन्य उदयान्त समारभेत् |
जपादौ तु वलिन् दत्वा पश्चादपि वलिं हरेत् ||
प्. ९२ब्)
जपान्ते जपमध्ये वादेददेहिति भारवते |
तदा चापि वलिन् दद्यान् महिषम्वापि छागल ||
न दिक्षु विक्षणं किञ्चित् निववंधु समागमः |
जलान्द्रष्टिनामपि |
पक्षिकीटपिशाचानायद्यद्वा मनसस्थितं |
तत्पूर्वं स्वप्नवद्ध्यात्वा भयं सर्वत्र वर्जयेत् ||
समाप्यसाधन्देवि दक्षिणाम्विभवावधिः |
गुरुवे गुरु पत्न्यै चत् पुत्राय वदापयेत् ||
सम्यक् सिद्ध्यैक मन्त्रस्य नासाद्ध्यंम्विद्यतै क्वचित् |
वहुमन्त्रवतः पुसक्वा कथा रुद्र एचसः ||
प्. ९३अ)
एतत् सर्वत्र देवेशि गुरु पूजा गरीयसी |
उदयेन् मन्त्र मन्त्रणां भाषयश्च सदाशिवः ||
अन्य देव सपर्याम्वा अन्य देवस्य कीर्तनं |
गुरु देवम्विना देवि तदग्रे नरकं व्रजेत् ||
शवारूढो यदि भवेतद् विश्येव इहोच्यते |
शुन्यागारे बिल्वमुले नदीतीरे च तु पठे ||
उर्द्धन्द्विवर्षाद चूडं पञ्च वा तरुणं यदि |
सप्तमाष्टममासीय गर्भजं यदि वाशवं ||
चाण्डालश्चापि भूतम्वा शीघ्र सिद्धिफलप्रदं |
आनीय स्रापयदादौन्यासजालं समाचरेत् ||
प्. ९३ब्)
पीठे मन्त्रे समालिख्य गन्ध पुष्पादिभिस्ततः |
अभ्यर्चा साधपुष्पादिभिस्ततः ||
अभ्यार्चा साधनन्यत्वा रक्षमात्मनि कारयेत् |
ततः शवास्ये विधिवर्द्दवताप्या अनन्ततः ||
ततो जप्त्वा सर्वमन्त्रे सर्वसिद्धिश्वरो भवेत् |
तारमन्त्रन् मृतस्यैवं नमोन्ते मन्त्रमुच्चरेत् ||
शवस्नापं न मन्त्रोयं सवासन मनुत्तमः |
मन्त्रेन्नेतुवनेशीस्या फडंन्तो मन्त्र इरितः ||
प्. ९४अ)
महानीलः क्रमन् देवि सर्वसिद्धिश्वरो भवेत् |
न कस्यचित् प्रवक्तव्य मन्त्र प्रवरमेव च ||
सर्वेषां जीव हीनानां जन्तूनां वीरसाधने |
प्रोक्षणं गोमयं त्यक्ता साधनम्वीरसाधने ||
महाशवाः प्रशस्तास्यु प्रधनि साधने प्रिये |
ब्राह्मणस्तु स्त्रियं त्यक्ता साधयेद् वीरसाधनं ||
क्षुद्राप्रयोगाः क * णान् प्रसस्ताः सर्वसिद्धये |
श्मशाने तु पुरश्चर्या कथितान् देवि दुर्ल्लभा ||
अथ भैरवतन्त्रेपि सवलक्षणमाहवेः |
यतुक्तं भाव सर्वश्वे सर्वतन्त्रेपि गोपितं ||
प्. ९४ब्)
वीरसिद्धि विधानन्तुः देवदेवेन शंभुना |
यस्य विज्ञान मात्रेण मन्दभाग्यापि सिद्ध्यति ||
अहोरात्रेण कालेन हेलया साधकोत्तम |
मंत्र पुरस्कृयं |
पुरश्चरणसम्यन्तो वीरसिद्धिं समाचरेत् |
तदुक्तं स्वछन्द भैरवेपि |
सम्यक् परिशुमोणापि नैव सिद्धिः समाहिता |
जायते साधकेस्तत्र वीरसाधन साधयेत् ||
पुत्रदारधनाप्तेह लोकमोहन वर्जितः |
मन्त्रम्वा साधयिष्यामि देहं वा पातयाम्यहं ||
प्. ९५अ)
प्रतिज्ञामीदृशं कृत्वा वलि द्रव्यानि चिन्तयेत् |
यस्य मन्त्रस्य यद्भूते तद्भूता शेष साधकः ||
अथ शव लक्षणं |
यथा यष्टिप्रख्यत्यस्त्रे भिन्न सुकभिचंपयोमृतं |
सवमानीय कर्तव्यं नाहरे स्वछयामृतं ||
स्त्रीवश्यपतिता स्पृश्यांमयवर्जहतन्तरं |
अव्यक्तलिङ्गं कुष्टिनं प्रेतवंश वहेत् ||
न दुभिक्षमृतं वृद्धन्नपर्यूषितमेव च |
स्त्रीजनञ्चे दृशं रूपं सर्वथा परिवर्जयेत् ||
इति शव लक्षणं |
प्. ९५ब्)
शून्यागारमरण्यम्वा नीत्वाद्धत्यविभूषयेत् |
सस्थाप्य सवयो यं पुरुपिणं ||
मत्स्यसूक्ते |
ततः शवं क्षारयित्वा स्नापयेच्च प्रयत्नतः |
यदि भक्ताकुकन्त्रिष्टद्भैरवाच्च भयेत् ||
एलालवङ्ग कर्पूर जाती खदिरसाङ्गकैः |
ताम्बुलश्च मुखे क्षिप्त्वा सवङ्कुर्यादधोमुखं ||
स्नापयित्वा च तत्पृष्टे चन्दनेन विलेपयेत् |
बाहुमूलान्तकद्यन्तञ्चतुरसंविधाय च ||
प्. ९६अ)
मधे पद्मञ्चतुद्वार दलाष्टक समन्वितं |
ततःश्चैनेयमजिनं कम्वलान्तरित न्यसेत् ||
पूजाद्रव्यन्समन्ति धौदूरे चोत्तर साधकः |
मस्थाप्य शवमप्यर्च्य तत्रश्वांरोहनम्विशेत् ||
कुशान्पदतलेदत्थाशव केशान् प्रमार्य च |
दृढन्ति वध्य जुटिकान्तच्च देव स्वरूपिणी ||
तस्यान्देवें सुसंस्पृश्य पठेद् रक्षाय सन्मुखे |
शवे भवेच्च देवेशि मूकमिष्ट सिद्धिं शवकृताम्वरे ||
पट्टसूत्रेण रज्जकेन चरणौ बद्धये दृढं |
ओं भीमभीरुभयाभावलोचन भावुकेत् ||
प्. ९६ब्)
त्राहि मान् देवदेवेश शवानामधियोधिप |
इति पादतले तस्य त्रिकोणन्तु समुल्लिखेत् ||
तेनोत्पात्तुन्नशक्नोति शवस्तु निश्चलो भवेत् |
उपविश्य पुनस्तत्र बाहुनिःसायपादयोः ||
हस्तयोः कुशमास्तीर्यः पादौस्तत्र निधापयेत् |
ओष्टो संपूटकौ कृत्वा स्थिरचित्तस्थिरेन्द्रियः ||
सदादेवं हृदि ध्यात्वा मौनी जपमथाचरेत् |
चलासनो भयन्नास्ति भये जाते वदेत् ततः ||
यत्प्रार्थसे बलित्वेन दातव्य कुञ्जरादिकं |
दिनान्तरे तद्दास्यामि स्वनाम कथयस्व मे ||
प्. ९७अ)
इत्युक्तासंस्कृतो भक्त्या निर्भयस्तु पुनर्जपे |
ततश्च मधुरं वाक्यम् वक्तव्यं लिलया नरः ||
तत सत्यङ्कारयित्वा च वरन् प्रार्थय साधकः |
यदि सत्यन्न करोति वरम्वा न प्रयछति ||
तदा पुनर्जपेद्धीमान् येकाग्र यतमानसः |
सत्ये कृते वरं लब्ध्वा सत्ये जेन्तु जपादिकं ||
फलं जातमिति ज्ञात्वा जुटिकान् मोचयेत् ततः |
शवं प्रक्षाल्य संस्थाप्य मोचयेत् पादबन्धनं ||
प्. ९७ब्)
पादरजुमोचयित्वा पूजाद्रव्यं जले क्षिपेत् |
शवं जले वा गर्ते वा निक्षिप्यस्नानमाचरेत् ||
ततस्तु स्वगृङ्गत्वा वलिं दद्याद् दिनान्तरे |
अग्निमारात्रौ |
यजमानो गृह्नन्तु मया दत्तमिमम्वलि |
अथ यथार्चिता नर कुञ्जर शूकरान् ||
दत्वादिष्ट मयाकेन कर्तव्यं समुपोषणं |
परेह्नि नित्यमाचार्य पंचगव्यं पिवेत् ततः ||
ब्राह्मणन् भोजये तत्र पञ्चविंशति शंख्यकान् |
पञ्चपञ्चविहिनान्वा क्रमेणैव दशावधि ||
प्. ९८अ)
तत्र स्नात्वा च भुक्ता च निवसे उत्तमस्थलं |
यदि न स्याद् विप्र भोज्यान्तदा निस्फलताम्व्रजेत् ||
तेनयेति धनत्तस्यात् तवादेवः प्रकुप्यति |
त्रिरात्रम्वापि षडात्रं नवारात्रं प्रगोपयेत् ||
स्त्रीशर्या यदि शब्दे वै तदा व्याधि विनिर्दिशेत् |
गीतं श्रुत्वा च विधिरोनिश्चक्षुर्नृत्यदर्शनात् ||
यदि वक्ति दिने वाक्यन्तमास्यन् मूकता भवेत् |
पञ्चदशदिनं यावत् देहे देवस्य संस्थितिः ||
मेस्वी कुर्याङ्गन्धपुष्पं वदिषीति पदा यदा |
प्. ९८ब्)
तदा वस्त्रम्परित्यज्य गृह्नीयाद् वशनान्तरम् |
गो ब्राह्मणानान्निन्दांञ्च न कुर्या तु कदाचनः ||
देवगोब्राह्मणादीञ्च प्रत्यहं सस्पृशेत् सुचिः |
प्रातर्नित्य क्रियान्ते च बिल्वपत्रोदकं पिबेत् ||
ततः स्नात्वा तु गंगायां प्राप्ते षोडसवासरे |
स्वहान्तमन्त्रमुच्चार्य तर्पणान्ते मम पदम् ||
एवं शतत्रयाद्वूर्द्ध देवान् वै तर्पयेज्जलैः |
स्नानतर्पनशून्यस्य न स्यादेवस्य तर्पणं ||
प्. ९९अ)
इत्येनेन विधानेन सिद्धिं प्राप्नोति साधकः |
इह भुक्ता वरान् भोगानन्ते याति हरेः पदं ||
मत्स्यसूक्ते |
अथवान्य प्रकारेण पुरश्चरणमिष्यते |
कुजे वा शनिवारे वा शवमुण्डं समाहृतं ||
पञ्चगव्येन संस्नाप्य चन्दनेन विलेप्य च |
निक्षिप्य भूमौ हस्तार्द्ध मानतकानने वने ||
तत्र तहिवशे रात्रौ सहस्रं यदि मानवः |
एकाकी प्रजपेन् मन्त्र स भवेत् कल्पयादयः ||
अथवान्य प्रकारेण पुरश्चरणमुच्यते |
शवमानीयतद्वारिते नैव परि खन्यते ||
प्. ९९ब्)
तद् दिनान्ते दिनं यावत् तावद्दष्टोत्तरं शतं |
शभवेत् सर्वसिद्धीशो नात्रकार्या विचारणा ||
अथवान्य प्रकारेण पुरश्चरणमिष्यते |
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि ||
सूर्योदयात् समारभ्य यावत् सूर्योस्तमान्नरं |
तावत् जप्त्वा निरातंकः सर्वसिद्धिश्वरो भवेत् ||
अथवान्य प्रकारेण पुरश्चरणमिष्यते |
चन्द्रसूर्ये ग्रहे चैव ग्रासावधि विमुक्ततः ||
प्. १००अ)
यावत् संख्यन्मनुञ्जप्ता तावधोमादिकञ्चरेत् |
सूर्यग्रहण काराद्धिनान्यकाल प्रशस्यते ||
तत्र यद्यत् कृतं सर्वमनन्तं पलदं भवेत् |
अथवान्य प्रकारेण पुरश्चरणमिष्यते ||
शरत्काले चतुर्थ्यादि नवम्यान्तं विशेषतः |
भक्तितः पूजयित्वा तु रात्रौ तावत् सहस्तकं ||
जपेदेकाकी विजने केवलन्ति मिरालये |
अष्टम्यादि नवम्यातंमुपवास परो भवेत् ||
अन्यत्र गुरुवाक्यस्य लंघनं नैव कारयेत् |
अथान्यञ्च प्रकारेण पुरश्चरणमिष्यति ||
प्. १००ब्)
अष्टमी सन्धि वेलायामष्टोत्तर लता गृहे |
प्रविश्य मन्त्री विधिवत् तासमत्त्यर्च्य यत्नतः ||
पूर्वोक्त कल्पमासाद्य पूजादिक समाचरेत् |
केवलं कामदेवोसौ जपेदष्टोत्तरं शतं ||
तासाञ्च पत्रमूले तु उल्का संगृह्यमस्तके |
कुन्दा कृति लता गात्रे लिखित्वा मन्त्रमेव च ||
प्रपूज्य तत्र संस्कारं दत्वा तस्यै निवेद्य च |
किंचिज्जयंन्मनुन्नीत्वा देवता भाव तत्परः ||
ताञ्च पूज्य नमस्कृत्य स्वयं जप्तासुसंयतः |
प्. १०१अ)
प्रातः स्त्रीभ्यो बलिन् दत्वा मन्त्र सिद्धिर्न संशयः ||
अथवान्य प्रकारेण पुरञ्चरणमिष्यते |
गुरुमानीयसंस्थाप्य देववत् पूजनं विभो ||
वस्त्रालंकार हेमाद्यै गुरु संतोषयेत् स्वयं |
तत्पत्नी देवि भावेन पूजयेच्च विशेषतः ||
पूजयित्वा मनुजप्ता स्वयं सिद्धेश्वरो भवेत् |
अथवा स्वसस्नारे गुरोपादन् प्रपूज्य च ||
केवलं देवता भावो जप्ता सिद्धीश्वरो भवेत् |
गुरुध्यानं | यथा |
प्. १०१ब्)
सहश्रदल पंकजे सकल शीतरस्मि प्रभं वराभय कराम्बुजां |
विमल गन्ध पुष्पाम्बरम् | प्रसन्नवदने क्षणं ||
सकल देवता रूपिण स्मरे छिरसि हंसगं तदभिधान पूर्वं गुरुं गुरवे
दक्षिणां दद्या | यथा विभवविस्तरैः |
गुरोरनुज्ञा मात्रेण दुष्टमन्त्रोपि सिद्ध्यति |
गुरुं विलंघ्य शास्त्रोस्मिन्नाधिकारः सुरैरपि ||
एवञ्च मन्त्रतञ्चाणान्प्रयोगं क्रियते यदि |
गुरुवक्तम्विना देवि सिद्धि हानि प्रजायते ||
प्. १०२अ)
तस्मान्मन्त्रञ्च शिद्ध्येभ्योपि न दर्शयेत् |
अन्यथा प्रेतराजस्य भवन याति निश्चयं ||
इति तारारहस्यवृत्तौ वीरादि साधननिर्णयो नामाष्टम पटलः || ८ ||
अथ मन्त्रोधारः | मत्स्यसूक्ते |
अथ भेदान् प्रवक्षामि तारिण्याः सर्वसिद्धिदान् |
तेषाम्विज्ञानमात्रेण जीवन्मुक्तञ्च साधकः ||
तत्रादौ सन्प्रदाय शुद्धार्थं यथाधुनामाद्यां पञ्चाक्षरी वृणोमि |
यथा |
मायाबीजं समुद्धृत्य तकार वह्नि संस्थितं |
मायाबिन्द्वीश्वरयुतंन्द्वितीयम् बीजमुत्तमं ||
प्. १०२ब्)
कुर्चबीजं तृतीयन्तु फट् कारन्तदनन्तरं |
संपूर्णसिद्धिमन्त्रं च रस्मि पञ्चकसंयुतं ||
रस्मिपञ्चकसिद्ध्यन्ति एक जटा प्रक्षेरस्मि पञ्चकं वर्ण पञ्चकमित्यर्थः
| नीलसरस्वती पक्षे तु रस्मि पञ्चकन्प्रणवमित्यर्थः | तथा फेत्कारीयेपि |
अक्षरोऽसै महामन्त्रः फत्कारानो हृदिस्थितः पञ्चरस्मि समायुक्तोप्य
ज्ञाने धनदाहकः |
तस्योछार महम्वक्षे मम सर्वज्ञ कारणं |
प्रथमं सपरं दत्वा चतुर्थस्वरसंयुतं ||
प्. १०३अ)
रेफारूढं स्फुरद्दिप्तमिन्दुबिन्दु विभूषितं |
तकारञ्च ततो दद्या चतुर्थस्वरभूषतं ||
दीर्घोकारसमायुक्तं हंकारेश्चैव योजयेत् |
फट्कारञ्च ततो दद्यात् संपूर्णसिद्ध मन्त्रकं ||
लीलयावाक् प्रभावेन तेन नीलसरस्वती |
तारकत्वात् सदारासुखमुक्ति प्रदायिनी ||
उग्रापन्तारिणी यस्मादुग्रतारा प्रकीर्तिताः |
वितावैक जटाचैसा महमुक्तिं करी मता ||
तारास्त्र रहिता अर्णा महानीलसरस्वती |
कुल्लुकेयं समाख्याता केचिन्दिछन्तितास्त्रिकाः ||
प्. १०३ब्)
नीलतन्त्रे |
ताराद्यापञ्चवर्णेयं श्रीमन्निलसरस्वती |
सर्वभाव मयी शुद्धा सर्वाम्नायैर्नमस्कृता ||
श्रीबिजोद्या यदा विद्या तदा श्रीसर्वतो मुखीः |
एषैव हि महाविद्या मयाद्या सकलेष्टदा ||
वाग्भवाद्या महाविद्या वाग्रूपा सर्ववाग्भयी |
एका क्रम गता प्राप्ता मत भेदा जन्मयी ||
एकवीराकल्पे |
लज्जाबीजम्वधूबीजं कुर्चबीजं यथा हि फट् |
एवं पञ्चाक्षरी विद्या पञ्चभूत प्रकाशिनी ||
प्. १०४अ)
विधूबीजं मध्यबीजं तंकारं केवलं यथा |
यथा कवि कल्पलतादौस्तनंस्तनमिति | तथा भगवताचार्येनोक्तं | मध्ये
षोडशाहनिते शुद्धिं केवलन्तकारं | विशेषतस्तु अत्र मध्यमबीजे
गुप्ताकामृत बीजमस्ति | अति गुप्तत्वाम्नोद्धतं | तेन स च मतुः मध्यबीजमिति
| सिद्धौ ज्ञेयमिति | शिवदीक्षाटीकाकारः | तदुक्तं तारार्णवे | वशिष्टाराधिता
चोग्रानत्वशीघ्र फलायतः | अतस्तेनाभिमुनिमाशायोदत्त सुरारूणः ||
प्. १०४ब्)
ततः प्रभिति विद्येव्यं फलदात्री न कस्यचित् |
शक्तिबीजं त्रयात् तन्तु बीजो परिनियोजितन्ततः प्रभिति विद्येयम्वधूरीव यशस्विनी
|
फलिनी सर्वविद्यानां जयिनीं जयकांक्षनी ||
विपत्क्षयकरी विद्या अमृतत्व प्रदायिनी मन्त्रस्य ज्ञानमात्रेण विजयी भुवि
जायते | एतत् तु केवलमेक जटानील सरस्वती | अपि विद्ययोरेकार्थ त्वात् ||
तंत्रचूडामणीवपि |
अनुत्तरसमुद्धृत्य मयोत्तरमत परं |
प्. १०५अ)
प्रपञ्चमसमायुक्ताः पञ्चरञ्चिन् प्रकीर्तितः ||
जीवनीमथमापश्चादेकाक्षी तदनन्तरं |
उग्रदर्पन्ततः पश्चादस्त्रं देवि प्रकाशितं ||
एकवीराकल्पे |
विलिखेत् कूटसंयुक्तं रौद्रन्त्रैगुण्यमेव च |
विधिविष्णुमहेशानां स्वशक्त्या क्रमयोगताः ||
एषामता महाविद्या सर्वसिद्धि प्रदामता |
सर्वमंत्र मयीविद्या सर्वतन्त्रेषु गोपिता ||
सिद्धिदाभजतामाशु संप्रदाय विधानतः |
ध्यानार्चन प्रयोगाश्च तारिण्यः पूर्ववच्चरेत् ||
प्. १०५ब्)
अथान्यां सम्प्रवक्षामि तारां भुवणतारिणी |
स्मरणात् परमन्त्राणां भयामासुविभाशये ||
प्रणवं पूर्वमुद्धृत्य हृल्लेखा पूर्वमुच्चरेत् |
गगणं शेषसंयुक्तं बिन्दुनादविभूषिते ||
कूर्चबीजञ्च हृदयं तारायै च समुद्धरेत् |
माहापदं समुद्धृत्य तारायै च ततपरम् ||
सकलं दुष्टरांस्तार तारयेति तथा पुनः |
तारयुग्मं वह्निजाया मंत्रौयं सुरपादपः ||
प्. १०६अ)
गद्यपद्य मयी वाणी कथायामभिधायणी |
चतुर्लक्षजपेनास्यात् सिद्धमोष्टौ भवंति हि ||
ध्यानपूजादिकं सर्व पूर्ववत् समुपाचरेत् |
मन्त्रराजे |
जरापछमंनितारां वक्षेन्या शृणु तत्वतः |
यस्यास्मरणमात्रेण भयमाशुर्विनाशयेत् ||
प्रणवं पूर्वमूद्धृत्य तारे तारे तुरे तथा |
तन्त स्वाहेति मन्त्रोयं दशाक्षर उदाहृतः ||
ध्यानं वक्षे शृणु प्राज्ञे समस्ता पत्निराकृतं |
यस्मात् सर्वत्र तोयेषु बाधा न भवति स्मृतं ||
प्. १०६ब्)
श्यामवर्णां त्रिनयनां द्विभुजाम्वर पङ्कजे |
दधानां बहुवर्णाभिः सर्ववर्णाभिरावृतां ||
शक्तिभिः स्मेरवदनां स्मरमौक्तिक भूषणां |
रचनपादुकयोर्न्यस्त पादाम्बुज युगं स्मरेत् ||
वर्णलक्षां जपेद् विद्या नियमेन यथा वशी |
दशांशं जुहुयामन्त्रो घृताक्तौ रक्त पुष्पकैः ||
इति सिद्धामहाविद्यां दद्यात् सर्वमनोरथान् |
मातृकार्णवे |
विद्यान्तरं प्रवक्षामि शृणुष्वावहिता प्रिये |
वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ||
प्. १०७अ)
हृल्लेखाचास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः |
अष्टाक्षरो मनुः प्रोक्तो वेदमातुरमुत्तमः ||
पञ्चाङ्गन्यासमन्त्रस्य पञ्चबीजैः प्रकल्पयेत् |
अस्त्रशेषाक्षरैर्न्यस्य कृतकृत्यो भवेन्नरः ||
ध्यान पूजादिकं सर्वं पूर्ववत् समुमाचरेत् |
कालिका सिद्धि विद्यासान् महाकाली परामता ||
पस्यास्तोत्रे महाविद्या विज्ञेया साधकोत्तमैः |
कुल्लुका तारिणी प्रोक्ता यदा परम साधकः ||
प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च |
महापद्मे पदं व्रूयात् पद्मावति पदं ततः ||
प्. १०७ब्)
माये स्वाहेति मन्त्रोयं प्रोक्तः सप्तदशाक्षरः |
पूजा पूर्वादिवत्कुर्यात् पाठ अर्द्धरात्रे चतुःपथे ||
जपमस्या चल्लक्षस्यादुतकविर्भवेत् |
बीजमन्त्रावितन्त्रास्यु तारिण्याः सर्वसिद्धिदाः ||
एते भेदामहोग्रायाः पुरुषार्थ प्रवर्तकाः |
आयुः श्रीकांति कविता विद्यासौभाग्यदायक ||
अन्ते निरामयं ब्रह्म जीवन्मुक्ति प्रदायकः |
अथ स्वछन्द संग्रहे |
शिवबीजं महेशानि शक्तिबीजं ततः परं |
बिन्दुसर्गासमायुक्तं वेदाद्यन्तदधः क्रमात् |
प्. १०८अ)
मायात्रीः सर्वबीजेन हंसबीजमतः परं |
एष त्वष्टाक्षरी विद्या कथिता तु विदुर्ल्लभा ||
आज्ञासिद्धिमवाप्नोति त्रैलोक्यं वशमानयेत् |
वशमायान्ति सहया वेदविद्या चतुर्दशः ||
हंसभावा महाविद्या तव स्नेहान् प्रकाशिता |
कविता मावहेत् पुंसां धनार्थी धनमाप्नुयात् ||
मोक्षार्थि लभते मोक्षं नात्र कार्या विचारणा |
उग्र तारा महाविद्या कथ्यते मम पौरुषं ||
पंचाक्षरी च विद्यायां हंसाद्यन्ता महोदया |
केवलं तत्प्रयत्नेन तव स्नेहान् प्रकीर्तितान् ||
प्. १०८)
अनयो जपपूजादिन् पञ्चाक्षरवदाचरेत् |
जीवखण्ड महाविद्या त्रिताराद्या पृथक् पृथक् ||
त्रैलोक्य कवितासिद्धिदायन्मुत्तमदायिनी |
षड्दीर्घया मायया च षडंगशमुपाचरेत् ||
पूजापूर्ववदुर्दिष्टा प्रयोगा अयितत् सदा |
ऐकवीराकल्पेपि |
शिवः शक्तिस्तथा माया फट्कारान्त उदाहृतः |
सार्द्धपञ्चाक्षरो मन्त्रो ज्ञानदीपः कवित्वदतारामाया शिव
भक्तिफट्कारान्ता परात्मृता |
प्. १०९अ)
एतयो कल्पमुदित महोग्राफलमुत्तमं |
अथ महानीलसरस्वती द्यथा | तदुक्तं सिद्ध सारस्वते |
वाग्माया कमला बीजं इशो भृगु निसेवितः |
चतुर्दशेन्दुः संयुक्तं पञ्चाद्भृगु महेस्वरौ ||
चतुर्दशविसर्गा पदद्वन्द्व च वाक् पदं |
वादिनीति पतं व्रूयात् नीपदतृतयत्नतः ||
नीलसरस्वती पदं त्रिधावृत्तिश्च वाग्मनोः |
काहि शब्दद्वयं पञ्चाकस्तूरीमग्निवल्लभा ||
चतुस्त्रिंशद् वर्णयुक्तो नीलसारस्वतो मनुः |
षट्कौशिकोयं विशेया षड्भिर्मन्त्रैर्यतः कृतः ||
प्. १०९ब्)
ऋषिछन्दो देवतानां विधानं शृणु पार्वति |
गङ्गा प्रवाहनामर्षि मत्स्यरुपी जनार्दनः ||
अतिशयवाक् कविताछन्दो देवि सरस्वती |
सर्ववागीश्वर्य मयी समस्पृभीष्टदायिनी ||
ऐं बीज कीलकं ज्ञेयं ह्मै शक्तिः समीरिता |
नीलोवर्णास्त्र विज्ञेय त्वरिमा कविता ध्रुवं ||
मुन्द्रन्तु प्रतिवादीन्द्रमुखमुद्रा समीरिताः |
हृल्लेखया षडंगानि | कुर्यात् षड्दीर्घ युक्तया |
प्. ११०अ)
ध्यान |
नीलांशु कामनि मयाञ्च करेषु वीणां मुद्राञ्च पात्रमथ पूर्ण
सुधान्दधानां |
उद्यच्चतुर्मुखवहत्कविता प्रवाहं |
नीलां भजामि हृदयेषु सरस्वती तां ||
अथ मातृकोध्यानान्तरं यथा |
नीलांभोधरसावता त्रिनयना बाहुस्फुरत् वल्लकीं मुद्रा पात्र करां
चतुर्मुख वहद्वाग्भङ्गिकल्लोलिनी |
नीलछायमवाल पंक्ति रचना दिव्ये विमाने स्थिता |
प्रोतुङ्गस्तनभार भङ्गुर तनुर्नीलाशिवाप्रातुवः ||
प्. ११०ब्)
लक्षमात्रं जपेद् विद्यान् दशांशं समितोत्पलैः |
निद्रायाश्च महाविद्या बीजाढ्यां परिकल्पयेत् ||
ध्यानपूजापुरश्चर्या सर्व नीलासमं भजेत् |
इति श्रीतारारहस्यवृत्तौ मंत्रौद्धारनिर्णयो नाम नवमः पटलः || ९ ||
अथेदानि तारास्तव निर्णयो लिष्यते | अथ विद्यामहात्मां | तदुक्तं तारारहस्ये |
अथातः सम्प्रवक्षामि तारारहस्य मुत्तमं |
येना तुष्टित मात्रेण सिद्धियोष्टौ भयंति हि ||
प्. १११अ)
यस्या स्मरणमात्रेण पाक्यवित्रायते ध्रुवं |
यज्ञानादमदत्वञ्च लभेत्युक्तिञ्चतुर्विधः ||
कालिकुलार्णवेपि |
ये पठन्ति पराम्विद्यान् नियमे रहसि स्थितः |
देवाः सर्वे नमस्यन्ति किं पुनर्मानुषादयः ||
वृहस्पति समोवाग्मी धनेधनपतिर्भवेत् |
कामतुल्यञ्च नारीणां रिपुणां समयोपमः ||
तस्य पादाम्बुज द्वं द्वं राजां किरीट भूषणं |
तस्य भूतिम्विलोकैवं कुवेरोपि तिरस्कृतः ||
प्. १११ब्)
य एवं पूजयेद् देवी नियमे पितृकानने |
तस्यैवाज्ञाकरस्थाञ्च सिद्धयोष्टौ भवन्ति हि ||
तस्यैव जननी धन्यापि तातस्य सुरोत्तमः |
सत्प्रदाय विदाम्वन्तय एवम्वेति तत्पतः ||
यस्य विज्ञान मात्रेण कुलकोटिं समुद्धरेत् |
नन्दन्ति पितरः सर्वे गाथागापत्ति सर्वदा ||
अपि न स कुले कश्चित् कुलज्ञानि भविष्यति |
स धंन्य स चपि ज्ञानि कवि स च पंडितः ||
सकुलीन स च मुखी स वशी स च धीक |
ब्राह्मण संयमी सोपि अग्निहोत्री स दीक्षतः ||
प्. ११२अ)
सतीर्थसरिपीथानान् सुनिवासीं सर्वदाः |
समो मया जीवव्रती स संन्यासी स पूजितः ||
स धर्मात्मा स योगी च स मुक्त स च ब्रह्मवित् |
स वै ब्रह्मः स सैवञ्च ससौर स च मानयः ||
स च विज्ञान मात्रेण य एनाम्वेत्ति तत्वतः |
अपि चेत्त्वत् समाना समत्समः पुरुषोस्ति चेत् ||
अनिरुद्ध सरस्वत्याः समो मन्त्रोस्ति वै सदा |
योग सन्धारणं सम्यक् ध्यानमस्यान संशयः ||
महापापे महोत्पाते महाग्रहपिवारणे |
महाशोके महामाये महायदि निवारणे ||
प्. ११२ब्)
महामोहे महासौर्य महादारिद्य संकटे |
महारण्ये महाशून्ये महाज्ञाने महाहृदे ||
समस्त क्लेशसम्पाते स्मरनादेव नाशयेत् |
अस्योज्ञानं ज्ञानामेव ध्यानमस्यात्म दर्शनं ||
तस्मादस्यामयाविद्या नास्ति तन्त्रे न संशयः |
फेत्कारीये |
जिह्वयान्यसना देव मूकोपि सुकविर्भवेत् |
ज्ञानमात्रेण मन्त्रस्य जयात् सर्वज्ञतान्नयेत् ||
प्. ११३अ)
अव्याहतामती शास्त्रै विजघो वाक्यतेरपि |
भावमाव सम्पन्ने भवेद् योगी महाकविः ||
जत्रोपि यदि शूद्रस्याः भावनो वस तत्परः |
लभते श्रीमतां वाणीन्मन्त्रंस्यलक्ष जायते ||
नारदीय तन्त्रे |
सुविमल नखदन्त पादौ मुदित मनाः परदूषणे मौनी |
हरिहर कमलोद्भवांघ्री भक्तो भवति चिराय सरस्वतीं निवास ||
कृत सुकृत सहस्रो नेकजन्म प्रतानै यति भवति मनुष्वो
गुर्वधीनञ्चिरायुः |
कथमपि मनुमेनन्प्राप्य शिष्याय कस्मै निजकुलतिलकाय जेष्ट पुत्राय दद्यात्
||
प्. ११३ब्)
मनुर्विमृष्य दातव्यो जेष्टाय हि विनीयते |
पुत्राय किमन्यथा कस्मै विगोत्राय स्वपौरुषं ||
मधुना त्रिदिना दर्वाकु जिह्वायां न्यसनान् मनुं ||
विना पाठेन मूर्खोपि पंडित सोभि जायते ||
गुरुचरणसर्वदा भक्ती भावात् परिचरति | विधेयोवास्य सर्वात्मनानुं ||
मनुमनु दिनमेवन्मानवोसौ भवति जगति वादद्वेतसिद्धान्त हन्ता |
प्. ११४अ)
सर्वदा गोपयेदेनान्मनसो भाविमेव च |
तेन वीर्यवती विद्या निर्वीर्या स्यात् प्रकाशिता ||
उत्पादक ब्रह्म दात्रौ गरीयान् ब्रह्मदर्पिता |
तस्मात् मन्ये सततं पितुरष्यधिकं गुरुः ||
न कदापि भवति मूर्खोमनुमेनम्वेत्ति यो मनुजः |
त्रिजगति भवति विख्यातो विध्यायन्मनोयूजां ||
यस्मिन्मनुमेनं तत्र तुलाभस्यान्त्रितयं |
नियतव्यं तत्पयमपि सदसत्कर्मणोरुभयोः ||
विद्या ब्राह्मणमित्याह सेवधिस्तु हि केवलं |
अमुकाय मांसादातृ तदास्या वीर्यवत्तमां ||
११४ब्)
यमेव तु सुचिन्दिन्तियतं ब्रह्म वादिनं |
तस्मै मां व्रूहि विप्राय नामिपायं प्रमादिने ||
अथास्थान द्वितीयञ्च न किंचिद् विघ्न कारणं |
क्षिप्र प्रसादा जगता सदा नीलसरस्वती ||
नीलसारस्वतौमन्त्र कचिता विघ्नविघ्न कारिणी |
कलियुगे मन्प्रसादात् भविष्यति ||
अल्पज्ञमपि विद्वांसन्मारयिष्यन्ति वाग्मिनः |
वृहस्पति वदाचार्यं पश्य मन्त्र समुद्भुतं ||
प्. ११५अ)
मन्त्रस्य ज्ञान मात्रेण अनुभाव द्वयं भवेत् |
तत्कारि कवितायरैवन हि व्यभा ||
सिद्धिमन्त्रो यदा मन्त्री वालिशस्मापि मूर्द्धनी |
करन्दत्वादि सत्यादि सोपि श्लोकान् करोत्युतः ||
विद्याम्वोदसवाप्नोति कीर्तिमायु सुतान् बहुन् |
निवासः श्रीसरस्वत्यो यत्र सारस्वतो मनुः ||
इति श्रीतारारहस्यवृत्तौ मन्त्रमहात्म्यनिर्णयो नामः दशमः पटलः || १०
||
अथातो भाव निर्णयः |
भावना च समापन्न इति यत्सुचितत्तद्विवच्य कथ्यते |
प्. ११५ब्)
तदुक्तं भावचूडामणौ |
श्रीभैरव उवाच |
समयाचारसंकेतमेव च भाषितन्तु महादेवि कथयस्वानुकम्पया |
सर्वमन्त्रेषु विद्यासु भावसंकेतमेव च |
तथापि शक्तिमन्त्रेषु विशेषो सर्वसिद्धिदं ||
रहस्याविहिमन्त्राणां यदि भावो न विद्यते |
श्रीदेव्युवाच |
भावस्तुति विधो देवि दिव्यवीर पशुक्रमान् |
गुरुवस्त्रिविधाचात्र तथैव मन्त्र देवताः ||
प्. ११६अ)
शक्तिमन्त्रे महादेव विशेषात् सर्वसिद्धिदं |
आद्यभावो महादेव श्रेयात् सर्वसमृद्धिदः ||
द्वितीयोमध्यमञ्चैव तृतीयः सर्वनिन्दितः |
बहुजायात् तथा होमान् कायक्लेशादि विस्तरैः ||
न भावेन विमाने च तंत्र मंत्रा फलप्रदा |
किम्वीरसाधनैल्लक्षैः किम्वा कृष्टिकुलाकुलैः ||
किं पीठ पूजने नैव किं कन्याभोजनादिभिः |
सुयोषित् प्रीतिदानेन परेषाञ्च तथैव च ||
किं जितेन्द्रिय भावेन किं कुलाचार कर्मणा |
यदि भाव विशुद्धात्मा न स्यात् कुल परायणः ||
प्. ११६ब्)
भावेन लभते युक्तं भावेन कुलधर्मनं |
भावेन गोत्रवृद्धिस्या भावेन कुलशोभवं ||
कन्या सविस्तरेणैव किं भूतशुद्धि विस्तरेः |
किन्तथा पूजने नैव यदि भाव न जायते ||
केन वा पूजते विद्यामपि केन न पूजते |
फल भावञ्च देवेन भावान् भावान् प्रजायते ||
एतद् रहस्य कथने संकिनो मम मानसं |
त्रिलोकी मत्सरी प्राय सर्वत्र तत्समागमः ||
नावीक्ष्मनीजनन्देवं कथन्तत्कथयामि ते |
श्रीभैरव उवाच |
प्. ११७अ)
त्वत् प्रशादात् महादेवी विद्या स्वप्न विबोधिनी |
सर्वमाया प्रपञ्चानां दीक्षादक्षाममेश्वरी ||
विद्यते देवि सर्वेषां भूतानां स्वापकारणं |
करोमि कथयत्वं मां यदि पुत्रत्वमागतः ||
श्रीदेव्युवाच |
प्रथमं दिव्य भावन्तु कथ्यते शृणु सादरं |
यद् वर्ण देवता यद्वत् तत् तेजः पुंसभूषितं ||
तेजोमयं जगत्सर्वं विभाव्य मूर्तिकल्पनं |
तत्तत्मूर्तिमयैमन्त्रै स्वेन स्वेनैव पापुन ||
आत्मान तन्मयं दृष्ट्वा सर्वभावन् तथैव च |
तत्सर्व योषिति ध्यात्वा चित्तयेद् यत मानसः ||
प्. ११७ब्)
अशेषकुलसम्पन्ना नाना जाति समुद्भवाः |
नानादेशोद्भवा वापि गुणलावण्यसंयुताः ||
द्वितीयवत्सरादूर्द्ध यावत् स्यादष्टमाद्विकं |
तावत् कुमारी विज्ञेयो मन्त्रतन्त्र फलप्रदा ||
कुमारी पूजनाच्चैव कुमारी भोजनादपि |
एकद्वित्र्यादि बीजानां फलं दानात्रसंशयः ||
ताभ्यः पुष्पं फलम्वापि अनुलेपादिकन्तथा |
बालप्रियञ्च नैवेद्यं दत्वा तद्भाव पूरितः ||
प्. ११८अ)
दत्वा तदग्रे आत्मानम् वलिभाव विचेष्टितः |
ताभिःप्राय कथालाप क्रीडाकौंभूकलादिकं ||
यथा तथन्तत् प्रिय कृत्कृत्वा सिद्धिस्वरा भवेत् |
तस्मात् षोडश पर्यन्तं युवतीति प्रवक्षते ||
न तत्र भाव प्रकाशश्चेत्म भाव परमात्मनः |
रक्षितव्या प्रयत्नेन अक्षता स्नान कारयेत् ||
न विष्णुस्तु हरिशंभु न देवीनापि षोडशी |
न च मृत्त्युञ्जयो वापि न न्यासानापि भावना ||
अस्य मृत्युं क्षमे देव प्रभवंति न देवता |
सस्त्रेन शूलयोगेन नागदष्टविषेण वा ||
प्. ११८ब्)
रौद्रेणाति ज्वरेणैव महावाच्याथिव सादपि |
मृयत्ते तेन पापेन सत्यं सुव्रतनिश्चयं ||
श्रीभैरव उवाच |
चतुर्थाश्रमिणां देवि मोक्षदात्वं तदा कथं |
कुलभाव विरोधि त्वात् संशयं मम दूरताः ||
श्रीभैरव्युवाच |
मोक्षद्वारस्तु बहुधा यद्यस्ति कुल भैरवाः |
केवलं कुलयोगेन प्रसीदामि न संशयः ||
चतुर्था शमिनां देव अवधूता श्रमो महान् |
तत्राहं कुलयोगेन प्रसन्नामोक्षदायिनी ||
प्. ११९अ)
यदी न स्यान्तथा वत्स शृणु तत्कथयामिते |
ज्ञानाभावे समुत्पन्ने संप्राप्ते च तदाज्ञय ||
तदा योगी विमुक्त स्यात् तामं पूज्य कुलान्तरे |
कुण्डली शक्ति च वरे तदा योगं समभ्यसेत् ||
निर्द्धन्द निरहंकारः शुद्धनाडी गणोव्रती |
मृद्धासने समासीन खगसंयमनेरताः ||
मेरुदण्ड बहिः पार्श्वे चन्द्रसूर्यात्मके शिवे |
मध्ये सुषुम्ना संदिष्टा तन्मध्ये चित्र रूपिणी ||
प्. ११९ब्)
तयैवग्रस्थितं पद्मं मूलादि वर्ण पञ्चकं |
कुण्डल्याकाररूपेन डाकिन्याद्युपलक्षितं ||
मूलद्वारं समासाद्य स्थितानाग स्वरूपिणी |
वायुनाभिद्यते मुक्तिं दृढं विद्रावयेत् ततः ||
उछासाजरकामस्य शिखायानि समुज्वरा |
प्रतिचक्रं प्रकुत्रासौ जिवात्मानं यरेकुले ||
नियोजयति तद्योगादमृतं क्षरते चितं |
व्योमप्रोद्भिद्यमानान्त गतो चन्द्रदिवाकरौ ||
अधोवक्त्रं महापद्मं क्रोडीकृत्य सुषुम्नया |
व्याहृत्यनासिकामध्ये गत चित्रत्तरं गता ||
प्. १२०अ)
उर्द्धभित्वा तु लिंगस्थं दृढं तत्पुस्करान्तरे |
बहिरुद् गमनाकांक्षा कारिणी मोक्षदायिनी ||
जीवेनादृष्ट संबन्ध्या स्थिता परमसंविधौ |
एतद् भेदं विजानाति भित्वा याति परं पदं ||
अदृष्टधातु बीजोसौ बहिर्याति दिने दिने |
दिनेशाङ्गुलिमानेन तदर्द्धं चोपवासतः ||
द्विगुणं रतिकालेस्या त्रिगुणं यदि दैवतः |
नुनं वा तदधः प्राणः शरीरं परिमुञ्चति ||
शरीरसंगतां नीत्वान् मूलं वा वटुकेस्वरः |
कुम्भयित्वा ह्यधो वायु कुण्डली मुखवर्त्मनि ||
प्. १२०ब्)
योजयित्वा ततो बीजं नित्वानादावसानकं |
गमागमं कारयित्वा सिद्ध्ये भवति नापुरः ||
पीयते खाद्यते यन्तु तत्सर्वं कुण्डलीमुखेः |
हुत्वा सिद्धिमवाप्नोति न च बन्धेन बाध्यते ||
भिक्षा कार्या नया स्वार्थं कुण्डलीन्मा कृते पुनः |
रे मादद्देहि मे भिक्षं कुण्डली तर्पयाम्यहं ||
अवधूता श्रमे स्थित्वा भैरवानन्द तत्परः |
भैरवोहं न चान्यस्मिन् देवो मत्परत क्वचित् ||
प्. १२१अ)
तन्त्रमन्त्रार्जनं सर्व मयि जानं न चान्यथा |
शिवोहं भैरवानन्दो मत्तोहं कुलनायकः ||
रक्त चन्दनविग्धागोरक्तकौपीन भूषितः |
रक्तमाल्यांम्वरधरो हेतु युक्त सदा भवेत् ||
एव भिक्षां व्रजन् भिक्षुः भैरवाचार तत्परः |
क्षीयतेन च पापेन बध्यतेन च जन्तुनाः ||
यत्र देशे स्वयं माति स देशः क्षितिनायकः |
अत्र निन्दा परां ये तु स्पन्ति तत्क्षणा प्रभोः ||
प्. १२१ब्)
तस्माद् यस्तात् पूजितव्यो नातिरस्कार एव च |
यत्रेछावर्तते तस्य तत्कार्य प्रियमप्रियं ||
तथान्य देवदेवेशनोवाचालेति विस्तरं |
पूजयन्ती महादेवी कुलाङ्गदृष्टि मात्रतः ||
पुष्पं गन्धश्च ताम्बूल नैवेद्यं यत्र यद् भवेत् |
मनसा तत्समुत्सृज्य बाह्यतोत्कुल वारिणा ||
आत्मनि तन्समाबाह्य देवीरूप कुलेश्वरः |
न पूजा नापि सुगमननिष्टान व्रतादिकं ||
प्. १२२अ)
पूर्णोहं भैरवश्चाहं नित्यानन्दोहमव्ययः |
निरञ्जन स्वरुपोहं निराकारस्त्वहं विभुः ||
सर्वशास्त्रभियुक्तोहं सर्वमन्त्रानुपारगः |
तस्मात् परतरो देवो न जातो न जनिष्पति ||
आनन्दरूपवान् बुद्धः सर्वेषां प्रिय कारक |
सुस्कं दुर्गन्धमत्स्यादित्याज्य दिव्य वलि प्रिये ||
नाना सुगंधि संयुक्तैः मासादि भोजनं चरेत् |
सुगंधामलतैलाद्यैर्न्नानालंकारविस्तरैः ||
स्नानं कार्यं चाति शुद्धं सुक्ष्मवासोभिधारयेत् |
सुगंधिपुष्पमालाभिः स्वर्णालंकारभूषितैः ||
प्. १२२ब्)
स्निग्धं सुमधुरं देयं कामरुपं मनोहरं |
कृतार्थं मंगलं देहं शुद्धभाषण तत्परं ||
नाम्नामधुमतीस्तत्र जायते नात्र संशयः |
मधुमत्या फलं देवः कथयामि शृणुष्व मे ||
सुधाधार धरावाणी वक्रान्तस्य प्रजायते |
सर्वज्ञः सवशास्त्रणामधिपः कुलनायकः ||
चन्द्रसूर्यावधि पुंसां भुनक्ति बहुलं सुखं |
देवकंन्याप्सरोभिस्तु दिव्यै गान्धर्व चारणौः ||
नानाविलाससन्नद्धेः कुलाकुलकलाविदैः |
प्. १२३अ)
नृत्त्यैर्गीतैश्च मधुरै नानोपाय रसायनैः ||
अमृताद्यैः प्रतिकरैर्देव भाग्यैसुदुर्ल्लभैः |
देवकंन्या हस्त गतैः रथमारुह्य सोत्सुकौ ||
आयामि साधकाकांक्ष हृदया परमेश्वरी |
यत्रे कामश्वरा देवो चिंता वसमुपागतः ||
तत्रैव यान्ति सतनं देवकन्या सहश्रशः |
इन्द्रयोग्यां पुरीकृत्वा वसन्ति साधकः सहः ||
ततोपगत पापात्मा भुत्वा तु बहुधा सुखं |
चिरकालं भुवि स्थित्वा चान्ते मुक्तिमवाप्नुयात् ||
प्. १२३ब्)
ब्रह्माण्डगोलसंभेदात्तेन जीवेत् समृद्धियुक् |
एतत् ते कथितं देव दिव्य भाव सुखी वहः ||
न देयो यस्य कस्यापि पशौ गोप्य प्रयत्नतः |
वीरभाव महादेव कथ्यते शृणु भैरवः ||
निर्द्वन्द्व मनसो भूत्वा हृदाकामकला तनुः |
इदं वीरकुलं देव देव पद्य मनोहरं ||
यद्वेशे वर्तते वीरस्तत्फलं वापि भैरवः |
न च मारी भयं तत्र न च राजभयादिकं ||
सुमङ्गलं सदा तत्र धन पुत्र विवर्द्धनं |
लक्ष्मी तत्र महादेव सुस्थिरा सर्वदा भवेत् ||
प्. १२४अ)
मन्त्रं स्वप्न प्रबोधिन्या सुवश्यं वृक्षमूलके |
योजनीय प्रयत्नेन न च विघ्नं प्रजायते ||
योगिनीभिर्न गुप्तन्तत् न च पापेन लिप्यते |
यत्र कुत्र कुजेवारे श्मशाने गमने कृते ||
पूजाफल भवेत् तत्र यक्ष पूजाफलं लभेत् |
पूजाफलं भवेत् तत्र सप्तवासरसंमितं ||
चतुर्दश्यां गते तत्र यक्ष पूजाफलं लभेत् |
नगरे नार्यतस्थानं पशुरेव न संशयः ||
प्. १२४ब्)
नान्योस्यादधिको देव इति चिन्ता परायण |
माद्रकव्यं भुक्ता तु भवेत् कुल परायणः ||
साधके क्षोभमापन्ने मम क्षोभ प्रजायते |
तस्माद् यत्ताद्भोगयुतो भवेद् वीरवरसुधी ||
भोगेन सुखमाप्नोति भोगेन कुलसाधनं |
यद्यद् ददाति निद्राति यत्करोति यदर्चति ||
तत्सर्वं कुलरूपं तु ध्यात्वैवं विहरेत् सुधीः |
एकाकी निर्जने देशे श्मशाने पर्वते वने ||
शून्ये गृहे नदीतीरे निःशञ्के विचरेत् मुदा |
प्. १२५अ)
वीराणां जपकालन्तु सर्वकाले प्रशस्यते ||
सर्वदेशे सर्वपीठे कर्तव्यं नान्नशंशयः |
यदि विप्रो भवेछ्रेष्टः कूलद्रव्य परायणः ||
तद्ध्यानेन विधानेन कर्तव्यं कुलशोभनं |
अपरापुष्पगर्भे तु कुलस्थानमनोरमं ||
सर्वदेवसुखं तन्तु महाकालकुलात्मकं |
हयारिकुसुमे देवी स्वयमस्ति सदाशिवः ||
तत्सुखे लघुमादाय पुष्पमध्ये तु चन्दनं |
रक्तकुंकुमरागम्वा कृत्वा तत्र शिवात्मकं ||
प्. १२५ब्)
योजयेछिवशक्त्यास्तु ऐक्यं संभावणं तदा |
क्षणं विचिन्त्य तत्रैव संचिन्त्य परमेश्वरी ||
यत्रा पराजिता पुष्पं जवापुष्पं च भैरवः |
करवीरा रक्तशुक्ले द्रोणपुष्पं च वंधुकं ||
कुण्डं च मालती पुष्पं यत्र यत्रापतिष्टति |
तत्र देवी वसेन्नित्यं तद्यत्रे पूजनं मम ||
दत्ते चैव जवापुष्पं पट्टवस्त्रं फललभेत् |
ब्रह्महत्यादिकं पापं क्षणं नश्यति निश्चितं ||
अपरायास्तु महात्म्यं वक्तुं न हि महेश्वरिः |
वीरसाधन कार्यं तु कर्तव्यं वीरपूरुषैः ||
प्. १२६अ)
दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः |
परं पामर वीर्यं तु न पशोरिति निञ्चितं ||
यद्यत्तत्तत्पुराप्रोक्तं संकेतं मन्त्रसाधनं |
अञ्जनं गुटिकाटीञ्च कुर्याद् वीरो महाबलः ||
दिव्यो वीरेण भेदेस्ति यद्भेदं यन्तु कथ्यते |
शान्तो विनीतो मधुरा कलालावन्य संयुतः ||
दिव्यन्तु देववत् प्रायो वीरश्चोद्धत मानसः |
विभूतिर्भूषणैर्वापि चन्दनेनापि लेपितः ||
प्. १२६ब्)
आकारो गोपनो वापिप्यकोवाकुल भैरवः |
रक्तचन्दनदिग्धांगो वैष्णवो वाप्य वैष्णव ||
असंस्कृतं केशजालं संस्कृतो वा कुलेश्वरः |
अपमाने च पूजायां हृष्टपुष्टः सदा भवेत् ||
देवनिन्दा परो वापि तत्पूजादि परोपि वा |
पूजारतस्तत्र हितो कुलालाय मते स्थितः ||
निजभावसमायुक्तो देववद् विहरेस्क्षितौ |
स्वकुलान्ते पुरश्चर्या कार्यारात्रौ न वा तथा ||
वेद हीने द्वीजे देव यथा मन्त्रेण सत्कृयाः |
विष्णुभक्तिर्विना देवि भक्तिर्न प्रभवेद् यथा ||
प्. १२७अ)
शाक्तं ज्ञानं विनामुक्तिर्यथा हास्याय कल्पते |
गुरुं विना यथा मन्त्रे नाधिकार कथंचनः ||
यती हिना यथानारी सर्वकर्मा विनिर्जिता |
कुलं विना तथा देवी वीरो वा मम साधकः ||
नाधिकारीति कौलेयस्तास्माद्भावपरो भवेत् |
अविनीतं कुलं यस्य स कथं मम पूजकः ||
तस्माद् यत्नात् तथा कार्यं यथा स्याद् विनयाञ्चितं |
भावाभावात् कुले शास्त्रे नाधिकार कथंचन ||
तेन भावविशुद्धस्तु साधकः कौलिको भवेत् |
प्. १२७ब्)
श्रीदेव्युवाच |
पशुभावं प्रवक्षामि शृणुत्वं सुसमाहितः |
यथाविधि पशुद्दीक्षां गृहीत्वा भाव तत्परः ||
प्रथमं पूर्व सेवार्थं यत्नतः शुद्धिमाचरेत् |
नमत्स्यं भोजनं कुर्यान्नस्त्रियं मनसा स्मरेत् ||
न परद्रव्यलोभस्यान्त भोगे मान संचरेत् |
सिन्धुतीरे कानने वा पर्वते वा सुरालये ||
बिल्वमूले विविक्ते वा पुण्यक्षेत्रे सुसोभने |
तसूद्रदर्शनं कार्यं कौटिल्यं यत्नतस्त्यजेत् ||
प्. १२८अ)
देवता शुद्धभावे तु ध्यातव्या सुसमाहितैः |
त्रिसंध्यं देवपूजास्या त्रिसंध्यं जपमाचरेत् ||
रात्रौ मालाञ्च यन्त्रं च स्पृशे नैव कदाचनः |
न मन्त्रमुच्चरेद् भुक्ता मौनी स्यात् सर्व कर्मसु ||
सर्वकाले स्त्रियं नैव गछे तु साधकोत्तमः |
पुष्पं गन्धञ्जलं चैव स्वपमानीवपूजयेत् ||
मैथुनं तत्कथा लापं तद्गोष्टीः परिवर्जयेत् |
ऋतुकालं विना गच्छे न च गछे तु सादरात् ||
प्. १२८ब्)
पुराण श्रवणे श्रद्धा वेदवेदार्थ तत्परः |
न रात्रौ भोजनं विद्या ताम्बूलं परमेश्वरः ||
गुरुणायद्यदादिष्ट तत्सर्वयत्नतञ्चरेत् |
अपि तत्कुसुमं चैव हेतु तत्र च भैरवः ||
स्पृस्त्वा स्त्रियं त्रिरात्रेण पञ्चगव्येन शुद्ध्यति |
रक्तं वस्त्रं न गृह्नीयाद् देवी भक्ती परायण ||
विष्णु मन्त्रोक्त कल्पादि तदनुष्टानमेव च |
कार्यावीरकथालापं न कुर्यादेव निंदनं ||
नित्यश्राद्धगवाग्रासं संध्यावन्दनमेव च |
तीर्थस्नानपीठदशगमनं धर्म तत्परः ||
प्. १२९अ)
पशुस्तु विविधो देव पूर्वेण सह भैरवः |
अस्याधिकार पूजाया न गुरुत्वे कथंचन ||
पूर्वस्यनाधिकारोस्ति पूजादेसगतौगते |
पूर्वस्तु सर्वकालेस्तु बहिः कार्य स्वदेशतः ||
पूर्वदर्शनमात्रेण कुलदर्शन माचरेत् |
ब्रह्महद्यादिकं पापं वरं च कथन प्रभे ||
पूर्वदर्शन मात्रन्तु सत्यं सत्यं वराम्यहं |
ममात्मा सोपि देवेश विभुरित्यपि सुप्रभो ||
तथापि तत्र मे शङ्का जायते तत्पदे पदे |
वरं कुलं परित्याज्यं वरस्वकुल हिंसनं ||
प्. १२९ब्)
वरं स्वकुलनिन्दास्या वरं स्वकुल बंधनं |
वरं स्वकुलहानिस्तु वरं स्वकुलनिन्दनं ||
कायेन मनसा वाचा वरं स्वकुल पातनं |
न कूर्याच्च पूर्वसंगममाङ्गक्षयकारणात् ||
कुलमात्रे द्वयं पाप परिष्टकुलनायकः |
स्वकुले वहति निन्दा परव्योम कुलेश्वरः ||
तस्मादपि च तत्पापं पशुसंगात् प्रजायतेः |
सर्वथा तत्र भावौ द्वौ न प्रकासो कथंचन ||
प्. १३०अ)
संभावं च विभावं च पशुर्द्वेधा प्रकीर्तितः |
स भावः पशुभावेन जन्मश्रय विभावनात् ||
वीरभावेद्भवेद् देवो ततो दैव प्रजायते |
दैवाच्च जायते वीरो वीरा देव प्रजायते ||
दैवे वीरेन संदेहः साम्यमित्यविधीयते |
भावस्तु मनसो धर्मः शब्दे स हि कथं भवेत् ||
तस्मात् भावो हि कर्तव्यो दिङ्मात्रं समुदाहृतं |
यथेक्षुगुडमाधुर्यं दशणैज्ञयते व्रहौ ||
तथा भाव विभावस्त्र मनसो परिभाव्यते |
एक एव महान् भावो नानार्थ भजते प्रभो ||
प्. १३०ब्)
उपाधि भेद भावेन भावभेदा नयिष्पति |
आनन्दघनसंदोह प्रभुः प्रक्रतिरुपधृक् ||
रसरूपः स एवात्मा स प्रभुः परमोमतः |
श्रोतव्यः स च मन्तव्य विधितव्यः स एव सः ||
साक्षात्कार्यां वदे वेण प्रत्यक्ष परमेश्वरेः |
भावैवहुविधै देविः भावस्तत्रैव नीयते ||
भूक्ता वै विविधं ग्रासंगविचैको यथा रसः |
दुश्चादद्यासयोगेन नानार्थं लभते प्रभोः ||
तृणेन जायते देव रसस्तस्मात् परोरसः |
तस्मादधि ततो हव्यं तस्मादपि रसोदयः ||
प्. १३१अ)
स एव कारणं तत्र तत्कार्यं न च लभ्यते |
दृश्यते च महादेव न कार्य न च कीरणं ||
तथैवायं स एवात्मा नानाविग्रह योनिषु |
जा एज्जनिष्पते जातः कालभेदादि भाव्यते ||
स जात समृतो यद्वत् समुक्तः समुखी पुनः |
सस्त्री पुमान्नपुंसकः सविद्या वा समृद्ध च ||
नानाभ्यास समायोगी नानार्थ भजते प्रभुः |
एक एव स एवात्मा सर्वरूपी सनालवः ||
प्. १३१ब्)
अव्यक्तं स च व्यक्तं स्यात् प्रकृत्या ज्ञायते ध्रुवं |
तस्मात् प्रकृति योगेन ज्ञायते नान्यथा क्वचित् ||
विनाघटत्व योगेन न प्रत्यक्षो यथा घटः |
इतराद्भिद्यमानोपि तभेदमुपगच्छति ||
मां विना पुरुषे भेदा न च वाति कथंचन |
न प्रयोगैर्न च ज्ञानैः श्रुत्वा च न गुरु क्रमेः ||
प्रकृत्या ज्ञानतनात्मा प्रकृत्यालुप्यते पुमान् |
प्रकृत्याधिस्थितं सर्वं प्रकृत्यावंञ्चितं जगत् ||
प्रकृत्याभेदमाप्नोति प्रकृत्यासर्वसंवस |
नवस्तु प्रकृतिं नैव न पुमान् परमेश्वरः ||
प्. १३२अ)
तयोः समरसं ज्ञानं वस्तुतत्वं महेश्वरः |
उभयो समवायस्तु वस्तु तस्तु परं पदं ||
ज्ञायते स्मिन् स्वयं प्राज्ञञ्चित्स्वरूपं पुमानसौ |
निर्विकार सर्व देवः पुमानान् गोचरः पुमान् ||
व्यक्तो भवति देवेश स्वयमात्मास्वयंभुवः |
उपायं सन्ति बहुधा ज्ञानं ब्रह्म सनातन ||
तथापि प्रकृते योगान् क्षिप्रप्रत्यक्षतां व्रजेत् |
सायांस्त्रिकाकुलेशे तु यथानाव प्रगृह्य स ||
प्. १३२ब्)
नानादेशैः समुत्तिर्य समुद्रं विशते चिरात् |
तत्तथैनावमास्थायक्षणद्यन्ति यथा प्रभो ||
विष्णुशक्त्या लभेत् ब्रह्म तत्प्रभावादपि प्रभो |
वैजात्यं नास्ति चेत् तत्र कथं तद्विधि कारणं ||
तस्मात् परं पराजातास्ते हि कारणता गताः |
न कारणानि ते वस्तु साक्षात् प्रकृतिकारण ||
स्त्रीभावः प्रकृतिः ज्ञेयः प्रभावपुरूषोत्तमः |
व्यक्ति भेद विभागेन ज्ञायतां भैरवेश्वरः ||
घतत्वं पुनरेतस्य भेदकारण मे बहिः |
तथा ज्ञप्ति विकाराद्वान्यस्यप्यं जप्ततां गतः ||
प्. १३३अ)
साक्षात्कारणमेवैतत् प्रकृत्यैवापि चेश्वरः |
दिव्यभावो विरभावो यस्य चित्ते व्यवस्थितः ||
जीवन्मुक्त स एवात्मा भोगार्थ लभते महिः |
देवीपुत्र स एवात्मा भैरवः परिकीर्त्यते ||
भावत्रयानामध्ये तु द्वौ भावो स्वप्रतिष्ठितौ |
न वक्तव्यौ महादेव कुलसारं कुलोत्तमं ||
इति श्रीतारारहस्यवृत्तौ भावनिर्णयो नाम एकादशः पटलः || ११ ||
अथ ब्राह्मे मुहुर्ते उत्थाय स्वशर्यां सर्वपायविलोपनाय शिरसि
प्. १३३ब्)
सहस्रदलकर्णिकायावस्थितं श्वेतवर्णं द्विभुजं वराभयंकरं
श्वेतमाल्यानुलेपनं |
प्रकाशस्ववामस्थिताया विमलरूपिण्या रक्ताशक्त्या सहितं |
विभाव्य मानसै रूपचारैराराध्य ऐं इति यथाशक्ति जप्त्वा ||
अखण्डमण्डलाकारं व्याप्तं येन चराचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरूवे नमः ||
इति स्तुत्वा नमस्कृत्य मूलादि ब्रह्मरन्ध्रान्तमरूणदिवाकरकोटि पाटलां
मूलविद्यां विभाव्य तत् क्रियासमभिहारेण
प्. १३४अ)
शुत्रं सुधारया सन्तर्प्य यथाशक्ति मूलमंत्रं जप्ता उत्थायावस्यकं
विधाय स्नानार्थं नद्यादौ गत्वा देव्याः पूजायोग्यार्थं स्नानमहं
करिष्ये | इति संकल्प |
यथानुष्टानेन स्नात्वा मंत्र स्नानमारभेत् |
यथामूलविद्यया त्रिनिमज्य जपन् उत्थाय मूल विद्यया ||
त्रिवारजप्तेन उदकेन कलशमुद्धयं जलिनात्मानं त्रिवारमभिषिंच्य
मूलविद्यया त्रिवाराचम्यदेवर्षि पितृतर्पणं |
प्. १३४ब्)
विधाय मूलविद्ययान्ते श्रीमदुग्रतारां एक जटां नीलसरस्वती
पञ्चविंशतिवारं वा सप्तपञ्चविसतिवारं वा त्रिधा वा संतर्प्य |
जलादुत्थाय धौतवाससी परिधाय आचम्य सूर्यार्घं दत्वा ताम्रादि पात्रे
चन्दनाक्षत कुसुम श्वेतापराजिता पुष्पानि निक्षिप्य |
उद्य वादित्य मण्डलवर्तिन्यै नित्यचैतन्योदित |
यै श्रीमदेक जटायै स्वाहा | इति त्रीरर्घ्यं दत्वा | तन्मध्ये देवीम्विभाव्य |
भगत्येक जटे विद्महे एकवीरायै धीमहि तन्नस्तारे प्रचोदयात् |
प्. १३५अ)
एकवीरायै विद्महे महोग्रायै धीमहि तन्ना देवी प्रचोदयात् ||
इत्येताराया इति गायत्री यथाशक्ति जप्त्वा संहार समुद्रयामहृदि समानीय
ततो योगस्थानमागम्य ||
ओं वज्रोदके हुं फट् स्वाहा | इति जलामन्त्रेण जलमधिस्थाय | एतज्जलं
सर्वसपर्यार्थं विधाय किञ्चिदन्यजले क्षिपेत् | तेनैचारिणा |
ओं ह्रीं स्वाहेति मन्त्रेण पादौ प्रक्षाल्यः कुशहस्त
प्. १३५ब्)
कुलकुलात् स्वर्णरजतमुद्रा रूपान् यथा सव्ये हस्ते दत्वा | स्वर्णरजत मुद्रा
कुलकुशासनामिकायां धृत्वा |
ओं ह्रीं विशुद्धधर्म गायत्री सर्व पापानि शमपालेष विकल्पातयन हूं
फट् स्वाहा |
यथा विधि आचम्य तत्र पीठं विचिन्त्य | श्मशान तत्र संचिन्त्ये तत्र
कल्पद्रुमं स्मरेत् |
तन्मूले मणिपीठं च नानामणि विभूषितं |
नानालंकारभूषाद्यैर्मुनिदेवैश्च मण्डितं ||
प्. १३६अ)
शिवाभिर्बहुमांसास्थि मोदमानाभिरं ततः |
चतुर्दिक्षुशचामुण्डा चितांगारास्थि भूषणा ||
तन्मध्ये भावयेद् देवीं यथोक्तं ध्यान योगतः |
ध्यात्वा |
ओं मणिधरी वज्रिणि सर्वशंकरि हुं फट् स्वाहा इति शिखाबन्धनं |
ओं रक्ष २ हुं फट् स्वाहा | ललाभिषेकेन भूमिं शोधयेत् | ओं सर्वविघ्नान्
सारय हूं फट् स्वाहेति | नारा च सुद्रया अक्षत प्रक्षेयात्
त्रिविधविघ्नानुत्सारयत् ||
ओं पवित्र वज्रभूमे हूं फट् स्वाहेति |
प्. १३६ब्)
अनेन भूमिमभिमन्त्र ततः कोमलकम्बलादि विष्टरासनादि यथा
सामान्यास्तीर्य | तत्र |
ओं आः सुरेखे वज्ररेखे हुं फट् स्वाहेति रक्त गन्धपुष्पाभ्यां
समभ्यर्च्या स्वस्तिकादि क्रमेनोपविशेत् | अथानेन मन्त्रेण भूमौ मण्डलं
विचिंत्य तत्रासने आस्थाय ततोपविशेत् | केचित् | आसनेपि केचित् |
ओं मणिधरि वज्रिनि महाप्रतिसरे रक्ष २ हूं फट् स्वाहा | इति |
प्. १३७अ)
वस्त्रान्तिके रक्षाग्रंथि वंधयेत् | ओं आः हूं फट् स्वाहेति व्यापकतया
कायवाक्चित्त शोधनं | ओं नमः पुष्पकेतुराजहिते तथा गताय सम्यक्
संबुद्धाय ओं पुष्पे पुष्पे महापुष्पे सुपुष्पे भूषिते | पुष्पं च यावकीर्णे
हूं फट् स्वाहा इति पुष्पादि मन्त्रमयं कृत्वा स्वर्णादि पीठे रक्तचन्दन
गोरोचन कुंकुमवज्रपुष्पाघतुलिप्ते |
भुं आं सुरेखे वज्ररेखे हुं फट् स्वाहेति मन्त्रेण मण्डलं लिखेत् |
प्. १३७ब्)
यथा त्रिकोणान्तर्गर्द्भितमष्ट दलपद्मं चतुद्वारात्मकं |
तस्य त्रिकोणाग्रे ह्रीं याम्ये त्रीं उत्तरे फट् पश्चिमे त्रिकोणाग्रे मध्ये हूं
मम द्रुत कवित्व पाण्डित्यं कुरु २ इत्यादिना साध्ये सहितं लिखेत् | एतद्यन्त्र
पुरतो रकत चन्दनं गंभार्यादि पीठे निधायपीठमर्चये | यथा मध्य
उपर्युपरि श्मशानाय नमः | कल्पवृक्षाय नमः | तन्मूलमनि पीठाय
नमः | नानामणिभ्यो नमः | नानालंकारेभ्यो नमः |
प्. १३८अ)
मुनिभ्यो नमः | देवेभ्यो नमः | बहुमांसास्थिमोदमान शिवाभ्यो नमः |
चतुर्दिक्षुशवेभ्यो नमः | मुण्डाय नमः | चिताङ्गाराय नमः | अस्थे नमः
| ततोष्टदलेषु देवाग्रादि क्रमेन | ओं लक्ष्मै नमः | ओं सरस्वत्यै नमः | ओं
रत्यै नमः | ओं प्रीत्यै नमः | ओं कीर्त्यै नमः | ओं शान्त्यै नमः | ओं
पुष्टौ नमः | ओं तुष्टौ नमः |
मध्ये ह्मौ महाप्रेतासनाये नमः | इत्यभ्यर्च्य | तदुपरि
प्. १३८ब्)
मूलेन मूर्ति संकल्पभूतशुद्धिं कुर्यात् | यथा प्राणायाम क्रमेण
ह्रींकारं रक्तवर्णं नाभौ ध्यात्वा तदुद्भूतेन वायुना भस्म प्रोत्सारयेत्
| ततो हूंकारं श्वेत वर्णं शिरसि विचिन्त्य तदुद्भुतेन वायुना तदस्थि
श्मशान रूपं प्लावितं कृत्वा समस्तं शरीररूपं विश्वं प्लावयेत् |
आत्मारं व्ययगतं अर्थं निर्मलं तारिणी मयं ध्यायेत् |
तथा तस्मिन् श्मशान रूपे विश्वव्यापके अमृतवारिणि |
प्. १३९अ)
आःकारोद्रक्तपुष्पं ध्यात्वा तदुपरि टंकारात् शुक्लपद्मं विचिन्त्य तदुपरि
नील संनिभं हूंकारं ध्यात्वा हूंकारं बीज भूषितां कर्तृकां
ध्यायेत् | कत्तर्युपरिगतं ध्यायेत् | आत्मानं तारिणीयं ध्यात्वा ||
प्रत्यालीढ पदाघोरां मुण्डमाला विभूषितां |
खर्वां लम्बोदरी भीमां व्याघ्रचर्मवृतां पटौ ||
नवयौवन सम्पन्नां पञ्चमुद्रा विभूषितां |
चतुर्भूजां ललज्जिह्वां महामांवरप्रदां ||
प्. १३९ब्)
खड्गकर्ती समायुक्ता सव्येतर भुजद्वयं |
कपालोल्पलसंयुक्तां सव्यपाणि युगान्वितां ||
पिंगोग्रैक जटां ध्यायेत् मौलावक्षोत् पशोभितां |
एवं भूतशुद्धि कृत्वा अर्घस्थापनमाचरेत् ||
यथा स्ववामे त्रिकोणवृत्त चतुरस्रं मण्डलं कृत्वा तत्रष्टाधारं
कपालादि पात्रं निधाय तत्र मूलविद्यया विमलययसापूर्य बिल्वपत्र
रक्तचन्दनवज्रपुष्पाक्षतानि निःक्षिप्यार्घ्याग्नीशासुरवायुषु मध्ये दिक्षु च
दयानि | ओं ह्रां हृदयाये नमः | ओं ह्रीं शिरसे स्वाहा |
प्. १४०अ)
ओं हूं शिखाय वषट् | ओं ह्रैं कवचाय हूं | ओं ह्रौं नेत्रत्रयाय
वौषट् | ओं ह्र अस्त्राय फट् | षडंगानि च विन्यस्य तद्दशधा मूलविद्यां
जप्ता तेजोमयेन तर्जन सर्वविद्या मयं कृत्वा इति अर्घं विधाय
प्राणायामादिकं कृत्वा |
यथा मूलविद्यया दशवारं जपेत् वामे नासापूटे वायुमापुर्य तस्या एव
षोडसवारं जपेत् सुषुम्नावत्स्नास्तं सपित्वा एतस्या एवाष्टफ जपेत्
दृष्टनासापुटे वायुं विरेचयेत् |
प्. १४०ब्)
एवं यथाशक्ति प्राणायामं कृत्वा हुष्यादिना संन्यसेत् |
यथा सिरसि अक्षोभ्य ऋषये नमः मुखे ||
वृहति छन्दसे नमः | हृदि | एक जटा देवताभ्यो नमः | मूलाधारं |
ह्रीं बीजाय नमः | हृदये | फट् शक्ताये नमः | शेषाक्षरानुचार्य
सर्वाङ्गं कीलकाय नमः |
पुनस्तथैव ममद्रुत कवित्व पांडित्य सिद्धये विनियोगः | कराङ्गं न्यासं
कुर्यात् | तथा |
प्. १४१अ)
ह्रीं एकजटायै अंगुष्टाभ्यां नमः | अंगुष्टयो ह्रीं तारिण्यै तर्जनिभ्यां
नमः | तर्जन्योः | हूं वज्रोदके मध्ये माभ्यां नमः | मध्यमयोः | ह्रै
उग्रजटे अनामिकाभ्यां नमः | अनामिकयोः | ह्रौं महापरिसरे
कनिष्टिकाभ्यां नमः | कनिष्टिकयोः | ह्रः पिङ्गोग्रैक जटे करतल
पृष्टाभ्यां नमः | करतरपृष्टयोः | इति करंग न्यासः |
अथ षडङ्गानि |
ह्रैं एकजटायै हृदयाये नमः | इति तर्ज्जनीमध्यमानामिकाभिः हृदये |
प्. १४१ब्)
ह्रीं तारिण्यै शिरसे स्वाहा | तर्ज्जनीमध्यमाभ्यां | हूं वज्रोदके शिखायै
वषट् | इत्यधोङ्गुष्टयुग्मशिखायां | हं उग्रजटे कवचाय हुं | इति
हस्तद्वयाभ्यां शिर आदिपादपर्यन्तं | ह्रौं महापरिसरे नेत्रत्रयाय
वौषट् | इति तर्जनी मध्यमानामिकाभिः | नेत्रत्रयोः ह्रः पिङ्गोग्रैक
वाग्रुपिण्यै कवचाय हूं | इति व्यभ्यय हस्ताभ्यां | शिरसादि पादपर्यन्तं |
ह्रौं रुद्रवाग्रूपिण्यै नेत्रत्रयाय वौषट् |
प्. १४२अ)
इति तर्जनीनामिकाभिः नेत्रत्रये | ह्रः सर्ववाग्रूपिण्यै अस्त्राय फट् | इति
तर्जनिमध्यमाभ्यां उर्द्धोर्द्धतालत्रयछोतिकाभिर्दशदिग्बन्धनं कुर्यात्
|
तदुक्त सिद्धसारस्वते |
अखिल चाग्रूपिणी प्रोच्य हृदयाय नमो वदेत् |
अखिल वाग्रूपिणीपि शिरसे वह्नि वल्लभा |
ब्रह्मवाग्रूप्णी त्युक्ता शिखायै वषदित्यपि |
विष्णवाग्रूपिणी त्युक्ता कवचाय हुमुच्चरेत् |
प्. १४२ब्)
रुद्रवाग्रूपिणी त्युक्ता नेत्रत्रयाय वौषडिति |
सर्ववाग्रूपिणी सक्ता अस्त्राय फडिति स्मरेत् |
षड्दीर्घमाचरे मायाबीजान्ते नाति योजयेत् |
अथवा तन्त्रचूडामणौ |
बीजान्ते एकजटायै हृदयं परिकीर्तितं |
तारिण्यै शिरसि तद्वद्वृजोदके शिखान्तथा |
उग्रजटेक कवच महापरिरसे तथा |
पिङ्गोग्रैक जटे तद्वन्नेत्रास्ते परिकीर्तिते |
एवं पीठं न्यास वर्णन्यासौ संलिखितौ तारारूपयुक्तत्वात् |
प्. १४३अ)
तदुक्तं फेत्कारणीये |
अंगं न्यासकरौ कुर्यादत्रेव केवलं | अत्रोक्तमाचरेदस्मिन्न्यासं चारय
संगता न्यासं नान्यस्तंत्रोक्त माचरेत् | कालिका तन्त्रे वर्णन्यासस्तु |
कालिकतन्त्र तन्त्रोक्तं मातृकावर्णमाचरेत् | तद्यथा |
वर्णं न्यास प्रवक्षामि येन देवी मयो भवेत् |
अं आं इं ईं उं ऊं ऌं ॡं एं ऐं ओं औं अं अःं | इति स्वरभागः ||
अं आं इं ईं उं ऊं ऌं ॡं वै हृदयाये नमः | हृदयां न्यसेत् |
प्. १४३ब्)
एं ऐं ओं औं तारिण्यै शिरसे स्वाहा | नै-ऋते |
ह्रं वक्रोदके शिखायै वषट् | वायव्यां |
ह्रैं उग्रजटे कवचाय हुं | कर्णिकायां |
ह्रौ महापरिसरे नेत्रत्रयाय वौषट् | चतुर्दिक्षु |
ह्र पिङ्गोग्रैकजटे अस्त्राय फट् |
अथ देव्यामौलौ |
अक्षोभ्य वज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
इति संपूज्य देव्या वायव्यादीशपर्यन्तं ||
गुरुरूपशक्तिमर्चयेत् |
उं उर्द्धकेशानन्दनाथ वज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
प्. १४४अ)
ओं व्योमकेशानन्दनाथ वज्रेत्यादि |
ओं नीलकेशानन्दनाथा वज्रेत्यादि |
वृषध्वजानन्दनाथ वज्रपुष्पेत्यदि | एते दिव्यौघा || १ ||
ओं वसिष्टानन्दनाथ वज्रेत्यादि |
ओं हरिनाथानन्दनाथ वज्रेत्यादि |
ओं जयासु वज्रेत्यादि |
ओं विजयाद्यसु व्रजेत्यादि |
ओं महोदर्पसु व्रजेत्यादि |
ओं शाखानन्दनाथ व्रजेत्यादि |
ओं परानन्दनाथ व्रजेत्यादि |
ओं यनानन्दनाथ व्रजेत्यादि |
ओं कुलानन्दनाथ व्रजेत्यादि |
प्. १४४ब्)
ओं विरूपाक्षानन्दनाथ वज्रपुष्पं प्रतीछ हूं फट् स्वाहा | एते
मानवौघा |
एतदशक्तौ अक्षोभ्य मात्रं देवीमौ पूजयेत् |
अथातो वामा वर्तेन पूर्वदि दलेषु ||
ओं वैरोचन वज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
ओं शंखपाण्डल वज्रपुष्पं प्रतीछ हुं फट् स्वाहा ||
ओं पद्मनाभ वज्र पुष्पं प्रतीछ हुं फट् स्वाहा |
ओं जपुष्पमित्यादि | ततो वामावर्तेनाग्न्यादि दिग्दले |
प्. १४५अ)
ओं नानामकेश्वर व्रजेत्यादि | ओं यमात्त व्रजेत्यादि |
ओं विघ्नान्तक व्रजेत्यादि | ओं नं नरकान्तक व्रजेत्यादि |
इति गन्धादिभिरतान्युनर्देवीं गन्धादिभिः संपूज्यं |
स्ववामे त्रिकोणे वर्त चतुरश्रमण्डलं कृत्वा ||
ओं पुष्पै समत्यर्च्य |
तत्र विहित वलित्रय भरितं साधारं निधाय तत्वारामिखाभ्यां स्पृष्ट्वा |
ओं ज्री एकयटे महाधियते मयोपनीतं वलिं गृह्न २ गृह्नापय २ मम
सांतिं कुरु २ परविद्यामाकृष्य त्रूत
प्. १४५ब्)
छिन्धि २ सर्वजगद्वशमारय ह्रीं स्वाहा |
इति जप्ता बलि दत्वा रहस्यमालया |
निगदोनोयंशुनामानसेवनायाशहश्रं शतं तद्दिन जवोरि सद्यमूलं
जपेत् |
तत्र जप रहस्यं यथामूलाधारस्वाधिस्थानमणिपूरकेषु यथा संख्यं
बीजत्रय व्याप्तं तडित्कोटिकडारां परस्परानूस्यूताविभाव्योर्चार्य सर्वतेजो
विशुद्धं | फट्कारं विश्रान्ति रूपं ध्यात्वा चरेत् |
प्. १४६अ)
जपनीयमस्तु तद्रुतं न विलम्वितं एव मेव च अतो एवं यथाशक्ति जप्ता
अर्घोदक कुसुममादाय तेजोमयं तज्जपं |
गुह्यातिगुह्यगोपीत्वं गृहाणास्मत्कृतं जनं |
सिद्धिर्भवतु मे देवी त्वत् प्रशादात् महेश्वरी ||
इति देव्या वामहस्ते जपं समर्प्य तन्यीकृतं तद्दिभाव्य स्तुत्वा | अष्टांग
पातं प्रणमेत् |
ततो मां मदीय परदेवतायै समर्पयेत् | ओं तत्स विदित्वा समर्पयेत् |
ओं तत्स विदित्वा समर्पणि कृत्वा योनि मुद्रां प्रदर्श्य |
प्. १४६ब्)
सर्वावरणदेवतादेङ्गे विनाप्य संहारमुद्रया परतेजः स्वहृदय
समानीय प्राणायाम षडंगौ कृत्वा ऐं शान्यां निर्माल वासिन्ये नम
सर्वशेष निवेषयेत् पाठ | शिष्टेभ्यो दद्यात् |
सिंहं सप्तल्ये यथा सुखं विहरेदिति नित्यपूजा | पुरश्चर्यायामेव
समभ्यर्च्य ||
लक्षां जप्ता तद्दशांशेन शितोत्पलेन बिल्वपत्रेण वा चतुसरे मण्डपे यथा
विधि प्रथम संस्कृते सति अग्नि हुत्वाक्वालागुरुद्र
प्. १४७अ)
व्योपेतैर्विमलैर्गन्धवारिभिस्तद्दशांशेन तर्पयेत् |
तद्दशांशेन विमलवारिणा यथोपदेशन
स्वमूर्द्धन्यभिसिंच्यतद्दशांशेन ब्राह्मणां कुमारी वा उत्तमां
स्त्रियक्षीरमांसादि घृतखण्डाद्यैः |
यथा विधिमंतर्प गुरवे दक्षिणां दद्यात् |
इति श्रीतारारहस्यवृत्तौ द्वादशः पटलः || १२ ||
अथातो होमपद्धतिं व्याख्यास्यामः |
अत्रनैमित्तिकादि नित्यादौमादिकं | होमे हस्ताद्य मम तुष्टौन्नतं स्थंणिलं
बालुकादितिर्विरच्य |
प्. १४७ब्)
तदुक्तं जपहोमादि त्वात् पूजायाः मूर्तिलक्षणं |
तत्र सहश्रादि होमे शययादि शोधिते पञ्चहस्त सप्त हस्त मण्डपे वा सर्वतो
भद्र चतुरमुकुण्डं कुर्यात् |
तन्मण्डपकरणान्नुवास्तोः पूर्वस्यान्मुत्तरस्यामैशान्या वा |
तदुक्तं गणेशविमर्षिण्यां |
वास्तो संगृह्य पूर्वस्यामैशान्यामुत्तरेथवा |
दिशिसंकल्पयेत् मन्त्री मण्डलं भुवि भागतः ||
प्. १४८अ)
नवहस्त प्रमाणम्वा सप्तहस्तमथापि वा |
पञ्चहस्त पुमानम्वा चतुरस्रं समन्वितं ||
निर्मितन्तु चतुर्द्वारं वेदिभिर्दृष्टिभूषणं |
दर्भन्यालापरि वृतन्तन्तुना परिवेष्टितं ||
एककुण्डीपक्षे | पञ्चहस्तगृहीतमेव प्रसस्तं | तदुक्तं होमनीरूपे |
एक कुण्डीमतेनापि पञ्चहस्तं गृहं भवेत् |
तदेकं चतुरस्यं कुण्डं यस्योत्तर भागे शस्तं ||
तदुक्तं गणेशविमर्षिण्यां |
तथोत्तरे कुण्डमेकं वेदास्रं तु समुद्धरेत् |
लक्षहोमे तु तत्कुर्याद् गृहमध्ये तु मूद्यणमिति ||
प्. १४८ब्)
चतुरस्रं च सर्वेषां केचिदिछंति तान्त्रिका |
इति सारदातिलके |
चतुरस्रे महेशानि सर्वकर्मार्थ साधयेत् |
कुशशालोद्भ्या? च |
संक्षिप्य चतुस्र मात्रं संक्षिप्य लिख्यति |
तत्र गृहादि कुण्डकरणे हस्त नियमो यथा ||
कर्तुर्दक्षिण हस्तस्य मध्यस्य दीर्घमानेन नामाङ्गुलिनिरूपं |
कर्तुयजमानस्य | तदुक्तं विज्ञाननीतश्वरे |
प्. १४९अ)
गृहादि कुण्डकरणे हस्तानां नियमो यथा |
यजमानस्य कर्तव्यं नान्यस्यैव कदाचनः ||
अथाष्टभिर्वैरेकाङ्गुलमिति | तदुक्तं नीतेश्वरे |
यस्याङ्गुलोयवस्तस्यां सोयवाष्टमुदाहृतः |
तिलस्तु मत्पञ्चमांसस्तिलसभागमेव च ||
भवेन्त्रिहायणीवालं तस्य षष्टो न वापि च सर्वतैव हि यदृष्टं
मङ्गुलैमव्यमा * लै |
मध्य पर्वायाममानं तच्च विंसति तत्परः |
आगमानुपसंस्मृत्यैर्वह्निः स्वस्कृयते चयैः ||
प्. १४९ब्)
तैस्तदङ्गुलमानेन कुण्डान्यपि विधीयतां |
तत्र चतुम्रकुण्डो यथा |
प्राक्यक् सूत्रमानेन तन्मध्ये लांछयेत् सुद्धी |
भागद्वये तन्मध्य विधा चोत्तयाम्ययोः ||
दिशो मत्स्य युगं कुर्यात् तन्मस्योदरयोः पूनः |
दक्षिणोत्तरयो सूत्रं यथामानं निपातयेत् ||
तत्सुत्राग्रेषु संस्थाप्यकोस्तेषु मकलाल्लिखेत् |
कोणस्थमकराग्रादि दिक्षु सुत्राणि पातयेत् ||
प्. १५०अ)
एवं कृते तनु कोष्टं चतुरस्रं प्रजायते |
एददेव भवेत् कुण्डं चतुरस्रं सुलक्षणं ||
कुण्डविस्तारमानञ्च आयामं तादृशं पुनः ||
तन्मानमवतं कुर्यात् तादृग्रुप्यञ्च मेखला |
मेखली भृयतां चापि द्वितीयं वैवमेव वा ||
वेदादादिनयनोछदविस्तारो हस्त मात्रके |
अन्तर्नवांगुलो छधा विस्मृता चतुरङ्गुलो ||
क्रियासारेपि प्रधानमेखेलोछेरयुक्त नवाङ्गुलं |
तद्बाह्यमेखलेद्वेधं पञ्चाङ्गुलमिति स्मृतं ||
प्. १५०ब्)
तवाह्यमेखलो छेधमङ्गुल द्वितयं क्रमात् |
चतुस्त्रिद्व्यंतुल व्यामो मेखला त्रियस्त्विति ||
सर्वत्रैव विधं क्षेत्रं कुण्डानामनुरूपतः |
एकाङ्गुलं तथा त्यक्ता कुण्डान्तर्मेखला भवेत् ||
एकहस्ते तु कुण्डे तु अन्य कुण्डे तु वर्द्धयेत् |
अर्द्धाङ्गुल तु कुण्डे तु कुण्डं कुर्या च मन्त्रवित् ||
सात्विका मेखला पूर्वा द्वितीया राजसि स्मृता |
तृतीया तामसी प्रोक्ता मेखलानान्तु निर्णयः ||
प्. १५१अ)
अथ योनि निर्णयः |
प्रथमे मेखला योनि मेखले होतुरग्रतः |
कुर्याङ्गजोष्टनर्णान्तु कुण्डवित्सर्व लक्षणः ||
योनि षडंगुलायामचरंगुलविस्मृता |
उन्नतोद्व्यङ्गुलाः प्रोक्ता कुण्डे हस्तमिते बुधैः ||
नाभि कुण्डोदरे कुर्यात् सुधीरष्टदलाज्व्रवत् |
तत्तत्कुण्डानुपायम्वा नाभिं तत्र विचक्षणः ||
नेत्र वेदाङ्गुलो छेदविस्तारानाभिरत्र वैः |
मुष्टिरत्निमिते कुण्डमात्रन्तु चतुरङ्गुलं ||
प्. १५१ब्)
द्विहस्ताद्विषु कुण्डेषु योनि संम्बद्धयेत् क्रमात् |
एकैकाङ्गुलमानेन तथा नाभिं च वर्द्धयेत् ||
कुण्डहस्ताद्बहिःस्त्वानं स्थलमित्यविधीयते |
चतुरस्रस्य लायामामात्मन्मध्ये सरन्धिकां ||
स्थूलमूला च सूक्ष्माग्रात्रारास्योत्त मनोहरा |
वाह्यस्थ मेखला वाद्यस्थान मालभ्य कारयेत् ||
तदुक्तं भास्कराचार्य न | योनौ नाले सरन्धिकमिति |
रुद्रयामले |
प्. १५२अ)
योन्यमध्ये विलं कुर्यात् तदाह्यग्राहि संज्ञकं |
तदुक्तं गणेश विमर्षिण्यां |
कुण्डस्य रूपं जानीयात् परंमं प्रकृतेर्वपुः |
उदरं कुण्डमित्याहु हस्तावुभयतः स्मृतौ ||
पादौ पञ्चम कोणे द्वे योनोद्यथा चन्द्र राजे |
योनिः कारण भूतस्य हस्तस्य स्यात् पदं महत् ||
तेन तत्रैव हव्यानां विधानान्तन्मयं त्वतः | कलानि पूर्णा विंवोरोसौ |
यो योष्ठं वर्द्धयेद् विद्वान् नाभिं वृत्ता कृति तथा |
तत् तत्कुण्डानुरूपम्वा कुर्यात् साधकसत्तमः ||
प्. १५२ब्)
योनिकुण्डे तथा पद्मे योनि पद्मं तु कारयेत् |
शतादि नवशतानात् तु मुष्टिं कुण्डेनु होमयेत् ||
हस्तमात्रं सहश्रे तु द्विहस्ते मयुते स्मृतः |
चतुर्हस्ते लक्षे मात्रं षट्कुरे दशलक्षकं ||
दशहस्तान्तत् हवने को प्रांमपि दशैव हि |
दशहस्तात् परं कुण्डं नास्ति होमे महीतले ||
तत्र द्विहस्तादि कुण्डे मेखला | तदुक्तं सारदातिलके |
कुण्डे द्विहस्तताज्ञेया वसुदेव गुणाङ्गुणा |
प्. १५३अ)
चतुहस्ते तु कुण्डे वा चसु तर्क युगाङ्गुलाः ||
कुण्डेदृसकरेताः | स्युर्दशाष्टार्द्धङ्गुलाचिताः |
वसुहस्तमिते कुण्डे भानुं पक्त्याष्टकांगुलाः |
दशहस्तमिते कुण्डे मनुभानु दशाङ्गुलाः ||
आयामोछापतो ज्ञेया मेखला सर्वतो बुधैः |
अथ द्विहस्तादि कुण्डानां प्रमाण यथा यामले ||
एकहस्ता द्विकुण्डाना पुमानमविधीयते |
पुराषण्मुख हस्तेन यदुक्तं चन्द्रमौलिना ||
प्. १५३ब्)
एकहस्त द्विहस्तादि गदतोमीनिशामयः |
त्रयत्रिंशांगुलं शूत्रं तिलद्वादशकान्वितं ||
द्विहस्तकुण्डे विधिवत् पूर्वंवत्परिकल्पयेत् |
त्रिहस्ते चत्वारिशतिल द्वादशकोणितं ||
चतुहस्ते तु कुण्डे सत्रिपञ्चाशाङ्गुलो चरेत् |
तेन द्वादशकं सूत्रं पञ्चहस्ते निवोधमे ||
चतुषष्ट्यांगुलं सूत्रं तिलद्वादशकोणितं |
अष्टाशीत्यंगुलं सूत्रं तिलद्वादशकोणितं ||
प्. ५४अ)
सप्तहस्ते तु कुण्डे वै सुत्रं विद्यान् परित्यजेत् |
सप्तनवन्यङ्गुलं सूत्रं द्विनवद्वादशकोणितं ||
नवहस्ते तु कुण्डे वै सूत्रं तन्तु विदां मतां |
नव द्वादशसंयुक्तं षदूत्तरे शतांगुलं ||
दशहस्तस्य कुण्डस्य उद्धरे तत्र विन्मतं |
अत्र विशेष |
अत्र द्विहस्तादि कुण्डे मेखलायोन्यादौ प्रकृत हस्त
चतुर्विशांशेनाङ्गुलाद्विवर्द्धनं | तदर्प्या पतितोरणि प्रबोधमात्रं |
तदुक्तं वृहद्योगिनी हृदये | द्विहस्तादिषु कूण्डे | व्योमसूत्रञ्च यद्भवेत् |
प्. १५४ब्)
तच्चतुर्विंशति चारेण नानांगुल परिग्रहः |
तदङ्गुल प्रमाणेन सर्व कुण्डेषु सर्वतः ||
मेखला योनि गलादि कल्पनं परिकीर्तितं |
एवं सर्वत्र परिमानं ज्ञात्वा कुण्डं कुर्यात् ||
अज्ञानदोषो यथा | यदाह विश्वकर्मा |
खातेऽधिके भवेद् रोगी हीने धेनु धनक्षयः |
वन्न कुण्डं तु संतायो मरणं छिन्नमेखला ||
मेखला रहिते सोको ह्यधिकेन विनाकृतं |
अपत्यध्वंसनं प्रोक्त कुण्डं यत्कंठ वर्जितं ||
प्. १५५अ)
अन्यत्रापि श्रीभैरव षोडशे सुत्राधिके सुहृद्भेदो मानभीनोदरिद्रता |
आयोधः कंठ हीनैस्याद सिद्धि मूलखातके |
अधिके वित्तनाशस्तु हीने दूख प्रवर्तते ||
व्याधयश्च प्रवर्तन्ते हीमोष्टे स्यादपस्मिनी |
उच्चारे स्फुटिते छिद्रे संकुले वा मृतिर्भवेत् ||
इति तस्त्मातु वै ज्ञात्वा कुण्डं च रचयेदिति | तदुक्तं रुद्रयामले |
इति संक्षपतो देविमानं कुण्डेषु दर्शितं |
योगिनी हृदये दृष्टं भाषितंञ्च मुनिश्चयं ||
प्. १५५ब्)
दिव्यैल्लोकोपकारायस्तेहेनानि वचेदितं |
प्रणिपत्य गुरो ज्ञात्वा कुण्डानां रचने चरेत् ||
अथाग्नि कार्यां वक्षे कुण्डस्योत्तरे मन्त्री नित्यनैमित्तिक काम्येषु तत्कर्मेषु
तत्कर्मानुगुणतया तत्तद्धोमानूमानेन तत्तदाकारेषु विरचितेषु चतुरश्रादिषु
आगमलक्षलक्षितेषु कुण्डेषु स्थण्डिलेषु वा यांमं कूर्यात् |
तत्राष्टादश संस्कारैः कुण्डं कूर्यात् |
प्. १५६अ)
तदुक्तं लक्षदेशिके तन्त्रे |
अष्टादशस्युः संस्कारा कुण्डानां तत्र चोदिताः |
विक्षणं मूलमन्त्रेण शरेमन्त्रेण मार्जनं ||
विलेपनं कलारूप कल्पनन्तदनंतरं |
त्रिशूत्रीकरणं पञ्चाद्धधयेनार्चनं मतं ||
अस्त्रेण वज्रिकरणं हृदयेन कुशैः शुभैः |
चतुःपथः तनूत्रेण तमुयादक्षपातनं ||
योगे कुण्डोनिसंकुर्यान् संस्कारैरेवरारितैः |
अशक्तान्प्रत्याह |
प्. १५६ब्)
अथवा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः |
विक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतं ||
ताडनहेति मन्त्रेण अस्त्र मंत्रेण मार्जनंमिति |
अस्मिन् कुण्डे प्रागग्रणा उदयगास्त्रिम्रोतिम्रोरेखा विलिखेत् ||
लेखानां देवता तत्रैवोक्ता प्रागग्रा स्मृता |
देवादेशवापुरन्दराः ||
रेखानामूदगाग्राणां ब्रह्मवैवस्वतेन्दवः |
अथवा षट्कोणं त्रिकोणं वृत्तं चतुरस्रं कुण्डाभ्यान्तरे लिखेत् |
तत्रोक्तर्वमणायोगपीठमर्चयेत् |
प्. १५७अ)
वामायै नमः | ह्येष्टायै नमः | रौद्रौ नमः | अम्बिकायै नमः |
एताः शक्तयो मेखलोपरि पूर्वादितो अर्चयेत् | मुच्चार्य | श्रीताराकुण्डायै नमः
| इति संपूज्यः |
तन्मध्ये नीलां सरस्वतीं तारा ऋटु स्नातां वागीश्वरीं यजेत् |
ततः सुवर्णादि पीठे मणिसंभवम्वा श्रोत्रिय गेहजं वारमिति
विजेनोद्धृत्पानीय हुं फट् क्रव्यादेभ्यः स्वाहाः | इति क्रव्यादां
संपरित्यत्य |
प्. १५७ब्)
तदग्नि मन्त्रेण संशोध्ये कवचेनावगुण्ठ्य धेनु मुद्रां प्रदर्श्य
वरूणबीजेनामृतिकृत्परमिति बीजेन वह्निनां चैतन्यमुत्पाद्य कराभ्यां
मुद्धृत्पत्रिःपरित्राम्य मेदिनी पृष्टजानुः शिवबीजबुद्ध्याकुण्डमध्ये
स्थितयोनोर्योगीश्वर वागेश्वरयो संगमं संचिन्त्यतस्यां योनौ
अधोमुखमग्निनिःक्षिप्यः |
ह्रीं वह्निमूर्तये नमः | इत्यभ्यर्च्य हृल्लेखामुच्चरत् इडया कृष्य
कुंभकयोगेन सुषुम्ना स्थित सहश्रदल कमजे
प्. १५८अ)
वैन्दवाग्नि बाह्योदर वह्निभ्यां संयोज्य योनिमुद्रया दक्षिणनाद्या
हृल्लेखामुचरन् अग्निं विरेच्य कूर्चबीजमुच्चरन् वह्नि चैतन्याय नमः |
इति वागीश्वरी गर्भनाड्यीं तच्चैतन्यं संयोज्ञ्य संस्थाप्य ज्वालिनी मुद्रां
प्रदर्शयेत् | ततः समिदिन्धनाभ्यांमाछाद्य अग्निं चिन्मन्त्रेण प्रज्वालयेत् |
चिन्मन्त्रो यथा |
ओं चित्पिंगल हन २ दह २ पच २ सर्वज्ञा ज्ञापय स्वाहा |
प्. १५८ब्)
ओं ततो वह्नि ब्रह्मङ्गे विन्यस्य मूलादी योगात् सादरं अभ्यर्चयेत् |
तद्यथा |
सहश्रार्चिषे हृदयाय नमः | स्वस्ति पूर्णाय शिरसे स्वाहा | उत्तिष्ट पुरुषाय
शिषाये वषट् | धूमव्यापिने कवचाय हुं | सप्तजिह्वाय नेत्रत्रयाय वौषट् |
धनुर्द्धराय अस्त्राय फट् || इत्यङ्गाभ्यर्च्य |
ओं वैश्वानरजातवेद इहावहलोहिताक्ष सर्व कर्माणि साध २ स्वाहा |
इति मूलेनावाह्य |
ताराग्नि स्वहुतासने भित्वं
प्. १५९अ)
ताराग्नि रसिता नाम दत्वा वह्निं ध्यायेत् |
ततः सप्तहस्तं त्रिपादं द्विशीर्षं चतुभिव्विषाणैस्त्रिधा बद्ध मध्यं
पिसंगै युतं लोचनंस्तर्क संख्यैद्विना संरशन्तं चतुशोत्रमग्नि |
रक्तांबुजस्थं प्रलम्वितैकं पाटञ्च पृष्टेन गतं वृषेन्द्रं |
स्वसंमुखं दक्षिणकैश्चतुर्भिभीमैस्त्रिभिर्वाहुभिरभ्युपेतं ||
शक्तिं वह्निश्रुक्श्रुवौ सव्यहस्तैर्वामै हस्तैर्तोमलं तालवृत्तं |
प्. १५९ब्)
ससर्पि पूर्णतप्तसौवर्ण पात्रं शंस्वत् ध्यायेत् सप्तजिह्वां दधानं |
अथवा एवं ध्यायेत् | बंधू पुष्पसंकासं सुतप्तकनक प्रभ | पद्महस्तं
यंजनार्थं वदन द्वय शोभितं | सप्तछन्दाय मकरवसन त्रयविग्रहं |
त्रिधाग्न्यात्म त्रिपादाव्यं हव्य कव्य विनाशकं |
ब्रह्मात्म सूर्यदग्दा तृहोतुश्चतुः ह्री विराजितं |
पञ्चरात्रं पासुपतं लोकायतमहा मतं ||
प्. १६०अ)
बौद्धवैदिकिमित्ये तत् षद्विङ्गल विलोचनं |
वेदार्थं चतुरश्रोत्रं स्तोत्रश्रोस्त्रमयध्वनिं ||
सपाताल जटाजूतमणी कोटीरभासुरं |
होमाङ्गनशमायुक्तं हेमकुण्डलमण्डितं ||
रक्तांभोरुह मध्यस्थं स्वस्तिकासनसंयुतं |
पृष्टदेशे समालम्बित्तात्तीय चरणाम्बुजं ||
सदाशब्दाय मानेन्ते सिद्धमानं स्वतेजसा |
शक्तिवह्नि श्रुक्वौव चतुर्भिद्दक्षबाहुभिः ||
तोमलं तालवृक्षं च सौवर्ण घृतपात्रकं |
वामे त्रिभिर्बाहुभिश्च दधानं रक्त वाससं ||
प्. १६०ब्)
हिरण्यकनका रक्ता कृष्ण दक्षासन स्थिता |
सुप्रभावाति रक्ता च रसना बहुरूपिणी ||
इमा जिह्वा ज्ञात तत्वा वदन सर्वमास्थिता |
एताभिः सप्तजिह्वाभिः रुपेतं पातत्वाननं ||
व्यावृतोत्तान वदनं साधकाभिष्ट दर्शनं |
एवं तस्य मुखे हिरण्यागत रक्ता कृष्णासुप्रभा अति रक्ता बहुरूपा इति जिह्वा
स्वनाम सदृशवर्णा | ज्वलज्वालजवे पूषः
प्. १६१अ)
सुरपि गन्धर्व यक्षनागपिशाचराक्षसा देवताधिष्टिताः |
शचिन्त्य षट्कोणमध्येषु पूजयेत् | तदुक्तं गणेशविमर्षिण्यान्तुः |
हिरण्यांभस्तु हेमाभा शूलपाणेर्दिशि स्थिता |
वैदूर्यवर्ण कनका प्राच्यायां दिशि संस्थिता ||
तरुणादित्य वर्णाभारक्ता जिह्वाग्नि संस्थिता |
कृष्णानीलाभ्र संकासा नै-ऋत्त्यादिशि संस्थिता ||
सूप्रभा पद्मरागाभावारूण्यादिसि संस्थिता |
अति रक्ताजपाभासा वायव्यां दिशि संस्थिता ||
प्. १६१ब्)
बहुरूपा यथा ख्याता दक्षिणोत्तरतस्थिता |
षट्कोण रहिते तु |
हिरण्यावारुणे प्रोक्ता शंकरे बहुरूपिका |
याम्ये रक्त तथाग्नेर्यामतिरक्ता च संस्थिता ||
सुप्रभापूर्वदिक् संस्थाकृष्णायाम्य दिशि स्थिताः |
कनकाञामु संज्ञायाकुण्डमध्यसमाश्रिता ||
यथा |
ओं ह्रीं हीम्मुहिरण्यायै नमः | ओं ह्रीं ष्युंगगाणायै नमः | ओं ह्रीं
रांप्रुं रक्तायै नमः |
प्. १६२अ)
ओं ह्रीं अं कृष्णायै नमः | ओं ह्रीं अं सुप्रभायै नमः | ओं ह्रीं अं
अतिरक्तायै नमः | ओं ह्री ययुं बहुरुपायै नमः | इति जिह्वा सप्त संपूर्य |
मेखलो परितसुषुम्नावर्त्मनास्तम्भयित्वा एतस्या एवाष्टक जयेन
दक्षनासापुटे वायुं विलेचयेत् | एवं यथा शक्तिप्राणायामं कृत्वा
ऋष्यादि न्यासं न्यसेत् |
यथा शिरसि आक्षोभ्य ऋषये नमः | मुखे |
बृहती छन्दसे नमः |
प्. १६२ब्)
एक जटादि देवतायैभ्यो नमः | मूलाधारे |
ह्रीं बीजाये नमः | हृदये |
फट् शक्त्याये नमः |
शेषाक्षरानुच्चार्य सर्वांगं कीलकाये नमः |
पुनस्तथैव मम द्रुत कवित्व पाण्डित्य सिद्धये विनियोगः ||
कराङ्गं न्यासं कुर्यात् | तथा |
ह्रीं एकजटायै अंगुष्टाभ्यां नमः | अंगुष्टयोः |
ह्रीं तारिण्यै तर्जनीभ्यां नमः | तर्जन्योः |
हुं वज्रोदके मध्यमाभ्यां नमः | मध्यमयोः |
हैं उग्रजटे अनामिकाभ्यां नमः | अनामिकयोः |
प्. १६३अ)
ह्रौं महापरिसरे कनिष्टिकाभ्यां नमः | कनिष्टयोः |
ह्रः पिङ्गोगैक जटे करतलपृष्टाभ्यां नमः | करतलपृष्टयोः |
इति करन्यासः | अथ षडंगानि |
ह्रां एकजटायै हृदयायै नमः | इति तर्जनीमध्यमानामिकाभि हृदयेः |
ह्रीं तारिण्यै शिरसे स्वाहा | तर्जनीमध्यमाभ्यां |
हुं वज्रोदके शिखायै वषट् | इत्यधोङ्गुष्टशिखाय |
ह्रैं उग्रजटे कवचाय हुं | इति हस्तद्वयाभ्यां शिर आदि पादपर्यन्तं |
प्. १६३ब्)
ह्रौं महापरिसरे नेत्रयाय वौषट् | इति तर्जनी मध्यमानामिकाभिः नेत्रत्रये
||
ह्रः पिङ्गोग्रैक जटे अस्त्राय फट् | इति तर्जनीमध्यमाभ्यां ||
उर्द्धौर्द्धतालत्रये छोटिकाभिर्दशदिग्बंद्धनं कार्य |
एवं षडङ्गविंन्यस्य ब्रह्मांजलि विरच्य आत्माभेदेन क्षणं ||
ध्याये | यथा |
प्रत्यालीढपदार्पिनाघ्रिशव हृद्घोराट्टहासापराखड्गेन्दीवर
कर्तृखप्परभुजा हुंकार बीजोद्भवा |
प्. १६४अ)
खर्वा नीलविशालपिङ्गलजटाजूटोग्रनागैर्युताजाड्यं न्यस्य कपालके
त्रिजगतां हन्त्युग्र तारास्वयं | तत्करकलितदूर्वाक्षतरक्त चन्दनाक्षतादि
मिलित दिनकरकिरण कुसुमांजलौ मातृकामन्त्रं ध्यात्वा
हृदयान्मूलमन्त्रततेजोमयीं शुद्धज्ञान चैतन्यमयीतां सट्चक्र
क्रमेण शिरः स्थित सहश्रदल कमलकर्णिकान्तगतपरमणि ब्रह्मं
प्रापयित्वा
प्. १६४ब्)
समभिभारेण तदमृतां बुधौ विश्राम्यतदमृतलोलीभूतामानन्द##-
देवेशि भक्ति सुलभे परिवारसमन्विते |
यावत्वां पूजयिष्यामि तावत्वं सुस्थिरो भव ||
एकजटे इहावह २ इत्यञ्जलि स्थापनेन दर्शयेत् | इह तिष्ट २ इति स एवाध्यो मुख |
इति सन्निधेहि | इत्यङ्गुष्टमुष्टिभ्यां | इह सन्निरुध्यस्व |
सैवाङ्गुष्टगर्भिणी मुष्टिभ्यां |
प्. १६५अ)
ततः आत्मद्देङ्गे षडङ्गविन्यस्ये ||
आं ह्रीं क्रौं स्वाहेति प्राणप्रतिष्टां कृत्वा | श्रीमदेक जटे वज्र पुष्पं
प्रतीछ हुं फट् स्वाहेन्न्यनेन पञ्चोपचारैर्चयेत् | आग्नेर्या |
ह्रां एकजटायं हृदयाये नमः | ऐशान्यां |
ह्रीं तारिण्यै शिरसे स्वाहा | नै-ऋत्ये |
हूं वक्रोदके शिखाय वषट् | वायव्यां |
ह्रै उग्रजटे कवचाय हुं | कर्णिकायं |
ह्रौं महापरिसरे नेत्रत्रयाय वौषट् | चतुर्दिक्षु |
प्. १६५ब्)
ह्रः पिङ्गोग्रैक जटे अस्त्राय फट् |
अथ देव्यामौलौ |
ओं अक्षोभ्य वज्रपुष्पं प्रतीछ हुं फट् स्वाहा | इति संपूज्य
देव्यावायव्यादीश पर्यन्तं ||
गुरुरूपशक्तिमर्च्चयेत् |
ओं उर्द्धकेशानन्दनाथ वज्रपुष्पं प्रतीछ हुं फट् |
ओं व्योमकेशानन्दनाथ वज्रेत्यादि | ओं नीलकेशानन्दनाथ व्रजेत्यादि |
ओं वृषध्वजानन्दनाथ वज्रे पुष्पेत्यादि | एते दिव्यौघा |
ओं वशिष्टानन्दनाथ वज्रपुष्पं प्रतीछ हूं फट् स्वाहा |
प्. १६६अ)
ओं कूर्मानन्दनाथ व्रजेत्यादि | ओं मीननाथानन्दनाथ व्रजेत्यादि |
एते सिद्धौघा | ओं मयाहेद्यसूव्रजेत्यादि | ओं विजयाद्यसुव्रजेत्यादि | ओं
महोदर्य सुवज्रेत्यादि | ओं परानन्दनाथ वज्रेत्यादि | ओं
पारिजातानन्दत्परिपूर्वादितो ब्रह्मादि पूजये | यथा |
ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही इन्द्राणी चामुण्डा महालक्ष्मी |
आं ब्राह्म्यै नमः | द्री महेश्वरार्यै नमः |
प्. १६६ब्)
ओं कौमार्यै नमः | ऋ वैष्णव्यै नमः | ॡं वाराह्यै नमः | एं ऐं
इन्द्राण्यै नमः | ओं ओं चामुण्डायै नमः | अः महालक्ष्मै नमः |
तद्बहि |
लक्ष्म्यै नमः | सरस्वत्यै नमः | रभ्यै २ | प्रीत्त्यै २ | कीत्त्यै २ | शान्त्यै २ |
पुष्ट्यै २ | तुष्ट्यै २ | तद्बहिर्लोकपालान् | तद्बहि |
वज्र शक्ति दण्ड खड्ग पाश अंकुशगदाशूलचक्रपद्मान्येतानि
लोकपालायुधानि |
प्. १६७अ)
आद्याक्षरबीजयुक्तैर्नामोन्तेराराध्य परिधि परिस्तरण प्राणात्प्राची
वर्जदिजुचार्ययेत् |
यथा कुण्डमध्ये मेखलायां मेखला समदीर्घ यज्ञकाष्ट त्रयं प्राची
वर्जपूर्वाग्र द्वयं उत्तराग्रमेक एवं कुशावप्यर्ग्रेण मूलछादयन्
पूर्वाग्रपक्तिद्वयं उत्तराग्रपक्तिमेकीमास्ततेत् |
आं ब्रह्मणे नमः | दक्षिणे ब्रह्माणं पूजयेत् | ततः श्रुकशुवो
त्रिप्रतप्यतौ वाम हस्ते दत्वां दक्षिण हस्तेन प्रोक्षये २ |
प्. १६७ब्)
पुनः प्रतर्पान्मनोदक्षिणभागे स्थापयेत् | आज्यस्थालीमानीयात्रेण मोक्ष्य
तस्यामाययनिःक्षिप्यतां कूण्डान्नुद्धृताग्नौ निवेशयेत् | इत्याभिज्ञानं |
दर्भयुगलं प्रज्वाले आनिःक्षिप्ता नले क्षिपेत् |
दीप्तेन दर्भयुगलेन आह्यं नीराज्याग्नौ विनिःक्षिपेत् ||
प्रज्वालितां दर्भान् घृतेन प्रदर्श्य अग्नौ विसर्जयेत् |
जलविसृशेत् | इति संस्कारैः संस्कारेन घृतं जुहुयात् |
प्. १६८अ)
अथ शुवेनस्थाली दक्षिणभागान्नाम मन्त्रेण दक्षिणे अग्नये स्वाहा हृदय
मन्त्रेण वामभागादाज्यमादाय | सोमाय स्वाहा |
इति वामलोचरने मध्यादग्नि सोमाभ्यां स्वाहा | इति भाललोचने |
दक्षिणादग्ने स्वस्ति कृते स्वाहा | ततस्तारेण व्याहृती जुहुयात् | तद्यथा |
ओं भूः स्वाहा | ओं भुवः स्वाहा | ओं स्वः स्वाहा | ओं भूर्भुवः स्वाहा |
ततो नामकरनादीनां संस्काराणां प्रणवाद्येन
प्. ६८ब्)
नमोन्त एवं हृल्लेखाद्येन वा सप्त सप्ताहुति जुहुयात् | यथा |
ओं ह्रीं अनिष्यमानस्य अग्नेर्गर्भाधानं कल्पयामि नमः |
अग्नेर्गर्भाधानं |
ओं अग्ने पुंश्रवनं कल्पयामि नमः | इति पुंश्रवणं |
ओं ह्रीं अग्नेः सीमन्तो नयनं कल्पयामि नमः | इति सीमन्तो नयनं |
ओं ह्रीं अग्नेर्जातकर्म कल्पयामि नमः | इति जातकर्म |
ओं ह्रीं अग्नेर्न्नामकरणं कल्पयामि नमः | इति अग्नेत्वं ताराग्नि नामासि | इति
नामकरणं |
प्. १६९अ)
ह्रीं अग्नेन्ति क्रमनं कल्पयामि नमः | इति निक्रमनं |
ह्रीं अग्नेश्चूडाकरणं कल्पयामि नमः | चूडाकरणं कल्पयामि |
ह्रीं अग्ने उपनयनं कल्पयामि नमः | इति उपनयनं |
ह्रीं अग्ने वेदाध्ययनं कल्पयामि नमः | इति वेदाध्ययनं |
ह्रीं अग्ने समावर्तनं कल्पयामि नमः | इति समावर्तनं कल्पयामि नमः |
ह्रीं अग्ने गोदानं कल्पयामि नमः | इति गोदानं |
प्. १६९ब्)
ह्रीं अग्नि विवाहं कल्पयामि नमः | इति विवाहं |
ततस्तत्राग्नौ विधिवत् | ध्यात्वा बाह्याभ्यर्च्य |
अग्नेरैकां विभाव्यमूलेन षोडशाहुतिर्जुहूयात् | पुनमूलेन
षोडशाहुतिर्जुहुयात् | एतद्वयं वक्तैव करणं नाडीसंधानं | ततस्त्रि
मधुराक्तं रक्तकरवीरैर्वा अन्येन वा अष्टोत्तरशतं नित्यहोमे | बन्धूक
कुसुमै भूपवस्याय | सर्पिलवणहोमाभ्यां कामिनी समाकर्षणाय |
प्. १७०अ)
चन्दन पुष्पैः सौभाग्याय | मल्लिकाजाती पुन्नाग कदम्बैः पुष्पैराजकुसुमै
सर्वार्थ सिद्धै | दुर्वातिलाज्याहुतिरामुषे | क्षीराक्तैस्तगरैः कवित्वाय |
चन्दनागुरुकर्पुरैः सर्वाभिष्टाय घृताक्तमालतीपुष्पै द्रुत कवित्वाय |
पुरश्चरणविधौ तु |
नीलोत्पलेनाखण्डाय बिल्वपत्रेण वा दशांमशंजुहूयात् | वहुरप्रकारस्तु
मूलमुच्चार्य ततः स्वाहा |
प्. १७०ब्)
इदं देव्यै ततः पुनर्महाव्याह्रिति होमयेत् | यथा |
ओं भूरग्नये पृथिव्यै महते स्वाहा | भुवो वायवे चान्तरिक्षाय च दिवे च
महते स्वहा | ओं स्वः आदित्याय चन्द्रमसे नक्षत्रेभ्यश्च वै स्वाहा |
ओं भूर्भुवः स्व अग्नये चादित्याय चन्द्रमसे नक्षेत्रेभ्यञ्च महते स्वाहा |
इति हुत्वा आर्ज्यपूर्णेन शुवेन श्रुवमापूज्य तत्राक्षत कुसुमा निःक्षिपेत् |
तदुपरि अधोमुख शुव दत्वा उर्द्धं मूखेन मूलं नादान्तमूच्चार्य
वामपादपूरःसरं ||
प्. १७१अ)
अविछिन्नधारया वौषडन्तेन पूर्णाहुतिं हुत्वा उपविश्य देवी
गंधादिभिराराध्य तदंत देवता गणं तदंमेव च |
विलीनं ध्यात्वा पूर्ववत् विसर्जयेत् | शक्तश्चेत् संरक्षेत् |
अथ हविष्यान्नविधि |
मन्त्रान्ते स्वाहाकारमुच्चार्यद्वविर्न्निक्षिप्यान्ते इदममूकायेति सम्बन्धः |
हविर्दानन्तुन्पून्जपानिना न कर्तव्यं | तदुक्तं त्रिपुरान्तहारे |
चित्रहस्तेन यद्दानं हुयते च हुताशने |
प्. १७१ब्)
दातु पुन्यफलं नास्ति होता च नरकं व्रजेत् ||
इति श्रीमहाभैरवतन्त्रे |
हविरूतान हस्तेन वैश्वानर मुखे हुतं |
होतुश्चक्षुर्विनाशाय यजमानोपि नश्यति ||
इति तारारहस्यवृत्तौ होमनिर्णयो नामः त्रयोदशः पटलः || १३ ||
एवं निगदिता विद्या तारिणी सर्वसिद्धिदा |
इदानीं शृणु वक्षामि वासनामात्मतामयीं ||
व्योम्नो प्रकाशमानस्त्वं रसन्नायत्रमग्निना |
तयोर्विष इकारोयं विदूना तन्त्रिका मता ||
प्. १७२अ)
तकार सर्वपापघ्नो रेफस्तत्व प्रकाशकः |
बिन्दूमानी महाबीजं शब्दराशेः प्रकाशकं ||
चैतन्यरूप संसारभीषणं मुक्तिदायकं |
फत्कार सर्वजाड्यानां नाशकं तत्प्रकाशकं ||
एवं समस्तरूपेण केवला चित्कलापरा |
सर्ववेदमयी साक्षाछब्दब्रह्मश्वरूपिणी ||
आनन्दरूपिणी नीला आत्मानन्द प्रदायिणी |
प्रणवो ब्रह्मरूपासा सोहं तत्व स्वरूपिणी ||
प्. १७२ब्)
इति ते कथिता विद्या वासना भुक्तिमुक्ति ये |
एवं यो वेत्ति शुद्धात्मा साधको गुरु शिक्षया ||
स योगी स च विज्ञानी जीवं मुक्तः सदाशिवः |
अथ मन्त्रसिद्ध्यर्थ मंत्र शिखामहारहस्यतन्त्रे |
श्रीदेव्युवाच |
भगवन् प्रसीद सर्वज्ञ सर्वप्राणि हितेरत |
येनावश्य भवे सिद्धिः रूपाय वद शंकरः ||
श्री ईश्वर उवाच |
शृणु देवि परं ज्ञानं सर्व ज्ञानोत्तमोत्तमं |
येन विज्ञातमात्रेण क्षिप्रं विद्या प्रसीदति ||
प्. १७३अ)
मूलकल्पे तु या शक्तिर्भुजंगाकार रूपिणी |
एतदर्भनावर्तन प्रण इत्युच्यते बुधैः ||
झिल्लिवारच्य मधुरा क्रूजन्दी सततो स्थिता |
गछन्ती ब्रह्मरंध्रे प्रविशन्ति स्वकेतन ||
यातायातं क्रमेणैव तच्च कूर्यामनोमयं |
तेन मन्त्र शिखाजाता सर्वसिद्धि प्रदीपिका ||
तमः पुर्णे गृहे यस्तु यत्किञ्चित् प्रतिभाषते |
शिखा हीनास्तथा मन्त्रा न सिद्ध्यंति कदाचन ||
प्. १७३ब्)
शिखोपदेशः सर्वत्र गोपितः परमेश्वरः |
वितानेन न सिद्धि स्यात् वर्षकोटी शतैरपि ||
तस्मात् त्वयापि गिरिजे गोपितव्यं प्रयत्नतः |
इति शिखा मन्त्रा | मन्त्रशिखा | अथान्तर्यागः | रुद्रयामले |
अथान्तर्येजनं वक्षे दृष्ट्वा दृष्ट फलप्रदं |
योगिणां यत्र जायन्ते अधिपाश्च नराः सदा ||
गुरोध्यानं प्रकूर्वीत यत्नात् पूर्वं विशालधी |
स्नानं बुधस्ततः कूर्य स्वम्विदानन्द सिद्धये ||
प्. १७४अ)
तद्यथा शृङ्गात निलया कुण्डलिनी समुत्थाप्य कुल पंके रुहं परबिन्दूं
निङ्भिद्य तत्र द्रुत परामृत धारया मूल शृङ्गांतर्गतं तत्र निमज्जेत्
|
तदुक्तं यामले |
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते |
बिन्दुतीर्थे नरः स्नायात् पुनर्जन्म न विद्यते ||
इडासुषुम्ना शिवतीर्थकेस्मिन् ज्ञानाम्बु पूर्णा वहत शरीरे |
ब्रह्मद्युति स्नाति तयोः सदायत् किन्तस्य गंगैरपि पुष्करैश्चः ||
प्. १७४ब्)
अथ संध्या |
मूलविद्यास्वरूपिणी तडित्कोटि प्रभां मृणालतन्तु निभां कुण्डलिनीं
कुलामृतरसभावेन संध्या कूर्यात् |
तदुक्तं रुद्रयामले |
शिवः शक्त्याः समायोगो यस्मिज्ञान प्रजायते |
सा संध्या कुलनिष्टानां समाधिस्थैः प्रगीयते ||
अथ तर्पण |
मूलाधारात् सोमसूर्याग्नि रूपिणीं कुण्डलिनीं समुस्थाप्य परं
बिन्दूनिभिद्यतदभूता मृतेन देह देवतां तर्पयेत् पर देवतां |
प्. १७५अ)
अथार्घ विधिः |
बिन्दुस्थानमाधारनादस्थाने कलारूपपात्रं नादान्त
चन्द्रमण्डलामृताज्ञा चक्रशुद्ध्या शक्तितेजसा संपूज्य देह देवतां
तर्पयेत् | तर्पनैः तदुक्तं भैरवे |
ब्रह्मद्वारा दधोभागे तच्चान्तं पात्रमुत्तमं |
कामासारेण संपूज्य तर्पयन्तेन खेचरीं ||
न्यासा यथा |
षट्चक्रस्थिता मात्तृकाननी करं न्यासः |
तदुक्तं रुद्रयामले |
प्. १७५ब्)
आधारे लिंगनाभौ हृदय सरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे
द्विदश दशदले द्वादशार्द्ध चतुष्के |
वासान्ते वालमध्ये उफ कठ सहिते कण्ठकूपे स्वराश्च हंसं तत्वार्थ
युक्ते सकल दलगतं कौलमार्ग प्रसिद्धिं |
पाठ हक्षौ दडमध्येन्यस तु विमलधीर्षूद्धि संमन्ति वृद्यै |
अथ षडंगानि गोतमीये |
इड्यमाना हृदान्मानं हृदये स्यार्चिदात्मकंः |
प्. १७६अ)
क्रिये तत्परत्वेन हृन्मयेन ततः परं |
सर्वज्ञादि गुणोत्तुंगे सर्वे ह्रीं च परान्मनि ||
क्रियति विषयाहारो शिरोमन्त्रेण देशिकः |
हृछिरो रूपः चिद्धाम मयमाभावनादृढम् ||
क्रियते निज देवस्य शिखामन्त्रेण देशकः |
मन्त्रात्मकस्य देहस्य मन्त्रवाच्येन तेजसा ||
सर्वतोवर्ममन्त्रेण क्रियते नान्यमन्वति |
यङ्गतादि परज्ञानमन्विरूपे परात्मनि ||
हृदयादि मयं तेजः स्यादै तत् नेत्र संज्ञितं |
प्. १७६ब्)
अन्ध्यात्मिकादि रूपं यत् साधकस्य विनाशयेत् ||
अविद्या जातमन्त्रस्य परं धाम समीरितं |
अथ ध्यानं |
तदूक्तं उदयाकरपद्धत्यां |
शक्तिद्वय पुटान्तस्थ कमलद्वय संस्थितं |
ज्योतिस्तत्वमय ध्यात्वा कुलाकुल वियोजनं ||
शृङ्गाटद्वयमध्यस्थं शक्तिद्वय पुटी कृतं |
सदासमरसन्ध्यानन्तत्कुलं योगिनी मयि ||
पुनरुक्तं |
किरणस्थं यदाग्निस्थञ्चन्द्र भास्कर मध्यगं |
प्. १७७अ)
महाशून्ये लयं कृत्वा पुर्णस्तिष्टति योगिरात् ||
निलालम्ब पदे शून्ये यत् तेज उपजायते |
तद् गर्भमभ्यसेन्नित्यन्ध्यानमेवन्तु योगिणां ||
अथ पूजा | यथा |
अन्तर्मुखेन मनसा विषयादिकं सर्व परतेजसि समर्पणमिति पूजनं |
तदुक्तं भैरव तन्त्रे |
अर्चयं विषयैः पुष्पैस्तत्क्षणान्तत्मयो भवेत् |
अन्यत्रापि |
न्यासस्तत्मयता बुद्धिः सोहं भावेन पूजयेत् |
प्. १७७ब्)
अथ जपौ यथा |
सुषुम्नान्तर्गतं चिछक्ति रुपब्रह्मग्रन्थिसूत्र ग्रन्थितस्य
मेरुसमन्वितानुलोमविलोमेन कुण्डलिणीमुत्थाप्य जपेत् |
तदुक्तं मातृकार्णवे |
माला पञ्चासिका प्रोक्ता सुत्रं शक्ति शिवात्मकं |
ग्रन्थितं कूण्डली शक्ति कलान्ते मेरु संस्थिताः ||
अथ होमः |
नाभिकूण्डे कुण्डलिनी विदग्नौ वासनेन्धने दीप्ते परामृत हविषु सुम्ना
श्रुवा |
प्. १७८अ)
अक्षवृत्तीर्वक्षमाणमन्त्रेण जुहूयात् |
मन्त्रो यथा |
मूलमुच्चार्यनाभिमण्डलचैतन्यरूपाग्नौ मनसा श्रुवा ज्ञान प्रदीपके
निलमक्षरवृत्तीजुहोम्यहं |
स्वाहा इत्येकाहुतिं दत्वा मूलमूच्चार्य |
धर्माधर्म हवीर्द्विप्त रूपाग्नौ मनसा श्रुवा ||
सुषुम्नावर्त्मना नित्यमक्षवृत्ति जुहोम्यहं |
स्वाहा इति द्वितीयाहुतिः ||
मूलमूचार्या |
प्रकाशाकाशहस्ताभ्यां हवनं आत्मनो श्रुवा |
धर्माधर्म फला स्नेहं पूर्णवह्नौ जुहोम्यहं स्वाहा ||
प्. ७८ब्)
अन्तर्निरंतर निबन्धनमेधमाने मायान्धकारपरिपन्थिनि सम्विदग्नौ |
आत्मप्रकाशन मरीचिकाशिभूमौ विश्वं जुहोमि वसुधादिशि वावसानमिति ||
अथ योगः |
तदुक्तं हंसपारमेस्वरतन्त्रे कथितं परमं ब्रह्मं योगं शृणु
वरानने आधारे तु गुदस्थाने पङ्कजञ्च चतुर्दलं |
कर्णिकायां स्थिता योनिः कामाख्यायतमेश्वरी अपरोक्ष हि कंदर्प्यमाधारे
च त्रिकोणकं |
प्. १७९अ)
स्वयंभुलिङ्गमध्ये तु पश्चिमाभिमुख प्रिये |
तस्मात् तुद्व्यङ्गुलादूर्ध्वं अधो मध्यं तु द्व्यंगुलं ||
एकाङ्गुलं तु तं मध्ये चतुरश्रन्त्रिकोणकं |
तन्मध्य तु शिखि स्थानन् तप्तहाटकं संनिभं ||
बन्धूक पुष्पसंकाश तडिल्लेखे च वीस्फुरत् |
सप्ताच्चि रश्मि संयुक्तं कालाग्नि रुद्रगर्भकं ||
आदिक्षकारपर्यन्तं कलादश समन्वितं |
अयमग्निः समूद्दिष्ट सूर्यञ्च कथयामि ते ||
प्. १७९ब्)
वस्ति देशे महाभागे मध्यमा मूलमाश्रिते |
सिन्दूरसन्निभम्बीजं जवादाडिमसन्निभं ||
रविस्तत्रैव जानीयात् कलाद्वादशसंयुतं |
कलाद्याद्वादशबीजं युग्मयुग्मं सुरेश्वरि ||
तन्मध्ये स पराद्धन्तु उद्यदादित्य सन्निभां |
रजशक्तिर्महाभागे रविवायु स्थितं जगत् ||
शिरोबिन्दुरिति ख्यातो मनश्चन्द्र प्रकीर्तितं |
आदीबीजमुन्मनी च गगणश्च चतुर्विधः ||
प्. १८०अ)
आदिबीज महाकाशं निजचन्द्रं मनो भवेत् |
उन्मनी प्राणचन्द्रश्च मित्राचन्द्र विनाशिनी ||
सर्वचन्द्रमयो योगी ध्यानं समभ्यसेत् ततः |
ओंकारस्था शिखासुक्ष्मा आत्मैक्यां चिद्रुपां कला ||
चिन्तयन्ती परावस्थां जिह्वास्तदशनन् दृढं |
सूक्षया सह चात्मानमेकी भूतन्तु चिन्तयेत् ||
हरवक्तस्यं संयोगात् सा शिखा वर्द्धयेत् प्रिये |
ब्रह्मग्रन्थिं ततो भित्वा कुलीतं छिन्न मस्तयो ||
प्. १८०ब्)
ब्रह्मरन्ध्रे सुषुम्नायाम्वायुर्विशतिमध्यमां |
स्वाधिस्थानन्ततो भित्वा श्रवणं विशति द्वयं ||
मनिपूरे नाभिदेशे ब्रह्मणः सदनन्प्रिये |
दीप्तज्योतिर्मयं शुद्धं ततोभिन्द्यात् सदागतिः ||
तदुर्द्ध्वं वैष्णवं स्थानं नीलोत्पलदलप्रभं |
ब्रह्म ग्रन्थिं हृदिभित्वा काती द्वेत्रिगुणात्मकं ||
दक्षकर्म ततो दत्वा तालुमूलं स्वरात्मकं |
रुद्रालयं ततो भित्वा ललाटश्च महेश्वरी ||
प्. १८१अ)
माहेश्वरी इन्दु कलां मेरौ निरोधिकारणम् |
शंखिनीमानसं प्राप्यवास्थि शून्यविभर्तिसः ||
अमृति यदि सर्गस्थं परमानन्द लक्षणं |
सहश्रारमहापद्मं रक्तकिञ्जल्कशोभितं ||
द्रुतरक्ताम्बुजे क्षाभं धारापात प्रवर्षणं |
महासमुद्र मध्यस्थं नीलं क्षीरमयं प्रिये ||
उर्द्धाधारे शृणुयत्प्रोक्तं | तन्मयोद्रनिरंजनं ||
नित्यानन्दमयी देवीं ध्यायेत् तत्र समाहितः |
सहश्रदल पद्माच्च पीयुषं प्रापयेत् प्रिये ||
प्. १८१ब्)
पीत्वा पीत्वा पुनः पीत्वा मूलाधारे प्रवेशयेत् |
पुनः कूलामृतं पीत्वा पुनरेव विशेत्कुलं ||
देविस्थाने सहश्रारे प्राविशेदाकुलं प्रिये |
द्वादशार्ण पुनर्भित्वा योनिमुद्रानिबंधनात् ||
पीत्वा पुनर्मूलाधारे पिंगलया गुणद्वयं |
वस्तिनादिकयोर्मध्ये उद्यानञ्च सुरेश्वरी ||
जालंधरं तथा वक्त्रे गुडे च कामरूपकं |
हृदिमध्ये पूर्णगिरिं श्रीहदृस्तालुकोपरि ||
प्. १८२अ)
ग्रिवौ पूर्णं गिरीपीठं कल्पोद्यानं शिरस्थितं |
येजेत्कल्पतरुं तस्मिन् साधकभिष्ट सिद्धिदं ||
ध्याये लिपितरोर्नूले देवी तन्मय पंकजे |
वदन्ति सुधियो वृक्षं नित्यवर्णमयं प्रिये ||
सचिन्मय महाबीजं बिन्दुनाद महाशिवं |
पृथिव्यक्षर शाखाभिः सर्वाशां सुविजंभितं ||
सपासक्षर पात्रैश्च संछादित जगत्रयं |
वह्नि वर्णाङ्कुलैर्दीप्तं रत्नैरिव सुरद्रुमः ||
मरुतां तुलसत्पुष्पै द्योतयं तं पुरःश्रियां |
आकाशार्ण फलैनेत्रं सर्वभूता श्रियंपरं ||
प्. १८२ब्)
महामृताक्षमधुभिः सियं तं परमेश्वरीं |
वेदागमादिभिः प्रोक्तं समुन्नति मनोहरं ||
शिवशक्ति मयं साक्षात् छायाश्रित जगन्त्रयं |
तन्मूले भावयद् देवी सर्वदेशरिरीणां ||
एवं चिंतनमात्रेण किं न सिद्ध्यंति भूतले |
तंत्रराजेपि |
सामान्य योगप्रकरणं |
मूर्द्धात विद्या मध्येस्थं सुधावर्य विधायकं |
विभावयन्तिति ननुजपेदेकाग्र मानसः ||
प्. १८३)
मण्डलात् कविता सिद्धिः सर्वभाषामपी भवेत् |
वादादीषु च सर्वत्र देवतात्मा जयी भवेत् ||
सकलजनी स्तोत्रे |
आनन्दलक्षणमताहत नास्ति देशे नादात्मना परिगतं तव रूपमीडे |
अन्तर्गतेन मनसा परिचीयमानंशंसंति नेत्र सलिलैः पुलकैश्च धन्याः |
उपहासो न कर्तव्यो यथा शास्त्र समीरितं |
विधेयमस्य मर्मज्ञैर्वीरावद्धो यमंजलिः ||
प्. १८४)
लम्बोदरस्य पौत्रेण कमलकर सूनुना |
अलेखि शंकरेणैषा वासनादि विनिर्णय ||
इति श्रीशङ्कराचार्य विरचितायां तारारहस्यवृत्तौ तंत्रचूडामणौ
वासनानीर्णयो नाम पञ्चदशमः पटलः समाप्तम् || १५ ||
शुभम् |
सम्वत् १९५७ सालमिति | रोज | कृष्णाजी |
समाप्तम् |
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
cb8w00hamzvqajgtneqsud244ng71jf
418105
418104
2026-08-27T11:33:32Z
Shubha
190
418105
wikitext
text/x-wiki
{{header
| title = तारारहस्यवृत्तिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
Description:
Description by Mark S.G. Dyczkowski:
The Tārārahasya, of which this is a commentary, was written in Bengal by Brahmānanda in 1735 śaka era, i.e. 1659 CE. It deals with worship of the goddess Tārā, who is considered to be a form of Kālī, although originally a Buddhist goddess. This manuscript of the Tārārahasyavṛtti appears to be a separate version of the Tārārahasyavṛttikā by gauḍīya (Bengali) Saṅkarācārya, which is already up amongst the etexts of Muktabodha. Although the identity of the two texts is discernable, the differences are so substantial that it warrants separate consideration and comparison of the two.
प्. १अ)
ओं नमः श्रीगुरुगणेशाय नमः ।
श्रीभवान्यै नमः ।
ऊर्ज्जितानन्दगहनां सर्वदेवस्वरुपिणीं ।
पराम्बाग्रुपिणीं वन्दे महानीलसरस्वतीं ।।
नीलतन्त्रन्समाज्ञाय सिद्धसारस्वतं परं ।
वीरतन्त्रं मत्स्यसूक्तङ्गाधार्वे भैरवी तथा ।।
गुरुणाश्च मतं ज्ञात्वा कृता श्रीशंकरेण वैः ।
सर्वाम्नायसंपन्नं वै तारारहस्यवृत्तिका ।।
सर्वकर्मसुसिद्धार्थं लिख्यते पूजनादिकं ।
प्रथमे पटले देव्या नित्यपूजा प्रकाशिता ।।
द्वितीये पटले तावद् दीक्षाविधिविशेषतः ।
तृतीये तु पुरश्चर्या येन मंत्रत्व लभ्यते ।।
प्. १ब्)
नैमित्तिकं चतुर्थे स्यात् पञ्चमे काम्यनिर्णयः ।
रहस्य निर्णयः षष्टे कुमारी सप्तमे तथा ।।
अष्टमे तु पुरश्चर्या तारायाः परिकीर्तिताः ।
नवमे पटले देव्या मंत्राणां परिनिर्णयः ।।
दशमे पटले स्तोत्रं फलमेकादशे तथा ।
द्वादशे पटले सम्यक् भावना परिनिर्णयः ।।
नित्यपूजा प्रयोगस्तु पटले तु त्रयोदशे ।
सम्यग् विधानं होमस्य तारायाश्च चतुर्दशे ।।
पञ्चदशे तु मंत्राणां वासना तत्व निर्णयः ।
इति तारारहस्यं तु सम्यगध्यायनिर्णयः ।।
प्. २अ)
अथ ब्राह्मे मुहुर्ते उत्थाय मूलाधार पद्मे तद्द्रित्कोटि करालां
मूलविद्यामयीं कुण्डलणीं ध्यात्वा सुषुम्ना ब्रह्मणा परतेजसि
सङ्गमर्यदमृतधारया लोलैभूताश्चैतन्यमयी पुनमूलाधारमालयेत् ।
तथा च श्रुतिः ।
प्रकाशमानां प्रथमे प्रयाणे प्रति प्रयानेप्यमृतायमानाः ।
अंतः पदव्यामनु सश्चरन्तीमानन्दरूपाममलाप्रपद्ये ।।
तदुत्थायावश्यकङ्कुर्यात् ।
तदुक्तमत्स्यसूक्ते ।
प्. २ब्)
उत्थायचोत्तरे यामे कुण्डलिन्तं डिडा कृतिं ।
ध्यात्वा सिद्धिः स्वरो भूत्वामुभागी भवेत् नरः ।।
नीलतन्त्रेपि ।।
उत्थाय चोत्तरे यामे चिंतयदुग्र तारिणी ।
मुलादि ब्रह्मरंध्रान्तं चिसन्तु तनीयसीं ।।
मूलमंत्रमयी साक्षादमृतानन्दरूपिणीं ।
सूर्यकोटिप्रतीकीशी चन्द्रकोटि सुशीतलां ।।
तडित्कोटि समप्रख्या कामानन्दशिखोपरि ।
तत्प्रभापटलव्याप्त पाटलीकृत देहवान् ।।
प्. ३अ)
सर्वमंगलसम्पन्नः स्नानकर्मसमाचरेत् ।
मृत्कूशानपि संगृह्य गत्वा जलान्निकं ततः ।।
मलापकर्षणस्नात्वा मंत्रस्नानं समाचरेत् ।
विद्यया त्रिणिमज्यैवमाचामेत्पापशान्तयेत् ।।
मूलान्ते तर्पयामीति स्वाहान्तं तर्पणन्मतं ।
एवं त्रिधा तर्पणं तु सर्वपापक्षयो भवेत् ।।
ततः स्नानकाले संप्राप्ते यथा विधि स्नात्वा सन्तर्पणं कृत्वा
मूलविद्यान्तेन श्रीनीलसरस्वती श्री उग्रताराम्वा एकजटाम्वा तर्पयामिति
त्रिःसंतर्पयेत् ।।
प्. ३ब्)
कुशान्ते मेढ्रपुष्पचन्दनपुष्पङ्कुशाक्षतं ।
प्रस्थाग्राहितामुपात्रे कृत्वा चार्घन्निवेदयेत् ।।
मूलान्ते उद्येदादित्य वर्तिन्यै शिवचैतन्य मयै स्वाहा ।
इति मनुः ।
स्मृतसूर्यार्घप्रज्ञायैवं पूजास्यानमथा चरेत् ।
सूर्यमण्डले देवी चिन्तयेत् ।
ततो बिल्वाक्षत जवारक्तचंदनवज्रपुष्पसाधिनार्घ्यं निवेद्यतङ्गायत्रा
मूलविद्यया वा ।
तदुक्तं ।
कालिकातंत्रे ।
भगवत्येक जटे विद्महे विकट दन्ते धीमहि तन्नोस्तारा प्रचोदयात् ।
ततो हृदि ध्यात्वा ।
अष्टोत्तरे शतं जप्त्वा जलस्थानं यायात् ।
प्. ४ऽ)
तदुक्तं ।
फेत्कारिणि तन्त्रे ।
एकलिंगे श्मशाने वा शून्यागारे चतुःपथेः ।
तत्रस्थः साधयेद् योगी विद्यात्रिभुवनेश्वरीं ।।
तत्रेव ।
पञ्चक्रोशान्तरे यत्र लिङ्गान्तरन्न दृश्यते ।
तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा ।।
चतुस्पथ लक्षण तन्त्रान्तरे ।
चतुस्पथं विजानीयाद् यत्रास्ते तारिणी शिला ।
तत्र यत्नेन तं तव्यं जप्तव्यं सिद्धिकाक्षिभिः ।।
अन्यत्रापि ।
उज्जटे पर्वते वापि निर्जने वा चतुष्पथे ।
देवागारेथवा शून्ये निर्ज्जने कान्तवेश्मनि ।।
इति स्थान ।
वीरतन्त्रे ।
शून्यागारे श्मशाने यदि जपति जनस्त्वेक लिङ्गे तडागे गङ्गागरभे
गिरौधासुचिविमलमतिः सर्वदा भक्तियुक्तः ।
प्. ४ब्)
विद्याश्रीनीलचान्याभुवभजनपति सर्वशास्तार्थ वेत्ता देहान्ते योगि मुख्य
परमशिवपदं ब्रह्म निर्वाणमेति ।
एवं यथास्थानमाश्रित्य तत्र पीठं विचिंतयेत् ।
तदुक्तङ्गधर्वतंत्रे ।
श्मशानन्तत्र सञ्चित्य तत्र कल्पद्रुम स्मरेत् ।
तन्मूले मनिपीठश्च नामणिविभूषणं ।।
नानालंकारभूषाद्यान् मूनिदेवैश्च मण्डित ।
शिवाभिर्बहुमांसास्थि मोदमानाभिरन्ततः ।।
प्. ५अ)
चतुर्दिक्षुशवाङ्गानां चिताभस्मस्थि भूषिताः ।
तन्मध्ये भावयेद् देवी यथोक्त ध्यानयोगतः ।।
इति ध्यात्वा ।
ओं वज्रोदके हुं फट् स्वाहा तज्जलमधिष्टाय । ओं ह्रीं स्वाहा इत्यनेन हस्तौ
पादौ प्रक्षाल्य । ओं ह्रीं सुविसुद्धधर्म सर्वपापाणि
मयाशयविकल्पमपनय हूं फट् स्वाहा ।
इत्याचम्य ।
ओं मणिधरि वज्रिणि सर्ववशंकरि हुं फट् स्वाहेति शिखावंधनः ।
रक्ष २ स्वाहेति जलाभिषेकाद्भुमिशोधनं । ओं सर्वविघ्नानुत्सारय हुं फट्
स्वाहा ।
इति अक्षतन्प्रक्षिप्य अक्षतक्षेया यानुत्तरं नाना च मुद्रया त्रिविघ्नानुत्सारयेत् ।
ओं अपवित्र वज्रभुमे हुं फट् स्वाहेतिं भूमिजलेनाभि मन्त्राजलेन ।।
तत्र कश्चल कोमल विस्तरामृद्वासनान्यास्तीर्य । आ आः सुरेखेवजखे हुं फट्
स्वाहेति रक्तचन्दन पुष्पाभ्यां तामन्त्र्यर्च्य स्वस्तिकाद्यासन क्रमेण
तत्रोपविशेत् ।
तदुक्तं मत्स्यासूक्ते ।।
मृदुकम्बल आसीनो अन्येषु कोमलेषु वा ।
विष्टरेषु समासीनः साधयेत् सिद्धिमुत्तमं ।।
प्. ६अ)
सङ्ग्रामे पतिवापि व्यादिकमधूद्रकं । षण्मासान्तिः
सितन्प्राप्यचितायाम्वातदन्तिके ।।
अस्यायर्थः ।
दशमासादद्याक् षण्मासपर्यन्तं यावत् । गर्भच्युतबालकम्विदुः अचूडको
अकृतचूडाकरणः ।।
उपनयन समयादद्याक् चूडाकरणाप्राक् कोमलमविधनं एषामभावे
विष्टरे कुशेषु वा ।
तदुक्त श्रीक्रमे ।
वीरासनमभावे तु मृतासनं शृणु प्रिये ।
पञ्चवर्षाभ्यन्तरं यावत् मृतम्बालक चूडकं षण्मासाभ्यान्तरं
यावत् दशमा साच्च पूर्वकम् ।
प्. ६ब्)
गर्भयुतम्बालं शृगर्भाष्टमान्पुरःसरं । एतत् कोमल विद्या हविष्टरेषु
कुशेषु वा ।। तदुक्तं मत्स्यसूक्ते ।
कृष्णसारद्वीपि चर्म अचूडकन्तरं तथा ।
पीतश्च श्वेतनील च आसनाय प्रकल्पयेत् ।।
प्रत तु विष्टरं वाथ अथवा कुण्डली कृतमिति । एवमासनरहस्यमाराध्य
गुरुमुखादवगन्तव्यमिति ।। ओं मणिधरणि वजिणि महावजिणि महाप्रतिसरे
रक्ष २ मा हुं फट् स्वाहेति वस्त्रन्तिके रक्षाग्रत्थिम्बध्नियात् ।
प्. ७अ)
ओं आः हू आ हू स्वाहेति कराभ्यां व्यापक तद्योकाय वाक्चित्त शोधनं ।
ओं नमः पुष्पकेकंतुराजार्हते तथा गताय सम्यक् संबुद्धाय पुष्पे पुष्पे
महापुष्पे सुपुष्पे भूषितेषुष्प च यावकीर्णे हुं फट् स्वाहा ।
इति पुष्पादिन्मंत्रं मयं कृत्वा सुवर्णादि पीठे
रक्तचन्दनगोरोचनाकुंकुमवज्रपुष्पादिलिप्ने ।
ओं आः सुलेखे वज्ररेखे हुं फट् स्वाहेति मन्त्रेण अधोमुख त्रिकोण
गर्भितमष्टदलपद्मं चतुद्वारात्मकं रात्रमुद्धरेत् ।।
प्. ७ब्)
तदुक्तञ्च चूडामणौ ।
ततः कुलरसेन च पीठन्निर्माय यत्नतः ।
अं आः सुरेखे हुं फट् द्वयमेव च ।।
मंत्रेनानेन संलिख्ये वसुपत्रन्मनोहरः ।
तस्य पद्मस्य पूर्वदले ह्रीं लिखेत् । याम्ये त्रीं लिखेत् । उत्तरे फ लिखेत् । पश्चिमे
ट लिखेत् । त्रिकोण मध्ये हूं लिखेत् । तदुक्तं फेरवीतन्त्रे ।।
स योनी चन्दनेनाष्ट यत्र मन्त्रं लिखेत् ततः ।
मृदुमासनमासाद्यः मायां पूर्वदले लिखे ।।
प्. ८अ)
मध्यबीजं द्वितीये तु चोत्तर पश्चिमे वचः ।
मध्यबीजं लिखेन्नार भूतशुद्धिमथाचरेत् ।।
तारं हुंकार हुंकारस्य ताराप्रणवंदेने प्रसिद्ध त्वात् ।
अथवा उग्रायानीलसरस्वत्या विधाने साध्यतारस्य ।।
अथवा उग्रायानीलसरस्वत्या विधाने मध्ये तारस्य विधार केचित् ।
मध्य षट्कोणाङ्कित पद्ममिति केचित् ।।
तदुक्तं गान्धर्वे ।।
षट्कोणानन्तरं पद्मं भूबिम्बद्वितयं पुनः ।
तन्मध्ये पूअजयेद् देव्यावाहनम्वच ।।
इति बीज लिखने भूपूर्ववत् । तत्रैव विशेषो यदा ।
प्. ८ब्)
षट्कोनान्ते लिखेद् बीजं प्रेताक्षं पूर्ववछवं ।
सारस्वतार्थिनान्तु विशेष तन्त्रान्तरमुक्तं ।।
तदुक्तन्नीलतन्त्रे ।।
व्यामे द्वौ रसनार्णकर्णितमचान्द्वन्द्वौ स्फुरत्
केशरवर्गाल्लासितमुछदम्बसुमती गेहेन संवेष्टितं ।
ताराधीश्वरवारिवर्णविलसत् द्विक्कोण संशोभितं यन्त्रोमीलतनोः
परन्निगदितं सर्वार्थसिद्धिप्रदं ।
एवमेतेषामन्यतमं विरचर्यपुरतो गम्भार्यादि पीठे निधाय पीठमर्चयेत् ।
ओं हूं श्मशानायै नमः ।
प्. ९अ)
कनक द्रुमाय २ । तन्मूले । ओं शान्त्यै २ । ओं पुष्पै २ । ओं ष्ठौ २ । ओं
मणिपीठाये २ । ओं नानामणिभ्यो नमः । ओं नानालंकारेभ्यो २ ।
देवेभ्यो २ । ओं बहुमासास्थिमोदमानशिवाभ्यो २ । ओं
शवमुण्डचिताङ्गारास्थिभ्यो २ । चतुर्द्दिक्षु । ततोष्टदले । ओं लक्ष्मै नम । ओं
सरस्वत्यै २ । ओं रत्यै २ । ओं कान्त्यै २ । ओं पुष्ट्यै २ । ओं तुष्ट्यै २ ।
एवमुत्तरान्तरे समभ्यर्च्य । ह्मौ महाप्रेतासनाय नमः । तदुपरिमूले
कल्पयेत् । तदुक्तसिद्धि सारस्वते ।
प्. ९ब्)
लक्ष्मीः सरस्वती चैव रती प्रीति तथैव च ।
कीर्तिशान्तिश्च पुष्टिश्चतुष्टिरित्यष्टशक्तयः ।।
देव्या नीलसरस्वत्याः पीठशय दुरिताः ।
तथा वीरतन्त्रे ।
तन्मध्ये पूजयेद् देव्यावाहनं त्रावमेव च ।
इति पीठपूजा क्रमः । अथ भूतशुद्धि । यथा * * (?)
स्ताय फट् । करौ संसोध्य । तेनैव छोटिकाभिस्तालत्रय दशदिग्बन्धवं
कृत्वा प्राणायाम क्रण अङ्गै हस्तौ कृत्वाहं स इति मन्त्रेण आधारात्
कुण्डलिनी हृदयाज्जीवात्मानं
प्. १०अ)
पश्चतिं शति तत्वानि सुषुम्नावर्मणा परम तेजसि संगमये कुंभकेन
झंकारं नाभौ ध्यात्वा तदुद्भूतेनाग्निना स्वदेहं
विचिन्त्यकारपीठवर्णन् हृदि विचिन्त्य तदुन्भूतेन वायुना तद्भस्म प्रोत्सार्य
हूंकारं श्वेतवर्णं शिरशि विचिन्त्य तदूद्भूतेनाम्बुना तदस्थि प्लाविनं
कृत्वा समस्तमपगतमलं शरीर मामाप्लावयेत् । ततः आत्मानमपं
गंतव्यं तन्निर्मलं देवता भेदेन ध्यायेत् ।
प्. १०ब्)
तस्मिं विश्वव्यापके वारिणी आःकाराद्रक्तपंकजन्ध्यात्वा तदुपरिदाङ्कारात्
शुत्रयंपजविचिन्त्य तदुपरि नीरसन्निभं हूंकारं त्वा ह्रीं बीजभूषितो
कर्णिकाध्याये ।
आ हूं क्रौ स्वाहेत्येकादशवारजपन् प्रतिष्टाप्यधायेत् ।
तदुक्तं फेत्कारीये ।
मायान्नाभौ रक्तवर्णान् ध्यात्वा तज्जात वह्निना ।
शुस्कं पापान्मकं देहं दग्धं संचिंतयेत् ततः ।।
त्रांकारं हृदिपीताहन्तदुद्भूतेन वायुना ।
भस्मप्रोत्सारितं कृत्वा ललाटे चिन्तयेत् ततः ।।
प्. ११अ)
कुर्वन्तुषारवर्णाभन्तदुद्भूता मृतेन च ।
तदस्थि प्लावितं कृत्वा तदात्मानं विचिन्तयेत् ।।
सर्वव्यथाविनिर्मुक्तन्निर्मलं देवतात्मकं ।
विश्वव्यापकतो यान्तं श्रोताकोद्भवकर्णिकं ।।
तदुपरिनीलसन्निभं हूंकारं ध्यात्वा हूंकर बीजाद्भूषितां कर्तृकान्
ध्यायेत् ।
तदुपरि खर्वामभिनवजलधरनीलां लम्बोदरी
व्याघ्रचर्मावृतकटीपीनोन्तनययोधरारक्तवर्तुल त्रिनेत्रां
ललजिह्वाद्रष्टाकरालवदनां पिंगौग्रैक जटांजूटान्तदुपरिपार्श्वद्वये
लम्बमान
प्. ११ब्)
नीलोत्पलमालां अतिनीलनागवर्द्धजटां ललाटश्वेतास्थि पट्टिका संयुक्त
कपालपंचत्रयाञ्च वा कुसुमसंकाशन्तक्षकनागकृतकर्णकुण्डलां
अतिशुभ्रनागकृतहारान्दुर्वादलश्यामनागकृत##-
सरक्तमांसखण्डमण्डितमुष्टि
विनिविष्टजटाजूटांग्रसंलग्नोग्रखड्गविभूषितकरां रक्तनाल किञ्चिद्
विकसरनीलोत्पलकरां अधस्ताद् दक्षिणकरे बीजविभूषित
प्. १२अ)
वृत्तकर्तृकभूषितकराम्बा मे त्रिजगज्जाड्य समेतशुत्रमंडितकरां
भूजतुष्टे धूम्राभनागकृत केयूरां कनकाभनागकृतकङ्कणां
शवारूढान्निर्भरयन्त्रिनाभिप्रायेनशव हृदयसंकुचिताद् दक्षिण
चरणाशवपादद्वयस्थित प्रसारितवामचरणां कुन्दाभनागकृतकटि
सुत्रां ।
इषद्रक्त नागकृटनूपुरां सद्यहतगलद्रुधिरधारयान्योन्य
केशग्रंत्थिता पादपद्म द्वय लम्बितपंचाशचतुष्टय नृमुण्डमालां
प्. १२ब्)
ज्वलदनरचितामध्यस्थान् द्वीपि चर्मो कृतोदरीयं वस्त्रायोषिदशेषोलंकार
भूषितां मौलावक्षोभ्यशोभितां सावेशस्मेराननां एवं
रूपमात्मानन्ध्यायेदिति भूतसुद्धिः ।
तदुक्तं रुद्रयामले ।
तस्यागुणरूपं यहृत्स्वकीयमिव भावयेत् ।
नीलतन्त्रेपि ।
भूतशुद्धिविधायाथ शून्यम्विश्वम्विचिन्तयेत् ।
निल्लेपनिर्गुणं शुद्धमात्मानं तारिणी मयं ।।
अन्तरिक्षे ततो ध्यायेदाकाराद्रक्त पंकजं ।
भूयो तस्योपरिध्यायत् हूंकारन्निलसन्निभं ।।
प्. १३अ)
ततो हुंकारबीजात् तु कर्त्तृकाबीजभूषितां ।
शवोपरिगतान्ध्यायेदात्मानं तारिणी मयं ।।
ध्यानप्रकारं ।
प्रत्यालीढपदां घोरान्मुण्डमालाम्विभूषिताम् ।
खर्वालम्बोदरीभीमां व्याघ्रचर्मावृतां कटौ ।।
नवयोवनसंपन्नां पञ्चमुद्रा विभूषिताम् ।
सुमुखञ्चतुरश्रञ्च वृत्तगोमुखमेव च ।।
योनिमुद्रेति विख्याता मुद्रापञ्च नमस्कृतैः ।
चतुर्भुजां ललज्जिह्वान्महाभीमाम्वर प्रदां ।।
प्. १३ब्)
खड्गकर्तृ समायुक्तां सव्येतर भुजद्वयं ।
कपालोत्पल संयुक्त सव्यपाणि युगान्वितां ।।
पिंगोग्रेकजटाध्याये मौलावक्षोभ्य भूषितां ।
पञ्चभूषितामिति ललाटे श्वेतास्थि पट्टिका चतुष्टयान्वितकपालपश्च
तयान्वितामिति मन्त्रसारान्तर्गत शिवदीक्षाटिकायां ।
तेन सुमुखमित्यादि नमस्कृतावित्ये ननु कपाट एवन्त्री शंकराचार्येण
भगवत्त्याप्युक्तः ।
विचित्रास्थिकपालां ललाटे च पञ्चान्वितन्धरन्तीमिति मौलावक्षोभ्य
विभूषितामिति ।
प्. १४अ)
मौलो मस्तके अक्षोभ्य अविनासि चन्द्रकला इति टीकाकारः ।
ततः चन्द्रावतंसामिनि सर्वध्यानेनुक्तत्वात् ।।
वस्तुतस्तु ।
देवीमन्त्रमादाय गुरुरभ्यो वासुकी नागरूपः वटुरक्षोभ्य तिष्टतिति जूट
इत्यपि ।
इति मत्स्यसूक्त वचन श्रवणात् ।
अत एवास्मिन्नाम्नाय । अक्षोभ्य ऋषिरुक्तः । भावचूडामणौ ।
अक्षोभ्यनाग अक्षोभ्यदेविमूर्द्धन्यस्त्रिमूर्तिन्नागरूपधृक् ।
इति सर्वार्थसिद्ध्यै ध्यायेत् । ध्यानानुकूलश्रुतिर्यथा ।।
प्. १४ब्)
प्रतिस्य शुन्यालयथोपविश्य अचूडकादौ शवविष्टरादिषु ।
उत्सार्यविघ्नानर्थचैकमानसाविचिन्तयेद् विश्वमथा चिदात्मकं ।
विचिन्त्यबीजैरथभूतशुद्धिं विधाय तत्रैव नभो गतेन । उदग्र हूंकार
ककर्तृकेन स्मरेत् स्वमात्मामपितारिर्णिमयम्बिरुद्धवाक्यार्थ स
वह्निमण्डलेन वांबुदा भाङ्गुणसंनतोदरीं । अतीव खर्वानवयौवन
स्थितामधस्थ शार्दुल कृत बन्धजंघिलो ।
प्. १५अ)
अनेकमाहात्मशवोपरिस्थितां शवोर्द्धमालीढतयादपंकजां ।
विशीर्णवर्णामृशिरश्रजोद्भटान्त्रयीविवर्तारुणलोचनत्रयां ।।
अभेदपिंगैकजटाविराजिताम्विभूषणास्थि नृकपालभीषणां ।
महाष्टसिद्धि प्रकटा हि भूषणामट्टाट्टहासै जगतामभितिदा ।।
जटा अनन्तः श्रवणौ च तक्षकौ महादि पद्मो हृदिहारभूषणां ।
तथैव कर्कोटकृतोपवीतिकां सुमेखलायामथ देव वाशुकिं ।।
स शंखपाले न च ककणो गतेः पदेषु पद्मः किलनूपुरे श्रियं ।
उजेषुनागः कुलिकोङ्गदो मतो भुजोर्द्धमालामनुजास्थिभिर्मताः ।।
प्. १५ब्)
शितञ्च रक्तो धवलश्च मेचकस्तथैव पीताप्यशितञ्च पाण्डुव ।
भुजङ्गमाला इह वर्णजातयो भवंति सर्वे मणिभिर्ज्वलम्बिता ।।
कपालकर्तृग्रन्थितोग्रमूर्द्धजां समानमन्दीवरकान्तिमालिकां ।
विकोषखड्गशततश्च दक्षिणे स्वपौरुषे पैदेधतीं भुजैः सदा ।।
पदाब्जद्रष्टा द्वय पंचमुद्रयाविराजमानामसितोत्पलश्रजा ।
अचिन्तयेन्ता च कवित्वकाणिं मनोगतार्थञ्च जत्मुतारिणीं ।।
प्. १६अ)
इति श्रुतय ।
अथ श्रीशङ्करभगवत्पूज्यपादमतन्ध्यायेत् ।
श्रीनीलसारदायै नमः ।
ज्वलत्यावक ज्वालमालाति भास्वच्चितामध्यसंस्थां सुपुष्टां सुखर्वां ।
शवम्वामपादेन कण्ठे निपीडा स्थितान् दक्षिणेनांघ्रिणान्निपीड्यं ।। १ ।।
बृहल्लम्बमानोदरी मेघमर्णं सुमुन्तृगपीनस्तनाभोगरम्यां ।
जवारागाञ्ज प्रवृत्त त्रिनेत्रां ललजिह्वया द्रंष्ट्रयाभीषणास्यां ।। २ ।।
प्. १६ब्)
लसद्वीपि चर्मावृताङ्गास्मितास्यां जटाजूटमध्ये स्थितेन्दीवराङ्गी ।
शिरोदेशभास्वत्पिशङ्गाति सर्प्याजटाजूटमध्यस्थिताक्षोभ्यमूर्क्तिम् ।। ३ ।।
मिथः केशवंद्धाशिरछिन्नसम्यक् गलल्लोहितान्मानवीमुण्डमालां ।
दधानानृपञ्चाशदखेन संख्याशिरछिन्नमुण्डावली निर्मिताङ्गी ।। ४ ।।
सदोद्यन्नृमांसन्कराधार्य सव्यस्फुरत्यानिनाधारयंतीन्महासिं ।
करे वाम इषत्स्युरद्रक्तनालस्फुरन्नीलयं केरुहन्धारयंती ।। ५ ।।
प्. १७अ)
करे सव्य उच्चैरधस्ताद्दधानां सिताङ्कर्तृकाम्वामपाणौ कपालां ।
जगत्मूर्तिं संसारजाड्याति पूर्णङ्करे कर्तृकाधारया खण्डयन्ती ।। ६ ।।
वनाभा हि बद्धं जटाजूटमूच्चैर्जवारागनागोल्लसत्कुण्डलाश्च ।
लसद्धुमरोविर्महानागकाय स्फुरच्चारुकेयुरसोभाभिरामां ।। ७ ।।
सुवर्णाभनागोल्लसत्कंकणेन स्फरन्नीलसत्स्वेतनागभिरामां ।
शरीरे च दुर्वादलस्यामनागैः कृतश्चारु यज्ञोपवीतन्दधाना ।। ८ ।।
दधानां च कुन्दाभ नागेन सम्यक् कृतश्चारु कोटेय सूत्रं पवित्र ।
प्. १७ब्)
महापाटालोभेन नागेन वृत्ताम्विभूषणाश्च पादद्वये सदधानां ।। ९ ।।
विचित्रास्थिमालाङ्कपालं करालं ललाटे च पश्चान्वितन्धारयन्ती ।
चिरश्चिन्तयामीदृशांश्चारुरूपां समेयामदोषामतर्क्यामपारां ।। १० ।।
मुरश्रेणिमौरिप्रभारंजिताघ्रिंनताशेषदोषापदामिष्टदात्रीं ।
यदीय प्रसादादीदम्विश्वजातां यशः प्राप्नुयान्मोदते सास्वतीति ।। ११ ।।
सदैमंस्तवं यः पठेद् देकचित्तो वसस्तस्य लोके भवेदत्रनूनं ।
प्. १८अ)
न दारिद्र्यपापै न वा दुर्मतिः स्याल्लभेतापि मोक्षन्तथा धर्मकामो ।। १२ ।।
एते ध्यान भेदादकजटाविद्यान् सुन्दरतया तत्तत्प्रकरण दर्शनत् ।
इति श्रीशंकराचार्य विरचितो देव्याभुजङ्गप्रयातध्यानभेदः ।
एवं भूतमात्मानं ध्यात्वा भूतशुद्धिः ।
अथ स्ववामभागे त्रिकोणसुवर्त्तुल चतुरश्रमण्डलं कृत्वा तत्र साधारं
कपालादि पात्रन्निधाय तदुक्त कपालं स्फुटंमत्र सिद्धिजनक इत्यादि
तन्त्रराजवचनात् ।
प्. १८ब्)
तं मूल मन्त्रेण विमलजलेनापूर्य बिल्वपत्र रक्तचन्दन वज्रपुष्पाक्षतादि
निक्षिप्यार्घ्यास्य अंगयादिषु मध्ये दिक्षु षडंगादि विन्यस्य ततः ।
दशधामूलविद्यं जप्त्वा तेजो मयेन तज्जप्तेन जलेन सर्वविद्यामयं
कृत्वार्घ्यम्विप्राणायामादिकं कुर्यात् ।
तदुक्तं फेत्कारिण्यां ।
भूतशुद्धिम्विधायाथ अर्घ्यादिस्थापनश्चरेत् ।
प्राणायाम ततः कुर्याद् ऋष्यादि न्यासमाचरेत् ।।
न्यासौकरांगकौ कृत्वा आत्मानन्तारिणीं स्मरेत् ।
प्. १९अ)
ततो वामनासापुटे मूलविद्यया चतुर्वालं जपन् वामनासापुटेन
वायुमार्पुर्य तस्यैव षोडशवारं जपन् मध्यनाड्यां कुंभयित्वा
बालाष्टक जयेन दक्षिणनासापुठे रेचयेत् । इत्यशक्तौ ।।
शक्तसु षोडशचतुःषष्टिद्वात्रिंशत्संख्याया कुर्यात् । शिरसि ।
अक्षोभ्य ऋषये नमः । मुखे वृहटिछन्दसे नमः । हृदि एकजटाये
देवताये नमः । हूं बीजाय नमः । गुह्ये शेषमुच्चार्यकीलकाये नमः ।
पुनस्तथैव च । मम हुत कवित्वा पांडित्यादि सिद्ध्यर्थे विनियोगः ।
प्. १९ब्)
नीलतन्त्रे ।
अक्षोत्य ऋषिरेतस्य बृहती छन्द * * रितं ।
नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ।।
हूंकारबीजमन्त्र शक्तिः स्याच्चतुर्वर्गाफलप्रदं ।
करांग न्यासौ कुर्यात् । यतः । ह्रां अखिलवाग्रूपिण्यै नमः । अंगुष्टये ।
ह्रीं अखण्डवाग्रूपिण्यै नमः । तर्जन्यौः । हूं ब्रह्मवाग्रूपिण्यै नमः ।
मध्यमयोः । ह्रैं विष्णुवाग्रूपिण्यै नमः । अनामयोः । ह्रौं
रद्रवाग्रूपिण्यै नमः । कनिष्टयोः । हूः सर्वग्रूपिण्यै नमः ।
प्. २०अ)
करतल पृष्टयोः । इति करांग न्यासो विधाय । पुनः । ह्रां अखिलवाग्रूपिण्यै
नमः । मध्यमयोः । हृदयाय नमः । इति तर्जनीमध्यमानामिकाभिः ।
हृदये । ह्रीं अखण्डवाग्रूपिण्यै नमः शिरसे स्वाहा । इति तर्जनी
मध्यमाभ्यां शिरसे । हूं ब्रह्मवाग्रूपिण्यै नमः । शिखायै वषट् ।
इत्यधोङ्गुष्टयोः । शिखायां । ह्रैं विजटे अस्त्राय फट् । इति
तर्जनीमध्यमाभ्यां । ऊर्द्धोद्धतारत्रयछोतिकाभिर्देशदिग्वंधनं
कार्यं । एवं षडंगविन्यस्य ब्रह्माजलि विरच्य आत्माभेदेन क्षणं ।।
प्. २०ब्)
ध्याये । यथा ।
प्रत्यालीढ पदार्पितांघ्रिण च हृतघोराट्टहासाय
खद्गेन्दावरकतृखर्पस्तुता हूंकारबीजोद्भवां ।
खर्वानीलविशालपिंगलजटाजूटोग्रनाग्रैर्युताजाड्यं न्यस्य कपालके
त्रीजगतां हं उग्रतारा स्वयं ।
तत्करकलितदुर्वाक्षत रक्तं चन्दनाक्षताद्दिमिलित दिनकरे
किरणरुणकुसुमांजलौमातृकामन्तुध्यात्वा हृदयान्मूलमन्त्र तेजो सयी
शुद्धज्ञान चैतन्य
प्. २१अ)
मयीं तां षट्चक्रन्नेदक्रमेण शिरः स्थितसहस्रदलकमलकर्णिकान्त गत
परमशिवन्प्रापयित्वा समभिहारेण तदमृतांबुधौ विश्राम्य तदमृत
लोलाभूतामानन्दमचीन्ता प्रवहं चासापुटेनानीय कल्पित मूर्त्तौ
समावाहयेत् । देवेशि भक्ति सुलभे । परिवारसमन्विते ।
यावत् त्वा पूजयिष्यामि तावत् त्वं सुस्थिरा भव ।
एकजटे इहावह २ इत्यञ्जलि स्थापनेन दर्शयेत् ।।
इह तिष्ट २ इति सयवाध्यै मुखः । इति सन्निधे हि । इत्यङ्गुष्टमुष्टिभ्यां
प्. २१ब्)
इह सन्निरुध्यस्य । सर्वांगुष्टभर्भिनीम्ष्टिभ्यां । ततः आदे न्यङ्गे खड्ग
विन्यसेत् ।
ओं आं ह्रीं क्रों हूं स्वाहेति प्राणप्रतिष्ठा कृत्वा । श्रीमदेकजटे
वज्रपुष्पं न प्रतिछ हूं फट् स्वाहेत्यनेन पञ्चोपचारैरर्चयेत् । ततो
योनिमुद्रां प्रदर्शयेत् । आग्नेर्यं । ह्रां एकजटायै हृदयायै नमः ।
ऐशान्या । ततो अं अ कं खं गं घं पुनस्ततः । त्याक्ता च दक्षिणमूजं
स्पृसेत् साधक सत्तमः । ङं चं छं जं सुमुच्चार्य झं ञं टं
ठं डं ढं तथा इति वाम भुजे न्यस्य
प्. २२अ)
णं तं थं दं पुनःस्तरैत् । धं नं पं फं बं भं इति दक्षिणे
जंघके न्यसेत् । मं यं रं लं शं षं सं हं क्षं इति वामके । इति
व्याध्य प्रविन्यश्य मूलविद्यामुच्चरेत् ।
सप्तधाव्यापकङ्कुर्यात् येन देवी मयो भवेत् ।
ततः पूर्वोक्तं यधेष्टध्यात्वा कलकलितदुर्वाक्षतवज्रपुष्पादि मिलित दिनकर
किरण कुसुमाञ्जलौ मातृकामन्त्र ध्यात्वा हृदयान्मूलमन्त्र तेजोमयीं
शुद्धज्ञान चैतन्य रूपतां षट्चक्रभेदक्रमेण शिरोवस्थित सहश्रदल
प्. २२ब्)
कमलान्तर्गतं परमशिवन् प्रापयित्वा क्रियासमभिहारेण तदमृतावुधौ
विश्राम्य तदमृतलोलीभूतामानन्द चैतन्यमयीम्वहं नासापूटेनानीय
कल्पितमूर्त्तौ समावाहयेत् ।
देवेशि भक्तिसुरभे परिवार समन्विते ।
यावत् त्वा पूजयिष्यामि तावत्वं सुस्थिरो भव ।।
श्रीमद्देक जटे इहावह २ इत्यंजलिं स्थापने दर्श । इह तिष्ट इत्यधो मुख इह
सन्निधे हि । इत्यंगुष्टमुष्टिकाभ्यां । इह सन्निरुद्ध स्व २
सर्वाङ्गुष्टगर्भिणी । तत आत्मवद् देव्यंगे
प्. २३अ)
षडङ्गानि विन्यसेत् । आं ह्रीं स्वाहा इति प्राणप्रतिस्थाप्य मूल विद्या यान्ते
श्रीमद्देकजटे वज्रपुष्प प्रतिछ हूं फट् स्वाहा ।
इत्यनेन पाद्यादिभिः षोडशोपचारैरर्चयेत् ।
तदुक्तं फेत्कालितन्त्रे ।
आवाह्य स्थापयित्वा तु ध्यात्वैव पूजयेतत् ।
श्रीमद्देक जटे वज्र पुष्पन्प्रतीछमित्यपि ।।
मूलेनाग्नि प्रियान्तेन सतालेन यजेत् पुन ।
नीलतन्त्रे ।
सर्वमन्त्र युत कृत्वा देवतायै निवेदयेत् ।
अभावे वज्रपुष्पस्य स्मरणात् फलभाग् भवेत् ।।
प्. २३ब्)
महातंत्रे ।
मन्त्रनीलसरस्वत्यां पाद्यार्घ्यार्चामनीयस्नानवसनाभरणानि च
गंधपुष्पधूपदीपनैवेद्याचमनन्ततः ।
ताम्बुलमर्चनास्तोत्रं तर्पणंञ्च नमस्कृया ।
प्रयोजयेदर्चनायामुपचारास्तु षोडश ।।
तदुक्तफेत्कालिण्यं ।
षडङ्गमर्चयेद् देव्या देहे वा केशरेषु वा ।
अस्मिन्नेव समये देव्या वायव्यादिशानान्तं गुरुपक्तिमर्चयेत् । तदशक्तौ ।
गुरुत्रयान् । अथवा ऋषिमानं ।
प्. २४अ)
तदुक्तम्भावचूडामणौ ।
श्री ईश्वर उवाच ।
मातद्देवि महामाये बन्धमोक्ष प्रवर्तिनी ।
इदानी श्रोतुमिच्छामि गुरुक्रममनुत्तमं ।।
श्रीदेव्युवाच ।।
गुरु क्रमस्तु बहुधा मंत्रगौरवविस्तरात् ।
सुगंधिश्वेतलोहित्य कुसुमैरर्चये सदा ।।
अथवा गंधायो नैवेद्याः पूजापंचोपचारिका ।
तत्र पुष्प । नाम्नि यथा । तदुक्तमत्स्य सूक्ते ।
सुगंधिश्वेतलोहित्य कुसुमैरर्चयेत् सदा ।
बिल्वमरुवकाद्यैश्च तुलशी वर्जतैः शुभैः ।।
प्. २४ब्)
ओद्रपुष्पैर्विशेषेण वज्रप्ष्पणसिंत्रितं ।
सर्वपुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा इति ।।
अथवा तदुक्तं मंत्रचूडामणौ ।
अर्घदत्त्वाज्जवापुष्पं दापयेत् मन्त्रमुच्चरेत् ।
वज्रपुष्पं प्रतीछेति सम्बोधन पदान्वितमिति ।।
नैवेद्यश्च यथामत्स्यसूक्ते ।
पायसं कृशरं दद्यात् सर्करागुडसंयुतं ।
गव्यन्दधिमधुमिश्रं तथान्तानि निवेदयेत् ।।
शांलमत्स्यश्च पाटीनं गोधिकामां समुत्तमं ।
अत्र च मधुना युक्तं यधा दद्याच्च मंत्रवित् ।।
प्. २५अ)
ततो योनि मुद्रांन्प्रदर्श्याज्ञाप्रथ्यपरिवारमर्चयेत् ।
यथा केशराग्नीसासुरवायुषुमध्ये दिक्षु च ।
देव्यास्तु तदङ्गे वा षडङ्गमर्चन्येत् ।।
पूर्वादि दिग्नियमस्तु ।
पूज्यपूजकयोर्मध्य प्राचीतिकिर्त्यते बुधैः ।
तदक्षिणं दक्षिणं स्यादुत्तरं चोत्तरंन्मतं ।।
पृष्ठस्तु पश्चिमन्प्रोक्तं सर्वत्रैवन्प्रपूज्य च ।
ह्रां अखिलवाग्रूपिण्यै हृदयाये नमः ।।
एक जटायै नमः ।
शिरसे स्वाहेति क्रमेण वामानसोल्लसे ।
गुरुक्रमन्देवं लयमगौ भविष्यति ।।
प्. २५ब्)
नेष्टमन्त्रमार्गो विघनेन तादृक् सिद्धिगोचरः ।
गुरुणां शिष्यभूतानां स्त्रिचेत् सन्तति क्रमः ।।
तत्र मन्त्राश्च विद्याश्च निफलानात्र संशयः ।
उनविंशति पुरुषान्वापी नवसप्तत्रयोयि वा ।।
न ज्ञात्वा गुरुवंशानां शिष्य चेत् नष्ट संतति ।
स्ववंशादधिकं ज्ञेयं गुरुवंशं शुभाशुभं ।।
जनकादधिकं ज्ञेयं मन्त्रदस्व महेश्वरः ।
तस्माद् यत्नेन देवेशि संछेपाच्छृणु पार्वती ।।
शृणुतारागुन्वक्ष दृष्टादष्टफलप्रदान् ।
प्. २६अ)
उर्द्ध्वकेशो व्योमकेशो नीलकेशो वृषध्वजः ।
दिव्यौघा सिद्ध दाह्यते सिद्धोघान् शृणु तत्वतः ।।
वशिष्टकुर्मनाथश्च मीननाथो महेश्वरः ।
हरिनाथो मानवौघान् वक्ष्यामि गुरुता शृणु ।।
तारावती भानुमती जयाविद्या मनोहरी ।
मुखानन्द परानन्द पारिजातः कुलेश्वराः ।।
विरुपाक्ष भैरवी च कथितन्तारिणी कुलं ।
सिद्धौघामानवोघे च दिव्यौघ परमेश्वरी ।।
अक्षोभ्यः सर्वमूर्द्धन्यं स्त्रिमूर्तिनागरूपधृक् ।
आनन्दनाथ सब्दान्ता गुरवे सर्व सिद्धिदाः ।।
प्. २६ब्)
स्त्रियोपि गुरुरूपाश्च देव्याना परिकीर्तिता ।
अथवा सर्वशास्त्रेषु गुरव सर्वसूचिताः ।।
कुलचूडामण्यौ देवः गुरुन् शृणु महेश्वरः ।
येषु येषु च मंत्रेषु ये ये ऋषिगणा स्मृताः ।।
ते ते पूज्या सपर्यादौ संक्षेपां गदितं मया ।
अशक्तानाश्च संक्षेपाङ्गुर्वर्चनं यथा भवेत् ।।
तथ तत्रैवोक्तं ।।
आज्ञातगुरुनाम्ना वै गुरु त्रितयमर्चयेत् ।
चतुष्टयम्वासंवाचो न च कर्या ततः परं ।।
अथ प्रकारान्तरं
प्. २७अ)
यथा तदप्युक्तन्तारार्णवे । परसादि गुरुणां निर्णयोः । यथा
आदौ सर्वत्र देवेशः मन्त्रदः परमा गुरुः ।
परापर गुरुस्त्वं हि परमेष्टिरहं स्वतः ।।
सर्वमन्त्रेषु विद्याषु स्वयन् प्रकृतिरूपिणी ।
गुरुपरगुरुं चैव परापर गुरुन्ततः ।।
परमेष्टि गुरुं चैव कथिता गुरवस्ततः । इति श्रीगुरु निर्णयः ।
अक्षोभ्यवज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
तदुक्तं फेत्कारिण्यं ।
वज्रपुष्पप्रतीछ हूं फट् स्वाहा । इति मन्त्रतः ।
प्. २७ब्)
एतत् मन्त्रे नाम सात्रं बिल्व चैव न संशयः ।
अनेन मनुना सर्वान् परिवार यथार्चयेत् ।।
ओं शंपाण्डुरवज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं पद्मनाभवज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं अमिताभ वज्र पुष्पन्प्रतीछ हूं फट् स्वाहा ।
ओं मामक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं मामक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं पाण्डव वज्र पुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं तारे वज्र पुष्पं प्रतीछ हूं फट् स्वाहा । इति ।
पूर्वादिवारचतुष्टये ।
प्. २८अ)
ओं पद्मान्तक वज्र पुष्पं प्रतिछ हूं फट् स्वाहा ।
ओं यमान्तक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं विघ्नान्तक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं नरान्तक वज्र पुष्पं प्रतीछ हूं फट् स्वाहा ।
तदुक्तं फेत्कालिये ।
ओं अक्षोभ्य वज्रपुष्पादौ तारिणीं मूर्द्धि पूजयेत् ।
तथा वै लोचनं शंखं पाण्डरं पद्मनाभकं ।।
अमिताभं यजेत् मन्त्री दिक्षु पूर्वादि चतुष्टये ।
नामकं मामकश्चैव पाण्डरन्तरया सह ।।
प्. २८ब्)
ब्रह्मादिषु चतुःकोणे मन्त्रै स्वै स्वै क्रमाद् यजेत् ।
द्वारे पूवादितः पद्मान्तकश्चापि यमान्तकं ।।
विघ्नान्तकं समभ्यर्च्य पूजयेत् नरकान्तकं ।
इति संपूघनित्यहोमं कुर्यात् । सोम तुजगावल्ल्यां ।
नाजप्तः सिद्ध्यते मंत्रो ना हूं तश्च बलप्रदः ।
ना पूज्यो प्राप्यते काम्यन् तस्मान्त्रित्तयमाचरेत् ।।
पूजाया लभते पूजां जपात् सिद्धि न संशयः ।
विभूतिश्चाग्नि कार्येन सर्वसिद्धिश्च विन्दति ।।
नीलतन्त्रेपि ।
प्. २९अ)
नित्यहोमं प्रवक्षामि सर्वार्थं येन विन्दति ।
सपर्या सम्यगा साद्य बलिः पूर्वश्चरेत् विधिः ।।
ततो जपन्तर्पणश्च चरेत् साधकमुत्तमः ।
वलिवैश्वादिकञ्चापि ब्राह्मणसमुपाचरेत् ।।
विधिवदग्निमानीयः क्रव्यादेभ्यो नमोनमः ।
क्रव्यादांशं परित्यज्य ततोग्नि साधयेत् सुधी ।।
ततोमूलंमुच्चार्य कुण्डे वा स्थण्डिलेपि वा ।
भूमौ वासस्तरे वह्नि व्याहृति तृतयेन तुः ।।
आहुति त्रयमुत्क्षिप्य षडंगहनं ततः ।
ततो देवी समावाह्य मूलमंत्रेण षोडशः ।।
प्. २९ब्)
हुत्वास्तुत्वा विसृजे बिन्दु मण्डलं ।
ततः स्ववामे त्रिकोणवृत्तचतुरस्रमंडलं कृत्वा पुष्पै समभ्यर्च तत्र
विहित बलि द्रव्यभरितं पात्रन्निधाय अंगुष्टानामिकाभ्यां स्पृष्ट्वा ।
ओं ह्रीं एकजटायै महायक्षाधियायै उपनीत वलीं गृह्न २ गृह्नापय २
मम शान्तिं कुरु २ परविद्यामाकृष्य क्रुट् २ छिंन्ध २ ह्री स्वाहा । इति त्रिवार
पठित्वा बलि दद्यात् । रहस्य मालया यथाशक्तिं जपेत् । निगदेन उपांशुना
वामानसे वा यथा ।।
प्. ३०अ)
शंख्य सहश्रशत अष्टाधिकं जपेत् । जपलक्षण विमला तन्त्रे यथा ।
मनः सहरणं शौच मौनं मंत्रानुचिन्तनं ।
अव्यग्रत्वमनिर्दश्य जयाः संपत्ति हेतवेः ।।
मन्त्रमुच्चारयेद् वाचा निगदः सजयः स्मृतः ।
शनैरुच्चारयन्मन्त्रमीषदोष्टं प्रचारयेत् ।।
किञ्चिछ्रवयोग्यं स्यादुपांशुः स्याछतगुणः सहसौ मानसो जपः ।
जपरहस्यं यथा ।
मूलाधारस्वधिस्थान मणिपूरकेषु तडित्कोटिक तारां बीजव्याप्तिं विभाव्य
तथैव फत्कारस्य हृदये ।
प्. ३०ब्)
तथोक्तं ।
नारां षट्पद्यां । फत्कारं हृदये ध्यायेत् । तदुक्तं नीलतन्त्रे ।
मंत्रध्यानं प्रवक्ष्यामि जपात् सर्वज्ञतां भवेत् ।
मन्त्रध्यानान् महेशानि सिद्ध्यन्ते मन्त्रजातयः ।।
मूलचक्रेपहृल्लेषा सूर्यकोटिसमप्रभां ।
मूलादि ब्रह्मरध्रान्तं सर्वाम्विद्या विभावयेत् ।।
सूर्यकोटी प्रतीकाशा योगिभिर्दुषपूर्विकां ।
अथवा पूर्णचन्द्राभं कूर्चमूर्द्ध्नि सुधा स्मृत्रां ।।
प्. ३१अ)
अथवा सर्वविद्यानां जिह्वायान् दीपरूपिणीं ।
विभाव्य तत्प्रभापटलै जिह्वामपि दीपरूपाम्विभाव्यजेयेत् ।।
तदुक्तं फेत्कारीये ।
जिह्वायांनेसनादेवमूकोपि सुकविर्भवेदिति ।।
नित्य पूजा जपनिर्णयस्तु ।।
सहस्रैकं जपेत् मन्त्रं शनं दिन जन्तु वा ।
विंशत्या वा जपेत् मन्त्रं मतो न्यूनं न पूज्यते ।।
ततश्च ।
गुह्यातिगुह्यगोप्तीत्वं गृहानस्मत्कृतं जपं ।
सिद्धिर्भवतु मे देवि त्वत् प्रशादा त्वयि स्थिते ।।
इत्यार्घ्योदकाज्जलकुसुमैर्देव्या वामहस्ते तेजो मयं जपं समर्पयेति ।
प्. ३१ब्)
विशेषफलकाक्षाभिःरयं क्रमो निशायामा चरणीयः ।
तदुक्तं फेत्कारिये ।
बलिपूजादिकं यत्नां निशायां क्रियते सदा ।
तत्तदक्षयतां याति तारादेव्याः प्रसादतः ।।
अर्द्धरात्रात्परं यच्च मुहुर्तद्वयमेव च ।
सामाहारात्रिरुद्दिष्टानिसा सापि प्रकीर्तिता ।।
मायातन्त्रे । चन्द्रचूडामणौ च ।
रात्रौ प्रयतनश्चैव रात्रौ च शक्ति पूजनं ।
न करोति कथं देव साधकः कौलिको भवेत् ।।
प्. ३२अ)
ततः प्रदक्षिणीं कृत्वत् स्तुत्वा साष्टाङ्ग पातेन प्रणमेत् ।
यथास्तुति ।
ओं घोररूपे महारावे सर्वशत्रुक्षयंकरि ।
भकेभ्यो वरदे देवि त्राहिमां शरणागतंः ।।
सुरासुरार्चिते देवि सिद्धगन्धर्व सेविते ।
जाड्यपापहरे देवि त्राहिमां शरणागतं ।।
जटाजूट समायुक्ते लोलजिह्वानुकारिणी ।
द्रुतपुष्टिकरे देवि त्राहि मां ।। ३ ।।
सौम्यरूपे क्रोढरूपे चन्दरूपे नमोस्तुते ।
सृष्टिरूपे नमस्तुभ्यां त्राहि मां ।। ४ ।।
प्. ३२ब्)
जडानां जडता हंसि भक्तानां भक्तवत्सले ।
मूढतां हर मे देवि त्राहि मां ।। ५ ।।
हूं हूंकार मये देवि बलि होम प्रिये नमः ।
उग्रतारे नमस्तुभ्यं त्राहि मां ।। ६ ।।
बुद्धिन् देहि यशो देहि कवित्वन् देहि देहि मे ।
दुर्बुद्धिं हर मे देवि त्राहि मां शरण ।। ७ ।।
इन्द्रादि दिविषद्वृन्दवंदिते करुणा मयि ।
तारे ताराधि नाथस्य त्राहि मां शरणागतं ।।
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेत् नरः ।
षण्मासै सिद्धि माप्नोति नात्र कार्याविचारणा ।।
प्. ३३अ)
मोक्षार्थि लभते मोक्षं धनार्थि धनमाप्नुयात् ।
विद्यार्थी लभते विद्या तर्कव्याकरणादिकं ।।
इदं स्तोत्रं पठेद् यस्तु सततं लभते नरः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते ।।
पीडायामपि सङ्ग्रामे जाप्यदाने तथा भये ।
य इदं पठति स्तोत्रं सुभन्तस्य न संशयः ।।
एवं स्तुत्वा दण्डवत् प्रणम्य योनि मुद्रां प्रदर्शयेत् ।
आत्मसमया पद्भ्यां कराभ्यां जानुभ्यां सुरसा शिरसा दृशा ।।
प्. ३३ब्)
मनसा वचसा वापि प्रणामोष्टाङ्ग दुरितः ।
विशेष नमस्कारस्तु शंकेत तंत्रे ।।
तत्रिकोण काराताराया प्रकिर्तिता ।
इत्यत्र त्रिकोणाकारः सर्वत्रनमिः शक्तैरुदिरिताः ।।
अर्द्धचन्द्रमहेशस्य पृष्टतो नाति दीरितः ।
वेद्यविद्याधनं दत्वा सम्यक् यज्ञस्य यत्फलं ।।
तत्फलं समवाप्नोति सकृत्कृत्वा प्रदक्षिणां ।
वाराहितन्त्रे ।
प्रदक्षिणत्रयं कुर्यात् देषक्रसमुदाहृतः ।
कुलमुद्रामिति गो बलिवर्दन्या येनोक्तं ।।
प्. ३४अ)
आकृति देवतामिति देव्यञ्गै निक्षिप्य । आत्मसमर्पणं कृत्वा क्षमस्वमेति
सुषुम्न्नावर्त्मणा स्वहृदि समानीय । पुनः प्राणायामं कृत्वा
तन्मनसात्मामन्विभाव्यः । ततो ऐशान्यान्निर्माल्य वासिन्यै नमः ।।
इत्यभ्यर्च्य शेषनिर्माल्य शिरसि धृत्वा नैवे जातं स्वीकृत्त्यसिद्धि
संकल्पः । सुमुखी भूत्वा यथा सुखम्विहरेदिति ।
इति शंकराचार्यविरचितायान्तारहस्यवृर्त्तौ नित्यपूजानिर्णयः प्रथमः
पटलः ।। १ ।।
प्. ३४ब्)
अथ दीक्षाविधिर्लिख्यते ।
तदुक्तं महोग्रताराकल्पे ।
कल्पे दृष्टा तु तारा वै यो गृह्नाति नरोत्तमः ।
सम्वत्सर सहश्रैस्तुः निःकृतिर्नैव जायते ।।
गुरोमुखात्महाविद्या गृह्नीयात् पाप नाशिनीं ।
ततः गुरुलक्षणं य कल्पते ।।
ओं नीलवाग्देयै । मातर्नीलसरस्वती प्रणमतां सौभाग्य संपत्प्रदे
प्रत्यालीढपदस्थिते शव हृदि स्मेराननांभो रुहे ।
प्. ३५अ)
पुल्लेंदीवर लोचने त्रिनयने कर्त्री कपालोत्पले खड्गश्चादधतीत्वमेव
शरणं त्वामीश्वरीमाश्रये ।। १ ।।
वाचामिश्वरि भक्त कल्पलतिके सर्वार्थसिद्धिश्वरी गद्यप्राकृत
पद्यजातचरणे सान्निध्य सिद्धि प्रदे ।
नीलेन्दिवरलोचने त्रययुते कारुण्य वारान्निधे सौभाग्यामृतवर्षिणी न
कृपद्यासिञ्चन्तिमस्मादृशं ।। २ ।।
खर्वे खर्वे सहश्र पुरित तनो सर्वाङ्गवेशो ज्वले
व्याघ्रत्वक्यरिवीतसुन्दरकटी व्याबद्धजूटाङ्किते ।
प्. ३५ब्)
सद्यः कृत्तगलद्रजः परिमिलन्मुण्डत्रयीमूर्द्धजे ग्रंथि श्रेणि
नृमुण्डदामललिने भीमे भयं नाशयः ।। ३ ।।
मायाचाङ्गविकाररूप परमनीन्वद्धचूडात्मिके हूं फट् कारमयीत्वमेव
शरणमन्त्रात्मिकमादृशः ।
मूर्तिस्तेजननीस्त्रिधामघटितास्थूला हि सूक्ष्मापरावेदानामपि गोचरं
कथमपि प्राप्तान्नतात् प्रापयः ।। ४ ।।
त्वत्पादाम्बुजसैरयासुकृतिनो गछन्ति सा पूज्यतां तस्यं श्रीपरमेश्वर
हरिहरब्रह्मादि साम्यान्मकं ।
प्. ३६अ)
संसारांबुधिमज्जनत्पटुतनून्देवेन्द्रमुख्यामुरान्मातस्त्वत्पद सेवितोदि
मुखान् किन्नधीः सेवते ।। ५ ।।
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवासुरसंगरे विजयिनो
निःसङ्गसङ्गाङ्गताः ।
सौवोहं भुवने रसेन महसास्पर्धा वहन्नशनै स्वन्तुल्यान्तिरत यथा
सुविरविन्यशं व्रजन्ती स्वयं ।। ६ ।।
त्वं नामस्मरणात् परायण पराद्रष्टुन्न शक्रस्तुते भूत प्रेतपिशाच
राक्षसगणायक्षाश्च नागाधिपाः ।
प्. ३६ब्)
दैत्यादानवपुंगवाञ्च खचराव्याघ्रादिका जन्तवो डाकिन्यः
कुपितान्तकाश्च मनुजामानक्षणं भूतले ।। ७ ।।
लक्ष्मी सिद्धि गणाश्च पादुकमुखासिद्धास्तथा चारिणां नघश्चापि रणां
गणे गजघटी स्तंभस्तथा मोहनं ।
मातस्त्वत्पदसेवया खलु नृणां सिध्यंतिते ते गुणाः
क्रान्तकात्तमनोभवश्च भवति क्षुद्रोहि वाचस्पति ।। ८ ।।
उग्रताराष्टकमिदं भक्ति मान्य पठेत् नरः ।
प्रातमध्याह्नकाले च सायं च निनशुचिः ।।
प्. ३७अ)
लभते कवितां दिव्यां सर्वं शास्त्रार्थ विद्भवेत् ।
लक्ष्मीमनस्वरान्प्राप्य भुक्ताभोगान्यथेप्सितान् ।।
कीर्तिशान्तिश्च वैरुज्यं सर्वेषां प्रियतां भवेत् ।
विख्यातश्चैव लोकेषु प्राप्यंते मुक्तिमाप्नुयात् ।।
इति नीलतन्त्रे ।
तस्मात् सर्व प्रयत्नेन कुलीनं गुरुमाश्रयेत् ।
कुलीनः सर्वविद्यानामधिकारी भवेद् ध्रुवम् ।।
दीक्षा प्रभुः स एवात्मा सर्वमन्त्रस्य नापरः ।
श्रैवोपि सर्वविद्यानामुपदेष्टा न शंशयः ।।
प्. ३७ब्)
विष्णुविष्णुमनस्थानां सौरसौरविदांसतां ।
गणपत्यस्तु देवेशि गणादीक्षप्रवर्तकंः ।।
शैवः शकोपि सर्वत्र दीक्षा स्वामि न संशयः ।।
स्थान नीयमो मत्स्यसूक्ते ।
गोष्टे शिवालये शून्ये श्मशाने च नदी तटे ।
गोष्टे चे ग्रहणं कृत्वा पूजये सिद्धि वाश्चकः ।।
एवं सिद्धि लभैत्मंत्री नान्यथा नामवाप्नुयात् ।
कृष्णपक्षस्य चाष्टम्यं शुभे लग्ने शुभे क्षणे ।।
पूर्वभाद्रपदायुक्ता मित्रतारादि संयुते ।
अथवा चानुराधायां रेवत्यं नाप्रशस्यते ।।
प्. ३८अ)
जानीयाछोभनं कालं मन्त्रस्य ग्रहणन्प्रति ।
तदुक्तं नीलतन्त्रे ।
रोहिणीश्रवणाद्द्रावधनिष्टाचोत्तरात्रयं ।
पुष्पः शतभिषा चैव दीक्षा नक्षत्रमुच्यते ।।
इषे चैव विशेषेण कार्तिकेराविशेषतः ।
अष्टोत्तरशतं होम बिल्वपत्रेण कारयेत् ।।
अथवाष्टादशं कुर्यादष्टाविंसतिमेव वा ।
पायसं कृसरन्दद्यात् मोदकं खण्डशर्करा ।।
बलिं दद्याछागलश्च गोधामांसमनुत्तमं ।
रंभापुष्पं शालमत्स्यं जुहूयाच्च प्रयत्नतः ।।
प्. ३८ब्)
यवक्षीरं ततो दद्यात् शाल्पन्नं मधुना युतं ।
नारिकेर जलन्दद्यात् कांश्यस्य तदनंतरं ।।
शर्करासंरतन् दद्यात् मत्स्यण्डिं घनवर्तितं ।
पायसं कृशरं मांसं माधिःतम्वटकन्तथा ।।
बलिं दद्या च महिषं पक्षिणम्वन्य जातिकं ।
पानं नानाविधं देयं स्वर्णाद्याभरणानि च ।।
कौशेयं चैव कार्या संशूक्ष्मवासांसि मेव च ।
गोभूहिरण्यवस्त्राद्यैः स्तोषयेद् गुरुमात्मनः ।।
प्. ३९अ)
सर्वस्वन्दक्षिणां दद्यात् गाश्च दद्यात् पयस्विनी ।
भूमिं वृत्तिकरीन् दद्यात् पुत्रपौत्रार्थ दायिनीं ।।
गुरुवे दक्षिणान् दद्यान्सुवर्णाम्वा ससान्वितं ।
गुरुसंतोषमात्रेण सिद्धिर्भवतु सास्वती ।।
अन्यथा नैव सिद्धि स्यादभिचाराय कल्पते ।
विप्रेभ्यो भोजनन् दद्याद् बहुमान पुरःसर ।।
इति विशेषः ।
अत्र विरोधि सामान्यमपि कर्तव्यमिति ।
इति तारारहस्यवृत्तौ दीक्षाविधिं नाम द्वितीयपटलः ।। २ ।।
एवं सद्गुरोराहित दीक्ष्यास्ततः ।
शुद्धये पुरश्चरणमारभेत् ।
प्. ३९ब्)
गान्धर्वतन्त्रे ।
सुवासिनीङ्कुमारीन्तु भोजयेद् वहु यत्नतः ।
आराध्याभरणन् दद्याद् यथा तुष्येत देवता ।।
इति नीलतन्त्रे ।
एवं कृत्वा हविष्याशी जपलक्षन्मनन्यधिः ।
ततः प्रयोगं सर्वेषाम् वश्यादीनाश्च कारयेत् ।।
वीरतन्त्रेपि ।
स्वेछाचारषरो मन्त्री पुरश्चरण सिद्धये ।
रहस्यमालामादाय लक्षमेकं सदा जपेत् ।।
फेत्कारिणी ।
जडोपि शूद्र स्याद् भारनावस तत्पराः ।
लभते श्रीमताम्वाणी मन्त्रस्य लक्षजापत ।।
प्. ४०अ)
श्रीमतां व्यास वशिष्टादीनां कांम् विद्यात् प्राप्य क्रयो भारतादीन् प्रचक्रिरे
। इत्युत्वात् ।
केचिन्त्र भावन शक्तानात् तत्तदाचार सहितानांश्चतुर्गुणं जपमाचरेति ।
तदुक्तमेकवीरातन्त्रे ।
भावनारहितानान्तु क्षुद्राणां क्षुद्र चेतसां ।
चतुर्गुण जपः प्रोक्तः सिद्धये नान्यथा भवेत् ।।
एवंन्महाचीन क्रमाशक्तानां ब्राह्मणांदिनांमपि चतुर्गुणविधानेन
जपः कार्यः ।
जडोपि यदि सुद्र स्याद् भावनावस तत्परः ।
इत्यादि श्रवणात् ।
प्. ४०ब्)
तत्तदाचार निरताः सर्वं वर्णाद्विजातयः ।
तदनुष्टान निरताः सर्वे वर्णा पृथक् पृथक् ।।
इति अत्र सिद्धि विद्यायाश्चतुर्गुण युगमेवा ।
परिश्रमो नास्ति ।
तदुक्त फेत्कारीये ।।
विशेषतः कलियुगे मत्प्रसादाद् भविष्यति ।
मन्त्रचूडामणौ ।
सिद्धिमन्त्र तयानात्र युगसेवा परिश्रमो नास्ति ।
तदुक्तं फेत्कालीये ।
विशेषतः कलियुगे मत्प्रशादात् भविष्यति ।
तन्त्रचूडामण्यौ ।
प्. ४१अ)
सिद्धिमन्त्र तयानात्र युगशेवा परिश्रमः ।
नक्तभोजी हविक्षासि जपेद् विद्यान् दिवा शुचि ।।
तत्कृत्वा सिद्धिमाप्नोति जपेच्च मनसा स्थिरं ।
मन्त्रकाले च जापे च भार्या यत्नेन वर्जयेद् विष्णुकल्पञ्च वर्जयेत् तुलसीदल ।
वर्जयेन् मालती पुष्पं वर्जयेदन्य पूजन ।
हस्तप्रक्षालनं क्षौचमाचान्तन्तु सदा भवेत् ।।
देवीनाञ्च तथा पुष्पं पृथक् पात्रेषु स्थापयेत् ।
एकीभावं न कर्तव्यं यदित्छेत् सिद्धिमात्मनः ।।
प्. ४१ब्)
नैवेद्यादि फले स्तोयैज्जानीयादेष एवभाक् ।
हविर्नाना विधैर्गंधैः पायसे मोदकादिभिः ।।
एवं क्रमे नियूञ्जीत दधिक्षीरन्तथैव च ।
रहस्यमाला यथा ।
अकस्मादीहितासिद्धिर्महासंखाख्यमालया पंचाशत्मणिभिन्नानानिर्मिता
सर्वकामदा इति ।
महाशंख इति नृललाटास्थिभिः ।
कान्तेनारचितामाला तया प्रजप्तोग्रतारैक जटानील सरस्वती मंत्रः शीघ्रप्रदो
भवति ।
नृललाटास्थ्य भावे तु घटनासौत्कर्ष्यनिमित्तन्देहान्तरस्याप्यस्थि ग्राह्या ।
प्. ४२अ)
शिवदीक्षान्तर्गन टीका ।
तदुक्तं शाम्रवीसंहितायं ।
स्यूतसूत्रन्तितीहोत्र आवृत्तिद्धितय पुनः ।
दिवानिशाकरौ प्रोक्तौ तस्मात् तेजप्तयी शुभाः ।।
इदृश्याक्षन्त्र?जाघंस्तु कुरुते जपमुत्तमं ।
अपमृत्युकविभ्यासमुच्यते नात्र शंशयः ।।
गोपनीये प्रयत्नेन यदिच्छे सिद्धिमात्मनः ।
करमालानिर्णयो यथा । तदुक्तहहंस परमेश्वरे ।
पर्वद्वयमनामायाः परिवर्तेन वै क्रमात् ।
पर्वत्रयं मध्यमायान्तर्जन्येकं समाहरेत् ।।
प्. ४२ब्)
शाक्तमाला समाख्याता सर्वमन्त्र पदीपिका ।
तदुक्तं नीलतन्त्रे ।
एकैकन्मणिमादाय ब्रह्मग्रंथि विनिर्दिशेत् ।
अनुलोमे विलोमाभ्यां मातृकान्तरितां जपेत् ।।
तेन सर्वगुणोपेता जपं ते सर्वसिद्धि भाक् ।
तदुक्तं मे कविरातन्त्रे ।
कुल्लुकां च ततो नत्वा माला पूजा विधाय च ।
हृहीयादक्षिणे नाथ न च वामेन संस्पृशेत् ।।
नाभिहृद् शिरदेशे तु कुल्लुकां परिचिन्तयेत् ।
यदि सुत्र कृतामाला देव्या प्रीति करी सदा ।।
प्. ४३अ)
अकारादि क्षकारान्ताश्चाक्षमाला प्रकीर्तिता ।
अथवा महाशंखा भावेन पश्चाशन्मणिमालया स्फटिकी मालाया वा जपेत्
।
तदुक्तं तारार्णवे महाशंखप्य शक्तश्चेत् स्फाटिकी मालया जपेत् ।
अथवारमयोग्यानं रहस्यातिरहस्य लिख्यते ।
तदुक्तं विशुद्धेश्वर महातन्त्रे ।
कृपया शंकरेणोक्ता पार्वत्ये रक्षमालिकां ।
मालाविधान परमं शृणु पार्वति तत्वतः ।।
येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् ।
असुलोमेन मन्त्रमान्त्रविभेदनः ।
प्. ४३ब्)
मन्त्रेणान्तरितानान्तु वर्योनान्तरितन्मनुः ।
कुर्यात् मन्त्रमयी मालां सर्वमन्त्रार्थ बोधिनी ।।
वरमर्णन् मेरु रूपं लंघयेत्त कदाचन ।
मेरुशिरश्च सर्वेषां यथा देवे तथा हरिः ।।
तस्मान्तु स्थिर कार्येन कर्मकुर्याद् दहर्निशं ।
एतत् परं रहस्यानां मयोक्तं ते यशस्विनी ।।
त्वया गुप्ततरं कार्यन् नाक्षयं यस्य कस्यचित् ।
ततः सिद्धय गुरुभक्ति भावात् परिचरतिं विधेमङ्गाकृत्य उत्तराभिमुखः
शिरसि कुल्लुकां क्षिप्ता यथा संख्यं जपेत् ।
तदुक्तं ।
प्. ४४अ)
गुरुचरण सरोज सर्वदा भक्ति भावात् परिचरति विधेयो वास्य सर्वाङ्गना स्यात् ।
अनुदिन मनुमेनन्मानयन्मानवौ सौ भवति जगति वादि द्वैत सिद्धान्त हन्ता ।
मत्स्यसूक्ते ।
न जानाति च यो मूढ कुल्लुकान्तरिणिं जपेत् ।
यावज्जिवन्तु जप्तव्यन्न सिद्ध्यंति कदाचनः ।।
महामंत्रं परित्यज्य पूजयेद् यस्तु तारिणीं ।
पश्चत्वं जायते तस्य अवश्यम्वातुलो भवेत् ।।
एवं पूर्वोक्तास्यानादिमनुधेयं ।
एवं मुक्तेन जप्तातदशांशेन होमं तेणाभिषेक ब्राह्मण भोजन
गुरुदक्षिणाश्च क्रमेनाचरेत् ।
प्. ४४ब्)
तदुक्तं ।
लक्षमेकं जपेत् मन्त्रं हविष्याशी जितेन्द्रियः ।
तत्तस्थान यथा तत्तदासनं संस्थितो सुधिं ।।
पूर्वोक्त पूजनं कृत्वा विप्राराधन तत्परः ।
अनंतरन् दशांशेन क्रमाद्धोमादिकश्चरेत् ।।
रात्रौ बलिं सदादेय सर्वसिद्धिमभीप्सुभिः ।
पुरश्चरणहोमोङ्गस्तु ।
विधेयं नीलोत्पले साज्येन बिल्वपत्रेण वा विधेयः ।
तदुक्तं सिद्ध सारस्वते ।
प्. ४५अ)
एवं जपं यथा कृत्वा दशांशमसितोत्पवैः ।
आज्याक्तै जुहुयान्मन्त्री तर्द्दशांशेन तर्पणं ।।
कालागुरुद्रवोपेतैर्विमलैर्गान्धवारिभिः ।
तदशांशं ब्राह्मणान्तु भोजनं समुपाचरेत् ।।
इत्येवं सिद्धिमंत्रेण सर्वकर्माणि कारयेत् ।
मत्स्यसूक्तेपि ।
अक्षतम्वित्यपश्च दशांशं जुहुया ततः इति ।
के वलिं तिलाज्यतिति गुरवः । गुरवे दक्षिणाश्च दद्याद् यथा ।
अज्ञात्वा कुल्लुकान्देवीमत्रप्ता गुरु पादुकां ।
न दत्वा दक्षिणं सम्यगकृत्वा क्रम पूजनं ।।
प्. ४५ब्)
योस्मिं तंत्रे प्रवर्तंते ततपीडद्यसे ध्रुवं ।
इति मत्स्यसूक्तवचना ।
अत्र तु सर्वज्ञेश्वरवेदान्त सांख्यकार योगशास्त्रे सामूहनिः स्नेहास्थि
स्पर्शे महामन्त्र प्रभावात् ।
प्रायश्चित्त प्रकाशना प्रशंगात् ।
क्वापिशवोपरिताम्बुलश्चर्वन् जपश्च प्रदर्शितः ।
वीरसाधनादौ शवोपरि प्रतिविहितः ।।
तत्र स्नानमात्रमपि प्रायश्चित्तन्न प्रकाशितमाचार्येन ।
प्. ४६अ)
महाचीन बौद्धस्य व्यपदेश बौद्धस्य व्यवहारः स्पृप्ता
स्पृष्टित्वन्मन्त्ररविरुद्धाचारोत्र मन्त्र प्रभान् ।
आरोपहार्यपवर्गा प्रदायकमिति । मन्त्राणाम्बहुनाचारेणवासमनस्मृति
विरोधः ।। ते मन्त्र वन दोषः ।
तदाहंकुच्चिकादौ ।
यस्मिन् मन्त्रेय आचारस्तत्र धर्मस्तु तादृशः ।
कृतार्थस्तेन जायते स्वर्गो वा मोक्षमेव वा ।।
भ्रान्तिरत्र न कर्तव्यो सिद्धि हानि प्रजायतेः ।
विशुद्धि चित्तोत्र भवेत् सिद्धिस्योदपवर्गदा ।।
ननु सोममाभिचरण जपेदितिं न्यायादभिचार्यसिद्धिः ।
प्. ४६ब्)
पाप प्रसङ्गस्य कथन्न स्यात् ।
ननूपरपाय प्रशक्तस्य सिद्धिर्न भवति स ऊप पद्यते ।
पापमष्यसिद्धिर्न भवति । सदुपपद्यते । पापमनुष्यस्य तस्याशम्रवाः । अत
एव पापं न भवेदिति ।
अनेन विद्धिना कुत्राप्यत्र उक्त व्यवहार दर्शनात् । साधक शरीरं निकलुषं
लक्षते व्यवहार विधेरनिष्टासिद्धि सूचनाच्चेति ।
इति तारारहस्य वृत्तौ पुरश्चरण निर्णयोस्तृतीयः पटलः ।। ३ ।।
अथ नैमित्तिका स्थान क्रमो यथा । तदुक्तं स्वतन्त्रतन्त्रे ।
प्. ४७अ)
नित्यनैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः ।
अन्यथा चेद् भवेदित्थ कुर्यादायत्परं परांः ।।
नीलतन्त्रे ।
नित्याचार रतो मंत्री कुर्यात् नैमित्तिकार्चनं ।
नैमित्तिकार्चने सिद्धे कुर्यात् काम्यमखण्डितं ।।
मत्स्यसूक्ते ।
अष्टम्यं च चतुर्दश्यां पूजयेच्च प्रयत्नतः ।
यद्यत् प्रार्थयते मंत्री तत्तदाप्नोति नित्यशः ।।
लभते मंजुलां वाणिन्तथाष्टम्यां महा यजेत् ।
अष्टम्यां पूजयेद् देव्या सर्वकामफलप्रद ।।
प्. ४७ब्)
रमापुष्पबीजपुरं सुगंधिपरिपूरितं ।
मिश्रीकृतबलिं दद्यादष्टम्याञ्च विशेषत ।।
स्वर्णमाला तथा देव्यै दद्याङ्गंधैर्विशेषतः ।
फलक्षीरेन्तथारघाङ्गोविकं शर्करान्विता ।।
तस्मात् सर्व प्रयत्नेन संपत्ये पूजयेछिवां ।
दानश्चाक्षर्य सिद्धान्तन्दद्या देव्यै प्रयत्नतः ।।
नीलतन्त्रे ।
अष्टम्याश्च चतुर्दश्यां पूजयेच्च यथाविधिं ।
आज्ञासिद्धिमवाप्नोति जवापुष्पं च वर्वरां ।।
चन्दनश्चार्ककुसुमं दद्यात् स्वेता पराजितां ।
श्वेता या द्विगुणं पुण्यं दद्यात् कृष्णापराजिता ।।
प्. ४८अ)
बन्धूकामालया तुष्ये यथा छाग प्रदानवत् ।
अर्घ्यन्दद्यात् प्रयत्नेन नित्यपूजासु सर्वदा ।।
अष्टोत्तरशतं जाप्यं यावज्जीवति संख्यया ।
यस्तु संपूजयते दुर्गा महाष्टम्यान् प्रयत्नतः ।।
त्रिजन्मनार्जितं पापन् तत्क्षणादेव नाशयेत् ।
दुर्गामिति तारिणी । प्रकरणानुकृतत्वात् ।
ये जानन्ति महामायां ज्ञात्वा तत्वेन भैरव ।
आज्ञासिद्धि मवाप्यन्ते ध्रुवं याति शिवालयं ।।
तारिणी यत्र पीठे तु शीला रूपेण तिष्टति ।
यत्र यत्नेन गंतव्यं फलं सश्यान विद्यते ।।
प्. ४८ब्)
लक्षत्रयं जपेन् मंत्रन् तारिणी यत्र तिष्टति ।
निस्पृशः स्थिरचित्तेन सिद्धिर्भवति तत्क्षणात् ।।
संख्याकृतान्मूर्तिकाश्च अक्षतश्च तथैव च ।
मधुनापायसञ्चैव क्षीरं साज्यश्च शर्करा ।।
बलिं दद्याच्च गोधा वै आसनश्च प्रशस्यते ।
रम्भापुष्पं शालमत्स्यं जुहूयान्मन्त्रवित्तमः ।।
सर्वसिद्धिमनुप्राप्य अन्ते मोक्षमवाप्नुयात् ।
साक्षतम् बिल्वपत्रश्च जुहुमाच्च सहश्रकं ।।
प्. ४९अ)
लभते मंजुलाम्वाणिं महाष्टम्यांश्च साधकः ।
कुल्लुकाश्च न जानन्ति महामंत्रं जपेत् नरः ।।
पश्चत्वं जायते तस्य अथवा वितुलो भवेत् ।
तारिणीश्चण्डिकायाश्च मन्त्रः कुल्लुक वर्जितः ।।
मतिमान्यो द्विजातीनात्रायास्ते यः कदाचनः ।
कुल्लुकाश्च शिरे धृत्वा सर्वयज्ञफलं भवेत् ।।
सो सौ पूजा सदाव्यर्था स सयज्ञस्तथैव च ।
तारामंत्रश्च कुल्लुकं अक्षरन्मत्रमुत्तमः ।।
मन्त्र चूडामणौ ।
कुजवारे कुलाष्टम्यश्चतुर्दश्या विशेषतः ।
योगिनी पूजनन्तत्र प्रधानं कूलपूजनं ।।
प्. ४९ब्)
यथा विष्णु तिथौ विष्णुः पूजितो वांछित प्रदं ।
यथाकुलतिथौ शक्तिः पूजिता वरदायिनीति ।।
मत्स्यसूक्ते ।
अष्टम्यांश्च चतुर्दश्यां पूजयेच्च विशेषतः ।
शंखस्थि तन्नो यः पूर्णं जवापुष्पंश्च वर्वरां ।।
चन्दनश्चार्क कुसुमं शुक्ला चैवापराजिता ।
अर्घादानम्विशेषेण नित्य पूजा क्रमः स्मृतः ।।
अष्टोत्तर शतं जाप्यं यावज्जीवति शंख्यया ।
सहश्रम्वा जपे देवे नित्य पूजा विधौ शृणुः ।।
प्. ५०अ)
महामाया सदा पूजा पूजने कुल्लका परा ।
स्तोत्रमंत्ररनादीनामनुष्टाने च सर्वदा ।।
अनुष्टानत् तातुष्याः सर्वन्त निस्फलं भवेत् ।
महाविद्याश्च सन् ध्याया वासुदेवंश्च योर्चयेत् ।।
प्राप्नोति तत्फलं सर्व हरिसायुज्यताम्व्रजेत् ।
वासुदेवो हरो ब्रह्मा नारिणी प्रकटिः सदाः ।।
एकमूर्तिः सदा चिन्त्य एकमूर्ति सदा स्थिताः ।
स्वर्गामोक्ष प्रदा देवि जयविद्या प्रदायिनीं ।।
धनविद्या यशो लक्ष्मीरायुरारोग्यवर्द्धनी ।
तस्मा प्रपूजयेद् देवि गंधपुष्पैश्च धूपकैः ।।
प्. ५०ब्)
नैवेद्यैर्विविधैर्भक्त्या पूजयेत् तारिणीं सदा ।
अथ नैमितिक विशषार्चनं । मायातंत्रे ।
आषाडे शयनं कुर्यात् सिंहे च परिवर्तत ।
आश्विने पूजये देवी पशुम्पायस मोदकैः ।।
रात्रौ पवित्रेण चरजापते सुरसुन्दरी । देवाप्रबोधयत् ।
स्वर्गेपि न कदाचना शुक्लाष्टम्यां षडाष्टम्यां महाष्टम्यां युगस्य च
।
मासं मेषस्य च रतारात्रौ प्रपूजयेत् सुद्धी ।
अथ पीठार्चनं ।
प्. ५१अ)
पीठानां परमं पीठ कामरूप महाफलं ।
तत्र यत्क्रियते पूजा सकृद्वापि महेश्वरः ।।
विहाय सर्वपीठानि तस्य देहे वसाम्यहं ।
तस्माच्छत गुणं प्रोक्तं कामाक्षा योनि मण्डलं ।।
तेषां फलं महादेवं कथम्वक्तुश्च शक्यते ।
यत्र कोटिगुणं सार्द्धं अर्धे वसति तारिणी ।।
यत्पीठं ब्रह्मणे प्रोक्तं गुप्तं सर्वसुखावहं ।
यतो देवांश्च देवीश्च मुनयश्चैव भावजाः ।।
सर्वप्राविद्भवत्त्यत्र तेन गुप्तं सदा कुरुः ।
द्विविधश्चैव यत्पीठं दुरायं साधकोत्तमैः ।।
प्. ५१ब्)
गुप्तं सर्वत्र देवेश लभ्यते कुलसुन्दरी ।
तत्र चूडामणौ ।
एकश्चेत् कुलशास्त्रज्ञः पूजाहस्तत्र भैरवः ।
सर्वत्र च सुरापूजाः सद्यो ब्रह्म शिवादयः ।।
एकाचेद् युवती तत्र पूजिता चावलोकिता ।
सर्वा एव परादेव्यः पूजितः कुल भैरवः ।।
आदौ चान्ते च मध्ये च लक्ष मूर्तौ विशेषतः ।
न पूजयंति चेत् कान्तां तदा विघ्नैर्विलुप्यतेः ।।
पूर्वाजितं फलं नास्ति काकव्यापर पूजनेः ।
पुरश्चरण काले च यदी स्यात् पीठ दर्शनं ।।
प्. ५२अ)
तदा तत्र पीठ पूजा मनसापि न हीयते ।
देवि कूटे महाभोगां उद्रियाने च भैरवी ।।
योगनिद्रा कामरूपे महिषासुरमर्द्दिनी ।
कात्यायनीं कामगिरौ कामाक्षां कामदायिनीं ।।
जालढर तु पूर्णेशी पूर्णे शैले च चंडिकां ।
कामरूपे तदा देव पूज्यादि कूचरवासिनी ।।
अथवा कामरूपस्य दर्शनं यदि भाग्यतः ।
तदा भगादि देवीमापूजा तत्र विधीयते ।।
कुलाचारे कुलाष्टम्यां चतुर्दश्याम्विशेषतः ।
योगिनी पूजनन्तत्र प्रधानं कुल पूजनं ।।
प्. ५२ब्)
यथा विष्णु तिथौ विष्णु पूजितो वांछित प्रदः ।
तथा कुलतिथौ शक्ति पूजिता वरदायिनी ।।
मत्स्यसूक्तेः ।
द्वादश्यां पूजयेद् विष्णुश्चतुर्द्दश्यामुमापतिं ।
अष्टम्यां पूजये शक्ति सर्वसिद्धिमभीप्सुभिः ।।
अथ शिवावलि । मन्त्रचूडामणौ ।
बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः ।
मांसप्रदानन्नैवेद्यं संध्याकाले निवेदयेत् ।।
कालिकालीति वक्तव्ये मन्त्रोथ पशुरूपिणी ।
पशुरूपा समायाति परिवार गणैः सहः ।।
प्. ५३अ)
मुक्तारेति पदैशान्यान् मुखयुक्तोल्प सुन्दरी ।
तदैव मङ्गलं तस्य नान्यथा कुल दूषणं ।।
अवश्यं मन्त्र दानेन नियतन्तोषयछिवां ।
नित्य श्राद्धं तथा सन्ध्या वदनं पितृतर्पणं ।।
तथैवं कुलसेव्यानां नित्यनाकूल पूजनेः ।
पशुरुपां शिवान् देवीं योर्चयंति नितार्चने ।।
शिवारवि न तश्याशु सर्वन्नस्यति निश्चितं ।
जप पूजा विधानानि यत् किंचित् सुकृतानि च ।।
गृहित्वा शापमापाद्य शिवारोदिति निर्जने ।
एकया भुज्यते देवि शिवाया तत्र वै बलिं ।।
प्. ५३ब्)
तत्रैव सर्व देवानां प्रीति परमदुर्लभा ।
पशुभक्तिर्नरे शक्ति पक्षिशक्तिस्तथैव च ।।
पूजितानिर्गुणङ्कर्म सगुणं साधयेद् यतः ।
तेन सर्व प्रयत्नेन कर्तव्यां पूजनं महत् ।।
राजादि भयमापन्ने देशान्तर भयान्तरे ।
शुभाशुभानि कर्माणि विचिन्त्य वलि माहरेत् ।।
गृह्न देवि महाभागे शिवे कामाग्नि रूपिणी ।
शुभाशुभफलं व्यक्तिं ब्रुहि गृह्न बलिं तथा ।।
प्. ५४अ)
एवमुच्चार्य दातव्यो बलिं कुलजन प्रिये ।
यदि न भुज्यते वत्स तदा नैव शुभं भवेत् ।।
शुभं यदि भवेत् तत्र भुज्यते तद शेषत ।
एवं ज्ञात्वा महेशान शान्ति स्वस्त्ययनं चरे ।।
इति शिवावलिः ।। अथोक्ताचार नियमः । नीलतन्त्रे ।
प्रातरुत्थायमंत्रज्ञ कुलवृक्ष प्रणम्य च ।
शिरः पद्मे गुरुन्ध्यात्वा तत् सुधा प्लावितां स्मरेत् ।।
मानसैरुपचारैर्स्तां मालाध्यनियताशयः ।
मूलादि ब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ।।
प्. ५४ब्)
सूर्यकोटिप्रतिकाशां सुधा प्रावित विग्रहा ।
कुलवृक्षनिर्णय रुद्रयामलोक्तः ।
पादाद्यादांदशोकोकदनमदिरया केशरः कर्णिकारश्च
तोविक्षहसात्पातिलकनरुणमे प्रीणयानश्च गीत्या ।
सलायात्कार्णिकारः कुलवकनरुवलिङ्गानान्सिन्धूवारः कादम्वा
कामिनीनान्मदयति नियतं यर्शनाच्चम्यशाखी ।
तथा च श्रुति ।
दशकुलवृक्षानामरुपप्लवः । अथ समयाचार ।
श्रीदेव्युवाच ।
प्. ५५अ)
श्रिणु पुत्र रहस्यं मे समयाचार लक्षणं ।
येन हीना न सिध्यन्ति मन्त्राकोटि सहश्रशः ।।
मानुषां कुलशाखाणां कुलाचारानुसारिणां ।
सिद्धाः स्युर्नास्ति संदेहो वैष्णवाचार तत्परः ।।
परनिन्दा सहिष्णु स्यादुपकाररतः सदा ।
सर्वे विपिने चैव निर्जिने शून्यमण्डले ।।
चतुष्पथे जलमध्ये यत्र देवाकृति भवेत् ।
क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद् यथा विधिः ।।
तथा ।
गृध्रम्वीक्ष महाकालीन्नमस्कुर्याद् यथाक्षितं ।
क्षेमंकरी तथा वीक्ष जंबुकीयमदुतिकां ।।
प्. ५५ब्)
कृशादरी महामुण्डे अजकेशी वली प्रिये ।
कुलाचार प्रसन्नास्य नमस्ते शंकर प्रिये ।।
तथा च स्मशानश्च शवन्दृष्ट्वा प्रदक्षिणमनुव्रजे ।
प्रणम्यानेन मंत्रेन मंत्री मन्त्र फलं लभेत् ।।
घोरद्रष्टे कोटलाक्षी किटिशब्द प्रशाधिनी ।
घनघोरे रवास्फारे नमस्ते चिति वासिनि ।।
रक्त वस्त्रां रक्त पुष्पां विलोक्य त्रिपुराम्विकां ।
प्रणम्यो दण्डवद् भूमौ द्धिमन्मन्त्रमुदीरयेत् ।।
बंधूकपुष्पसंकांशे त्रिपुरे भयनाशिनी ।
प्. ५६अ)
भाग्योदय समुत्पन्ने नमस्ते वरवर्णिनी ।।
कृष्णवर्णेन्तथा पुष्पं राजपुत्रकं ।
हस्त्येश्च रथशास्त्राणि फलकाम्वीर पौरुषान् ।।
महिषकुलनाधश्च स्मृत्वा महिषमर्द्दिनी ।
प्रणम्यदण्डवद्भूमौ दुर्गाम्वा जय मंगलम् ।।
प्रणम्य जगतोन्माद्या सर्व च विघ्नैन्न लिप्यते ।
जय देवी जगधात्री त्रिपुराघे त्रिदेवते ।।
भक्तेभ्यो वरदे देवी महिषघ्नि नमोस्तुते ।
मद्यभाशुं समालोक्य मत्स्यन्मांस स्वरत्रियं ।
प्. ५६ब्)
दृष्ट्वा च भैरवीन् देवीन् प्रणम्य विमृषेन्मनुः ।
घोरविघ्नविनाशाय कुलाचार समृद्धये ।।
नमामि वरदे देवि मुण्डमाला विभूषिते ।
रक्तमाला समाकीर्णम्वरदे त्वान् नमाम्यहं ।।
एतेषांन्दर्शनादेव यदि नैवन्प्रकुर्वते ।
शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायतेः ।।
इति नैमित्तिकविधिः ।
इति श्रीतारारहस्यवृत्तौ नैमित्तकविधि चतुर्विध चतुर्थोध्यायः ।। ४ ।।
अथ काम्यानुच्चानुविधि लिष्यते । मत्स्यसूक्ते ।
प्. ५७अ)
होमतर्पण पूजा च भावना जपमेव हि ।
यन्त्रस्य धारणञ्चैव मारणोच्चटनो तथा ।।
एतानि काम्यकर्माणि प्रयोगो न्यसमर्चरेत् ।
तदुच्चरेत् । सोमतुजवल्यां ।
शान्तिकं शिशिरे ज्ञेयं हेमन्ते पौष्टिकन्तथा ।
आकर्षणम्वसन्ते च ग्रीष्मे विद्वेषणं स्मृतं ।।
प्रावृत्युच्चाटनं कुर्याछरत्कालेषु चेतानि कुरुते साधकः सदा ।
अर्द्धरात्रं शरत्कालो हेमन्तञ्च प्रभातकः ।।
पूर्वाह्न च वसंतस्यान्मध्याह्नो ग्रीष्म एव च ।
प्रवृटरुपोपराह्नः स्यात् प्रदोषः शिशिरः स्मृतः ।।
प्. ५७ब्)
अत्रपाकुलिखितदिवरात्रि होमस्त्वेक जटापक्षे ।
नीलसरस्वती पक्षे । केवलन्दि । वैवहोमञ्च तन्त्रत्तोक्तत्वात् । अत एवमद्वयं
लिखितं । अथवा ।
उषायोगो च हेमन्ते प्रभाते शिशिरा गमे ।
प्रहरार्द्धे वसंते च ग्रीस्मन्मध्य दिनान्तरे ।।
तूर्ययामे च वर्षाख्ये शरदस्यं गते रवौ ।
तदुक्तं फेत्कारिणीतन्त्रे विद्याकामेन होतव्यन्तिलाज्य मधु संयुतं ।।
तिलमधुसंयुक्तमित्यासेय ।
प्. ५८अ)
सिद्धिसारस्वते ।
बन्धुक्पुष्पहोमेन दाशवत् कुरे नृपान् ।
सर्पिल्लवणहोमेन समाकर्षति सुन्दरी ।।
वकुलप्रसवै होमात् सौभाग्य लभते नरः ।
मल्लिका जाति पुन्नाग कदम्वैः पुष्टिमाप्नुयात् ।।
राजपुष्पप्रसूनस्य होमात् संपदमाप्नुयात् ।
दुर्वा तिलाज्य होमेन दीर्घमायुरवाप्नुयात् ।।
संपूज्यमूलमंत्रेण बिल्वपत्रै घृतान्वितैः ।
सहश्र प्रत्यहं कृत्वा प्राप्नोति परमां गतिं ।।
प्. ५८ब्)
घृताक्तमालती पुष्प होमद्दूत कवीर्भवेत् ।
तस्य होमस्य सर्वस्य नियमो युत संक्षकः ।।
इति होमप्रकरणं । मत्स्यसूक्त तर्पणं ।
मधुनातर्पणन्देव्याः सर्वकामप्रपूरकं ।
मन्त्रसिद्धिकरं साक्षान् माया पातक नाशनं ।।
तथैव जप प्रकारं च ।
हविष्याशीन्मुक्तेशो जप्यादयुत सादरं ।
गद्य पद्य मयी वानी तस्य सर्वविधा भवेत् ।।
ध्यान प्रकारान्तर ।
उच्चातयति पिंगाक्षी मन्त्रा सयति केकला ।
विद्रावयति मुक्तास्या सन्द्रावयति घूर्णिता ।।
प्. ५९अ)
विक्षोभयति संक्षुब्धा संघातयति सन्धरा ।
प्रक्षोभयति संक्षुब्धा विप्ररुद्धा विरोधयेत् ।।
अत्र सर्वस्य कर्तव्यं भावनानि विचिन्तनं ।
अत्रोच्चटनादिषु सर्वदा सर्वत्रैव यतो जपेदिति ।।
तदुक्तं सिद्ध सारस्वते ।
शताभिजपमात्रेण रोचना तिलकन्नरः ।
कृत्वा पश्यति मंत्रीत कुर्याद् दाशवद् दश ।।
फेत्कारिणी तन्त्रेपि ।
पुष्करिणी ये जले अङ्गाढे यष्टिकष्टतमाग्रहे ।
दण्डनानीय तन्नूर्णतिलकन्नेन कारयेत् ।।
प्. ५९ब्)
तेनैव मधु घृतेन पद्मनी पद्म पात्रके ।
लिखेत् मुत्रावली मध्ये मूलमन्त्रे विदर्भितं ।।
तत्कण्टे चतुस्रे तु निक्षिप्य जुहुयादपि ।
सहस्रक्षीर नीलाक्तं पद्मानां लोहितान्वितां ।।
अस्यार्थ ।
नमो ग्रहे निशाकरे सूर्ये वा निक्षिप्येति ।
कुण्डमध्यद्वादशाङ्गुलोधो भागे निक्षिप्येत्यर्थः ।।
मूलमंत्र विदर्भितमिति मंत्रस्तु हृल्लेखा ।
रेफमध्य स सद्रुत कवित्व सिद्धि कुरु २ इत्याख्या सहितं लिखेत् ।
प्. ६०अ)
ततः प्रयोगान्तरं । पद्मावती मन्त्रेण बलिन् दद्यात् । यथा ।
ओं पद्मे पद्मे महापद्मे पद्मावती माय स्वाहेति मंत्रेणायथा
नैमित्तिकपट्लोक्तवद् दद्यात् ।
फेत्कारिणीये ।
प्रणवं पूर्वमुद्धृत्य पद्मे युग्मन्तथैव च ।
महापद्म पदं ब्रुर्यात् पद्मावती पदन्ततः ।।
माहे स्वाहेति यथा पूर्ववच्च बलिं हरेत् ।
एवं यः कुरुते कर्म तस्माद्रुत कवि ध्रुवं ।।
अथ सकल सिद्धये वक्षमाण वलि मन्त्रेण नित्य पूजोक्त वलि मंत्रेण वा रात्रौ
चतुःपठे वलिन् दद्यात् ।
प्. ६०ब्)
फेत्कारिण्यं ।
उपचारविशेषेण राजपत्नी वसं नयेत् ।
राजानं जपमात्रेण बलिना सकलं जगत् ।।
अस्यार्थ । उपचार विशेषेणति । मत्स्यसूक्ते ।
रुम्राजाति बीजपूर सुगंधिपरिमिश्रितं ।
मिश्रीकृत्य बलिं दद्यादष्टम्यांश्च विशेषतः ।।
राजानाजपमात्रेणेति पूजादि विहिते नैवेति यावत् ।
मन्त्र सहित योग पल्लवादि प्रयोगेण राजा वश्यो भवति ।।
वलिनासकलं जगदि ।
प्. ६१अ)
मत्स्योसूक्तोक्ते नैमित्तिकपटलानुमानेन बोद्धव्यां ।
नीलतन्त्रे ।
प्रयोगवलिमन्त्रोय प्रयोगात् सोधयेद् यदि ।
अर्द्धरात्रे ततो नित्यम् वलि दद्या चतुःपठे ।।
परसैन्यग्रहारिष्ट रोगासोक शनिवारणः ।
प्रणवं पूर्वे मुच्चार्य उग्रतारततपरं ।।
विकट द्रष्टे परपक्षे मोहये युग्ममुच्चरेत् ।
खादय परमर्थ तथा द्वयन्द्वयम्वदेत् ।।
येमां हि सितु मुद्यता निन्दितुमुद्यतस्यता योगिनि चक्रैस्तानाहार हूं फट्
स्वाहा ।।
प्. ६१ब्)
परविद्यामाकर्षयच्छेदय कपाले गृह्न २ स्वाहेति तन्मनुस्वय
वलिमन्त्रेणानेन च वलिं दद्यथा रुचि ।
तत्रैव छागादि दानं ।
सरक्षणपशु देव्यग्रे सस्थाप्यन्त्रर्घोदकेन सन्प्रोक्षास्त्रेण
संलक्षकवचेनावगुण्ठ्यो धेनुमुद्राया अमृतिकृत्य कर्णे धृत्वा
मंत्रं पठेत् । गन्धपुष्पाक्षताद्यैः संपूज्य । पशुपाशाय विद्महे
विश्वकर्माय धीमहि तन्नो जीव प्रचोदयात् ।
इति पशुजागः ।
प्. ६२अ)
अथ खड्ग ।
ह्रीं कालिकालि वज्रेरिलोहदण्डायै नमः । इति सजूप्य खड्गं पूजयेत् ।।
हूं वागेश्वरी ब्रह्मणांभ्यां नमः । हूं लक्ष्मी नारायणाभ्यां
नमः ।।
हूं उमामहेश्वराभ्यां नमः । इत्येनेन मंत्रेण शिवशाक्त ब्रह्मविष्णु
युक्ताय खड्गा नमः ।। इति ध्यात्वा संपूज्य ।
ओं खड्गाय खलुनाशाय शक्तिकार्याय तत्परः ।
पशुछेद्यस्त्वया शीघ्रं खड्गनाथं नमोस्तुते ।।
ततो मन्त्रेण दुर्वाक्षतान्वित पानीयं गृहीत्वा दीर्घायुस्त्वनिवृत्ति परमपद
गमन पूर्वकशास्वत समावछिन्न
प्. ६२ब्)
हर्षबीजय कामः श्रीनीलशरस्वत्यै इमं पपशुन्तुभ्यमहं सन्प्रददे ।
देव्याज्ञान् प्रार्थ्य पशु निवेदयेत् । यथोक्त विधानेन तुत्यमस्तुयार्पितं ।।
ततछिन्ने ।
दक्षिणे पति मे सिद्धिर्वामभागे च निन्दितं ।
देन्यमध्ये च पतितं देवि छदं स्मरेद् वधः ।।
ततः कुण्डान्तिकं दत्वा आहुती दशपञ्चभिः ।
तेनैव दुःकृतन्दोषम्वलिं लक्षं सलक्षणं ।।
ततो रुधिरमासभक्तान्वित वटुक योगिनी क्षेत्रपालगणेशादीना
वलिमन्त्रैर्वलिं हवेत् ।
प्. ६३अ)
हूं वां वटुकभैरवाय नमः । गंधाक्षत कुसुमैः संपूज्य । नै##-
ह्रां यां योगिनीभ्यो नमः । गंधाक्षत कुसुमैः संपूज्य ।। इशाने ।
ह्रां क्षेत्रपालाय नमः । गंधाक्षत कुसुमैः संपूज्य ।। नै-ऋत्य ।
ह्रां यां योगिनीभ्यो नमः । गंधाक्षत कुसुमैः संपूज्य ।। आग्नेयै ।
हूं गणेशाय नमः । गंधपुष्पैः संपूज्य ।। वलि दद्यात् ।।
अनि ग्रहान्प्रपाया । तदुक्तम्वीरतन्त्रे ।
श्मशानाङ्गारमादाय मंगले वासरे निशि ।
प्. ६३ब्)
कृष्णवस्त्रेण सम्वेष्टा वध्नीयाद् रक्त तन्तुना ।।
शताभिमंत्रितन्तर्चा निःक्षिपेत् परवेश्मनि ।
सप्ताहाच्चान्तरे तेषान्मुच्चातनमिदं महत् ।।
फेत्कारीये ।
नरास्थिनी लिखेन्मन्त्रन् क्षारयुक्तं हरिद्रया ।
सहस्रं परिसंजप्य निशायां रवि वासरे ।।
निक्षिप्यते यस्य गेहे मृत्यस्य त्रिमासतः ।
क्षेत्रे तु शस्य हानिः स्याज्जवहानिस्तुरंगमे ।।
धनहानिर्द्धनागारे ग्राममध्ये तु तत्क्षणात् ।
द्वेष द्वेष तयोर्नास्ति तस्य द्वेषो महान् भवेत् ।।
प्. ६४अ)
लिखेत् मंत्रमिति ।
मन्त्रलिखित्वा हृल्लेषा रेफ मध्ये अमुक मारय २ इत्यादि । साध्य
सहितमिन्यर्थ । अथवा साध्य लिखित्वा तदन्ते मन्त्र लिखेत् । सहस्र परिमितं जपेत्
। अमुकं मारय २ इत्यन्त मन्त्रजापः । द्वेष्ये तु । अमुकामुकयो विद्वेषं कुरु २
इत्यर्थान्त मन्त्रमुच्चार्य सहस्रं जपेत् । अथ शाकाद्यै धारणायन्त्र लिख्यते ।
फेत्कारिणीये ।
प्. ६४ब्)
योनि युग्मं लिखेन्मन्त्रं मूलं हेमशलाकया ।
क्लीं वमन्त्रान् दीर्घवर्णान् षट्कोणे विलिखेत् ततः ।।
अष्टपत्रे अष्टवर्णान् तद्वहि भूपुर द्वयं ।
अष्टवजं भूपुरश्च विलिखे साधकोत्तमः ।।
सुवर्णपट्टरोप्ये वा भूर्ये वाप्यथ सुव्रतः ।
विलिखे हेमा लेखिन्या गंधाष्टक समन्वितं ।।
दुर्वाकाणेन वा लेख्य कुशमूलेन वा पुनः ।
एकवीराकल्पे ।
वेष्टितं पीतवस्त्रेण तन्तुना परिवेष्टितं ।।
वध्नीयात् पीतवस्त्रेण शिशुनाङ्कण्ठ भूषणं ।
स्त्रीणाम्वामकरे चैव अन्यथान्दक्षिणे भुजे ।।
प्. ६५अ)
वन्ध्या तु लभते पुत्रं निर्द्धनो धनवान् भवेत् ।
इमां रक्षां पुरा वध्न्या ज्ञानार्थङ्गौतमादिभिः ।।
कीत्त्यर्थ पार्थिवैश्चान्ये संग्रामे जयकांक्षिभिः ।
अस्यार्थ ।
योनि युग्मे षट्कोणे तन्मध्ये हेमशलाकया भूजपत्रादौ
कुङ्कुमगोरोचनाचन्दनसीविधाय पंक्तिरूपेणे मूलमन्त्र लिखित्वा तस्य
हृल्लेखा रेफमध्ये अमुकस्य रक्षां कुरु २ अमुकीनां शतपुत्रन्मुत्पादय
२ यस्याज्ञान सिद्धिं कुरु २ इत्यादि साध्यसतम्विलिख्य षट्कोणे
प्. ६५ब्)
क्लींव भिन्नवर्णान् ऋ ॠ ऌ ॡ रहितान् । तदुक्तं ।
स्वरानांमधामं यस्तु तच्चतुष्कं नपुसकं ।
दीर्घवर्णान् । अ ई ऊ ऐ औ अः । इत्यैक लिखेत् ।
अष्टवर्णे त्वष्टवर्णान्यथा । ऐं ह्रीं ओं ऐ ह्री फट् स्वाहा ।।
तदुक्तं नीलतन्त्रे ।
वाग्भव कुलदेवीश्च तारकं वाग्भवं तथा ।
हृल्लेखां अष्टमन्त्रान्ते वह्निजाययवधिर्मनुः ।।
अष्टाक्षरो मनुं प्रोक्तो मंत्राणाशार इरितः ।
अन्यत्र नाना तन्त्र जामले प्रोक्ता कालिका प्रयोगा
प्. ६६अ)
अत्र प्रयोज्या अत्र प्रयोगा कालिका विद्याक्ता अत्रापि कार्याः । एते प्रयोगास्तत्रापि
कार्या । तदुक्तं फेत्कारीये ।
कालिकामन्त्रयन्त्रोक्तान् प्रयोगानि फचाचरेत् ।
अन्त्रोक्त सम्यक् तन्त्रापि प्रयोगानपि चाचरेत् ।।
मत्स्यसूक्ते ।
कालिकामन्त्रतन्त्रोक्तान् सरस्वत्यां समाचरेत् ।
सरस्वत्यांन्तु यो प्रोक्ता ते कल्पान्तु समाचरेत् ।।
यथाकाली तथा तारा न भेद परमार्थतः ।
अथ शिशुसंस्कारो ।
दक्षिणपाणिना मधुना लाजात्यान्नाडि
प्. ६६ब्)
छेदान्प्राकवारत्रयं सर्मार्ये हेमशलाकयान्यदुर्वया वा यज्ञदारु
शिखया बालकस्य जिह्वायां ओष्ठे वा लिखेत् ।
तल्लिखनन्तु नैमित्तिक संस्कारानन्तरं एकादशाहातु केचित् ।
एतदादौ तु देवतां संपूज्य मन्त्रं लिखेदिति गुरवः ।।
महोग्रतारा कल्पे तु प्रथमं लिषितं । पश्चद्देवता पूजयेत् ।।
यदि पीतादुरुस्थो भवति तदा मातुलो वापि तृव्यो वा लिखेत् ।
मत्स्यसूक्ते ।
अथवा मधुलाजात्यं जिहायांम्बालकस्य तु ।
नाडीछेदाद्यथा पूरवेद्यस्तु शलाकया ।।
प्. ६७अ)
मूलमन्त्र लिखेत् मन्त्री जिह्वायाम् वापि ओष्टके ।
वाक्योच्चारणमात्रेण वाग्मी द्रुत कवित्व करणं भवेत् ।।
महोग्रताराकल्पे ।
जन्मसंस्कारान्नाम पुत्रयाते प्रशश्यते ।
जिह्वायां तु लिखेत् मंत्रं यज्ञदा कुरुशेन वा ।।
वारत्रयत्रन्तु मार्य दक्षिणैव पाणिना ।
मन्त्रमुच्चार्यव्रुत्येद्धं पंक्ति कुर्यान्तु शोभनं ।।
आदौ शंस्कारः कर्तव्यस्तदप्ते विलिखेत्मनं ।
गंधचन्दनपुष्पैश्च तदन्तै पूजयेछिवां ।।
प् ६७ब्)
उर्त्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमं ।
पूजयेत् तारिणीं देवीन्नाना भक्षैश्च शोभनैः ।।
कविर्वाग्मी भवे पुत्रः सत्यवादि जितेन्द्रियः ।
पितुरेव लिखेन्मन्त्रं कदाचन ।।
मातुः क्रोडे तु संस्थाप्यदभानास्तीर्य यत्नतः ।
शान्ति कुर्याद् बालकस्य ब्राह्मणैः सहसंयवः ।।
अथार्वसंहितायां श्रुतिः ।
ओं नमं पुत्रङ्कामयत कामजानां इहैवेति देवेत्यः पूष्णाति सर्वमिदन्
मजजनं ।
प्. ६८अ)
शिवः शान्ति तारायै केशवेत्यतारायै रुद्रेत्य तारायै शिवाय शिवद्यससे
मंत्रान्ते सर्वरुपायै तारकायै अनिरुद्र शरस्वत्यै स्वाहायै मन्त्र द्वयेन
शांति कुर्यात् ।
ततस्तस्य मातृकर्णै शान्ति स्तोत्र पठेत् । महानीलतन्त्रे ।
तस्य मातुः कर्णेषु तत स्तोत्रं समाचरेत् ।
ओं नमो भगवत्यै अकण्डवाग्वादिन्यै ।।
ओं मातर्देवि नमस्तेस्तु ब्रह्मरूपे धरे नघे ।
कृपया हर मे विघ्नन्मत्रसिद्धिन् प्रयच्छ मे ।। १ ।।
माहेशी वरदे देवि परमानन्दरूपिणी ।
कृपयाः मन्त्रसिद्धिं ।। २ ।।
प्. ६८ब्)
कौमारी सर्वविद्येशे कुमारि क्रीडते वरे ।
कृपया मन्त्रसिद्धि ।। ३ ।।
विष्णुरूप धरे देवी विनतासुतवाहिणी ।
कृपया मन्त्रसिद्धिं ।। ४ ।।
वाराही वरदे देवि दष्ट्रोद्धतवसुन्धरे ।
कृपया मन्त्रसिद्धि ।। ५ ।।
शक्ररूपधरे देवि शक्रादि सुरपूजिते ।
कृपया मन्त्रसिद्धि ।। ६ ।।
चामुण्डे मुण्डमाला श्रक् चर्चिते विघ्ननाशिनी ।
कृपया मन्त्रसिद्धिं ।। ७ ।।
महालक्ष्मी महामोहे क्षोभसन्तापनाशिनी ।
कृपया मन्त्रसिद्धिं ।। ८ ।।
प्. ६९अ)
इति मातृमये देविमिति मातृवहिस्कृते ।
एके वहुतरे देवि विश्वरूपे नमोस्तुते ।। ९ ।।
एतत् स्तोत्रं पठेद् यस्तु कर्मारंभेषु संयतः ।
विदग्याम्वा सवालोक्य तस्य विघ्नन्न जायते ।। १० ।।
कुलीनस्य दानके वा कथितास्तव पुत्रका ।
दीक्षाकाले नित्य जाप समये नाच्चयेद् यदि ।।
तस्य पूजा फलं वत्स नीयते यक्षराक्षसौ ।
इति तारारहस्यवृत्तौ काम्यानुष्टाननिर्णयः सातादिप्रयोगविधिः पञ्चमः
पटलः ।। ५ ।।
प्. ६९ब्)
उपचारविशेषेण राजपत्नी वसन्नयेत् ।
राजानां जपमात्रेण वलिनासकलं जगत् ।।
इति अस्यार्थ । जपध्यान ।
वलिप्रदानपूजा कृत्वां अत्वां अभिष्टद्रव्यहोम न भूपालपत्नी आत्मीयं
स्थानमानयेत् । किमन्यामनधिष्टितां स्त्रियां ।
जपमात्रेण राजानमहिपतिं वलिना सकला पृथिवीमिति ।।
अयमाशयः ।
उपचार विशेषेण राजपत्न्यां याकृष्टिमां चरेदिति । राजानमिति
मन्त्रमुच्चार्यसुस्वकृतये वसमानयेति राजानाम्वात्वा भवन्ति ।
प्. ७०अ)
जपमात्रेण पूजारहीतेन केवलजपमात्रेणेत्यर्थः । वलिनेति ।
पूर्वोक्त मत्स्यसूक्तोक्त वलिमात्रेण वा निलतन्त्रोक्तेन वा वलिमन्त्रेण वलि दद्यात्
।
उपच्चारस्तु मत्स्यसूक्तोक्तः सकृतां ।
मत्स्यमांसं सुरामाषमोदनमधु च त्रयं ।।
पायसेथ संकुल्य वलिं देव्यै प्रकल्पयेत् ।
वलिन्दद्यास्तु गोधा वै आसवञ्जप्रसस्यते ।।
इति वल्ल्युपचारः । आकृतोपचारस्तथैव ।
प्. ७०ब्)
रंभापुष्पं सालमत्स्यं जुहुयात् मन्त्र वित्तमः ।
अन्ते वज्रयान् मत्स्यं पुष्पञ्चापि घृतप्लुतं ।।
इति सर्वासिद्धिमवाप्नोति मत्ते मोक्षमवाप्नुयात् ।
स घृतम्बिल्वपत्रं च जुहुयाच्च संहस्रकं ।।
लभते मञ्जुलाम्वाणिन्महाष्टम्याञ्च साधकः ।
तत्रैवरन्युपचार विशेषः ।
रम्भाजाती विजपूरं सुगंधि परिपूरितं ।
मिश्रिकृत्य वलिन् दद्यादष्टम्याञ्च विशेषतः ।।
काम्यानुष्टान पद्धति ।
अथ माहाचिनभावनाधीनासिद्धियश्चास्मिन्तत्ते सर्वा प्रतिपादिताः सन्प्रति
तद्यथा तदुक्तं ।
प्. ७१अ)
तारार्णवे ।
श्रीदेव्युवाच ।
महाचीन क्रमन्देव भूचि तन्न प्रकाशितं ।
कथयस्व तदेदानीं यदि प्रेमोस्ति मान्प्रति ।।
श्रीभवानुवाच ।
महाचीन क्रमन्देवि सर्वतन्त्रेषु गोपितां ।
न वक्तव्यं त्रिभुवने शुद्ध भावेन भाविनी ।।
केचिद् देवा नराः किञ्चि दानवायक्षराक्षसा ।
नागलोका किन्नराश्च गन्धर्वाप्सर साङ्गणा ।।
ये वा पशुमृगाः पक्षाये केचिज्जगताङ्गता ।
एते जद्रतराः सर्वे परस्पर स्वरात्मिकाः ।।
प्. ७१ब्)
कुकल्पनारताः सर्वे कुमार्गा दर्शनोत्सुकाः ।
एतेषां कोपि विज्ञानमानन्दम्ब्रह्मवित्सुखं ।।
न जानामि महादेव कथनुत् कथयामि ते ।
नित्यमुक्त स्वभावोयस्तस्मै तदनुमीरितं ।।
क्षमस्व देविच्चार्वङ्गी न वक्तव्यं त्वया नघे ।
श्रीदेव्युवाच ।।
नमस्ते शिव रूपाय नमस्ते गुरु रूपिणे ।
नमस्ते वरदस्वामित्करुणा निधये नमः ।।
नान्यदेवरता ये च त्वत्पादाम्बुज काक्षिणः ।
तेषामेवाधिकफलंमभक्ताणां व्यवस्थितं ।।
प्. ७२अ)
सिंहव्याघ्रादयो ये च ये च विघ्नान्त कारिणः ।
रिपवञ्च यथा सर्पा ये चान्यमुपजन्तवः ।।
ते सर्वे विलटी यान्ति पतङ्गा इव पावकाः ।
देहन्दीप शिखाकार दृश्यते दुष्ट जंतुभिः ।।
केवलन्प्रेम भावेन त्वयैव चिन्तया प्रभो ।
कियशकं दानवाराक्षसामर्त्याये चान्यदेवतागणाः ।।
राजानाञ्च तथा चान्ये सर्वे तत्पाद वर्तिनः ।
आज्ञां भजन्ति गन्धर्वाः के पुनर्नर किंकराः ।।
यत्र यत्र भवेद् वाञ्छात् तत्र सिद्धिं करेस्थिता ।
सदातंगापनीवांणी तु जातेति सुनिश्चये ।।
प्. ७२ब्)
दुष्टभावं परित्यज्य किमन्यद् बहुजल्पितैः ।
मोक्षार्थी लभते मोक्ष धनार्थि धनमाप्नुयात् ।।
अन्ते च जायते गौरी लोके शिव इवापरः ।
सिद्धा भवं तु मद्भक्ताः कथयस्व ममागतः ।।
नवक्तव्यमभक्ताय परभक्ताय पापिने ।
श्रीभवानुवाच ।
महाचीन क्रमन्देवि विविध कथितन्तुवि ।
तदुक्तम्वीरतन्त्रे ।
स्नानादि मानसं शौचन्मानसः प्रवरो जपः ।
पूजनन्मानसं दिव्यन् मानसं कल्पनादिक ।।
प्. ७३अ)
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ।
न विशेषो दिवारात्रौ न सन्ध्यायान्महानिशि ।।
वस्त्राद्यमासनं सौचं दहस्पर्शादि वारिणः ।
शुद्धिन्न चर्चये तत्र निर्विकल्पन्मनञ्चरेत् ।।
नात्रशुद्धेरपेक्षास्ति न चामेध्याति दूषणं ।
य एवं चिन्तयेन् मन्त्री सर्वं कामार्थ सिद्धयेत् ।।
ये ये यत्र भवेद् वाञ्छा तत् तत् सिद्धि करेस्थिताः ।
गद्यपद्यमयी वाणी सभयां तस्य जायते ।।
प्. ७३ब्)
तस्य दर्शनमात्रेण वादिनो निःप्रभा मता ।
राजानोपि हि दाशत्वं भजन्ते किं परे जनाः ।।
सर्वथा पूजयेद् देवीमस्नातः कृत भोजनः ।
महानिश्यशुचौ देशे वलिमन्त्रेण दापयेत् ।।
स्त्री द्वेच्चो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः ।
जपस्थाने महाशंखं निवेश्योर्द्धं जपश्चरेत् ।।
स्त्रियं गछत्स्पृशन् पश्यन् यत्र कुत्राप्य चूडके ।
ताम्बुलमन्यान् भक्षाश्च भक्षितव्यान्यथारुचीन् ।।
मांसमत्स्यादधिक्षोद्रान् भक्षतव्यान् यथारुचित् ।
भुक्ताद्यशेषभक्षाञ्च भुक्ताभैक्षञ्चरेज्जयं ।।
प्. ७४अ)
दिक्कालनियमो नावस्थित्यादि नियमो न च ।
जपकालोपि नैवास्ति वलिपूजा क्रमादिकं ।।
स्वेछाभक्षोत्र नियमो महामन्त्रस्य साधने ।
नाधर्मो विद्यते शत्रु किञ्चिधर्मो महान्नवेत् ।।
स्वेछानोव्रगदितप्रजये हृष्टमानसः ।
कृतार्थसन्यमानस्तु सन्तुष्टो निजमानसं ।।
इति महाचीनक्रमंः । अथ रहस्यानन्तरं ।
गान्धर्वतन्त्रे ।
पृथ्वी ऋतुमतीविक्षसहस्रं यदि नित्यसः ।
उदारधीः सुसिद्धान्तः कृतः क्षितितलं न्यसेत् ।।
प्. ७४ब्)
नित्य स इति उनपञ्चाशद्दिनं । पृथ्वीं ऋतुमतीमित्यादि
सर्वङ्गुरुमुखादवगन्तव्यं ।।
पर्वते हस्तमारोप्य निर्भयो यतमानसः ।
कवितां लभते सोपि अमृतञ्च स गछति ।।
नीलतन्त्रेपि ।
पद्मन्दृष्ट्वा च चन्द्रविम्बः खंजनं शिखरं तथा ।
चामरं रविबिम्बं च नीलपुष्पं सरोवरं ।।
त्रिशूत्रवीक्ष्य जप्त्वा तु शत्तशशुद्धभावतः ।
अथ प्रसादसुमुख लोचन सुहास्यकं सुजनं स्वयमेव च ।।
प्. ७५अ)
लभते च यथा संख्य शृणु पार्वति सादरं ।
महाचीन क्रमन्देवी ध्यात्वा तत्र प्रपूज्यतः ।।
तद्रुमोद्भवपुष्पेन पूजयेद् भक्तिभावतः ।
स भवेत् कुलदेवस्य कुलक्रमगतः शुचिः ।।
ब्रह्मतरोर्महापद्मे देवी ध्यात्वा यथा विधि ।
तत्सुधासारसारेण तर्पये मातृकानने ।।
स भवे साधक श्रेष्टो मातृणाश्च प्रियो भवेत् ।
महाचीन क्रमलतावेष्टितः साधकोत्तमः ।।
रात्रौ यदि जपेन्मत्रं सैव कल्पलता भवेत् ।
तिथि क्रमेण संख्याभिर्वेष्टितो यदि ।।
प्. ७५ब्)
तदा मानेन सिद्धिः स्यात् सहस्र जपमानसः ।
अष्टम्यांश्च चतुर्दश्यां द्विगुणं यदि दृश्चते ।।
तदैव महती सिद्धि देवानामपि दुर्ल्लभा ।
महाचीन क्रमे जप्तं लिखित्वा कुङ्कुमेन च ।।
तत्पार्श्वे साध्यमालिष्य ताडये दृष्टि दृष्टिभिः ।
तत्र गच्छति कामार्ता यत्र यत्रोपगछति ।।
महाचिनद्रुभरसैनोक्तं पिण्डविधाय च ।
यत्राम्ना दीयते देवसोविरान्मृत्युमर्हति ।।
महानीत्तक्रमन्मूल मज्जाभिर्विल्वपत्रकैः ।
सहस्रन् देवि मत्यर्च श्मशाने साधकोत्तमः ।।
प्. ७६अ)
तत्र राज्यमवाप्नोति यदिमनः पलायते ।
तस्या षोडशांशेन कलानार्हन्ति ते शवा ।।
शवासनाधिक फलं लतागेह प्रवेशने ।
एवं भूतः सदादेवि साधको भुवि दुर्लभः ।।
यया कदाचिद्दिघ्ना?वायः को वा तु विदृश्यते ।
तत्तत्प्रकाशनाद् देवि मृत्युर्भवति नान्यथा ।।
एतत् साधक निन्दाम्वा एतत् तत्रस्य वा पुनः ।
महाभूत गणैः सार्द्धन्तस्य सर्वं हराम्यहं ।।
योगिनी चक्र सहितैः स्वयन्तद्वधकारिणी ।
प्. ७६ब्)
अथ सारस्वत प्रयोगः । तदुक्तं फेत्कारीये ।
जिह्वायां न्यसनादेवमूकोपि सुकविर्भवेत् ।
अस्यार्थ ।
जिह्वाबुध्यामुखे हस्तमारोप्ये जपेदिति केचित् ।
मनो संस्कारे मधुना लाजाभ्यां लिखनादि केचित् ।।
वस्तु तस्तु ।
तेजो रूपां विद्यां जिह्वायां भावयेदिति सन्यसनार्थः ।
वीरतन्त्रे ।
जिह्वायां भावयेद् यस्तु तारिणीं दीपरूपिणीं ।
बृहस्पति समस्तस्य कविता शुक्ल निर्जिता ।।
नीलतन्त्रे ।
प्. ७७अ)
ब्राह्मे मुहुर्ते उत्थाय कृतावश्य सुसंयतः ।
जिह्वायां भावयन् विद्या तेजोरूपाञ्जपेत् सुधीः ।।
अमृतस्पन्दिनी तस्य वाणी सर्वविधानवित् ।
एकवीरातन्त्रे ।
प्रातविद्याम्विभाव्यै च जिह्वायान्दीपरूपिणीं ।
मातृका सहिताम्विद्यान्त्रिरावृत्याञ्जलिं पिबेत् ।।
जलपान विधानेन मूकोपि सुकविर्भवेत् ।
अजत्र भावनान्यासान् साधकः सुकृती सुधी ।।
कविर्वाग्मी तथा योगी भुक्तिभागी न संशयः ।
अन्यत्रापि शर्वाच्चतुर्विध पाण्डित्यमुपजायते ।।
अथ रहस्यान्तरं ।
प्. ७७ब्)
वीरतन्त्रे ।
कुलयुवतिषु योनौ मन्त्रवर्णान्विलिख्य निखिलनिगम मन्त्रान् लुप्तदोषादि
दुष्टान् ।
विदित कुलकुलान्तवार्ज्यवत्माविधिज्ञो मनुपुटितपटीयान् साधयेत् सांत चेताः ।
कुलपटमनुसंध्योयासितायां सुभूमौ तव निजनिजनोयस्तर्प्ययेत् तिर्थतोयेः ।
रुधिरतरसु पुष्पैर्गन्धमाल्यानुलेपैरचित युवति वेदास्तद्धिया ध्यायते सः ।
परिचरति समस्तैर्न्यासिपुरैः समस्तैस्तवपरिजनजालैः योगिचक्रैः प्रपूजा ।
प्. ७८अ)
सुविमर्लज्ञात्वा ह्री घृणावर्जितोष स्वयमपि रवित्यज्ञः क्षोभकृद्
योगिनीनां । पशुरिपु कुलचक्रं सस्यशन्मध्य साखं सुरगुरुसुरनाथं
शापभ्रष्टः स्वरेणः । कुलपतिनाथं तद्वयं योजयित्वा मनुपुटित
विमृग्यं योजयन्तद्विहियः । जननि तव कलानां को विदां कामरूपः कुमति
रहित चित्तः संलिखेत् तान्त्रि धारे । विगत भय विषादधान्त जालः
सुधाश्युस्तव चरणनितान्तः संस्मरं वै विशुद्धः ।
प्. ७८ब्)
परिकलितकपुस्तद्वन्मतिर्देव पूज्यः परिचरतिति सज्ञो मोक्षपर्याधिपः सः ।
अथ मन्त्रा सिद्ध्यर्थन्दू न महारहस्यं ।
विशुद्धे स्वर माहातन्त्रे ।
श्रीदेव्युवाच ।
शृणु देवि परिज्ञानं सर्वज्ञानोत्तमोत्तमं ।
येन विज्ञान मात्रेण क्षिप्र विद्या प्रसीदति ।।
मूलकन्दे तया शान्ति भुजंगाकालरूपिणी ।
तदा सावत्तवातोय प्राण इत्युच्यते बुधैः ।।
क्लिन्ना वा व्युक्तमधुरा कुजन्ती सततोत्थिता ।
गछंति ब्रह्मरंध्रेन भविष्यन्ति स्वकेतने ।।
प्. ७९अ)
यातायात क्रमेणैव तत्र कुर्यात्मनोलयं ।
तेन मन्त्र शिखायाता सर्वसिद्धि प्रदीपिका ।।
तमः पूर्णे गृहे यद् यद्यत् किञ्चित् प्रविभाषिते ।
शिखाहीनास्तथा मन्त्रा न सिध्यति कदाचन ।।
शिखोपदेशाः सर्वैवः गोपिता परमेश्वरि ।
विनानेन सिद्धिः स्याद् वर्षकोटि शतैरपि ।।
तस्मात् तुर्यापि गिरिजे गोपनीय प्रयत्नतः ।
अथ रहस्यान्तरं । नीलतंत्रे ।
लुप्तानिद्रापितामत्ता विद्रावणरताः पराः ।
समदोषजालेन ग्रन्थिता पुरसुन्दरि ।।
प्. ७९ब्)
निशिचारन्दिवाचारं सन्ध्याचारञ्च पल्लवं ।
दर्भितम्बीजसंयोगं भावनं योगमेव च ।।
ज्ञात्वा प्रवर्धयेद् वीर गुरुपत्नैव कारणं ।
निशिचारमित्यादि ।
निशिचारम्वामनासायाम्वायोरुदयः ।
तथैव दक्षिणनाद्यां उदयो दिवा च ।।
सन्ध्याचारं उभयनाडी प्रवाहः ।
तदुक्तम्विष्णु संहितायां ।
स्वापकाले तु मन्त्राणां जपोनर्थं फलप्रदः ।
तत्रैवोक्तं । स्वापकालो दक्षिणावहत । प्रबोधो दक्षिणावहः ।
प्. ८०अ)
अग्रे यस्य मनो सौम्य मन्त्रस्यै तद्विपर्ययः ।
बुबोधः कालजानीया उभयोरुभयोरपि ।।
कर्मणो वह्नि तारान्मवियन्प्रायाः समीरताः ।
आग्नेयमपि सौम्याश्च भूजिष्ठेत्वमिताक्षराः ।।
तदुक्तं । स्वतन्त्रे ।
तदात्मिका स्मृता विद्या मन्त्रा देवि प्रदात्मिका ।
एवम्वामन्त्र आग्नेर्या ।
विद्यासौम्याः वामे वहेद् यथा वायुदीर्घानामुदयस्तदा ।
दक्षिणस्यां यदा वायुस्तदा ह्रस्व फलप्रदाः ।।
उभयस्थो यदा वायुस्तदा सर्व फल प्रदाः ।।
प्. ८०ब्)
इति विज्ञान भट्ट चरणाः ।
एवम्वाम भागे बीजे उभयन्तु बीज संयोगात् सर्वविद्या फलाप्तयेस्तु । एवन्
दक्षिणभागे सर्वे मन्त्राः । रहस्यान्ये तु ।
दीर्घयोगाद्विद्या जपसत्वरं फलप्रदः । एवं ह्रस्व सयोगादक्षिण गणाः ।।
पल्लवं यथा ।
तदुक्तं स्वरतन्त्रराजे ।
आदायोग भवेदन्ते पल्लव संपुटो द्वयोः ।
एकान्तरितग्रन्थेन विदर्भो अन्तरी कृतः ।। अस्यार्थ ।
आदयोग इत्यादिना श्लोकेन मन्त्रेषु मध्य कर्म योजन प्रकारमुप विंशति ।।
प्. ८१अ)
तदुक्तं भवति ।
मन्त्रविद्ययोराद्यसाधन कर्मणां योजने योगसंज्ञामन्त्रविद्ययोरन्ते
पूर्वोक्तयोजनात् पल्लव इति संज्ञा । मन्त्र विद्ययोराद्यन्तश्च पूर्वोक्त योजना
संपूटेति संज्ञा । मंत्र विद्ययोगुक्तानाञ्च एकैकाक्षरतो अन्योन्य योजना
ग्रन्थन इति संज्ञा । मन्त्र विद्ययोः प्रागुक्तानाश्च अन्योन्यक्षरद्वय योजना
विदर्भ इति संज्ञा । स च त्रिविधः ।
प्. ८१ब्)
मन्त्राक्षर द्वयान्तरे स्याध्याक्षरन्तरे साध्याक्षरमेकं जपेदि एकप्रकारः
।
साध्याक्षराणाद्वयान्तरे मंत्रादीनामेकाक्षरं योजयेदित्यपरः ।
मन्त्रादीनमक्षर द्वयोनन्तरे साध्यादीनामक्षर द्वयं ।।
योजयेदेषन्ये । एवन्त्रिविधमिति । बीजसंयोगो यथा । तदुक्तम्विमलतन्त्रे ।
प्रणवो मातृका देवि हृल्लेखाद्यन्मृतद्वयं ।
अमृतभृयं योगातदुष्टमंत्रोपि सिद्ध्यति ।।
भाव संयोग इति निर्णय प्रकारेण बोधव्यमिति । कुलचूडामणौ ।
प्. ८२अ)
नियमः पुरुषो ज्ञेयो न योषित्सु कथश्चन ।
यद्वातद्वायेन तेन सर्वदा सर्वदोपि च ।।
योषितान्ध्यान योगेन सिद्धयः स्यूर्न संशयः ।
यथा यस्कान्त मात्रेणं गूढमिद्धशिलोचयः ।।
स्वयमेव बहीर्याति यथा वासौरतेजसा ।
सूर्यकान्तं पुटं रौतियथा वाचेन्द्र रस्मिभिः ।।
चन्द्रकान्तन्द्रावायति यथा वर्षा सुवारिदैः ।
जलकाति तथा प्लाभूरसपूर्णाप्रचक्षते ।।
क्षुधार्तक्षीरपानेन यथा तृप्तो हि जायते ।
कुलपुष्प प्रदानेन यथाशक्ति प्रतुष्पति ।।
प्. ८२ब्)
गुरुसेवैक मात्रेण मंत्रसिद्धिर्यथा भवेत् ।
महापद्मं वनध्याना यथा सिद्धाञ्चरो भवेत् ।।
त्रिपुराध्यानमात्रेण भुक्तिमुक्ति यथा भवेत् ।
महादुर्गा प्रसादेन यथा सिद्धिश्वरो भवेत् ।।
गंगास्मरण मात्रेण निपापो जायते यथा ।
यकाकर्षणमात्रेण शिव एव प्रजायते ।।
योषिचिन्मनमात्रेण यथैवम्वरदायिनी ।
तस्मात् सर्व प्रयत्नेन दीक्षयेत् निजकौलिकीमिति ।।
प्. ८३अ)
इति श्रीतारारहस्यवृत्तौ भवनिर्णयः षष्टपटलः ।। ६ ।।
अथ कुमारीकल्पः ।
रुद्रयामले उक्तं ।
कथयामि न सन्देहः कुमार्या पूजनं शुभं ।
यस्या पूजनमात्रेण त्रैलोक्य पूजनं भवेत् ।।
कुमारी पूजनाशे हन्त्रिता मूर्ति व्यवस्थिताः । परावैवतीया च परा परा ।।
यत्र कालेन किञ्चित् स्याद् देवासुर महोरगाः ।
तिलोक्यन्त त्वयाहञ्च तथा जाता कुमारिका ।।
आद्या षृष्टिकरी या तु प्रत्यक्षा सा तु तन्निधा ।
उमाकन्या तु सा जाता सृष्टिरूपो भवान्तरे ।।
प्. ८३ब्)
एकवर्षा भवेच्चण्डी द्विवर्षा तु सरस्वती ।
त्रिवर्षा च त्रिधामूर्तिश्चतुर्वर्षा च कालिका ।।
सुभगापञ्च वर्षा तु षट्वर्षां तु उमा भवत् ।
सप्तवर्षा मालिनी च अष्टवर्षा तु कुब्जिका ।।
नवभिः कालसंकर्षणी दशभिश्चापराजिता ।
एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी ।।
त्रयोदशे महालक्ष्मी द्विसप्तपीठ नायिका ।
क्षेत्रज्ञा पञ्चदशभि षोडसे चर्चिका मता ।।
एवं क्रमेण पूज्ये तयावत् पुष्पं न विद्यते ।
प्रति प्रदादि पूर्णंत्तम्वृद्धि भेदेन पूजयेत् ।।
प्. ८४अ)
महापर्वेषु सर्वेषु विशेषा च पवित्रका ।
महानवम्यान् देवेशि कुमारी सुप्रपूजयेत् ।।
पिङ्गलां पूजयेद् यस्तु षोडशैश्चैव भक्तिमान् ।
पूजयेत् कुलविद्यानान्मेकया नव भैरवी ।।
एवन्प्रणवयोगेन चैतन्य तत्व * र्चयेत् ।
ऐं ह्रीं श्रीं हूं । ऐं ह्रां श्रीं ह्रां हूं एते पञ्चप्रणवाः ।
इदश्चैतन्य बीजाक्षरौ ।।
एकन्द्वाभ्यां त्रिभिश्चैव सप्ताष्ट नवधा पुनः ।
नित्यक्रमेण देवेशि पूजयेद् विप्रमुत्तमं ।।
प्. ८४ब्)
घ्नन्ति विघ्नान् पूजयित्वा तथा शत्रुन्महोत्कटं ।
व्याधयः सर्वविद्यानिदुर्न्निमित्तनिनाशयेत् ।।
ग्रहयक्षाः क्षयं यान्ति भूतवेताल पन्नगा ।
असुरागुह्यका प्रेता योगिनी गुह्य डाकिनी ।।
महाभयानि दुर्भिक्षं मुत्पातानि कुलेश्वरः ।
दुःस्वप्नमपमृत्युञ्च अन्ये ये ये समुद्भवा ।।
कुमारी पूजना देवि न तस्य प्रभवन्ति हि ।
अनिमादीनि सिद्धानिघ्नाताल गुटिकांजनं ।।
प्. ८५अ)
उछिष्टं दिव्य वेतालो भवेत् कुमारिकार्चनात् ।
ऐंकारेण जलान् देयं ह्रींकारे पादशौ वनं ।।
श्रीकारेणोर्घ दद्या कुर्चबीजेन चन्दनं ।
शक्तिबीजेनुपुष्पादि षष्ठे धूपञ्च दापयेत् ।।
ऐं ह्रीं श्रीं ह्रौं इमां कुलकुमारिके हृदयाये नमः ।
हें रें ह्रैं ह्रीं श्रीं ऐं स्वाहाशिलसे स्वाहा ।।
ओं ह्रीं सें शिखायै वषट् ।
ऐं कुलवागीश्वर वागीश्वरी कुवचाय हूं ।।
ह्रीं फट् स्वाहा ऐं सिद्ध जय अस्त्राय फट् ।
ऐं ह्रीं सिद्धजयाय पूर्वक्त्राये नमः ।।
प्. ८५ब्)
ए ऐं जये जय उत्तराय वक्तुय नमः ।
ऐं ह्रीं श्रीं कुब्जिको पश्चिमवक्त्राय नमः ।।
ऐं फ्रैं कालिके दक्षिण वक्त्राय नमः ।
वाग्भवेन पुरक्षोभं मायाबीज गुणाष्टकं ।।
श्रियो बीजे श्रियोलाभं ह्रीं बीजं अलिसंक्षयं ।
भैरवेन तु बीजेन खगत्वममरादिभिः ।।
कुमारीका ह्यहं नाथ सदात्वञ्च कुमारिका ।
अष्टोत्तर शतं वापि एकाकन्यान् प्रपूजयेत् ।।
ष्टजिताप्रतिपूज्यन्ते निर्दहन्न्यपमानिता ।
कुमारी योगिनी साक्षात् कुमारी सर्वदेवता ।।
प्. ८६अ)
भूर्भुवामूर्तिपादेका कुमारीत्रिकपूजिताः ।
असुरादुष्टनागाश्च एते दुष्ट ग्रहा अपि ।।
भूता वेताल गन्धर्वा डाकिनी यक्षराक्षसाः ।
हृदये देवता सर्वा भूर्भुवश्चैव भैरवाः ।।
पृथिव्यादीनि भूतानि ब्रह्माण्डं स चराचरं ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।।
ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् ।
कालाग्नि शिवपर्यन्तत् तथा गौर्यादि संस्थिताः ।।
सप्तद्वीपाः समुद्राश्च भुवनानि चतुर्दशः ।
विधियुक्त कुमारीति भोजयेच्चैक भैरवीं ।।
प्. ८६ब्)
पाद्यमर्घ तथा धूपं कुंकुमं चन्दनं शुभं ।
भक्ति भावेन संपूज सर्वन्तस्मैदिवेदयेत् ।।
प्रदक्षिण त्रयं कृत्वा आदि मध्ये शुभश्चरेत् ।
पश्चाच्च दक्षिणादेयारततं स्वर्णमौक्तिकं ।।
विवाहयेत् स्वयङ्कन्यां ब्रह्महत्याम् विनश्यति ।
शोवधम्वनिताद्यं तं सर्वपापन् प्रणश्यति ।।
माता च पितरौ चैव श्राभरं चैव सर्वतः ।
ये तु यस्तु पुनः सर्वे कन्यादानन् प्रकल्पयेत् ।
प्. ८७अ)
भुक्ति मुक्ति फलन्तस्य सौभाग्यं सर्व सम्वदः ।
रुद्रलोके वसेन् नित्यन् त्रिनेत्रो भगवान् हरिः ।।
षष्टिकोटि सहस्राणि अस्वमेध फलं लभेत् ।
एतत्फलं लभेत् सत्यः कंन्यास्तु विवाहयेत् ।।
बालुका सागरं ज्ञेयं तावदब्दं नरेश्वरुः ।
एकैकं कुलमुद्धृत्य मर्त्यलोके च सेच्चिरं ।।
तावद् भुजंति ते भोगा यावद् भूमि दिवौकसः ।
कन्यादानं महादानं सर्वदानोत्तमोत्तमं ।।
सौभाग्यन्न विनश्यन्ति क्षिप्रं सौभाग्य वर्तते ।
राजद्वारे लभेत् पूजां राजमान्य स्वयम्वरः ।।
सषाश्च कुमारीश्च पूजयेच्च प्रयत्नतः ।
प्. ८७ब्)
महद्भये समुत्पन्ने ह्यत्पाते ह्यति दारुणे ।
कोष्टके सा रसे ये वा द्रोण काकेष्युलुकिके ।
गृध्रे वकेषु चारावे यज्ञाते शान्ति कर्मणि ।
महापूजा प्रकर्तव्या कुमारी भोजयेद् विधिः ।
नातः परतरं शान्तिं नृणां कल्पान कृत्परं ।
महाभये महोत्पाते कन्याचैकाश्च पूजयेत् ।
तत्क्षणाल्लभते सौख्यम् सत्य सत्यञ्च भैरवः ।।
इति श्रीतारारहस्यवृत्तौ कुमारीतत्वनिर्णयः सप्तमः पटलः ।। ७ ।।
प्. ८८अ)
श्रीभैरव उवाच ।
महाचीन क्रमं देव सुचितन्न प्रकाशितं ।
कथयस्व महादेव सर्वसिद्धि प्रदं भवेत् ।।
ब्रह्मविष्णुमहेशानां दिक्पालश्चैव भाविनिः ।
भैरवानाञ्च सर्वेषां गन्धर्वाश्च योगिनां ।।
सिखसिद्धि प्रदन्देवि सर्वेषां मालयन् महत् ।
नान्यसिद्धि प्रदन्देवि वीरसाधन वर्जितं ।।
महाबलो महाबुद्धिर्महासाहसिकं शुचिः ।
महास्वछोदयावञ्च सर्वभूतहितेरतः ।।
तेषां कृते महेशानि कथितम्वीर साधनं ।
अष्टम्यांश्चतुर्दश्यां पक्षयोरुभयोरपि ।।
प्. ८८ब्)
कृष्णापक्षे विशेषेण साधयेदन पाहितं ।
भौमवारेतमिश्रायां मे याते च भाविनि ।।
तद्भक्त्याभ्यन्तरे सम्यक् पूजोपकरणाम्बितं ।
आमिषांनं गुडच्छागं सुरापिष्टक पायसं ।।
नानाफलञ्च नैवेद्यं स्व स्व कल्पोक्त साधनं ।
चिता स्थानं समानीय बहुभिः शस्त्र पाणिभिः ।।
समान गुणसम्पत्यै साधको वितभिः स्वयं ।
चितालकरणं यथा ।
असंस्कृता ग्राह्या न तु संस्कारसंस्कृता ।
चाण्डालादिष्ट संप्राप्ता केवलं शीघ्र सिद्धिदा ।।
प्. ८९अ)
वीरतन्त्रेपि ।
शवम्वापि समानीत्वा बध्या गत्वा यथासुखं ।
स्नात्वा रक्षासुवध्वा वै देवता ध्यान तत्परः ।।
भीतश्चेत् साधकस्तत्र चतुर्दशि च साधकः ।
नोचेत्स्वयं केवलोसौभैरवः परिकीर्तिता ।।
वस्त्रालङ्कारभूषाद्यैर्भूषितं पूर्वसन्मुखं ।
अस्त्रान्तमूलमन्त्रेण प्रोक्षणं योगभूमिषुः ।।
गुरुपादरजो ध्यात्वा गणेशम्वटुकन्तथा ।
योगिनि मातृकाश्चैव वायुः पादपुरःसरं ।।
प्. ८९ब्)
ये चात्र संस्थितादेवा राक्षसाञ्च भयानकाः ।
पिशाचायक्षासिद्धश्च गन्धर्वाप्सरसां गणाः ।।
योगिण्यो मातरोभूताः सवाञ्च खचरस्त्रियः ।
सिद्धिदास्ते भवन्तत्र तथा च मम रक्षकाः ।।
प्रणम्य मनुनानेन पुष्पाञ्जलि त्रयं क्षिपेत् ।
श्मशानाधिपति पञ्चाद् भैरवं कालभैरवं ।।
महाकालं यजेत् पश्चात् पूर्वादिक चतुष्टये ।
पाद्यादिभिञ्च मन्त्रज्ञो बलिं पञ्चान्निवेदयेत् ।।
प्. ९०अ)
कूर्चबीजं ततः पश्चात् श्मशानाधिपतिं परं ।
इमन्मन्त्रे सामिषान्नम्वलिं गृह्न ततः परं ।।
गृह्नापय पदन्द्वन्द्वम्विघ्ननिवारणन् ततः ।
कुरु सिद्धिस्तु मे भान्नन् प्रयछ स्वाहया युतं ।।
प्राणवाद्येन मनुना प्रथमो बलिं रुच्यतेः ।
मायान्ते भैरव पश्चात् श्मशानाधिप तत्परं ।।
प्रयछेति द्विधाप्रोक्ता भायानक मत परं ।
पूर्ववत् मनुमुद्धृत्य दक्षिणे बलिमाहरेत् ।।
हूं मन्त्रे च महाकाल पञ्चान् पूर्ववदुर्द्धरे ।
पश्चिमे काल देवाय प्रणवाद्येन दापयेत् ।।
प्. ९०ब्)
शब्दान्ते कालशब्दञ्च भैरवेति ततः पर ।
श्मशानाधिपति इत्येवं पूर्ववच्चोत्तरे हरेत् ।।
चितामध्ये ततो दद्याद् बलि त्रय मनुत्रयं ।
कालरात्रीर्महाकालि कालिके घोरनिःस्वने ।।
गृहाणेमम्बलिमातर्देहि सिद्धिम्वल प्रदां ।
कालिका यै वलिन् दत्वा भूतनाथ यदा चयेत् ।।
शब्देन्ते भूतनाथाय श्मशानाधिपति इत्यपि ।
प्रणवाद्येन मनुना दापयेद् वलिमुत्तमं ।।
हुं शब्दान्ते सर्वगणनाथान्ते चाधिपाय च ।
श्मशानममुके दत्वा पूर्ववच्च समुद्धरेत् ।।
प्. ९१अ)
तारान्तोय वलिं दत्वा पञ्चगव्येन सुन्दरि ।
अंभसा प्रोक्षणं कृत्वा पीतवस्त्रे लिखेत् ततः ।।
भूर्जे वाप्यथवा पत्रे तत्र पीठ मनु न्यसेत् ।
पीटमास्तीर्य तस्मिन् वै वद्धवीरा सनन्ततः ।।
विरदेवेविशिरक्षादिक्षु प्रकल्पयेत् ।
कुर्चयुग्मंन्द्वयन् देवि माया युग्मा तदंतरं ।।
कालिके घोरद्रंष्ट्रे च प्रचण्डे चण्डनायिके ।
दानवान्दारयेत्युग्रारहनेति द्वितयं ततः ।।
शवतनु महाविघ्ने छेदयेति पुनश्चरेत् ।
प्. ९१ब्)
द्विरस्त्र चर्मशस्त्रान्तो वीरकर्म मनुस्मृतः ।
अनेन मन्त्रितं लोष्ट्रं दशं द्विक्षुसमास्तरेत् ।।
तन्मध्ये भैरवो देवो न विघ्नैः परिभूयते ।
यदि प्रमादे देवेशि साधको भयविह्वलः ।।
तत्र तेस्तैः सुहृद्वर्गौ रक्षितो नाभिभूयते ।
तस्मिन् महादीपे विघ्नैश्च परिभूयते ।।
अर्कैस्तु शित * * * * * (?)
न्निर्मितवर्तिर्मितवर्तिका । प्रदीपं तत्र स स्थाप्य अस्त्रन्त प्रपूजयेत् ।
हेते तस्मिन् महादीपे विघ्नैश्च परिभूयते ।
तदधश्चास्त्र मन्त्रेण लिखनेन कुलदीपिकां ।।
प्. ९२अ)
ततत्कुलविधिना भूतं शुध्यादिकञ्चरेत् ।
षोढाम्वा तारम्वापि विन्यसेत् पूजयेत् ततः ।।
मन्त्राध्यानचरो भूत्वा जपेन्मंत्रं मनन्यधी ।
एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् ।।
द्व्यक्षरश्चाष्टसाहस्रं त्र्यक्षरं त्वयुतार्द्धकं ।
ततः परं तु मन्त्रज्ञो गःजान्तश्च सहस्रकं ।।
निशायां जपमारन्य उदयान्त समारभेत् ।
जपादौ तु वलिन् दत्वा पश्चादपि वलिं हरेत् ।।
प्. ९२ब्)
जपान्ते जपमध्ये वादेददेहिति भारवते ।
तदा चापि वलिन् दद्यान् महिषम्वापि छागल ।।
न दिक्षु विक्षणं किञ्चित् निववंधु समागमः ।
जलान्द्रष्टिनामपि ।
पक्षिकीटपिशाचानायद्यद्वा मनसस्थितं ।
तत्पूर्वं स्वप्नवद्ध्यात्वा भयं सर्वत्र वर्जयेत् ।।
समाप्यसाधन्देवि दक्षिणाम्विभवावधिः ।
गुरुवे गुरु पत्न्यै चत् पुत्राय वदापयेत् ।।
सम्यक् सिद्ध्यैक मन्त्रस्य नासाद्ध्यंम्विद्यतै क्वचित् ।
वहुमन्त्रवतः पुसक्वा कथा रुद्र एचसः ।।
प्. ९३अ)
एतत् सर्वत्र देवेशि गुरु पूजा गरीयसी ।
उदयेन् मन्त्र मन्त्रणां भाषयश्च सदाशिवः ।।
अन्य देव सपर्याम्वा अन्य देवस्य कीर्तनं ।
गुरु देवम्विना देवि तदग्रे नरकं व्रजेत् ।।
शवारूढो यदि भवेतद् विश्येव इहोच्यते ।
शुन्यागारे बिल्वमुले नदीतीरे च तु पठे ।।
उर्द्धन्द्विवर्षाद चूडं पञ्च वा तरुणं यदि ।
सप्तमाष्टममासीय गर्भजं यदि वाशवं ।।
चाण्डालश्चापि भूतम्वा शीघ्र सिद्धिफलप्रदं ।
आनीय स्रापयदादौन्यासजालं समाचरेत् ।।
प्. ९३ब्)
पीठे मन्त्रे समालिख्य गन्ध पुष्पादिभिस्ततः ।
अभ्यर्चा साधपुष्पादिभिस्ततः ।।
अभ्यार्चा साधनन्यत्वा रक्षमात्मनि कारयेत् ।
ततः शवास्ये विधिवर्द्दवताप्या अनन्ततः ।।
ततो जप्त्वा सर्वमन्त्रे सर्वसिद्धिश्वरो भवेत् ।
तारमन्त्रन् मृतस्यैवं नमोन्ते मन्त्रमुच्चरेत् ।।
शवस्नापं न मन्त्रोयं सवासन मनुत्तमः ।
मन्त्रेन्नेतुवनेशीस्या फडंन्तो मन्त्र इरितः ।।
प्. ९४अ)
महानीलः क्रमन् देवि सर्वसिद्धिश्वरो भवेत् ।
न कस्यचित् प्रवक्तव्य मन्त्र प्रवरमेव च ।।
सर्वेषां जीव हीनानां जन्तूनां वीरसाधने ।
प्रोक्षणं गोमयं त्यक्ता साधनम्वीरसाधने ।।
महाशवाः प्रशस्तास्यु प्रधनि साधने प्रिये ।
ब्राह्मणस्तु स्त्रियं त्यक्ता साधयेद् वीरसाधनं ।।
क्षुद्राप्रयोगाः क * णान् प्रसस्ताः सर्वसिद्धये ।
श्मशाने तु पुरश्चर्या कथितान् देवि दुर्ल्लभा ।।
अथ भैरवतन्त्रेपि सवलक्षणमाहवेः ।
यतुक्तं भाव सर्वश्वे सर्वतन्त्रेपि गोपितं ।।
प्. ९४ब्)
वीरसिद्धि विधानन्तुः देवदेवेन शंभुना ।
यस्य विज्ञान मात्रेण मन्दभाग्यापि सिद्ध्यति ।।
अहोरात्रेण कालेन हेलया साधकोत्तम ।
मंत्र पुरस्कृयं ।
पुरश्चरणसम्यन्तो वीरसिद्धिं समाचरेत् ।
तदुक्तं स्वछन्द भैरवेपि ।
सम्यक् परिशुमोणापि नैव सिद्धिः समाहिता ।
जायते साधकेस्तत्र वीरसाधन साधयेत् ।।
पुत्रदारधनाप्तेह लोकमोहन वर्जितः ।
मन्त्रम्वा साधयिष्यामि देहं वा पातयाम्यहं ।।
प्. ९५अ)
प्रतिज्ञामीदृशं कृत्वा वलि द्रव्यानि चिन्तयेत् ।
यस्य मन्त्रस्य यद्भूते तद्भूता शेष साधकः ।।
अथ शव लक्षणं ।
यथा यष्टिप्रख्यत्यस्त्रे भिन्न सुकभिचंपयोमृतं ।
सवमानीय कर्तव्यं नाहरे स्वछयामृतं ।।
स्त्रीवश्यपतिता स्पृश्यांमयवर्जहतन्तरं ।
अव्यक्तलिङ्गं कुष्टिनं प्रेतवंश वहेत् ।।
न दुभिक्षमृतं वृद्धन्नपर्यूषितमेव च ।
स्त्रीजनञ्चे दृशं रूपं सर्वथा परिवर्जयेत् ।।
इति शव लक्षणं ।
प्. ९५ब्)
शून्यागारमरण्यम्वा नीत्वाद्धत्यविभूषयेत् ।
सस्थाप्य सवयो यं पुरुपिणं ।।
मत्स्यसूक्ते ।
ततः शवं क्षारयित्वा स्नापयेच्च प्रयत्नतः ।
यदि भक्ताकुकन्त्रिष्टद्भैरवाच्च भयेत् ।।
एलालवङ्ग कर्पूर जाती खदिरसाङ्गकैः ।
ताम्बुलश्च मुखे क्षिप्त्वा सवङ्कुर्यादधोमुखं ।।
स्नापयित्वा च तत्पृष्टे चन्दनेन विलेपयेत् ।
बाहुमूलान्तकद्यन्तञ्चतुरसंविधाय च ।।
प्. ९६अ)
मधे पद्मञ्चतुद्वार दलाष्टक समन्वितं ।
ततःश्चैनेयमजिनं कम्वलान्तरित न्यसेत् ।।
पूजाद्रव्यन्समन्ति धौदूरे चोत्तर साधकः ।
मस्थाप्य शवमप्यर्च्य तत्रश्वांरोहनम्विशेत् ।।
कुशान्पदतलेदत्थाशव केशान् प्रमार्य च ।
दृढन्ति वध्य जुटिकान्तच्च देव स्वरूपिणी ।।
तस्यान्देवें सुसंस्पृश्य पठेद् रक्षाय सन्मुखे ।
शवे भवेच्च देवेशि मूकमिष्ट सिद्धिं शवकृताम्वरे ।।
पट्टसूत्रेण रज्जकेन चरणौ बद्धये दृढं ।
ओं भीमभीरुभयाभावलोचन भावुकेत् ।।
प्. ९६ब्)
त्राहि मान् देवदेवेश शवानामधियोधिप ।
इति पादतले तस्य त्रिकोणन्तु समुल्लिखेत् ।।
तेनोत्पात्तुन्नशक्नोति शवस्तु निश्चलो भवेत् ।
उपविश्य पुनस्तत्र बाहुनिःसायपादयोः ।।
हस्तयोः कुशमास्तीर्यः पादौस्तत्र निधापयेत् ।
ओष्टो संपूटकौ कृत्वा स्थिरचित्तस्थिरेन्द्रियः ।।
सदादेवं हृदि ध्यात्वा मौनी जपमथाचरेत् ।
चलासनो भयन्नास्ति भये जाते वदेत् ततः ।।
यत्प्रार्थसे बलित्वेन दातव्य कुञ्जरादिकं ।
दिनान्तरे तद्दास्यामि स्वनाम कथयस्व मे ।।
प्. ९७अ)
इत्युक्तासंस्कृतो भक्त्या निर्भयस्तु पुनर्जपे ।
ततश्च मधुरं वाक्यम् वक्तव्यं लिलया नरः ।।
तत सत्यङ्कारयित्वा च वरन् प्रार्थय साधकः ।
यदि सत्यन्न करोति वरम्वा न प्रयछति ।।
तदा पुनर्जपेद्धीमान् येकाग्र यतमानसः ।
सत्ये कृते वरं लब्ध्वा सत्ये जेन्तु जपादिकं ।।
फलं जातमिति ज्ञात्वा जुटिकान् मोचयेत् ततः ।
शवं प्रक्षाल्य संस्थाप्य मोचयेत् पादबन्धनं ।।
प्. ९७ब्)
पादरजुमोचयित्वा पूजाद्रव्यं जले क्षिपेत् ।
शवं जले वा गर्ते वा निक्षिप्यस्नानमाचरेत् ।।
ततस्तु स्वगृङ्गत्वा वलिं दद्याद् दिनान्तरे ।
अग्निमारात्रौ ।
यजमानो गृह्नन्तु मया दत्तमिमम्वलि ।
अथ यथार्चिता नर कुञ्जर शूकरान् ।।
दत्वादिष्ट मयाकेन कर्तव्यं समुपोषणं ।
परेह्नि नित्यमाचार्य पंचगव्यं पिवेत् ततः ।।
ब्राह्मणन् भोजये तत्र पञ्चविंशति शंख्यकान् ।
पञ्चपञ्चविहिनान्वा क्रमेणैव दशावधि ।।
प्. ९८अ)
तत्र स्नात्वा च भुक्ता च निवसे उत्तमस्थलं ।
यदि न स्याद् विप्र भोज्यान्तदा निस्फलताम्व्रजेत् ।।
तेनयेति धनत्तस्यात् तवादेवः प्रकुप्यति ।
त्रिरात्रम्वापि षडात्रं नवारात्रं प्रगोपयेत् ।।
स्त्रीशर्या यदि शब्दे वै तदा व्याधि विनिर्दिशेत् ।
गीतं श्रुत्वा च विधिरोनिश्चक्षुर्नृत्यदर्शनात् ।।
यदि वक्ति दिने वाक्यन्तमास्यन् मूकता भवेत् ।
पञ्चदशदिनं यावत् देहे देवस्य संस्थितिः ।।
मेस्वी कुर्याङ्गन्धपुष्पं वदिषीति पदा यदा ।
प्. ९८ब्)
तदा वस्त्रम्परित्यज्य गृह्नीयाद् वशनान्तरम् ।
गो ब्राह्मणानान्निन्दांञ्च न कुर्या तु कदाचनः ।।
देवगोब्राह्मणादीञ्च प्रत्यहं सस्पृशेत् सुचिः ।
प्रातर्नित्य क्रियान्ते च बिल्वपत्रोदकं पिबेत् ।।
ततः स्नात्वा तु गंगायां प्राप्ते षोडसवासरे ।
स्वहान्तमन्त्रमुच्चार्य तर्पणान्ते मम पदम् ।।
एवं शतत्रयाद्वूर्द्ध देवान् वै तर्पयेज्जलैः ।
स्नानतर्पनशून्यस्य न स्यादेवस्य तर्पणं ।।
प्. ९९अ)
इत्येनेन विधानेन सिद्धिं प्राप्नोति साधकः ।
इह भुक्ता वरान् भोगानन्ते याति हरेः पदं ।।
मत्स्यसूक्ते ।
अथवान्य प्रकारेण पुरश्चरणमिष्यते ।
कुजे वा शनिवारे वा शवमुण्डं समाहृतं ।।
पञ्चगव्येन संस्नाप्य चन्दनेन विलेप्य च ।
निक्षिप्य भूमौ हस्तार्द्ध मानतकानने वने ।।
तत्र तहिवशे रात्रौ सहस्रं यदि मानवः ।
एकाकी प्रजपेन् मन्त्र स भवेत् कल्पयादयः ।।
अथवान्य प्रकारेण पुरश्चरणमुच्यते ।
शवमानीयतद्वारिते नैव परि खन्यते ।।
प्. ९९ब्)
तद् दिनान्ते दिनं यावत् तावद्दष्टोत्तरं शतं ।
शभवेत् सर्वसिद्धीशो नात्रकार्या विचारणा ।।
अथवान्य प्रकारेण पुरश्चरणमिष्यते ।
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि ।।
सूर्योदयात् समारभ्य यावत् सूर्योस्तमान्नरं ।
तावत् जप्त्वा निरातंकः सर्वसिद्धिश्वरो भवेत् ।।
अथवान्य प्रकारेण पुरश्चरणमिष्यते ।
चन्द्रसूर्ये ग्रहे चैव ग्रासावधि विमुक्ततः ।।
प्. १००अ)
यावत् संख्यन्मनुञ्जप्ता तावधोमादिकञ्चरेत् ।
सूर्यग्रहण काराद्धिनान्यकाल प्रशस्यते ।।
तत्र यद्यत् कृतं सर्वमनन्तं पलदं भवेत् ।
अथवान्य प्रकारेण पुरश्चरणमिष्यते ।।
शरत्काले चतुर्थ्यादि नवम्यान्तं विशेषतः ।
भक्तितः पूजयित्वा तु रात्रौ तावत् सहस्तकं ।।
जपेदेकाकी विजने केवलन्ति मिरालये ।
अष्टम्यादि नवम्यातंमुपवास परो भवेत् ।।
अन्यत्र गुरुवाक्यस्य लंघनं नैव कारयेत् ।
अथान्यञ्च प्रकारेण पुरश्चरणमिष्यति ।।
प्. १००ब्)
अष्टमी सन्धि वेलायामष्टोत्तर लता गृहे ।
प्रविश्य मन्त्री विधिवत् तासमत्त्यर्च्य यत्नतः ।।
पूर्वोक्त कल्पमासाद्य पूजादिक समाचरेत् ।
केवलं कामदेवोसौ जपेदष्टोत्तरं शतं ।।
तासाञ्च पत्रमूले तु उल्का संगृह्यमस्तके ।
कुन्दा कृति लता गात्रे लिखित्वा मन्त्रमेव च ।।
प्रपूज्य तत्र संस्कारं दत्वा तस्यै निवेद्य च ।
किंचिज्जयंन्मनुन्नीत्वा देवता भाव तत्परः ।।
ताञ्च पूज्य नमस्कृत्य स्वयं जप्तासुसंयतः ।
प्. १०१अ)
प्रातः स्त्रीभ्यो बलिन् दत्वा मन्त्र सिद्धिर्न संशयः ।।
अथवान्य प्रकारेण पुरञ्चरणमिष्यते ।
गुरुमानीयसंस्थाप्य देववत् पूजनं विभो ।।
वस्त्रालंकार हेमाद्यै गुरु संतोषयेत् स्वयं ।
तत्पत्नी देवि भावेन पूजयेच्च विशेषतः ।।
पूजयित्वा मनुजप्ता स्वयं सिद्धेश्वरो भवेत् ।
अथवा स्वसस्नारे गुरोपादन् प्रपूज्य च ।।
केवलं देवता भावो जप्ता सिद्धीश्वरो भवेत् ।
गुरुध्यानं । यथा ।
प्. १०१ब्)
सहश्रदल पंकजे सकल शीतरस्मि प्रभं वराभय कराम्बुजां ।
विमल गन्ध पुष्पाम्बरम् । प्रसन्नवदने क्षणं ।।
सकल देवता रूपिण स्मरे छिरसि हंसगं तदभिधान पूर्वं गुरुं गुरवे
दक्षिणां दद्या । यथा विभवविस्तरैः ।
गुरोरनुज्ञा मात्रेण दुष्टमन्त्रोपि सिद्ध्यति ।
गुरुं विलंघ्य शास्त्रोस्मिन्नाधिकारः सुरैरपि ।।
एवञ्च मन्त्रतञ्चाणान्प्रयोगं क्रियते यदि ।
गुरुवक्तम्विना देवि सिद्धि हानि प्रजायते ।।
प्. १०२अ)
तस्मान्मन्त्रञ्च शिद्ध्येभ्योपि न दर्शयेत् ।
अन्यथा प्रेतराजस्य भवन याति निश्चयं ।।
इति तारारहस्यवृत्तौ वीरादि साधननिर्णयो नामाष्टम पटलः ।। ८ ।।
अथ मन्त्रोधारः । मत्स्यसूक्ते ।
अथ भेदान् प्रवक्षामि तारिण्याः सर्वसिद्धिदान् ।
तेषाम्विज्ञानमात्रेण जीवन्मुक्तञ्च साधकः ।।
तत्रादौ सन्प्रदाय शुद्धार्थं यथाधुनामाद्यां पञ्चाक्षरी वृणोमि ।
यथा ।
मायाबीजं समुद्धृत्य तकार वह्नि संस्थितं ।
मायाबिन्द्वीश्वरयुतंन्द्वितीयम् बीजमुत्तमं ।।
प्. १०२ब्)
कुर्चबीजं तृतीयन्तु फट् कारन्तदनन्तरं ।
संपूर्णसिद्धिमन्त्रं च रस्मि पञ्चकसंयुतं ।।
रस्मिपञ्चकसिद्ध्यन्ति एक जटा प्रक्षेरस्मि पञ्चकं वर्ण पञ्चकमित्यर्थः
। नीलसरस्वती पक्षे तु रस्मि पञ्चकन्प्रणवमित्यर्थः । तथा फेत्कारीयेपि ।
अक्षरोऽसै महामन्त्रः फत्कारानो हृदिस्थितः पञ्चरस्मि समायुक्तोप्य
ज्ञाने धनदाहकः ।
तस्योछार महम्वक्षे मम सर्वज्ञ कारणं ।
प्रथमं सपरं दत्वा चतुर्थस्वरसंयुतं ।।
प्. १०३अ)
रेफारूढं स्फुरद्दिप्तमिन्दुबिन्दु विभूषितं ।
तकारञ्च ततो दद्या चतुर्थस्वरभूषतं ।।
दीर्घोकारसमायुक्तं हंकारेश्चैव योजयेत् ।
फट्कारञ्च ततो दद्यात् संपूर्णसिद्ध मन्त्रकं ।।
लीलयावाक् प्रभावेन तेन नीलसरस्वती ।
तारकत्वात् सदारासुखमुक्ति प्रदायिनी ।।
उग्रापन्तारिणी यस्मादुग्रतारा प्रकीर्तिताः ।
वितावैक जटाचैसा महमुक्तिं करी मता ।।
तारास्त्र रहिता अर्णा महानीलसरस्वती ।
कुल्लुकेयं समाख्याता केचिन्दिछन्तितास्त्रिकाः ।।
प्. १०३ब्)
नीलतन्त्रे ।
ताराद्यापञ्चवर्णेयं श्रीमन्निलसरस्वती ।
सर्वभाव मयी शुद्धा सर्वाम्नायैर्नमस्कृता ।।
श्रीबिजोद्या यदा विद्या तदा श्रीसर्वतो मुखीः ।
एषैव हि महाविद्या मयाद्या सकलेष्टदा ।।
वाग्भवाद्या महाविद्या वाग्रूपा सर्ववाग्भयी ।
एका क्रम गता प्राप्ता मत भेदा जन्मयी ।।
एकवीराकल्पे ।
लज्जाबीजम्वधूबीजं कुर्चबीजं यथा हि फट् ।
एवं पञ्चाक्षरी विद्या पञ्चभूत प्रकाशिनी ।।
प्. १०४अ)
विधूबीजं मध्यबीजं तंकारं केवलं यथा ।
यथा कवि कल्पलतादौस्तनंस्तनमिति । तथा भगवताचार्येनोक्तं । मध्ये
षोडशाहनिते शुद्धिं केवलन्तकारं । विशेषतस्तु अत्र मध्यमबीजे
गुप्ताकामृत बीजमस्ति । अति गुप्तत्वाम्नोद्धतं । तेन स च मतुः मध्यबीजमिति
। सिद्धौ ज्ञेयमिति । शिवदीक्षाटीकाकारः । तदुक्तं तारार्णवे । वशिष्टाराधिता
चोग्रानत्वशीघ्र फलायतः । अतस्तेनाभिमुनिमाशायोदत्त सुरारूणः ।।
प्. १०४ब्)
ततः प्रभिति विद्येव्यं फलदात्री न कस्यचित् ।
शक्तिबीजं त्रयात् तन्तु बीजो परिनियोजितन्ततः प्रभिति विद्येयम्वधूरीव यशस्विनी
।
फलिनी सर्वविद्यानां जयिनीं जयकांक्षनी ।।
विपत्क्षयकरी विद्या अमृतत्व प्रदायिनी मन्त्रस्य ज्ञानमात्रेण विजयी भुवि
जायते । एतत् तु केवलमेक जटानील सरस्वती । अपि विद्ययोरेकार्थ त्वात् ।।
तंत्रचूडामणीवपि ।
अनुत्तरसमुद्धृत्य मयोत्तरमत परं ।
प्. १०५अ)
प्रपञ्चमसमायुक्ताः पञ्चरञ्चिन् प्रकीर्तितः ।।
जीवनीमथमापश्चादेकाक्षी तदनन्तरं ।
उग्रदर्पन्ततः पश्चादस्त्रं देवि प्रकाशितं ।।
एकवीराकल्पे ।
विलिखेत् कूटसंयुक्तं रौद्रन्त्रैगुण्यमेव च ।
विधिविष्णुमहेशानां स्वशक्त्या क्रमयोगताः ।।
एषामता महाविद्या सर्वसिद्धि प्रदामता ।
सर्वमंत्र मयीविद्या सर्वतन्त्रेषु गोपिता ।।
सिद्धिदाभजतामाशु संप्रदाय विधानतः ।
ध्यानार्चन प्रयोगाश्च तारिण्यः पूर्ववच्चरेत् ।।
प्. १०५ब्)
अथान्यां सम्प्रवक्षामि तारां भुवणतारिणी ।
स्मरणात् परमन्त्राणां भयामासुविभाशये ।।
प्रणवं पूर्वमुद्धृत्य हृल्लेखा पूर्वमुच्चरेत् ।
गगणं शेषसंयुक्तं बिन्दुनादविभूषिते ।।
कूर्चबीजञ्च हृदयं तारायै च समुद्धरेत् ।
माहापदं समुद्धृत्य तारायै च ततपरम् ।।
सकलं दुष्टरांस्तार तारयेति तथा पुनः ।
तारयुग्मं वह्निजाया मंत्रौयं सुरपादपः ।।
प्. १०६अ)
गद्यपद्य मयी वाणी कथायामभिधायणी ।
चतुर्लक्षजपेनास्यात् सिद्धमोष्टौ भवंति हि ।।
ध्यानपूजादिकं सर्व पूर्ववत् समुपाचरेत् ।
मन्त्रराजे ।
जरापछमंनितारां वक्षेन्या शृणु तत्वतः ।
यस्यास्मरणमात्रेण भयमाशुर्विनाशयेत् ।।
प्रणवं पूर्वमूद्धृत्य तारे तारे तुरे तथा ।
तन्त स्वाहेति मन्त्रोयं दशाक्षर उदाहृतः ।।
ध्यानं वक्षे शृणु प्राज्ञे समस्ता पत्निराकृतं ।
यस्मात् सर्वत्र तोयेषु बाधा न भवति स्मृतं ।।
प्. १०६ब्)
श्यामवर्णां त्रिनयनां द्विभुजाम्वर पङ्कजे ।
दधानां बहुवर्णाभिः सर्ववर्णाभिरावृतां ।।
शक्तिभिः स्मेरवदनां स्मरमौक्तिक भूषणां ।
रचनपादुकयोर्न्यस्त पादाम्बुज युगं स्मरेत् ।।
वर्णलक्षां जपेद् विद्या नियमेन यथा वशी ।
दशांशं जुहुयामन्त्रो घृताक्तौ रक्त पुष्पकैः ।।
इति सिद्धामहाविद्यां दद्यात् सर्वमनोरथान् ।
मातृकार्णवे ।
विद्यान्तरं प्रवक्षामि शृणुष्वावहिता प्रिये ।
वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ।।
प्. १०७अ)
हृल्लेखाचास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः ।
अष्टाक्षरो मनुः प्रोक्तो वेदमातुरमुत्तमः ।।
पञ्चाङ्गन्यासमन्त्रस्य पञ्चबीजैः प्रकल्पयेत् ।
अस्त्रशेषाक्षरैर्न्यस्य कृतकृत्यो भवेन्नरः ।।
ध्यान पूजादिकं सर्वं पूर्ववत् समुमाचरेत् ।
कालिका सिद्धि विद्यासान् महाकाली परामता ।।
पस्यास्तोत्रे महाविद्या विज्ञेया साधकोत्तमैः ।
कुल्लुका तारिणी प्रोक्ता यदा परम साधकः ।।
प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च ।
महापद्मे पदं व्रूयात् पद्मावति पदं ततः ।।
प्. १०७ब्)
माये स्वाहेति मन्त्रोयं प्रोक्तः सप्तदशाक्षरः ।
पूजा पूर्वादिवत्कुर्यात् पाठ अर्द्धरात्रे चतुःपथे ।।
जपमस्या चल्लक्षस्यादुतकविर्भवेत् ।
बीजमन्त्रावितन्त्रास्यु तारिण्याः सर्वसिद्धिदाः ।।
एते भेदामहोग्रायाः पुरुषार्थ प्रवर्तकाः ।
आयुः श्रीकांति कविता विद्यासौभाग्यदायक ।।
अन्ते निरामयं ब्रह्म जीवन्मुक्ति प्रदायकः ।
अथ स्वछन्द संग्रहे ।
शिवबीजं महेशानि शक्तिबीजं ततः परं ।
बिन्दुसर्गासमायुक्तं वेदाद्यन्तदधः क्रमात् ।
प्. १०८अ)
मायात्रीः सर्वबीजेन हंसबीजमतः परं ।
एष त्वष्टाक्षरी विद्या कथिता तु विदुर्ल्लभा ।।
आज्ञासिद्धिमवाप्नोति त्रैलोक्यं वशमानयेत् ।
वशमायान्ति सहया वेदविद्या चतुर्दशः ।।
हंसभावा महाविद्या तव स्नेहान् प्रकाशिता ।
कविता मावहेत् पुंसां धनार्थी धनमाप्नुयात् ।।
मोक्षार्थि लभते मोक्षं नात्र कार्या विचारणा ।
उग्र तारा महाविद्या कथ्यते मम पौरुषं ।।
पंचाक्षरी च विद्यायां हंसाद्यन्ता महोदया ।
केवलं तत्प्रयत्नेन तव स्नेहान् प्रकीर्तितान् ।।
प्. १०८)
अनयो जपपूजादिन् पञ्चाक्षरवदाचरेत् ।
जीवखण्ड महाविद्या त्रिताराद्या पृथक् पृथक् ।।
त्रैलोक्य कवितासिद्धिदायन्मुत्तमदायिनी ।
षड्दीर्घया मायया च षडंगशमुपाचरेत् ।।
पूजापूर्ववदुर्दिष्टा प्रयोगा अयितत् सदा ।
ऐकवीराकल्पेपि ।
शिवः शक्तिस्तथा माया फट्कारान्त उदाहृतः ।
सार्द्धपञ्चाक्षरो मन्त्रो ज्ञानदीपः कवित्वदतारामाया शिव
भक्तिफट्कारान्ता परात्मृता ।
प्. १०९अ)
एतयो कल्पमुदित महोग्राफलमुत्तमं ।
अथ महानीलसरस्वती द्यथा । तदुक्तं सिद्ध सारस्वते ।
वाग्माया कमला बीजं इशो भृगु निसेवितः ।
चतुर्दशेन्दुः संयुक्तं पञ्चाद्भृगु महेस्वरौ ।।
चतुर्दशविसर्गा पदद्वन्द्व च वाक् पदं ।
वादिनीति पतं व्रूयात् नीपदतृतयत्नतः ।।
नीलसरस्वती पदं त्रिधावृत्तिश्च वाग्मनोः ।
काहि शब्दद्वयं पञ्चाकस्तूरीमग्निवल्लभा ।।
चतुस्त्रिंशद् वर्णयुक्तो नीलसारस्वतो मनुः ।
षट्कौशिकोयं विशेया षड्भिर्मन्त्रैर्यतः कृतः ।।
प्. १०९ब्)
ऋषिछन्दो देवतानां विधानं शृणु पार्वति ।
गङ्गा प्रवाहनामर्षि मत्स्यरुपी जनार्दनः ।।
अतिशयवाक् कविताछन्दो देवि सरस्वती ।
सर्ववागीश्वर्य मयी समस्पृभीष्टदायिनी ।।
ऐं बीज कीलकं ज्ञेयं ह्मै शक्तिः समीरिता ।
नीलोवर्णास्त्र विज्ञेय त्वरिमा कविता ध्रुवं ।।
मुन्द्रन्तु प्रतिवादीन्द्रमुखमुद्रा समीरिताः ।
हृल्लेखया षडंगानि । कुर्यात् षड्दीर्घ युक्तया ।
प्. ११०अ)
ध्यान ।
नीलांशु कामनि मयाञ्च करेषु वीणां मुद्राञ्च पात्रमथ पूर्ण
सुधान्दधानां ।
उद्यच्चतुर्मुखवहत्कविता प्रवाहं ।
नीलां भजामि हृदयेषु सरस्वती तां ।।
अथ मातृकोध्यानान्तरं यथा ।
नीलांभोधरसावता त्रिनयना बाहुस्फुरत् वल्लकीं मुद्रा पात्र करां
चतुर्मुख वहद्वाग्भङ्गिकल्लोलिनी ।
नीलछायमवाल पंक्ति रचना दिव्ये विमाने स्थिता ।
प्रोतुङ्गस्तनभार भङ्गुर तनुर्नीलाशिवाप्रातुवः ।।
प्. ११०ब्)
लक्षमात्रं जपेद् विद्यान् दशांशं समितोत्पलैः ।
निद्रायाश्च महाविद्या बीजाढ्यां परिकल्पयेत् ।।
ध्यानपूजापुरश्चर्या सर्व नीलासमं भजेत् ।
इति श्रीतारारहस्यवृत्तौ मंत्रौद्धारनिर्णयो नाम नवमः पटलः ।। ९ ।।
अथेदानि तारास्तव निर्णयो लिष्यते । अथ विद्यामहात्मां । तदुक्तं तारारहस्ये ।
अथातः सम्प्रवक्षामि तारारहस्य मुत्तमं ।
येना तुष्टित मात्रेण सिद्धियोष्टौ भयंति हि ।।
प्. १११अ)
यस्या स्मरणमात्रेण पाक्यवित्रायते ध्रुवं ।
यज्ञानादमदत्वञ्च लभेत्युक्तिञ्चतुर्विधः ।।
कालिकुलार्णवेपि ।
ये पठन्ति पराम्विद्यान् नियमे रहसि स्थितः ।
देवाः सर्वे नमस्यन्ति किं पुनर्मानुषादयः ।।
वृहस्पति समोवाग्मी धनेधनपतिर्भवेत् ।
कामतुल्यञ्च नारीणां रिपुणां समयोपमः ।।
तस्य पादाम्बुज द्वं द्वं राजां किरीट भूषणं ।
तस्य भूतिम्विलोकैवं कुवेरोपि तिरस्कृतः ।।
प्. १११ब्)
य एवं पूजयेद् देवी नियमे पितृकानने ।
तस्यैवाज्ञाकरस्थाञ्च सिद्धयोष्टौ भवन्ति हि ।।
तस्यैव जननी धन्यापि तातस्य सुरोत्तमः ।
सत्प्रदाय विदाम्वन्तय एवम्वेति तत्पतः ।।
यस्य विज्ञान मात्रेण कुलकोटिं समुद्धरेत् ।
नन्दन्ति पितरः सर्वे गाथागापत्ति सर्वदा ।।
अपि न स कुले कश्चित् कुलज्ञानि भविष्यति ।
स धंन्य स चपि ज्ञानि कवि स च पंडितः ।।
सकुलीन स च मुखी स वशी स च धीक ।
ब्राह्मण संयमी सोपि अग्निहोत्री स दीक्षतः ।।
प्. ११२अ)
सतीर्थसरिपीथानान् सुनिवासीं सर्वदाः ।
समो मया जीवव्रती स संन्यासी स पूजितः ।।
स धर्मात्मा स योगी च स मुक्त स च ब्रह्मवित् ।
स वै ब्रह्मः स सैवञ्च ससौर स च मानयः ।।
स च विज्ञान मात्रेण य एनाम्वेत्ति तत्वतः ।
अपि चेत्त्वत् समाना समत्समः पुरुषोस्ति चेत् ।।
अनिरुद्ध सरस्वत्याः समो मन्त्रोस्ति वै सदा ।
योग सन्धारणं सम्यक् ध्यानमस्यान संशयः ।।
महापापे महोत्पाते महाग्रहपिवारणे ।
महाशोके महामाये महायदि निवारणे ।।
प्. ११२ब्)
महामोहे महासौर्य महादारिद्य संकटे ।
महारण्ये महाशून्ये महाज्ञाने महाहृदे ।।
समस्त क्लेशसम्पाते स्मरनादेव नाशयेत् ।
अस्योज्ञानं ज्ञानामेव ध्यानमस्यात्म दर्शनं ।।
तस्मादस्यामयाविद्या नास्ति तन्त्रे न संशयः ।
फेत्कारीये ।
जिह्वयान्यसना देव मूकोपि सुकविर्भवेत् ।
ज्ञानमात्रेण मन्त्रस्य जयात् सर्वज्ञतान्नयेत् ।।
प्. ११३अ)
अव्याहतामती शास्त्रै विजघो वाक्यतेरपि ।
भावमाव सम्पन्ने भवेद् योगी महाकविः ।।
जत्रोपि यदि शूद्रस्याः भावनो वस तत्परः ।
लभते श्रीमतां वाणीन्मन्त्रंस्यलक्ष जायते ।।
नारदीय तन्त्रे ।
सुविमल नखदन्त पादौ मुदित मनाः परदूषणे मौनी ।
हरिहर कमलोद्भवांघ्री भक्तो भवति चिराय सरस्वतीं निवास ।।
कृत सुकृत सहस्रो नेकजन्म प्रतानै यति भवति मनुष्वो
गुर्वधीनञ्चिरायुः ।
कथमपि मनुमेनन्प्राप्य शिष्याय कस्मै निजकुलतिलकाय जेष्ट पुत्राय दद्यात्
।।
प्. ११३ब्)
मनुर्विमृष्य दातव्यो जेष्टाय हि विनीयते ।
पुत्राय किमन्यथा कस्मै विगोत्राय स्वपौरुषं ।।
मधुना त्रिदिना दर्वाकु जिह्वायां न्यसनान् मनुं ।।
विना पाठेन मूर्खोपि पंडित सोभि जायते ।।
गुरुचरणसर्वदा भक्ती भावात् परिचरति । विधेयोवास्य सर्वात्मनानुं ।।
मनुमनु दिनमेवन्मानवोसौ भवति जगति वादद्वेतसिद्धान्त हन्ता ।
प्. ११४अ)
सर्वदा गोपयेदेनान्मनसो भाविमेव च ।
तेन वीर्यवती विद्या निर्वीर्या स्यात् प्रकाशिता ।।
उत्पादक ब्रह्म दात्रौ गरीयान् ब्रह्मदर्पिता ।
तस्मात् मन्ये सततं पितुरष्यधिकं गुरुः ।।
न कदापि भवति मूर्खोमनुमेनम्वेत्ति यो मनुजः ।
त्रिजगति भवति विख्यातो विध्यायन्मनोयूजां ।।
यस्मिन्मनुमेनं तत्र तुलाभस्यान्त्रितयं ।
नियतव्यं तत्पयमपि सदसत्कर्मणोरुभयोः ।।
विद्या ब्राह्मणमित्याह सेवधिस्तु हि केवलं ।
अमुकाय मांसादातृ तदास्या वीर्यवत्तमां ।।
११४ब्)
यमेव तु सुचिन्दिन्तियतं ब्रह्म वादिनं ।
तस्मै मां व्रूहि विप्राय नामिपायं प्रमादिने ।।
अथास्थान द्वितीयञ्च न किंचिद् विघ्न कारणं ।
क्षिप्र प्रसादा जगता सदा नीलसरस्वती ।।
नीलसारस्वतौमन्त्र कचिता विघ्नविघ्न कारिणी ।
कलियुगे मन्प्रसादात् भविष्यति ।।
अल्पज्ञमपि विद्वांसन्मारयिष्यन्ति वाग्मिनः ।
वृहस्पति वदाचार्यं पश्य मन्त्र समुद्भुतं ।।
प्. ११५अ)
मन्त्रस्य ज्ञान मात्रेण अनुभाव द्वयं भवेत् ।
तत्कारि कवितायरैवन हि व्यभा ।।
सिद्धिमन्त्रो यदा मन्त्री वालिशस्मापि मूर्द्धनी ।
करन्दत्वादि सत्यादि सोपि श्लोकान् करोत्युतः ।।
विद्याम्वोदसवाप्नोति कीर्तिमायु सुतान् बहुन् ।
निवासः श्रीसरस्वत्यो यत्र सारस्वतो मनुः ।।
इति श्रीतारारहस्यवृत्तौ मन्त्रमहात्म्यनिर्णयो नामः दशमः पटलः ।। १०
।।
अथातो भाव निर्णयः ।
भावना च समापन्न इति यत्सुचितत्तद्विवच्य कथ्यते ।
प्. ११५ब्)
तदुक्तं भावचूडामणौ ।
श्रीभैरव उवाच ।
समयाचारसंकेतमेव च भाषितन्तु महादेवि कथयस्वानुकम्पया ।
सर्वमन्त्रेषु विद्यासु भावसंकेतमेव च ।
तथापि शक्तिमन्त्रेषु विशेषो सर्वसिद्धिदं ।।
रहस्याविहिमन्त्राणां यदि भावो न विद्यते ।
श्रीदेव्युवाच ।
भावस्तुति विधो देवि दिव्यवीर पशुक्रमान् ।
गुरुवस्त्रिविधाचात्र तथैव मन्त्र देवताः ।।
प्. ११६अ)
शक्तिमन्त्रे महादेव विशेषात् सर्वसिद्धिदं ।
आद्यभावो महादेव श्रेयात् सर्वसमृद्धिदः ।।
द्वितीयोमध्यमञ्चैव तृतीयः सर्वनिन्दितः ।
बहुजायात् तथा होमान् कायक्लेशादि विस्तरैः ।।
न भावेन विमाने च तंत्र मंत्रा फलप्रदा ।
किम्वीरसाधनैल्लक्षैः किम्वा कृष्टिकुलाकुलैः ।।
किं पीठ पूजने नैव किं कन्याभोजनादिभिः ।
सुयोषित् प्रीतिदानेन परेषाञ्च तथैव च ।।
किं जितेन्द्रिय भावेन किं कुलाचार कर्मणा ।
यदि भाव विशुद्धात्मा न स्यात् कुल परायणः ।।
प्. ११६ब्)
भावेन लभते युक्तं भावेन कुलधर्मनं ।
भावेन गोत्रवृद्धिस्या भावेन कुलशोभवं ।।
कन्या सविस्तरेणैव किं भूतशुद्धि विस्तरेः ।
किन्तथा पूजने नैव यदि भाव न जायते ।।
केन वा पूजते विद्यामपि केन न पूजते ।
फल भावञ्च देवेन भावान् भावान् प्रजायते ।।
एतद् रहस्य कथने संकिनो मम मानसं ।
त्रिलोकी मत्सरी प्राय सर्वत्र तत्समागमः ।।
नावीक्ष्मनीजनन्देवं कथन्तत्कथयामि ते ।
श्रीभैरव उवाच ।
प्. ११७अ)
त्वत् प्रशादात् महादेवी विद्या स्वप्न विबोधिनी ।
सर्वमाया प्रपञ्चानां दीक्षादक्षाममेश्वरी ।।
विद्यते देवि सर्वेषां भूतानां स्वापकारणं ।
करोमि कथयत्वं मां यदि पुत्रत्वमागतः ।।
श्रीदेव्युवाच ।
प्रथमं दिव्य भावन्तु कथ्यते शृणु सादरं ।
यद् वर्ण देवता यद्वत् तत् तेजः पुंसभूषितं ।।
तेजोमयं जगत्सर्वं विभाव्य मूर्तिकल्पनं ।
तत्तत्मूर्तिमयैमन्त्रै स्वेन स्वेनैव पापुन ।।
आत्मान तन्मयं दृष्ट्वा सर्वभावन् तथैव च ।
तत्सर्व योषिति ध्यात्वा चित्तयेद् यत मानसः ।।
प्. ११७ब्)
अशेषकुलसम्पन्ना नाना जाति समुद्भवाः ।
नानादेशोद्भवा वापि गुणलावण्यसंयुताः ।।
द्वितीयवत्सरादूर्द्ध यावत् स्यादष्टमाद्विकं ।
तावत् कुमारी विज्ञेयो मन्त्रतन्त्र फलप्रदा ।।
कुमारी पूजनाच्चैव कुमारी भोजनादपि ।
एकद्वित्र्यादि बीजानां फलं दानात्रसंशयः ।।
ताभ्यः पुष्पं फलम्वापि अनुलेपादिकन्तथा ।
बालप्रियञ्च नैवेद्यं दत्वा तद्भाव पूरितः ।।
प्. ११८अ)
दत्वा तदग्रे आत्मानम् वलिभाव विचेष्टितः ।
ताभिःप्राय कथालाप क्रीडाकौंभूकलादिकं ।।
यथा तथन्तत् प्रिय कृत्कृत्वा सिद्धिस्वरा भवेत् ।
तस्मात् षोडश पर्यन्तं युवतीति प्रवक्षते ।।
न तत्र भाव प्रकाशश्चेत्म भाव परमात्मनः ।
रक्षितव्या प्रयत्नेन अक्षता स्नान कारयेत् ।।
न विष्णुस्तु हरिशंभु न देवीनापि षोडशी ।
न च मृत्त्युञ्जयो वापि न न्यासानापि भावना ।।
अस्य मृत्युं क्षमे देव प्रभवंति न देवता ।
सस्त्रेन शूलयोगेन नागदष्टविषेण वा ।।
प्. ११८ब्)
रौद्रेणाति ज्वरेणैव महावाच्याथिव सादपि ।
मृयत्ते तेन पापेन सत्यं सुव्रतनिश्चयं ।।
श्रीभैरव उवाच ।
चतुर्थाश्रमिणां देवि मोक्षदात्वं तदा कथं ।
कुलभाव विरोधि त्वात् संशयं मम दूरताः ।।
श्रीभैरव्युवाच ।
मोक्षद्वारस्तु बहुधा यद्यस्ति कुल भैरवाः ।
केवलं कुलयोगेन प्रसीदामि न संशयः ।।
चतुर्था शमिनां देव अवधूता श्रमो महान् ।
तत्राहं कुलयोगेन प्रसन्नामोक्षदायिनी ।।
प्. ११९अ)
यदी न स्यान्तथा वत्स शृणु तत्कथयामिते ।
ज्ञानाभावे समुत्पन्ने संप्राप्ते च तदाज्ञय ।।
तदा योगी विमुक्त स्यात् तामं पूज्य कुलान्तरे ।
कुण्डली शक्ति च वरे तदा योगं समभ्यसेत् ।।
निर्द्धन्द निरहंकारः शुद्धनाडी गणोव्रती ।
मृद्धासने समासीन खगसंयमनेरताः ।।
मेरुदण्ड बहिः पार्श्वे चन्द्रसूर्यात्मके शिवे ।
मध्ये सुषुम्ना संदिष्टा तन्मध्ये चित्र रूपिणी ।।
प्. ११९ब्)
तयैवग्रस्थितं पद्मं मूलादि वर्ण पञ्चकं ।
कुण्डल्याकाररूपेन डाकिन्याद्युपलक्षितं ।।
मूलद्वारं समासाद्य स्थितानाग स्वरूपिणी ।
वायुनाभिद्यते मुक्तिं दृढं विद्रावयेत् ततः ।।
उछासाजरकामस्य शिखायानि समुज्वरा ।
प्रतिचक्रं प्रकुत्रासौ जिवात्मानं यरेकुले ।।
नियोजयति तद्योगादमृतं क्षरते चितं ।
व्योमप्रोद्भिद्यमानान्त गतो चन्द्रदिवाकरौ ।।
अधोवक्त्रं महापद्मं क्रोडीकृत्य सुषुम्नया ।
व्याहृत्यनासिकामध्ये गत चित्रत्तरं गता ।।
प्. १२०अ)
उर्द्धभित्वा तु लिंगस्थं दृढं तत्पुस्करान्तरे ।
बहिरुद् गमनाकांक्षा कारिणी मोक्षदायिनी ।।
जीवेनादृष्ट संबन्ध्या स्थिता परमसंविधौ ।
एतद् भेदं विजानाति भित्वा याति परं पदं ।।
अदृष्टधातु बीजोसौ बहिर्याति दिने दिने ।
दिनेशाङ्गुलिमानेन तदर्द्धं चोपवासतः ।।
द्विगुणं रतिकालेस्या त्रिगुणं यदि दैवतः ।
नुनं वा तदधः प्राणः शरीरं परिमुञ्चति ।।
शरीरसंगतां नीत्वान् मूलं वा वटुकेस्वरः ।
कुम्भयित्वा ह्यधो वायु कुण्डली मुखवर्त्मनि ।।
प्. १२०ब्)
योजयित्वा ततो बीजं नित्वानादावसानकं ।
गमागमं कारयित्वा सिद्ध्ये भवति नापुरः ।।
पीयते खाद्यते यन्तु तत्सर्वं कुण्डलीमुखेः ।
हुत्वा सिद्धिमवाप्नोति न च बन्धेन बाध्यते ।।
भिक्षा कार्या नया स्वार्थं कुण्डलीन्मा कृते पुनः ।
रे मादद्देहि मे भिक्षं कुण्डली तर्पयाम्यहं ।।
अवधूता श्रमे स्थित्वा भैरवानन्द तत्परः ।
भैरवोहं न चान्यस्मिन् देवो मत्परत क्वचित् ।।
प्. १२१अ)
तन्त्रमन्त्रार्जनं सर्व मयि जानं न चान्यथा ।
शिवोहं भैरवानन्दो मत्तोहं कुलनायकः ।।
रक्त चन्दनविग्धागोरक्तकौपीन भूषितः ।
रक्तमाल्यांम्वरधरो हेतु युक्त सदा भवेत् ।।
एव भिक्षां व्रजन् भिक्षुः भैरवाचार तत्परः ।
क्षीयतेन च पापेन बध्यतेन च जन्तुनाः ।।
यत्र देशे स्वयं माति स देशः क्षितिनायकः ।
अत्र निन्दा परां ये तु स्पन्ति तत्क्षणा प्रभोः ।।
प्. १२१ब्)
तस्माद् यस्तात् पूजितव्यो नातिरस्कार एव च ।
यत्रेछावर्तते तस्य तत्कार्य प्रियमप्रियं ।।
तथान्य देवदेवेशनोवाचालेति विस्तरं ।
पूजयन्ती महादेवी कुलाङ्गदृष्टि मात्रतः ।।
पुष्पं गन्धश्च ताम्बूल नैवेद्यं यत्र यद् भवेत् ।
मनसा तत्समुत्सृज्य बाह्यतोत्कुल वारिणा ।।
आत्मनि तन्समाबाह्य देवीरूप कुलेश्वरः ।
न पूजा नापि सुगमननिष्टान व्रतादिकं ।।
प्. १२२अ)
पूर्णोहं भैरवश्चाहं नित्यानन्दोहमव्ययः ।
निरञ्जन स्वरुपोहं निराकारस्त्वहं विभुः ।।
सर्वशास्त्रभियुक्तोहं सर्वमन्त्रानुपारगः ।
तस्मात् परतरो देवो न जातो न जनिष्पति ।।
आनन्दरूपवान् बुद्धः सर्वेषां प्रिय कारक ।
सुस्कं दुर्गन्धमत्स्यादित्याज्य दिव्य वलि प्रिये ।।
नाना सुगंधि संयुक्तैः मासादि भोजनं चरेत् ।
सुगंधामलतैलाद्यैर्न्नानालंकारविस्तरैः ।।
स्नानं कार्यं चाति शुद्धं सुक्ष्मवासोभिधारयेत् ।
सुगंधिपुष्पमालाभिः स्वर्णालंकारभूषितैः ।।
प्. १२२ब्)
स्निग्धं सुमधुरं देयं कामरुपं मनोहरं ।
कृतार्थं मंगलं देहं शुद्धभाषण तत्परं ।।
नाम्नामधुमतीस्तत्र जायते नात्र संशयः ।
मधुमत्या फलं देवः कथयामि शृणुष्व मे ।।
सुधाधार धरावाणी वक्रान्तस्य प्रजायते ।
सर्वज्ञः सवशास्त्रणामधिपः कुलनायकः ।।
चन्द्रसूर्यावधि पुंसां भुनक्ति बहुलं सुखं ।
देवकंन्याप्सरोभिस्तु दिव्यै गान्धर्व चारणौः ।।
नानाविलाससन्नद्धेः कुलाकुलकलाविदैः ।
प्. १२३अ)
नृत्त्यैर्गीतैश्च मधुरै नानोपाय रसायनैः ।।
अमृताद्यैः प्रतिकरैर्देव भाग्यैसुदुर्ल्लभैः ।
देवकंन्या हस्त गतैः रथमारुह्य सोत्सुकौ ।।
आयामि साधकाकांक्ष हृदया परमेश्वरी ।
यत्रे कामश्वरा देवो चिंता वसमुपागतः ।।
तत्रैव यान्ति सतनं देवकन्या सहश्रशः ।
इन्द्रयोग्यां पुरीकृत्वा वसन्ति साधकः सहः ।।
ततोपगत पापात्मा भुत्वा तु बहुधा सुखं ।
चिरकालं भुवि स्थित्वा चान्ते मुक्तिमवाप्नुयात् ।।
प्. १२३ब्)
ब्रह्माण्डगोलसंभेदात्तेन जीवेत् समृद्धियुक् ।
एतत् ते कथितं देव दिव्य भाव सुखी वहः ।।
न देयो यस्य कस्यापि पशौ गोप्य प्रयत्नतः ।
वीरभाव महादेव कथ्यते शृणु भैरवः ।।
निर्द्वन्द्व मनसो भूत्वा हृदाकामकला तनुः ।
इदं वीरकुलं देव देव पद्य मनोहरं ।।
यद्वेशे वर्तते वीरस्तत्फलं वापि भैरवः ।
न च मारी भयं तत्र न च राजभयादिकं ।।
सुमङ्गलं सदा तत्र धन पुत्र विवर्द्धनं ।
लक्ष्मी तत्र महादेव सुस्थिरा सर्वदा भवेत् ।।
प्. १२४अ)
मन्त्रं स्वप्न प्रबोधिन्या सुवश्यं वृक्षमूलके ।
योजनीय प्रयत्नेन न च विघ्नं प्रजायते ।।
योगिनीभिर्न गुप्तन्तत् न च पापेन लिप्यते ।
यत्र कुत्र कुजेवारे श्मशाने गमने कृते ।।
पूजाफल भवेत् तत्र यक्ष पूजाफलं लभेत् ।
पूजाफलं भवेत् तत्र सप्तवासरसंमितं ।।
चतुर्दश्यां गते तत्र यक्ष पूजाफलं लभेत् ।
नगरे नार्यतस्थानं पशुरेव न संशयः ।।
प्. १२४ब्)
नान्योस्यादधिको देव इति चिन्ता परायण ।
माद्रकव्यं भुक्ता तु भवेत् कुल परायणः ।।
साधके क्षोभमापन्ने मम क्षोभ प्रजायते ।
तस्माद् यत्ताद्भोगयुतो भवेद् वीरवरसुधी ।।
भोगेन सुखमाप्नोति भोगेन कुलसाधनं ।
यद्यद् ददाति निद्राति यत्करोति यदर्चति ।।
तत्सर्वं कुलरूपं तु ध्यात्वैवं विहरेत् सुधीः ।
एकाकी निर्जने देशे श्मशाने पर्वते वने ।।
शून्ये गृहे नदीतीरे निःशञ्के विचरेत् मुदा ।
प्. १२५अ)
वीराणां जपकालन्तु सर्वकाले प्रशस्यते ।।
सर्वदेशे सर्वपीठे कर्तव्यं नान्नशंशयः ।
यदि विप्रो भवेछ्रेष्टः कूलद्रव्य परायणः ।।
तद्ध्यानेन विधानेन कर्तव्यं कुलशोभनं ।
अपरापुष्पगर्भे तु कुलस्थानमनोरमं ।।
सर्वदेवसुखं तन्तु महाकालकुलात्मकं ।
हयारिकुसुमे देवी स्वयमस्ति सदाशिवः ।।
तत्सुखे लघुमादाय पुष्पमध्ये तु चन्दनं ।
रक्तकुंकुमरागम्वा कृत्वा तत्र शिवात्मकं ।।
प्. १२५ब्)
योजयेछिवशक्त्यास्तु ऐक्यं संभावणं तदा ।
क्षणं विचिन्त्य तत्रैव संचिन्त्य परमेश्वरी ।।
यत्रा पराजिता पुष्पं जवापुष्पं च भैरवः ।
करवीरा रक्तशुक्ले द्रोणपुष्पं च वंधुकं ।।
कुण्डं च मालती पुष्पं यत्र यत्रापतिष्टति ।
तत्र देवी वसेन्नित्यं तद्यत्रे पूजनं मम ।।
दत्ते चैव जवापुष्पं पट्टवस्त्रं फललभेत् ।
ब्रह्महत्यादिकं पापं क्षणं नश्यति निश्चितं ।।
अपरायास्तु महात्म्यं वक्तुं न हि महेश्वरिः ।
वीरसाधन कार्यं तु कर्तव्यं वीरपूरुषैः ।।
प्. १२६अ)
दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः ।
परं पामर वीर्यं तु न पशोरिति निञ्चितं ।।
यद्यत्तत्तत्पुराप्रोक्तं संकेतं मन्त्रसाधनं ।
अञ्जनं गुटिकाटीञ्च कुर्याद् वीरो महाबलः ।।
दिव्यो वीरेण भेदेस्ति यद्भेदं यन्तु कथ्यते ।
शान्तो विनीतो मधुरा कलालावन्य संयुतः ।।
दिव्यन्तु देववत् प्रायो वीरश्चोद्धत मानसः ।
विभूतिर्भूषणैर्वापि चन्दनेनापि लेपितः ।।
प्. १२६ब्)
आकारो गोपनो वापिप्यकोवाकुल भैरवः ।
रक्तचन्दनदिग्धांगो वैष्णवो वाप्य वैष्णव ।।
असंस्कृतं केशजालं संस्कृतो वा कुलेश्वरः ।
अपमाने च पूजायां हृष्टपुष्टः सदा भवेत् ।।
देवनिन्दा परो वापि तत्पूजादि परोपि वा ।
पूजारतस्तत्र हितो कुलालाय मते स्थितः ।।
निजभावसमायुक्तो देववद् विहरेस्क्षितौ ।
स्वकुलान्ते पुरश्चर्या कार्यारात्रौ न वा तथा ।।
वेद हीने द्वीजे देव यथा मन्त्रेण सत्कृयाः ।
विष्णुभक्तिर्विना देवि भक्तिर्न प्रभवेद् यथा ।।
प्. १२७अ)
शाक्तं ज्ञानं विनामुक्तिर्यथा हास्याय कल्पते ।
गुरुं विना यथा मन्त्रे नाधिकार कथंचनः ।।
यती हिना यथानारी सर्वकर्मा विनिर्जिता ।
कुलं विना तथा देवी वीरो वा मम साधकः ।।
नाधिकारीति कौलेयस्तास्माद्भावपरो भवेत् ।
अविनीतं कुलं यस्य स कथं मम पूजकः ।।
तस्माद् यत्नात् तथा कार्यं यथा स्याद् विनयाञ्चितं ।
भावाभावात् कुले शास्त्रे नाधिकार कथंचन ।।
तेन भावविशुद्धस्तु साधकः कौलिको भवेत् ।
प्. १२७ब्)
श्रीदेव्युवाच ।
पशुभावं प्रवक्षामि शृणुत्वं सुसमाहितः ।
यथाविधि पशुद्दीक्षां गृहीत्वा भाव तत्परः ।।
प्रथमं पूर्व सेवार्थं यत्नतः शुद्धिमाचरेत् ।
नमत्स्यं भोजनं कुर्यान्नस्त्रियं मनसा स्मरेत् ।।
न परद्रव्यलोभस्यान्त भोगे मान संचरेत् ।
सिन्धुतीरे कानने वा पर्वते वा सुरालये ।।
बिल्वमूले विविक्ते वा पुण्यक्षेत्रे सुसोभने ।
तसूद्रदर्शनं कार्यं कौटिल्यं यत्नतस्त्यजेत् ।।
प्. १२८अ)
देवता शुद्धभावे तु ध्यातव्या सुसमाहितैः ।
त्रिसंध्यं देवपूजास्या त्रिसंध्यं जपमाचरेत् ।।
रात्रौ मालाञ्च यन्त्रं च स्पृशे नैव कदाचनः ।
न मन्त्रमुच्चरेद् भुक्ता मौनी स्यात् सर्व कर्मसु ।।
सर्वकाले स्त्रियं नैव गछे तु साधकोत्तमः ।
पुष्पं गन्धञ्जलं चैव स्वपमानीवपूजयेत् ।।
मैथुनं तत्कथा लापं तद्गोष्टीः परिवर्जयेत् ।
ऋतुकालं विना गच्छे न च गछे तु सादरात् ।।
प्. १२८ब्)
पुराण श्रवणे श्रद्धा वेदवेदार्थ तत्परः ।
न रात्रौ भोजनं विद्या ताम्बूलं परमेश्वरः ।।
गुरुणायद्यदादिष्ट तत्सर्वयत्नतञ्चरेत् ।
अपि तत्कुसुमं चैव हेतु तत्र च भैरवः ।।
स्पृस्त्वा स्त्रियं त्रिरात्रेण पञ्चगव्येन शुद्ध्यति ।
रक्तं वस्त्रं न गृह्नीयाद् देवी भक्ती परायण ।।
विष्णु मन्त्रोक्त कल्पादि तदनुष्टानमेव च ।
कार्यावीरकथालापं न कुर्यादेव निंदनं ।।
नित्यश्राद्धगवाग्रासं संध्यावन्दनमेव च ।
तीर्थस्नानपीठदशगमनं धर्म तत्परः ।।
प्. १२९अ)
पशुस्तु विविधो देव पूर्वेण सह भैरवः ।
अस्याधिकार पूजाया न गुरुत्वे कथंचन ।।
पूर्वस्यनाधिकारोस्ति पूजादेसगतौगते ।
पूर्वस्तु सर्वकालेस्तु बहिः कार्य स्वदेशतः ।।
पूर्वदर्शनमात्रेण कुलदर्शन माचरेत् ।
ब्रह्महद्यादिकं पापं वरं च कथन प्रभे ।।
पूर्वदर्शन मात्रन्तु सत्यं सत्यं वराम्यहं ।
ममात्मा सोपि देवेश विभुरित्यपि सुप्रभो ।।
तथापि तत्र मे शङ्का जायते तत्पदे पदे ।
वरं कुलं परित्याज्यं वरस्वकुल हिंसनं ।।
प्. १२९ब्)
वरं स्वकुलनिन्दास्या वरं स्वकुल बंधनं ।
वरं स्वकुलहानिस्तु वरं स्वकुलनिन्दनं ।।
कायेन मनसा वाचा वरं स्वकुल पातनं ।
न कूर्याच्च पूर्वसंगममाङ्गक्षयकारणात् ।।
कुलमात्रे द्वयं पाप परिष्टकुलनायकः ।
स्वकुले वहति निन्दा परव्योम कुलेश्वरः ।।
तस्मादपि च तत्पापं पशुसंगात् प्रजायतेः ।
सर्वथा तत्र भावौ द्वौ न प्रकासो कथंचन ।।
प्. १३०अ)
संभावं च विभावं च पशुर्द्वेधा प्रकीर्तितः ।
स भावः पशुभावेन जन्मश्रय विभावनात् ।।
वीरभावेद्भवेद् देवो ततो दैव प्रजायते ।
दैवाच्च जायते वीरो वीरा देव प्रजायते ।।
दैवे वीरेन संदेहः साम्यमित्यविधीयते ।
भावस्तु मनसो धर्मः शब्दे स हि कथं भवेत् ।।
तस्मात् भावो हि कर्तव्यो दिङ्मात्रं समुदाहृतं ।
यथेक्षुगुडमाधुर्यं दशणैज्ञयते व्रहौ ।।
तथा भाव विभावस्त्र मनसो परिभाव्यते ।
एक एव महान् भावो नानार्थ भजते प्रभो ।।
प्. १३०ब्)
उपाधि भेद भावेन भावभेदा नयिष्पति ।
आनन्दघनसंदोह प्रभुः प्रक्रतिरुपधृक् ।।
रसरूपः स एवात्मा स प्रभुः परमोमतः ।
श्रोतव्यः स च मन्तव्य विधितव्यः स एव सः ।।
साक्षात्कार्यां वदे वेण प्रत्यक्ष परमेश्वरेः ।
भावैवहुविधै देविः भावस्तत्रैव नीयते ।।
भूक्ता वै विविधं ग्रासंगविचैको यथा रसः ।
दुश्चादद्यासयोगेन नानार्थं लभते प्रभोः ।।
तृणेन जायते देव रसस्तस्मात् परोरसः ।
तस्मादधि ततो हव्यं तस्मादपि रसोदयः ।।
प्. १३१अ)
स एव कारणं तत्र तत्कार्यं न च लभ्यते ।
दृश्यते च महादेव न कार्य न च कीरणं ।।
तथैवायं स एवात्मा नानाविग्रह योनिषु ।
जा एज्जनिष्पते जातः कालभेदादि भाव्यते ।।
स जात समृतो यद्वत् समुक्तः समुखी पुनः ।
सस्त्री पुमान्नपुंसकः सविद्या वा समृद्ध च ।।
नानाभ्यास समायोगी नानार्थ भजते प्रभुः ।
एक एव स एवात्मा सर्वरूपी सनालवः ।।
प्. १३१ब्)
अव्यक्तं स च व्यक्तं स्यात् प्रकृत्या ज्ञायते ध्रुवं ।
तस्मात् प्रकृति योगेन ज्ञायते नान्यथा क्वचित् ।।
विनाघटत्व योगेन न प्रत्यक्षो यथा घटः ।
इतराद्भिद्यमानोपि तभेदमुपगच्छति ।।
मां विना पुरुषे भेदा न च वाति कथंचन ।
न प्रयोगैर्न च ज्ञानैः श्रुत्वा च न गुरु क्रमेः ।।
प्रकृत्या ज्ञानतनात्मा प्रकृत्यालुप्यते पुमान् ।
प्रकृत्याधिस्थितं सर्वं प्रकृत्यावंञ्चितं जगत् ।।
प्रकृत्याभेदमाप्नोति प्रकृत्यासर्वसंवस ।
नवस्तु प्रकृतिं नैव न पुमान् परमेश्वरः ।।
प्. १३२अ)
तयोः समरसं ज्ञानं वस्तुतत्वं महेश्वरः ।
उभयो समवायस्तु वस्तु तस्तु परं पदं ।।
ज्ञायते स्मिन् स्वयं प्राज्ञञ्चित्स्वरूपं पुमानसौ ।
निर्विकार सर्व देवः पुमानान् गोचरः पुमान् ।।
व्यक्तो भवति देवेश स्वयमात्मास्वयंभुवः ।
उपायं सन्ति बहुधा ज्ञानं ब्रह्म सनातन ।।
तथापि प्रकृते योगान् क्षिप्रप्रत्यक्षतां व्रजेत् ।
सायांस्त्रिकाकुलेशे तु यथानाव प्रगृह्य स ।।
प्. १३२ब्)
नानादेशैः समुत्तिर्य समुद्रं विशते चिरात् ।
तत्तथैनावमास्थायक्षणद्यन्ति यथा प्रभो ।।
विष्णुशक्त्या लभेत् ब्रह्म तत्प्रभावादपि प्रभो ।
वैजात्यं नास्ति चेत् तत्र कथं तद्विधि कारणं ।।
तस्मात् परं पराजातास्ते हि कारणता गताः ।
न कारणानि ते वस्तु साक्षात् प्रकृतिकारण ।।
स्त्रीभावः प्रकृतिः ज्ञेयः प्रभावपुरूषोत्तमः ।
व्यक्ति भेद विभागेन ज्ञायतां भैरवेश्वरः ।।
घतत्वं पुनरेतस्य भेदकारण मे बहिः ।
तथा ज्ञप्ति विकाराद्वान्यस्यप्यं जप्ततां गतः ।।
प्. १३३अ)
साक्षात्कारणमेवैतत् प्रकृत्यैवापि चेश्वरः ।
दिव्यभावो विरभावो यस्य चित्ते व्यवस्थितः ।।
जीवन्मुक्त स एवात्मा भोगार्थ लभते महिः ।
देवीपुत्र स एवात्मा भैरवः परिकीर्त्यते ।।
भावत्रयानामध्ये तु द्वौ भावो स्वप्रतिष्ठितौ ।
न वक्तव्यौ महादेव कुलसारं कुलोत्तमं ।।
इति श्रीतारारहस्यवृत्तौ भावनिर्णयो नाम एकादशः पटलः ।। ११ ।।
अथ ब्राह्मे मुहुर्ते उत्थाय स्वशर्यां सर्वपायविलोपनाय शिरसि
प्. १३३ब्)
सहस्रदलकर्णिकायावस्थितं श्वेतवर्णं द्विभुजं वराभयंकरं
श्वेतमाल्यानुलेपनं ।
प्रकाशस्ववामस्थिताया विमलरूपिण्या रक्ताशक्त्या सहितं ।
विभाव्य मानसै रूपचारैराराध्य ऐं इति यथाशक्ति जप्त्वा ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरूवे नमः ।।
इति स्तुत्वा नमस्कृत्य मूलादि ब्रह्मरन्ध्रान्तमरूणदिवाकरकोटि पाटलां
मूलविद्यां विभाव्य तत् क्रियासमभिहारेण
प्. १३४अ)
शुत्रं सुधारया सन्तर्प्य यथाशक्ति मूलमंत्रं जप्ता उत्थायावस्यकं
विधाय स्नानार्थं नद्यादौ गत्वा देव्याः पूजायोग्यार्थं स्नानमहं
करिष्ये । इति संकल्प ।
यथानुष्टानेन स्नात्वा मंत्र स्नानमारभेत् ।
यथामूलविद्यया त्रिनिमज्य जपन् उत्थाय मूल विद्यया ।।
त्रिवारजप्तेन उदकेन कलशमुद्धयं जलिनात्मानं त्रिवारमभिषिंच्य
मूलविद्यया त्रिवाराचम्यदेवर्षि पितृतर्पणं ।
प्. १३४ब्)
विधाय मूलविद्ययान्ते श्रीमदुग्रतारां एक जटां नीलसरस्वती
पञ्चविंशतिवारं वा सप्तपञ्चविसतिवारं वा त्रिधा वा संतर्प्य ।
जलादुत्थाय धौतवाससी परिधाय आचम्य सूर्यार्घं दत्वा ताम्रादि पात्रे
चन्दनाक्षत कुसुम श्वेतापराजिता पुष्पानि निक्षिप्य ।
उद्य वादित्य मण्डलवर्तिन्यै नित्यचैतन्योदित ।
यै श्रीमदेक जटायै स्वाहा । इति त्रीरर्घ्यं दत्वा । तन्मध्ये देवीम्विभाव्य ।
भगत्येक जटे विद्महे एकवीरायै धीमहि तन्नस्तारे प्रचोदयात् ।
प्. १३५अ)
एकवीरायै विद्महे महोग्रायै धीमहि तन्ना देवी प्रचोदयात् ।।
इत्येताराया इति गायत्री यथाशक्ति जप्त्वा संहार समुद्रयामहृदि समानीय
ततो योगस्थानमागम्य ।।
ओं वज्रोदके हुं फट् स्वाहा । इति जलामन्त्रेण जलमधिस्थाय । एतज्जलं
सर्वसपर्यार्थं विधाय किञ्चिदन्यजले क्षिपेत् । तेनैचारिणा ।
ओं ह्रीं स्वाहेति मन्त्रेण पादौ प्रक्षाल्यः कुशहस्त
प्. १३५ब्)
कुलकुलात् स्वर्णरजतमुद्रा रूपान् यथा सव्ये हस्ते दत्वा । स्वर्णरजत मुद्रा
कुलकुशासनामिकायां धृत्वा ।
ओं ह्रीं विशुद्धधर्म गायत्री सर्व पापानि शमपालेष विकल्पातयन हूं
फट् स्वाहा ।
यथा विधि आचम्य तत्र पीठं विचिन्त्य । श्मशान तत्र संचिन्त्ये तत्र
कल्पद्रुमं स्मरेत् ।
तन्मूले मणिपीठं च नानामणि विभूषितं ।
नानालंकारभूषाद्यैर्मुनिदेवैश्च मण्डितं ।।
प्. १३६अ)
शिवाभिर्बहुमांसास्थि मोदमानाभिरं ततः ।
चतुर्दिक्षुशचामुण्डा चितांगारास्थि भूषणा ।।
तन्मध्ये भावयेद् देवीं यथोक्तं ध्यान योगतः ।
ध्यात्वा ।
ओं मणिधरी वज्रिणि सर्वशंकरि हुं फट् स्वाहा इति शिखाबन्धनं ।
ओं रक्ष २ हुं फट् स्वाहा । ललाभिषेकेन भूमिं शोधयेत् । ओं सर्वविघ्नान्
सारय हूं फट् स्वाहेति । नारा च सुद्रया अक्षत प्रक्षेयात्
त्रिविधविघ्नानुत्सारयत् ।।
ओं पवित्र वज्रभूमे हूं फट् स्वाहेति ।
प्. १३६ब्)
अनेन भूमिमभिमन्त्र ततः कोमलकम्बलादि विष्टरासनादि यथा
सामान्यास्तीर्य । तत्र ।
ओं आः सुरेखे वज्ररेखे हुं फट् स्वाहेति रक्त गन्धपुष्पाभ्यां
समभ्यर्च्या स्वस्तिकादि क्रमेनोपविशेत् । अथानेन मन्त्रेण भूमौ मण्डलं
विचिंत्य तत्रासने आस्थाय ततोपविशेत् । केचित् । आसनेपि केचित् ।
ओं मणिधरि वज्रिनि महाप्रतिसरे रक्ष २ हूं फट् स्वाहा । इति ।
प्. १३७अ)
वस्त्रान्तिके रक्षाग्रंथि वंधयेत् । ओं आः हूं फट् स्वाहेति व्यापकतया
कायवाक्चित्त शोधनं । ओं नमः पुष्पकेतुराजहिते तथा गताय सम्यक्
संबुद्धाय ओं पुष्पे पुष्पे महापुष्पे सुपुष्पे भूषिते । पुष्पं च यावकीर्णे
हूं फट् स्वाहा इति पुष्पादि मन्त्रमयं कृत्वा स्वर्णादि पीठे रक्तचन्दन
गोरोचन कुंकुमवज्रपुष्पाघतुलिप्ते ।
भुं आं सुरेखे वज्ररेखे हुं फट् स्वाहेति मन्त्रेण मण्डलं लिखेत् ।
प्. १३७ब्)
यथा त्रिकोणान्तर्गर्द्भितमष्ट दलपद्मं चतुद्वारात्मकं ।
तस्य त्रिकोणाग्रे ह्रीं याम्ये त्रीं उत्तरे फट् पश्चिमे त्रिकोणाग्रे मध्ये हूं
मम द्रुत कवित्व पाण्डित्यं कुरु २ इत्यादिना साध्ये सहितं लिखेत् । एतद्यन्त्र
पुरतो रकत चन्दनं गंभार्यादि पीठे निधायपीठमर्चये । यथा मध्य
उपर्युपरि श्मशानाय नमः । कल्पवृक्षाय नमः । तन्मूलमनि पीठाय
नमः । नानामणिभ्यो नमः । नानालंकारेभ्यो नमः ।
प्. १३८अ)
मुनिभ्यो नमः । देवेभ्यो नमः । बहुमांसास्थिमोदमान शिवाभ्यो नमः ।
चतुर्दिक्षुशवेभ्यो नमः । मुण्डाय नमः । चिताङ्गाराय नमः । अस्थे नमः
। ततोष्टदलेषु देवाग्रादि क्रमेन । ओं लक्ष्मै नमः । ओं सरस्वत्यै नमः । ओं
रत्यै नमः । ओं प्रीत्यै नमः । ओं कीर्त्यै नमः । ओं शान्त्यै नमः । ओं
पुष्टौ नमः । ओं तुष्टौ नमः ।
मध्ये ह्मौ महाप्रेतासनाये नमः । इत्यभ्यर्च्य । तदुपरि
प्. १३८ब्)
मूलेन मूर्ति संकल्पभूतशुद्धिं कुर्यात् । यथा प्राणायाम क्रमेण
ह्रींकारं रक्तवर्णं नाभौ ध्यात्वा तदुद्भूतेन वायुना भस्म प्रोत्सारयेत्
। ततो हूंकारं श्वेत वर्णं शिरसि विचिन्त्य तदुद्भुतेन वायुना तदस्थि
श्मशान रूपं प्लावितं कृत्वा समस्तं शरीररूपं विश्वं प्लावयेत् ।
आत्मारं व्ययगतं अर्थं निर्मलं तारिणी मयं ध्यायेत् ।
तथा तस्मिन् श्मशान रूपे विश्वव्यापके अमृतवारिणि ।
प्. १३९अ)
आःकारोद्रक्तपुष्पं ध्यात्वा तदुपरि टंकारात् शुक्लपद्मं विचिन्त्य तदुपरि
नील संनिभं हूंकारं ध्यात्वा हूंकारं बीज भूषितां कर्तृकां
ध्यायेत् । कत्तर्युपरिगतं ध्यायेत् । आत्मानं तारिणीयं ध्यात्वा ।।
प्रत्यालीढ पदाघोरां मुण्डमाला विभूषितां ।
खर्वां लम्बोदरी भीमां व्याघ्रचर्मवृतां पटौ ।।
नवयौवन सम्पन्नां पञ्चमुद्रा विभूषितां ।
चतुर्भूजां ललज्जिह्वां महामांवरप्रदां ।।
प्. १३९ब्)
खड्गकर्ती समायुक्ता सव्येतर भुजद्वयं ।
कपालोल्पलसंयुक्तां सव्यपाणि युगान्वितां ।।
पिंगोग्रैक जटां ध्यायेत् मौलावक्षोत् पशोभितां ।
एवं भूतशुद्धि कृत्वा अर्घस्थापनमाचरेत् ।।
यथा स्ववामे त्रिकोणवृत्त चतुरस्रं मण्डलं कृत्वा तत्रष्टाधारं
कपालादि पात्रं निधाय तत्र मूलविद्यया विमलययसापूर्य बिल्वपत्र
रक्तचन्दनवज्रपुष्पाक्षतानि निःक्षिप्यार्घ्याग्नीशासुरवायुषु मध्ये दिक्षु च
दयानि । ओं ह्रां हृदयाये नमः । ओं ह्रीं शिरसे स्वाहा ।
प्. १४०अ)
ओं हूं शिखाय वषट् । ओं ह्रैं कवचाय हूं । ओं ह्रौं नेत्रत्रयाय
वौषट् । ओं ह्र अस्त्राय फट् । षडंगानि च विन्यस्य तद्दशधा मूलविद्यां
जप्ता तेजोमयेन तर्जन सर्वविद्या मयं कृत्वा इति अर्घं विधाय
प्राणायामादिकं कृत्वा ।
यथा मूलविद्यया दशवारं जपेत् वामे नासापूटे वायुमापुर्य तस्या एव
षोडसवारं जपेत् सुषुम्नावत्स्नास्तं सपित्वा एतस्या एवाष्टफ जपेत्
दृष्टनासापुटे वायुं विरेचयेत् ।
प्. १४०ब्)
एवं यथाशक्ति प्राणायामं कृत्वा हुष्यादिना संन्यसेत् ।
यथा सिरसि अक्षोभ्य ऋषये नमः मुखे ।।
वृहति छन्दसे नमः । हृदि । एक जटा देवताभ्यो नमः । मूलाधारं ।
ह्रीं बीजाय नमः । हृदये । फट् शक्ताये नमः । शेषाक्षरानुचार्य
सर्वाङ्गं कीलकाय नमः ।
पुनस्तथैव ममद्रुत कवित्व पांडित्य सिद्धये विनियोगः । कराङ्गं न्यासं
कुर्यात् । तथा ।
प्. १४१अ)
ह्रीं एकजटायै अंगुष्टाभ्यां नमः । अंगुष्टयो ह्रीं तारिण्यै तर्जनिभ्यां
नमः । तर्जन्योः । हूं वज्रोदके मध्ये माभ्यां नमः । मध्यमयोः । ह्रै
उग्रजटे अनामिकाभ्यां नमः । अनामिकयोः । ह्रौं महापरिसरे
कनिष्टिकाभ्यां नमः । कनिष्टिकयोः । ह्रः पिङ्गोग्रैक जटे करतल
पृष्टाभ्यां नमः । करतरपृष्टयोः । इति करंग न्यासः ।
अथ षडङ्गानि ।
ह्रैं एकजटायै हृदयाये नमः । इति तर्ज्जनीमध्यमानामिकाभिः हृदये ।
प्. १४१ब्)
ह्रीं तारिण्यै शिरसे स्वाहा । तर्ज्जनीमध्यमाभ्यां । हूं वज्रोदके शिखायै
वषट् । इत्यधोङ्गुष्टयुग्मशिखायां । हं उग्रजटे कवचाय हुं । इति
हस्तद्वयाभ्यां शिर आदिपादपर्यन्तं । ह्रौं महापरिसरे नेत्रत्रयाय
वौषट् । इति तर्जनी मध्यमानामिकाभिः । नेत्रत्रयोः ह्रः पिङ्गोग्रैक
वाग्रुपिण्यै कवचाय हूं । इति व्यभ्यय हस्ताभ्यां । शिरसादि पादपर्यन्तं ।
ह्रौं रुद्रवाग्रूपिण्यै नेत्रत्रयाय वौषट् ।
प्. १४२अ)
इति तर्जनीनामिकाभिः नेत्रत्रये । ह्रः सर्ववाग्रूपिण्यै अस्त्राय फट् । इति
तर्जनिमध्यमाभ्यां उर्द्धोर्द्धतालत्रयछोतिकाभिर्दशदिग्बन्धनं कुर्यात्
।
तदुक्त सिद्धसारस्वते ।
अखिल चाग्रूपिणी प्रोच्य हृदयाय नमो वदेत् ।
अखिल वाग्रूपिणीपि शिरसे वह्नि वल्लभा ।
ब्रह्मवाग्रूप्णी त्युक्ता शिखायै वषदित्यपि ।
विष्णवाग्रूपिणी त्युक्ता कवचाय हुमुच्चरेत् ।
प्. १४२ब्)
रुद्रवाग्रूपिणी त्युक्ता नेत्रत्रयाय वौषडिति ।
सर्ववाग्रूपिणी सक्ता अस्त्राय फडिति स्मरेत् ।
षड्दीर्घमाचरे मायाबीजान्ते नाति योजयेत् ।
अथवा तन्त्रचूडामणौ ।
बीजान्ते एकजटायै हृदयं परिकीर्तितं ।
तारिण्यै शिरसि तद्वद्वृजोदके शिखान्तथा ।
उग्रजटेक कवच महापरिरसे तथा ।
पिङ्गोग्रैक जटे तद्वन्नेत्रास्ते परिकीर्तिते ।
एवं पीठं न्यास वर्णन्यासौ संलिखितौ तारारूपयुक्तत्वात् ।
प्. १४३अ)
तदुक्तं फेत्कारणीये ।
अंगं न्यासकरौ कुर्यादत्रेव केवलं । अत्रोक्तमाचरेदस्मिन्न्यासं चारय
संगता न्यासं नान्यस्तंत्रोक्त माचरेत् । कालिका तन्त्रे वर्णन्यासस्तु ।
कालिकतन्त्र तन्त्रोक्तं मातृकावर्णमाचरेत् । तद्यथा ।
वर्णं न्यास प्रवक्षामि येन देवी मयो भवेत् ।
अं आं इं ईं उं ऊं ऌं ॡं एं ऐं ओं औं अं अःं । इति स्वरभागः ।।
अं आं इं ईं उं ऊं ऌं ॡं वै हृदयाये नमः । हृदयां न्यसेत् ।
प्. १४३ब्)
एं ऐं ओं औं तारिण्यै शिरसे स्वाहा । नै-ऋते ।
ह्रं वक्रोदके शिखायै वषट् । वायव्यां ।
ह्रैं उग्रजटे कवचाय हुं । कर्णिकायां ।
ह्रौ महापरिसरे नेत्रत्रयाय वौषट् । चतुर्दिक्षु ।
ह्र पिङ्गोग्रैकजटे अस्त्राय फट् ।
अथ देव्यामौलौ ।
अक्षोभ्य वज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
इति संपूज्य देव्या वायव्यादीशपर्यन्तं ।।
गुरुरूपशक्तिमर्चयेत् ।
उं उर्द्धकेशानन्दनाथ वज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
प्. १४४अ)
ओं व्योमकेशानन्दनाथ वज्रेत्यादि ।
ओं नीलकेशानन्दनाथा वज्रेत्यादि ।
वृषध्वजानन्दनाथ वज्रपुष्पेत्यदि । एते दिव्यौघा ।। १ ।।
ओं वसिष्टानन्दनाथ वज्रेत्यादि ।
ओं हरिनाथानन्दनाथ वज्रेत्यादि ।
ओं जयासु वज्रेत्यादि ।
ओं विजयाद्यसु व्रजेत्यादि ।
ओं महोदर्पसु व्रजेत्यादि ।
ओं शाखानन्दनाथ व्रजेत्यादि ।
ओं परानन्दनाथ व्रजेत्यादि ।
ओं यनानन्दनाथ व्रजेत्यादि ।
ओं कुलानन्दनाथ व्रजेत्यादि ।
प्. १४४ब्)
ओं विरूपाक्षानन्दनाथ वज्रपुष्पं प्रतीछ हूं फट् स्वाहा । एते
मानवौघा ।
एतदशक्तौ अक्षोभ्य मात्रं देवीमौ पूजयेत् ।
अथातो वामा वर्तेन पूर्वदि दलेषु ।।
ओं वैरोचन वज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
ओं शंखपाण्डल वज्रपुष्पं प्रतीछ हुं फट् स्वाहा ।।
ओं पद्मनाभ वज्र पुष्पं प्रतीछ हुं फट् स्वाहा ।
ओं जपुष्पमित्यादि । ततो वामावर्तेनाग्न्यादि दिग्दले ।
प्. १४५अ)
ओं नानामकेश्वर व्रजेत्यादि । ओं यमात्त व्रजेत्यादि ।
ओं विघ्नान्तक व्रजेत्यादि । ओं नं नरकान्तक व्रजेत्यादि ।
इति गन्धादिभिरतान्युनर्देवीं गन्धादिभिः संपूज्यं ।
स्ववामे त्रिकोणे वर्त चतुरश्रमण्डलं कृत्वा ।।
ओं पुष्पै समत्यर्च्य ।
तत्र विहित वलित्रय भरितं साधारं निधाय तत्वारामिखाभ्यां स्पृष्ट्वा ।
ओं ज्री एकयटे महाधियते मयोपनीतं वलिं गृह्न २ गृह्नापय २ मम
सांतिं कुरु २ परविद्यामाकृष्य त्रूत
प्. १४५ब्)
छिन्धि २ सर्वजगद्वशमारय ह्रीं स्वाहा ।
इति जप्ता बलि दत्वा रहस्यमालया ।
निगदोनोयंशुनामानसेवनायाशहश्रं शतं तद्दिन जवोरि सद्यमूलं
जपेत् ।
तत्र जप रहस्यं यथामूलाधारस्वाधिस्थानमणिपूरकेषु यथा संख्यं
बीजत्रय व्याप्तं तडित्कोटिकडारां परस्परानूस्यूताविभाव्योर्चार्य सर्वतेजो
विशुद्धं । फट्कारं विश्रान्ति रूपं ध्यात्वा चरेत् ।
प्. १४६अ)
जपनीयमस्तु तद्रुतं न विलम्वितं एव मेव च अतो एवं यथाशक्ति जप्ता
अर्घोदक कुसुममादाय तेजोमयं तज्जपं ।
गुह्यातिगुह्यगोपीत्वं गृहाणास्मत्कृतं जनं ।
सिद्धिर्भवतु मे देवी त्वत् प्रशादात् महेश्वरी ।।
इति देव्या वामहस्ते जपं समर्प्य तन्यीकृतं तद्दिभाव्य स्तुत्वा । अष्टांग
पातं प्रणमेत् ।
ततो मां मदीय परदेवतायै समर्पयेत् । ओं तत्स विदित्वा समर्पयेत् ।
ओं तत्स विदित्वा समर्पणि कृत्वा योनि मुद्रां प्रदर्श्य ।
प्. १४६ब्)
सर्वावरणदेवतादेङ्गे विनाप्य संहारमुद्रया परतेजः स्वहृदय
समानीय प्राणायाम षडंगौ कृत्वा ऐं शान्यां निर्माल वासिन्ये नम
सर्वशेष निवेषयेत् पाठ । शिष्टेभ्यो दद्यात् ।
सिंहं सप्तल्ये यथा सुखं विहरेदिति नित्यपूजा । पुरश्चर्यायामेव
समभ्यर्च्य ।।
लक्षां जप्ता तद्दशांशेन शितोत्पलेन बिल्वपत्रेण वा चतुसरे मण्डपे यथा
विधि प्रथम संस्कृते सति अग्नि हुत्वाक्वालागुरुद्र
प्. १४७अ)
व्योपेतैर्विमलैर्गन्धवारिभिस्तद्दशांशेन तर्पयेत् ।
तद्दशांशेन विमलवारिणा यथोपदेशन
स्वमूर्द्धन्यभिसिंच्यतद्दशांशेन ब्राह्मणां कुमारी वा उत्तमां
स्त्रियक्षीरमांसादि घृतखण्डाद्यैः ।
यथा विधिमंतर्प गुरवे दक्षिणां दद्यात् ।
इति श्रीतारारहस्यवृत्तौ द्वादशः पटलः ।। १२ ।।
अथातो होमपद्धतिं व्याख्यास्यामः ।
अत्रनैमित्तिकादि नित्यादौमादिकं । होमे हस्ताद्य मम तुष्टौन्नतं स्थंणिलं
बालुकादितिर्विरच्य ।
प्. १४७ब्)
तदुक्तं जपहोमादि त्वात् पूजायाः मूर्तिलक्षणं ।
तत्र सहश्रादि होमे शययादि शोधिते पञ्चहस्त सप्त हस्त मण्डपे वा सर्वतो
भद्र चतुरमुकुण्डं कुर्यात् ।
तन्मण्डपकरणान्नुवास्तोः पूर्वस्यान्मुत्तरस्यामैशान्या वा ।
तदुक्तं गणेशविमर्षिण्यां ।
वास्तो संगृह्य पूर्वस्यामैशान्यामुत्तरेथवा ।
दिशिसंकल्पयेत् मन्त्री मण्डलं भुवि भागतः ।।
प्. १४८अ)
नवहस्त प्रमाणम्वा सप्तहस्तमथापि वा ।
पञ्चहस्त पुमानम्वा चतुरस्रं समन्वितं ।।
निर्मितन्तु चतुर्द्वारं वेदिभिर्दृष्टिभूषणं ।
दर्भन्यालापरि वृतन्तन्तुना परिवेष्टितं ।।
एककुण्डीपक्षे । पञ्चहस्तगृहीतमेव प्रसस्तं । तदुक्तं होमनीरूपे ।
एक कुण्डीमतेनापि पञ्चहस्तं गृहं भवेत् ।
तदेकं चतुरस्यं कुण्डं यस्योत्तर भागे शस्तं ।।
तदुक्तं गणेशविमर्षिण्यां ।
तथोत्तरे कुण्डमेकं वेदास्रं तु समुद्धरेत् ।
लक्षहोमे तु तत्कुर्याद् गृहमध्ये तु मूद्यणमिति ।।
प्. १४८ब्)
चतुरस्रं च सर्वेषां केचिदिछंति तान्त्रिका ।
इति सारदातिलके ।
चतुरस्रे महेशानि सर्वकर्मार्थ साधयेत् ।
कुशशालोद्भ्या? च ।
संक्षिप्य चतुस्र मात्रं संक्षिप्य लिख्यति ।
तत्र गृहादि कुण्डकरणे हस्त नियमो यथा ।।
कर्तुर्दक्षिण हस्तस्य मध्यस्य दीर्घमानेन नामाङ्गुलिनिरूपं ।
कर्तुयजमानस्य । तदुक्तं विज्ञाननीतश्वरे ।
प्. १४९अ)
गृहादि कुण्डकरणे हस्तानां नियमो यथा ।
यजमानस्य कर्तव्यं नान्यस्यैव कदाचनः ।।
अथाष्टभिर्वैरेकाङ्गुलमिति । तदुक्तं नीतेश्वरे ।
यस्याङ्गुलोयवस्तस्यां सोयवाष्टमुदाहृतः ।
तिलस्तु मत्पञ्चमांसस्तिलसभागमेव च ।।
भवेन्त्रिहायणीवालं तस्य षष्टो न वापि च सर्वतैव हि यदृष्टं
मङ्गुलैमव्यमा * लै ।
मध्य पर्वायाममानं तच्च विंसति तत्परः ।
आगमानुपसंस्मृत्यैर्वह्निः स्वस्कृयते चयैः ।।
प्. १४९ब्)
तैस्तदङ्गुलमानेन कुण्डान्यपि विधीयतां ।
तत्र चतुम्रकुण्डो यथा ।
प्राक्यक् सूत्रमानेन तन्मध्ये लांछयेत् सुद्धी ।
भागद्वये तन्मध्य विधा चोत्तयाम्ययोः ।।
दिशो मत्स्य युगं कुर्यात् तन्मस्योदरयोः पूनः ।
दक्षिणोत्तरयो सूत्रं यथामानं निपातयेत् ।।
तत्सुत्राग्रेषु संस्थाप्यकोस्तेषु मकलाल्लिखेत् ।
कोणस्थमकराग्रादि दिक्षु सुत्राणि पातयेत् ।।
प्. १५०अ)
एवं कृते तनु कोष्टं चतुरस्रं प्रजायते ।
एददेव भवेत् कुण्डं चतुरस्रं सुलक्षणं ।।
कुण्डविस्तारमानञ्च आयामं तादृशं पुनः ।।
तन्मानमवतं कुर्यात् तादृग्रुप्यञ्च मेखला ।
मेखली भृयतां चापि द्वितीयं वैवमेव वा ।।
वेदादादिनयनोछदविस्तारो हस्त मात्रके ।
अन्तर्नवांगुलो छधा विस्मृता चतुरङ्गुलो ।।
क्रियासारेपि प्रधानमेखेलोछेरयुक्त नवाङ्गुलं ।
तद्बाह्यमेखलेद्वेधं पञ्चाङ्गुलमिति स्मृतं ।।
प्. १५०ब्)
तवाह्यमेखलो छेधमङ्गुल द्वितयं क्रमात् ।
चतुस्त्रिद्व्यंतुल व्यामो मेखला त्रियस्त्विति ।।
सर्वत्रैव विधं क्षेत्रं कुण्डानामनुरूपतः ।
एकाङ्गुलं तथा त्यक्ता कुण्डान्तर्मेखला भवेत् ।।
एकहस्ते तु कुण्डे तु अन्य कुण्डे तु वर्द्धयेत् ।
अर्द्धाङ्गुल तु कुण्डे तु कुण्डं कुर्या च मन्त्रवित् ।।
सात्विका मेखला पूर्वा द्वितीया राजसि स्मृता ।
तृतीया तामसी प्रोक्ता मेखलानान्तु निर्णयः ।।
प्. १५१अ)
अथ योनि निर्णयः ।
प्रथमे मेखला योनि मेखले होतुरग्रतः ।
कुर्याङ्गजोष्टनर्णान्तु कुण्डवित्सर्व लक्षणः ।।
योनि षडंगुलायामचरंगुलविस्मृता ।
उन्नतोद्व्यङ्गुलाः प्रोक्ता कुण्डे हस्तमिते बुधैः ।।
नाभि कुण्डोदरे कुर्यात् सुधीरष्टदलाज्व्रवत् ।
तत्तत्कुण्डानुपायम्वा नाभिं तत्र विचक्षणः ।।
नेत्र वेदाङ्गुलो छेदविस्तारानाभिरत्र वैः ।
मुष्टिरत्निमिते कुण्डमात्रन्तु चतुरङ्गुलं ।।
प्. १५१ब्)
द्विहस्ताद्विषु कुण्डेषु योनि संम्बद्धयेत् क्रमात् ।
एकैकाङ्गुलमानेन तथा नाभिं च वर्द्धयेत् ।।
कुण्डहस्ताद्बहिःस्त्वानं स्थलमित्यविधीयते ।
चतुरस्रस्य लायामामात्मन्मध्ये सरन्धिकां ।।
स्थूलमूला च सूक्ष्माग्रात्रारास्योत्त मनोहरा ।
वाह्यस्थ मेखला वाद्यस्थान मालभ्य कारयेत् ।।
तदुक्तं भास्कराचार्य न । योनौ नाले सरन्धिकमिति ।
रुद्रयामले ।
प्. १५२अ)
योन्यमध्ये विलं कुर्यात् तदाह्यग्राहि संज्ञकं ।
तदुक्तं गणेश विमर्षिण्यां ।
कुण्डस्य रूपं जानीयात् परंमं प्रकृतेर्वपुः ।
उदरं कुण्डमित्याहु हस्तावुभयतः स्मृतौ ।।
पादौ पञ्चम कोणे द्वे योनोद्यथा चन्द्र राजे ।
योनिः कारण भूतस्य हस्तस्य स्यात् पदं महत् ।।
तेन तत्रैव हव्यानां विधानान्तन्मयं त्वतः । कलानि पूर्णा विंवोरोसौ ।
यो योष्ठं वर्द्धयेद् विद्वान् नाभिं वृत्ता कृति तथा ।
तत् तत्कुण्डानुरूपम्वा कुर्यात् साधकसत्तमः ।।
प्. १५२ब्)
योनिकुण्डे तथा पद्मे योनि पद्मं तु कारयेत् ।
शतादि नवशतानात् तु मुष्टिं कुण्डेनु होमयेत् ।।
हस्तमात्रं सहश्रे तु द्विहस्ते मयुते स्मृतः ।
चतुर्हस्ते लक्षे मात्रं षट्कुरे दशलक्षकं ।।
दशहस्तान्तत् हवने को प्रांमपि दशैव हि ।
दशहस्तात् परं कुण्डं नास्ति होमे महीतले ।।
तत्र द्विहस्तादि कुण्डे मेखला । तदुक्तं सारदातिलके ।
कुण्डे द्विहस्तताज्ञेया वसुदेव गुणाङ्गुणा ।
प्. १५३अ)
चतुहस्ते तु कुण्डे वा चसु तर्क युगाङ्गुलाः ।।
कुण्डेदृसकरेताः । स्युर्दशाष्टार्द्धङ्गुलाचिताः ।
वसुहस्तमिते कुण्डे भानुं पक्त्याष्टकांगुलाः ।
दशहस्तमिते कुण्डे मनुभानु दशाङ्गुलाः ।।
आयामोछापतो ज्ञेया मेखला सर्वतो बुधैः ।
अथ द्विहस्तादि कुण्डानां प्रमाण यथा यामले ।।
एकहस्ता द्विकुण्डाना पुमानमविधीयते ।
पुराषण्मुख हस्तेन यदुक्तं चन्द्रमौलिना ।।
प्. १५३ब्)
एकहस्त द्विहस्तादि गदतोमीनिशामयः ।
त्रयत्रिंशांगुलं शूत्रं तिलद्वादशकान्वितं ।।
द्विहस्तकुण्डे विधिवत् पूर्वंवत्परिकल्पयेत् ।
त्रिहस्ते चत्वारिशतिल द्वादशकोणितं ।।
चतुहस्ते तु कुण्डे सत्रिपञ्चाशाङ्गुलो चरेत् ।
तेन द्वादशकं सूत्रं पञ्चहस्ते निवोधमे ।।
चतुषष्ट्यांगुलं सूत्रं तिलद्वादशकोणितं ।
अष्टाशीत्यंगुलं सूत्रं तिलद्वादशकोणितं ।।
प्. ५४अ)
सप्तहस्ते तु कुण्डे वै सुत्रं विद्यान् परित्यजेत् ।
सप्तनवन्यङ्गुलं सूत्रं द्विनवद्वादशकोणितं ।।
नवहस्ते तु कुण्डे वै सूत्रं तन्तु विदां मतां ।
नव द्वादशसंयुक्तं षदूत्तरे शतांगुलं ।।
दशहस्तस्य कुण्डस्य उद्धरे तत्र विन्मतं ।
अत्र विशेष ।
अत्र द्विहस्तादि कुण्डे मेखलायोन्यादौ प्रकृत हस्त
चतुर्विशांशेनाङ्गुलाद्विवर्द्धनं । तदर्प्या पतितोरणि प्रबोधमात्रं ।
तदुक्तं वृहद्योगिनी हृदये । द्विहस्तादिषु कूण्डे । व्योमसूत्रञ्च यद्भवेत् ।
प्. १५४ब्)
तच्चतुर्विंशति चारेण नानांगुल परिग्रहः ।
तदङ्गुल प्रमाणेन सर्व कुण्डेषु सर्वतः ।।
मेखला योनि गलादि कल्पनं परिकीर्तितं ।
एवं सर्वत्र परिमानं ज्ञात्वा कुण्डं कुर्यात् ।।
अज्ञानदोषो यथा । यदाह विश्वकर्मा ।
खातेऽधिके भवेद् रोगी हीने धेनु धनक्षयः ।
वन्न कुण्डं तु संतायो मरणं छिन्नमेखला ।।
मेखला रहिते सोको ह्यधिकेन विनाकृतं ।
अपत्यध्वंसनं प्रोक्त कुण्डं यत्कंठ वर्जितं ।।
प्. १५५अ)
अन्यत्रापि श्रीभैरव षोडशे सुत्राधिके सुहृद्भेदो मानभीनोदरिद्रता ।
आयोधः कंठ हीनैस्याद सिद्धि मूलखातके ।
अधिके वित्तनाशस्तु हीने दूख प्रवर्तते ।।
व्याधयश्च प्रवर्तन्ते हीमोष्टे स्यादपस्मिनी ।
उच्चारे स्फुटिते छिद्रे संकुले वा मृतिर्भवेत् ।।
इति तस्त्मातु वै ज्ञात्वा कुण्डं च रचयेदिति । तदुक्तं रुद्रयामले ।
इति संक्षपतो देविमानं कुण्डेषु दर्शितं ।
योगिनी हृदये दृष्टं भाषितंञ्च मुनिश्चयं ।।
प्. १५५ब्)
दिव्यैल्लोकोपकारायस्तेहेनानि वचेदितं ।
प्रणिपत्य गुरो ज्ञात्वा कुण्डानां रचने चरेत् ।।
अथाग्नि कार्यां वक्षे कुण्डस्योत्तरे मन्त्री नित्यनैमित्तिक काम्येषु तत्कर्मेषु
तत्कर्मानुगुणतया तत्तद्धोमानूमानेन तत्तदाकारेषु विरचितेषु चतुरश्रादिषु
आगमलक्षलक्षितेषु कुण्डेषु स्थण्डिलेषु वा यांमं कूर्यात् ।
तत्राष्टादश संस्कारैः कुण्डं कूर्यात् ।
प्. १५६अ)
तदुक्तं लक्षदेशिके तन्त्रे ।
अष्टादशस्युः संस्कारा कुण्डानां तत्र चोदिताः ।
विक्षणं मूलमन्त्रेण शरेमन्त्रेण मार्जनं ।।
विलेपनं कलारूप कल्पनन्तदनंतरं ।
त्रिशूत्रीकरणं पञ्चाद्धधयेनार्चनं मतं ।।
अस्त्रेण वज्रिकरणं हृदयेन कुशैः शुभैः ।
चतुःपथः तनूत्रेण तमुयादक्षपातनं ।।
योगे कुण्डोनिसंकुर्यान् संस्कारैरेवरारितैः ।
अशक्तान्प्रत्याह ।
प्. १५६ब्)
अथवा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः ।
विक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतं ।।
ताडनहेति मन्त्रेण अस्त्र मंत्रेण मार्जनंमिति ।
अस्मिन् कुण्डे प्रागग्रणा उदयगास्त्रिम्रोतिम्रोरेखा विलिखेत् ।।
लेखानां देवता तत्रैवोक्ता प्रागग्रा स्मृता ।
देवादेशवापुरन्दराः ।।
रेखानामूदगाग्राणां ब्रह्मवैवस्वतेन्दवः ।
अथवा षट्कोणं त्रिकोणं वृत्तं चतुरस्रं कुण्डाभ्यान्तरे लिखेत् ।
तत्रोक्तर्वमणायोगपीठमर्चयेत् ।
प्. १५७अ)
वामायै नमः । ह्येष्टायै नमः । रौद्रौ नमः । अम्बिकायै नमः ।
एताः शक्तयो मेखलोपरि पूर्वादितो अर्चयेत् । मुच्चार्य । श्रीताराकुण्डायै नमः
। इति संपूज्यः ।
तन्मध्ये नीलां सरस्वतीं तारा ऋटु स्नातां वागीश्वरीं यजेत् ।
ततः सुवर्णादि पीठे मणिसंभवम्वा श्रोत्रिय गेहजं वारमिति
विजेनोद्धृत्पानीय हुं फट् क्रव्यादेभ्यः स्वाहाः । इति क्रव्यादां
संपरित्यत्य ।
प्. १५७ब्)
तदग्नि मन्त्रेण संशोध्ये कवचेनावगुण्ठ्य धेनु मुद्रां प्रदर्श्य
वरूणबीजेनामृतिकृत्परमिति बीजेन वह्निनां चैतन्यमुत्पाद्य कराभ्यां
मुद्धृत्पत्रिःपरित्राम्य मेदिनी पृष्टजानुः शिवबीजबुद्ध्याकुण्डमध्ये
स्थितयोनोर्योगीश्वर वागेश्वरयो संगमं संचिन्त्यतस्यां योनौ
अधोमुखमग्निनिःक्षिप्यः ।
ह्रीं वह्निमूर्तये नमः । इत्यभ्यर्च्य हृल्लेखामुच्चरत् इडया कृष्य
कुंभकयोगेन सुषुम्ना स्थित सहश्रदल कमजे
प्. १५८अ)
वैन्दवाग्नि बाह्योदर वह्निभ्यां संयोज्य योनिमुद्रया दक्षिणनाद्या
हृल्लेखामुचरन् अग्निं विरेच्य कूर्चबीजमुच्चरन् वह्नि चैतन्याय नमः ।
इति वागीश्वरी गर्भनाड्यीं तच्चैतन्यं संयोज्ञ्य संस्थाप्य ज्वालिनी मुद्रां
प्रदर्शयेत् । ततः समिदिन्धनाभ्यांमाछाद्य अग्निं चिन्मन्त्रेण प्रज्वालयेत् ।
चिन्मन्त्रो यथा ।
ओं चित्पिंगल हन २ दह २ पच २ सर्वज्ञा ज्ञापय स्वाहा ।
प्. १५८ब्)
ओं ततो वह्नि ब्रह्मङ्गे विन्यस्य मूलादी योगात् सादरं अभ्यर्चयेत् ।
तद्यथा ।
सहश्रार्चिषे हृदयाय नमः । स्वस्ति पूर्णाय शिरसे स्वाहा । उत्तिष्ट पुरुषाय
शिषाये वषट् । धूमव्यापिने कवचाय हुं । सप्तजिह्वाय नेत्रत्रयाय वौषट् ।
धनुर्द्धराय अस्त्राय फट् ।। इत्यङ्गाभ्यर्च्य ।
ओं वैश्वानरजातवेद इहावहलोहिताक्ष सर्व कर्माणि साध २ स्वाहा ।
इति मूलेनावाह्य ।
ताराग्नि स्वहुतासने भित्वं
प्. १५९अ)
ताराग्नि रसिता नाम दत्वा वह्निं ध्यायेत् ।
ततः सप्तहस्तं त्रिपादं द्विशीर्षं चतुभिव्विषाणैस्त्रिधा बद्ध मध्यं
पिसंगै युतं लोचनंस्तर्क संख्यैद्विना संरशन्तं चतुशोत्रमग्नि ।
रक्तांबुजस्थं प्रलम्वितैकं पाटञ्च पृष्टेन गतं वृषेन्द्रं ।
स्वसंमुखं दक्षिणकैश्चतुर्भिभीमैस्त्रिभिर्वाहुभिरभ्युपेतं ।।
शक्तिं वह्निश्रुक्श्रुवौ सव्यहस्तैर्वामै हस्तैर्तोमलं तालवृत्तं ।
प्. १५९ब्)
ससर्पि पूर्णतप्तसौवर्ण पात्रं शंस्वत् ध्यायेत् सप्तजिह्वां दधानं ।
अथवा एवं ध्यायेत् । बंधू पुष्पसंकासं सुतप्तकनक प्रभ । पद्महस्तं
यंजनार्थं वदन द्वय शोभितं । सप्तछन्दाय मकरवसन त्रयविग्रहं ।
त्रिधाग्न्यात्म त्रिपादाव्यं हव्य कव्य विनाशकं ।
ब्रह्मात्म सूर्यदग्दा तृहोतुश्चतुः ह्री विराजितं ।
पञ्चरात्रं पासुपतं लोकायतमहा मतं ।।
प्. १६०अ)
बौद्धवैदिकिमित्ये तत् षद्विङ्गल विलोचनं ।
वेदार्थं चतुरश्रोत्रं स्तोत्रश्रोस्त्रमयध्वनिं ।।
सपाताल जटाजूतमणी कोटीरभासुरं ।
होमाङ्गनशमायुक्तं हेमकुण्डलमण्डितं ।।
रक्तांभोरुह मध्यस्थं स्वस्तिकासनसंयुतं ।
पृष्टदेशे समालम्बित्तात्तीय चरणाम्बुजं ।।
सदाशब्दाय मानेन्ते सिद्धमानं स्वतेजसा ।
शक्तिवह्नि श्रुक्वौव चतुर्भिद्दक्षबाहुभिः ।।
तोमलं तालवृक्षं च सौवर्ण घृतपात्रकं ।
वामे त्रिभिर्बाहुभिश्च दधानं रक्त वाससं ।।
प्. १६०ब्)
हिरण्यकनका रक्ता कृष्ण दक्षासन स्थिता ।
सुप्रभावाति रक्ता च रसना बहुरूपिणी ।।
इमा जिह्वा ज्ञात तत्वा वदन सर्वमास्थिता ।
एताभिः सप्तजिह्वाभिः रुपेतं पातत्वाननं ।।
व्यावृतोत्तान वदनं साधकाभिष्ट दर्शनं ।
एवं तस्य मुखे हिरण्यागत रक्ता कृष्णासुप्रभा अति रक्ता बहुरूपा इति जिह्वा
स्वनाम सदृशवर्णा । ज्वलज्वालजवे पूषः
प्. १६१अ)
सुरपि गन्धर्व यक्षनागपिशाचराक्षसा देवताधिष्टिताः ।
शचिन्त्य षट्कोणमध्येषु पूजयेत् । तदुक्तं गणेशविमर्षिण्यान्तुः ।
हिरण्यांभस्तु हेमाभा शूलपाणेर्दिशि स्थिता ।
वैदूर्यवर्ण कनका प्राच्यायां दिशि संस्थिता ।।
तरुणादित्य वर्णाभारक्ता जिह्वाग्नि संस्थिता ।
कृष्णानीलाभ्र संकासा नै-ऋत्त्यादिशि संस्थिता ।।
सूप्रभा पद्मरागाभावारूण्यादिसि संस्थिता ।
अति रक्ताजपाभासा वायव्यां दिशि संस्थिता ।।
प्. १६१ब्)
बहुरूपा यथा ख्याता दक्षिणोत्तरतस्थिता ।
षट्कोण रहिते तु ।
हिरण्यावारुणे प्रोक्ता शंकरे बहुरूपिका ।
याम्ये रक्त तथाग्नेर्यामतिरक्ता च संस्थिता ।।
सुप्रभापूर्वदिक् संस्थाकृष्णायाम्य दिशि स्थिताः ।
कनकाञामु संज्ञायाकुण्डमध्यसमाश्रिता ।।
यथा ।
ओं ह्रीं हीम्मुहिरण्यायै नमः । ओं ह्रीं ष्युंगगाणायै नमः । ओं ह्रीं
रांप्रुं रक्तायै नमः ।
प्. १६२अ)
ओं ह्रीं अं कृष्णायै नमः । ओं ह्रीं अं सुप्रभायै नमः । ओं ह्रीं अं
अतिरक्तायै नमः । ओं ह्री ययुं बहुरुपायै नमः । इति जिह्वा सप्त संपूर्य ।
मेखलो परितसुषुम्नावर्त्मनास्तम्भयित्वा एतस्या एवाष्टक जयेन
दक्षनासापुटे वायुं विलेचयेत् । एवं यथा शक्तिप्राणायामं कृत्वा
ऋष्यादि न्यासं न्यसेत् ।
यथा शिरसि आक्षोभ्य ऋषये नमः । मुखे ।
बृहती छन्दसे नमः ।
प्. १६२ब्)
एक जटादि देवतायैभ्यो नमः । मूलाधारे ।
ह्रीं बीजाये नमः । हृदये ।
फट् शक्त्याये नमः ।
शेषाक्षरानुच्चार्य सर्वांगं कीलकाये नमः ।
पुनस्तथैव मम द्रुत कवित्व पाण्डित्य सिद्धये विनियोगः ।।
कराङ्गं न्यासं कुर्यात् । तथा ।
ह्रीं एकजटायै अंगुष्टाभ्यां नमः । अंगुष्टयोः ।
ह्रीं तारिण्यै तर्जनीभ्यां नमः । तर्जन्योः ।
हुं वज्रोदके मध्यमाभ्यां नमः । मध्यमयोः ।
हैं उग्रजटे अनामिकाभ्यां नमः । अनामिकयोः ।
प्. १६३अ)
ह्रौं महापरिसरे कनिष्टिकाभ्यां नमः । कनिष्टयोः ।
ह्रः पिङ्गोगैक जटे करतलपृष्टाभ्यां नमः । करतलपृष्टयोः ।
इति करन्यासः । अथ षडंगानि ।
ह्रां एकजटायै हृदयायै नमः । इति तर्जनीमध्यमानामिकाभि हृदयेः ।
ह्रीं तारिण्यै शिरसे स्वाहा । तर्जनीमध्यमाभ्यां ।
हुं वज्रोदके शिखायै वषट् । इत्यधोङ्गुष्टशिखाय ।
ह्रैं उग्रजटे कवचाय हुं । इति हस्तद्वयाभ्यां शिर आदि पादपर्यन्तं ।
प्. १६३ब्)
ह्रौं महापरिसरे नेत्रयाय वौषट् । इति तर्जनी मध्यमानामिकाभिः नेत्रत्रये
।।
ह्रः पिङ्गोग्रैक जटे अस्त्राय फट् । इति तर्जनीमध्यमाभ्यां ।।
उर्द्धौर्द्धतालत्रये छोटिकाभिर्दशदिग्बंद्धनं कार्य ।
एवं षडङ्गविंन्यस्य ब्रह्मांजलि विरच्य आत्माभेदेन क्षणं ।।
ध्याये । यथा ।
प्रत्यालीढपदार्पिनाघ्रिशव हृद्घोराट्टहासापराखड्गेन्दीवर
कर्तृखप्परभुजा हुंकार बीजोद्भवा ।
प्. १६४अ)
खर्वा नीलविशालपिङ्गलजटाजूटोग्रनागैर्युताजाड्यं न्यस्य कपालके
त्रिजगतां हन्त्युग्र तारास्वयं । तत्करकलितदूर्वाक्षतरक्त चन्दनाक्षतादि
मिलित दिनकरकिरण कुसुमांजलौ मातृकामन्त्रं ध्यात्वा
हृदयान्मूलमन्त्रततेजोमयीं शुद्धज्ञान चैतन्यमयीतां सट्चक्र
क्रमेण शिरः स्थित सहश्रदल कमलकर्णिकान्तगतपरमणि ब्रह्मं
प्रापयित्वा
प्. १६४ब्)
समभिभारेण तदमृतां बुधौ विश्राम्यतदमृतलोलीभूतामानन्द##-
देवेशि भक्ति सुलभे परिवारसमन्विते ।
यावत्वां पूजयिष्यामि तावत्वं सुस्थिरो भव ।।
एकजटे इहावह २ इत्यञ्जलि स्थापनेन दर्शयेत् । इह तिष्ट २ इति स एवाध्यो मुख ।
इति सन्निधेहि । इत्यङ्गुष्टमुष्टिभ्यां । इह सन्निरुध्यस्व ।
सैवाङ्गुष्टगर्भिणी मुष्टिभ्यां ।
प्. १६५अ)
ततः आत्मद्देङ्गे षडङ्गविन्यस्ये ।।
आं ह्रीं क्रौं स्वाहेति प्राणप्रतिष्टां कृत्वा । श्रीमदेक जटे वज्र पुष्पं
प्रतीछ हुं फट् स्वाहेन्न्यनेन पञ्चोपचारैर्चयेत् । आग्नेर्या ।
ह्रां एकजटायं हृदयाये नमः । ऐशान्यां ।
ह्रीं तारिण्यै शिरसे स्वाहा । नै-ऋत्ये ।
हूं वक्रोदके शिखाय वषट् । वायव्यां ।
ह्रै उग्रजटे कवचाय हुं । कर्णिकायं ।
ह्रौं महापरिसरे नेत्रत्रयाय वौषट् । चतुर्दिक्षु ।
प्. १६५ब्)
ह्रः पिङ्गोग्रैक जटे अस्त्राय फट् ।
अथ देव्यामौलौ ।
ओं अक्षोभ्य वज्रपुष्पं प्रतीछ हुं फट् स्वाहा । इति संपूज्य
देव्यावायव्यादीश पर्यन्तं ।।
गुरुरूपशक्तिमर्च्चयेत् ।
ओं उर्द्धकेशानन्दनाथ वज्रपुष्पं प्रतीछ हुं फट् ।
ओं व्योमकेशानन्दनाथ वज्रेत्यादि । ओं नीलकेशानन्दनाथ व्रजेत्यादि ।
ओं वृषध्वजानन्दनाथ वज्रे पुष्पेत्यादि । एते दिव्यौघा ।
ओं वशिष्टानन्दनाथ वज्रपुष्पं प्रतीछ हूं फट् स्वाहा ।
प्. १६६अ)
ओं कूर्मानन्दनाथ व्रजेत्यादि । ओं मीननाथानन्दनाथ व्रजेत्यादि ।
एते सिद्धौघा । ओं मयाहेद्यसूव्रजेत्यादि । ओं विजयाद्यसुव्रजेत्यादि । ओं
महोदर्य सुवज्रेत्यादि । ओं परानन्दनाथ वज्रेत्यादि । ओं
पारिजातानन्दत्परिपूर्वादितो ब्रह्मादि पूजये । यथा ।
ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही इन्द्राणी चामुण्डा महालक्ष्मी ।
आं ब्राह्म्यै नमः । द्री महेश्वरार्यै नमः ।
प्. १६६ब्)
ओं कौमार्यै नमः । ऋ वैष्णव्यै नमः । ॡं वाराह्यै नमः । एं ऐं
इन्द्राण्यै नमः । ओं ओं चामुण्डायै नमः । अः महालक्ष्मै नमः ।
तद्बहि ।
लक्ष्म्यै नमः । सरस्वत्यै नमः । रभ्यै २ । प्रीत्त्यै २ । कीत्त्यै २ । शान्त्यै २ ।
पुष्ट्यै २ । तुष्ट्यै २ । तद्बहिर्लोकपालान् । तद्बहि ।
वज्र शक्ति दण्ड खड्ग पाश अंकुशगदाशूलचक्रपद्मान्येतानि
लोकपालायुधानि ।
प्. १६७अ)
आद्याक्षरबीजयुक्तैर्नामोन्तेराराध्य परिधि परिस्तरण प्राणात्प्राची
वर्जदिजुचार्ययेत् ।
यथा कुण्डमध्ये मेखलायां मेखला समदीर्घ यज्ञकाष्ट त्रयं प्राची
वर्जपूर्वाग्र द्वयं उत्तराग्रमेक एवं कुशावप्यर्ग्रेण मूलछादयन्
पूर्वाग्रपक्तिद्वयं उत्तराग्रपक्तिमेकीमास्ततेत् ।
आं ब्रह्मणे नमः । दक्षिणे ब्रह्माणं पूजयेत् । ततः श्रुकशुवो
त्रिप्रतप्यतौ वाम हस्ते दत्वां दक्षिण हस्तेन प्रोक्षये २ ।
प्. १६७ब्)
पुनः प्रतर्पान्मनोदक्षिणभागे स्थापयेत् । आज्यस्थालीमानीयात्रेण मोक्ष्य
तस्यामाययनिःक्षिप्यतां कूण्डान्नुद्धृताग्नौ निवेशयेत् । इत्याभिज्ञानं ।
दर्भयुगलं प्रज्वाले आनिःक्षिप्ता नले क्षिपेत् ।
दीप्तेन दर्भयुगलेन आह्यं नीराज्याग्नौ विनिःक्षिपेत् ।।
प्रज्वालितां दर्भान् घृतेन प्रदर्श्य अग्नौ विसर्जयेत् ।
जलविसृशेत् । इति संस्कारैः संस्कारेन घृतं जुहुयात् ।
प्. १६८अ)
अथ शुवेनस्थाली दक्षिणभागान्नाम मन्त्रेण दक्षिणे अग्नये स्वाहा हृदय
मन्त्रेण वामभागादाज्यमादाय । सोमाय स्वाहा ।
इति वामलोचरने मध्यादग्नि सोमाभ्यां स्वाहा । इति भाललोचने ।
दक्षिणादग्ने स्वस्ति कृते स्वाहा । ततस्तारेण व्याहृती जुहुयात् । तद्यथा ।
ओं भूः स्वाहा । ओं भुवः स्वाहा । ओं स्वः स्वाहा । ओं भूर्भुवः स्वाहा ।
ततो नामकरनादीनां संस्काराणां प्रणवाद्येन
प्. ६८ब्)
नमोन्त एवं हृल्लेखाद्येन वा सप्त सप्ताहुति जुहुयात् । यथा ।
ओं ह्रीं अनिष्यमानस्य अग्नेर्गर्भाधानं कल्पयामि नमः ।
अग्नेर्गर्भाधानं ।
ओं अग्ने पुंश्रवनं कल्पयामि नमः । इति पुंश्रवणं ।
ओं ह्रीं अग्नेः सीमन्तो नयनं कल्पयामि नमः । इति सीमन्तो नयनं ।
ओं ह्रीं अग्नेर्जातकर्म कल्पयामि नमः । इति जातकर्म ।
ओं ह्रीं अग्नेर्न्नामकरणं कल्पयामि नमः । इति अग्नेत्वं ताराग्नि नामासि । इति
नामकरणं ।
प्. १६९अ)
ह्रीं अग्नेन्ति क्रमनं कल्पयामि नमः । इति निक्रमनं ।
ह्रीं अग्नेश्चूडाकरणं कल्पयामि नमः । चूडाकरणं कल्पयामि ।
ह्रीं अग्ने उपनयनं कल्पयामि नमः । इति उपनयनं ।
ह्रीं अग्ने वेदाध्ययनं कल्पयामि नमः । इति वेदाध्ययनं ।
ह्रीं अग्ने समावर्तनं कल्पयामि नमः । इति समावर्तनं कल्पयामि नमः ।
ह्रीं अग्ने गोदानं कल्पयामि नमः । इति गोदानं ।
प्. १६९ब्)
ह्रीं अग्नि विवाहं कल्पयामि नमः । इति विवाहं ।
ततस्तत्राग्नौ विधिवत् । ध्यात्वा बाह्याभ्यर्च्य ।
अग्नेरैकां विभाव्यमूलेन षोडशाहुतिर्जुहूयात् । पुनमूलेन
षोडशाहुतिर्जुहुयात् । एतद्वयं वक्तैव करणं नाडीसंधानं । ततस्त्रि
मधुराक्तं रक्तकरवीरैर्वा अन्येन वा अष्टोत्तरशतं नित्यहोमे । बन्धूक
कुसुमै भूपवस्याय । सर्पिलवणहोमाभ्यां कामिनी समाकर्षणाय ।
प्. १७०अ)
चन्दन पुष्पैः सौभाग्याय । मल्लिकाजाती पुन्नाग कदम्बैः पुष्पैराजकुसुमै
सर्वार्थ सिद्धै । दुर्वातिलाज्याहुतिरामुषे । क्षीराक्तैस्तगरैः कवित्वाय ।
चन्दनागुरुकर्पुरैः सर्वाभिष्टाय घृताक्तमालतीपुष्पै द्रुत कवित्वाय ।
पुरश्चरणविधौ तु ।
नीलोत्पलेनाखण्डाय बिल्वपत्रेण वा दशांमशंजुहूयात् । वहुरप्रकारस्तु
मूलमुच्चार्य ततः स्वाहा ।
प्. १७०ब्)
इदं देव्यै ततः पुनर्महाव्याह्रिति होमयेत् । यथा ।
ओं भूरग्नये पृथिव्यै महते स्वाहा । भुवो वायवे चान्तरिक्षाय च दिवे च
महते स्वहा । ओं स्वः आदित्याय चन्द्रमसे नक्षत्रेभ्यश्च वै स्वाहा ।
ओं भूर्भुवः स्व अग्नये चादित्याय चन्द्रमसे नक्षेत्रेभ्यञ्च महते स्वाहा ।
इति हुत्वा आर्ज्यपूर्णेन शुवेन श्रुवमापूज्य तत्राक्षत कुसुमा निःक्षिपेत् ।
तदुपरि अधोमुख शुव दत्वा उर्द्धं मूखेन मूलं नादान्तमूच्चार्य
वामपादपूरःसरं ।।
प्. १७१अ)
अविछिन्नधारया वौषडन्तेन पूर्णाहुतिं हुत्वा उपविश्य देवी
गंधादिभिराराध्य तदंत देवता गणं तदंमेव च ।
विलीनं ध्यात्वा पूर्ववत् विसर्जयेत् । शक्तश्चेत् संरक्षेत् ।
अथ हविष्यान्नविधि ।
मन्त्रान्ते स्वाहाकारमुच्चार्यद्वविर्न्निक्षिप्यान्ते इदममूकायेति सम्बन्धः ।
हविर्दानन्तुन्पून्जपानिना न कर्तव्यं । तदुक्तं त्रिपुरान्तहारे ।
चित्रहस्तेन यद्दानं हुयते च हुताशने ।
प्. १७१ब्)
दातु पुन्यफलं नास्ति होता च नरकं व्रजेत् ।।
इति श्रीमहाभैरवतन्त्रे ।
हविरूतान हस्तेन वैश्वानर मुखे हुतं ।
होतुश्चक्षुर्विनाशाय यजमानोपि नश्यति ।।
इति तारारहस्यवृत्तौ होमनिर्णयो नामः त्रयोदशः पटलः ।। १३ ।।
एवं निगदिता विद्या तारिणी सर्वसिद्धिदा ।
इदानीं शृणु वक्षामि वासनामात्मतामयीं ।।
व्योम्नो प्रकाशमानस्त्वं रसन्नायत्रमग्निना ।
तयोर्विष इकारोयं विदूना तन्त्रिका मता ।।
प्. १७२अ)
तकार सर्वपापघ्नो रेफस्तत्व प्रकाशकः ।
बिन्दूमानी महाबीजं शब्दराशेः प्रकाशकं ।।
चैतन्यरूप संसारभीषणं मुक्तिदायकं ।
फत्कार सर्वजाड्यानां नाशकं तत्प्रकाशकं ।।
एवं समस्तरूपेण केवला चित्कलापरा ।
सर्ववेदमयी साक्षाछब्दब्रह्मश्वरूपिणी ।।
आनन्दरूपिणी नीला आत्मानन्द प्रदायिणी ।
प्रणवो ब्रह्मरूपासा सोहं तत्व स्वरूपिणी ।।
प्. १७२ब्)
इति ते कथिता विद्या वासना भुक्तिमुक्ति ये ।
एवं यो वेत्ति शुद्धात्मा साधको गुरु शिक्षया ।।
स योगी स च विज्ञानी जीवं मुक्तः सदाशिवः ।
अथ मन्त्रसिद्ध्यर्थ मंत्र शिखामहारहस्यतन्त्रे ।
श्रीदेव्युवाच ।
भगवन् प्रसीद सर्वज्ञ सर्वप्राणि हितेरत ।
येनावश्य भवे सिद्धिः रूपाय वद शंकरः ।।
श्री ईश्वर उवाच ।
शृणु देवि परं ज्ञानं सर्व ज्ञानोत्तमोत्तमं ।
येन विज्ञातमात्रेण क्षिप्रं विद्या प्रसीदति ।।
प्. १७३अ)
मूलकल्पे तु या शक्तिर्भुजंगाकार रूपिणी ।
एतदर्भनावर्तन प्रण इत्युच्यते बुधैः ।।
झिल्लिवारच्य मधुरा क्रूजन्दी सततो स्थिता ।
गछन्ती ब्रह्मरंध्रे प्रविशन्ति स्वकेतन ।।
यातायातं क्रमेणैव तच्च कूर्यामनोमयं ।
तेन मन्त्र शिखाजाता सर्वसिद्धि प्रदीपिका ।।
तमः पुर्णे गृहे यस्तु यत्किञ्चित् प्रतिभाषते ।
शिखा हीनास्तथा मन्त्रा न सिद्ध्यंति कदाचन ।।
प्. १७३ब्)
शिखोपदेशः सर्वत्र गोपितः परमेश्वरः ।
वितानेन न सिद्धि स्यात् वर्षकोटी शतैरपि ।।
तस्मात् त्वयापि गिरिजे गोपितव्यं प्रयत्नतः ।
इति शिखा मन्त्रा । मन्त्रशिखा । अथान्तर्यागः । रुद्रयामले ।
अथान्तर्येजनं वक्षे दृष्ट्वा दृष्ट फलप्रदं ।
योगिणां यत्र जायन्ते अधिपाश्च नराः सदा ।।
गुरोध्यानं प्रकूर्वीत यत्नात् पूर्वं विशालधी ।
स्नानं बुधस्ततः कूर्य स्वम्विदानन्द सिद्धये ।।
प्. १७४अ)
तद्यथा शृङ्गात निलया कुण्डलिनी समुत्थाप्य कुल पंके रुहं परबिन्दूं
निङ्भिद्य तत्र द्रुत परामृत धारया मूल शृङ्गांतर्गतं तत्र निमज्जेत्
।
तदुक्तं यामले ।
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ।
बिन्दुतीर्थे नरः स्नायात् पुनर्जन्म न विद्यते ।।
इडासुषुम्ना शिवतीर्थकेस्मिन् ज्ञानाम्बु पूर्णा वहत शरीरे ।
ब्रह्मद्युति स्नाति तयोः सदायत् किन्तस्य गंगैरपि पुष्करैश्चः ।।
प्. १७४ब्)
अथ संध्या ।
मूलविद्यास्वरूपिणी तडित्कोटि प्रभां मृणालतन्तु निभां कुण्डलिनीं
कुलामृतरसभावेन संध्या कूर्यात् ।
तदुक्तं रुद्रयामले ।
शिवः शक्त्याः समायोगो यस्मिज्ञान प्रजायते ।
सा संध्या कुलनिष्टानां समाधिस्थैः प्रगीयते ।।
अथ तर्पण ।
मूलाधारात् सोमसूर्याग्नि रूपिणीं कुण्डलिनीं समुस्थाप्य परं
बिन्दूनिभिद्यतदभूता मृतेन देह देवतां तर्पयेत् पर देवतां ।
प्. १७५अ)
अथार्घ विधिः ।
बिन्दुस्थानमाधारनादस्थाने कलारूपपात्रं नादान्त
चन्द्रमण्डलामृताज्ञा चक्रशुद्ध्या शक्तितेजसा संपूज्य देह देवतां
तर्पयेत् । तर्पनैः तदुक्तं भैरवे ।
ब्रह्मद्वारा दधोभागे तच्चान्तं पात्रमुत्तमं ।
कामासारेण संपूज्य तर्पयन्तेन खेचरीं ।।
न्यासा यथा ।
षट्चक्रस्थिता मात्तृकाननी करं न्यासः ।
तदुक्तं रुद्रयामले ।
प्. १७५ब्)
आधारे लिंगनाभौ हृदय सरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे
द्विदश दशदले द्वादशार्द्ध चतुष्के ।
वासान्ते वालमध्ये उफ कठ सहिते कण्ठकूपे स्वराश्च हंसं तत्वार्थ
युक्ते सकल दलगतं कौलमार्ग प्रसिद्धिं ।
पाठ हक्षौ दडमध्येन्यस तु विमलधीर्षूद्धि संमन्ति वृद्यै ।
अथ षडंगानि गोतमीये ।
इड्यमाना हृदान्मानं हृदये स्यार्चिदात्मकंः ।
प्. १७६अ)
क्रिये तत्परत्वेन हृन्मयेन ततः परं ।
सर्वज्ञादि गुणोत्तुंगे सर्वे ह्रीं च परान्मनि ।।
क्रियति विषयाहारो शिरोमन्त्रेण देशिकः ।
हृछिरो रूपः चिद्धाम मयमाभावनादृढम् ।।
क्रियते निज देवस्य शिखामन्त्रेण देशकः ।
मन्त्रात्मकस्य देहस्य मन्त्रवाच्येन तेजसा ।।
सर्वतोवर्ममन्त्रेण क्रियते नान्यमन्वति ।
यङ्गतादि परज्ञानमन्विरूपे परात्मनि ।।
हृदयादि मयं तेजः स्यादै तत् नेत्र संज्ञितं ।
प्. १७६ब्)
अन्ध्यात्मिकादि रूपं यत् साधकस्य विनाशयेत् ।।
अविद्या जातमन्त्रस्य परं धाम समीरितं ।
अथ ध्यानं ।
तदूक्तं उदयाकरपद्धत्यां ।
शक्तिद्वय पुटान्तस्थ कमलद्वय संस्थितं ।
ज्योतिस्तत्वमय ध्यात्वा कुलाकुल वियोजनं ।।
शृङ्गाटद्वयमध्यस्थं शक्तिद्वय पुटी कृतं ।
सदासमरसन्ध्यानन्तत्कुलं योगिनी मयि ।।
पुनरुक्तं ।
किरणस्थं यदाग्निस्थञ्चन्द्र भास्कर मध्यगं ।
प्. १७७अ)
महाशून्ये लयं कृत्वा पुर्णस्तिष्टति योगिरात् ।।
निलालम्ब पदे शून्ये यत् तेज उपजायते ।
तद् गर्भमभ्यसेन्नित्यन्ध्यानमेवन्तु योगिणां ।।
अथ पूजा । यथा ।
अन्तर्मुखेन मनसा विषयादिकं सर्व परतेजसि समर्पणमिति पूजनं ।
तदुक्तं भैरव तन्त्रे ।
अर्चयं विषयैः पुष्पैस्तत्क्षणान्तत्मयो भवेत् ।
अन्यत्रापि ।
न्यासस्तत्मयता बुद्धिः सोहं भावेन पूजयेत् ।
प्. १७७ब्)
अथ जपौ यथा ।
सुषुम्नान्तर्गतं चिछक्ति रुपब्रह्मग्रन्थिसूत्र ग्रन्थितस्य
मेरुसमन्वितानुलोमविलोमेन कुण्डलिणीमुत्थाप्य जपेत् ।
तदुक्तं मातृकार्णवे ।
माला पञ्चासिका प्रोक्ता सुत्रं शक्ति शिवात्मकं ।
ग्रन्थितं कूण्डली शक्ति कलान्ते मेरु संस्थिताः ।।
अथ होमः ।
नाभिकूण्डे कुण्डलिनी विदग्नौ वासनेन्धने दीप्ते परामृत हविषु सुम्ना
श्रुवा ।
प्. १७८अ)
अक्षवृत्तीर्वक्षमाणमन्त्रेण जुहूयात् ।
मन्त्रो यथा ।
मूलमुच्चार्यनाभिमण्डलचैतन्यरूपाग्नौ मनसा श्रुवा ज्ञान प्रदीपके
निलमक्षरवृत्तीजुहोम्यहं ।
स्वाहा इत्येकाहुतिं दत्वा मूलमूच्चार्य ।
धर्माधर्म हवीर्द्विप्त रूपाग्नौ मनसा श्रुवा ।।
सुषुम्नावर्त्मना नित्यमक्षवृत्ति जुहोम्यहं ।
स्वाहा इति द्वितीयाहुतिः ।।
मूलमूचार्या ।
प्रकाशाकाशहस्ताभ्यां हवनं आत्मनो श्रुवा ।
धर्माधर्म फला स्नेहं पूर्णवह्नौ जुहोम्यहं स्वाहा ।।
प्. ७८ब्)
अन्तर्निरंतर निबन्धनमेधमाने मायान्धकारपरिपन्थिनि सम्विदग्नौ ।
आत्मप्रकाशन मरीचिकाशिभूमौ विश्वं जुहोमि वसुधादिशि वावसानमिति ।।
अथ योगः ।
तदुक्तं हंसपारमेस्वरतन्त्रे कथितं परमं ब्रह्मं योगं शृणु
वरानने आधारे तु गुदस्थाने पङ्कजञ्च चतुर्दलं ।
कर्णिकायां स्थिता योनिः कामाख्यायतमेश्वरी अपरोक्ष हि कंदर्प्यमाधारे
च त्रिकोणकं ।
प्. १७९अ)
स्वयंभुलिङ्गमध्ये तु पश्चिमाभिमुख प्रिये ।
तस्मात् तुद्व्यङ्गुलादूर्ध्वं अधो मध्यं तु द्व्यंगुलं ।।
एकाङ्गुलं तु तं मध्ये चतुरश्रन्त्रिकोणकं ।
तन्मध्य तु शिखि स्थानन् तप्तहाटकं संनिभं ।।
बन्धूक पुष्पसंकाश तडिल्लेखे च वीस्फुरत् ।
सप्ताच्चि रश्मि संयुक्तं कालाग्नि रुद्रगर्भकं ।।
आदिक्षकारपर्यन्तं कलादश समन्वितं ।
अयमग्निः समूद्दिष्ट सूर्यञ्च कथयामि ते ।।
प्. १७९ब्)
वस्ति देशे महाभागे मध्यमा मूलमाश्रिते ।
सिन्दूरसन्निभम्बीजं जवादाडिमसन्निभं ।।
रविस्तत्रैव जानीयात् कलाद्वादशसंयुतं ।
कलाद्याद्वादशबीजं युग्मयुग्मं सुरेश्वरि ।।
तन्मध्ये स पराद्धन्तु उद्यदादित्य सन्निभां ।
रजशक्तिर्महाभागे रविवायु स्थितं जगत् ।।
शिरोबिन्दुरिति ख्यातो मनश्चन्द्र प्रकीर्तितं ।
आदीबीजमुन्मनी च गगणश्च चतुर्विधः ।।
प्. १८०अ)
आदिबीज महाकाशं निजचन्द्रं मनो भवेत् ।
उन्मनी प्राणचन्द्रश्च मित्राचन्द्र विनाशिनी ।।
सर्वचन्द्रमयो योगी ध्यानं समभ्यसेत् ततः ।
ओंकारस्था शिखासुक्ष्मा आत्मैक्यां चिद्रुपां कला ।।
चिन्तयन्ती परावस्थां जिह्वास्तदशनन् दृढं ।
सूक्षया सह चात्मानमेकी भूतन्तु चिन्तयेत् ।।
हरवक्तस्यं संयोगात् सा शिखा वर्द्धयेत् प्रिये ।
ब्रह्मग्रन्थिं ततो भित्वा कुलीतं छिन्न मस्तयो ।।
प्. १८०ब्)
ब्रह्मरन्ध्रे सुषुम्नायाम्वायुर्विशतिमध्यमां ।
स्वाधिस्थानन्ततो भित्वा श्रवणं विशति द्वयं ।।
मनिपूरे नाभिदेशे ब्रह्मणः सदनन्प्रिये ।
दीप्तज्योतिर्मयं शुद्धं ततोभिन्द्यात् सदागतिः ।।
तदुर्द्ध्वं वैष्णवं स्थानं नीलोत्पलदलप्रभं ।
ब्रह्म ग्रन्थिं हृदिभित्वा काती द्वेत्रिगुणात्मकं ।।
दक्षकर्म ततो दत्वा तालुमूलं स्वरात्मकं ।
रुद्रालयं ततो भित्वा ललाटश्च महेश्वरी ।।
प्. १८१अ)
माहेश्वरी इन्दु कलां मेरौ निरोधिकारणम् ।
शंखिनीमानसं प्राप्यवास्थि शून्यविभर्तिसः ।।
अमृति यदि सर्गस्थं परमानन्द लक्षणं ।
सहश्रारमहापद्मं रक्तकिञ्जल्कशोभितं ।।
द्रुतरक्ताम्बुजे क्षाभं धारापात प्रवर्षणं ।
महासमुद्र मध्यस्थं नीलं क्षीरमयं प्रिये ।।
उर्द्धाधारे शृणुयत्प्रोक्तं । तन्मयोद्रनिरंजनं ।।
नित्यानन्दमयी देवीं ध्यायेत् तत्र समाहितः ।
सहश्रदल पद्माच्च पीयुषं प्रापयेत् प्रिये ।।
प्. १८१ब्)
पीत्वा पीत्वा पुनः पीत्वा मूलाधारे प्रवेशयेत् ।
पुनः कूलामृतं पीत्वा पुनरेव विशेत्कुलं ।।
देविस्थाने सहश्रारे प्राविशेदाकुलं प्रिये ।
द्वादशार्ण पुनर्भित्वा योनिमुद्रानिबंधनात् ।।
पीत्वा पुनर्मूलाधारे पिंगलया गुणद्वयं ।
वस्तिनादिकयोर्मध्ये उद्यानञ्च सुरेश्वरी ।।
जालंधरं तथा वक्त्रे गुडे च कामरूपकं ।
हृदिमध्ये पूर्णगिरिं श्रीहदृस्तालुकोपरि ।।
प्. १८२अ)
ग्रिवौ पूर्णं गिरीपीठं कल्पोद्यानं शिरस्थितं ।
येजेत्कल्पतरुं तस्मिन् साधकभिष्ट सिद्धिदं ।।
ध्याये लिपितरोर्नूले देवी तन्मय पंकजे ।
वदन्ति सुधियो वृक्षं नित्यवर्णमयं प्रिये ।।
सचिन्मय महाबीजं बिन्दुनाद महाशिवं ।
पृथिव्यक्षर शाखाभिः सर्वाशां सुविजंभितं ।।
सपासक्षर पात्रैश्च संछादित जगत्रयं ।
वह्नि वर्णाङ्कुलैर्दीप्तं रत्नैरिव सुरद्रुमः ।।
मरुतां तुलसत्पुष्पै द्योतयं तं पुरःश्रियां ।
आकाशार्ण फलैनेत्रं सर्वभूता श्रियंपरं ।।
प्. १८२ब्)
महामृताक्षमधुभिः सियं तं परमेश्वरीं ।
वेदागमादिभिः प्रोक्तं समुन्नति मनोहरं ।।
शिवशक्ति मयं साक्षात् छायाश्रित जगन्त्रयं ।
तन्मूले भावयद् देवी सर्वदेशरिरीणां ।।
एवं चिंतनमात्रेण किं न सिद्ध्यंति भूतले ।
तंत्रराजेपि ।
सामान्य योगप्रकरणं ।
मूर्द्धात विद्या मध्येस्थं सुधावर्य विधायकं ।
विभावयन्तिति ननुजपेदेकाग्र मानसः ।।
प्. १८३)
मण्डलात् कविता सिद्धिः सर्वभाषामपी भवेत् ।
वादादीषु च सर्वत्र देवतात्मा जयी भवेत् ।।
सकलजनी स्तोत्रे ।
आनन्दलक्षणमताहत नास्ति देशे नादात्मना परिगतं तव रूपमीडे ।
अन्तर्गतेन मनसा परिचीयमानंशंसंति नेत्र सलिलैः पुलकैश्च धन्याः ।
उपहासो न कर्तव्यो यथा शास्त्र समीरितं ।
विधेयमस्य मर्मज्ञैर्वीरावद्धो यमंजलिः ।।
प्. १८४)
लम्बोदरस्य पौत्रेण कमलकर सूनुना ।
अलेखि शंकरेणैषा वासनादि विनिर्णय ।।
इति श्रीशङ्कराचार्य विरचितायां तारारहस्यवृत्तौ तंत्रचूडामणौ
वासनानीर्णयो नाम पञ्चदशमः पटलः समाप्तम् ।। १५ ।।
शुभम् ।
सम्वत् १९५७ सालमिति । रोज । कृष्णाजी ।
समाप्तम् ।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
sphdzctafqhds7oqx7rj74uj11fow13