विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.20 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk विष्णुपुराणम्/चतुर्थांशः/अध्यायः ४ 0 7104 418585 362659 2026-09-18T00:55:22Z Visasank 9788 418585 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-चतुर्थांशः}} <poem><span style="font-size: 14pt; line-height: 200%"> ॥ अथ चतुर्थोऽध्यायः ॥ (सगरस्य अश्वमेधयज्ञः, भगीरथस्य गङ्गानयनम्, रामचरित्रम्) श्रीपराशर उवाच काश्यपदुहिता सुमतिः विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्य आस्ताम् ॥१॥ ताभ्यां चापत्यार्थम् और्वः परमेण समाधिनाराधितो वरम् अदात् ॥२॥ “एका वंशकरमेकं पुत्रम्, अपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यताम्” इत्युक्ते केशिनी एकं वरयामास ॥३॥ सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥४॥ “तथा” इत्युक्ते अल्पैरहोभिः केशिनी पुत्रम् एकम् असमञ्जसनामानं वंशकरम् असूत ॥५॥ काश्यपतनयायाः तु सुमत्याः षष्टिः पुत्रसहस्रणि अभवन् ॥६॥ तस्मात् असमञ्जसात् अंशुमान् नाम कुमारो जज्ञे ॥७॥ स त्वसमञ्जसो बालो बाल्यादेव असद्वृत्तोऽभूत् ॥८॥ पिता चास्य अचिन्तयत् “अयम् अतीतबाल्यः सुबुद्धिमान् भविष्यति” इति ॥९॥ अथ तत्रापि च वयसि अतीते असच्चरितमेनं पिता तत्याज ॥१०॥ तान्यपि षष्टिः पुत्रसहस्राणि असमञ्जसचरितमेव अनुचक्रुः ॥११॥ ततश्च असमञ्जसचरितानुकारिभिः सागरैः अपध्वस्तयज्ञादिसन्मार्गे जगति देवाः सकलविद्यामयम् असंस्पृष्टम् अशेषदोषैः भगवतः पुरुषोत्तमस्य अंशभूतं कपिलं प्रणम्य तदर्थम् ऊचुः ॥१२॥ “भगवन् एभिः सगरतनयैः असमञ्जसचरितम् अनुगम्यते ॥१३॥ कथमेभिः असद्वृत्तम् अनुसरद्भिः जगद्भविष्यतीति ॥१४॥ अत्यार्तजगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणम्” इत्याकर्ण्य भगवानाह “अल्पैरैव दिनैर्विनङ्क्ष्यन्ति” इति ॥१५॥ अत्रान्तरे च सगरो हयमेधम् आरभत ॥१६॥ तस्य च पुत्रैः अधिष्ठितम् अस्य अश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥१७॥ ततः तत्तनयाश्च अश्वखुरगतिनिर्बन्धेन अवनीम् एकैको योजनं चख्नुः ॥१८॥ पाताले चाश्वं परिभ्रमन्तं तम् अवनीपतितनयास्ते ददृशुः ॥१९॥ नातिदूरेऽवस्थितं च भगवन्तम् अपघने शरत्कालेऽर्कमिव तेजोभिः अवनतमूर्धम् अधश्च अशेषदिशश्च उद्भासयमानं हयहर्त्तारं कपिलर्षिम् अपश्यन् ॥२०॥ ततश्चोद्यतायुधा दुरात्मानोऽयमस्मदपकारी यज्ञविघ्नकारी हन्यतां हयहर्त्ता हन्यतामित्यवोचन्नभ्यधावंश्च २१ । ततस्तेनापि भगवता किंचिदीषत्परिवर्त्तितलोचनेनावलोकितास्स्वशरीरसमुत्थेनाऽग्निना-दह्यमाना विनेशुः २२ । सगरोप्यवगम्याश्वानुसारि तत्पुत्रबलमश्षॐ परमर्षिणा कपिलेन तेजसा दग्धं ततॐशुमंतमसमंजसपुत्रमश्वानयनाय युयोज २३ । स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव २४ । अथैनं भगवानाह २५ । गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्राश्च ते स्वर्गाद्गंगां भुवमानेष्यन्त इति २६ । अथांशुमानपि स्वर्यातानां ब्रह्मदंडहतानामस्मत्पितॄणामस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह २७ । तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्गंगां भुवमानयिष्यतीति २८ । तदंभसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति २९ । भगवद्विष्णुपादांगुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ३० । यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसांधितमप्यस्यां प्रेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यश्शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहयज्ञमाजगाम् ३१ । सगरोप्यश्वमासाद्य तं यज्ञं समापयामास ३२ । सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ३३ । तस्यांशुमतो दिलीपः पुत्रोभवत् ३४ । दिलीपस्य भगीरथः योऽसौ गंगां स्वर्गादिहानीय भागीरथीसंज्ञां चकार ३५ । भगीरथात्सुहोत्रस्सुहोत्राच्छ्रुतः तस्यापि नाभागः ततॐबरीषः तत्पुत्रस्सिंधुद्वीपः सिंधुद्वीपादयुतायुः ३६ । तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोक्षहृदयज्ञोभूत् ३७ । ऋतुपर्णपुत्रस्सर्वकामः ३८ । तत्तनयस्सुदासः ३९ । सुदासात्सौदासो मित्र सहनामा ४० । स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत् ४१ । ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ४२ । म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ४३ । द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वांतर्धानं जगाम ४४ । कालेन गच्छता सौदासो यज्ञमयजत् ४५ । परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रांते तद्र क्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रांतः ४६ । भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ४७ असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ४८ । आगताय वसिष्ठाय निवेदितवान् ४९ । स चाप्यचिंतयदहोस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्र व्यजातमिति ध्यानपरोभवत् ५० । अपश्यच्च तन्मांसंमानुषम् ५१ । अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ५२ । यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ५३ । अनंतरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ ५४ । समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यंतिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ५५ । असावपि प्रतिगृह्योदकांजलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयंत्या स्वपत्न्या प्रसादितस्सस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकाशे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ५६ । तेन च क्वोधाश्रितेनांबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततस्स कल्माषपादसंज्ञामवाप ५७ । वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ५८ । एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श ५९ । तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्राह ६० । ततस्सा ब्राह्मणी बहुशस्तमभियाचितवती ६१ । प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः ६२ । नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्त्तारं हंतुमित्येवं बहुप्रकारं तस्यां विलपंत्यां व्याघ्रः पशुमिवाऽरण्येऽभिमतं तं ब्राह्मणमभक्षयत् ६३ । ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ६४ । यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तॐतं प्राप्स्यसीति ६५ । शप्त्वा चैव साग्निं प्रविवेश ६६ । ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयंती तं स्मारयामास ६७ । ततः परमसौ स्त्रीभोगं तत्याज ६८ । वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयंत्यां गर्भाधानं चकार ६९ । यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ७० । पुत्रश्चाजायत ७१ । तस्य चाश्मक इत्येव नामाभवत् ७२ । अश्मस्य मूलको नाम पुत्रोऽभवत् ७३ । योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरंति ७४ । मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ७५ । तस्माच्च खट्वांगः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ७६ । स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ७७ । यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ७८ । अनंतरं च तैरुक्तं मुहूर्त्तमेकं प्रमाणं तवायुरित्युक्तोथास्खलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह ७९ । यथा न ब्राह्मणेभ्यस्सकाशादात्मापि मे प्रियतरः न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यश्षोदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ८० । अत्रापि श्रूयते श्लोको गीतस्सप्तर्षिभिः पुरा । खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति ८१ । येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् । त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि ८२ । खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत् ८३ । ततो रघुरभवत् ८४ । तस्मादप्यजः ८५ । अजाद्दशरथः ८६ । तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांश्नो रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत् ८७ । रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ८८ । यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ८९ । सुबाहुप्रमुखांश्च क्षयमनयत् ९० । दर्शनमात्रेणाहल्यामपापां चकार ९१ । जनकगृहे च माहेश्वरं चापमनायासेन बभंज ९२ । सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ९३ । सकलक्षत्त्रियक्षयकारिणमश्षोहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ९४ । पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ९५ । विराधखरदूषणादीन् कबंधवालिनौ च निजघान ९६ । बद्धा चांभोनिधिमसेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामश्षोदेवसंघैस्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ९७ । ततश्चाभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ९८ । लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेंयमनिरृतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैस्संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत् ९९ । भरतोपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान १०० । शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता १०१ । इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टसंहारिणोश्षोस्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः १०२ । येऽपि तेषु भगवदंश्ष्वोनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यतामवापुः १०३ । अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ लक्ष्मणस्यांगदचंद्र केतू तक्षपुष्कलौ भरतस्य सुबाहुशूरसेनौ शत्रुघ्नस्य १०४ । कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् १०५ । निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे १०६ । तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय १०७ । हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णस्ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् १०८ । योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति १०९ । आगामियुगे सूर्यवंशक्षत्रव्रत आवर्त्तयिता भविष्यति ११० । तस्यात्मजः प्रशुश्रुकस्तस्यापि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः १११ । तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ११२ । एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः । एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ११३ । इति श्रीविष्णुमहापुराणे चतुर्थांशो! चतुर्थोऽध्यायः ४। </span></poem>। [[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]। rwza3yhjtew0zafpfb0cyzcht6nf63t स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४७ 0 22159 418584 400915 2026-09-17T20:45:09Z ~2026-50326-48 10745 वर्तनी शुद्धि 418584 wikitext text/x-wiki {{स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः}} <poem><span style="font-size: 14pt; line-height: 200%">।। नारद उवाच ।। ।। ततो मयास्य तीर्थस्य रक्षणाय पुनर्जय ।। समाराध्य यथा देव्यः स्थापितास्तच्छृणुष्व भोः ।।१।। यथात्मा सर्वभूतेषु व्यापकः परमेश्वरः ।। तथैव प्रकृतिर्नित्या व्यापका परमेश्वरी ।। २ ।। शक्ति प्रसादादाप्नोति वीर्यं सर्वाश्च संपदः ।। ईश्वरी सर्वभूतेषु सा चैवं पार्थ संस्थिता ।। ३ ।। बुद्धिह्रीपुष्टिलज्जेति तुष्टिः शांतिः क्षमा स्पृहा ।। श्रद्धा च चेतना शक्तिर्मंत्रोत्साहप्रभूद्भवा ।। ४ ।। इयमेव च बंधाय मोक्षायेयं च सर्वदा ।। एनामाराध्य चैश्वर्यमिन्द्राद्याः समवाप्नुयुः ।। ५ ।। ये च शक्तिं न मन्यंते तिरस्कुर्वंति चाधमाः ।। योगीन्द्रा अपि ते व्यक्तं भ्रश्यंते काशिजा यथा ।। ६ ।। वाराणस्यां किल पुरा सिद्धयोगीश्वराः पुनः ।। अवमन्य च ते शक्तिं पुनर्भ्रंशमुपागताः ।। ७ ।। तस्मात्सदा देहिनेयं शक्तिः पूज्यैव नित्यदा ।। तुष्टा ददाति सा कामान्रुष्टा संहरते क्षणात् ।। ८ ।। परमा प्रकृतिः सा च बहुभेदैर्व्यवस्थिता ।। तासां मध्ये महादेव्यो ह्यत्र संस्थापिताः शृणु ।।९।। चतस्रस्तु महाशक्त्यश्चतुर्दिक्षु व्यवस्थिताः ।। सिद्धांबिका तु पूर्वस्यां स्थापिता सा गुहेन च ।। 1.2.47.१० ।। जगदादौ मूलप्रकृतेरुत्पन्ना सा प्रकीर्त्यते ।। आराधिता यतः सिद्धैस्तस्मात्सिद्धांबिका च सा ।।११।। दक्षिणस्यां तथा तारा संस्थिता स्थापिता मया ।। तारणार्थाय देवानां यस्मात्कूर्मं समाश्रिता ।। १२ ।। ययाविष्टः समुज्जह्रे वेदान्कूर्मो जगद्गुरुः ।। अनयाविष्टदेहश्च बुधो बौद्धान्हनिष्यति ।।१३।। कोटिशो वेदमार्गस्य ध्वंसकान्पापकर्मिणः।। इयं मया समाराध्य समानीता गिरेः सुता ।। १४ ।। कोटिसंख्याभिरत्युग्रदेवीभिः संवृता च सा ।। दक्षिणां दिशमाश्रित्य संस्थिता मम गौरवात् ।।१५।। पश्चिमायां तथा देवी संस्थिता भास्करा शुभा ।। ययाविष्टानि भासंते भास्करप्रमुखानि च।।१६।। बिंबानि सर्वताराणां गच्छन्त्यायांति च द्रुतम् ।। सैषा महाबला शक्तिर्भास्वरा कुरुनन्दन ।।१७।। मयाराध्य समानीता कटाहादत्र संस्थिता ।। कोटिकोटिवृता नित्यं त्रायते पश्चिमां दिशम् ।। १८ ।। उत्तरस्यां तथा देवी संस्थिता योगनंदिनी ।। परमप्रकृतेर्देहात्पूर्वं निःसृतया यया ।। १९ ।। दृष्ट्या दृष्टा निर्मलया योगमापुश्चतुःसनाः ।। योगीश्वरी च सा देवी सनकाद्यैः सुतोषिता ।। 1.2.47.२० ।। सैव चांडकटाहान्मे समाराध्यात्र प्रापिता ।। योगिनीभिः परिवृता संस्थिता चोत्तरां दिशम् ।। २१ ।। एवमेता महाशक्त्यश्चतस्रः संस्थिताः सदा ।। पूजिताः कामदा नित्यं रुष्टाः संहरणक्षमाः ।। २२ ।। ततश्च नव मे दुर्गाः समानीताः शृणुध्व ताः ।। २३ ।। त्रिपुरानाम परमा देवी स्थाणुर्यया पुरा ।। आविष्टस्त्रिपुरं निन्ये भस्मत्वं जगदीश्वरः ।। २४ ।। त्रिपुरेति ततस्तां तु प्रोक्तवान्भगवान्हरः ।। तुष्टाव च स्वयं तस्मात्पूज्या सा जगतामपि ।। २५ ।। सा चाराध्य समानीता मयामरेश्वरपर्वतात् ।। भक्तानां कामदा सास्ति भट्टादित्यसमीपतः ।। २६ ।। अपरा चापि कोलंबा महाशक्तिः सनातनी ।। कोलरूपी ययाविष्टः केशवश्चोज्जहार गाम् ।। २७ ।। तस्मात्सा विष्णुना चोक्ता कोलंबेति स्तुतार्चिता ।। सा च देवी मया पार्थ भक्तियोगेन तोषिता ।। २८ ।। वाराहगिरिसंस्था मां समानीता च साब्रवीत् ।। यत्राहं नारद सदा तिष्ठामि कृपयार्थिनाम् ।। ।। २९ ।। तत्र कूपेन संस्थेयं रुद्राणीसंस्थितेन वै ।। तं हि कूपं विना मह्यं न रतिर्जायते क्वचित् ।।1.2.47.३०।। तस्माद्भवान्कूपवरं स्वयमत्र खन द्विज ।। एवमुक्ते पार्थ देव्या दर्भमूलेन मे तदा ।। ३१ ।। कूपोऽखनि यत्र साक्षाद्रुद्राणी कूप आबभौ ।। ततो मया तत्र देवाः स्नात्वा जप्त्वा च तर्पिताः।।३२।। पूजिता च ततो दैवी कोलंबा जगदीश्वरी ।। परितुष्टा तदा देवी प्रणतं मा ततोऽब्रवीत् ।। ३३ ।। सदात्र चाहं स्थास्यामि प्रसादं प्रापिता त्वया ।। ये च कूपेत्र संस्नात्वा माघाष्टम्यां विशेषतः ।।३४।। पूजयिष्यंति मां मर्त्यास्तेषां छेत्स्यामि दुष्कृतम् ।। सर्वतीर्थमयी यश्च सर्वर्तुकवनेस्थितः ।। ३५ ।। मेरोः समीपे रुद्राण्याः कूप एष स एव च ।।३६।। प्रयागादपि गंगाया गयायाश्च विशेषतः ।। कूपेस्मिन्नधिकं स्नानं मया नारद कीर्तितम् ।। ३७ ।। तदहं तव वाक्येन संस्थितात्र तपोधन ।। गुहेनाथ सरः पुण्यं पालयिष्याम्यतंद्रिता ।। ३८ ।। कुमारेशं पूजयित्वा पूजयिष्यंति ये च माम् ।। देवीभिः षष्टिकोटीभिर्युता तेषामभीष्टदा ।। ३९ ।। ।। नारद उवाच ।। ।। इत्युक्तोऽहं पार्थ देव्या तदानीं प्रीयमाणया ।। प्रत्यब्रवं प्रमुदितः कोलंबां विश्वमातरम् ।। 1.2.47.४० ।। अत्रास्य माता त्वं देवि गुप्तक्षेत्रस्यकारणम् ।। तीर्थयात्रा वृथा तेषां नार्च्चयंतीह त्वां च ये ।। ४१ ।। इदं च यत्सरः पुण्यं त्वन्नाम्ना ख्यातिमेष्यति ।। ईश्वरी सरसोऽस्य त्वं तीर्थस्यास्य तथेश्वरी ।। ४२ ।। एवं दीर्घं तपस्तप्त्वा स्थापिता मयका शुभा ।। महादुर्गा नरैस्तस्मात्पूज्येयं सततं बुधैः ।। ४३ ।। तृतीया च दिशि तस्यां स्थिता संस्थापिता मया ।। गुहेन च कपालेश्याः प्रभावोस्याः पुरेरितः ।। ४४ ।। धन्यास्ते ये प्रपश्यंति नित्यमेनां नरोत्तमाः ।। कपालेश्वरमभ्यर्च्य विश्वशक्तिरियं यतः ।। ४५ ।। एवमेतास्तिस्रो दुर्गाः पूर्वस्यां दिशि संस्थिताः ।। पश्चिमायां प्रवक्ष्यामि तिस्रो दुर्गा महोत्तमा ।। ४६ ।। सुवर्णाक्षी तु या देवी ब्रह्मांडपरिपालिनी ।। सा मयात्र समाराध्य तीर्थे देवी निवेशिता ।। ।। ४७ ।। ये चैनां प्रणमिष्यंति पूजयिष्यंति भक्तितः ।। त्रयस्त्रिंशद्भिः कोटीभिर्देवीभिः पूजिता च तैः ।। ४८ ।। अपरा च महादुर्गा चर्चिता चेति संस्थिता । रसातलतलात्तत्र मयानीता सुभक्तितः ।। ४९ ।। इयमर्च्या च चिंत्या च वीरत्वं समभीप्सुभिः ।। बहुभिर्देवदैतेयैर्ददौ तेभ्यश्च वीरताम् ।। 1.2.47.५० ।। इयमेव महादुर्गा शूद्रकं वीरसत्तमम् । चौरैर्बद्धं कलौ चाग्रे मोक्षयिष्यति विक्रमात् ।। ५१ ।। ततस्त्वेतां स चाराध्य वीरेंद्रत्वमवाप्स्यति ।। निहनिष्यति चाक्रम्य कालसेनमुखान्रिपून् ।। ५२ ।। तस्मादियं समाराध्या वीर्यकामैर्नरैः सदा ।। चर्चिता या महादुर्गा पश्चिमायां दिशि स्थिता ।। ५३ ।। तथा त्रैलोक्यविजया तृतीयस्यां दिशि स्थिता । यामाराध्य जयं प्राप्तस्त्रिलोक्यां रोहिणीपतिः ।। सोमलोकान्मयानीता पूजिता जयदा सदा ।। ५४ ।। एवमेताः पश्चिमायामुत्तरस्यामतः शृणु ।। तिस्रो देव्यश्चोत्तरस्यामेकवीरामुखाः स्थिताः ।। ५५ ।। एकवीरेति या देवी साक्षात्सा शिवपूजिता ।। ययाविष्टो जगत्सर्वं संहरत्येष भूतराट् ।। ५६ ।। वीर्येणाद्येकवीरायाः कृत्वा लोकांश्च भस्मसात् ।। युगैकादशपूर्णत्वे विलक्षोऽभूत्स भस्मनि ।। ५७ ।। एवंविधा त्वेकवीरा शक्तिरेषा सनातनी ।। पूजिताराधिता चैव सर्वाभीप्सितदा नृणाम् ।। ।। ५८ ।। ब्रह्मलोकात्समानीता मयाराध्यात्र भारत ।। नामकीर्तनमप्यस्या दुष्टानां घातनं विदुः ।। ५९ ।। द्वितीया हरसिद्ध्याख्या देवी दुर्गा महाबला ।। शीकोत्तरात्समाराध्य मयानीतात्र पांडव ।। 1.2.47.६० ।। यदा शीकोत्तरस्थेन पार्वत्या प्रार्थितेन च ।। रुद्रेण डाकिनीमंत्रः प्रोक्तो देव्याः कृपालुना ।। ६१ ।। तदा मंत्रप्रभावेण मोहिता गिरिजा सती ।। तमेवाक्रम्य मांसं च शोणितं च भवं पपौ ।। ६२ ।। ततो रुद्रशरीरात्तु विनिष्क्रांतार्तिनाशिनी ।। हरसिद्धिर्महादुर्गा महामंत्रविशारदा ।। ६३ ।। सा सहस्रभुजा देवी समाक्रम्याभिपीड्य च ।। मोक्षयामास गिरिशमशापयत तां तथा ।। ६४ ।। ततः प्रभृति सा लोके हरसिद्धिः प्रकीर्त्यते ।। देवीनां षष्टिकोटीभिरावृता पूज्यते सुरैः ।। ६५ ।। एतामाराध्य सुग्रीवप्रमुखा दोषनाशिनीम्।।। अभूवन्त्सुमहावीर्या डाकिनीसंघनाशनाः ।। ६६ ।। तस्मादेतां पूजयेत्तु मनोवाक्कायकर्मभिः ।। डाकिन्याद्या न सर्पंति हरसिद्धेरनंतरम् ।। ६७ ।। तृतीयेशानकोणस्था चंडिका नवमी स्थिता ।। वागीशोऽपि लभेत्पारं नैव यस्याः प्रवर्णने ।। ६८ ।। या पुरा पार्वतीदेहाद्विनिःसृत्य महासुरौ ।। चंडमुंडौ निहत्यैव भक्षयामास क्रोधतः ।। ६९ ।। अक्षौहिणीशतं त्वेकं चंडमुंडौ च तावुभौ ।। नापूर्यतैकग्रासोऽस्याः किंलक्ष्या यात्वियं हि सा ।। 1.2.47.७० ।। इयमेवांधकानां च तृषिता शोणितं पुनः ।। पपौ ततो निजग्राह चांधकं भगवान्भवः ।। ७१ ।। इयं च रक्तबीजानां कृत्वा पानं च रक्तजम् ।। अर्पयामास तं देव्याश्चामुण्डापीतशोणितम् ।। ७२ ।। एषा तृप्यति भक्तानां प्रणामेनापि भारत ।। अर्बुदानां च कोटीभिर्दैत्यानां पापकर्मिणाम् ।। ७३ ।। कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम् ।। यत्र वै स्पर्शमात्रेण सर्वतीर्थफलं लभेत् ।। ७४ ।। हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत ।। विविधा प्राप्यते सिद्धिस्तीर्थेऽस्मिंश्चंडिकारतैः ।। ७५ ।। यश्च पूजयते देवीं स्वल्पेन बहुनापि वा ।। कात्यायनी कोटिशतैर्वृता तस्य विभूतिदा ।। ७६ ।। एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः ।। चतस्रश्चापि दिग्देव्यो नित्यमर्च्याः शुभेप्सुभिः ।।७७।। आश्विनस्य च मासस्य नवरात्रे विशेषतः ।। उपोष्य चैकभक्तैर्वा देवीस्त्वेताः प्रपूजयेत् ।। ७८ ।। बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः ।। तस्य रक्षां चरंत्येता रथ्यासु त्रिकचत्वरे ।। ७९ ।। भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् ।। आपदो विद्रवंत्याशु योगिन्यो नंदयंति तम् ।। 1.2.47.८० ।। पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् ।। रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ८१ ।। आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया ।। सर्वान्कामानवाप्नोति यांश्चिंतयति चेतसि ।। ८२ ।। कामगव्य इमा देव्यश्चिन्तामणिनिभास्तथा ।। कल्पवल्ल्योऽऽथ भक्तानां प्रतिच्छन्दोऽत्र नव हि ।। ८३ ।। तथात्र भूतमातास्ति हरसिद्धेस्तु दक्षिणे ।। तस्या माहात्म्यमतुलं संक्षेपात्प्रब्रवीमि ते ।। ८४ ।। पूर्वं किल गुहो विद्वान्पुण्ये सारस्वते तटे।। भूतप्रेतपिशाचानामाधिराज्येऽभ्यषिच्यत ।। ८५ ।। स च सर्वाणि भूतानि मर्यादायामधारयत् ।। एतदन्नं प्रदायैव कृपया भगवान्गुहः ।। ८६ ।। यदमंत्रहुतं किंचिद्वेदबाह्यं च यत्कृतम् ।। अश्रद्धया च क्रोधेन तद्वस्तृप्त्यै भविष्यति ।। ८७ ।। ततस्त्वनेन भोगेन तानि नंदंति कृत्स्नशः ।। ततः केनापि कालेन श्रद्धयाऽश्रद्धया कृतम् ।। ८८ ।। पुण्यं तान्येव भूतानि ग्रसंत्याक्रम्य देवताः ।। ततो देवाः क्षुधार्त्तास्ते गुहायैतन्न्यवेदयन् ।। ८९ ।। स वै तदाकर्ण्य क्रुद्धो गुहः काल इवाभवत् ।। तस्य क्रुद्धस्य भ्रूपद्ममध्यात्काचिद्विनिर्गता ।। 1.2.47.९० ।। ज्वालामाला सुदुर्दर्शा नारी द्वादशलोचना ।। सा च प्रणम्य तं प्राह तव शक्तिरहं प्रभो ।। शीघ्रमादिश मां कृत्ये किं करोमि तवेप्सितम्।। ९१ ।। ।। स्कन्द उवाच ।। ।। एतैर्भूतगणैः पापैरुल्लंघ्य मम शासनम् ।। ९२ ।। मनुष्यदत्तं सकलं भुज्यते स्वेच्छयाधमैः ।। शीघ्रमेतानि त्वं तस्मान्मर्यादायामुपानय ।। ९३ ।। एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे ।। ततस्तथेति सा चोक्ता देवीभिः संवृता तदा ।। ९४ ।। मयूरं समुपास्थाय गुहशक्तिः समागता ।। सरोजवनमासाद्य भूतसंघानपश्यत ।। ९५ ।। जघान च समासाद्य देवी नानाविधायुधैः ।। ततः प्रेतपिशाचाद्या हन्यमाना महारणे ।। ९६ ।। प्रसादयंति तां देवीं नानावेषैः सुदीनवत् ।। केचिद्ब्राह्मणवेषैश्च तापसानां तथो क्तिभिः ।। ९७ ।। नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः ।। ततः प्रसन्ना सा देवी व्रियतां स्वेच्छयाऽऽह तान् ।। ९८ ।। तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि ।। मर्यादां नैव त्यक्ष्यामो वयं स्कन्दविनिर्मिताम् ।। ९९ ।। ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा ।। 1.2.47.१०० ।। ।। श्रीदेव्युवाच ।। ।। वैशाखे दर्शदिवसे ये चैवं तोषयंति माम् ।। अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः ।। तेषां सर्वोपसर्गा वै यास्यंति विलयं स्फुटम् ।। १०१ ।। एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता ।। एवंप्रभावा सा देवी मयानीतात्र भारत ।। १०२ ।। य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। १०३ ।। एवं प्रभावाः परिकीर्तिता मया समासतस्तीर्थवरेऽत्र देव्यः ।। चतुर्दशैवार्जुन पूजिता याश्चतुर्दशस्थानवरैर्नृमुख्यैः ।। १०४ ।। इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीदेव्याख्यानवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ।। ४७ ।। </span></poem> 0n8l4g5vwcwoaaler8w16perjxvdop5 सदस्यसम्भाषणम्:SHB 3 118041 418586 315537 2026-09-18T02:46:56Z Max 8293 Max इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:SHB2000]] पृष्ठं [[सदस्यसम्भाषणम्:SHB]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/SHB2000|SHB2000]]" का नाम "[[Special:CentralAuth/SHB|SHB]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ 315537 wikitext text/x-wiki <div style="border: 1rem #dd0000 ridge; padding: 0.5em;">Hello! Please message me on [[m:User talk:SHB2000|meta.wikimedia.org]] instead. I may not notice messages on this page.</div> ojy2vkqs676esjrcfi79dwyt0tjr5xc सदस्यसम्भाषणम्:SHB2000 3 165946 418587 2026-09-18T02:46:56Z Max 8293 Max इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:SHB2000]] पृष्ठं [[सदस्यसम्भाषणम्:SHB]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/SHB2000|SHB2000]]" का नाम "[[Special:CentralAuth/SHB|SHB]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ 418587 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:SHB]] d0wpdf4ahdgsze9tkdho2a79z3bmhbl