विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.20
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
विष्णुपुराणम्/चतुर्थांशः/अध्यायः ४
0
7104
418591
418585
2026-09-21T02:27:11Z
Visasank
9788
418591
wikitext
text/x-wiki
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ चतुर्थोऽध्यायः ॥
(सगरस्य अश्वमेधयज्ञः, भगीरथस्य गङ्गानयनम्, रामचरित्रम्)
श्रीपराशर उवाच
काश्यपदुहिता सुमतिः विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्य आस्ताम् ॥१॥
ताभ्यां चापत्यार्थम् और्वः परमेण समाधिनाराधितो वरम् अदात् ॥२॥
“एका वंशकरमेकं पुत्रम्, अपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यताम्” इत्युक्ते केशिनी एकं वरयामास ॥३॥
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥४॥
“तथा” इत्युक्ते अल्पैरहोभिः केशिनी पुत्रम् एकम् असमञ्जसनामानं वंशकरम् असूत ॥५॥
काश्यपतनयायाः तु सुमत्याः षष्टिः पुत्रसहस्रणि अभवन् ॥६॥
तस्मात् असमञ्जसात् अंशुमान् नाम कुमारो जज्ञे ॥७॥
स त्वसमञ्जसो बालो बाल्यादेव असद्वृत्तोऽभूत् ॥८॥
पिता चास्य अचिन्तयत् “अयम् अतीतबाल्यः सुबुद्धिमान् भविष्यति” इति ॥९॥
अथ तत्रापि च वयसि अतीते असच्चरितमेनं पिता तत्याज ॥१०॥
तान्यपि षष्टिः पुत्रसहस्राणि असमञ्जसचरितमेव अनुचक्रुः ॥११॥
ततश्च असमञ्जसचरितानुकारिभिः सागरैः अपध्वस्तयज्ञादिसन्मार्गे जगति देवाः सकलविद्यामयम् असंस्पृष्टम् अशेषदोषैः भगवतः पुरुषोत्तमस्य अंशभूतं कपिलं प्रणम्य तदर्थम् ऊचुः ॥१२॥
“भगवन् एभिः सगरतनयैः असमञ्जसचरितम् अनुगम्यते ॥१३॥
कथमेभिः असद्वृत्तम् अनुसरद्भिः जगद्भविष्यतीति ॥१४॥
अत्यार्तजगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणम्” इत्याकर्ण्य भगवानाह “अल्पैरैव दिनैर्विनङ्क्ष्यन्ति” इति ॥१५॥
अत्रान्तरे च सगरो हयमेधम् आरभत ॥१६॥
तस्य च पुत्रैः अधिष्ठितम् अस्य अश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥१७॥
ततः तत्तनयाश्च अश्वखुरगतिनिर्बन्धेन अवनीम् एकैको योजनं चख्नुः ॥१८॥
पाताले चाश्वं परिभ्रमन्तं तम् अवनीपतितनयास्ते ददृशुः ॥१९॥
नातिदूरेऽवस्थितं च भगवन्तम् अपघने शरत्कालेऽर्कमिव तेजोभिः अवनतमूर्धम् अधश्च अशेषदिशश्च उद्भासयमानं हयहर्त्तारं कपिलर्षिम् अपश्यन् ॥२०॥
ततश्च उद्यतायुधा “दुरात्मायम् अस्मदपकारी यज्ञविघ्नकारी हन्यतां हयहर्त्ता हन्यताम्” इति अवोचन् अभ्यधावंश्च ॥२१॥
ततस्तेनापि भगवता किञ्चित् ईषत्परिवर्त्तितलोचनेन अवलोकिताः स्वशरीरसमुत्थेन अग्निना दह्यमाना विनेशुः ॥२२॥
सगरोऽपि अवगम्य अश्वानुसारि तत्पुत्रबलम् अशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततो अंशुमन्तम् असमञ्जसपुत्रम् अश्वानयनाय युयोज ॥२३॥
स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥२४॥
अथैनं भगवानाह ॥२५॥
“गच्छैनं पितामहाय अश्वं प्रापय, वरं वृणीष्व च, पुत्रक, पौत्राश्च ते स्वर्गाद्गङ्गां भुवम् आनेष्यन्त” इति ॥२६॥
अथांशुमानपि “स्वर्यातानां ब्रह्मदण्डहतानाम् अस्मत्पितॄणाम् अस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरम् अस्माकं प्रयच्छ” इति प्रत्याह ॥२७॥
तदाकर्ण्य तं च भगवानाह “उक्तमेवैतत् मयाद्य पौत्रस्ते त्रिदिवाद्गङ्गां भुवम् आनेयिष्यति” इति ॥२८॥
तदम्भसा च संस्पृष्टेषु अस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ॥२९॥
भगवद्विष्णुपादाङ्गुष्ठनिर्गतस्य हि जलस्य एतन्माहात्म्यम् ॥३०॥
यन्न केवलमभिसन्धिपूर्वकं स्नानाद्युपभोगेषु उपकारकम् अनभिसंहितमपि अपेतप्राणस्य अस्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयति” इत्युक्तः प्रणम्य भवगते, अश्वमादाय पितामहयज्ञम् आजगाम ॥३१॥
सगरोऽपि अश्वमासाद्य तं यज्ञं समापयामास ॥३२॥
सागरं च आत्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥३३॥
तस्यांशुमतो दिलीपः पुत्रोऽभवत् ॥३४॥
दिलीपस्य भगीरथः योऽसौ गङ्गां स्वर्गादिह आनीय भागीरथीसंज्ञां चकार ॥३५॥
भगीरथात् सुहोत्रः सुहोत्रात् श्रुतः, तस्यापि नाभागः ततोऽम्बरीषः, तत्पुत्रः सिन्धुद्वीपः सिन्धुद्वीपात् अयुतायुः ॥३६॥
तत्पुत्रश्च ऋतुपर्णः, योऽसौ नलसहायो अक्षहृदयज्ञोऽभूत् ॥३७॥
ऋतुपर्णपुत्रस्सर्वकामः ३८ ।
तत्तनयस्सुदासः ३९ ।
सुदासात्सौदासो मित्र सहनामा ४० ।
स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत् ४१ ।
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ४२ ।
म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ४३ ।
द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वांतर्धानं जगाम ४४ ।
कालेन गच्छता सौदासो यज्ञमयजत् ४५ ।
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रांते तद्र क्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रांतः ४६ ।
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ४७ असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ४८ ।
आगताय वसिष्ठाय निवेदितवान् ४९ ।
स चाप्यचिंतयदहोस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्र व्यजातमिति ध्यानपरोभवत् ५० ।
अपश्यच्च तन्मांसंमानुषम् ५१ ।
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ५२ ।
यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ५३ ।
अनंतरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ ५४ ।
समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यंतिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ५५ ।
असावपि प्रतिगृह्योदकांजलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयंत्या स्वपत्न्या प्रसादितस्सस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकाशे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ५६ ।
तेन च क्वोधाश्रितेनांबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततस्स कल्माषपादसंज्ञामवाप ५७ ।
वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ५८ ।
एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श ५९ ।
तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्राह ६० ।
ततस्सा ब्राह्मणी बहुशस्तमभियाचितवती ६१ ।
प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः ६२ ।
नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्त्तारं हंतुमित्येवं बहुप्रकारं तस्यां विलपंत्यां व्याघ्रः पशुमिवाऽरण्येऽभिमतं तं ब्राह्मणमभक्षयत् ६३ ।
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ६४ ।
यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तॐतं प्राप्स्यसीति ६५ ।
शप्त्वा चैव साग्निं प्रविवेश ६६ ।
ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयंती तं स्मारयामास ६७ ।
ततः परमसौ स्त्रीभोगं तत्याज ६८ ।
वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयंत्यां गर्भाधानं चकार ६९ ।
यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ७० ।
पुत्रश्चाजायत ७१ ।
तस्य चाश्मक इत्येव नामाभवत् ७२ ।
अश्मस्य मूलको नाम पुत्रोऽभवत् ७३ ।
योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरंति ७४ ।
मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ७५ ।
तस्माच्च खट्वांगः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ७६ ।
स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ७७ ।
यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ७८ ।
अनंतरं च तैरुक्तं मुहूर्त्तमेकं प्रमाणं तवायुरित्युक्तोथास्खलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह ७९ ।
यथा न ब्राह्मणेभ्यस्सकाशादात्मापि मे प्रियतरः न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यश्षोदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ८० ।
अत्रापि श्रूयते श्लोको गीतस्सप्तर्षिभिः पुरा ।
खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति ८१ ।
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् ।
त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि ८२ ।
खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत् ८३ ।
ततो रघुरभवत् ८४ ।
तस्मादप्यजः ८५ ।
अजाद्दशरथः ८६ ।
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांश्नो रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत् ८७ ।
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ८८ ।
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ८९ ।
सुबाहुप्रमुखांश्च क्षयमनयत् ९० ।
दर्शनमात्रेणाहल्यामपापां चकार ९१ ।
जनकगृहे च माहेश्वरं चापमनायासेन बभंज ९२ ।
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ९३ ।
सकलक्षत्त्रियक्षयकारिणमश्षोहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ९४ ।
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ९५ ।
विराधखरदूषणादीन् कबंधवालिनौ च निजघान ९६ ।
बद्धा चांभोनिधिमसेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामश्षोदेवसंघैस्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ९७ ।
ततश्चाभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ९८ ।
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेंयमनिरृतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैस्संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत् ९९ ।
भरतोपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान १०० ।
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता १०१ ।
इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टसंहारिणोश्षोस्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः १०२ ।
येऽपि तेषु भगवदंश्ष्वोनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यतामवापुः १०३ ।
अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ लक्ष्मणस्यांगदचंद्र केतू तक्षपुष्कलौ भरतस्य सुबाहुशूरसेनौ शत्रुघ्नस्य १०४ ।
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् १०५ ।
निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे १०६ ।
तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय १०७ ।
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णस्ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् १०८ ।
योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति १०९ ।
आगामियुगे सूर्यवंशक्षत्रव्रत आवर्त्तयिता भविष्यति ११० ।
तस्यात्मजः प्रशुश्रुकस्तस्यापि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः १११ ।
तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ११२ ।
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः ।
एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ११३ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! चतुर्थोऽध्यायः ४।
</span></poem>।
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]।
2edbtexh9v5vmeun84reemqb9m3fry3