विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.18
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
सावित्र्युपनिषत्
0
2170
418204
100755
2026-09-04T07:08:03Z
~2026-47924-34
10715
418204
wikitext
text/x-wiki
{{Upanishad}}
सावित्र्युपनिषद्वेद्यचित्सावित्रपदोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
कः सविता का सावित्री अग्निरेव सविता पृथिवी सावित्री स
यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी
तदेकं मिथुनम् ॥ १॥
कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र
वरुणस्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं
मिथुनम् ॥ २॥
कः सविता का सावित्री वायुरेव सविताकाशः सावित्री स यत्र
वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं
मिथुनम् ॥ ३॥
कः सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री स
यत्र यज्ञस्तत्र छन्दांसि यत्र वा छन्दांसि स यज्ञस्ते द्वे
योनिस्तदेकं मिथुनम् ॥ ४॥
कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स
यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे
योनिस्तदेकं मिथुनम् ॥ ५॥
कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स
यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं
मिथुनम् ॥ ६॥
कः सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री
स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स चन्द्रमास्ते
द्वे योनिस्तदेकं मिथुनम् ॥ ७॥
कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र वा
मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं
मिथुनम् ॥ ८॥
कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र
पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं
मिथुनम् ॥ ९॥
सावित्र्याः पादत्रयम्
तस्या एव (एष) प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै
वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् ॥ १०॥
तस्या एव (एष) द्वितीयः
पादो भर्गमयोऽपि भुवो भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग
आदित्यो वै भर्गश्चन्द्रमा वै भर्गः ॥ ११॥
तस्या एष तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति
स्त्री चैव पुरुषश्च प्रजनयतः ॥ १२॥
सावित्रीवेदनफलं पुनर्मृत्युञ्जयः
यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं जयति ॥ १३॥
बलातिबलयोर्विराट् पुरुष ऋषिः । गायत्री छन्दः ।
गायत्री देवता । अकारोकारमकारा बीजाद्याः ।
क्षुधाऽऽदिनिरसने विनियोगः । क्लामित्यादिषडङ्गम् (षडङ्गन्यासः) ।
ध्यानम् ।
अमृतकरतलाग्रौ (तलार्द्रौ) सर्वसंजीवनाढ्या-
वघहरणसुदक्षौ वेदसारे मयूखे ।
प्रणवमयविकारौ भास्कराकारदेहौ
सततमनूभवेऽहं तौ बलातिबलान्तौ ॥ var बलाती
ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं
चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके
ह्रीं वरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते
बले सर्वक्षुच्छ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्या
(var बले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यः)
या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा ॥ १४॥
विद्याफलम्
एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां
जयतीत्युपनिषत् ॥ १५॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ तत्सत् ॥
इति सावित्र्युपनिषत्समाप्ता ॥
== अधिकाध्ययनाय ==
* http://sanskritdocuments.org
[[वर्गः:उपनिषदः]]
oz7nmnjo6hflhnfr64n9ytymwqof80h
बाष्कलमन्त्रोपनिषत्
0
165546
418205
418106
2026-09-04T07:10:29Z
~2026-47924-34
10715
418205
wikitext
text/x-wiki
{{Upanishad}}
॥ अथ बाष्कलमन्त्रोपनिषत् ॥
मेधातिथिं काण्वमिन्द्रो जहार द्या मेषभूयोपगतो विदानः ।
तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १ ॥
को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति ।
सुशेवमिच्चङ्क्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २ ॥
नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति ।
तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवद्ब्रह्म रिषा मयस्वी ॥ ३ ॥
इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसासहिस्तपसा मा विचक्षे ।
स इद्देवो ऋतमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४ ॥
कुहेव मावशमितो नयातै कुहेव ते चित्रतमप्रतिष्ठा ।
कुहाचिदेष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥ ५ ॥
प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा ।
न मामिमे नूनमित्था पथो विदुर्ये मा न यन्ति मिथु चाकशानाः ॥ ६ ॥
परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः ।
न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७ ॥
अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् ।
अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८ ॥
मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी ।
अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९ ॥
प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रा अकरोदनीकैः।
को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥ १० ॥
को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा ।
रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११ ॥
विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः ।
अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२ ॥
अहमु ह प्रवतिं यज्ञियामियां
अहं वेद भुवनस्य नाभिम् ।
आपिः पिता सूरहमस्य विष्वङ्ङहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३ ॥
अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् ।
अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४ ॥
अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् ।
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५ ॥
अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः ।
अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६ ॥
अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् ।
अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः प्रजाः ॥ १७ ॥
अह चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः ।
यो मा वेद निहितं गुहा चित्स इदित्था बोभवीदाशयध्यै ॥ १८ ॥
अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।
मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९ ॥
न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः ।
न मेऽनाश्वानुत दाश्वानजग्रभीत्सर्व इन्मामुपयन्ति विश्वतः ॥ २० ॥
क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि ।
यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥ २१ ॥
यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे ।
ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२ ॥
अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् ।
अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥ २३ ॥
विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः ।
हंसो विशोको अजरः पुराण ऋतीयमानो अहमस्मि नाम ॥ २४ ॥
अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः ।
अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥ २५ ॥
॥ इति बाष्कलमन्त्रोपनिषत् समाप्ता ॥
[[वर्गः:उपनिषदः]][[वर्गः:प्रमुखोपनिषदः]]
29i6170jv3qsgrm7e2bbykr908fe5hs