विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.17
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
सदस्यः:V(g)
2
25211
418111
418099
2026-08-28T21:39:45Z
EmausBot
3495
[[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया।
418111
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)]]
95d6euwz5uasoehai0z4cdinzeslj5p
प्रतिष्ठालक्षणसारसमुच्चयः
0
164245
418112
415930
2026-08-28T22:47:16Z
~2026-47053-62
10703
/* */
418112
wikitext
text/x-wiki
{{header
| title = प्रतिष्ठालक्षणसारसमुच्चयः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00065
Uniform title: pratiṣṭhālakṣaṇasārasamuccaya
Main title: pratiṣṭhālakṣaṇasārasamuccayaḥ
Description:
Notes:
Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski.
Revision 0: June 16, 2009
Publisher :
Publication year : Pre-1900
Publication city :
Publication country : India
----
श्रीः
नेपालराजकीय-
पुस्तकालयस्थहस्तलिखितप्राचीनपुस्तकानाम्
अन्यतमः
प्रतिष्ठालक्षणसारसमुच्चयः
तस्यायम्
एकादशाध्यायपर्यन्तः
प्रथमो भागः
पण्डितबुद्धिसागरशर्मणोऽध्यक्षतायां
वेदाचार्यदामोदरशर्मणा संपादितः
संपादकेन वेदान्तशास्त्रि पं बाबुकृष्णशर्मणा च
संशोधितः
नेपालराजकीयपुस्तकालयतः प्रकाशितः
श्रीः
अथ प्रतिष्ठालक्षणसारसमुच्चयः
प्रारभ्यते
==अथ प्रथम==
ओं नमस्तस्यै [ख्: ओं नमःशिवायेति नास्ति]
तत्त्वत्रयत्रिदहनत्रिगुणत्रिलिङ्ग [ग्: तनुत्रयेति]
कालत्रयत्रिभुवनत्रिसुरीशरीरम् ।
नेत्रत्रयत्रिपथगाहिपवित्रगोत्र
पुत्रीत्रिशूलभृतमीशमहं प्रणम्य ।। १ ।।
आगमेभ्यः समाकृष्य कुर्यां लक्षणसङ्ग्रहम् ।
ऋजुसक्षेपसंपूर्णं सर्वस्थापनसङ्कुलम् [ग्: सद्गुणमिति] ।। २ ।।
असंदिग्धं स्फुटार्थं च धर्मकामार्थमोक्षदम् ।
हिताय मन्दबुद्धीनां स्मरणाय मनीषिणाम् ।। ३ ।।
किञ्चित् क्वचित् स्फुटं चाङ्गं नैकस्मिन् सर्वमङ्गकम् [ख्: सर्वगात्रकम्] ।
बहुतन्त्राण्यतो वीक्ष्य क्रमेणैकत्र लिख्यते ।। ४ ।।
प्. २) सिद्धिलिङ्गाश्रितेवं शिवप्रोक्तं शिवागमे ।
तदा [मु. अ, क्: तन्त्रा] गमानुसारेण लिङ्गं वक्ष्यामि सांप्रतम् ।। ५ ।।
यतो जातमिदं सर्वं त्रैलोक्यं सचराचरम् ।
लीयते प्रलये यत्र तदिदं लिङ्गमुच्यते ।। ६ ।।
अरूपमप्रमाणं यत्तत्त्रिधा रूपमानतः ।
हीनादि [ख्: हीमादि] सिद्धयस्तस्माच्छिवपूजोपचारतः ।। ७ ।।
द्रव्यानुकल्पन त्यक्त्वा [क्, ख्, ग्: न्यस्त्वा] भक्त्या वाराध्य तत्सदा ।
सर्वज्ञं सर्वदं शुद्धं शिवतत्त्वं च मोक्षदम् ।। ८ ।।
मन्त्रैः शिवोदितैः सिद्धा मुख्या ब्रह्मादिलोकपाः ।
ऋषयो वसवो रुद्रा गणा यक्षा ग्रहोरगाः ।।
दैत्या रक्षांसि सिद्धाद्याः परैश्वर्यपदं गताः ।
अतो नरादिभिस्तत्तु लिङ्गरूपमुपास्यते ।। १० ।।
लिङ्गस्य दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
महाराज्यप्रदा पूजा ध्यानं मोक्षप्रदायकम् ।। ११ ।।
शतायुताश्वमेधानां यज्वनां यत्फलं [मु. अ, क्, ग्, घ्: यत्फलं लाभतो] भवेत् ।
तत्फलं द्विगुणं सम्यग् लिङ्गैकस्थापनापनाद्ध्रुवम् ।। १२ ।।
प्रासादे हेमरत्नाद्यैर्यत्पुण्यं [ख्: हेमरत्नाढ्ये प्रस्थितं] नृपतेर्भवेत् ।
तदेव तृणकुड्याद्यैर्दरिद्राणामशाठ्यतः ।। १३ ।।
प्. ३) देवासुरोरगैः स्थाप्ये नरूपं नैवलक्षणम् ।
लक्षणं लिङ्गधामादौ नरेभ्यो वक्ष्यतेऽधुना [ख्: सदा] ।। १४ ।।
तत्स्यात्त्रिधा यथासङ्ख्यमव्यक्तं व्यक्तमिश्रकम् ।
लिङ्गं च [घ्, ङ्: लिङ्गार्चा; ख्: लिङ्गस्य] मुखलिङ्गं च पुंस्त्रियौ च नपुंसकम् ।। १५ ।।
विपद्गृह [मू. अ, क्: विपट्टस्त; घ्, ङ्: वियट्वृत्त] हरो व्यापी सदा वह्निरिवेन्धनम् ।
सूर्याष्टाष्टास्रके [मू. अ: पुर्यष्टाष्टा; ग्: सूर्यच्छाया] विष्णुर्ब्रह्मा वेदास्रके विभुः ।। १६ ।।
एषामैक्यं त्रिभिर्योगाल्लिङ्गमव्यक्तकं भवेत् ।
(व्यक्तं [ख्: अयं चापचिन्हान्तर्गतः पाठः नाश्ति] मूर्धादिसंयुक्तं व्यक्ताव्यक्तं द्विरूपकम् ।। १७ ।।
पञ्चधा व्यक्तमावेद्यं व्यक्ताख्यं सप्तधा तथा ।
द्व्यात्मकं दशधा प्रोक्तं सर्वं द्वेधा चलाचलम् ।। १८ ।।)
अव्यक्तं मोक्षदं नूनं व्यक्तं भुक्तिप्रदायकम् ।
भुक्तिमुक्तिप्रदं मिश्रमित्येतद्रूपतो भवेत् ।। १९ ।।
लिङ्गं यदात्मकं कार्यं तन्मानं चैव याद्दशम् ।
शीघ्रं सिद्धिकरं यच्च काम्याकाम्याय यद्भवेत् ।। २० ।।
तद्द्रव्याणां परीक्षा च आचार्यस्य च लक्षणम् ।
कारुका मूर्तिपाश्चैव वनयात्रादिकं यथा ।। २१ ।।
नगा नगाधिपा ये च नद्यो या ये द्रुमादयः ।
पुण्यस्थानविभागश्च वास्तुग्रहणमर्चनम् ।। २२ ।।
प्. ४) यथा पुरस्तथाद्वारयोगाहृ [ग्: द्वारे येनोक्त] त्कलशोऽध्वरः ।
शिवो लिङ्गविधिर्यागो ध्वजपर्यन्तकं तथा ।। २३ ।।
पञ्चस्थापनसंयुक्तः प्रासादश्चैव तादृशः ।
यतीनामाश्रयो यादृक् प्रतिष्ठा पञ्चधा च या ।। २४ ।।
ऋतुनक्षत्रयोगश्च [मू. अ: योश्वैव] वारलग्नाधिवासनम् ।
स्थापने यश्च संभार इत्याद्यखिलमुच्यते ।। २५ ।।
कुर्याल्लिङ्गान्ययोरत्नमृत्काष्ठोपलचित्रकैः [मू. अ, क्: -सिद्धा-] ।
क्षुद्रकामाय लोहोत्थं रत्नजं बहुसिद्धिदम् ।। २६ ।।
मृन्मयं सर्वकामार्थं दारुजं त्वाशुसिद्धिदम् [मू, अ, क्: वा सुसिद्धिदम्] ।
खाधारेण व्यवस्थाप्यं नश्वरं धातुदारुजम् [मू. अ, क्, ङ्: नश्वरत्वात्तु दारुजम्] ।। २७ ।।
भोगमोक्षप्रदं शैलं तच्च वेश्मनि रोगदम् ।
लिङ्गं च द्विविधं ज्ञेयं [मू. अ, क्: प्रोक्तं] चलं चैवाचलं तथा ।। २८ ।।
चलं वैरत्नजं प्रोक्तं धातुजं च चलाचलम् ।
स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् ।। २९ ।।
प्रजावृद्धिकरं ताम्रं वाङ्गमायुः प्रवर्धनम् [ख्, ग्: राङ्गमायुष्य वर्धनम्] ।
विद्वेषकारकं कांस्यं रीतिजं शत्रुवालनम् ।। ३० ।।
रोगदं सैसकं शत्रोरायसं रिपुनाशनम् ।
अष्टलोहमयं लिङ्गं कुष्ठरोगक्षयावहम् ।। ३१ ।।
प्. ५) त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ।
सिक्थं कृत्वा मृदा लिप्त्वा तप्त्वोद्वास्य च कारुकः ।। ३२ ।।
विकारार्कदिशा रन्ध्रवृद्ध्या सिक्थान्प्रपूरयेत् ।
हेमाहिभ्यां क्रमातारताम्रवङ्गारघोषकैः ।। ३३ ।।
धूस्तूरस्य [मू, अ, क्: धूत्यूरस्य; ग्: धूत्तूरस्य] रसैर्घृष्ट्व रसं हेम तदङ्घ्रिमत् ।
काष्ठं क्षिप्त्वा दृढं तत्तु शिलाघृष्टं सवालुकम् ।। ३४ ।।
जम्बीररससामुद्रपिष्टं तत्पिष्टकं भवेत् ।
तया लवणपूराम्बु [मू. तयालबाल पूराढ्यं] युक्तया लेपयेद्बुधः ।। ३५ ।।
कराङ्गुष्ठेन संप्रेर्याकोट्य कोष्ठिकया ततः [ङ्: कट्येकोष्ठिकयोस्तयोः] ।
बालकुञ्चिकया [मू. -काल] साम्यं नयेत्तत्क्रमशः शनैः ।। ३६ ।।
भूयो भूयोऽग्निसन्तापात्त्रिधालिङ्गं रसोज्झितम् ।
ततोऽनुमा [ख्: ततोऽन्तर्मा] र्जयेद्यत्नान्मणिना [घ्: ये द्रूक्षा] मदनाम्बुभिः ।। ३७ ।।
पुनर्वह्निस्थमाकृष्य लिङ्गं त्रिविधरूपकम् ।
रसये [मू.: वासयेत्] त्ताम्रजं शिल्पी हाटकेन सुचारूणा ।। ३८ ।।
दाहे [ख्: बाह्ये] रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ।
गुरु स्निग्धं मृदुस्पर्शे [ङ्: मृदुं पक्वे] षड्विधं हेमशोभनम् ।। ३९ ।।
प्. ६) लोहजं पार्थिवं चैव कुर्यान्मन्त्रैर्विधानतः ।
धातूद्भवं समाख्यातं रत्नजादि [मू. अ, क्: रत्नजापि] वदाम्यतः ।। ४० ।।
आयुष्यं हीरजं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् [ख्: मौक्तिकं भवेत् ] ।
सुखकृत्पुष्परागोत्थं वैदूर्यं शत्रुदर्पहृत् ।। ४१ ।।
पद्मरागं च लक्ष्मीदमैन्द्र नीलं यशः प्रदम् ।
लिङ्गं मारकतं पुष्ट्यै स्फटिकं सर्वकामदम् ।। ४२ ।।
महारत्नोत्थलिङ्गानि क्षुद्ररत्नोद्भवान्यतः ।
वैद्रुमं वश्यकमार्थं [ग्: वध्यकर्मार्थं] कार्केतनममित्रहृत् ।। ४३ ।।
पुलकोत्थं तु विद्याकृद्राजावर्तमरातिहृत् ।
बलदं जीवजातीजं टैट्टिभं शत्रुमर्दनम् ।। ४४ ।।
विद्वेषकारकं शौक्तं [घ्: तौत्थं] शाङ्खं सौख्यप्रदायकम् ।
इति प्रस्थानलिङ्गानि शुद्धिमानान्यतः परम् ।। ४५ ।।
द्विविधं रत्नजं लिङ्गं निर्मितं चाप्यनिर्मितम् ।
कारुकै [ख्: कारुभिः; मू. अ, क्: दारुभि] र्घटितं यच्च तल्लिङ्गं निर्मितं स्मृतम् ।। ४६ ।।
स्वभावोत्थं विशुद्धं यद्रत्नजं चाप्यनिर्मितम् ।
तत्पूज्यं राजभिर्यत्नाद्भुक्तिमुक्त्यर्थिभिः सदा ।। ४७ ।।
त्यजेद्बिन्द्वन्वितं रौद्रं शूलाग्रं [मू.: शूलाभ्रं] चिपिटं कृशम् ।
ऊर्ध्वाधोवदनं दीर्घमधः स्थूलं च निष्प्रभम् ।। ४८ ।।
प्. ७) मिश्रवर्णं तथाव्यङ्गं खण्डं देवोपभुक्तकम् ।
छिद्रं [ग्: स्थिरं] च स्फुटितं त्रस्तं [मू. अ, क्, ख्: भ्रस्तं] शल्यान्वितं [ग्, ङ्: शूलान्वितं] सुरोज्झितम् ।। ४९ ।।
तिर्यक् चाधःकृतं यत्तु हीनं मध्ये विवर्जयेत् ।
राष्ट्रगोत्रजनग्राम [ङ्: कुलग्राम] धनमित्रसुतानपि [मू, अ, ग्: युतानपि] ।। ५० ।।
शस्य यानाबलाबन्धुभृत्यान्निघ्नन्ति तानि च ।
रोगं पराजयोद्वेगं [ङ्: पराक्रमोद्वेगं] जनद्वेषं कलिं तथा ।। ५१ ।।
प्रवासं दुःख दारिद्र्यं मृत्युं दद्यात्क्रमाद्भृशम् ।
तत्स्याद्दोषैर्विनिर्मुक्तं दृढं स्निग्धं प्रभान्वितम् ।। ५२ ।।
अङ्गाद्यङ्गुल [घ्: मुद्गाद्यङ्गुल; मू, अ, क्: मुङ्गामुङ्गल; ङ्: मुद्राद्यङ्गुल] पर्यन्तं शास्त्रज्ञैः सुपरी क्षतम् ।
महारत्नं महामूल्यं गुणयुक्तं यजेत्सदा ।। ५३ ।।
तस्थार्चनाज्जयः शान्तिरारोग्यं विपुलाः श्रियः ।
सुप्रतापो [ख्: संप्रतापो] यशश्चायुर्भवेयुर्नृपतेश्चिरम् ।। ५४ ।।
महारत्नान्महासिद्धिः क्षुद्रात्क्षुद्रा प्रजायते ।
नीलं पीतं सितं चापि शस्तं रत्नमनिर्मितम् ।। ५५ ।।
जलेशवातविष्ण्विन्द्राग्न्यन्तका वज्रदेवताः ।
शङ्खस्फटिकसंकाशं जवारम्भादलद्युति ।। ५६ ।।
हरिद्रारसतुल्यं च शशबभ्ब्र?क्षिसन्निभम् ।
धौतास्याभो द्विजातीनां नृपार्हौ [नृपादौ, लि. पु. पा] पीतरक्तकौ ।। ५७ ।।
प्. ८) वैश्ये हरितपीतौ च धूसरं तु चतुर्थके ।
शूलं चाधोर्ध्वतो यस्य वज्रं स्यात्तच्छिवात्मकम् ।
तल्लिङ्गमायुषो वृद्धयै सर्वरोगविनाशकम् ।। ५८ ।।
सितं रक्तं क्रमात्पीतं कृष्णं च स्फटिकं शुभम् ।
शक्राग्नि(ग्नी) चसमित्रोये [घ्: शक्राग्निचलमित्रोत्थ; ङ्: शक्राग्नीन्द्रसमित्राये] चतुर्धा तत्क्वचिन्मतम् ।। ५९ ।।
निस्तरङ्गं गुणोपेतं तेजोवत्पाण्डुनिर्मलम् ।
शरदम्बुनिभं स्वच्छं स्निग्धं च स्फाटिकं हितम् ।। ६० ।।
चित्रं बिन्द्वन्वितं रूक्षं स्फुटितं भिन्नवर्णकम् ।
सगर्भमूर्मिसंयुक्तं ज्योतिर्मुक्तघनं [मुक्तं पुनः, इति पाठान्तर] त्यजेत् ।। ६१ ।।
सव्रणं कीलकोपेत शूलाग्रं चक्रवर्जितम् [मू, अ, क्: वक्त्रवर्जितम्] ।
स्थूलं दीर्घ कुशं ह्रस्वं मध्याद्यन्तेषु वा कृशम् [मू.: चाकृशम्] ।। ६२ ।।
तुषाराकृतिबिन्द्वाढ्यं कलिकाभिः [ख्: कणिकाभिः; ग्: कर्णिकाभिः] सुपूरितम् ।
अन्यजातिविलग्नं च विद्धं भीतिकरं त्यजेत् ।। ६३ ।।
सुषमं मानसंयुक्तं शास्त्रलक्षणलक्षितम् ।
स्फाटिकं लिङ्गमिष्टार्थं मृत्युजित्कामदं यजेत् ।। ६४ ।।
सर्वलक्षणसंयुक्तं स्वल्पदोषं क्वचित्स्मृतम् [ङ्: क्वचिन्मतम्] ।
लिङ्गं सदाग्निहोत्राभं पूज्य नो दोषकृन्नृणाम् ।। ६५ ।।
प्. ९) चारुच्छत्रे भवेद्राज्यं मृदुलं [ख्: मृत्युत्वं; ग्: मृदुत्वं ; घ्: पृथुत्वं; ङ्: मृद्बद्धं] मूर्ध्नि [ग्: मूर्तिः] वै मनाक् ।
सदा निम्नेन सिद्धिः स्यादुच्चे तूच्चा समे समा ।। ६६ ।।
तत्र [मू. अ, क्, ङ्: भद्र] सर्वसमं श्रेष्ठं यवमध्यं वरप्रदम् ।
रत्नलिङ्गं द्विधाख्यातं स्वपीठं धातुपीठजम् [मू, अ: सूपीठं धातुपीठकम्] ।। ६७ ।।
धातुजं तु स्वयोनिस्थं [ग्: तत्त्वयोनित्थं] सिद्धिमुक्तिप्रदायकम् ।
चललिङ्गं द्विधाकार्यं धातुरत्नमयं शुभम् ।। ६८ ।।
हेमादिचललिङ्गं स्यादङ्गुलादित्रिपञ्चकम् ।
क्षुद्ररत्नोत्थमप्येवं स्वमाना [ग्: प्रमाणा] द्वररत्नजम् ।। ६९ ।।
तिथ्यन्तमग्रजातीनां नृपाणां यावदिन्द्रकम् ।
वैश्यानां मन्मथान्तं स्याच्छूद्राणां द्वादशावधिः [ख्: खगगावपि; घ्: शाङ्कगजावधि] ।। ७० ।।
यक्षादीनां क्वचिल्लिङ्गं विकारादेकविंशतिः ।
चलं तदूर्ध्वं देवानां त्रयोविंशतिकाङ्गुलम् ।। ७१ ।।
वेश्मस्थ पूजयेदतत्संसूच्यने स्थिराण्यतः ।
अचलं खद्रूभस्थायि करादनवसामकम् [मू, अ, क्, ख्: सीसकम्] ।। ७२ ।।
अव्यक्तं नवहस्तान्तं व्यक्तं पञ्चगुणं तथा ।
सड्ढतं मिश्रकं लिङ्गं नोर्ध्वं च स्थिरमिष्यते ।। ७३ ।।
नवहस्तं भवेच्छैलं त्रिहस्तं लोहजं क्वचित् ।
षड्ढस्तान्नाधिकं वार्क्षं पार्थिवं शैलवत्सदा ।। ७४ ।।
प्. १०) आहस्तान्नवहस्तं स्यादेतल्लिङ्गं तु मानुषम् ।
यक्षरक्षोऽसुरव्याल गन्धर्वाप्सरसां क्वचित् ।। ७५ ।।
किन्नराणां च सिद्धानां हस्तात्पञ्चदशैव तु ।
परिणाहोच्छ्रयाभ्यां च देवानामेकविंशतिः ।। ७६ ।।
ऐहिकं त्र्यङ्गुलं यावन्नोर्ध्वं गन्धभवादिकम् ।
पञ्चाङ्गुलंतु पैष्ट्याद्यं फलजं स्वप्रमाणतः ।। ७७ ।।
गान्ध सौभाग्यदं लिङ्गं पैष्ट भुक्तिप्रदायकम् ।
स्थण्डिले मण्डले पूज्य स्याद्दीक्षास्थापनादिके [ख्: -नान्हिके; घ्: -नान्तिके] ।। ७८ ।।
एकाब्दा [मू, अ.: एकाङ्गा] न्यैहिकान्यत्र प्रोच्यन्ते सिद्धिमिच्छताम् ।
प्रभुमानप्रदं शाङ्खं [ख्: शार्ङ्गं] सैन्यच्छिन्नागदन्तजम् ।। ७९ ।।
कूर्मकसिक [ग्: कूर्मकामीक] संजातं नृणां [घ्: नूनं] पातालसिद्धिदम् ।
अणिमादिनृकुल्योत्थमन्योन्यब्दार्धतः [मू: न्यच्छर्द्धतः] सदा ।। ८० ।।
पैष्टान्यष्टप्रकाराणि सङ्ग्रीकृष्णक [ख्: सद्ध्रिकृष्टक; ग्, ङ्: संबद्धकृष्टक] जानि तु ।
शालिपिष्टोद्भवं पुष्ट्यै षाष्टिकं पुष्टिवर्धनम् [मू,: बुद्धिवर्धनम्] ।। ८१ ।।
गौधूमं वातरोगघ्नं यवजं बलसौख्यदम् ।
रिपुभेदकरं मौद्गं स्त्रीदं श्यामाकसम्भवम् ।। ८२ ।।
तिलपिष्टं धरादायी नीवारं [मू, अ, क्, ग्: सैद्धार्थ] भयनाशनम् ।
सुखकृन्नावनीतं तु गोमयं रोगनाशनम् ।। ८३ ।।
प्. ११) आन्नमायुःप्रदं ज्ञेयं गौडं प्रीतिप्रवर्धनम् ।
नानाफलोद्भवं [ख्: लोहभवं] लिङ्गं नानाकामप्रदायकम् ।। ८४ ।।
गुणदं सैकतं भूरि स्यात्सौभाग्याय लावणम् ।
उच्चाटने तु पांशव्यं मौलं [ङ्: मार्षं] शत्रुक्षयावहम् ।। ८५ ।।
वंशाङ्कुरसमुद्भूतं वंशवृद्धिकरं भवेत् ।
पुरक्षोभकरं पौरं [मू, अ, क्, ख्, ग्: घोरं] रामठं चौग्र्यकारकम् ।। ८६ ।।
शत्रुमृत्युप्रदं सार्जं सैक्थ [ख्: सित्थं; ग्: सन्ध्यं] माकर्षणे मतम् ।
मृद्बिम्बोद्भवमिष्टार्थं लेपात्स्युः सर्वसंपदः ।। ८७ ।।
गन्धादिबिम्बजान्तानि न स्थिराणि चलानि नो ।
तावत्काल तु [ग्: तारकोऽनन्त] संपूय विसृज्य तानि [ख्: विसर्ज्यैतानि] के क्षिपेत् ।। ८८ ।।
पिष्टां गोशर्करां सूक्ष्मां [घ्: शुक्लां] पक्वचिञ्चास्थियोजिताम् ।
निष्क्वाथ्य [मू: निष्काठ्य; घ्: निष्कास्य; ङ्: निष्काम] पटमालेप्य संशोष्य [ग्: संसोध्य] पारिमार्ज्य च ।। ८९ ।।
खटिकालक्तकाकुष्टनीलीदरदकज्जलैः ।
धातुबिल्वरसैर्लेख्यं त्रिधा लिङ्गं पटादिके ।। ९० ।।
मधुरा [ख्: मयूरा] चित्रलेखा च कार्या वै समसन्धिका ।
बलसंवर्तनीच्छाया दृष्टि [क्, ग्, ङ्: सृष्टि] भावाश्रिता सदा ।। ९१ ।।
प्. १२) शृङ्गारवीरबीभत्सरौद्रहास्यभयानकाः ।
करुणाद्भुतशान्ताश्च नवभावात्मिकाः क्वचित् ।। ९२ ।।
पटजा वित्रजा रक्ता [क्, ग्, घ्, ङ्; तज्ञा] सम्यङ्मन्त्रविधानतः ।
स्वेच्छया पूजयेदेतन्मृन्मयान्युच्यते [मू, अ: द्युच्यते; ख्: मयो ह्युच्यते] ऽधुना ।। ९३ ।।
अपक्वं पक्वजं [क्, ङ्: अपङ्कं पङ्कजं] कार्यं मुख्यामुख्यव्यवस्थया ।
सद्योमन्त्रेण चापक्वं [ङ्: चापङ्कं] क्रमान्नवकरादिकम् ।। ९४ ।।
पक्वं [ङ्: पङ्कं; ख्: पक्षं] त्रिहस्तकं कुर्यात् घोरमन्त्रान्वितं [ख्: -र्चितं] वरम् ।
द्विजादिजातिभिर्मृद्भिरव्यक्तादि च कामतः ।। ९५ ।।
पद्मिनीषु नदीतीरे वृक्षमूले च मृत्तिकाः ।
वापीकूपतडागेषु दीर्घिकायाः समाहरेत् ।। ९६ ।।
सुमर्दितमृदा कार्यं पक्वं मृत्संभवं सदा ।
पुष्ट्यै त्रिलोहगर्भं च धनकोषविवृद्धये ।। ९७ ।।
शुच्युपलांश्च [मू: शुच्युत्पलां; ख्: भुव्युत्पलां] संगृह्य सद्योजातेन मन्त्रवित् ।
वामाख्येन चितां कृत्वा [ङ्: धृत्वा] घोरेण परिदाह्य च ।। ९८ ।।
लिङ्गं शिवाग्निनामृज्य [मू., अ: मृद्य] पुरुषेणावलोक्य च ।
ईशानेन गृहीत्वा तु ततः संस्कृत्य पूजयेत् ।। ९९ ।।
प्. १३) पञ्चत्वङ्निम्ब [मू: त्वग्नींश्च] पानीयं बिल्वमज्जा [मू, अ: सर्ज] फलत्रयम् ।
सर्जहिङ्गुपुरंबोल [पुरः - गुग्गुलुः । पुरो गुग्गुलुराख्यातो इति धरणि । बोलः - गन्धरसः, बोलगन्धरसप्राणः; इत्यमरः] मतसीतैलमेव च ।। १०० ।।
सन [सनः = घण्टापारुलिवृक्षे । हस्किर्णेति बृहद्वाचस्पत्यम्] श्रीबालगोधूमयवमाषातसीरजः ।
मृदि क्षिप्त्वा व्यवस्थाप्य मासं तां परिमृद्य च ।। १०१ ।।
अस्थिबन्धं [मू., अ, क्, ख्, घ्: अस्थिरत्व] दृढं चादौ दृढलोहेन दारुणा ।
शणतत्वन्वितं [क्: तत्सूत्रितं] कत्वा मृन्मयं घटयेच्छुभम् ।। १०२ ।।
क्षिप्त्वा धात्वौषधीरत्नलोहब्रीहीन् यथाक्रमम् ।
इत्येतेषामभावे तु रसेन्द्रं वज्रसंयुतम् ।। १०३ ।।
सुपुष्टैः [ङ्: अधुष्टैः] कर्करैः क्षीरदधिबालगुडान्वितैः ।
गव्यसर्जयुतैश्चैव लेप्यं वर्णकपुष्टये ।। १०४ ।।
वनानु [क्: वनान्ध] काननं गच्छेद्दारूपलगहीतये ।
सद्वारर्क्षर्तुयुक्तेन्हि चारुलग्नसमन्विते ।। १०५ ।।
तदा गमनकाले तु शकुना [ख्: कुशला] न्यथ लक्षयेत् ।
दिव्यान्तरिक्षभौमानि शुभाशुभफलाप्तये ।। १०६ ।।
सुप्रसन्नमरुवर्त्मसादित्याम्भक्षणप्रभम् ।
इत्यादि शुभकृद्दिव्यमतोऽशुभकरं त्विदम् ।। १०७ ।।
उल्कापातोऽशनिस्तारापतनं केतुसम्भवः ।
दिग्दाहस्तीव्रवातश्च चन्द्रसूर्योपमर्दनम् [मू, अ, ख: पसर्जनम्] ।। १०८ ।।
प्. १४) अकस्माद्गगने शब्दः प्रच्युतिः फलपुष्पयोः ।
वासवृक्षाग्रसंस्थायि [ङ्: श्रमस्थायि] बलिभुङ्मधुरारुतिः ।। १०९ ।।
पक्षिमण्डलिको तददान्तरिक्षमिदं शुभम् ।
पांश्वसृग्वर्षणं घोरमान्तरिक्षमशोभनम् ।। ११० ।।
पार्थिवान्यधुना वक्ष्ये निमित्तानि शुभानि तु ।
दध्यक्षतयवा [मू, अ: दध्युद्धृतधरा] दूर्वा दीपो गोरोचना ध्वजः ।। १११ ।।
शङ्खश्छत्रं फलं पुष्पं हेमधान्याब्जसारसाः ।
गोवृषश्च खरो वाजी भस्माक्षो भूपतिर्द्विपः ।। ११२ ।।
पण्यस्त्रीमत्स्यमांसादि दर्शनादेव शोभनम् ।
शिवः शिवोदकुंभस्थः कौशिको वामतः शुभः ।। ११३ ।।
सव्यत [मू. अ, घ्: सव्यतः = दक्षिणतः सव्यं तु दक्षिणे इति हैमः । सव्यं वामे च दक्षिणे इत्यजयः । सवतः] स्त्वशुभं विद्धि रिक्तकुंभादिदर्शनम् ।
मुक्तकेशः पराक्षेपः क्षारोऽङ्गारश्च दारु च ।। ११४ ।।
स्नेहाभ्यक्तो नरः सर्पः क्षपणः [घ्: पक्वणः] शाक्यदण्डिनौ [ग्: कृपणः शाठ्यदम्भिनौ] ।
छिन्नाङ्गोऽलोचनो रोगी कपाली भूप्रकम्पनः ।। ११५ ।।
तुषगोमयकर्पासतैलतक्रतृणानि च ।
क्षुत्क्षामोन्मत्तकौ तन्तुश्चौषधीषणसञ्चयः [ग्: पञ्चमः] ।। ११६ ।।
शुभैर्गमनमिच्छन्ति त्वशुभैश्च निवर्तनम् ।
पक्षार्धार्धं तु संत्यज्य प्रस्थानं क्रियते शुभे ।। ११७ ।।
प्. १५) कृत्तिकादिभरण्यन्तं प्राच्यादौ सप्तसप्तकम् ।
वेदसे स्याद्विते [घ्: युगास्रौ स्याद्धितैः] याता त्वग्निदण्डानतिक्रमात् ।। ११८ ।।
शङ्खभेरीरवैस्तूर्यैर्माङ्गल्यैर्वैदिकैः स्वनैः ।
इष्टादौ [ख्: इन्द्रादौ] शङ्करं शस्तं प्रागीशेन्दुवनं [मू, अ, क्,: शेन्द्रवनं] व्रजेत् ।। ११९ ।।
माघादिमासषट्के च न रिक्तायां तिथौ सिते ।
बुधार्केन्दुसिते जीवे वार्क्षे प्रागुत्तरस्थिते [घ्: स्थिरे] ।। १२० ।।
योगेषु शुभसंज्ञषु करणे विष्टिवर्जिते ।
एकान्तरासु [क्: एकाकरासु] तारासु शेषे चानिष्टकर्मणि ।। १२१ ।।
मेरुच मन्दरः श्वेतो हिमाख्यो हेमकूटकः ।
निषधो नीलगन्धाख्यः शङ्गीकेतुर्नगाधिपाः ।। १२२ ।।
महेन्द्रः पारियात्रश्च हरिश्चन्द्रोऽथ शुक्तिमान् ।
नन्दाख्यो मलयो विन्ध्य उज्जयन्तोऽथ [क्: उर्जयन्त] ऋक्षकः [ग्: ऋष्यकः] ।। १२३ ।।
श्रीशैलाख्यस्तथा सह्यो विख्याताः कुलभूधराः ।
योजनानि दशैतेषां गिरीणां निकटे वनम् ।। १२४ ।।
तत्प्रसूत [ग्: तत्वमूल] नदीतीरे भवेदुपवनं सदा ।
एतत्क्षेत्रोत्थिता ये तु पाषाणास्तरवः शुभाः ।। १२५ ।।
स्वयमेव व्रजेत्कर्ता तद्धितोऽन्योऽपि वा जनः ।
साचार्यः साधकः शिल्पिजनैः परिवतः शुभैः ।। १२६ ।।
प्. १६) चरुं भुक्त्वा दधिप्राश्य नत्वा पूर्णघटं तथा ।
ध्यात्वाधः प्राकृतं तत्त्वं शिवतत्त्वमयीं महीम् ।। १२७ ।।
विद्याराज्ञीं ततो ध्यायेदग्रतोऽर्घकरां स्थिताम् ।
दिशो विरेच्य चास्त्रेण विघ्ननाशाय दैशिकः ।। १२८ ।।
सम्यग्विहितसम्भारो ध्यायमानस्त्रिलोचनम् ।
मन्त्ररक्षाविधि कृत्वा संजप [ख्: संयजन्] न्निष्टदेवताम् ।। १२९ ।।
इति लक्षणसमुच्चये लिङ्गद्रव्यनिर्णयवनप्रवेशो नाम प्रथमोविधिः ।। १ ।।
==अथ द्वितीयः==
कर्तुश्च देशिकस्यापि शिल्पिनां मूर्तिधारिणाम् ।
स्वरूपं कथ्यते सम्यगिष्टानिष्ट च कर्मणि ।। १ ।।
ऋजुराढ्यः सुभक्तश्च शान्तात्मादृष्टभीरुकः ।
धीरः शास्त्रार्थकारी च कर्ता यः सात्विको वरः ।। २ ।।
दीनः [क्: पीनः; ख्: वन] शठः कुधर्मश्च व्यसनी राजसो मतः ।
नास्तिकस्तार्किकः क्रूरः कर्ता यस्तामसोऽधमः ।। ३ ।।
ईशसंचोदिताबुद्धिः शिवसंस्थापने भवेत् ।
तस्मात्ते गुरवोऽन्वेष्या ये तच्छास्त्रेषु भाषिताः [ग्: प्रेषिताः] ।। ४ ।।
औज्जन्या माध्यदेशाश्च कौरूषकाश्च [घ्: कौरुक्षेत्राश्च] लाटजाः ।
अन्तर्वेदीप्रतिष्ठानश्रावस्त्या [मू, अ: चारप्त्या; ग्: चारक्ष्या; क्: चावन्त्या] गुरवो वराः ।। ५ ।।
राढा वारेन्द्रकास्तैरा गौजरा मागधास्तथा ।
आङ्गा जाटोद्भवाश्चेति [ख्: आर्यजातो] सप्तैते मध्यमाः स्मृताः ।। ६ ।।
प्. १८) आन्ध्राः कालिङ्गकार्णाटा माहाराष्ट्राश्च ढक्कजाः ।
वीरजा द्राविडापौण्ड्रास्त्वष्टैतेगुरवोऽधमाः [घ्: -त्वष्टौ ते-] ।। ७ ।।
कामरूपाश्च चम्पाका [क्: चाम्पाका; ख्: लंपाका; ग्: पन्याका] नेपालोत्थाश्च सैन्धवाः ।
वाङ्गगान्धारपौलिङ्गा एते सप्तान्त्यजा मताः ।। ८ ।।
काञ्चिकाः [ग्: काथिकाः; घ्: कारका] कौसलाः काच्छाः कावेराःकौङ्कणोड्रजाः ।
सौराष्ट्रा देवराष्ट्राश्च अष्टैते [क्, ख्, ग्, घ्: अष्टौ] निन्दिता भृशम् ।। ९ ।।
अशेषकामदाः श्रेष्ठा मध्यमा भूतिदायिनः ।
अधमाद्याः शुभे नेष्टा आर्यावर्ते हि [ख्: न] दोषदाः ।। १० ।।
सिन्धोश्च करतोयाया हिमवद्विन्ध्ययोरपि ।
यो देशो मध्यभागः स्यादार्यावर्तः स कीर्तितः ।। ११ ।।
चतुष्पदास्त्रिबोधाश्च षट्पदाध्वविभूषिताः ।
गोत्रगोचरसंयुक्ताः समयाद्युक्तलक्षणाः ।। १२ ।।
चत्वारो गोत्राः गायत्री सावित्री सरस्वती मनोन्मनीति ।
चत्वारो गोचराः शिवः; शिखः विमलज्योतिः; सावित्रश्चेति [सावित्राश्चेति चत्वारो गोचराः; इति लिखितपुस्तकेषु पाठः] ।।
ऋचीकात्रेयदौर्वासगौतमा इति अन्तरे [ख्: चत्वार] ।
दीक्षागुणेनसंपूर्णां [मू, अ, क्, ङ्: दीक्षास्थापनसंयुक्तां] ये जानन्त्यथ संहिताम् ।। १३ ।।
प्. १९) आचार्यास्ते तु विज्ञेया अन्यथा लोकदाम्भिकाः ।
भार्यावर्तोद्भवाः शैवाः सर्वलक्षणलक्षिताः ।। १४ ।।
विनीता भक्तियुक्ताश्च लिङ्गज्ञाः शास्त्रवेदकाः ।
पीठधामादिकुण्डज्ञाः प्रतिष्ठास्थानवेदकाः ।। १५ ।।
वारतारादिकालज्ञा अधिदेवप्रवेदकाः ।
लोभमोहपरित्यक्ताः शान्ता दान्ता विमत्सराः ।। १६ ।।
नियमव्रतसंपन्ना दयादाक्षिण्यसंयुताः ।
सात्विका निपुणा दक्षाः पञ्चश्रौतार्थवेदकाः [क्: -तत्त्वार्थ-] ।। १७ ।।
तत्त्वस्थाश्छिन्नसंदेहाः समयाचारपालकाः ।
दृढव्रताजनद्रोहिसत्यवाग्भूतवत्सलाः [ग्: वाग्घतवासनाः] ।। १८ ।।
आज्ञाभिषेकसंपन्नाः षट्सु कर्मसु तत्पराः ।
दीक्षिताः शिवशास्त्रे स्मिंश्चत्वारो ब्राह्मणादयः ।।१९ ।।
सर्वानुग्रहकृत्यर्थमाचार्यत्वेन सम्मताः ।
योजितः शिवतत्त्वे यः शिवरूपमवाप्तवान् ।। २० ।।
जातिनाशो भवेत्तस्य शिवधर्मोपजीविनः ।
भूदार्वयो श्मरत्नानां जातिसंपादनं यथा ।
शूद्रादीनां तथा मन्त्रैर्युक्तानां श्रेष्ठता [मू, अ, ग्, ङ्: हीनानां श्रेष्ठतो] भवेत् ।। २१ ।।
ताम्रादि स्याद्यथा हेम सिद्धं पारदयोगतः ।
तथैव मन्त्रसंयोगाच्चातुर्वर्णः शिवी भवेत् ।। २२ ।।
प्. २०) नगरीनिर्झराद्यम्भो गङ्गां प्राप्यैकतां यथा ।
दीक्षायोगात्तथेशस्य शूद्रादिः शिवतां व्रजेत् ।। २३ ।।
दीक्षातो मुच्यते देही तिष्ठन्मुक्तोऽपि विग्रहे [ग्: पवित्रता] ।
यथा कुलालचक्रस्थोऽविच्छिन्नं भ्रमते घटः ।। २४ ।।
स्वकर्मबन्धनैर्बद्धः [ग्: वश्य] पशुरात्मा मलाश्रितः [मू, अ: पशुरात्मा मनोयुतः; क्, ग्: प्रभुरात्मा मनोद्यत] ।
मलं विषमदं यद्वद्धन्ति वै मन्त्रतेजसा ।। २५ ।।
पङ्कैः कलुषितं तोयं घटस्थं निर्मलं यथा [ख्: यद्वद्घटस्थनिर्मलम्] ।
स्यात्कतकफलैर्योगात्तद्वन्मन्त्रैस्तु मानवः ।। २६ ।।
कर्षकः कर्षयेद् [घ्: कट्टकः कट्टयेद्] यद्वद् भ्रामको भ्रामयेद्यथा [ख्: भ्रामयेद्भ्रामको यथा] ।
तथैव मन्त्रसामर्थ्यान्मलं हत्वा शिवी भवेत् ।। २७ ।।
यथार्ककरसंयोगाद्वह्निरुत्पद्यते मणेः ।
तथेशमन्त्रसंपर्का [मू, अ, क्, ग्: संयोगा] च्छिवत्वं जायते पशोः ।। २८ ।।
शिवशक्त्यात्मका मन्त्राः शिवशक्तिभिरन्विताः ।
शैवाचार्याः प्रयच्छन्ति शिवत्वं स चराचरे ।। २९ ।।
यथा मृद्रत्नलोहानि [घ्: लोहैश्च] मन्त्रैर्गच्छन्ति देवताम् ।
आचार्योऽपि [ख्: मन्त्र तन्त्र] तथैवात्र शिवत्वं याति मन्त्रवित् ।। ३० ।।
प्. २१) मन्त्रतत्त्वे स्थिता देवा मन्त्रः साक्षान्महेश्वरः ।
संस्क्रियन्ते हि मन्त्रैश्च देवाचार्यतपस्विनः ।। ३१ ।।
दार्वश्मलोहमृद्रत्नजातं लिङ्गं प्रतिष्ठितम् ।
यथापूज्यवेद [घ्: -पूजम-] ज्ञस्तथा शुद्रोऽपि दैशिकः ।। ३२ ।।
मृदादिद्रव्यजातीनां [मू, अ, क्, ग्, ङ्: जातानां] शिवत्वं यः प्रयच्छति [घ्: प्रदीपयेत्] ।
स शिवः स्वयमेव स्यान्नान्यरूपः कदाचन ।। ३३ ।।
सर्पदष्टा यथा सुप्ताश्चाण्डालान्ता द्विजादयः ।
मन्त्रयोगाद्विबुध्यन्ते नष्टानिष्टं तथा शिवे ।। ३४ ।।
कर्णधारो यथा पारं द्विजादीन्नयति [क्, ख्, ग्: नौकया याति तत्] क्षणात् ।
शैवाचार्यः [मू, अ, क्: शैवाचार्याः] परं स्थानं तद्वत्ता [ख्: तत्त्वतो] न्मन्त्रनौकया ।। ३५ ।।
(कर्णधारो [कोष्ठान्तर्गतोऽयं पाठः घ्, संज्ञकताडपत्रपुस्तके वर्तते, अन्येषु पुस्तकेषु नास्ति] यथापारं नौकया याति तत्क्षणात् ।
तथाचार्यः परं स्थानं याति वै मन्त्रनौकया ।। ३६ ।।)
चतुर्दिव्याब्दसाहस्रैः कृत [मू, अ, क्: कृते] सन्धिः शतं यथा ।
शेषे त्वेकैकहानिः स्यात्सहस्रे च शतक्रमात् [मू, अ, क्: द्वेशते क्रमात्] ।। ३७ ।।
चतुर्युगसहस्रान्ते दिनमेकं प्रजापतेः ।
पितामहशतं यावद्विष्णोर्मानं विधीयते ।। ३८ ।।
प्. २२) रुद्रस्य [ग्: चन्द्रस्य] निमिषार्धेन सहस्राणि चतुर्दश ।
विनश्यन्ति तथोपेन्द्रा असंख्याताः पितामहाः ।। ३९ ।।
ईशस्य वासरैकेन क्षीयन्ते बहवो हराः ।
सादाख्यनिमिषेणेशो लयं याति न संशयः ।। ४० ।।
स्वेच्छया परत्रुट्या [क्, ग्: परक्रुध्या] तु सादाख्यस्तत्र लीयते ।
शिवात्परतरं नास्ति इति शास्त्रेषु निश्चयः ।। ४१ ।।
एवं मानविशेषैस्तु मन्त्रवीर्यं तु तादृशम् ।
तस्माच्छिवदितो मन्त्रः सिद्धिमुक्तिफलप्रदः ।। ४२ ।।
वागीशी जननी यस्य व्योमव्यापी पिता शिवः ।
मन्त्रैः शिवाध्वरे [क्: शिवपुरे; ख्, ग्: शिवापुरे] जातः स शूद्रः स्यात्कथं पुनः ।। ४३ ।।
मृद्भवानां घटादीनां संस्कारान्नमृदा यथा [अस्य समनन्तरः पाठोऽयं क पुस्तके प्रक्षिप्तो यथाः-
ये विप्रादिकमद्वारमभिषिक्ताश्चरन्ति ते ।
वेदेन हत्वा दीक्षान्या पतिता रौरवे स्फुटम् ।
तथैव दीक्षामन्त्राणां तत्प्रकृत्या समागताः । इति] ।
तथैव पापहानं च प्राकृतास्तु प्रजायते [क्: प्राकृतं तु न जायते; ख्: न प्रकृत्यास्तु जातः] ।। ४४ ।।
हत्वा दीक्षाभिषेकादींश्चण्डेन पातितास्तु ते ।
लक्ष्या [मू, अ, क्, ख्: लोके] विप्रादिकाचारान्नारकीणो न तारकाः [ख्: कारकाः] ।। ४५ ।।
प्. २३) नराणां शिवसंस्काराच्छिवत्वं न भवेद्यदि ।
न भवेयुस्तदा नूनं द्विजा देवादिदैशिकाः ।। ४६ ।।
तस्मान्मन्त्रप्रधानत्वं निग्रहानुग्रहं प्रति ।
विषभूतग्रहाद्याश्च निगृह्यन्ते हि मन्त्रतः ।। ४७ ।।
मन्त्रसंस्कारदीक्षाभिः संस्कृतं गुरुणा यदा ।
चराचरं प्रपद्येत शिवत्वं तत्क्षणाद्ध्रुवम् ।। ४८ ।।
चातुर्वर्ण्यमनुग्राह्यं चातुर्वर्ण्यान्नभोजनम् ।
एतत्सिद्धं सदा शैवं गुरुरूपमजन्मकम् [ख्: गुरुरूपमयात्मकम्] ।। ४९ ।।
कौपीनमेखलायुक्ता जटायज्ञोपवीतिनः ।
शिवान्तनामकाः सर्वे भस्माङ्गा [मू, अ, ख्, घ्, ङ्: भस्माक्षा] ब्रह्मचारिणः ।। ५० ।।
दीक्षया हन्यते दीक्षा पूर्वदीक्षा हि नश्यति ।
विशेषयातु सामान्या गुरुरप्येवमेव तु ।। ५१ ।।
नगनान्तास्तु [मू, अ, क्, ग्: नगणान्तास्तु; ख्: नराणां] वैशेषाः शैवाः शिवान्तसंज्ञकाः ।
अम्भोजं पङ्कजं यद्वत्तद्वच्छैवा न चेतरे ।। ५२ ।।
हस्तोऽस्यास्तीति हस्ती स्याद्रूढितो नेतरो [मू, अ, क्, ख्: नेतरे] यथा ।
तथैव शिवलिङ्गानां शैवाः पाशुपतादयः ।। ५३ ।।
तपस्व्याचार्यदेवान् यः [मू, अ: देवानां] पूर्वरूपेण मन्यते ।
लिङ्गभेदफलैर्युक्तो यात्यसौ रौरवं ध्रुवम् ।। ५४ ।।
प्. २४) दृष्टादृष्टविरोधेन नेतरेषां तथा विधिः ।
अन्यथा पापकारी स्यादित्याज्ञा पारमेश्वरी ।। ५५ ।।
गुरून्निरूपयेत्तस्माद् द्विविधं शैवमुत्तमम् ।
ब्रह्मचारीगृहस्थत्वभेदभिन्नं द्विधा स्थितम् ।। ५६ ।।
अकामिकामिभेदेन वक्ष्यमाणगुणान्वितम् ।
काम्यकामिक्रियां वच्मि साम्प्रतं संप्रभेदतः ।। ५७ ।।
तपस्व्य [ग्: तपस्या; घ्: तपस्य] कामिनामेव प्रतिष्ठादिक्रियोच्यते ।
भुक्तिमुक्तीच्छुकः कामी कुर्याद्दीक्षादिमाज्ञया ।। ५८ ।।
गृहस्थस्तु द्विधा प्रोक्तः सान्तानिको व्रतार्पकः ।
प्रतिष्ठादिक्रियाशेषा तत्कृता संप्रशस्यते ।। ५९ ।।
योषिद्युक्तः सकेशश्च जटादिपरिवर्जितः ।
शिवाधिकारवृत्तिर्यः स सान्तानिक उच्यते ।। ६० ।।
व्रती व्रतासमर्थो यो विधिना व्रतमर्पयेत् ।
पश्चात्कुर्याद्विवाहं च गृहस्थः स वतार्पकः ।। ६१ ।।
ब्रह्मचर्यं चरेन्नित्यं जटाभस्मसमन्वितः ।
भैक्ष्याशी संयतात्मा च व्रती स परिकीर्तितः ।। ६२ ।।
गोत्रगोचरस तावसङ्केतैः [क्: सङ्गतैः; ख्: सङ्कीर्तः] क्रमशो गुरुः ।
पुष्पपाताभिधानं तु मठी [मू, ग्: मथी; क्: सची] मुद्राभिरिष्यते ।। ६३ ।।
प्. २५) स्त्रीस्रग्गन्धार्थशययासियानताम्बूलभूषणम् ।
सद्वस्त्रमञ्जनं तैलं नयते रमते हि तम् [मू, अ, क्: रमतेर्हितः; ख्: रमतोर्ध्वतः; घ्: रयतेर्हितम्] ।। ६४ ।।
भुक्त्यै [मू, अ: भुज्ञं; ग्: भुञ्जे] सान्तानिकं नित्यं भुक्तिमुक्त्योर्व्रनापकम् [मू, अ, ग्: भुक्तिमुक्तिव्रतार्पितम्; क्: भुक्तिमुक्तिप्रदार्पितम्] ।
माक्षाय व्रतिनं चैव वरयेन्मतिमान्नरः ।। ६५ ।।
पुत्रौ द्वौ तु गृहस्थस्य पारलौकिकलौकिकौ ।
लौकिको द्रव्यभागी स्याद्विद्याभाक् पारलौकिकः ।। ६६ ।।
व्रतिशिष्यस्य यच्छास्त्रमृणं चाथं च तद्गुरोः ।
भ्रातृणं गुर्वभावे स्याद्गृहस्थानां स्वपुत्रकम् [मू, अ, क्: स्वपुत्रगम्; ख्: सुपुत्रकः] ।। ६७ ।।
यति [मू, अ, क्, ख्: यदि] पुत्रः प्रपौत्रो वा तत्सन्तानोद्वास्तथा ।
अयोग्याः शिवकार्येषु घण्टासम्बन्धिनो हरेत् [ग्: घण्टामयुक्तिलोहवत्] ।। ६८ ।।
व्रतिनः शिष्यपुत्रः स्याद्योग्यः सर्वेषु कर्मसु ।
ऋणे द्रव्ये च पिण्डे च स एवैकः प्रशस्यते ।। ६९ ।।
शिष्याम्नायेन सम्भूत आचार्यः शुभशान्तिकृत् ।
चतुर्गोचरमध्ये च शैवो ज्येष्ठायते [मू, अ, क्, ग्: ज्येष्ठोयतेः] परम् ।। ७० ।।
सर्वानुग्रहकृद्यस्मादाद्यः सर्वगतः शिवः ।
शैवाचार्यस्ततः श्रेष्ठः स्थापयेत्सर्वदेवताः [सह देवता, इति पाठान्तरम्] ।। ७१ ।।
प्. २६) दक्षिणार्होत्तमं पात्रं दर्शनानां [ग्: त्तमः पात्रमर्हतानां] शिवः प्रभुः ।
भुक्तिमुक्तिप्रदाता च नान्यो वै विश्वकृद्गुरुः ।। ७२ ।।
सर्वेषामेव देवानां शैवः स्थापक इष्यते ।
तदभावे [घ्: वददावे] तु कर्तव्याः स्वदेवव्रतचारिणः [ख्: व्रतधारिणः] ।। ७३ ।।
जन्मना जायते शूद्रः क्रियया द्विज उच्यते ।
श्रुतेन श्रोत्रियश्चैव ब्राह्मणो ब्रह्मचर्यतः ।। ७४ ।।
स्वमन्त्रसंस्कृतो विप्रः स्वकर्मव्रतपालकः ।
मनुष्यजातिसामान्ये को विद्वेषः शिवद्विजे ।। ७५ ।।
स्त्रीपुंनपुंसकानां च यथाभेदास्त्रिलिङ्गतः ।
न तथा ब्राह्मणादीनां तस्माज्जातिर्नकारणम् [ग्: प्रकारणम्] ।। ७६ ।।
पञ्च [ख्: यश्च] तत्त्वविशुद्ध्यर्थं पञ्च [ख्: यश्च] ब्रह्मविनिर्मितम् ।
उपवीतं सदा धार्यं शैवाचार्यैर्न चेतरैः ।। ७७ ।।
शिवो विप्रः शिखा [ख्: शिवो] राजा ज्योतिर्विच्छूद्रजातिकः ।
सावित्र इत्थमी पर्णा प्रोक्ता नाना शिवागमे ।। ७८ ।।
गुरुः शिवः शिखादीनां [ख्: शिवादीनां] त्रयाणां शिखसंज्ञकः ।
द्वयोः स्याज्ज्यातिरित्युक्तः सावित्रस्तु स्वगोचरः ।। ७९ ।।
काहलातूर्यढक्काश्रीघटिकाशङ्खसुस्वनैः [मू, अ, क्, ख्, ग्, ङ्: सुस्वरैः] ।
ध्वजैश्छत्रैर्युताः सर्वे शैवाचार्या नृपा इव ।। ८० ।।
प्. २७) गुरुः श्रेष्ठः प्रतिष्ठेत यत्र राष्ट्रे च तत्र च [क्: राष्ट्रेऽद्भुत च] ।
स्याद्वृद्धिर्विजयः [घ्: स्थापितेर्देवैस्तत्कर्ता च] शान्तिरारोग्यं धर्मवर्धनम् ।। ८१ ।।
एभिश्च स्थापिते देवे कर्ता जन धनान्वितः ।
आयुषा यशसा लक्ष्म्या [घ्: लक्ष्मी] पुत्रपौत्रैर्विवर्धते [घ्: प्रवर्धते] ।। ८२ ।।
पितरस्तस्य नन्दन्ति यावत्तिष्ठन्ति देवताः ।
तावद्य गसहस्राणि रुद्रलोके महीयते ।। ८३ ।।
स्थानस्य देवतायाश्च चिरवृद्धिः प्रजायते [घ्: वृद्धिश्च] ।
नाकाले म्रियते कर्ता परतः शिवतां व्रजेत् ।। ८४ ।।
यावत्तत्कीर्तिविख्यातिस्तावत्तस्य महाफलम् ।
पदं संप्राप्य रुद्रस्य सुखमक्षयमश्नुते ।। ८५ ।।
अथाधमादिदेशोत्था ये चान्यत्रातिनिन्दिताः [मू, अ, क्, ख्, ग्, ङ्: न्यत्र विनिन्दिताः] । [क्: तावद्युगसहस्राणि रुद्रलोके महीयते पाठोऽयं घ् पुस्तकेऽधिकः, अप्रासङ्गिकश्च]
तांस्तु सर्वान् प्रयुञ्जीत क्रूरकर्मसु सर्वदा ।। ८६ ।।
हीनव्यङ्गाधिकाङ्गाश्च कुब्जवामनखञ्जकाः ।
विकृताः शवला [ख्: सचरा] रौद्राः शठाः क्रूराः [मू: सेवा] कुवृत्तिकाः ।। ८७ ।।
पापिव्याधितकिञ्चिञ्ज्ञा देवच्छायोपजीविनः ।
वाक्कण्ठा बघिरः स्थूलाः कुनखाश्च कुमूर्धजाः ।। ८८ ।।
प्. २८) सूचकास्तार्किका वैद्याः सेवकाः कर्षकास्तथा ।
पुरोधाः पण्यजीवी [घ्: श्चान्यजीवी] च वणिजो धातुवादिनः ।। ८९ ।।
लिङ्गधारी [घ्: चारी] कुशीलाश्च [घ्: कुशीलात्मा] द्यूतकारकलम्पटाः ।
वक्रनासाङ्गलम्बोष्ठा मूर्खाः स्पन्दनगात्रकाः ।। ९० ।।
कुसङ्गाकुलजा बालाः काकस्वरानुनासिकाः ।
ग्रन्थविप्लाका [ख्: विप्रोचका] वृद्धा व्यसनी समयच्युतः ।। ९१ ।।
दन्तुराः श्लीपदाः स्तब्धा अर्बुदी [क्, ग्: अर्भदी] गलगण्डकाः ।
एतैस्तु स्थापिता देवा धनायुः पुत्रनाशकाः ।। ९२ ।।
अन्याश्रमिमगामोत्थाः [ख्, घ्: मगान्मोत्थ] पुनर्भूः कुण्डगोलकाः ।
कत्थकाः [ख्, ग्, घ्: कण्ठका] कौशिका [क्, ग्: कौलिका] स्तज्जास्त्रिकर्णाद्याश्च वर्जिताः ।। ९३ ।।
चार्वाकाश्चार्हता बौद्धाः साङ्ख्यदर्शनिनो द्विजाः ।
सन्यासव्रतिनश्चान्ये स्थापने नाधिकारिणः ।। ९४ ।।
शाकद्वीपात्पुरानीता मगा गोमांसभक्षकाः [ख्: -खादकाः] ।
निर्माल्यभक्ष्यणार्थं तु शाम्बेनाच्युतसूनुना ।। ९५ ।।
शैवीं दीक्षां विना यस्तु शास्त्रमात्रप्रपाठकः ।
शिवादीन् स्थापयेन्नित्यं स्वयम्भूः स नराधमः ।। ९६ ।।
प्राप्त (क्त) नं लिङ्गमुत्सृज्य यः शैवं व्रतमाचरेत् [मू, अ, क्: तु तमाश्रयेत्] ।
स पुनर्भूः परिज्ञेयो वर्जनीयः शिवागमे ।। ९७ ।।
स्वधवे विद्यमाने तु जायते जारतो हि यः ।
कुण्डः क्रूरस्वभावःस्यान्मृते पत्यौ तु गोलकः ।। ९८ ।।
प्. २९) आचार्यधर्मपत्नीषु यो जातः सगुरोः सुत ।
प्राव्राज्यान्नश्यते [मू, अ, ख्: दुष्यते] पूर्वं स्त्रीयोगादपरं तथा ।। ९९ ।।
उभाभ्यां यः प्रनष्टः स्यात्तस्यापत्यस्तु कत्थकः ।
त्रिकर्णोत्थास्त्रिकर्णाश्च त्रिकपानात्म [मू, अ: त्रिकर्णस्तु त्रि] कर्णका ।। १०० ।।
नित्यनैनित्तिकागन्तुगुरुदेवाग्न्यपूजनात् ।
भस्माङ्कुरस्तु [ग्: गुरुस्तु] कत्थोस्थस्तत्सुताः कौशिकादयः ।। १०१ ।।
भोजका व्रतिपुत्राश्च कौशिकान्याश्च [मू, अ: कौशिकाद्याश्च] कुत्सिताः ।
राष्ट्रक्षयकरा ह्येते ये च पषाण्डिनो नराः ।। १०२ ।।
समयादिं विना मूढः स्थापनं कुरते तु यः ।
शास्त्रावलोकनादेव चण्डेशस्तस्य शासकः ।। १०३ ।।
योऽशैवः स्थापयेदीशं लोभव्यामूढमानसः ।
स याति नरकं सद्यो याज्ञिकैः सह दैशिकः ।। १०४ ।।
पञ्चस्रोतः सु ये पञ्चसमयाः शंभुनोदिताः ।
तेषामाचरणान्नित्यमाचार्य इति कीर्त्यते ।। १०५ ।।
आचार्यः शिवरूपेण लोकानुग्रहकारकः ।
तस्मान्न मानवीं बुद्धिं कारयेद्दैशिकं प्रति ।। १०६ ।।
ईशं वक्त्रं तथाघोरं गुह्यं चाजातसंज्ञकम् [मू, अ, क्: च जात-] ।
पञ्चवक्त्राणि देवस्य पञ्चागमविवृद्धये ।। १०७ ।।
प्. ३०) कामिकं योगजं मान्त्रीं [मू, अ: चिन्त्यं; क्, ग्: चान्त्यं; ख्: मित्र्यं] कारणं चाजितं तथा ।
दीप्तं सूक्ष्मं च साहस्रमंशुम [ख्: असुमत्] त्सुप्रभं दश ।। १०८ ।।
शिवभेदाः समाख्याता रुद्रभेदानतः (?) परम् ।
विजयं पारमैश्वर्यं निश्वासोद्गीतसंज्ञकम् ।। १०९ ।।
प्रोद्गीतं मुखबिम्बंतु सिद्धं सन्तानमेव च ।
नरसिंहं चन्द्रहासं वीरं स्वायम्भुरौरवम् [ख्: रोचनम्] ।। ११० ।।
माकुटं किरणं चैव ललितं विरसं [ग्: विवरं] परम् [मू, अ, क्: स्मरम्] ।
([चापचिन्हान्तर्गतोऽयं पाठः क पुस्तके नास्ति] रुद्रभेदाः समाख्याता दशाष्टादश चोर्ध्वगाः ।। १११ ।।
हरं हुङ्कारकं चैव बिन्दुसारं कला [ख्: करा] मृतम् ।
दवत्रासं च सुत्रास सावरं कालसावरम् ।। ११२ ।।)
पक्षिराजं शिखायोगं शिखासारं शिखामृतम् ।
पञ्चभूत [मू, अ: पञ्चामृत] विभागं च शून्यभेद [ख्: -मद] विनिर्णयम् ।। ११३ ।।
कालकाण्ठं [ख्: मणिकण्ठं] च कालाङ्गं कालकूटं पटद्रुमम् ।
कम्बोजं कम्बलं कङ्कं कालकुण्डं कटाहकम् ।। ११४ ।।
सुवर्णरेख [क्: सुवर्णवण्यं] सुग्रीवं तोत्तल तोत्तलोत्तरम् [मू: तोतलं तोतलोक्तम्; ख्: तोत्तरतोत्तरोत्तरम्] ।
गारुडस्य त्विमे भेदा अष्टाविंशतिरीरिताः ।। ११५ ।।
प्. ३१) स्वच्छन्दभैरवं चण्डं क्रोधमुन्मत्तभैरवम् ।
असिताङ्गं रुरुं चैव कपालीशं समुच्चयम् ।। ११६ ।।
अघोरं घोषणं [ख्: घोरसं] घोरं निशासञ्चारदुर्मुखम् ।
भीमाङ्गं डामरारावं [ख्: -रागं] भीमं वेतालमर्दकम् ।। ११७ ।।
उच्छुष्मं वाम [घ्: उच्छुष्मवाहि] कापालं शेखरं पुष्पमद्वयम् ।
त्रिशिरं चैकपादं तु सिद्धयोगेश्वरीमतम् ।। ११८ ।।
पञ्चामृतं प्रपञ्चं च [घ्: प्रपञ्चाहि] योगिनी जाल [घ्: जल] सम्बरम् ।
विश्वरिकण्ठ सङ्कोचं [मू: विकण्ठ; ख्: झङ्कार] तिलकोद्यानभैरवम् ।। ११९ ।।
एवं द्वात्रिंशतन्त्राणि सोत्तराणि च तद्द्वयम् ।
चतुः षष्टिप्रमाणानि दक्षिणास्याद्भवानि च ।। १२० ।।
नयं नयोत्तर मूकं मोहनं मोहनामृतम् ।
करपूजाविधानं तु वीणातन्त्रं तदुत्तरम् ।। १२१ ।।
जयं च विजयं चैव अजितं चापराजितम् ।
सिद्धनित्योदयं ज्येष्ठं चिन्तामणिमहोदयम् ।। १२२ ।।
वाग्भवं कुहकं चित्रं कामधेनुकदम्बकम् ।
आनन्दरुद्रभद्राख्यं [ख्: भद्राक्षे] किङ्करं किङ्करानुगम् ।। १२३ ।।
अनन्तविजयं शौक्रं दौर्वासं बीजभेदकम् ।
वामदं वामदेवोक्तं [मू, अ, क्: देवोत्थं] चतुर्विंशतिभेदगम् [क्: भेदजम्] ।। १२४ ।।
प्. ३२) हलाहलं हयग्रीवं करकोटं कटङ्कटम् ।
करोटं [मू, अ, ग्: कवाटं; क्: कल्फोटं] मुण्डमालं च कङ्कोटं खड्गरावणम् [मू, अ: वारणम्] ।। १२५ ।।
चण्डासिधारं हुङ्कारं हाहाकारं शिवारवम् ।
घोराट्टहासमुच्छिष्टं घुर्घुरं दुष्टत्रासकम् [मू, अ: दुष्कृतासनम्] ।। १२६ ।।
विमलं विकटं चैव सुधारणं [मू: स्वधावणं] महोत्कटम् ।
यमघण्टं च भूताह्वं [मू: भूताङ्गं; ख्: भूताज्यं] विषभेदमजातजम् ।। १२७ ।।
इत्येवं शैवतन्त्राणि [ख्: सूत्राणां; घ्: सूत्राणि] चतुःषष्ट्युत्तरं शतम् ।
पुनर्लक्षविभेदन ग्रभिन्नः शास्त्रसङ्ग्रहः ।। १२८ ।।
शिवो रुद्रस्ततो देवा देवेभ्य ऋषयस्तथा [मू, अ, क्: -सदा] ।
ऋषिभ्यो मानुषाः शिष्याः सर्वशास्त्रावतारकाः ।। १२९ ।।
सिद्धान्तो गारुडं चैवं भैरवं वामभौतिकम् ।
इति सामयिकं प्रोक्तं शम्भुनागमपञ्चकम् ।। १३० ।।
सिद्धान्ते चतुर्वर्णान्नभोजनं गारुडे विषम् ।
एकत्रभोजनं घोरे वामे वामामृतं तथा ।। १३१ ।।
भूततन्त्रे शवस्पर्शः पञ्चस्रोतःस्वयं विधिः ।
आचरेत् समयान् पञ्च यः स आचार्य उच्यते ।। १३२ ।।
आचारमाचरेच्छैवं [मू: चैवं] शास्त्रोक्तं गुरुभाषितम् ।
तदवश्यं हि कर्तव्यमन्यथा पतनं भवेत् ।। १३३ ।।
प्. ३३) पूजा होमो बलिर्भिक्षा चरुश्चातिथिपूजनम् ।
षट्कर्माणि तु कार्याणि शिवाचार्येण नो परैः ।। १३४ ।।
व्याख्यानं श्रवणं चैव प्रदानं च प्रतिग्रहः ।
दीक्षां च स्थापनं चेति [मू: चैव] षट्कर्माणि सदा गुरोः ।। १३५ ।।
न दीक्षां स्थापनं कुर्याच्छिष्य आचार्यसन्निधौ ।
क्रोशान् पञ्च परित्यज्य गुर्वादेशात्तदाचरेत् ।। १३६ ।।
समयी समयस्थः स्यात्पुत्रकश्चागम [अ, क्, ख्, ग्, ङ्: पुत्रकः स्वागम] श्रुतिः ।
साधकः साधयेत्सिद्धिराचार्यो दीक्षयेत्पशून् ।। १३७ ।।
समयादिक्रमेणैव योऽभिषिक्तः स दैशिकः ।
प्रतिष्ठादिक्रिया तस्य न पाठादग्र [मू, अ: पाठान्नैवाग्र; ख्: नयावदग्र; ग्: यावन्त विप्र] जन्मनः ।। १३८ ।।
शिवादिस्थापने सम्यङ् न्यायमार्गेण धीमताम् ।
युक्तिः संसूच्यते काचिद्या चोक्ता पारमेश्वरे ।। १३९ ।।
पाठादेव द्विजो यत्र शिवं लोभात्प्रतिष्ठयेत् ।
नाश्मादौ शिवता तत्र ह्यांशवे दूरतः शिवः ।। १४० ।।
प्रतिष्ठयेद् द्विजो यस्तु प्रमदाद्देवताः क्वचित् ।
चाण्डालोऽसावभोज्यान्नः पातकी नात्र संशयः [ख्, घ्: नारकी भवेत्] ।। १४१ ।।
शिवसंस्थापनाद्विप्रः श्वयोन्यां जायते ध्रुवम् ।
अन्यगोत्रे [मू, अ: श्रोत्रे; क्: त्याश्रे] कुशा [ख्: त्रेऽङ्कुशा] पातान्नारकी स्याद् द्विजाधमः ।। १४२ ।।
पठन्त्यादेशतो वेदानादेशेन यजन्ति ये ।
प्. ३४) लिङ्गादिस्थापका ये च ते चाण्डालसमा द्विजाः ।। १४३ ।।
शूद्रे चैवं भवेद्वृत्तं ब्राह्मणे न च विद्यते ।
मन्तव्यो विप्रवच्छूद्रः शूद्रात्पापतरस्तु सः ।। १४४ ।।
विश्वामित्रो द्विजीभूतः क्षत्रियो द्विजवृत्ततः ।
वृत्तात्सिद्धा वसिष्ठाद्या व्यासेनोक्तं च भारते ।। १४५ ।।
अग्निष्टोमादिकान्यज्ञान् विहाय स्थापयेच्छिवम् ।
नरके पतति क्षिप्रं कर्ता स्वपितृभिः सह ।। १४६ ।।
प्रतिष्ठार्थे नवर्तन्ते द्विजत्वे न च ये स्थिताः ।
स्वब्राह्मण्यं गतं तेषां ब्रह्महत्यां [ब्रह्महत्वं, लि, पु] च संस्थितम् ।। १४७ ।।
ब्राह्मण्यहार कैर्विप्रैः स्थापिता ये शिवादयः ।
ते क्रूरा ध्वंसका ज्ञेया यजमानक्षयावहाः ।। १४८ ।।
शिवादिस्थापनाद्विप्र उभाभ्यां भ्रश्यति क्षणात् [घ्: द्विजः] ।
दानार्चनाद्यनर्हः स्याद्विनष्टा ब्राह्मणी [मू, अ, क्, ख्, ग्, ङ्: नष्टो ब्राह्मणो] यथा ।। १४९ ।।
दुष्टपात्रस्थितं क्षौद्रं यद्वदम्लं तु दोषदम् ।
तद्वद्वेदाः कुविप्रस्थाः कर्तुः स्युरशुभप्रदाः ।। १५० ।।
शिवः शिरस्तथा ज्योतिः सावित्रश्च चतुर्थकः ।
एते शैवाः समाख्याता न त्वेते ब्राह्मणाः क्वचित् ।। १५१ ।।
ब्रह्मक्षत्रियवैश्यानां शूद्राणां च शिवाध्वरे ।
संस्कृतानां यतस्तेषां नश्यन्ते पूर्वजातयः ।। १५२ ।।
ये ब्रह्मणा न ते शैवा ये च शैवा न ते द्विजाः ।
प्. ३५) पृथङ्मन्त्रागमावेषां [मू, अ, क्, ख्: -श्चैषां] व्रतानि क्रतवः पृथक् ।। १५३ ।।
लुब्धा द्विजाधमा मूर्खाः स्वब्रह्मघ्ना [मू, अ, क्, ख्, ग्, ङ्: ब्रह्मघ्ना] विकर्मगाः ।
मुग्धाः कुर्वन्ति ये विप्राः शिवादिस्थापनं कलौ ।। १५४ ।।
द्विजबौद्धादियागेषु मन्त्राः शैवादयस्तथा [मू, अ, क्, ख्: शैवा यथेह न] ।
तथैव शिवयागेषु न मन्त्रा वैदिकादयः ।। १५५ ।।
न वेदे त्रिविधं लिङ्गं न च [घ्: नैव] प्रासादलक्षणम् ।
न द्वारं मण्डपादिश्च स्थापनं न शिवादिके ।। १५६ ।।
शिवसिद्धान्त एवोक्तं लक्षणं शाङ्करादिकम् ।
तस्माच्छैवेन मन्त्रेण प्रतिष्ठेत [मू, अ: प्रतिष्ठेयं] शिवादिकम् ।। १५७ ।।
चलाचल [चराचर, लि पु पा] प्रभेदेन द्विधा लिङ्गं शिवस्य यत् ।
शिवमन्त्रैस्तयोः सम्यक् शिवत्वं नान्यमन्त्रतः ।। १५८ ।।
न वेदैः पञ्चरात्रैस्तु ऋष्युक्तैर्नापि चागमैः ।
नान्यदर्शनमन्त्रैर्वा प्रतिष्ठा स्याच्छिवस्य तु ।। १५९ ।।
न वेदे शैवसंस्कारो नापि वेदे शिवव्रतम् ।
न च शैवीक्रिया वेदे न च खड्गदिसिद्धयः ।। १६० ।।
गर्भाधानादिसंस्कारा [क्: संस्कारान्; ख्, घ्: संस्कारैः] स्त्रिभिस्त्रैवर्णिकं व्रतम् ।
अग्निष्टोमादयो यज्ञा वेदोक्ता ईश्वरेण तु ।। १६१ ।।
चातुर्वर्ण्यव्रतं शैवं चतुरर्थप्रसाधनम् ।
सिद्धान्तस्थापनं दीक्षां नोक्तं वेदेषु शंभुना ।। १६२ ।।
प्. ३६) स्वल्प [ग्: अल्प] बीजो वटो (?) [ख्: टटा] यद्वच्छिष्योऽप्येवं स्वबीजतः ।
स्वमन्त्रबीजजा देवा न बव्हक्षरडम्बरात् [मू, अ, क्, ग्: न च हृत्कण्ठडम्बरैः] ।। १६३ ।।
वन्दि [क्: वह्नि] द्विजजनाश्छात्राः प्रकटाः [ग्: श्रुकटाः] पाठजीविनः ।
नैते शिवाध्वतत्त्वज्ञाः स्तावका जनरञ्जकाः ।। १६४ ।।
वेदादिशब्द [क्: शन्त; ख्: सर्व; ग्: शठ] शास्त्रैस्तु कैः स्तुतो न शिवः प्रभुः ।
स्तुत्यैव स्थापनं न स्याच्छिवलिङ्गे चलाचले [चराचरे, लि. पु. पा.] ।। १६५ ।।
प्रतिष्ठा पञ्चधा या च शिवेनोक्ता शिवागमे ।
शैवाचार्यैस्तु सा कार्या रुद्रब्रह्मार्कचक्रिणाम् ।। १६६ ।।
स्थाप्याःसुरा [ख्: तारा] ग्रहाः सर्वे लोकपालास्तथोरगाः [मू, अ, क्, ग्: सहोरगाः] ।
यक्षराक्षसयोगिन्यो गणा गौर्यस्तथापराः ।। १६७ ।।
स्थित्युत्पत्तिविपत्तीनां कारणं सुखदुःखयोः ।
स्वसंवेद्ये [ख्: सुखं वेदे] ऽपि रागान्धा द्विजा ईश्वरनिन्दकाः ।। १६८ ।।
शैवान्तः पातिनो ये ऽपि पञ्चार्थाः [ख्: यश्चार्थाः] कारकादयः ।
तेऽपि त्याज्याः प्रतिष्ठादौ दूराद्बौद्धद्विजादयः ।। १६९ ।।
तस्माच्छिवात्मकेनैव शिवाचार्येण धीमता ।
शिवादिस्थापनं कार्यं नान्यैस्तु ब्राह्मणादिभिः ।। १७० ।।
स्वदर्शनस्थिता नित्यमाचार्याश्चैव षड्विधाः ।
प्. ३७) स्वकर्माभिरता विप्राः शैवाद्याः कापिलान्तकाः ।। १७१ ।।
श्रुतिस्मृत्यर्थविद्विप्रः स्वशास्त्रव्रतपालकः ।
स्वषट्कर्मान्वितो नित्यं नान्यकर्मा द्विजो भवेत् ।। १७२ ।।
दानं प्रतिग्रहः पाठो यजनं याजनं तथा ।
अध्यापनमिति स्युश्च षट्कर्माणि सदा द्विजे ।। १७३ ।।
ऋतुसेवातपो दानश्राद्धवैश्वानरार्चनैः [मू: लेखानरार्चनैः] ।
तृणादिमूल्यभिक्षान्नवृत्तिः स्याब्राह्मणो वरः ।। १७४ ।।
खड्गजीवो मषीजीवी [मू, अ, क्, ग्: मखाजीवी] द्वारपालो पुरोहितः ।
आदेशी वेदविक्रेता षडेते शूद्रवद्द्विजाः ।। १७५ ।।
श्रुतिर्वेदाः समाख्याताः स्मृतयस्तूनविंशतिः ।
मनुर्दक्षो वसिष्ठोऽत्रिः कात्यायनोऽथ गौतमः ।। १७६ ।।
याज्ञवल्क्यश्च सवर्तो व्यासो विष्णुर्यमोऽङ्गिराः ।
शङ्खलिखितहारीतशातातपपराशराः ।। १७७ ।।
आपस्तम्बोशनोजीवाः स्मृतयस्तु तदुक्तयः ।
न शैवादितिप्रष्ठायामेते निप्रा नियामकाः ।। १७८ ।।
प्रतिष्ठाकल्पकौमारं किरणं [ग्: केरणं म. पा. । केवलं] पिङ्गलामतम् ।
देव्या मतं मयं नन्दिं प्रतिष्ठा पारमेश्वरम् ।। १७९ ।।
भास्करं लिङ्गकल्पं च विद्यापुराणवाठुलम् ।
शकाख्यं वामदेवं च द्विधा पैतामहं तथा ।। १८० ।।
बाणगर्गमतं याम्यं हंसाख्यं वैश्वकर्मकम् [मू, अ, ग्: वैश्वसर्गकम्] ।
प्रतिष्ठातन्त्राण्येतानि शिवोक्तान्येकविंशतिः ।। १८१ ।।
प्. ३८) एतेभ्यः सारमादाय नारदात्पौष्करात्तथा ।
पद्मोत्थमार्कण्डेयाभ्यां रम्भा [ख्: गौरी] सिद्धादि रम्भतः [मू, अ, क्, ग्: सौर्यतः] ।। १८२ ।।
रत्नप्रयोजनाच्चाहितिलकेभ्यस्तथापरान् ।
मार्तण्डाह्रयतो [ख्, ग्: मार्कण्डा-] लक्ष्यं सर्वमेतत्समुच्चयम् [ग्: सर्वतत्व-] ।। १८३ ।।
बहुधा गुह्यतन्त्राणि नैतानि ब्राह्मणस्य तु ।
शिवाश्रमस्थितैः शैवैः प्रतिष्ठा नान्यदर्शनैः ।। १८४ ।।
अशैवैः स्थापित लिङ्गमितरैर्यद्द्विजातिभिः ।
शैवास्तन्न नमस्यन्ति स्थापितं चान्यदर्शनैः ।। १८५ ।।
ब्रह्मव्रतेस्थितो [ख्: ब्रह्माव्रते-] नित्यं शैवादिव्रतमाचरेत् [क्, ख्, ग्: -वृत्ति-] ।
शैवसंस्कारहीनस्तु उमाभ्यां पतति द्विजः ।। १८६ ।।
पतिते तद्गतं यच्च गृहीता या च दक्षिणा ।
कृतं यद्व्रतबन्धादि तत्सर्वं निष्फलं भवेन् ।। १८७ ।।
स्वयमन्यस्वरूपेणे कर्माणि क्रियते तु यत् [मू, अ, ग्: नान्यकर्म तु] ।
न भवेदीप्सितं तत्र वृथैवासौ फरिश्रमः ।। १८८ ।।
सर्वार्थग्रहणे मुक्तिः [मू, अ: नुग्रहणे युक्तिः] सिद्धयश्च शिवागमैः ।
शिवोक्तैश्च विना मन्त्रैस्तदेतत्प्राप्यते कथम् ।। १८९ ।।
यदि वेदैर्भवेल्लिङ्गं शूद्राद्याराधनं कथम् ।
मिश्रैर्वाप्यथ दोषाद्य [क्, ग्: दोषाढ्यं] त्कुमारद्युक्तशास्त्रतः ।। १९० ।।
अन्यद् देवश्च मन्त्रश्च विधिश्चान्यं करोति यः ।
प्. ३९) कर्मचण्डं भवेत्तस्य कर्म चण्डालकश्च सः ।। १९१ ।।
न स्वदर्शन उक्तत्वान्नापि रागाद् [मू, अ: नविरागाद्; क्, ख्: भक्ष्याद्यानापिरागाद्] द्विजादिषु ।
मुक्तिसिद्धं [मू, अ, ख्: युक्तिसिद्धं] हितं लोके स्कन्दोक्तं चात्र लिख्यते ।। १९२ ।।
सनकात्रेयव्यासाद्यैरृषिभिर्या प्रचोदिता ।
क्रिया सा न भवेत्साध्वी मन्त्रसंकरदूषिता ।। १९३ ।।
क्षया विषयदोषाद्या वेदविद्या [मू: देवविद्या] प्रचोदिताः ।
अग्निष्टोमादयो यद्वत्प्रतिष्ठापीष्यते तथा ।। १९४ ।।
द्रव्याभिजनमन्त्राद्यैः शौचशुद्धयै प्रसारिता [क्: प्रसाधिता] ।
स्वर्गलोकफला साध्वी विज्ञेया वैदिकीक्रिया ।। १९५ ।।
स्वर्गलोकात्परिभ्रष्टाः सोमादादित्यमागताः ।
वानस्पत्यं समासाद्य संसरन्तीह याज्ञिकाः ।। १९६ ।।
इष्ट्वा क्रतुशतं शक्रः स्वर्गलोकमवाप्तवान् ।
पुनः पुण्यक्रियाक्षीणः स्थावरादिषु जायते ।। १९७ ।।
सत्यलोकोत्परं नास्ति ज्ञानस्यापि फलं महत् ।
तस्मात्ते मुनयः सर्व शैवार्थे न विशारदाः ।। १९८ ।।
सर्वेषामेव वर्णानां क्रिया शैवी फलप्रदा ।
त्रयाणां ब्रह्मणादीनां वेदविद्याप्रचोदिता ।। १९९ ।।
स्वर्गाख्यफलकामाय अग्निष्टोमादिके सदा ।
यज्ञे चरूपुरोडाशपञ्चगव्यादिभिः सह ।। २०० ।।
शूद्रादेर्नाधिकारोऽत्र वेदे च प्रतिषिध्यते [मू, अ, क्, ख्, ग्, ङ्: न प्रतिशिष्यते] ।
प्. ४०) शूद्रादीनां च यो दद्याद्वेदविद्याप्रसाधितम् ।। २०१ ।।
हविष्यं स गुरुर्यायात्तैः सार्धं नरकं ध्रुवम् ।
तस्माच्छैवो विधिः प्राज्ञैः शैवैर्मन्त्रैःप्रसाधितः ।। २०२ ।।
शिवादिस्थापने यागे दीक्षायां च विशेषतः ।
सर्वेषामपि वर्णानामनु ग्रहकरः परः ।। २०३ ।।
लक्षकोटि सहस्राणि विंशतिरर्बुदानि च ।
कोटिखर्वाव्ज वृन्दं च मन्त्रास्त्वीशाद्विनिर्गताः ।। २०४ ।।
द्वासप्ततिसहस्राणि कोटि लक्षं तथार्बुदम् ।
अयुतानि च पञ्चाशन्मन्त्रा वक्त्रा [ग्: रुद्रा] द्विनिःसृताः ।। २०५ ।।
त्रिंशत्कोटिसहस्राणि [घ्: विंशत्-] सप्ताष्टकशतानि च ।
नियुतानि च षट्त्रिशन्मन्त्रा रुद्राद्विनिर्गताः ।। २०६ ।।
नवकोटिसहस्राणि पञ्चाशीत्ययुतानि च ।
कोटिशतानि पञ्चाशन्मन्त्रा वामाद्विनिःसृताः ।। २०७ ।।
सप्तकोटिसहस्राणि सप्तत्रिंशच्छतानि च ।
शतं सहसलक्षं च सद्योजाताद्विनिर्गताः ।। २०८ ।।
पञ्चवक्त्रोद्भवैर्मन्त्रैः शिवोक्तैः सिद्धिमुक्तिदैः ।
तैस्तु लिङ्गादि संस्थाप्यं नान्यैर्वेदादिचोदितैः ।। २०९ ।।
अकारादिक्षकारान्ताः सदाशिवाङ्गनिर्गताः [मू, अ, क्, ख्, ग्: शिवाद्विनिर्गताः] ।
तैः कृतं पञ्चधा शास्त्रं शैवाख्यं सिद्धिमुक्तिदम् ।। २१० ।।
अणिमादिमहासिद्ध्यै सिद्ध्यन्ति खेचरादयः ।
लिङ्गाश्रयाद्यथासिद्धाः प्रागुक्ता वेधसादयः ।
प्. ४१) तथा व्याडीन्द्रदन्ताद्याः कम्बला भास्करा [ख्: लाभास्थिरा] दयः ।
निमत्सरा वदन्त्याशु [ख्: द्रव] सिद्धाः [ख्: शिवाः] शवोक्तमन्त्रतः ।। २१२ ।।
नासत्यमैश्वरं वाक्यं के न सिद्धा युगे युगे ।
सम्यग्विधानत्त्वज्ञैर्दीक्षितो मुच्यते पशुः ।। २१३ ।।
सबीजाः सस्फुराः [ख्: सफलाः] शैवाः सचेतोऽग्निशिवान्तगाः [मू, ख्: सर्वतो - -न्तकाः] ।
सर्वानुग्राहका मन्त्राश्चतुर्वर्ग [क्, ग्: चतुर्दश] प्रसाधकाः ।। २१४ ।।
ऋगथर्वतथा सामवजुश्चेति क्रमेण च ।
प्राग्याम्येन्दुजलाशास्यैर्लक्षग्रन्थैः कृता श्रुतिः ।। २१५ ।।
न विग्रहात्मका [ग्: नवग्रहान्महा] देवा वेदेषु स्तुतिपूर्वकाः ।
सिद्धिमुक्ती विना सर्वं शब्दमात्रपरा मताः ।। २१६ ।।
त्रयीनिबन्धहेत्वर्थं त्रयाणां च व्रतेऽध्वरे ।
ईशानोक्ता श्रुतिः पश्चात् स्वर्गाख्यफलसाधने ।। २१७ ।।
शैवागमपुराणेषु तथा शास्त्रान्तरेषु च ।
अवधूतोक्तितोऽज्ञत्वं ब्रह्मविष्णोर्नमद्वरः [ख्: रसङ्गतम्] ।। २१८ ।।
आस्तां तवान्यदपि तावदतुल्यकक्ष-
मैश्वर्यमीश्वरपदस्य निमित्तभूतम् ।
त्वच्चेह सोऽपि भगवन्नगतोऽवसानं
विष्णुः पितामहयुतः किमतापरस्य ।। २१९ ।।
अवैर्ब्रमादिभिर्वेदा कृताश्चेद्दोषकारिणः ।
प्. ४२) गोनराश्वादिकं हत्वा यज्वनां नरको भवेत् ।। २२० ।।
सूर्यशतां [मू, अ, ख्, ङ्: श्लोकस्यास्य प्रथमान्तः पाठः पुस्तकेषु] तृप्तिमनादिबोधं
स्वतन्त्रतां नित्यमलुप्तशक्तिम् ।
अनन्तशक्ति च विभोर्विदित्वा [मू, अ, क्, ख्, ग्, ङ्: विधिज्ञा]
प्राहुःषडङ्गानि महेश्वरस्य ।। २२१ ।।
वेदाः प्रमाणामशोक्ताः स्वर्गं [मू, अ: वेदप्रामाण्यमीशात्तया स्वर्गः] सर्वज्ञकारणम् ।
ईश्वरं कारण न्यायाद्वदन्ति तर्कवादिनः ।। २२२ ।।
भेदः साङ्ख्या [क्, ग्: सान्ध्या] यनश्चैक आश्लायको [मू, अ, क्, ख्, ग्: आश्नीयको] द्वितीयकः ।
शतानिंदश मन्त्राणां ब्राह्मणो द्विसहस्रकः ।। २२३ ।।
ऋग्वदो हि प्रमाणेन स्मृती द्वैपायनादिभिः ।
एकोनेद्वे सहस्रे च मन्त्राणां यजुषस्तथा ।। २२४ ।।
शता ने दश विप्राणां षडशीतिश्च शाखिकाः ।
काण्व [क्, ख्, घ्: कार्ण] मध्यन्दिनासंज्ञा कठी प्राच्यकठी तथा ।। २२५ ।।
मैवायणीयसंज्ञा च तैत्तिरीयाभिधानिकाः ।
वैजवाप नेकेत्याद्याः शाखा यजुषि संस्थिताः ।। २२६ ।।
सान कौथूम [घ्: कौस्तुम] संज्ञैका द्वितीया च चरायणी [मू: धरायणी] ।
गानान्यपि च चत्वारि वेद आरण्यकस्तथा ।। २२७ ।।
ऊह [क्, ख्, घ्: ऊहं] उख [क्: ऊप्यं] चतुर्थ च मन्त्रा नवसहस्रकाः ।
प्. ४३) सन्तुः शतकाश्चै ब्रह्मप्रभवकाः [घ्: हटकाः] स्मृताः ।। २२८ ।।
प~चविंशतिरेवात्र साम्नो मानं प्रकीर्तितम् ।
सुमन्तुर्जाजलिश्चैव श्लोकायनिस्तथापरः [घ्: श्लोकाध्याय-] ।
शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।। २२९ ।।
ऋषिभिर्बहुभिस्तज्ज्ञैः प्रोक्तोऽथर्वसमुच्चयः ।
मन्त्राणा युतं साष्टशंतं चोपरि षट्शतम् [घ्: चोपनिषच्छतम] ।। २३० ।।
तस्मात्स्वदशनाचार्यैर्मन्त्रः कार्यस्तथाध्वरः [क्: ध्वजः] ।
शिवादीनां प्रयत्नेन ह्यन्यथा दोषदायकाः ।। २३१ ।।
सौगतार्हतवेदादिमन्त्रर्वा स्थापिते शिवे ।
राष्ट्रराज्ञोभवेद्दोषः [घ्: राष्ट्र राज्ञो भवे-] कर्तु कारयितुस्तथा ।। २३२ ।।
द्विजराजन्यविटशूद्राः शैवसंस्कारवर्जिताः ।
नारकास्ते[ख्: नो रक्षिणः; घ्: नारकिनः] समाख्याताः कर्तुः कुलान्वकारकाः ।। २३३ ।।
पुस्तकाध्ययनादेव लिङ्गादीन् स्थापयेद्द्विजः ।
संकीर्णवृत्तिर्विज्ञेयस्त्वभोज्यः सर्वदा बुधैः ।। २३४ ।।
उपरोधात्प्रमादाद्वा भुक्त्वा तत्र शतं जपेत् ।
बहुरूपस्य मन्त्रस्य निर्दोषो वै भवेत्ततः ।। २३५ ।।
सबलोद्येष [मू, अ, क्: सचलो ह्येव] विख्यातो नाममात्रेण स द्विजः ।
आचार्यो गीयते लोके न ह्यसौ पारमार्थिकः ।। २३६ ।।
दीक्षा [ख्, घ्: व्याख्या] स्थापनमन्त्राद्यैर्वर्तितस्तु पितामहे ।
प्. ४४) दैशिकास्त्रिविधा ग्राह्योःप्रागुक्ता ये गुरुक्रमात् ।। २३७ ।।
देव [घ्: देवे] कर्तरि नाशो [मू, अ: विनाशो] वाभोगो वा यत्प्रतिष्ठिते ।
शिवतुल्योऽपि स त्याज्योदग्धहस्तो [मू: ग्राह्यो-] गुरुःस हि ।। २३८ ।।
शैवसंस्कारसंपन्नाःशास्त्रज्ञाः साधकोत्तमाः ।
प्रतिष्ठेयुः सुरान्सर्वानभावे दैशिकस्य तु ।। २३९ ।।
विनीतो धर्मवान्दक्षो निरालस्यो विमत्सरः ।
ऋजुर्लज्जान्वितः साधुर्जितक्रोधो जितेन्द्रियः ।। २४० ।।
लक्ष्यलक्षणमानज्ञो वास्तुकालादि वेदकः ।
सुदृष्टिः [क्, ग्: अतृष्णिः] कुलजो धीमान्नोद्वेगी सूक्त [घ्: सूत्र] तत्परः ।। २४१ ।।
पत्रं चतुष्पदं लिङ्गस्तम्भं पिण्डिं च रूपकम् ।
प्रासादं मण्डपं द्वारं विद्याद्यो [विन्द्याद्यो, लिं पु. पा.] हि स [ग्: हेम] कारुकः ।। २४२ ।।
सर्वावयवसंपूर्णाः शिवसंस्कारसंयुताः ।
शिवधर्म [घ्: कर्म] विधानज्ञा मूर्तिपा दैशिकादयः ।। २४३ ।।
सहायाः कुलजा धीराः समर्था भक्तितत्पराः ।
विनीता निपुणा दक्षा गुरोरादेशवर्तिनः [क्, ख्: राज्ञानुवर्तिनः] ।। २४४ ।।
इति लक्षणसारसमुच्चये कर्तुराचार्यादिपरीक्षा नाम द्वितीयो विधिः ।। २ ।।
==अथ तृतीयः==
दैशिकैः शिल्पिभिः सार्धं ग्राह्या ये तरवः शुभाः ।
शिला वा जाति [मू, अ, क्, ग्: राजाभि] भेदेन अधुनैव निरूप्यते [ख्: निरूप्यन्तेऽधुनोच्यते] ।। १ ।।
वनपुष्पाकुला भूर्या वारुणी सा बहूदका ।
काश्मीरी प्राचि याम्ये वा खदिरो ब्रह्मवृक्षकः ।। २ ।।
यस्यामलिकपोताहिशिखिगृध्रामिषाशिनः ।
अन्तर्गत जलस्तोकं साग्नेयी रूपतो धरा [ख्: परा] ।। ३ ।।
ब्रीहिक्षेत्रं च याम्ये स्यात्क्षीरवृक्षश्च पश्चिमे ।
सौम्ये तोयं च माहेन्द्री पीलूद्दालस्नुहीयुता [ग्: द्वालस्तु संयुता] ।। ४ ।।
शर्करार्कद्रुमाकीर्णा मृगतृष्णान्विता च या ।
अतृणाम्बुशगालाढ्या वायवी सा मही स्मृता ।। ५ ।।
आसु भूषु [क्, ग्: आग्ववृक्ष] क्रमाज्जाताः शिला वृक्षास्तदात्मकाः ।
माहेन्द्रीवारुणीजाताः शस्त्राश्चान्ये च गर्हिताः ।। ६ ।।
स्पन्दनो मधुकः शिप्रो [क्, ख्, घ्: सिप्रो] रुद्राक्षो धवचन्दने [क्: नागकेशरः] ।
शमीद्राक्षा सुराह्वश्च नवैते विप्रशान्तिदाः ।। ७ ।।
श्रीवृक्षारग्वधारिष्टशिरीषारुणचन्दनम् ।
प्. ४६) कदरा [कदरः=श्वेतखदिरः, इति वाचस्पत्यम्] शोकशाकं च शृङ्गी [ग्: वृक्षी] च नृपभूतिदा ।। ८ ।।
श्यामाबकुलकाश्मीरीजम्बुचम्पकशिंशपाः ।
सरलः पनसो बीज इत्येते वैश्यवृद्धिदाः ।। ९ ।।
कर्णिकारोऽर्जुनो निम्बः [क्, ख्, घ्: हेम] सप्तसारोऽथै [घ्: सारश्च] तिन्दुकः ।
काञ्चनासन [ख्: मर] लोध्राश्च साल शूद्रस्यपुष्टिदाः ।। १० ।।
ग्राह्याः स्निग्धा महाकायास्त्वग्राह्याः पत्रसङ्कुलाः ।
सुभूस्थाः [ग्: अस्वस्थाः] शोभना हृद्या, आरोग्या यौवनोद्वहाः ।। ११ ।।
अन्येऽपि शोभना [ख्: सानमा] वृक्षा घनाः क्षीरसमन्विताः ।
सारमध्या द्रढीयांसो नान्यकार्येषु योजिताः ।। १२ ।।
संश्लिष्टान्स्फुटितान् वक्रान् कृम्याद्यान् कोटरान्वितान् ।
ग्रन्थितुल्यशिरायुक्तान् बृद्धबालातुरांस्तरून् ।। १३ ।।
शुष्कान् वज्राग्निदग्धांश्च खगभूतादिसेवितान् ।
वल्मिकोत्थाञ्श्मशानोत्थान् फलाम्भः सेवितांस्त्यजेत् ।। १४ ।।
मध्यावासान्स्वयं पातान्नदीम [मू, अ: नदीद्रु] मरुताहतान् ।
खरित्सङ्गमदेवोत्थांस्तापसाश्रमजांस्त्यजेत् [मू, अ, क्: श्रयजां-] ।। १५ ।।
अवलांश्चालयेद्यस्तु प्रासादान् ब्रा हाणान्द्रुमान् [मू, अ, क्: क्वचित्] ।
अचिरेणैव कालेन चालको न भवेदसौ ।। १६ ।।
विधिमन्त्रोपचारेण तेषां छेदनश्चालने [मू, अ: भेदन-] ।
प्. ४७) देवकार्ये न दोषः स्यादित्युक्तं पारमेश्वरे ।। १७ ।।
दृष्ट्वा कुलक्षणं वृद्धि [क्, ख्, घ्, म्: वृक्ष] कुर्यात्तस्याधिवासनम् ।
शोधयेद्भूमिभागं तु चतुर्दिक्षु समन्ततः ।। १८ ।।
दक्षिणाभर्गुरुः [ग्: भव] पूज्यो वस्त्रैः स्वर्णविभूषणैः ।
ततः शिल्पिप्रधानाश्च सहायाःकुसुमादिभिः ।। १९ ।।
यदैवामन्त्रितो वृक्षः कम्पते मानवीं वदेत् ।
विपरीत तदा मन्त्री दूरतस्तं विवर्जयेत् ।। २० ।।
क्षालयेद्वारिणा वृक्ष शिलां वाथ मनोरमाम् ।
गोमयेन ततो भूमि लेपयित्वा गुरुस्तदा ।। २१ ।।
कृताह्निक शुविस्तत्र ब्रह्माङ्गकृतविग्रहः ।
ध्यात्वा देवं च विज्ञाप्य कृत्वाचार्घ्यं विचक्षणः [क्: कृत्वाचायं विचक्षणम्] ।। २२ ।।
आत्मपूजां पुरा कृत्वा कुर्याद्दिगवलोकनम् ।
अस्त्रं ध्यात्वा यजेन्मन्त्री [ख्: जपेन्-] वर्मणा [मू: चर्मणा] परिवेष्टयेत् ।। २३ ।।
भूमिशुद्धिं ततः कृत्वा दक्षिणे स्थण्डिले यजेत् ।
शिव संपूज्य वह्निस्थ नवद्यं ढौकयेच्चरुम् ।। २४ ।।
मन्त्रसन्तर्पणं कृत्वा पूर्णां दद्याच्छिवेन तु ।
विज्ञाप्य कर्मशस्त्राणि पूजयेत्तर्पयेदपि [ख्: दर्पये] ।। २५ ।।
दिशमाश्रित्य कौवेरी वायवीं वा समाहितः ।
ततो विज्ञाप्य देवेश कुर्यादालंभनं पुनः [घ्: कृत्वाचालंभनं पुरा] ।। २६ ।।
तज्जातीशेन कुम्भैश्च चतुर्भिः स्नापयेदपि ।
प्. ४८) ताडनं भस्मनास्त्रेण प्रोक्षणं शिववारिणा ।। २७ ।।
लेखनं चास्त्रदर्भेण वर्मणा [मू, अ: चर्मणा] परिरक्षणम् ।
वस्त्रं त्रिसूत्रं वृक्षस्य शिलायाश्च कुशान्वितम् ।। २८ ।।
ज्ञात्वा शुभनिमित्तानि [क्, ग्: शुभानि सिद्धानि] यजेताथ गुरुस्तरुम् ।
संहितोक्तेन मन्त्रेणस्नानवस्त्रादिकं भवेत् ।। २९ ।।
गन्धेन पुष्पधूपाभ्यां नैवेद्यैः पूजयेद्द्रुमम् ।
दद्याद् बलिं च माषान्नैरामिषासवसंयुतैः ।। ३० ।।
ऐन्द्रागारेऽथ होतव्य रुद्रस्याद्रष्टोत्तरं [वृक्षस्या-] शतम् ।
अर्घं दत्वा च वृक्षस्य [मू, अ: रुद्रस्य] मन्त्र संश्राव्यकं वदेत् ।। ३१ ।।
ओं [प्रणवोतु यं, मूल, अ, ख् पुस्तकेषु नास्ति] श्रीनिकेत नमस्तुभ्यं देवजुष्टवनस्पते ।
सङ्क्रमान्यदितः स्थानाद्गुणवद्यन्मनोहरम् ।। ३२ ।।
ओं श्री/ ह्री वौषट् ।। इति संश्राव्यमन्त्रः ।।
पूर्णाहुतिं शिवेनैव ततो दद्याद्बहिर्बलिम् ।
यो यस्मिन् [मू, अ, क्, ग्: यत्र] विहितो मन्त्रः शास्त्रे स्याद्बलिकर्मणि ।। ३३ ।।
स एव बलिमन्त्रः स्यात् [मू, अ, क्, ग्: विहितो मन्त्रः] स्वनामप्रणवोऽथवा ।
स्थानेऽस्मिन् यानि भूतानि पिशाचा राक्षसाश्च ये ।। ३४ ।।
सिद्धाविद्याधरा नागा देवाश्चैव सदानवाः ।
तांस्तु संपूज्य विधिवत्प्रियवाक्यैः प्रतोषयेत् ।। ३५ ।।
शिवलिङ्गार्थमस्माकं यात्रा चैषा [अ: यैषा] शिवाज्ञया ।
प्. ४९) शिवार्थं यद्भवेत्कार्यं युष्माकमपि तद्भवेत् ।। ३६ ।।
अनेन बलिदानेन प्रीता भवत सर्वदा ।
सुखेन गच्छतान्यत्र मुक्त्वा स्थानमिदं द्रुमम् ।। ३७ ।।
ततश्चाचम्य विधिवत्सकली [ख्: सफली] कृतविग्रहः ।
शिवं संपूज्य विधिवत्स्वप्नमाणवकं [मू, अ, क्, ख्, ग्: विज्ञाप्य-] जपेत् ।। ३८ ।।
चरुं प्राश्य स्वपेत्तत्र कुशतल्पेषुयाज्ञिकः [घ्: तल्पे तु याज्ञिके] ।
स्वप्नमाणवकं रात्रौ शतमष्टोत्तरं जपेत् ।। ३९ ।।
ओं नमो जय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय १ स्वप्नाधिपतये नमः ।। ४० ।।
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ।। ४१ ।।
ओं हिलि २ मातङ्गिन् महेश्वर [महेश्वर इति पाठः ख्, घ् पुस्तकयोर्नास्ति] शूलपाणे दुःस्वप्नं
हन २ शुभं दर्शय २ हु/ फट् स्वाहा ।।
इति स्वप्नमाणवकमन्त्रः ।
निर्धूमं ज्वलितं [क्: फलितं] वक्षं पुष्पितं फलितं [क्: ज्वलितं; ख्: हरितं] श्रिया ।
रुद्रेण चान्वितं स्वप्ने दृष्ट्वा वाच्यं शुभं सदा ।। ४२ ।।
सिच्यमानं तु रक्तेन रक्षोभूतयुतं तथा ।
कप्युष्ट्रैर्भक्षमाणं वा तं त्यजेदशुभ [क्: जेच्चाशुभ] प्रदम् ।। ४३ ।।
प्. ५०) न शक्यते यदा त्यक्तुं लक्षणाढ्यं सुशोभनम् ।
जुहुयाच्च तदा स्नात्वाघोरं दोषनिवृत्तये ।। ४४ ।।
ऊर्ध्वं वनस्पतेर्मूर्धा स्यादधः पादकल्पना ।
ऐन्द्रे सौम्ये तथेशाने अव्यक्तादिमुखं क्रमात् ।। ४५ ।।
ईशाशायां द्रुमं हन्यात् सिद्धाद्यैस्तज्जपक्रिया [मू: जयक्रियः] ।
क्षौद्राज्याभ्यक्तशस्त्रेण घोरास्त्रेणाभिमन्त्र्य च ।। ४६ ।।
आत्मानं शिववद्ध्यात्वा शस्त्रं चैवास्त्ररूपिणम् ।
आचार्यः प्रथमं हन्याच्छिवास्त्रं संजपंस्ततः ।। ४७ ।।
पश्चात् सुनिपुणः [मू: निपुणं] शिल्पी कर्म कुर्याद्यथोदितम् ।
वार्क्ष [ग्: कर्क] मन्त्रान्तदिक्कं (?) [ग्: दिदं] वै घटयेल्लिङ्गमादरात् [क्, ग्: तदनुक्रमात्] ।। ४८ ।।
इन्द्रेशानशशाङ्काशा भूतिदाः पततस्तरोः ।
संछिन्द्यात्पतितं [मू, अ: संचिन्त्यात्-] वृक्षमजातेनैव [क्, च्: जातेनैव; ग्: मथतेनैव] भक्तिमान् ।। ४९ ।।
रक्तकृष्णं वरं [ख्: कृष्णांबरं] सारं मध्यमं पीतरक्तकम् [ग्: वत्तरुम्] ।
गृह्णीयाद्दारु लिङ्गार्थं त्यजेदापाण्डरं लघु ।। ५० ।।
यद्यथा वृक्षपार्श्वं [क्, ग्: पार्श्ववृक्षं] तु तत्तथैव प्रतिष्ठयेत् ।
स्थापितं विपरीतं तु राष्ट्रविभ्रममादिशेत् ।। ५१ ।।
वक्षस्योर्ध्वं शिरो ज्ञेयमधोमूलं सुखावहम् ।
अधः शिरो यदा लिङ्गं तदा गोत्रक्षयो भवेत् ।। ५२ ।।
प्. ५१) प्रपातोऽन्यदिशोभागे वृक्षस्य न सुखावहः ।
ततो दिग्देवताशान्तिं कुर्याद्दोषविमुक्तये ।। ५३ ।।
पाशुपतेन शास्त्रेण हुत्वा चाष्टोत्तरं शतम् ।
अन्यदिक्पातदोषेण मुच्यते शान्तिमाप्नुयात् ।। ५४ ।।
इत्थं दिक्शोधनं कृत्वा शिवं संपूज्य तर्पयेत् ।
दद्यात्पूर्णाहुतिं चापि ततः कामानवाप्नुयात् ।। ५५ ।।
प्रमादाद्यदि वृक्षस्य छेदने रुधिरं स्रवेत् ।
पतने मध्यभङ्गः स्यात्तदा होमो विधीयते ।। ५६ ।।
आज्याहुतिसहस्रं वै बहुरूपेण होमयेत् ।
दद्यात्पूर्णाहुतिं चापि शिवेनाशिवहारिणा ।। ५७ ।।
जुहुयाद्दुर्निमित्ते तु घोरमन्त्रं शतं [मू, अ, क्, ख्, ग्, ङ्: च घोरमन्त्रेण तं] शुभम् ।
शिलादाने तथा पूजा दार्वादाने यथोदिता ।। ५८ ।।
शिलाः सम्प्रत्यहं वच्मि युवादिस्त्र्यादितस्त्रिधा ।
द्विजादिवर्णभेदेन रूपभेदेन च स्थिताः ।। ५९ ।।
द्वात्रिंशल्लक्षणा ह्यष्टा [ख्: ज्येष्ठा] शीतिदोषविवर्जिताः ।
युवती सा शिला ग्राह्या त्रिषु लिङ्गेषु नेतराः ।। ६० ।।
धर्मायुर्धनभूनाथप्रजाराष्ट्र [ख्: प्रजानां स्व] कुलस्य च ।
वृद्धिं दद्याच्छिला नूनं तरुणी लक्षणान्विता ।। ६१ ।।
आकरौ द्वौ तु विज्ञेयौ वनोपवनसंज्ञकौ ।
त्रयोऽङ्कुरा दिशस्तिस्रो गन्धास्वादौ [मू: गन्धस्वादौ] चतुर्विर्धा ।। ६२ ।।
प्. ५२) रेख नव त्रयः [मू, अ: नवास्त्रय; क्, ख्: नवाध्वयं] शब्दाश्चतस्रो जातयस्तथा ।
तारुणमेकमित्येवं द्वात्रिंशल्लक्षणानि तु ।। ६३ ।।
विस्तीर्णा महती स्थूला समादीर्घैकवर्णिनी ।
स्निग्धानिम्ना शिला धन्या सिक्ता पुण्यनदीजलैः ।। ६४ ।।
कुलाद्रिजा च भूगुप्ता भृशं गम्भीरशब्दकृत् ।
सुगन्धी निविडाङ्गी च द्रमच्छायास्थिता सदा ।। ६५ ।।
अरोगा गर्भहीना च रेखा कीलकवर्जिता ।
दृढा मनोरमा गुर्वी मधुरध्वनिभूषिता ।। ६६ ।।
गुडाभयाम्रनिम्बानामास्वादेन द्विजादितः ।
क्रमेणाब्जाज्यगोवर्वो [मू, अ, घ्: गोचर्वी] मूत्रगन्धाः शुभाःशिलाः ।। ६७ ।।
मेघवीणारवा घण्टाशङ्खशब्दाः शिला वराः ।
शान्तिं जयं धनं चायुश्चातुर्वर्ण्ये प्रयच्छति ।। ६८ ।।
पुण्यतीर्थाश्रिता साध्वी सुनिषेच्या [क्, ख्, ग्, घ्: सेव्या] सुशीतला ।
सुतेजा रूपसंपन्ना धनदेशेन्द्र [ख्: शेन्द्रु] दिक् स्थिता ।। ६९ ।।
पाण्डराब्जोपमा श्वेता कुमुदाभा शिला द्विजा ।
नक्षत्रं च मृगं तस्यास्तद्देवः शशलाञ्छनः ।। ७० ।।
कुलत्थाभारुणाश्यामा ह्युत्पला [अ, क्, ख्: या स्यादुत्पला] भा च सा नृपा ।
अस्या ऋक्षं भवेज्ज्येष्ठा देवता च शतक्रतु ।। ७१ ।।
हरित्पीता कपोताभा गुडाभा कपिला च वित् ।
प्. ५३) नक्षत्रं फल्गुनी चास्या देवश्च [मू: देवता] भगसंज्ञकः ।। ७२ ।।
माषपारावताभा या कृष्णा शूद्रेति सा स्मृता ।
नक्षत्रमश्विनौ [मू, अ: मश्विनी] चास्या देवौ चैवाश्विनौ [घ्: द्वौ चाश्विनौ] मतौ [मू: स्मृतौ] ।। ७३ ।।
घना च सुस्वना [मू, अ, क्: सुस्वरा] स्निग्धा विशाला बहलच्छविः ।
शीतला च सुखस्पर्शा निविडाङ्गी मनोरमा ।। ७४ ।।
कदलीदलतुल्या स्त्रीशिला स्त्रीणां सुखार्थदा ।
एकवर्णःस्थिरःस्निग्धो गजकण्ठो [ख्: घण्टो] पमस्वनः ।। ७५ ।।
वहलो वृत्तदीर्घश्च वटपत्रनिभच्छविः ।
पाषाणोऽय गुरु पुमान् पुरुषाणांविभूतिदः ।। ७६ ।।
नपुंसकं द्विरूपं स्यान्नपुंसकविवृद्धिकृत् ।
स्त्रिया स्त्रीप्रतिमा कार्या षण्ढं षण्ढेन ना नृभिः ।। ७७ ।।
भग्नकांस्यस्वरं रूक्षं गैरिकाखटिकोपमम् ।
शिराढ्यं कर्कशं त्व र्जु [क्: वर्ज; ख्: वक्ष्य; ग्: त्वज्जा] इदमश्म नपुंसकम् ।। ७८ ।।
पुंलिङ्गलक्षणोपेतः पाषाणःशिवकर्मसु ।
शेषाणां स्त्रीशिलाः प्रोक्ताः पीठिकाद्याश्च [ग्: याश्च] शूलिनः ।। ७९ ।।
कृष्णे सिताङ्कराः श्रीदाः पीताश्मनि च लोहिताः ।
सर्ववर्णात्मके श्वेताःशेषाश्च शुभदाः [मू, अ, क्, ख्, ग्, ङ्: स्त्वशुभदा] स्मृताः ।। ८० ।।
श्वेताः पद्मोपमा रेखा द्विजातीनां विवृद्धिदाः [मू: -द्धिकृत्] ।
प्. ५४) रक्ता पीता च भूपस्य विशः श्यामकुलत्थभाः ।। ८१ ।।
शूद्राणां हरिताःकृष्णाः स्ववर्णा [मू, अ, क्: सुवर्ण] दधिकाश्च याः ।
इन्द्रचापोपमारेखाः सर्वाश्रीवसुभूतिदाः ।। ८२ ।।
हीनरेखोत्तमा हीना हीनरेखोत्तमा शुभा ।
लक्षणाढ्याल्पदोषा या ग्राह्या सा होमशोधिता [ख्: शोभिता] ।। ८३ ।।
हृन्मन्त्रेणाङ्कयेद्दिक्षु सद्योमन्त्रेण चोद्धरेत् ।
इन्द्रेशानेन्दुकाष्ठासु तस्या मस्तकमिष्यते ।। ८४ ।।
तदूर्ध्वाधो यथा सङ्ख्यं पृष्ठं वक्त्रं च लक्षयेत् ।
त्रिविधेष्वपि लिङ्गेषु शिलायां नापरो विधिः ।। ८५ ।।
दिगादिजातिपर्यन्तं द्वात्रिंशल्लक्षणाः शिलाः ।
दोषान् वृद्धादिकान् ब्रूमश्चाष्टाशीतिप्रभेदतः ।। ८६ ।।
वृद्धबालकबिम्बानि छिद्रकीलकसन्धयः ।
शूषिरं स्फोटकं [ख्, घ्: स्फाटिकं] व्योमं गारा [ख्: गला] पटलजालकम् ।। ८७ ।।
द्वादशैते महादोषाः सर्वस्थानेषु वर्जिताः ।
लक्षणं कथयाम्येषां संक्षेपेण प्रभेदतः ।। ८८ ।।
या सर्पभेकमीनाङ्कैश्चित्रता [मू, अ, ग्: मीनाङ्गै-] चातिकर्कशा ।
निष्ठुरा चातिरूक्षा च वृद्धा कार्यविनाशिनी ।। ८९ ।।
तन्वी मृद्वी च बाला स्यादीषद्दग्धेष्टकोपमा ।
टङ्कघातासहिष्णुञ्च न तां देवाय योजयेत् ।। ९० ।।
मण्डलाज्जायते गर्भो गर्भाद्दोषोऽवगम्यते ।
तस्माद्बिम्बात्मकं चाश्म संछिन्द्याद्दारु वै तथा ।। ९१ ।।
प्. ५५) सान्द्राणि सर्वदृश्यानि दशाष्टौ मण्डलानि च ।
सप्तान्यानि च चित्राणि चतुर्धा लेपनं तथा ।। ९२ ।।
पाण्डरं गुडखण्डाभं माञ्जिष्ठं रक्तपीतकम् ।
कापिलं हरितालाभं कापोतमलिवर्णकम् [ख्, घ्: मल्लिकाधौतवर्णकम्] ।। ९३ ।।
कृष्णं नीलं च मध्वाभं चाषाभं [मू, अ, क्: वासाभं] भस्मरूपकम् ।
किंशुकाभं कुसुम्भाभमतसीपुष्पसन्निभम् ।। ९४ ।।
शुद्धाष्टादशबिम्बानि सप्तचित्राण्यथो ब्रुवे ।
चम्पकाभं च नीलाभं मिश्रलोहितपीतकम् ।। ९५ ।।
कृष्णं [ख्: कृत्स्नं] नानाविधं चित्रं या [मू, अ: चान्यदा] स्पदं शीमिका [मू: शीविका] तथा ।
रक्तं [ख्: रूक्षं] च पाण्डरं चैव गर्भदोषान् वदाम्यत [ख्: म्यहम्] ।। ९६ ।।
मत्स्यः पाण्डरके बिम्बे म्रियन्तेऽजाविकास्ततः ।
गुडवर्णे शिलान्या स्यात्तेनावृष्टिर्भवेच्चिरम् ।। ९७ ।।
खड्गाभे [मू: खण्डाभे] स्फाटिके वापि [घ्: वायो] गर्भहृत्स्वामिहृच्च तत् ।
मञ्जिष्ठाभे भवेद्भेकः शस्यनाशो जलाद्भयम् ।। ९८ ।।
लोहिते कृकलासः स्यात् सकुष्ठधनहानिकृत् ।
पीते गोधा नृपं हन्याङ्टवां पीडाकरी च सा ।। ९९ ।।
आखुःकपिले शोथ [ख्: सोऽथ] श्वासतस्करभीतिकृत् [घ्: भीतिदः] ।
तालाभे कर्कटःपित्तरोगदर्भिक्षकृच्च सः ।। १०० ।।
प्. ५६) भृङ्गाभे च विषं तच्च विषकोऽपि न वृष्टिकृत् ।
ज्येष्ठा कपोतकण्ठाभे व्याधिदारिद्र्यभीतिदा ।। १०१ ।।
कृष्णेऽहिः स प्रजा हन्ति कर्तुश्च कुलनाशकृत् [मू, अ, क्, ग्, ङ्: नाशनः] ।
नीलके मक्षिका सा च हन्याद्भार्यां सपुत्रकाम् [ख्: सपुत्रिकाम्] ।। १०२ ।।
खद्योतः क्षौद्रवर्णे स्यात् स दारिद्र्याग्निभीतिदः ।
नृपक्षी चाषवर्णे स्यात्तेन कर्तुःप्रजाक्षयः ।। १०३ ।।
भस्माभे वालुकाः खं वा नैःस्वं चौरभयं ततः ।
किंशुके शक्रगोपः स्यात्तेन राज्ञो धनक्षयः ।। १०४ ।।
शतपादी कुसुम्भाभे भवेत्तेनामयो महान् ।
अतसीपुष्पसंकाशे गर्भे विद्यात् पिपीलिका ।। १०५ ।।
तया चिन्ता भय शोकः शत्रुवृद्धिश्च जायते ।
इत्यष्टादश बिम्बानि कथितान्यत्र संख्यया ।। १०६ ।।
गुडवर्णात्मके बिम्बे चित्रिते चम्पकाभया ।
भवेयुः कृमयो गर्भे नाशो देहार्थयोस्ततः ।। १०७ ।।
नीलचित्रे भवेत्काको गृध्रो [क्: मृगो] वाथ कपोतकः ।
तेन राजा च मन्त्री च कारको म्रियते क्रमात् ।। १०८ ।।
मध्वाभे शवले चित्री तया शस्यधनक्षयः ।
रक्तचित्रे च शृङ्गी स्यात्तया शोकभयं मुहुः [घ्: शोककरं बहु] ।। १०९ ।।
पीतचित्रे पतङ्गः स्यात् स वै [घ्: सर्व] स्वस्थानहानिदः ।
कृष्णचित्रे च गोनाशः सोऽनेकव्याधिकारक ।। ११० ।।
प्. ५७) वृश्चिको बहुचित्रेस्याच्छूलरुग्विषभींतिदः [ग्: -स्याद्गल-; घ्: -सच्छूल-] ।
सप्तैतानि तु चित्राणि ज्ञेयानि बाह्यलक्षणैः ।। १११ ।।
बाह्याद्यद्युप[मू: द्यनुप; ग्: द्यस्त्युप] लब्धिर्नो तदा भ्रान्तः प्रलेपयेत् ।
चतुर्विकारभेदेन गर्भं विद्यात्प्रलेपतः ।। ११२ ।।
ब्रह्माणं करवीरं च ऋद्धिवृद्धिसमन्वितम् ।
सौराष्ट्री तालसंयुक्तं [ख्: कलसंयुक्तैः] सौवीरेण [मू, अ: सौरीरेण] च पेषयेत् [घ्: पावयेत्] ।। ११३ ।।
तेन लिप्ता स्थिता [मू: सिता] रात्रौ वाष्पस्वेदादिसंयुताः ।
भृङ्गाही कृष्णमत्स्यं वा ज्ञात्वा ता दोषदास्त्यजेत् ।। ११४ ।।
त्रिफलाश्वघ्नमांसी च मेघकुष्ठ [क्: मुरत] समन्विताः ।
पिष्टवैवं समभागं तु नारी क्षीरेण लेपयेत् ।। ११५ ।।
लेपाच्छिमिशिमां ज्ञात्वा [मू: शिलां ज्ञात्वा; ख्: च्छिमां जप्त्वा] गर्भे विद्यान्महाविषम् ।
तेन कर्तुर्भवेन्मृत्युस्तस्मात्तां सलिले क्षिपेत् ।। ११६ ।।
क्षीरपिष्टैः प्रलिप्याश्म कारीषविषगैरिकैः ।
अहोरात्रोषिते रक्तं त्याज्यमूर्मान्वितं च यत् [ख्: कुर्मान्वितं यतः] ।। ११७ ।।
पिशाचाश्वघ्नवज्राणि अभया वैष्णवाङ्किताः ।
तीक्ष्णं रुद्रजटायुक्तमविक्षीरैः प्रपेष्य च ।। ११८ ।।
लिप्ता शिलोषिता पश्चात्पाण्डरादि प्रदर्शयेत् ।
द्वयोर्द्विरूपकं गर्भे ज्ञात्वा प्राग्दोषदांस्त्यजेत् ।। ११९ ।।
प्. ५८) छिद्रं चोभयश्छिद्रं [घ्: श्छिद्रैः] रन्ध्राकारं बहिर्गतम् ।
कर्तुस्तत्कुलहृन्नूनं गुरोर्दद्यात्क्षयामयम् ।। १२० ।।
कीलकं कीलकाकारं कारोः कर्तुश्च नाशकृत् ।
टङ्काघाताद्भिदाकारी [ख्: ताद्भया; मू: ताभिधा] सन्धिः कर्तृविनाशकः [मू, अ: कर्तुर्विनाशकृत्] ।। १२१ ।।
शुषिरं शुषिराकारं कर्तुस्तद्वंशनाशकम् [मू: कृत्] ।
स्फोटं [घ्: स्फाटं] स्फुटितकं विद्याच्छस्त्रघातान्तदायकम् ।। १२२ ।।
सूक्ष्मगर्भै [मू: गर्ते] रसङ्ख्यातैः परितःपरिवेष्टितः ।
व्योमाकारो भवेद्व्योम सोऽचिरात्कर्तृनाशकः ।। १२३ ।।
[चापान्तर्गतोऽयं पाठो मूलपुस्तके नास्ति] स्फटिकाभा भवेद्गारा [क्, ख्: द्दारा] तङ्कभङ्गकरी च सा ।
तया कर्तृप्रजानाशः शीघ्रमेव न संशयः ।। १२४ ।।
भूर्जत्बगुपमोऽश्मा [मू, अ, ग्: मोष्मा] यःपटलीति स कीर्तितः ।
तेन कुर्यान्न लिङ्गानि कृते च द्वौ विनश्यतः ।। १२५ ।।
जालकं षट्प्रकारं स्यान्मधुकोषपुटोमम् ।
पीतं सितं तथा कृष्णं रक्तं नीलं च मिश्रकम् ।। १२६ ।।
नाशैनो बन्धदश्चैव भार्यापुत्रार्थहृत्क्रमात् ।
नवत्यर्धं महादोषा भेदभिन्नो इति स्मृताः ।। १२७ ।।
मध्यदोषान् प्रवक्ष्यामि नाम्ना षोडशधा स्थितान् ।
प्. ५९) ब्रह्मोपेन्द्रविभागस्थांस्त्रिधा लिङ्गेष्वदोषदान् [मू: लिङ्गेषु दोषदान्] ।। १२८ ।।
रुद्रभागाश्रितान् दुष्टांस्त्यजेत्तानशुभप्रदान् ।
शिरा [शिराशब्दोऽयं तालव्यो दन्त्यश्चेत्यूष्मभेदे] ग्रन्थितुषारैश्च विमलं ददु बिन्दुभिः ।। १२९ ।।
छिन्नरेखा कुरेखा च मक्षिकावर्त [घ्: वर्ति] हीरकौ [क्, ख्: हीरकैः; घ्: हीनकैः] ।
विडालाश्वोष्ट्रगोमायुकाकपादाङ्कितांस्त्यजेत् ।। १३० ।।
या विवर्णलताकारा सा शिला बहुदोषदा ।
ग्रन्थिरूपोन्नतग्रन्थिर्जठरामयदायक ।। १३१ ।।
पद्मपत्रस्थपानीयकणिकासदृशं तु यत् ।
तुषारं तद्विजानीया पुत्रशोकार्तिदायकम् [ख्, घ्: कारकम्] ।। १३२ ।।
चतुर्धा वै मलंरूप मीनगन्धोपलक्षितम् ।
हेमघोषामयं ताम्र तद्दुष्टं पिङ्गलामते ।। १३३ ।।
दुर्भिक्षावृष्टिदं हैमं घोषं कर्तृविनाशकम् [ख्, घ्: शदम्] ।
जनं हन्त्यायसाक्रान्ता शिला तामी च [घ्: ताम्राच्च] शिल्पिनम् ।। १३४ ।।
मृदी वृत्ता च धूम्राभा दद्रुः स्यादतिरोगदा ।
कृष्णः पीतोऽरुणो बिन्दुः स शोकभयरोगदः ।। १३५ ।।
मूर्ध्नि बिन्दौ सिते मृत्यूरक्ते पाप भवेद्ध्रुवम् ।
पीते धनक्षयः कर्तुः कृष्णे बन्धो द्वयोर्द्विधा ।। १३६ ।।
स्थूलातिदुर्बला रूक्षा रेखाहिकुटिला च या ।
रेखा रेखानुबिद्धा वा [मू, अ, क्: च] पार्थिवं सा विनाशयेत् ।। १३७ ।।
प्. ६०) भार्याघ्नी छिन्नरेखा स्याद् द्वित्रिच्छिन्ना सुतार्थहृत् ।
स्वामिध्नी च चतुश्छिन्ना बहुच्छिन्ना कुलान्तकृत् ।। १३८ ।।
धूम्रां नीलासिता रेखा दुःखदुर्भिक्षरोगकृत् ।
मक्षिका मक्षिकाकारा तया कुष्ठं सुदारुणम् ।। १३९ ।।
आवर्तं इव चावर्तो रुद्रदेशे तु [ख्: रंशेषु] चेत्स्थितः [मू, अ: चोत्थित] ।
तदा नाना गदान् कुर्यात् कर्तुश्चैव न संशयः ।। १४० ।।
नाना स्थानेषु वामाङ्ग आवर्तो यदि दृश्यते ।
त्याज्यं तदा त्रिधा लिङ्गं नृपराष्ट्रप्रजार्थिना ।। १४१ ।।
लक्षणस्य तु मध्यस्थ आवर्तो यदि दृश्यते [ख्, घ्: जायते] ।
वामपार्श्वाश्रितः किंचिद्धन्याद्राष्ट्रं सराजकम् ।। १४२ ।।
रक्ताङ्गी पीतहीरा [घ्: हीना] या सा दुर्भिक्षगदप्रदा [घ्: भयप्रदा] ।
सर्ववर्णा भृशं [ख्, घ्: दश] नूनं प्राणहृत्कृष्णहीरिका ।। १४३ ।।
चतुर्भिः सन्धिभिर्युक्ता [मू: पञ्चभि-; घ्: -मुक्ता] नखैः पञ्चभिरग्रतः ।
उन्नतो लक्ष्यते यश्च [मू: यत्र] विडालाङ्घ्रिः स दोषभाक् [ख्: कृत्] ।। १४४ ।।
हयोष्ट्रजम्बुकध्वाङ्क्षपदकाक्रान्तपङ्कवत् ।
शिलाया रूपमालक्ष्य त्यजेत्तामशुभप्रदाम् ।। १४५ ।।
मध्यदोषास्त्रयोविंशद्भेदैरुक्ता इमे मया ।
स्वल्पदोषान् प्रक्ष्यामि यथा शास्त्रेषु भाषितान् ।। १४६ ।।
त्याज्या शिलान्यसंश्लिष्टा श्लिष्टा या पादपाङ्घ्रिणा ।
वल्मीकोषरचित्युत्था कोष्णा क्षाराम्बुमध्यगा ।। १४७ ।।
प्. ६१) अपुण्यक्षेत्रसंजाता भिल्लादिजनसेविता ।
कुदिक्स्था सूर्यसन्तप्ता कदुत्थामेथ्यदूषिता [क्, ग्: भूषिता] ।। १४८ ।।
कुगन्धा कुरसा चैव तथा वज्राग्निदूषिता ।
दुष्टजीवस्वरा या च योजिता नान्यकर्मणि ।। १४९ ।।
चाण्डाली चान्त्यजा चैव आसां लक्षणमुच्यते ।
या योपलानुलग्ना सा स्नेहविच्छित्तिकारिकाः [मू, अ: कारणम्] ।। १५० ।।
अध्वदा तरुमूलस्था वल्मीकस्था रणप्रदा ।
ऊषरस्थार्थहृज्ज्ञेया चितिस्था दुःखदायिनी ।। १५१ ।।
कोष्णा विद्वेषकृत्क्षार [क्, ग्: वोर] वारिस्था दर्भगत्वदा [क्, ग्: दुर्भगं ददा] ।
पाषदापुण्यदेशस्था वधकृद्भिल्ल [ख्: लिङ्ग] सेविता ।। १५२ ।।
हुताशयमरक्षोऽम्बुमरुद्दिक्स्था यथाक्रमम् ।
दाहं हानिं च शोकं च नैःस्वं रोगं तथावहेत् ।। १५३ ।।
तेजोहृत्सूयतप्ता स्यादपुत्राधर्मकृत्सदा [घ्: पुत्राद्धूताहृत्सदा] ।
सुरापक्षिवसागन्धा उद्वेगजननी शिला ।। १५४ ।।
लवणा कटुका या च सा क्षधातृप्तिकारिणी ।
वज्रदग्धाग्निदग्धा च राज्ञोऽनलभयप्रदा ।। १५५ ।।
भिन्नभाण्डोष्ट्र [क्: भाण्डज] काकह्व [मू: काकाङ्ग] कङ्कपादातिरोगदा [घ्: कङ्कणा-] ।
अन्यकर्मार्थमानीतोन्मादानिष्पत्तिकारिणी ।। १५६ ।।
निस्तेजा बहु [ग: बक] बणा या लघुरव्यक्तवर्णिनी ।
प्. ६२) अन्त्यजा सा शिला ज्ञेया द्विजादीनां विगर्हिता [घ्: तु गर्हिता] ।। १५७ ।।
धूम्रा [ख्: पूज्या] नीला च रक्षा या स्थूलरोमा मनोरमा ।
नान वर्णा च चाण्डली सा कर्तुः [ख्: मान] कुलनाशिनी ।। १५८ ।।
लघुदोषान्विता ग्राह्या मन्त्रसंस्कारसस्कृता ।
प्राकृतानां हितार्थाय कामं मुक्त्यर्थिनां नृणाम् ।। १५९ ।।
अन्त्यजा चान्त्यजानां तु चाण्डालानां हितावहा [मू, अ, घ्: स्वका] ।
स्वल्पदोषा इमे ख्याता विंशतिर्लक्षभेदतः ।। १६० ।।
वर्णजातिवयो रेखा लाञ्छनानि च मण्डलम् ।
([चोपान्तर्गतोऽयं, क्, ख्, ग् पुस्तकेषु नास्ति] ज्ञय सद्भूमिभूतस्य पाषाणस्य द्रुमस्य च ।। १६१ ।।
अल्पवर्णा शिला या स्यादन्यवर्णस्य कल्प्यते ।)
तज्ज तीशेन मन्त्रेण तज्जातिजननं भवेत् ।। १६२ ।।
यथाभिमतमानेन लिङ्गाद्यर्थं शिलां द्रुमम् ।
लाञ्छ यत्वा यथान्यायं कर्तयेच्छोधयेदपि ।। १६३ ।।
यद्वर्णं यन्मयं लिङ्गं तन्मयं पीठमिष्यते ।
पिण्डिकासहितं तच्च विष्णुभागान्तमुन्नतम् ।। १६४ ।।
लिङ्गायामेन विस्तीर्णं वर्तुलाभि [मू, अ, क्, ङ्: वर्तनाभि] रलङ्कृतम् ।
एकखण्डैव कर्तव्या पिण्डिका वै शिवस्य तु ।। १६५ ।।
प्. ६३) ब्रह्मपीठं बहुदलं [क्, ग्: च सदलं] कार्यमेकदलं तथा ।
प्रणालमैन्द्रसौम्ये वा जलाधारमधस्तथा ।। १६६ ।।
लाञ्छयित्वा शिलामादौ पिण्डिकार्थं समाहरेत् ।
अन्यक्षेत्रादपि ग्राह्या पिण्डिका लिङ्गवर्णिका ।
न तु ब्रह्मशिला प्राज्ञैरिति शास्त्रेषु [क्, ग्: तन्त्रेषु] भाषितम् ।। १६७ ।।
लिङ्गमूलावशिष्टा तु ग्राह्या ब्रह्मशिला शुभा ।
लिङ्गछेदोर्ध्वभागस्था तथाधो [मू, अ, क्: तदधो] भागगापि वा ।। १६८ ।।
लिङ्गस्य सा त्रिभागेन चतुर्थांशेन वा भवेत् ।
उच्छ्रायेन तु लिङ्गानामेकखण्डो विधीयते ।। १६९ ।।
हस्तमात्रस्य लिङ्गस्य निःसारा द्व्यङ्गुलाधिका ।
अन्येषामपि लिङ्गानां क्रमेणैकाङ्गुलाधिला [घ्: -णैव-] ।। १७० ।।
यद्वा कर्णायतं सूत्रं ब्रह्मभागस्य मध्यतः ।
तच्चतुर्थेन भागेन लिङ्गविस्तरतोऽधिका ।
अथवा सा रासांशेन ब्रह्मांशो [मू, अ, क्, ग्: च सांशेन ब्रह्मणो] ऽधिकविस्तरा ।
([चापान्तर्गतोयं पाठः क्, ग् पुस्तकयोर्नास्ति] स्वमानान्मेखला तस्याः खातं वा तत्प्रमाणतः ।। १७१ ।।
पदभागोऽपि तुल्यश्च स्वतलश्च प्रशस्यते ।
ब्रह्मांशादधिकः [घ्: ब्रह्माङ्गा-] खातो यवै षड्भिः प्रविस्तरः ।। १७३ ।।
ज्येष्ठोऽर्धार्धयवैर्न्यूनास्तदन्येषां क्रमेण तु ।
रत्नाधाराणि तन्मध्ये वृत्तानि नव [मू: न च] कल्पयेत् ।। १७४ ।।
प्. ६४) कार्या कूर्मशिला चापि [मू: वापि] शुद्धा ब्रह्मशिलापि वा [घ्: -धिका] ।)
स्वमानविस्तरार्धेन बाहुल्येन समन्विता ।। १७५ ।।
अपि मानाधिका कार्या न मानाद्ध्रासयेदबुधः ।
वार्क्षी ब्रह्मशिला वार्क्षे लिङ्गे स्यात्पिण्डिका तथा ।। १७६ ।।
चतुरस्रां शिलां कृत्वा चन्दनेन विलेप्य च ।
अर्चयेदस्त्र [घ्: च्छत्र] पुष्पाद्यैरानेतुं मन्त्रवित्तमः ।। १७७ ।।
पूजयेच्च शिवं साङ्गं तर्पयेच्च प्रयत्नतः ।
तापसाञ्छिवभक्तांश्च तर्पयित्वानयेद्रथम् ।। १७८ ।।
तं रथं महिषाञ्ज्येष्ठान् योजयित्वा च दैशिकः ।
रथे कृत्वा च देवेशं पूजयित्वा तमानयेत् ।। १७९ ।।
शान्तिर्दिनेदिने कार्या यावत्प्राप्तं गृहं भवेत् ।
यदा रथे रथाङ्गानां [मू: रथरथाङ्गानां] प्रमादात्स्खलितं भवेत् ।। १८० ।।
शिवाग्निं जनयित्वा तु तर्पयेद्बहुरूपिणम् ।
शतमष्टोत्तरं हुत्वा मुच्यते सर्वदुष्कृतैः ।। १८१ ।।
शिवं ध्यात्वा स्मरेदस्त्रमर्धं लिङ्गे समुत्क्षिपेत् ।
रथं मार्गगतं कृत्वा शनैः स्वपुरमानयेत् ।। १८२ ।।
समीपं यजमानस्तु प्रत्युद्गम्य [क्, ख्: प्रत्यङ्गस्य] समर्चयेत् ।
शोभां ध्वजपताकाद्यैः स्त्रीभिर्मङ्गलगीतकैः ।। १८३ ।।
कारयित्वा द्विजान् स्वस्तिवाचयित्वा तमानयेत् ।
प्. ६५) प्रासादस्योत्तरे पार्श्वे कर्मकुर्यान्निवेदयेत् ।। १८४ ।।
प्रासादोत्तरदिग्भागे कन्यसादिविभागतः ।
पञ्चसप्तैकादशभिः करैः कर्मकुटी मता ।। १८५ ।।
अन्यदिक्संस्थिता भद्रा गृहीता विधिना शिला ।
प्रासादोत्तरदिग्गर्ते क्षिप्त्वा तां पूरयेन्मृदा ।। १८६ ।।
तस्योपरि शिवं चेष्ट्वा वारुण्यां दिशि संस्थितः ।
तर्पयेदस्त्रराजं च महापाशुपतं च यत् ।। १८७ ।।
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं पुनः ।
एवं सन्तर्पिते ह्यस्त्रे [क्, ग्: ज्येष्ठे] दिग्दोषैर्मुच्यते शिला ।। १८८ ।।
आकृष्टस्यापि [मू, अ: आकृष्णां-] यस्यार्थं ज्ञायते न शिरोमुखम् ।
तस्य लिङ्गस्य सद्विप्रः कन्या शिल्पी च पूजिता ।। १८९ ।।
एकोऽपि यद्विशेदङ्गं [मू: यद्दिशे-] स्पृष्ट्वा तच्च शिरोमुखम् ।
ध्रुवं कर्तव्यमित्याह भगवान् परमेश्वरः ।। १९० ।।
अन्यकर्मोपयुक्ता च संस्कृता येन केनचित् ।
शिलां तां वर्जयेद्यत्नान्नशस्ता लिङ्गकर्मणि ।। १९१ ।।
पिण्डिकादिदलं सर्व वृषभं च यथाविधि ।
एवं दारुमयं चापि [मू, अ, क्, ख्: वापि] लिङ्गादिद्रव्यमानयेत् ।। १९२ ।।
लक्षणाढ्याल्पदोषायाः संस्कारे कथ्यते विधिः ।
प्रागुक्तरेशकाष्ठासु शिलां न्यस्य क्वचिन्मते ।। १९३ ।।
प्. ६६) घोरमन्त्रशतं [मू, अ, ख्, ङ्: मन्त्रेण] हुत्वा षडङ्गान्तं यजेद्धरम् ।
अथवा मृत्युजेतारं विद्याङ्गैः [ग्: विद्याह्वैः] षड्भिरन्वितम् ।। १९४ ।।
इत्थं मुञ्चन्त्यमी दोषाः शिरोवक्त्रादिमौढ्यजाः ।
इत्यनेन विधानेन गृहीत्वा दारु वाश्म [क्, ख्: रश्म] वा ।। १९५ ।।
शोभने दिवसे सम्यङ्मङ्गले सकले कृते ।
लिङ्गं गुर्वाज्ञ्या कुर्यात्त्रिधा मानोपलक्षितम् ।। १९६ ।।
इति लक्षणसमुच्चये दारुशिलाग्रहणं नाम तृतीयो विधिः ।। ३ ।।
==अथ चतुर्थः==
लिङ्गमानं प्रवक्ष्यामि चतुर्भेदात्मकं भवेत् ।
चतुरङ्गुलमानेन [मू, अ, ख्, ग्, घ्, ङ्: चलमङ्गुल-] द्वारगर्भकरैः स्थितम् ।। १ ।।
भानूस्रैर्जालगैरष्ट [मू, अ, क्, ख्: भानूस्रे जालगेऽष्टाभी] रेणुभिः स्यादणुर्भृशम् ।
केशाग्रलिक्षायूकाभ्यां [मू: यूकानां] क्रमादष्टाष्टभिर्यवः ।। २ ।।
तुषहीनैर्यवैः श्रेष्ठैर्मृदि सिक्थेऽथवा स्थितैः ।
प्. ६७) तिर्यक् समोदरैः प्रोक्तं मानार्थं पारमेश्वरे ।। ३ ।।
यवैरष्टर्षिषट्संख्यैर्ज्येष्टादि त्र्यङ्गुलं भवेत् ।
कलागोलकनेत्राङ्क [घ्: नेत्राह्व] मात्राभिर्द्व्यङ्गलं स्मृतम् ।। ४ ।।
चतुरङ्गुलकं धर्मः शक्त्याख्यं च षडङ्गुलम् ।
अर्धहस्तं वितस्तिं च तालं च द्वादशाङ्गुलम् ।। ५ ।।
द्वितालकं करं विद्यात्करेण स्वेच्छया क्रिया ।
लिङ्गधामासनादीनां सर्वकर्मविधौ मता ।। ६ ।।
अङ्गुलाद्गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम् ।
द्वारमानात्त्रिसंख्याकं नवधा गर्भमानतः ।। ७ ।।
नवधा करमानेन लिङ्ग धाग्नि प्रपूजयेत् ।
एवं लिङ्गानि षट्त्रिंशज्ज्ञेयानि ज्येष्ठमानतः ।। ८ ।।
मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च ।
एषामैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।। ९ ।।
एषां प्रमाणभेदेन सामान्येन त्रिरूपिणाम् ।
यानि यानि च नामानि तानि तानि पृथग्ब्रुवे [ख्: भवेत्] ।। १० ।।
भूम्यम्ब्वग्न्यनिलाकाशं दिगम्बरसरूपकम् [क्: स्वरूपकम्] ।
स्पर्शशब्देश्वरो नासा जिह्वाक्षित्वक्श्रुतीश्वराः ।। ११ ।।
उत्तमाङ्गुल [ङ्गुलि लिपु.] लिङ्गानां विद्यात्पञ्चदशैव तु ।
वचनग्रहणोत्सर्गानन्दप्रगमनेश्वराः ।। १२ ।।
वाक्पाणिपायुगुह्याङ्घ्रिमनोऽध्यहङ्कृतीश्वरान् ।
प्. ६८) प्रकृतीशः पुमांश्चैव मध्यानां दश पञ्च च ।। १३ ।।
ईश्वरोऽनन्तरुद्रौ च श्रीकण्ठस्त्रिशिखस्त्रिदृक् ।
विद्येश्वरः पतिः स्रष्टा गरुत्मान सकलोऽकलः ।। १४ ।।
मायायोगेश्वरौ शर्वौ [सर्वा लि. पु] दशपञ्चाधमेषु तु ।
शान्तश्चाजो [मू: तेजो] महातेजा द्वार्मानादुत्तमं त्रयम् ।। १५ ।।
सुधामा त्र्यम्बकः [ख्: श्चादौ] शुद्धो मध्यमं द्वारतस्त्रिकम् ।
स्कन्दः सूक्ष्मोऽ [मू: स्कन्धः सूर्यो] म्बिकानाथस्त्रयं द्वारात्तथाधमम् ।। १६ ।।
चण्डेशोऽथ [मू, ग्: चण्डीशो] कपालीशः खड्गी पाशी ध्वजी गदी ।
भुजङ्गी वृषभी सिंही उत्तमा नव गर्भजाः ।। १७ ।।
([चापचिन्तान्हर्गतोऽयं श्लोकः मूलपुस्तके नास्ति] बली शक्ती हरी रणी श्मशानी भैरवी तथा ।
पिङ्गी क्रोधी च मायी च मध्यमा नव गर्भजाः ।। १८ ।।)
अग्रश्चाग्रः पिनाकी च चक्री नादी महाब्रती ।
व्यापी शूली विशाली [ग्: किराती] चेत्थधमा नव गर्भजाः [घ्: गर्भिकाः] ।। १९ ।।
अव्यक्तः पुंश्चलीशश्च नियामकोऽथ कालजित् ।
सर्वज्ञोऽथ वृषध्वजो नियामः पापहा [घ्: निर्यामः पाशहा] ध्रुवः ।। २० ।।
हस्तेषूत्त्ममानेन नवलिङ्गेषु देवताः ।
शम्भुः स्थाणुर्हरो डिण्डी हर्ता कर्ता शिवोऽव्ययः ।। २१ ।।
प्. ६९) नवमश्च सुरेशाख्यो मध्यमा हरतमानतः ।
भद्रोऽथ विमलो ज्येष्ठो गाण्डीवः पुष्टिवर्धनः ।। २२ ।।
स्वयंभूर्भुवनेशश्च श्रेष्ठः पालयिता तथा ।
नवैते हस्तमानेन त्वधमाः परिकीर्तिताः ।। २३ ।।
एकाङ्गुलादिपञ्चान्तमधमं [घ्: न्तं कन्यसं] चलमुच्यते ।
षडादिदशपर्यन्तं चललिङ्गं च मध्यमम् ।। २४ ।।
एकादशाङ्गुलादि स्यात् क्रमात्पञ्चदशान्तिकम् ।
श्रेष्ठलिङ्गप्रमाणं तज्ज्येष्ठाद्यङ्गुलिलक्षितम् ।। २५ ।।
षडङगुलं महारत्नैरन्यरत्नैर्नवाङ्गलम् ।
रविभिर्हेमतारोत्थं लिङ्गं शेषै [मू, अ, क्: शेषैरन्यै] स्त्रिपञ्चभिः ।। २६ ।।
इच्छासिद्धिः सुतो धर्मः सौभाग्यं च रिपुक्षयः ।
आरोग्यं राज्यसौख्यं च नृपश्रीजयलोककृत् ।। २७ ।।
धैर्यं तु स्त्रीधनायुश्च लिङ्गादेकाङ्गुलादितः ।
चललिङ्गाद्भवेत्कार्यं साधकानां क्वचिन्मते [ख्: त्समा] ।। २८ ।।
षोडशांशश्च वेदास्त्रे युगं लुप्त्वोर्ध्वदेशतः ।
द्वात्रिंशत्षोडशांशाश्च कोणयोस्तु विलोपयेत् ।। २९ ।।
चतुदिवेशनात्कण्ठो विंशतित्रियुगैस्तथा ।
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् [मू, अ: द्ध्रु वम्] ।। ३० ।।
धाम्नो युगर्तुनागांशैर्द्वारं हीनादितः क्रमात् ।
प्. ७०) लिङ्गं द्वारोच्छ्रयादर्धाद्भवेत्पादोनतः क्रमात् [मू, अ, क्, ग्, ङ्: समात्] ।। ३१ ।।
गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात्त्रिभिर्वरम् ।
तयोर्मध्ये च सूत्राणि सप्त संपादयेत्समम् ।। ३२ ।।
एवं स्युनवसूत्राणि भूतसूत्रैस्तु मध्यमम् ।
द्व्यन्तरे रामरामं च लिङ्गानां दीर्घता नव ।। ३३ ।।
हस्ताद्विवधंते हस्तो यावत्स्युर्नवपाणयः ।
स्त्रीय?मध्योत्तमं लिङ्गं त्रिविधं [क्, ख्: त्रिधैव] त्रिविधात्मकम् ।। ३४ ।।
एकैकलिङ्गमध्ये च त्रीणि च [मू, अ, क्: तु सूत्राणि त्रीणि] पादशः ।
लिङ्गानि घटयेद्धीमान् षट्सु वाष्टान्तरेषु वा ।। ३५ ।।
स्थिरदीर्घप्रमैषा [मू: स्थिरा दैर्घ्यप्रमेया] तु द्वारगर्भकरात्मिका ।
तदेकं स्थापयेल्लिङ्गं हस्तात्पादजमेव वा ।। ३६ ।।
शान्तिर्जीवितमानं च द्वार्मानात्क्रमतः फलम् ।
गभाद्यशोऽर्थपुत्रस्त्रीभूर्जयोऽर्थो घृषायुषी ।। ३७ ।।
मुक्तिः पुष्टी रिपोर्नाश आयुर्ज्ञानं यशो धनम् ।
सिद्धी राज्यं करैः कार्या लिङ्गादन्तजात्तथा ।। ३८ ।।
([ख्. पुस्तके नस्त्ययं, ३९ श्लोकतः ५० श्लोकं यावत् चापचिन्हान्वर्गतः पाठः] लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै ।
ध्वजाद्या यैः स्वरैर्भूतैः शिखिभिर्वा हरेत्कृती ।। ३९ ।।
तान्यङ्गुलानि यच्छेष लक्षयेच्च शुभाशुभम् ।
प्. ७१) ध्वजादिषु ध्वजं सिंहं वृषाख्यं च गजं शुभम् ।। ४० ।।
अशुभान् वर्जयेद्धीमान् धूमश्व [मू: गजाश्व] खरवायसान् ।
ध्वजे राज्यं जयं सिंहे वृषे लाभं श्रियं गजे ।। ४१ ।।
धूमे दोषाः [घ्: दाद्य] शुना मृत्युः खरेणोच्चाटनं सदा ।
ध्वाङ्क्षेण सर्वनाशः स्यात्तस्मात्तान् परिवर्जयेत् ।। ४२ ।।
स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः ।
लक्ष्मीप्रदो भवेत् षड्जो गान्धारो जनवृद्धिकृत् ।। ४३ ।।
पञ्चमः श्रीप्रदो नित्यं भूमिलाभकरो नृणाम् ।
ऋषभेणारिवृद्धिः स्यान्मध्यमः सुतनाशकृत् [मू, अ, क्, ग्, ङ्: शुभनाशनः] ।। ४४ ।।
धैवतेन क्षयः कर्तुर्निषादः सर्वनाशकः ।
भूतेषु क्ष्माचराश्चान्ये तोयाद्याश्चाशुभा [घ्: तोयाढ्या] भृशम् ।। ४५ ।।
पृथ्वी सर्वप्रदा पुंसामापो भार्याक्षयङ्कराः ।
सज्वरो [क्, ग्: सद्धीरो] दाहकृत्तेजो वायुस्तु कुलनाशकृत् ।। ४६ ।।
भ्रातृपुत्रकलत्रार्णनभो नृपतिनाशकृत् ।
शस्तोऽग्निश्चाहवनीयो द्वावग्नी चाशुभौ मतौ ।। ४७ ।।
आद्योऽग्निः सर्वदः पुंसां द्वितीयः सुतनाशकृत् [मू, अ, क्: शुभ-] ।
कर्तुर्मृत्युप्रदो ह्यग्निस्तृतीयो नृपभीतिदः ।। ४८ ।।
आयशून्येषु हस्तेषु हस्तादेकाङ्गुलं क्षिपेत् ।
षड्वा तदायभागं तु कृत्वैकं संक्षिपेद्वरम् ।। ४९ ।।
प्. ७२) द्विभागं मध्यमेनाह त्रीणि भागानि कन्यसे ।
भागेश चाप्यनीशं च देवेज्यं तुल्यसंज्ञकम् ।। ५० ।।
चत्वारि लिङ्गरूपाणि विष्कम्भेन तु लक्षपेत् ।
दैर्घ्यं मायान्वितं कृत्वा लिङ्गं कुर्यात्त्रिरूपकम् ।। ५१ ।।
चतुरष्टास्र [मू, अ: चतुरस्रास्र; क्, ख्: चतुरस्राष्ट] वृतं च तत्त्वत्रयगुणात्मकम् ।
उक्तायामस्य चार्धांशे [मू: चायांशे] नागांशै [क्, ख्: भागार्धैः] र्भांजिते क्रमात् ।। ५२ ।।
रसभूताम्बु [मू: बूतांशु] षष्ठांशत्र्यंशाधिकशतैर्भवेत् ।
आद्यानाद्यसुरेज्याह्व [मू: -ज्याङ्क] तुल्यानां चतुरस्रता ।। ५३ ।।
पञ्चकत्रयमानाख्यं व्यासानाहान् प्रवृद्धितः [मू: व्यसानाहत्य] ।
द्विधा भेदाद्बहून्यत्र वक्ष्यन्ते [क्, ग्: लक्ष्यन्ते] विश्वकमतः ।। ५४ ।।
आद्यादीनां त्रिधा स्थौल्याद्यववृद्ध्या तदष्टधा ।
त्रिधा हस्ताज्जिवाख्यं च युक्तं सर्वसमेन च ।। ५५ ।।
पञ्चविंशतिभेदान्यनाद्ये [मू: लिङ्गानि न द्य] देवार्चिते तथा ।
पञ्च [मू: यश्च] सप्ततिरेकत्वाज्जिनैभक्तंभवन्ति हि ।। ५६ ।।
चतुर्दशसहस्राणि चतुः शतयुतानि [मू, अ, ग्: शतायुतानि] च ।
एवमङ्गुलवृद्ध्या च नवैककरगर्भतः ।। ५७ ।।
प्. ७३) तेषां कर्णार्धकोणस्थैश्छिन्द्यात्कोणानि सूत्रकैः ।
विस्तारं सप्तधा कृत्वा स्थाप्यं वा मध्यतस्त्रयम् ।। ५८ ।।
द्विभागादूर्ध्वमष्टांशो द्व्यष्टांशैः [मू: मष्टांशो द्व्यष्टांशैः] स्याच्छिवांशकः [क्: च्छिरांशकः] ।
एकैकांशं चतुर्भागं कोणह्रासं द्विभागतः ।। ५९ ।।
तत्तीर्यक्सूत्रसंपाताद्दशनासं भवेत्पुनः ।
तदेकैकं युगं कृत्वा एकैकांशं समाहरेत् ।। ६० ।।
द्वयन्तयोस्तु क्रमात्सूत्रैर्दशनास्रं पुनर्द्विधा ।
क्वचित्कणंप्रवेशेन लाञ्छयित्वासिशातनम् ।। ६१ ।।
षोडशास्रं भवेत्तद्वत्तद्वदेव द्विषोडश ।
तन्मध्ये सूत्रसम्भ्रान्ते रुद्रो भवति वर्तुलः ।। ६२ ।।
शुभार्थमायैः [मू, अ, ग्: रमायैः] संहृत्य बाणाग्निनगभागिभिः ।
क्षिपेद्वा शून्यदोषघ्नं हस्तादेकाङ्गुलं क्रमात् ।। ६३ ।।
षोढा ब्रह्मादिभिर्योज्या तत्त्वपक्ष [क्, ख्: तनुपक्ष] गुणैः क्रमात् ।
षोडशांश क्षिपेदाद्ये [ख्, ग्, घ्: न्नाद्ये] वेदांशममरोर्चिते [ख्: समाख्यत्रिसमैः सुराः] ।। ६४ ।।
देयं हेयं [मू, अ, क्, ख्, ग्, ङ्: देयं] च वस्वशमाद्ये सर्वसमेन तु ।
पिङ्गलाया मते प्रोक्तमाद्यामरार्चितेन तु ।। ६५ ।।
स्वायामाज्जिनभागास्र [मू, अ, क्, ख्, ग्, ङ्: भागाग्र] मङ्गुलात्कररन्ध्रतः [क्, ग्: वक्त्रतः] ।
प्. ७४) भवेयुर्वर्धमानानि वसुद्विषट् [घ्: वस्वत्विषट्] शतानि च ।। ६६ ।।
अथाद्यादित्रिलिङ्गानां छायादोषविमुक्तये ।
विश्वकर्ममतं [घ्: मते] दृष्ट्वा वक्तव्यं पीठवर्तनम् [घ्: पीठवर्तने] ।। ६७ ।।
अधो मध्योर्ध्वदेशे च भागत्रयसमन्वितम् ।
तच्च सवसमं लिङ्गं प्रासादे वा गृहे हितम् ।। ६८ ।।
एवं सवसमं कार्यं सर्वकामफलप्रदम् ।
द्वौ पादौ जानुपर्यन्तं चतुरस्रेपितामहः ।। ६९ ।।
तदूर्ध्वं नाभिपर्यन्त विष्णुरष्टास्रके स्थितः ।
आमूर्धं नाभितश्चोर्ध्वं वृत्तभागे हरः स्वयम् ।। ७० ।।
यथाव्यक्ते तथार्चायां मुखलिङ्गे स्थितः क्रमात् ।
पञ्चधाव्यक्तलिङ्गानि समपीठानि तानि च ।। ७१ ।।
तुल्याख्यं समुखं [घ्: सुमुखं] कुर्यादीशानं वा सुरार्चितम् ।
एवं लिङ्गानि कार्याणि दोषाय स्युरतोऽन्यथा ।
पञ्चलिङ्गव्यवस्थेयं शिरोवर्तिन्यथोच्यते [मू, अ: वर्तनमुच्यते; क्, ख्: वर्तन्यथोच्यतेः] ।। ७२ ।।
छत्राभं कुक्कुटाण्डाभं बालेन्दुत्रपुषाकृति ।
एकैकस्य चतुर्भेदैः काम्यरूपात्फल वदेत् ।। ७३ ।।
वस्वंशैश्चरमेऽर्थांशैः [मू: मेथांशैः] पुण्डरीकं तपक्षयात् ।
यशस्तेन भवेत्कर्तुर्विशालं द्विक्षयाच्छ्रिये ।
श्रीवत्सं त्रिक्षयात् प्रीत्यै [घ्: प्रीतिः] दिङ्मर्दनं चतुःक्षयात् ।
प्. ७५) चिरराज्यप्रद ख्यातं छत्रभेदाश्चतुर्विधाः ।। ७५ ।।
युगांशे चरमेऽष्टाभिर्विमलं तत्त्व [क्, ख्, ग्, घ्: तनु] शातनात् ।
मानद [मू: मानाङ्ग] पक्ष [क्, ख्, ग्: पद्म] लोपाच्च विपुलं ख्यातिदं भवेत् ।। ७६ ।।
वर्धमानं त्रिन शाच्च [मू, क्, ख्, घ्: त्रिभागाच्च] धनदं [क्: पददं; ग्: वनदं] वेदलोपनात् ।
श्रीवासं पुत्रदं कुर्तुर्दक्षाण्डं स्याच्चतुर्विधम् ।। ७७ ।।
त्र्यंशात्प्राप्तैर्युगांशैश्च एकहान्यामृताह्वयम् [घ्: -ह्वकम्] ।
पुष्टिदं द्विक्षयात्पूर्णं महाह्लादकरसदा [ख्: तथा] ।। ७८ ।।
त्र्यंशत्यागाद्बल ख्यातं सौभाग्यं च [ख्: सौभाग्यदं] युगक्षयात् ।
आयुदं कुमुदं ज्ञेयं चन्दं चतुर्विधं मतम् [मू: ज्ञेयं चन्द्रं चतुर्विधम्] ।। ७९ ।।
ऋत्वशैश्चरमे वेदैर्विजयं भवनाशनम् ।
सर्वकामप्रदं प्रोक्तं विनाशं द्विक्षयाच्छ्रिये ।। ८० ।।
त्रित्यागाज्जयदं भीमं चित्राकं [ख्: विदाव्हं; क्, ग्: चित्राङ्कं] वेदशातनात् ।
बल्लभत्वप्रद तच्च चतुर्धा त्रपुषं भवेत् ।। ८१ ।।
त्रपुषं छत्र चन्द्राभं कृकवाक्वण्डकं [मू: क्वण्डवत्] क्रमात् ।
कुर्याद्विप्रादिकार्यार्थमेकं वा कुक्कुटाण्डकम् [ख्: टाण्डभं] ।। ८२ ।।
त्रपुषादिष्टसंसिद्धी राज्यं स्यादातपत्रतः ।
दीर्घायुष्ट्वमथ चेन्दोः [मू, अ, क्, ख्, ग्, ङ्: मथार्धेन्दोः] कृकवाक्वण्डतः प्रज्ञाः ।। ८३ ।।
प्. ७६) लिङ्गनाहविकारांशं कृत्वा तु गुणयेत्ततः ।
जिनविंशतिशार्दूलैराद्ये ब्रह्मादिवेष्टनम् ।। ८४ ।।
नखात् षष्टि [क्, ख्: दृष्टि] विकारांशैरनाद्ये च [मू: वै] तथा भवेत् ।
विकारेण स्मरेणांशतृतीयांशयुतेन च ।। ८५ ।।
भागस्यार्धविभागेन युक्तांशेन [क्, ख्: युक्तार्केण] सुरार्चिते ।
भागतृतीयभागेन नखचन्द्रान्वितेन च ।। ८६ ।।
अंशतृतीयभागेन चात्यष्टांशयुतेन च ।
ससप्तदशभिश्चांशैः परिधिः स्यात्समांशके [मू: समाह्वके] ।। ८७ ।।
चतुर्दोंर्भिरजोवेष्टं [मू, क्, ख्, घ्: रजोवेष्टयै] कृत्वा सप्तांशकं भुजम् ।
सार्धद्वित्रिभुजैर्विष्णुः साङ्घ्र्येकत्रिभुजैर्हरः ।। ८८ ।।
मूर्धोन्नते [क्, ख्: मूर्ध्न्युन्नते] महाभोगः पृष्ठे गोलाभ एव च ।
यवगर्भे भवेत्पुष्टिः पानान्नं जठरोन्नते ।। ८९ ।।
सर्वाङ्गवर्तुले सौख्यं प्रजालक्ष्मीविवर्धनम् ।
समकुक्षौ भयं हन्यात् स्थूलमूले त्वरोगता [मू: ह्यरोगता] ।। ९० ।।
शूलाभे विकले मूर्ध्नि प्रजा हन्ति सकर्तृकाः ।
निम्ने च लुञ्चिते कुर्याद्धनधान्यविनाशनम् ।। ९१ ।।
क्षतं च मूर्ध्नि यल्लिङ्गं तद्धन्यात्कतृभूभुजौ ।
छिद्रान्वितं च सद्भाया [मू, अ, क्: तथा भार्या] ललाटे निम्नक सुतम् ।। ९२ ।।
मूर्ध्नि स्थूलं च कर्तृघ्नं चक्रं चवार्थशिल्पिहृत् ।
प्. ७७) मध्ये कृशं च शोकाय दुभिक्षदमधः कृशम् ।। ९३ ।।
हीनाङ्गे चिपिटाङ्ग च भयं पीडा च जायते ।
व्रणितामयवृद्धिश्च दुर्भिक्षं चातिकोटरे ।। ९४ ।।
हन्याद्दीर्घकृशे राष्ट्रं ह्रस्वे व्याधिः प्रकुप्यति ।
धनघ्नं पृष्ठनिम्नं स्याद्रोगं पार्श्वे तथोदरे ।। ९५ ।।
सुनिष्पन्नं यदा लिङ्गं घृष्ट्वा शाणादिभिर्बुधः ।
सम्यक् सुनिर्व्रणं धौतं तदा चिन्हानि लक्षयेत् ।। ९६ ।।
स्वस्तिका [क्, ग्: मुष्टिका] व्जाङ्कुशच्छत्रचक्रासिध्वजकम्बु च [घ्: कम्बुभिः] ।
मकरादर्शचापोभिस्रक्कमण्डलुतोरणाः ।। ९७ ।।
मत्स्यकूर्माद्रिभान्विन्दुयव [मू: घृष] सिंहाक्षसूत्रकाः ।
श्रीवत्सनन्दिकावर्तरथहारेभभूषणैः ।। ९८ ।।
नेत्रकुंभजटालिङ्गास्त्रीताराशूलचामराः ।
मयूरवाजिवासोभिस्तरुवज्रपवित्रकाः ।। ९९ ।।
प्रासादकरवह्न्यर्चिर्भगाकारा [मू, अ, ग्: भवाकारा] च रेखिकाः ।
लिङ्गाङ्गे यत्र तत्र [घ्: यत्र यत्र] स्यान्नृपराष्ट्रविवृद्धिदाः ।। १०० ।।
कबन्धकपिमार्जारव्याघ्रभल्लूकपेवकैः ।
करङ्ककङ्कगृध्राहिश्येनकाकखराखुभिः ।। १०१ ।।
बलाकानिगडोलूकपाशसंदंशकीटकैः ।
पतङ्गमुण्डमालोष्ट्र वृकाकारश्वरूपकैः ।
यजमानप्रजाराज्ञां लिङ्गं भीश कदायकम् [मू: स्त्रीशोक] ।। १०२ ।।
प्. ७८) ([अत्र पार्थिवादितत्त्वानां वर्णविभाजने वर्णोल्लेखने च भिन्नक्रमः । आकाशतत्त्वं च नैव वर्णितम् । ग्रन्थान्तरेषु तु पञ्चैव तत्त्वानामुल्लेखः समुपलभ्यते । पाठोऽयमशुद्धः अपूर्ण इव च प्रतिभाति । शैवागमविद एवात्रप्रमाणम् । तत्त्ववर्णविभाजनक्रमस्तु पुरश्चर्यार्णवस्य प्रथमतरङ्गस्य दीक्षाप्रकरणे कुलाकुल चक्रे प्रकारान्तरेण कृतः । स च यथा- वायवग्निभूजलाकाशाः इति । अ आ ए क च टतपयषा मारुताः इ ई ऐ ख छ ठ थ फ र क्षा आग्नेयाः । ऋ ॠ औ घ झ ढ ध भवसा जलीयाः । ऌ ॡ अं ङ ञ ण न मशहा नाभसाः इति ।] इ ई छ ल द्वयं [घ्: ऌ ऌ] चैव तथा पञ्चानुनासिकाः ।
एते च पार्थिवा वर्णा लिङ्गचिन्हानि भूतये [क्: भूतले] ।। १०३ ।।
ऊ अं अ च ड टा [क्, ख्, घ्: फटा] क्षाधःकसहाजावसा [मू: कहाजव ऋसा] शिति ।
एते च [घ्: तु] वारुणा वर्णा प्रजायुर्धनलाभदाः ।। १०४ ।।
ऋ-ॠ-आयर औघा ओ विसर्गश्च दखाः पृथक् ।
आग्नेया अग्निसन्त्रासदुर्भिक्षव्याधिवर्धनाः ।। १०५ ।।
ए ओ ए उपगाभाथठढकारावर्षाविति ।
वायव्या वायुसन्त्रासकलहाद्वेगकारकाः ।। १०६ ।।
मिश्रास्त्वेते फलं दद्युर्हीनाधिकसमं ततः ।
साधने चास्त्रिलिङ्गं च दिग्लिङ्गं चैव वक्ष्यते [ख्: लक्ष्यते] ।। १०७ ।।
एकास्रं शत्रुनाशाय द्व्यस्रं पुत्रविवृद्धिदम् ।
त्र्यस्रं चाशेषसिद्ध्यर्थं वेदास्रं चेप्सितप्रदम् ।। १०८ ।।
प्. ७९) पञ्चास्रं शत्रुनाशाय षडस्रं भोगदायकम् ।
सप्तास्रं द्वेषकृत्ख्यातमष्टास्रं कीर्तिवर्धनम् ।। १०९ ।।
उच्चाटने नवास्रं स्याद्दशास्त्रं रोगनाशने ।
रुद्रास्रं रोगवृद्ध्यर्थं भयघ्नं द्वादशास्रकम् ।। ११० ।।
कामास्रं शत्रुनाशाय स्तंभने भुवनाश्रकम् ।
तिथ्यस्रं पुण्यकृल्लिङ्गं विकारास्रं सुखप्रदम् ।। १११ ।।
पूर्ववत्कल्पनैतेषां मानमस्तकरूपतः [क्, ख्, घ्: रूपकम्] ।
नवावधिकरान्तस्य शून्यदोषो न कस्यचित् ।। ११२ ।।
वसुकृते दिशालिङ्गे अङ्गुलं वा करक्रमात् ।
त्रिधा मानेन चैकेन [घ्: चैक्येन] षोडशास्रं शतद्वयम् ।। ११३ ।।
तद्दैर्घ्यैः सूर्यवत्कार्यो बिष्कम्भो वेदभागतः ।
चतुरष्टषडस्रं तु इन्द्राङ्कं [ख्: चन्द्राह्वं] वज्ररूपकम् ।। ११४ ।।
अष्टास्रं पूर्ववत्कार्यं त्र्यस्रांश [क्, ख्: त्रिस्त्र्यस्र] मिन्दुयाम्ययोः ।
बिन्दुसंपात्संयोगात्तिर्यक्सूत्रैर्विवर्तयेत् ।। ११५ ।।
नाहार्धं रुद्रभागं च [मू: रुद्रभागेन] बाणाश [क्: बाणांशे] श्चतुरस्रकम् ।
वस्वस्रोर्ध्वं तु [मू: वस्वस्रोर्धे तु] सप्तास्रं शक्त्याग्नेय च दाहकृत् ।। ११६ ।।
किन्तुस्वांशा [मू: स्वसां] विना शत्रोयाम्यं चिपिटकं ततः ।
नाहार्धं नवधा कृत्वा शरैर्हृत्पृष्ठकोटिभिः ।। ११७ ।।
प्. ८०) पार्श्वाद् [मू: पार्श्वे] द्व्यस्रैर्ग्रहैःषड्भिः कोणेष्वम्बुविनाशनात् [मू, अ, ङ्: कोणेषु स्वविनाशकृत्] ।
एवं चाष्टास्रवृतं स्याद्याम्यदण्डं [मू, अ, क्, ग्, ङ्: यामदण्डं] रुजप्रदम् ।। ११८ ।।
दैर्घ्यार्धं [घ्: दैघ्यैवं] रुद्रवत्कृत्वा भूतांशैश्चतुरस्रकम् ।
अष्टास्रोऽर्ध [मू: -ऽर्धं] दशास्त्रं स्यात्खड्गाभं राक्षसं भयम् [क्, ख्: क्षये] ।। ११९ ।।
नाहार्धं मुनिवत्कार्यं विष्कंभं युगभागतः ।
चतुरष्टास्रवृत्तं स्यात्पाशवद्वारुणं शुभम् ।। १२० ।।
दर्घ्यार्धं रविभागेन वेदास्रं [ख्: चन्द्रास्रं] मुनिभागतः ।
कृशं प्राग्रूपकं दीर्घं चलमुच्चाटकृद्ध्वजम् ।। १२१ ।।
कुर्यात्सर्वसमं लिङ्गं स्थूलोदरविनिर्मितम् ।
याक्षं [क्: पाक्षं; ग्: माक्षं] गदाग्रमूर्धानं बलवृद्धिकरं [घ्: धन-] शिवम् ।। १२२ ।।
नाहार्धं रुद्रभागेन विष्कंभं षड्विभागतः [मू: विभागजम्] ।
चतुःपञ्चास्रकं [मू: चतुरस्रास्रकं] त्र्यस्रं शूलं रौद्रं तु मुक्तिदम् ।। १२३ ।।
रसभाग [क्, ख्, ग्: रसभागे] कृतं नाहं [घ्: नाहात्] पक्षांशे [ख्: पक्षांशैः] चतुरस्रकम् ।
अष्टास्रोऽ [ग्: अष्टांशो] र्धं च वेदास्रं ब्राह्मं स्वर्गाय पद्मवत् ।। १२४ ।।
प्. ८१) वाहार्धं नगभागेन विष्कंभं तुर्यभागतः ।
चतुरष्टास्रवृत्तं स्याद्वैष्णवं शङ्खव [मू, अ: शक्तिवत्] च्छुभम् ।। १२५ ।।
ऋतूदये द्विभागार्धत्यागाद्वज्रशिरो भवेत् ।
रुद्रात्त्रिहानितः शुक्तिर्दण्डो दिग्भ्यस्त्रिहानितः ।। १२६ ।।
त्रिभिर्हृतै [मू, अ, क्, ख्, ग्, ङ्: -र्हतैः] रंसिः शैलाद्बालेन्दुर्वारुणे शिरः ।
कुक्कुटाण्डं च वायव्ये भूतांशाद्धि यते गदा ।। १२७ ।।
ग्रहांशात्त्रिविनाशात्स्यात्त्र्युन्नत शूलसंज्ञकम् ।
दक्षाण्डभज वैष्णोश्च इत्थ रेखा मणेरपि ।। १२८ ।।
ह्रस्वं दीर्घं कृशं स्थूलं कुब्जं खञ्जं [घ्: खञ्जकुब्जं] च चामनम् ।
स्फुटितं गर्भवद्दष्टं स्थापयेदाभिवारिके ।। १२९ ।।
एवमव्यक्तलिङ्गानि कीर्तितानि शुभाशुभम् ।
व्यक्तलिङ्गानि चान्यानि नाना रूपाणि वच्म्यतः ।। १३० ।।
इति [इति प्रतिष्ठातन्त्रे, लिखितपुस्तकेषु पाठः] लक्षणसमुच्चयेऽव्यक्तलिङ्गलक्षणं नाम [लिङ्गवर्तनाविधिः, इति लिखित पुस्तकेषु पाठः ।] चतुर्थो विधिः ।। ४ ।।
==अथ पञ्चमः==
व्यक्तार्चालक्षणं सम्यग्रुदानीनां प्रवक्ष्यते ।
पूर्वाङ्गुलप्रमाणेन दशपञ्चाङ्गुलाङ्गुलात् ।। १ ।।
गृहेषु प्रतिमा पूज्या नाधिका हि प्रशस्यते ।
क्वचिद्धस्तप्रमाणा सा क्वचिच्च त्रिंशदङ्गुला ।। २ ।।
अधिकांस्थापयेद्धाम्नि द्वारहस्तप्रमाणिकाम् ।
प्. ८२) द्वारोच्छ्रयं विभज्यादावष्टधौकं [मू, अ, क्: वष्टधैकं] विधाय च ।। ३ ।।
पुनस्त्रिधा विभज्याथ भागेनैकेन पिण्डिका ।
विधातव्या द्विभागेन कन्यसी प्रतिमा च सा ।। ४ ।।
द्वार्दैर्घ्यं नवधा कृत्वा त्यक्त्वैकांशं त्रिधा परम् ।
मध्यमा स्याद्द्विभागेन [घ्: मध्यमार्चा विभागेन] कार्यैकांशेन पीठिका ।। ५ ।।
द्वारनाहं त्रिधा कृत्वा भागेनैकेन पिण्डिका ।
कर्तव्या तद्द्विभागेन प्रतिमा सोत्तमा मता ।। ६ ।।
करमाने करादेः स्यादेकैकस्योत्तरोत्तरम् ।
नवान्तं त्रित्रिकान्तेषु कन्यसाद्याः प्रकीर्तिताः ।। ७ ।।
गर्भकर्णविभागेन प्रतिमालिङ्गगोच्छ्रयम् ।
पीठ [घ्: पीठं] द्वारप्रविस्तारं मयश्चक्रेस्वके मते ।। ८ ।।
बाह्ये तु प्रतिमा कार्या महती करमानतः ।
तिथिमासनवत्यर्धैहीनमध्योत्तमास्त्रिधा ।। ९ ।।
सालङ्कारास्त्रिधा भूता [मू, अ, : स्त्रियो भूत्वा] वेतालाः स्थूल [ग्: स्थल] वामनाः ।
पङ्गुरूपाश्च [घ्: पङ्गुरूपाः स] कूष्माण्डाः सप्तधार्चाश्च [मू: धार्वाश्च]वर्तयेत् ।। १० ।।
निर्दोषोच्छ्रायसंयुक्तां चतुरस्रायतां शिलाम् ।
विभज्य शक्तिसूत्रेण ऋक्षादिभ्यः [मू, अ, क्, ख्: ऋक्ष्यादित्यः] शुभे दिने ।। ११ ।।
संपूज्यादौ गुरुं कारुं कृत्वा स्वस्त्ययनादिकम् ।
पीठात्माश्रयजीवांश्च प्रभादींश्च प्रकल्पयेत् ।। १२ ।।
प्. ८३) विस्तारव्दिगुणं [मू, अ, ङ्: विस्ताराद्द्विगुणं] क्षेत्रं पञ्चधा प्रविभज्य च ।
कृत्वाधोंशगतः [मू: चाधोगतः] पीठं त्रिभागे जीवकल्पना ।। १३ ।।
भूतांशेन प्रभाश्चैव अन्तं विद्याधरादिकम् ।
सात्माश्रयां सदूतीं [मू: सभूतां] च प्रतिमां वर्तयेत्ततः ।। १४ ।।
सूत्राणि सप्तत्रिंशत्स्युस्तिर्यक्लाङ्घ्रिशतं तथा ।
भागैकमङ्गुल कृत्वा महार्चां वतयेद्बुधः ।। १५ ।।
दैर्घ्यं च नवधा कृत्वा तत्रैकं सूर्यसम्मितम् ।
एक भागेऽङ्गुलं तस्या [घ्: तस्यां] स्तेनाङ्गं परिकल्पयेत् ।। १६ ।।
मौलिललाटनासाभ्रूनाभिमेढ्राङ्घ्रिकेषु [क्, ख्: मेढ्रादिकेषु] च ।
मये सूत्रं समं न्यस्य ऋज्वर्चां कारयेच्छुभाम् ।। १७ ।।
पादाङ्गुष्ठाल्ललाटान्तमष्टोत्तरशताङ्गुलम् ।
जीवस्याद्दैर्घ्यमानेन प्रत्यङ्गान्यधुना व्रुवे ।। १८ ।।
तालेन मुकुटोच्छ्रायस्तद्विस्तारो दशाङ्गुलम् ।
मात्राभिस्तिथिसंख्याभिर्मुकुट [मू, अ, क्, ख्: मुकुटे] वेष्टनं भवेत् ।। १९ ।।
तालैकं मूर्ध्नि विस्तार उच्छ्रायो गोलकद्वयम् ।
तालमानं भवेद्वक्रं ग्रीवा च चतुरङ्गुला ।। २० ।।
कण्ठकूप दधश्चूचूनाभिगुग्रं यथाक्रमम् [मू, अ, ग्: पराक्रमम्] ।
तालैकैकप्रमाणं स्यादूरू तालविनिर्गमौ ।। २१ ।।
द्विकले जानुनी तस्या जङ्घे चैव द्वितालके ।
प्. ८४) ज्ञेयौ गुल्फौ द्विनेत्रौ च पार्ष्णीद्व्यङ्गुलके मते [क्: क्रमात्] ।। २२ ।।
वृत्ते च त्र्यङ्गुलोच्छ्राये पादौ सप्ताङ्गुलायतौ ।
मध्ये कलाद्वयोच्छ्रायोवग्रेसार्धार्ध [ख्: सा चार्ध] मात्रकौ ।। २३ ।।
तद्विस्तारौ (त्रि) द्विनेत्रौ च अङ्गुष्ठत्र्यङ्गुलस्तयो [ग्: द्वयोः] ।
पञ्चाङ्गुलौ वेष्टनेन सार्धाङ्गलद्विपर्वणी ।। २४ ।।
प्रदेशिनी च दैर्घ्येण सा च त्र्यङ्गुलका मता ।
त्र्यङ्गुला परिणाहेन कथ्यन्ते त्वधुनापराः ।। २५ ।।
अन्यादैर्घ्यविकारांशहीनावेष्टेन चाष्टभिः ।
पादाङ्गुल्यस्त्रिपर्वाणः पर्वार्धनखशोभिताः ।। २६ ।।
पादाङ्गुष्ठनखौ निम्नावग्रे [मू, अ, क्, ख्, ङ्: वत्र] कार्यौ यवोन्नतौ ।
काराङ्घ्रि [मू, अ, क्, ख्: नखाङ्घ्रि] तलकं रक्तं नखाः सवोन्नतारुणाः ।। २७ ।।
वक्षो द्वितालविस्तारं बाहुमूले षडङ्गुले ।
उपबाहू दशाष्टांशौ षोडशाङ्गुलकौ भुजौ ।। २८ ।।
सप्ताङ्गुलकर यामः पञ्चाङ्गुलप्रविस्तरः ।
भूताङ्गुला भवेन्मध्या अर्धहीना त्वनामिका ।। २९ ।।
तत्समा तर्जनी धर्माङ्गुलाङ्गष्टकनिष्ठिके ।
मध्यमाद्यास्त्रिपर्वाणो द्विपर्वाङ्गुष्ठको मतः ।। ३० ।।
मध्य [मू: मध्या] ग्र [मू: यामात्व] कलायामस्त्व न्थिङ्गुलार्ध विनाग्रतः ।
तर्जन्यनामिकापर्व सपादयववर्जितम् ।। ३१ ।।
प्. ८५) सा च द्वियवहीना स्यात्प्रतिपवकनिष्ठिका ।
द्व्यङ्गुलोऽङ्गुष्ठकग्रन्थिरासां पर्वार्धगा नखाः ।। ३२ ।।
अथ त्र्यंशविभक्तास्यं ललाटं नासिकामुखम् ।
नासोत्सेधः सविस्तारोद्व्यङ्गुलो द्विपुटः [मू, अ: द्विकुटः] शुभः ।। ३३ ।।
अर्धाङ्गुलसमे वृत्ते नासाया विवरे शुभे ।
द्व्यर्धं यवं पुटे स्थूले मध्ये वश [क्, ख्: विंशः] स्त्रिभिर्यवः ।। ३४ ।।
([कोष्ठान्तर्गतोऽयं पाठः ख्. पुस्तके नास्ति] नासाधोऽर्धाङ्गुलं गोजी गोज्या वाधो [मू: चाधो] ङ्गुलोऽधरः ।
अधेऽपरोऽङ्गुलकं तु [क्, ग्: ङ् गुलकर्ण] द्व्यङ्गुले चिबुकस्थितिः ।। ३५ ।।
वेदाङ्गुलं मुख खातं [मू: ख्यातं] यवमानं तु सृक्कणी ।)
नासिकामूलपार्श्वे तु लोचने द्व्यङ्गुलायते [ग्: लोचनमङ्गुलायते] ।। ३६ ।।
मीनोदरा च चापाभा [घ्: चवाभा] नरदृक् [मू: नवदृक्] कुमुदाकृतिः ।
इन्दीवराब्जपत्राभा पटोलफलवत्स्त्रियाः ।। ३७ ।।
तद्विस्तारोऽङ्गुलं चैकं तारा स्यात्तत्त्रिभागिका ।
पञ्चमांशं भवेज्ज्योतिः सृक्कणीसूत्रतुल्यतः ।। ३८ ।।
रुचिरौ यवमानौ च घ्रापुटौ [मू: द्वौ पुटौ; ग्: नासापुटौ] समसूत्रकौ ।
अर्धाङ्गुलसमा द्रोणी सार्धद्व्यङ्गुलदीर्घता ।। ३९ ।।
नेत्रार्धे द्व्यङ्गुलायामे भ्रुवौ द्वियवविस्तरौ ।
प्. ८६) तयोर तरमात्रार्धं स्त्रियां यवार्धविस्तृते [घ्: यथाम्बुविस्तृते] ।। ४० ।।
कार्मकाभे समे शस्ते भूसमा कर्णयो ७ स्थितिः ।
कर्णौ नेत्रदयायामौ तदर्धाद्विस्तरस्तयोः ।। ४१ ।।
यवद्वयोन्मिति [घ्: द्वयमिति] वती शष्कुली तत्समा भवेत् ।
कलार्धं (तदुकौ [मू,अ: तुढुकौ; क्, ग्: तुटुकौ; ख्: तुपुकौ] खल्वौ ?) पाशौ कुर्याद्यथेप्सितौ ।। ४२ ।।
सार्धतलं भवेन्मूर्ध्नि कर्णयोरूर्ध्वदेशतः ।
इन्द्रसङ्ख्याङ्गुलं पश्चात्कर्णयोरन्तरं विदुः ।। ४३ ।।
सार्धं यवं तु कर्णं तु दलं कुर्यान्न चाधिकम् [ख्: नराधिकम्] ।
ललाटोऽष्टाङ्गुलायामस्त्र्यङ्गुलः शङ्ख उच्यते ।। ४४ ।।
तदूर्ध्वे द्व्यङ्गुले शुक्ती [ख्: शक्तिः] त्रिताल [क्: त्रिकाल] वेष्टनं शिरः [ग्: शिवः] ।
सप्ताङ्गुलौ कपोलौ तु साङ्गुलौ सयवोच्छ्रयौ ।। ४५ ।।
द्विकलार्धाक्षिसृक्का [मू, अ, ग्: सूक्ता] तु त्वपाङ्गौ सायकाङ्गुलौ ।
हनू कला त्रदीर्घौ व्दिकलश्चिबुकोद्गमः ।। ४६ ।।
ग्रीवाष्टाङ्गुलविस्तारा वेष्टनेन द्वितालका [ख्, घ्: तालिका] ।
स्कन्धोऽष्टाङ्गुलविस्तारस्तदायामश्चतुष्कला ।। ४७ ।।
त्रिगोलावशकौ ख्यातौ षडङ्गुलपृथू भुजौ ।
विस्तारः कूर्परस्तस्माद्भूताङ्गुलैर्यवैस्तथा ।। ४८ ।।
पञ्चाङ्गुलोपबाहू च तन्मध्यं च [घ्: तन्मध्ये तु] कलाद्वयम् ।
प्. ८७) चतुरङ्गुलविस्तारो मणिबन्धः प्रकीर्तितः ।। ४९ ।।
क्रमात्त्रिगुणकं बाह्वोः परिवेष्टनमेतयोः ।
स्तनयोरन्तरं तालं तयोः प्रान्तौ द्विनेत्रकौ ।। ५० ।।
चूचुकं यवमात्रं [घ्: चूचूकौ यवमात्रौ] तु द्वियवं स्तनमण्डलम् ।
नाभिः प्रदक्षिणावर्ता निम्नतोऽर्धाङ्गुलोदिता ।। ५१ ।।
विस्तारेणाङ्गुलं विद्यान्नाभ्यधो द्विकलोदरम् ।
हृद्विंशत्यङ्गुलं प्रोक्तं नाभिदेशश्चतुर्दश ।। ५२ ।।
अष्टादशाङ्गुला श्रेणी विस्तारेण प्रचोदिता ।
पञ्चादशाङ्गुलं [मू, अ, क्, ग्: पञ्चाशदङ्गुलं] वक्षो हृद्देशः पञ्चभिर्विना ।। ५३ ।।
वेष्टनेन ततो नाभिर्द्विचत्वारिशदङ्गुलम् ।
कटिः संवेष्टनेनोक्ता शताच्च [क्, ख्: स तावत्] द्व्यधिकाङ्गुला ।। ५४ ।।
स्फिचौ पीनौ सुवृत्तौ च समौ च द्विकलोन्नतौ ।
चतुर्नेत्रप्रविस्तारौ गजकुम्भोपमौ शुभौ ।। ५५ ।।
वृषणौ द्व्यङ्गुलायामौ तन्मध्ये मेहनस्थितिः ।
मेहनस्त्र्यङ्गुलो दैर्घ्यात्यरिणाहे [मू: परिणाहात्] षडङ्गुलः ।। ५६ ।।
तत्कोशाग्रं द्विनेत्रं च परिणाहेन कीर्तितम् ।
पायोश्चवृषणस्यान्तविस्तारेण द्विगोलकम् ।। ५७ ।।
ऊरुमूले च तन्मध्ये जानू द्वे जानुदेशतः ।
तदधः पिण्डिकायां च जङ्घायां घण्टिकोर्ध्वतः ।। ५८ ।।
एकैकं क्षीयते तालो [घ्: तालाद्] यावत्पञ्चाङ्गुल [घ्: पश्चाङ्गल] स्थितिः ।
प्. ८८) एवं विस्तार एतेषां वेष्टनं त्रिगुणाधिकम् ।। ५९ ।।
यवगर्भे कृशे लिङ्गे कराङ्गुल्यग्रके तथा ।
भुजजङ्घाग्रके चैव स्वविस्तारात्त्रिवेष्टनम् ।। ६० ।।
एतदुक्तं च सामान्यं स्त्रियाः पुंसश्च लक्षणम् [मू: वेष्टनम्] ।
नार्यष्टांशा च तन्वङ्गी [मू, अ, ख्: तत्त्वङ्गी] चक्षुः श्रोणी स्तनाधिका ।। ६१ ।।
गण्डास्थिसूत्ररामेण (?) त्र्यस्रं कूर्मोन्नतं भगम् ।
तन्मध्यतस्त्वधोभागे रन्ध्रं स्यात् कुञ्जरोष्ठवत् ।। ६२ ।।
दक्षाण्डाभं तिलाकारं देवदेव्योर्मुखं वरम् ।
वृत्तं वेदास्रकं चास्यं कुर्यात्प्रेतादिरक्षसाम् ।। ६३ ।।
नवांशैरितरे ख्याताः प्रधाना दशभागिकाः ।
ब्रह्मविष्णुहरादीनां संक्षेपाल्लक्ष्म चोच्यते ।। ६४ ।।
मुकुटाद्यङ्गुलैकैकं [घ्: मुकुटाद्द्वङ्गु-] प्रक्षिपेच्चरणान्तिके ।
वक्षोबाहूरुजङ्घानां [घ्: जङ्घायां] करादीनां क्रमेण तु ।। ६५ ।।
तालैकादशभि कुर्याद्भूतवेतालरक्षसाम् ।
द्वे द्वे चैवाङ्गुले देये वक्त्रादिषु यथाक्रमम् ।। ६६ ।।
किङ्कराः स्थूलरूपाश्च सप्ततालोछ्रया मताः ।
वामनः पञ्चतालश्च भूतांशैः पङ्गुकुब्जकौ ।। ६७ ।।
कूष्माण्डकश्चतुस्तालैरुन्मानेन प्रकल्पयेत् ।
बुद्ध्वा बुद्ध्वा तु यत्नेन सूक्ष्मदृष्ट्या विचक्षणः ।। ६८ ।।
पोषणं हरणं कुर्यात्सर्वस्मिन्नेव रूपके ।
प्. ८९) अचतन्मानतः कार्याः सर्वावयवभूषिता ।। ६९ ।।
सर्वशान्तिकरी धन्या न हीना नाधिकाङ्गिका ।
स्थानकैः करणैर्युक्ता प्रतिमैषा फलप्रदा ।। ७० ।।
विक्षिप्ताधोमुखी स्तब्धा हीना शुष्का कुनेत्रिका ।
वक्राङ्गी [मू, अ, क्, ख्, ङ्: चक्राङ्गी] चिपिटा दीना कृश [ख्: भूष] गात्री च रौद्रिका ।। ७१ ।।
विक्षिप्ताङ्गी क्षयं कुर्यात् पापदाधोमुखी मता ।
सङ्कोचकारिका स्तब्धा हीनवक्त्रा च रोगदा ।। ७२ ।।
यानघ्नी [क्, ख्: दानघ्नी] कटिहीना स्याज्जनहृत्पाणिपादतः [ख्: पादपाणितः] ।
हीनजङ्घारिसौख्याथं शुष्का स्यान्नृपनाशिनी ।। ७३ ।।
शुष्क [ग्: गुह्य] पाण्यङ्घ्रिकद्या स्यादाचार्यं शुष्कजङ्घिका ।
उद्वेगजननी सा तु भ्रामणी च सदा भवेत् ।। ७४ ।।
कुनेत्रा नेत्रहृत्ख्याता वक्रघ्राणा तु दुःखःकृत् ।
वक्राङ्ग्यर्थाङ्गनाशाय चिपिटा दुःखदायिनी ।। ७५ ।।
दीनार्चा [मू: नीचार्चा] शिल्पिनं हन्याद्रौद्री कर्तृविनाशिनी ।
धनघ्नी च [मू: तु] कृशाङ्गी स्याच्छस्यघ्नी तु कृशोदरी ।। ७६ ।।
गण्डोत्तमाङ्गहृद्वक्ष आदौ निम्ना ध्रुवं हरेत् ।
सुहृद्धनसुतांस्तस्मात्कार्या सल्लक्षणाः सदा ।। ७७ ।।
ऋजु [क्: ऋज्वा; ख्: ऋद्वा; ग्: ऋद्व] चक्षुगतं साची कृतकं गण्डभीतिदम् [घ्: भीतिकम्] (?) ।
प्. ९०) छायागतं च सर्वाङ्ग [घ्: सर्वाङ्क] भित्तिकं क्षिप्तकं तथा ।। ७८ ।।
परावृत्तभीतिमानि नवस्थानानि रूपके ।
करणानि शतं चाष्टौ व्यन्तरा [क्, ख्: प्यन्तरा] श्चातिविस्तराः (?) ।। ७९ ।।
इति लक्षणसमुच्चये व्यक्तलिङ्गलक्षणं नाम पञ्चमो विधिः ।। ५ ।।
==अथ षष्ठः==
नवशक्तयः [अस्य ग्रन्थस्य पूर्वभागात्मके देवता चित्रसंग्रहे पुस्तके मुद्रितानां चित्राणां नामानि क्रमसंख्या चात्र तत्तत्स्थाने दक्तानि अत्रोक्तलक्षणानामुदाहरणानि तत्रैव द्रष्टव्यानि । यथा- (नवशक्तयः) ईत्यस्योदाहरणे १ संख्याकं चित्रं द्रष्टव्यम् । एवं सर्वत्र ज्ञेयम् ।] -
वृत्तस्था जटिलास्त्र्यक्षा अग्निज्वालासमप्रभाः ।
कपालाभयहस्तोग्रा वामाद्या नवशक्तयः ।। १ ।।
शिवः [अस्य २ सं० चि० द्र०]-
चतुर्भुजोऽरविन्दस्थः शिवः कुन्देन्दुनिर्मलः ।
द्वीपिचर्माहिभृच्छान्तस्त्र्यक्षो जटेन्दुभूषितः ।। २ ।।
कपालशूलपाणिश्च पुरोत्तानकरद्वयः ।
अङ्गषट्कसमायुक्तः शीघ्रं स्यात्सिद्धिदायकः ।। ३ ।।
प्. ९१) शिवभेदः [अस्य ३ सं० चि० द्र०] -
स एवाब्जस्थितो देवो दिग्वाहुर्दृक्त्रिपञ्चकः ।
[अत्र क. पुस्तकस्या टिप्पणी-युव= ईशः, यौवनः=पुरुषः, वृद्धः=अघोर, स्त्री=वामदेवः, बालः=सद्योजातः, इति ।] युवयौवनवृद्धस्त्रीबालाभः पञ्चवक्त्रभृत् ।। ४ ।।
सव्ये कर्तरिकादर्शकुण्डीवरदशूलभृत् ।
वामेना [ख्: दक्षेण; अत्रैव क्. पुस्तकस्य टिप्पण्यां अक्षमाला इति शब्दश्व प्रक्षिप्तः] भयमन्त्राङ्क [घ्: मन्त्राह्व] कपालोत्पलपूर [अत्रापि क्. पुस्तकस्य टिप्पण्यां बीजपुर इति प्रक्षिप्तः] भृत् ।। ५ ।।
हृत्सितं कपिलं मुण्डं पीता शिखा सितच्छदम् ।
दृग्रक्तासिहुताशाभाः सर्वे त्र्यक्षा जटान्विताः ।। ६ ।।
द्विभुजाश्चकवक्त्राश्च कपालशूलपाणयः ।
बभ्रुभ्रूश्मश्रुद्दा?भीममस्त्रं पीतं स्वशस्त्र [क्, ख्, ग्: सुशस्त्र] भृत् ।। ७ ।।
शिवभेदः [अस्य ४ सं० चि. द्र०]-
कुण्डी पाशाङ्कुशं घण्टा शूलं च वामहस्तके ।
शक्ति [पा: शान्ति] वज्राक्षमालासिचक्राणि दक्षिणे क्वचित् ।। ८ ।।
द्वीपिचर्मवरोऽब्जस्थो नागयज्ञोपवीतवान् ।
एकास्यः पञ्चवक्त्रो वा त्र्यक्षो जटेन्दुभृच्छिवः ।। ९ ।।
अनन्ताद्याश्चतुर्दिक्षु रक्तनीलसितारुणाः ।
प्. ९२) कोणेषु चैक [मू: चैव] रुद्राद्याः सितासङ्नीललोहिताः ।। १० ।।
सर्वे चाष्टभुजाः सौम्याश्चतुरास्या जटान्विताः ।
शिवायुधधरास्त्र्यक्षाः सृण्यसिभ्यां विना क्वचित् ।। ११ ।।
दिग्वर्णा [मू, अ: दिग्दण्डा] जटिलास्त्र्यक्षाः स्थूलत्रि [मू, अ, ख्: स्तूरत्री; घ्: स्तूरस्त्री] शलधारिणः ।
पुटाञ्जलिकराः सर्वे विद्येशाश्चैकवक्त्रकाः ।। १२ ।।
सोमेश्वरः [अस्य ५ सं० चि० द्र०]- (प्रथम)
सितश्चतुर्भुजस्त्र्यक्षः कजस्थो भूषणान्वितः ।
वराभयकपालाब्जजटेन्द्वजिननागभृत् ।। १३ ।।
सोमेश्वरः [अस्य ६ सं० चि० द्र०]- (द्वितीयः)
कार्यः सोमेश्वरो रक्तश्चतुरास्योऽष्टबाहुकः ।
दक्षिणे शूलनिस्त्रिशकुठाराभयधारकः ।। १४ ।।
घण्टाकपालखट्वाङ्गपाशहस्तस्तु वामके ।
मुण्डमाली शवारूढो द्वैताद्वैते क्रमान्मतः ।। १५ ।।
नाट्येश्वरः [ अस्य. ७ सं. चि. द्र०]-
पीनाङ्गं यौवनोद्भिन्नं दशबाहुं [ग्: दश धाङ्ग] त्रिलोचनम् ।
सौम्यं प्रहसितास्यं च चन्द्रमौलिं जटाधरम् ।। १६ ।।
व्याघ्रचर्मांशुकं शान्तं व्यालयज्ञोपवीतिनम् ।
नागेन्द्रमेखलायुक्तं सर्वाभरणभूषितम् [ख्: मण्डितम्] ।। १७ ।।
प्. ९३) ऊर्ध्वमेढ्रं महादीप्तं वैशाखकरणे स्थितम् ।
नृत्यन्तं महाहृष्टमायुधाकुल [मू, अ: मायुधोज्ज्वल] पाणिनम् ।। १८ ।।
दण्डासिशक्तिशूलानि बिभ्राणं दक्षिणे करे ।
बलनाकारकं बाहुमेकं कृत्वा हृदि स्थितम् ।। १९ ।।
कपालं चैव खट्वाङ्गं खेटकं नागनायकम् ।
वामे प्रतानितभुजं सम्यक् कृत्वा सुशोभनम् ।। २० ।।
कपालमालिनं दिव्यं सुप्रसन्नं सुभूतिदम् ।
([कोष्ठान्तर्गतोऽयं पाठः क्. पुस्तके नास्ति] सर्वशान्तिकरं कुर्यादित्येवं सौम्यरूपकम् ।। २१ ।।
वृषस्थितं हरं कुर्याद्देवासुरसमावृतम् ।
स्कन्दनन्दिमहाकालगणेशगणसंयुतम् ।। २२ ।।
कूष्माण्डाद्यप्सरोभिश्च वृतं विद्याधरादिभिः ।
सानन्दै रूपसम्पन्नैर्वीक्ष्यमाणं महेश्वरम् [ख्, घ्: वीक्षमाणैर्महेश्वर] ।। २३ ।।
दिव्याम्बरपरीधानैः सर्वाभरणभूषितैः ।
तदग्रे च प्रनृत्यंश्च भृङ्गीकार्यं कृशो भृशः ।। २४ ।।
पुरः प्राङ्मध्यतोऽन्ते च दीप्तोग्राः कामरूपिकाः [मू, अ, क्, ख्: दीप्ताङ्गाः सौम्यरूपिकाः] ।
विकृतास्तीक्ष्णनासाश्चचौराग्न्यादिप्रदाः [ख्: प्रपदाः] क्रमात् ।। २५ ।।
यथार्कस्य भवेद्रूपमादिमध्यान्तसंस्थितम् ।
हरस्यैवं भवेदर्चा स्थाने स्थाने फलप्रदा ।। २६ ।।
प्. ९४) चण्डभैरवः [अस्य ८ सं० चि० द्र०]
वृतनेत्रं च पीताङ्गं पिङ्गभ्रूश्मश्रुमूर्धजम् ।
भ्रुकुटीभीषणं कृष्णं लेलिहानं च द्रंष्ट्रिणम् ।। २७ ।।
मुण्डमालाकुलं दिव्यं कपालाभरणोज्ज्वलम् ।
नागोपवीतिनं दीप्तं नागाभरणभूषितम् ।। २८ ।।
वीरासनं शवस्थं च गजचर्मोत्तरीयकम् ।
चतुर्दशकरैकास्यं सौम्यं व्याघ्राजिनाम्बरम् ।। २९ ।।
शूलासिशक्तिबाणांश्च शान्तिकं दक्षिणे करे ।
खट्वाङ्गं खेटकं पाशं चापाभयकपालकम् ।। ३० ।।
बिभ्राणं वामहस्तेन [घ्: हस्ते च] द्वयोश्च गजचर्म तु ।
मातृभूतान्वितं कुर्याद्भैरवं शान्तिकारकम् ।। ३१ ।।
अघोरघण्टेशभैरवः [अस्य ९ सं० चि० द्र०]-
एतत्सर्वसमायुक्तं कुलिसमुद्गराधिकम् ।
कुर्यादघोरघण्टेशं द्विरष्टभुजमण्डितम् ।। ३२ ।।
([कोष्ठान्तर्गतोऽयं पाठः घ्. पुस्तके वर्तते, अन्येषु नास्ति] अष्टवक्त्रं महारूपं दिग्वर्णं जिनलोचनम् ।
उपविष्टं सदा कृष्णं सर्वकामप्रदायकम् ।। ३३ ।।
अन्धकान्तकभैरवः [अस्य १० सं० चि. द्र०]-
उच्चालीढं [मू, अ, क्, ख्, ग्, ङ्: ऊर्ध्वालीढ] स्थितं क्रुद्धं प्राग्रूपं पञ्चवक्त्रकम् ।
प्. ९५) अष्टादशभुजं कुर्याद्वरदाभय [ग्: भवदाभय] वर्जितम् ।। ३४ ।।
पाणिद्वयस्थसच्छूलसंभिन्नान्धकदानवम् ।
घ्ण्टां डमरुकं चैव कुठारं मुद्गरं [क्, ग्: मुद्गलं] तथा ।। ३५ ।।
धारयन्तं स्फुरद्दंष्ट्रं भैरवं त्वन्धकान्तकम् ।
सर्वशत्रुहरं नित्यं मातृभिः परिवारितम् ।। ३६ ।।
वैद्यनाथः [अस्य ११ सं० चि० द्र०]-
षड्भुजं जटिलं श्वेतं त्रिनेत्रं चन्द्रभूषितम् [ख्: चन्द्रमौलिनम्] ।
व्याघ्राजिनांशुक सौम्यं नागयज्ञोपवीतिनम् ।। ३७ ।।
त्रिशूलं चाक्षसूत्रं च [घ्: तु] कपालं कुण्डिकां क्रमात् ।
याम्ये सौम्ये च बिभ्राण द्वाभ्यां व्याख्यानकं तथा ।। ३८ ।।
पद्मासनस्थितं कुर्याद्वैद्यनाथं हरं प्रभुम् [ख्: विभुम्] ।
गौरं सिताम्बरं शान्तं कमण्डलुसमन्वितम् ।। ३९ ।।
धन्वन्तरि सुषेणं तु वानरास्यं नराङ्गकम् ।
अमृतागमहस्तं च कुर्यात्तत्पार्श्वयोः सदा ।। ४० ।।
सदाशिव [अस्य १२ सं० चि० द्र०]-
सदाशिवं तदाकारं [ख्: तथा कालं] कुण्डिकाद्यविवर्जितम् ।
अर्धचन्द्रासनासीनं श्वेतराजीवमध्यगम् ।। ४१ ।।
दलाष्टके च विद्येशैरनन्ताद्यैश्च दिक्षु च ।
विदिक्षु चैक [मू, अ: चैव] रुद्राद्यैस्तथा गौर्यादिभिर्गणैः ।
प्. ९६) दिव्यसिंहासनासीनं ब्रह्माद्यैः परिवारितम् ।। ४२ ।।
मृत्युञ्जयः [अस्य १३ सं० चि० द्र०]-
त्रिनेत्रं षड्भुजं [ख्, घ्: षट्करं] शान्तं जटाखण्डेन्दुमण्डितम् ।
कपालमालिनं श्वेतं योगासनं कजस्थितम् ।। ४३ ।।
व्याघ्रचर्माम्बरं रुद्रं नागेन्द्रोरसि भूषितम् ।
त्रिशूलं चाक्षसूत्रं च [ख्, घ्: तु] बिभ्राणं दक्षिणे करे ।। ४४ ।।
कपालं कुण्डिकां सव्ये योगमुद्रां करद्वये ।
कुर्यान्मृत्युञ्जयं देवं मृत्युरोगविनाशकम् [मू, अ, ग्: -शनम्] ।। ४५ ।।
अर्धनारीश्वरः [अस्य १४ सं० चि० द्र०]-
ऊर्ध्वस्थो द्विभुजः कार्यस्त्वर्धनारीश्वरो हरः ।
वामाङ्गे ललना कार्या योषिदाभरणान्विता ।। ४६ ।।
दक्षिणे पुरुषस्त्र्यक्षो जटानागेन्द्रसंयुतः ।
ईशे शूलं कपालं च वामे जाप्यमथोत्पलम् ।। ४७ ।।
उमेश्वरः [अस्य १५ सं० चि० द्र०]-
अर्धचन्द्रासनाब्जस्थो जटाखण्डेन्दुमण्डितः ।
कुण्डलालङ्कृतः सौम्यो द्विभुजो द्विपिचर्मभृत् ।। ४८ ।।
वामोरुस्थसुरूपोमा वामपाणिर्निगूढकः ।
मिथः संवीक्ष्यमाणास्यो याम्यहस्तस्थितोत्पलः ।। ४९ ।।
देवीयाम्यकराश्लिष्टः स्कन्धार्को दर्पणेऽपरे (?) ।
प्. ९७) विधेयः शास्त्रविद्वद्भिरूर्ध्वलिङ्ग उमेश्वरः ।। ५० ।।
रुद्राः [अस्य १६, १७ सं० चि० द्र०]-
अजैकपादहिर्बुध्न्यो विरूपाक्षो विरोचनः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ।। ५१ ।।
जयन्तो दशमो रुद्रः शुकप्रभोऽपराजितः ।
सद्यः प्रभृतिजौ द्वौ द्वौ तद्वत्कुड्यब्जसंयुताः ।। ५२ ।।
([चापचिह्नान्तर्गतोऽयंपाठः ख्. पुस्तके नास्ति] एकादश क्वचिद्रुद्रा हिमकुन्देन्दुसन्निभाः ।
जटेन्दुमण्डिताः सौम्यास्त्र्यक्षाः सर्पोपवीतिनः ।
वृषस्था वरदाः कुण्डीशूलपङ्कजपाणयः ।। ५३ ।।
विष्णुः [चतुर्भुज, द्विभुज, अष्टभुज, नारायणस्य क्रमेण १८, १९, २०. सं. चि. द्र.]-
चतुर्द्व्यष्टभुजं चारु कुर्याद्वा विष्णुरूपकम् ।
शङ्खचक्रभृतं वामे शेषे शान्तिगदाभृतम् [घ्: करम्] ।। ५४ ।।
पीतकौशेयवस्त्राढ्यमिन्दीवरसमप्रभम् ।
श्रीवत्सकौस्तुभोरस्कं पीनाङ्गं पृथुवक्षसम् ।। ५५ ।।
किरीटकुण्डलोपेतं वनमालोपशोभितम् ।
प्रसन्नवदनं सौम्यं सर्वाभरणभूषितम् ।। ५६ ।।
ऊर्ध्वं वाब्जस्थितैकास्यं तार्क्ष्यस्थं वा चतुष्करम् ।
शङ्खचक्रधरे कार्ये [घ्: धरौ कार्यौ] तत्सौम्याग्नेयपार्श्वतः ।। ५७ ।।
सरस्वतीश्रियौ तद्वद्वीणापद्म [मू, अ, ग्: धर्म] करे क्रमात् ।
प्. ९८) वामेऽभयप्रदं शेषे शङ्खहस्तं द्विभाहुकम् ।। ५८ ।।
सौम्यरूपं गृहे कुर्याल्लम्बपाणिं शुभप्रदम् [मू, अ, क्, ग्, घ्, ङ्: शुकप्रभम्] ।
क्रुद्ध उद्यतहस्तश्च प्रासादस्थः सदा मतः ।। ५९ ।।
नीलवर्णश्चतुर्वक्त्रो भृशं चैवारुणेक्षणः ।
सन्दष्टौष्ठपुटः क्रुद्धो विष्णुरष्टभुजो मतः ।। ६० ।।
गदाखड्गेषुशान्तिश्च बिभ्राणो दक्षिणे करे ।
चक्रं चापं च खेतं च शङ्खं वामकरे तथा ।। ६१ ।।
विष्णुश्चतुर्भुजो माली शङ्खचक्रगदाब्जभृत् ।
एकास्यश्चतुरास्यश्च त्रिमुखो वा मये मते ।। ६२ ।।
मत्स्यः [अस्य २१ सं० चि० द्र०]-
दैर्घ्यं कृत्वाष्टधा द्रव्यमूर्ध्वाधोमुखपुच्छकम् ।
तत्त्र्यंशविस्तरं चैव पुच्छोऽधं सप्तभागशः ।। ६३ ।।
सूत्रस्य भ्रमणात्पृष्ठं [क्, ख्: भ्रमणं दृष्टं] तद्वज्जठरवर्तनम् ।
हस्तौ क्रोडसमीपस्थौ पादौ जठरपार्श्वतः ।। ६४ ।।
हस्ताङ्घ्री द्वित्रिभागाभ्यामर्धांशेनास्यकल्पनम् ।
अर्धाङ्गुलं तु तन्नेत्रं द्विसार्धैकार्धभागतः ।। ६५ ।।
मस्तकाद्द्विदलं तस्य क्रमेण प्रविभज्य च [मू, अ, क्: तु] ।
शेषं रोहितवत्कुर्यान्मत्स्यरूपधरे विभौ [क्, ख्, ग्, घ्, ङ्: हरेर्विधौ] ।। ६६ ।।
कूर्मः [अस्य २२ सं० चि० द्र०]-
वेदास्रकोणसूत्रार्धं तद्वेदांशैः प्रकल्प्य च ।
प्. ९९) तद्द्व्यंशमध्यतो वृत्तं कलाहीनं तु पार्श्वयोः ।। ६७ ।।
ऊर्ध्वाधयोः शिरोग्रीवा पुच्छं शेषे कराङ्घ्रिके ।
द्विगुणं पादतो दैर्घ्याद्ग्रीवां मस्तकसंयुताम् ।। ६८ ।।
पृष्ठं समुन्नतं चारु पृथुवेदांशतोदरम् [मू, अ, क्, ग्, घ्, ङ्: दलम्] ।
नासाक्षिनखकर्णादि ज्ञात्वा कूर्मं विवर्तयेत् ।। ६९ ।।
वराहः [अस्य २३ सं० चि० द्र०]-
कन्धराष्टाङ्गुलायामा वदनं गोलकाष्टकम् ।
हनू तद्वक्त्रभागे च दैर्घ्यात्सप्ताङ्गुलौ मतौ ।। ७० ।।
सप्ताङ्गुलास्यनिष्क्रान्तं मात्रैका नासिकाबिलम् ।
दंष्ट्रे च त्र्यङ्गुले वक्त्रे सितर्षिकलिकोपमे ।। ७१ ।।
कर्णोच्छ्रायौ द्विनेत्रं च तन्मध्ये षोडशाङ्गुलम् ।
प्राङ्मानाद्यवहीनं तु चक्रगारुणलोचनम् [घ्: लोचने] ।। ७२ ।।
आपादकण्ठपर्यन्तं नररूपं चतुर्भुजम् ।
गदाचक्राब्जशङ्खाढ्यमालीढकरणे स्थितम् ।। ७३ ।।
श्रीर्वाम [मू, अ, ग्: ग्रीवां स] कुर्परस्था तु क्ष्मानन्तौ चरणानुगौ ।
एवं वराहरूपं स्याद्वनमालाविभूषितम् ।। ७४ ।।
नृसिंह [अस्य २४ सं० चि० द्र०]-
पूर्वरूपं घनं श्वेतमुच्चस्कन्धं सकेसरम् ।
नराङ्गं [घ्: वराङ्गं] सिंहवक्त्रं च वृत्ताक्षं भ्रुकुटीयुतम् [मू, अ, क्, ग्, घ्, ङ्: मुखम्] ।। ७५ ।।
प्. १००) विवृतास्योग्रदंष्ट्रं च वामोरुकृतदानवम् ।
तद्वक्षो दारयन्तं च स्फुरच्चक्रगदाधरम् ।। ७६ ।।
ग्रसन्तमिव लोकांस्त्रीन् दुः सहं दीप्ततेजसम् [ख्: लोचनम्] ।
वनमालान्वितं कुर्यान्नरसिंहं जगत्प्रभुम् ।। ७७ ।।
वामनः [अस्य २५ सं० चि० द्र०]-
प्राङ्मानं वामनं कुर्याद् द्विभुजं छत्रधारिणम् ।
जटिलं कुण्डिकायुक्तं गौरं श्यामारुणेक्षणम् ।। ७८ ।।
त्रिविक्रमः [अस्य २६ सं० चि० द्र०]-
चतुर्भुजं गदापाणिं शङ्खचक्रधरं विभुम् ।
वामाङ्घ्र्याक्रान्तविश्वं च तद्भेदं तु [मू, अ, क्: च] त्रिविक्रमम् ।। ७९ ।।
परशुरामः [अस्य २७ सं० चि० द्र० । अत्र वामनत्रिविक्रमः इति पाठो वर्तते घ्. पुस्तके]-
द्विबाहुं जटिलं तूणीकुठारेषु धनुर्युतः ।
श्यामवर्णो बृहद्वक्षो रामः क्षत्रान्तकारकः ।। ८० ।।
रामभद्रः [अस्य २८ सं० चि० द्र०]-
सौम्यरूपो विशालाक्षः किञ्चित्पीनो द्विबाहुकः ।
जटी चापेषुहस्तश्च रामः कार्यो दशास्यहृत् ।। ८१ ।।
वलभद्रः [अस्य २९ सं० चि० द्र०]-
नीलोत्पलदलश्यामो द्विभुजः पीतवस्त्रकम् ।
गदालाङ्गलधारी च रामः कंसान्तकारकः ।। ८२ ।।
प्. १०१) बुद्धः [अस्य ३० सं० चि० द्र०]-
शान्तात्मा लम्बकर्णश्च गौराङ्गश्चीवरावृतः ।
ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयकारकः ।। ८३ ।।
कल्की [अस्य ३१ सं० चि० द्र०]-
धनुस्तूणान्वितः [ख्: तालान्वितः; घ्: स्कोलान्वितः] कल्की म्लेच्छोत्सादकरो द्विजः ।
गौरो वाजिस्थितः खड्गी क्वचित्पिङ्गललोचनः ।। ८४ ।।
दशधाहरिः-
मत्स्यकूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च रामश्च बुद्धः कल्की च ते दश ।। ८५ ।।
केशवः [अस्य ३२ सं० चि० द्र०]-
ओतप्रोतास्त्रयोगेन [अनुलोमविलोमेनेत्यर्थः] मूर्तिभेदो निगद्यते ।
ऊर्ध्वाधः करयोः शङ्खपद्मे दक्षिणतो मते [क्, ख्: दक्षिणभागतः] ।। ८६ ।।
गदाचक्रे त्वधश्चोर्ध्वं वामपाण्योर्यथाक्रमम् ।
ज्वलदग्निसमाकारं कुर्यात्केशवरूपकम् ।। ८७ ।।
नारायणः [अस्य ३३ सं० चि० द्र०]-
ऊर्ध्वाधः पद्मशङ्खौ च करयोर्दक्षयोस्तथा ।
वामयोश्च गदाचक्रे नीलं नारायणं वपुः ।। ८८ ।।
प्. १०२) माधवः [अस्य ३४ सं० चि० द्र०]-
सुदर्शनगदे चोर्ध्वमधश्चैवापसव्ययोः ।
सव्ययोः कम्बुपद्मे च माधवे रुक्मसन्निभे ।। ८९ ।।
गोविन्दः [अस्य ३५ सं० चि० द्र०]-
चक्रं गदा त्वधश्चोर्ध्वं वामयोः करयोः क्रमात् ।
ऊर्ध्वाधोब्जं च शङ्खं च गोविन्दे पिङ्गलात्मके [ख्: पिङ्गलाङ्गके] ।। ९० ।।
विष्णुः [अस्य ३६ सं० चि० द्र०]-
शङ्खमूर्ध्वमधश्चक्रं गदा चोर्ध्वमधोऽम्बुजम् ।
वामदक्षिणयोः कुर्यात्सिते विष्णौ क्वचिन्मते ।। ९१ ।।
मधुसूदनः [अस्य ३७ सं० चि० द्र०]-
उर्ध्वाधश्चक्रशङ्खौ च क्रमाद्दक्षिणहस्तयोः ।
वामयोश्च गदापद्मे चन्द्राभे मधुसूदने ।। ९२ ।।
त्रिविक्रमः [अस्य ३८ सं० चि० द्र०]-
दक्षिणोपरि हस्ते च गदा देयाम्बुजं त्वधः ।
चक्रमूर्ध्वमधः शङ्खं गौरे पूर्वत्रिविक्रमे ।। ९३ ।।
वामनः [अस्य ३९ सं० चि० द्र०]-
उपर्यधश्च चक्रं च शङ्खं दक्षिणहस्तयोः ।
गदाब्जे शेषयोः पीते वामने पूर्वरूपके ।। ९४ ।।
श्रीधरः [अस्य ४० सं० चि० द्र०]-
दक्षिणोर्ध्वकरे चक्रं कुर्यादब्जमधः करे ।
प्. १०३) गदाशङ्खं तथा वामे श्रीधरे विद्रुमोपमे ।। ९५ ।।
हृषीकेशः [अस्य ४१ सं० चि० द्र०]-
शङ्खपद्ममधस्तूर्ध्वं गदाचक्रं यथाक्रमम् ।
सुवर्णाभे हृषीकेशे पाण्योः सव्यापसव्ययोः ।। ९६ ।।
पद्मनाभः [अस्य ४२ सं० चि० द्र०]-
दक्षिणोर्ध्वकरे पद्मं शङ्खं चाधस्तथापरे ।
गदाधश्चक्रमूर्ध्वं च पद्मनाभे सितप्रभे ।। ९७ ।।
दामोदरः [अस्य ४३ सं० चि० द्र०]-
ऊर्ध्वं शङ्खमधः पद्मं चक्रं चाधो गदोर्ध्वतः ।
दक्षिणे चोत्तरे हस्ते देवे दामोदरेऽरुणे ।। ९८ ।।
द्वादशधाहरिः-
वासुदेवात्त्रयो जातास्त्रयः संकर्षणात्क्रमात् ।
प्रद्युम्नाच्चानिरुद्धाच्च विज्ञातव्यास्त्रयस्त्रयः ।। ९९ ।।
पीताम्बरधराः सर्वे वनमालोपशोभिताः ।
मार्गादिकार्तिकान्तं च प्रोक्ता द्वादशमूर्तयः ।। १०० ।।
वासुदेवः [अस्य ४४ सं० चि० द्र०]-
शान्तं सितं कजारूढं वासुदेवं चतुर्भुजम् ।
योगमुद्रां च शङ्खं च गदाचक्रधरं द्वयम् ।। १०१ ।।
वाममुष्ट्यर्धमङ्गुष्ठे दक्षिणोऽङ्गुष्ठवेष्टनम् ।
मुद्रां कुर्याद्धृदिस्थां च अशेषाघप्रणाशिनीम् ।। १०२ ।।
प्. १०४) (संकर्षणः, प्रद्युम्नः, अनिरुद्धः, [एषां ४५, ४६, ४७ सं. चि. द्र.)
चतुर्दोश्चारुहेमाभं कुर्यात्संकर्षणं विभुम् ।
पात्रशान्तिधरं याम्ये वामके पद्मसीरिणौ ।। १०३ ।।
स्मरं चापेषुभृद्रक्तं मेघाभमनिरुद्धकम् ।
कौमोद्या हेतिराजेन पाञ्चजन्याम्बुजेन च ।। १०४ ।।
वामदक्षिणयोर्युक्तं कुर्यान्मूलचतुष्ककम् ।
नारायणादिपञ्चान्यत्पूर्वोक्तकरशस्त्रभृत् ।। १०५ ।।
तद्वद्ब्रह्मा च विष्णुश्च नरसिंहश्च सूकरः ।
एभिर्युक्तं नवव्यूहं ज्ञातव्यं दैशिकोत्तमैः ।। १०६ ।।
दत्तात्रेयः [अस्य ४८ सं० चि० द्र०]-
दत्तात्रेयं विभुं [ख्, घ्: हरिं] कुर्याद्द्विभुजं यौवनान्वितम् ।
वामोत्सङ्गधृतश्रीकमर्धचन्द्रासने स्थितम् ।। १०७ ।।
वामपाणिधृताम्भोजां सुरूपा [ख्: सुभ्रु वा] मायतेक्षणाम् ।
तद्दक्षिणं करं स्कन्धे देवदेवस्य दक्षिणे ।। १०८ ।।
सव्याश्लिष्टप्रियः कार्यो दक्षिणे मद्यपात्रकम् ।
पद्मस्थो घूर्णिताक्षश्च गातृनर्तनकैर्वृतः ।। १०९ ।।
दत्तात्रेयस्त्वयं [क्: दत्तात्रेयः स्वयं] वीरो भुक्तिमुक्तिप्रदायकः ।
अद्वैतेन विधानेन पूजनीयो विपश्चिता ।। ११० ।।
जलशायी [अस्य ४९ सं० चि० द्र०]-
पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ।
प्. १०५) योगनिद्रापरावस्थः [ख्: धरावस्थः] सुप्तोऽनन्ततनूपरि ।। १११ ।।
फणासप्तान्वितोऽनन्तः कार्यो मस्तोपरि प्रभोः ।
पादलग्ना धरादेवी जलशायी ग्रहावृतः ।। ११२ ।।
पद्मनाभः [अस्य ५० सं० चि० द्र०]-
पद्मनाभः श्रियायुक्तो भोगितल्पगतोऽपि वा ।
आभ्युत्थपङ्कजारूढः पितामहसमन्वितः ।। ११३ ।।
कामः [अस्य ५१ सं० चि० द्र०]-
कामो [घ्: कार्यो] गौरो युवा कान्तो रतिप्रीत्योस्तु मध्यतः ।
सा लीढो नन्दने रागी सदा चापेषुभृच्छुभः [घ्: भृत्सुतः] ।। ११४ ।।
गरुडः [अस्य ५२ सं० चि० द्र०]-
उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः ।
तुङ्गघ्राणो [क्, ख्: तुङ्गघोणा] नराङ्घिर्वा पक्षिजङ्घो नराङ्गकः ।। ११५ ।।
कृष्णासग्घेमचन्द्राभो मूर्धादौ फणिभूषितः ।
वामजानुगतो भूमौ तार्क्ष्यः पक्षसमन्वितः ।। ११६ ।।
विश्वक्सेनः [अस्य ५३ सं० चि० द्र०]-
इन्दीवरनिभश्चक्री पीतवासो गदान्वितः ।
हलशङ्खवरो माली विश्वक्सेनो हरेर्गणः ।। ११७ ।।
बलदेवः [अस्य ५४ सं० चि० द्र०]-
ऊर्ध्वं श्वेतं चतुर्बाहुं सहाभोगं हलायुधम् ।
पद्मसीरधरं वामे शेषे मुशलगोद्वहम् [क्, ख्: खाद्ययुगोद्वहम्] ।। ११८ ।।
प्. १०६) हरहरी [हरिहरौ, इत्यपि पाथः । अस्य० ५५ सं. चि. द्र.]
जटार्धमुकुटार्धे च नोर्धलिङ्गेन [घ्: नोर्ध्व] चान्वितम् (?) ।
अर्धेऽर्धे भूषणैः स्वैः स्वैर्युक्तमूर्ध्वं कजस्थितम् ।। ११९ ।।
चतुर्भुजं महात्मानं जटार्धार्धेन्दुभूषितम् ।
अक्षमालां त्रिशूलं च शङ्खं च कौमुदीं क्रमात् ।। १२० ।।
दक्षिणोत्तरपाणिभ्यां बिभ्राणमध ऊर्ध्वतः ।
पुंस्त्रीस्वरूपकं कुर्याच्छिवनारायणात्मकम् ।। १२१ ।।
ब्रह्मवर्गः [अस्य ५६ सं० चि० द्र० । अत्र तु एकस्यैव ब्रह्मणश्चित्रं वर्तते न ब्रह्मवर्गस्य]-
चतुर्मुखं चतुर्बाहुं लम्बकूर्चं महोदरम् ।
ब्रह्माणं व्रतिनं कुर्याज्जटामुकुटभूषितम् [ख्: भूषणम्] ।। १२२ ।।
पिङ्गाक्षं सौम्यरूपं च सोत्तरीयोपवीतिकम् ।
कृष्णाजिनं च तत्स्कन्धे वस्त्रं चाजिनवाससम् ।। १२३ ।।
अक्षमालां श्रुवं तस्य दण्डं वा दक्षिणे करे ।
स्रुवं [घ्: स्रुचं] कमण्डलुं वामे सकुशाज्यघटं तथा ।। १२४ ।।
हंसारूढं कजस्थं वा योगपट्टासना [मू: योगपद्मासना] न्वितम् ।
गायत्रीं चैव सावित्रीमृषींस्तत्पार्श्वयोस्तथा ।। १२५ ।।
जटिलांल्लम्बकूर्चांश्च वृद्धरूपांश्च लोमशान् ।
रिक्तवक्षोऽक्षिकुक्षींश्च साक्षमालाकमण्डलून् ।। १२६ ।।
प्. १०७) चण्डी [अस्य ५७ सं० चि० द्र०]-
हेमाभां रूपिणीं कुर्यात्त्रिनेत्रां यौवनस्थिताम् ।
क्रुद्धामूर्ध्वस्थितां चारु कुर्याद्विंशतिबाहुकाम् ।। १२७ ।।
शूलासिशक्तिचक्राणीषुशङ्खेन्द्रायुधाभयाः ।
डमरुं शस्त्रिकां याम्ये हस्ते स बिभ्रतीं सदा ।। १२८ ।।
नागपाशं च खेटं च कुठाराङ्कुशकार्मुकम् ।
घण्टाध्वजगदादर्शमुद्गरान् वामहस्तकैः ।। १२९ ।।
शङ्खादिपञ्चकं त्यक्त्वा तथा घण्टादिपञ्चकम् ।
कार्या दशभुजा चापि सैव देवी क्वचिन्मते ।। १३० ।।
तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ।
शस्त्रोद्यतकरः क्रुद्धस्तद् पीवासम्भवः पुमान् ।। १३१ ।।
शूलभिन्नो वमद्रक्तो रक्तभ्रूमूधजेक्षणः ।
सिंहेन खाद्यमानश्च पाशबद्धो गले भृशम् ।। १३२ ।।
याम्याङ्घ्र्याक्रान्तसिंहा च सव्याङ्घ्र्यालीढगासुरे ।
चण्डिकोद्यतशस्त्रेयमशेषरिपुनाशनी ।। १३३ ।।
नवदुर्गाः [अस्य चित्रसंग्रहपुस्तके दुर्गा नाम्ना नवदुर्गा नाम्ना च चित्रद्वयं वर्तते, ५९, ६० स. चि. द्र०]-
नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः ।
आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात् ।। १३४ ।।
अष्टादशभुजैः कान्तपीनवक्षः स्तनोरुका ।
प्. १०८) मूर्धजं खेटकं घण्टामादर्शं तर्जनीं धनुः ।। १३५ ।।
ध्वजं डमरुकं पाशं बिभ्रती वामकेऽन्यतः ।
शक्तिमुद्गरशूलं च वज्रं खड्गमथाङ्कुशम् ।। १३६ ।।
शरं चक्रं शलाकां च एतैरेवायुधैर्युता ।
शेषाः षोडशहस्ताश्च अञ्जनी [मू: अञ्जली] डमरुं विना ।। १३७ ।।
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ।। १३८ ।।
नवमीचण्डिका चोग्रा [घ्: नवमी चण्डचोग्रा] मध्यस्थाग्निप्रमोदिता ।
रोचनाभारुणा कृष्णा नीला शुक्ला च धूम्रिका [ख्: सूक्ष्मा च धूमिका] ।। १३९ ।।
पीता च पान्डुरा [घ्: पाण्डरा] ज्ञेया आलीढस्था हरिस्थिता ।
महिषोत्थः पुमाञ्शस्त्री तत्कचग्रहमुष्टिकाः ।। १४० ।।
स्थाप्या वृत्तेन पङ्क्त्या वा इत्युक्ताः स्कन्दयामले ।
नवदुर्गाः प्रतिष्ठाप्य पुत्रार्थायुरवाप्नुयात् ।। १४१ ।।
उमा [चित्रसंग्रहे पुस्तके उमाया गौरी नाम्ना चित्रं वर्तते । अत्रैव ललितासर्वमङ्गलाकैटभ्यादीनां चान्तर्हितत्वात् तत्तन्नाम्ना ६१, ६२, ६३, ६४, सं. चि. द्र० ।]-
पञ्चाग्निग्रहसंयुक्ता चतुर्बाहुस्तपः स्थिता ।
बिभ्रती दण्डिकाकुण्ड्यावक्षसूत्रं वरं क्रमात् ।। १४२ ।।
वामदक्षिणयोः पाण्योस्तपो गौरी महात्मिका ।
सैव रम्भावने सिद्धाग्निहीना ललितान्यथा ।। १४३ ।।
स्कन्धमूर्ध्वकरा [क्, ग्: सूत्रकरा] वामे द्वितीये धृतदर्पणा ।
याम्ये फलाञ्जनीहस्ता सौभाग्या तत्र चोर्ध्विका [मू, अ: चोर्धिका] ।। १४४ ।।
प्. १०९) अर्धचन्द्रासनाब्जस्था स्तनाढ्या षट्चतुर्भुजा ।
त्रिनेत्रा जटिला सौम्या नानाभरणभूषिता ।। १४५ ।।
शान्त्यक्षसूत्रं पद्मं च बिभ्राणा दक्षिणे करे ।
अभयं कुण्डिकां शूलं स्थितं वामकरे सदा ।। १४६ ।।
याम्याङ्घ्रिसिंहपृष्ठस्था चतुर्बाहुः क्वचिन्मते ।
विनावरा भयाभ्यां तु कर्तव्या सवमङ्गला ।। १४७ ।।
द्विभुजा कैटभी काया गौरवर्णा सुरूपिणी ।
शययारूढा प्रसुप्ता च योगनिद्रा समाश्रिता ।। १४८ ।।
कालरात्री [अस्य ६५ सं० चि० द्र०]-
एकवेणी जवा [घ्: षवा] कर्णपूरा नाना खरस्थिता ।
वंशोत्थकर्णिकाकर्णा तैलाभ्यक्तशरीरिणी ।। १४९ ।।
वामपादे च सल्लोहकृतखडकभूषणा ।
नवत्यूर्ध्व [मू, अ, क्, ख्: वर्धन्यूर्ध्व] वजा कृष्णा कालरात्री भयङ्करी ।। १५० ।।
महाश्रीः [अस्य ६६ सं० चि० द्र०]-
वर्तुलास्या विशालाक्षी मध्यक्षामा सुयौवना ।
हेमवर्णाब्जसंस्था च पीनोन्नतपयोधरा ।। १५१ ।।
चारुसर्वाङ्गसंपूर्णा सर्वाभरणमण्डिता [ख्: सयुता] ।
सदा याम्यकराम्भोजा वामे श्रीः श्रीफलान्विता ।। १५२ ।।
वालव्यजनधारिण्यौ कार्ये तत्पार्श्वयोः स्त्रियौ ।
गजौ भृङ्गारहस्तौ च स्नापयन्तौ च [घ्: यन्त्यौ तु] पार्श्वतः ।। १५३ ।।
प्. ११०) सरस्वती [अस्य ६७ सं० चि० द्र०]-
श्वेताब्जस्था सुरूपा च श्वेताभरणभूषिता ।
पुस्ता [ख्: सुप्ता] क्षमालिकाहस्ता वीणाभृद्वा सरस्वती ।। १५४ ।।
गङ्गा [अस्य ६८ सं० चि० द्र०]-
श्वेता मकरसंस्था [ख्: कमलसंस्था] च ऊर्ध्वकाया सुशोभना ।
कुम्भेन्दीवरहस्ता च द्वारस्था जन्हुपुत्रिका ।। १५५ ।।
यमुना [अस्य ६९ सं० चि० द्र०]-
कूर्मारूढाब्जहस्ता च द्वारस्था कलशान्विता ।
इन्दीवरदलश्यामा सुरूपा यमुना तथा ।। १५६ ।।
तुम्बुरुः [अस्य ७० सं० चि० द्र०]-
सितं सौम्यं वृषारूढं जटाहीन्दुत्रिदृग्युतम् ।
द्वीपिचर्मधरं कुर्याद्वीणाहस्तं च तुम्बुरुम् ।। १५७ ।।
मातृणामादितो नित्यं शूलहस्तमथापि वा ।
अनन्तरं तु मातृश्च ब्रह्माण्याद्यास्तु सप्त च ।। १५८ ।।
ब्रह्माणी [अस्य ७१ सं० चि० द्र०]-
गौरीं चतुर्मुखीं पीनामक्षमालास्रुवान्विताम् ।
कुण्ड्याज्यपात्रिणीं वामे ब्रह्माणीं हंससंस्थितम् ।। १५९ ।।
रुद्राणी [अस्य ७२ सं० चि० द्र०]-
त्रिनेत्रां शूलहस्तां च जटाखण्डेन्दुमण्डिताम् ।
कपालमालिनीं शुक्लां रुद्राणीं वृषसंस्थिताम् [क्, ख्, ग्: वृषभस्थिताम्] ।। १६० ।।
प्. १११) कौमारी [अस्य ७३ सं० चि० द्र०]-
रक्तां शशिधरां देवीं रक्तमाल्याम्बरान्विताम् ।
शिखिपृष्ठसमारूढां कौमारीं स्कन्दरूपिणीम् ।। १६१ ।।
वैष्णवी [अस्य ७४ सं० चि० द्र०]-
चक्रशङ्खगदापद्मचतुर्हस्तां [मू, अ, ग्, घ्: चक्रखड्ग] च तार्क्ष्यगाम् ।
श्यामां सुरूपिणीं कुर्याद्वैष्णवीं वनमालिनीम् ।। १६२ ।।
वाराही [अस्य ७५ सं० चि० द्र०]-
कृष्णां पीनोदरां क्रूरां शूकरास्यां नकायिकाम् ।
सुवस्त्रां यौवनोद्भिन्नां नार्याभरणभूषिताम् ।। १६३ ।।
वाराहीं महिषस्थां तु मदिरादण्डधारिणीम् ।
खड्गखेटकसंयुक्तामथवापि चतुर्भुजाम् ।। १६४ ।।
इन्द्राणी [अस्य ७६ सं० चि० द्र०]-
सहस्राक्षां गजारूढां हेमाभां वज्रधारिणीम् ।
इन्द्राणीं सर्वसिद्ध्यर्थं वस्त्रालङ्कारसंयुताम् ।। १६५ ।।
चामुण्डा [अस्य ७७ सं० चि० द्र०]-
गर्ताक्षीं क्षीणदेहां तु क्षामकुक्षीं भयङ्करीम् ।
विवतास्यां तु दंष्ट्रोग्रां शवे वा कौशिके स्थिताम् ।। १६६ ।।
([चापान्तर्गतोऽयं श्लोकः मूल पुस्तके नास्ति] लेलिहानां सुरक्ताङ्गी [ख्, ग्: सुरक्ताक्षीं] ज्वलत्वेशाभिमण्डिताम् ।
प्. ११२) द्वीपेवर्माम्बरा क्रुद्धां चामुण्डां मुण्डमालिनीम् ।। १६७ ।।)
मातृरूपाणि [एषामुदाहरणानि ७८ तः ८६ पर्यन्तानि चित्राणि द्रष्टव्यानि]-
जटिलां वर्तुलत्र्यक्षां चतुर्बाहुं च बिभ्रतीम् ।
कपालं कतरीं याम्ये पाशं शूलं च वामके ।। १६८ ।।
कपालकतरीयुक्तां द्विभुजां वापि पिङ्गलाम् ।
मातृस्थानेऽथवैकां वा तदन्ते च गणेश्वरः ।। १६९ ।।
कपालकर्तरीशूलपाश भृद्याम्यसौम्ययोः ।
गजचर्मभृदूर्ध्वाभ्यां षड्दोः स्याद्रुद्रचर्चिका [चित्रपुस्तके महालक्ष्मी विद्यते रुद्रचर्चिकैव समुचित इव पाठः । ७८ चित्रं द्रष्टव्यम् ।] ।। १७० ।।
सैव चाष्टभुजा देवी शिरोडमरुकान्विता ।
तेन सा रुद्रचामुण्डा [रुद्रचामुण्डायाः ७९ सं० चित्रं द्र० ।] नाट्ये [नाट्येश्वर्याः ८० सं चि० द्र० ।]श्वर्यथ नृत्यती ।। १७१ ।।
इयमेव महालक्ष्मी [महालक्ष्म्याः ८१ सं० चि० द्र० ।] रूपाविष्टा चतुर्मुखी ।
नृपाजिमहिषेभांश्च खादन्ती चेत् करे स्थितान् ।। १७२ ।।
नरमुण्डकरान्यत्र शेषदोः सु च पूर्ववत् ।
एकास्या श्वेतवर्ण च श्वेताभरणभूषिता ।। १७३ ।।
पूर्वरूपकसंपन्ना नृत्यन्ती नातिरौद्रिका ।
दशबाहु [ख्: शताबाहु] स्त्रिनेत्रा च शस्त्रासिं डमरुं नृकम् ।। १७४ ।।
प्. ११३) बिभ्रतो [अस्याः ८२ सं० चि० द्र०] दक्षिणे हस्ते वामे घण्टां च खेटकम् ।
खट्वाङ्गं च त्रिशूलं च सिद्धचामुण्डिकाह्वया ।। १७५ ।।
सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका ।
एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ।। १७६ ।।
भैरव्या [अस्याः ८३ सं० चि० द्र० ।] ख्योपविष्टा तु भुजद्वादशभूषिता ।
वेतालशाकिनीगृध्रकाकोलूकशिवाकुला ।। १७७ ।।
एताः सर्वा श्मशानस्था महामांसाग्रभोजनाः ।
आद्याष्टकमिदं ख्यातं शेषभेदस्तु विस्तरः ।। १७८ ।।
क्षामा शिवावृता वृद्वा द्विभुजा विवृतानना ।
दन्तुराक्षेमकरी स्याद्भूमौ जानुकरास्थिता ।। १७९ ।।
यक्षिण्यस्तु [अस्याः ८४ सं० चि० द्र० ।] प्रदीर्घाक्ष्यः शाकिन्यो [अस्याः ८५ सं० चि० द्र० ।] चक्रदृष्टयः ।
एङ्गा (?) हास्या महोदर्यो रूपिण्योऽप्सरसः [अत्रैव क्वचिच्चण्डः इत्यापि पाठः चित्रपुस्तके] सदा ।। १८० ।।
अथरुद्रगणाः
तत्रादौ योगेश्वरः [योगेश्वरवीरेश्वर चण्डेश्वराणां चित्राणि वर्तन्ते क्रमशः ८७, ८८, ८९, सं० चि० द्र० ।]-
नासादृङ्मुण्डितश्मश्रुः प्रशान्तो योगपट्टवान् ।
योगेश्वरोरथ वीरश्च अर्धचन्द्रासने स्थितः ।। १८१ ।।
सव्याङ्गुलिवृताङ्गुष्ठं वाममाकुञ्चिताङ्गुलिम् ।
बध्द्वा विन्यस्य हृदयेऽथवोत्तानकरद्वयम् ।। १८२ ।।
प्. ११४) श्वेतस्त्र्यक्षो द्विबाहुश्च जटी टङ्काक्षमालिकः ।
प्रचण्डो दण्डधारी च कार्यश्चण्डेश्वरो महान् ।। १८३ ।।
गणे [अस्य ९० सं० चि० द्र० ।]-
गणेशः पुरुषाकारो गजकर्णो गजाननः ।
महोदरो वृहद्देह एकदन्तस्त्रिलोचनः ।। १८४ ।।
घनकायो बृहच्छुण्डो गाढजङ्द्योरुजानुकः ।
दिव्याम्बरधरः कार्यो नागयज्ञोपवीतवान् ।। १८५ ।।
चतुर्दशाङ्गुलं तस्य विस्तारेणाननं शुभम् ।
षोडशाङ्गुलकं दैर्घ्याच्छुण्डं षड्त्रिंशदङ्गुलम् ।। १८६ ।।
अर्काङ्गुल [मू: अर्धाङ्गुल] पृथुग्रीवा त्र्यङ्गुला चोच्छ्रयेण तु ।
पीनः समुन्नतोरस्कः कर्तव्यो गणनायकः ।। १८७ ।।
सगर्ता [ख्: अगर्ता] द्यङ्गुला कार्या नाभिर्विस्तरतो बुधैः ।
कण्ठगुहयान्तरं कार्यं समं द्वात्रिंशदङ्गुलम् ।। १८८ ।।
ऊरुजङ्घे च कर्तव्ये पादौ च द्वादशाङ्गुलौ ।
मस्तकं निविडं व्यस्तं वाम [मू, अ: वात] कुम्भसमुन्नतम् ।। १८९ ।।
कर्णौ दृगन्तविस्तारौ बाहुल्येनाङ्गुलौ मतौ ।
रन्ध्रं रन्ध्राङ्गुलौ कुम्भौ तन्मध्ये सूत्रमानतः ।। १९० ।।
दन्तकोशे [क्, ग्: दन्तकोणे] भवेत्तस्य शुण्डामूलं दशाङ्गुलम् ।
एकैकं ह्रासयोगेन यावद्वेदाङ्गुलस्थितिः ।। १९१ ।।
छिद्रं सार्धाङ्गुलं चाघ्रं [मू: चापं] पुष्करेणा समाङ्गुलम् ।
प्. ११५) पञ्चतालप्रदैर्घ्यं च [क्, ख्: प्रदैर्घ्याङ्ग] चतुस्तालविवेशनम् ।। १९२ ।।
ताले ताले नेत्राह्वं [मू: नेत्राङ्कं] क्षिप्त्वा स्थौल्येन वर्तयेत् ।
स्वदन्तं [ग्: सुदण्डं] दक्षिणे पाणौ वामहस्ते च लड्डुकम् ।। १९३ ।।
परशुं दक्षिणे दद्यादुत्पलं च तथेतरे [घ्: ततोत्तरे] ।
एतन्मानसमायुक्तं सर्वलोकहितावहम् ।
गणेशलक्षणं प्रोक्तं चतुर्हस्तं तु नान्यथा [क्, ख्: स्त्वतोऽन्यथा; घ्: तथान्यथा] ।। १९४ ।।
हेरम्ब [अस्य ९१ सं० चि० द्र० ।]-
नागपाशधरं वामे दक्षिणे साक्षमालिकम् [क्, ख्, घ्: मालिनम्] ।
भुजाभ्यामधिकं कुर्यात्षड्भुजं पूर्ववच्च तम् [ग्: द्वृतम्] ।। १९५ ।।
एभिर्युक्तं द्विहस्ताढ्यं दक्षिणैकं प्रसारितम् ।
वामं चाभयदं हस्तं शुभं चाष्टभुजान्वितम् ।। १९६ ।।
वैशाखकरणैर्युक्तं नानाभरणभूषितम् [मू: मण्डितम्] ।
पद्माधस्तात्तु कर्तव्यो महाखु [मू, अ, ग्, घ्: महोक्ष] श्चारुरूपवान् ।। १९७ ।।
सितपद्मोपविष्टं तु पूर्वरूपं चतुर्भुजम् ।
षड्भुजश्चाष्टबाहुश्च प्रहृष्टस्ताण्डवाकुलः ।। १९८ ।।
गणेशस्य त्रिधा रूपं विघ्नघ्नं सर्वसिद्धिदम् ।
आद्यं सितं गृहेऽभीष्टं त्रिविधं सुरमन्दिरे ।। १९९ ।।
प्. ११६) स्कन्धः [अस्य ९२ स० चि० द्र० । अत्रैव एकवक्त्रकुमारस्य पृथक् चित्र द्वयं च वर्तते ९३, ९४, सं० चि० द्र० ।]-
पत्तने नगरे कार्यः पुरे वांथ षडाननः ।
भुजैर्द्वादशभिर्युक्तः स्कन्दो मुख्यः सुरूपकः ।। २०० ।।
शक्तिषुपाशनिस्त्रिंशतच्छेष [मू: ततदो] स्तर्जनीयुतः ।
शान्त्या च दक्षिणे हस्ते षड्भिर्वामकरे तथा ।। २०१ ।।
शिखिपिच्छधनुः खेटपताकाभयकुक्कुटैः ।
गौणः क्षेत्रेऽथवा षड्दोरेकवक्त्रः प्रशस्यते ।। २०२ ।।
बिभ्रक्छत्त्यसिवज्राणि दक्षे घण्टां च खेटकम् ।
यथाक्रमं सदा षड्भिर्दक्षिणोत्तरपाणिभिः ।। २०३ ।।
ग्रामे वा यदि वारण्ये द्विभुजं चैकवस्त्रकम् ।
बिभ्रछक्तिं करे याम्ये ताम्रचूडं तथेतरे ।। २०४ ।।
रक्ताङ्गो रक्तवक्त्रश्च [क्, ख्: वस्त्रश्च] बालरूपोऽथ मांसलः ।
शिख्यारूढस्तु शार्वोऽयं सर्वालङ्कारभषितः ।। २०५ ।।
वृषभ [अस्य ९५ स० चि० द्र० ।]-
पिङ्गलाख्य [मू, अ, ख्, ग्, घ्: पिङ्गलाक्ष] मतादुक्तं लिङ्गदैर्घ्यं [घ्: लिङ्गदैर्घ्यात् । अत्र क पुस्तकस्थाटिप्पणी-लिङ्गदैर्घ्यं, दीर्घवृषं तदत्मकमिति, यद्रव्यमयं लिङ्गं तन्मयं वृषं कुर्यादित्यर्थः ।] तदात्मकम् ।
शिलाहेमादिलोहैर्वा वृषं कुर्याद्यथेप्सितम् ।। २०६ ।।
न चैव शङ्करार्चायां पुरो मतमतादिह ।
साधारणेषु लिङ्गेषु प्रस्तावाद्विहितो वृषः ।। २०७ ।।
प्. ११७) कर्मैतदेव तत्रापि क्रिया प्रान्ताध्वयोगिनी ।
लिङ्गत्र्यंशोझितः कार्यस्तद्द्विरायतिविग्रहः ।। २०८ ।।
पीठपृष्ठसमो लक्ष्मद [क्, ग्: लक्षाद्र] लोपाहितलोचनः ।
शुभोन्मोलितदृग्लक्ष्म लिङ्गमस्तकमस्तकः ।। २०९ ।।
प्रसिद्धमन्यक्तद्रूपं तथाप्युद्देश उच्यते ।
दैर्घ्याच्चतुरशोत्यशास्चाङ्गुलं तेन कल्पनम् ।। २१० ।।
मानानां गोलकादीनां तैरङ्गोपाङ्गसंहतिः ।
अष्टनेत्रपृथुत्वं स्याप्रोच्चैस्तद्वक्त्रदीर्घता ।। २११ ।।
नेत्रे नेत्र [मू: नेत्रे नेत्रे] समे दैर्घ्यात्तदर्धं विस्तरेण तु ।
तन्त्रिभागं तु तारा स्याज्ज्योतिस्तत्पञ्चमांशतः ।। २१२ ।।
नेत्रार्धं तु [मू, अ, क्: नेत्रद्विकं] भ्रुवोः स्थौल्यं दैर्घ्यं ताभ्यां द्विनेत्रकम् ।
नासाङ्गुलप्रमावृत्ता [मू: प्रमोद्वृत्ता; क्, ख्: भ्रमाद्वृत्ता] द्विनेत्रं शुषिरान्तरम् [मू: स्वशिरान्तरम्] ।। २१३ ।।
षड्नेत्रविस्तरं तत्र मूले तस्योर्ध्वतः [मू, क्, ग्: तस्यार्धतः] पुनः ।
पञ्चनेत्रं तु विस्तारं तदूर्ध्व तु विवर्धते [मू: विवर्जयेत्] ।। २१४ ।।
नेत्रान्तरं द्विनेत्रं स्यान्त्रिनेत्रौ तु कपोलकौ ।
चतुर्नेत्रोभयोः [मू, अ, क्, ग्: नेत्रे तयोः] पार्श्वे वक्त्रमानं तु सन्धितः ।। २१५ ।।
कर्णमूलात्तु वक्त्रान्तं पञ्चनेत्रं प्रकीर्तितम् ।
तन्मूले सप्तविस्तारं कर्णमूलसमन्वितम् ।। २१६ ।।
प्. ११८) कर्णमूलं कलादैर्घ्यं चतुर्नेत्रं कृशाग्रतः ।
अङ्गुलार्धसमं यावन्मूलं पञ्चकवर्तुलम् [मू: वर्तनम्] ।। २१७ ।।
तन्मध्ये शुषिरं तद्वदृजुरेखा तु शष्कुली ।
कर्णमूलात्तु नासार्धं सूत्रहासान्नयेत्समम् ।। २१८ ।।
किञ्चिल्लम्बोर्ध्वकायः [मू, अ, क्, ख्, ग्, ङ्: भागः] स्याद्भनुभ्यां शोभनं तथा [मू: यथा] ।
शङ्खमूल द्विनेत्रं स्याद्यथाग्रे नेत्रपादकम् ।। २१९ ।।
तद्वश्मन्तसमं [क्, ख्: तद्धासान्तु] ताभ्यामन्तरं तु द्विनेत्रकम् ।
पार्श्वपिण्डी द्विनेत्रार्धं षड्नेत्राग्रावटुः [ग्: श्रावदुः] स्मृतः ।। २२० ।।
अष्टनेत्रा स्मृता ग्रीवा ककुदं च त्रिनेत्रकम् [ख्: द्विनेत्रकम्] ।
द्विनेत्रोच्छ्रयतोर्ध्वं [मू: ऊर्धं] स्याद्वृत्तमूर्ध्वं [क्, ग्: लजूं] यथा भवेत् ।। २२१ ।।
ककुदाधोऽष्टनेण [मू: धोर्ध-] पञ्चजङ्घा कला मता ।
सन्धिर्नेत्राधिकः [मू: सद्विनेत्रार्धिक] प्रोक्तश्चतुर्नेत्रोपजङ्घिका ।। २२२ ।।
द्व्यर्धनेत्रौ [क्: द्यर्धनेत्रे] तु तस्याधो गुल्फौ नेत्रद्वयं खुरौ ।
गुल्फार्धं खुरिकानेत्रं पादस्यात्परिमाणतः ।। २२३ ।।
दशसप्तदिभिर्हीने न्यूने [क्, ग्: स्थूल] जङ्या तु नाहतः ।
चतुर्दशादि तद्वच त्रिहीने चोपजङ्घ्रिका ।। २२४ ।।
नेत्राष्टादशकं पृष्ठं त्रिनेत्रं त्रिकटं पुनः ।
षड्नेत्रान्तस्तथाज्ञेया तस्मात्स्यात्पुच्छसन्ततिः ।। २२५ ।।
प्. ११९) द्विनेत्रा पुच्छमूने स्यादग्रेऽङ्गुलसमा [घ्: -दङ्गे-] यथा ।
तालत्रयं प्रदीर्घं स्यात्तालार्धं केशसंहतिः ।। २२६ ।।
दशनेत्रपृथु पृष्ठं सन्धौ मध्ये द्विभिर्विना [मू: त्रिभिर्विना] ।
त्रिभिर्विना तथाग्रे स्याद्द्विनेत्रं कम्बलस्त्वधः ।। २२७ ।।
कुक्षिदेशे समाख्यातो नाहः स्यात्तु चतुर्गुणः ।
त्रिगुणास्तु स्मृतोऽन्यत्र नाभिर्नेत्रद्वयं भवेत् ।। २२८ ।।
द्विनेत्रं वृषणं तद्वद्विस्तारात्पञ्चनेत्रकाः ।
जङ्घा नेत्रं स्मृत, सन्धिः षड्नेत्रा चोपजङ्घिका ।। २२९ ।।
द्विनेत्रौ गुल्फकौ विद्धि सुरः सार्धाङ्गुलाधिकः ।
खुरिकेऽङ्गुलिमानेतु पञ्चनेत्रत्रयं विना ।। २३० ।।
तालनाहं त्रिभिर्हासात्प्रदेशौः परिकल्पयेत् ।
पृष्ठगता च विज्ञेया द्यङ्गुलाधाङ्गुलं यथा ।। २३१ ।।
पृथुत्वेनाङ्गुलात्पादाद्यथाग्रे तु गभीरता ।
त्रिमुखा त्रिकलाहासः पृष्ठतश्चोपजङ्घिका ।। २३२ ।।
यद्यथा लभते शोभां यत्तथाङ्गानि कारयेत् ।
विश्वकर्मात्पुनश्चान्यं वृषं वक्ष्यामि लाघवात् ।। २३३ ।।
जीवदैर्घ्य समनाहं तदर्धं तस्य विस्तरम् ।
क्षेत्रं वेदास्रकं कृत्वा नवभागान्प्रकल्पयेत् ।। २३४ ।।
नवांशैस्तु [ख्: नवाङ्गैस्तु] भवेत्पीठं त्रिचतुर्भिस्तु जङ्घिका ।
त्रिभागैरग्रतो [मू: रुर्ध्वतो] जङ्घा भागैकं तूर्ध्वतो हरेत् ।। २३५ ।।
अधोऽधंशाशं [ग्: मुखोऽर्धाशं; घ्: अर्धाशं च] ततो हृत्वा सार्धाशेनस्य नासिका ।
प्. १२०) हृत्वा [मू: कृत्वा] भागद्वयं चोर्ध्वं कार्यं नासाललाटकम् ।। २३६ ।।
कोणमूत्रहृतार्धांशौं [ख्: कृतार्धाङ्गो] शेषार्धे शृङ्गमादिशेत् ।
तदधोंशात्तथा लुप्त्वा कर्शों कृत्वा तु शृङ्गवत् ।। २३७ ।।
ऋतुसार्धेषु [मू: सार्धे तु] सार्धाग्निभागांस्तु क्रमशो हरेत् ।
कर्णाधः कोणसूत्रं तु दन्तोर्ध्वार्धहरेद्ध्रुवम् ।। २३८ ।।
द्व्यर्धाभ्या चैवभागेन चूडं कुर्या द्विचक्षणः ।
सार्धभागद्वयेनैव पृष्ठस्य परिकल्पनम् [क्: परिकल्पना] ।। २३९ ।।
कर्णसूत्रार्ध भागेन श्रोणी पुच्छोपरिस्थिता ।
भागोंऽशं गृह्न्य चाधोंशे त्यक्त्वार्ध कोणासूत्रतः ।। २४० ।।
तथैव कोणसूत्रार्धभागं टङ्कं प्रकल्प्य च ।
स्फिचं पुच्छं सकेशं च वर्तयेन्मतिमान्नरः ।। २४१ ।।
क्रोडं सार्धांशतः [मू: क्रोडसार्धाशतः] कुक्षिं खुर [घ् पुस्तके- खुरशब्दस्यस्थाने क्षुरशब्दो वतते सर्वत्र] योरन्तरे खुरम् ।
जानुरन्ध्रं तथा सक्थिसन्धिं जङ्गा खुरं बुधः ।। २४२ ।।
त्रिनेत्रं कम्बलोपेतं घण्टाचामरभूषितम् ।
ज्ञात्वा लक्ष्मं प्रकुर्वीत वृषंवृष भरुपकम् ।। २४३ ।।
नन्दी [अस्य ९६ सं० च० द्र० ।]-
युवा त्र्यक्षो जटाचीर [क्, ख्: जठाधारी] (रो?) रक्तकायो द्विबाहुकः ।
साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः ।। २४४ ।।
प्. १२१) महाकालः [अस्य ९७ सं० च० द्र० ।]-
चतुर्बाहुर्विशालास्यः [घ्: विशालाक्षः] पीनाङ्गश्च मनोहरः ।
कूर्चवान् पिङ्गकेशश्च मुण्डमाली त्रिलोचनः ।। २४५ ।।
तत्करेऽसिं नृक याम्ये शूलं खेटं च वामके ।
कृष्णगात्रो महाकालो द्वारे वै वामतः स्थितः ।। २४६ ।।
भृङ्गिः [अस्य ९८ सं० च० द्र० ।]-
कृशः शिरावनद्वाङ्गस्त्वस्थिचर्मावगुण्डितः ।
वृद्धरूपः शिखी हृष्टः क्षामकुक्षिः सुपाण्डुरः ।। २४७ ।।
त्रिनेत्रः शूलपाणिश्च कौपीनी घृष्टकूर्चकः ।
भृङ्गिरीटीगणाश्चैव नृत्यन्नित्यं शिवाग्रतः ।। २४८ ।।
कूष्माण्डः [अस्य ९९ सं० च० द्र० ।]-
त्र्यक्षः श्वेतोऽतिखर्वश्च स्थूलमूर्धाङ्गकुक्षिकः ।
दण्डी करण्डकोपेतः कूष्माण्डःपूर्वमानतः ।। २४९ ।।
गणमूर्तिः [गणस्य चित्रं नास्ति ।]-
नानारूपधराश्चान्ये वीरभद्रादयो गणाः ।
कार्यास्ते गजगोकर्णा नानावक्त्रा महोदराः ।। २५० ।।
घण्टेशः [अस्य १०० सं० च० द्र० ।]-
उग्रतेजा सितो रौद्रः करालो रक्तदृक्त्रयः ।
लेलिहानः सुसंक्रुद्धो जटाखण्डेन्दुमण्डितः ।। २५१ ।।
प्. १२२) दंष्ट्राकरालः पीनाङ्गो बृहन्नाद्योच्चसंस्थितः [क्, ख्: द्योर्ध्वसंस्थितः] ।
अष्टादश भुजो भीमो ज्वलदायुधपाणिकः ।। २५२ ।।
वज्रासिदण्डचक्रेषु मुसलाङ्कुशमुद्ररैः ।
निन्घन्दक्षिणाहस्तैश्च पापरोगमधः स्थितम् ।। २५३ ।।
तर्जनीं खेटकं शक्तिं कपालं पाशकार्मुकम् ।
घण्टाकुठारकं वामैः विभृद्द्वाभ्यां त्रिशूलकम् ।। २५४ ।।
घण्टाकर्णो विधातव्यो घण्टाभरणभूषितः ।
घण्टामालाकुलो देवः पुण्डरीकाजिनाम्बरः ।। २५५ ।।
आदित्यः [अस्य १०१ सं० च० द्र० ।]-
एकचक्रो रथो दिव्यस्तार्क्ष्याग्रज[मू, अ, क्, ख्: नुज]सुसारथिः ।
तुरगैः सप्तभिर्युक्त ऊर्ध्वं तत्रास्थितो रविः ।। २५६ ।।
लम्पाकश्च विपाकश्च श्वेतश्च शङ्खनन्दनः ।
कपिलो हेमभद्रश्च भवसेनो हयाः क्वचित् ।। २५७ ।।
गायत्री बृहती चोष्णिग् जगती त्रिष्टुवेव च ।
अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः ।। २५८ ।।
बृहद्वक्षः सुरक्तश्च खेलावान् वा मुकुट्यथ ।
सहस्रांशुर्महातेजा मणिकुण्डलमण्डितः ।। २५९ ।।
कूपुसाङ्घ्रिः [मू: ककुपाङ्घ्रिः; क्, ख्: कुपुपाङ्घिर] समीपासिः कवचच्छन्नविग्रहः । (१)
सनालपत्रे राजीवे बिभ्रत्स्कन्धे करे क्रमात् ।। २६० ।।
दण्डी तद्दक्षिणे गौरः स्थूलतुन्दिलकूर्चवान् ।
मसीभाजनलेखन्यौ धारयन्हस्तयोर्द्वयोः ।। २६१ ।।
प्. १२३) पिङ्गलो वामपार्श्वेतु प्रतिहारश्च दण्डत् ।
बालव्यजनधारिण्यौ राज्ञीछाये [संज्ञाछाये, इति साधु पाठो भवेत् ।] तु पार्श्वयोः [मू, अ, ग्: पार्श्चतः] ।। २६२ ।।
आलीढकरणस्थातु सन्ध्या चापकरान्विता ।
आकृष्टकणबाणाच पार्श्चे दक्षिणके स्थिता ।। २६३ ।।
वामे चैव तथा विद्या मध्यतः सर्वतोमुखी ।
अथवाश्वसमारूढः कार्य एकस्तु भास्करः ।। २६४ ।।
द्वादशधादित्यः [एषां चित्राणि न सन्ति, केवलं द्वादशकोष्ठेषु द्वादशादित्यनामन्येव निर्ष्टिनि ।]-
अग्रे ध्यानरस्कन्धोऽर्धाब्जभृच्छान्तिदोऽभयी ।
मध्ये कुण्डयक्षमालावान् पूर्वार्धे[क्, ख्, घ्: मूर्ध्न्यर्ध]वेदिकाकरः ।। २६५ ।।
तर्जन्यसिसपुस्तः स्यादादित्योऽथ महारुचिः ।
अन्ये यमादिवन्यह्यन्ता[क्, ख्, ग्, घ्: रक्षान्ता]श्चतुर्हस्ता द्विषड्दले ।। २६६ ।।
वरदाद्यब्जिन [मू, अ, क्, ग्: ध्यक्षिनः] सर्चे दिक्पालास्त्रकराः क्रमात् ।
मुद्गरसृणिचक्रस्रुग्भुंतो[मू: स्रुग्वन्तो]ऽग्न्यादिविदिक्स्थिताः ।। २६७ ।।
वरुणः सूर्यंनामा च सहस्रांशुस्तथापरः ।। २६८ ।।
रविंश्चै[ग्: हविः]वाथ पर्जन्यः स्रष्टा मित्रोऽथ जिष्णुकः ।
एतेर्ऽका द्वादश ज्ञेया मेषादि [घ्: झषानि]राशिसंस्थिताः ।। २६९ ।।
प्. १२४) कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डुरकः सितः ।
कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ।। २७० ।।
धूम्रो नील इति ज्ञेया वर्णा एषां यथाक्रमम् ।
इडा सुषुम्ना विश्वार्चिर्बिन्दु संज्ञा प्रमर्दिनी ।। २७१ ।।
प्रहर्षिणी महाकाली कल्पिका च प्रबोधिनी ।
नीलाम्बरा धनान्तः स्था अमृताह्वा च शक्तयः ।। २७२ ।।
वरुणादिक्रमा ज्ञेयाः शक्तयो द्वायशैव तु ।
स्वदेवरुपवर्णांस्ताः केसराग्रेषु विन्यसेत् ।। २७३ ।।
द्विधा मार्तिण्डः [अस्य १०३, १०४ सं० चि० द्र०]-
मार्तण्डः पूर्ववत्कार्य [ख्: वज्ज्ञेयः] श्चतुर्बाहुर्विशेषतः ।
दक्षिणो शूलधारी च वामहस्ते कपालभृत् ।। २७४ ।।
शूल[क्, ग्: हल]ङ्कासिभृत्सव्ये हलपाशकपालकम् ।
धारयन्नितरे हस्ते द्वाभ्यामब्जौ करानकैः ।। २७५ ।।
व्योमः [अस्य० १०५ सं० चि० द्र०]-
व्योमं सूर्याग्रतः [ख्: सूर्याश्रितः] कुर्याच्छृङ्गैर्द्वाशभिर्युतम् ।
चतुर्भिरष्टभिर्वापि मध्येऽब्जेऽष्टद[सोऽष्ट]लान्वितम् ।। २७६ ।।
जीवतुल्यपृथुच्छ्रायं कृतास्रं षोडशांशकम् ।
प्. १२५) वेदांशपातनात्कोण मर्टाशैरथ कम्बलम् [ख्: कन्धरम्] ।। २७७ ।।
द्विद्वयेक[मू, अ: सिद्धयेक]द्वयेद्येकपक्षद्वि[ख्: पक्षार्ध; घ्: पक्षादि]युगांशौः [ख्: यतीशैः] षोडशोच्छ्रितैः ।
त्र्यंशप्रवेशनात्कण्ठादेकैकनिर्गमं खुरम् ।। २७८ ।।
कुम्भं क्रमात्पटीं चैव गलकं कण्ठपट्टिकाम् ।
घण्टां च मेखलां चैव कुर्याछृङ्गाणि कोणतः ।। २७९ ।।
रेवन्तः [अस्य० १०६ सं० चि० द्र०]-
अश्वारूढो युवा कार्यो [घ्: युवाकारो] द्विकरश्चारूगात्रकः ।
कुपुसीमालकाच्छन्नो [मू, अ, ग्: गोलकाच्छन्नो] (?) रक्ताङ्गो भूषणान्वितः ।
वामे लस्वनपाणिः [क्: वलनयाणिः]स्या द्दक्षिणे मद्यपात्रधृक् [मू: पात्रकम्] ।
प्रालम्ब्यासक्त [मू: पालम्ब्यायय] रेवन्त [घ्: रेवन्तु]श्छत्रधारादिभिर्युतः ।। २८० ।।
रविपरिवारः [अस्य चित्रोदाहरणं नास्ति]-
रक्तकाया महातेजा द्विभुजः खड्गपद्मधृक् ।
नानारत्नसुवेशाढ्या [घ्: सुखेस्याढ्या]श्चण्डतेजाः स्वभावजाः ।। २८१ ।।
नवग्रहभूर्तयः [एषां चित्रोदाहरणानि चित्र संख्या १०७ तः]-
प्राग्रूपं [क्: प्राङ्मूखं] केवलं कुर्याद्ग्रहाणामग्रतो रविम् ।
प्. १२६) सोमं सौम्यं तथा श्वेतं कुण्डिकाजाप्यमालिनम् ।। २८२ ।।
पिङ्गाक्षं भान्वितं रक्तं कुजं शक्त्यक्षमालिनम् ।
बुधं श्यामं युवानं च रूपिणं चापपाणिनम् ।। २८३ ।।
वृद्धं गौरं गुरुं पीनं [मू, अ, ख्, ग्, ङ्: पीतं] साक्षमालं सकुण्डिकम् ।
याम्येकाक्षं सितं शुक्रं कुण्डिकामन्त्रमालिकम् ।। २८४ ।।
कृष्णं पङ्गुमधोदृष्टिं खिङ्खिरीजाप्यमालिनम् [लि. पु.: शङ्खिजी; घ्: खिङ्खिरीतु] ।
व्यावृत्तास्यं सहास्यं च पिङ्गभ्रूश्मश्रुलोचनम् ।। २८५ ।।
अर्धचन्द्रकरं राहुमर्धदेहं सुरक्तकम् [क्, ग्: सुवक्त्रकम्] ।
त्रिफणं [मू, अ, क्, ख्: त्रिफलं] धूम्रवर्णाभं नरनागार्धरूपिणम् [घ्: नरं] ।। २८६ ।।
दीप्तखड्गधरं [क्: दीपखद्ग; ख्: खद्गं दीप] केतुमथवापि कृताञ्जलिम् ।
एतांस्तु द्विभुजान्सर्वान्भूषणाम्बरसंयुतान् ।। २८७ ।।
हयं ग्राहं मयूरं च श्वहंसौ भेकरासभौ ।
शकटं मेधमेतेषामधो यानं क्रमात्सदा ।। २८८ ।।
अष्टनागमूर्तयः [एषां चित्रोदाहरणानि चित्रसंख्या ११६ तः १२३ पर्यन्तानि क्रमेण इष्टव्यानि ।]-
अनन्तो रक्तकायश्च शिरः पङ्कजमौलिकः ।
सितः सहस्रभोगो हीश्वरः [मू, अ: ही शिरः] कुवलयान्वितः ।। २८९ ।।
रक्ताङ्गः [घ्: रक्ताह्वः] स्वस्तिकोपेतः सुतेजास्तक्षको महान् ।
कृष्णः कर्कोटकः कण्ठे शुल्करेखात्रयान्वितः ।। २९० ।।
प्. १२७) रक्तपद्मनिभःपद्मशिरः शुक्लः सुबिन्दुमान् ।
शङ्खवर्णो महापद्मो मस्तके कृष्णशूलधृक् [क्: शूलकम्] ।। २९१ ।।
हेमाभः शङ्खापालः स्यात्सितरेखाधरो गले ।
कुलिको रक्तदेहस्तु चन्द्रार्ध [ग्: चन्द्रार्क] कृतमस्तकः ।। २९२ ।।
एङ्गा [घ्: ब्रह्मा] (?) द्विबाहतः सप्तफणा मणिसमन्विताः ।
अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः ।। २९३ ।।
पञ्च भोगास्त्रि भोगा [क्: भोगफणागा] वा तेषां जायासुतादयः ।
भृत्याश्चैकफणाः कार्यास्तद्रूपा मणिवर्जिताः ।। २९४ ।।
मनसा [अस्य० १२४ सं० चि० द्र०]-
सप्तभोगासिता सौम्या द्विभुजा सर्पधारिणी ।
हारकुण्डलकेयूरैः सदाभर[क्: सर्वाभरण]णभूषिता ।। २९५ ।।
घटपद्मोपविष्टा वा वरदो ध्यानतत्परा ।
ईदृशी मनसा कार्या श्रीकण्ठमनसम्भवा ।। २९६ ।।
जरत्कारुः [अस्य० १२५ सं० चि० द्र०]-
द्विबाहुलम्बकर्णश्च जरत्कारुः कृशोदरः ।
योगपट्टावृतोऽब्जस्थः कुण्डिका चाक्षसूत्रभृत् [मू, अ, क्: धृक्] ।। २९७ ।।
मनसापरिवारः [अस्य० १२६ सं० चि० द्र०]-
फणैकचारुरक्ताङ्गा द्विभुजाः शिशुरूपिणः ।
नानालङ्कारसंयुक्तावुत्पलमणि भृत्करौ ।। २९८ ।।
प्. १२८) स्वङ्गदेवी [अस्य० १२७ सं० चि० द्र०]-
श्यामलाङ्गी घनोरस्का [घ्: धनोरुष्का] सप्तभोगा चतुर्भुजा ।
सुदृष्टा [ग्: सुकृष्णा] जल्पमाना च स्वोत्सङ्गे पुत्रधारिणी ।। २९९ ।।
पर्णवल्लि [घ्: पर्णिवेल्लि] धरा पाणौ नानालङ्कारभूषिता ।
पद्मा [घ्: पर्णा] नन्दनपद्मस्थ स्वाङ्गादेवी [घ्: सुङ्गादेवी] प्रकीर्तिता ।। ३०० ।।
नक्षत्राणि [एषां चित्रोदाहरणानि चित्रसंख्या १२८ तः १५४ पर्यन्तानि क्रमेणाश्विन्यादिनक्षत्राणां चित्राणां द्रष्ट्रव्यानि तानि चप्रायेण लक्षणे न सम्मिलितानि ।]-
हयेभक्षागतागाश्व श्वशूकरसमाननाः ।
बसुकोककपिद्विक्ष [घ्: द्विक्क] व्याघ्रव्याघ्रास्यकं क्रमात् ।। ३०१ ।।
लुलाययुग्महर्यंक्षसिंहमार्जारवक्त्रकम् ।
रक्षोद्वितयकुम्भीर [कुम्भीरः नक्राभिधोजलवरः । किन्त्वस्य चित्रोदाहरणे शुकाभिधः; पक्षिवेशेषो वर्तते । श्लोकानुसारेण नक्राभिधो जलचर विशेष एव भवितुमर्हति ।] सर्पचक्रास्यकं [क्, ख्: नक्रास्यकं] च भम् ।। ३०२ ।।
मृगॠक्षखरोष्ट्रास्यमश्विन्यादि द्विदोऽनृजु ।
अश्विनौ च यमो वह्निः प्रजेन्द्रेन्दुहरोऽदितिः ।। ३०३ ।।
गुरुः सर्पः पितायोनिरर्यमा सविता क्रमात् ।
प्. १२९) त्वष्टा वायुः सुरेन्द्रोऽग्निर्मित्रेन्द्रौ यावत्पाम्पतिः [मू: यातुधाम्पतिः] ।। ३०५ ।।
विष्णुर्वसुरजैकादिपादहिर्बुध्न [घ्: रजैकाद्यहिर्बुध्न] पूषकाः ।। ३०६ ।।
राशयः [एषां चित्रोदाहरणानि चित्रसंख्या १५५ तः १६६ पर्यन्तानि द्रष्टव्यानि ।]-
मत्स्यौ द्वौ च भवेन्मीनो रिक्तकुम्भो नरो घटः ।
पुमान् गदी सवीणा च योषित्त [क्, ख्, घ्: योषिच्च] न्मिथुनं धनुः ।। ३०७ ।।
अश्वजङ्घो नरश्चापी मृगवक्त्रो नरो ऋषः [ख्: दवः; घ्: झषे] (१) ।
स्त्री नौस्थोल्कासिभृत्कन्या तुलाधारो नरस्तुला ।। ३०८ ।।
मेषाद्याः पञ्च चैवान्ये [घ्: एवाद्ये] स्वनामतुल्यरूपकाः ।। ३०९ ।।
इन्द्रः [अस्य० १६७ सं० चि० द्र०]-
सहस्राक्षो गजारूढो वज्रहस्तो च्च [ख्: हस्तोध्व] बाहुकः ।
हेमाभः सकिरीटश्च देवराजः सुरावृतः ।। ३१० ।।
अग्निः [अस्य० १६८ सं० चि० द्र०]-
पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः ।
छागस्थः [अस्य स्थाने मृगो वर्तते चित्रपुस्तके] साक्षसूत्रोग्रः सप्तार्चिः शक्तिधारकः ।। ३११ ।।
यमः [अस्य० १६९ सं० चि० द्र०]-
ईषत्पीतो [घ्: षद्दीनो] यमः कार्यो दण्डहस्तो भयङ्करः ।
रक्तहृक्पाशभृत्कृष्णो महिषस्थोग्रदूतवान् ।। ३१२ ।।
प्. १३०) निऋतिः [अस्य० १७० सं० चि० द्र०]-
दंष्ट्रावान् रक्तदृक्क्रुद्धो निरृतिर्बिकृताननः ।
पुंस्थित खड्गहस्तश्च नीलाभो राक्षसावृतः ।। ३१३ ।।
वरूणः [अस्य० १७१ सं० चि० द्र०]-
मकरस्थः सितः सौम्यः पाशहस्तो महोदरः ।
सर्वाभरणसंयुक्तो वरूणः पीतवस्त्रभृत् ।। ३१४ ।।
वायुः [अस्य० १७२ सं० चि० द्र०]-
पीनो [घ्: पीतो] गौरोऽथवा श्यामः कुञ्चितभ्रूश्चलात्मकः ।
रक्तक्षो [घ्: रक्तास्यो] रक्तवासश्च मृगस्थश्चङ्कुशी ध्वजी ।। ३१५ ।।
कुबेरः [लि. पु.: वैश्रवणाः]-
मेषस्थितो घनः सौम्य पीतो यक्षावृतो गदी ।
धनेशो वरदः कार्यो नानाभरणमण्डितः ।। ३१६ ।।
ईशनः [अस्य० १७३ सं० चि० द्र०]-
त्र्यक्षः सितो जटी शुली वृषस्थोऽस्थिविभूषितः ।
ईशानोऽहीन्दुभृच्चैते लोकपाला द्विबाहवः ।। ३१७ ।।
विश्वकर्मा [लि. पु.: लोकपालमूर्तयः। अस्य० १७४ सं० चि० द्र० । अस्य० १७५ सं० चि० द्र०]-]
द्विभुजः पीतदेहस्तु [अस्य० १७५ सं० चि० द्र०] जटाधारी कजासनः ।
विश्वकर्मा सदा गौरो ज्ञानमुद्राक्षसूत्रभृत् ।। ३१८ ।।
प्. १३१) हनुमान् [अस्य० १७६ सं० चि० द्र०]-
विवृतारूणवक्त्रश्च ऊर्ध्वपुच्छोर्ध्वमूर्धजम् ।
आलीढकरणासक्तं महाकायं सुभीषणम् ।। ३१९ ।।
दीर्घदंष्ट्रानखैर्युक्तं पिङ्गाक्षं [घ्: पिङ्गाङ्गं] भूषणान्वितम् ।
पीतध्वजधरं वामे तर्जनीं वा हृदग्रतः ।। ३२० ।।
प्रसारितभुजं कुर्यादद्रिहस्तं तु दक्षिणे ।
संपीड्य राकसान् पद्भ्यां मुञ्चन्नादं[मू, अ, ख्, ग्: पद्भ्यामुच्चपादं]मरुत्सुतम् ।। ३२१ ।।
किन्नरः [बहुवचनान्तोऽयं शब्दः लिखित प्रस्तकेषु । अस्य० १७७ सं० चि० द्र०]-
एङ्ग्रा (?) यक्षाङ्घ्रिकाः कार्या वीणाहस्ताश्च किन्नरा ।
स्कन्धयक्षान्विता नित्यं कर्तव्या योषिदन्विताः ।। ३२२ ।।
विद्याधरः [अस्य० १७८ सं० चि० द्र०]-
यक्षान्वितान्तरिक्षस्थाः खड्गहस्ताः सुरूपिणः ।
मालाभृतोऽथवा हृष्टाः खस्था विद्याधराः सदा ।। ३२३ ।।
प्रेतवेतालः [लि. पु: प्रेतवेतालौ । अस्य० १७९ सं० चि० द्र०]-
दीर्घाः खड्गधराः कृष्णाः पिशाचा दुर्बलाङ्गकाः ।
पिङ्गवर्वर[मू: चर्चर]केशाश्व वेताला विकृताननाः [ग्: विबृताननाः] ।। ३२४ ।।
क्षेत्रपालः [लि. पु: क्षेत्रपालाः । अस्य० १८० सं० चि० द्र०]-
बभ्रु केशोग्रदंष्ट्रास्याः कृष्णवर्णा भयङ्कराः ।
प्. १३२) कपालमालिनः शूलधारीणः क्षेत्रपालकाः ।। ३२५ ।।
किन्नराद्याः [एषां (किन्नरगणानां) चित्रोदाहरणानि चित्रसंख्या १८१ तः १८९ पर्यन्तानि प्रायेण द्रष्टव्यानि ।]-
गोधाजगृघ्रवक्त्राश्च शिवासूचीमुखास्तथा ।
कृशा महोदराः प्रेता खल्व[ग्: खलु]गल्लाश्च लोमशाः ।। ३२६ ।।
योगिन्यः [पाठोऽयं लिखितपुस्तकेषु नास्ति । अत्रोक्तचतुः षष्टियोगिनीषु इला, लीला, लया, लोला, लङ्काः लङ्केशी, लालसा, विमला, एतासां चित्रोदाहरणानि न दृश्यन्ते गणनायामपि चतुः षष्टिसंख्यातः अधिकं वर्तते ।]-
योगिन्यष्टष्टाकं वक्ष्ये ऐन्द्र्यादीशान्तचक्रवृत् [मू, अ, ग्: चक्रवत्] ।
स्वाङ्गवर्णधराः सर्वा यथोक्तं ब्रह्मयामले ।। ३२७ ।।
अक्षोभ्या ॠक्षकर्णीच राक्षसी क्षणपा क्षया ।
पिङ्गाक्षी चाक्षयाक्षपा [घ्: क्षेय] इला लीला लया तथा ।। ३२८ ।।
लोला लङ्काथ [ग्: सक्षाथ] लङ्केशी लालसा बिमला पुनः ।
हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।। ३२९ ।।
हाहारवा महाक्रूरा क्रोधना तु भयानना ।
सर्बज्ञा तरला तारा ऋग्वेदा तु हयानना ।। ३३० ।।
साराख्या रससङ्ग्राही सरवा [घ्: सबरा] तालजङ्घिका ।
रक्ताक्षी सुप्रसिद्धा तु विद्मुज्जिह्वा करङ्किणी ।। ३३१ ।।
मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ।
प्. १३३) चन्द्रा चन्द्रवली चैव प्रपञ्चा प्रलयान्तिका ।। ३३२ ।।
विचुवक्त्रा पिशाची च पिशिताशा च लोलुपा [क्: चलालया] ।
यमनी तपनी चैव वामनी विकृतानना ।। ३३३ ।।
वायुवेगा बृहत्कुक्षी विकृता विश्वरूपिका ।
यमजिह्वा जयन्ती च दुर्जया च यमान्तिका ।। ३३४ ।।
विडाली रेवती चैव प्रेतना विजयान्तिका ।
चतुः षष्टिरियं देव्या मूर्तिभेदा निगद्यते ।। ३३५ ।।
पूर्वाष्टका [आसां १९० तः १९७ सं० चि० क्रमेण द्रष्ट०]-
वज्रास्यभयभृद्यास्ये कंखेटफलभृत्ततः ।
हेमाभा भूषणाढ्या स्यादक्षोभ्या करिसंस्थिता ।। ३३६ ।।
ऋक्षकण्यतिगौरा [ख्: दक्षकर्णाति] च कम्बुबाणाभयावहा ।
धनुः कपाभृत्सौम्ये ॠक्षस्था तर्जनीयुता ।। ३३७ ।।
कराभ्यां मस्तकस्योर्ध्वं प्रेतभृद्धस्तपादयोः ।
प्रेतस्था राघसी गौरी कार्धकतरिकान्विता ।। ३३८ ।।
क्षपणा चम्पकाभा च दक्षिणे मुद्गराङ्कुशम् ।
कपालं च फलं सौम्ये धत्ते कुब्जनृसंस्थिता ।। ३३९ ।।
क्षया कूर्मस्थिता गौरी त्वक्षसूत्रघटान्विता ।
वामे कपालपिच्छी [क्, ख्: पिण्डी] भृत्सर्वालङ्कारमण्डिता ।। ३४० ।।
पिङ्गाक्षी पिङ्गकेशी स्याद्वभ्रुवर्णा हयस्थिता ।
कौशेयपाशभृद्याम्ये वामे चाङ्कुशखेटिनी ।। ३४१ ।।
प्. १३४) वृकारूढा ल-वर्णा [र-वर्णा, रक्तवर्णेत्यर्थः ।] च चारूर्गात्राक्षया भवेत् ।
कुठाराशनिभृद्याम्ये सौम्ये पाशाङ्कुशान्विता ।। ३४२ ।।
शवस्था नृत्यती पीता शक्तीभकधनुष्करा ।
याम्ये डमरुशूलेषुमस्तहस्ताक्षपा मता ।। ३४३ ।।
आग्नेयाष्टका [आसां चित्रोदाहरणानि १९८ तः २०५ सं० चि० द्र० ।]-
शक्तिखद्गधरा त्र्यक्षा वामे खेटकपालिनी ।
रक्ता बहिर्स्थिता त्वीला क्रीडन्ती दहनैः सह ।। ३४४ ।।
लीलावती च दक्षस्था [मू: यक्षस्था । ॠक्षस्था, इति साधुः पाठः, चित्रेऽयि भल्लुकासने स्थिता ।] लीला रक्तजटान्विता ।
बिभ्राणा पट्टिशं पाशं वामे मस्तार्धमम्बुजम् ।। ३४५ ।।
मूषारूढा लया रक्ता याम्ये दण्डासिधारिणी ।
कर्तरीकार्धभृद्वामे तर्जन्याकृष्टसृक्किका ।। ३४६ ।।
कतरीं मार्जनीं सूर्यं सौम्ये पिच्छं नृकं करे ।
शूलं रुरुयुतं द्वाभ्यां धत्ते लोला सूसारसे (?) ।। ३४७ ।।
वामे लुलायमुण्डं च तत्पश्यन्त्यसृग्रक्तकम् ।
लङ्केशोरुस्थिता लङ्का चर्वन्तीं [मू: वर्षन्ती] पिशितं घनम् ।। ३४८ ।।
सफणा [मू, अ, ग्: त्रिफला]सकखेटेन्द्रो मोदकांसि च दक्षिणे ।
शोणा लङ्केश्वरी कुण्डे ऊर्ध्वबालां च [मू: ऊर्वालाचरणे] बिभ्रती ।। ३४९ ।।
दक्षिणे वरदश्चक्रं वामे कं कम्बुजं [मू, अ, क्, ग्, घ्, ङ्: कम्बुकं] करे ।
बिभ्राणा कोलगा रक्ता लालासृग्लालासा मता ।। ३५० ।।
प्. १३५) द्विपस्था विमला रक्ता त्र्यक्षालङ्कारभूषिता ।
कर्तरीकुम्भभृद्यामे सौम्ये पाशकपालिनी [ख्: कधारिणी] ।। ३५१ ।।
याम्याष्टका [आसां० २०६ तः २१३ सं० चि० द्र० ।]-
कृष्णा हुताशनाजस्था ज्वालिनी दक्षिणे स्रुवा ।
वामे चाभयहस्ता स्याद्विष्टराज्यघटान्विता ।। ३५२ ।।
शूकरास्या विशालाक्षी योषित्स्कन्धस्थिता सिता ।
कर्तर्यभयभृद्याम्ये वामे कण्टाकपालिनी ।। ३५३ ।।
मीनास्या मीनसंस्था च हुङ्कारा साक्षमालिका ।
मुसलं बिभ्रती याम्ये सोम्ये च फलपल्लवौ ।। ३५४ ।।
पर्यङ्का वडवास्या स्यादङ्काभ्यां बिभ्रती शिश ।
समत्स्य [घ्: समत्से]कार्धभृद्वामे मत्स्यमन्यत्र वासिता ।। ३५५ ।।
तर्जन्यभयभृत्सौम्ये [क्, ग्: सौम्ये च] याम्ये दण्डकपालिनी [ख्: कधारिणी] ।
हाहारवा सिता क्रूरा रासभास्या खरासना [मू, अ, ग्, घ्: खरानना] ।। ३५६ ।।
लुलायास्या लुलायस्था महाक्रूरा सिता भवेत् ।
वामे मसीघटीं पाशं लेखनीदण्डभृत्ततः ।। ३५७ ।।
मांसखण्डं करे याम्ये खादन्ती क्रोधना सिता ।
वामे समदिरं पात्रं [ग्: शूलं] बिभ्रती जम्बुके स्थिता ।। ३५८ ।।
कृष्णा भयानना गृघ्रे दंष्टोग्रास्थिविभूषिता ।
याम्येऽस्याः खिङ्खिरीं (?) शूलं खर्परं लेलिहान्यतः ।। ३५९ ।।
प्. १३६) नॠत्याष्टका [आसां० २१४ तः २२१ सं० चि० द्र० ।]-
कंशूलपुस्तभृद्वामे मुण्डं डमरुकं शबम् ।
बिभ्राणोभाजिन [इभ अर्जिनम् इति च्छेदः ।] द्वाभ्यां सर्वज्ञा प्रेतगासिता ।। ३६० ।।
जानुक्षिप्तौ करौ न्यस्य उद्यन्ती तरलायता [क्: उ/द्मती तरणायता] (?) ।
शलडमरुहस्ता च गोधागा तरलासिता ।। ३६१ ।।
तारागणैर्वृता तारा कृष्णोलूक स्थिता नृकम् ।
शवार्धं बिभ्रती सौम्ये शूलं मुग्दरमन्यतः ।। ३६२ ।।
ॠग्वेदाब्जस्थिता कृष्णा ज्ञानमुद्रांच बिभ्रती ।
दक्षिणो जाप्ययामालां च वामे पुस्त कमण्डलुम् ।। ३६३ ।।
कबन्धस्थासिता रौद्रा तुरगास्या हयानना [क्: हयासना] ।
शूर्पमुण्डकरा याम्येऽन्यत्र शेफालिकाकभृत् ।। ३६४ ।।
छिन्नहस्तशवे कृष्णा सारा स्थूलजटाधरा ।
खद्वाङ्गं रुरुकं सौम्ये शूलोल्के बिभ्रती ततः ।। ३६५ ।।
शवस्था रससङ्ग्राही [क्: वरसङ्ग्राही] नृत्यन्ती जटिलासिता ।
कशूलान्धककङ्कालभृदद्वयो श्चमवासिनी ।। ३६६ ।।
शवे तदृग्द्विजे पृष्ठे कनिष्ठा सरवासिता ?[मू: भवना; ख्, घ्: शवरा] ।
वामे करोघधापाशं[क्, ख्, ग्: द्यथानासं; घ्: पवानासं]घण्टेशूल्कधरान्यथः ।। ३६७ ।।
वारुणाष्टका [आसां० २२२ तः २२९ सं० चि० द्र० ।]-
तार्क्ष्यस्था तालजङ्घाख्या सुकान्ता स्फटिकप्रभा ।
प्. १३७) शङ्खखेटकहस्तोग्रा याम्ये स्वस्तिकखड्गभृत् ।। ३६८ ।।
गण्डारुढाच रक्ताक्षी रक्तापाना शशिप्रभा ।
गदाध्वजधरा याम्ये वामे पाशकपालभृत् ।। ३६९ ।।
विद्युज्जिह्वा सिता क्रूरा सव्ये सीरकपालभृत् [मू: कपालिनी] ।
चक्रस्था चक्रकट्टारीधारीणी [ख्: चक्रवाकश्च चक्रस्था] दक्षिणे करे ।। ३७० ।।
ग्राहस्था चामरच्छत्रभृद्दूतीयुगसंयुता ।
कुम्भपाशधराश्वेता क्रोडपुत्रा करङ्किणी ।। ३७१ ।।
चन्द्राभा मेघनादा स्याद्खड्गखेटकधारिणी ।
जलैर्वृता घनारूढा तडिन्मण्डलमण्डिता ।। ३७२ ।।
नक्रस्था स्यात्प्रचण्डोग्रा याम्ये स्यात्कर्तरीफलम् ।
कपालं मुण्डमन्यत्र शत्रुघ्नाः स्फटिकत्विषः ।। ३७३ ।।
शुक्ला झषासना रौद्रा बिभ्रत्पद्माक्षसूत्रकम् ।
कालकर्णी जगत्ख्याता कर्णे कालविभूषणा ।। ३७४ ।।
वृषदंशस्थिता श्वेता वरदा रुपुनाशिनी ।
कर्तर्यभयभ्रद्याम्ये शूल [घ्: पूर] पाशधरान्यतः ।। ३७५ ।।
वायव्याष्टका [आसां० २३० तः २३७ सं० चि० द्र०]-
चन्द्रा हंसस्थिता गौरी वेदास्येन्द्वर्कयोः क्रमात् ।
कमण्डलुकुशव्यग्रा चात्रसूत्रस्रुवान्विता ।। ३७६ ।।
याम्येऽभयाक्षमालाभृच्छेषेऽब्जध्वजधारिणी ।
चन्द्रावली च हेमाभा कृष्णसारमृगासना ।। ३७७ ।।
फलस्रगन्विता याम्ये कम्बुकुण्डीधरान्यतः ।
गजयाना प्रपञ्चाख्या गौरी विश्वप्रपञ्चिका ।। ३७८ ।।
कपिस्था सान्द्रशाखाभृत्खाम्बरा प्रलयान्तिका ।
प्. १३८) खादन्त्याम्रफलं नित्यं कप्यास्या गौर वर्णिनी ।। ३७९ ।।
पिचुवक्त्रा मृगव्यालपिङ्गला याम्यसौम्ययोः ।
भिन्दिपालकखेटाभ्यां प्रासासिभ्यां च संयुता [घ्: संयुगे] ।। ३८० ।।
काकास्या श्येनगा गौरी पिशाची रक्तमण्डिता [क्, ग्: वक्त्रमण्डिता] ।
कं फलं कर्तरीं खड्गं बिभ्रती सौम्ययाम्ययोः ।। ३८१ ।।
फलतूलधरा वामे याम्ये शस्त्रासिधारिणी ।
खरस्था बभ्रुवर्ण स्यात्पिशिताशातिदुर्बला ।। ३८२ ।।
नृत्यन्ती लोलुपा पीता रथस्था याम्यसौम्ययोः ।
ध्वन इडमरु[घ्: ध्वजं डमरु]कर्तर्यौ पाशं पिच्छं च बिभ्रती ।। ३८३ ।।
उत्तराष्टका [आसां० २३८ तः २४५ सं० चि० द्र०]-
गदापट्टिशभृत्सौम्ये शूलतोमरिणी ततः ।
वमनी [ग्: रमणी] पुष्पकस्था स्याद्गौरी यक्षगणान्विता ।। ३८४ ।।
सर्पास्या सर्पगा स्वङ्गी [घ्: वङ्गा] गौत्युग्रा तपनी वरा ।
स्वफणा[क्, ग्: सुफणा]यान भाजे [क्: नुभोगा; ख्: धारभागे] च न्यस्तहस्ता भवेदियम् ।। ३८५ ।।
पीता गेहाखुगे भास्या वामनी बिभ्रती करे ।
कुठारं लड्डुकं वामेऽक्षमाली पनसं ततः ।। ३८६ ।।
शूलभिन्नलुलायस्य सिंहाकृष्टशरीरिणाः ।
जिह्वाभृद्वज्रिणी पीता चतुर्दोर्विकृतानना ।। ३८७ ।।
शङ्खपूरणिका द्वाभ्यां नृकाभयकराद्वयोः ।
द्विहंसवद्रथस्था स्यात्तालाभा वायुवेगिका ।। ३८८ ।।
प्. १३९) भासस्था स्याद्वृहत्कुक्षिः सौम्ये मुण्डकपालभृत् ।
महाकाया च गौर्यङ्क[मू: गौर्यर्क]कर्तरी भृन्नृकादनी ।। ३८९ ।।
उष्ट्रस्था बिकृता गौरी भयकृद्विकृतानना ।
तूरं डमरुं याम्येऽस्याः शेषे खट्वाङ्गमस्तकम् ।। ३९० ।।
खेटशङ्खाब्जभृद्वामे गदाचक्रासिभृत्ततः ।
वीन्द्रस्था [वीन्द्रपक्षिराजः] विश्वरूपा स्याद्धेमाभा वनमालिनी ।। ३९१ ।।
ऐशान्यष्टका [आसां० २४३ तः २५३ सं० चि० द्र०]-
मुसलं मुग्दरं याम्ये परशुं बन्धनं ततः ।
बिभ्रती यमजिह्वाख्या कराला महिषस्धिता ।। ३९२ ।।
नृत्यन्ती वृषगा श्चेता याम्ये डमरूतूलभृत् [घ्: तूर भृत्] ।
सदैत्यमुण्डशूलोग्रा [लि. पु: सदैत्यशूलमुण्डोग्रा] जयन्ती वामहस्तयोः ।। २९३ ।।
खड्गकुन्तयुता [घ्: कुम्भीद्यता; मू: कुण्डयुता] रौद्राश्चारुढा दुर्जया मता ।
नानाभूतावृता श्वेता दुर्गकाननसंस्थिता ।। २९४ ।।
शूलबाणधरा याम्ये धनुः शक्तिधरा [क्, ख्: करा] ततः ।
शकटस्थातिधोरास्या क्षीरवर्णा यमान्तिका [मू, अ: यवान्तिका] ।। ३९५ ।।
मार्जारस्था विडाली च विडालाक्षी [ख्, घ्: विशालाक्षी] भवेत्सिता ।
वामे करं [क्, ख्, ग्, घ्: तूरं] च खट्वाङ्गं शूलं टङ्कं [घ्: घण्टं] च बिभ्रती ।। २९६ ।।
कृशा पिशाचवक्रत्रोग्रा प्रेतस्था रेवती [घ्: पोतस्था रैवती] मता ।
त्रिशूलयष्टि [क्, ख्, ग्, घ्, ङ्: कं शलयष्टि]भृद्याम्ये भिन्दिपालगदासिभृत् ।। ३९७ ।।
प्. १४०) कुन्दाभा प्रेतना त्र्यक्षा विकृतास्था सवस्थिता ।
कर्तरीशूलभृत्सूर्ये (सौम्ये) वामे मुण्डकपालभृत् ।। ३९८ ।।
श्चेतवर्णा बृषस्था च विजया विजयप्रदा ।
शूलं डमरुं याम्येऽस्याः कार्धखट्वाङ्गधृक् ततः ।। ३९९ ।।
दिव्याम्बरधराः सर्वाः सर्वाभरणभूषिताः ।
कर्तव्याः शिल्पिभिर्नित्यं योगिन्योऽशेषसिद्धिदाः ।। ४०० ।।
भैरवः [अस्य० २५४ सं० चि० द्र०]-
भैरवश्चार्कहस्तः स्याच्चतुरास्यो जटेन्दुभृत् ।
खड्गाङ्कुशकुठारेषु विश्वाभयकृदर्कतः [घ्: दक्षतः] ।। ४०१ ।।
चापत्रिशूलखट्वाङ्गपाशकार्धकरोऽन्यतः ।
गजचर्मधरो द्वाभ्यां कृत्तिवासोऽहिभूषितः ।। ४०२ ।।
त्र्यक्षो दंष्ट्राकरालोग्रः प्रचण्डाट्टाट्टहासवान् ।
प्रलयाम्बुदवर्णाभो मुण्डकापालमालिनः (कः) ।। ४०३ ।।
कूर्मधराम्बुपोताब्ज[ग्: पात्राब्ज]प्रेतहृदासनास्थितः [मू: सनस्थितः] ।
चण्डाख्यो मातृमध्ये तु संस्थितः पीतकूर्चभृत् [घ्: पीनकूर्खधृक्] ।। ४०४ ।।
खविलोमाग्निपर्यन्तं दैर्घ्यात् खेकैकभेदतः [क्: दैर्घ्याष्टैकैकभेदतः; घ्: दीर्घाषैकैकभेदितः] ।
तत्षडङ्गानि [ग्: तंत्सुत] जात्यनतैः खान्वितं च क्रमाद्यजेत् ।। ४०५ ।।
मन्दिराङ्गिबलारूढं स्ववर्णानुग्रहान्वितम् ।
नादबिन्द्विन्दुसंयुक्तं [क्, ग्: बिन्दुसंयुक्तं] मातृनाथान्त [ख्: नाथाङ्ग]दीपितम् ।। ४०६ ।।
प्. १४१) संक्षेपाद्देवतामूर्तिः कथिता वर्तनी मया ।
गुह्यदेवान्यरूपाणां स्वे स्वे शास्त्रे विनिश्चयः ।। ४०७ ।।
ऊर्ध्वासीनाय यानस्थाः सुप्ता चैवान्तरिक्षगाः ।
पञ्चधा प्रतिमाः ख्याता मानतः सप्तधा तथा ।। ४०८ ।।
एकस्मिन्नेव देहे स्युर्यथाङ्गानि पृथक् पृथक् ।
तथेश्वरात्सुरा सर्वे कार्यकारणभेदतः ।। ४०९ ।।
इति लक्षणसमुच्चये रुद्रादि व्यक्तलिङ्ग वर्तनं नाम षष्टो विधिः ।। ६ ।।
अथ सप्तमः
व्यक्ताव्यक्तं प्रवक्ष्यामि दशभेदैर्व्यवस्थितम् ।
पञ्चास्यादि यथालिङ्गं भवेत्सुव्यक्तपञ्चकम् [मू, अ: लक्षणम्] ।। १ ।।
पञ्चास्यं चतुरास्यं च त्रिद्वोकास्यं भवेत्क्रमात् ।
पञ्चवक्त्रमनिष्टेषु चतुर्वक्त्रं सुखावहम् ।। २ ।।
त्रिवक्त्रं शान्तिदं नित्यं द्विवक्त्रं चाभिचारिकम् ।
एकवक्त्रं स्याद्रोगघ्नं नाधिकाम्यं चलाचलम् ।। ३ ।।
एकद्वित्रिमुखं वापि प्रासादे पूर्ववक्त्रकम् ।
चतुर्मुखं तु खाधारे [घ्: मुखे सुखाधारे; क्: तु प्रसादे] पञ्चास्यं वा चतुर्मुखम् ।। ४ ।।
सितोत्तानं त्रिनेत्रं च मौलिकुण्डल[मू: कुन्तल]शोभितम् ।
लिङ्गमूर्ध्निस्थित वक्त्रमैशानं त्वीशमीक्षकम् [मू: वीक्षकम्] ।। ५ ।।
रक्तवर्णं सुतेजस्कं त्र्यम्बकं मौलिमण्डितम् ।
सिंहास्यं [घ्: सिंहाघ्रं] श्मश्रुकेशाढ्यं मैन्द्रं तत्पुरूषाननम् ।। ६ ।।
कृष्णंयाम्यमघोरास्यं [मू, अ, क्, ग्: कृष्णवर्णमघोराख्यं] पिङ्गकूर्च सुभासुरम् [मू, अ, क्, ग्: शुभां शुभम्] ।
दंष्ट्राकरालं वृत्ताक्षं ज्वलत्केशादिभूषितम् ।। ७ ।।
प्. १४२) वामवक्त्रं भवेत्पीतं सौम्यं धनददिक्स्थितम् ।
कान्तालङ्कारकेशादि [क्, ख्: केशांढ्य; ग्: केशाश्च] तिलकोलकमण्डितम् ।। ८ ।।
वारूणास्यं सितं सद्यश्चन्द्र मौलिजटाधरम् ।
त्र्यक्षं पीनं युवाकारं सुप्रसन्नं सुशोभमम् ।। ९ ।।
विनेशानं चतुर्वक्त्रं त्रिमुखं त्वजवर्जितम् ।
सद्यः पुंभ्यां द्विवक्त्रं स्यात्पुरुषेणैकवक्त्रकम् ।। १० ।।
तुल्यविष्कम्भतः सिद्धे पूजा भागोर्ध्व विस्तृते [ख्: भागोर्ऽधविस्तरः; ग्: भागेऽर्धविस्तृते] ।
तत्वैर्लिङ्गं ग्रहैर्भक्ते हृत्वाम्भोंशो विदिक्षु च ।। ११ ।।
मध्यसूत्रोद्भमा [मू: सूत्रभ्रमा] लिङ्गं तालपञ्चकवेष्टितम् ।
दिग्विभागेन तद्वक्त्रं [मू: तद्वक्तं] भूतवेदाननं सदा ।। १२ ।।
अजात [मू: सुजात] वदनद्रव्यं त्रिगोलकं त्रिषु क्षिपेत् ।
तद्वद्द्यास्ये द्विमात्राख्यमेकास्ये त्रित्रिकाङ्गुलान् ।। १३ ।।
त्र्यास्यमष्टादशांशैश्च [मू: सप्तदशास्रैश्च] लिङ्गं स्याद्रविभागतः ।
हृत्वा कोणेषु रन्ध्रांशैर्लिङ्गं षट्तालवेष्टितम् ।। १४ ।।
धृत्यंशेन द्विवक्त्रं स्यान्मध्ये [घ्: तु मध्ये] लिङ्गमथैन्द्रकम् ।
([चापचिन्हान्तर्गतोऽयं पाठो ग्. पुस्तके नास्ति]द्वाभ्यां द्वाभ्यां च तत्रास्यं लिङ्गं सप्तास्यवेष्टितम् ।। १५ ।।
त्रिंशदङ्गुलविस्तारं तालमानास्य निर्गमम् ।)
नवत्यङ्गुलकं [घ्: त्र्यङ्गुलकं] वृत्तादेकास्यं पूर्ववक्त्रकम् ।। १६ ।।
पूजांशे नवधाभक्ते लिङ्गमुच्चे [मू, अ, क्, ख्, ग्, ङ्: मूर्ध्वे] त्रिभागतः ।
प्. १४३) तदधःषड्विभागेन शिववक्त्राणि वर्तयेत् ।। १७ ।।
तद्वक्त्रं [ख्: तद्वक्षः] स्कन्धयोर्मूलं भागैकेन गलं तथा ।
चिबुकोष्ठौ विभागेन [मू, अ, क्, ख्: च भागेन] नासाललाटस्तकम् ।। १८ ।।
क्रमतो गुणभागेन चारूमौलिं तदूर्ध्वतः ।
लिङ्गपार्श्चे द्विभागेन भागं त्यक्त्वा तदूर्ध्वतः ।। १९ ।।
जूटादींश्च प्रयत्नेन पूर्वोक्ता प्रतिमा यथा ।
पञ्त्रास्याद्येकवक्त्रान्तमयमेव विधिः पुनः ।। २० ।।
वृत्ताकारं ततः शेषं शिरश्द्वात्रादिकं क्रमात् ।
पञ्चाननादिकं प्रोक्तं सुव्यक्तमधुदनोच्यते ।। २१ ।।
प्रागुक्तपञ्चवक्त्राणि सर्वैंरङ्गैर्युतानि च ।
द्विबाहून्यूर्ध्वदेहानि विष्णवन्तचरणानि च ।। २२ ।।
कुर्यांच्च स्वदिगीशानं साक्षमालात्रिशूलिनम् [घ्: शानमक्षमाला त्रिशूलकम्] ।
पूर्वकाये पुमांसं तु मातुलुङ्गाक्षशलिनम् [क्, ख्: सूत्रितम्] ।। २३ ।।
याम्येऽघोरमनाक्षीनं घण्टाशूलधरं सदा ।
स्त्र्याकारमुक्तरे गुह्यं दर्पणोत्पलसंयुतम् ।। २४ ।।
पश्चिमेऽजातक रूप वरदाभयपाणिकम् ।
सुव्यक्त पञ्चधाह्येवमास्योवताबिधिसंस्थितम् [मू: संयुतम्] ।। २५ ।।
पञ्चद्वित्रियमैकेन [घ्: पञ्चाचित्रयमेकेन्द] सम्पूर्णङ्ग न तत्क्रमात् ।
एवं निष्पाद्य लिङ्गानि पिण्डिकां वर्तयेत्ततः ।। २६ ।।
इति लक्षणसमुच्चये व्यक्ताव्यक्तलिङ्गानां दशधा वर्तनं नाम सप्तमो विधिः अथोष्टम ।। ७ ।।
अथ अष्टमः
पिण्डिका साम्प्रतं वक्ष्ये अथाष्टमः च त्रिविधे शुभोम् ।
महत्याः प्रातमायाश्च दिग्लिङ्गादेश्च साधने ।। १ ।।
प्. १४४) पिण्डिका स्यादुमादेवी लिङ्गं च परमेश्वरः ।
नवज्ञां कारयेत्तस्मात्कदाचिदुभयोरपि ।। २ ।।
लिङ्गनाहप्रविस्तीर्णा उच्छ्रये विष्णुसम्मिता ।
पिण्डिका तु समाख्याता न हीना नाधिका शुभा ।। ३ ।।
स्वतानषष्ठभागेन [क्, ख्: स्वताल] बाहुल्येन [घ्: बाहल्येन]समन्विता ।
मेखला तत्त्रिभागेन खातं तत्त्र्यंशहीनकम् ।। ४ ।।
स्वमानपादहीनं वा त्रिविधं समुदाहृतम् [मू: तदुदाहृतम्] ।
मध्ये वृत्तं समालिख्य वर्तयेत्खातमादरात् ।। ५ ।।
([चन्हान्तर्गतोऽयं पाठो ग पुस्तके नास्ति]बहिस्थं मव्यगं चैव बाहुल्यं [घ्: बाहल्यं] सदृशं यथा ।
वृत्तसूत्रात्समारभ्य खातं वै ह्रासयेत्क्रमाम् ।। ६ ।।)
तावद्यावच्छनैर्ध्या मेखलाखातमाप्नुयात् ।
अर्वाग् दैर्घ्यत्रिभागेन मेखलावर्तनं बहिः ।। ७ ।।
प्रणालं पीठमध्यस्थं दैर्घ्ये [मू: दैर्घ्य] मूलत्रिभागकम् ।
मुखे तदर्धविस्तारं तन्त्रिभागेऽम्बुनिर्गमः ।। ८ ।।
स्थौल्यं चापि प्रणालस्य जलभृद्दलसंथितम् ।
कण्ठादूर्ध्वं सदा ह्येवमन्यथा दोषदायकम् ।। ९ ।।
गुह्यवक्त्रस्थितं नित्यं प्रणालं चोत्तरप्लवम् ।
षष्ठांशवेशनात्कण्ठश्चलानां पञ्चमेन वा ।। १० ।।
न वेदास्राष्टकं सर्वं पीठं श्वभ्रसमान्यथा [मू: चत्रं च ना; ग्: पीतं पुत्रं च ना; ख्: सूत्रसमा] ।
अव्यक्ते मिश्रके स्वांशे [मू: भ्यांशे; ग्: द्यांशे] ब्रह्मविष्णु[ख्, घ्: विष्णो]स्वरूपतः ।। ११ ।।
प्. १४५) पीठिकाविस्तरत्र्यंशे खातं तन्मध्यतो भवेत् ।
लिङ्गस्थौल्यप्रमाणेन समास्रं दिग्विदिक्स्थितम् ।। १२ ।।
चतुरस्रमथाष्टास्रं ब्रह्मविष्णुविभागतः ।
समन्ताज्ज्येष्ठलिङ्गस्य यवैः षड्भिर्विवर्धितम् ।। १३ ।।
अर्धार्धन्यूनमन्येषां कन्यसे [कनीयसे, इत्यर्थः] द्वियवः सदा ।
लिङ्गवन्निर्मला शुद्धा कर्तव्या पिण्डिका बुधैः ।। १४ ।।
अष्टास्रं ज्येष्ठलिङ्गस्य दृश्यं पञ्चयवाधिकम् ।
शेषाणां लिङ्गानामर्धार्ध ह्रासयेद्यवम् ।। १५ ।।
प्रवेशः षड्विधः प्रोक्तो ब्रह्मभागस्य भूतले ।
कामानां वसुतस्तस्य भेदान् ब्रूमः समासतः ।। १६ ।।
विभक्ते त्वष्टधा ब्राह्मे त्रिधार्धोभाग एव वा ।
चतुर्भागः समस्तो वा प्रशस्यते च पञ्चधा ।। १७ ।। (क)
ब्रह्मभागप्रवेशं च ज्ञात्वा पीठं प्रकल्पयेत् ।
पीठिकायाः समुच्छ्रायं विकारांशेन भाजयेत् ।। १८ ।।
एकेनाङ्घ्रिर्धरासीनो जङ्घा तुर्यांशके भवेत् ।
गुणाभागे तथा कुम्भः कुम्भपट्टि तु भागतः ।। १९ ।।
रामभागेन कण्ठश्च तन्वंशै[क्, ख्: तत्वंशैः; ग्: तथांशैः]र्गलपट्टिका ।
पक्षभागे [क्, ख्: पक्षाभागे] जलाधार एकांशे शेषपट्टिका ।। २० ।।
प्रवेशनिर्गमौ चैव भागैकैकेन [मू: भागेनैकेन] कण्ठतः ।
बाणमतानुसारेण कन्यसी [कनीयसीत्यर्थः]त्थं पयोधरा ।। २१ ।।
समासात्प्नोच्यते चान्या पूर्णकुम्भा हरप्रिया [ख्: कुम्भोदरप्रिया] ।
प्. १४६) ([(क) अतः परं क्, ख्. पुस्तकयोरधिकोऽयं पाठः- पीठिकायाश्च बाहुल्यं त्वागमेऽष्टास्रकस्य वै १ चिन्हान्तर्गतः पाठो घ्. पुस्तके नास्ति ।] द्यंशं निवेशयेद्भूमौ त्रिभागैः पदपट्टिका ।। २२ ।।)
द्वाभ्यां पट्टोप[मू, अ, ग्: पट्टोऽथ ।। इति ।।] पट्टी स्याद्धसाख्यात् [क्, ख्, ग्: तु] त्रिभिर्मता ।
पट्टोपपट्टिका कण्ठो गलपट्टट्दयुपपट्टिका ।। २३ ।।
एकैकेनार्थिभिः (?) कुम्भो घटोऽर्धांदेवमेवः तु ।
मेखला पट्टिका किन्तु भागकेन तदूर्ध्वतः ।। २४ ।।
मध्योत्थं (त्था) पूर्णंकुम्भाख्या द्वात्रिंशत्रिंशद्भागनिर्मिता [ख्: पीठिका] ।
उच्छ्रायार्ध तु पीठ्याः (ठी) स्याद्रुद्रभागे द्विधा कृते ।। २५ ।।
गुणांशैः खुरपट्टीतु द्वाभ्यां पट्टोपपट्टिका ।
त्रिभिरल्जं द्विपट्टौ (हि) तु द्वाभ्यां द्वाभ्या तथाम्बुजम् ।। २६ ।।
हीनोपहीनिक कण्ठः पट्ट[मू: षङ्क]श्चैवोपपट्टिका ।
द्वाभ्यां द्वाभ्यां क्रमा[मू, अ, क्: तथा]त्पद्यं सार्धाशे गलनिर्गमः ।। २७ ।।
इत्थमेवं गलादूर्ध्वमेकांशेनोर्ध्वपट्टिका ।
कण्ठद्वयेन [मू: कथद्वयेन] संयुक्ता षड्भिः पद्मैर्विभूषिता ।। २८ ।।
पद्माकुलाभिधानेयनुत्तमानां सदैव तु ।
सम्वर्ताख्या जलाधारा विष्णुभागान्तमुच्छ्रिता ।। २९ ।।
पूर्वोक्तनालखातादियुक्ता वृत्ता प्रकीर्तिता ।
लिङ्गनाहत्रिवेष्टेन वृत्ताव्यक्तस्य पिण्डिका ।। ३० ।।
प्. १४७) व्यक्तस्य तु भवेद्वापी तन्नाहसमदीर्घता ।
तद्दीर्घत्वार्धविस्तारात्तदर्धान्नालकोच्छ्रयौ ।। ३१ ।।
प्रणालमानवच्छुभ्रं परिधी त्र्यंशमध्यतः ।
उच्छ्रये दशधाभक्ते पदं कुम्भं तथा गलम् ।। ३२ ।।
वृत्त जलाश्रयं लघ्न्या (?) द्द्यंशं द्यंशेन कल्ययेत् ।
खुरं जङ्या च कूर्णौं च कण्ठं चैवोपकण्ठिकाम् [क्, ख्: पकर्णिकाम्] ।। ३३ ।।
वृतं तत्पट्टिकां चैव जलाधरं तथैव [घ्: धारान्तमेव] च ।
एकयुग्मैकपक्षैकयुग्मैकगलांशकैः ।। ३४ ।।
मध्यार्धानां [घ्: मध्यर्चानां] भवेत्पिण्डी सुभक्ता द्वादशांशकैः ।
षोडशांशकृतोच्छाये ज्येष्ठानामासने सदा ।। ३५ ।।
पक्षेन्दुयुग्मचन्द्राग्नितनुद्येकद्विसोमकैः ।
चरणपट्टिकाकुम्भ पट्टिका गलपट्टिका ।। ३६ ।।
वृत्तं तत्पट्टिकाधारं मेखलापट्टिका भवेत् ।
अष्टदिग्रविहस्तैश्च हीनमध्योत्तमास्त्रिभिः ।। ३७ ।।
पिण्डिका स्यान्महार्चानां द्विखण्डाम्बुधरेव वा ।
प्रवेशोग्दमबाहुल्याच्छू भ्रनालादि [ख्: मानादि] पूर्ववत् ।। ३८ ।।
अभूषणा प्रभाहीना प्रतिमैकार्धसंस्थिता ।
तत्त्र्यंशात्पीठविस्तारस्तत्पादोनसमुच्छ्रयः ।। ३९ ।।
पृथूच्छयौ कलार्कांशौ ह्येकतत्वैक[क्: तस्त्वेक]चन्द्रतः ।
सह कुम्भो गलो वृत्तो वेदास्रा पट्टिका क्रमात् ।। ४० ।।
प्रवेशवृत्तशेषाख्या त्वर्धैंकार्धैस्त्रिभिः कजम् ।
([चापान्तर्गतोऽयं पाठः ख्. पुस्तके नास्ति] अन्यत्र त्वेवमेवं स्यात्संवृत्तात्कर्ण[घ्: संवृत्ताह्वंतु]पीटकम् ।। ४१ ।।
प्. १४८) मुखलिङ्गेऽधिका कार्या चतुरस्रा द्विखण्डिका ।
सुश्लक्ष्णाश्लिष्टसन्धिश्च रुपेणाम्बुधरादिवत् ।। ४२ ।।
ताम्रै रूप्यैश्च हैमै र्वा पादशोंऽशै[क्, घ्: पादपांशैः]र्निबन्धिता ।
सहस्राह्वे [मू: सहस्रग्ङ्के] शताख्ये च बेद्रास्रा चैकखण्डिका ।
केषांचित्तु मते व्यक्तलिङ्गे तु छत्रमस्तके ।। ४३ ।।
लिङ्गहीने भवेन्भृत्युरधिके व्याघयो भृशम् ।
तस्माल्लिङ्गानुगं पीठं कर्तव्यं कर्तृजीवने ।। ४४ ।।
लिङ्गेन पीठिकाक्रान्ता पीठं वा [मू, अ, ग्: पीठस्था] लिङ्गतोऽधिकम् ।
यदि स्यात् पीड्यते रोगैः कर्ता राष्ट्रं गुरूस्तथा [घ्: स्तदा] ।। ४५ ।।
तस्मान्न्यूनाधिकौ कार्यौ हरि[क्: हर]ब्रह्मांशकावुभौ ।
उच्छ्रयेण त्रिलिङ्गानां न न्यूनो नाधिको हरेः ।। ४६ ।।
स्वायामं त्वजिनं [क्, ख्: स्वयामान्तजितं] कृत्वा सार्धाष्टांशैः कजासनम् ।
मुनिसार्धाधिकैः शम्भुं कुर्यादाढ्यं [क्: दाद्यं; घ्: दार्ढ्यं] वसोर्हरिम् ।। ४७ ।।
सपादाष्टांशकैस्त्र्यक्षं चक्रिण मङ्गलांशतः [मू: मङ्गलांशकः] ।
पादोनाष्टांशतो ब्रह्मा कार्यं चानाढ्यकं क्वचित् ।। ४८ ।।
एकांशेन हरोच्छ्रायं विष्णुमष्टांशकैस्तदा ।
एकं सुरार्चिते लिङ्गे ब्रह्मा सप्तांशके ध्रुवम् ।। ४९ ।।
प्रसिद्धमाकरश्चान्यद्ग्राह्या वर्णसमाशिला ।
सितादिवर्णावर्णानां [क्, ग्: पीतादिवर्ण] पीठाद्या न विवर्णजाः ।। ५० ।।
स्वांश [घ्: स्वाङ्ग]पिण्डिस्थितं लिङ्गं शैलधात्वादिजं शुभम् ।
रत्नजा वाथ लोहैर्वा विशेषात्कीर्तयेऽधुना ।। ५१ ।।
प्. १४९) मौक्तिके स्फटिके तारी [ग्: तायी] (?) पौष्परागे तु ताम्रजा ।
वैडूर्याद्युत्तमे नित्यं हेमजा पिण्डिका वरा ।। ५२ ।।
पञ्चधा वा त्रिधा वापि रत्नजं विभजेत्पुनः [घ्: पुरा] ।
भागद्रयमथिकं वा विन्यसेत् पिण्डिकावटौ ।। ५३ ।।
भागत्रयेण वा द्वाभ्यां पूजाभागं प्रकल्पयेम् ।
मेखलादिविभागोऽस्याः पूर्ववत्समुदाहृतः ।। ५४ ।।
लिङ्गप्रवेशनिम्नं तु लिङ्गसंस्थानविस्तरम् ।
न न्यूनं नाधिकं मानात्शोभनं [मू, अ, ख्: स्बतलं; घ्: सुतलं] श्वभ्रमिष्यते ।। ५५ ।।
सब्रणे चान्यजे (?) मृत्युर्वक्त्रे च धनसंक्षयः ।
पीठदोषात्क्षयो नार्याः कारो कर्तुंश्च सर्वदा ।। ५६ ।।
वृत्ता चापि च [मू: यापी च; क्, ख्: पीठ] वेदास्रा अव्यक्तादौ भवेत्क्रमात् ।
भुक्तिमुक्त्युभयप्राप्त्यै अन्यः [मू, अ, ग्: प्राप्तौ अन्यः] काम्यस्य हेतवे ।। ५७ ।।
धरा भद्रा च यक्षी च वज्रीत्र्यस्राछ मण्डला [मू, अ, ग्: वज्राभा श्रान्तमण्डला] ।
पद्मार्धेन्दुगणाख्या च कामदा शुभमस्तके ।। ५८ ।।
वेदास्रा समकोष्ठा च धरास्याद्धरणीप्रदा ।
द्विमेखला च वेदास्रा भद्रा योगर्द्धिदायिनी ।। ५९ ।।
यक्षी त्रिमेखला वृत्ता महिषी गोप्रदायिनी [घ्: प्रदायिक] ।
षडस्रायुः प्रदा वज्री मेखलात्रितयान्विता ।। ६० ।।
त्र्यस्रा त्रिमेखला[क्, ग्, घ्: द्विमेखला]युक्ता शत्रुशङ्कोचदायिका [घ्: कारिका] ।
मण्डला पूर्णचन्द्राभा त्वर्थदा पञ्चमेखला ।। ६१ ।।
प्. १५०) खुराब्ज [ग्: कराब्ज] कर्णिकाकण्ठकर्णिकाब्जदलश्रयैः [मू, अ, क्, ख्, ङ्: जलाश्रयैः] ।
चन्द्राम्बुरुपरामै [क्: के धरा वामे] काग्निद्यंशैस्तिथि भाजितैः ।। ६२ ।।
कर्णिकातु प्रवेशार्धषोडार्ध सकेसरा ।
वृत्ता पद्मपुटाकारा कर्णिको भयचुम्बिता ।। ६३ ।।
पुत्रायुः श्रीप्रदा पद्मा त्वर्धेन्द्राभा च शान्तिदा ।
अष्टकोणा गणाख्याता [मू: ख्या तु] मुक्तिदा [घ्: भुक्तिदा] स्याद्द्विमेखला ।। ६४ ।।
लिङ्गदैर्घ्यप्रविस्तारा विष्णुं यावत्समुन्नता ।
पूर्वोक्तमेखलागर्तनालकादिसमन्विता ।। ६५ ।।
लिङ्गास्त्रीणां प्रसङ्ख्यानैस्तस्य पीठेऽस्रयो मताः ।
विस्तरोक्छ्रयनालादि सर्बं पूर्वोंदितं क्रमात् ।। ६६ ।।
दशदिगीशलिङ्गानां स्वायाम्युगसूत्रकैः ।
संवेष्ट्य वर्तयेत्पिण्डीं कर्तुः कामप्रसाधिकम् ।। ६७ ।।
ऐन्द्रीं बैश्चानरीं याम्यां नैॠतीं वारुणीं तथा ।
मारूतीं धानदीं रौद्रीं वैष्णावीं ब्रह्मजां सदा ।। ६८ ।।
ऐन्घ्रां सूत्रं पूरो दत्वा पार्श्चयोर्मत्स्ययुग्मकम् ।
सूत्रमध्येऽर्धसूत्रेण मत्स्यान् कोणेषु सर्वतः ।। ६९ ।।
चतुः सुत्रीं पुनर्दत्वा साधयेच्चतुरस्रिकाम् ।
वेदास्रं पिण्डिकाक्षेत्रं कुण्डानामपि सर्वदा ।। ७० ।।
तुर्यांशे कर्णसूत्रार्ध गृहीत्वा भ्राम्य यत्नतः ।
मध्यान्मध्यगतं सूत्रं [क्, ख्: सूत्रैः] कोणं संवेष्द्य चापरम् ।। ७१ ।।
क्षेत्रं कृत्वा शरांशं तु कृत्वा चोत्तरतोंऽशकम् ।
प्. १५१) तत्सूत्रद्वयसंयोगात्साधयेद्वा त्रिपर्णिकाम् [मू, अ: बोधिपर्णिकाम्] ।। ७२ ।।
क्षेत्रं चतुधा [ख्: तु नवधा] कृत्वा तु द्यंशौ च पार्श्वतः ।
संभ्राम्य मध्यतः सूत्रं साधयेदर्धचन्द्रिकाम् ।। ७३ ।।
विभज्य पञ्चधा क्षेत्रं भागैकैकं प्रदाय च ।
रक्षोऽग्निसौम्यकाष्ठासु त त्रिसूत्र्य[क्, ख्: त्रिसत्र्या]त्रिकोणिकाम् ।। ७४ ।।
सप्तभागीकृते झेत्रे (न्य[चिन्हान्तर्गतोऽयं पाठो मू. अ. ग्. पुस्तकेषु नास्ति]स्त्भैकांशं बहिस्ततः [घ्: बहिस्थितिः] ।
मध्याधसूत्रसंभ्रान्तैः पिण्डिका वर्तुला [घ्: वर्तनाद्] भवेत् ।। ७५ ।।
मध्यात्कोणे विकारांशं त्यक्त्वा वृत्ते कृते सति ।
तुर्यास्रवृत्तयोर्मध्ये यमन्द्वोः सूत्रपातनम् ।। ७६ ।।
तत्सूत्रा[घ्: तत्सूत्रं]ब्द्रह्सूत्रान्तं [घ्: सूत्रार्धं] तिर्यवकोणेषु सूत्रकैः ।
भवेत्षडस्रिकापिण्डी शेषरेखाविथोपनात् [ख्, घ्: लेखाविलोपनात्] ।। ७७ ।।
नग भागी कृते क्षेत्रे) भागैक एरितो न्यसेत् ।
सूत्रमध्यार्ध सबृत्तादब्जा स्यात् [ग्: दब्जाभा] पूर्वचोदिता ।। ७८ ।।
नवधा भाजिते क्षेत्रे तथांशं [ख्: तयांशं] बाह्यतः क्षिपेत् ।
मध्यसूत्रार्ध भागेन [ख्, घ्: द्विभागेन] कोणानि ह्रासयेदथ ।। ७९ ।।
जिनांशे बहिरेकांशं हृत्वा [मू, अ, ख्, ग्: कृत्वा] कोणार्धलाञ्छनैः ।
कोणैः [घ्: कोणा] सूत्रपरिच्छिन्नैः कुर्यादष्टास्रिकां सदा ।। ८० ।।
प्. १५२) अष्टांशे बहिरेकांशं न्यस्त्वा कोणाधसूत्रकैः ।
संछिद्यास्रींश्च संछिद्य कृत्वा तु दशमास्त्रिकम् [क्, घ्: दशभांशिकीम्] ।। ८१ ।।
कोणान्तौ द्वौ च हृत्वांशौ [मू, अ: पूर्वाशैः] सूत्रं सपात्य कोणतः ।
कर्तव्या षोडकांशैस्तु [घ्: शैवं] पिण्डिका केशवाश्रया [घ्: श्चये] ।। ८२ ।।
षोढा विभज्य च क्षेत्रं कृत्वैकांशं तु वाह्यतः ।
पूर्ववत्योडशंशैस्तु कुर्याद् द्वात्रिंशदस्रिकाम् ।। ८३ ।।
चतुरास्रा भवेदैन्द्री सा सैन्यस्तम्भने मता ।
आग्नेयी बोधिपत्राभा पिन्तरोगाग्निदाहकृत् ।। ८४ ।।
अर्धंचन्द्राकृतिर्याम्या शत्रूणां क्षयकारिका ।
त्रिकोणा राक्षसाजां तु देशो[क्: द्वेषो; घ्: दोषो] च्छदकरी सदा [घ्: तुसा] ।। ८५ ।।
वारूणी [घ्: वारूणा] मण्डलाकारा स चाप्यायनकारिणी ।
वायव्या च षडस्रोक्ता शत्रूच्चाटनकारिका ।। ८६ ।।
पद्माकारा परा सौम्या धनपुष्टिप्रदा सदा ।
रौद्री त्वष्टास्रिका [ग्: रष्टाश्रिका] ज्ञेया मुक्तिदा सारिनाशिनी ।। ८७ ।।
वैष्णवी षोडशास्रा तु रिपुमर्दनकारिका ।
द्वात्रिंशदस्रिका वाह्नी स्वर्गाख्याफलदायिनी ।। ८८ ।।
रक्षो वीन्देस्वरान्तस्था ग्रोमेषु केशवाजयोः ।
अर्धचन्द्रोपमा नीलं शेषः कोदण्डवद्भवेत् ।। ८९ ।।
स्वायुधैर्लाञ्छिताः सर्वाः सेन्दुनालाः स्वदिकस्थिताः ।
पिण्डीमामस्तकादीनां करोत्येवं विधं फलम् ।। ९० ।।
प्. १५३) भगमध्ये स्थितं लिङ्गं लिङ्गाधो भगसंस्थितिः ।
भगलिङ्गाङ्कित सर्वं त्रैलोक्यं सचराचरम् ।। ९१ ।।
शक्त्यथो [घ्: शक्त्यन्ता] (था) थारशक्तिश्च उमा स्यात्पीठरुपिण [घ्: रूपिका] ।
शिवलिङ्गं परं तच्चं तयोर्योगा[घ्: तयोर्यागात्]न्महत्फलम् ।। ९२ ।।
विष्णुभागान्तविस्तीर्णा तदधं दल[घ्: तदर्धदल]निर्मीता ।
दलाङ्घ्रिगर्तिका कूर्मों [मू, घ्: कूर्म] वेदास्रा वलिङ्गर्तिनी ।। ९३ ।।
ब्रह्माधोच्छ्रय वेदास्र त त्रिधा विस्तरेकजम [घ्: वेदास्रा तन्त्रिधा विस्तरैकजा] ।
चतुरस्रं त[घ्: रस्रयंशतं]द्गर्तं स्याद् ब्रह्मांश[घ्: ब्रह्याङ्गं]तु प्रकल्पितम् ।। ९४ ।।
क्वचित्लिङ्गार्धबिस्तारा तदर्धे च[क्, ख्, घ्: तदर्थोच्चा]युगास्रिका ।
तद्पादश्वभ्रिका साव्जा ग्रहगर्ता शिला भवेत् ।। ९५ ।।
कृत्वा साष्ट [क्: थाष्ट] दलाम्भोजं मध्ये पत्रेषु(सु) खातकम् ।
कार्या ब्रह्मशिलान्यार्थि[घ्: न्योऽर्थो]बृत्ता त्र्यस्रा तु[घ्: त्र्यस्रान्त] साधने ।। ९६ ।।
देवपीठं तथेशानो वृषो ब्रह्मशिलापि च ।
एकजं चैक वर्णं वा शुभमेतदतोऽशुभम् ।। ९७ ।।
सुनिष्पन्नेषु लिङ्गेषु मानल [ख्: नाल] क्षणवत्सु च ।
प्. १५४) मूल्यं समवधार्यादौ वणिजो दैशिकोत्तमः ।। ९८ ।।
स्वप्रजानृपवृद्ध्यर्थं प्रागाचार्यं तु लक्षयेत् ।
पश्चादिजाद्विपाषण्डां स्ततो मूल्यं प्रकाशयेत् ।। ९९ ।।
वीरक्रमा[घ्: वीरक्रया]द्गृहीतं सद्वर्षा[मू: सदद्धा]पर्युषितं यदा ।
तदार्धेनाध्वरं कृत्वा लिङ्गं स्थाप्यं सुवासरे [मू, अ, ग्: सुरासुरे] ।। १०० ।।
इति लक्षणसमुच्चये पीठवर्तनं नामाष्टमो विधिः ।। ८ ।।
अथ नवमः
त्रिशूलम्
दिक्पतीनां हरादीनां शूलाद्यस्त्राणि च ब्रुवे ।
वेदास्रे ग्रहभक्ते [क्, ख्, घ्: वेदास्रं ग्रहभक्तं] स्यान्मध्ये शूलं तु रन्ध्रतः ।। १ ।।
अर्धार्धांशैस्तु पक्षाभ्यामुत्पलं [घ्: मुत्पल] मुकुलाकृतिः ।
त्यक्त्वा [घ्: त्याज्या] सार्धौ द्विविस्तारौ षड्भिर्दिर्धौ भ्रमान्मतौ ।। २ ।।
शङ्गे द्वे शूलपार्श्वे च [घ्: तु] त्वगस्थिकलि[क्, ख्: काल]कोपमे ।
तद्घृत्तौ द्व्यर्धदीर्धौ च कर्तव्यौ च सुशोभनौ ।। ३ ।।
मध्ये मूला[मू, अ, घ्: शूला]र्धदैर्घ्येण त्वधो वेद्यब्जमण्डिता ।
वेद्यधस्तात्त्रिधा दैर्घ्याद्दण्डः कार्यस्त्रिविस्तर ।। ४ ।।
प्. १५५) लुप्त्वा रेखां सीतैः शूलं रक्ते दण्डे कुशेशयम् ।
सिते रेखा भवेद्दण्ड ऐश्यामेव त्रिशूलकम् ।। ५ ।।
वज्रम्-
कृत्वा दण्डं त्रिशूलाधो वज्रं पीतं सिताम्बुजम् ।
मध्ये शृङ्गं तु पीतं वा हरिते पक्षशङ्गके ।। ६ ।।
पक्षशृङ्गं यदा पीत तदान्तर्हरितं भवेत् ।
एवं संक्षेपतो वज्रं ख्यातमिन्द्रस्य पूर्वतः ।। ७ ।।
शक्तिः-
दण्डाद्यं प्राक् त्रिशूलं च पक्षशृङ्गे यदा कृते [घ्: ह्रते] ।
लोहितं मध्यमं शृङ्गं [क्, ख्: शूलं] वह्नेः शक्तिस्तदा दिशि ।। ८ ।।
दण्डः-
दैर्घ्यांशं जिनवत्कृत्वा वेदाद्युग्मात्प्रविस्तरः ।
मूले चाग्रे च दण्डस्य कार्यो वृत्ताग्रमूलतः ।। ९ ।।
मुष्टिग्राहे सितत्र्यंशाद्दण्डमध्ये सिताम्बुजम् ।
वेदाद्वहिःसिता रेखा[मू, अ: वेधा]कृष्णा याम्ये यमस्य तु ।। १० ।।
खड्गः-
सप्ताङ्गं चतुरस्रं स्यान्मध्याधोंशेन गञ्जकम् ।
बृत्ताग्रं पादसंवेशात्कोणमूलं [ख्, घ्: काममूलं] सुशोभनम् ।। ११ ।।
तदूर्ध्वे सार्धभागेन त्र्यंशदैर्घ्याद्भ्रमात्सदा ।
वल्कलम् खण्डचन्द्राभं तन्मध्योर्ध्वद्विसार्धत [मू, अ, क्, ख्: मध्येऽर्ध] ।। १२ ।।
प्. १५६) अन्तर्दण्डांशतः [घ्: दण्द्यं शतः] कार्या मध्यस्थूलं द्वयोः [ख्: त्वधः] कृशा ।
तत्समेऽप्युन्नतं मध्ये मुखं तन्मूलपक्षयोः ।। १३ ।।
अर्धांशपृथुलौ गुच्छौ त्र्यंशाद्दार्घौ कलेन्दुवत् ।
मुष्टिं संवर्तयेदेवं पीतं वा सितरूपकम् ।। १४ ।।
तन्मुखं पार्श्वयोः कुर्याद्भागार्धोऽर्धप्रविस्तृतम् (?) ।
मुष्द्युच्छ्रयाच्चतुर्धातो दीर्घः खड्गाग्रबर्तुलः ।। १५ ।।
धूम्राभा स्यात्सिता धारा भागार्धविस्तरं जलम् ।
भृङ्गाभं त्र्यंशसन्त्यागात्खड्गो नैरृतराक्षसे ।। १६ ।।
पट्टिशः-
पट्टिशं खड्गसंकाशं चतुर्धारा[मू: चतुर्धा वा]समन्वितम् ।
प्रसङ्गाद्गदितं शस्त्रमक्षोभ्य योगिनीप्रियम् ।। १७ ।।
पाशः-
जिनभागीकृते नाहे पृथुत्वं तत्त्रिभागतः ।
मुखपुच्छार्धमाद्यन्ते दिग्देशैर्युगमध्यतः ।। १८ ।।
मध्ये रेखाद्विभागान्ते वृत्तवद्वामदक्षयोः ।
भ्राम्य द्वौ द्वौ द्विभागाभ्यां मध्यकोष्ठद्वये बुधः ।। १९ ।।
(कोणसूत्रं [चिन्हान्तर्गतोऽयं पाठ घ्. पुस्तके नास्ति] भवेत्तत्र मध्यरेखाप्रलोपयोः ।
ग्रन्थिरूपं यथा सम्यक् तथा तत्परिलोपयेत् ।। २० ।।
अग्रे मध्यांशके वक्त्रं बद्धं [मू: वज्रं बद्धं] बकुलसन्निभम् ।
तदधोंशेन [ख्: ऽङ्गेन] वक्त्रं स्यान्नासाक्षिरसनान्वितम् ।। २१ ।।
प्. १५७) तदधोभागमध्यस्थाद्भ्रामयेदर्धचन्द्रवत् ।
तदधः पार्श्वयोर्द्यंशे कर्णसूत्रं द्वयोः समम् ।। २२ ।।
फणसोऽश्वत्थ[क्: फणसष्वब्ज; ख्: फणसाष्टक]पत्राभो मध्ये पङ्कजलाञ्छितः ।
त्र्यंशाधो ह्रासयेत्पुच्छं स्वांशं [घ्: स्वांश] त्र्यंशेन वाणतः ।। २३ ।।
शेषरेखाविलोपेन [घ्: लेपेन] रेखाभिर्मध्यशोभितः ।
सितोऽहिः कृष्णजिह्वास्यो रक्ताक्षश्च सुशोभनः ।। २४ ।।
सम्मुखः सितकालश्च [घ्: कोलश्च] क्वचिच्छ्यामो भयङ्करः ।
वारूण्यां वारूणः पाशः कर्तव्यो दिशि दैशिकः ।। २५ ।।
ध्वजः-
षोडशांशं तु विष्कम्भं लुप्त्वा रामं तु कोणतः ।
वायुकोणेऽम्बुतः प्रोक्तं[क्, ख्: कोणाम्बुतत्प्रोक्तं]त्र्यंशेन तु च दर्पणम् [मू: तदर्पणम्] ।। २६ ।।
तन्मूर्निमध्यतो द्यशाच्चन्द्रार्ध बाणतो भ्रमात् ।
चन्द्रार्धात्कोणतो द्यंशं लोपयेज्जलत[मू: द्यन्ततः]स्ततः ।। २७ ।।
रन्ध्राधो गुग्मतस्त्यक्त्वा तत्कोणान्नवभागगान् ।
अधो भूतेन विस्तारात्तिर्यक्सूत्राद्द्विरूर्ध्वतः ।। २८ ।।
क्वचिद्रम्भादलाभासा कदलीपत्रविस्तरा ।
तद्द्यंशेन ॠजुं कुर्याद् ध्वजं वा कुटिलाहिवत् ।। २९ ।।
रोहितमत्स्यपुच्छाभं द्यंशसंवेशनात्सदा ।
नैरॄत्यात्पञ्चवेशेन सूत्रं विन्यस्य कोणतः ।। ३० ।।
प्. १५८) भ्रामयेत्षट्पदोऽर्धेन तदधो द्यंशतः पुनः ।
ईशानात्सप्तपूर्वेण सप्तवेशाद्भ्रमात्पुनः ।। ३१ ।।
(तदधो [चिन्हान्तर्गतः पाठो मूलपुस्तके नासि] द्यंशतः पार्श्वात्सूत्रं संभ्रामयेत्ततः ।
दर्पणात्प्राग्जलशांच्च ब्रह्मसूत्राहिभागतः ।। ३२ ।।)
दण्डः क्षेत्रसमः कार्यो द्यंशेन विस्तरो रूणः ।
शेषरेखा [मू, अ, क्, ख्, ग्, ङ्: शेषवेशा] विनाशेन वायोर्ध्वजश्च मारुते ।। ३३ ।।
शिरो[ङ्: शितो; क्, ख्: पद्मं]दर्पणखण्डेन्दुर्ध्वजः पीतोऽथवा हरित् ।। ३४ ।।
गदाः-
नाहमेकं [घ्: र्नाहमर्कं] द्विधा कृत्वा विस्तरं तद्भूतांशतः ।
आद्यन्ते सम्बिका द्वाभ्यां वृत्तमेकेन पार्श्वयोः ।। ३५ ।।
भागैकं पार्श्वयोर्लुप्त्वा मध्ये पीतं [घ्: पद्मं] सितं जलैः (ले) ।
पीता गदारुणै रेखा मध्यरेखा शुकप्रभा ।। ३६ ।।
आद्यन्ते शृङ्खला कार्या मध्यरेखा[ग्, घ्: मध्यभागा]वलम्बिनी ।
कटिकाङ्घ्रिसमा वृत्ता चतस्रो रेखिकास्तथा ।। ३७ ।।
पीतवर्णेन ताः [क्, ख्: सा; ग्: ततः] कार्या हरितेन क्वचित्सिता ।
कुवेरास्त्रं भवेदेवं सोमकाष्ठास्थितं सदा ।। ३८ ।।
प्. १५९) पद्मम्-
ब्रह्मास्त्रं [घ्: ब्रह्माण्डं] वर्तयेत्पद्मं सारकेसरकर्णिकम् ।
सुश्वेतं रक्तनेम्याढ्यमीशेन्द्रान्तरसंस्थितम् ।। ३९ ।।
सुदर्शनचक्रम्-
वेदास्रं रविभिर्भक्तं मध्यादंशाद्भ्रमाद्भवेत् ।
नाभिमध्यान्ततोऽशेन [घ्: मध्यात्तु तांशेन] मेखला भ्रमतो भवेत् ।। ४० ।।
नाभिमध्यात्पुनर्भ्रान्त्वा मेखलाबहिरग्नितः ।
तद्वत्तत्परतोंऽशेन भ्रमाच्चक्रं तु वर्तुलम् ।। ४१ ।।
नाभिमध्यान्तरे रेखां बिलुप्य परिवर्तपेत् ।
अष्टदिक्ष्वारकास्त्वष्टौ क्कचिद्वा षोडशारकाः ।। ४२ ।।
इन्दीवरदलाभा च[ख्: भासो]चक्रयुग्मासु पुष्यवत् ।
चक्राधः प्रान्ततत्त्र्यं[क्, ख्: मध्यतो द्यंशा]शाद्विविस्ताराद्रसभागिकम् [ख्: मसूरी चासतोन्नता] ।। ४३ ।।
तदधो वेदविस्तारा वृत्ताख्या तु तथोंच्छ्रयात् ।
एकेनोच्चा प्रविस्तारा पट्टिका चतुरस्रिका ।। ४४ ।।
रस भागेन [ग्: वसुभागेन] सा कार्या पार्श्वतो ॠजु वा क्रमात् [ख्: ऋतुवर्जनात्; क्, ग्, घ्: ऋतुवत्क्रमात्] ।
चक्रस्यासनमेवं तु रश्मयः परितस्ततः ।। ४५ ।।
मूर्ध्नि त्र्यंशात्समुच्छ्रायः पार्श्वयोरर्धभागतः ।
भ्रमादब्जकली[ख्: करी]प्रख्या चक्रमध्ये व्यवस्थिता ।। ४६ ।।
प्. १६०) शेषाद्वा [ख्: शेषाब्धिं; घ्: शेषाद्वीं] सिद्धिदीर्घाणि पृथुत्वांशांशवर्तनात् ।
अष्टौ संख्याः प्रकर्तव्याः पार्श्वे चैवापरे तथा ।। ४७ ।।
रश्मयोऽसृक्सितं पीठं शेषेरेखा विनाशनम् ।
कृपाणपाशयोरन्तः सुदर्शनं हरेर्लिखेत् ।। ४८ ।।
त्रिशूलादीनि शस्त्राणि सौम्यमूर्ध्नि शुभानि तु ।
प्राक्शिरस्कौ [मू, अ, ग्: शिरस्थौ] गदादण्डौ स्वभागैरंशसाधनम् ।। ४९ ।।
ईशादिविष्णुपर्यन्तं लोकेशानां स्वकायुधम् ।
ज्ञेयं शूलादिचक्रान्तं तद्दिक्कान्तिबलात्मकम् ।। ५० ।।
करणेऽन्य [क्, ख्, घ्: किनणेऽन्यत्] प्रकारेण त्रिकाख्यः [घ्: त्रिकाख्ये] पुनरन्यथा ।
उक्तान्यस्त्राणि बाणाख्या (द्या) घण्टेभाद्यथ वक्ष्यते ।। ५१ ।।
घण्टा-
अष्टधा भाजिते क्षेत्रे मध्ये पार्श्वाद्[घ्: पार्श्वौ]द्विरूर्ध्वतः ।
भागार्धेन दलं कुर्याद्वृत्तास्रं बृत्तपट्टिके [क्, ख्: पक्षपट्टिके] ।। ५२ ।।
भागार्धेन शिरः स्थूलं पक्षयोरर्धनिर्गमम् ।
ग्रीवाद्वा विस्तरार्धाद्वा स्कन्धार्धांशविनिर्गमौ (मः) [मू: स्कन्धाद्द्यंशविनिर्गमैः] ।। ५३ ।।
वृत्ताकारेण पक्षाभ्यां सार्धवेदावतारणम् ।
चतुर्भागप्रविस्तारौ (रो) भागार्धपक्षयोर्युतः ।। ५४ ।।
प्. १६१) कर्णसूत्रेण तत्कार्यं [घ्: कार्यौ] तदधोऽर्धार्धनिष्क्रमात् [घ्: तदधोऽर्धविनिष्क्रमात्] ।
उच्छ्रायार्धं तु विस्तारा पट्टिकात्रितयान्विता ।। ५५ ।।
शेषभागविनाशेन [मू, अ, क्, ख्, ग्, ङ्: विशेषेण] घण्टा ह्येवं सुरप्रिया ।
पद्मस्कन्धाद्द्विभागेन कर्तव्या लक्षणान्विता ।। ५६ ।।
हारधारावलीयुक्ता पाशलालू[क्: लोलूक]कमण्डिता ।
सुस्वरा [घ्: सुस्वना] कांस्यजा श्रेष्ठा स्वदेवायुधमरतका [मू: वाद्यधरान्तरा] ।। ५७ ।।
वाहनाः-
वेदास्रमष्टधा कृत्वा संलक्ष्य वर्तयेत्क्रमात् ।
गजाश्वोऽश्वतरोष्ट्रांश्च तदारोहांस्तु त्र्यंशतः ।। ५८ ।।
एकांशेन [घ्: एकांशोना] तदूर्ध्वे च गोगवयलुलायकाः ।
भवेयुः पशवोऽप्यन्ये मृगगर्दभगण्डकाः ।। ५९ ।।
व्युलघ्य [घ्: व्युलंध] गाव्यजश्वानस्तेनाक्षालक्षमाहिकाः [घ्: स्तुनाक्षो लक्षसाहिका] (?) ।
जलोना व्याघ्रकप्युष्ट्रा लक्षादार्जनकस्तथा (?) ।। ६० ।।
पञ्चाशोनास्तथा कार्या बभ्रुशशकमूषकाः [मू: मशक] ।
षडूनाद् [घ्: षडूना ग्राह] ग्राहगोधा स्यान्नक्रमत्स्यावधौ [मू: मत्स्यावरौ; ग्: मत्स्यावकै] सदा ।। ६१ ।।
इति लक्षणसमुच्चये वाहनायुधवर्तनं नाम नवमो विधिः ।। ९ ।।
अथ दशमः
अत ऊर्ध्वं प्रवक्ष्यामि काललग्नादिनिश्चयम् ।
द्वित्रुटिभ्यां लवः प्रोक्तो निषेषो द्विलवात्मकः ।। १ ।।
दशपञ्चनिमेषैस्तु काष्ठोक्ता कालवेदिभिः ।
त्रिंशत्काष्ठाः कालं विद्यात्क्षणं त्रिंशत्कलां बुधः ।। २ ।।
क्षणैर्द्वादशभिर्ज्ञेयो मुहूर्तस्तत्त्ववेदिभिः ।
ताभ्यां नाड्यथ नाडीभ्यां क्षीणाभ्यां [ख्: हीनाभ्यां] षोडशांशकैः ।। ३ ।।
घटी चतसृभिस्ताभिः प्रहरः परिकीर्तितः ।
तैरष्टभिरहोरात्रं पक्षस्तैर्दशपञ्चभिः ।। ४ ।।
ताभ्यां मासस्तु मासाभ्यामृतुस्तैरयनं त्रिभिः ।
ताभ्यां संवत्सरः प्रोक्तस्तैः शतैः पुरुषायुषः ।। ५ ।।
नक्षत्रे यत्र तत्रापि सर्वकालं द्विपक्षयोः ।
मुमुक्षोः स्थापनं शस्तं यतेः कामार्थिनो ब्रुवे [मू, अ, ग्: ध्रुवम्] ।। ६ ।।
प्राबृषि स्थापनं सिद्धयै भवेच्छरदि योगदम् ।
हेमन्ते ज्ञानदं लिङ्गं शिशिरे सर्वभूतिदम् ।। ७ ।।
लक्ष्मीप्रदं वसन्ते च ग्रीष्मे च जयशान्तिदम् ।
यतीनां सर्वकालेषु लिङ्गस्यारोपणं मतम् ।। ८ ।।
उत्तराशां गते भानौ लिङ्गस्थापनमुत्तमम् ।
दक्षिणेत्वयने[मू, अ, ग्: दक्षिणाशायने]ऽपूज्यं त्रिवर्षोर्ध्वं भयावहम् ।। ९ ।।
प्. १६३) क्ष्मादिग्रहणविन्यासौ पदषट्कं ध्वजान्तिकम् [मू: ध्वजादिकम्] ।
क्षयाय बृद्धये स्याच्च याम्ये सौम्येऽपरे रवौ ।। १० ।।
कर्तृनृपप्रजाराष्ट्रस्थाननाममरस्य [क्, ख्: मचरस्य] च ।
षट्षण्मासोत्तरांस्त्र्यब्दान्मयमतात्फलं क्रमात् ।। ११ ।।
सङ्ग्रहे स्थापनं नेष्टं तथा वै दक्षिणेऽयने ।
अभिचारो भवेत्तत्र स्थापिते दक्षिणेऽयने ।। १२ ।।
सङ्ग्रहे स्थापिते लिङ्गे व्याधिभिः पीड्यते प्रजा ।
कुमाराः संप्रपीड्यन्ते कन्यानाशश्च जायते ।। १३ ।।
सुमहाञ्शस्त्रकोपश्च तदाराज्ञां प्रजायते ।
कर्तुः क्षयः सदाशोको गृहे भवति दारुणः ।। १४ ।।
तस्मान्न स्थापयेद्देवं सङ्ग्रहे दक्षिणायने ।
शुभार्थी न प्रवर्तेत देव्या मन्त्रादिशास्त्रतः [क्, ख्: मतादि] ।। १५ ।।
पार्थिवः पालयेद्धर्मं स्वराष्ट्रशुभकाङ्क्षकः ।
तस्मात्स्थानं गुरुं [मू: स्थानगुरू] प्राप्य रक्षये [ख्: रक्षार्थं]दाभिचारिकम् ।। १६ ।।
पक्षार्धेनं ग्रहस्थानां [मू, अ, क्, घ्: गृहे स्थाप्यं] यावद्दिनकृदुत्तरे ।
स्थापनं तु प्रकर्तव्यं शिशिरादावृतुत्रये ।। १७ ।।
स दिने सितपक्षे च स बारर्क्षबिभूषिते ।
प्. १६४) सचन्द्रतारकायोगे [मू: व्यचन्द्रतारकायोगे; क्: चन्द्रतारकयोगे तु] सुलग्नकरणान्वितते ।। १८ ।।
द्वैतदेवे [मू: द्वैते देवे] प्रतिष्ठा स्यान्मित्रे च सितपक्षके ।
अद्वैते चैव कृस्णेऽपि मन्त्रमूर्ति प्रभेदतः ।। १९ ।।
द्वैतासिद्धान्तकी रौद्री शतवर्षाणि तिष्ठति [क्: वर्षाभितिष्ठति] ।
पाञ्चरात्रार्हरेत् मिश्रा [मू: पञ्चारात्रीहरेर्मिश्रा] पञ्चाशद्वर्षसंस्थितिः ।। २० ।।
अद्वैता औरवी सातु वामदक्षिणमन्त्रजा [ख्: मन्त्रिता] ।
शाताब्दोर्व्बं तु सा तिष्ठेद्वाणलिङ्गं स्वयम्भुबत् [मू: लिङ्गाश्रयं भवेत्] ।। २१ ।।
प्रतिष्ठाशब्दसंसिद्धि प्रतिपूर्वा त्तु [मू: पूर्वाच्च] तिष्ठतेः ।
बह्वर्थत्वानिपातानां संस्कारादौ प्रतिष्ठितिः [घ्: प्रतिः स्थितः] ।। २२ ।।
अर्थस्तदयमेतस्य गीयते शाव्दिकैजनैः ।
संस्कृता द्रव्यसन्मन्त्रसंस्कृतिर्या सुरग्य च ।। २३ ।।
आसीना चै सुप्ता च यानस्थोर्ध्वान्तरिक्षगा ।
प्रतिमां पञ्चभेदैस्तु प्रतिष्ठा पञ्चधोदिता [ख्, घ्: चोदिता] ।। २४ ।।
तास्तु पक्षेसिते कार्याद्वितीयादौ तिथिष्वथ ।
द्वितीयायुमति [घ्: मविः] दद्यात्तृतीया पुत्रसंपदः ।। २५ ।।
पञ्चमी च श्रिय नित्यं सप्तमी रोगनाशनम् ।
दशमी भूमिलाभं [क्, ख्: भूमिवृद्विं] च सौभाग्यं च त्रयोदशी ।। २६ ।।
प्. १६५) नानाविधं धनं धान्यं [मू: धनं नूनं; ख्: धिय परं] पोर्णमासीतिथिः सदा ।
एकर्तुशङ्करैर्नन्दा भद्रा पक्षर्षिभानुभिः ।। २७ ।।
जया रामाहिकामैः स्याद्रिक्ता वेदग्रहेन्द्रकैः ।
बाणदिक्तिथिभिः पूर्णा हीनतुल्याहिताः क्रमात् ।। २८ ।।
एताः शुक्लेऽनुलोमाः स्युर्बहुले च विलोमतः ।
वृहस्पतिर्द्विपञ्चायुर्बुद्यो जयधनानि च ।। २९ ।।
सम्पदर्कः शुभं शुक्रश्चन्द्र शान्तिप्ररोहणे ।
कर्क [घ्: कर्कि] वृषतुलाचापस्त्रीसिंहग्राहयुग्मके ।। ३० ।।
मत्स्यघटालिमेषेषु दिनेशानां प्रधानता ।
षडष्टचतुरोयामाच्चतू राशिक्रमेण तु ।। ३१ ।।
पुष्य[ग्: यस्य]रोहिणिकाहस्तात्प्रागाषाढोत्तरा द्विजे ।
पुनर्वस्वनुराधा च चित्रा ज्येष्ठा महीभुजि ।। ३२ ।।
धनिष्ठाश्रवणा (णौ) वैश्ये युग्मभाद्रपदास्तथा ।
अश्विनी रेवती शूद्रे स्वातीफल्गुनिकाद्वयम् ।। ३३ ।।
चतुर्वर्ण्ये मघा श्रीदा मूलार्द्राभरणीमृगाः ।
एते प्रवीण[मू, अ, घ्: प्रवणि]लोकानां (?) चत्वार्येवान्त्यजे तथा ।। ३४ ।।
जयारोग्यकरस्तिष्यो रोहिणी धनवृद्धिदा ।
हस्ता सिद्धिप्रदा लिङ्गे आयुर्दाषाढयुग्मकम् ।। ३५ ।।
पुनर्वसुः सुखं दद्यादनुराधा तु सम्पदम् ।
चित्रात्वर्थसुखं [ख्: त्वर्थं सुख] नित्यं ज्येष्ठा रोगविनाशकृत् ।। ३६ ।।
प्. १६६) धनिष्ठारिक्षयं दद्याज्ज्ञानर्द्धीः श्रवणः सदा ।
युग्मभाद्रप्रदा वृद्धिं बहुमित्राणि चाश्विनी ।। ३७ ।।
रेवती पुष्टिदा नित्यं स्वाती कुर्याद्धनं बहु ।
फल्गुनीद्वितयं वृद्धिं भरणी रिपुभेददा [क्, ख्, घ्: रिपुभेदम्] ।। ३८ ।।
आर्द्रा सौभाग्यसंपत्तिं मूला (लं) च नृपसत्क्रियाम् ।
मृग शान्तिप्रदो नित्यं धन्या शतभिषान्त्यजे ।। ३९ ।।
अश्लेषा कृत्तिका चैव विशाखा च शुभप्रदा ।
शस्तो जीवो नवर्द्धीषु सप्तस्थानेषु सर्वदा ।। ४० ।।
बुधः षडद्वय[मू: षडष्ट]ष्टतुर्येषु दिक्सप्तभू (षड्)विना शिर(सि)तः ।
सप्तर्तुत्रिशादिस्थः शशाङ्को बलदस्तथा ।। ४१ ।।
रविर्दंशत्रिट्सस्थो राहुस्त्रिदशषड्गतः ।
षट्त्रिस्थानगतः शस्ता[मू, अ, क्, ग्, ङ्: श्रेष्ठा]मन्दाङ्गारककेतवः ।। ४२ ।।
शुभाः क्रूरास्व पापाश्च सर्व एकादशस्थिताः ।
एषां दृष्टिर्मुनौं पूर्णा त्वार्द्धिकी ग्रहभूतयोः ।। ४३ ।।
पादिकी रामदिक्स्थाने [मू: स्थान्ये] वस्वर्द्धौ [क्, ग्: वस्वष्टौ] पादवर्जिता ।
द्वितीया संपदाख्या तु चतुर्थी क्षेमसंज्ञिता [घ्: संज्ञिका] ।। ४४ ।।
षष्ठी च साधिका तारा त्वष्टमी मित्रनामिका ।
नवमी चातिमित्रा स्यादेताः पञ्च बलप्रदाः ।। ४५ ।।
प्रीतिः सौभाग्यमायुष्मान्सुकर्माशोभनो धृतिः ।
वृद्धिः सिद्धिर्ध्रवः साध्यो वरीयाञ्छि[मू, अ, ग्: ञ्छुभ]वशुल्ककौ ।। ४६ ।।
प्. १६७) ब्रह्मेन्द्रौच शुभश्चेति योगाः सत्संज्ञकाः शुभाः ।
चव च बालवं चव कौलवं तैतिलं तथा ।। ४७ ।।
गरं च वणिजं चैव शकुनिं च चतुष्यदम् ।
नागं किंस्तुघ्नमर्थाय विष्टिहीनं तु पक्षयोः ।। ४८ ।।
पादन्यून (ना) चतुर्नाडी [क्: पादन्यूनश्चतुर्मात्रो] भोगः स्यान्मीनमेषयोः [घ्: मेषमीनयोः] ।
वृषकुम्भौ तु भुञ्जाते चतस्रः पादवर्जिताः ।। ४९ ।।
मकरो मिथुनं पञ्च चापालिहरिकर्कटाः ।
पादोनाः षट् तुलाकन्ये घटिकाः सार्धपञ्च तु ।। ५० ।।
केसरी च वृषः कुम्भः स्थिराः स्युः सिद्धिदायकाः ।
चरं धनुस्तुलामेषाः प्राग्युग्मं मीनकन्यके ।। ५१ ।।
कर्कटो मकरौऽलिश्च प्रवज्याकार्यंनाशकाः ।
स्थिरः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः ।। ५२ ।।
गुरुशुक्रबुधर्युक्तो लग्नो दद्यद्धानायुषा ।
राज्य सौख्य धनं [ख्, घ्: बलं] पुत्रान् यशा धर्मादिकं बहु ।। ५३ ।।
प्रथमः [मू, ग्: प्रबलः] सप्तमस्तुर्यो दशमः केन्द्र उच्यते ।
गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः ।। ५४ ।।
त्र्येकादशचतुर्थस्था [ख्: एकादश] लग्नात्पापग्रहाः शुभाः ।
अतोऽन्येऽनिष्टकार्यार्थे [मू, अ, ग्, घ्: अतोऽनिष्टककर्मार्थे] योज्यास्तिथ्यादयो बुधैः ।। ५५ ।।
प्. १६८) सुयोगे शाश्वतोधर्मस्तारायां पुष्टिजीवितम् ।
सुलग्ने च महाभोगो विषुवे चेप्सितं फलम् ।। ५६ ।।
षडशीतिमुखे पुण्ये त्वयने च महातिथौ [घ्: महत्तिथौ] ।
ॠद्धिरारोग्यमैश्वर्यं देवस्थापनतो भवेत् ।। ५७ ।।
सन्ध्यागते कुलग्ने च प्रत्यस्तमितसुग्रहे [मू, अ, क्, घ्: सङ्ग्रहे] ।
दुरॄक्षे दुर्ग्रहे [घ्: कुग्रहे] विष्टौ नक्षत्रे चैव सङ्ग्रहे ।। ५८ ।।
दुर्निमित्ते तथोत्पाते चन्द्रसूर्योपमर्दने ।
एतेषु स्थापिता देवाः क्षयदुर्भिक्षरोगदा ।। ५९ ।।
तस्माद्दिनं परीक्ष्यादौ यज्ञोपस्करमाहरेत् ।
त्रिष्वेकमेव [घ्: तिष्टेक] निष्पन्नं लिङ्गं तिष्ठति यच्चिअरम् ।
भवेद्दोषकरं तस्मात्प्रा [घ्: द्रीक]वस्थापितं वरप्रदम् ।। ६० ।।
इति लक्षणसमुच्चये ऋत्वादिदिनपरीक्षणं नाम दशमो विधिः ।। १० ।।
अथैकादशः
ज्येष्ठलिङ्गक्रमेणैव मण्डपं कारयेत्त्रिधा ।
त्रिंशद्धस्तादिभिश्चान्यो दशहान्या क्वचिन्मते ।। १ ।।
हस्तैर्द्वादशभिश्चान्यो द्विगुणैर्मध्यमो मतः ।
त्रिगुणैर्ज्येष्ठ इत्येवं [घ्: ज्येष्टमित्येवं] कारयेदन्यथापि वा ।। २ ।।
हस्तांस्तु द्वादशारभ्य क्रमाद् द्वौद्वौ प्रवर्ध्य च ।
अष्टाविंशतिपर्यन्तं विदध्यान्मण्डपान्नव ।। ३ ।।
घनो घोषो विराजश्च काञ्चनः कामरामकौ ।
सुवेशो घर्घरा दक्षो मण्डपा नामतो [घ्: नाम्मता] नव [मू: दश] ।। ४ ।।
धाम[क्: धाम्नः सकाशाद्धामप्रमाणं सूत्रान्तरं त्यक्त्वेत्यर्थः]सूत्रान्तरं कृत्वा कुर्याद्यागस्य मण्डपम् ।
प्रासादस्याग्रदेशे च नासन्नेन च दूरतः ।। ५ ।।
वास्त्वधिदेवतामिष्ट्वा कुर्याद्धीनादिमण्डपान् ।
जानुमात्रोद्धृते शल्ये प्रागीशेन्दुप्लवे कृते ।। ६ ।।
क्षेत्रं त्रिधोभयोः कृत्वा स्तम्भान्कोणेषु योजयेत् ।
वेदास्रान् वर्तुलान् वापि अवक्रान् याज्ञिकान् दृढान् ।। ७ ।।
द्वादशैव ततो बाह्ये मध्ये [मू: बाह्यमध्ये] स्तम्भचतुष्टयम् ।
तच्चूडाशल्यबन्धेन योजयेद् द्वारकद्वयम् ।। ८ ।।
प्. १७०) शिखाङ्घ्रिकं त्रिभिः काष्ठैर्वलिकां तस्य चोपरि ।
षड्भिस्तु पटलैश्छन्नं घनादि मण्डपत्रयम् ।। ९ ।।
काञ्चनादिकमप्येवं त्रितयं किन्तु कण्ठयुक् ।
अष्टभिर्मर्कटैर्युक्तं द्वारकैश्च त्रिभिर्युतम् ।। १० ।।
ऊर्ध्वंशं [घ्: ऊर्ध्वङ्ग] बन्धनैर्बद्धं सल्लोहैः शस्तदारुभिः ।
अष्टभिश्छदनैश्छन्नं सुवेशादित्रयं भवेत् ।। ११ ।।
पक्षो[ग्: अक्षो]न्नतिः पृथत्र्यंशो द्विगुणा तच्छिखोन्नतिः ।
उपजंघाष्टकी चैषां विस्तराकीदृशमुन्नताम् ।। १२ ।।
विस्तरार्कांशमानेन भूमौ स्तम्भान्निवेशयेत् ।
तेन मानेन कण्ठः स्यान्मण्डपान्तरमुच्यते ।। १३ ।।
द्वारोच्छ्रयान्तरं त्यक्त्वा गृहलिङ्गे गृहाग्रतः ।
जयाख्यो दशहस्तश्च विधातव्यो घनाकृतिः ।। १४ ।।
महार्चायास्तुविन्यासे भवेयुर्मण्डपास्त्रयः ।
सुवेशसदृशाः किन्तु स्तम्भविंशतिवर्त्तिताः [ख्, ग्, घ्: वर्धिता] ।। १५ ।।
कण्ठद्वयसमायुक्ता [ख्: सभोक्ता वा] धारकैः पञ्चभिर्युताः ।
लोहकण्टकसम्बद्धकपिभिर्जिनसयुताः ।। १६ ।।
सुवद्धाश्च दढाश्चैव द्वादशच्छदनान्विताः [मू: द्वादशाब्जदलान्विताः] ।
शतार्धहस्तो विपुलः पञ्चोने विभ्रमो [ख्: विपुरो] भवेत् ।। १७ ।।
प्. १७१) चत्वरिंशत्करो भूतिः क्षेत्रे तत्वपदे कृते ।
संयोज्याः कर्णगांस्तम्भानित्येवं मण्डपत्र्यम् ।। १८ ।।
चतुरस्राञ्चतुर्द्वाराश्चतुस्तोरणभूषिताः ।
कर्तव्या मण्डयाः सर्वे मध्ये पीठसमन्विताः ।। १९ ।।
एकहस्तं समारभ्य यावदष्टकरं क्रमात् ।
सामान्यात्सर्वपीठानि क्वचिदन्यमतेऽन्यथा ।। २० ।।
मण्डपस्य त्रिभागेन पीठं स्याच्चतुरस्रकम् ।
कूर्मं पृष्ठोन्नतं मध्ये द्वादशांशसमुच्छ्रितम् ।। २१ ।।
त्रिचतुव्यञ्चहारं वा सप्तहारमथापि वा ।
ऐष्टकं सर्वसिध्यर्थ द्वचिदुक्तं मतान्तरे ।। २२ ।।
त्रिहारंदुर्जय चैव चतुर्हार सुभीषणम् ।
पञ्चहारं विशालाक्षं सप्तहारं सुतारकम् ।। २३ ।।
अवक्रं शल्यहीनं च मनोज्ञं लक्षणान्वितम् ।
सिद्धान्ते बालुकापूर्ण पीठशययान्वितं [घ्: सव्यान्वितं] शुभम् ।। २४ ।।
कुण्डाष्टकसमायुक्तं तान्त्रमण्डलभूषितम् ।
वस्त्रैर्नानाविधैश्छन्नं मण्डपं स्तम्मसंयुतम् ।। २५ ।।
पीठोर्ध्व च वित्तान तु कदलीबृन्द [घ्: विन्दु] शोभितम् ।
लम्बपुष्पस्रजं कुर्यात्सघण्टाचामराम्वरम् ।। २६ ।।
वरगन्घान्वितं चारु दिग्ब्रजं [मू, अ, क्, ख्, ग्, ङ्: दिग्ध्वजं] कलशाकुलम् ।
पीतं रक्तं तथा कृष्णं घूम्रं श्वेत शुकप्रभम् ।। २७ ।।
हेमाभं स्फाटिकं पीतं पुष्ठयं चेन्द्रादिकान् ध्वजान् ।
नवैतान्धवला [मू: ञ्छछलान्]ञ्छान्तौ रौद्रे कृष्णान्प्रयोजयेत् ।। २८ ।।
प्. १७२) पञ्चहस्ता ध्वजाः कार्या वैपुल्येन द्विहस्काः ।
सप्तहस्ताः पताकास्तु विंशत्यङ्गुलविस्तराः ।। २९ ।।
दण्डहस्तप्रविष्टास्तु ध्वजानां पञ्चहस्तकाः ।
दशहस्ताः पताकानां पञ्चमांश [मू: पञ्चहस्त] प्रवेशिताः ।। ३० ।।
क्वचिदन्यप्रकारेण ध्वजानां मानमिन्यते ।
सप्तभिर्दशभिः कार्या विंशा याश्चकरैर्ध्वजाः ।। ३१ ।।
कन्यसे मध्यमे ज्येष्ठे वैपुल्यात्तु द्विहस्तकाः ।
द्वचिदष्टकरायामा विस्तारेण द्विहस्तकाः ।। ३२ ।।
मध्यमास्तु तदर्धेन हीना मध्यार्धतो [घ्: मध्योर्ध्वतो] ध्वजाः ।
वस्त्रैर्दृढैर्नबैर्नित्यं देवकार्येषु पूजिताः ।। ३३ ।।
ध्वजैरथपताकाभिर्भूषयेन्मण्डपान्वहिः ।
ताम्रा लौहाश्च रौप्याश्च हैमाः प्रागादितोरणाः [मू, अ, ख्, ग्: प्रसादतोरणाः] ।। ३४ ।।
कुचन्दनं लघुं श्वेतं चन्दनामरदारुजाः ।
पूर्वादिदिक्षु विन्यस्यास्तोरणा भूतये क्रमात् ।। ३५ ।।
मधुकचूतकाश्मीरी पलाशाश्चार्थशान्तिदाः [मू, क्: चाथद्धिसदाः] ।
वैकङ्कतशमीबिल्वखादिराः शत्रुनाशनाः [ख्: नाशकाः; घ्: वास्ये] ।। ३६ ।।
न्यग्रोधश्च पलाशश्च उदुम्बरोऽथ सिध्रकः ।
अश्वत्थश्चापि माधूक प्लक्षो बिल्वाष्टमः क्वचित् ।। ३७ ।।
एतेषां तोरणान्यष्टौ पूर्वाद्यष्टास्यमण्डपे ।
प्रागीशवह्निकोणिषु पूर्वास्यं त्रितयं भवेत् ।। ३८ ।।
प्. १७३) वायव्ये नैरृते वापि [घ्: वास्ये] पश्चिमास्यं तु मण्डपे ।
सौम्ये सौम्यननं कार्यं याम्ये याम्याननं मतम् ।। ३९ ।।
शालकोटज [मू: शालकौ ध्वज] शाकोत्थाः सारलाः पुष्टि भूतिदाः ।
न्यग्रोघोदुम्बराश्वत्थल्पक्षवृक्षोद्भवाः शुभाः ।। ४० ।।
यथेष्टमेतदप्राप्तौ कार्याः प्रागादितोरणाः ।
चतुरस्रास्त्वथाष्टास्रा वृत्ता वा चक्रनिर्ब्रणाः ।। ४१ ।।
तज्जङ्घे पञ्चहस्ते च तदर्धातु ललाटकम् ।
जङ्घायाश्च ललाटस्य चैकहस्तप्रवेष्टनम् [ख्: हस्तं प्रवेष्टितम्] ।। ४२ ।।
तदूर्ध्वतस्त्रिशूलं च त्रिंशत्यङ्गलमुच्छ्रितम् ।
घण्टाचामरसद्वस्त्र पुष्पस्नग्रान्ध धूपनैः ।। ४३ ।।
संपूज्यतोरणान् वक्त्रमन्त्रेण [मू, अ, ख्: तोरणायुक्तमन्त्रेण] स्वासु दिक्षु च ।
जङ्घादौ देवता न्यस्त्वा (स्य) भूमौ हस्तौ प्ररोपयेत् ।। ४४ ।।
जङ्घासु वसवो ह्यस्या [ख्: न्यस्य] ललाटे च युगाधिपाः ।
शृङ्गे द्वादशराशिस्थाः स्वे स्वे रूद्रार्कचक्रिणः ।। ४५ ।।
आपो धरो ध्रुवञ्चेति सोमश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च एतेऽष्टौ वसवः स्मृताः ।। ४६ ।।
कृते श्रीकण्ठनामेशौ द्वापरे शङ्करः प्रभुः ।
त्रैतायुगे त्वनत्ताख्यः कलौ स्वामी सदाशिवः ।। ४७ ।।
इन्द्रान्तकजलेन्दूर्नां दिक्षु स्वासु निवेशयेत् ।
मीनादीनां च राशीनां त्रितयं त्रितयं क्रमात् ।। ४८ ।।
प्. १७४) स्थाणुं शिवं पशोर्नाथमुग्रं शर्व त्रिलोचनम् ।
ईश्वराव्यं च रुद्रं शङ्करं शम्भुज्ञकम् ।। ४९ ।।
महेश्वरं महादेवं मीनादित्रितये [ख्: त्रितयं] क्रमात् ।
विष्ण्वर्कयोः प्रथिष्ठाने विष्ण्विन्द्रदीन्प्रकल्पयेत् ।। ५० ।।
विश्वायनमहा मूर्तिर्विकाशाख्यमहाबलाः ।
पूर्वादितोरणा ध्यक्षश्चत्वारोमीऽप्रकीर्तिताः ।। ५१ ।।
जातबीजसरावैश्च वर्धमानैः ससर्षपैः ।
बहिरेवमलङ्कृत्य ततश्चाभ्यन्तरे पुनः ।। ५२ ।।
अष्टौ घटकपाटाश्च द्वारस्थाः पल्लवान्विताः ।
सुरत्नौ [मू, अ, ख्: सरत्नौ] षघिगर्भाश्च संपूर्णा गन्धवारिणाः ।। ५३ ।।
चन्दनैश्चर्चिता, स्थाप्याः कण्ठे वस्त्रैर्विभूषिताः ।
दीपाक्षतफलैर्युक्ता द्वाः पालाष्टकमन्त्रिताः [ख्: ष्टसमन्विताः] ।। ५४ ।।
शान्तशिशिरपर्जन्या विशोकाप्यायकामृताः ।
रूद्रोवीर [क्: वीत] इति ज्ञेया अष्टौ कलशदेवताः ।। ५५ ।।
कुमुदः कुमुदाक्षश्च [मू, अ, क्, ग्, घ्: रव्यश्च] पुण्डरीकोऽथ वामनः ।
पञ्चमः शङ्कु[क्, ग्: शम्भु]कर्णाख्यः सर्वनेत्रस्तथापरः ।। ५६ ।।
सुमुखाह्न [क्, ग्: सुमुखाङ्कः] प्रसिद्धश्च तथा वै सुप्रतिष्ठितः [मू: वैद्यप्रतिष्ठितः] ।
एकैकभूतकोटीभिरावृता ध्वजदेवताः ।। ५७ ।।
प्. १७५) नन्दीशश्च महाकालो दक्षो भृङ्गी चतुर्मुखः [घ्: च दुर्मुखः] ।
दारः सितासितश्चेति विज्ञेया द्वारपालकाः ।। ५८ ।।
मण्डपस्य बहिश्चूतमालापरिवृतं मतम् ।
रम्भाष्टकसमायुक्त क्षेत्रपालाष्टकन्वितम् ।। ५९ ।।
हेतुकस्त्रिपुरघ्नश्च अग्न्याख्यश्चाग्निजिह्वकः ।
कालः करालिकैकाङ्घ्रिर्भीमोऽष्टौ क्षेत्रपालकाः ।। ६० ।।
किरातादिकथाचित्रैश्छन्नकाष्टपटैः कटैः ।
बद्धद्वारत्रये तस्मिन् बाहयेत्पश्चिमाननम् ।। ६१ ।।
अन्त्यजश्चपचादींश्च तथान्याश्रमदीक्षितान् ।
प्रवेशयेन्न [मू: त्तु] तत्रैव कुर्याद्यागस्य रक्षणम् [ख्: मण्डपम्] ।। ६२ ।।
लक्ष्य[मू, अ, क्, ग्, घ्, ङ्: लक्ष्म]स्नानादिकार्यार्थ विमलं मण्डपोत्तरे ।
प्रासादस्य प्रमामेन सपीठं द्विच्छदान्वितम् [क्: द्विकरान्वितम्] ।। ६३ ।।
प्रासादोत्तरतोर्रौद्यां दिशि वा चारुरूपिणम् ।
चतुश्छदं चतुष्कोणं वीरं विमलमानतः ।। ६४ ।।
स्नानाख्यमण्डपं रम्यं स्नानोपस्कर भूषितम् ।
कोणे ध्वजवितानाड्यं कदलीचूतमण्डितम् ।। ६५ ।।
एकतोरणमेकास्यं तन्मध्ये वेदिकां शुभाम् ।
मण्डपार्धप्रताणेन चतुर्यांशसमुच्छ्रिताम् [ख्, घ्: स्वचतुर्थांशमुच्छ्रितम्] ।। ६६ ।।
प्. १७६) ऐष्टिकीं बालुकायुक्तां सौम्यनालां द्विमेखलाम् ।
कुर्वीत वाथ सामान्यं मण्डपे वेदिकाद्वयम् ।। ६७ ।।
एकस्यां लक्षणोद्धारमन्यस्यां मज्जनक्रिया [घ्: मार्जनक्रियाम्] ।
कुर्यात्तन्तध्यतः पीठं भद्राख्यं क्षीरवृक्षजम् ।। ६८ ।।
षोडशाङ्गुसभुच्छ्रायं द्विगुणं विस्तृतं दृढम् ।
विस्तारद्विगुणं दैर्घ्यं कन्यसानां सदैव तु ।। ६९ ।।
चतुरङ्गुलवृद्धिः स्यादन्येषां तु क्रमात्क्रमात् [क्: क्रमो मतात्] ।
पीठमानमिति प्रोक्तं कुटीमानमतो ब्रुवे ।। ७० ।।
मण्डपार्धापरे भागो प्रागास्योपस्कराय च ।
प्रच्छन्ना द्विच्छदा कार्या कुटिका परिरक्षिता ।। ७१ ।।
इति लक्षणसमुच्चये मण्डपविधानं नामैकादशो विधिः ।। ११ ।।
राष्ट्रियाभिलेखालयस्थहस्तलिखितपुस्तकानाम
अन्यतमः
वैरोचनीयः
प्रतिष्ठालक्षणसारसमुच्चयः
तस्यायम्
द्वादशाध्यायतो द्वात्रिंशाध्यायपर्यन्तः
द्वितीयो भागः
पण्डितबुद्धिसागरशर्मणोऽध्यक्षतायां
वेदाचार्यपं. दामोदरशर्मणा संपादितः
वेदान्तशास्त्रियपं. बाबुकृष्णशर्मणा
संशोधितः
राष्ट्रियाभिलेखालयतः प्राकशितः
प्रथमसंस्करणम्
अथ द्वादशः
मुष्टिमानं शतार्धे च शते वारत्निमात्रकम् ।
सहस्रे त्वथ होतव्ये कुर्यात्कुण्डं करात्मकम् ।। १ ।।
द्विहस्तमयुते तच्च लक्षहोमे चतुष्करम् ।
अष्टहस्तात्मकं कुण्डं कोटिहोमेषु [मू: क्वचिद्धोमेषु] नाधिकम् ।।
२ ।।
पीठवद्वर्तयेत्कुण्डं स्वप्रमाणात्मगर्तकम् ।
सोष्ठं समेखलं तच्च यथा [ख्: तथा] योनिविभूषितम् ।। ३ ।।
क्षेत्रार्कांशेन तस्योष्ठं स्यात्तद्वेदर्तु भागतः ।
मेखलापृथुतोच्छ्राया कुण्डाकारा तु मेखला ।। ४ ।।
कुण्डत्र्यंशप्रविस्तारा योनिरुच्छ्रायतस्तथा ।
कुण्डार्धेन तु दीर्घा स्यात्कण्ठोष्ठौ [मू, अ, घ्: कण्ठोष्ठी]
बोधिपत्रवत् ।। ५ ।।
मुष्ट्यादिकरपर्यन्तं कुण्डानां योनिमेखले ।
प्रोक्ते चाथ ततोऽन्येषां वृद्धिर्द्व्यङ्गुलिकाक्रमात् ।। ६ ।।
सर्वेषां तु प्रकर्तव्या मेखलैका च लाघवात् [ख्: मेघवत्] ।
अथ त्रिमेखलाः कार्या युगानलयवाङ्गुलाः [क्, ख्, घ्: पराङ्गुलाः] ।।
७ ।।
उपर्युपरिविस्तारा द्यवङ्गुलै [क्: त्र्यङ्गुलै] काङ्गुलोन्नताः ।
षड्बाणम्बुत्रिप [क्, ग्: द्वित्रि] क्षैस्तु विस्तारादङ्गुलैः क्रमात् ।। ८ ।।
प्. २) द्विरामार्ण (ब्धी) षुषड्भिश्च बाहुल्यात्पञ्चमेखलाः ।
हस्तमात्रे विधिः शेषे द्यवङ्गुलाङ्गुलवर्धनात् ।। ९ ।।
मध्यसूत्राच्च संभ्राम्य वृत्तं द्यङ्गुलके द्विधा ।
पुरो वेदाङ्गुलं तत्र पक्षसूत्रद्वयं पुनः ।। १० ।।
ओष्ठश्चाङ्गुलतो नाभिः कण्ठश्चोष्ठसमः क्वचित् [मू: समोन्नतिः]
।
अव्यक्तस्थापने कुण्डं वृत्तं सर्वासु दिक्षु च ।। ११ ।।
भुक्तौ मुक्तौ तथा पुष्टौ जीर्णोद्धारे विशेषतः [मू: तथैव च] ।
सदा होमे तथा शान्तौ ऐद्र [मू: एवं; क्: एकं] वारुणदिग्गतम् [ख्:
लक्षणदिग्भवम्] ।। १२ ।।
व्यक्तप्ररोपणे त्वैन्द्रं दिक्ष्वष्टासु युगास्रकम् ।
एवं स्वदिक्षु दीक्षायां भुक्तिमुत्त्यर्थसाधने ।। १३ ।।
व्यक्ताव्यक्तप्रतिष्ठायां वृत्तं वेदास्रकुण्डकम् ।
दिग्विदिक्षु प्रयोक्तव्ये भोगमोक्षफलाप्तये ।। १४ ।।
शत्रुदाहकरं कुण्डमाग्नेययां बोधिपत्रवत् ।
शान्तौ द्वेषे [क्: शान्तोद्वेगे] क्वचिद्याम्यां खण्डचन्द्रोपमं
मतम् ।। १५ ।।
क्षयाय राक्षसं त्र्यस्रं षडस्रं वायवं गतौ ।
पद्माभं पुष्टिकृद्याक्ष्यं क्वचिदप्यर्थसाधने [क्, ख्, ग्, घ्:
नाशने] ।। १६ ।।
अष्टास्रं भयकृद्रौद्रं ज्ञानमुक्तिप्रदं क्वचित् ।
एवं यथेच्छया कुर्यात्कुण्डानष्टौ स्ववित्ततः ।। १७ ।।
प्. ३) ऐशानादि[ख्: ऐशानाच्च; घ्: शेषानादि]चतुर्दिक्षु पञ्चकुण्डानि
वक्त्रतः ।
त्रोणि पूर्वापरेशाने कुण्डकं वायुदिक्स्थितम् [घ्: स्वदिक्स्थितम्] ।। १८ ।।
वेदिकातः परित्यज्य त्रिंशदङ्गुलमन्तरम् ।
मध्यमज्येष्ठयोरेतत्सप्तसप्ताङ्गुलाधिकम् ।। १९ ।।
पालाशीं परिधिं दिक्षु न्यसेत्प्रागुत्तरास्रिकाम् ।
विष्टरान् कुण्डपार्श्वे तु षट्त्रिशद्दर्भजांस्तथा ।। २० ।।
वृत्तान्वेणीनिभा[क्, ग्: करीनिभान्]न्वापि स्रुग्वृद्ध्यै पञ्चमेषगम्
[घ्: मेखलान्] ।
षोडशाङ्गुलदैर्ध्यं तु षडेकनवदर्भजम् ।। २१ ।।
यज्ञदारूद्भवो वह्निः सूर्यकान्तमणेस्तु यः ।
द्वावेतौ भुक्तिमुक्त्यर्थौ विप्रादिगृहतोऽथवा ।। २२ ।।
उत्कृत्य कुट्टनं कुर्याद्वज्ररेखां तथासनम् ।
वागीश्वर्यार्चनं कुर्याद्वीजप्रक्षेपणादिकम् ।। २३ ।।
संहितोक्ताग्निसंस्कारो [मू: ह्यग्निसंस्कारैः]गर्भाधानादिकं च
यत् ।
प्रोक्षणार्चनहोमश्च घृतशुद्ध्यादिपूर्ववत् ।। २४ ।।
प्रणीतं च हृदा पूज्यं[मू: पृष्ठ]गन्धपुष्पादिभिः क्रमात् ।
देवीं विसर्ज्य दिक्ष्वास्यान्विदिक्ष्वङ्गानि होमयेत् ।। २५ ।।
स्वाहाकारं तु होमे तु पूर्णायां वौषडेव हि [मू: तु] ।
सुवौषट् शान्तिके कुर्याद्वषडाप्यायने हितम् ।। २६ ।।
प्. ४) स्वधा पितृक्रियायां तु फट्कारं क्षयकर्मणि [ग्: जयकर्मणि] ।
विद्वेषे हू/ वशे ह्री/ [घ्: ही/] च जपार्चायां[ख्: र्चादौ]नमस्तथा ।।
२७ ।।
तेषां नामादिगा वर्णा मात्रा द्वादशभेदिताः ।
मात्राभिर्भेदितो[मू: श्छेदितो]ह्येको वर्णो द्वादशधा स्थितः ।। २८ ।।
ब्रह्मणां वाचका ह्रस्वा दीर्घाः स्युरङ्गवाचकाः ।
सानुस्वरो भवेन्नेत्रमस्त्रं[ख्: मन्त्रं]विसर्गभेदितम् ।। २९ ।।
बिन्दुना भेदिताः सर्वे दीपकेन समन्विताः ।
अन्ते[ख्: अन्य]जातिसमायुक्ताः प्रयोक्तव्याश्च मन्त्रिणा ।। ३० ।।
एवं ज्ञात्वा क्रियां कुर्याद्वर्णरूपं तदात्मकम् ।
घृतं तिलान् यवान् क्षीरं व्रीहीन् भक्ष्याणि दध्यपि ।। ३१ ।।
समिधः पायसं पुष्पं कन्दं मूलं फलं मधु ।
सक्तुपिष्याकतक्रान्नं जुहुयान्नित्यकर्मणि ।। ३२ ।।
घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा ।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य तु [घ्: च] ।।
भक्ष्याणामक्षमात्रा स्याल्लाजानां मुष्टिसंमितम् ।
मालूरं रोगनाशाय लक्ष्म्यर्थं च कुशेशयम् ।। ३४ ।।
खण्डत्रयं च मूलानां फलानां स्वप्रमाणतः ।
पंचफलानि[मू: पलानि]सूक्ष्माणि अन्नानां ग्रासखण्डतः ।। ३५ ।।
प्. ५) प्रादेशाः समिधः सर्वाः समच्छेदास्त्वगन्विताः ।
अग्रन्थ्यस्फुटितावक्राः प्लक्षवृक्षसमुद्भवाः ।। ३६ ।।
श्रीवृक्षः खदिरः पर्णी पलाशशम्युदुम्बराः ।
वैकङ्कतो ह्यपामार्गः पिप्पलः शान्तिपुष्टिदः ।। ३७ ।।
आकृष्टौ खदिरः शस्तः सौभाग्ये मदनाह्वयः [ख्: दमनाह्वयः] ।
अनिष्टे जन्तुरोमाणि द्वेषे श्लेष्मान्तशिग्रुकौ ।। ३८ ।।
प्रोच्चाटने यकारौ [घ्: पकारौ]च सविसर्गौ च होमयेत् ।
तद्धूल्या काकपक्षं च निधने निम्बशोणितम् ।। ३९ ।।
अर्कः पलाशगायत्रीमार्गाश्वत्थमुदुम्बराः ।
शमी दूर्वा कुशा हव्या अर्कादिग्रहशान्तये ।। ४० ।।
अग्नेः शुभाशुभं विद्याद्वर्णगन्धस्वभावतः ।
पद्मरागेन्द्रनीलार्कशुद्धस्फटिकहेमवत् ।। ४१ ।।
शुभो हरितपाण्डुस्तु वर्जनीयोऽशुभोऽनलः [घ्: नलो शुभः] ।
स्निग्धः प्रदक्षिणावर्तः (शीखी सन्तर्पितः [मू: संपिण्डितः]
शुभः ।। ४२ ।।
मध्वाज्यक्षीरबिल्वार्कपुरग्न्धश्च शोभनः ।
निर्गन्धः पाण्डरो रूक्षःकृष्णाङ्गारनिभश्च यः ।। ४३ ।।
तथोन्मार्गप्रवृत्तश्च [घ्: तस्थो-] सधूमो वानलोऽशुभः ।
एवं ज्ञात्वाप्रकर्तव्यो [घ्: यागे-] होमस्तेनाथवा न वा ।। ४४ ।।
अग्निकार्यविधिः प्रोक्तः सर्वकामार्थसाधकः ।
प्. ६) अधिवासनदीक्षायामभिषेके तथैव च ।। ४५ ।।
खादिरं तु स्रुबं [ख्, घ्: स्रुक्स्रुर्व] कुर्यात्स्थूलं चाङ्गुलमानतः
।
गोपुच्छसदृशं चारु हस्तदघ्नाव्रणं दृढम् ।। ४६ ।।
अग्रे तु त्र्यङ्गुलं वृत्तं कर्षाज्यपूर्णपुष्करम् ।
तत्खातं त्र्यङ्गुलं [क्: द्व्यङ्गुलं] मध्ये सेतुर्द्वियवविस्तरः ।। ४७ ।।
चन्दनद्वयकाश्मीरीदारूदुम्बरबोधिजाः ।
आम्रीवैकङ्कती बैजी स्रुक्पालाश्यथ शैंशपी ।। ४८ ।।
षड्त्रिंशदङ्गुला दैर्घ्यात् [मू, अ, क्, ख्, ग्: दीर्घा] तद्दण्डो
र्विशदङ्गुलः ।
षडङ्गुलपरीणाहो वेद्यष्टोन्नतिविस्तरा [क्, ग्: द्वेद्व्यष्टो-] ।। ४९ ।।
तन्मध्ये त्र्यङ्गुलं खातं वृत्तं वेदास्रमेव वा ।
मेखलाब्जाष्टपत्राढ्यं सर्पिः [क्: सन्धिः] कुडवसम्मितम् ।। ५० ।।
चतुरङ्गुलकं पश्चात्संस्थाप्य द्व्यङ्गुलं हरेत् ।
वेद्यग्रकोणयोः [घ्: वेदग्रहणयोः] कण्ठस्त्वङ्गुलैकं ततस्तयोः ।।
५१ ।।
वेदिकातुल्यकं मूले दैर्ध्यात्सप्ताङ्गुलाननम् ।
द्व्यङ्गुलाग्रप्रमाणं च गजोष्ठसदृशं भवेत् ।। ५२ ।।
वेद्यास्यमध्यगं[घ्: वेद्या मध्यमगं]रन्ध्रं पुष्करास्यं
नयेत्समम् ।
कनिष्ठाङ्गुलिवत्स्थूलं सर्पिनिर्गमनाय च ।। ५३ ।।
युगाङ्गुलो घटःकार्यो [क्: लोद्यतः-] दण्डमूलसुशोभनः ।
प्. ७) अङ्गुलैश्च चतुर्भिश्च दण्डाग्रे चोपवेदिका ।। ५४ ।।
द्वयमेव सुनिष्पन्नं प्रक्षाल्योष्णाम्बुना ततः ।
तौ सन्ताप्य कुशैः स्पृष्दवा मूलमध्याग्रतः क्रमात् ।। ५५ ।।
हृदयेन समभ्यर्च्य गन्धपुष्पादिभिस्ततः ।
समुन्नततनुर्दद्यात्पूर्णां वै [क्, ग्: पूर्णायां] नाभिगे घटे ।। ५६
।।
एकैकतत्त्वहोमान्ते कार्या पूर्णावसानके ।
तस्मिन्काले प्रदानं च गुरवे देयमादरात् ।। ५७ ।।
इति लक्षणसमुच्चये कुण्डस्रुक्स्रुवलक्षणं नाम [वर्तनाविधिः वि०
पु०] द्वादशो विधिः ।। २ ।।
अथ त्रयोदशः
यजमानानुकूलेऽह्नि सम्भारे सकले कृते ।
पूर्णकुम्भादिमाङ्गल्ये निमित्ते पूर्वचोचिते [चोदिते भू] ।। १ ।।
वन्दिनो गायका [गायनाः लि० पु० पा०] विप्राः शङ्खवादित्रवादकाः
।
मङ्गलार्थं प्रयोक्तव्याः शोभार्थं च तथा स्त्रियः ।। २ ।।
विभवे [मू: विस्तरे] सति शैवाख्या ब्राह्मणास्तु प्रकीर्तिताः ।
न चायं नियमो ह्यत्र ब्राह्मणानां परिग्रहे ।। ३ ।।
न वेदोच्चारमात्रेण किञ्चिदत्र प्रसाध्यते ।
उत्सवे मङ्गलार्थे तु सम्यग्वेदस्वनः स्मृतः ।। ४ ।।
ज्योतिर्ज्ञानं प्रधानं स्यात्प्रतिष्ठायाः शिवागमे ।
सर्वारम्भेषु तत्पूज्यं न वेदस्तत्र कारणम् ।। ५ ।।
शूद्रो वाप्यथ वैश्यो वा ब्राह्मणो वाथ क्षत्रियः ।
ज्योतिर्ज्ञानार्थतत्त्वज्ञो दैवज्ञो जायते यतः ।। ६ ।।
न जातिः पूज्यते ह्यत्र शैवज्ञाने यथा गुरुः ।
ज्ञानं संपूज्यते नित्यं न जातिस्तत्र कारणम् ।। ७ ।।
स्वशास्त्रलक्षणोपेतं ज्योतिर्ज्ञानविशारदम् ।
निपुणं सुप्रणीतं च प्रत्ययानेकदर्शकम् ।। ८ ।।
हिताहितोपदेशज्ञमेकचित्तं जितेन्द्रियम् ।
प्. ९) स्रऽवस्त्रगन्धधूपाद्यैर्दैवज्ञं संप्रपूजयेत् ।। ९ ।।
ततः संपूजितो विद्वान्दैवज्ञो लग्नतत्परः ।
घटिकाशङ्कुयोगेन प्रतिष्ठालग्नमादिशेत् ।। १० ।।
शिवज्ञानात्परं ज्ञानं न भूतं न भविष्यति ।
सर्वोपायान्वितं पुण्यं धर्मकामार्थमोक्षदम् ।। ११ ।।
यन्नसाध्यं शिवज्ञाने तद्वेदेषु नसिद्ध्यति [मू: न तद्वेदेषु] ।
यन्नसाध्यं तु वेदेंषु तत्सुसाध्यं शिवागमे ।। १२ ।।
यन्नदृष्टं शिवज्ञाने न तद्वेदेषु दृष्यते ।
लोकोपचारमात्रं स्यादुत्सवोविभवे [मू: -दुत्सवे] सति ।
नचैतत्कारणं [घ्: चैतैः-] वेदैः प्रतिष्ठायाः शिवागमे ।। १३ ।।
अज्ञानिनां प्रवोधाय श्रेयोऽर्थं[मू: ज्ञेयोज्थ/]मङ्गलाय च ।
देव्यामतात्समाकृष्य लिखितं लेशतो मया ।। १४ ।।
मृदाधैर्गोमयेनाथ भस्मनास्त्राम्बुभिः क्रमात् ।
शोधयित्वा ततो लिङ्गं रथे त्वारोप्य यत्नतः ।। १५ ।।
लक्षधारालयं [क्, घ्: लक्ष्म-] रम्यं नयेल्लिङ्गं शनैः शनैः ।
आकर्षयेच्च नागाश्वैर्महिषैर्वा बृषै रथम् ।। १६ ।।
अनिष्टोरथभङ्गादो [मू: अनिष्टे-] हब्यं घोरशतं [मू: -गतं]
शुभम् ।
अवतार्यागतं लिङ्गं स्यन्दनस्थं प्रयत्नतः ।। १७ ।।
प्. १०) शेषे स्थानस्थिते देवे शङ्खवादित्र निस्वनैः ।
अष्टाङ्गसंस्कृतं चार्घं दत्त्वा लिङ्गं प्रवेशयेत् ।। १८ ।।
रक्षोघ्नं तिलदर्भाम्बुदध्यक्षतपयोयवैः ।
हेमपात्रादिगैरेतैरर्घं दद्या दथाष्टभिः ।। १९ ।।
कर्ता दद्यात्ततस्त्वर्घमाचार्यादिभ्य एव तु ।
पादशौचं तत कृत्वा पादुके स्थापयेत्पुनः ।। २० ।।
दद्यात्स चतुरं पीठं तत्रस्थं शिववङ्गुरुम् ।
कुङ्कुमागुरुकर्पूरैर्लिम्पेत समचन्दनैः ।। २१ ।।
सुस्रग्दामसुधूपं च चारुवस्त्रद्वयं सितम् ।
मुकुटं कुण्डलं चैव हारकेयूरकङ्कणौ ।। २२ ।।
सरत्नां मुद्रिकां दद्याद्रत्नाढ्यं कटिसूत्रकम् ।
संपूज्य गुरुवे दद्यात्पञ्चधेनूश्च [क्, ख्: -धुनूः स्व] वित्ततः ।। २३
।।
यतीनामध्वरे दर्भेःस्रग्दाम्ना वा विभूषयेत् ।
गृहस्थानां विधौ सम्यग्वित्तशाठ्यं न कारयेत् ।। २४ ।।
अपि मूर्तिधरान्पश्चाघनेग्दोवस्त्रभूषणैः ।
प्रधानशिल्पिनं तद्वग्दन्धपुष्पैस्तथेतरान् ।। २५ ।।
सकर्पूरं च ताम्बूलं दत्वा विज्ञापयेग्दु [मू, घ्:
दद्याद्विज्ञापमे] रुम् ।
भवत्पादप्रसादान्मे कृत्स्नं यागफलं भवेत् ।। २६ ।।
धर्मवृद्धिर्ध्रुवा लोके आचन्द्रार्कवसुन्धरम् ।
पादलग्नो वदेत्कर्ता कुरु [घ्: कुयुः] (र्वे) कर्मत्वदाज्ञया ।। २७ ।।
प्. ११) पुनराचम्य मन्त्रज्ञो [घ्: मन्त्रेण] वस्त्रपूतेन वारिणा ।
प्रक्षाल्य पाणिपादं च त्रिः पिबेदम्बु वीत्रितम् ।। २८ ।।
संवृत्याङ्गुष्ठामूलेन [ङ्: संभृत्या] त्रिः प्रमृज्या [घ्: द्विः
प्रसृज्य] त्ततो मुखम् ।
संहिताभिस्त्रिभिः पूर्वमास्यमेवमुपस्पृशेत् ।। २९ ।।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ।
अङ्गूष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे पुनः पुनः ।। ३० ।।
कनिष्ठाङ्गुष्ठाभ्यां नाभिं हृदयं तु तलेन वै ।
सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ।। ३१ ।।
प्रागस्त्रेण त्रितालेन पुष्पं प्रक्षेपयेद् गुरुः ।
यागालयं प्रविश्याथ खड्गबीजैः सुरेचितैः ।। ३२ ।।
दिक्शुद्धिं विदधीताशु ततो मुञ्चन्ति गुह्यकाः ।
भूतशुद्धिं ततः कुर्यान्मूर्त्यादिसकलीकृतम् ।। ३३ ।।
न्यासान्ते करणेज्याश्चयथोक्तं [क्, ख्, ग्: करणाज्ञाश्च-]
संहितान्तरे (?) ।
द्वादशाङ्गुलमुत्सिक्तं सितोष्णीषविधारकः ।। ३४ ।।
भावनाभिर्जटाभिश्च सितभस्मविधूलितः ।
भवेद्यज्ञे सदाचार्यः श्रीकण्ठरूपधारकः ।। ३५ ।।
शिवमन्त्रात्मको व्यापी शिवश्चाहं स्वयं प्रभुः ।
इत्येवं निर्विकल्पेन चेतसा चिन्तयेत्सदा ।। ३६ ।।
शिवसंस्थापने ह्येवं भैरवे भैरवात्मकम् ।
प्. १२) यद्यद्रूपो भवेद्देवस्तत्तद्रूपस्तुदैशिकः [क्, ग्: -रूपोऽस्तु-] ।। ३७
।।
आत्मस्थं पूजयेदीशं पश्चादर्घेषु मन्त्रवित् ।
तेनार्धवारिणा प्रोक्ष्य सर्वं पुष्पफलादिकम् ।। ३८ ।।
अस्त्रेण विकिरेब्द्रीहीन्स्थल्यादि [ञ्छल्यादि लि० पु० पा०] विध्नशान्तये ।
वर्मणा सङ्गहेत्पश्चाच्चामरैर्वाथ पिच्छकैः [घ्: पिञ्जकैः] ।। ३९ ।।
शिवकुंभं ततो न्यस्य शिवमन्त्राङ्ग [मू: मन्त्राङ्क] संयुतम् ।
गन्धाम्बुफलरत्नाढ्यमोषधीवस्त्रसंयुतम् [घ्: मण्डितम्] ।। ४० ।।
चूतपत्राक्षतास्यं च गन्धमाल्यादिपूजितम् ।
ऐश्यां दिश्यस्त्रसंयुक्तं स्थापयेदम्बरोपरि ।। ४१ ।।
धारां दद्यादविच्छिन्नामीशादीशान्तवेष्टनाम् ।
विन्यस्य [घ्: न्यस्त्वा] कलशांस्तत्र तांश्च दक्षिणतोऽर्चयेत् ।। ४२ ।।
सुवर्णरूप्यताम्रोत्थैर्मृन्मयैर्वा नृपक्रमात् ।
शिवादिकलशाः कार्या द्वरस्थाः [घ्: द्वास्थार्चा] स्नापयेत्तथा ।। ४३
।।
तानि न्यसेत्करीराणि पूर्वोक्तानि च सांप्रतम् ।
वितानं मञ्चमांशेन [घ्: मास्येन] प्रागुक्तैर्ध्वजतोरणान् ।। ४४ ।।
एवं कृत्वा तु संरक्ष्य लिङ्गस्थानं ततो[क्, ग्: लिङ्गं
स्थण्डिलतो]व्रजेत् ।
तत्र [मू: ततः] पूर्वं क्षिपेत्पुष्पं खड्गेन तत्र [मू: तत्त्व]
संस्थितम् ।। ४५ ।।
प्. १३) अस्त्रेण विकिरं कुर्यात्तोरणं [क्, ख्: सुवर्ण] पश्चिमाननैः ।
इन्द्रेन्द्विशाग्रदर्भाश्व स्तृणीयादक्षतां शुचीन् ।। ४६ ।।
सद्योजातेन मन्त्रेण दद्यात्पट्टं सतूलिकम् ।
अर्घं दत्वा तु वक्त्रेण धूपं वै मध्यगेन तु ।। ४७ ।।
हृदा प्रोत्थापयेद्देवं गुह्येन स्थापयेच्छिवम् ।
अव्यक्तादीनि लिङ्गानि प्रागिन्द्वीशशिरांसि च ।। ४८ ।।
क्रमशः श्वापये [मू: शाययेत्; ख्: साधयेत्] त्तानि तूलिकायां सदा
गुरूः ।
मन्त्रन्यासं तु तत्कुर्यात्सामान्यं [ख्: व्रतं कुर्यात्] सर्वतन्त्रगम् ।।
४९ ।।
ओं नमो भगवते रुद्राय हिरण्यनेत्राय [घ्: रेतसे] महात्मने शिवाय ।
शिवरूपाय हा/ हौ/ [मू: हा/ हा/] नमो नमश्चेति मन्त्रयेत् ।
हिरण्यरेतोमन्त्रस्थितये [ख्, घ्: मन्त्रत्रितय] लिङ्गानाम् ।
सहस्रांके शतांके [घ्: सहस्राह्वं शताख्ये] च रेखा
उत्कीरयेत्ततः ।
मणिरेखां क्रमाद्यस्य यस्य [मू: तस्य] तां तां वदाम्यहम् ।। ५०
।।
एकाधिकनवत्यंशमूर्ध्वतिर्यक् खगांशकैः ।
त्यक्त्वैकं स्यात्सहस्रांशं [घ्: सहस्रास्रं] लिङ्गं
विषमसूत्रकैः ।। ५१ ।।
वृत्ते पञ्चाशदंशस्तु तिर्यग्द्वाविंशतिः क्वचित् ।
ऊर्ध्वाधोंशपरित्यागात्पुनर्वृत्तिं द्विधांशतः ।। ५२ ।।
प्. १४) मूर्ध्नि संवर्तयेत्तेषु सूत्राभ्यां छत्ररेखया ।
अन्तर्लुप्त्वा सहस्राणि भवत्यन्तरितैः सदा ।। ५३ ।।
उमेन्दुपिण्डिका नित्यं लिङ्गमीशा दिवाकरः ।
सहस्राशावृतो [घ्: सहस्रास्र युतो] भानुस्तस्माद्दशशतावृतः ।। ५४ ।।
सौरं सहस्रे चैवं [मू, अ, ग्: साहस्रिकारं; घ्: सैवैकं]
स्याद्व्राह्मं लिङ्गशतावृतम् ।
कपालाद्यैर्युतैर्भिन्ने पुण्यकृत्स महाघहृत् [क्, ग्: सुहृत्] ।। ५५ ।।
पञ्चभागोदयं कृत्वा त्यक्त्वैकं [घ्: ऋक्षैकं] भागमूर्ध्वतः
।
तत्त्वभागोऽर्धवंपाताद्भवेल्लिङ्गं शताधिकम् ।। ५६ ।।
प्रतिधामसहस्राणि शतानि बास्थिरे [क्: चास्थिरे] तथाः ।
चललिङ्घं गृहेऽप्येवं लिङ्गभेदादि वा पुनः [क्, ग्, घ्: पापनुत्] ।। ५७
।।
मदेन्दु [ख्: महेन्दु] कुङ्कुमाक्तैस्तु सूत्रकैर्मानहेतवे ।
रेखामुत्किरयेल्लिङ्गे उत्तमे च यवाष्टकम् ।। ५८ ।।
नवमांशहृदन्येषां कुर्याद्यावत्करान्तिकम् ।
तेष्वन्त्तरेऽन्तरोक्तं वानिष्ट [घ्: त्वरिष्ट] कृद्धस्तहीनके [क्, ख्, ग्:
वस्त्रहीनके] ।। ५९ ।।
रेखान्यासः समाख्यात [घ्: व्यासाः समाख्याताः]
तदर्धादवटं शुभम् ।
समं समतलं तच्च मनोज्ञं लक्षणान्वितम् ।। ६० ।।
प्. १५) एवं तु या भवेद्रेखा तां प्रोत्कीर्य [क्, ख्, घ्: तामुत्कीयं]
सुखावहाम् ।
मध्यसूत्रं समं [मू: सूत्रसमं] कृत्वा ललाटादवतारयेत् ।। ६१ ।।
त्रयंशोऽर्धे वाथवा पादे लक्षणं कण्ठतस्त्वधः ।
ग्रीवास्याग्राल्ललाटा [घ्: स्याघ्रा-] च्च नैवोर्ध्वक्रमणाच्छुभम् ।।
६२ ।।
अलक्ष्यं लक्ष्यकार्याय ज्योतिर्लक्षणकर्म तत् [क्, ख्, ग्: लक्षणकं
मतम्] ।
सर्वालक्षणनाशाय रेखालक्षणमुच्यते ।। ६३ ।।
सूत्राभ्यामन्तरं कुर्याज्येष्ठस्य तु ग्रहाङ्गुलैः ।
अन्येषामङ्गुलैकैकं हृत्वैनं [ख्, घ्: हृत्वैकं] स्थापयेत्क्रमात् ।।
६४ ।।
चेता दीप्ता प्रमोपा च धात्री माया मती शिवा ।
चण्डा लक्ष्मी सुमेधा च मणिरेखा दशोदिताः ।। ६५ ।।
वसुभागीकृते रुद्रे त्यक्त्वांशत्रयमूर्ध्वतः ।
पञ्चांशे लत्रणं [घ्: पञ्चासल्लक्षणं] ज्ञेयं भागैकं तस्य
चान्तरम् [ख्: चोत्तरम्] ।। ६६ ।।
ऊर्ध्वं सूत्रद्वयं त्यक्त्वा प्राङ्मानं पक्षसूत्रयोः ।
तिर्यङ्मध्यस्थितात्सूत्रात्पक्षसूत्रावतारणम् ।। ६७ ।।
भागद्वयान्तिकं यावत्त्यक्त्वाधोभागसङ्गमम् ।
सध्यान्तरार्धकं प्रान्ते त्वन्तरं [ख्: प्रान्तं वर्तुलं] तस्य
कारयेत् ।। ६८ ।।
लिङ्गस्य याद्दशो मूर्धा लक्षणस्यापि तादृशः ।
मामान्यान्तर [ख्: सामान्योत्तर] लिङ्गानां चेता स्यात्प्रथमोदिता ।।
६९ ।।
प्. १६) कार्या चेताथवा दीप्ता रेखा हस्तप्रमाणके ।
त्रिभक्तेंऽशैक [क्, ख्, ग्: ऽस्रैक; घ्: -ऽग्रैक] संत्यक्ते द्व्यंशं
रन्ध्रः षडस्रके [मू, अ, क्, घ्: रन्ध्रैः षडस्रकैः] ।। ७० ।।
रामैर्द्वाभ्यां यवास्याभा पक्षसूत्रं तृतीयके ।
दीप्राख्या लक्ष्य [घ्: लक्ष्म] रेखा च गदिता भोगमोक्षदा ।। ७१ ।।
द्विहस्तके प्रमोदाख्या तिथिभागकृतोदये ।
नवांशोऽर्धपरित्यक्ते षष्ठे भागे त्रिधा कृते ।। ७२ ।।
मध्यसूत्रस्य मध्यं तु भ्रमणादुभयोरपि ।
यवाकारेभनेत्राभा पक्षसूत्रं विना भवेत् ।। ७३ ।।
धात्री त्रिहस्तके लिङ्गे विभक्ते [क्, ख्, घ्: त्रिभक्ते] रुद्रसंज्ञके ।
त्यक्त्त्वाधो द्व्येकभागं तु द्वौ चैवाधोऽष्टधा पुनः ।। ७४ ।।
तदूर्ध्वेकेन मूर्धा स्याद्रुणं त्यक्त्वा गुणान्तिकम् ।
त्यक्त्वैकं भ्रामयेत्सूत्रं यावत्पृष्ठान्तमाश्रिते ।। ७५ ।।
चतुष्करे भवेन्माया विकारहरभाजिते ।
ऊर्ध्वं षट्क [क्: ऊर्ध्वषट्क] परित्यागाद्दिग्भागलक्षणं तथा ।।
७६ ।।
ऊर्ध्वं वेदांशकं [मू: वेदाङ्गकं] त्यक्त्त्वा लघुभूत्रं [क्,
ख्: लम्बसूत्रं] ततो भवेत् ।
अधो भागद्वयं मुक्त्वा सङ्गमः पृष्ठतस्तयोः ।। ७७ ।।
मती [ख्: सती] पञ्चकरे लिङ्गे शिवांशे तिथिभाजिते ।
अग्रे मुनिपरित्यक्ते लक्षणं स्यात्फणिस्थिते ।। ७८ ।।
प्. १७) तत्त्र्यंशे चोर्ध्वतस्त्यक्ते लम्बनं त्र्यंशतो भवेत् ।
त्र्यंशयो [क्, ग्: द्व्यशयोः] स्त्यक्तयोश्चाधः पृष्ठतः सूत्रसङ्गतिः
।। ७९ ।।
एड्ढस्तके शिवा तत्र षोडशांशं भवेद्धरः ।
षडंशादूर्ध्वतस्त्यक्त्त्वा ककुद्भागे च लक्षणम् ।। ८० ।।
त्रिभागात्पञ्चभागान्तं भामयेत्पक्षसूत्रके ।
आघो विहाय [मू: विधाय] भागौ द्वौ मेलकं स्यात्तयोः सदा ।। ८१ ।।
सप्तहस्तात्मके लिङ्गे चण्डाख्या लक्षणं भवेत् ।
पूजाभागे विकारांशे रेखाधः सप्तवर्जिते ।। ८२ ।।
तुर्यांशा [ख्: तुल्यांशा] लम्बनं चाधो द्व्यंशो वाधः परित्यजेत्
।
यस्योत्तरे [क्, ग्: यस्यान्तरे] ऽब्जिकाकारा सङ्गति पृष्ठमध्यतः ।। ८३ ।।
कराष्टदघ्नके लिङ्गे पूर्ववद्भागकल्पिते ।
लक्ष्मीसंज्ञा मता रेखा लम्बनं [क्: लक्षणं] गुणभागतः ।। ८४
।।
एदमेव सुमेधाख्या लक्षणं नवहस्तके ।
द्विभागे लम्बनं [मू, अ, ग्: लक्षणं] तस्य सङ्गस्त्वेकांशवर्जनात्
।। ८५ ।।
न योज्या लम्बरेखार्धे विष्ण्वंशे कस्यचिन्मतम् ।
पक्षसूत्रे परं कार्यं तदधो लम्बनं हरेत् ।। ८६ ।।
क्वचिज्ज्ञानक्रियाशक्ती व्यापिन्यौ सकलाकलौ ।
तस्मात्स्याद्विष्णुसम्पर्कः पक्षसूत्रेऽव [ख्: सूत्रे च] लम्बने ।। ८७ ।।
प्. १८) एतासामिष्यते मूर्धा छत्रशीर्षगजेक्षणम् ।
छत्राभं कुक्कुटाण्डे तु बालेन्द्वाभे यवोपमम् ।। ८८ ।।
दक्षाण्डं त्रपुषाभे तु त्रपुषं चन्द्रमस्तके ।
यशो राज्यं धनं पुत्रं सौभाग्यं जीवितं क्रमात् ।। ८९ ।।
दद्युर्गजेक्षणादीनि षडेतानि शिरांस्यथ ।
एतद्वाणमतं प्रोक्तं लक्षणं सार्वलिङ्गिकम् ।। ९० ।।
क्वचिद्रुद्ररतिर्भङ्क्त्त्वा भान्वंशाल्लक्षणं [घ्: साधांशा]
भवेत् ।
नव वैकैक [मू, अ, ग्: न चैवैकैक]
सन्त्यागादर्धात्पादोर्ध्वलम्बनम् ।। ९१ ।।
अश्वत्थपत्रवद्रूपं वर्तयेग्दुह्यलक्षणम् ।
प्रणालस्यार्धविस्तारात्पीठावटकलेन्दु वा ।। ९२ ।।
द्वे यूके पञ्चलिक्षाश्च रेखयोरन्तरं भवेत् ।
रेखापृथुत्वं साङ्घ्री तु द्वे लिक्षे मूर्धजे तथा ।। ९३ ।।
एकाङ्गुलादिलिङ्गानां लोहजानां क्वचिन्मते ।
वृद्धिरेखा तथा स्थानं मर्मकं चादिवर्जितम् ।। ९४ ।।
स्थानवृद्ध्या भवेत्तेषां लक्षणं पूर्ववद्यथा ।
सूक्ष्माणामपि लिङ्गानां त्रिराशिकृतलक्षणम् ।। ९५ ।।
शुभकृन्मर्मसन्त्यागादन्यथा कृतदोषदम् ।
दिगीशानांतु लिङ्गानां स्वकामफलसाधने ।। ९६ ।।
निजायुधसमाकारां मणिरेखां विलेखयेत् ।
शूलं वज्रं च शक्तिं च तिक्ष्णाग्रं कम्बुकं तथा ।। ९७ ।।
प्. १९) दण्डाब्जासिसुसंज्ञाभं [मू: स्वसंज्ञातं; ग्: स्वय
ज्ञातं] वृत्तं पाशं ध्वजं गदाम् [मू, अ, घ्: तथा] ।
लिङ्घवद्वर्तयेद्रेखां हेमसूच्या त्वनन्तरम् ।। ९८ ।।
उत्तराभिमुखो भूत्वा ज्येष्ठस्यैव त्रिमाषया ।
द्विमाषया ततोऽन्यस्य कन्यसस्यैकमाषया ।। ९९ ।।
उत्कीरयेयुरस्त्रेण शिल्पिजो गुर्वनुज्ञया ।
स्निग्धा समा च गम्भीरा ऋज्वी सर्वार्थदा भवेत् ।। १०० ।।
स्थूला वक्रा कृशा भिन्ना रूक्षायुरर्थनाशनी ।
शस्त्रमामन्त्र्य शस्त्रेण विलिखेद्दक्षिणेन तु ।। १०१ ।।
पूरयेन्मधुसर्पिभ्यां स्वनेत्रेण विचक्षणः ।
अव्यक्तानां स्थिराणां च ब्रह्मरेखाविधिस्त्वयम् [घ्: विधिः स्वयम्]
।। १०२ ।।
ऐशाने [नेशाने लि० पु० पा०] बाणलिङ्गे च रत्नजानां चलात्मके ।
सर्वमेव शिरस्थत्वमीशानस्य हि लक्षणम् ।। १०३ ।।
पूर्वमन्त्रेण [ख्: मण्डल] संसिद्धं बाणलिङ्गस्य लक्षणम् ।
स्वकान्तिमणिरत्नोत्थलक्ष्म वा धातुजे [क्, ख्: लक्ष्मे वा पात्रजे] क्वचित् ।।
१०४ ।।
चलानां च स्थिराणां च व्यक्तानां नेत्रसंस्कृतिः [मू:
मन्त्रसंस्कृति] ।
अङ्गुलाद्येकैकशः [क्, ख्, घ्: द्येककेशः] स्याद्यूका हस्तवृद्धितः ।।
१०५ ।।
रेखापृष्ठार्धगर्तेऽर्चाद्वौ [ग्: गर्तांद्वा] नेत्रोन्मीलनं क्वचित् ।
प्. २०) सौम्याभया प्रदात्री च वीरा हृष्टा प्रबोधिका ।। १०६ ।।
हास्या कारुणिका काम योगस्था दिव्यदृष्टयः ।
क्रूरा क्रुद्धा कराला च भीषणा विकृताद्भुता ।। १०७ ।।
ऊर्ध्वाधोग्रसिनी भीता घोरादीनां तु दृष्टयः ।
नेत्रत्रिभागमध्ये तु तारकाख्यं प्रकीर्तितम् ।। १०८ ।।
तारातृतीयभागेन ज्योतिरासां प्रकल्पयेत् ।
नोर्ध्वं नाधो नतिर्यग्वा न न्युनाधिकविभ्रमा ।। १०९ ।।
न बिन्दुशकला [घ्: कलशाः] रूक्षा दृष्टिस्याच्छुभदायिति ।
सौम्या द्वादश [ख्: ष्टादश] वृद्ध्यर्थं स्निग्धरेखासुदृष्टयः
।। ११० ।।
वृत्ताक्षा राक्षसाद्याश्च तेषां क्रूरादिदृष्टयः ।
लक्षणोद्घरणे दद्याद्घेनुं च गुरवे सदा ।
ज्ञात्वैवं [ख्: कृत्वैवं] विधिना सम्यक् ततस्तान्यधिवासयेत् [क्, ग्, घ्:
स्नानाधिवासनम्] ।। १११ ।।
वसतेरधिपूर्वस्य भावे ल्युट् [घ्: घ्ञ्] प्रत्यये कृते ।
अधिवासन इत्येष [क्, ग्: इत्येवं; घ्: वासधिघोह्येष] प्रयोगः सिद्धिमेति
च ।। ११२ ।।
गूर्वादिसहितो वासो रात्रौ नियमपूर्वकः ।
एतस्यार्थौ [घ्: एतस्यार्थो] निपातानामनेकार्थतया मतः ।। ११३ ।।
अस्त्रेणाभ्यक्षणं कृत्वा तृतीयेनाभिमन्त्रयेत् ।
नरेणार्घं [नवेनार्वं] प्रदद्याच्च पाद्यं चाजातकेन तु ।। ११४ ।।
प्. २१) वासो लिङ्गाय गुह्येन अजातेन विलेपनम् ।
पञ्चमेन स्रजं दद्याद्धूपं वै दक्षिणेन तु ।। ११५ ।।
पुरूकुन्दुरूलोहैश्च सर्जचन्दनवानरैः ।
श्रीवाससरलाभ्यां च खण्डधूपैश्च धूपयेत् ।। ११६ ।।
हृदा देयं पवित्रं तु प्रदीपं मध्यमेन तु ।
नैवेद्यानि तृतीयेन अनुक्तं हृदयेन तु ।। ११७ ।।
छादयेद्वस्त्रयुग्मेन गुह्यमन्त्रेण दैशिकः ।
मूर्ध्नि निद्राघटः स्थाप्यो रुद्रजप्तः सुपूजितः ।। ११८ ।।
कपिला बन्धयेत्पञ्च अरोगाःसुपयस्विनीः ।
चतुर्द्वारेषु चेशाने तत्क्षीरेण चरुं श्रपेत् ।। ११९ ।।
चरुं प्राश्य स्वपेत्तत्र विहिते दन्तधावने ।
गुरूमूर्तिधरैःकर्तासहितः कुशसंस्तरे ।। १२० ।।
सुस्वप्ने सिद्धिरन्यत्र जुहुयान्मध्यगं गुरुः ।
द्वितीयेऽह्नि कृतस्नानः कर्या पत्न्यन्वितो व्रती ।। १२१ ।।
गुरुः समूर्तिपैः स्नातो वस्त्राभरणभूषितः ।
कृतमङ्गलनिर्घोषैर्देवस्नानादिकं चरेत् ।। १२२ ।।
इति लक्षणसमुच्चये लक्षणोद्धारविधिकथनं नाम त्रयोदशो विधिः
।। १३ ।।
अथ चतुर्दशः
शिवः सर्वगतः सूक्ष्मः स्वयमुत्कर्षतेऽखिलम् ।
स्फुटमाचार्यरूपेण मन्त्रशत्त्या [ग्: मन्त्रेण स] चराचरम् ।। १ ।।
सर्वेषामपि वर्णनामवतीर्णः कलेश्वरात् [क्, ग्: वरात्] ।
अनुग्रहाय लोकानां गुरुत्वं स्याच्छिवेच्छया ।। २ ।।
अयुतैर्द्विजवेदशैः समयी तत्समो भवेत् [ख्: माचरेत्] ।
तदयुतैञ्च पुत्राह्व [ख्: पत्राङ्क] स्तैस्तावद्भिञ्च साधकः ।। ३ ।।
दशभिस्तु सहस्रैस्तैराचार्यः शिवशासने ।
तेभ्यो दानार्चनैर्भक्त्या [घ्: भूकत्वा] फलं स्याद्वासुकेर्म [क्, ग्:
वाद्यकर्म; ख्: वास्तुकर्म] तात् ।। ४ ।।
सकलीकरणां कृत्वा देवे [मू: वेदे; क्, ख्: देहे] ह्यर्घादिकं च यत् ।
ततञ्चाभ्युक्षणं लिङ्गे अर्घपूष्पाकिधूपनैः ।। ५ ।।
तैलेनाभ्यङ्गयेल्लिङ्गं दूर्वाकाण्डशतेन च ।
गुह्मेन [ख्: शुद्धेन] स्वयमाचार्यः पञ्चात्कर्ता कुलैः सह [घ्:
कुलेन च] ।। ६ ।।
तत्कालमङ्गलं गीतं गायन्त्यो ऽविधवाः शुभाः ।
दद्यात्तासां गुडं धान्यं पर्यटं [घ्: पर्व्पटं] लवणं
क्वचित् ।। ७ ।।
ततस्त्वविधवा चाष्टौ सर्बलक्षणसंयुताः ।
सव्यापसव्यसूत्रेण संस्पृशेयुः कुशेन वा ।। ८ ।।
प्. २३) स्वपयन्ति [क्, घ्: स्नपयन्ति] पुनस्तास्तु निर्मत्स्यन्ति पुनः पुनः ।
विधिना स्नपनं [ग्: अपयन्ति] पञ्चादाचरेद्दैशिकः स्वयम् ।। ९ ।।
मृत्सागोमयगोमुत्रभस्मदुग्धैर्यथाक्रमम् ।
पञ्चगव्येन दघ्ना वा मधुना पञ्चवल्कलैः ।। १० ।।
अष्टसप्तार्कनागांशैर [ख्: नागाङ्कैः] ग्निसप्तविकारकैः ।
नखाग्नि [ख्: नवाग्नि] पञ्चभिः स्नानं पलाशै [ख्: पलार्धे]
रेकहस्तके ।। ११ ।।
नानाफलैरथाष्टाभिः पुष्पाणां च शतेन च ।
स्नापयेद्गुह्यमन्त्रेण रुद्रैर्वा हृदयेन वा ।। १२ ।।
यवगोधूमजैञ्चूर्णैर्बिल्वचूर्णैस्तथापरैः ।
उद्वर्त्य स्नापयेत्पञ्चात्स्वच्छेन गन्धवारिणा ।। १३ ।।
सर्वौषधिपलेनापि रत्नतोयेन शक्तितः ।
तथा काञ्चनतोयेन गोशृङ्गसलिलेन च ।। १४ ।।
धान्योदकेन चेच्छातस्ततो गन्धोदकेन च ।
सितवस्त्रेण देवेशं परिमृज्य [मू, अ: परित्यज्य] सुगन्धिना ।। १५ ।।
एतल्लिङ्गेऽन्यदर्चासु स्नानं स्याद्भास्करे मते ।
स्वैः स्वैर्मन्त्रैर्हरादीनां मिश्राणमपि सर्वदा ।। १६ ।।
जलेन पञ्चगव्येन पञ्चभिर्मधुरैस्तथा ।
मृत्कषायौषधीभिश्च धाग्र्या तीर्थधुनीजलैः ।। १७ ।।
प्. २४) सागरोदकरत्नाम्बुगन्धपुष्पफलोदकैः ।
महास्नानेन दिक्स्नानैः स्नाप्यं षोडशभिः क्रमात् ।। १८ ।।
अस्त्राद्भिर्धूलिर्सशुद्द्यै प्रथमं स्नापयेच्छिवम् ।
क्षीरं गोस्ताम्रवर्णाया ईशेन भागपञ्चकम् ।। १९ ।।
शुक्लाया दधि च ग्राह्यं चतुर्भागं नरेण च ।
कपिलाया घृतं गोश्च अघोरेणाग्निभागिकम् ।। २० ।।
गोमूत्रं नीलवर्णया गुह्येन द्वयभागकम् ।
कृष्णया गोमयं खस्थमजेन सर्वदा [मू: सम्पदा] शुचि ।। २१ ।।
मध्येन्द्रयमयक्षाम्बुदिक्स्थे ताम्रादिपात्रगे [मू: पात्रतः] ।
शिवेनैकत्त्वमालोड्य पञ्चभिर्वाथ कापिलम् ।। २२ ।।
कुशाम्बुनार्धभागं च सादाख्येनाभिमन्त्रितम् ।
एभिस्तु पंचभिर्युक्तैः स्नानमर्चादिशोधनम् ।। २३ ।।
पयोदधिघृतं क्षौद्रं खण्डैः स्यात्पञ्च माधुरम् ।
ईशानवक्त्रघोराह्वगुह्याजाताख्यमन्त्रितैः [घ्: -कैः] ।। २४ ।।
वल्मीकगिरिगङ्गादितीरजेभह्रदोद्धृताः ।
वृषशृङ्गसमुत्खाताः पवकाश्रयसम्भवाः ।। २५ ।।
नृपद्वाराचतुर्मार्गमृत्साभिश्च विशुद्द्यति ।
अजेन क्षालनात्पृथ्वीक्रमतस्तु कलावता ।। २६ ।।
बकुलोदुम्बराशोकवटबोधित्वचां जलैः ।
कवोष्णैस्तु तृतीयेन स्नानं टङ्कक्षतापहम् ।। २७ ।।
प्. २५) ऋद्धिवृद्धिसहा [महा भू० पा०] सिंहीकन्याच्छिन्ना बहुप्रजा ।
निदिग्धिका बलामूलैः स्नानं गुह्येन दोषहृत् ।। २८ ।।
त्वक्पत्रमुस्तनागाह्वतोयग्रन्थ्यादिभिः [-प्रज्ञादिभिः] सह ।
धात्र्या स्नानान्महीत्यक्ते [घ्: व्यक्ते] सद्योजातेन शुद्ध्यति ।। २९ ।।
सुगन्धिशालिपिष्टेन गायत्र्या मन्त्रितेन च ।
समुद्वर्त्य महादेवं तीर्थोत्थैः स्नापयेज्जलैः ।। ३० ।।
अजागन्धिप्रयागश्च [ख्: प्रयोगाच्च] केदारं भैरवं तथा ।
पुष्करं नैमिषारण्यं तीर्थं च वरूणं तथा ।। ३१ ।।
एतत्तीर्थाम्बुसुस्नानान्नरेण त्वग्वि [ग्: देशत्वयि] शुद्ध्यति ।
जाह्नवी यमुना कौशी सरयू शोणनर्मदा ।। ३२ ।।
कावेरी गण्डकी सिन्धु [मू: चैव] स्त्रिस्रोता चन्द्रभागिका ।
सप्तगोदावरीत्येताः पुण्यनद्यो महाजलैः ।। ३३ ।।
स्नानात्पुनन्ति चर्चानां विश्वेशं [घ्: विष्णवंशं] गुह्यमन्त्रतः
।
क्षारक्षीरदधिस्नेहेक्षुरसोदसुरोदकाः ।। ३४ ।।
स्वादुगर्भोदकाश्चेति ज्ञेयास्त्वष्टौ च सागराः ।
एतेषामम्बुभिः स्नाययं स्पर्शशुद्ध्यै [मू: स्नानात्स्पर्शशुद्धो]
नरेण तु ।। ३५ ।।
पुष्परागं च वैदूर्यं वज्रं चैव समौक्तिकम् ।
स्फाटिकं पद्यरागं च राजावर्तःसुविद्रुमम् ।। ३६ ।।
प्. २६) निलं मरकतं चैव कर्केतनं सुटिट्टिभम् [घ्: टिटिभम्] ।
एतद्रत्नोदकैः स्नानं महाभूतिकरं परम् ।। ३७ ।।
अघोरमन्त्रपूतैस्तु लिङ्गरुपविशोधकम् ।
कर्पूरागुरुकस्तूरीकाश्मरीचन्दनादिकैः ।। ३८ ।।
जातीलवङ्गकर्कोलै श्चतुर्जातसुगन्धिकैः ।
स्नापयेद्गन्धतोयेन अजातेनाभिमन्त्रितम् ।। ३९ ।।
गन्धदोषविनाशाय धरा [ख्: परा] ब्रम्हविशुद्धये ।
पुण्डरीकाब्जमालूरनीलरक्तोत्पलार्कजम् [घ्: -कम्] ।। ४० ।।
मालतीतगराशोकहेमचच्पकमल्लिकाः ।
सहकाराश्वमारं च पुन्नागबकुलानि च ।। ४१ ।।
कर्णिकारोड्रकह्लारं कुन्दं कुमुदयूथिका ।
पाटलाद्रोणनेपाली [क्, ख्: रेमाली] कुशकिंशुकसिंहिकाः ।। ४२ ।।
कदम्बं चातिमुक्तं च कुटजं नागपुष्पकम् ।
मृदुकुन्दाब्जपत्री [क्, ख्: मुचुकुन्दा-] च वृषर्षिबुकपुष्पकम् ।। ४३ ।।
एभिरन्यैः पवित्रैश्च स्नानं शब्दविशुद्धिकृत् ।
बिलाम्रमोचनारङ्ग पनसं नालिकेरकम् ।। ४४ ।।
कक्को (ङ्को) लामलकं द्राक्षा जातीफलपरुपकम् ।
दाडिमोदुम्बरं जम्बू कर्जू/रं [घ्: वेक्षुरं] तालबिम्बकम् [मू:
बिल्वकम्] ।। ४५ ।।
प्. २७) प्राचीनामलकं पीलु कपित्थं बकुलं तथा ।
वदरीबीजपूरं च कव [क्, घ्: कर] मर्दं सतिन्दुकम् ।। ४६ ।।
पूगादिकं यथालाभमीशानाघोरमन्त्रितम् ।
फलस्नानमिदं पुप्यं कर्तुरिच्छाफलप्रदम् ।। ४७ ।।
तोयेक्ष्वाम्ररसैर्वापि ब्रीह्याद्यैः पञ्चभिः सह ।
तिलगोधुमसुग्दादि यवधान्यप्रियङ्गुभिः ।। ४८ ।।
पूर्वोक्तमृत्तिकागन्धं कुसुमौषधिसंयुतम् ।
पञ्चब्रह्मोद्भवैर्मन्त्रैर्महास्नानं शुभप्रदम् ।। ४९ ।।
कदम्बपल्लवास्येन कुम्भेनेन्द्रं नरान्वितम् ।
सशाल्मलेन चाग्नेयं हृन्मन्त्रै स्नानमुत्तमन् ।। ५० ।।
जम्बूपत्रवटा याम्यं स्नानं चाघोरमन्त्रतः ।
साशोकेन तु रक्षोजं शिखमन्त्रान्वितं वरम् ।। ५१ ।।
आप्यं [मू: स्नाप्य] बोधिदलास्येन स्नानं चाजातमन्त्रितम् ।
चूतास्येन तु वायव्यं स्नानं वर्मसमन्वितम् ।। ५२ ।।
सौम्यं वटच्छदास्येन स्नानं वामाभिमन्त्रितम् ।
सभस्मबिल्वपत्रास्यस्नानमैशं शिरोऽन्वितन् ।। ५३ ।।
नागपत्राननस्नानमा [घ्: स्नानं सा] नन्तं नेत्रमण्डितम् ।
ब्रह्मपत्रवता ब्राह्मं सकुशेन समन्वितम् ।। ५४ ।।
भेरीशङ्खरवैस्तूर्यैः काहलाध्वनिभिः कलैः ।
वरस्त्रीमङ्गलोद्गीतैः स्नापयेद्वृषभध्वजम् ।। ५५ ।।
प्. २८) ततो निर्मत्स्य (२) चास्त्रेण हृदा वाच [क्: त्वाच] मयेच्छिवम् ।
अर्घं दत्त्वा तु वक्त्रेण वस्त्रेणाकर्षयेज्जलम् ।। ५६ ।।
यथा शिवे तथैवार्के विष्ण्वादौ च समाचरेत् ।
स्नानादि स्वैस्वकैर्मन्त्रैञ्चतुर्मृत्स्नास्प्विहाधिकाः ।। ५७ ।।
कुशमूलोद्भवक्रोडपद्यगोष्ठमृदस्त्विमाः ।
नाने पूर्वोक्तमृत्स्नाञ्च शस्ता द्वादशविष्णुभिः ।। ५८ ।।
द्वात्रिंशत्षोडशाष्टभिः कृम्भै स्नात्यं नवादिभिः [क्:
नरादिभिः] ।
चलार्चासु प्रयत्नेन स्थावरे द्वीगुणं क्रमात् ।। ५९ ।।
नैवेद्यं तैलपात्रं च स्नानवस्त्रं शलाकिकम् ।
दत्त्वा तु शिल्पिनामर्चाभिमन्त्र्य ततोऽर्चयेत् ।। ६० ।।
एवं पक्वमृदादीनां लिङ्गानां द्रव्यपञ्चकम् ।
चित्रादिलेप्य [क्: -लेख्य] पुस्तानां दर्पणस्नानमिष्यते ।। ६१ ।।
इति लक्षणसमुच्चये त्रिधालिङ्गम्नानं नाम चतुर्दशोविधिः
।। १४ ।।
अथ पञ्चदशः
लोहादिधातु [मू, ग्, घ्: ऋतु] लिङ्गानि प्रत्येकं भौतिकानि तु ।
शब्दात्स्पर्शाच्च रूपाच्च रसाद्गन्धाच्च वै क्रमात् ।। १ ।।
स्वबीजोद्भावनोद्घातैरेकादि क्रमपञ्चकैः ।
विशोध्य खादिभूतानि ततो मूर्तिं तु कारयेत् ।। २ ।।
न्यसेद्वर्णात्मकान्नुद्रान्नव्यक्तादि [ग्: -क्तानि] त्रिरूपके ।
पञ्चब्रह्म ततोऽङ्गानि कलाः सर्वाः शिवस्य च ।। ३ ।।
ततो वस्त्रं च गन्धं च पुष्पं धूपं च दीपकम् ।
नैवेद्यं पूर्ववद्दद्याद्रोचनां मूर्धमन्त्रिताम् ।। ४ ।।
अञ्जनं नैत्रमन्त्रेण दर्पणं पुरुषेण तु ।
छत्रमीशानदेवेन चामरं नरमन्त्रतः [घ्: मन्त्रितम्] ।। ५ ।।
एवमिष्ट्वा महादेवं मण्डपं संप्रविश्य च ।
बालुका विकिरेत्पीठे तृणकेशादिवर्जिताः ।। ६ ।।
अनन्त पूजयेत्पीठे हृदा च ध्यानपूर्वकम् ।
प्रागग्रांस्तृणुयाद्दर्भानजातेनोत्तराग्रकान् ।। ७ ।।
तदूर्ध्वं विन्यसेन्खद्वां हेमरत्नविभूषिताम् ।
धर्मादिचरणाञ्छम्भोश्तथाधर्मादिगात्रकान् ।। ८ ।।
प्. ३०) तच्छादने तु तूल्यब्जं चिन्त्यं [ख्: शिल्प] वामादिकेसरम् ।
विद्येश्वरदलं तत्र मण्डल [ख्: मण्डपं] त्रयकर्णिकम् ।। ९ ।।
इडायां जलसंस्थायामुत्थाप्येशं रथं नयेत् ।
सुनिमित्तैः शुभैर्वाद्यैर्मङ्गलैः स्तुतिवाचकैः ।। १० ।।
वितानचामरच्छत्रैर्विधृतैः शोभनैर्ध्वजैः ।
अग्रे भृङ्गारधाराश्च मुच्छद्भिर्गुरुभिश्तथा ।। ११ ।।
आप्यद्वारप्रवेशश्च यागस्थानं महेश्वरम् ।
तल्पे प्राक्शिरसं निद्राकुम्भं तच्छीर्षके न्यसेत् ।। १२ ।।
शतजप्तमधोरेण ततो देवं प्रपूजयेत् ।
थाणुश्च नीलकण्ठश्च महादेवः शिवस्तथा ।। १३ ।।
रुद्रश्च शङ्करश्चैव नीललोहितसंज्ञकः ।
ईशानो धनदो भीमस्त्र्यम्बकः पार्वतीपतिः ।। १४ ।।
द्वादशैतेऽत्र [मू, अ, क्, ग्: तु] संपूज्य मार्गादौ योगनायकाः ।
दीपैर्गन्धैश्च पुष्पैश्च धूपैश्चैव यथाक्रमम् ।। १५ ।।
नैवेद्यैर्विविधैः पुण्यैः [घ्: पुष्पैः] पायसाद्यैस्तु खाघकैः ।
लोपिका [क्: कायिका] न्पूरिकान्पूपा [घ्: पूपै]
न्मण्डलकान्मोदकान्दधि ।। १६ ।।
लड्डूकान्बटकान्फेनान् गुडक्षीरं गुडौदनम् ।
पर्पटं [मू: पर्यटं] घृतपूरं च खण्डवर्तिसितौदनम् ।। १७ ।।
प्. ३१) नानाभक्ष्याणि दिव्यानि फलानि विविधानि च ।
खड्गोत्तमस्तथा मन्त्री [घ्: शस्त्री] वागु [ग्: बाण] ल्योपस्करं
शुभम् (?) ।। १८ ।।
ताम्बूलं च सकर्पूरं सहकारसमन्वितम् ।
सहरुं [ख्: सफलं] स्थितिपात्रं च मधुपात्रं पतद्ग्रहम् [क्:
तद्गुहम्; ग्: द्रहम्] ।। १९ ।।
शङ्खमुण्डि [क्: वशु; ख्, घ्: वुण्डं] स्तथा शुक्तिं
मञ्चिकोपरिसंस्थितम् ।
यदनुक्तमिहद्रव्यं पेषण्यादि [ख्: प्रवेश्यादि; घ्: पेशिन्यादि] च
यद्गृहे ।। २० ।।
तत्प्रदद्यादशाठ्येत घोरमन्त्रेण यत्नतः ।
ततः शीर्षोन्नते पुण्ये गेड्डुके [क्: गण्डुके] च सुशोभने ।। २१ ।।
शयिर्तु स्था [ख्: स्वा] पयेल्लिङ्गं पिण्डिकासहितं प्रभुम् ।
अभ्यज्य मधुसर्पिभ्यां दद्यात्सिद्धार्थकान्बहून् ।। २२ ।।
दक्षिणां मूर्तिमाश्रित्य विन्यसेन्मन्त्रनायकम् ।
दुकूलै रक्तवस्त्रैर्वा देवं संछाद्य रक्षयेत् ।। २३ ।।
महापाशुपतास्त्रेण ततो मूर्तिधरान्यजेत् ।
द्वात्रिंशत्षोडशाष्टौ च नृपादीनां यथाक्रमम् ।। २४ ।।
साधकास्तु विनाचार्यै पुत्रकाः साधकैर्विना ।
समयी पुत्रकाभावे सर्वाभावे स्वंयं गुरुः ।। २५ ।।
विद्येश्वररान् गनेशांश्चर्लकेशान् भैरवेश्वरान् ।
विद्येशान् मुक्तिकामान् भूक्त्यर्थं च गणेश्वरान् ।। २६ ।।
प् ३२) साधनार्थे तु लोकेशानद्वैते भैरवेश्वरान् ।
मूर्तिशत्त्यन्विताश्चैस्त्वेता मूर्त्यधिदेवता षजेत् ।। २७ ।।
क्ष्मावह्नियजमानार्कयविन्दवोऽथखम् ।
मूर्तयस्तु समाख्याता मूर्तिशानवच्मि सांप्रतम् ।। २८ ।।
शर्वः पशुपतिश्चोग्रो रुद्रो भवस्तथैवच ।
ईशानो देवदेवश्च [मू: स्तु] भीमो मूर्त्यधिदेवताः ।। २९ ।।
धारीका दीप्तिरत्युग्रा [मू: मत्युग्रा] ज्योत्स्ना चेता बलोत्कटा ।
धात्री विभ्वी च विख्याताः समासान्मूर्तिशक्तयः ।। ३० ।।
अनन्तीशश्च सूक्ष्मश्च शिवोत्तमैकलोचनः ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च [मू, अ, ग्: श्रीखण्दश्च]
शिखण्डकः ।। ३१ ।।
उमा चण्डी गणाध्यक्षो महाकालोऽथ नन्दिकः ।
भृङ्गीशश्च वृषश्चैव सण्मुखान्ता गणेश्वराः ।। ३२ ।।
असिताङ्ग रूरुश्चण्डः क्रोघ उन्मत्तकस्मतथा ।
कपाली भीषणश्चेव संहारो भैरवेश्वराः ।। ३३ ।।
इतरेषां क्वचिच्छस्त्रे चतुर्द्वैकक्रमान्मताः ।
चत्वारोऽजातकाद्याख्या विष्णरुद्रौ तथेश्वरः ।। ३४ ।।
विमलोऽथ विशालश्च सारस्वतो महामुखः ।
लेलिवासुर [क्: हाम्बर] शास्ता च फण्याशी [मू, अ, ग्: फययाशी]
कुण्डदेवताः ।। ३५ ।।
ब्राह्म्याद्या मातरो लोके इन्द्राद्या लोकपालकाः ।
प्. ३३) प्रसिद्धाः सर्वशास्त्रेषु शास्त्रेऽस्मिन्पूर्वचोदिताः [घ्: चिताः] ।।
३६ ।।
दैवज्ञं ब्राह्मणं चेष्ट्वा प्रविशेद्यागमण्डपम् ।
आहृत्य सर्वसम्भारमाचार्यो मन्त्रविग्रहः ।। ३७ ।।
शिवं प्रणम्य विज्ञाप्य ब्रह्माङ्गकृतविग्रहः ।
दिक्षु विदिक्षु संस्थाप्य मूर्तिमान्सुजितेन्द्रियान् ।। ३८ ।।
प्राङ्मुखोदङ्मुखान्सम्यक्कुण्डस्थानेषु वै ततः ।
प्रागाद्यनुक्रमेणैव मन्त्रमेतान्प्रवाचयेत् ।। ३९ ।।
पलैः षष्ट्युत्तमे लिङ्गे मध्याद्यर्धार्धवर्जनात् ।
होमपात्रं तथा ह्यर्घं दशन्यूनं नृपक्रमात् ।। ४० ।।
सौवर्णं राजतं वापि ताम्रजं वाप्यसंभवात् ।
आज्यपूर्णं तथा पात्रमैकैकस्य प्रदापयेत् ।। ४१ ।।
विष्टराण्यर्घपात्राणि समिद्दर्भेन्धनानि [घ्: नादि] च ।
गन्धपुष्पोपहारांश्व स्रुक्स्रुवौ लक्षणान्वितौ ।। ४२ ।।
पृथङ्निवेदयेत्तेषां मूर्तिपानां विचक्षणः ।
सिताम्बरधराः सर्वे सितचन्दनचर्चिताः ।। ४३ ।।
सितमाल्यान्विता [ख्: चिता] हृष्टाः स्वमूर्तिगतमानसाः ।
तानिष्ट्वा स्वर्णवस्त्राद्यैस्ततस्तांस्तु समादिशेत् ।। ४४ ।।
जपेत्पाशुपतं प्राग्वै अघोरास्त्रं च दक्षिणे ।
खादकं पश्चिमे चैव खुरि [घ्: खरि] कास्त्रं तथोत्तरे ।। ४५ ।।
प्. ३४) स्वासनस्था जितद्वन्द्वाः सर्वसंभारसंयुताः ।
शास्त्रसद्भावकर्मज्ञाः कुण्डसंस्कारपूर्वकम् ।। ४६ ।।
एकतन्त्रोद्भवैर्मन्त्रैर्जनयेयुः [मू, अ, क्: -मन्त्रो-] शिवानलम् ।
एवं तु मूर्तिपाः सर्वे कृत्वा स्थण्डिलतर्पणम् ।। ४७ ।।
दद्युः पूर्णाहुतिः पञ्चात्स्थापकेन समन्विताः ।
स्थापकश्च शिरोदेशे पूर्वसम्भारसंभृतः ।। ४८ ।।
सितोष्णीष धरो मौनी सितवस्त्रानुलेपनः ।
एकचित्तो जितक्रोधः श्रद्दधानो जितेन्द्रियः ।। ४९ ।।
कुण्डसंस्कारपूर्वं तु [क्, ग्: संपूर्णं] शिवाग्निं जनयेत्सुधीः ।
जनिते तर्पिते वह्नौ दद्यात्पूर्णाहुतिं ततः ।। ५० ।।
सन्तर्प्यासनवक्त्राङ्गं [ख्: वज्राङ्गं] मन्त्रग्रामशेषतः ।
तिर्यगूर्ध्वागमोत्थैर्वा प्रागुक्तविधिमन्त्रतः ।। ५१ ।।
सिद्धिमुक्तिप्रदा मन्त्रा गुप्त्युक्ताः सर्वकर्मणि ।
धातुः शब्दनिषेधार्थं स्यान्मत्रिगुप्तभाषणे ।। ५२ ।।
मौनयुक्तः सदा मन्त्रं जपेत्तद्ध्यानसंयुतः ।
न्यासने होमकार्ये तु उपांश्चादि च दैशिकः ।। ५३ ।।
मूर्तिपैरस्त्रजापैश्च विना [मू, ग्: सदा] संस्थापिते हरे ।
सविघ्नो जायते यागस्तस्मान्मूर्तिधरान्यजेत् [घ्: न्यसेत्] ।। ५४ ।।
त्रयोरक्षणहेत्वर्थं रञ्जनार्थमधीमताम् ।
प्. ३५) क्रूरशब्दनिषेधार्थं मङ्गलार्थं सदैव तु ।। ५५ ।।
वेदशास्त्रार्थतत्वज्ञान्मृदुपाठाञ्जितेन्द्रियान् ।
स्वशास्त्रलक्षणोपेतान्ब्राह्मणान्सुसमाहितान् ।। ५६ ।।
संपूज्य गन्धपुष्पाद्यैः कुर्यात्तान्स्वस्तिवाचकान् ।
चतुर्दिक्षुबहिः पश्चादाचार्यस्तान्निवेशयेत् [सन्नि-] ।। ५७ ।।
बह्वचान्प्राग्दिशि स्थाप्य याम्ये चाथर्वणांस्तथा ।
पश्चिमे वाजसनेयांश्छन्दोगानुत्तरेण तु ।। ५८ ।।
स्वदिक्षु स्थापयित्वा तान्देव्या मतानुसारतः ।
समादिश्य ततो विप्रान्नद्युक्तान्द्वा प्रदर्शनात् ।। ५९ ।।
श्रीसूक्तं पावमानीं च नासदाशीं च वाजिकम् [क्: नम्] ।
वृषाकपिं च मैत्रं च बह्वृचः पश्चिमे जपेत् ।। ६० ।।
देवब्रतं च पुंसाम ज्येष्टसाम रथन्तरम् ।
भारुण्डानि च सामानि वामदेवं तथैव च ।। ६१ ।।
उत्तरां दिशमास्थाय छन्दोगस्तु जपेत्सदा ।
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ।। ६२ ।।
ब्राह्मणान्मित्रमैत्रं च अध्युर्युः पूर्वतो जपेत् ।
अथर्वाङ्गिरसं [घ्: ग्रथर्वशिरसं] चैव स्कन्द [मू: स्कन्ध]
सूक्तं तथैव च ।। ६३ ।।
क्षुरिकं [क्, ख्: खुरिकं] नीलरुद्रं च गर्भोपनिषदादिकम् ।
प्. ३६) कालीं करालिकं रुद्रं याम्ये चाथर्वणो जपेत् [नायमस्काकं
द्वारपालनिवेशनक्रमः सूक्तपाठक्रमश्च क्रमोऽयं
मतान्तरविषयकमिति] ।। ६४ ।।
लिङ्गोद्भवं तदङ्गानि पवित्रं गणपाठकम् ।
स्तोत्रमन्त्रविदश्चान्ये जपेयु[ख्, घ्: पठेयु]र्दक्षिणे सदा ।। ६५ ।।
ततश्चार्घं तु दत्वा वै आलभेत गुरूः शिवम् ।
पदाख्यं ब्रह्मणा चापि [मू: णो वापि] स्वकलाद्यक्षरान्वितैः [क्,
ख्, घ्: पिण्डैर्वा स्वकलान्वितैः] ।। ६६ ।।
न्यस्य [न्यास्त्वा, लि० पु० पा०] ध्यायेत्ततो मन्त्री [ख्: मन्त्रं]
जीवभूतं नवात्मकम् ।
ज्वलदग्निसमाकारं विस्फुरन्तं समन्ततः ।। ६७ ।।
पुर्यष्टकसमायुक्तं सदैव मन्त्रनायकम् ।
सर्वं शुद्ध्यति तेनैव जगस्थावरजङ्गमम् ।। ६८ ।।
अधः शक्तिरनन्ताख्य कालाग्निर्नरकास्ततः [मू: नवकाः-] ।
अविची रौरवश्चैव महारौरव एव च ।। ६९ ।।
रसातलं च पातालं महातलं गभस्तिकम् ।
नितलाह्वं वराह्वं च आभासाख्यं च सप्तमम् ।। ७० ।।
भूर्लोकश्च भुवः स्वश्च महर्लोको जनस्तपः ।
सत्यमूर्ध्वक्रमा ह्येते [ख्, घ्: देते] ब्रह्मा विष्णुस्ततो [घ्: तथा]
हरः ।। ७१ ।।
द्विसप्तभुवनान्यन्तर्दिग्रुद्रशतसंयुतम् ।
ब्रह्माण्डं [ग्: ब्रह्मान्तं] चण्डरूपं स्याच्चतुरास्योऽधिदैवतम्
।। ७२ ।।
प्. ३७) शतकोट्युछ्रयं मानात्तत्सर्म योजनैः पृथु ।
उर्वितत्त्वं समाख्यातं जलादिद्विगुणं [ख्: दिग्गुणं] क्रमात् ।। ७३ ।।
क्ष्माम्बुतेजोमरुत्खानि गन्धश्च रसरूपकौ ।
स्पर्शःशब्दश्च पञ्चैव तन्मात्राणि यथाक्रमम् ।। ७४ ।।
नासाजिह्वाक्षिचर्माणि श्रोत्रबुद्धीन्द्रियाणि च ।
गुदं गुह्यं कराङ्घी च सवाक्क [मू, अ, घ्: सर्वान्] र्मेन्द्रियाणि च ।।
७५ ।।
मनोबुद्धिरहङ्कारः सत्वादि च गुणत्रयम् ।
पुमान् रागश्च विद्या च नियतिश्च कुलान्तकः [मू: कलान्तकः] ।। ७६ ।।
माया चैव तथाविद्याधीश्वराख्यः सदाशिवः [क्: स्तथा शिवः] ।
शक्तिश्चेभ्यः परस्ताच्च शिवाख्यः परमोऽव्ययः ।। ७७ ।।
शिक्तिस्थो विश्वबन्धुश्च [घ्: बन्धश्च] मन्त्रैः शुद्धः [मू:
सिद्धः] शिवं व्रजेत् ।
पञ्चभूतं च तन्मात्रं बुद्धिः कर्मेन्द्रियणि च ।। ७८ ।।
मनोबुद्धिरहङ्कारः प्रकृतिर्गुणसंयुता ।
चतुर्विंशतितत्त्वानि प्रकृतिर्वामकर्णगाः ।। ७९ ।।
त्वक्संस्थः पुरुषः प्रोक्तो रागाख्यः स्नायुजालके ।
([असौ चापचिह्नान्तर्गतः पाठः ख. पुस्तके नास्ति] मांसेऽविद्या
समाख्याता नियतिर्हृदये स्थिता ।। ८० ।।
कलाकोषेऽस्रके [घ्: कोपे-] कालो माया प्राणेष्ववस्थिता ।
विद्या चोष्ठस्थिता [घ्: गता] नित्यमीश्वरो बिन्दुसंस्थितः ।। ८१ ।।)
प्. ३८) नादे सदाशिवो ज्ञेयः शक्तिस्था इन्धिकादयः ।
पञ्चविंशच्च तत्त्वानि पिण्डीकायां स्थितानि तु ।। ८२ ।।
विद्याराजेन शुद्ध्यन्ति तदूर्ध्वे निष्कलः शिवः ।
मन्त्रभूतं शिवं तत्र विन्यसेत्सिद्धिमुक्तये ।। ८३ ।।
त्रितत्त्वमात्मतत्त्वाद्यं वेदास्राद्यमजादिके ।
न्यस्य तु भावयेद्व्याप्तिं शिवरूपं च यत्परम् ।। ८४ ।।
धरादिपुरुषं यावद्विद्यान्तां च धरादिकम् [मू: वनादिकम्; ख्,
घ्: रागाविकम्; क्: धनादिकम्] ।
ईश्वरादिशिवान्तं च त्रितयं [ख्: त्रितत्वं] होमयेत्क्वचित् ।। ८५ ।।
हुतेऽघोरे सहस्रे वा ब्रह्मांशं च सेवयेद्गुरुः ।
शिवकुम्भाम्बुना तद्वत्तदूर्ध्वे च हरेस्तनुम् ।। ८६ ।।
तदूर्ध्वे च हुनेद्रुद्रं सिक्त्वा दर्भैः स्पृशेत्क्रमात् ।
पञ्चब्रह्म च दिग्धव्य[दिग्वाच्य, मू० पा०]मेकादिशतपञ्चकम् ।। ८७
।।
अङ्गानि दशमांशेन होमयेत्तत्कलाः क्रमात् ।
वर्णरुद्रादिविद्येशांल्लोकेशान् गणनायकान् ।। ८८ ।।
हेमेनाप्यायनं कृत्वा श्रपयेत्पूर्ववच्चरुम् ।
([चापचिह्नान्तर्गतोऽयं पाठः मू, ग्, घ्, पुस्तकेषु नास्ति] सुस्विन्नं
नापि दग्धं च शैवैर्मन्त्रैः प्रसाधितम् ।। ८९ ।।
शिवकुम्भे तथा देवे दत्त्वाथ जुहुयाच्चरुम् ।
पूर्णाहुतिं शिवेनातो यागस्य परिपूर्तये ।। ९० ।।
प्. ३९) कर्तृगृहीतजप्याच्च पूर्णां दद्यात्तु दैशिकः ।
तस्मिन्काले गुरौ दानं दद्याद्वित्तानुसारतः [घ्: नुरूपतः] ।। ९१ ।।
गोर्हेमखुरशृङ्गिण्याः शतं वार्धं तदर्धकम् ।
दक्षिणार्धेन [घ्: णेन्द्रेण] हस्तेन पुनर्होमं प्रदापयेत् ।। ९२ ।।
ततः संपूर्णतां याति बहुरूपशते हुते ।
प्रायश्चित्ते तथा विघ्ने महास्त्रं होमयेत्ततः ।। ९३ ।।
इति कृत्वा विधिं सम्यक्ततो देवं प्रबोधयेत् ।
रात्रौ महोत्सवः कार्यः शङ्खभेर्यादिनिस्वनैः ।। ९४ ।।
गायनैर्नर्तकैः शिष्टैर्नन्दिधोषैः सुमङ्गलैः ।
नयेत्तां शर्वरीं सर्वां यतिस्तोत्ररवैः शुभैः ।। ९५ ।।
एक [ख्: एवं] त्रिपञ्चरात्रं वा सप्ताहं वाधिवासनम् [ख्: वापि
वासरम्] ।
सुशोभितं रथं कृत्वा वस्त्रध्वजवितानकैः ।। ९६ ।।
चामरैर्हेमदण्डैश्च छत्रै रौक्माब्जदण्डिभिः [मू: दण्डभिः] ।
अन्नाद्यैः पूरितं सर्वै रथमारोपयेच्छिवम् ।। ९७ ।।
यजेत्तूर्यनिनादेन दीपदर्पणसंयुतैः ।
पद्माङ्कैः [घ्: पद्माकैः] कलशैः शुभ्रैर्गीतैः पाठैरनेकशः
।। ९८ ।।
वेष्टयेन्नगरं वापि पुरं वा धाम वा शनैः ।
रथं स्थाप्य वलिं दद्याद् गुह्यकेभ्यो मुहुर्मुहुः ।। ९९ ।।
प्. ४०) गच्छेल्लिङ्गपुरः कर्ता सगोत्रो दैशिकाग्रतः ।
प्रसादाग्रे च संस्थाप्य लिङ्गस्यार्थं प्रदापयेत् ।। १०० ।।
होमयेद्वास्तुनाथांश्च तत्त्व [मू: तद्वत्] संस्थितमानसः ।
प्रागुक्तलक्षणं तत्र पश्चात्कूर्मशिलां न्यसेत् ।। १०१ ।।
इति लक्षणसमुच्चयेऽधिवासनं नाम पञ्चदशो विधिः ।। १५ ।।
अथ षोडशः
प्रासादं प्रोक्षयेत्सर्वमस्त्रजप्तेन वारिणा ।
तद्गर्भं सूत्रयेत्पश्चान्मध्यस्थान यथाप्नुयात् ।। १ ।।
गर्भकर्णायतं सूत्रं कृत्वा भागचतुष्टयम् ।
तदेकांशप्रमाणेन मध्ये कूर्मशिलास्थितिः ।। २ ।।
न मध्ये स्थापयेल्लिङ्गं नैव मध्यं परित्यजेत् ।
मध्यस्थं हन्ति कर्तारं ब्रह्मवेधा नसंशयः ।। ३ ।।
तस्मादोशं समाश्रित्य तत्थितिः सूत्रमानतः ।
द्वारंतु सप्तधा कृत्वा मध्येकांशं रथं [क्, ख्: रसं] पुनः ।।
४ ।।
सौम्ये द्वौ दक्षिणे द्व्यशं [ग्: त्वंशं] त्यक्त्वा तत्सूत्रमानतः
[ख्: न्तसूत्रसंस्थितिः] ।
प्रत्यक्षं मन्त्रसान्निध्यमाचन्द्रार्कं प्रपूज्य च [ख्, घ्: ते] ।। ५ ।।
सुभिक्षं क्षेममारोग्यं विजयं राष्ट्रवर्धनम् ।
सर्वसत्व [ख्: सन्धि] शुभं कुर्यादीशदिक्संस्थितः शिवः ।। ६ ।।
नृपाणां तु हितं प्राच्यामाग्नेययामग्निजीविनाम् ।
ध्वजानां ? राक्षसाशायां वायव्यां नृत्यगीतिनाम् ।। ७ ।।
कौवेर्यां गोद्विजादीनां कारुकाणां विदिक्षु च ।
ऐशानीमाश्रितं सौख्यं यजमानः कुलैः सह ।। ८ ।।
प्. ४२) मध्ये तु म्रियते कर्ता न च मध्यात्प्रचालयेत् ।
मध्यात्प्रचालितं लिङ्गं भवेद्दोषावहं यतः [पहं] ।। ९ ।।
कौवेर्यामाश्रिते लिङ्गे कर्तृदुःखं द्विजव्यथा ।
ऐन्द्र्यां तु म्रियते राजा क्षत्रियाणां व्यथा भवेत् ।। १० ।।
याम्यायां च विशां पीडा वारुण्यां शुद्रजन्मनाम् ।
तपस्विनामथैशान्यां नैर्-ऋत्यां राष्ट्रविभ्रमः ।। ११ ।।
आग्नेययामग्नितः पीडा वायव्यां तस्कराद्भयम् ।
यथा प्रवेशयेल्लिङ्गं तत्फलं यत्तदुच्यते ।। १२ ।।
प्रविष्टे चाष्टमे भागे ब्रह्मभागस्य भूतले ।
शान्तिश्रेयस्करं लिङ्गं कर्तृस्थापकशिल्पिनाम् ।। १३ ।।
लिङ्गस्य निश्चिता पूजा तथा पादप्रवेशने ।
त्रिभागस्य प्रवेशे तु मोदन्ते सर्वदेहिनः ।। १४ ।।
पञ्चभागप्रवेशे तु कर्तृस्थापकशिल्पिनाम् ।
प्रजा चार्धप्रवेशे तु वर्धन्ते सचतुष्पदाः ।। १५ ।।
समस्तब्रह्मभागस्य प्रवेशे स्थापकादयः ।
कर्ता च बन्धुभिः सार्धं प्राप्नुवन्ति महत्सुखम् ।। १६ ।।
ततो [मू: तथा] निवेशयेल्लिङ्गं सुनिर्विघ्नं [ख्: सनीविष्टं] यथा
भवेत् ।
चालिते तु महद्दुःखं खं स्फुटिते द्रव्यसंक्षयः ।। १७ ।।
वक्रे तु हीयते पूजा भ्रान्ते तु कलहो रुजा (?) ।
सशब्दे राष्ट्रभङ्गः स्यात्प्रणते व्याधिसम्भवः ।। १८ ।।
प्. ४३) विशीर्णे सर्वनाशः स्यात्कम्पिते राष्ट्रविभ्रमः ।
एषां तु सम्भवं ज्ञात्वा दोषाणां [मू, अ, क्, ख्, ग्: शेषाणां]
मूर्तिपैः सह ।। १९ ।।
विज्ञाप्येशं तु सन्तर्प्थ स्थण्डिले दैशिकोत्तमः ।
शतमष्टोत्तरं हुत्वा एकैकस्य तु सम्भवे ।। २० ।।
अघोरेण शिवेनान्ते पूर्णां दत्वा ततः शुभम् ।
स्थाप्यमानं यदा लिङ्गं स्थितं वा मध्यतः शुभम् ।। २१ ।।
द्वारं [मू: द्वाः] समं त्रिभागोनं [क्, ख्: त्रिभागेन] मध्यतो
लिङ्गमुच्छ्रयम् ।
ज्येष्ठादीनां तु वेश्मानां देहलीसमसूत्रतः ।। २२ ।।
ज्ञात्वैवमाद्यशक्त्या तु कूर्माख्या पूर्वनिर्मिता ।
रसकूर्मान्विता योज्या तदूर्ध्वे चापराशिला ।। २३ ।।
ब्रह्मशिलाप्रमाणेन खातकं पूर्वशोधितम् ।
इष्ट्वा राजशिलां तत्र शक्तिमन्त्रेण विन्यसेत् ।। २४ ।।
अनन्ताख्यापराशक्तिर्विज्ञाप्यसनधारिणी ।
शिवाज्ञया त्वया देवि स्थातव्यमिहसर्वदा ।। २५ ।।
व्याप्तिर्ध्यानाश्रयो भूत्वा समत्वं सर्वगं परम् ।
सावष्टम्भं स्थिराध्वानं [मू: ध्यानं] लिङ्गं सञ्चिन्त्य
विन्यसेत् ।। २६ ।।
ओं व्यापिनि नमोऽनन्ते शाश्वते सुस्थिरे ध्रुवे ।
अमले [ख्: अचरे; घ्: अमरे] सकलाधारे ह्री/ ल/ ह्री/ तिष्ठ चाम्ब हे [मू:
चासुरे] ।। २७ ।।
इति [इत्ययं पाठः लिखितपुस्तकेषु नास्ति] ब्रह्मशिलारोपणमन्त्रः ।
प्. ४४) उदङ्मुखोऽस्रमन्त्रेण प्रोक्षयेच्छिववारिणा ।
श्वभ्रप्रच्छादनं वस्रं कृत्वा [क्, ख्: हृत्वा] श्वभ्रं विशोधयेत्
।। २८ ।।
दर्भैरूल्लिख्य संप्रोक्ष्य शिवेन शिववारिणा ।
विलिप्य चन्दनेनादौ धूपयित्वा शिलातलम् ।। २९ ।।
सहिरण्येन हस्तेन न्यसेद्रत्नान्यथेच्छया ।
स्वदिगीशेन मन्त्रेण हृदा वा प्रणवेन वा ।। ३० ।।
पञ्चवक्त्रेण वा न्यस्य विद्येश्वरेण वा क्वचित् ।
गव्यपायससंमिश्रगुग्गुलुद्रव [घ्: द्रव्य] लेपिताः ।। ३१ ।।
रत्नाधाराः पुरा कार्या रत्नादिस्थापनं ततः ।
मते मतेऽन्यथा ज्ञात्वा स्वेक्छया वा न्यसेद्गुरुः ।। ३२ ।।
वज्रमौक्तिकवैदूर्यशङ्खस्फटिकपुष्पकम् ।
इन्द्रनीलंच सुनीलं पूर्वादिक्रमतो न्यसेत् ।। ३३ ।।
विद्रुमं मौक्तिकालाभे राजावर्तं च विन्यसेत् ।
वैदूर्यस्याप्यलाभे तु नीलं वा पद्मरागकम् ।। ३४ ।।
वज्रं सूर्याङ्ककं नीलं महानीलं सुमौक्तिकम् ।
पुष्पकं पद्मरागं च वैदूर्यं प्राग्दिशादितः ।। ३५ ।।
सुनीलस्य यदालाभस्तदा मरकर्त न्यसेत् ।
अप्राप्तौ पद्मरागस्य [क्, ख्, घ्: पुष्परागस्य] सौगन्धिकं
मतान्तरान् ।। ३६ ।।
हेमताम्रमयोरङ्ग [घ्: वङ्ग] तातारं घोषसीसकम् ।
निरुप्यैतानि विन्यसे [घ्: सन्न्यसे] दिन्द्रादीशान्तगोचरात् ।। ३७ ।।
प्. ४५) हरितालं शिलां चैव अञ्जनं [घ्: अञ्चनं] चाभ्रकं तथा ।
काशीवमथ सिन्दूरं माक्षिकं गैरिकं न्यसेत् ।। ३८ ।।
गन्धकं चाञ्जनाभावे सिन्दूरस्यथा [क्, ख्: स्य च] पारदम् ।
सौराष्ट्री माथिकालाभे गैरिकस्य तु रोचनाम् ।। ३९ ।।
तालं शिलां च कासीसं माक्षिकं सूत्रकं न्यसेत् ।
सौवर्णं गैरिकं गन्धं भृङ्गं [मू: भृङ्ग अभ्रकमित्यर्थः]
पूर्वादिकं क्वचित् ।। ४० ।।
ब्रीहिगोधूमहव्यांश्च माषमूद्गयवांस्तथा ।
नीवाराश्चापि श्यामाकान्पूर्णद्यांश्च निवेशयेत् ।। ४१ ।।
गोधूमाश्च यवाश्चैव तिलमुद्गौलिकाः क्रमात् ।
स्यामाकान्सर्षपां [मू: माषकां] श्चैव ब्रीहींश्चापि तथा
[मू: ततो] न्यसेत् ।। ४२ ।।
माषान् ब्रीयेरभावेन मुद्गस्य चणकान्न्यसेत् ।
सिधार्थं च विना कर्ङ्गुश्यामाका भावतः कपिम् [कपि
स्तृणधान्यविशेषः] ।। ४३ ।।
चन्दनं चन्दनं रक्तं लधूक [लघुकं = अगुरुः] चाञ्जनं
न्यसेत् ।
उशीरं विष्णुसंज्ञं च सहां च लक्षणं क्वचित् ।। ४४ ।।
सहां च विष्णुनामां च लोहितं चन्दनं लधु ।
चन्दनं सारि वाकुण्ठ [मू: कुम्भ] मुशीरं शङ्खपुष्पिकाम् ।। ४५
।।
सद्योजातादिभिर्मन्त्रैः रत्नलोहानि धातुकान् ।
बीजानि चौषधीरष्टौ कुम्भयित्वा न्यसेन्क्रमात् ।। ४६ ।।
प्. ४६) रसेन्द्रो मध्यतो देयः सर्वैरेतैः समन्वितः ।
द्रव्याधिके महादोषो गुञ्जामाधैः करक्रमात् ।। ४७ ।।
रत्नादी [ग्: वसादी] नांमसंपूर्णा ? ससूत्रं चादिपञ्चकम् ।
न्यसेद्वज्रं तथा [घ्: तदा] हेम तालं तवान् सहां क्रमात् ।। ४८ ।।
दरदं पारदाभावे वज्राभावे तु काञ्चनम् ।
हेमाभावे न्यसेत्तारं गैरिर्क तालकं विना ।। ४९ ।।
यवाभावे तिलान्दद्या [ख्: श्रेष्ठा] ल्लाज्जकं सहां विना ।
न्यसेत्सर्वं गुरुस्वेकं रसेन्द्रं वाप्यसम्भवे ।। ५० ।।
कूर्मक्ष्मां मेरुमुक्षाणं पद्मं वा लक्षणान्वितम् ।
एषामेकतमं मध्ये न्यसेन्ब्रह्मशिलावटे ।। ५१ ।।
शिलाश्चभ्रचतुः षष्ठिभागात् कर्णावटं पृथु ।
निम्नव्यासार्धतस्तस्य दलेष्वष्टसु [मू: दलावेष्टं स्व] मध्यतः ।।
५२ ।।
हेमं ताम्रं च तारं च कूर्मं प्राग्लक्षणान्वितम् ।
हैमीं वा रुप्यजी पृथ्वी मेरुं सौरर्णजं सदा ।। ५३ ।।
वृषभं तारजं हैमं ताम्रं वा लक्षणैर्युतम् ।
पद्ममष्टायसं न्यस्य हैमं तारजमेव वा ।। ५४ ।।
हस्तमात्रस्य लिङ्गस्य कूर्माद्यमंश [क्: माष] मानकम् ।
शेषाणां क्रमवृद्धीनां बाणमतान्नवान्तिकम् [ख्: -न्यवा-] ।। ५५
।।
प्. ४७) मृत्तिकां पर्वताग्रोत्थां सरितो वा तटोद्भवाम् ।
रजतं च यवांश्चैव कूर्मेण सह विन्यसेत् ।। ५६ ।।
समं द्वारेक्षणं शस्तं [घ्: शास्त्रं] राष्ट्रे राज्यजया [ख्:
भया] वहम् ।
तत्र संस्थापिते लिङ्गे यजमानः प्रवर्धते ।। ५७ ।।
काञ्चनं सर्वबीजानि पृथिव्या सह विन्यसेत् ।
तस्यां व्यवस्थिते रुद्रे प्रजा नित्यं प्रमोदते ।। ५८ ।।
मधुकं चाक्षतं चैव त्वञ्जनं [मू, अ, ग्: पुञ्चनं] मेरुणा
सह ।
श्रीकामस्तु न्यसेन्मध्ये देव [ख्: देश] वृद्ध्यर्थमेव वा ।। ५९ ।।
गोधूमकं चणं [ख्: गोधूमं काञ्चनं] सर्पिर्द्वूर्वां
गोरोचनां तथा ।
गोशृङ्गमृत्तिकां चैव वृषेण सह विन्यसेत् ।। ६० ।।
महोक्षं विन्यसेन्मध्ये द्वारादिक्संमुखं समम् ।
तत्र प्ररोपिते [मू, अ, ग्, ङ्: प्रबोधिते] देवे चातुर्वर्ण्यं च वर्धते [ख्:
नन्दते] ।। ६१ ।।
हाटकं कृशरांश्चापि पद्मेन सह विन्यसेत् ।
तस्मिन्व्यवस्थिते नाथे श्रीवृद्धिश्चैव सम्पदः [ख्: ञ्चिरसंपदः] ।।
६२ ।।
अथवा पद्मरागं तु काञ्चनं पारदान्वितम् ।
द्रव्याणामप्यलाभे तु तेषामेकतमं न्यसेत् ।। ६३ ।।
रत्नन्यासो मयाख्यातः संप्राप्यः प्राप्तितो यथा ।
एवं द्रव्याणि सर्वाणि विविधं [मू: निविडं] सन्निवेश्य च ।। ६४ ।।
प्. ४८) रसेन गुग्गुलोः पञ्चात्संस्कृतेन विलेययेय ।
शिलासमानि रन्ध्राणि कृत्वा नेत्रं तथोपरि ।। ६५ ।।
वर्मणास्त्रेण संरक्ष्य दिगीशेभ्यो बलिं क्षिपेत् ।
समाचम्य कृतन्यासो जुहुयादसिना शतम् ।। ६६ ।।
शिलासूत्रच्युतिश्छिद्रे निषेधाय शिवेन वा ।
वास्तोस्पतिं ततो हुत्वा पीठं श्वभ्रं निरूपयेत् ।। ६७ ।।
क्षीरदारुकृतं लिङ्गं पीठश्वभ्रे नियोजयेत् ।
निः सन्धिः सुडृढं तच्च विदधीत प्रयत्नतः ।। ६८ ।।
पश्चादर्घं च धूपं च दद्याल्लिङ्गेषु भावितः [घ्: भाविकाः] ।
ततः सुयन्त्रितं दण्डे बध्नीयाद्वालतन्तुना ।। ६९ ।।
तूर्यमङ्गलनिर्घोषैर्यत्नादुत्थापयोच्छिवम् ।
वन्दिवृन्दरवैः स्तोत्रैः शोभनैः शकुनैर्भृशम् [मू: शङ्कलैः-] ।।
७० ।।
यजमानो व्रजेत्तत्र वृतः सर्वे स्वकैर्जनैः ।
मूर्तिपैः शिल्पिभिः सार्धमनुलग्नैः शिवे तदा ।। ७१ ।।
तदग्रतो गुरुर्गच्छेत्सुगृहीतार्घभाजनः ।
द्वारदेशागते लिङ्गे अर्धं दत्वा प्रवेशयेत् ।। ७२ ।।
द्वारबन्धं विना द्वारादस्पृशन् तं प्रवेशयेत् ।
द्वारबन्धान्विते धाम्नि नभसेव तदूर्ध्वतः ।। ७३ ।।
यत्नात्प्रवेशयेद्गर्भं [ग्: ल्लिङ्गं] यथा कुड्यं न संस्पृशेत् ।
दिग्व्योमस्पर्शनात्कुर्यात्तद्दिश्युक्तां च दक्षिणाम् ।। ७४ ।।
प्. ४९) हेम ताम्रं लुलायं च खड्गं मुक्तां सुवस्त्रकम् ।
शङ्खं धेनु/ गुरोर्दद्यादिन्द्रादिस्पृष्टिदोषहृत् ।। ७५ ।।
भद्रपीठे ततः स्थाप्यो द्वारगर्भान्तरे प्रभुः ।
अर्धं दत्वा हृदास्थाप्य [मू: हृदोत्थाप्य] मुहूर्ते सद्गुणे गुरुः ।।
७६ ।।
लिङ्गं पीठं तथा कण्ठं जलाधारं यथाक्रमम् ।
विन्यसेत्तूर्यशब्देन निमित्ते विषुवे स्थिते ।। ७७ ।।
अङ्गुष्ठमुच्छ्रितं [घ्: मुत्सृतं] कृत्वा मुष्टिं बध्वा तु दक्षिणाम्
।
पिण्डिकायां न्यसेल्लिङ्गमङ्गुष्ठेन स्पृशेद्गुरुः ।। ७८ ।।
उमामहेशमन्त्राभ्यां सन्धानं मोक्षकाङ्क्षिणाम् ।
शिवोमामन्त्रयोगेन सन्धानं भूतिकाङ्क्षिणाम् ।। ७९ ।।
आसनं च पुनर्देयमभिसन्धानकारणम् ।
मूर्त्याद्यङ्कावसानं तु पुनरेवं तु विन्यसेत् ।। ८० ।।
स्वतन्त्रविहितैर्मन्त्रैरासनं तत्र विन्यसेत् ।
मूर्ति शंभुं [क्, ख्, ग्: मूर्तीशं तु] तथाङ्गानि परमीकरणं
ततः ।। ८१ ।।
निरो [मू: निबो] धनाज्ञ (ख्य) या मुद्रा संहितोक्तविधानतः ।
रुद्रादीनां तु सर्वेषां स्थापनं तथ्वतः [क्: च ततः] क्रमात् ।। ८२ ।।
आसनं मूर्तिः शम्भुश्च पक्षांस्त्रींश्च त्रितत्त्वतः ।
आत्मविद्याः शिवं चैव भावयेदनुपूर्वतः ।। ८३ ।।
प्. ५०) अनन्ताद्याः शिखण्डान्ता आसनस्थाश्च ये स्मृताः ।
विद्याङ्गै [मू, ख्: विद्याङ्कै] श्चैव संयुक्ता आत्मतत्त्वे
व्यवस्थिताः ।। ८४ ।।
शक्तयञ्च स्मृतास्तिस्रः पञ्चब्रह्मसमन्विताः ।
विद्यातत्त्वे स्थिता ह्येते साधिकारे विदुर्बुधाः ।। ८५ ।।
शक्तिद्वयं शिवाङ्गश्च शिवतत्त्वं समाश्रिताः ।
त्रितत्त्वव्याप्तिराख्याता पन्थानः [ग्: अध्वानः] षड्विधास्त्विह ।। ८६ ।।
शतैककोटिविस्तारं नोजनैस्तत्समोच्छ्रयम् ।
ब्रह्माअन्तं [ख्: ब्रह्माण्डं] पार्थिवं तत्त्वं जलादिद्विगुणं
क्रमात् ।। ८७ ।।
शक्त्यादिशक्तिपर्यन्तं पञ्चदैवाधिदैवतम् ।
त्रिंशत्पञ्चाधिकं तत्त्वं सन्मार्गं पीठमैश्वरम् ।। ८८ ।।
ध्यात्वा लिङ्गे परं [मू: लिङ्गधरं] शम्भुं पञ्चबक्त्रं
त्रिलोचनम् ।
भुजैस्तु दशभिर्युक्तं जटामुकुटमण्डितम् [ख्, घ्: धारिणम्] ।। ८९ ।।
चन्द्रार्धकृतमूर्धानं नागयज्ञोपवीतिनम् ।
गणैर्देवैस्तथा सिद्धैः स्तूयमानैः समायुतम् ।। ९० ।।
ततः परमसद्भावमीशानं बिन्दुरूपिणम् [मू: रूपकम्] ।
सद्योलातेन संचिन्त्य वामदेवेन विन्यसेत् ।। ९१ ।।
देही देहे यथा योगं द्रव्यं भोगीव [मू: च] सङ्गतम् ।
बोधक्रियानिविष्टं तु ज्ञेयं ज्ञानाश्रितं स्मरेत् ।। ९२ ।।
प्. ५१) नादमध्ये स्थितो बिन्दुर्बिन्दुमध्ये स्थितो ध्वनिः ।
ध्वनिमध्यगता तारा तारामध्यगतेः शशी ।। ९३ ।।
शशीमध्यगतं सूक्ष्मं सूक्ष्ममध्यगतो रविः ।
रविमध्यगतः शान्तः शान्तमध्यगतः शिवः ।। ९४ ।।
सूर्येन्दुबिम्बयोर्यद्वद्देकी [मू: देवी] भूतामृता कला [ख्:
मतीकला] ।
अत्रापि च तथा स्मृत्वा दृक्क्रियां स [क्, ख्: क्रियांशं] न्निवेशयेत् ।। ९५
।।
प्रगुणे क्रियमाणे तु दिक्प्रान्ते [घ्: दिग्भ्रान्ते] चलनं यदि ।
तदा दिग्देवताहोमः कार्या शान्तिश्च दोषहृत् ।। ९६ ।।
यस्यां दिशि चलेल्लिङ्गं तस्यां शान्तिं च कारयेत् ।
अन्यथा तु भवेद्घोरं कर्तृराष्ट्रविरूपकम् ।। ९७ ।।
तस्मात्तद्वाहर्न दद्यादिन्द्रादीनां यथास्थितम् ।
गजं छागं लुलायं च दासीं मत्स्यं मृगाविकम् ।। ९८ ।।
वृथं प्रत्यग्रतः सम्यक्तन्मूल्यं [मू: सूत्रं] वाथ शान्तये ।
पक्षसूत्रं ततो दद्यादृज्वर्थं लम्बसूत्रकम् ।। ९९ ।।
पुनर्नचालयेल्लिङ्गं यदीच्छेछ्रेय आत्मनः ।
चलिले शब्दिते भ्रान्ते प्रणते स्वस्थिते क्रमात् ।। १०० ।।
ग्रामहृद्राष्ट्रहृच्चैव रोगदो भ्रंशवृद्धिकृत् ।
श्वभ्ररन्ध्रं च [ख्, घ्: सन्धिं च] सम्पूर्य [ख्: सम्पूज्य]
क्षीरलोहमलैः [मू: ले---त्मलैः] शुभैः ।। १०१ ।।
प्. ५२) सिकतापङ्कबालैश्च [घ्: पत्करालैः] शङ्खचूर्ण [ख्:
शङ्खमूल] समन्वितैः ।
ततः शान्तिघटाम्मोभिः स्नानं मूर्तिधराः स्वकम् ।। १०२ ।।
प्रकुर्वन्ति ततः पश्चादाचार्यः स्नापयेच्छिवम् ।
तोयक्षीरदधिक्षौद्रघृततोयान्तरात्मकैः ।। १०३ ।।
अम्भश्चतुष्पलैः पूर्णं गड्डूकं [गड्डूकं=भृङ्गारे
जलपात्रभेदे इति शब्दरत्नावल्याम्] हेमजादिकम् ।
मुग्दा [क्, ख्: मुङ्गा] द्यङ्गुलमात्रस्य चलस्य स्थापने हितम् ।। १०४ ।।
शेषाणां चाङ्गुलं वृद्या वृद्धिस्त्रिपलि [मू, अ: पल] काम्बुभिः ।
हस्तमात्रे स्थिरे लिङ्गे गड्डूकं प्रस्थसम्मितम् ।। १०५ ।।
अन्येषां करवृद्ध्या स्याद्वृद्धिरष्टपलैः क्रमात् ।
अभ्यङ्गस्नापनं च स्यान्महास्नानं च शङ्करे ।। १०६ ।।
पञ्चविंशतिभिश्चैव शतार्धद्विसहस्रकैः ।
पलैः क्रमाच्च [मू: क्रमाणि] लिङ्गानां चलस्थिरद्विरू [घ्: त्रिरू]
पिणाम् ।। १०७ ।।
क्ष्मादिशक्त्यन्ततत्त्वेषु तत्त्वतत्त्वेषु ये स्थिताः ।
सुरादयोऽपि ये चान्ये [ख्: चास्य] समानदेशगास्तथा ।। १०८ ।।
अधिकारपाद [ख्, घ्: पदे] शुद्धिः परमीकरणे लयः ।
स्थानभाग [घ्: भोग] स्थितां तेषामधश्चोपरि मध्यतः ।। १०९ ।।
स्थानं [ख्, ग्: स्नानं] कृत्वा न्यसेन्मन्त्रान् यथात्मनि समीहितम् ।
आसनाद्यं यथाशास्त्रं वक्त्रं कं [ख्, घ्: वक्त्राङ्गं] च
कलावृतम् ।। ११० ।।
प्. ५३) इच्छाशक्तिं न्यशेद्वृत्ते मूर्तिं विद्याङ्गर्सयुताम् ।
क्रियाह्वां पीठमध्यस्थां ज्ञानाह्वां [घ्: ज्ञानाख्यां]
तदधः पुनः ।। १११ ।।
स्नानं विधिवद्देवानां [घ्: विधि च देवानां] सान्निध्यस्य तु
कारणम् ।
सर्वमन्त्रादिसंयुक्तो लोकानुग्रहकाम्यया ।। ११२ ।।
अत्र लिङ्गे महादेव भव सन्निधिमान्सदा ।
सूर्याचन्द्रमसौयावद्यावत्तिष्ठति मेदिनी ।। ११३ ।।
तावत्त्वयात्र देवेश स्थातव्यं स्वेच्छया प्रभो ।
एवमुक्त्वा शिवाज्ञां तु मन्त्रमूर्तौ महेश्वरे ।। ११४ ।।
प्राणदर्पाग्निसंहारकृद्भू [घ्: हृभ्दू] म्यम्बुचलात्मकम् ।
रूद्रेन्दुबिन्दुनादाख्यं जीवभूतं शिवं न्यसेत् ।। ११५ ।।
(लि [अयं चापचिह्नान्तर्गतः पाठ ख पुस्तकेनास्ति] ङ्गमूर्ध्नि करं
न्यस्य शिवमष्टशतं जपेत् ।
तेन सान्नैध्यमायान्ति वक्त्राङ्गानि पुनर्न्यसेत् ।। ११६ ।।
दिक्षु चोर्ध्वादिवक्त्राणि शक्तीः पीठे तु विन्यसेत् ।)
अघोरं हृदयं ध्यात्वा विन्यसेद्धृदयं ततः ।। ११७ ।।
पुरुषं तु शिवं तस्य [घ्: शिरस्यस्य] शिरः स्थाने विचिन्तयेत् ।
शिखा ईशानदेवेन शिखाभूतं विचिन्तयेत् ।। ११८ ।।
([चापान्तर्गतोऽयं पाठः घ् पुस्तके नास्ति] कवचं वामदेवं तु
ध्यायेद्गुह्यादि सर्वतः ।)
सद्योजापं न्यसेदस्त्रं हस्ते शूलादिकं पुनः ।। ११९ ।।
प्. ५४) द्वैताद्वैतास्तु ये मन्त्रा वाग्युक्ता ता [क्: शक्त्यान्तान्] (स्ता)
न्निरोधयेत् [मू: निबोधयेत्] ।
मुद्रा शक्तीश्वरी या तु पारंपर्यक्रमागता ।। १२० ।।
तां प्रदर्श्यात्मभावेन प्रयोगस्तु गुरौ स्थितः ।
ताभ्यां स्ववस्थिता [घ्: स्याच्च स्थिता] मन्त्रा आचन्द्रार्कं
शिवाज्ञया ।। १२१ ।।
द्वैते निरोधनं कुर्यान्मृत्यञ्जयेन वर्मणा ।
अद्वैतेऽघोरमन्त्रेण स्वहृदयेन वा भवेत् ।। १२२ ।।
अजाताद्यास्तु या मुद्राः पञ्चानुक्रमतः स्थिताः ।
ताभिरेव स्पृशेल्लिङ्गं पिण्डिका सहितं गुरुः ।। १२३ ।।
आह्वानास्थापना शम्भो निरोधा निष्कुरा [ख्, घ्: निष्ठुरा] तथा ।
प्रणामा पञ्चामीमुद्रास्यानां पञ्चमुखी क्रमात् [मू:
मुखक्रमात्] ।। १२४ ।।
पिण्डिका तु जगन्माता लिङ्गं तातश्चलाचले [घ्:
लिङ्गान्तान्तश्चराचरे] ।
संयोगः शिवगौर्योर्यः प्रतिष्ठा साभिधीयते [घ्: प्रगीयते] ।। १२५ ।।
धर्मार्धकाममोक्षार्थं पुरुषार्थचतुष्टयम् ।
स्थापनेज्याजपध्यानैः शिवाद्वै लभते सदा ।। १२६ ।।
प्राक्कर्ताख्येश्वरान्तं [मू: श्वराक्ष्यं] च लिङ्गं तत्प्रतिमापि
वा ।
दुर्गायामीश्वरी भानावादित्यो माधवो हरौ ।। १२७ ।।
प्. ५५) प्रतिष्ठितं यदा लिङ्गं तदीशाशास्थितौ गुरुः [क्, ग्: स्थापित
शिवदैशिकैः] ।
जपेत्पाशुपतं दिव्यं सर्वसंपूर्ति [घ्: संपूर्ण] कारकम् ।। १२८ ।।
गुरोरस्त्राम्बुना [ख्: म्भसा] स्नानं कर्तुः सिवघटाम्बुना ।
भूषणादीन् गुरोर्दत्वा कर्ताद्याच्चरुकं ततः ।। १२९ ।।
एवं प्रतिष्ठितं लिङ्गं वसुधान्यधनावहम् ।
राष्ट्रे सुभिक्षमारोग्यं कुर्याच्चौरादि [ख्: चौरारि] नाशनन् ।। १३० ।।
राजा विजयमाप्योति स्वसमी (सुमन्त्री) स्वप्रजाबलम् ? [घ्: सुसत्री
सुप्रजाबला] ।
स्थापकस्य सदा वृद्धिर्ये च तत्रोपजीविनः [ख्, घ्: योगिनः] ।। १३१ ।।
ओषध्यो धेनवो वृक्ष्यस्तद्युक्ता माहिषा वृषाः ।
शिल्पिनः कर्मकर्तारः सर्वे यान्ति शिवालयम् ।। १३२ ।।
शिवमन्त्रात्मकं लिङ्गं स्थापितं शिवदैशिकैः ।
भुक्तिमुक्तिप्रदं ज्ञेयमन्यथा तु विपर्ययः ।। १३३ ।।
दद्याद्वस्त्रं स्रगं गन्धं धूपं नैवेद्यदीपकौ ।
देवाय लेपनं भूषां भोज्यं दानं च सम्मतम् [घ्: सन्ततम्] ।।
१३४ ।।
तुर्येऽह्नी शिवयोगिभ्यो द्विजादिभ्यश्च यत्नतः ।
ततश्चण्डेश्वरं देवं स्थापयेद्विधिना गुरुः ।। १३५ ।।
पापघ्नो मधुना लेपो रजन्या पित्तरोगनुत् ।
रोचनयाक्षिरोगघ्नः फलिज्यां [मू: कलिन्या] च प्रियङ्करः ।। १३६ ।।
प्. ५६) तिलानां च पितृप्रीत्यै रिपुघ्नः पद्मकेसरः ।
नागपुष्पं सुभिक्षाय सप्ताहं च फलं क्रमात् ।। १३७ ।।
अर्घं स्नानं तथा पूजा अष्टमेऽहनि शङ्करे ।
चन्दनागुरुकपूरकुङ्कुमाद्यैश्च लेपनम् ।। १३८ ।।
बहुरूपेण मन्त्रेण वस्त्रं धूपं [ख्: पुष्पं] पवित्रकम् ।
अजेन [क्, ख्: अञ्जनं] रोचनां चैव दर्पणं पुरुषेण तु ।। १३९ ।।
ईशानेन तु पुष्पाणि मुकुटं कुण्डलं तथा ।
कटकं कटिसूत्रं च पट्टबन्धं च यद्भवेत् ।। १४० ।।
छत्र [मू, अ, ग्: सूत्र] ध्वजवितानानि चामरं पुष्पदामकम् [क्:
दर्पणादिकम्] ।
क्वचित्तेनैव गुह्यैर्वा सर्वाण्येतानि दाययेत् ।। १४१ ।।
एवं सपूजितं कृत्वा देवदेवं तदेश्वरम् [ग्: महेश्वरम्] ।
प्रणम्य दण्डवद्भमौ शनैर्गच्छेत्प्रदक्षिणम् ।। १४२ ।।
पुरतः पुनरागत्य विज्ञाप्यो भगवान्हरः ।
सुकृतं दुष्कृतं वापि अज्ञानाज्ज्ञानतः कृतम् ।। १४३ ।।
तत्सर्वमात्मना सार्धं मया तुभ्यं निवेदितम् ।
तस्मिन्काले प्रदातव्या दक्षिणा शिवयोगिने ।। १४४ ।।
आचार्यायोत्तमा देया साधकायाङ्घ्रिवर्जिता ।
पुत्रकायार्धतो देया समयिभ्यश्च पादिका ।। १४५ ।।
प्. ५७) अथेतरव्रतिभ्यश्च पादिकैव हि दक्षिणा ।
यथाशक्ति द्विजातिभ्यो दद्याद्दानं यथाविधि ।। १४६ ।।
स्थपतिं कारुकांश्चैव दीनान्धकृपणादिकान् ।
तौर्यिकान्गायकान्नर्तृन्नाद्येन तु तोषयेत् [ख्, घ्: तर्पयेत्] ।। १४७ ।।
रात्रौ महोत्सवं कुर्याच्छङ्खतूर्यादिनिस्वनैः ।
एकरात्रं त्रिरात्रं वा सप्तरात्रमथापि वा ।। १४८ ।।
दशाहं च प्रकुर्वीत महान्तं च परिच्छदम् ।
शासनाद्यं यतीशाभ्यां दद्याद्वित्तानुसारतः [ख्, घ्: रूपतः] ।।
१४९ ।।
सर्वसमं सहस्राह्वं [मू, क्, ग्: स्राङ्कं] द्विधा
दत्वाध्वपङ्क्तिगम् [मू: स्वपङ्क्ति; ख्: ष्टपङ्क्ति] ।
पुमादिभ्यो दिवाशुद्धिं विद्यादि तच्छतावृतम् ।। १५० ।।
सहस्राह्वे शताह्वे च लिङ्गे भिन्नाध्वकं [मू: ष्ककं; ग्: ष्टकं]
पुरा ।
चेतसः [क्, ख्: चेतः सं] स्थापनं कुर्यात्प्रतिष्ठा पूर्ववत्स्थिरा
[मू: स्थिरा] ।। १५१ ।।
दशमांशे कृते क्षेत्रे तन्मध्येऽशचतुष्टयम् ।
युगभागाश्चतुर्दिक्षु लुप्त्वैकैकं तु कोणतः ।। १५२ ।।
एवं सहस्रकोणानि [ख्, घ्: कोष्ठानि] कुर्यादेकाधिकानि तु ।
स्थाप्यानि तेषु लिङ्गानि तत्सङ्गयाभिर्विधानतः ।। १५३ ।।
पूर्ववत्तेषु यागः स्याल्लिङ्गेषु त्रिविधात्मसु ।
हीनानां तु विधिश्वायं ज्येष्ठानां स्थितिपूर्वकम् ।। १५४ ।।
प्. ५८) लक्षणोद्धरणं कृत्वा रत्नादिकं [ग्: रत्नोदकं] न्यसेत्ततः ।
तत्रानयेन्महालिङ्गं यन्त्रयोगेन बुद्धिमान् ।। १५५ ।।
अष्टास्रं मध्यतः कृत्वा द्वयोरन्ते च वर्तुलम् ।
मध्ये चाष्टारसंयुक्तं दृढकाष्ठेन मण्डितम् ।। १५६ ।।
संस्थाप्य मुसलीप्रान्तौ स्तम्भस्थं रन्ध्रयोर्द्वयोः ।
लिङ्गादीनि दृढैर्वध्वा चर्मजैदृढतन्तुभिः ।। १५७ ।।
ततश्चा [क्: ततस्तं; ख्, घ्: पश्चात्तत्] कर्षयेच्छीघ्रमारकान् [मू:
माकराद्] बहुभिर्जनैः ।
खरमेतत्समाख्यातं यन्त्रमुत्थापनाय च ।। १५८ ।।
सुवृत्त [मू: स्ववृत्त] स्थूलकाष्ठांशमुसलीद्वितयं तु वा ।
मुसल्यन्तादुरः [ख्: पुरः] काष्ठवेधेषु विनियोजयेत् ।। १५९ ।।
धूः [ख्: त्रिः] पृष्ठे काष्ठपट्टं तु योजयेल्लोहकण्टकैः ।
स्यात्पट्टशकटं त्वेवं बृहल्लिङ्गादिकर्षणे ।। १६० ।।
धूर्नासारन्ध्रयोश्चर्मरज्जुभ्यामामयेद्वृषम् ।
धवमालूरबिल्वाद्यैरन्यैर्वा दृढदारूभिः ।। १६१ ।।
शिविकाख्ये चतुष्काष्ठे यन्त्रे द्वे घटयेद् दृढे ।
ब्रह्मस्थाने [घ्: विष्णुस्थाने] द्रुतं लिङ्गं कीलकैस्ताडितं [मू:
स्थोलितं] दृढैः ।। १६२ ।।
तन्मन्त्रभ्यां समुत्थाप्य शिलापार्श्वेऽथ विन्यसेत् ।
रत्नाधारोर्ध्वतो [मू: धारार्धतो] न्यस्य काष्ठपट्टं समं
हृढम् ।। १६३ ।।
प्. ५९) तत्र विश्रामयेल्लिङ्गं ततः श्वभ्रे क्षिपेच्छनैः ।
सौम्याष्टकं विभिद्यार्घैर्दिग्विदिग्योजितैस्ततः ।। १६४ ।।
वस्त्रैरावेष्टितं श्लक्ष्णैरिष्टकावेष्टितं बहिः ।
बालुकापूरितं कृत्वा जलाधारं न्यसेत्ततः ।। १६५ ।।
तत्सिकतेष्टकां कृत्वा [ग्: धृत्वा] स्नाप्य मन्त्रान्न्यसेत्ततः ।
पूजां होमं च जाप्यं च कुर्याद्बल्यादि पूर्ववत् ।। १६६ ।।
चललिङ्गं द्विधा कार्यं पृथक्पीठैकपीठकम् ।
चान्द्रं विभिन्नपीठं तु सौर्यं चाभिन्नपीठकम् ।। १६७ ।।
स्वे स्वे क्षेत्रे महीवायबोर्मन्त्रन्यासं तु लिङ्गयोः ।
रसैर्वज्रौषधीभिश्च पृथक्पीठं तु योजयेत् ।। १६८ ।।
ध्यात्वा ज्ञानक्रियाशक्तिं लिङ्गपीठै यथाक्रमम् ।
इत्थं स्थिरं चलं लिङ्गं संस्थाप्यं यागपूर्वकम् ।। १६९ ।।
व्यक्ताह्वस्थापनं वक्ष्ये पञ्चभेदं मतान्तरे ।
ऊर्ध्वासीना च सुप्ता च यानस्था चान्तरिक्षगा ।। १७० ।।
आसां नेत्रक्रियापूर्वं स्नानाधिवासनं ततः ।
होमं च रथयात्रदि स्वमन्त्रैः पीठपूर्वकम् ।। १७१ ।।
सप्तभागीकृते गर्भे ब्रह्मस्थानं तु मध्यतः ।
रक्षः सुर [रक्षोऽसुर लि० पु० पा०] मनुष्याणां मध्यतोंऽशैः
क्रमात्त्रिभिः ।। १७२ ।।
मनुष्यसुरयोर्मध्ये त्वर्चाङ्घ्री स्थापयेत्सदा ।
रक्षोंऽशे स्थापनं नेष्टं धनायुर्धान्यनाशनात् ।। १७३ ।।
प्. ६०) कुड्यलग्ना न कर्तव्या स्वस्थानस्या तु भूतिदा ।
कुड्येन सह संयुक्ता यजमानं विनाशयेत् ।। १७४ ।।
तत्र ब्रह्मशिलां न्यस्य पीठपृष्ठार्ध [ख्: पृथ्वर्ध] विस्तराम् ।
सदर्धमुच्छृयं तस्या नवगर्भाब्जसंयुताम् ।। १७५ ।।
पूर्ववद्रत्नविन्यासो दिङ्मन्त्रेणेतरेण तु ।
ऊर्ध्वार्चा तेजसा योज्या आसीना वरुणेन तु ।। १७६ ।।
शयिता पार्थिवेनैव यानस्था चान्तरिक्षगा ।
वायुना स्थापयेत्प्राग्वैद् द्वैतेऽद्वैते निरोधनम् ।। १७७ ।।
परिवारान्विता देवा धराद्यान्व्याप्य संस्थिताः ।
क्ष्मादिपुमावधौ ब्रह्मा कादिमायान्तकेऽच्युतः ।। १७८ ।।
विद्यान्ताग्न्यादिके रूद्रश्चेशो चला [बला] दिबिन्दुके ।
सादाख्यः खादिनादान्तः शक्तीत्यादिपराविधिः [घ्:
न्व्यादिपरावधि] ।। १७९ ।।
अप्सरो यक्षरक्षांसि विद्याधृदहिकिन्नराः ।
भूतवेतालशाकिन्यो ग्रहनक्षत्रराशयः ।। १८० ।।
समुद्राः क्षेत्रपा नद्य [ख्: पलाद्या] ऋषिर्ब्रह्मा दिगादयः ।
उर्वीतत्त्वे स्थिताः शोध्या [ख्: साध्या] जरायुजोद्भिजाण्डजाः ।। १८१ ।।
क्षोणी कालः सदा ज्ञेयो वारी सङ्कणोत्तमः ।
प्रद्युम्नो वह्वितत्त्वस्थास्त्वनिरुद्धः समीरणे ।। १८२ ।।
प्. ६१) ब्रह्मा व्योम समाख्यातो मनो नारायरणः स्मृतः ।
धीर्विष्णुः कसरी गर्सो वासुदेवः पुमान्मतः ।। १८३ ।।
मत्स्यः कूर्मो वहाहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च रामश्च बुद्धः कल्की धरादितः ।। १८४ ।।
क्वचिद्भूः केशवः प्रोक्तो नारायणो जलाधिपः ।
माधवो वह्नितत्त्वे तु गोविन्दो मरुतात्मकः ।। १८५ ।।
विष्णुर्वियत्समाख्यातो मनो वै मधुसूदनः ।
बुद्धिस्त्रिविक्रमो ज्ञेयो गर्वो च वामनः सदा ।। १८६ ।।
अव्यक्तः [घ्: अव्यक्ते] श्रीधरः ख्यातो हृषीकेशः पुमान्मतः ।
पद्मनाभः सदाशक्तिर्दामोदरः सदेश्वरः [ख्: महेश्वरः] ।। १८७ ।।
क्ष्माम्बुबह्निमरुत्खानि मनोबुद्धिरहङ्कृतिः ।
अव्यक्तः पुरुषः शक्तिः परोर्का द्वादश क्रमात् ।। १८८ ।।
मित्रश्चैव तथा विष्णुर्वरुणः [घ्: जिष्णु] सूर्य एव च [ख्:
सूर्यसंज्ञकः] ।
सहस्रांशुश्च धाता च तपनः सविता तथा ।। १८९ ।।
गभस्तिरविपर्जन्यस्रष्टान्तास्तत्त्वनायकाः ।
एतत्तत्त्वे [ख्: एतेत्तत्त्व] स्थिता रुद्रा मार्गादिकार्तिकान्तगाः ।। १९० ।।
त्र्यक्षश्चोमापतिः स्थाणुर्नीलकण्ठश्चतुर्थकः ।
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ।। १९१ ।।
प्. ६२) ईशानो धनदो भीमो द्वादशैते तु विश्वपाः ।
तथोक्ता नवदुर्गाश्च अम्बिकादिगणाश्च ये ।। १९२ ।।
हरिहरार्धनारीशा ये चान्ये रुद्रमूर्तयः ।
योगिन्यो विविधाकारास्तथान्ये पूर्वचोदिताः ।। १९३ ।।
उपर्युपरि ते सर्वे स्थितास्तत्त्वाध्वगाः सुराः ।
परिवारान्विताः शोध्या माया [घ्: मया] तत्त्वावधौ मता ।। १९४ ।।
धरातत्त्वादिविद्यान्ता द्वात्रिंशदात्मतत्त्वजाः ।
विद्याङ्गानि च विद्येशाः संस्थाप्याश्चात्मतत्त्वतः ।। १९५ ।।
तिस्रः शक्तय ईशश्च पञ्चब्रह्माणि [घ्: ब्रह्माणि; मू: तु] तत्र च ।
स्थापयेज्ज्ञानतत्त्वेषु [क्, घ्: शक्तिद्वयं] शिवतत्त्वे शिवात्मकाः ।।
१९६ ।।
शिवतत्त्वे [घ्: सयोजनं] शिवाङ्गानि सदाख्यं शिवतत्त्वगम् ।
प्रतितत्त्वं सुराणां तु स्थापनाङ्गनि लक्षयेत् ।। १९७ ।।
मूर्तिर्नाम च मन्त्रश्च सोपचारश्च शोधनम् ।
तत्त्वसंशोधनं [मू, अ: बोधनं] चैव स्थापनं रोधनं [ख्:
बोधने] क्रमात् ।। १९८ ।।
भोगावाह्यधिकारौ च लयश्च परमीक्रिया ।
दैत्यादीनामथान्येषां द्वादशाङ्गानि रोपणे ।। १९९ ।।
सदागमार्थतत्त्वज्ञः शान्तो लब्धोपदेशकः ।
सर्वलक्षणहीनोऽपि ज्ञानवांस्तारको गुरुः ।। २०० ।।
प्. ६३) संसारसागरे घोरे प्रतिष्ठावर्त्मनौकया [मू:
धर्मनौकया] ।
तारयित्वा नयेत्कर्तृनिष्टदेवस्य यत्पुरम् [क्, ख्: सत्पुरम्] ।। २०१ ।।
अध्वानं यो नजानाति नासौ जानाति दीक्षितुम् ।
प्रतिष्ठां न च देवानां तस्मात्स्यादध्बविद्गुरुः ।। २०२ ।।
वीरभद्रमतं दृष्टा लिखितं हितकाम्यया ।
द्विशक्तिगर्भगानां तु स्थापनायाखिलं गुरोः ।। २०३ ।।
मूर्तिभेदात्क्रियामन्त्रफलानां भेद इष्यते ।
द्वैताद्वैतं तथा मिश्रमज्ञानाच्च विपर्ययः ।। २०४ ।।
व्यक्ताव्यप्रतिष्ठायां दृगुन्मीलनपूर्विका ।
कार्या सा पूर्ववत्कृत्स्ना अव्यक्तकेऽप्ययं विधिः ।। २०५ ।।
ब्रह्मवस्वर्तुभक्तं वा अर्धद्धित्रीशभागिकम् ।
वेशनं चैकवक्त्रे तु अर्धं सर्वं त्रिवक्त्रके ।। २०६ ।।
द्वयं सर्वं चतुरास्ये [घ्: चतुरस्रं] षट् पञ्च वा त्रिवक्त्रके ।
चतुः सहासमस्तं वा पञ्चानने क्वचिन्मतम् ।। २०७ ।।
तत्पार्श्वे योजयेत्पिण्डीं चतुरस्रां द्विखडिनीम् ।
अव्यक्ताख्ये [घ्: सुव्यक्ताख्ये] तथा कार्या त्र्यंशाधिकजलाश्रवा ।।
२०८ ।।
लिङ्गं प्रसेशयेत्पीठे पीठं वा [क्, ख्: पीठेऽर्चा] लिङ्गपार्श्वयोः ।
स्थाप्य संस्थाप्य सुस्थाप्य प्रतिष्ठोक्ता त्रिधा [ख्: क्रिया] क्रमात् ।।
२०९ ।।
प्. ६४) विधिनिष्पादितं सम्यङ्मित्रवत्सौख्यदं भवेत् ।
दुष्प्रयुक्तं पुनस्तत्तु शत्रुवद्भयकृद्भवेत् ।। २१० ।।
तस्मात्सम्यक्प्रविज्ञाय स्थापनं सुखकृन्मतम् ।
अन्यथा कर्मवैगुण्यादुभयोरशुभप्रदम् ।। २११ ।।
द्विजैर्बौंद्धैर्मगैर्नग्नैःकौलैर्लाकुल [मू: लोकुल] कारकैः ।
लिङ्गं वा शिल्पिभिर्न्यस्तं पुनः संस्कारमर्हति ।। २१२ ।।
मुखलिङ्गे सहस्राह्वे शताह्वे व्यक्तसंज्ञके [घ्: शताख्येऽव्यक्तके]
।
अव्यक्ताख्ये [घ्: सुव्यक्ताख्ये] स्थिरार्चायां चण्डकॢप्तिश्च वक्ष्यते ।।
२१३ ।।
इति लक्षणसमुच्चये त्रिधा लिङ्गरोपणंनाम [शब्दोऽयं
लिखितपुस्तकेषु नास्ति] षोडशो विधिः ।। १६ ।।
अथ सप्तदशः
चतुर्थेऽह्नि कृतस्नानो यजमानो यजेत्सदा ।
गुरूर्मूर्तिधरान् सर्वान्गन्धादिकनकाम्बरैः ।। १ ।।
ततः शिवतनुर्भूत्वा अर्धकुम्भास्त्ररक्षणम् ।
कृत्वा प्राग्वद्गुरुः सर्वं लिप्तपीठे पुरं न्यसेत् ।। २ ।।
प्रार्धचन्द्रवत्कृत्वा जलद्वारेक [ख्: धारैक] शोभितम् ।
सिताजाष्टदलोपेतं मध्ये कर्णिकयान्वितम् ।। ३ ।।
द्विहस्तं कन्यसे लिङ्गे हस्तदघ्नाम्बुभागिके ।
कर्णिकां केसरान्सन्धिं दलाग्रान्मध्वतः क्रमात् ।। ४ ।।
पीतेन कर्णिका कार्या हरितं पञ्चपुष्करम् ।
सितलोहितपीतानि केसराणि क्रमाज्जिनैः ।। ५ ।।
श्वेतपत्राणि रेखा च रक्तकृष्णान्तराणि च ।
सिते तु मेखलाद्वारे अन्येषां करवृद्धितः [अस्य श्लोकार्धस्य ख्
पुस्तके भिन्नः पाठो वर्ततेसिते तु श्वेतपत्राणि रक्तकृष्णोत्तराणि च इति ।]
।। ६ ।।
ततो निर्माल्यमाकृष्य चतुर्थेऽह्नि कृतं [ख्: स्थित] च यत् ।
ऐशान्यां तद्व्यवस्थाप्य [क्: तदव-] नैवेद्यं च विसर्जयेत् [घ्:
विसर्ज्य च] ।। ७ ।।
पञ्चस्वादुभिरास्नाप्य गन्धाद्यैः पूजयेच्छिवम् ।
तोषितो [घ्: योजितो] ऽविधवोद्गीतै [मू: धवागीतै]
र्मङ्गलैस्तूर्यनिस्वनैः ।। ८ ।।
प्. ६६) यजेयुररूणैः सूत्रैर्वेष्टितैः [घ्: वेष्ठिते] सम्मतादिभिः ।
ततो विज्ञापयेदीशं चण्डेशेष्ट्यै गुरूस्तदा ।। ९ ।।
तत्र चण्डेश्वरं ध्यात्वा स्ववक्त्राङ्गप्रदीपितम् ।
यजेद्गन्धादिभिर्होमस्तत्कुण्डे स्याच्छतं शतम् ।। १० ।।
देवी ह्यागर्भपुंस्त्वानि [मू.: ह्यागच्छ पुंस्त्वापि] सीमन्तं
जातनाम च ।
निष्क्रान्त्यन्नशिखाकर्मव्रतोद्वाहमुखाङ्ककैः [मू.:
सुखांशकै] ।। ११ ।।
वागीश्वरीं च विद्येशं हुत्वा संश्रषयेच्चरुम् ।
पञ्चभिर्ब्रह्माभिः साङ्गैश्चण्डादीन् जुहुयात्ततः ।। १२ ।।
प्रसादगर्भमानेन कृत्वादौ [ख्: द्वौ] चण्डवेश्म च ।
चण्डेश्वरं व्यवस्थाप्व ऐशान्यां जगतीबहिः ।। १३ ।।
शिवतेजः समुद्भूतं रौद्रं क्रूरं भयावहम् ।
शासनं मूर्तिवक्त्राङ्गं यजेच्चण्डं विधानतः [घ्: विधानवत्] ।।
१४ ।।
ज्ञानशक्तिपदैर्मन्त्रैर्हुं फट्कारसमन्वितैः ।
चण्डोपपदसंयुक्तैः प्राग्वच्चण्डेश्वरं यजेत् ।। १५ ।।
ध्यायेन्न वाम्बुदाभासं चतुर्वक्त्रं चतुर्भुजम् ।
त्र्यक्षं चन्द्रजटाजूटं दीप्तास्यं फणिकङ्कणम् ।। १६ ।।
शूलटङ्कोद्यतं हस्तं कमण्डल्वक्षमालिकम् ।
महोरगोपवीतं च प्रपन्नार्तिविनाशनम् ।। १७ ।।
प्. ६७) कृत्वा प्राणैर्यथात्मस्थं चण्डं [ख्: स्वस्थं] तत्र निवेशयेत्
।
आधारशक्तिपद्मे तु समयादिनियामकम् ।। १८ ।।
शिवार्चाचरू नैवेद्यभक्षणं लङ्घनं [मू: लक्षणं] स्रजाम् ।
प्रदानं दीक्षितस्यापि शिवाज्ञया निवारितम् ।। १९ ।।
अद्यारभ्य त्वया चण्ड स्थेयं यावद्धरस्त्विह ।
ज्ञानतोऽज्ञानतो वापि न्यूनाधिकं क्षमस्व मे ।। २० ।।
त्वमेतत्सन्निधौ [ख्: त्वमेव-] तिष्ठ शिवार्थपरिरक्षया ।
निर्माल्यवर्तनं तुभ्यं प्रदत्तं हि शिवाज्ञया ।। २१ ।।
लेह्यचोष्यान्नपानादिताम्बूलंस्रग्विलेपनम् ।
धूपं दीपं च निर्माल्यं त्यक्त्वा वस्त्रार्थभूषणम् ।। २२ ।।
दिशां बलिं ततो दद्यादाचार्याय च [मू: यैव] दक्षिणाम् ।
धेनुमेकां [मू: धेन्वात्मकं] वृषश्चैकं
खुरशृङ्गसमन्वितम् ।। २३ ।।
पुरूषः सिद्धियुक्तोऽपि दानलङ्घनभक्षणात् ।
निर्माल्यस्य पतेत् क्षिप्रं द्वैतलिङ्गे विधिस्त्वयम् ।। २४ ।।
स्नानं पूजा तथा होमो भास्करेऽह्नि चतुर्थके ।
तेजश्चण्डस्य यागश्च सर्वः स्यात्पूर्ववद्विधिः ।। २५ ।।
द्वैतात्मके चले लिङ्गे विना चण्डं तु पूर्ववत् ।
तन्निर्माल्यं क्षिपेदप्सु गर्भे चाग्नौ विसर्जनम् [घ्: विवर्जनम्] ।। २६ ।।
द्व्यास्यं च पञ्चवक्त्रं च तद्वत्सुव्यक्तकं च यत् ।
प्. ६८) राष्ट्रोपद्रवसिद्ध्यर्थं तत्स्थाप्यं गुह्यदेशतः ।। २७ ।।
श्मशाने वृक्षमूले वा अटव्यां ह्रदसन्निधौ ।
अभ्रावकाशे नगाग्रे [ख्: भ्राचकासे नगाग्रेषु] स्वाशायां
फलदायकम् ।। २८ ।।
दिग्लिङ्गं चाहितास्रं [मू: ताम्रं] च गुहायामैहिकार्थकृत् ।
स्वार्थमन्त्रस्थितिस्तेन चण्डेशो न स्थिरेष्वपि ।। २९ ।।
विष्णोश्चतुर्थिका स्नानं पूजा चैव विशेषिका ।
(वि [चार्पा चिह्नान्तर्गतोऽयं पाठः ख पुस्तके नास्ति] ष्वक्सेनं
यजेदब्जे होमदानादिपूर्ववत् ।। ३० ।।
पटपुस्तकवह्नीनां नागयक्षेन्द्रयोगिनाम् ।
गणवर्गाम्बिकानां च ननिर्माल्यं शिवे यथा ) ।। ३१ ।।
विद्यान्तमैहिके [क्, ख्, घ्: बिम्बा-] लिङ्गे निर्माल्यं चण्डवर्जिते ।
पुरी सागरदैत्याद्या ऋषिदिग्देवताग्रहाः ।। ३२ ।।
अप्येते द्वैतधर्मस्था न निर्माल्यः शुभप्रदाः ।
दीक्षास्थापनयागोत्थं [मू: यागाथं] निर्माल्यं नैव दोषकृत् ।।
३३ ।।
स्वयंभूर्बाणलिङ्गं च महद्भिः स्थापितं च यत् ।
द्वैताद्वैतानी तान्यत्र सामान्यनि च सिद्धये ।। ३४ ।।
क्षेत्रपालोऽष्टलिङ्गं च दत्तात्रेयश्च भैरवः ।
मार्तण्डश्चेत्यथाद्वैते निर्माल्यं चण्डवर्जितम् ।। ३५ ।।
स्वेष्टलिङ्गगतं पूतं पुष्पादिसिद्धिदं हि तत् ।
स्वेष्टं न दर्शयेल्लोके अद्वैते विधिकल्पितम् ।। ३६ ।।
प्. ६९) अहैतास्ते तु विज्ञेया वामदक्षिणमन्त्रजाः ।
दिव्यतोयादिकं तेषां स्नानेऽर्घे तर्पणे हितम् ।। ३७ ।।
तस्मै स्वेष्टाय यद्दत्तं चरुवत्तन्नसंशयः ।
नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापयेत् ।। ३८ ।।
प्राशितेन च तेन स्यात्पापनाशोऽणिमादिकाः ।
सिद्धिर्लभेत नो चित्रं लिङ्गसन्निहितं यदा [घ्: सदा] ।। ३९ ।।
अनेन विधिना सिद्धा ब्रह्मोपेन्द्रादयः सुराः ।
जयद्रथादयोऽप्यन्य इत्याह भगवाञ्छिवः ।। ४० ।।
इति लक्षणसमुच्चये चण्डेश्वरस्थापनं नाम सप्तदशो विधिः ।। १७ ।।
अथष्टादशः
स्थापयेन्नाम [घ्: त्तां स] मन्त्रैः स्वैरण्डजोद्भिज्जरायुजान् ।
नयनोन्मीलनाद्येषां पूर्ववत्सकलं भवेत् ।। १ ।।
त्यजन्त्यपूजितं मन्त्रा (न्त्रं) [मू: मन्त्रै] रात्नं लौहं च
शैलजम् ।
दारुमृज्जं क्रमान्मासं पञ्चमं [मू: मासात्पञ्चपं]
चाहवर्जनात् ।। २ ।।
लेप्यचित्रागमानां च धारणाभिर्विशोधनम् ।
स्नानादि मानसं कार्यं तथा रत्नशिलादिकम् ।। ३ ।।
नेत्रोन्मीलनमित्यादि पूर्ववच्चासनादिकम् ।
निम्रबुकुसुमैः पूजा यया चित्रं न नश्यति ।। ४ ।।
तोरणं रूपकाक्षीणि [ख्: कार्काणि] स्थानं पूजाहुतिं [मू:
ह्नुतिं] बलिम् ।
कृत्वेष्ट्वा वास्तुनश्चादौ [घ्: नृंश्चादौ] रत्नानि विनिवेश्य [मू, ख्:
रत्नादिनि निवेश्य] च ।। ५ ।।
दिङ्मात्रेण ग्रमात्पञ्चात्तोरणं परिरोप्य च ।
वसूं [मू: वस्त्रं सु] ञ्च स्तम्भयोर्न्यस्य दिनेशांस्त [मू:
र्न्यसेद्दिशां तद्व] दुदुम्बरे ।। ६ ।।
शैलालीनामथान्येषां स्तम्भादीनामयं विधिः ।
शुलेऽप्यवं यजन्त्यङ्गं युक्ता दण्डे च दीपनी ? ।। ७ ।।
प्. ७१) अष्टपत्रे सिते पद्मे कार्णिकाकेसरोज्वले ।
एकद्वित्रिकरे पूज्यः शिववद्भगवान्गुरुः ।। ८ ।।
मूर्तिवक्त्राङसंयुक्तस्ततः शिवशतं जपेत् ।
अघोरं पश्चिमास्यं वा होतव्यं जपसंङ्ख्यया ।। ९ ।।
सौम्याशायां न्यसेन्मुक्तौ पूर्वतो भूक्तिहेतवे ।
वेष्टितं वस्त्रयुग्मेन योगमीठं दृढं वरम् ।। १० ।।
तत्रानन्तमथेष्ट्वादौ ततोऽन्यं वा [क्, ख्, घ्: न्यस्य] गुरुं स्वकन् ।
तन्मन्त्रतत्त्व [क्, ख्: तनु] मावाह्य अनन्येशं गुरुं [मू: स्वकं]
यजेत् ।। ११ ।।
ग्राह्यावङ्घ्री अजातेन न्यसेत्पीठें (ठं) सगुह्यकम् ।
तत्सान्निध्यं त्वघोरेण देयश्चार्घो नरेण तु ।। १२ ।।
ईशानेन स्रजा [ख्: सम] भ्यर्च्य हृल्लिङ्गं मुद्रयान्वितः ।
पटावृतकरस्तिष्ठेच्छिववत् स गुरुः [मू: स्वगुरुः] स्वयम् ।। १३ ।।
नानालङ्कारवस्त्राद्यैः कर्ता तं पूजयेद्गुरुम् ।
मुकुटैः कुण्डलैर्हारैः केयूरैः कटकै [ख्, घ्: कङ्कणैः] स्तथा ।।
१४ ।।
मेखलाब्रह्मसूत्रैश्च नूपुरैश्चांगुलीयकैः ।
नानाप्रकारवासोभिरिष्ट्वा दद्याच्च दक्षिणाम् ।। १५ ।।
राजानो मण्डलश्रेष्ठं [ग्: ज्येष्ठं] विषयं मण्डलाधिपः ।
विषयाधिपतिर्ग्रामं क्षेत्रं ग्रामाधिपस्तथा ।। १६ ।।
प्. ७२) मत्तेभयुगलं तस्मै सत्सु वर्णविभूषितम् ।
अष्टौ हयान्महावेगान्नुक्माभरणभूषितान् [ख्, घ्: माण्डतान्] ।।
१७ ।।
गोसहस्रं पयोयुक्तं हेमभारं सुशोभनम् ।
दासान् दासीः सुभक्ष्यांश्च शयनं चाम्बरं वरम् ।। १८ ।।
छत्रचामरभृङ्गारं व्यजनं पादुकां तथा ।
गृहोपस्करणं सर्वं भक्तिपूर्वं निवेदयेत् ।। १९ ।।
नृपादीनामिदं दानं तदर्धार्धं क्रमेण तु ।
वित्तानुरोधतोऽन्येषामष्टांशेन [घ्: मंशाष्टेन] गुरुं प्रति ।। २०
।।
भ्रातृपुत्रकलत्रैश्च बन्धुभृत्यजनैः सह ।
निवेदयेत्तथात्मानं ततो विज्ञापयेद्गुरुम् ।। २१ ।।
भगवन्सर्वधर्मज्ञ सर्वधर्मपरायण ।
अद्य मे सफलं जन्म यत्संसारमहार्णवात् ।। २२ ।।
उद्धृतोऽहं त्वया नाथ क्लेशितस्त्वं क्षमस्वं मे ।
ततस्तु स्थापको हृस्टो यजमानेन पूजितः ।। २३ ।।
प्रतिष्ठायाः फलं कर्त्रे ददाति सकलं ततः ।
दीक्षस्थापनयागान्ते पर्वण्यभ्यागते तथा ।। २४ ।।
मन्त्रलाभे च सिद्धौ च विशुद्धा स्यात्शुभे क्षणे ।
असंपूज्य गुरुं मोहान्मूर्तिपानथ जापिनः ।। २५ ।।
नैव तत्फलमाप्नोति स्थापकस्य हि तद्भवेत् ।
सर्वं सदुष्करं [क्, ख्: सुपुष्कलं] कार्यं महापुण्यजिगीषया ।। २६
।।
प्. ७३) अन्यथा न भवेत्पुण्यं दोष एव तु जायते ।
निर्द्रव्ये हन्ति कर्तारं मन्त्रहीने तु दैशिकम् ।। २७ ।।
दानहीने तु तद्धर्मं तद्राष्ट्रं चान्नहीनके ।
धेनुहीने तथैवायुः प्रजा वै पुष्पहीनके ।। २८ ।।
ब्रीहिहीने तथा शस्यं होमहीने तु वर्षणम् ।
पुत्रं यागे च निर्वस्त्रे प्रमदा धूपहीनके ।। २९ ।।
गन्धहीने भवेद्रोगस्तेजोहृद्दीपहीनके ।
निष्पताके प्रजा हन्ति बलिहीने तथा कुलम् ।। ३० ।।
दारिद्र्यं हेमहीने स्यात्तस्मात्पूर्णविधौ फलम् ।
प्रतिष्ठार्थं प्रकल्प्यादौ द्रव्यं यच्छुचि शाश्वतम् ।। ३१ ।।
तद्युगांशं विभज्याथ कृत्वार्धं लिङ्गसद्मनि [घ्:
धर्मलिङ्गसन्मनी] ।
त्र्यंशेन स्थापनं तत्र चतुर्थांशं पुनस्त्रिधा ।। ३२ ।।
स्थापकाय तु तत्रैकं दानार्थं तु द्वितीयकम् ।
तृतीयं भोजनाद्यर्थं कर्ता धर्माय कल्पयेत् ।। ३३ ।।
अन्यायार्थैर्बलैर्वापि संप्रतार्यापि कारयेत् ।
यागकालेषु दत्वा च अर्थे नाप्रतिपादनम् ।। ३४ ।।
सूच्यास्ये नरके तिष्ठेत्कर्ता ह्याचन्द्रतारकम् ।
यागस्योपस्करः पूतो गुरोर्ग्राह्यः स मण्डपः ।। ३५ ।।
स्नानाख्यः शिल्पिनस्तद्वदुपस्करसमन्वितः ।
यद्द्रव्यं लिङ्ग [घ्: यल्लिङ्गगर्भ] भोग्यं च धामगर्भे निवेशितम्
।। ३६ ।।
प्. ७४) तच्चण्डेशाय दातव्यमर्थंकोषं [क्, ख्: कामं] च पालयेत् ।
गुरुयागविधिः प्रोक्तः सिद्धलिङ्गविधिः स्थितः ।। ३७ ।।
इति लक्षणसमुच्चये तोरणास्तम्भग्रहपूजा [घ्: गुरुपूजा]
जरायुजादि भूतादि [क्, ख्: शब्दो] स्थापनं नाम अष्टादशो विधिः ।।
१८ ।।
अथैकोनविंशः
ये रुद्रा लिङ्गरूपेण स्थितास्ते सर्वसिद्धिदाः ।
लोकानुग्रहहेत्वर्थं स्वयं भावात्स्वयंभुवः ।। १ ।।
स्वयंभूलिङ्गवद्बाणलिङ्गं भुक्त्यै च मुक्तये ।
सहस्रफलमन्यस्माद्दद्यात्स्थापनपूजनात् ।। २ ।।
श्रीशैले कालिकागर्ते लिङ्गाद्रौ कन्यकाश्रमे ।
कन्यातीर्थे च नेपाले महेन्द्रे चामरेश्वरे ।। ३ ।।
स्थितानि बाण [मू: चाथ] लिङ्गानि शिवतत्त्वकृतानि च ।
सरित्प्रवाहसंस्थानं बाणलिङ्गसमाकृतिः ।। ४ ।।
यदन्यदपि बोद्धव्यं लिङ्गं सर्वसुखावहम् ।
यात्रावन्त्यथ भोग्यानी [घ्: गानि] मन्त्रवन्ति स्फुरन्ति च ।। ५ ।।
तानि मन्त्रबलाल्लक्ष्मीः स्वयमेवोपभुञ्जते ।
तथान्यैः स्थापितान्यत्र ऋषिदेवैः सुरोरगैः [ख्: गणैः] ।। ६ ।।
सिद्धिदानि स्वतन्त्राणि भोगाद्यानि स्रयन्ति [ख्, घ्: ढ्यानि] च ।
स्फुटितादिनि वक्त्रा (क्रा) णि न दुष्टान्यर्थसिद्धये ।। ७ ।।
ग्रहणं बाणलिङ्गस्य स्थापनं चोच्यतेऽधुना ।
स्नातैरुपोषितैर्भक्तैः शिवयागकृतै [घ्: यागे कृते] र्भृशम् ।। ८ ।।
प्. ७६) विज्ञापयेत्ततो देवं ममानुग्रहहेतवे ।
स्वेच्छयागच्छ बाणेश यत्र स्थानं [घ्: स्थाने] मयेप्सितम् ।। ९ ।।
तत्रानीयाधिवासं च कुर्यात्स्नानादि पूर्ववत् ।
जुहुयाद्दक्षिणं वक्त्रं व्याहृतिं वा शिवस्य तु ।। १० ।।
स्वेच्छया वा [मू: ध्वा] विभूत्यर्थं शोध्यो नो [ख्: स्वध्यानो] वा
विमुक्तये ।
मूर्तिलक्षणसूत्राणां पूर्वाद्या [ख्, घ्: प्रवाद्यो] भ्रमणादिकः
।। ११ ।।
विधिनोक्तस्तथाप्यत्रः सान्निध्यं नित्यमेव हि ।
नित्योदयानि लिङ्गानि शुद्धाशुद्धोदयानि च ।। १२ ।।
आसने संस्थितं नो वा शक्तिस्थं मूर्तिसंस्थितम् [मू: युतम्] ।
चलं स्थिरं विभूत्यर्थं स्थाप्यं चित्सन्निधानतः ।। १३ ।।
चतुर्थीहोम चण्डेशो [ख्: चन्द्रेणो] विशेषोऽध्वा न विद्यते ।
मन्त्रसाधनयोगेषु साधकैः सु [ख्, घ्: सं] प्रतिष्ठिते ।। १४ ।।
विधिः स्यात्पूर्वजो यद्वत्तद्वदन्यत्र [मू: प्यत्र] वा भवेत् ।
प्राक्संस्कृतेऽथवा बाणे [मू: त्याथ बाणेन] पुनरेव विधिः स्वकः
।। १५ ।।
मन्त्रन्यस्तेऽथवा द्वैतेऽद्वैते वा स्यान्नसङ्करः ।
तत्र न्यासो ही यो लिङ्गे तेन तत्सन्निधानवत् ।। १६ ।।
लिङ्गारोहे कृते चेत्थं युक्तेऽन्यस्मिन्स पूर्ववत् ।
तथापि तत्र सान्निध्यं कर्तव्यं दैशिकैः सदा ।। १७ ।।
प्. ७७) हुत्वाघोरसहस्रं च मधुनाक्तैरुदुम्बरैः ।
ततस्तु दैशिकान् पञ्च भोजयेत्सिद्धिकाम्यया ।। १८ ।।
ताडनामसिनाकृष्टिमिडया मुष्टिना ग्रहम् ।
द्वैतेऽत्र विधिना [ग्: मन्त्र बिना] कृत्वाद्वैते मन्त्रं प्ररोपयेत् ।। १९ ।।
अद्वैतद्वैतसंरोहे स्वमन्त्रान्न परित्यजेत् ।
अभ्यागतस्तथा [घ्: गतो यथा] पूज्यः स्वांशस्थः सिद्धिकृद्भवेत् ।।
२० ।।
धामगर्भं तु सूत्रं तु त्यक्त्वा भूम्यग्रतः पूरा ।
वृषस्य मण्डपी कार्या [मण्डपः कार्यः इति साधु पाठः]
प्रासादगर्भमानतः ।। २१ ।।
तत्रारोप्य वृषो यत्नात्सम्भारे सकले कृते ।
उत्कीर्याज्याधिवास्याथ [मू: वासार्थं] स्नानं पूजापिपूर्ववत् ।। २२
।।
त्रितत्त्वं जुहुयाद्ब्रह्मवृक्षोत्थसमिधः क्रमात् ।
सेच्यः संपा [घ्: सपा] ततोयेन न्यसेद्रत्नादिकं ततः ।। २३ ।।
ततो वृषं न्यसेत्पीठे तत्त्वे स्थिरचले स्थिते ।
वृषभध्वजमन्त्रेण मूर्त्यङ्गानि परं तथा ।। २४ ।।
नाकालमृत्युर्नो व्याधिर्नोपसर्गभयं जने [जनैः लि० पु० पा०] ।
राजा च विजयी तत्र यत्र सम्यग् [मू: शस्य] वृषस्थितः ।। २५ ।।
वृषो धर्मस्तु देवस्य गुणो ज्ञानक्रियात्भकः ।
धत्ते च सम्विदं यस्मा [मू: सश्रिदं यस्मा; ख्: संविधेः स्या]
द्धर्मस्तेनोच्यते बुधैः ।। २६ ।।
प्. ७८) कृताधिवासनं वस्त्रप्रावृतं माल्यभूषितम् ।
मुहूर्ते मङ्गले स्थाप्य द्विगुणं फलमश्नुते [मू: संयुतम्] ।। २७ ।।
शृङ्गार्क [मू: शृङ्गार्ग] संयुतं प्राग्वद् व्योमादित्याग्रतो भवेत्
।
तार्क्ष्योऽप्येवं स्वमन्त्रेण वाहनान्यपराण्यपि ।। २८ ।।
इति देवानां वाहनस्थापनम्
यजमानानुकूलेऽह्नि सम्भारे विहितेऽखिले ।
यजेद्गुर्वादिकं कर्ता स्थाण्डिलं च ततो गुरुः ।। २९ ।।
नन्द्यादिदृक्क्रिया स्नानं पूजा होमं च पूर्ववत् ।
भागस्पर्शं च शुद्धिं च विदधीताखिलं क्रमात् ।। ३० ।।
द्वारदेशात्ततश्चाध इष्ट्वा वास्तुनरं सुधीः ।
रत्नादि पूर्ववन्न्यस्य [न्न्यस्त्वा लि० पु० पा०] रुद्रं हुत्वा च शान्तये ।।
३१ ।।
सुवस्त्रावेष्टितद्वारं शिवास्त्रदिग्घटैर्वृतम् [मू: र्युतम्] ।
तन्मध्यान्मध्यमुन्मुच्य किञ्चिदुत्तरतो न्यसेत् ।। ३२ ।।
यवरक्षोघ्नबिल्वानि [मू: चिह्नाह्वा; ग्: चिह्नाङ्का] फलिनी गदतन्त्रिका
।
तिलाब्रीहिश्च [मू: होमं च] रोगघ्नं रोचनां च सहां तथा ।। ३३ ।।
गोशृङ्गेभर (ह्र) दोत्खातमृत्स्ना दूर्वा दधीनि च ।
वरवस्त्रोदरे बध्द्वा रक्षणार्थमुदुम्बरे ।। ३४ ।।
प्. ७९) देहल्यां शाखयोर्मूघ्नि [घ्: र्व्योम्नि] आत्मविद्या शिवं न्यसेत्
।
सप्तसप्ताहुतिस्तत्र तत्त्वे तत्त्वे तु [ख्: त्रि] होमयेत् ।। ३५ ।।
स्थिरं चैवाप्रमेयं च बोधाख्यं नित्यसंज्ञकम् ।
व्यापिनं चाविनासं च तृप्ताह्वं जुहुयात्क्रमात् ।। ३६ ।।
नन्द्यादिप्रतिहारौ च अन्यांश्चात्र विनिर्मितान् ।
स्वनामभिः प्रतिष्ठाप्य पूर्णं दत्वा दिशां बलिम् ।। ३७ ।।
गुरुं मूर्तिधरं [घ्: भृतः] कारून् पूजयेच्च स्वशक्तितः ।
कर्ता तु द्वारिवक्त्रे स्याद्दिग्व्योमे [क्: दिग्घामे] च भवेच्छुभम् ।। ३८ ।।
इति द्वारस्थापनम् ।
अथेष्ट्वादौ [मू: न्द्रादौ] जपे [ख्: यजे] द्रुद्रं हुत्वा चाष्टोत्तरं
शतम् [क्, ग्: शुभम्] ।
गुर्वादौ दक्षिणां दत्वा इन्द्रादीनां बलिं तथा ।। ३९ ।।
धातुरत्नौषधीबीजैर्लोहैः सर्वैः पुरोदितैः ।
वस्त्रबद्धैर्युतं कृत्वा सुदिने तत्त्वसंस्थितः ।। ४० ।।
दधिसर्पिष्पयः क्षौद्रपायसैः परिपूर्य च ।
धामगर्भेंशुकाघ्राते न्यसेद्धृत्पद्मवद् घटम् ।। ४१ ।।
प्रणवाधारशक्त्यब्जमूर्तिभूतं घटं न्यसेत् ।
सौवर्णं राजतं वापि ताम्रं वा भूत्यपेक्षया ।। ४२ ।।
गन्धाक्तं गन्धवत्पुष्पमालालङ्कृतकण्ठकम् ।
चूताशोकवटाश्वत्थदलभूषितवक्त्रकम् [ख्: चक्रकम्] ।। ४३ ।।
प्. ८०) कृतरक्षं [क्: रक्तं] विधायाणुं [मू: यास्र; क्, ख्: याण्डं]
तत्त्वमाहृत्य योजयेत् ।
यद्विधानमुपादानं व्यक्तिस्थानं परापरम् [ मू:
स्थानमवापतुम्] ।। ४४ ।।
सर्वात्मना [मू: गुर्वात्मान] मभिन्नं तत्सन्धायाणुं
विदंशकात् [मू: त्वद्मि दंशकान्] ।
गृण्हीयात्प्राणशक्त्यैव शिवाज्ञां संप्रबोधयेत् ।। ४५ ।।
संहृत्य कुम्भकं कृत्वा स्थित्वा किञ्चिदचिन्तकः ।
उत्कील्य [मू: उन्मील्य] हु/फडावस्थं स्फुरन्नारातनूपमम् ।। ४६ ।।
द्वादशान्तात्समादाय रेचकेन घटे न्यसेत् ।
तत्राभि [घ्: तत्राह] वादकं देहं न्यसेत्तसद्गुण [घ्: तगुण]
बोधकम् [क्, ग्: रोधकम्] ।। ४७ ।।
कलादिधारणीप्रान्तं स्वेश्वरं [ख्: शेखरं; ग्: मेखलं]
स्वपदाणुभिः ।
ओं कलायै [ग्: तुङ्गलायै] नमस्कृत्य तथैव च कलाभृते ।। ४८ ।।
दिशा न योज्य शेषाध्व [मू: शेषार्थं] प्रयोगस्तत्त्वदर्शिना ।
दशनाडी दशप्राणाः करणानि तदीश्वरान् ।। ४९ ।।
न्यसेद्विशेषतस्तेषां नामानि तान्यतः क्रमात् ।
इडा च पिङ्गला चैव सुषुम्ना च तथा भवेत् ।। ५० ।।
गान्धारी हस्तिजिह्वा च पूषा चैव यशा [मू, अ, क्, ख्, ग्, घ्: यथा]
तथा ।
अलम्बुषा कुहुश्चैव शङ्खिनी दशमी स्मृता ।। ५१ ।।
प्. ८१) दशप्राणवहा ह्येता नाडयः परिकीर्तिताः ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।। ५२ ।।
नागः कूर्मः कृकाख्यश्च देवदत्तो धनञ्जयः ।
वाक्पाणिपादशिश्नानि सपायूनि क्रियागणाः ।। ५३ ।।
श्रोत्रं त्वक्चक्षुषीजिह्वा नासा चित्तं च तीव्रजाः ।
अग्नीन्द्रोपेन्द्रतुर्यास्यविभ्रान्ताः पतयः क्रमात् ।। ५४ ।।
खदिग्वायवर्कवारीन्द्राश्विनिनिशाकरास्तथा ।
पतयो धी [घ्: ही] न्द्रियाणां तु योज्याः पूजा [मू: पूज्या] विशेषतः
।। ५५ ।।
विकारपूरकत्वेन मायाकालनियामिके ।
स्व [मू: सु] साध्यसाधकत्वेन प्रेरकत्वेन मन्त्रयोः ।। ५६ ।।
योज्यः सहाणुभिर्देवो [ख्: सदा नृ-] व्यापकत्वेन धीमता ।
तदङ्गानि ततः सर्वं निरुन्ध्याद्रोधमुद्रया ।। ५७ ।।
हुत्वा सान्निध्यमेतेषां विधिच्छिद्रं निवर्तयेत् ।
ततश्च वेदिकाबन्धः कण्ठमामलसारकः [मू: सामलसावकाः] ।।
५८ ।।
वेदिकाचतुरस्रे तु [मू: रस्रेण] विद्येशान्मूर्ध्नि चेश्वरः ।
कुम्भे सदाशिवं न्यस्य शक्तिं च ग्रहचूलके ।। ५९ ।।
सर्वतत्त्वात्मकं धाम तत्तत्त्वं प्रोच्यते क्रमात् ।
धराम्भोऽग्निमरुद्व्योम भूतानां [ख्: चूडानां] क्रमतः
स्थितिः ।। ६० ।।
प्. ८२) धारणैः सङ्ग्रहे पाके व्यूहे स्वास्थे [मू: हास्ये] च धाम्नि तु
।
धूपपुष्पस्थितो गन्धो रसो नैवेद्यतस्तथा ।। ६१ ।।
रथकार्ये [घ्: रक्षाकाद्ये] स्थितं रूपं स्पर्शो मसृणकर्कशे ।
शब्दस्तौर्यादिकस्तत्र शुकाघ्रा नासिका सदा ।। ६२ ।।
पिण्डिका रसना तस्य मञ्जरीवेदिके दृशौ ।
त्वक्सुधाजालकं श्रोत्रे चाग्नी तस्या [ख्: वाग्नी तं पक्ष] क्षनासिका
।। ६३ ।।
करौ मूले स्थितः पादः पायुस्तत्र रसाननः [मू: दशानन] ।
चण्डद्रव्यसमो वच्च [घ्: गव्यागमो] उपस्थः पीठनालकः ।। ६४ ।।
स्थापनाम्बुपरि [मू: द्युपरि] स्रावो मनः सूत्रप्रकल्पने ।
निश्चयः स्यादहङ्कारो बुद्धिस्तद्व्यवसायके ।। ६५ ।।
([चापचिह्नान्तर्गतोऽयं पाठः मूल, ग पुस्तकयोर्नास्ति] वर्णके च
गुणा ज्ञेयाः प्रकृतिश्च गुणाकृतिः [ख्, घ्: तदाकृतिः] ।
कारणं पुरुषो हृत्स्थो रागस्तत्रादिशक्तिगः ।। ६६ ।।
विद्या विवेचने ह्यत्र नियतिर्नियमे स्मृता ।
प्रेरणे [क्, ख्: पूरणे] च कला तत्र कालसङ्ख्या वयस्थिता ।। ६७ ।।
मायातत्त्वा [घ्: तत्रा] त्मनैकत्वे विद्या प्रासादगोचरे ।
शिवायतनविज्ञानविवेको विद्ययेश्वरः ।। ६८ ।।
प्. ८३) अधिष्ठानेऽधिदैवत्ये समाप्तौ च सदाशिवः ।
सामर्थ्ये धारणाशक्तिर्बहिरध्यात्मिकेऽध्वनि ।। ६९ ।।
व्यापकत्वाच्छिवो ह्येवं प्रोक्तः [ख्: प्राप्त] प्रासादरूपकः ।
पिण्डिका जगतीख्याता प्रासादो लिङ्गमिष्यते ।। ७० ।।
तयोः कार्या प्रतिष्ठेति शम्भुना भाषितं क्वचित् ।
त्रीन् देवांश्च क्रमान्न्यस्य ब्रह्मविष्णुमहेश्वरान् ।। ७१ ।।
जङ्घा स्कन्धा तु मूर्ध्न्यन्ते विदेहं च तदूर्ध्वतः ।
स्थिराख्यं भवसंज्ञं च दारवं जुहुयात्पुनः ।। ७२ ।।
इति लक्षणसमुच्चये बाणलिङ्गादि यानद्वारहृत्संस्थापनं
नामैकोनविंशो विधिः ।। १९ ।।
अथ विंशतिः
ईशानं ग्रहचूलं वा कलशं वाथ मूर्धनि ।
स्थापयेद्विधिना सम्यक् ध्वजल्कृप्तिमतो ब्रुवे ।। १ ।।
नानाप्रकारमीशानं मते मते च तद्यथा ।
चूल्यं (लं) कुम्भं ध्वजं चात्र लक्षणानि वदेत्तथा ।। २ ।।
([पापान्तर्गतोऽयं पाठः क पुस्तके नास्ति] मूललिङ्गसमं
कुर्यादीशानं तन्मया [मू: तदन्ता समया] कृति ।
शैलोत्थं शैलजे धाम्नि देवेह्येवा [घ्: ह्यं वा] क्वचिन्मते ।। ३ ।।
अमलासारविस्तारात् षट्त्रिंशत्तिथिभागतः ।
त्र्यंशान्त्र्यंशा [घ्: त्र्यंशाशा सा]
त्त्रिभागोनादीशस्यानाहविस्तरौ ।। ४ ।।
लिङ्गात्रिभागहीनं स्यादीशानं वा सुरार्चितम् ।
मेर्वादीनां [ख्: सर्वादीनां] प्रधानानामन्येषां [मू:
मन्यथा] लिङ्गवद्यथा ।। ५ ।।
दारूत्थे [ख्: दारुके] दारुजं विद्धि त्विष्टिकासम्भवे तथा ।
ग्रहचूलं [क्, ग्: चूड] तु शैलं वा वेष्टितं कलशेन वा ।। ६ ।।
तत्स्थौल्यं दशमांशेन धाममस्तकविस्तरात् ।
चतुरस्राष्टकं वृत्तं त्रिसमं लिङ्गदैर्घ्यवत् ।। ७ ।।
ग्रीवाव्यासार्धदैर्घ्यं वा स्थौल्यं नाहाङ्घ्रिभागतः ।
लिङ्गवच्चाखिलं कुर्याद्बाह्ये वा घटवेष्टितम् ।। ८ ।।
प्. ८५) कण्ठव्यसार्धविस्तीर्णं देव्या मतेऽथ भास्करे ।
धामैष्वांशाच्च [मू: धामेऽष्टांशा; ख्: ध्वंशाच्च]
बाणाख्ये सप्तांशाद् द्व्यंशतोऽण्डकात् ।। ९ ।।
पार्श्वे धामषडंशाच्च व्यासं व्यासाद्द्विधोच्छ्रयम् ।
ऋत्वर्क भाजितं कृत्वा कलशं वर्तयेद्बुधः ।। १० ।।
पादोनांशादधः पट्टी षडंशेन तु विस्तरा ।
भागैकेन च कुम्भोऽस्य कुम्भपट्टी तु पादतः ।। ११ ।।
सचूला [ख्, ग्, घ्: चचूलि] त्र्यंशविस्तारा त्वर्धांशेन समुच्छ्रिता ।
मध्यद्व्यंशाच्च [घ्: स्व] कोणं च अध्यष्टांशोच्छ्रयास्थितौ ।। १२
।।
याम्यकोणाद् द्विभागे तु याम्ये स्कन्दो भवेत्क्रमात् ।
अन्यकोणाद्युगांशस्थे याम्याधो वृत्तमाभ्रमात् ।। १३ ।।
तथैव भ्रामयेत्सूत्रं कलशस्योत्तरांशतः ।
ततश्चोर्ध्वैकभागेन ग्रीवा द्विभागविस्तरा ।। १४ ।।
कपोलौ युगविस्तारौ भागार्धांशोच्छ्रयोभवेत् ।
तदूर्ध्वोऽर्धांशतः कालःपद्मं द्विविस्तरोच्छ्रयम् ।। १५ ।।
घटपार्श्वे मुरा [घ्: षुरा] मांशैर्लोहनिम्नायताश्चलाः ।
सचूल्यादूर्ध्वतः पद्मो घटास्यं चाम्रपल्लवि ।। १६ ।।
यागालयादिसम्भारस्नाने या गुरुदक्षिणा ।
रत्नन्यासादि होमश्च मन्त्रन्यासादि पूर्ववत् ।। १७ ।।
प्. ८६) ब्रह्मरेखां विनेशादि तदाधारशिलोपरि ।
ब्रह्माज्यार्धान्त [मू: षुद्धान्त; क्, ख्: र्धाजानु] विष्णूर्ध्वं
स्थापयेन्मन्त्र [मू, अ: मत] भेदतः ।। १८ ।।
ईशानं संप्रवेशं च ब्रह्मांशं वेदवत्कृते ।
द्व्यंशं त्र्यंशं समस्तं च ज्येष्ठादिक्रमतः क्वचित् ।। १९ ।।
रत्नजं वाथ धातूत्थं सूक्ष्मलिङ्गं यथेच्छया ।
प्रक्षिप्य कलशाः कार्याः क्वचिदीशादि यत्नतः ।। २० ।।
त्रिनेत्रचण्डिका [क्, ख्: चन्द्रिका] धाम्नोः शूलेन परिरक्षितः ।
विष्णुधाम्नि च चक्रेण अन्येषां स्वायुघैरपि ।। २१ ।।
लिङ्गोन्मन्याथ शूलं च घटाब्जो [मू, अ: श्वेताब्जो] परि विन्यसेत् ।
वामा ज्येष्ठाह्वया रौद्री स्वशक्तित्रयकल्पिता ।। २२ ।।
द्वात्रिंशदङ्गुलं ज्येष्ठे मध्ये हीनेऽष्टहानितः [मू, अ: हीनके] ।
हैमं रौप्यमयोजम्वा प्राग्वत्संस्थाप्य [क्, घ्: संस्नाप्य]
मन्त्रतः ।। २३ ।।
ज्ञानाख्येच्छाक्रियाह्वाभिः शक्तिभिः कल्पितं क्वचित् ।
करीरषष्ठभागेन चक्रं स्यात्सम [ख्: स च] वर्तुलम् ।। २४ ।।
जीवदैर्घ्यसमो दण्डस्तत्थौल्यं तज्जिनांशतः ।
चूलिकेतरदेवानां स्थापनीयाः प्रमाणतः ।। २५ ।।
देवनाहाद्भवेद्दैर्घ्यं स्थौर्ल्यं तदष्टमांशतः ।
इन्दीवरदलाभा सा स्वबीजैश्चूलिका सदा ।। २६ ।।
प्. ८७) इतीशानकलशग्रहचूलीयूप [क्, ग्, घ्: युध] स्थापनम् ।।
ध्वजं विनात्र या कीर्तिः सा रक्षोभिर्ग्रहादिभिः ।
गृह्यते सकला नित्यं दानहोमादिभिः सह ।। २७ ।।
यथा सुफलितो [ङ्: युः फलितो; स्वः फलितो इत्यादि पाठः] वृक्षो रक्ष्यते
हि फलार्थिभिः ।
तथा धर्मफलार्थाय धामवृक्षध्वजेन तु ।। २८ ।।
तस्मात्तत्र ध्वजः स्थाप्यो विधिना मानसंयुतः ।
नानागमानुसारेण लेशतस्तं वदाम्यतः ।। २९ ।।
प्रासादपादविस्तारस्तदर्धार्धांशतः [ख्: ङ्गतः] क्वचित् ।
धाम्नो द्विगुणदैर्घ्यः स्यात्सार्धार्धात्तत्समो ध्वजः ।। ३० ।।
द्विहस्तविस्तरो वाथ भूमिं पार्ष्णिमथापि वा ।
क्वचिन्मते तदर्धान्यथा प्राप्स्यत्वधोदितः [मू: प्राप्त्याथ चोदितः]
।। ३१ ।।
स्वदैर्घ्यषोडशांशेन क्वचिदुक्तश्च विस्तरात् ।
सर्वार्थशान्तये शुक्लः कामार्थे दिक्पतिप्रभः ।। ३२ ।।
स्ववाहनाङ्कित [मू, अ: न्वितं] श्चोर्ध्वं किङ्किणीचामरैर्युतः ।
स्वदेवरूपकैश्चित्रः स्वशक्त्या शोभितः क्वचित् ।। ३३ ।।
मञ्जर्यास्त्र्यंशतो दण्डस्तत्पादोनार्धतः क्वचित् ।
इत्थं ग्रहर्तु [ख्, घ्: इन्द्रग्रहे तु] हस्तो वा क्रमाज्ज्येष्ठादिको भवेत् ।।
३४ ।।
प्. ८८) वंशवृद्धिकरो वंशो धर्मार्थौ [क्, ख्, ङ्: धर्मार्थे]
शालसैन्दुरौ ।
उक्ताङ्घ्रि पञ्च तत्कार्यं त्वशुभौ शेलुशिग्रुकौ [मू, अ, ङ्:
शिर्भ्कौ] ।। ३५ ।।
भङ्गे चारोप्यमाणे तु कर्तुर्मृत्युर्भवेद्ध्रुवम् ।
शान्तिहोमे कृते सौख्यं दक्षिणास्येन [मू: द्येन] नान्यथा ।। ३६ ।।
प्रासादपृष्ठदेशे च ऊचुः कैश्चिद्ध्वजाश्रयम् [मू:
उचुर्ध्वजाश्रयं क्वचित्; ख्: उच्चच्छविध्वजाश्रयः] ।
ऐशाने वा प्रदेशे च मारुते वान्यथापरे ।। ३७ ।।
शिखरस्य शरांशेन चतुर्थेन गुणेन वा ।
उत्त [मू: उक्त] मादिध्वजाधारं मस्तकार्धेन वा क्वचित् ।। ३८ ।।
पूर्ववन्मण्डपादि स्यात्स्नानेनज्या [मू, क्, घ्: स्नानेषु]
ध्वजयष्टिषु ।
हेमादि [मू अ, ख्, ग्, घ्, ङ्: होमादि] रत्नविन्यास आसनं प्राक्क्रमेण
तु ।। ३९ ।।
मूर्तिभूर्तं न्यसेद्दण्डं सकलीकरणं ततः ।
ध्वजे तु निष्कलं तद्वत्तथै [घ्: तत्रै] वाङ्गानि यत्पुनः [घ्: षट्सु च]
।। ४० ।।
आत्मविद्यां न्यसेद्दण्डे शिवतत्त्वं ध्वजे तथा ।
भुवनेशान्पुनस्तत्र विघ्ननाशाय सिद्धये ।। ४१ ।।
आत्मवान् शांभवान् शान्तान् [घ्: शाक्तान्] स्वायुधोद्यतविग्रहान् ।
सम्याग्ध्यात्वा [ख्: ज्ञात्वा] तु तान्सर्वांस्ततस्त्वारोपयेद्गुरुः ।। ४२ ।।
प्. ८९) ध्वजमन्त्रास्त्रमन्त्रेण योजयित्वा न्यसेत्क्वचित् ।
अघोरमथ शैवं वा यद्वा पाशुपतं महत् ।। ४३ ।।
प्रख्यातमैश्वरे शास्त्रे विघ्नसंघात [ख्: संपात] नाशनम् ।
गन्धादि ब्रह्ममुण्डेन दद्याद्विद्याधिपेन वा ।। ४४ ।।
पुरुष्टुतेन [मू, ङ्: ष्णुतेन] नैवेद्यं बलिकर्म हृदैव तु ।
ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। ४५ ।।
प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।
त्र्यक्षं तडिल्लातजिह्वं दीप्तभ्रूश्श्रुमूर्धजम् ।। ४६ ।।
सर्पोपवीतशूलासिशक्तिमुद्गरधारिणम् ।
चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् [ख्, ङ्: दिगम्बरम्]
।। ४७ ।।
देवदानवरक्षोग्रदर्पितानां विमर्दनम् ।
ध्वजस्यारोहणं कुर्यादुपचारं च दैशिकः ।। ४८ ।।
मन्त्रैः फडन्तगैः सर्वैर्हृदयादिविभागशः ।
ध्वजाग्रे तु गुरुर्लग्न इष्टमन्त्रं जपंस्तदा [मू: जपेत्तदा] ।। ४९ ।।
प्रदक्षिणात्रयं कृत्वा कर्तारं सन्नियोजयेत् ।
यजमानस्ततो लग्नो भार्यापुत्रकुलैः सह ।। ५० ।।
परिवेष्ट्य त्रिधा धाम प्रणम्य च पुनः पुनः ।
यथा विधूयते वातैर्ध्वजः प्रासादमस्तके ।। ५१ ।।
प्. ९०) तथा कर्ता त्यजेत्पापं सप्तजन्मार्जितं क्षणात् ।
राष्ट्रे शान्तिर्जयी राजा सुखिन्यः स्युः प्रजास्तथा ।। ५२ ।।
सुसूतयस्त्रियो धर्मः सुभिक्षारोग्यमेव च ।
हेमलक्षप्रदानाच्च पुण्यं कोटिगुणं ध्वजात् ।
जीर्णोद्धारे कृते कर्तुर्ध्वजान्ते मौलिकं फलम् ।। ५३ ।।
इति लक्षणसमुच्चये ईशानादिध्वजनिवेशानाख्यानं नाम
विंशोविधि ।। २० ।।
अथैकाविंशः
अथ जीर्णांश्च दुष्टांश्च लिङ्गादींश्च [ग्: दीनां] सुरोज्झितान् ।
आश्रयन्तीह सत्वानि भूतवेतालराक्षसाः ।। १ ।।
महाभयकरा नित्यं सुभृशं क्रूररूपिणः ।
कुर्वन्ति दोषसङ्घ्यातं यत्र राष्ट्रेषु ते [ग्: पुरे] स्थिताः ।। २ ।।
महोत्पातं धरानाशं चमूभङ्गं पराभवम् ।
दुर्भिक्षं दारुणं रोगं प्रजानाशं दरिद्रताम् ।। ३ ।।
उद्वेगं च विवादं [ग्: विषादं] च विताशं चात्मजार्थयोः ।
पीडा गोब्राह्मणादीनां राज्ञो दुःखं कुशीलताम् ।। ४ ।।
प्रतापसत्वहानिं च लोभमोहादियुक्तताम् ।
शत्रुव्यसनपीडा च चिन्ता च महती भवेत् ।। ५ ।।
दुष्टलिङ्गे स्थिते राष्ट्रे प्रजा प्राज्ञो न शोभनन् ।
तस्मादुद्धरणं कार्यं विधिना मन्त्रपूर्वकम् ।। ६ ।।
विधिं विनोद्धृतं लिङ्गं मन्त्रहीनैस्त्वदैशिकैः ।
राष्ट्रं पित्तेन संपीड्य भूपमुच्छादये [क्: मुत्सादये; ख्:
मुन्मादये] द्ध्रुवम् ।। ७ ।।
तस्माद्राजा स्वराष्ट्रेषु लिङ्गाद्युद्धारयेद्द्रुतम् ।
गोब्राह्मणप्रजानां च स्वराष्ट्रस्य च वृद्धये ।। ८ ।।
प्. ९२) जीर्णोद्धारं प्रवक्ष्यामि यथा शास्त्रेषु भाषितम् ।
सुनक्षत्रे दिने योगे सद्वारे कर्तृशोभने ।। ९ ।।
याम्यायामथवैशान्यां कुर्यात्प्रागुक्तमण्डपम् [ख्: मण्डलम्] ।
प्रच्छन्नं संस्कृतं रम्यं जलद्वारैक [ख्: धारैक] तोरणम् ।। १० ।।
रम्भाचन्दन [घ्: बन्धन] माल्याढ्यं वितान [ख्: विमान]
ध्वजसङ्कुलम् ।
पूर्ववद्वेदिकां रम्यां शिवकुम्भास्त्ररक्षिताम् ।। ११ ।।
गुरुमूर्तिधरान्सम्यगिष्ट्वादौ कनकाम्बरैः [मू, अ: न्द्रादौ
कलशाम्बरैः] ।
बालुकापूरिते पीठे स्थण्डिले पूजयेद्धरम् ।। १२ ।।
शिवलिङ्गधरान्पञ्च भोजयेद् घृतपायसै ।। १३ ।।
अर्कोपेन्द्रादिके विप्रानष्टौ सन्तर्पयेद्भृशम् ।
दक्षिणां वित्ततो दद्याद् ब्रूयुः शं राष्ट्रभूपयोः ।। १४ ।।
सहस्रं जुहुयाद् घोरं महास्त्रं वाथ दैशिकः ।
त्रिस्वादूक्तैस्तु [ङ्: द्विक्षेस्तु] यज्ञाङ्गै [घ्: यज्ञाङ्गो] दूर्वां
कुण्डे तु वर्तुले ।। १५ ।।
गुरुः पूर्णाहुतिं दद्यात्तस्मै कर्ता च [ख्: कर्तार्थ] धेनुकाम् ।
मूर्तिभृद्भ्यस्ततो दानं भूतदिग्देवताबलिम् ।। १६ ।।
रौद्रीं शान्तिं ततः कृत्वा विज्ञाप्य च महेश्वरम् ।
लब्धानुज्ञो [ख्: नत्वानुज्ञो] महादेवात्कुर्याल्लिङ्गादिकोद्धृतिम् ।। १७ ।।
प्. ९३) तत्पुष्पास्त्रेण संताड्य वदेश (द) स्त्रं [क्, ख्: तत्स्थं]
शिवाज्ञया ।
यदत्र संस्थितं सत्वं त्यक्त्वा चान्यत्र यातु तत् [क्: यान्त्वतः] ।। १८ ।।
शिवाज्ञैवं प्रदत्तातो [मू: त्ता ते] त्यजेत्तत्वं महास्त्रतः ।
ततोऽभिषिच्य लिङ्गाद्यमस्त्रजप्तेन [मू: मन्त्रणजप्तेन] वारिणा ।। १९ ।।
स्थापको यजमालस्य हेमजं कङ्कणं करे ।
उत्थापने प्रबध्नीयादित्युक्तं शम्भुना क्वचित् ।। २० ।।
बद्ध्वा स्वर्णाख्य [घ्: वर्णाक्ष] पाशेन लिङ्गं पाशुपतेन च ।
वृषयोः ककुदे (दि) बद्ध्वा वर्मणा बालतन्तुना ।। २१ ।।
हेमकर्षजसीरेण [घ्: सारेण] मध्वक्तेनोत्तरामुखः ।
ईशाशादीः क्रमात्सर्वाः खादकेन गुरुः खनेत् ।। २२ ।।
तारसारोत्तमे भावादन्यस्मिन् माषवर्जनात् ।
पाशसीरयुगं [ख्: सारयुत] कुर्याद्बलवन्तौ तथा वृषौ ।। २३ ।।
वृषौ च खुरिकैः प्रेष्य नन्दी शङ्खरवेण तु (?) ।
जर्जरं चलितं भग्नं [ख्: रुग्णं] स्फुटितं वज्रदूषितम् [मूउ, अ ग्:
ध्वजदूषितम्] ।। २४ ।।
महादोषान्वितं दग्धं विकलाङ्गं कृशं च यत् ।
स्थूलं वा दुर्निविष्टं च यच्च पीडाकरं भुवि ।। २५ ।।
प्. ९४) स्थापितं विकलैर्द्रव्यै स्तथोन्मानादिवर्जितम् ।
एषां कुर्याच्चिकित्सां च व्याघितस्येव भेषजम् ।। २६ ।।
तेषां लेख्ये च भेदे च छेदे चोद्धरणे [ख्: छेदनोद्धरणं] तथा ।
क्रियमाणे न दोषोऽस्ति मन्त्रवर्जितया [तता] यतः ।। २७ ।।
लिङ्गं पीठं शिलामर्चां व्योमतार्क्ष्यादिकं वृषम् ।
पक्वमृच्छैलरत्नोत्थं क्षिपेद्वामेन नित्यके ।। २८ ।।
दारूद्भवमघोरेण दहेच्छिवाग्निना घृतैः ।
लोहं सर्वं विनिष्पाट्य पुनस्तत्रैव विन्यसेत् ।। २९ ।।
दग्धं मणिमयं भ्रष्टं तेजसाश्मवदुत्सृजेत् ।
लेप्यं चित्रं पटं पुस्तं संस्कृत्य चाग्निना [मू, ख्: धाम्नि वा]
क्षिपेत् ।। ३० ।।
पतितोत्पाटितं वक्रं सरिद्भीतान्यमन्त्रजम् ।
अदुष्टं विधिनोद्धृत्य स्थापयेद्यागपूर्वकम् ।। ३१ ।।
यथा न स्पृशति द्वारं तथा लिङ्गं प्रवेशयत् ।
ब्रह्मशिलादिकं सर्वं स्थापयेत्पूर्ववत्क्रमात् ।। ३२ ।।
प्राक्प्रमाणं तदाकारं प्राग्द्रव्येण विनिर्मितम् ।
लिङ्गादि चापरं स्थाप्यमधिके वा फलं बहु ।। ३३ ।।
लिङ्गपीठालयार्चानां क्षितौं यावत्स्थितिर्भवेत् ।
तावत्कल्पसहस्राणि तत्कर्ता तत्पुरे वसेत् ।। ३४ ।।
प्. ९५) पार्थिवानां फलं चेदं [ख्: चैवं] दारवाणां
ततोऽधिकम् ।
([चापचिह्नान्तर्गतोऽयं पाठः मूल ग घ पुस्तकेषु नास्ति]
द्विगुणं चाश्मजानां च सीसकानां ततोऽधिकम् ।। ३५ ।।
द्विगुणं त्रपुजानां च घोषजानां ततोऽधिकम् ।
द्विगुणं रीतिजानां च सुल्वजानां ततोऽधिकम् ।। ३६ ।।)
द्विगुणं तारजानां [घ्: चश्मजानां] च हेमजानां ततोऽधिकम् ।
द्विगुणं रत्नजानां तु रत्नाधिक्येऽधिकं फलम् ।। ३७ ।।
स्थापयेच्च [घ्: स्थापयेदङ्ग] शतं हुत्वा [ङ्: गत्वा] चालयेच्च
सहस्रतः ।
घोरेण वा महास्त्रेण द्विगुणं धामचालने ।। ३८ ।।
सुखदुःखस्थितानां तु लिङ्गादिचालनाद्ध्रुवम् ।
त्वरितं म्रियते जन्तू रौरवं च मृतो व्रजेत् ।। ३९ ।।
ईशानं वा घटं चूलं द्वारं हृदङ्घ्रिकादिकम् ।
जीर्णाधाम्नि [ख्: जीर्णोद्धार] क्रमात्सर्वं पूर्वोक्तविधिना हरेत् ।। ४०
।।
प्रासादमन्त्रदेहं तु खड्गे न्यस्त्र प्रपूजयेत् ।
दारुपट्टावृतं लिङ्गं कृत्वा तु घटयेद्गृहम् ।। ४१ ।।
पूर्ववत्पदमारोप्व द्वारादिं च ध्वजान्तकम् ।
सिद्धे धाम्न्यङ्गसंयोगं कुर्यादाकृष्य खड्गतः ।। ४२ ।।
जीर्णमुद्धृतमारोप्य प्रायश्चित्ताय होमयेत् ।
अच्छिद्रपूर्णता येन स्यादघोरशतेन तु ।। ४३ ।।
प्. ९६) क्षमयेच्च प्रणम्येशं त्वदाज्ञया मयोद्धृतम् ।
लिङ्गादि स्थापितं [स्थापकं] यच्च तत्क्षमस्व ममोपरि ।। ४४ ।।
राज्ञः कर्तुः प्रजानां च शान्तिर्भवतु सर्वदा ।
अस्माकं शिल्पिनां चापि सुप्रीतो भव हे भव [घ्: तव] ।। ४५ ।।
ततः कर्ता प्रणम्यादौ दण्डवद्भूतले गुरुम् ।
तं खड्गं कङ्कणं धेनुं दद्यात्सोपस्करौ वृषौ ।। ४६ ।।
इति लक्षणसमुच्चयें जीर्णोद्धारविधिकथनं नामैकविंशो विधिः ।।
२१ ।।
अथ द्वाविंशः
अद्वैत [मू, ङ्: अद्वैते] देवताभ्यस्तु कार्यं मण्डलतर्पणम् ।
एकहस्तं समारभ्य अष्टहस्तावधिक्रमात् ।। १ ।।
वीथिकाद्वारकोणाढ्यमेकाब्जं द्वारकैर्युतम् [ख्: मेकाक्षं
गात्रकै] ।
लोकपालायुधोपेतं मण्डलं सार्वदैविकम् ।। २ ।।
देवमुद्रान्वितं दिव्यं ख्यातं मुद्रालयाह्वयम् ।
यच्चतुष्कोणगाः शङ्खाः श्रीवत्साख्यं हेरेस्तु तत् ।। ३ ।।
पूर्वोक्तपङ्गजैर्युक्तं कर्णिका पृथुगात्रकम् ।
पद्मार्घपृथुवीथीकं वीथ्यर्धं कण्ठकादिमत् [ख्, घ्: कण्ट-] ।। ४
।।
पद्मसूत्रसमं द्वारं गुणरेखाबहिर्मतम् ।
अथान्यन्नवदुर्गादि नवनाभं तदुच्यते ।। ५ ।।
द्वात्रिंशदच्छके [ख्, घ्: दंशके] क्षेत्रे मध्येऽब्जं
षोडशांशकैः ।
गात्रकं [क्, ख्: गात्रंकं] वीथिकाद्वाभ्यां दिक्षु पद्माष्टकं
तथा ।। ६ ।।
मेखलैकांशतो बाह्ये द्वाभ्यां कण्ठकपोलकौ ।
पद्ममानं [मू: मालं] भवेद्द्वारमेकेन प्रतिवारणा ।। ७ ।।
प्. ९८) वैष्णवे भैरवे यागे योगिनी स्थापने तथा ।
मण्डलं नवनाभाख्यं [मू, अ: भागाख्य]
पुत्रायुर्धनवृद्धिदम् [ख्: वर्धनम्] ।। ८ ।।
शालिचन्दनगोधूमयवैर्वा चूर्णितैः सितैः ।
गैरिकेङ्गुदसिन्दूरै रक्तमिष्ट [ख्: सिक्थ] कयाथवा ।। ९ ।।
पीतं तालेम वा शालिहरिद्राचूर्णैकैर्भवेत् ।
मर्मुरै [ख्: सुमुरै] रर्चिरङ्गारैस्तुषैर्वा दग्धकैः शितिम् [मू:
शितैः ।। १० ।।
कृष्णैकांशेन पीताभ्यां हरिद्राबिल्वपत्रकै ।
सिताभ्यामसितांशेन ऐक्यं स्याद्धूम्र [घ्: धूम] वर्णकम् ।। ११ ।।
पूरयेन्मण्डलं वर्णैरेतैः संशोभते यथा ।
न हीना नाधिकावक्रा कार्या रेखा सुशोभना ।। १२ ।।
हिनायां पुत्रनाशः स्यादधिकायां महागदः ।
वक्रायामर्थनाशः स्याद् व्यस्तस्थे वर्णके रिपुः ।। १३ ।।
मुमुक्षोः स्थापनेऽद्वैते दीक्षायां मण्डलं मतम् ।
अशेषगुणदं तस्मात्स्थणॢइं वालुकामयम् ।। १४ ।।
अथ [ग्: अष्ट] तापसवेश्मार्थं प्रासादकरणाय च ।
तयोः स्थानानि पुण्यानि कथयामि महीतले ।। १५ ।।
नगेन्द्रे कुलशैले च क्षेत्रोपक्षेत्रके तथा ।
सन्दोहे निम्नगाकूले सिद्धक्षेत्रेषु [घ्: स्थानेषु] सर्वतः ।। १६ ।।
प्. ९९) हिमबद्धेमकूटाद्री निषधो गन्धमादनः ।
माल्यवाञ्शृङ्गिनीलौ च ऋक्षश्चेमेऽद्रिनायकाः ।। १७ ।।
मलयो विजयः सह्यः पारियात्रोऽर्बुदस्तथा ।
श्रीशैलश्चैव विन्ध्यश्च महेन्द्रश्च कुलाचलाः ।। १८ ।।
प्रयागः काशिकाकोला चाट्टहासा जयन्त्यपि ।
चरित्रैकाम्रकं देवीकोट्टं क्षेत्राण्यथाष्ट च [क्, ग्: ण्यथाचरः] ।।
१९ ।।
काश्मीरमरुपाटल्यस्तुमुलैला [मू, क्, ख्, ग्, ङ्: तद्यमैला] पुस्तथा ।
विरजश्चैरुडः [मू: रुतः] पुण्ड्र श्चोपक्षेत्राण्यमूनि च ।। २० ।।
कुब्जिकोज्जयिनीपृष्टापरस्तीरा [मू, ख्, ङ्: परस्त्री रं] ङ्कु शाद्रिकौ ।
मायापुर्यथ जालाख्यमेते सन्दोहसंज्ञकाः ।। २१ ।।
नर्मदा यमुना गङ्गा गोदावरी पुनः पुना ।
पञ्चनद्यथ सिन्धुश्च सरस्वत्यष्टनिम्नगा ।। २२ ।।
श्रावस्ती कीकटो लाटः कुरुक्षेत्रोज्जिहानकाः ।
अन्तर्वेदी प्रतिष्ठानं याज्ञिको देश इष्यते ।। २३ ।।
दारुवनं श्मशानं च पुष्करं नैमिषं तथा ।
करवीरो महाकालः सौगन्ध्युपवनं [ख्: परणं] वनम् ।। २४ ।।
वटैकलिङ्गादित्यादि स्थापितानां च सन्निधिः [घ्: सन्निधेः] ।
बाणस्वयंभुलिङ्गानां पद्मखण्डतडागयोः ।। २५ ।।
प्. १००) वदर्याश्रमतीर्थानि धुनीनां सङ्गमस्तथा ।
सिद्धदेवालयो ग्राम नगरं खेटकं पुरम् ।। २६ ।।
पत्तनं रतिकृद्देशः सामान्यगिरिनिम्नगा ।
पुण्यस्थानमथान्यच्च सिद्धस्थानान्यमूनि च ।। २७ ।।
देशेष्वेतेषु कुर्वीत यति [घ्: यदि] देवादिकाश्रमम् ।
गृह्णीयाद्भूमिमादौ तु शासनेन क्रयेण वा ।। २८ ।।
नोपरोधद्बलाद्वापि न चैव प्राक्सरिद्वहा ।
आदौ कुर्माद्यतेः स्थानमीशादीनां ततो यतः ।। २९ ।।
न तापसाः सुरेशस्था वसेयुश्चेन्मठाधिपाः ।
मठमाश्रित्य ये लिङ्गमर्चयन्ति कुबुद्धयः ।। ३० ।।
लोलुपास्ते समाख्याता न मोक्षं प्राप्नुवन्ति ते ।
यदीच्छेन्नरकं गन्तुं पुत्रपौत्रादिभिः सह ।। ३१ ।।
तदेकाहं प्रफुर्वीत मठापत्यं [ख्: मानयन्ति] शिवालये ।
ईदृग्ज्ञात्वा [मू: ईदृङ्मत्वा] यथाकामं स्थापयेत्सचराचरम् ।। ३२
।।
अथ भूमिपरीक्षार्थं ग्राह्याग्राह्यं वदाम्यहम् ।
इन्द्राग्नियमरक्षोऽम्बुवायवीन्द्वीश [क्, ख्, घ्: वायवर्थीश] प्लवा
मही ।। ३३ ।।
क्रमात्कुर्याच्छ्रियं [ग्: च्छिवं] दाहं मृत्युं रोगं दरिद्रताम् ।
रिपुर्मानं सुखं च स्यान्मध्यमा सर्वतः प्लवा ।। ३४ ।।
प्. १०१) देवस्य विपुलो भोगो नेज्या नाशश्च [ख्: न ज्ञा नाशश्च]
वज्रभीः ।
भङ्गः पीतोऽर्थ इज्या [मू: इष्ट] स्यात्पूर्वादेर्वसुधाप्लवात् ।। ३५ ।।
मध्यप्लवा कुलं हन्यादित्युक्ता भूः शुभाशुभा ।
क्रमादग्निरिपोर्भीतिः कलिरर्भक [मू: वच्छक] संक्षयः [घ्:
सज्ञकः] ।। ३६ ।।
स्त्रीचला स्त्रक्षयो वृद्धिः शान्तिः प्रागादिकूपतः ।
नदीप्रवेशिता [ख्: ष्टिता] शस्ता पूर्वादि पश्चिमेऽपि वा ।। ३७ ।।
याम्ये वा नोत्तरस्यां च न चैवोदक [क्, घ्: चैकोदक] संयुता ।
न दक्षिणस्थौ वनाद्री च पश्चिमे वा वन [मू: वाचनं] शुभम् ।। ३८
।।
धामवाप्यौ च सौम्ये च ऐशान्यां च सरोवरः ।
वटः प्राच्यां यमाशायां यज्ञाङ्गो बोधिरब्दिशि ।। ३९ ।।
प्लक्षश्चोत्तरतः शस्तः समस्ता व्यस्तका अमी ।
जयन्तीदाडिमीश्यामापुन्नागारिष्टपादपा ।। ४० ।।
यत्रतत्रस्थभागाङ्गे [मू: शुभाशार्गो] गृहभुव्यपरे शुभाः ।
बहुदर्भवती विप्रा क्षत्रिया च शराकुला ।। ४१ ।।
स्निग्धदूर्वान्विता वैश्या शुद्रासोशीरकाशिका ।
फलपुष्पवतीस्निग्धा स्निग्धगुल्मोषधीद्रुमाः ।। ४२ ।।
प् १०२) गावोऽथ मानुषाश्वा वा रमन्ते यत्र नित्यशः ।
एकवर्णा घना तुल्या यमाम्बुदिशि चोन्नता ।। ४३ ।।
विस्तीर्णा सादृढा शस्ता शुभगन्धात्मगन्धिका ।
चन्दनागुरुकाश्मीरचन्द्राब्जोत्पलचम्पकाः ।। ४४ ।।
पाटलानागजात्यश्च मल्लिकामदिरासवाः ।
शालीभमददध्याज्यदुग्धान्येतत्सुगन्धिनी ।। ४६ ।।
पृथग्धा मिश्रगन्धाभूश्चातुर्यर्ण्येषु भूतिदा ।
ग्रीष्मकाले च या शीता उष्मणा शिशिरेऽन्विया ।। ४७ ।।
प्रावृष्युभयसंस्पर्शा सा द्विजादि [क्, ख्: द्विजाति] सुखावहा ।
मृदङ्गवेणुवीणा च [घ्: वीणाब्द] दुन्दुभ्यादिशुभस्वना [मू:
शुभात्मना] ।। ४८ ।।
विभूतिकारिणी क्षोणी [क्: या तु] चातुर्वर्ण्यस्य सर्वदा ।
श्वेताप्रजा [क्, घ्: ग्रजा] ह्यगन्धा च रक्ता राज्याशिषोद्वहा [मू:
मिषो वृषा] ।। ४९ ।।
पीता वैश्या तथा क्षारा शूद्रा कृष्णा मलोद्वहा ।
गुडा [मू: शुभा] भयानम्रनिम्बानां स्वादाद्विप्रादिजामही [ख्:
सा मही] ।। ५० ।।
शान्तिर्जयं धनं चायुः क्रमाद्दद्याद्द्विजादितः [ख्: तितः] ।
आषाढा कृत्तिका ज्येष्ठा तथा शतभिषा च भम् ।। ५१ ।।
प्. १०३) वरुणाग्नीन्द्रवाताश्च क्रमात्तु देवताः [मू: त्तद्देवता]
स्मृताः ।
स्वजाति ब्राह्मणी वापि यथालाभं च गृह्यते [मू: पूज्यते] ।। ५१ ।।
वर्जनीया वसातैलवर्तिगन्धा [ङ्: युज्यते] च या क्षितिः ।
रक्ताङ्गारशिलायुक्ता [क्: रन्ध्रा-] कृमिकीटवती च या ।। ५२ ।।
निम्ना गर्तान्विता रूक्षा सोषरच्छिद्रकर्दमा ।
सेष्टकाचितिकेशास्थिभस्मवल्मीकशर्करा [क्, ख्: जर्जरा] ।। ५३ ।।
वामावर्तजलादिक्स्था सङ्कीर्ण न प्रशस्यते ।
बह्वापद्बहुवर्णा च वज्राग्निह्यरिचौरदा [मू, ङ्: षैरदा] ।। ५४ ।।
न तस्यां वसती शर्म न धर्मो नात्मजो धनम् ।
योषिद्दुश्चारिणी तत्र रुजो राजभयं भवेत् ।। ५५ ।।
शिवखराश्वनादाढ्या भिन्नभाण्डनिभस्वना ।
काककङ्गोष्ट्रशब्दा वा सर्वैषामसुरवावहा ।। ५६ ।।
सदैवोष्णा सदा शीता कर्कशा वाष्पशङ्कुला ।
द्रागम्भ [मू, क्, ङ्: प्रागम्भः] शोषिका नेष्टा धनायुघ्नी
सशिल्पिका [ख्: समल्पिका] ।। ५७ ।।
खाते च करमात्रे च पांशुभिः परिपूरिते ।
न्यूना समाधिका ज्ञेया हीनमध्योत्तमा क्षितिः ।। ५८ ।।
आपूर्य गर्तमम्भोभिर्गते पदशते ततः ।
स्युस्त्रि [मू, अ, क्, ङ्: मुष्टि] द्व्येकाङ्गुलह्रासाद्धीनमध्योत्तमा
भुवः ।। ५९ ।।
प्. १०४) गर्तस्थानान्निसिश्वेतरक्तपीतासितत्विषाम् ।
पुष्पाणां म्लायते यत्ना [घ्: यत्नो] त्तस्य सा भूर्द्विजादितः [ख्: तितः]
।। ६० ।।
आमकुम्भास्यगन्धाज्यपूरितेषु [मू, क्: तेख्व] शरावके ।
द्विजादीनां सिताद्याश्च ज्वलितावर्तयो निशि ।। ६१ ।।
प्रागादिवक्त्रमन्त्रैस्था (स्ता) इष्टस्थाने समावृते ।
निर्वाप्यः [मू: निर्वान्त्यः] प्रज्वलन्त्यश्च स्वजातिसुखदुःखदा ।। ६२ ।।
प्रोक्तलक्ष्मक्रमाभावे यथाप्राप्तिपरिग्रहः ।
वर्णसंपादनं कृत्वा स्वैः स्वैर्जातीसमस्वरैः [मू, घ्:
तीशशम्बरै] ।। ६३ ।।
परीक्ष्यैवं भुवं यत्नाद् वाहयित्वा वपेद् यवान् ।
सप्त पञ्च त्रिरात्रे स्याद्धीनादि [क्, ख्: द्विशादि] रोहणात्रिधा ।। ६४ ।।
हिता द्विजाय वेदास्रा राज्ञोऽष्टास्रायता [मू, घ्, ङ्: ष्टांशायता]
मही ।
वैश्याय च षडंशास्रा शूद्राय ह्यायता शुभा ।। ६५ ।।
पृथुद्विगुणदीर्घा च छिन्नकर्णाद्विकोणिका ।
वक्रा [मू, घ्, ङ्: वज्रा] र्धेन्दुद्विको [क्, ङ्: त्रिको] णाभा वृत्ता
षट्कोणिका च या ।। ६६ ।।
यानक्षयं भयं विप्रे स्त्रीपुत्रधननाशनम् ।
मृत्युर्व्याधिस्तथा पापं क्रमाद्दद्यात्पलं मही ।। ६७ ।।
प्. १०५) गोसूर्यास्यात्त्रिशूलाभा सूर्याकाराहि वज्रिका [ख्, घ्: वर्जिका;
ग्: पृष्ठाभा] ।
शकटा द्विप [घ्: द्विज] पृष्ठाभा दिङ्मूढा च करोति वै ।। ६८ ।।
प्रजानाशं प्रियास्वास्थ्यं [मू, घ्, ङ्: स्वाम्य] रोगं नैःस्वं
शिरोरुजम् ।
शोकं च सर्वनाशं च सर्वलोकक्षयं क्रमात् ।। ६९ ।।
पञ्चास्रा बोधिपत्राभा गृध्रगोधोष्ट्र [क्, ख्: गावोष्ट्र] सन्निभा ।
यवपिपीलिकामध्या दुन्दुभीपटहोदरी ।। ७० ।।
मीनभूदारपृष्ठाभा करिकोष्ठसमा च या ।
नानादोषकरा ह्येताः सर्वेषामेव वर्जिताः ।। ७१ ।।
धन्या त्वन्या कुमारी च पूर्वलक्षणलक्षिता ।
प्राग्विधानेन सा ग्राह्या यदि नोपहता भवेत् ।। ७२ ।।
श्वपचान्त्यजनीचैर्वा क्रव्याद्भिः पशुपक्षिभिः ।
या सेविता सदा पृथ्वी कोष्णा [क्: कोषो] सृग्वज्रदूषिता ।। ७३ ।।
भस्मेष्टकास्थिपाषाणशर्करापांशुसंयुता ।
अपि ग्राह्या [क्: ग्राह्य] गुणाढ्या सा गृहधाम्नोः सुशोधिता ।। ७४ ।।
शतधा वाहयित्वा तु हेमफालैर्हलैर्महीम् ।
शुद्ध्यर्थं स्थापयेत्तत्र मासान् पञ्च च [क्, ङ्: पञ्चैव] गोकुलम् ।।
७५ ।।
ततः प्रवापयेद्ब्रीहीन् याज्ञिया/श्च तिलादिकान् [ख्: ढकान्] ।
पक्वशस्येन संस्कृत्य घटयेद्धाम [ख्: वास] वेश्मनी ।। ७६ ।।
प्. १०६) एवं विशोधितां भूमिं समीकृत्योपलेपयेत् ।
ततः प्रसाधयेत्काष्ठां गृहादीनां तदुच्यते ।। ७७ ।।
तिष्यवेधेन तु प्राचीं चित्रास्वात्यन्तरेण वा ।
मीनयोगेन कौबेरीं ध्रुवयोगेन चानयेत् ।। ७८ ।।
विषुवे निर्मलाकाशे तद्भूमौ मण्डले कृते ।
न्यसेत्तन्मध्यतः शङ्कुं खादिरं द्वादशोच्छ्रयम् ।। ७९ ।।
षडङ्गुलपरिणाहं परितो रुद्ररेखितम् ।
तच्छायायाः प्रवेशेन पश्चिमां दिशमङ्कयेत् ।। ८० ।।
प्राचीं च निर्गमे तस्यास्तत्र सूत्रं च विन्यसेत् ।
मीनयोग्यां तथा याम्यां सौम्याशां च प्रसाधयेत् ।। ८१ ।।
चतुष्कोणानि दिङ्मध्यात् क्षेत्रस्यैवार्धसूत्रतः ।
वेदास्रं च चतुःसूत्रं पाततस्तत्र सिद्ध्यति ।। ८२ ।।
प्रागास्यां दशधा नाड्यो [मू: नान्यो] भूत्वा (?) नामानि च ब्रुवे
।
शान्ता यशोवती कान्ता विशाला [ख्: विलासा] प्राणवाहिनी ।। ८३ ।।
मती वसुमती [मू, ङ्: सती वर्गसती; क्, ग्: मती बहुमती] नन्दा सुभद्रा
च मनोरमा ।
उत्तरास्यां दशान्या च एकाशीत्यङ्घ्रिकारिका ।। ८४ ।।
हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला श्रिया ।
जया ज्वाला विशोका च स्मृतैता सूत्रपाततः ।। ८५ ।।
प्. १०७) ईशाद्यष्टाष्टकं दिक्षु यजेदीशं चयं जयम् ।
शक्रमर्कं तथा सत्यं भृशं व्योमं च पूर्वतः ।। ८६ ।।
हव्यवाहं [मातरिश्च इति पाठे साधु.ः] च पूषाणं वितथं
सौम्यमेव च ।
कृतान्तमथ गान्धर्वं भृङ्गं मृगं च दक्षिणे ।। ८७ ।।
पितरं द्वारपालं च सुग्रीवं पुष्पदन्तकम् ।
वरुणं दैत्यशोषौ च यक्ष्माणं पश्चिमे सदा ।। ८८ ।।
रोगाहि [घ्: वेगाहि] मुख्यभल्लाटं सोमदिश्य [सोमाहिर इति पाठे
साधुः] दितिं दितिम् ।
नवान्तपदगो ब्रह्मा पूज्योऽन्ये द्विपदङ्घ्रिकाः ।। ८९ ।।
ब्रह्मेशान्तरकोष्ठस्थमापाख्यं तु पदद्वये ।
तथाधश्चापवत्साख्यः केन्द्रान्तरे तु षट्पदे ।। ९० ।।
मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः ।
सावित्री तदधो द्व्यङ्घ्रे विवस्वान् षट्पदे त्वधः ।। ९१ ।।
पितृब्रह्मान्तरे द्विस्थमिन्द्रं मित्रं त्वधो जयम् ।
वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत् ।। ९२ ।।
रोग [घ्: वेग] ब्रह्मान्तरे नित्यं द्विस्थं च रुद्रदासकम् ।
तदधो द्व्यङ्घ्रिकं [क्, ख्: ङ्घ्रिगं] यक्ष्मां षड्सु [क्, ख्, घ्:
षड्स्थं] सौम्ये धराधरम् ।। ९३ ।।
चरकी स्कन्दवैदार्यौ कन्दर्पः पूतना तथा ।
जम्भपापपिलीपिच्छान् यजे [क्, ग्: न्यसे] दीशादिबाह्यतः ।। ९४ ।।
प्. १०८) एकाशीतिपदं वेश्म मण्डपश्च शताङ्घ्रिकः ।
पूर्ववद्देवताः पूज्या ब्रह्मान्ताः षोडशांशके [ख्, ङ्:
शात्मके] ।। ९५ ।।
मरीचिश्च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
दशकोष्ठस्थिता दिक्षु त्वन्ये चेशादिकोणगाः ।। ९६ ।।
दैत्यमाताहरौ खाग्नी मृगाख्यापितरौ तथा ।
पापसंज्ञानिलौ देवा सार्धसार्धाङ्घ्रिसंस्थिताः ।। ९७ ।।
प्रत्येकं बलिमन्त्राश्च मर्मवेधादिवञ्चनम् ।
देववास्तुविधौ सर्वं वक्ष्ये शल्योद्धृति क्रमात् ।। ९८ ।।
नगराट्टालहर्म्यादि तोरणग्रामयोश्चितिः [क्, ख्: स्थितिः] ।
स्तम्भपूजादि [मू: पूरादि] वास्तूक्तं भिन्नं क्वचिच्च कूपवत्
[मू, ङ्: रूपवत्] ।। ९९ ।।
यत्याङ्घ्रिकं प्रवक्ष्यामि संक्षेपेण यथाक्रमम् ।
सदिग्विंशत्करो दैर्घ्यात्सप्तविंशतिविस्तृतः ।। १०० ।।
शिवाश्रमः शिखाख्यस्य [ङ्: शिवाख्यस्य] चतुर्हीनः सदोभयोः ।
रुद्रद्विगुणितं नाहात्पृथुज्योतिर्विना त्रिभिः ।। १०१ ।।
स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथयश्चैव विस्तरात् ।
सावित्रस्यालयं कुर्याद्येषां पृथु दिगंशतः [ख्, ङ्: दिगन्तरम्] ।।
१०२ ।।
कुजः [घ्: कुड्यं] पृथूपजङ्घोच्चा कुड्यं तत्त्रिगुणो [ख्: द्व्गुणो]
च्छ्रयम् ।
कुड्यसूत्रसमा वीथी वीथीभेदादनेकधा ।। १०३ ।।
प्. १०९) कुवेन्द्रं [क्, ख्, ङ्: तदेन्द्रं] पञ्चवीथीभिर्वीरां वीथीं
विनाग्रतः ।
श्रीजय [ख्, ङ्: श्रीकुश] स्पृष्ठतो हीनो भद्रोग्रं [क्, ख्, ङ्: रुद्रोग्रं]
पार्श्वयोर्विना ।। १०४ ।।
गर्भपृथुसमा वीथी तदर्धार्धेन वा क्वचित् ।
वीथ्यर्धेनोपवीथ्याढ्य [मू: थ्याद्य] मेकद्वित्रिपुरान्वितम् ।। १०५ ।।
यतीनां गृहमेतद्धि ख्यातं गोचरभेदतः ।
सामान्यान्यं गृहं [घ्: न्यद्गृहं] वच्मि सर्वेषां सर्वकामदम्
।। १०६ ।।
एकद्वित्रिचतुःशालमष्टशालं यथाक्रमम् ।
एकं याम्यं च सौम्यास्यं द्वे चेत्पश्चात्पुरोमुखम् ।। १०७ ।।
चतुःशालं तु संमुख्यात्तयोरिन्द्रेन्दुयुक्तयोः ।
सिद्धार्थमम्बुयाम्ये च इन्द्राप्ये [ख्: इन्द्राख्य] यमसूर्यकम् ।। १०८ ।।
प्राक्सौम्यस्थे च दण्डाख्यं [ख्: छविदण्डाख्यं] प्राग्याम्ये
वातसंज्ञकम् ।
आप्येन्दौ गृहचूल्याख्यं काचाह्वं याम्यसौम्ययोः ।। १०९ ।।
सिद्धार्थे धनसंप्राप्तिर्मृत्युः स्याद्यमसूर्यके ।
दण्डाख्ये राजतो दण्डो वाताख्ये कलहः सदा ।। ११० ।।
गृहचल्यां धनं नश्येत्काचे ज्ञातिविरुद्धयः ।
विना सौम्यं हिरण्याख्यं त्रिशालं तद्धनर्द्धिकृत् [मू, अ, ङ्: हृत्;
ख्: तद्बहिः कृतः] ।। १११ ।।
प्. ११०) पूर्वशालाविहीनं स्यात्सुक्षेत्रवृद्धिदायकम् ।
याम्ये हीने भवेच्चूली [मू: च्छूला] त्रिशालं वित्तहृत्परम् ।। ११२ ।।
पक्षघ्नं [क्: यक्षमघ्नं] जलहीनोकः सुतघ्नं बहुशत्रुकृत् ।
इन्द्रादिक्रमतो वच्मि [मू: वह्नि] ध्वजाद्यष्टौ गृहाण्यहम् ।। ११३ ।।
प्राच्यां व्यामिश्रमावास [मू: श्रुसावास] मग्नौ
भस्ममहानसम् ।
याम्ये रसक्रियाशयया वर्म [वर्चः] शस्त्राणि रक्षसि ।। ११४ ।।
धनभुक्त्वम्बुवेश्माप्ये शस्यगन्धौ च मारुते ।
सौम्ये धनं पशून् कुर्यादीशे दीक्षासुरालयम् ।। ११५ ।।
स्वामिहस्तमितं वेश्म विस्तरायामपिण्डकम् ।
द्विगुणं हस्तसंयुक्तं कृत्वाष्टांशैर्हृतं तथा ।। ११६ ।।
तच्छेषो यः स्थितस्तेन वायसान्तं [ङ्: वाव्यान्तं] ध्वजादिकम् ।
तपः पक्षाग्निवेदेषु रसाद्यम्बरतो भवेत् ।। ११७ ।।
सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितम् ।
तस्माच्च [मू, घ्: तत्स्याच्च] नवमे भागे शुभकृन्निलयो मतः ।। ११८ ।।
तन्मध्ये मण्डपः शस्तः समो वा द्विगुणायतः ।
प्रागाप्ये चेन्दुयाम्ये वा हट्ट [क्: हस्ते] एवं गृहावली ।। ११९ ।।
एकैकभवनास्यानि दिक्ष्वष्टाष्टकसङ्ख्यया ।
ईशादिदितिकान्तानि फलान्येषां यथाक्रमम् ।। १२० ।।
प्. १११) भयं नारीचलत्वं च जयो वृद्धिः प्रतापकः [ख्:
प्रभावकः] ।
धर्मः कलिश्च नैःस्वं च प्राग्द्वारेषु यथाक्रमम् [क्, घ्:
ष्वष्टकं ध्रुवम्] ।। १२१ ।।
दाहः सुखं सुहृन्नाशो धननाशो मृतिर्धनम् ।
शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम् ।। १२२ ।।
आयुः प्राग्राज्य [क्, ख्, घ्: प्राब्राज्य] शस्यानि
धनशान्त्यर्थसंक्षयः ।
शोथरोगश्च [मू, क्, घ्: शोषं रोगं च] पापं च जलद्वारात्फलानि
च ।। १२३ ।।
रोगो [क्, ख्: रोगा] मदार्तिमुख्यत्वं चार्थायुः कृशतामतिः ।
मानश्च द्वारतः प्रोक्तमुत्तरस्यां दिशि क्रमात् ।। १२४ ।।
दार्विष्टकाश्ममृज्जं वा जालालकविभूषितम् ।
चार्वीभिस्तभ्ममालाभिः कपाटैः सार्गलैर्युतम् ।। १२५ ।।
कृत्वैवं तापसं स्थानं वास्तुदेवांश्च पूजयेत् ।
होमेन [ङ्: दोष च] तर्पयेत्सर्वान् मण्डपे पुरतो गुरुः ।। १२६ ।।
ततश्चार्घाम्बुनासिच्य [ख्: सेच्यं] सद्वाराभ्यन्तरं गृहम् ।
वेश्मसंस्थापने काले गुरुं सन्तोष्य भक्तितः ।। १२७ ।।
दिशां बलिं बहिर्दत्वा यतीनां भोजनं ततः ।
गृहोपस्करणं सर्वं दत्त्वा शययासनादिकम् ।। १२८ ।।
प्. ११२) यतिं संस्थापयेत्त्रिद्व्येकवर्षं वार्धकं ततः [ङ्:
तदर्धं वा तदर्धकम्] ।
स्वेष्टदेवालयं कुर्यात्तल्लक्षणमथोच्यते ।। १२९ ।।
इति लक्षणसमुच्चये मण्डपयत्यादिगृहस्थापने द्वाविंशो विधिः ।। २२
।।
अथ त्रयोविंशः
प्राच्यादाप्यान्त [क्, ख्, घ्: द्यापन्त] मावासासुरच्छाया भवेद्यदि ।
भयं दाहं रुजं [मू: भव] मृत्युर्नैःस्वं कुर्यात्क्रमात्सदा ।।
१ ।।
द्व्युच्छ्राय [ग्, घ्: ध्रुव] द्विगुणं सूत्रं त्यक्त्वा कुर्यात्तु सौम्यतः
।
जगत्येकं पृथुर्वापि [ख्: पृथ्ग्वापि] केचित्प्राहुः सुरालयम् ।। २ ।।
यवमानात्प्रधानादौ प्रागुक्तस्त्रिविधः करः ।
तेषां मध्ये भवेदेकः कर्तुरिच्छावशेन तु ।। ३ ।।
चतुर्विंशतिभिश्चान्यः प्रकृतोऽङ्गुष्ठकैर्मतः ।
पञ्चहस्तोऽथवा कार्यः षट्चतुरङ्गुलः स्मृतः ।। ४ ।।
सर्वाण्येतानि [घ्: व हि] वास्तूनि समहस्तैः प्रमापयेत् ।
विषमैस्तु न [मू: मस्तेन] माध्यानि माघ्यदोषो महान्भवेत् ।। ५ ।।
अङ्गुल सार्धमर्धं वा पादोनं सत्रिभागिकम् ।
आय [ख्: आप] दोषविशुद्ध्यर्थं दापयेत्तत्र बुद्धिमान् ।। ६ ।।
सारवन्निर्व्रणं शस्तमृजुं चाङ्गुल [मू: चैवाति] वर्तुलम् ।
त्र्यङ्गुलं परिणाहेन जिनसङ्ख्याङ्गुलायतम् ।। ७ ।।
प्. ११४) मूलरेखात्रयोपेतमग्रेरेखाद्वयान्वितम् ।
हस्तदारुसमासेन व्याख्यातं वास्तुसाधनम् ।। ८ ।।
चतुर्हस्तप्रमाणोक्तो धनुर्हस्तोर्ध्व [क्, ङ्: दण्डोथ; घ्: दण्डोर्ध्व]
साधने ।
सहस्रं धनुषां क्रोशो गव्यूतिर्द्विगुणं स्मृतम् ।। ९ ।।
गव्यूतिद्विगुणं ज्ञेयं योजनं परिसङ्ख्यया ।
एकं दशशतं ज्ञेयं सहस्रमयुतं पुनः ।। १० ।।
नियुत प्रयुतं विद्यादर्बुदं न्यर्बुदं तथा ।
वृन्दं खर्वं निखर्वं च शङ्खं वै पद्मसंज्ञकम् ।। ११ ।।
समुद्रो मध्यमन्ताख्यं पराख्यं परमं तथा ।
परार्धं सर्व [ख्, घ्: मेव] माख्यातं दशवृद्ध्युत्तरोत्तरम् ।। १२ ।।
एवमेतानि चोक्तानि सङ्ख्यास्थानानि सूरिभिः ।
पुरस्य सर्वतो दिक्षु सबाह्याभ्यन्तरेषु च ।। १३ ।।
द्वारे द्वारे चतुर्दिक्षु श्रियं वैश्रवणं तथा ।
कुर्यादभिमुखावैतौ ग्रामस्न नगरस्य च ।। १४ ।।
प्राकार [क्: प्रासाद] परिखाबाह्ये कार्याः प्रासादकल्पनाः ।
धनुः [ख्: पुनः] शतेऽथवा कार्यं [क्, घ्: सार्धे] तथा धनुः
शतद्वये ।। १५ ।।
सर्वत्राभिमुखाः शस्ता न प्रशस्ताः पराङ्मुखाः ।
प्राक्प्रतीच्यागतो मध्ये वंशो दक्षिणसोमतः ।। १६ ।।
प्. ११५) उभयोः पार्श्वतः कार्याः प्रासादा वंशवर्जिताः ।
पश्चिमे प्राङ्मुखाः शस्ता ऐन्द्र्यां [घ्: ऐन्द्राः]
पश्चिमसंमुखा ।। १७ ।।
उदग्दक्षिणगाश्चान्ये प्राङ्मुखाः पश्चिमाननाः ।
नोत्तराभिमुखाः शस्ताः कदाचिद्दक्षिणामुखाः ।। १८ ।।
किन्तु दैत्य [क्, ख्: चैत्य] सभामुक्त्या [मू: युक्ता]
मातृपक्षविनायकान् ।
दृष्ट्वा देव्यामतं ह्येत [मू, क्, घ्: मताद्ध्येत] दाकृष्य परिलेखितम्
।। १९ ।।
प्रागुक्तस्थानके दिव्ये यत्र यस्य सुरस्थितिः ।
तदादौ कीर्त्यते स्थित्यै कुर्तुः कीर्तिशुभेच्छया ।। २० ।।
विव्ण्विन्द्र [क्, ङ्: विष्ट्विन्द्र] भानवश्चैन्द्रे आग्नेयांशेऽग्नि [ख्:
यामाग्नि] भास्करौ ।
हनूमद्भूतवेतालमातृकालास्तु दक्षिणे ।। २१ ।।
पितरो भद्रकाली च दैत्यरक्षांसि राक्षसे ।
समुद्रा वरुणो नद्यो विश्वामित्रोऽप्सरो [क्, ग्, घ्: श्मरो] जले ।। २२ ।।
वायुः कात्यायनी नागाः सती [ङ्: गासती] भास्यश्च मारुते ।
सौम्ये स्कन्दो विशाखश्च स्थाप्या यक्षा ग्रहास्तथा ।। २३ ।।
ईशाने भैरवा रुद्रा मध्ये ब्रह्मा चतुर्मुखः ।
पुराद्यभिमुखा देवाः शुभाः स्वस्थानसंस्थिता ।। २४ ।।
पराङ्मुखो विना स्थानान्नदीदेवाश्रयेण वा ।
कृते देवं लिखेत्सौम्यं तत्कुड्र्ये पुरसम्मुखम् ।। २५ ।।
प्. ११६) यथा पुरे तथा ग्रामे पत्तने नगरे सदा ।
स्थाप्या धामजगत्यां तु प्रासादाङ्गेषु देवताः [मू, ङ्:
स्वदेवताः] ।। २६ ।।
शम्य [घ्, ङ्: शस्या] शोकाम्रमालूराः शुभाः स्युश्चोत्तरस्थिताः ।
कटुकण्टकिनस्तिक्ताः पिशाचाख्यादिपादपाः ।। २७ ।।
अक्षीरिणश्च ये चान्ये शास्त्रदुष्टाश्च भूरुहाः ।
प्रासादस्य समीपस्थाः सर्वदोषावहा नृणम् ।। २८ ।।
रक्षोभूतैः समाक्रान्ता दुष्टपक्षिसमाश्रिताः ।
अशक्त [घ्: असक्] च्छेदने तेषां रोपयेत्क्षीरिणोऽन्तरे ।। २९ ।।
नागकेसरपुन्नागजम्बीरारिष्टदाडिमाः ।
नारङ्गनारिकेलौ च पनसाश्च सचम्पकाः ।। ३० ।।
जयन्ती केतकी कुब्जबीजकौ [घ्: कुन्दबीजको] मातुलुङ्गकः ।
सरलोनन्दिकावर्ततालागस्त्यतिमुक्तकाः ।। ३१ ।।
क्रमुकः करवीरश्च पारावतादिजातयः ।
एभिरन्तरिताः क्रूरा भूरुहाः स्युः सुखप्रदाः ।। ३२ ।।
दिक्स्थाननियमः प्रोक्तः सुराणां सविशेषतः ।
शिवस्य नियमो नास्ति प्रासादकरणं प्रति ।। ३३ ।।
अनादिः सर्वगः पूज्यो दिक्षु सर्वासु भक्तितः ।
मुमुक्षोर्यत्र तत्रेशो दद्यान्मुक्तिं तु हेलया ।। ३४ ।।
प्. ११७) दिग्भेदान्कामिनामिष्टमैशादि फलमुच्यते ।
पातालखेचरीसिद्धिः शत्रुदाहश्च शान्तयः ।। ३५ ।।
रिपूच्छाद [त्साद इति पाठान्तरम्] श्चिरायुष्ट्वं कोषः पुष्टिप्रदं
क्रमात् ।
ग्रामादीशेन्द्रवह्निस्थाः पश्चिमास्याः सुराः शुभाः ।। ३६ ।।
दक्षिणाद्युत्तरान्ताशा [मू: राशासु] संस्थिताः प्राङ्मुखा हिताः ।
अधिकं वा समं हिनं पूर्वायामादिबाधकम् ।। ३७ ।।
प्रासादादि न कर्तव्यं कुर्याच्चेन्मृत्युमाप्नुयात् ।
उभयोद्विगुणोच्छ्राया कुर्यात्त्यक्त्वाग्रतः क्षितौ ।। ३८ ।।
पृष्ठतच्चोभयोर्नाहं तत्पादाग्रं च पार्श्वयोः ।
भिन्ननाभौ विधिश्चायं न दोषोऽभिन्ननाभिके ।। ३९ ।।
कोणादि धाम्न्य [ख्, ग्: धान्य] दोषाय नायकस्याङ्गभूततः ।
एवं बाणमताज्ज्ञात्वा हरिसूर्यादि रोपयेत् ।। ४० ।।
स्वयम्भूर्बाणलिङ्गान्तां रुद्रकाधा [मू: न्तरुद्रबाधा]
नचापरैः ।
स्वयम्भूते सहस्रैकं महद्भिः शतपञ्चकम् ।। ४१ ।।
क्षेत्रं शतैकहस्तं स्याल्लिङ्गे नरप्रतिष्ठिते ।
स्थावरे क्षेत्रमित्येवं जगत्यन्तं यतेर्भुवि ।
तत्रोत्पन्नं हि निर्माल्यं मृते जन्तौ विमोचनम् ।। ४२ ।।
यजमानानुकूलेऽह्नि सुनिमित्ते समाहितः ।
प्रविश्य भूमिं तां धीमानुदगीशानगोचरे ।। ४३ ।।
प्. ११८) पटावृते सुगुप्ते तु परीक्षयेच्च यत्नतः ।
धान्यकम्बुफलैर्युक्तं चन्दोनेन सुचर्चितम् ।। ४४ ।।
वस्त्रकण्ठं दृर्ढ शस्तं रत्नौषध्यम्बुपूरितम् ।
न्यसेत्तत्र घटं दिव्यं तूर्यमङ्गलनिस्वनैः ।। ४५ ।।
अर्घ्यादि [क्, ग्: अव्याधि] विधिना तस्मिन् विश्वकर्ममतेऽर्चयेत् [क्, ख्:
कर्माणमर्चयेत्] ।
परशुं मुष्टिलां सूत्रं कीलकांश्च तदुत्तरे ।। ४६ ।।
स्थापयित्वा तु संस्नाप्य पूजयेच्च यथाक्रमम् ।
पुन्नागशस्तवृक्षोत्थाः कीलकाः एकजातयः ।। ४७ ।।
सुदृढा याज्ञिकोद्भूता वृत्ता वा चतुरस्रकाः ।
अष्टाङ्गुलप्रवेष्टेन शङ्कवः [मू, अ, ङ्: शङ्करः] करदीर्धकाः ।।
४८ ।।
वेदास्रं साधयेत्तत्र सूत्रपातेन पूर्ववत् ।
शङ्कुं निवेशयेत्तस्मिन्नाज [ख्: न्नज] गत्याः क्रमेण तु ।। ४९ ।।
मधुसर्पिदधिक्षीदैर्लिप्तमूलाः सचन्दनाः ।
सुवस्त्रैर्वेष्टिताः सर्वे सुधूपेनैव धूपिताः ।। ५० ।।
सालक्तकत्रिसूत्राश्च सितैः पुष्पैश्च पूजिताः ।
अधोमूलोर्ध्वगाग्राश्च ऋजुरूपाः सुशोभना ।। ५१ ।।
अनलादिषु कोणेषु ताडयेल्लोहमुद्गरैः ।
कीलकान् ग्राहयित्वा [मू, ङ्: प्राहयित्वा] वै गच्छेदग्निदिशं प्रति ।। ५२
।।
प्. ११९) शुक्लाम्बरधरो धीमानाचार्यः प्राङ्मुखः स्थितः ।
दक्षिणेन समुत्थाप्य वामहस्तेन मुष्टिना ।। ५३ ।।
गृहीत्वा कीलकं भूमाववक्रं धारयेदृजुम् ।
ताडयंश्च जपेन्मन्त्रं प्राङ्निमित्तानि लक्षयेत् ।। ५४ ।।
ओं विशन्तु भूतले नागा लोकपालाश्च कामदाः ।
अस्मिन् गृहे तु तिष्ठन्तु आयुर्बलकराः सदा ।। ५५ ।।
ओं स्क्री/ क्री/ ह्री/ हू/ स्वाहा [मन्त्रोऽयं मूलपुस्तके नास्ति । ओं मं वं
ह्री/ हू/ स्वाहा ख ङ । ओं क्री/ ह्री/ फट् स्वाहा क पा० ।] ।
इति बाणमते कीलकारोपणमन्त्रः ।।
घाताष्टकं स्वयं दद्याद्दैशिको मन्त्रविग्रहः [क्, ग्: वित्तमः] ।
ततः प्रधानकारूकस्ताडयेच्च विशेद्यथा ।। ५६ ।।
हतं तन्न [क्, ग्: हततत्त्वा; ख्: तदन्तं] विशेद्भूमौ तदा
तन्निष्पत्तिरिष्यते ।
प्रविशेच्चेद्द्रुतं सर्वं कर्तुस्तत्राशुभं तदा ।। ५७ ।।
भिन्ने हन्यात्सुतं [ख्: त्मज] भार्यां कर्तुर्नाशश्च भङ्गतः ।
शनैः शनैरधो गच्छेत्कार्यसिद्धिं विनिर्दिशेत् ।। ५८ ।।
ऐन्द्र्यांदिप्रणते शङ्कौ भयं [ख्, घ्: धनं] दाहो दरिद्रता ।
भयमर्थक्षतीरोगः सुखं मानं क्रमाद्भवेत् ।। ५९ ।।
प्. १२०) कीलकः कुञ्चितो मूर्ध्नि प्रहारेण भवेद्यदि ।
आयुः पुत्रार्थवृद्धिः स्याच्च्युते हस्ताद्भयं महत् ।। ६० ।।
कौशं वा वाल्वजं मौञ्जं शाणं चार्धाङ्गुलं शुभम् ।
सूत्रं निवेशयच्छङ्कौ यथा तन्न विमुञ्चति ।। ६१ ।।
मुक्ते च म्रियते पुत्रश्छिन्ने कर्ता विनश्यति ।
तस्मात्सुग्रन्थितं कृत्वा दक्षिणेन तु वेष्टयेत् ।। ६२ ।।
चतुरस्रीकृते क्षेत्रे बलिं कीलेषु दापयेत् ।
आग्नेययां तन्मुखो भूत्वा मन्त्रमुच्चारयेदिमम् ।। ६३ ।।
ओं अग्निभ्योऽथसर्वेभ्यो ये चान्ये तस्माश्रिताः ।
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् [मू, ङ्: सर्वे
गृह्णन्तु मन्त्रिताः] ।। ६४ ।।
([चापान्तर्गतोऽयं पाठः मू, अ, क्, ख्, पुस्तकेषु नास्ति] नैर्-
ऋत्याधिपतिश्चैव नैर्-ऋत्यां ये च राक्षसाः ।
बलिं तेभ्यः प्रयच्छामि सर्वे गृह्णन्तु मन्त्रिताः ।। ६५ ।।
ओं नमो वायुराजेभ्यो ये चान्ये तत्समाश्रिताः ।
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुक्तमम् [मू, अ, ङ्: गृह्णन्तु
पुण्यमोदनम्] ।। ६६ ।।
ओं रुद्रेभ्यश्च सर्वेभ्यो ये चान्ये तत्समाश्रिताः ।
बलिं तेभ्यः प्रयच्छामि गृह्णन्तु सुमनोत्सुकाः ।। ६७ ।।
सर्वे गृह्णन्तु वै हृष्टा स्वाहाकारान्तयोजिताः ।
ध्रुवादि दीपिता मन्त्राः कुम्भयित्वा निवेदयेत् ।। ६८ ।।
प्. १२१) एवमग्न्यादयो देवाः क्रमेणानेन पूजिताः ।
तर्पितास्तुष्टमनसो भवन्ति कर्मसिद्धिदाः ।। ६९ ।।
इति देव मतात् कीलकारोपणमन्त्राः ।
स्नायूत्थं चर्मजं वापि सूत्रं कैटमथाशुभे ।
कटुकण्टकिशाखोटकलिकाख्याश्च [कोत्थाश्च अयं पाठः साधुः]
शङ्कवः ।। ७० ।।
ततश्चानन्तरे वास्तुं समावक्रं [मू, अ, क्, ख्, ङ्: वास्तुसमाचक्रं]
यजेत्ततः ।
नाधिकं सुखदं कर्तुर्दोषा एते सदाधिके ।। ७१ ।।
वैरंमारी [मू: नारी] विनाशश्च मृत्युरोगोऽर्थनाशनम् ।
प्रवास्तस्तस्कराद्भीतिः प्रागाद्याधिकसूत्रतः ।। ७२ ।।
एवं ज्ञात्वा तु सूत्राणि हेम्ना रत्नेन वा लिखेत् ।
रौप्येण वा निरर्थानामर्थ [ख्: माष] वृद्धयै द्विजातितः ।। ७३ ।।
शस्त्रायोऽस्थिरदाङ्गारशृङ्ग [क्, ङ्: गृहे] दार्विष्टकाश्मभिः ।
तृणैर्वा [मू: तूणैर्वा] लिखिते वास्तौ दोषा एते भवन्ति च ।। ७४ ।।
मृत्युश्च बन्धनं दण्डो दाहः क्षयोऽर्थनाशनम् ।
चौराद्भयमथोच्छाद [ख्: त्साद; घ्: मलाच्छाद] इष्टहानिर्गदः
क्रमात् ।। ७५ ।।
पादेनोच्चाटनं लेखा [मू: शेषा] दपस्मारं नखेन च ।
अजिनेन भवेद्व्याधिस्तस्माद्धेम्ना लिखेत्सदा ।। ७६ ।।
प्. १२२) तच्च स्रग [क्, ख्: तत्र गत्वा] क्षतैर्वास्तुमिष्ट्वा धामन्तु
सूत्रयेत् ।
तत्काले लक्षयेच्छल्यं विशेषेण तदुच्यते ।। ७७ ।
इति लक्षणसमुच्चये स्थानदेशयाग [घ्: वेदस्थानवेगयाग]
लक्षणनिर्णये त्रयोविंशो विधिः ।। २३ ।।
अथ चतुर्विंशः
शल्योद्धारं प्रवक्ष्यामि साम्प्रतं धामसद्मनोः ।
लिप्ते सुसंस्कृते स्थाने तन्यमाने [ग्: तत्प्रमाणे] च सूत्रके ।। १ ।।
तन्मध्येऽन्ते समीपे वा सत्वानां दर्सनं यदि ।
कीर्तनं [घ्: कीर्तितं] वा ध्वनिर्वा स्याद्यदि वा सूत्रलङ्घनम् [मू,
अ: लक्षणम्] ।। २ ।।
तदा वै तत्र शल्यं तु विद्याद्यत्र गृही स्थितः ।
महामर्मास्थिशल्येन भयं कर्तुर्महद्भवेत् ।। ३ ।।
अस्थिस्थं भिद्यते [मू: विद्यते] कुड्यंमशुभं कुरूते सदा ।
तस्मादाकर्षयेच्छल्यं तद्भवं तत्प्रमाणतः ।। ४ ।।
मार्जारसूत्रलक्ष्यादि [क्, ख्: लङ्घादि] तदस्थि रासभस्य वा ।
खरेण खरजं नाभ्यामुच्चाटः स्यात्प्रभोर्भयम् ।। ५ ।।
श्वास्थिशल्यं शुनो नित्यमुद्वेगस्तेन जायते ।
अजाविभ्यां गवास्थि स्यात्तयोर्वास्थि सुनिश्चितम् ।। ६ ।।
गवास्थ्ना चातिदारिद्र्यं गोपीडा छागलास्थितः ।
आविकाद्बद्धिनाशः [ख्: बुद्धिनाशः] स्यादश्वजं भेकजं गवा ।।
७ ।।
वाजिजाच्च गवां नाशो धर्मार्थौ भेकजात्सुतः [क्, ग्, घ्: न्मुदः] ।
अश्वेन माहिषं विद्या [मू, घ्: विन्द्या] द्गजेनोष्ट्रोद्भवं तथा ।। ८ ।।
प्. १२४) तज्जामश्वतरेणास्थ्ना त्रिभिर्दुः शीलता भवम् ।
जम्बुकास्थि लुलायेन मृगर्क्षाभ्यां [क्, ख्: गाजाभ्यां] तदङ्गजम्
।। ९ ।।
त्रिभिः परोपजीवित्वं वाराहं शिवया रुजे ।
व्याघ्रास्थि शूकरेण स्यात्तेन दष्टे [क्, ख्: दंष्ट्रे] रिपोर्भयम् ।। १० ।।
व्याघ्रेण हस्तिजं शल्यं दौर्भाग्योद्वेगकृच्च तत् ।
मुर्मुरं [ख्: मुत्सरं] करभेणाथ पाण्डराङ्गसपांशुकौ [ ख्:
पाण्डुरोग सपाण्डुकैः] ।। ११ ।।
नरौ [मू, ङ्: नवौ] दृष्ट्वा तुषाङ्गारभस्मपांशूंश्च लक्षयेत् ।
भस्माङ्गारेण दाहः स्यात्प्रवासः पांशुना द्रुतम् ।। १२ ।।
तुषेण धान्यनाशः स्याद्यज [घ्: शश्च यज] मानगृहे सदा ।
सूत्रे सन्तान्य [ख्, घ्: ताड्य] माने तु व्योम्नो विष्ठाप्रपाततः ।। १३ ।।
गृहस्याधो [स्थाधो लि० पु० पा०] निधानं स्याद्वास्त्वङ्गे
तत्प्रमाणतः ।
वृषभेण निधानं च गोमूत्राद्रजतं विदुः ।। १४ ।।
सुवर्णं तत्पुरीषेण धनपुत्रंविवृद्धिदम् ।
शिशुना हसिते धान्यं गृहस्याधः [स्थाधः लि० पु० पा०]
सुखावहम् ।। १५ ।।
तन्मूत्रेण तु कूपः स्यान्मरणं तेन जायते ।
श्वमूत्रेण च रीतिः स्याद्वङ्गं [मू, घ्, ङ्: वंशं] तद्विष्ठया
सदा ।। १६ ।।
प्. १२५) अजाविकामलात्ताम्रं रीतिकात्यर्थ [मू: द्यर्थ; ख्, घ्: न्यर्थ]
नाशकृत् ।
वृषदंशमलाद्वङ्गं हस्तस्थधन [क्: स्त्रिधन; ख्: स्त्रीदश]
हानिदम् ।।१७ ।।
शुक्तिसङ्कीर्तनाच्छुक्तिः सुखशान्तिप्रदायिका ।
शान्तदिग्गजर्जाच्च कर्तुश्चाधो निधिः स्थितः ।। १८ ।।
यत्ककुप्संस्थितः सूर्यस्तिस्रो दुष्टास्तदादिकाः ।
शान्तास्तु फलदाशेषा द्रेक्काणोच्चग्रहोदयात् ।। १९ ।।
पक्षीणां शान्तदिक्स्थानां निधिर्मधुरवासितात् ।
क्रव्यान्मृगविहङ्गानां कीर्तनात्स्यात्तदस्थि च ।। २० ।।
एतेषामस्थितो मृत्युर्यदि नोद्ध्रियते तु तत् ।
मूषिकेणाखुजो मूर्धा सपुत्रधननाशकृत् ।। २१ ।।
तद्भवं बभ्रुगोधाभ्यां ते च बन्धुविपत्तिदे ।
सर्पास्थि सर्पतो ज्ञेयं तल्लक्ष्मीधननाशदम् [ख्: बलनाशनम्] ।। २२
।।
कूर्मेण कूर्मजं शल्यं विद्याद्यागप्रवृद्धिकृत् ।
शङ्खाच्छङ्खास्थि कामार्थं कुर्याद्विषाणजं विदुः ।। २३ ।।
गोशृङ्गेण धनं धान्यं मृत्युः स्यान्माहिषेण तु ।
ऐणेनाक्षिगदान्मृत्युरायसाल्लोहजं सदा ।। २४ ।।
वृषदंशस्य मूत्राच्च तेन बन्धश्च निः स्वता ।
केशेष्टकाश्मनां शब्दाद्दर्शनात्तद्भवं मतम् ।। २५ ।।
प्. १२६) भयं स्यादिष्टकाश्मभ्यां तच्चूर्णाभ्यामनिर्वृतिः ।
केशेन दुःखजीवित्वं तृणात्पर्णाच्च तद्भवम् [ख्: तद्भयम्; क्, ग्:
तद्वृतम्] ।। २६ ।।
व्याघिस्तार्णेन बालानां पर्णात्परोपजीविता ।
नृशल्यात् स्त्रीचलत्वं स्याद्ब्रह्महत्या न संशयः ।। २७ ।।
षट्पञ्चाशत्तु शल्यानि सत्त्वानामिङ्गितेन च ।
तन्मध्ये द्वादशेष्टानि शेषाण्यनिष्टकृन्ति च ।। २८ ।।
आरम्भे शकुनात्प्रश्नाच्छब्दात्कण्डूयनादपि ।
शिल्पिनो यजमानस्य त्वन्येषां तन्नियोगिनाम् ।। २९ ।।
विज्ञेयं लिङ्गतः [मू, ङ्: दधतः] शल्यं [ग्: पुण्यं] यास्तुदेहे न
संशयः ।
यन्नाम यस्य शब्दश्च [क्, ख्: शल्यश्च] शृणुयात्तत्तदात्मकम् ।। ३० ।।
निर्विकारो यदा पृच्छेच्छब्दादिरहितोऽथवा ।
निः शल्या तु तदा भूमिः कथितव्या च दैशिकैः ।। ३१ ।।
वास्त्वङ्गे संस्थिते शल्ये भवेत्कर्तुरशोभनम् ।
तस्मात्तदुद्धरेच्छल्यं तच्च तस्मिंस्तदुच्यते ।। ३२ ।।
शिरः कण्डूयने शल्यं मूर्धोंत्थं स्तनमात्रतः ।
पुत्राणां मरणं तेन बन्धुभिः स्याद्वियोगिता ।। ३३ ।।
भ्रूपृष्ठे हेम वा काचं [ख्: कामं] शुभाशुभकरं भवेत् [ख्:
करत्रयात्] ।
नेत्रकण्डूयनान्मुक्ता श्रादा तदङ्गमानतः ।। ३४ ।।
प्. १२७) मुखसंस्पर्शनात्काष्ठं मूर्धोंद्भवमथापि वा ।
ताभ्यां हस्तद्वयेन स्याद्दारिद्र्यं मरणं क्रमात् ।। ३५ ।।
दन्ताद्दन्तं त्रिभिर्हस्तैस्तेन स्यात्फलसंक्षयः [घ्: वाहनक्षय] ।
विद्रुमं हेम तारं वा कर्णकण्डूयने भवेत् ।। ३६ ।।
तन्मानात्संस्थितं शल्यमारोग्यशुभशान्तिकृत् ।
ग्रीवायां स्पर्शने ग्रैवं शृङ्खला वाथ लोहजा ।। ३७ ।।
वृषदंशकरङ्कं वा तदुद्धरेत्करद्वये [घ्: त्रये] ।
भवं [क्, ख्: ग्रैवं] मृत्युप्रदं शल्यं भार्याघ्नी शृङ्खला
तथा ।। ३८ ।।
मार्जारपञ्जरेण स्याद्विनाशः पुत्रभार्ययोः ।
अङ्गस्फर्शाद्भवेदाङ्गं तन्मानाद्बहुरोगदम् ।। ३९ ।।
फलके फलकं [ख्: हस्तलक्षणजं] विद्यात्तन्मानादर्थनाशकृत् ।
कक्षाभ्यां कृष्णलोहं तु तन्मानाद्दुःखदं भृशम् ।। ४० ।।
बाहौ तज्जं परां भूतिकारकः कण्ठमात्रतः ।
दक्षिणे च करे पृष्ठे कपालं वाथ मृन्मयम् ।। ४१ ।।
कटिमात्रेण कर्तुन्नस्तन [घ्: कर्तेस्तुतेन] पुत्रस्य च क्रमात् (?) ।
वामहस्ते च संस्पृष्टे खट्वापादस्तदङ्गतः ।। ४२ ।।
जानुमात्रादधोऽवश्यं [ग्: ऽरण्यं] धनस्त्रीनाशकारकम् ।
पार्श्वकण्डूयने विद्यान्नरार्धेन तु पांशुलीम् ।। ४३ ।।
प्. १२८) नेत्ररोगो भवेत्तस्य उद्वेगश्च मुहुर्मुहुः ।
उदरे पशुशल्यं स्यात्कटिमात्रेऽतिशोकदम् ।। ४४ ।।
हृदये हृद्भवं चाधः क्षुत्तृड्दं तत्प्रमाणतः ।
पृष्ठेन पृष्ठजं शल्यं शौकरं वाथ कूर्परम् ।। ४५ ।।
तन्मानाद्द्वेषकृल्लोके शौकरादामयो महान् ।
कटिष्पृष्टेनायः कण्ठो द्विकराधोऽर्थनाशदः ।। ४६ ।।
स्फिचोस्त्रपु च तन्माना [क्, ख्, ग्, घ्: मात्रा] त्कटिरोगप्रदं तु तत् ।
शेफ [क्: मेह] स्पर्शाव्रिलोहोत्थं कराधः प्रमदापहम् ।। ४७ ।।
ऊर्ध्वोरूरूद्भवं वाथ दारूजं सर्धहस्ततः ।
स्त्रीदुःशीलोरुजाच्छल्याद्दारुशल्याद्धनापहम् ।। ४८ ।।
जानुनोर्जङ्घयोःस्थूणा भण्डिकां [मू: भानुका] नापितस्य [घ्:
वापि तस्य] वा ।
हस्तमात्रादधः स्यात्तु मृत्युर्जङ्घाश्च बन्धुनाम् [ख्: बन्धमान्]
।। ४९ ।।
नापितोपस्करा [मू, ङ्: पक्षवा] द्दुःखं दारिद्र्यं परजीवनम् ।
जङ्घास्पर्शात्तदस्थि स्यादधश्चैकादशाङ्गुलात् ।। ५० ।।
([चापचिह्नान्तर्गतोऽयं पाठः मू, अ पुस्तकयोर्नास्ति] तेन च
स्याद्वधः कर्तुर्मृत्युः पश्चान्नसंकयः ।
गुल्फाभ्यामश्चपादः स्यादधस्त्वष्टादशाङ्गुलात् ।। ५१ ।।
तेनार्थपशुनाशश्च प्रवासो दुःखजीवितम् ।
पादस्पर्शाद्गजास्थि स्यात्कण्ठशाल्मलमेव च ।। ५२ ।।
प्. १२९) द्वादशाङ्गुलमानात्तत्प्रवासमृतिदं क्रमात् ।
रीती [मू: स्थिति] चित्रमयोऽङ्गुष्ठान्मृदा [ख्, घ्: खटी] वा बर्हि [मू,
ख्: बहि] चित्रिता ।। ५३ ।।
षोडशाङ्गुलतोऽधस्तात्क्रमाच्छोकेष्टनाशनम् ।
त्र्यङ्गुलीभिर्हयास्थि स्याद्गोमृतिः सार्धतालतः ।। ५४ ।।
कांस्यं कनिष्ठयार्थघ्नं ज्ञेयमष्टाङ्गुलादधः ।
चर्म पादतलाद्रुक्मं भवेदष्टाङ्गुलैः सदा ।। ५५ ।।
पार्ष्णिकण्डूयने तालात्कपालाभ्रे च दुःखदे ।
गात्राणां स्पर्शनाद्विद्यान्नानाशल्यानि बुद्धिमान् ।। ५६ ।।
([चापचिह्नान्तर्गतोऽयं पाठ, मूलपुस्तके नास्ति]
सिकताभस्मलोहास्थिमणिमुक्तादि वास्तुगम् ।
बह्वङ्गस्पर्शनान्नित्यं शल्यानि विविधानि च ।। ५७ ।।
तानि तल्लिङ्गमानेन तत्फलानि च [घ्: ततः फलानि] पूर्ववत् ।)
शाल्यानिविकृतः कर्तुश्चत्वारिंशच्च सप्त च ।। ५८ ।।
तेषु पञ्च शुभान्यूचुर्द्विचत्वारिंशदन्यथा ।
खन्यमाने भुवो गर्ते लभ्यन्ते वास्तुनो यदि ।। ५९ ।।
हेमविद्रुमताराणि रत्नानि विविधानि च ।
मणिमुक्ताथ [मू: मुक्ताश्च] गोशृङ्गं शङ्खशुक्ती सदैव तु ।। ६०
।।
सजीवावथ निर्जीवौ भेककूर्मौ शुभप्रदौ ।
तदा सर्वार्थसिद्ध्यर्थं स्थापयेच्छूभ्र [ङ्: च्छत्र] मध्यतः ।। ६१
।।
प्. १३०) उत्खाते नरमात्रे तु गृहे शल्यं न दोषकृत् ।
तोयान्तिकं स्थितं शल्यं प्रासादे दोषदं नृणाम् ।। ६२ ।।
तस्मात्खाधारिकीं भूमीं खनेत्तोयान्तिकं बुधः ।
क्वचिद्रुद्रसहस्रे तु हुते दोषो न जायते ।। ६३ ।।
सुरधामसमे गर्ते बाणलिङ्गालये शते ।
हुते शल्यैर्न दोषः स्याज्जान्वधो [घ्: द्यात्वधो] यागमण्डपे ।। ६४ ।।
वास्तोः परिग्रहे चादौ पदसंस्थापने तथा ।
भित्तिन्यासे विशेषेण यजेद्वास्तुं त्रिकालिकम् ।। ६५ ।।
सद्वारे शोभने लग्ने सदृक्षेन्दुबले शुभे ।
गर्त [मू, घ्ऽऽ गर्भ] प्रमाणतः सम्यग्लिप्तेनाद्यान्विते समे ।। ६६ ।।
इति लक्षणसमुच्चये शल्योद्धारनिर्णये चतुर्विंशो विधिः ।। २४ ।।
अथ पञ्चविंशः
यजमानः शुचिर्धीरः सितवस्त्रविलेपनः ।
आचार्यः स्थपतिश्चैव दैवज्ञोऽपि गुणान्वितः ।। १ ।।
सर्वान् सिताम्बरानेतान् यजमानस्तु पूजयेत् ।
स्थपतिर्विश्वकर्मा तु दैवज्ञो नन्दिकेश्वरः ।। २ ।।
स एव भूतले विद्वान् श्रीकण्ठः स्थापकः स्वयम् ।
पूजयित्वा तु तान्सर्वांस्तोषयित्वा क्षमापयेत् ।। ३ ।।
परिकर्मकरा येऽपि तेऽपि पूज्याः स्वशक्तितः ।
हिरण्यवस्त्रदानेन वाग्भिर्वा तांस्तु तोषयेत् ।। ४ ।।
ततश्चाचम्य विधिवदाचार्यः शिल्पिभिः [घ्, ङ्: शिल्पिना] सह ।
यज्ञद्रव्याणि संहृत्य विशेद्भूमिं समाहितः ।। ५ ।।
उत्तराभिमुखो भूत्वा सकलीकृतविग्रहः ।
आत्मपूजामर्घपात्रं कृत्वा द्रव्याणि शोधयेत् ।। ६ ।।
अस्त्रजप्तैः कुशैर्विद्वानस्त्रेणोल्लिख्य सर्वतः ।
सिञ्चयेदम्भसा भूमिं तथा गन्धो [ख्; गङ्गो] दकेन च ।। ७ ।।
गन्धतोयाक्षतैर्मध्ये कृत्वा वेदास्रमण्डलम् ।
सुरूपां प्रमदारूपां शुद्धालङ्कारभूषिताम् ।। ८ ।।
प्. १३२) तन्मयां तां त्रिधावस्थां ध्यात्वा संपूजयेन्महीम् ।
सर्वदेवमयं वास्तुपुरुषं तत्र पूजयेत् ।। ९ ।।
ततो विलिप्य तत्क्षेत्रं चतुरस्रं समन्ततः ।
घटिकाशङ्कुयोगेन नक्षत्रदर्शनेन वा ।। १० ।।
यत्नान्निरूप्य दैवज्ञो विशुद्धं लग्नमादिशेत् ।
लग्नवेलाविरोधेन सूत्रं भूमौ प्रपातयेत् ।। ११ ।।
श्रिया यशोवती कान्ता सुप्रिया विमला शिवा [मू, अ, ख्, ङ्: श्रियः] ।
सुशोभा भानुकी चेताः प्राङ्मुख्यो नवनाडिकाः ।। १२ ।।
धना धान्या [घ्: धन्या] विशाला च स्थिरा द्रुतासवा निशा ।
विद्रुमा विभवेत्येता उत्तरास्या नवोदिताः ।। १३ ।।
अष्टाष्टकपदं क्षेत्रं कर्णसूत्रद्वयानितम् ।
कृत्वा यजेद्धरादीनां नव [मू, अ: भव] त्यर्धं दिवौकसाम् ।। १४ ।।
पदार्धे त्वीश्वरे चैश्यां यजेद्घृत्प्लुताक्षतैः ।
तोयोत्पलैश्च पर्जन्यं जयं पिष्ट [घ्: यजेद्दिष्टं] पताकया ।। १५ ।।
रत्नैरिन्द्रं रविं धूम्रैर्वितानेन यजेद्गुरुम् ।
गोधूमाद्यैर्द्वयोः सत्यं भृशं माषो [घ्: मांसो] दनैस्तथा ।।
१६ ।।
व्योमाख्यं पक्षिमांसैश्च एवं प्राग्दिशि देवताः ।
अग्न्यधः कोष्ठके वह्निं [मू, ग्: बाहुं] पैष्टकोत्थ श्रुवेण वा ।।
१७ ।।
प्. १३३) पूषाणां च यजेन्नित्यं हेम्ना च वितथं द्वयोः ।
क्षौद्रं गृहक्षतायाथ चणकान्नं यमाय च ।। १८ ।।
गन्धर्वाय द्वयोर्गन्धान् भृङ्गाय खगजिह्विकम् ।
कोष्ठका [घ्: कोष्ठार्धे] द्दक्षिणे दद्यान्नीलं यवं मृगाय च ।।
१९ ।।
दद्यात्पित्रे तिलान्नं च नन्दिने दन्तधावनम् ।
सुग्रीवाय द्वयोर्यावी पुष्पदन्ताय दर्भकम् ।। २० ।।
पद्मं प्रचेतसे दद्यादसुराय सुरां द्वयोः ।
घृताम्बु केतवे धानाः पङ्कवेर्द्धे तु [ख्, घ्: वेत्र] पश्चिमे ।। २१ ।।
मण्डाज्यं वायवे त्वर्धं नागाय नागकेसरम् ।
द्वयोः खाद्यानि मुख्याय मुद्गान्नं यक्षपाय [मू: अपूपान्नं
क्षयाय] च ।। २२ ।।
सोमाय पायसक्षौद्रे शालकं लिङ्ग [मू: मालूकविग] योर्द्वयोः ।
दित्यै लोपीमदित्यै च पूपा [ख्, ङ्: सूपा] नर्धेऽथ सौम्यतः ।। २३ ।।
आपाय च पयः कोष्ठ ईशाधस्त्वीशकोणतः ।
तदधः कोष्ठके दद्यादापवत्साय वै दधि ।। २४ ।।
मरीचये बलिर्देया चतुष्पादेषु लड्डुकैः ।
अग्न्यधः कोष्ठके नित्यं सावित्र्यै [ख्, ग्: सवित्रे] च कुशाम्भसा ।। २५ ।।
तदधो गुडपूपादि [ख्, घ्: पूपानि] सावित्रेऽथ प्रदापयेत् ।
विवस्वतेऽरुणां दद्याच्चन्दनं चतुरङ्घ्रिषु ।। २६ ।।
प्. १३४) रक्षोऽधः कोणकोष्ठे तु इन्द्रायान्नं निशान्वितम् ।
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ।। २७ ।।
चतुष्पदे प्र [ख्, घ्: ष्पदेषु] दातव्यं मित्राय गुडपायसम् ।
वाट्वधः कोणदेशे तु रुद्राय पक्षिमांसकम् ।। २८ ।।
तदधः कोणकोष्ठे तु यक्षायार्द्रं पलं तथा ।
महीधरायमाषान्नं समांसं चतुरङ्घ्रिषु ।। २९ ।।
मध्ये चतुष्पदस्थाय ब्रह्मणे तिलतण्डुलाः ।
एतान्वस्त्रादिभिश्चेष्ट्वा ततो रक्षोऽष्टकं क्रमात् ।। ३० ।।
गर्ताद्बहिरथेशादौ यजेद्रक्षोऽष्टकं बुधः ।
चरकीं मांससर्पिभ्यां स्कन्दं कृसरपायसम् [मू, घ्: यासृजा] ।।
३१ ।।
रक्तपद्मैर्विदारीं [घ्: विडालीं] च कन्दर्पं च पलोदनैः ।
पूतनां पलपित्ताभ्यां मांसासृग्भ्यां च जम्भकम् ।। ३२ ।।
पित्तासृगस्थिभिः पापं पिलिपिच्छं स्रजासृजा [ख्, ङ्: सृजासृजा] ।
रक्षोमातृगणेशेभ्यः पिशाचादि एव च ।। ३३ ।।
पितृभ्यः क्षेत्रपालेभ्यो बलिं दद्यात्प्रकामतः ।
अभावाद्भक्तमांसेन [ख्, ङ्: भक्षमाषेण] एतानाज्याक्षतेन वा ।।
३४ ।।
लाजैरशाठ्यतो [ख्: साध्यतो] वापि कुशपुष्पेण वा यजेत् ।
असन्तर्प्याप्यनिष्ट्वैतान् प्रासादादीन्नकारयेत् ।। ३५ ।।
प्. १३५) अनिष्पत्तिविनाशाभ्यामुभयोर्धर्मधर्मिणोः ।
पुरोत्पन्नो महावीर्यः सर्वभूतभयावहः ।। ३६ ।।
देवैर्यो निहितो [ग्, घ्: निहते] भूमौ स वास्तुपुरुषो मतः ।
यावदूर्वीस्थिरा लोके तावद्वास्तुनरः स्थितः ।। ३७ ।।
संहारे तु लयं याति देवैर्ग्रहादिभिः सह ।
सर्वेषु वास्तुकार्येषु पूजयेद्वास्तुनायकम् ।। ३८ ।।
तेनासौ वर्तते नित्यं तदुपायः शिवाज्ञया ।
विस्तारोऽस्य समन्ताच्च शतकोटिस्तु योजनैः ।। ३९ ।।
स्थितः क्ष्मामखिलां व्याप्य यजेत्सङ्कल्प्य तत्तनुम् ।
ईशकोणे शिरस्तस्य अंशो बाहुश्च पूर्वतः ।। ४० ।।
कूर्परो जानुमाग्नेये याम्ये जङ्घाङ्घ्रिराक्षसे ।
उपबाहूरुहस्तश्च पार्श्वश्चैवाग्निदेशतः ।। ४१ ।।
एवमेवापसव्ये स्यात्सोमानिलाम्बुनैर्-ऋते ।
चतुरस्रस्थिस्त्वेवं वास्तुनाथो महीतले ।। ४२ ।।
यदाकारं भवेत्क्षेत्रमुत्तानं स तदाकृतिः ।
कुड्यादिरोहणे काले मूर्धादीनि न पीडयेत् ।। ४३ ।।
ईशरक्षः स्थितं सूत्रं मूर्धानं तस्य लक्षयेत् ।
जलादिन्द्रो गणा [ख्, ग्: गला] दर्कः सुग्रीवात्सत्यगो मतः ।। ४४ ।।
भौमात्सोमो यमाद्भल्लो गन्धर्वाच्च बृहस्पतिः ।
एतद्वंश [मू, अ: त्त्वंश] गता नाड्य उपवंशगतास्विमाः ।। ४५ ।।
प्. १३६) गृहक्षताज्जलाध्यक्षो गणोत्तमान्निशाकरः ।
भल्लाटाद्भास्करं यावन्महेन्द्राद्यमदेवता ।। ४६ ।।
उपवंशगता नाड्यो देवस्थितिरथोच्यते ।
मूर्ध्नि चेशादिती नित्यमापोदित्यौ च नेत्रयोः ।। ४७ ।।
आपाख्यो वक्त्रदेशस्थस्त्वापवत्सो गले तथा ।
जयो गिरिस्तर्दशस्यौ सोमाद्याः पञ्च बाहुगाः ।। ४८ ।।
वामे चेन्द्रादयः पञ्च रुद्रो यक्षोपबाहुगौ ।
सावित्री सविता तद्वदुपबाहौ करौ हृदि ।। ४९ ।।
धराधरो मरीचिश्च स्तनयोरुभयोरपि ।
नाभौ ब्रह्मा स्थितो नित्यं पार्श्वयोर्जठरेषु [मू, अ, ङ्: जठरस्य] च
।। ५० ।।
स्थितौ मित्रविवस्वन्तौ वास्तोरिन्द्रजयो गुदे ।
शेफसीन्द्रसुहृत्ख्यातः पापाद्याः सप्त पङ्क्तिगाः [मू, अ:
पञ्जिकाः] ।। ५१ ।।
जान्वादिजङ्घयोः सर्वे ब्रह्माद्याः सप्त दक्षिणाः ।
पितुमृशौ (मृगौ) च [मू: पिव्यमृषिश्च] पादस्थौ इत्युक्ता [मू: इत्येता]
वास्तुदेवता ।। ५२ ।।
कथ्यन्ते त्वधुना वास्तोर्मर्मोपमर्मसन्धयः ।
मूर्धास्यहृत्स्तनौनाभिर्महामर्माणि पञ्च च ।। ५३ ।।
पादमध्योपमर्माणि शेषरेखास्तु सन्धयः ।
वंशोपवंशरेखाः स्युः शूलषट्कमथाशनिः ।। ५४ ।।
प्. १३७) चतुकं च चतुष्कोणे लङ्गूलं च पदोर्ध्वतः ।
ईशाग्निपितरो वायुः सदा शूलेष्ववस्थिताः ।। ५५ ।।
आपवत्सोऽथ सावित्री जयदासश्चतुष्कगाः [घ्: चतुष्टगा] ।
बिद्धे मर्मणि मृत्युः स्यात्पुत्राणामुपमर्मणि ।। ५६ ।।
सन्धौ मित्रार्थ [ख्: मित्राणि] हानिश्च वंशे वंशक्षयस्तथा ।
उपवंशे भवेत्पीडा गर्भनाशस्त्रिशूलके ।। ५७ ।।
षट्के च बहुवैरित्वं चतुष्के वाहनक्षयः ।
लाङ्गूले च शिरोरोगं देववेधेषु पीडनम् ।। ५८ ।।
मूर्ध्नि कर्तुर्विनाशः स्यात्तस्मादेतान् विवर्तयेत् ।
पदात्षोडशभागेन शिरोमानमिहोदितम् ।। ५९ ।।
अर्कदिग्वसुभागैश्च वंशादीनां भवेत्क्रमात् ।
स्थूलमानमिदं प्रोक्तं सूक्ष्ममानमिहोच्यते ।। ६० ।।
एकाङ्गुलं समारभ्य त्वेकैकयवहानितः ।
सोमतः पूर्वतो वापि सूत्रसञ्चालनात्कमात् ।। ६१ ।।
कुड्यस्तम्भादिविन्यासे वेधदोषो न जायते ।
ज्ञानतोऽज्ञानतो वापि मर्मवेधो यदा भवेत् ।। ६२ ।।
अघोरशतहोमेन तदा शान्तिः प्रजायते ।
इत्युक्ता वास्तुपूजात्र गृहप्रासादयोः सदा ।। ६३ ।।
ईशश्चेशानरुद्रोऽसौ पर्जन्यो मेघनायकः ।
त्वष्टुः सुतो जयन्ताख्यो महेन्द्रो देवनायकः ।। ६४ ।।
प्. १३८) सूर्यश्चादितिपुत्रश्च सत्यो धर्माधिपो महान् ।
वृषः स्कन्दो [ख्; नृपस्कन्धो; ग्: भृश. स्कन्दो] नभो व्योम वह्नि [घ्, ङ्:
त्वग्नि] र्वैश्वानरो मतः ।। ६५ ।।
पूषा [मू, अ, घ्: पूर्वा; ख्: प्रथा] तु पृषदेवस्तु दधीचिर्वितथस्तथा
।
गृहक्षतः कुजः [ग्: कजः] ख्यातो यमः कालश्च रोचनः [घ्:
श्चराचरे] ।। ६६ ।।
विश्वावसुश्च गन्धर्वो भृङ्गीशो दुर्बलो गणः ।
मृगः [मू, अ, ग्, घ्: यमः] स्वसा मृषा तृष्णा पिता
स्याद्राक्षसाधिपः ।। ६७ ।।
दौवारिकः स्मृतो नन्दी सुग्रीवश्चण्डभैरवः ।
पुष्पदन्तो गणश्रेष्ठो वरुणश्च जलाधिपः ।। ६८ ।।
दैत्यामात्यो भवेच्छुक्रः शोषः केतुरुदाहृतः ।
पापो मन्द इति ख्यातो वेगो वापुश्च कीर्तितः ।। ६९ ।।
नागश्च वासुकिः प्रोक्तो मुख्यनामा बृहस्पतिः ।
भल्लाटो यक्षराजासौ सोमश्चन्द्रोऽमृतात्मकः ।। ७० ।।
समाख्य [ख्, घ्: ऋगाख्यः] श्वरको वैद्यः सुरमाता [घ्: सुराम्बा
चा] दितिर्भवेत् ।
दैत्यमाता दितिश्चोक्ता आपश्चैव हिमाचलः ।। ७१ ।।
आपवत्स उमादेवी मरीची ब्रह्मजोत्तमः ।
सविता चापरो ह्यर्कः सावित्री ब्रह्मपत्निका ।। ७२ ।।
प्. १३९) विवस्वानर्यमा ख्यात इन्द्रसुहृदुपेन्द्रकः ।
इन्द्रजिद्रक्षसः [मू: इन्द्रदासः] पुत्रो मित्रो भानुस्तृतीयकः ।। ७३ ।।
रुद्रदासः प्रचाण्डाख्यो यक्ष्माख्यः सोमरुद्रकः ।
धराधरो ह्यनन्तः स्याद्ब्रह्मा चतुर्मुखो मतः ।। ७४ ।।
पर्यायोऽयं मुराणां तु यः प्रोक्तः पारमेश्वरे ।
सोऽत्रोक्तो न [घ्, ङ्: सोत्रोक्तेन] च रक्षाद्याः पूर्वोक्तास्ते हि [ख्, ङ्: तेऽपि]
राक्षसा ।। ७५ ।।
कादिहान्तैर्ध [घ्: न्तोर्ध्व] रारूढैर्बिन्दुयुक्तैर्हरादिशान् ।
आपादील्लोकमात्रस्तैर्यजेद्ब्रह्मध्रुवेण [घ्: स्थैर्जये-] च ।। ७६ ।।
दीर्घाष्टकैक [घ्, ङ्: कैक्ष्लां] बिन्द्वाढ्यैश्चरक्याद्यांश्च
राक्षसान् ।
प्रणवादिनमोऽन्तैस्तान्स्वाहान्तान्बलिकर्मणि ।। ७७ ।।
पादोने [ख्, ङ्: पादेन] पूरिते खाते पदमादौ न्यसेत्क्वचित् ।
न केवलेष्टकाश्माद्यै केवलैश्चलनं यतः ।। ७८ ।।
भूकम्पान्मारुताद्वथ वातशङ्काभयं भवेत् ।
मृद्वालुके [मू: द्दरुके] ष्टकाश्माभि प्राक्तस्मात्पूरयेच्च तत् ।। ७९ ।।
मृदाष्टाङ्गुलयापूर्य हस्तान् पूराश्मभिस्ततः ।
अम्भसाप्लाव्य वाकोच्य [घ्: कोट्य; ख्, ग्, ङ्: वाकोप्य] हस्तिपादैस्तु
याज्ञिकैः ।। ८० ।।
प्. १४०) दैर्घ्यात्त्रिवेदवस्वंशैर्व्यास [मू: व्योम] दलावटं क्रमात्
।
कपूर्णशकटान्कुर्यात्समोर्वी [ङ्: समौष्वी] सूत्रकाष्ठकैः ।। ८१ ।।
नीत्वा पादोन्नता तच्च [मू: न्नतात्वं] ततो वास्तुं यजेत्पुनः ।
समोपलिप्तके श्वभ्रे तद्द्वाराग्रे च मण्डपे ।। ८२ ।।
कदलीचूतमालाढ्ये तोरणध्वजशोभिते ।
विधिना हेमवस्त्राद्यैर्गुर्वादीन्सुदिने यजेत् ।। ८३ ।।
शिवकुम्भास्त्र [मू, ङ्: म्भास्तु] दिक्कुम्भांस्तन्मध्ये स्थाण्डिलं
तथा ।
शिवमिष्ट्वा ततो हव्यमिष्टकुण्डे [घ्: मुक्तकुण्डे] यथाविधिः ।। ८४ ।।
वास्तुदेवांस्तथाघोरं पाशुपतं च होमयेत् ।
सद्रात्नोषधयो धातुब्रीहिपारदसंयुतान् ।। ८५ ।।
वस्त्रकण्ठान्वितान् कुम्भान्न्यसेद्धेमादिकान् क्रमात् ।
([चापचिह्नान्तर्गतोऽयं पाठः मू, अ, ग्, घ् पुस्तकेषु नास्ति] अनन्तं
मध्यतो न्यस्य निधींश्चाष्टौ ततः क्रमात्) ।। ८६ ।।
चतुरोऽग्न्यादिकोणेषु ऐन्द्रादौ [मू: ऐन्द्र्यादौ] चतुरोऽपरान् ।
पद्मं चैव महापद्मं मकरं कच्छपं तथा ।। ८७ ।।
मुकुन्दनन्दनोलांश्च शङ्खं चेत्यष्ट वै निधिन् ।
ओं काराद्यान्नमोऽन्तांश्च मध्यश्चान्तान् यथाक्रमान् ।। ८८ ।।
न्यसेद्गुरुर्निधीनेतान् पुनस्तांश्चलयेन्न तु ।
न्यस्य [न्यस्त्वा लि० पु० पा०] शिलाष्टके देवान् क्वचिदष्ट [मू: दिष्ट]
तनुं शिवम् ।। ८९ ।।
प्. १४१) कुम्भाष्टके निधीशांश्च सन्निरुध्य [ख्: रुद्ध] पदं न्यसेत्
।
नवेष्टका [मू: न चेष्टका] शिला वापि कोणेष्वग्न्यादिषु क्रमात् ।। ९० ।।
सिंहाङ्किताश्चतस्रश्च धर्माद्यङ्घ्र्यादिकान्न्यसेत् ।
तत्रान्याः पञ्च पद्माङ्कास्तास्वेका [मू: द्येका] मध्यदेशतः ।। ९१
।।
आधारशक्तिसंज्ञाश्च धर्माद्यान्प्राग्दिशादितः ।
शर्वाद्या भीमपर्यन्ताः शिलाष्टकेषु देवता ।। ९२ ।।
स्वनामाद्यर्ण [मू, ङ्: वर्ण] मन्त्रैश्च स्नानपूजादिपूर्वकान् ।
पीतत्वान्ताङ्घ्रिरूपांश्च धर्माद्यांश्च [घ्: र्मादिस्या]
वृषादिकान् ।। ९३ ।।
स्थिरमासनमध्वानं [घ्: मद्बाणं] ध्यात्वा स्रग्भिः प्रकल्पयेत् ।
अन्यत्रोक्ताः क्वचित्कुम्भाः शिलाश्चाप्यथ पञ्च च ।। ९४ ।।
न्यसेत् प्राङ्मध्यतोऽश्मानं [ख्: मनात्] ततश्चाग्न्यादि कोणतः ।
पद्मं चैव महापद्मं मकरं कच्छपं तथा ।। ९५ ।।
शङ्खं च पञ्चमं चेह [ख्, ङ्: चैव] स्वसंज्ञाभिर्निधीन्न्यसेत् ।
प्रासादं सूत्रयित्वा तु कुंड्यविस्तरमध्यतः ।। ९६ ।।
कर्णसूत्रसमे स्थाने शिलान्यासविधिर्मतः ।
चतुरस्राः शिलाः कार्याः समन्तात्करसम्मिताः ।। ९७ ।।
विस्तरस्य [ख्: रस्तु] त्रिभागेन बाहुल्येन समुच्छ्रिताः [ख्: समुच्छ्रिता] ।
ऐष्टकास्त्वैष्टके कार्याः शैले शैलाः शिलाः शुभाः ।। ९८ ।।
प्. १४२) नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता ।
अक्षतैर्वेदिकां कृत्वा [मू, अ, ख्: वेदिका कार्या] तस्योर्ध्वे
विनिवेशिताः ।। ९९ ।।
आग्नेप्यादिषु कोणेषु नन्दाद्या अवतारयेत् [ख्: तानयेत्] ।
तूर्यमङ्गलनिर्घोषैर्निमित्तैः शोभनैः शुभैः ।। १०० ।।
प्रथमं स्थापयेन्नन्दां शरीरविषुवेण तु ।
अन्याः क्रमेण न्यस्तव्याः स्वदिक्स्था मन्त्रिणा ततः ।। १०१ ।।
समकर्णाः स्थिराः कृत्वा स्नाप्याः पूज्याः क्रमेण तु ।
अस्त्रतोयेन प्रथमं मृत्तिकाद्यैः पुनस्तु तैः ।। १०२ ।।
स्नापयित्वा शिलास्तास्तु हेमवर्णाः शुशोभनाः ।
विद्यारूपास्तु ता ध्यात्वा परितुष्टाः स्मिताननाः ।। १०३ ।।
आवाह्य स्थापयेन्मन्त्री विधिना मन्त्रवारिणा ।
सुदृढै [ग्: सुवृतैः] मृन्मयैःकुम्भैर्वित्ताढ्यैर्हेमनिर्मितैः ।। १०४ ।।
वस्त्रेण तोयमुद्धृत्य चन्दनेन विलेपयेत् ।
वस्त्राद्यैः [मू, अ, ख्, ग्, ङ्: वस्त्रादि] पूजनं कृत्वा नैवेद्यं
सन्निवेदयेत् ।
कृत्वैतन्नाममन्त्रेण शिलां मन्त्री [घ्: मन्त्रैः] प्रसाधयेत् ।। १०५ ।।
ओं नन्दे नन्दिनी पुसां त्वामत्र स्थापयाम्यहम् ।
अत्र त्वं तिष्ठ संहृष्टा यावदाचन्द्रतारकम् ।। १०६ ।।
आयुः कामं श्रियं नन्दे देहि त्वं सर्वदा नृणाम् ।
अस्मिन् रक्षा सदा कार्या प्रासादे यत्नतस्त्वया ।। १०७ ।।
प्. १४३) ओं भद्रे सर्वदा भद्रं पुंसां हितावहा सदा ।
आयुर्दा कामदा देवि श्रीप्रदा सर्वदा [ख्: स्वामिनः श्रीपदा] भव ।।
१०८ ।।
ओं जये सर्वदा ह्यत्र तिष्ठ त्वं स्थापिता मया ।
नित्यं जयावहा देवि स्वामिनि श्रीप्रदा भव ।। १०९ ।।
ओं रिक्ते रिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे ।
सर्वदा सर्वदोषघ्ने तिष्ठत्वमीशरूपके ।। ११० ।।
ओं पूर्णे त्वं महाविद्ये सर्वसन्दोहलक्षणे ।
सर्वं संपूर्णमेवात्र प्रासादे कुरु सर्वदा ।। १११ ।।
तेषामुपरि विन्यस्याः शिलाः पञ्च क्रमेण तु ।
शिवाज्ञया निरोप्यास्तु [मू, अ, ग्, ङ्: नोबोध्यास्तु] नन्दाद्या
लिङ्गवत्सदा ।। ११२ ।।
एवं प्रसाद्य नन्दाद्या मध्ये कूर्मं यजेत्सुधीः ।
कार्योंऽस्मिन् कुम्भविन्यासे शिवविन्यासवद्विधिः ।। ११३ ।।
रत्नलोहस्तथा धातुबीजौषधिसपारदैः ।
क्षिप्त्वैवं कुम्भगर्भेष्वष्टौ वा पञ्च [घ्: कुम्भ] निधीन्न्यसेत् ।।
११४ ।।
न्यस्तव्याधारशक्तिश्च शिलासूपरि [ख्, ङ्: मुपरि] पूर्ववत् ।
साधिदेवाश्च [ख्: सोऽपि देवोऽपि] बुद्ध्यन्तं पीठबन्धा [मू: वस्म]
वसानतः (?) ।। ११५ ।।
कृत्वा महोत्सवं रात्रौ दत्वा दिग्रक्षसां बलिम् ।
गुर्वादिभ्योऽशनं दानं दत्वा कार्योपजङ्घिका ।। ११६ ।।
प्. १४४) शिखरार्धात्पृथुस्त्र्यंशाच्चोपजङ्घोंत्तमोच्छ्रयः ।
मध्यमोऽङ्घ्रिविहीनस्तु ज्येष्ठार्धेनाधमो मतः [ख्:
नार्धमानतः] ।। ११७ ।।
ब्रह्मोपेन्द्रार्कदेवानां भवेज्ज्येष्ठोपजङ्घिका ।
अघमा चेतरेषां तु शिवस्य तु यथेच्छया ।। ११८ ।।
मध्ये श्वभ्रं परित्यज्य लिङ्गार्धं विष्णुविस्तरम् ।
शिला कूर्मादिकार्याय परितः संप्रपूरयेत् ।। ११९ ।।
पीठमध्ये सिते पद्मेऽर्कसुरा [घ्: स्वरा] द्यर्णभेदितैः ।
मूर्तिमूलाङ्गभूते च ध्यात्वा वास्तुं यजेत्पुनः ।। १२० ।।
समोपजङ्घिकां कृत्वा जगतीयावदेव हि ।
तूर्यमङ्गलशब्देन प्रासादं तत्र सूत्रयेत् ।। १२१ ।।
इति लक्षणसमुच्चये वास्तुपूजापदसंस्थापनं नाम पञ्चविंशो
विधिः ।। २५ ।।
अथ षड्विंशः
त्रिद्व्यष्टर्तु [मू, अ, ङ्: त्र्येद्धेतुं; ख्: त्र्यवीवृत्त; घ्: त्र्यर्थतु] गुणः
स्युश्च प्रासादा लिङ्ग [ख्, ङ्: दाल्लिङ्ग] मानतः ।
अर्धेन लिङ्गदैर्घ्येण भित्तयो विस्तृताः क्रमात् ।। १ ।।
षोडशाङ्घ्रौ [घ्: शांशी] कृते क्षेत्रे वेदांशैर्गर्भमध्यतः ।
तदंशतुल्यवीथ्यस्तु स्युरर्कांशैस्तु भित्तयः ।। २ ।।
पञ्चविंशतिकाङ्घ्रौ वा मध्यैकांशेन पिण्डिका ।
तद्गर्भोऽष्टाभिरंशैः स्याद्विकारांशैस्तु भित्तयः ।। ३ ।।
मिश्रार्चाव्यक्तलिङ्गानां त्रिद्विसार्धद्वि [ख्: सार्धाङ्घ्रि] भागिकैः
।
कनिष्ठादिक्रमाद्गर्भः क्वचिद्भित्तेस्तु वर्धनम् ।। ४ ।।
षड्विंश [ख्, घ्: त्रिंश] त्पदविष्कम्भो विंशत्यंशैस्तु भित्तयः ।
गर्भव्योमस्य चार्केण पीठी मध्ये युगांशतः ।। ५ ।।
भित्तिविस्तरमानेन लिङ्गं दैर्घ्यें [ख्, ग्: : लिङ्गदैर्घ्यं]
भवेत्क्वचित् ।
द्विगुणं तत् क्वचित्प्रोक्तं प्रासादे रसभाजिते ।। ६ ।।
धामतुल्याथ पादोना चार्धेन जगती त्रिधा ।
ज्येष्ठाद्या निर्गमा ज्ञेया नेमी तत्पादवर्जिता ।। ७ ।।
प्. १४६) स जगत्या परं [ख्, घ्: त्यात्परं] छन्दं क्रमः [घ्:
ब्रूमः] षट्त्रिंश [ख्, घ्, ङ्: विंश] दंशकैः ।
युगाङ्घ्रेर्मध्यतो गर्भः स्यात्तदेकेन पिण्डिका ।। ८ ।।
रविभागेन कुड्यानि भ्रमाणात्तु नखांशकैः ।
अष्टाविंशतिभिर्भित्तिः सा स्यात् स्तम्भकुमारिका ।। ९ ।।
दृढासारैश्चतुर्दिक्षु मण्डपस्त्रिंशदंशकैः ।
चतुः स्ताम्भाश्च तन्मध्ये द्वादश स्युः कुमारिकाः ।। १० ।।
तिस्रस्तिस्रस्तु कोणेषु स्तम्भौ चाग्रे कुमारिके ।
पार्श्वयो रग्रता वापि कुर्यादासारसंयुते ।। ११ ।।
सभित्तिः कोणभित्तिर्वा त्वभित्तिरपि चापरः ।
सकोणस्तम्भसंयुक्तो मण्डपश्च त्रिधा मतः ।। १२ ।।
तद्वच्चतुष्किकाः [तुष्टिका लि० पु० पा०] कार्याः पार्श्वयोः
पृष्ठतस्त्रिधा ।
द्वादलांशैस्तु तान् सर्वान् प्रासादे चोत्तमोदिके ।। १३ ।।
षड्भागौ रथकं मध्यं त्रिभिश्चोपरथौ तथा ।
वेदैरनु [घ्: स्तनु] रथौ कुर्याद्भूतैकेन [ख्: भूतकोणैः]
तथान्यतः ।। १४ ।।
मध्यादेकद्विरामांशैः प्रवेलात्परितः क्रमात् ।
जगतीमंशतो धृत्वावेष्टनांशं तु लोपयेत् ।। १५ ।।
रसांशैर्बलभी स्थाप्या चतुर्दिक्षु च मध्यतः ।
विदिक्षु कोणधामानि वस्वंशैर्मण्डपैः सह ।। १६ ।।
प्. १४७) भागैकंबाह्यतो दत्वा [ग्: दद्यात्] शेषमध्यांशकान् भवेत्
[ख्, ग्: हरेत्] ।
समसूत्राङ्कके छेदे समभागाद्विवर्तयेत् ।। १७ ।।
जगत्या भ्रमणायाश्च मण्डपस्य च भित्तिषु ।
चारु सुरालयस्तम्भबलभीशिखराणि च ।। १८ ।।
कुड्यं [ख्: कुटाश्च] च पुष्करं चैव रूपकं पत्रवल्लिकाम् ।
तद्देवस्य कुथं [मू, अ, ग्, घ्: कथां] वापि घटयेयुः शुशिल्पिनः ।।
१९ ।।
ज्ञात्वा ज्ञात्वा च तद्भगानमुक्तान् वृद्धिभित्तिभिः ।
वास्तुमानमिति ख्यातं लिङ्गमानमथोच्यते ।। २० ।।
लिङ्गद्विगुणितो गर्भस्तदर्धान्मध्य आसनम् ।
पीठार्धांश [मू: र्धाच्च] तदंशाभ्यां द्वाभित्त्योश्च विस्तरः
।। २१ ।।
भित्तेर्यों विस्तरो बाह्यजङ्घातन्तुसमुच्छ्रिता ।
मञ्जरी तु द्विभागाभ्यां मञ्जर्यर्धेन नासिका ।। २२ ।।
नासिकार्धं [घ्: कोर्ध्वं] तु यच्चार्धं तेन स्कन्धो भवेत्सदा ।
पञ्चांशैस्तत्पृथुत्वं च तथोर्ध्वस्त्र्यंशकैर्गलः ।। २३ ।।
कपोलामलसारौ च भागार्धार्धविनिर्गमौ ।
त्र्यंश [घ्: द्व्यंशा] र्धांशद्विभागार्धैः
क्रमाद्ग्रीवादिकोच्छ्रयः ।। २४ ।।
कपोलं वेदिकातुल्यमीशानो लिङ्गमानतः ।
धामार्धात्भ्रमण कार्या तदर्धेन च भित्तयः ।। २५ ।।
प्. १४८) प्रदक्षिणाग्रतो धाम्नो द्विगुणो मण्डपः सदा ।
मण्डपार्धप्रमाणेन पुरतो मुखमण्डपः ।। २६ ।।
मुखाख्यमण्डपार्धेन करणीया चतुष्किका ।
चतुष्किकाग्रतो नित्यं जगती धाममानतः ।। २७ ।।
जगत्यर्धप्रमाणेन कोणधामानि [घ्: धामादि] वर्तयेत् ।
तत्समा बलभी दिक्स्थाः स्वमानमण्डपान्विताः ।। २८ ।।
तत्रोपजङ्घिकार्धे [ख्, घ्: कोर्ध्वे] तु पदपीठं विवर्तयेत् ।
प्रासादतुर्यभागेन त्र्यंशैर्वा तत्समुच्छ्रयम् ।। २९ ।।
षडङ्गा [घ्: षडंशा] धिकधाम्नस्तु विस्तारस्तस्य कथ्यते ।
तदुच्छ्रयं हरं कृत्वा साधांशे खुर [घ्: क्षुर] पट्टिका ।। ३० ।।
साङ्घ्रिद्वाभ्यां भवेत्कुम्भः पादेन कुम्भपट्टिका ।
द्विभागाभ्यां भवे [घ्: तथा] त्कण्ठस्तदग्रें [घ्: षड्]
ऽशंगुणं भवेत् ।। ३१ ।।
एकेन गलपट्टी स्याद् द्वितीये वलिताङ्किका [ख्, घ्: ङ्किता] ।
तृतीयेनोपपट्टी तु तपांशा [ख्: तथाङ्गा] च्चतुरस्रिका ।। ३२ ।।
पादोनांशेन हंसाख्या तत्पादेनार्ध [घ्: नोर्ध्व] पट्टिका ।
तद्ध्यंशमष्टधा कृत्वा तैश्च पद्मं विवर्तयेत् ।। ३३ ।।
एकांशेन प्रवेशः स्यात् षडंशे [घ्: षडङ्गे] नारविन्दकम् ।
कर्णिका शशिभागेन विस्ताराच्चाधुनोच्यते ।। ३४ ।।
प्. १४९) जिनीकृते तु पीठार्धे मध्थे रथकमष्टभिः ।
तन्मध्ये तु द्विभागाभ्यां प्रवेशो गृह [ग्: ग्रह] हेतवे ।। ३५ ।।
प्रवेशः पुनरंशे च मध्यस्थे रथके सदा ।
एवमेव तु जङ्घायामञ्जर्या वेदिकावधिः ।। ३६ ।।
जङ्घिकामूलमध्ये तु [ख्: मध्येषु] बलभीं वर्तयेच्छुभाम् ।
प्रासादशिखरं वापि ब्रूयामुपरथादिकान् ।। ३७ ।।
नगैरुपरथं कुर्यान्नवांशैः कोणबन्धनम् ।
पीठाद्यब्जान्तमुच्छ्राये प्रवेशश्च निगद्यते ।। ३८ ।।
खुरप्रवेशमर्धेन कुम्भमेकांशतस्तथा ।
अर्धेन पट्टिकां कुर्याद्द्वाभ्यां कण्ठप्रवेशकम् ।। ३९ ।।
कण्ठप्रवेश [ख्, ङ्: पट्टार्ध] शनिष्कासा तथा बलितपट्टिका ।
अर्धांशेन तदूर्ध्वे तु कार्या चैवोपपट्टिका ।। ४० ।।
तत्समा निर्गमेनापि पट्टिका चतुरस्रिका ।
त्र्याङ्घ्रिप्रवेशो हंस [घ्: द्व्यंश] स्तत्पट्ट्यर्धप्रवेशतः ।। ४१ ।।
निर्गमांशेन [ख्: माङ्गेन] पद्मस्य प्राक्सार्धांशप्रवेशनम् ।
सन्धिपत्रान्वितं [ख्: ङ्कित] पद्मं विदधीत सुशोभनम् ।। ४२ ।।
अर्धांशवेशनाद्धाम कर्णिकोपरिसस्थितम् ।
शिलोत्थं पदपीठं स्यादेवं दार्विष्टकामये ।। ४३ ।।
प्. १५०) पृष्ठार्धद्विगुणा जङ्घा जङ्घाद्विगुणमञ्जरी ।
तदुच्छ्रयं ग्रहं कृत्वा जङ्घा तन्मध्यतो गुणैः ।। ४४ ।।
रसांशर्मञ्जरी कार्या तदर्धाच्छुकनासिका ।
वेदिबन्धवरण्डा [मू, अ: ववण्डा] दिन्निगदाम्यनुपूर्वशः ।। ४५ ।।
जङ्घिकार्धपृथौ सार्धजिनांशैर्धांशकैर्बहिः ।
उच्छ्रये धामतुर्यांशात्तस्मिन्निद्रांशकेकृते ।। ४६ ।।
तद्द्व्यं [मू, अ: तर्ध्ये] शाभ्यां च कुर्वीत पट्टिकां चतुरस्रिकाम् ।
सार्धत्रयेण कुम्भः स्यात्तदर्धे कुम्भपट्टिका ।। ४७ ।।
ऋतुभागात्मकं चैतत्कथितं खुरसंज्ञकम् [घ्: संज्ञितम्] ।
भागार्धेन तु कण्ठः स्यात्कलशश्च गुणांशतः ।। ४८ ।।
तत्पट्टिकार्धभागेन वेदांशः [घ्: वेदांशैः] कलशो वरः ।
प्रवेशाच्चैकतः कण्ठाश्चार्धे [मू: सार्धे] निर्गमपट्टिका ।। ४९ ।।
चतुरस्रांशतः पट्टी कुम्भस्य पादचेन्द्रतः [ख्: चन्द्रतः] ।
कुम्भपट्टी तु पादेन कुपाल्या द्यंशतः स्थिता ।। ५० ।।
एवं विवर्तयेयुश्च शिल्पिनः शास्त्रवित्तमाः ।
त्रिभिः खुरादिभिर्युक्तं वेदीबन्धाभिधानकम् ।। ५१ ।।
वेदीबन्धचतुर्थांशाद्बदुर्मिः (?) [ग्: दुद्वर्तिः] स्यात्तदूर्ध्नतः ।
कृतेषु त्रिषु भागेषु पादोनांशात्प्रवेशिकान् ।। ५२ ।।
प्. १५१) पादान्निर्गमपट्टी च कुम्भनिर्गमभागतः ।
भागेन चतुरस्राख्या पट्टिका सार्धतः स्थिता ।। ५३ ।।
एंको द्वाभ्यां सपट्टिः स्याद्बाह्यत्र्यंशप्रवेशतः ।
खुंरकुम्भवती जङ्घा ज्येष्ठानां पादमानतः ।। ५४ ।।
धामार्कांशाच्च जङ्घोर्ध्वे [ख्: जङ्घार्धं] कर्तव्या लम्बिनी
बुधैः ।
यावच्चिन्नवकां वापि पत्रवल्याथवा वरा ।। ५५ ।।
तिलकान्तरशोभाढ्या मुक्ताहारावलीयुता ।
चतुर्थांशश्च जङ्घोर्ध्वे विभज्य वसुभागतः ।। ५६ ।।
धृत्वैकं सदधः पश्चन्नवघा तत्तु कारयेत् ।
तत्रार्धेन प्रवेशाख्यं पट्टिकां तु वि [ख्: भुवि] वर्तयेत् ।। ५७ ।।
तथा निष्काशिकार्धेन भागेन चतुरस्त्रिका ।
पादोनांशेन हंसाख्या [ख्; हस्ताख्या] पट्टी तत्पदतो भवेत् ।। ५८ ।।
त्रिभिर्भागैर्वरण्डाख्या कण्ठपट्टीतु भागतः ।
तत्पट्टी पादतः कार्या पादोनांशेन निर्गमा ।। ५९ ।।
तत्र त्रिकटपट्टी स्यात् त्र्यंशैर्वेदास्रिकांशतः ।
भागमेकं त्रिधा कृत्वा प्रवेशश्चैक भागतः ।। ६० ।।
कण्ठसूत्रः समःकार्यो द्वितीये निर्गमा तथा ।
पट्टिका तु प्रकर्तव्या द्वितीयेनोपनिर्गमा ।। ६१ ।।
प्. १५२) बलितं द्व्यंशपादोनात्पादात्तत्पट्टिका भवेत् ।
बलिताह्वं त्रिभि [ख्: ङ्कास्त्रिभि] र्भागैर्ग्रहांशैस्तु कटिर्भवेत् ।। ६२ ।।
एको भागो रसांशैस्तु तत्रकण्ठो द्विभागतः ।
कण्ठसूत्राद्विशेत्कठो भागात्तत्पट्टिकोर्ध्वः [मू: कार्धतः] ।। ६३ ।।
भागेन हंसनिष्काशो द्विभागे चतुरस्रिका ।
भूमेर्जङ्घानितम्बौ च कीर्तितौ त्वष्ट्ट शास्त्रतः ।। ६४ ।।
वसुभागाग्रपादं तु वेद्यर्धांशं [ग्: र्धं स] प्रकल्पयेत् ।
तदधः सार्धपक्षांशं विस्तारेण तु कारयेत् ।। ६५ ।।
तत्र सार्धांशतः स्कन्ध तच्छेषं षोडशांशकम् [ख्:
शात्मकम्] ।
वेद्याः कट्याश्च मध्यांशा [ख्: ध्याङ्गा] च्चतुरः पादवर्जितान् ।।
६६ ।।
कृत्वा [मू: हत्वा] विकारभागांश्च कट्यूर्ध्वं स्कन्धकावधिः ।
एकैकेन तु भागेग विशेत्कण्ठक [ख्, ङ्: कं कण्ठ] सूत्रतः ।। ६७ ।।
कोणपिण्ड्यादि [मू, घ्: पिण्ड्यहि] विस्तारान्नवमेनोदकान्तरम् ।
भवेदनुरथः षद्भिः सप्तमेनोदकान्तरम् ।। ६८ ।।
मध्यरथोर्ध्वमष्टांशैरेवं विद्याज्जिनांशकैः ।
भूः [मू, ङ्: भूः] कटिस्कन्धयोर्मध्ये पञ्चात्रिंशद्भिराभजेत् ।।
६९ ।।
नवांशैश्चोच्छ्रिता प्राग्भूः शेषास्त्वेकैकहानितः ।
कोणानुरथकादीनां वृत्तप्रवेश उच्यते ।। ७० ।।
प्. १५३) प्रत्येकं [मू, घ्: पत्रैकं] भूमिकावेशो बाह्यार्धेन
भवेत्सदा ।
तद्वच्चतुर्थभागेन प्रवेशोऽनुरथस्य च ।। ७१ ।।
एवं सङ्कोचयेत् [ग्: ङ्कारये] प्राज्ञो मध्यस्थं रथकं सदा ।
लुप्त्वा भागान् भुवां स्वां स्वां सर्वासां च यथाक्रमम् ।। ७२ ।।
कृत्वेन्द्रांशात्ततो भूमिं प्रथमां वर्तयेद्बुधः ।
पादोनद्व्यंशतः कुम्भस्तत्पट्टी पादतो भवेत् ।। ७३ ।।
कण्ठार्धेन तथा पट्टी पार्श्वयोरुभयोरपि ।
पादोनद्यंशतो मध्ये पुटाख्यं वृत्तगर्भकम् [ख्, ङ्: गर्तकम्] ।।
७४ ।।
तद्गर्भपार्श्वयोस्त्र्यंशादन्तहयौ च कीर्तिते [ख्, घ्, ङ्: किर्त्यते] ।
कुम्भोपमे च ते कार्ये छुरिकापक्षयोस्तथा ।। ७५ ।।
वेदास्रा पट्टिका कार्या पादहीना तु कुम्भिका ।
पादेन कुम्भपट्टी तु चार्धेन गलपट्टिका ।। ७६ ।।
कण्ठपद्मार्धतो ज्ञेया भागेन चतुरस्रिका [मू: रष्टिका] ।
कुम्भार्धेन तथा पट्टी कण्ठस्तत्पट्टीकार्धतः ।। ७७ ।।
षड्भागेष्वेवमेवं तु वर्तयेत्कोणयोः सुधीः ।
पादोनद्व्यंशतो मध्ये पुटश्वभ्रं विवर्तयेत् [मू, ङ्: वर्जयेत् ] ।। ७८
।।
पार्श्वयोर्मेखले वृत्ते त्र्यंशैः [ग्: द्व्यंशै] पूर्णेन्दुशालिकाम् ।
त्रिकण्ठकोच्छ्रयं द्वाभ्यां पक्षयोस्तत्र वर्तयेत् ।। ७९ ।।
प्. १५४) चन्द्रशालायमध्योर्ध्वें त्र्यंशैः शिखरिका तथा ।
अङ्घ्री तद् [मू: अङ्घ्रीन; घ्: अद्यूभ] द्व्यंशतो मध्यं [घ्:
मस्तं] लवलीफलवद्भवेत् ।। ८० ।।
तन्मूर्ध्नि चाङ्घ्रिणा पट्टी प्रवेशः पट्टिकार्धतः ।
निर्गमाख्या परांशेन [घ्: परार्धेन] चतुरस्रांशतो भवेत् ।। ८१ ।।
कुम्भपट्टीं च भागार्धाद्भागार्धार्धेन [मू: र्धे प्र]
साधयेत् ।
तन्मध्ये तिलकं कार्यमेवं त्र्यंशैर्वरण्डिका ।। ८२ ।।
एवं मन्वंशतः प्राग्भूश्चतस्रोऽन्यास्तिथिक्रमात् ।
रूपं कोणरथस्यैवं वक्ष्ये चोपरथं त्वतः ।। ८३ ।।
षष्टिभागोच्छ्रयं कृत्वा तत्रांशाश्चतुरस्रिका ।
कुम्भैकेनार्धतः पट्टी कण्ठश्चार्धांशतस्तथा ।। ८४ ।।
भागमेकं त्रिधा कृत्वा कण्ठपट्ट्यंशतो भवेत् ।
वृत्तपट्टी च निष्क्रान्ता भागभागेन कल्पयेत् ।। ८५ ।।
तद्वत्पार्श्वे च निष्पाद्यं शिखरीमध्यदेशतः ।
अंशे गर्तालकं तज्ञ तत्पार्श्वयोर्गुणांशतः ।। ८६ ।।
विज्ञेया तुहरी प्राज्ञैर्भागोच्छ्रया शिखर्यथ ।
ऊर्ध्वाधस्तिलकाक्रान्ता मध्यस्थानोर्ध्वतः स्थिता ।। ८७ ।।
पार्श्वयोश्च तुहर्यास्तु कर्तव्ये वेदिकारिके ।
चतुर्भागैश्चतुर्भागैः शेषान्याश्चन्द्रशालिका ।। ८८ ।।
प्. १५५) तिसृभि [ख्, ङ्: त्रिंशति] स्तिसृभिः कार्योः समुच्छ्रायो
महीक्रमात् ।
एवं पञ्चदशाख्याताः पञ्चभूमीन्दुशालिकाः ।। ८९ ।।
मध्यरथक [ख्: मध्ये रथस्य] विस्तारं सार्धरमांशकैर्भजेत् ।
सार्धेन मध्यतस्तत्र रथकार्धं समुद्गतस् ।। ९० ।।
रथार्धभागवेशेन द्व्यंशतः पार्श्वतस्तथा [मू: सदा] ।
षष्टिभागसमुच्छायं कुर्यादर्धेन्दुशालिकाम् ।। ९१ ।।
तत्रैकांशेन वेदास्रा कुम्भाख्याश्चैकभागतः ।
कुम्भपट्टीं तथा कण्ठमर्धेन परिकल्पयेत् ।। ९२ ।।
द्विधा विभज्य भागैकं कण्ठपट्ट्यथ कुम्भिका [घ्: वृत्तिका] ।
([चापचिह्नान्तर्गतोऽयं पाठः मू, अ, ख् पुस्तकेषु नास्तु] चतुरस्रा
तथा कार्या भागभागेन निर्मिता ।। ९३ ।।
तत्र मध्ये पुटार्धं स्यात्पादोन द्व्यंशमुच्छ्रितम् ।
खनेश्च तिलकोपेतं तद्बाह्येऽर्धेन्दुशालिका ।। ९४ ।।
वृत्तरूपा तु सा कार्या सार्धद्वाभ्यां समुच्छ्रिता ।)
तन्मध्ये शिखरी द्व्यंशा उच्छ्रितातिमनोरमा ।। ९५ ।।
पार्श्वे त्रिकण्ठकं रम्यं द्व्यंशतस्तत्समुन्नतम् ।
तत्पार्श्वार्धारथेऽप्येवं कर्तव्यार्धेन्दशालिका ।। ९६ ।।
तद्वद्वरण्डकादन्यद्वर्तयेद्वेदभागतः ।
उपर्युपरि च त्रीणि एकं [मू, अ, ख्, ग्, ङ्: एवं] भूसूत्रतुल्यतः ।। ९७ ।।
प्. १५६) पञ्चभूवेदिकान्ता च [मू: कां तावत्] कार्या
चन्द्रार्धशालिका ।
मध्यरथस्य कर्मेदं वेदिकाद्यमथोच्यते ।। ९८ ।।
प्रागुक्तवेदिकोच्छ्रायं सार्धद्व्यंशं तु कारयेत् ।
पादात्प्रवेशपट्टी स्यान्निर्गमा पट्टिकाङ्घ्रितः ।। ९९ ।।
हंसपट्टी तु भागेन पादोना च कपोतिका ।
पादेन चतुरस्रास्यात्सा गर्भार्धप्रविस्तरा ।। १०० ।।
वेद्याश्चोपरिभागस्तु विस्तात्त्र्यंशको मतः ।
हंसाख्यान्तार्धसूत्राच्च षड्विभागस्तदुच्छ्रयः ।। १०१ ।।
तत्रांशाद्गलविस्तारः कपोलनिर्गमांशतः ।
कपोलादंशनिष्काशादमलासारविस्तरः ।। १०२ ।।
पक्षीशोच्चा भवेद्ग्रीवा तदस्रैकं गुणं भजेत् ।
अर्धेन गलपट्टी च उपपट्ट्यपरार्धतः ।। १०३ ।।
वृत्ताख्या तत्त्व [ख्, घ्: तनु] भागेन तत्पार्श्वा [ग्: तत्पश्चा]
च्चतुरस्रिका ।
द्वाभ्यां चामलसाराख्यं परितो वृत्तमुच्छ्रितम् ।। १०४ ।।
विकारदलसंयुक्तं तदूर्ध्वैकं गुणं [ख्, घ्: युगं] भजेत् ।
एकेन चतुरस्रा स्याद् द्वाभ्यां हंसकपोतिका ।। १०५ ।।
प्. १५७) कपोल [घ्: कपाट] घटनांशेन भवेदेवं तु मस्तकम् ।
अन्यार्थे [ख्: कन्यार्धे] ऽप्येवमेवं तु प्रासादं घटयेद् दृढम् ।।
१०६ ।।
प्रासादपृथुपञ्चांशादमलाख्यं त्रिभागतः ।
सभूतांशैस्त्रिभिः कार्यो घटस्तद्द्विगुणोच्छ्रयः ।। १०७ ।।
अघोरो दक्षिणे स्थाप्यश्चोत्तरे वामसंज्ञकः ।
पूर्वतोनाञ्जले [घ्: ञ्जलै] र्वाजो जङ्घाङ्गद्वास्तथैव [मू:
त्वात्तथैव] च (?) ।। १०८ ।।
शिखरार्धेऽप्यवस्थाप्याः सुराश्च रथमध्यतः ।
क्वचिद्भैरवनाट्येशगौर्यर्को दक्षिणादितः ।। १०९ ।।
शिखरं भूषतेदेतैरिन्द्राद्यैर्वा स्वदिक्स्थितैः ।
पूर्वोक्तोद्गमपृष्ठाघ्रा [ख्: पृथ्वास्रा] तज्जङ्घामध्यतो मुखम्
।। ११० ।।
भवेज्ज्येष्ठादिकं तच्च तदूर्ध्वें पूर्ववत्कटिः ।
तत्कट्यर्धसमुच्छ्रायं प्रविभज्याष्टभागतः ।। १११ ।।
तत्त्र्यंशैर्वर्तयेत्प्राग्वद्रथकानेकभूमिकान् ।
त्र्यंशकैश्चन्द्रशालां द्वयंशतो मध्यतः पुरम् ।। ११२ ।।
तत्रस्थं जीवरूपं च घटयेत्सुन्दरं बुधः ।
पार्श्वयोश्चन्द्रशालायास्त्रिकण्ठं [मू: कण्ठ] द्व्यंशतो भवेत् ।।
११३ ।।
पृष्ठतश्चन्द्रशालाया भेर्येकेन तु वर्तुला ।
मध्यार्धे [घ्, ङ्: मध्योर्ध्वे] चन्द्रशालायास्त्वंशाश्चिन्नरकं
मतम् ।। ११४ ।।
प्. १५८) एकेन शिखरं चोर्ध्वें तिलकाकारकं च तत् ।
एवं तत्पार्श्वतः कार्याश्चार्धेन्दुशालिकादयः ।। ११५ ।।
वास्तुभूषणमश्मोत्थमुक्तमन्यानि च ब्रुवे ।। ११६ ।।
इति लक्षणसमुच्चये तलच्छन्दवास्तुभूषणाख्य
सामान्यपञ्चरथकप्रासादवर्तना नाम [नामेति पाठः
लिखितपुस्तकेषु नास्ति] षड्विंशो विधिः ।। २६ ।।
अथ सप्तविंशः
अथान्यथा सुरावासाञ्ज्येष्ठादींस्त्रीन् यथाक्रमम् ।
रथकेर्नवसप्तेषुसङ्ख्यैरर्कमताद् ब्रुवे ।। १ ।।
मञ्जर्या मूलविस्तारैर्भवेन्नवतिभागिके ।
रन्ध्रादि वसुसप्तांशैर्मध्यार्धरथको ग्रहैः ।। २ ।।
सपादैकैकभागेन जलमार्गो विशेत्समम् ।
रथकाः सार्धचत्वारश्चत्वारश्च छलागमाः ।। ३ ।।
नव त्र्यंशो [ख्: नवत्यंशो] च्छ्रयात्तस्या मञ्जर्या मनुभि [ख्:
मणुभि] र्मही ।
ततश्चैकैकसन्त्यागात् षडण्डं नव [ग्, घ्: न्नन्नव] भूमिकाः ।। ४ ।।
वेदिकां बाह्यतः कृत्वा चन्द्रशालादि भूषिताः ।
विद्याधरामरैर्युक्तं स्यादेवं ज्येष्ठखद्रुमः ।। ५ ।।
विस्तारे षष्टिभागाढ्ये मनिभिः कोणबन्धनम् ।
उपाख्यः साङ्ग्रिबाणेन मुनिभि [घ्: सप्तभिः] श्चाणुकं भवेत् ।। ६ ।।
मुनिभीरथकार्धं स्यात् सपादांशैः क्रमाद्विशेत् ।
जलान्तरं त्रिभिरेवं जलार्धं त्वेकमेव [ख्: त्वेवमेव] तु ।। ७ ।।
रथाः सप्त भुवः सप्त सप्त त्र्यंशो [ख्: त्यंशो] च्छ्रये कृते ।
कामांशैः प्रथमाभूमिरेकैकह्रासयोगतः ।। ८ ।।
प्. १६०) आसप्तभागतः कार्या मह्यः [ग्: सप्त] सप्त सुशोभनाः ।
चन्द्रशालादि प्रत्राढ्या पूर्ववद्वेदिका बहिः ।। ९ ।।
एकोनदशमांशास्तु कृत्वा विस्तरतो बुधः ।
भूतांशेन तु कोणः स्याद्वेदेनोपरथस्तथा ।। १० ।।
मध्ये चाणु [ग्: चारु; घ्: चाथ] रथो बाणैः
पादोनांशांशकैर्बहिः ।
एवं शेषार्धकं कार्यं पञ्चभूरथकान्वितम् ।। ११ ।।
शतार्धांशोच्छ्रयं कृत्वा रविभिः प्राक्तनी [ख्: प्रोक्षणी] मही ।
रूपनाशात्क्रमादन्या वस्वन्ताः पञ्चभूमयः ।। १२ ।।
वेदास्रवृत्तयोर्मध्ये तत्क्षेत्रं युगभागिकम् ।
कृत्वैकेनतु संवेशमाद्यः कोणरथो भवेत् ।। १३ ।।
मध्यार्धरथको द्व्यंशः प्रवेशात्प्रतिषिध्यति ।
पञ्चमी रथकैर्धाम तथान्यद्भूत भागतः [घ्: गशः ।। १४ ।।
भवेत्सप्तरथान्यस्यस्तु [मू, घ्: ढ्यस्तु] तथैव रसभागिकैः ।
एकैकेन प्रवेशस्तु द्वाभ्यां मध्यर्धगो रथः ।। १५ ।।
एवं नवरथो ज्येष्ठः प्रासादः शङ्करोदितः ।
विस्तरो वेद्यधोः यः स्यात्तथा मञ्जरिकोच्छ्रितिः ।। १६ ।।
एतौ तिथ्यंशतो भक्तौ ज्येष्ठा मध्या हरादितः [ख्, घ्: रांशतः] ।
अधमो नवभागैः स्यात्स्थूलामध्यकृशास्त्रिधा ।। १७ ।।
प्. १६१) विस्तारार्धोन्नता जङ्घा मध्यमे पादवर्जिता ।
ततुल्या कन्यसे धाम्नि शिखरं द्विगुणं त्रिषु ।। १८ ।।
अर्कपुष्पा यवाकारा तथा दीपशिखोपमा ।
सार्धद्विगुणपादोना त्रिगुणा मञ्जरी त्रिधा ।। १९ ।।
जङ्घाविस्तरसार्धत्रिसूत्रकैर्भ्रमणाद्भ (भ) वेत् ।
जङ्घार्धार्धस्थिते [ग्: सार्धस्तते] सूत्रे वृत्तं कङ्कटनाच्छुभम् ।।
२० ।।
हीनाः स्युर्लक्षणैर्हीनास्त्रिरथास्त्रिवराः क्वचित् ।
तेषां कोणद्वयं बाणैरेकैकेन जलच्युतिः ।। २१ ।।
सा विस्तारसमश्वभ्रा धामभिः परिमण्डितम् ।
मध्यरथो (ऽ) हि भागेन कार्यो विंशतिभागिकः ।। २२ ।।
त्रिंशद्भागसमुच्छ्राये रुद्रांशैः प्रथमा मही ।
अन्या दिग्ग्रहभागैः स्याद्भूमिका पूर्ववद्वरा ।। २३ ।।
प्रासादो लिङ्गतः स्वांशो ब्रह्माद्यास्तेऽत्र च त्रयः ।
चतुरष्टास्रवृत्ताश्च तद्भेदाश्चापरे त्रयः ।। २४ ।।
वेदास्रदीर्घकाच्चास्रादष्टास्रा [घ्: ऽष्टास्रो] त्षोडशास्रकः ।
वृत्तावृत्तायतः [ख्, ङ्: द्वृत्तादयः] षट्स्युस्तन्नामानि वदाम्यतः ।।
२५ ।।
विराजाह्वो [मू, अ, ङ्: जाङ्को] युगास्रश्च दीर्घः स एव पुष्पकः ।
अष्टास्रः स्यात्त्रिपिष्टाख्यः [ख्, ङ्: विष्टाख्यः] षोडशास्रो
हिमांशुकः ।। २६ ।।
प्. १६२) वृत्तोऽर्कः सतु [मू: सप्त; ख्: स्यतु] दीर्घः स्यान्मणिकाख्यश्च
पश्चिमे ।
एतेभ्योऽष्टादशान्ये स्युरुत्तमाद्यास्तु [घ्: द्यांश्च] वच्मि तान् ।। २७ ।।
कालिङ्गा नागरा लाटा वराटा द्राविडास्तथा ।
गौडा इति च षोढैते प्रासादाश्च सरेखकाः ।। २८ ।।
लतिनः कुट्टिनश्चैव शेखरी [ख्: खेचरी] चक्रिणस्तथा ।
गान्धारो भौमजश्चापि प्रासादाः षट् स्मृतास्त्विमे ।। २९ ।।
धामना बलभी स्त्री च स्थितिकृच्च नपुंसकम् ।
अव्यक्तव्यक्तमिश्राणां लिङ्गाणां स्यात्क्रमाद्गृहम् ।। ३० ।।
ज्येष्ठं सार्ध [घ्: ष्ठाशार्ध] द्वयोच्छ्रायं मध्यमं
चाङ्घ्रिवर्धितम् ।
त्रिगुणां चाधमं चैतत् [घ्: चैव] सपादं सवितानिकम् [घ्ऽऽ
मानिकम्] ।। ३१ ।।
षड्ढं च द्विगुणोच्छ्रायं बाणशास्त्रे प्रकीर्तितम् ।
उत्तमादिकरैश्च स्यादेकैकस्य त्रिधा गतिः ।। ३२ ।।
हैमं रौप्यं महार्चा च लिङ्गं गान्धारगं शुभम् ।
हीनप्रव्यात्मकं नेष्टं क्रूरं मानाधिके स्थितम् ।। ३३ ।।
तस्मान्मानाङ्घ्रिछन्दास्यं नाथारथकभूमिका ।
वृत्तशृङ्गेन्दुशालाख्यं लक्षणं दशधोच्यते ।। ३४ ।।
शतार्धात्पञ्चहान्या स्युर्दशहस्तात्ततो [घ्: हस्तोन्नता] नव ।
गान्धारशुद्धधामानि लिङ्गमेतत्प्रमाणतः ।। ३५ ।।
प्. १६३) षट्त्रिंशांश [घ्: शत] श्चतुस्त्यागाच्चतुर्हस्तावधिक्रमात् ।
एते नवति [मू: नवनि] वन्धाराः प्रसादा लिङ्गमानतः ।। ३६ ।।
मेरुमन्दरकैलासविमानो भद्रको [ख्, ङ्: रुद्रको] भवेत् ।
श्रीवत्सोकप [मू: स्त्रोवत्सो रूप] नन्दाख्यास्त्वेते वैराजजा नव ।। ३७ ।।
बलभी वज्रपद्मश्च वलयाङ्को हरिस्तथा ।
वृषेभहसतार्क्ष्यान्ताः क्रमात्स्युर्नवभेदतः [ख्: भवेदतः] ।। ३८ ।।
बलभीच्छन्दकं धाम ज्येष्ठं पुष्पकसम्भवम् ।
वज्रस्त्रिपिष्टपश्चन्द्रात्पद्मऽर्का [घ्: पद्मार्कौ] द्वलयो हरिः ।। ३९ ।।
मणिका [मू: मणिकाद्] वृषभो नागो हंसतार्क्ष्यौं नवैव तु ।
अष्टादश प्रधानाच्च प्रासादास्तूभयात्मकाः ।। ४० ।।
एतदंशोद्भवाश्चान्ये वक्ष्यन्ते भेदतः क्रमात् ।
माल्यावान्मलयश्चैव सुपार्श्वो मेरुरम्भवाः ।। ४१ ।।
मेरुमन्दरभिन्नः स्याद्धिमवांश्चारुमूर्तिकः ।
विमानमन्दराभ्यां [ग्: ण्डलाभ्यां] च भिन्नः श्रीपर्वतो भवेत् ।।
४२ ।।
समुद्गकः [ख्, ग्: मुङ्गकः] समाख्यातः केलासो मन्दरा [ग्:
मण्डला] न्वितः ।
लता घण्टा [मू: लतायाश्च] विभानौ च विमानाद्भवतः [ख्: विद्या]
सदा ।। ४३ ।।
प्. १६४) भद्राद्भवेन्महाभद्रो नलिनः सर्वभद्रकः [मू: ता
मुखं] ।
श्रीवत्साद्वर्धमानाख्यो माला श्रीवत्ससंज्ञकः ।। ४४ ।।
नन्दिर्वृद्धिश्च खाधारस्तृतीयः परिकीर्तितः ।
शालागृहं विशालं च ब्रह्ममन्दिरमन्दिरे [ख्: मण्डले] ।। ४५ ।।
भुवजं शिखिका [मू: शिविका] वेश्मप्रभवो वलभीभवाः ।
अर्धगृहं कुटीराख्यं स्थितिकृच्च गृहाधिपात् ।। ४६ ।।
श्रीकण्ठः स्वस्तिकः खड्गः कुलिशः स्वस्तिको गदा ।
चक्रं स्वस्तिकसंज्ञाच्च विजयः सप्त [ख्, ङ्, घ्: सस्त] वज्रजाः ।। ४७ ।।
पद्मान्महारविन्दं स्यात्कुमुदोत्पलकौ त्रयः ।
दुन्दुभी मुकुली चक्रमुष्णीषी शङ्खसंज्ञकः ।। ४८ ।।
द्रुमवृक्षोघटश्चेति सप्तैते वलयानुजाः ।
ऋक्षको भूषणश्चैव भूधरः श्रीजयस्तथा ।। ४९ ।।
पृथ्वीधरो वृषोत्थाच्च चतुषष्टिप्रभेदतः ।
प्रासादा बाणशास्त्रोक्तास्त्वेतद्भेदोऽतिविस्तरः ।। ५० ।।
द्वात्रिशच्च सहस्राणि चतुः शतयुतानि च ।
उक्तानि भेदभिन्नानि धाम्नां वै पारमेश्वरे ।। ५१ ।।
चतुर्वक्त्रस्य लिङ्गस्य चतुरस्रश्चतुर्मुखः ।
प्रासादो ब्रह्मणोऽप्युक्तो नत्वन्येषां कदाचन ।। ५२ ।।
सर्वेर्षा विबुधानां च लिङ्गस्य [ग्: विधस्य] त्रिमुखस्य च ।
एकद्वारो युगास्रश्च प्रासादः परिकीर्तितः ।। ५३ ।।
प्. १६५) एकवक्त्रस्य लिङ्गस्य प्रतिमा या भवस्य च ।
वृत्तो महेश्वरस्योक्तः प्रासादोऽयं न कस्यचित् ।। ५४ ।।
चतुर्मुखस्य लिङ्गस्य चतुर्द्वारस्तथा परः ।
प्रासादो वर्तुलः प्रोक्तः ईश्वरस्य न कस्यचित् ।। ५५ ।।
एकवक्त्रस्तथाष्टास्रो विष्णोश्चैव भवस्य च ।
चतुर्द्वारः पुनरयं भवस्य ब्रह्मणस्तथा ।। ५६ ।।
चतुरस्रायता ये च तथा वृत्तायताः परे ।
एकद्वाराः स्मृताः सर्वे प्रसादा लक्षणान्विताः ।। ५७ ।।
मुक्ता लिङ्गं महेशस्य तथा च कमलासनम् (?) ।
सर्वासां प्रतिमानां तु प्रासादाः समुदाहृताः ।। ५८ ।।
उच्यन्ते पदसंस्थाश्च श्रेष्ठाष्टादश वामगाः [ख्: धामगा] ।
करसङ्ख्यां द्विधा भत्त्ङ्का मेर्वादीनां च कारयेत् (?) ।। ५९ ।
हरांशैश्च बहिर्भित्तिर्दशाङ्गै [ख्, ग्: दशांशै] रन्ध्रकारिकाम् ।
रुद्रांशैश्च क्रौडभित्तिं ग्रहा/शैः सुशिरं तथा ।। ६० ।।
नवभागैश्च पीठार्धं शेषांशाञ्चैवमेव हि ।
इत्थं मेरुः शतांशः स्यान्मन्दरा [ग्: मण्डला] दिश्च कथ्यते ।। ६१
।।
बाह्यपीठं [ख्, घ्: बाह्यकुश्वं] तमोभित्तिर्गर्भपीठार्धमेव च ।
भागैकैकं क्रमात्त्यक्त्वा एवमानन्दनाद्भवेत् ।। ६२ ।।
अथाहिभाजिते क्षेत्रे शफयुग्मनखांशकैः [ख्, घ्: त्मकैः] ।
युगैर्भित्तिश्चरवंकुड्यं [ङ्: संकुड्यं] गर्भपीठं तपेन तु ।।
६३ ।।
प्. १६६) कुड्यमन्धारिकाभित्तिर्भ्रमः पीठं भवेत्क्रमात् ।
द्वार्त्रिंशज्जिनभूपाष्टचन्द्राशैश्च नवांशके ।। ६४ ।।
चतुः षष्टिपदे क्षेत्रे मध्ये पीटं युगांशकैः ।
सुशिरश्चार्कभागैश्च विंशदृक्षैश्च भित्तयः ।। ६५ ।।
दन्तजिनविकारांशाद्बाह्यच्छन्दोद्गमः [ख्: भ्रमः] क्रमात् ।
परितो घटनात्तत्र न कार्या कुड्य पीडना ।। ६६ ।।
सार्क [ख्: अर्कै] शतांशकं क्षेत्रं कृत्वा तिर्यग्गुणांशकम् ।
कर्णसूत्राणि कोणेषु कोणाद्रामांशकं [घ्: मार्धकं] हरेत् ।। ६७
।।
भूतांशैः पिण्डिका कार्या ग्रहभूताग्निलोपनात् ।
रन्ध्राद्धि रामभागैः स्याद्रथंकाणां व्यवस्थितिः ।। ६८ ।।
मध्ये कामर्तुभागैश्च निर्गमस्तस्य तत्र च ।
परितश्च चतुर्दिक्षु कर्माद्या रथका नव ।। ६९ ।।
सार्धद्विगुण आपा [ख्: स्त्वापा] दादुच्छ्रयस्तस्य तु क्वचित् ।
नितम्बस्कन्धयोर्मध्ये द्विशताभ्यां विभज्य च ।। ७० ।।
कार्याद्याभूर्नखांशैश्च त्यजेच्चैकैकमन्यतः ।
चन्द्रशालान्विताप्येवं यावत्षोडशभूमयः ।। ७१ ।।
क्वचिद्विषमभूरुक्ता [मू: रूक्षा] रथका विषमा यथा ।
चतुः शृङ्गान्विता [ख्, घ्: ङ्किता] नासाश्चतस्रः शिखरार्धगाः ।। ७२
।।
वेदिकाभूः कटिः कण्ठः कपोलामलसारकः ।
पूर्ववत्सशलं मेरोर्वेदास्यशतशृङ्गिणः ।। ७३ ।।
प्. १६७) याम्येन्द्रेन्दुशुकाङ्घ्र्येषु [ख्: ग्रषु] हेरम्बादित्यमङ्गलाः ।
तद्द्वारमानतोऽन्यस्य लिङ्गं नवकरं तथा ।। ७४ ।।
शुकनासाग्रतश्चोर्ध्वं सिंहः स्याद्विकृता [ख्: विवृता] ननः ।
प्राग्ग्रीवनिर्गमार्धेन दैर्घ्यं सिंहस्य कीर्तितम् ।। ७५ ।।
तत्त्रिभागोच्छ्रितं तस्य तत्तुल्यं विस्तरं स्मृतम् ।
विस्तरोच्छ्रायमानेन कर्तव्यो मस्तकोच्छ्रयः ।। ७६ ।।
तत्त्रिभागोच्छ्रिता [घ्: त्थिता] ग्रीवा शुकनासार्ध [घ्: सोर्ध्व]
मध्यतः ।
प्राग्ग्रीवनिर्गमेनैव नासाग्रं तस्य निर्गतम् [मू: निर्गमः] ।। ७७ ।।
सिंहः पिपीलिकामध्यस्त्वपाङ्गकृतपुच्छकः ।
बृहत्कटिर्भहोरस्कः कर्तव्यः केसरान्वितः [अत्र केशरान्वितः इति
लिखितपुस्तकेषु तालव्यः पाठःतस्य के शीर्यते इति विग्रहे साधुः ।] ।। ७८
।।
लेलिहानोर्ध्वकण्ठस्तु स्वपीठोपरि संस्थितः ।
ग्रीवाधारा भवेद्वेदी प्रासादार्धप्रविस्तरात् ।। ७९ ।।
वेदिकोपरि कर्णेषु सिंहाः स्युर्विकृताननाः ।
स्वमानविस्तारायामा मस्तकन्यस्तपुच्छका ।। ८० ।।
वेदिव्याम [ख्, घ्: व्यास] त्रिभागेन दैर्ध्यं तेषां प्रकीर्तितम् ।
सिंहाः स्वलक्षणेपेताः कर्तव्याः केसराविन्ताः ।। ८१ ।।
वेद्युपरि तथा दिक्षु चत्वारो नररूपिणाः ।
लम्बनेन समायुक्ताश्चन्द्रशालासमास्रकाः ।। ८२ ।।
प्. १६८) दिग्वेदैरटसरोगात्रिविद्याभृद्ग्रह [ख्: भूगृह] किन्नरः ।
मातृभिर्गणविद्येशैर्भुषयेन्नवर्भूमिकाः ।। ८३ ।।
गर्भाश्ममञ्जरीजं यत्तेन पातभयं भवेत् ।
तस्मात्कुर्यादपां मार्गे द्वे द्वे रन्ध्रै महीक्रमात् ।। ८४ ।।
मेरुः ।
कृत्वा चतुरशीत्यंशं कोणात्सार्धद्वयं त्यजेत् ।
रामांशैस्तत्र पिण्डी स्यादृतुवेदयमांशकैः ।। ८५ ।।
प्रवेशनिर्गमौ तत्र मध्ये भूपेन्द्रभानुभिः ।
निष्क्रान्तिर्दिशदिश्यैव नवैव रथका मताः ।। ८६ ।।
कटिवेद्यन्तरस्थाने द्व्येकषष्टियुतं शतम् ।
कृत्वाष्टादशभिर्भूः स्यादन्यैकैकं विना क्रमात् ।। ८७ ।।
भुवश्चतुर्दशैवं स्युः पुष्करापाश्रयान्विताः ।
चतुर्द्वारं चतुर्नासं विचित्रकुहरैर्युतम् ।। ८८ ।।
प्रागुक्तवेदिकाकण्ठमस्तकैःसंयुतं शुभम् ।
दशोनशतशृङ्गं च विदध्यान्मन्दरं सुधीः ।। ८९ ।।
मन्दरः ।
षट्त्रिंशदंशके क्षेत्रे चतुरंशास्तु [ख्, ङ्: स्शांश] कोणतः ।
गुणं रूपं तदग्रे च [ख्, ङ्: भूः] तिर्यग्वह्निं विनाशयेत् ।। ९० ।।
वेदेनोपरथं स्थाप्यं गुणचन्द्रानलांशकम् ।
तद्वल्लुप्त्वा [ख्: ल्लब्ध्वा] न्तरे मध्यार्धरथं स्थापयेज्जलैः ।। ९१ ।।
प्. १६९) कोणादारभ्य शेषार्धमेवमेवं तु वर्तयेत् ।
शिखरं द्व्युच्छ्रयं सार्धं कृत्वा कट्यूर्ध्व [मू: कट्यर्थ]
मादिवत् ।। ९२ ।।
कृत्वा सा [घ्: कृतांशा] ङ्घ्रिशतं सैकं
प्रथमाभूर्नृपांशतः ।
शेषैकैकपरित्यागादर्कभूमीसमुच्छ्रयम् ।। ९३ ।।
चतुर्नासिकवक्त्रं च चन्द्रशालामरान्विताः [मू, ङ्: परान्वितम्] ।
अशीतिशृङ्गसयुक्तं कैलासं घटयेद्वरम् ।। ९४ ।।
कैलासः ।
मनु [ख्: मन्त्र] द्विधाकृते क्षेत्रे रुद्रहृद्विंशदाश्रुतिः ।
त्रिक्षयाद्वामतः कोणस्तयोस्तम्भस्तनुक्षयात् ।। ९५ ।।
उपरथं जलांशेन रथ त्र्यंशेन मध्यतः ।
इत्थमेवापरार्धं स्याच्चतु [मू: च चतु] र्दिक्षु समन्ततः ।। ९६ ।।
शृङ्गस्तम्भानुगैर्मध्ये शिखरैः सेन्दुसालकैः ।
सकपाटार्गलैर्वेदघटैर्नाग [मू: घटनाङ्ग] गवाक्षकैः ।। ९७ ।।
कृत्वा पञ्चनवत्यंशं [मू, अ: त्यूर्ध्वं] प्राग्भूः
कट्यूर्ध्वमिन्द्रतः ।
तदूर्ध्वैकैकसंह्रासात्कर्तव्या भूमयो दश ।। ९८ ।।
भूमं धामा रथाः पञ्च वलभीलाञ्छितौ रथौ ।
कुहराणि सुरैर्मध्ये रथके स्युर्विमानकौ ।। ९९ ।।
अर्धो घटकपाटैस्तु परस्परसमीक्षकैः ।
द्वारैकाष्ट [घ्: काङ्घ्रि] समाद्येशः (?) सप्ततिभिर्विषाणकैः ।। १०० ।।
प्. १७०) विमानम् ।
शक्रद्विगुणिते क्षेत्रे षड्भिस्तन्मध्यतो रथः ।
भागैकैकेन संवेशात्त्र्यंशैश्चोपरधौ मतौ ।। १०१ ।।
द्वाभ्यामनुरथः कार्यः कोणबन्धो गुणात्मकैः [ख्: णांशकैः]
।
सान्धारश्चतुरास्यश्च वेदाऽऽघ्रो भ्रमणान्वितः ।। १०२ ।।
सकूटशृङ्ग सप्तार्चिश्चन्द्रशालान्वितै रथैः ।
विद्याधाराकुलै रम्यैर्भद्रः स्यात् षष्टिशृङ्गवान् ।। १०३ ।।
भद्रः ।
भूमौ भूमौ कुटी द्वौ द्वौ तत्र काष्ठाधिपा दश ।
भद्रभागैर्महाभद्रः प्रोक्तः सोपानशोभितः ।। १०४ ।।
महाभद्रः ।
भद्रवत्तल [मू, अ, ख्, ङ्ऽऽ वर्तल] च्छन्देन समोऽधस्ताद्विवर्तितः ।
उपरिष्टाद्विमानांशः [मू, अ, ङ्: नात्म] क्रमतो मेरुमन्दरौ ।। १०५ ।।
कैलासो नन्दनोयुक्तः श्रीवत्सो भद्रसंज्ञकः ।
सर्वात्मा शिखरैः कार्यः सर्वतोभद्रको यतः ।। १०६ ।।
सप्तभूरथकैयुक्तो वेदाङ्घ्र्यास्यैर्भ्रमान्वितः ।
सपुष्ककरश्चतुर्दिक्षु चारु चतुष्किकान्वितः ।
चतुर्घटसमोपेतः सोपानवलभीयुतः [ख्, घ्: मुखः ।। १०७ ।।
सर्वतोभद्रः ।
प्. १७१) षट्त्रिंशदंशके क्षेत्रे त्रित्यागा [ख्, ङ्: त्रिवृत्या; ग्: त्रिभागा]
त्कोणवर्तनम् [मू, अ, ग्, ङ्: वर्तुलम्] ।
तद्वत्पिण्ह्यम्बु [मू, अङ्: पिण्डाम्बु] नोपाख्यः शरेणानुरथः सदा
।। १०८ ।।
मध्यार्धेऽग्निभिरन्यत्र त्वेवं सप्तरथोऽधिकः [ख्: र्चिकः; घ्:
र्विकः; ङ्: र्धिकः] ।
कूटान्वितेन्दुशाला स्याद दिग्द्वाराङ्घ्र्यास्यको रुचः ।। १०९ ।।
रुचकः ।
दशांशेतु [मू: अनु] कृते क्षेत्रे मध्ये च रथकस्त्रिभिः ।
सार्धेनानुरथौ कार्यौ कोणश्चैव द्विभागतः [घ्: रथो कोणं
कोणं चैव विभागतः] ।। ११० ।।
रथाः पञ्चभुवश्चैकाङ्घ्र्या चतुः शिखराणि च ।
रथो धामाङ्कितो भूश्च कुहरीमध्यगो रथः [घ्: रवे] ।। १११ ।।
कुहरेषु नरा नार्य सिंहव्याघ्रेभपक्षिणः ।
भृगादयः सहे [ख्: सदे] त्येवं श्रीवत्सः स्याद्धरेः प्रियः ।। ११२ ।।
श्रीवत्सः ।
चतुरस्रश्च सान्धारो भद्र [ख्: रुद्र] गतिस्त्रिभूमिकः ।
सिंहस्कन्धोऽमलासारैर्युक्तः कार्यो गृहाधिपः ।। ११३ ।।
गृहराजः ।
इन्द्रां [ख्: निद्रं] शके कृते धाम्नि कोणाः स्याज्जलहानितः ।
द्वाभ्यां चानुरथौ कार्यौ वेदांशैर्मध्यमो रथः [घ्: गो रवेः]
।। ११४ ।।
प्. १७२) एकाङ्घ्रिः सप्तभूमिश्च पञ्चरेखेन्दुशालिकः [घ्:
रथेन्दुशालिकम्] ।
नानासुराकुलो रम्नो [मू, अ, ङ्: वर्म्यो] नन्दनः सुरनन्दनः ।। ११५ ।।
नन्दनः ।
इति लक्षणसमुच्चये सान्धारनवप्रासादवर्तना नाम [नामेति
पाठः लिखितपुस्तकेषु नास्ति] सप्तविंशो विधिः ।
अथाष्टाविंशः
वेदांशे साङ्घ्रि [ख्, घ्: स्रश्चाङ्घ्रि] दीर्घे च नखांशैः
शैषगर्भिणि ।
पार्श्वयोः पञ्चभिर्भितिः पृष्ठेऽग्रे स्याच्च सर्वतः [ख्: सार्धतः] ।।
१ ।।
दशभागी [ख्, घ्: मांशी] कृते क्षेत्रे मध्ये चार्ध [घ्: चोर्ध्व] रथो
मतः ।
उपाख्योऽनुरथः कोणश्चतुरर्धांशतः [ख्, ङ्: र्धांशततः]
क्रमात् ।। २ ।।
तनुपक्षाग्निसंवेशाच्छेष एवं पुरोऽपरे [घ्: पुरे पुरे] ।
पार्श्वार्धे रुद्रभागे स्यान्मध्यात्त्र्यंशै [ख्: ग्रंशैः]
र्युगैर्जलैः ।। ३ ।।
रथातिरथ [घ्: नुरथ] कोणानि त्वेकैकेनोदकान्तरम् ।
वलभीचन्द्रशालास्या चतु [घ्: वद्या चतु] र्नासास्यसंयुता ।। ४ ।।
ग्रहोच्छ्रिता [घ्: त्थिता] गुणैर्जङ्घा त्र्यंशस्थाः सप्तभूमयः ।
भेरीन्दुशालिका द्वाभ्यां मेरुणा [घ्: मेकेन] शिखरोन्नतिः ।। ५ ।।
दैर्घ्ये कृत्वा विकारांशं विस्तारे रवि [ख्: च त्रि] भागिकम् ।
कङ्कटांशं तु सङ्कोच्य शिखरं दक्षभागतः ।। ६ ।।
प्. १७४) ऊर्ध्वसूत्रप्रसपातात्स्त्रीधामा श्रीपुटोपमा ।
मेर्वाद्याभाः क्वचित्कार्याः षट्सिंहाः कुम्भमस्तका ।। ७ ।।
वेदास्रादष्टधा भक्त्या [भक्त्वा इति पाठः साधुः] दद्यादाकृष्य
षोडश ।
द्विषट्कपार्श्वयोर्योज्यं द्वौ द्वौ प्राणार्थमग्रतः ।। ८ ।।
गर्भमर्कैर्मयः प्राह तथान्ये जिननाशनात् ।
वेदार्थै [घ्: गर्भार्कै] र्नासिका कल्प्या वेदास्र्या [घ्: दास्या]
घ्राचलस्यके [ख्, च्: वलभ्य] ।। ९ ।।
वलभी ।
बाह्ये चाष्टास्रके वज्र [मू, घ्: वक्त्र] स्त्वेकाङ्घ्र्यास्येषु भूमिकः ।
गर्भवृत्तोऽर्थवेदास्रो अष्टांशो वा सुराधिपे ।। १० ।।
वज्रः ।
दशनास्रो [घ्: नास्यो] भवेत्पद्मं षोडशास्र क्वचिन्मते ।
वृत्तो वाब्जेन संयुक्तः षोडशार्ध [घ्: शोर्ध्व] दलेन च ।। ११ ।।
तद्वत्सन्धिदलोपेतो गर्भवृत्तः सुशोभनः ।
एकद्वारैकनासश्च पद्मनामा सुरालयः ।। १२ ।।
पद्मम् ।
वेदास्रकोणसूत्रार्धादष्टमांशोन्नतो भ्रमात् ।
वृत्तः सन् वलयाह्वः स्यात्परितो वलयान्वितः ।। १३ ।।
प्. १७५) वलयान्तरपत्राणि कङ्कटानां तु गर्भवत् ।
वेदीगलामलासारं [मू, ख्, ङ्: सार्धं] पूर्ववन्नासिकां विना ।।
१४ ।।
वलयः ।
युगास्रे घ्रासमे क्षेत्रे न्यासाद्धृ [घ्: सार्धं] त्तस्य बाह्यतः ।
मध्ये वृत्तोन्नतोऽग्रास्यं [घ्: तोग्राघ्रं] सिंहैरष्टभिरन्वितः ।। १५
।।
कर्ण [ख्, घ्: स्कन्ध] कोणे युगाङ्घ्र्यास्यैः [घ्: स्थः]
करिकुम्भविदारिभिः ।
प्रासादः सिंहसंज्ञोऽयं नरसिंहामरप्रियः [घ्:
होमऽमरप्रियः] ।। १६ ।।
सिंहः ।
साङ्ग्रि [मू, अ: स्वाङ्घ्रि] वृत्तायते क्षेत्रे जङ्घा स्तम्भान्वितो भवेत् ।
नासागर्भश्च वेदास्रौ पञ्चभूम्युच्छ्रयो वृषः ।। १७ ।।
वेदास्रात्कोणमृत्राच्च करीष्वंशे मतो भ्रमात् ।
पृष्ठे वृत्तोऽर्धकोणास्र [ख्, घ्: द्विकोणाग्रो] गर्भवत्तुङ्गनासिकः ।।
१८ ।।
गजः ।
षोडशाङ्घ्रौ कृते क्षेत्रे वृत्तगर्भे शुकाघ्रया [ख्, ङ्: घ्रयोः] ।
जङ्गया च विमानस्य कट्या भद्राह्वयस्य च ।। १९ ।।
श्रीवत्सस्य च मञ्चर्या हंसो भवती लाञ्छितः ।
तत्तुल्यकटिधामभ्यां पार्श्वयोः सततोर्ध्वयोः [ख्, ङ्: ततद्वयोः] ।।
२० ।।
प्. १७६) ब्रह्माणं स्थापयेद् द्व्यंशे [ख्, घ्: द्वंशेद्व्यन्त]
द्व्यंशायोर्हरिशङ्करौ ।
कर्तु [घ्: कान्ता] रिच्छा वशादन्यो न्यस्तव्यो वा शुभप्रदः ।। २१ ।।
हंसः ।
युगास्रेष्वष्ट [ख्, घ्: पृष्ठ] पादास्रे नसापक्षौ च [मू: पञ्चैव]
गर्भवत् ।
जङ्घा स्तम्भवती कार्या तुङ्गाघ्रा [मू, अ: तुङ्गाग्रा]
पक्षसंयुता ।। २२ ।।
गर्भः षडस्रकस्तार्क्ष्यः सकुटाः [मू: शक्तयः] पञ्चाभूमयः
।
ससर्यं कटिकण्ठास्यं विष्टिष्टे [घ्: ष्ण्विष्टे] त्विष्टकामये ।। २३ ।।
भ्रमणा कण्ठपाशाख्ये [ख्, ङ्: मण्डपस्याख्य; घ्: सस्याख्ये]
चतुष्के कोणधामभिः ।
दिक्षु सर्वे बलभ्याद्याः सोपानजगतीयुताः ।। २४ ।।
तार्क्ष्यः ।
विस्तारद्विगुणोच्छ्रायो जङ्घैकांशे नपुंसकम् ।
ऊर्ध्वे चार्धेन हंसः स्याद्गर्भतुल्या तु वेदिका ।। २५ ।।
शिखरैर्दिक्षु संयुक्त गलकामलसारकम् ।
शेषार्धेन घटोपेतः [ख्: घण्टान्तेन] षण्ढस्य गृहकृत्यवत् [ख्,
घ्: कृत्यथ] ।। २६ ।।
स्थितिकृता (त्) ।
नागयक्षासुरादिनां त्रियुग्मैककरा मताः ।
कक्षपुटोपमास्रे तु ग्रीवामस्तकभूषितः ।। २७ ।।
प्. १७७) इतरा हीनाहीनलक्षणः ।
मेर्वादि [ख्, ङ्: सर्वादि] गरुडान्तेषु नागरीवर्तनोदिता ।
नागरीसदृशी लाटी किन्तु सा दारुनिर्मिता ।। २८ ।।
अधिकैः कर्मभिर्जङ्घाचन्द्रशालाधरासु च ।
प्रमाणान्नागरीं कृत्वा [ग्: धृत्वा] वाराटीं कीर्तिता बुधैः ।। २९ ।।
सपत्रवर्णिकास्तम्भपट्टिभृ [घ्: पङ्क्तिधृ] द्यत्र जङ्घिका ।
मेखलान्तरपत्राणि द्राविडी सा निगद्यते ।। ३० ।।
सपादत्रिगुणोच्छ्रायैर्विमानीकटिमेखलाः ।
प्रासादपादनिष्काशास्यपट्टवकुलीयुता [मू: मता] ।। ३१ ।।
कालिन्दी गौडिकातुल्या पञ्चिका [ख्, घ्, ङ्: मेञ्चिका] पादचन्द्रिका ।
इत्युक्ता किञ्चिदुद्देशात्स्थूलरूपेण शास्त्रतः ।। ३२ ।।
नागरीमध्यदेशे तु सौख्यदावर्तिनी मता ।
वाराट्याद्याः स्वदेशे [ख्: वास्तुदेशे] तु अन्येष्वन्या च दुःखदा ।। ३३
।।
मिश्रका बहुसङ्कीर्णा नैव कार्या सुभार्थिना ।
शुद्धा [ख्: शुभा] एव तु कर्तव्याः प्रयत्नेन मतान्तरे ।। ३४ ।।
ज्ञात्वा ज्ञात्वा विधास्यन्ति [मू: विधातव्याः] कारुकाः
सूक्ष्मकर्मभिः ।
प्रासादलक्षणं प्रोक्तं नासाद्वारमथोच्यते ।। ३५ ।।
इति लक्षणसमुच्चये लिङ्गमानप्रासादलक्षणं नामाष्टाविंशो
विधिः ।। २८ ।।
अथैकोनविंशः
वेदाङ्घ्रेकाङ्ध्र्य [घ्: कार्य] हीनाङ्घ्या प्रासादास्त्रिविधा मताः
।
गर्भानुगर्भसूत्रार्धा [घ्: त्राद्वा] नासाविस्तरचोदिताः ।। १ ।।
पञ्चधा निर्गमस्तस्या उत्त [मू, अ, ङ्: दुत्त] मादिप्रभेदतः ।
युगर्तुवसुकाष्ठांशैर्गर्भस्यार्धेन मानतः ।। २ ।।
रथैःसप्तेषु वामाद्या [मू, ङ्: वामाज्या; ख्, घ्: रामाद्या]
भूमिका विषमैर्युताः ।
तोयान्तरसमोपेता भागैः प्रासादवत्त्रिधा ।। ३ ।।
शिखारार्धोच्छ्रयाः कार्याश्चन्द्रशाला विभूषिताः ।
पत्राङ्कुरादि [मू: ङ्गुलादि] शृङ्गाद्या भेरीचिच्छुरका [घ्:
च्छिवुका] न्विताः ।। ४ ।।
तच्चूडा तिलकोपेतास्तदूर्ध्वे हरिभूषिताः ।
संस्कृत्य स्थापनायेद्देवांश्चन्द्रगर्भे तु पूर्ववत् ।। ५ ।।
नवांशान्मध्यतोऽग्निः स्याद्भ्रमाद्भेरी गुणक्षयात् ।
अष्टादशांश [मू, ङ्: दशास्र] सन्त्यागत्परिधौ शुकनासिका ।। ६ ।।
अर्थधामाग्रतो द्वार मध्यतः समदिक्स्थितम् ।
सर्वकामप्रसिध्द्यर्थं पूर्वमेव तु कारयेत् ।। ७ ।।
प्. १७९) पश्चिमं [मू, ङ्: पार्श्वर्शा] सिद्धिमूत्त्यर्थं सौम्यं
शान्त्यर्थपुष्टिदम् ।
क्रूरकर्मणि याम्ये च तथा कुर्याद्विदक्षु तत् [ग्: च] ।। ८ ।।
एकद्वित्रिमुख लिङ्ग प्रागेव द्वारमिष्येते ।
प्राग्भ्रामा [मू, अ: ग्ग्रामा] द्यादि सौम्यस्तु स [घ्: म्यन्त त्व]
व्यक्ताव्यक्तयोरपि ।। ९ ।।
सुरादग्नान्द्रसर्वार्थे लिङ्गार्चाया [घ्: न्ते लिङ्गार्च्ययो] स्तु वारुणे ।
चामुण्डा भैरवे याम्य [ख्, ग्: भास्यं] द्वारं याम्येन्दुदिक्षु वा
।। १० ।।
चण्ड्यश्च भद्रकाल्याश्च सौम्ये चैन्द्रेऽथ वारुणे ।
कुर्याद् द्वारं चतुर्दिक्षु ब्राह्मवेदास्यलिङ्गयोः ।। ११ ।।
दिग्विदिक्संस्थिताः सर्वे पूर्वापराननाः शुभाः ।
दिग्वलभीन्दुयाम्यास्यात्कोणधामाच्च संउखाः ।। १२ ।।
धाममानात्रिधा द्वारं जङ्घां विस्तरभागतः ।
तुर्यरसाहि [मू: रसादि] भागेन ज्येष्ठमध्याधमं क्रमात् ।। १३ ।।
रुद्रान्ताद्विष्णुपर्यन्तात्केशवान्ताच्च [मू, घ्: वार्धाच्च] तत्पृथु ।
एकद्वित्रिकरादीनां द्वारं स्याल्लिङ्गमानतः ।। १४ ।।
कन्यसं चोत्तमे धाम्नि मध्यमं मध्यमे सदा ।
उत्तमं कन्यसे द्वारं गर्भमानादथोच्यते ।। १५ ।।
त्रिचतुर्भूतभागेन ज्येष्ठमध्यमकन्यसम् ।
हीनादीनां भवेद् द्वारं गर्भकण्ठ [ख्, घ्: कर्ण] विभाजिते ।। १६ ।।
प्. १८०) पिण्डिकाकोणविस्तारं क्षुद्रे धाम्नि क्वचिन्मतम् ।
उच्छ्रयो द्विगुणो द्वारादन्यथावासं उच्यते ।। १७ ।।
अङ्गुलैः शतषष्ट्याद्यैर्दशहानिक्रमेण तु ।
द्वाराणि दश सिद्धानि चत्वार्यग्राणि [मू, अ, ग्: भ्राणि] तेषु च ।। १८ ।।
त्रीण्यत्र [ख्: ण्भ्र] मध्यमानि स्युस्त्रीण्येव कन्यसानि तु ।
उच्छ्रयार्धेन विस्तार उच्छ्रयो वा त्रिधाधिकः ।। १९ ।।
दिङ्नागाद्यङ्गुलैर्वापि द्वारं शुभकरं क्रमात् ।
उच्छ्रयार्धेन विस्तीर्णा शाखा विषमसङ्ख्यया ।। २० ।।
तत्समो द्विगुणोऽष्टोनः प्रथमोदुम्बरस्य च ।
शाखापृथुत्वमङ्न्यूनं दलं बाहुकयोर्मतम् ।। २१ ।।
त्रीष्वद्रिग्रहसङ्ख्याभिः शाखाभिर्द्वारमिष्टदम् ।
महार्चाधाम्नि केषाञ्चिद्रुद्रशाखान्वितं मतम् ।। २२ ।।
विस्तारं नखवत्कृत्वा बाहल्यं तिथिभाजितम् ।
दण्डशाखा रसांशेन तमाख्याश्रम [घ्: त्रय] भागिका ।। २३ ।।
भूतभागेन रूपाख्या त्वन्ध [मू, अ, घ्, ङ्: त्वनु] कारी तनुः स्थिता
।
मरीची युग्मतः कार्या मूलाख्या विषपेण तु ।। २४ ।।
दण्डद्विशतिमा [ख्, घ्, ङ्: ति सा] द्वौ द्वौ सार्धमेवं [ख्: मेके] च
सायकैः ।
सर्वान्ध [मू, ङ्: नु] कारिकावेशो मूलशाखासमो भवेत् ।। २५ ।।
प्. १८१) त्रिशाखद्वारम् ।
त्रिंशदंशस्य विस्तार [ख्, घ्: प्रविस्तारो] द्वृद्धिभागाद्दलं तयोः ।
विभज्य द्वारबाह्या च भूता स्याद्दण्डशाखिका ।। २६ ।।
पृथुत्वेनान्धकारीन्दोः प्रविष्टा [मू: प्रतिष्ठा] न्तरसांशतः ।
खल्व [मू: खलु] शाखाश्चतुर्वेशा [मू: र्वेदात्]
त्सार्धाम्बुविस्तरेण तु ।। २७ ।।
पादोनविस्तरा कार्या चान्धकार्यान्तवेशनात् ।
द्विप्रवेशात्पृथुत्वेशो स्तम्भशाखाभवेदियम् ।। २८ ।।
षड्वेशा [मू, अ, ङ्: खर्वेशा] दन्धकारी च पादोनांशप्रविस्तरात् ।
अंसाद्भी [घ्: अंखसो] रूपशाखाद्याः [घ्: खायाः] पृथुता
विषषेण तु (?) ।। २९ ।।
पादोनांशेन विस्तारा ध्वान्ताख्यं [मू: क्रान्ताख्यं] तु
प्रवेशतः ।
सपादद्व्यंशविस्तारा मरीचीषुप्रवेशतः ।। ३० ।।
पत्रशाखासु [मू: खेषु] विस्तारा बाहल्येनार्कभागतः ।
शोभानुरूपतः कार्याः पट्टिकाद्यास्तु शिल्पिभिः ।। ३१ ।।
पञ्चशाखाद्वारम् ।
अशीत्यर्धांशविस्तारा भवेद्दक्षं तथा दले ।
दण्डान्धकारिकानाम [घ्, ङ्: नाग] शान्ताख्या रूपशाखिका ।। ३२ ।।
प्. १८२) अन्धारी पत्रशाखा स्याद् ध्वान्ताख्यास्तम्भशाखिका [घ्, ङ्:
नामिका] ।
अन्धकारी तु रूपाख्या चान्धकारी मरीचिका ।। ३३ ।।
नामाशा [ख्, घ्: नासास्रां] मूलशाखान्तं क्रमाद्भागान्नधो
मतः [मू: न्निबोधत] ।
सार्धभूतांशसार्धैकयुगैकसार्धवारिभिः ।। ३४ ।।
तया [ख्: तपो] म्बुभवसार्धद्वितनुपक्षैकतुर्यकैः [ख्, घ्:
तूर्यैकपक्षकैः] ।
बाणांशान्मूलशाखा च दण्डाद्दतुप्रवेशनम् ।। ३५ ।।
गुणर्तुयुगबाणाख्यैः क्रमात्सप्तनवांशकैः ।
शाखाङ्गे [मू: शाखांश] पट्टिका कार्या शोभार्थे च
विचक्षणौः ।। ३६ ।।
सप्तशाखाद्वारं ।
दलाग्न्यंशातु रुद्रांशात्पाशः [ख्, घ्: व्यासः]
कार्यःशतार्धतः ।
दण्डानुकारिका नाम [ख्, घ्: नाग] ध्वान्ताख्यास्तम्भशाखिका ।।
३७ ।।
अन्धकारी मृणालाख्या त्वन्ध [ख्, घ्: स्यादन्ध] कारी वरुथिका [ख्,
घ्, ङ्: च रूपिका] ।
ध्वान्ताख्या पत्रशाखा च तथान्धकारिका पुनः ।। ३८ ।।
स्तम्भान्धाख्या च रूपाह्वा [मू, ङ्: पाङ्का] त्वन्धकारी
मरीचिका ।
पत्रशाखा क्रमात्कार्या सार्धेषुसार्धचन्द्रवत् ।। ३९ ।।
युगैकपञ्चरूपाणि वेदैकयुगसंज्ञकैः ।
तनुतुर्यशशाङ्काख्यबाणैकजलसङ्ख्यया ।। ४० ।।
प्. १८३) भवाश्विनौ च वेदैस्तु दण्डार्द्विशतिषड्द्विकैः [मू:
पट्टिकैः] ।
सार्ध [मू, ङ्: सार्क] पञ्चाम्बु [मू: ञ्चाङ्ग]
सप्तेषुमुनिरन्ध्राणि रुद्रकैः ।। ४१ ।।
मूलशाखासमावेशात्सर्वान्धकारिकासु च ।
शाखां संक्षेपयित्वा तु ज्ञेया राची [ख्, ग्, घ्, ङ्: चारी] तु पट्टिका ।।
४२ ।।
नवशाखाद्वारम् ।
विभज्य पृथुबाहुल्ये षष्ट्यंशैर्मुनिषड्गुणैः ।
दण्डान्धकारिकानागतमस्तम्भान्धकारिका ।। ४३ ।।
पत्रनामान्धकारी च रूपाख्या ध्वान्त [मू: द्वार] नामिका ।
नागान्धकारीकाह्वं च स्तम्भान्धकारिका पुनः ।। ४४ ।।
पत्रतमाङ्किका रूपा त्वन्धकारी मृनालिका ।
अन्धाख्या तु मरीच्यङ्का मूलशाखेति कीर्तिता ।। ४५ ।।
सार्धभूतैस्तु सार्धैकयुगैकपक्ष [ख्, घ्, ङ्: पञ्च] चन्द्रकैः ।
वेदैकसार्धैर्वेदैस्तु भवाम्बुरूप [ख्, घ्: तप] तुर्यकैः ।। ४६ ।।
चन्द्रवारितपाम्भोभिरेकान्वितनुयुग्मकैः ।
सार्धाम्बुना स्थितिर्ज्ञेया शाखाद्वारिकयोः क्रमात् ।। ४७ ।।
भूतपक्षर्तुतुर्यांशैः सप्तेषुवसुषट्करैः ।
अर्केन्द्राभ्यां प्रवेशः स्याद्गान्धारीणां तु पूर्ववत् [ख्:
मूलवत्] ।। ४८ ।।
शाखैकादशद्वाम् ।
प्. १८४) शाखोच्छ्रयचतुर्थांशे प्रतीहारौ त्वधः स्थितौ ।
जाह्रवीयमुने चापि तत्पार्श्वे भारवाहिका ।। ४९ ।।
चार्वीभिः पत्रवल्लीभिर्मिथुनैः किन्नरादिभिः ।
विद्याधरैश्च शोभाढ्यैः सघटैर्नाग [मू, ख्, ङ्: पाटलाङ्ग]
युग्मकैः ।। ५० ।।
शेषं स्वस्तिकमालाभिः श्रीवत्साब्जोपलान्तजैः [ख्, घ्: ण्डजैः] ।
शोभयद्यत्नतः शाखास्तधनयैश्च सुशोभनैः ।। ५१ ।।
श्रीर्यक्षेशो गणेशो वा व्याख्यारुद्रोऽथ मृत्युजित् ।
प्रथमोदुम्बरे (?) स्थाप्याः सर्वावयवशोभिताः ।। ५२ ।।
ब्रह्मविष्णे (ष्ण्व) तरे रुद्रो द्वयन्तश्वेभाननो गुहः ।
ग्रहाश्च मातारो वेव्यो नाद्यव्यापारसंस्थिताः ।। ५३ ।।
तस्योपरि व्यवस्थाययाः शिल्पिनोदुम्बरे (?) क्रमात् ।
ललाटं शोभनं चोर्ध्वं नागदन्तान्वितं दृढम् ।। ५४ ।।
शाखापृथुसमौ कृत्वा तदुच्छ्रयसमौ [घ्: पृथ्र] मुनी ।
द्वारोच्छ्रयार्धपादेन करपादद्वयेन वा ।। ५५ ।।
हीनापञ्जी भवेनोर्ध्वमु [घ्: भरणोर्ध्व] ज्यते नागभागथ ।
शतार्धांशा [ख्: र्धाङ्गा] धिकं कृत्वा पर्वणी रामभागतः ।।
५६ ।।
खुरका यम [ख्: पद्म] भागेन स्तम्भीचैव द्विभागतः ।
त्रिभिर्गुणगिरित्र्यंशैर्द्वि द्विभागे खुरद्वयम् ।। ५७ ।।
प्. १८५) अन्धारी तनुभागेन षड्भागे खुरजङ्घिका ।
पञ्चांशेन [मू: ङ्गेन] गुणाधानं विकारांशैश्च मुण्डकम्
[घ्: अण्डजम्] ।। ५८ ।।
स्कन्धमालाख्यवेदांशैश्चूलिकं युगलांशतः ।
कार्यश्चतुर्यमांशैश्च देहली व्याघ्रपट्टिका ।। ५९ ।।
द्वारं सुनिर्मितं [ख्: मुनिमितं] कृत्वा प्रासादं कुड्यमध्यतः ।
सर्व [मू: स च] वेधविनाशाय किञ्चिदुत्तरतो न्यसेत् ।। ६० ।।
दोषाः क्षयादयः स्युश्च द्वारे वेधा [मू, अ, ग्, घ्, ङ्: वेदा] न्विते
सदा ।
तस्मात्तद्वर्जनानार्थाय गुरोर्ज्ञात्वं [ख्: राज्ञा] तदुच्यते ।। ६१ ।।
गृहविद्धे सदा रागो धीनाशश्चत्वरेण तु ।
रथ्या [मू, घ्: रथ] विद्धे प्रवासः स्याच्चतुष्पथेन रूक्षता ।। ६२ ।।
त्रिवर्त्मना [ख्: चर्मणा] शिरः शूलं शृङ्गाटेन [घ्: टे च]
महद्भयम् ।
वृक्षेण वित्तनाशश्च [घ्: स्तु] स्तम्भेन परभृत्यता ।। ६३ ।।
तोरणेन भवेद्द्वेषो भोगपट्ट्या त्वहेर्भयम् ।
कोणेन राजदण्डः स्याद् विभ्रमो द्वारशाखया ।। ६४ ।।
ध्वजेन धननाशः स्यात् खनीगर्तेन शून्नता ।
शत्रोर्भयं च कूपेन देवबिद्धेब बन्धनम् ।। ६५ ।।
वापीबिद्धे त्वपस्मारः पङ्केनेष्टविनाशनम् [मू: दम्] ।
भस्मना पशुनाशः स्याद्वर्धमानेन गोव्यधा ।। ६६ ।।
प्. १८६) सुतनाशस्त्वपाकेन चुह्लीबिद्धेन निः स्वता ।
वक्त्रेण च सुहृ [घ्: चक्रेन वसु] दोगस्त्वालिन्दश्रवणेन भीः ।। ६७ ।।
सभाबिद्धेन दारिद्र्यमुदकेन धनक्षयः ।
रथबिद्धे भयं क्षौद्रं [घ्: क्षुद्रं (क्षुद्राभिर्मक्षिकाभिः
कृतमित्यर्थः)] श्वभ्रेणाथ सुतक्षयः ।। ६८ ।।
छायाबिद्धेन दारिद्र्यं तोयभाण्डेन दुर्मतिः ।
कण्डन्या [कुण्डल्या] धननाशः स्याच्छिलाबिद्धे रुजा तथा ।। ६९ ।।
तस्माद्वेधपरित्यागं कुर्यात्कर्तुः शुभेच्छया ।
उच्चप्राकारदानेन तच्छेदोद्धरणेन वा ।। ७० ।।
तद्भूमिद्विगुणत्यागाद्वेधदोषो न जायते ।
शल्यस्था वाथवात्युच्चा कर्तारं हन्ति देहली ।। ७१ ।।
नीचा चयोत्थिता [ख्: योषितं; ङ्: योस्थितं] नूनं धन [घ्: धनं]
विस्तरहीनिका ।
लिङ्गार्धोच्छयनी कार्या सार्चायां पीठिकोच्छ्रया ।। ७२ ।।
लोभः कोपो भवेच्छोको द्वारे मानविवर्जिते ।
अधश्च विस्तृते द्वारे रुक् स्यात् स्त्रीवाथ चञ्चला ।। ७३ ।।
दद्याद्रूक्षा [ख्: कुक्ष्या] मर्य मध्ये स्त्रीस्वाम्यं वा
पृथूर्ध्वतः [ग्: पूर्ववत्] ।
क्षयं पिपीलिकामध्यं कुलघ्नं शङ्खकण्ठकम् ।। ७४ ।।
वक्त्रं गोमहिषीणां च भृत्यानां च क्षयप्रदम् ।
भिन्न शाखे क्षयोद्वारे दिग्भ्रान्ते स्थानविभ्रमः ।। ७५ ।।
प्. १८७) पुराणनव [ग्: वन] संयुक्ते दारिद्यं बहुभर्तुता ।
जर्जरे विपरीते वा धननाशः सदा नरे ।। ७६ ।।
व्याधिच्छिद्रान्विते कुब्जे कलिः स्यात् पुंसशब्दके ।
स्वयमुद्वाटिते तद्वत् पीडिताहितता [ग्: द्वितता] ननात् ।। ७७ ।।
उन्मादः कुलहृन्मृत्युर्मूलद्वारात्फफं क्रमात् ।
द्वार [ख्: वाम] बिद्धं त्यजेद्वेश्म कुलक्षयभयात्सदा ।। ७८ ।।
सामान्यवेध इत्युक्तो गृहप्रासादयोर्मया ।
बेध्यबेधकयोर्वास्त्वोस्त्यक्त्वा द्विगुणमन्तरम् ।। ७९ ।।
यथेष्टं सकलं [घ्: कलश] कार्यं कृतं यच्छुभशान्तिकृत् ।
सर्वेषां शुभदा याश्च द्वारादीनां च ता ब्रुवे ।। ८० ।।
द्वार्दैर्ध्यविस्तरौ यौ च साङ्गलौ करसङ्ख्यया ।
तावेकीकृत्य संछिन्द्यात्त्रीष्वद्र्यष्टाभिरेव वा ।। ८१ ।।
ज्ञानं वासो क्षयश्चार्ग्नेर्भूतायान [घ्: योना/] गुणाञ्शृणु ।
स्थैर्यमाप्यायनं दीप्तिर्गमो माध्यस्थ् [घ्: मध्यस्थ] यमेव च ।।
८२ ।।
सुहृद्धनं पशुचयः प्राग्राज्यं [घ्: प्राव्राज्यं] कामिकाच्युतिः ।
विषादश्चेति चाद्र्यंशे फलं सप्तसु [घ्: सप्तेषु] देहिनाम् ।। ८३ ।।
तच्छेषो यस्तु तेऽर्चायास्तदाद्यष्टान्तकाः सदा ।
विषमाः शुभदास्तत्र समाश्चानिष्टकर्मसु ।। ८४ ।।
प्. १८८) ध्वजसिंहवृषेभाख्या दिक्षु प्राच्यादिषु स्थिताः ।
धूमःश्चा च खरो ध्वाङ्क्षः समा एते विदिक् स्थिताः ।। ८५ ।।
धामश्चार्धास [घ्: त्र्यर्धांश] नादीनां ध्वजाद्या ये [ग्:
न्याय] गुणास्त्विमे ।
स्त्री [ख्, घ्: श्रीः] सौभाग्यसुतायुर्दो धर्मवृद्धिकरो [ख्, घ्, ङ्: प्रदो]
ध्वजः ।। ८६ ।।
जयारोग्यार्थमित्रादि सर्वसिद्धिकरो हरीः ।
स्त्रीपुत्रार्थान् वृषो दद्यादशेषसुखदः [घ्, ङ्: शुभदः] करी ।। ८७ ।।
रोगतापाग्निदो नित्यं धूमः सर्वार्थनाशनः [ घ्: शकः] ।
व्याधिमृत्युप्रदातोक्तः सारमेयोऽर्थगोत्रहृत् ।। ८८ ।।
शेषोच्चाटनविद्वेषवियोगवधदण्डदः ।
कृशतारौक्ष्यदारिद्र्यं सर्वानिष्टकरः खरः ।। ८९ ।।
पत्नोसुतचमू [ख्: शुभ दसु] द्रव्यसंपदायुः क्षयप्रदः ।
शोकमोहकलिव्याधिबन्धादिकृच्च वायसः ।। ९० ।।
यवौ द्वौ चतुरो वापि यवानङ्गुलमेव वा ।
आयांश्च योजयेज्ज्ञात्वा स्यादायश्चोत्तमो यथा ।। ९१ ।।
कृत्वैवं स्थापयेद् द्वारं प्रागुक्तविधिपूर्वकम् ।। ९२ ।।
इति लक्षणसमुच्चये देवद्वारस्थापनलक्षणं नामैकोनत्रिंशो
विधिः ।
अथ त्रिंशः
वास्तुयागं पुरा कृत्वा मण्डपस्य पुरोदितम् ।
पदपीठोर्ध्व [ख्, ग्: ठार्धतः] तः कार्यं वेदीबन्धादि धामवत् ।।
१ ।।
प्रासादवलभीस्तम्भैर्भूषयेद्बाह्यभित्तिषु ।
इतरेषां च कर्माद्यैर्नोत्तमानां समण्डपैः ।। २ ।।
तद्वत्सार्धश्च पादोनाद् [मू: पादानां] द्विगुणो वाथ मण्डपः ।
स्तम्भाद्धिनादयश्च स्युः सप्त [सप्ता लि० पू०] विंशतिरेवहि ।। ३ ।।
षट्स्तम्भास्तत्र च श्रेष्ठाः कथ्यन्ते नामरूपतः ।
रुचकाख्यश्च वेदास्रस्त्वष्टास्रो वज्रसंज्ञकः ।। ४ ।।
षोडशास्रोऽतिवज्राख्यो दशनास्रः प्रलीनकः ।
मन्थानो [मू, अ, ङ्: सन्तानो] वेदषष्ट्यास्रो वृत्तो मन्मथनामकः ।। ५
।।
द्वादशाङ्गुलविस्तारो द्वारोच्छ्रायसमुच्छ्रयः ।
सामान्यःस्थम्भ इत्येष [ख्: त्येवं] योजनीयस्तु कन्यसे ।। ६ ।।
चतुरङ्गुलवृद्ध्या स्याद् वर्धन्ते विस्तरेण च ।
प्रासादमानपादोनात् स्तम्भोच्छ्रायः क्वचिन्मतः ।। ७ ।।
प्. १९०) पद्माङ्किता [ग्: षड्वेङ्किता; ग्: षड्द्व्यङ्किता]
म्बुपत्रास्यकुम्भैर्भारधरैस्त्वधः ।
मध्ये हारावलीभिः स्युरुपर्यमलसारकैः ।। ८ ।।
स्तम्भात्स्त्रि [मू: म्भास्त्रि] कटिपत्रैश्च महासारैस्त्वलिङ्गकैः [ख्:
लिन्दुकैः] ।
जङ्घालंबन्यधोभागादुच्छ्रयान्मण्डपो भवेत् ।। ९ ।।
चतुरष्टयुतैस्तम्भैरितरेषां तु मण्डपः ।
सामान्यात्सर्वशास्त्रेषु ये प्रोक्तास्तान् वदाम्यतः ।। १० ।।
सुसूत्रश्चापभद्रश्च सिंहो द्विपदसंज्ञकः ।
कर्णिकारश्च हर्यक्षः [ख्: हन्याख्यः] सुग्रीवो मणि [ख्, घ्: मान]
भद्रकः ।। ११ ।।
मानवो नन्दनश्चैव तापश्च शत्रु [मू, ङ्: शत्र्यु] नन्दनः ।
शुशीलश्च विशालश्च यज्ञभद्रः श्रुतीश्वरः [घ्: धरः ।। १२ ।।
वास्तुसङ्कीर्णको नाम्नाअ विषमाख्यस्तथापरः ।
श्रीवत्सश्च जयश्चैव जयभद्रोऽथ बुद्धिभृत् ।। १३ ।।
कौशल्यः पुष्पनन्दाख्यः सुव्रतः पुष्पभद्रकः ।
पुष्पकान्त इति ख्याताः सप्त [सप्ता लि० पु० पा०] विंशतिमण्डपाः ।। १४
।।
द्वादशादिद्विवृद्ध्या स्युश्चतुः षष्ट्यवसानतः ।
स्तम्भक्रमात् कनिष्ठाद्या उक्ताः शास्त्रानुसारतः ।। १५ ।।
प्. १९१) सुदृढैः शोभनैः स्थाप्याः शिलाकाष्ठादिभिर्वरैः ।
तन्मध्ये चोर्ध्वतस्तद्वदेकद्वित्रिविमानकाः ।। १६ ।।
कार्या ग्रीवामलासारकलशैश्च समन्विताः [ख्, ङ्: ङ्किताः] ।
त्र्यस्रवृत्तार्धचन्द्राभवस्वस्रषोडशास्रकः ।। १७ ।।
राज्यसिद्धिरिपूच्छादसुतद्रव्यप्रदः क्रमात् ।
सर्वाण्येतानि दद्याच्च फलानि चतुरस्रकः ।। १८ ।।
मण्डपलक्षणम् ।
पूर्वतश्च वृषो नामाग्नेययां च [मू, ग्: नामा च] नायकेसरी ।
वलभीछन्दको याम्ये नैर्-ऋत्यां गरुडः स्मृतः ।। १९ ।।
श्रीवृक्षकस्तथाप्यां स्याद्वा [ङ्: पास्ये वा] यव्ये षोडशास्रकः ।
पुरागजस्तु सौम्यायां तथैश्यां सर्वभद्रकः ।। २० ।।
मण्डपास्तु [घ्: पाश्च] स्मृता मिश्रा एते योज्यास्तु साधने ।
चतुरस्रादिके भेदे कुण्डवृत्ते विवर्तितः ।। २१ ।।
तद्दिशाभागविक्षिप्तास्तत्कार्यकरणे हिताः ।
सार्धैताः साधने योज्या लिङ्गानि नान्यथा क्वचित् ।। २२ ।।
चतुरस्रं [मू, ङ्: तिथिहस्तं] समं कृत्वा तिथिहस्तं जघन्यके ।
मध्यमाद्या द्विवृद्ध्या च विभजेत्कामभागतः ।। २३ ।।
प्. १९२) परितो भित्तयोंऽशेन त्रिभिरंशैश्च वीथिका ।
स्तम्भान्विताः पुरः पृष्ठे त्र्यंशैस्त्र्यंशैश्च गर्भकाः ।। २४ ।।
द्वेगृहे मध्यतः कार्ये बाह्य [ङ्: वाद्य] सोपानहेतवे ।
तयोर्भित्ती तथांशेन त्र्यंशैर्दारं च मध्यतः ।। २५ ।।
तदूर्ध्वं भुवि कर्तव्यं मध्ये स्तम्भ [मू, ग्: द्वार] चतुष्टतम् ।
सतु लोपकुलं कुर्याच्चतुर् [ग्: द्वृत्त] भित्तीश्च कोणगाः ।। २६ ।।
चतुर्भित्ति [घ्: र्वीथि] श्चतुर्द्वारि परितस्तम्भमालिका ।
मत्तवारणसंयुक्तमूर्ध्वं मूर्ध्वमुच्छदनान्वितम् ।। २७ ।।
मध्ये विमानिकायुक्तं सुग्रीवामलसारकाम् ।
सपद्मकलशं कुर्याच्चित्राख्यं नृत्यमन्दिरम् ।। २८ ।।
नाट्यशालालक्षणम् ।
स्थूलचूलेष्टकाकूटं स्निग्धमृत्पङ्कसेवितम् [ख्: शोभितम्] ।
खलीचूर्णैश्च संशुध्य [ख्, घ्: संगुण्ड्य]
चूर्णैर्माषोद्भवैस्तथा ।। २९ ।।
आम्रातकोदकैः सिच्य क्रमात् त्र्यहं तु छादयेत् ।
आगुण्ड्य [मू, अ, ङ्: शुण्ठ्य; ग्: गल्य] सार्षपैश्चूर्णैः
पश्चादास्तृणुयात् सुधीः ।। ३० ।।
आम्रातकाम्बुना भूयः पश्चादाकोट्य मुद्गरैः ।
यावद्दर्पणसंकाशं शैवालैश्छादयेत्ततः ।। ३१ ।।
प्. १९३) व्यहा [ङ्: अहा] दाकृष्य शैवालाल्लिम्पेत् [घ्: ल्लिप्येत]
पिण्याककल्कलैः ।
विश्राम्यैकां ततो [ग्: म्य कारुतां] रात्रिं गोमयेन विलेपयेत् ।। ३२ ।।
क्षोदलक्षणम् ।
दग्ध्वा गोशर्करास्तूपं ततोऽभिषिच्य यत्नतः ।
शणफल्याङ्घिकाषायै [ग्: साद्यै] स्तोपलतारसेन वा ।। ३३ ।।
आंम्रातकाङ्घ्रितोयेन त्रिफलाक्वाथकारिते [ख्: वारिणा] ।
उत्स्विन्न [मू: उत्स्विन्य] माषतोयेन स्विन्नबिल्वाम्बुनापि वा ।। ३४ ।।
कोलाविमांशुतोयैर्वा तक्रनद्य [ख्: तक्रनव्या; घ्: वक्रक्रव्या; ङ्:
तक्रकंव्यौ] म्बुनापि वा ।
ततश्चोलूखलाद्यैस्तु स्थूलचूर्णानि कारयेत् ।। ३५ ।।
सूर्यैः [ग्: पुष्पैः] प्रस्फोट्य संगृह्य तच्चूर्णानि निचक्षणः ।
स्थाल्यागर्भे तु संस्थाप्य ततो द्रयाणि निःक्षिपेत् ।। ३६ ।।
सार्द्रं [ख्: सान्द्रं] लुलायचर्माथ शणतन्तूंश्च कुट्टितान् ।
सिक्रात [मू, घ्, ङ्: सिकता] गव्यदुग्धानि सर्जतैलातसीरजः ।। ३७ ।।
दध्युमातैलतोयेन संस्थाप्य नखवासरम् ।
आम्रातकाम्बुभिः पिष्टं स्थूलास्या दुग्धि [ग्: वारु] काह्वया ।। ३८ ।।
एतैर्द्रव्यैर्युता चान्या श्लक्ष्णपिष्टैर्वरा सुधा ।
सम्मर्द्य गुडदध्ना तान् संल्लिम्पे [घ्, ङ्: तपलिप्ये] द्दुग्धिकोपरि ।। ३९
।।
प्. १९४) सुधालक्षणम् ।
लिङ्खादिसन्धिदार्ढ्यार्थं वज्रलेपमिहोच्यते ।
श्लक्ष्ण [मू, ग्, ङ्: लक्ष] पाषाणचूर्णं तु मेषशृङ्ग/ सुचूर्णितम्
।। ४० ।।
कारयेद्वालुकामिश्रमुमातैलेन मर्दयेत् ।
क्वाथेन मेषशृङ्गस्य अतसीचूर्णमिश्रितम् ।। ४१ ।।
सम्मर्द्य संपचेत्तावद्यावत्तत्समतां गतः ।
वज्रलेपः समख्यातस्तथा सर्जसमन्वितः ।। ४२ ।।
अथ निष्ठुरबन्धेन प्रोच्यते सविशेषतः [मू, ङ्: सावशेषतः] ।
मधूच्छिष्टेन कल्कैश्च शाणजैः सुदृढैर्नवैः ।। ४३ ।।
गुग्गुलं वालुकामिश्रं चूर्णं पाषाणसस्भवम् [ख्: संयुतम्] ।
अतसीतैलसम्मिश्रं मर्दयित्वा सुपाचितम् ।। ४४ ।।
वज्रलेपः संमाख्यातः भूमिबन्धस्त्वतः [ख्, ङ्: वज्रबन्धस्ततः]
परम् ।
सुरवेश्मगृहादीनां भूमिबन्धो निगद्यते ।। ४६ ।।
वज्रलेपलक्षणम् ।
मृत्तिकेष्टकचूर्णैस्तु पिण्याकेनान्वितैस्तथा ।
स्थिरतोयोपमा कार्या भूमिस्तु सुतला समा ।। ४७ ।।
एवं भूमिं समां कृत्वा पश्चाद् भूबन्धमारभेत् [ख्: चरेत्] ।
गृहीत्वा वालुवाः श्रेष्ठाः स्निग्धाश्चाखण्डिता बुधः [ख्: स्तथा]
।। ४८ ।।
प्. १९५) गृहीत्वाम्र [ङ्: त्वार्द्र] त्वचं वृक्षात् पिष्ट्वा कल्कं तु कारयेत्
।
तत्कल्कं कारयेत् पिण्डं विशोष्यं पिण्डमातपे ।। ४८ ।।
एवं संशोध्य [घ्: शोष्य] तत्कल्कं सप्तवारान् पुनः पुनः ।
ततो मण्डेन संमर्द्य भूमिबन्धं तु कारयेत् ।। ४९ ।।
अथवान्येन योगेन भूमिबन्धो विधीयते ।
कुर्याद् भूमिं समं रम्यं सुस्थितं जलपूरितम् ।। ५० ।।
पूर्वोक्तश्चैव यः कल्को निर्यासं तस्य दापयेंत् ।
द्रव्यं कालानुरूपेण योजयेद्भागसम्मितम् ।। ५१ ।।
यथाकालानुरूपेण भागसङ्ख्या तु कथ्यते ।
ग्रीयमे नु पञ्चभागाः स्युः शीतकाले तथा त्रयः ।। ५२ ।।
त्र्यर्धं शरदि दातव्यं द्व्यंशो वर्षासमागमे ।
एवं दत्त्वा तु यः पूर्वं बन्धोऽत्र कथितः क्षितेः ।। ५३ ।।
ततो विलिप्य कूर्चेंन शुष्के शुष्के क्रमेण तु ।
तोयेन हतकूर्चं तु दापयेत्तद्विचक्षणः ।। ५४ ।।
कषायं पिच्छिलं चैव निर्यासो वल्कलं तथा ।
शाल्मलीतिन्दुकादीनां भूमिबन्धे प्रशस्यते ।। ५५ ।।
इष्टकादार्वयोऽश्मादि यत्संख्यं देववेश्मनि [घ्: सद्मनि] ।
तावद्वर्षसहस्राणि कर्ता नन्दति तत्पुरे [घ्: त्पुरम्] ।। ५६ ।।
भूबन्धलक्षणम् ।
प्. १९६) पञ्चस्थाः पञ्चहेरम्बा विघ्नरूपाः शिवाज्ञया ।
आरम्भे कटिनासासु [ख्, ग्: रास्नायु] स्कन्धे मूर्ध्नि यथाक्रमम् ।। ५७
।।
आलस्यो मोहनश्चापि विभ्रमः शासकस्तथा ।
पञ्चमः कालदण्डाख्यः सान्वयाः फलदायकाः ।। ५८ ।।
आलस्यं चालसः कुर्यान्मोहं कुर्याच्च मोहनः ।
विभ्रान्तिं विभ्रमः कुर्याच्छासकः शासयेत्सदा ।। ५९ ।।
कालदण्डो महारौद्रः कुर्याद् दण्डभयं [ख्: म्भमयं] महत् ।
एते सुरगृहे विघ्ना यावत्ते तु न पूजिताः ।। ६० ।।
स्थण्डिले वा पुरे चेष्ट्वा सिताद्याश्चोक्तरूपतः ।
षडङ्गैरावृताः सर्वे विघ्नघ्ना बलिहोमकैः ।। ६१ ।।
गुर्वज्ञाता अनिष्टाश्च दोषान्कुर्वन्त्यनेकधा ।
तस्मादादौ च सन्तर्प्याः श्राद्धे नान्वीमुखास्तथा ।। ६२ ।।
बिघ्ननाशाय गणेशपूजा ।
यत्र [ख्: यन्त्र ग्: पत्र] रूपं द्विधा विद्यात् स्थलजं जलजं तधा ।
स्थलजं गोत्रसम्भूतं शिलाभेदसमं धनम् ।। ६३ ।।
स्थलजं विपुलाख्यं स्यात् पतितं चोर्ध्वगं द्विधा [ग्: तथा] ।
जलजमब्जकन्दोत्थं तिलकाङ्कं त्रि [मू: क.ं कर्णि; ख्: काह्वां त्रि;
ङ्: काकान्ति] भेदकम् ।। ६४ ।।
घनग्रन्थिविशालाङ्कं विटिकाङ्करशोभितम् ।
विपुलं बहुशाखाङ्गं [ख्: लाख्यं] लक्षं कोमलमद्रिजम् ।। ६५ ।।
प्. १९७) पट्टिका [ग्: विटिका] टिलकं चैकं त्रिभंगं [घ्: त्रिभगं] च
द्वितीयकम् ।
तृतीयं पद्ममर्धजं [मू: वर्धज] लक्ष्मैतत्तिलकस्य च ।। ६६ ।।
अग्रे भवेत् सरोजाङ्गं क्वचिद्भिन्नं सुकोमलम् ।
स्फारं कुटिलसं [ङ्: लजं] सर्पि प्रोन्नतं विततं स्फुटम् ।। ६७ ।।
कन्दो [घ्: कुन्दो] द्भवमिदं वक्त्रं शोभनं वारिसम्भवम् ।
पञ्चधा दशरेखाभिः षष्ठं सकल [ख्, घ्: सबल] रूपकम् ।। ६८ ।।
स्थलजं जलजं चैव ज्ञेयं द्वादशभेदकम् ।
कलिन्द [घ्: कालिङ्ग] कोलदष्ट्रार्द्रं कण्टकैः परितैर्युतम् ।। ६९ ।।
नीलं सुकोमलं वेणु/ [ख्: मेरु] बिन्दुरेखखाद्यभङ्गुरम् ।
कण्टकैर्मेषशृङ्गाभैः पत्रं बालाभजं भवेत् ।। ७० ।।
धनं हव्याकुलं [ख्: ददाकुल; ग्: फटाकुलं] पीतं निविडाङ्गं
विसर्पि च ।
अगस्तिमुकुलाकारं कनकं [ख्: कण्ठकं] पावनाह्वकम् [ख्:
कण्ठकं] ।। ७१ ।।
भास्करं विततं कुर्याद्धरितं सुचया [ख्: तांशुकया] कुलम् ।
श्वपुच्छवच्च वृत्ताग्रं मार्जारमुख [ख्: नख] भङ्गुरम् ।। ७२ ।।
शुकास्यैः कण्ठकैर्वासृङ् नागरं पत्रमुच्यते ।
और्वारु [ख्, घ्: ऐर्वारु] तन्तुवृत्ताग्रं कण्ठकं सर्पसर्पणम् ।। ७३ ।।
प्. १९८) परस्परेण संपृक्तं [मू, ङ्: संवृक्तं] बहुपर्यस्ति [ख्, घ्,
ङ्: बद्धपर्यास्ति] पत्रकम् ।
विस्तृतं कुञ्चिताग्रं च श्वेतं रक्तास्यशोभितम् ।। ७४ ।।
तरुणं पिञ्जरागं च कर्कशं चातिकर्कशम् ।
ग्रन्थिपत्राङ्कुरैर्युक्तं विपर्यस्तैःसदोर्ध्वगम् ।। ७५ ।।
लीलालोलविकाशाङ्गं पल्लवैः सुसमाकुलम् ।
क्वचिच्छिनं क्वचिद्भिन्नं क्वचित् पत्रार्धवेष्टितम् ।। ७६ ।।
पलालधूमसङ्काशं द्राविडं पत्रमीदृशम् ।
पूर्वोक्तवल्लिचित्राढ्यं हृद्यं चारु सुरेखितम् ।। ७७ ।।
सर्वाकारैर्विमिश्रं च पत्रं तद्वेशरं [ख्: द्वै खर] स्मृतम् ।
मूलेमध्य तथाग्रे च वृद्धं तरुणशाखिकम् ।। ७८ ।।
लिखेत् त्रिकण्ठकं [घ्: कण्टकं] सर्वं पत्रैकं पत्रलक्ष्मवत् [ङ्:
यत्] ।
शिल्पिभिर्गुणितं कृत्वा पश्चात् पत्राणि संलिखेत् ।। ७९ ।।
स्तम्भकुम्भानने द्वारे रथे चोपरथे तथा ।
निर्गतं राजहंसस्य पुच्छात् कक्षाच्च [मू: कन्दाच्च] किं नृणाम् ।।
८० ।।
इति लक्षणसमुच्चये मण्डपादिवर्तिनीलक्षणं नाम [शब्दोऽयं लि०
पु० नास्ति] त्रिंशो विधिः ।। ३० ।।
अथैकत्रिंशः
त्रितये पुष्करिण्यादौ भूगृहस्थापने सदा ।
यजेत्तद्वास्तु [मू, घ्: दर्धस्तु] देवांश्च वेदास्रे रुद्रभाकिके ।। १ ।।
त्रिषु त्रिषु च कोष्ठेषु [मू, ख्, घ्, ङ्: कोष्ठेषु] यजेदत्र हरादिकान् ।
दिक्पदेषु मरीच्याद्या मध्ये तत्त्वेषु वेधसस् ।। २ ।।
अष्टापदींश्च [ङ्: पदांश्च] कोणास्थान् द्विद्बयाङ्घ्रिषु मध्यतः
।
ब्रह्मस्थाने सिते पद्मे [मू, ङ्: पक्षे] कालाग्निं पूजयेत्ततः ।। ३ ।।
मूर्त्यङ्ग [मू, ङ्: मूर्ध्न्यङ्ग] षट्कसंयुक्तं
स्वनामाद्यक्षरेण च ।
हाटकेशं बलेशं [ङ्: चलेशं] च पुनश्चातिबलं तथा ।। ४ ।।
महोदरं महाब्धिं च [ख्, ङ्: महाविश्व] कुम्भार्णवं तथा
पुनः ।
सप्तमं च विरूपाक्षं भ्रुकुटीशं दलेषु च ।। ५ ।।
प्रागादीशान्तगन्धाद्यैस्तथानन्त्तदि [ख्, ङ्: नन्दादि] गात्रके ।
कर्कोटान्तं स्वमन्त्रेण पूजयेज्जलदिग्गृहे ।। ६ ।।
बाह्येषु च चरक्यादीन् बलिहोमेन तर्पयेत् ।
तथा ग्रहादिलोकेशान्न्रौप्या [मू, ख्, ग्, ङ्: नोप्या]
न्नागाष्टकांस्ततः [ख्: तथा] ।। ७ ।।
प्. २००) अनन्त्ताद्यं महापद्मं तक्षकं कुलिकं तथा ।
शङ्खं वासुकिं चैव पद्मं कर्कोटकान्तकम् ।। ८ ।।
स्नानेज्यान् (?) [मू, अ, ङ्: स्थानज्ञान्] पूर्वतः कृत्वा सुनिमित्ते
सुवासरे ।
पूर्वादीशान्तगान्न्यस्य मध्ये चोषधिका [मू, ङ्: रोषापहा] धिकान्
।। ९ ।।
फलिन्युशीरयष्ट्याह्वसहाहिलोचनां ह्रिकम् ।
वंसकूर्चार्थ [घ्: रसकूम्रेषु] रत्नाब्जगङ्गाम्बु [ख्: गन्धाम्बु]
पञ्चगव्यकम् ।। १० ।।
अथोदकं [ख्, ग्, घ्, ङ्: अर्घोदक] क्षिपेद्वाप्यां तन्मध्ये त्वहिपष्टि
[ख्, ङ्: षष्टि] कान् ।
विन्यसेद् द्विगुणं श्वभ्रात्पादोनां वा वसाधिकाम् [मू, ग्:
वाधिसार्धकाम्] ।। ८ ।।
सालसुन्दरिकादीनां दृढां दृङ्मानपूर्विकाम् [ग्: संयुतान्] ।
सुस्नाप्य गन्धवस्त्राद्यैः संपूज्यानन्तमन्त्रतः ।। १२ ।।
तेनैवारोपयेन्मध्ये रक्षायै भोगियष्टिकाम् ।
वेदतूर्यनिनादेन [ख्: तूर्येन वादेन] ध्वजवत्सकले कृते [मू, ङ्:
विंश; ग्, घ्: वंश] ।। १३ ।।
सप्तभोगसुकूटाय विश्वा [मू, अ, घ्: दिक्स्था] धारस्थिताय च ।
हू/ हू/ अनन्ताय [ख्: अनन्तनागाय] नागाधिपतये नमः ।। १४ ।।
अनन्तमन्त्रः ।
प्. २०१) अस्त्रोदकेन चाभ्युक्ष्य पाशुपतेन पाशयेत् ।
खुरिकेनावधार्येष [मू, अ, ङ्: ज्येष्ठ] गुह्येनाम्भसि वा क्षिपेत् ।। १५ ।।
नाना [मू, अ, ङ्: तार] पाशकरः कर्ता जपन् पाशुपतं गुरुः ।
कपिलापुच्छ [ख्, ग्: वामदेवं] लग्नोऽत्र सन्तरेद्यजमानकः ।। १६ ।।
तत्र तीर्णो भवेत्कर्ता घोरां वैतरणीं नदीम् ।
ततश्चाष्टशतं होमं बहुरूपेण होमयेत् ।। १७ ।।
तर्पयेद्वरुणं देवं सोमदेवं [ख्: दत्त्वा सन्तोषयेत्] च वा क्वचित् ।
चरुं संशाधयेत्तेन शान्तिं तेनैव कारयेत् ।। १८ ।।
पूर्णां दद्याद् गुरुर्हृष्टः शिवेनाशिवहरिणा ।
तां च गां गुरवे दद्यात् तोषयेच्च [घ्: खाग्न्येन] स्ववित्ततः ।। १९ ।।
कूपेऽप्येवं कृतेऽर्कांशे सार्धद्व्याङ्घ्रिस्थास्थमीश्वरम् ।
खाग्नीन [ख्: गोग्र्यूण] पितृरुग्वा [मू: युग्वा] युदितीशान्पूजयेत्तथा
।। २० ।।
अष्टौ त्वापादिकांश्चैव पदैकैकेषु कोणतः ।
दिक्ष्वर्केषु मरीच्याद्यान् मध्येषट्पदकेष्वजम् [घ्: ध्वजः] ।। २१ ।।
कूपाङ्घ्रीशे [घ्: न्पीठा] परे भागे तारनागाष्टकावृतम् ।
तन्मध्ये कालरुद्रेशं पूज्य गन्धादिपूर्ववत् ।। २२ ।।
हुत्वा दद्याद् बलिं तेभ्यो गुरवे गां ततो गुरुः ।
पञ्चगव्यं क्षिपेत्कूपे गङ्गामन्त्राम्बुना सह ।। २३ ।।
प्. २०२) कर्तारं प्रोक्षयेत्पश्चाद्गुरुः शान्त्यम्बुना भृशम् ।
शक्त्त्या कर्ताशयेद्विप्रान् प्रार्थयित्वाशिषोऽर्थिवत् [ख्, घ्: र्मिथः] ।। २४
।।
ऐष्टके वाश्मजे कूपे धीरज्जुदृढमालिकाम् ।
करान्तरस्थदार्वीभिर्धटीभिर्दारुचक्रकम् ।। २५ ।।
युक्तं तद्ग्रह [ख्: द्भम्] णात्तोयं नालाभ्यां कर्षयेन्नरः ।
नालार्धे [ख्, घ्: नालौ द्वे] स्थापयेत्तत्र [ख्, घ्: द्विष्णु; ग्: विप्र]
प्रसुप्तं यागपूर्वकम् ।। २६ ।।
पुष्करिण्यादिषट्केषु शिलेष्टकाकृतेषु वा ।
जलतल्पो हरिःस्थाप्यो गङ्गानागाह्वयोऽथवा [मू, ङ्: नागार्द्धयो] ।।
२७ ।।
यतेः स्यानाय वाप्यादीन् कुर्यात् प्रागीशसौम्यतः ।
उद्यानेषु सुराग्रे वा [ख्, ङ्: ग्रेषु] दिक्षु कूपं च पूर्ववत् ।। २८ ।।
कूपवत्सर्वखातेषु विधानं चाखिलं तु तत् ।
क्षेपणं वपनं यच्च सव्यासव्येन कारयेत् ।। २९ ।।
बिल्ववृक्षादिवृक्षाणां न्यासादि मज्ज [ग्: मार्ज] नार्चनम् ।
स्वैस्तारकैः प्रकुर्याच्च तिलैर्होमं च मध्यगैः ।। ३० ।।
आरामोद्यानकेऽप्येवमैशान्यां वृक्षमाश्रितम् ।
पूर्वागारेऽथ होतव्यं वृक्षाणां वृक्षदैवतम् ।। ३१ ।।
प्. २०३) न्यासार्चनादिकं कृत्स्नं स्वैर्मन्त्रैर्यतिभोजनम् ।
बाणमतात्समादाय लिखितं च तदक्षरैः ।। ३२ ।।
इति लक्षणसमुच्चये पुष्करिणीकूपवृक्षोद्यानारामस्थापनं नामै
[नामेति शब्दो लि० पु० नास्ति] कत्रिंशो विधिः ।। ३१ ।।
अथ द्वात्रिंशः
सांवत्सरिकपूजादौ न्यूनसंपूरणाय वै [ख्, ग्: च] ।
पवित्रारोहणं [मू: रोपणं] कार्यं चातुर्मास्यं व्रतं चरन् ।। १ ।।
आषाढे श्रावणे वापि नभस्ये वा ततो न तु ।
पक्षयोश्चेष्ट [ख्, ग्: स्वेष्ट] देवानां वह्निप्रतिपदादिषु [ख्: दितः] ।। २
।।
ज्वलनब्रह्मगौरीणां हेरम्बस्य च भोगिनाम् ।
रुद्रार्क [ख्: रुद्राणं] शङ्कराणां च चण्डीयमविडौजसाम ।। ३ ।।
विष्णुमन्मथशम्भूनां पौर्णमास्यां तथा पुनः ।
सर्वेश्वर [ख्: ष्वेव] पितृणां च पवित्रारोहणं मतम् ।। ४ ।।
निरूप्य स्थानकं चादौ गृहीत्वा दन्तधावनम् [ग्: दण्डधारणम्;
(क्) २४ अध्यायस्य ४९ श्लोकादारभ्यैतावत्पर्यन्तो भाग क पुतके
खण्डितः] ।
मृद्भस्मवस्त्रपत्रादि तथा सूत्रं च सप्तधा ।। ५ ।।
क्षौमं मौञ्जं च शाणं वा कौशं पट्टजमेव वा ।
पाद्म कार्पासजं सूत्रं द्विजकन्यादिनिर्मितम् ।। ६ ।।
त्रिगुणं त्रिगुणीकृत्य ज्येष्ठादिलिङ्गमानतः ।) (क)
दशाङ्गुलान्तराग्रन्थिश्चैकैकाङ्गुलिहानितः ।। ७ ।।
प्. २०५) द्व्यङ्गुलान्तं भवेच्छेषौ हस्तान्ते च नवादिके ।
सूत्रैः साष्टशतैर्ज्येष्ठो चान्यद [मूङ्: यन्मित्रा; क्, घ्: चान्यत्रा]
ष्टाष्टहानितः ।। ८ ।।
ग्रन्थयस्तन्तुसंख्याता विषमग्रन्थयः क्वचित् ।
रोचनाकुङ्कुमाक्तैश्च मदचन्द्रैस्तु शक्तितः ।। ९ ।।
रजन्या धातुभिर्वापि ग्रन्थींस्तांस्तु सुशोभयेत् ।
त्रितत्त्वे त्रीणि कार्याणि चतुर्थं चावलंबजम् ।। १० ।।
सुधौतानि पवित्राणि पीठे लिङ्गेच मूर्धनि ।
सर्वार्थपूरणं दद्यात् पृष्ठपीठे चतुर्थकम् ।। ११ ।।
आपादाच्च ललाटान्तं हृत्कण्ठान्तं स्वदेहतः ।
साष्टशताङ्घ्रि [ख्: ताङ्कि] वर्णाख्यैः स्युस्तन्तुग्रन्थयः क्रमात् ।।
१२ ।।
स्वबाहुकरतालान्तैः पदवर्णं सुतत्त्वगैः ।
स्थण्डिले हरिशम्भोस्तु दले केसरकोणके ।। १३ ।।
ब्रह्मविष्णुहरादीनां द्वात्रिंशद्भिर्विवृद्धितः [ख्: र्दिवृद्धितः] ।
सूत्रैश्च ग्रन्थयोऽन्येषां तथा दशैक [ग्: दलैक] हानितः ।। १४ ।।
मूर्धावलंबिजान्वन्तं प्रतिमानां पवित्रकम् ।
वृषस्य शृङ्गपादान्तं पवित्रं लिङ्गवन्मतम् ।। १५ ।।
प्रासादमठ [मू, ङ्: मथ] वेश्मानि सूत्रेणैकेय वेष्टयेत् ।
इतरेषां तु देवानां पवित्रं स्यात् त्रिसूत्रकम् [घ्: त्रकैः] ।। १६ ।।
प्. २०६) चललिङ्गस्य दैर्घ्येण स्थण्डिले ग्रन्थयः समाः ।
क्वचिद्वितस्तिमात्रं च शतार्धार्धार्धसूत्रकम् [ख्, घ्: त्रकैः] ।। १७ ।।
पदवर्णकलाभिः स्युस्तत्त्वेन्द्ररुद्रतन्तवः ।
द्विजार्कजिनसंख्याभिः स्थिरस्थण्डिलगेहिनाम् ।। १८ ।।
पटचित्रागमानां च भवेद्ग्रन्थिस्त्रिसूत्रकम् ।
गुर्वर्थात्मार्थयोः सूत्रैस्तकर्मै [ख्, घ्: त्कामै] कादश क्रमात् ।। १९
।।
षट्त्रिंशत्तत्त्वसंख्यानैर्ग्रन्थयो नब पञ्चधा ।
कनिष्ठामूलकक्षान्तं स्कन्धनाभ्यूर्ध्वमानकम् ।। २० ।।
स्नानं पूजा जपं होमं ध्यानं विज्ञप्तिमेव च ।
पवित्रारोहणं कुर्यादिष्टमन्त्रैस्त्रितत्त्वतः ।। २१ ।।
प्राग्याम्येन्दुप्रतीचीषु क्रमात्स्थितैर्द्विजातिभिः [ख्: द्विभिः] ।
दद्यात् पवित्रकं तद्वद्वह्न्यादिदिक्षु चेतरैः ।। २२ ।।
शुचिः स्नाहोऽह्निकीं पूजां कृत्वा वै शेषिकां क्वचित् ।
त्रिपञ्चसूत्रकैर्वापि हृदा चामन्त्रर्ण विभोः [क्, ख्, ङ्: प्रभोः] ।। २३ ।।
आमन्त्रितोऽसि देवेश पूजामुपहृता मया ।
गृहाणेमां महादेव समस्तविधिकारण ।। २४ ।।
मृदं सामलगन्धाम्बुसुभस्मदन्तधावनम् ।
पञ्चगव्यं कमात्तेषु तालचन्द्रनलोहकम् ।। २५ ।।
प्. २०७) शिलां वा रोचनां चैव स्वमन्त्रेणोपयोजयेत् ।
होमद्रव्याणि सर्वाणि सकुशान्यपरापरानने ।। २६ ।।
कज्जलं कुङ्कुमं तैलं शलाका केशशोधनम् ।
ताम्बूलं गुह्यके दद्यात् साज्यं चरु नरे पुनः ।। २७ ।।
यष्ट्यक्षसूत्रकौपीनभिक्षापात्राणि दक्षिणो ।
ऐशान्यामासनं छत्रं पादुके योगपट्टकम् ।। २८ ।।
यत्न [ख्: पद] संपन्नमेतेषां मनसा तत्प्रकल्पयेत् ।
पात्रं कृत्वा पवित्राणि प्रोक्षितानि शिवाम्भसा ।। २९ ।।
कृष्णाजिनादिच्छाद्य मन्त्रसंहितयालभेत् ।
गन्धं पुष्पं च धूपाद्यं साक्षतं च पवित्रकम् ।। ३० ।।
पठेन्मन्त्रोत्तमं विद्वानामन्त्रेण पदात्मकम् ।
शिवं निवेदयेन्मूर्ध्नि रेचकेनामृतीकृतम् ।। ३१ ।।
ओं नमो व्रतेश्वरा पूरय पूरय स्वाहा ।
सोपवासो वदेद्रात्रौ नक्तं नक्षत्रमेव वा ।
प्रातः स्नातः शुचिः शुद्धः पूजां कुर्यात्स्ववित्ततः ।। ३२ ।।
वस्त्रपूतेन तोयैन पञ्चगव्येन भक्तितः ।
पञ्चभिर्मधुरैः स्नानं जलान्तरैर्विरुक्षणम् ।। ३३ ।।
गन्धतोयादिभिः स्नानं तोयमाकृष्य वाससा ।
अष्टाङ्गोऽर्घं प्रदायाथ समालभ्य प्रपूजयेत् ।। ३४ ।।
प्. २०८) शिवकुम्भास्त्ररक्षा च मण्डलं शास्त्रचोदितम् ।
वस्त्रैः संछादितं वेश्म घटाचामरभूषणैः ।। ३५ ।।
पुष्पमालां प्रलम्बर्न्ती वस्त्रैर्नानाविधैर्वरैः ।
कदलीचूतमालाभिर्जातबीजसरोचकैः [क्, ख्, ग्, घ्, ङ्: सरावकैः] ।। ३६ ।।
पताकाध्वजदीपाद्यैर्नैवेद्यैः शोभयेद्गृहम् ।
नृत्यगीतैः कलैर्वाद्यैर्नयेद्रात्रिं महोत्सवैः ।। ३७ ।।
दैशिकाञ्छिवयोगीन्द्रांल्लिङ्गिनश्च स्ववित्ततः ।
भक्त्त्या सन्तोषयेत् सर्वान् वस्त्रदानादिभोजनैः ।। ३८ ।।
एवं कृत्वा यथोक्तं तु पवित्रारोहणं शुभम् ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।। ३९ ।।
एकरात्रं त्रिरात्रं वा पवित्रं धारयेद्गृही ।
खट्वाशयनमिथ्योक्ति [ख्, घ्, ङ्: थ्यावान्] स्त्रीयात्रामिषवर्जकः ।। ४० ।।
चातुर्मास्यमसामर्थ्या [मू: समासेव्या] द्यतीनां रुग्भयादितः
[ङ्: र्दितः] ।
पूजां कृत्वा शिवं नत्वा पवित्रं च विसर्जयेत् ।। ४१ ।।
कार्तिक्यां महतीं पूजां पूर्ववन्मण्डलादिकम् ।
कृत्वा क्षिपेत्पवित्राणि शिवाग्नौ वा सदाम्भसि ।। ४२ ।।
दीक्षितो यो न कुर्याद्वै पवित्रारोहणं विभोः ।
स्यात्प्रायश्चित्यधोगामी कृतो रुद्रोऽब्द [मू, ङ्: द्राक्त] कोटिशः ।। ४३ ।।
पवित्रारोहणविधिः ।
२०९) हेमलिङ्गाद्धनाध्यक्षो [क्, ख्: र्चनात्र्यक्षो] विश्वेदेवाश्च
तारजात् ।
ताम्रलिङ्गार्चनादर्कः पिशाचो वंशसम्भवात् ।। ४४ ।।
संसिद्धा वसवो घोषाद्रीतिजान्मरुतोऽर्चनात् ।
सीसजा [मू: सीसका] द्गुह्यकाः सर्वे लोहाद्रक्षोऽसुरान्तकाः ।। ४५ ।।
त्रिलोहान्मातरः सर्वा मार्तण्डस्त्वष्टलोहजात् ।
वज्रात् सुरेन्द्रमार्कण्डौ [मू: मार्तण्डौ] मौक्तिकाच्छर्वरीप्रभुः ।।
४६ ।।
पौष्परागाच्छुयाचार्यो वैदूर्याद्राघवो नृपः ।
पद्मरागाद्धुताशश्च इन्द्रनीलार्चनाद्धरिः ।। ४७ ।।
बाणो मारकताल्लिङ्गत्स्फाटिकोत्थाज्जलाधिपः ।
वैद्रुमास्यार्चनान्नागाः शुक्रः कार्केतनात्सदा ।। ४८ ।।
पलकोत्थात्त वागीशो राजावर्ताच्छनैश्चर [क्: द्धनेश्वरः] ।
पौलस्त्यो जीवजातिभ्यष्टै [क्, ख्: तीजार्है] ट्टिभात्सिद्धकिन्नराः ।। ४९ ।।
तुत्थजाच्च बलिः सिद्धः प्रशान्तवान् ।
अश्विनौ पक्वमृद्भूताद्गन्धर्वा दारसम्भवात् ।। ५० ।।
ब्रह्मा शैलोद्भवात्सिद्धो मुनयः पटचित्रजात् ।
गन्धोद्भवाच्च [घ्: द्भूताच्च] कन्दर्पः पौष्पलिङ्गाद्दिगम्बरः ।।
५१ ।।
शार्ङ्ग [मू, ग्: शार्ग] संसेवनाद्दक्षो गजदन्ताच्च मारुति ।
कूर्मकौशि (कसि) कसभूताद्वासुकिनयिनायकः ।। ५२ ।।
प्. २१०) नकुला [ख्: लास्थ्य] (च्चा) र्चनात्सिद्धो हरिश्चन्द्रो नराधिपः ।
अम्बरीषश्च संसिद्धो [घ्, ङ्: एव सुरादयः सिद्धा]
लिङ्गसंस्थापनार्चनात् ।। ५३ ।।
अष्टपिष्टाङ्गजा [ख्: अब्जपिष्टोद्भवा] ल्लिङ्गादष्टौ सिद्धा
गणेश्वराः ।
नावनीतात्तु संसिद्धो [मू, ङ्: तात्कुजः] धन्वन्तरिश्च [ग्: स्तु]
सोमपाः ।। ५४ ।।
औदनस्यार्चनात्तार्क्ष्यो गौडलिङ्गाद्बुधस्तथा ।
नानाफलोत्थलिङ्गानि विधिना सेवितानि च ।। ५५ ।।
तेन ते मुनयः सिद्धा बालखिल्या महोदयाः ।
सैकताद्विश्वकर्मा च शचीशो लवणो [मू: श्चलनो] द्भवात् ।। ५६ ।।
विभीषणश्च पांशूत्थान् मूलोत्थाच्चरकोऽर्चनात् ।
वंशाङ्कुरोत्थलिङ्गाच्च सगरो नाम पार्थिवः ।। ५७ ।।
पौराज्जयद्रथो राजा राहू रामठजार्चनात् [मू: सम्भवात्] ।
सर्जलिङ्गाच्च [घ्, ङ्: मयाच्च; घ्: बिम्बात्] सौमित्रो योगिन्यः
सिक्थसम्भवात् ।। ५८ ।।
लेपजात्पद्मजा देवी मृल्लिङ्गा [मू, अ: अर्धान्तःकर्म]
त्पञ्चपाण्डवाः ।
ऐहिकस्याश्रयात्सिद्धा लिखिता बहुशास्त्रतः ।। ५९ ।।
ऐहिकानि यजेत्तस्मात्प्रतिष्ठारहितान्यपि ।
स्वैर्मन्त्रैः काम [घ्: स्वैर्धान्तैः काम] दानि स्युः
सिद्धिदानीशवाक्यतः ।। ६० ।।
प्. २११) सर्वदेवमयं लिङ्गं लिङ्गं सर्वेषु संस्थितम् ।
स्थापितं विधि [ख्: शिव] मन्त्रैस्तु धर्मकामार्थमोक्षदम् ।। ६१ ।।
एकस्मिंस्थापिते लिङ्ग इष्टे वाखिलदेवताः ।
पूजिताः स्थापिताश्च स्युः पूज्यं स्थाप्यं च तत्त्वतः ।। ६२ ।।
सर्वयज्ञतपोदानतीर्थदेवेषु [घ्: वेदेषु] यत्फलम् ।
तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेत्फलम् ।। ६३ ।।
यो लिङ्गं स्थापयेदेकं [मू: देवं] विधिपूर्वं सदक्षिणम् ।
सर्वागमोदितं पुण्यं [मू: सर्वं] कोटिकोटिगुणं भवेत् [ख्, घ्:
लभेत्] ।। ६४ ।।
हस्तस्थकङ्गणं स्पष्टं दर्पणेनेक्षते पशुः ।
लिङ्गाङ्कितं जगत्कृत्स्नं भगाङ्कं नापि पश्यति ।। ६५ ।।
सिद्धिमुक्तिसुसि [ख्, घ्, ङ्: प्रसि] द्ध्यर्थं भक्तानां [मू: भत्त्या स]
हितकाम्यया ।
गृहीत्वागमतः सर्वं लिखतं शिखभाषितम् ।। ६६ ।।
संक्षेपैकागभं दृष्ट्वा न सस्यक् सर्वनिश्चयः ।
विस्तराद्भीश्च मोहः स्यात्तमान्मध्यतरं कृतम् ।। ६७ ।।
सुन्दराद्यैः प्रतिष्ठोक्ता मयाप्युक्ताल्पशक्तिना ।
यदि व्रजति वै तार्क्ष्यः किं न यान्तीह षट्पदाः ।। ६८ ।।
बहुशास्त्रार्थवस्त्राद्या [मू: स्त्रार्था] ग्रन्थसूत्रैः सुसूत्रिताः ।
अज्ञानशीतनाशाय कण्ठाचार्यै [ख्, ग्, ङ्: वाच्यत्यु] दीरिताः ।। ६९ ।।
प्. २१२) शब्दाक्षरान्यनो योगात्संज्ञालिङ्गप्रगोपनैः ।
अनुक्तः [मू, अ: आनन्दः] सुधियां मध्ये कश्चित्तेनो [घ्: विस्तेनु]
पलक्ष्यते ।। ७० ।।
आसीद्गोपालभूपः सकलवसुमतीभूषणे दोषहीनस्तस्याङ्गाशो [घ्:
स्यांशाह्वो] महात्मा कृतनृपतियतिर्धीरनाथः पृथुश्रीः ।
तत्पुत्रः [मू, अ, ग्: तत्तस्मात्] प्राप्तकीर्तिर्वचनचतुरिमा विश्रुतो
भूमिचक्रे [ख्, घ्: रधीनाख्यलोकानुकम्पः]
चक्रे सोऽयं [ख्, घ्: शास्त्रं] प्रतिष्ठाविधिमतिललितं
पञ्चवक्त्रोपगीतम् ।। ७१ ।।
श्रीमन्मत्तमयूरजो हरसमः शैवोऽर्जुन [क्, ख्: वे कुले] द्योतकः
प्रख्यातो विमलादिकः शिवपरश्चाचार्यवर्योंऽभवत् ।
पूज्यो निर्भयभूमिपस्य च गुरुस्तेनाभिषिक्तः स्वयं
ज्ञानीशानशिवस्तदङ्घ्रिजनितो वैरोचनो दैशिकः ।। ७२ ।।
मायाकर्मादिजातत्रिविधमलहरो ज्ञानदेहावतीर्णः
शम्भोश्चाभेदरूपो मुनिजनविदितश्चोर्ध्ववक्त्राभिधानः ।
आचार्येन्द्रः प्रसिद्धः सकलजनहितः शुद्धशैवाश्रमस्थो-
यस्ततस्याहं नमामि क्षितिनिहितशिराः पादपद्मं गुरोर्मे ।। ७३ ।।
सिद्धान्तद्वयटङ्कशाकतक [ख्, घ्: दृक्च गारुड] (ट)
बृहत्तीक्ष्णोग्रदंष्ट्रश्च योजिह्वा यस्य सकेसराणि च तथा [मू, अ, ग्,
ङ्: सिरतया] सव्यापसव्यागमौ ।
विस्तीर्णाखिलभूततन्त्रनखरो वैरोचनः केसरी ।
सोऽयं मत्तमृगेभदर्पदलनो भूकानेन भ्राम्यति ।। ७४ ।।
प्. २१३) स्वतन्त्राध्ययनं वादः परतन्त्रावलोकनम् ।
तद्विद्याचार्यशैवाय बुद्धिमेधाकरो गुणः ।। ७५ ।।
वसन्ततिलकं त्वादौ दीप्यन्ते स्रग्धरास्तथा ।
शेषाश्चानुष्टुभो मध्ये गुणसाहस्रिकं कृतम् ।। ७६ ।।
हिताय दैशिकानां यदुक्तं स्वल्पधियामया ।
दुरुक्तं [क्, ग्: वत्न टङ्कः पाषाणदारण इत्यमरः ।
शाकटो भार आचित इत्यमरः ।
] सूक्तमाज्ञाय तत्करिष्यन्ति पण्डिताः ।। ७७ ।।
नान्यदर्शयिने देयमेतच्छास्त्रं मगाय च ।
शैवेभ्य एतद्दातव्यमर्थतः शास्त्रतःसदा ।। ७८ ।।
परोपं [ग्, घ्, ङ्: पराय] याचनाच्चौरात् [मू, अ, ङ्: द्दोषः] स्नेहात्
शिथिसबन्धनात् ।
कण्टका [क्, ख्, घ्, ङ्: वल्मीका] खुजलाग्निभ्यो मा रक्षेत्याह पुस्तकम्
।। ७९ ।।
धत्तेऽनन्ताख्यरुद्रो भुवमुपरिगतो यद्व [क्, ख्: याव] दाधारशक्ते-
र्जम्बुद्वीपस्य मध्ये शिखरिवरवृतो यावदास्ते [ख्: भृतो यावदास्ते]
सुमेरुः ।
यावच्चन्द्रार्कतारामयरुचिरुचिरं प्रस्फुरत्यन्तरिक्षं [ख्, घ्:
पुष्करं राजतीयं] ।
तावद्वैरोचनस्य प्रविचरतु गुरोः पुस्तरुपात्र कीर्तिः ।। ८० ।।
यावच्छ्रीमाननन्तो धरति वसुमतीमूर्ध्वमाधारशक्ते [ख्:
मघादियुक्तां ; घ्: त्तार शक्त्या] ।
प्. ११४) र्यावत्सप्तोत्तरी [मू, अ, ङ्: प्तार्णवी]
यार्णववृतपृथिवीमध्यगो [ख्, घ्: मध्यतो] मेरुरस्ति ।
यावच्चन्द्रार्कतारागणमणिभि [क्, ख्: घृणिभि] रिदं भ्राजते
शुभ्रमभ्र [मू, घ्, ङ्: मम्भः]
तावद्वैरोचनीया जगति चिरमियं पुस्तरुपास्तु कीर्तिः ।। ८१ ।।
इति श्री (प्रतिष्ठातन्त्रे) प्रतिष्ठालक्षणसारसमुच्चये पवित्रारोहणं
नाम द्वात्रिंशो विधिः ।। ३२ ।।
।। समाप्तोऽयं ग्रन्थः ।।
।। शिवम् ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
5t6bezgu865ilcjm1pmxg8b543ylgqc
418113
418112
2026-08-28T22:49:15Z

8903bq9gnz1gohck4284ppwgi5632vw
418114
418113
2026-08-28T22:52:11Z
~2026-47053-62
10703
/* अथ षष्ठः */

==अथाष्टाविंशः==

==अथैकोनविंशः==

==अथ त्रिंशः==

==अथैकत्रिंशः==

==अथ द्वात्रिंशः==

nsc0yxh34xfmi4tswqruaawmo52zh9m
418115
418114
2026-08-28T23:01:20Z

==अथ सप्तमः==

==अथ अष्टमः==

==अथ नवमः==

==अथ दशमः==

==अथैकादशः==

== ==

2vm64za03ljfqudihfmifnxokl9ndt9
418116
418115
2026-08-28T23:02:28Z

==

2nt9glpd6zrmoj3cbzjw5su3hyhn2s0
418117
418116
2026-08-28T23:03:16Z

j7qxnjdbp9ooo0ls234yjbwa6ll2jme
418118
418117
2026-08-28T23:08:29Z

==अथ द्वादशः==

==अथ त्रयोदशः==

==अथ पञ्चदशः==

==अथ षोडशः==

==अथ सप्तदशः==

==अथ विंशतिः==

==अथैकाविंशः==

==अथ द्वाविंशः==

==अथ त्रयोविंशः==

==अथ चतुर्विंशः==

==अथ पञ्चविंशः==

==अथ षड्विंशः==

==अथ सप्तविंशः==

1r9ip51517f2uz44v9yt8wnq1sx7mit
418119
418118
2026-08-28T23:09:15Z
~2026-47053-62
10703
/* अथ त्रयोदशः */

==अथ चतुर्दशः==

ay5ldpvk2hliqg3btrpwxrbcs9iv4g6
418120
418119
2026-08-28T23:09:47Z
~2026-47053-62
10703
/* अथ सप्तदशः */

==अथष्टादशः==

8kbu89j1rovw61bymtm21d6ysis5qdg