विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.19
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
विष्णुपुराणम्/चतुर्थांशः/अध्यायः ३
0
7103
418573
418546
2026-09-13T17:12:49Z
Visasank
9788
418573
wikitext
text/x-wiki
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ तृतीयोऽध्यायः ॥
(मान्धातृसन्ततिः, त्रिशङ्कुस्वर्गारोहणम्)
अतश्च मान्धातुः पुत्रसन्ततिरभिधीयते ॥१॥
अम्बरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रोऽभूत् ॥२॥
तस्मात् हारीतः यतोऽङ्गिरसो हारीताः ॥३॥
रसातले मौनेया नाम गन्धर्वा बभूवुः षट्कोटिसंख्याताः । तैः अशेषाणि नागकुलानि अपहृतप्रधानरत्नाधिपत्यानि अक्रियन्त ॥४॥
तैश्च गन्धर्ववीर्यावधूतैः उरगेश्वरैः स्तूयमानो भगवान् अशेषदेवेशः स्तव-च्छ्रवण-उन्मीलित-उन्निद्र-पुण्डरीक-नयनो जलशयनो निद्रावसानात् प्रबुद्धः प्रणिपत्य अभिहितः । “भगवन् अस्माकम् एतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथम् उपशमम् एष्यति” इति ॥५॥
आह च भगवान् अनादिनिधनपुरुषोत्तमो “योऽसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा पुत्रः तम् अहम् अनुप्रविश्य तानशेषान् दुष्टगन्धर्वान् उपशमं नयिष्यामि” इति ॥६॥
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः ॥७॥
सा चैनं रसातलं नीतवती ॥८॥
रसातलगतश्चासौ भगवत्तेजसा आप्यायितात्मवीर्यः सकलगन्धर्वान् निजघान ॥९॥
पुनश्च स्वपुरम् आजगाम ॥१०॥
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः । “यत्ते अनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यति” इति ॥११॥
अत्र च श्लोकः ॥१२॥
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥१३॥
इति उत्युच्चार्य “अहर्निशम् अन्धकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तम् उपघाताय भवति ॥१४॥
पुरुकुत्साय सन्ततिविच्छेदो न भविष्यति” इति उरगपतयो वरं ददुः ॥१५॥
पुरुकुत्सो नर्मदायां त्रसद्दस्युम् अजीजनत् ॥१६॥
त्रसद्दस्युतः सम्भूतो अनरण्यः यं रावणो दिग्विजये जघान ॥१७॥
अनरण्यस्य पृषदश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् ॥१८॥
तस्य च हस्तः पुत्रोऽभवत् ॥१९॥
ततश्च सुमनाः तस्यापि त्रिधन्वा त्रिधन्वनः त्रय्यारुणिः ॥२०॥
त्रय्यारुणेः सत्यव्रतः योऽसौ त्रिशङ्कुसंज्ञाम् अवाप ॥२१॥
स चाण्डालताम् उपगतश्च ॥२२॥
द्वादशवर्षिक्याम् अनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चाण्डालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसम् अनुदिनं बबन्ध ॥२३॥
स तु परितुष्टेन विश्वामित्रेण सशरीरः स्वर्गम् आरोपितः ॥२४॥
त्रिशङ्कोः हरिश्चन्द्रः, तस्माच्च रोहिताश्वः, ततश्च हरितो, हरितस्य चञ्चुः, चञ्चोः विजयवसुदेवौ, रुरुको विजयात्, रुरुकस्य वृकः ॥२५॥
ततो वृकस्य बाहुः, योऽसौ हैहयतालजङ्घादिभिः पराजितः, अतर्वत्न्या महिष्या सह वनं प्रविवेश ॥२६॥
तस्याश्च सपत्न्या गर्भस्तम्भनाय गरो दत्तः ॥२७॥
तेनास्या गर्भस्सप्तवर्षाणि जठर एव तस्थौ ॥२८॥
स च बाहुः वृद्धभावात् और्वाश्रमसमीपे ममार ॥२९॥
सा तस्य भार्या चितां कृत्वा तमारोप्य अनुमरणकृतनिश्चया अभूत् ॥३०॥
अथ एताम् अतीतानागतवर्तमानकालत्रयवेदी भगवान् और्वः स्वाश्रमात् निर्गत्य अब्रवीत् ॥३१॥
“अलमलम् अनेन असद्ग्राहेण अखिलभूमण्डलपतिः अतिवीर्यपराक्रमो नैकयज्ञकृत् अरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्त्ती तिष्ठति ॥३२॥
नैवम् अतिसाहसाध्यवसायिनी भवती भवतु” इत्युक्ता सा तस्मात् अनुमरणनिर्बन्धात् विरराम ॥३३॥
तेनैव च भगवता स्वाश्रममानीता ॥३४॥
तत्र कतिपयदिनाभ्यन्तरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ॥३५॥
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ॥३६॥
कृतोपनयनं चैनमौर्वो वेदशास्त्राणि अस्त्रं चाग्नेयं भार्गवाख्यम् अध्यापयामास ॥३७॥
उत्पन्नबुद्धिश्च मातरमब्रवीत् ॥३८॥
“अम्ब कथमत्र वयं, क्व वा तातोऽस्माकम्” इत्येवमादि पृच्छन्तं माता सर्वमेवावोचत् ॥३९॥
ततश्च पितृराज्यापहरणात् अमर्षितो हैहयतालजङ्घादिवधाय प्रतिज्ञामकरोत् ॥४०॥
प्रायशश्च हैहयतालजङ्घान् जघान ॥४१॥
शक-यवन-काम्भोज-पारद-पह्लवाः हन्यमानाः तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ॥४२॥
अथ एनान् वसिष्ठो जीवन्मृतकान् कृत्वा सगरमाह ॥४३॥
“वत्स, अलमेभिः जीवन्मृतकैः अनुसृतैः ॥४४॥
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसङ्गपरित्यागं कारिताः” ॥४५॥
तथेति तद्गुरुवचनम् अभिनन्द्य तेषां वेषान्यत्वम् अकारयत् ॥४६॥
यवनान् मुण्डितशिरसो, अर्द्धमुण्डितान् शकान्, प्रलम्बकेशान् पारदान्, पह्लवान् श्मश्रुधरान्, निस्स्वाध्यायवषट्कारान् एतान् अन्यांश्च क्षत्रियान् चकार ॥४७॥
एते चात्मधर्मपरित्यागात् ब्राह्मणैः परित्यक्ता म्लेच्छतां ययुः ॥४८॥
सगरोऽपि स्वमधिष्ठानम् आगम्य-अस्खलित-चक्रः सप्तद्वीपवतीम् इमाम् उर्वीं प्रशशास ॥४९॥
॥ इति श्रीविष्णुमहापुराणे चतुर्थांशो तृतीयोऽध्यायः ॥
</span></poem>
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]
7gdkcgqpxvjy2a3a5mmyreigb4vpq9e
सदस्यः:V(g)
2
25211
418572
418547
2026-09-13T13:15:22Z
EmausBot
3495
[[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया।
418572
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)]]
95d6euwz5uasoehai0z4cdinzeslj5p