विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.20 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk विष्णुपुराणम्/चतुर्थांशः/अध्यायः ४ 0 7104 418592 418591 2026-09-21T14:54:06Z Visasank 9788 418592 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-चतुर्थांशः}} <poem> ॥ अथ चतुर्थोऽध्यायः ॥ (सगरस्य अश्वमेधयज्ञः, सौदासचरित्रम्, रामचरित्रम्) श्रीपराशर उवाच काश्यपदुहिता सुमतिः विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्य आस्ताम् ॥१॥ ताभ्यां चापत्यार्थम् और्वः परमेण समाधिनाराधितो वरम् अदात् ॥२॥ “एका वंशकरमेकं पुत्रम्, अपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यताम्” इत्युक्ते केशिनी एकं वरयामास ॥३॥ सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥४॥ “तथा” इत्युक्ते अल्पैरहोभिः केशिनी पुत्रम् एकम् असमञ्जसनामानं वंशकरम् असूत ॥५॥ काश्यपतनयायाः तु सुमत्याः षष्टिः पुत्रसहस्रणि अभवन् ॥६॥ तस्मात् असमञ्जसात् अंशुमान् नाम कुमारो जज्ञे ॥७॥ स त्वसमञ्जसो बालो बाल्यादेव असद्वृत्तोऽभूत् ॥८॥ पिता चास्य अचिन्तयत् “अयम् अतीतबाल्यः सुबुद्धिमान् भविष्यति” इति ॥९॥ अथ तत्रापि च वयसि अतीते असच्चरितमेनं पिता तत्याज ॥१०॥ तान्यपि षष्टिः पुत्रसहस्राणि असमञ्जसचरितमेव अनुचक्रुः ॥११॥ ततश्च असमञ्जसचरितानुकारिभिः सागरैः अपध्वस्तयज्ञादिसन्मार्गे जगति देवाः सकलविद्यामयम् असंस्पृष्टम् अशेषदोषैः भगवतः पुरुषोत्तमस्य अंशभूतं कपिलं प्रणम्य तदर्थम् ऊचुः ॥१२॥ “भगवन् एभिः सगरतनयैः असमञ्जसचरितम् अनुगम्यते ॥१३॥ कथमेभिः असद्वृत्तम् अनुसरद्भिः जगद्भविष्यतीति ॥१४॥ अत्यार्तजगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणम्” इत्याकर्ण्य भगवानाह “अल्पैरैव दिनैर्विनङ्क्ष्यन्ति” इति ॥१५॥ अत्रान्तरे च सगरो हयमेधम् आरभत ॥१६॥ तस्य च पुत्रैः अधिष्ठितम् अस्य अश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥१७॥ ततः तत्तनयाश्च अश्वखुरगतिनिर्बन्धेन अवनीम् एकैको योजनं चख्नुः ॥१८॥ पाताले चाश्वं परिभ्रमन्तं तम् अवनीपतितनयास्ते ददृशुः ॥१९॥ नातिदूरेऽवस्थितं च भगवन्तम् अपघने शरत्कालेऽर्कमिव तेजोभिः अवनतमूर्धम् अधश्च अशेषदिशश्च उद्भासयमानं हयहर्त्तारं कपिलर्षिम् अपश्यन् ॥२०॥ ततश्च उद्यतायुधा “दुरात्मायम् अस्मदपकारी यज्ञविघ्नकारी हन्यतां हयहर्त्ता हन्यताम्” इति अवोचन् अभ्यधावंश्च ॥२१॥ ततस्तेनापि भगवता किञ्चित् ईषत्परिवर्त्तितलोचनेन अवलोकिताः स्वशरीरसमुत्थेन अग्निना दह्यमाना विनेशुः ॥२२॥ सगरोऽपि अवगम्य अश्वानुसारि तत्पुत्रबलम् अशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततो अंशुमन्तम् असमञ्जसपुत्रम् अश्वानयनाय युयोज ॥२३॥ स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥२४॥ अथैनं भगवानाह ॥२५॥ “गच्छैनं पितामहाय अश्वं प्रापय, वरं वृणीष्व च, पुत्रक, पौत्राश्च ते स्वर्गाद्गङ्गां भुवम् आनेष्यन्त” इति ॥२६॥ अथांशुमानपि “स्वर्यातानां ब्रह्मदण्डहतानाम् अस्मत्पितॄणाम् अस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरम् अस्माकं प्रयच्छ” इति प्रत्याह ॥२७॥ तदाकर्ण्य तं च भगवानाह “उक्तमेवैतत् मयाद्य पौत्रस्ते त्रिदिवाद्गङ्गां भुवम् आनेयिष्यति” इति ॥२८॥ तदम्भसा च संस्पृष्टेषु अस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ॥२९॥ भगवद्विष्णुपादाङ्गुष्ठनिर्गतस्य हि जलस्य एतन्माहात्म्यम् ॥३०॥ यन्न केवलमभिसन्धिपूर्वकं स्नानाद्युपभोगेषु उपकारकम् अनभिसंहितमपि अपेतप्राणस्य अस्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयति” इत्युक्तः प्रणम्य भवगते, अश्वमादाय पितामहयज्ञम् आजगाम ॥३१॥ सगरोऽपि अश्वमासाद्य तं यज्ञं समापयामास ॥३२॥ सागरं च आत्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥३३॥ तस्यांशुमतो दिलीपः पुत्रोऽभवत् ॥३४॥ दिलीपस्य भगीरथः योऽसौ गङ्गां स्वर्गादिह आनीय भागीरथीसंज्ञां चकार ॥३५॥ भगीरथात् सुहोत्रः सुहोत्रात् श्रुतः, तस्यापि नाभागः ततोऽम्बरीषः, तत्पुत्रः सिन्धुद्वीपः सिन्धुद्वीपात् अयुतायुः ॥३६॥ तत्पुत्रश्च ऋतुपर्णः, योऽसौ नलसहायो अक्षहृदयज्ञोऽभूत् ॥३७॥ ऋतुपर्णपुत्रः सर्वकामः ॥३८॥ तत्तनयः सुदासः ॥३९॥ सुदासात् सौदासो मित्रसहनामा ॥४०॥ स च अटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयम् अपश्यत् ॥४१॥ ताभ्यां तद्वनम् अपमृगं कृतं मत्वा एकं तयोः बाणेन जघान ॥४२॥ म्रियमाणः च असौ अतिभीषणाकृतिः अतिकरालवदनो राक्षसोऽभूत् ॥४३॥ द्वितीयोऽपि “प्रतिक्रियां ते करिष्यामि” इत्युक्त्वा अन्तर्धानं जगाम ॥४४॥ कालेन गच्छता सौदासो यज्ञमयजत् ॥४५॥ परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्रक्षो वसिष्ठरूपम् आस्थाय “यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणात् आगमिष्यामि” इत्युक्त्वा निष्क्रान्तः ॥४६॥ भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥४७॥ असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ॥४८॥ आगताय वसिष्ठाय निवेदितवान् ॥४९॥ स चाप्यचिन्तयत् “अहो अस्य राज्ञो दौश्शील्यं येन एतन्मांसम् अस्माकं प्रयच्छति किमेतद्द्रव्यजातम्” इति ध्यानपरोऽभवत् ॥५०॥ अपश्यच्च तन्मांसं मानुषम् ॥५१॥ अतः क्रोधकलुषीकृतचेता राजनि शापमुत्ससर्ज ॥५२॥ “यस्मात् अभोज्यमेतत् अस्मद्विधानां तपस्विनाम् अवगच्छन्नपि भवान् मह्यं ददाति तस्मात् तवैवात्र लोलुपता भविष्यति” इति ॥५३॥ अनन्तरं च तेनापि “भगवता एवाभिहितो अस्मि” इत्युक्ते “किं किं मयाभिहितम्” इति मुनिः पुनरपि समाधौ तस्थौ ॥५४॥ समाधिविज्ञानावगतार्थः च अनुग्रहं तस्मै चकार “नात्यन्तिकम् एतत् द्वादशाब्दं तव भोजनं भविष्यति” इति ॥५५॥ असावपि प्रतिगृह्योदकाञ्जलिं मुनिशापप्रदानाय उद्यतो “भगवन् अयम् अस्मद्गुरुः नार्हसि एनं कुलदेवताभूतम् आचार्यं शप्तुम्” इति मदयन्त्या स्वपत्न्या प्रसादितः । शस्याम्बुदरक्षणार्थं तच्छापाम्बु नोर्व्यां न चाकाशे चिक्षेप, किं तु तेनैव स्वपादौ सिषेच ॥५६॥ तेन च क्रोधाश्रितेनाम्बुना दग्धच्छायौ तत्पादौ कल्माषताम् उपगतौ ततः स कल्माषपादसंज्ञाम् अवाप ॥५७॥ वसिष्ठशापाच्च षष्ठे षष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन् अनेकशो मानुषान् अभक्षयत् ॥५८॥ एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श ५९ । तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्राह ६० । ततस्सा ब्राह्मणी बहुशस्तमभियाचितवती ६१ । प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः ६२ । नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्त्तारं हंतुमित्येवं बहुप्रकारं तस्यां विलपंत्यां व्याघ्रः पशुमिवाऽरण्येऽभिमतं तं ब्राह्मणमभक्षयत् ६३ । ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ६४ । यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तॐतं प्राप्स्यसीति ६५ । शप्त्वा चैव साग्निं प्रविवेश ६६ । ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयंती तं स्मारयामास ६७ । ततः परमसौ स्त्रीभोगं तत्याज ६८ । वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयंत्यां गर्भाधानं चकार ६९ । यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ७० । पुत्रश्चाजायत ७१ । तस्य चाश्मक इत्येव नामाभवत् ७२ । अश्मस्य मूलको नाम पुत्रोऽभवत् ७३ । योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरंति ७४ । मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ७५ । तस्माच्च खट्वांगः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ७६ । स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ७७ । यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ७८ । अनंतरं च तैरुक्तं मुहूर्त्तमेकं प्रमाणं तवायुरित्युक्तोथास्खलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह ७९ । यथा न ब्राह्मणेभ्यस्सकाशादात्मापि मे प्रियतरः न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यश्षोदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ८० । अत्रापि श्रूयते श्लोको गीतस्सप्तर्षिभिः पुरा । खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति ८१ । येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् । त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि ८२ । खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत् ८३ । ततो रघुरभवत् ८४ । तस्मादप्यजः ८५ । अजाद्दशरथः ८६ । तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांश्नो रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत् ८७ । रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ८८ । यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ८९ । सुबाहुप्रमुखांश्च क्षयमनयत् ९० । दर्शनमात्रेणाहल्यामपापां चकार ९१ । जनकगृहे च माहेश्वरं चापमनायासेन बभंज ९२ । सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ९३ । सकलक्षत्त्रियक्षयकारिणमश्षोहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ९४ । पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ९५ । विराधखरदूषणादीन् कबंधवालिनौ च निजघान ९६ । बद्धा चांभोनिधिमसेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामश्षोदेवसंघैस्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ९७ । ततश्चाभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ९८ । लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेंयमनिरृतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैस्संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत् ९९ । भरतोपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान १०० । शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता १०१ । इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टसंहारिणोश्षोस्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः १०२ । येऽपि तेषु भगवदंश्ष्वोनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यतामवापुः १०३ । अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ लक्ष्मणस्यांगदचंद्र केतू तक्षपुष्कलौ भरतस्य सुबाहुशूरसेनौ शत्रुघ्नस्य १०४ । कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् १०५ । निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे १०६ । तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय १०७ । हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णस्ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् १०८ । योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति १०९ । आगामियुगे सूर्यवंशक्षत्रव्रत आवर्त्तयिता भविष्यति ११० । तस्यात्मजः प्रशुश्रुकस्तस्यापि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः १११ । तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ११२ । एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः । एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ११३ । इति श्रीविष्णुमहापुराणे चतुर्थांशो! चतुर्थोऽध्यायः ४। </poem>। [[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]। qb7ekkp4wm564yvxulc9hbaour75sbw दशरूपकम्/प्रथमः परिच्छेदः 0 14197 418593 234042 2026-09-21T15:10:17Z ~2026-50943-06 10755 418593 wikitext text/x-wiki {{header | title = दशरूपकम् | author = | translator = | section = प्रथमः प्रकाश | previous = | next = [[दशरूपकम्/द्वितीयः प्रकाश|द्वितीयः प्रकाश]] | year = | notes = }} नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १.१ ॥
दशरूपानुकारेण यस्य माद्यन्ति भावकः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ १.२ ॥
कस्यचिदेव कदाचिद् दयया विषयं सरस्वती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥ १.३ ॥
उद्धृत्योद्धृत्य सारं यमखिलनिगमान् नाट्यवेदं विरिञ्चिश्
चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किन्तु किञ्चित् प्रगुणरचनया लक्षणं सङ्क्षिपामि ॥ १.४ ॥
व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।
तस्यार्थस्तत्पदैस्तेन सङ्क्षिप्य क्रियतेऽञ्जसा ॥ १.५ ॥
आनन्दनिस्यन्दिषु रूपकेषु
व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्
तस्मै नमः स्वादुपराङ्मुखाय ॥ १.६ ॥
अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते ।
रूपकं तत् समारोपाद् दशधैव रसाश्रयम् ॥ १.७ ॥
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ १.८ ॥
अन्यद भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् ।
आद्यं पदार्थाभिनयो मार्गो देशो तथा परम् ॥ १.९ ॥
मधुरोद्धतभेदेन तद् द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १.१० ॥
वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा ।
तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ १.११ ॥
अधिकारः फलस्वाम्यमधिकारो च तत्प्रभुः ।
तन्निरवर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ १.१२ ॥
प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १.१३ ॥
प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
सानुबन्धं तुल्यसंविधानविशेषणम् ॥ १.१४ ॥
प्रख्यातोत्पाद्यमिश्रत्वभेदात् त्रेधापि तत् त्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ।
मिश्रं च सङ्करात् ताभ्यां दिव्यनर्त्यादिभेदतः ॥ १.१५ ॥
कार्यं त्रिवर्गस्तत् शुद्धमेकानेकानुबन्धि च ।
स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ १.१६ ॥
बीजबिन्दुपताकाख्यप्रकरोकार्यलक्षणाः ।
अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ १.१७ ॥
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १.१८ ॥
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ १.१९ ॥
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ।
अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ।
समग्रफलसम्पत्तिः फलयोगो यथोदितः ॥ १.२० ॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ॥ १.२१ ॥
अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।
मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ॥ १.२२ ॥
मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ १.२३ ॥
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥ १.२४ ॥
बीजन्यासस् उपक्षेपः तद्बाहुल्यं परिक्रिया ।
तन्न्निष्पत्तिः परिन्यासो गुणाख्यानाद् विलोभनम् ॥ १.२५ ॥
सम्प्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः ।
बीजागमः समाधानं विधानं सुखदुःखकृत् ॥ १.२६ ॥
परिभावोद्भुतावेश उद्भेदो गूढभेदनम् ।
करणं प्रकृतारम्भो भेदः प्रोत्साहना मता ॥ १.२७ ॥
लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ १.२८ ॥
विलासः परिसर्पश्च विधूतं शमनर्मणो ।
नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् ॥ १.२९ ॥
वज्रं पुष्पमुपन्याप्तो वर्ण संहार इत्यपि ।
रत्यर्थेहा विलासः स्याद् दृष्टनष्टानुसर्पणम् ।
परिसर्पा विधूतं स्यादरतिस्तच्छमः शमः ॥ १.३० ॥
परिहासवत्तो नर्म धृतिस्तज्जा द्युतिर्मता ।
उत्तरा वाक् प्रगयणं हितरोधो निरोधनम् ॥ १.३१ ॥
पर्युपास्तिरनुनयः पुष्पं वाक्यं विशेषवत् ।
उपन्यासस्तु सोपायं वज्रं प्रत्यक्षनिष्ठुरम् ।
चातुर्वर्णोपगमनं वर्णसंहार इष्यते ॥ १.३२ ॥
गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान् न वा स्यात् प्राप्तिसम्भवः ॥ १.३३ ॥
अभूताहरणं मार्गा रूपोदाहरणे क्रमः ।
सङ्गहश्चानुमानं च तोटकाधिवले तथा ॥ १.३४ ॥
उद्वेगसम्भ्रमाक्षेपा लक्षणं च प्रणीयते ।
अभूताहरणं छद्म मार्गस्तत्त्वार्थकीर्तनम् ॥ १.३५ ॥
रूपं वितर्कवद् वाक्यं सोत्कर्षं स्यादुदाहृतिः ।
क्रमः सञ्चिन्त्यमानाप्तिर् भावज्ञानमथापरे ॥ १.३६ ॥
सङ्ग्रहः सामदानोक्तिर् अभ्यूहो लिङ्गतोऽनुमा ।
अधिवलमभिसन्धिः संरब्धं तोटकं वचः ॥ १.३७ ॥
उद्वेगोऽरिछ(?)ता भीतिः शङ्कात्रासौ च सम्भ्रमः ।
गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ १.३८ ॥
क्रोधेनावमृशेद् यत्र व्यसनाद् या विलोभनात् ।
गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽङ्गसङ्गहः ॥ १.३९ ॥
तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः ।
द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् ।
प्रयोचना विचलनमादानं च तर्योदश ॥ १.४० ॥
दोषप्रख्यापवादः स्यात् सम्फेटो रोषभाषणम् ।
विद्रवो वधबन्धादिर् द्रवो गुरुतिरस्कृतिः ॥ १.४१ ॥
विरोधशमनं शक्तिस्तर्जनोद्वेजने द्युतिः ।
गुरुकीर्तनं प्रसङ्गश्छलनं चावमाननम् ॥ १.४२ ॥
व्यवसायः खशक्त्युक्तिः संरब्धानां विरोधनम् ।
सिद्धामन्त्रणतो भाविदर्शिका स्यात् प्रयोचना ।
विकत्थना विचलनम् आदानं कार्यसङ्ग्रहः ॥ १.४३ ॥
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ १.४४ ॥
सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृतिभाषोपगूहनाः ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ १.४५ ॥
सन्धिर्बीजोपगमनं विबोधः कार्यमार्गणम् ।
ग्रथनं तदुपक्षेपो ऽनुभूताख्या तु निर्णयः ॥ १.४६ ॥
परिभाषा मिथो जल्पः प्रसादः पर्युपासनम् ।
आनन्दो वाञ्छितावाप्तिः समयो दुःखनिर्गमः ॥ १.४७ ॥
कृतिर्लब्धार्थशमनं मानाद्याप्तिश्च भाषणम् ।
कार्यदृष्ट्यद्भुतप्राप्तो पूर्वभावोपगूहने ।
वराप्तिः काव्यसंहारः प्रशस्तिः शुभशंसनम् ॥ १.४८ ॥
इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् ।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ १.४९ ॥
द्वेधा विभागः कर्तव्यः सर्वस्यापोह वस्तुनः ।
सूच्यमेव भवेत् किञ्चिद् दृश्यश्रव्यमथापरम् ॥ १.५० ॥
नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः ।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ १.५१ ॥
अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् ।
विष्कम्भचूलिकाङ्गास्याङ्कावतारप्रवेशकैः ॥ १.५२ ॥
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।
एकानेककृतः शुद्धः सङ्कीर्णो नीचमध्यमैः ॥ १.५३ ॥
तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ।
प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ॥ १.५४ ॥
अन्तर्यवनिकासंस्थैश्चूलिकार्थस्य सूचना ।
अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ॥ १.५५ ॥
अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ।
एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥ १.५६ ॥
नाट्यधर्ममपेक्ष्यैतत् पुनर्वस्तु त्रिधेष्यते ।
सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ॥ १.५७ ॥
सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ।
द्विधान्यन् नाट्यधर्माख्यं जनान्तमपवारितम् ॥ १.५८ ॥
त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ।
अन्योन्यामन्त्रणं यत् स्याज् जनान्ते तज् जनान्तिकम् ।
रहस्यं कथ्यते ऽन्यस्य परावृत्त्यापवारितम् ॥ १.५९ ॥
किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानक्तमप्येकस्तत् स्यादाकाशमापितम् ॥ १.६० ॥
इत्याद्यशेषमिह वस्तुविभेदजातं
रामायणादि च विभाव्य बृहत्कथां च ।
आसूत्रयेत् तदनु नेतृरसानुगुण्याच्
चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ १.६१ ॥
7donlax0f5bfk15h3sz4aqlamcutuvb