विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.22 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk विक्रमोर्वशीयम्/प्रथमः अङ्कः 0 60702 418672 418652 2026-09-30T06:17:00Z शशाङ्कः सि जि 10187 418672 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = प्रथमोऽङ्कः | previous = | next = [[../द्वितीयोऽङ्कः|द्वितीयोऽङ्कः]] | notes = }} {{center|{{bold|प्रथमोऽङ्कः}}}}
{{bold|<poem>वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते सः स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः ॥ १ ॥</poem>}} (नान्द्यन्ते)
{{bold|सूत्रधारः -}} अलमतिविस्तरेण ।
{{bold|सूत्रधारः -}} (नेपथ्याभिमुखमवलोक्य,) मारिष ! इतस्तावत् ।
{{bold|पारिपार्श्वकः -}} भाव ! अयमस्मि ।
{{bold|सूत्रधारः -}} मारिष ! परिषदेषा पूर्वेषां कवीनां दृष्टरसप्रबन्धा अहमस्यां कालिदासग्रथितवस्तुना नवेन त्रोटकेन उपस्थास्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु पाठेषु अवहितं भवितव्यमिति ॥
{{bold|पारिपार्श्वकः -}} यथाज्ञापयति भावः । (इति निष्कान्तः ।)
{{bold|सूत्रधारः -}} (प्रणिपत्य,) यावदिदानीमार्यविदग्धमिश्रान् विज्ञापयामि ।
{{bold|<poem>प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् । शृणुत जना अवधानात् क्रियामिमां कालिदासस्य ॥ २ ॥</poem>}} (नेपथ्ये) अज्जा, परित्ताअध पस्य मुअथ । जो सुरपक्खवादी, जस्स वा अम्बरअले गईअत्थि । [आर्याः परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्य वाऽम्बरतले गतिरस्ति]
{{bold|सूत्रधारः -}} (कर्णं दत्त्वा ।) अये ! किं नु खलु मद्विज्ञापनान्तरमार्तानां कुररीणामिवाकाशे शब्दः ।
{{bold|<poem>मत्तानां कुसुमरसेन षट्पदानां शब्दोऽयं परभृतनाद एष धीरः । आकाशे सुरगणसेविते समन्तात् किं नार्यः कलमधुराक्षरं प्रगीताः ॥ ३ ॥</poem>}} {{bold|सूत्रधारः -}} (विचिन्त्य,) भवतु । ज्ञातम् ।
{{bold|<poem>ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री कैलासनाथमनुसृत्य निवर्तमाना । बन्दीकृता विबुधशत्रुभिरर्धमार्गे क्रन्दत्यतः करुणमप्सरसां गणोऽयम् ॥ ४ ॥</poem>}} (इति निष्क्रान्तः ।)
{{bold|प्रस्तावना ।}}
(ततः प्रविशन्त्यप्सरसः ।)
{{bold|अप्सरसः -}} अज्जा परित्ताअध परित्ताअध । जो सुरपक्खपादि जस्स अम्वरअले गईअस्थि । [आर्याः ! परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्याम्बरतले गतिरस्ति ।]
(ततः प्रविशति अपटीक्षेपेण राजा रथेन सूतश्च ।)
{{bold|राजा -}} अलमाक्रन्दितेन । सूर्योपस्थाननिवृत्तं पुरूरवसं मामेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति ।
{{bold|रम्भा -}} असुरावलेपादो । [असुरावलेपतः ।]
{{bold|राजा -}} किं पुनरसुरावलेपेन भवतीनामपराद्धम् ।
{{bold|रम्भा -}} सुणादु महाराओ । जा तवोविसेससङ्किदस्स सुउमारं पहअणं महेन्दस्स, पञ्चादेसो रूवगव्विदाए सिरिगोरिए, अलंकारो सग्गस्स, सा णो पिअसही उव्वसी कुवेरभवणादो वित्तमाणा केणावि दाणवेण चित्तलेहादुदीआ अद्धपथं ज्जेव बन्दिग्गाहं गिहिदा [शृणोतु महाराजः । या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य प्रत्यादेशो रूपगर्वितायाः श्रीगौर्याः, अलङ्कारः सर्गस्य सा नः प्रियसखी उर्वशी कुबेरभवनान्निवर्तमाना केनापि दानवेन चित्रलेखाद्वितीया अर्धपथ एव बन्दिग्राहं गृहीता ।]
{{bold|राजा -}} अपि ज्ञायते कतमेन दिग्विभागेन गतः स जाल्मः ?
{{bold|अप्सरसः -}} इसाणीए दिसाए । [ऐशान्या दिशा ।]
{{bold|राजा -}} तेन हि मुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय ।
{{bold|अप्सरसः -}} सरिसं एवं सोमवंससंभवस्स । [सदृशमेतत्सोमवंशसम्भवस्य ।]
{{bold|राजा -}} क्व पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।
{{bold|अप्सरसः –}} एदस्सिं हेमकूडसिहरे । [एतस्मिन् हेमकूटशिखरे ।]
{{bold|राजा -}} सूत ! ऐशानीं दिशं चोदयाश्वानाशुगमनाय ।
{{bold|सूतः -}} यदाज्ञापयत्यायुष्मान् । ( इति यथोक्तं करोति ।)
{{bold|राजा -}} (रथवेगं रूपयित्वा) साधु साधु । अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमपि आसादयेयम्, किंपुनस्तमपकारिणं मघोनः । मम -
{{bold|<poem>अग्रे यान्ति रथस्य रेणुपदवीं चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारावलीम् । चित्रारम्भविनिश्चलं हरिशिरस्यायामवच्चामरं यन्मध्ये समवस्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥५॥</poem>}} (निष्क्रान्तो रथेन राजा सूतश्च)
{{bold|सहजन्या -}} हला ! गदो राएसी । ता अम्हे वि जधासंदिट्टं पदेसं गच्छम्ह । [हला ! गतो राजर्षिः, तद्वयमपि यथासन्दिष्टं प्रदेशं गच्छामः ।]
{{bold|मेनका -}} सहि ! एव्वं करेम्ह । [सखि ! एवं कुर्मः ।]
(इति हेमकूटशिखरे नाट्येनाधिरोहन्ति ।)
{{bold|रम्भा -}} अवि णाम सो राएसी उद्धरदि णो हिअअसल्लम् ? [अपि नाम स राजर्षिः उद्धरिष्यति नो हृदयशल्यम् ?]
{{bold|मेनका -}} सहि, मा दे संसओ भोदु । [सखि ! मा ते संशयो भवतु ।]
{{bold|रम्भा -}} णं दुज्जआ दाणवा । [ननु दुर्जया दानवाः ।]
{{bold|मेनका -}} उवट्ठिदसम्पराओ महिन्दो वि मज्झमलोआदो सवहुमाणं आणाविअ तं एव्व विबुधविजआअ सेणामुहे णिओजेदि । [उपस्थितसम्परायो महेन्द्रोऽपि मध्यमलोकतः सबहुमानमानाय्य तमेव विबुधविजयाय सेनामुखे नियुङ्क्ते ।]
{{bold|रम्भा -}} सव्वा विअई भोदु । [सर्वथा विजयी भवतु ।]
{{bold|मेनका -}} (क्षणमात्रं स्थित्वा) हला ! समस्सस समस्सस [हला ! समाश्वसिहि समाश्वसिहि ।] एस उल्लसिदहरिणकेदणो तस्स राएसिणो सोमदत्तो रहो दीसदी; ण एसो अकिदत्थो पडिणिउत्तिस्सदि त्ति तक्केमि । [एष उल्लसितहरिणकेतनस्तस्य राजर्षेः सोमदत्तो रथो दृश्यते; नैषोऽकृतार्थः प्रतिनिवर्तिष्यत इति तर्कयामि ।]
(निमित्तं सूचयित्वा अवलोकयन्त्यः स्थिताः ।)
(ततः प्रविशति रथारूढो राजा सूतश्च । भयनिमीलिताक्षी चित्रलेखा दक्षिणहस्तावलम्बिता उर्वशी च ।)
{{bold|चित्रलेखा -}} सहि ! समस्सस समस्सस । [सखि ! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} सुन्दरि ! समाश्वसिहि—
{{bold|<poem>गतं भयं भीरु सुरारिसम्भवं त्रिलोकरक्षी महिमा हि वज्रिणः । तदेतदुन्मीलय चक्षुरायतं निशावसाने नलिनीव पङ्कजम् ॥ ६ ॥</poem>}} {{bold|चित्रलेखा —}} अम्महे ! कहं उस्ससिदमेत्तसंभाविदजीविदा अज्ज वि एसा सण्णं ण पडिवज्जदि ? [कथमुच्छ्वसितमात्रसम्भावितजीविता अद्यापि एषा संज्ञां न प्रतिपद्यते ?]
{{bold|राजा -}} बलवदत्र ते सखी त्रस्ता । तथाहि-
{{bold|<poem>मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यते हृदयकम्पः । मुहरुच्छ्वसता मध्ये परिणाहवतोः पयोधरयोः ॥ ७ ॥</poem>}} {{bold|चित्रलेखा -}} (सकरुणम्) हला उव्वसि ! पज्जवत्थावेहि अत्ताणम् अणच्छरा विअ पडिभासि । [हला उर्वशि ! पर्यवस्थापयात्मानम्, अनप्सरेव प्रतिभासि ।]
{{bold|राजा -}} {{bold|<poem>मुञ्चति न तावदस्या भयकम्पः कुसुमकोमलं हृदयम् । सिचयान्तेन कथञ्चित्स्तनमध्योच्छ्वासिना कथितः ॥ ८ ॥</poem>}} (उर्वशी प्रत्यागच्छति ।) {{bold|राजा -}} (सहर्षम्) चित्रलेखे ! दिष्ट्या वर्धसे । प्रकृतिमापन्ना ते प्रियसखी । पश्य —
{{bold|<poem>आविर्भूते शशिनि तमसा रिच्यमानेव रात्रिः नैस्याचितभुज व च्छिन्नभूष्टिमा । मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना गङ्गा रोधःपतनकलुपा गच्छतीव प्रसादम् ॥ ९ ॥</poem>}} {{bold|चित्रलेखा -}} सहि उवसि ! वीसद्धा भव । आवण्णाणुकम्पिणा महाराण पडिहदा क्खु दे तिसपरिवन्थिणो हवासा दाणवा । [सखि उर्वशि ! विश्रब्धा भव । आपन्नानुकम्पिना महाराजेन प्रतिहताः खलु ते त्रिदशपरिपन्थिनो हताशा दानवाः ।]
{{bold|उर्वशी -}} (चक्षुषी उन्मील्य) किं पहावदंसिणा नहिन्देण अम्भुवपहम्हि । [किं प्रभावदर्शिना महेन्द्रेणाभ्युपपन्नास्मि ?]
{{bold|चित्रलेखा -}} ण महिन्द्रेण, महिन्दसरिसाणुभावेण राएसिणा पुरूरवसेण । [न महेन्द्रेण, महेन्द्रसदृशानुभावेन राजर्षिणा पुरूरवसा ।]
{{bold|उर्वशी -}} (राजानमवलोक्यात्मगतम्) उवकिदं क्खु दाणवेन्दसंरम्भेण । [उपकृतं खलु दानवेन्द्रसंरम्भेण ।]
{{bold|राजा -}} (उर्वशीमवलोक्यात्मगतम्) स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसम्भवामिमां विलोक्य त्रीडिताः सर्वा अप्सरस इति । अथवा नेयं तपस्विनः सृष्टिरित्यवैमि । कुतः — {{bold|<poem>अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विपयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १० ॥</poem>}} {{bold|उर्वशी –}} हला चित्तलेहे ! सहीअणो कहिं क्खु भवे ? [हला चित्रलेखे ! सखीजनः कुत्र खलु भवेत् ?]
{{bold|चित्रलेखा -}} सहि ! अभअप्पदाई महाराओ जाणादि । [सखि ! अभयप्रदायी महाराजो जानाति ।]
{{bold|राजा -}} (उर्वशीं विलोक्य) महति विपादे वर्तते सखीजनः । पश्यतु भवती - {{bold|<poem>यदृच्छया त्वं सकृदप्यवन्ध्ययोः पथि स्थिता सुन्दरि ! यस्य नेत्रयोः । त्वया विना सोऽपि समुत्सुको भवेत्सखीजनस्ते किमुतार्द्रसौहृदः ॥ ११ ॥</poem>}} {{bold|उर्वशी -}} (आत्मगतम्) अमिअं क्खु दे वअणम् [अमृतं खलु ते वचनम्] अहवा चन्द्रादो अमिति किं अच्चरिअम् [अथवा चन्द्रादमृतमिति किमाश्वर्यम्] (प्रकाशम्) अदो एव मे पेक्खिदुं तुवरदि हिअअम् । [अतएव मे प्रेक्षितुं त्वरते हृदयम् ।]
{{bold|राजा -}} (हस्तेन दर्शयन्) {{bold|<poem>एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः । उत्सुकनयना लोकाश्चन्द्रमिवोपप्लवान्मुक्तम् ॥ १२ ॥</poem>}} (उर्वशी साभिलाषं पश्यति ।)
{{bold|चित्रलेखा -}} हला ! किं पेक्खसि ? [हला ! किं प्रेक्षसे ?]
{{bold|उर्वशी -}} णं समदुक्खगदो पीवीअदि लोअणेहिं । [ननु समदुःखगतः पीयते लोचनाभ्याम् ।]
{{bold|चित्रलेखा -}} (सस्मितम्) अई को ? [अयि कः ?]
{{bold|उर्वशी -}} णं पणईअणो । [ननु प्रणयिजनः ।]
{{bold|रम्भा -}} (सहर्षमवलोक्य) हला ! चित्तलेहादुदीअं पिअसहीं उव्वसीं गेव्हिअ विसाहासहिदो विअ भअवं सोमो समुवट्टिदो राएसी दीसदी । [हला ! चित्रलेखाद्वितीयां प्रियसखीमुर्वशीं गृहीत्वा विशाखासहित इव भगवान् सोमः समुपस्थितो राजर्षिर्दृश्यते ।]
{{bold|मेनका –}} (निर्वर्ण्य) हला ! दुवे वि णो एत्थ पिआ उवगदा । इअं पच्चाणीदा पिअसही, अअं च अपरिक्खदुसरीरो राएसी दीसदी । [हला ! द्वे अपि नोऽत्र प्रिये उपनते, इयं प्रत्यानीता प्रियसखी, अयञ्चापरिक्षतशरीरो राजर्षिर्दृश्यते ।]
{{bold|सहजन्या -}} सहि ! जुत्तं भणासि दुज्जओ दाणओ त्ति । [सखि ! युक्तं भणसि दुर्जयो दानवः इति ।]
{{bold|राजा -}} सूत, इदं तच्छैलशिखरम् । अवतारय रथम् ।
{{bold|सूतः -}} यदाज्ञापयत्यायुष्मान् । (इति तथा करोति ।)
(उर्वशी रथावतारक्षोभं नवन्ती नत्रानं राजानमवलम्बते)
{{bold|राजा -}} (स्वगतम्) हन्त ! सफलो मे विपयावतारः - {{bold|<poem>यदिदं रथसंक्षोभादङ्गेनाङ्गं ममायतेक्षणया । स्पृष्टं सरोमकण्टकमङ्कुरितं मनसिजेनेव ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} हला ! किं वि परदो ओसर । [हला ! किमपि परतः अपसर ।]
{{bold|चित्रलेखा -}} णाहं सक्केमि । [नाहं शक्नोमि ।]
{{bold|रम्भा -}} एत्थ पिअआरिणं संभावेन्ह राएसिं । [अत्र प्रियकारिणं सम्भावयामो राजर्षिम् ।] (सर्वा उपसर्पन्ति ।)
{{bold|राजा -}} सूत ! उपश्लेषय रथम् - {{bold|<poem>यावत्पुनरियं सुश्रूरुत्सुकाभिः समुत्सुका । सखीभिर्याति सम्पर्क लताभिः श्रीरिवार्तवी ॥ १४ ॥</poem>}} (सूतो रथं स्थापयति ।)
{{bold|अप्सरसः -}} दिट्ठि महाराओ विजएण वहृदि । [दिष्ट्या महाराजो विजयेन वर्धते ।]
{{bold|राजा -}} भवत्यश्च सखीसमागमेन ।
{{bold|उर्वशी -}} (चित्रलेखादत्तहस्तावलम्बा रथादवतीर्य) हला ! अधिअं परि- सजह । ण क्खु मे आसी आसासो जहा पुणो वि सहीअणं पेक्खिरसं त्ति । [हला ! अधिकं परिष्वजथ, न खलु मे आसीदा- वास यथा पुनरपि सखीजनं प्रेक्षिष्ये इति ।]
(सख्यः परिष्वजन्ते ।)
{{bold|मेनका -}} (साशंसम्) सव्वहा कप्पसदं महाराओ पुहविं पालअन्तो होदु । [सर्वथा कल्पशतं महाराजः पृथ्वीं पालयन् भवतु ।]
{{bold|सूतः -}} आयुष्मन् ! पूर्वस्यां दिशि महता रथवेगेन् उपदर्शितः शब्दः ।
{{bold|<poem>अयञ्च गगनात्कोऽपि तप्तचामीकराङ्गदः । अधिरोहति शैलानं तडित्वानिव तोयदः ॥ १५ ॥</poem>}} {{bold|अप्सरसः -}} (पश्यन्त्यः) अम्मो, चित्तरहो । [अहो चित्ररथः ।]
(ततः प्रविशति चित्ररथः ।) {{bold|चित्ररथः -}} (राजानं दृष्ट्वा सबहुमानम्) दिष्ट्या महेन्द्रोपकारपर्या न विक्रममहिम्ना वर्धते भवान् ।
{{bold|राजा -}} अये गन्धर्वराजः ! (रथादवतीर्य) स्वागतं प्रियसुहृदे । (परस्परं हस्तौ स्पृशतः ।)
{{bold|चित्ररथः -}} वयस्य ! केशिना हृतामुर्वशीं नारदादुपश्रुत्य प्रत्या- हरणार्थमस्याः शतक्रतुना गन्धर्वसेना समादिष्टा । ततो वयमन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमुपागताः । स भवान् इमां पुरस्कृत्य सहास्माभिः मघवन्तं द्रष्टुमर्हति । महत्खलु तत्रभवतो मघोनः प्रियमनुष्ठितं भवता । पश्य— {{bold|<poem>पुरा नारायणेनेयमतिसृष्टा मरुत्वते । दैत्यहस्तादपाच्छिद्य सुहृदा सम्प्रति त्वया ॥ १६ ॥</poem>}} {{bold|राजा -}} सखे ! मैवम्- {{bold|<poem>ननु वज्रिण एव वीर्यमेतद्, विजयन्ते द्विषतो यदस्य पक्ष्याः । वसुधाधरकन्दराविसर्पी, प्रतिशब्दो हि हरेर्हिनस्ति नागान् ॥ १७ ॥</poem>}} {{bold|चित्ररथः -}} युक्तमेतत् । अनुत्सेकः खलु विक्रमालङ्कारः ।
{{bold|राजा -}} सखे ! नायमवसरो मम शतक्रतुं द्रष्टुम् । अतस्त्वमेवात्रभवतीं प्रभोरन्तिकं प्रापय ।
{{bold|चित्ररथः -}} यथा भवान्मन्यते । इत इतो भवत्यः ।
(सर्वाः प्रस्थिताः ।)
{{bold|उर्वशी -}} (जनान्तिकम्) हला चित्तलेहे, उवआरिणं राएसिं ण सक्कणोमि आमन्तेदुम् । ता तुमं एव मे मुहं होहि । [हला चित्रलेखे ! उपकारिणं राजपिं न शक्नोनि आमन्त्रयितुम्, तत् त्वमेव मे मुखं भव ।]
{{bold|चित्रलेखा -}} (राजानमुपेत्य) महाराज ! उव्वसी विष्णवेदि महाराएण अभणुण्णादा इच्छामि पिअसहिं विअ महाराअस्स किन्ति सुरलोअं णेदुम् । [महाराज ! उर्वशी विज्ञापयति महाराजेनाभ्यनुज्ञातेच्छामि प्रियसखीमित्र महाराजस्य कीर्ति सुरलोकं नेतुम् ।]
{{bold|राजा -}} गम्यतां पुनर्दर्शनाय ।
(सर्वाः सगन्धर्वाः आकाशोत्पतनं रूपयन्ति ।)
{{bold|उर्वशी -}} (उत्पतनभङ्गं रूपयित्वा) अम्मो, लदाविडवे एसा एआवली वैअअन्तिआ मे लग्गा [अहो, लताविटपे एषा एकावली वैजयन्तिका मे लग्ना] (सव्याजमुपसृत्य राजानं पश्यन्ती) सहि चित्तलेहे, मोआवेहि दाव णम् । [सखि चित्रलेखे ! मोचय तावदेनाम् ।]
{{bold|चित्रलेखा -}} (विलोक्य बिहस्य च) आम्, दिढं क्खु लग्गा सा असक्का मोआविदुम् । [आम्, दृढं खलु लग्ना सा, अशक्या मोचयितुम् ।]
{{bold|उर्वशी -}} अलं पडिहासेण । मोआवेहि दात्र णम् । [अलं परिहासेन । मोचय तावदेनाम् ।]
{{bold|चित्रलेखा -}} आम्, दुम्मोआ विअ मे पडिहादी । तहा वि मोआविस्सं दाव । [आम्, दुम्र्म्मोच्येव प्रतिभाति, तथापि मोचयिष्यामि तावत् ।]
{{bold|उर्वशी -}} (स्मितं कृत्वा) पिअसहि, सुमरेहि क्लु एवं अत्तणो वअणम् । [प्रियसखि ! स्मर खल्वेतदात्मनो वचनम् ।]
{{bold|राजा -}} (स्वगतम्) {{bold|<poem>प्रियमाचरितं ते त्वया मे गमनेऽस्याः क्षणविन्नमाचरन्त्या । यदियं पुनरप्यपाङ्गनेत्रा परिवृत्तार्धमुखी मया हि दृष्टा ॥ १८ ॥</poem>}} (चित्रलेखा मोचयति । उर्वशी राजानमालोकयन्ती सनिःश्वासं सखीजनमुत्पतन्तं पश्यति ।)
{{bold|सूतः -}} आयुष्मन् ! {{bold|<poem>अदः सुरेन्द्रस्य कृतापराधान् प्रक्षिप्य दैत्यांल्लवणाम्बुराशौ । वायव्यमस्त्रं शरधिं पुनस्ते महोरगः श्वभ्रमिव प्रविष्टम् ॥ १९ ॥</poem>}} {{bold|राजा -}} तेन पश्लेषय रथम्, यावदारोहामि ।
(सूतस्तथा करोति । राजा नाय्येन रथमारोहति ।)
{{bold|उर्वशी -}} (सस्पृहं राजानमवलोकयन्ती) अवि णाम पुणो विउअआरिणं एवं पेक्खिस्सम् । [अपि नाम पुनरपि उपकारिणमेतं प्रेक्षिष्ये ।]
(इति सगन्धर्वा सह सखीभिर्निष्कान्ता ।)
{{bold|राजा -}} (उबेशीबत्मन्मुखः) अहो ! दुर्लभाभिलाषी मदनः । {{bold|<poem>एपा मनो मे प्रसभं शरीरान् पितुः पदं मध्यममुत्पतन्ती । मुराङ्गना कर्पति खण्डितामात् सूत्रं मृणालादिव राजहंसी ॥ २० ॥</poem>}} (निष्क्रान्तौ)
{{center|{{bold|॥ इति प्रथमोऽङ्कः ॥}}}}
{{bold|सन्दर्भजालपुटसङ्केतः -}} <ref>https://archive.org/details/in.ernet.dli.2015.326674/mode/2up</ref> 6eunvvq46zihl9t2ijtb6iaa0gby529 न्यायबोधिनी 0 105165 418661 270620 2026-09-29T16:50:22Z अनुनाद सिंह 1115 418661 wikitext text/x-wiki ;॥ तर्कसङ्ग्रहः ॥ ;॥ न्यायबोधिनी ॥ ;मङ्गलाचरणम् :निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। :बालानां सुखबोधाय क्रियते तर्कसंग्रहः॥ <poem> ; न्यायबोधिनी - मङ्गलाचरणम् (निखिल)अखिलागमसंचारि श्रीकृष्णाख्यं परं महः। ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थादौ निबध्नाति निधायेति। ;सप्तपदार्थाः द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः॥ १॥ ; न्यायबोधिनी - सप्तपदार्थाः अथ पदार्थान्विभजते - द्रव्येति। अत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाय। ननु शक्तिपदार्थस्याष्टमस्य सत्त्वात्कथं सप्तैवेति। तथाहि वह्निसंयुक्तेन्धनादौ सत्यपि मणिसंयोगे दाहो न जायते। तच्छून्ये तु जायते। अतो मणिसमवधाने दाहानुकूला शक्तिर्नश्यति। मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यते। तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेन्न। मणेः प्रतिबन्धकत्वेन तदभावस्य कारणत्वेनैव निर्वाहे मण्यसमवधानसमवधानाभ्यामनन्तशक्तितत्प्रागभावतद्ध्वंसकल्पनाया अन्याय्यत्वात्। तस्मात्सप्तैव पदार्था इति सिद्धम्। द्रव्याणि तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशाकालदिगात्ममनांसि नवैव॥ २॥ ; न्यायबोधिनी - तमः द्रव्याणि विभजते। पृथिव्यप्तेज इति। नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेति ? तथा हि नीलं तमश्चलतीति प्रतीत्या नीलरूपाश्रयत्वेन क्रियाश्रयत्वेन च तमसोद्रव्यत्वं सिद्धम्। न च क्लृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम्। तमसो रूपवत्वात् आकाशादिपञ्चकस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः। तमसो निर्गन्धत्वात् पृथिव्याः गन्धवत्वात् न तत्रान्तर्भावः। तमसो निस्स्पर्शत्वात् जलतेजसोः शीतोष्णस्पर्शवत्वान्न तयोरन्तर्भावः। तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेन्न। तमसस्तेजोऽभावत्वेनैवोपपत्तावतिरिक्तत्वकल्पनायां मानाभावात्। न च विनिगमनाविरहात्तेज एव अन्धकाराभावस्वरूपः इति वाच्यम्। तेजसोऽभावरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात्। तस्मादुष्णस्पर्शगुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम्। तमसि नीलप्रतीतिस्तु भ्रान्तिरेव। एवं कर्मवत्ताप्रतीतिरपि दीपापसरणक्रियाया एव तत्र भानात्। ;गुणाः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः॥ ३॥ ;कर्माणि उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि॥ ४॥ ;सामान्यम् परमपरं चेति द्विविधं सामान्यम्॥ ५॥ ;विशेषाः नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॥ ६॥ ;समवायः समवायस्त्वेक एव॥ ७॥ ;अभावाः अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति॥ ८॥ ;पृथिवी तत्र गन्धवती पृथिवी। सा द्विविधा नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति। विषयो मृत्पाषाणादिः॥ ९॥ ; न्यायबोधिनी - लक्षणनिर्णयः गन्धवतीति। गन्धवत्वं पृथिव्याः लक्षणम्। लक्ष्या पृथिवी। पृथिवीत्वं लक्ष्यतावच्छेदकम्। पृथिवीत्वावच्छिन्ना लक्ष्यता। यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्याऽवच्छेदकः सः तद्धर्मावच्छिन्नेति न्यायात्। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं, पृथिवीत्वावच्छिन्ना लक्ष्यता॥ एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता जलत्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम्। आपः शीतस्पर्शवत्यः आपः। ता द्विविधाः नित्या अनित्याश्च। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥ १०॥ तेजः उष्णस्पर्शवत्तेजः। तच्च द्विविधं नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि॥ ११॥ वायुः रूपरहितः स्पर्शवान्वायुः। स द्विविधो नित्योऽनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः॥ १२॥ ; न्यायबोधिनी - लक्षणदोषाः एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति रूपरहितेति। रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम्। सामानाधिकरण्यसंबन्धेन रूपत्वावच्छिन्नप्रतियोगिताकाभावविशिष्टस्पर्शवत्त्वं लक्षणमिति फलितार्थः। विशेषणानुपादाने पृथिव्यादित्रिकेऽतिव्याप्तिः। तत्रापि स्पर्शवत्वसत्वात्। अतस्तद्वारणाय विशेषणोपादानम्। तावन्मात्रोपादाने आकाशादावतिव्याप्तिस्तत्रापि रूपरहितत्वसत्त्वात्। अत उक्तं स्पर्शवत्वमिति। अतिव्याप्तिर्नाम अलक्ष्ये लक्षणस्य सत्त्वम्। यथा गोः श्रृङ्गित्वं लक्षणं उक्तं चेदलक्ष्यभूतगोभिन्नमहिषादावतिव्याप्तिस्तत्रापि श्रृङ्गित्वस्य सत्त्वात्। अव्याप्तिर्नाम लक्ष्यैकदेशावृत्तित्वम्। लक्ष्यतावच्छेदकाश्रये क्वचिल्लक्ष्ये लक्षणासत्वमेवाव्याप्तिरित्यर्थः। यथा गोर्नीलरूपवत्वं लक्षणमुक्तं चेत् श्वेतगवि नीलरूपाभावादव्याप्तिः। असंभवो नाम लक्ष्यमात्रे कुत्रापि लक्षणासत्वम्। यथा गोरेकशफवत्त्वम् लक्षणमुक्तं चेत् गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्वस्य कुत्राप्यसत्त्वादसंभवः। अतिव्याप्त्यव्याप्त्यसंभवानां निष्कृष्टलक्षणन्तु लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यमतिव्याप्तिः। लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वमव्याप्तिः। लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् असंभव इति। प्राणवायुः शरीरान्तःसंचारी वयुः प्राणः। स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते॥ १३॥ आकाशम् शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यं च॥ १४॥ ; न्यायबोधिनी - आकाशलक्षणम् आकाशं लक्षयति- शब्दगणकमिति। अत्र गुणपदमाकाशे शब्द एवं विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवारणाय। समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात्। तदुक्तं – रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः। बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणाः। इति। तच्चैकमिति। अनेकत्वे मानाभावादिति भावः। विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वं च क्रियाश्रयत्वम्। पृथिव्यप्तेजोवायुमनांसि मूर्तानि। पृथिव्यप्तेजोवाय्वाकाशपञ्चकं भूतपदवाच्यम्। भूतत्वं नाम बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्। कालः अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च॥ १५॥ ; न्यायबोधिनी - काललक्षणम् कालं लक्षयति - अतीतेति। व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्यवहारहेतुभूतघटादावतिव्याप्तिः। तद्वारणाय अतीतादीति। दिक् प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च॥ १६॥ ; न्यायबोधिनी - दिक् दिशो लक्षणमाह - प्राचीति। उदयाचलसन्निहिता या दिक् सा प्राची। अस्ताचलसन्निहिता या दिक् सा प्रतीची। मेरोः सन्निहिता या दिक् सोदीची। मेरोर्व्यवहिता या दिक् सावाची। आत्मा ज्ञानाधिकरणमात्मा। स द्विविधः परमात्मा जीवात्मा च। तत्रेश्वरः सर्वज्ञः परमात्मैक एव। जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च॥ १७॥ ; न्यायबोधिनी - आत्मा आत्मानं निरूपयति - ज्ञानाधिकरणमिति। अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभार्थम्। मनः सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च॥ १८॥ ; न्यायबोधिनी - मनः मनो निरूपयति - सुखादीति। उपलब्धिर्नाम साक्षात्कारः। तथा च सुखदुःखसाक्षात्कारकारणत्वे सति इन्द्रियत्वं मनसो लक्षणम्। इन्द्रियत्वमात्रोक्तो चक्षुरादावतिव्याप्तिः। अतः सुखेत्यादि। विशेष्यानुपादाने आत्मन्यतिव्याप्तिः। आत्मनः ज्ञानादिकं प्रति समवायिकारणत्वात्। अत इन्द्रियत्वोपादानम्। रूपम् चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि॥ १९॥ ; न्यायबोधिनी - रूपलक्षणम् रूपं लक्षयति- चक्षुर्मात्रेति। चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रूपस्य लक्षणम्। विशेष्यमात्रोपादाने रसादावतिव्याप्तिः। अतश्चक्षुर्मात्रग्राह्यत्वविशेषणम्। तावन्मात्रोपादाने रूपत्वनीलत्वादावतिव्याप्तिः। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिरपि तदिन्द्रियग्राह्येति न्यायात्। अतस्तद्वारणाय विशेष्योपादानम्। चक्षुर्मात्रग्राह्यत्वं नाम चक्षुर्भिन्नाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने संख्यादावतिव्याप्तिः, संख्यादावपि चक्षुर्ग्राह्यत्वविशिष्टगुणत्वस्य सत्त्वात्। अतस्तद्वारणाय मात्रपदम्। संख्यादेस्तु चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति। अतीन्द्रिये गुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति। अत्र ग्राह्यत्वं प्रत्यक्षविषयत्वम्। तथा च त्वाचसाक्षात्काराविषयत्वे सति चाक्षुषप्रत्यक्षविषयत्वमिति फलितोऽर्थः। ननु प्रभाघटसंयोगे रूपलक्षणस्य अतिव्याप्तिः तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्न। गुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्। सांसिद्धिकद्रवत्वेऽतिव्याप्तिवारणाय तदुपादानात्। अथ वा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः। संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रियग्राह्यत्वेन तद्गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। रसः रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात्षड्विधः। पृथिवीजलवृत्तिः। पृथिव्यां षड्विधः। जले मधुर एव॥ २०॥ ; न्यायबोधिनी - रसलक्षणम् एवं रसादिलक्षणं विशेषणानुपादाने लक्ष्यभिन्नगुणादावतिव्याप्ति:। विशेष्यानुपादाने लक्ष्यवृत्तिरसत्वादावतिव्याप्तिः। अतो विशेषणविशेष्योरुभयोरुपादानम्। गन्धः घ्राणग्राह्यो गुणो गन्धः। स च द्विविधः सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः॥ २१॥ स्पर्शः त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिवीजलतेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः॥ २२॥ ; न्यायबोधिनी - स्पर्शलक्षणम् स्पर्शं लक्षयति - त्वगिन्द्रियमात्रेति। अत्रापि मात्रपदं संख्यादावतिव्याप्तिवारणाय। अन्यत्सर्व पूर्ववद्बोध्यम्। रूपादिचतुष्टयः रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्॥ २३॥ ; न्यायबोधिनी - पाकविशेषः रूपादिचतुष्टयं पृथिव्यां पाकजमिति। एतत्तत्वनिर्णयश्चेत्थम्। पाको नाम विजातीयतेजस्संयोगः। स च नानाजातीयः। रूपजनको विजातीयतेजस्संयोगः। तदपेक्षया रसजनको विजातीयतेजस्संयोगः। एवं गन्धजनको विजातीयतेजस्संयोग:। एवं स्पर्शजनकोऽपि तथैव। एवंप्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः। तथा हि। तृणपुञ्जनिक्षिप्त आम्रादौ ऊष्मलक्षणविजातीयतेजःसंयोगात्पूर्वहरितरूपनाशे रूपान्तरस्य पीतरूपादेरेवोत्पत्तिः। पूर्वरसस्याम्लरसस्यैवानुभवात्। क्वचित्पूर्वरूपसत्त्वेऽपि रसपरावृत्तिर्दृश्यते। विजातीयतेजःसंयोगेन पूर्वतनाम्लनाशे मधुररसस्यानुभवात्। तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एव। एवं गन्धजनकोऽपि विलक्षण एवेत्यङ्गीकार्यः। रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशे विजातीयतेजस्संयोगेन सुरभिगन्धोपलब्धेः। एवं स्पर्शजनकोऽपि पाकवशात्कठिनस्पर्शनाशे मृदुस्पर्शानुभवात्। तस्माद्रूपादिजनका विजातीया एव पाका यथाकार्यमुन्नेयाः?। अत एव पार्थिवपरमाणूनामेकजातित्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवः। यथा गोभुक्ततृणादीनामापरमाण्वन्तं भङ्गे तृणारम्भकपरमाणुषु विजातीयतेजःसंयोगात्पूर्वरूपादिचतुष्टयनाशे तदनन्तरं दुग्धे यादृशं रूपादिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजःसंयोगा जायन्ते। तदनन्तरं तैरेव तादृशरूपरसादय उत्पद्यन्ते। तादृशरूपादिविशिष्टपरमाणुभिर्दुग्धद्व्यणुकमारभ्यते। ततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः। एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते पाकमहिम्ना। दध्यारम्भकैः परमाणुभिरेव नवनीतादिकमिति दिक्। संख्या एकत्वादिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्राऽनित्यमेव॥ २४॥ परिमाणम् मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधमणु महद्दीर्घं हृस्वञ्चेति॥ २५॥ पृथक्त्वम् पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति॥ २६॥ संयोगः संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः॥ २७॥ विभागः संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः॥ २८॥ ; न्यायबोधिनी - विभागलक्षणम् विभागं लक्षयति- संयोगनाशक इति। संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम्। विशेषणमात्रोपादाने क्रियायामतिव्याप्तिः, तस्या अपि संयोगनाशकत्वात्। अतस्तद्वारणाय विशेष्यम्। परत्वापरत्वे परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे दिक्कृते कालकृते च। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्॥ २९॥ गुरुत्वम् आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति॥ ३०॥ ; न्यायबोधिनी - गुरुलक्षणम् गुरुत्वं लक्षयति- आद्येति। द्वितीयपतनक्रियायां वेगस्यासमवायिकारणत्वात्तत्रातिव्याप्तिः स्यादित्यत आद्येति। उत्तरत्र स्यन्दने आद्यत्वविशेषणमप्येवं योजनीयम्। द्रवत्वम् आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिव्यप्तेजोवृत्ति। तद्द्विविधं सांसिद्धिकं नैमित्तिकं चेति। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ॥ ३१॥ स्नेहः चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः॥ ३२॥ ; न्यायबोधिनी - स्नेहालक्षणम् स्नेहं लक्षयति- चूर्णादीति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्। पिण्डीभावो नाम धारणाकर्षणहेतुभूतो विलक्षणसंयोगः। तादृशसंयोगे स्नेहस्यैवासाधारणकारणत्वं न तु जलादिगतद्रवत्वस्य। तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्तेः। अतः स्नेह एव तत्रासाधारणकारणम्। विशेषणमात्रोपादाने कालादावतिव्याप्तिरतस्तद्वारणाय विशेष्योपादानम्। वस्तुतस्तु द्रुतजलसंयोगस्यैव चूर्णादिपिण्डीभावहेतुत्वं स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्। जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः। शब्दः श्रोत्रग्राह्यो गुणः शब्दः। आकाशमात्रवृत्तिः। स द्विविधः ध्वन्यात्मको वर्णात्मकश्चेति। ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥ ३३॥ ; न्यायबोधिनी - शब्दलक्षणम् शब्दं लक्षयति- श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। स त्रिविधः संयोगजो विभागजः शब्दजश्चेति। यथा भेरीदण्डसंयोगजन्यो भांकारादिः। हस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः। वंशे पाट्यमाने दलद्वयविभागजन्यः चटचटाशब्दः। शब्दोत्पत्तिदेशमारभ्य कर्णपर्यन्तं निमित्तपवनेन शब्दधारा जायन्ते। तत्र उत्तरशब्दे पूर्वशब्दः कारणम्। बुद्धिः सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम्। सा द्विविधा स्मृतिरनुभवश्च। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः। स द्विविधः यथार्थोऽयथार्थश्च। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा अयं घट इति ज्ञानम्। सैव प्रमेत्युच्यते। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। (यथा शुक्ताविदंरजतमिति ज्ञानम्। सैव अप्रमेत्युच्यते) ॥ ३४॥ ; न्यायबोधिनी - बुद्धिलक्षणम् बुद्धेर्लक्षणमाह - सर्वव्यवहारोति। व्यवहारः शब्दप्रयोगः। ज्ञानं विना शब्दप्रयोगासंभवाच्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम्। बुद्धिं विभजते स्मृतिरनुभवश्चेति। न्यायबोधिनी - स्मृतिलक्षणम् स्मृतिं लक्षयति- संस्कारेति। बहिरिन्द्रियाजन्यत्वविशिष्टसंस्कारजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। संस्कारजन्यत्वविशेषणानुपादाने अनुभवेऽतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशेष्यम्। ध्वंसं प्रति प्रतियोगिनः कारणत्वात् संस्कारध्वंसेऽपि संस्कारजन्यत्वस्य सत्त्वात्। प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रपदम्। न्यायबोधिनी - अनुभवलक्षणम् अनुभवं लक्षयति - तद्भिन्नमिति। तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम्। तथा च स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम्। विशेषणानुपादाने स्मृतावतिव्याप्तिः, विशेष्यानुपादाने घटादावतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुपादानम्। न्यायबोधिनी - अनुभवविभागः अनुभवं विभजते - स द्विविध इति। न्यायबोधिनी - यथार्थानुभवलक्षणम् यथार्थानुभवं लक्षयति- तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्। तच्छब्देन प्रकारीभूतो धर्मो ग्राह्यः। तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्। उदाहरणम्। रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकं रजते ‘इदं रजतम्' इति ज्ञानम्। तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वमिति निष्कर्षः। अन्यथा यथाश्रुत रङ्गरजतयोरिमे रजतरङ्गे इत्याकारकसमूहालम्बनभ्रमेऽतिव्याप्तिः, तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयोः रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु दर्शितभ्रमे नातिव्याप्तिः, तज्ज्ञानस्य रङ्गांशे रजतत्वावगाहित्वेन रजतांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारतायाः रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वेऽपि रङ्गत्वनिष्ठप्रकारताया: रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वेऽपि रजतत्वप्रकारताया रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावात् रङ्गत्वप्रकारताया रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावाच्च। न्यायबोधिनी - अयथार्थानुभवलक्षणम् अयथार्थानुभवं लक्षयति- तदभाववतीति। अत्रापि पूर्ववत्तदभावन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वं विवक्षणीयम्। अन्यथा यथाश्रुते रङ्गरजतयोरिमे रङ्गरजते इत्याकारकसमूहालम्बनप्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रजतरङ्गोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभयप्रकारकत्वेन च रजतत्वाभाववद्रङ्गविशेष्यकत्वरजतत्वप्रकारकत्वयो रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु न तत्रातिव्याप्तिः। तादृशप्रमायाः रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात् रङ्गत्वप्रकारताया रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपितत्वाभावाच्च। उदाहरणम्। रजतत्वाभाववद्विशेष्यकत्वे सति रजतत्वप्रकारकं शुक्तौ 'इदं रजतम्' इति ज्ञानम्। प्रमाणानि यथार्थनुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दाभेदात्॥३५॥ ; न्यायबोधिनी - प्रमाणकारणम् यथार्थानुभवं विभजते- यथार्थानुभव इति। तत्करणमिति। फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः। प्रत्यक्षादिप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम्। एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षज्ञानेत्यादिना। कार्यकारणभावः असाधारणं कारणं करणम्। कार्यनियतपूर्ववृत्ति कारणम्। कार्यं प्रागभावप्रतियोगि॥ ३६॥ ; न्यायबोधिनी - करणलक्षणम् करणलक्षणमाह- असाधारणकारणमिति। व्यापारवदसाधारणकारणं करणमित्यर्थः। असाधारणकारणत्वं च कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। यथा दण्डादेर्घटं प्रत्यसाधारणकारणत्वम्। कार्यत्वातिरिक्तो घटत्वरूपो धर्मः तदवच्छिन्नकार्यता घटे तन्निरूपितकारणता दण्डे। अतो घटं प्रति दण्डः असाधारणकारणम्। भ्रम्यादिरूपव्यापारवत्त्वाच्च करणम्। साधारणकारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। यथा ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात्साधारणकारणत्वम्। न्यायबोधिनी - कारणलक्षणम् कारणं लक्षयति- कार्यनियतेति। कार्यं प्रति नियतत्वे सति पूर्ववर्त्तित्वं कारणत्वम्। नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादेरपि कारणत्वं स्यादतो नियतत्वे सतीति विशेषणम्। नियतपूर्ववर्तिनी दण्डरूपादेरपि घटकारणत्वं स्यादित्यतोऽनन्यथासिद्धत्वमपि कारणलक्षणे निवेशनीयम्। एवं च दण्डरूपादीनाम् अन्यथासिद्धत्वात् न तत्रातिव्याप्तिः। न्यायबोधिनी - कार्यलक्षणम् कार्यं लक्षयति- कार्यमिति। प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम्। उत्पत्तेः पूर्वं 'इह घटो भविष्यति' इति या प्रतीतिर्जायते तत्प्रतीतिविषयो योऽभावः स प्रागभावः तत्प्रतियोगि घटादिकार्यम्। कारणत्रैविध्यम् कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः। कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य। तन्तुरूपं पटरूपस्य। तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य। तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्॥ ३७॥ ; न्यायबोधिनी - कारणभेदाः कारणं विभजते- कारणं त्रिविधमिति। न्यायबोधिनी - समवायिकारणम् समवायिकारणं लक्षयति- यत्समवेतमिति। यस्मिन्समवेतं सत्समवायसम्बन्धेन वर्तमानं सत्कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः। उदाहरणम्। तन्तव इति। येषु तन्तुषु समवायेन संबद्धं सत्पटात्मककार्यमुत्पद्यते तत्तन्तवः समवायिकारणमित्यर्थः। सामान्यलक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वं समवायिकारणत्वमिति। समवायसम्बन्धेन घटाद्यधिकरणे कपालादौ कपालादेः तादात्म्यसम्बन्धेनैव कारणत्वात्। समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकपालत्वाद्यवच्छिन्नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः। समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव हेतुत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्। अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह। पटश्च स्वगतरूपादेरिति। समवायिकारणमित्यनुषज्यते। न्यायबोधिनी - असमवायिकारणम् असमवायिकारणं लक्षयति- कार्येणेति। असमवायिकारणं द्विविधम्। कार्येण सहैकस्मिन्नर्थे समवेतं सत् कारणमित्येकम्। कारणेन सहैकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणमित्यपरमित्यर्थः। अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। जन्यद्रव्यमात्रे अवयवसंयोगस्यैवासमवायिकारणत्वात्पटात्मककार्ये तदवयवसंयोगस्यैवासमवायिकारणत्वमिति दर्शयन् प्रथममुदाहरति। यथा तन्तुसंयोगः पटस्येति। यथा तन्तुसंयोगः पटात्मककार्येण सहैकस्मिन्नर्थे तन्तौ समवायसम्बन्धेन विद्यमानत्वे सति कारणत्वात् पटात्मककार्यं प्रति तन्तुसंयोगोऽसमवायिकारणमित्यर्थः। द्वितीयमुदाहरति। तन्तुरूपमिति। स्वकार्यसमवायिकारणेन पटेन सह एकस्मिन् तन्तौ समवेतत्वे सति कारणत्वात् तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः। सामान्य लक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्नकारणताश्रयत्वम्। समवायसंबन्धावच्छिन्नघटत्वाद्यवच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकपालद्वयसंयोगत्वाद्यवच्छिन्नकारणता कपालद्वयसंयोगादौ वर्तते। एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः। आद्यपतनक्रियां प्रत्याद्यस्यन्दनक्रियां प्रति च समवायसंबन्धेनैव तयोः कारणत्वात्। अवयविगुणभूतघटपटरूपादौ अवयवगुणभूतकपालतन्तुरूपादेः स्वपदग्राह्यकपालरूपतन्तुरूपादिसमवायिकपालतन्त्वादिसमवेतत्वसंबन्धेनैव कारणत्वात् तत्संबन्धावच्छिन्नकारणताश्रयत्वमवयवगुणभूतकपालरूपतन्तुरूपादौ वर्तत इति लक्षणसङ्गतिः। न्यायबोधिनी - निमित्तकारणलक्षणम् निमित्तकारणं लक्षयति- तदुभयभिन्नमिति। समवायिकारणभिन्नत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः। न्यायबोधिनी - करणलक्षणम् करणलक्षणमुपसंहरति। तदेतदिति। यदसाधारणकारणमिति। व्यापारवत्त्वे सतीति पूरणीयम्। अन्यथा कपालतन्तुसंयोगयोरतिव्याप्तिः। कपालतन्तुसंयोगयोरपि कार्यत्वातिरिक्तघटत्वपटत्वावच्छिन्नं प्रति कारणत्वादसाधारणकारणत्वमस्त्येव। अतस्तत्र अतिव्याप्तिवारणाय व्यापारवत्त्वे सतीति करणलक्षणे विशेषणं देयमेव। व्यापारवत्त्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकता भ्रमणात्मकव्यापारस्य। एवं कपालसंयोगतन्तुसंयोगादेरपि कपालतन्त्वादिव्यापारत्वं कपालतन्त्वादिजन्यत्वे सति कपालतन्त्वादिजन्यघटपटादिजनकत्वात्। करणलक्षणेऽसाधारणत्वानुपादाने ईश्वरादृष्टादेरपि व्यापारवत्त्वात्करणत्वं स्यादतस्तत्रातिव्याप्तिवारणायासाधारणेति। न्यायबोधिनी - इन्द्रियकारणत्वम् षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणलक्षणमाह- तत्रेति। प्रमाभूतप्रत्यक्षादिषु प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति करणं व्यापारवदसाधारणकारणमिन्द्रियं भवति। अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम्। आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वेन व्यापारत्वं न संभवतीति इन्द्रियमनःसंयोगस्यैव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या। मानसप्रत्यक्षे त्वात्ममनःसंयोगस्यैव सा बोध्या। प्रत्यक्षम् तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् (यथेदं किञ्चित्)। सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयंमिति॥ ३८॥ ; न्यायबोधिनी - प्रत्यक्षलक्षणम् प्रत्यक्षप्रमाणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह- इन्द्रियार्थसन्निकर्षेति। आदौ लक्षणं जन्यप्रत्यक्षस्यैव लक्ष्यत्वाभिप्रायेण। ईश्वरप्रत्यक्षसाधारणं लक्षणं तु ज्ञानाकरणकम् ज्ञानमिति। ज्ञानं व्याप्तिज्ञानं सादृश्यज्ञानं पदज्ञानं च। तदेव करणं येषां तानि ज्ञानकरणकानि अनुमित्युपमितिशाब्दानि। तद्भिन्नं इत्यर्थः। प्रत्यक्षेन्द्रियाणामेव करणत्वं, न ज्ञानस्य। तथा च ज्ञानाकरणकज्ञानत्वस्य प्रत्यक्षसामान्य एव विद्यमानत्वाल्लक्षणसंगतिः। प्रत्यक्षं विभजते। निर्विकल्पकमिति। तल्लक्षयति। निष्प्रकारकमिति। प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकमित्यर्थः। निर्विकल्पके चतुर्थविषयता स्वीक्रियते। त्रिविधविषयतामध्ये एकापि तत्र नास्ति। अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं संभवति। सविकल्पकं लक्षयति। सप्रकारकमिति। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम्। एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपकज्ञानत्वं इत्यपि लक्षणं संभवति। उदाहरति। यथेति। इदन्त्वावच्छिन्नविशेष्यतानिरूपकं डित्थत्वादिप्रकारकं ज्ञानं सविकल्पकमित्यर्थः। संनिकर्षः प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवर्त्याकाशस्यश्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्। एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥ ३९॥ ; न्यायबोधिनी - प्रत्यक्षकारणसन्निकर्षः चाक्षुषादिप्रत्यक्षकारणीभूतसन्निकर्षान्विभजते। संयोग इत्यादिना। द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगस्य कारणत्वम्। द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य कारणत्वम्। द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य कारणत्वम्। एवं द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य कारणत्वम्। द्रव्यसमवेतविषयकत्वाचप्रत्यक्षे त्वक्संयुक्तसमवायस्य कारणत्वम्। द्रव्यसमवेतसमवेतोष्णत्वादिजातिप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य कारणत्वम्। एवमात्ममानसे मनःसंयोगस्य कारणत्वम्। आत्मसमवेतसुखादिमानसे मनःसंयुक्तसमवायस्य कारणत्वम्। आत्मसमवेतसमवेतसुखत्वादिमानसे मनःसंयुक्तसमवेतसमवायस्य कारणत्वम्। द्रव्यग्राहकाणीन्द्रियाणि चक्षुस्त्वङ्मनांसि त्रीण्येव। अन्यानि घ्राणरसनश्रवणानि तु गुणादिग्राहकाणि। तत्र रसनघ्राणयो रसगन्धतद्गतजातिग्राहकत्वेन द्वितीयतृतीययोः सन्निकर्षयोरेव रसगन्धादिप्रत्यक्षकारणत्वं वाच्यम्। श्रवणेन्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः। शब्दसमवेतशब्दत्वजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुत्वं च बोध्यम्। अभावप्रत्यक्ष इति। विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चसन्निकर्षेषु मध्ये संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं घटयित्वा अभावस्थले निर्वाह्यम् तथा हि। द्रव्याधिकरणकाभावप्रत्यक्षे संयुक्तविशेषणता। द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे संयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेताधिकरणकाभावप्रत्यक्षे संयुक्तसमवेतसमवेतविशेषणता च सन्निकर्षः। तत्र घटे पटत्वाभावः संयुक्तविशेषणतया गृह्यते। घटसमवेतघटत्वादौ पृथिवीत्वाभावः संयुक्तसमवेतविशेषणतया गृह्यते। घटसमवेतसमवेतरूपत्वादौ नीलत्वाभावश्च संयुक्तसमवेतसमवेतविशेषणतया गृह्यते इति संक्षेपः॥ इति न्यायबोधिन्यां प्रत्यक्षपरिच्छेदः। अनुमानम् अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः। यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता॥ ४०॥ ; न्यायबोधिनी - अनुमानम् अनुमानं लक्षयति। अनुमितिकरणमिति। अनुमितौ व्याप्तिज्ञानं करणं, परमर्शो व्यापारः, अनुमितिः फलम्। परामर्शस्य व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तजन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अनुमितिकरणत्वमनुमानस्य लक्षणम्। अनुमानं व्याप्तिज्ञानम्। एतस्य परामर्शरूपव्यापारद्वारा अनुमितिं प्रत्यसाधारणकारणतयानुमितिकरणत्वमुपपन्नम्। न्यायबोधिनी - अनुमितिलक्षणम् परामर्शजन्यमिति। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम्। अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद्वारणाय परामर्शजन्यत्वे सतीति विशेषणोपादानम्। परामर्शजन्यत्वमात्रोक्तौ परामर्शध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम्। अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे। न्यायबोधिनी - परामर्शलक्षणम् व्याप्तिविशिष्टेति। व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चेति कर्मधारयः। अत्र विशिष्टपदस्य प्रकारतानिरूपकपरत्वात्पक्षधर्मताया ज्ञानमित्यत्र षष्ठ्या विषयत्वबोधनात्। धर्मतापदस्य संबन्धार्थकत्वात् कर्मधारयसमासेन समस्यमानपदार्थयोरभेदसंसर्गलाभाच्च व्याप्तिप्रकारकाभिन्नं यत्पक्षसंबन्धविषयकं ज्ञानं तत्परामर्श इति लभ्यते। एवं सति धूमो वह्निव्याप्यः आलोकवान्पर्वत इत्याकारकसमूहालम्बनेऽप्युक्तपरामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारताशालिज्ञानं परामर्श इति निष्कर्षः कर्तव्यः। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम्। अनुमितिपरामर्शयोर्विशिष्य कार्यकारणभावश्चेत्थम्॥ वह्नित्वावच्छिन्नसंयोगसंबन्धावच्छिन्नविधेयतानिरूपितपर्वतत्वावच्छिन्नोद्देश्यताशाल्यनुमितित्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नप्रकारतानिरूपितधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणम्। वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यतायाः धूमत्वावच्छिन्नविशेष्यतानिरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्च अभेदाङ्गीकर्तृमते वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नव्याप्तित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणमिति वाच्यम्। स च निर्णयः वह्निव्याप्यधूमवान्पर्वत इत्याकारको बोध्यः। न्यायबोधिनी - अन्वयव्याप्तिः यत्र यत्रेति। यत्र पदे वीप्सा?वशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाय। यावत्त्वमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तथा च धूमव्यापकवह्निमतीत्यर्थः। तदेव स्पष्टयति। साहचर्यनियम इति। नियतसाहचर्यं व्याप्तिरित्यर्थः। नियतत्वं व्यापकत्वम्। साहचर्यं सामानाधिकरण्यम्। तथा च धूमनियतवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। वह्नौ धूमव्यापकत्वं च धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वम्। तथा हि धूमाधिकरणे॥ चत्वरमहानसादौ वर्तते योऽभावः घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः। कुतः। पर्वतादौ वह्नेः सत्त्वात्। एवं सति धूमाधिकरणे पर्वतादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं, तद्वत्त्वं वह्नौ वर्ततेऽतो धूमव्यापकत्वं वह्नौ वर्तते। तथा च धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिरिति फलितमिति। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण। पूर्वपक्षीयव्याप्तिस्तु साध्याभाववदवृत्तित्वम्। साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसंबन्धावच्चिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो व्याप्तिरित्यर्थः। तच्च केवलान्वयिन्यव्याप्तमिति सिद्धान्तानुसरणम्। स्वार्थपरार्थानुमाने अनुमानं द्विविधं स्वार्थं परार्थं च। स्वार्थं स्वानुमितिहेतुः। तथाहि स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्रधूमस्तत्र तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम्। यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानम्। यथा पर्वतो वह्निमान्। धूमवत्त्वात्। यो यो धूमवान्स स वह्निमान्यथा महानसम्। तथा चायम्। तस्मात्तथेति। अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते॥ ४१॥ ; न्यायबोधिनी - स्वार्थानुमानविभागः अनुमानं विभजते। स्वार्थमिति। न्यायबोधिनी - स्वार्थानुमानम् स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम्। न्यायबोधिनी - परार्थानुमानम् तत्प्रयोज्यानुमानं(न्यायप्रयोज्या) परार्थानुमानम्। न्यायत्वं च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। अवयवत्वं च प्रतिज्ञाद्यन्यतमत्वम्। पञ्चावयवः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्जावयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः। यो यो धूमवान्स स स वह्निमान्यथा महानस इत्युदाहरणम्। तथा चायमित्युपनयः। तस्मात्तथेति निगमनम्॥ ४२॥ लिङ्गपरामर्शः स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्॥ ४३॥ लिङ्गत्रैविध्यम् लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत्। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्॥ ४४॥ ; न्यायबोधिनी - अन्वयव्यतिरेकित्वम् अन्वयेनेति। साध्यसामानाधिकरण्यरूपान्वयव्याप्तिमानित्यर्थः। व्यतिरेकेणेति। व्यतिरेको नामाभावः। तथा च साध्याभावहेत्वभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः। इयं च व्याप्तिः यत्र यत्र वह्न्यभावस्तत्र तत्र धूमाभाव इति। यत्र पदवीप्सया वह्न्यभाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्न्यभावव्यापकत्वं लभ्यते। वह्न्यभावे धूमाभावव्याप्यत्वं च लभ्यते। वह्न्यभावनिष्ठव्याप्यत्वं च स्वाश्रयवह्न्यभावव्यापकीभूताभावप्रतियोगित्वसंबन्धेन धूमनिष्ठतया गृह्यत इति व्यतिरेकव्याप्तिमत्त्वेनान्वयव्याप्तिमत्त्वेन चान्वयव्यतिरेकित्वेन गीयते। व्यतिरेकपरामर्शाकारश्च वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवानिति। केवलान्वयिनो लक्षणमाह। न्यायबोधिनी - केवलान्वयी अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाध्यकत्वं तत्। एतच्च लक्षणं हेतोर्व्यतिरेकित्वेऽपि सङ्गच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलोक्तलक्षणमुपपन्नम्। अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। न चैवमाकाशाभावे संयोगाभावे चाव्याप्तिरिति वाच्यम्। स्वविरोधिवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा च तयोः एकजातीयसंबन्धेन सर्वत्र विद्यमानत्वान्नाव्याप्तिः। न्यायबोधिनी - केवलव्यतिरेकित्वम् केवलव्यतिरेकिणो लक्षणमाह। व्यतिरेकेति। निश्चितान्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम्। यथेति। अत्र पृथिवीत्वावच्छिन्नं पक्षः। पृथिवीतरजलादिभेदः साध्यम्। गन्धवत्त्वं हेतुः। अत्र यद्गन्धवत्तदितरेभ्यो भिद्यते यथेत्यन्वयदृष्टान्ताभावाद्गन्धव्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहासंभवः। किं तु यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृहाते। इममेवार्थं मनसि निधाय यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलमिति ग्रन्थेन मूलकारो व्यतिरेकव्याप्तिमेव प्रदर्शितवान्। एवं प्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमितरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीत्याकारकव्यतिरेकपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविधेयताका पृथिवी इतरभेदवतीत्याकारकानुमितिर्जायत इति तत्त्वम्। यथाश्रुतमूलार्थस्तु यज्जलं, इतरेभ्यो न भिद्यत इतरभेदाभाववत्, न तद्गन्धवत् जलमितरभेदाभावव्यापकगन्धाभाववत्। न चेयं तथा। इयं पृथिवी न तथा गन्धाभाववती न, किंतु तदभावगन्धवती। तस्मान्न तथा। तस्मात् गन्धाभावाभाववत्त्वात्, न तथा इतरभेदाभाववती न। किंतु इतरभेदाभावाभाववती इतरभेदवतीति पर्यवसन्न इति। पक्षसपक्षविपक्षाः सन्दिग्धसाध्यवान्पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान्सपक्षः यथा तत्रैव महानसम्। निश्चितसाध्याऽभाववान्विपक्षः यथा तत्रैव महाह्रदः॥ ४५॥ ; न्यायबोधिनी - पक्षलक्षणम् पक्षलक्षणमाह। संदिग्धेति। साध्यप्रकारकसंदेहविशेष्यत्वं पक्षत्वम्। संदेहश्च पर्वतो वह्निमान्न वेत्याकारः। इदं च लक्षणमनुमितेः पूर्वं साध्यसंदेहो नियमेन पक्षे जायत इत्यभिप्रायेण प्राचीनैः कृतम्। गगनविशेष्यकमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन गगनं मेघवदित्याकारकगगनत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकानुमितिदर्शनात्प्राचीनलक्षणं विहाय नवीनैरनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम्। सपक्षलक्षणमाह। न्यायबोधिनी - सपक्षत्वम् निश्चितसाध्येति। साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वम्। निश्चयश्च महानसं वह्निमानित्याकारकः। न्यायबोधिनी - विपक्षलक्षणम् विपक्षलक्षणमाह। निश्चितसाध्याभाववानिति। साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षत्वम्। निश्चयश्च ह्रदो वह्न्यभाववानित्याकारकः। हेत्वाभासाः सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः। सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्। तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान्प्रमेयत्वादिति। प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा शब्दो नित्यः शब्दत्वादिति। शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वादिति। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति। साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कृतकत्वादिति। कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम्। यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत्। शब्दोऽनित्यः कार्यत्वाद्घटवदिति। असिद्धस्त्रिविध आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजारविन्दवदिति। अत्र गगनारविन्दमाश्रयः। स च नास्त्येव। स्वरूपासिद्धो यथा शब्दोऽनित्यश्चाक्षुषत्वात् रूपवत्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। पर्वतो धूमवान्वह्निमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्। यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वात्(जलवत्)इति। अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम्॥ ४६ ॥ ; न्यायबोधिनी - हेत्वदोषनिर्णयः सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति। सव्यभिचारेति। हेतुवदाभासन्त इति हेत्वाभासाः दुष्टहेतवः। दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षासिद्धिबाधाः। एकज्ञानविषय?प्रकृतहेतुतावच्छेदकवत्त्वसंबन्धेन एतद्विशिष्टहेतव इत्यर्थः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यलक्षणम्। हेतौ दोषज्ञाने सत्यनुमितिप्रतबन्धः तत्करणप्रतिबन्धो वा जायते। अतो वादिनिग्रहार्थं वादिनोद्भावितहेतौ दोषोद्भावनार्थं दुष्टनिरूपणमिति भावः। न्यायबोधिनी - सव्यभिचारः सव्यभिचारं विभज्य दर्शयति। साधारणेति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्। साधारणत्वं साध्याभाववद्वृत्तित्वम्। पर्वतो वह्निमान् प्रमेयत्वादिति। अत्र प्रमेयत्वरूपहेतौ वह्न्यभाववद्वृत्तित्वरूपव्यभिचारे ज्ञाते वह्नयभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। असाधारण इति। सर्वसपक्षव्यावृत्तत्वं साध्यवद्वृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः। हेतौ साध्यवदवृत्तित्वे निश्चिते साध्यवद्वृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। अनुपसंहारिणं लक्षयति। अन्वयेति। उभयदृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः। किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति कश्चिद्विशेष्यकनिश्चयाविषयसाध्याभावकत्वमेव अनुपसंहारित्वम्। एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्तिज्ञानप्रतिबन्धः फलमिति भावः। वस्तुतस्तु अत्यन्ताभावाप्रतियोगिसाध्यादिकमेव अनुपसंहारित्वमिति बोध्यम्। न्यायबोधिनी - सत्प्रतिपक्षः विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु हेतोरेकत्वेन हेतोर्द्वित्वेन च ज्ञातव्यः। साध्याभावव्याप्यप्रतिहेतुमत्पक्षस्सत्प्रतिपक्ष इति यावत्। विरुद्धे साध्याभावसाधको हेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्यसूचनमपि। न्यायबोधिनी - असिद्धिः आश्रयासिद्ध इति। पक्षे पक्षतावच्छेदकविरहः आश्रयासिद्धिः। यथेति। अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम्। स्वरूपासिद्ध इति। स्वरूपासिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शप्रतिबन्धः फलम्। व्याप्यत्वासिद्ध इति। प्रकृते धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद्धूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृह्यते। एवं वह्नेरव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृह्यते। तदेव व्यभिचरितत्वम्। तथा चोपाधिव्यभिचरितत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोगव्याप्यधूमव्यभिचरितत्वं गृह्यत एव। अनुमानप्रकारश्च पूर्वानुमाने हेतुं पक्षीकृत्य वह्निर्धूमव्यभिचारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचरितत्वात् घटत्वादिवत्। यो यत्साध्यव्यापकव्यभिचारी स सर्वोऽपि साध्यव्यभिचारीति रीत्या बोध्यः। एवं प्रकारेण प्रकृतानुमानहेतुभूतपक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च धूमाभाववदवृत्तित्वाभावरूपधूमव्यभिचारे गृहीते वह्नौ धूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। न च व्याप्यत्वासिद्धेः व्यभिचाराभेद इति वाच्यम्। धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धित्वं, धूमाभाववद्वृत्तित्वत्वेन व्यभिचारत्वमिति भेदात्। न्यायबोधिनी - बाधः यस्येति। यस्य हेतोः साध्याभावः साध्यबाधः प्रमाणान्तरेण प्रत्यक्षप्रमाणेन पक्षे निर्णीतः स बाधित इत्यर्थः। तथा च प्रात्यक्षिकसाध्यबाधनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम्। बाधितसाध्यकत्वाद्बाधितहेतुरित्युच्यते॥ इति न्यायबोधिन्यामनुमानपरिच्छेदः समाप्तः॥ उपमानम् उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। तथा हि कश्चिद्गवयशब्दवाच्यमजानङ्कुतश्चिदारण्यपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति। तदनन्तरमयं गवयशब्दवाच्य इत्युपमितिरुत्पद्यते॥ ४७ ॥ ; न्यायबोधिनी - उपमितिः उपमानं लक्षयति। उपमितिकरणमिति। उपमितिं लक्षयति। संज्ञासंज्ञीति। संज्ञा नाम पदम्। संज्ञी अर्थः। तयोः सम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः। उपमानं नामातिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फलम्। गोसदृशो गवयपदवाच्य इत्याकारकवाक्याद्गोसादृश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्। इति न्यायबोधिन्यामुपमानपरिच्छेदः समाप्तः॥ शब्दप्रमाणम् आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानय शुक्लां दण्डेनेति। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः॥ ४८॥ ; न्यायबोधिनी - लक्षणा शब्दं लक्षयति। आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येऽतिव्याप्तिरत आप्तोचरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नार्थः। वस्तुतस्तु पदज्ञानं करणम्। वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः, फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिपदजन्यबोधविषयत्वप्रकारकेश्वरसङ्केतः। ईश्वरसंकेतो नाम ईश्वरेच्छा। सैव शक्तिरित्यर्थः। शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासंबन्धेन शक्याश्रयत्वं अर्थे शक्यत्वम्। शक्यसंबन्धो लक्षणा। सा द्विविधा गौणी शुद्धा चेति। गौणी नाम सादृश्यविशिष्टे लक्षणा। यथा सिंहो माणवक इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा। जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोष इत्यत्र गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातु?के लक्षणा। लक्ष्यतावच्छेदकदध्युपघातुकत्वेन रूपेण दध्युपघातुकानां काकबिडालकुक्कुटादीनां शक्य लक्ष्याणां सर्वेषां बोधात्। शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका जहदजहल्लक्षणा। यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकिंचिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात् जहदजहल्लक्षणा। इयं च लक्षणा जीवब्रह्मणोरैक्यं ब्रुवतां वेदान्तिनां सिद्धान्तरीत्या। वाक्यार्थज्ञानहेतवः आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारणं सन्निधिः॥ ४९॥ ; न्यायबोधिनी - वाक्यार्थप्रतीतिहेतवः आकाङ्क्षेति। अव्यवहितोत्तरत्वादिसंबन्धेन यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो हि यादृशशाब्दबोधाभावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्वमाकाङ्क्षा। यथा घटमित्यादिस्थलेऽव्यवहितोत्तरत्वादिसंबन्धेन अम्पद घटपदवदित्याकारकाम्पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे ?घटीयं कर्मत्वमिति बोधो जायते। अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात्तादृशशाब्दबोधो न जायते। अतस्तादृशाकाङ्क्षाज्ञानं शाब्दबोधे कारणम्। अर्थाबाध इति। बाधाभावो योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्य जलधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। संनिधिं निरूपयति। असहोच्चारितानीति। असहोच्चारितानि विलम्बेनोच्चरितानि। अप्रमाणवाक्यम् तथा चाकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात्। वह्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात्॥ ५०॥ वाक्यद्वयम् वाक्यं द्विविधं वैदिकं लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम्॥ ५१॥ ; न्यायबोधिनी - शब्दविभागः वैदिकमिति। वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकमिति। वेदवाक्यभिन्नमित्यर्थः॥ इति न्यायबोधिन्यां शब्दपरिच्छेदः समाप्तः॥ शब्दज्ञानम् वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः॥ ५२ ॥ अयथार्थानुभवः अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्ताविदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्नस्यात्तर्हि धूमोऽपि न स्यादिति॥ ५३॥ ; न्यायबोधिनी - संशयः यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते। संशयेत्यादिना। एकेति। एकधर्मावच्छिन्नविशेष्यकभावाभावप्रकारकज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयप्रसिद्धेः स्थाणुर्वेत्यादौ स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिकसंशय एवार्थः। न्यायबोधिनी - विपर्ययः मिथ्याज्ञानमिति। अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः। न्यायबोधिनी - व्याप्तिविचारः व्याप्यारोपेणेति। तर्के व्याप्यस्य व्यापकस्य च बाधनिश्चयः कारणम्। अन्यथा इष्टापत्तिदोषेण तर्कानुत्पत्तेः। स्मृतिः स्मृतिरपि द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था॥ ५४॥ सुखम् सर्वेषामनुकूलतया वेदनीयं सुखम्॥ ५५॥ ; न्यायबोधिनी - सुखलक्षणम् सुखं निरूपयति। सर्वेषामिति। इतरेच्छाऽनधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते घटोऽनुकूल इत्याकारकानुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्वात्तत्रातिव्याप्तेः। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेतीच्छाविशेषणम्। सुखेच्छा तु सुखत्वप्रकारकज्ञानजन्यैव। दुःखम् प्रतिकूलतया वेदनीयं दुःखम्॥ ५६॥ ; न्यायबोधिनी - दुःखम् दुःखं निरूपयति। प्रतिकूलेति। अत्रापीतरद्वेषानधीनद्वेषविषयत्वमिति निष्कर्षः। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिस्तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिव्याप्तिवारणायेतरद्वेषानधीनेति द्वेषविशेषणम्। सर्पजन्यदुःखादौ द्वेषात्सर्पे द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वादन्यद्वेषाजन्यद्वेषविषयत्वरूपलक्षणस्य सर्पादौ नातिव्याप्तिः। फलेच्छा उपायेच्छां प्रति कारणम्। अतः फलेच्छावशादुपायेच्छा भवति। एवं फलद्वेषात् उपायद्वेषः। इच्छा इच्छा कामः॥ ५७॥ द्वेषः क्रोधो द्वेषः॥ ५८॥ प्रयत्नः कृतिः प्रयत्नः॥ ५९॥ धर्मः विहितकर्मजन्यो धर्मः॥ ६०॥ अधर्मः निषिद्धकर्मजन्योऽधर्मः॥ ६१॥ आत्मविशेषगुणाः बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः॥ ६२॥ ; न्यायबोधिनी - बुद्ध्यादयोऽष्टौ गुणाः धर्माधर्मौ निरूपयति। विहितेत्यादिना। वेदविहितेत्यर्थः। निषिद्धेति। वेदनिषिद्धेत्यर्थः। बुद्ध्यादयोऽष्टाविति। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः। नित्यानित्यगुणौ बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च। नित्या ईश्वरस्य। अनित्या जीवस्य॥ ६३॥ संस्कारः संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः॥ ६४॥ ; न्यायबोधिनी - संस्कारः संस्कारं विभजते। संस्कार इति। भावनां लक्षयति। अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावन्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः। ध्वंसं प्रति स्वप्रतियोगिनः कारणत्वेनानुभवध्वंसस्याप्यनुभवजन्यत्वात्। अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः। नन्वत्र विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा। यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकज्ञानम्। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिर्दण्डी पुरुष इत्याकारकबुद्धिस्तत्र दण्डज्ञानं कारणम्। न हि दण्डमजानानः पुमान् दण्डी पुरुष इति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं तदनन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवाहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च स्मृतिं प्रत्यनुभवस्य कारणत्वात्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावनालक्षणस्य यथोक्तदण्डी पुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति चेत्। अत्र ब्रूमः। अनुभवजन्यत्वं अनुभवनिष्ठकारणतानिरूपितकार्यताश्रयत्वम्। तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वमनुभवजन्यत्वमिति फलितम्। अतो नोक्तातिव्याप्तिः। तथा हि। दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणता तस्यां न दण्डानुभवत्वमवच्छेदकं दण्डानुभवात् दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रत्यनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य यथोक्तप्रत्यक्षानुभवेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथा हि। अनुभवेनैव भावनाख्यसंस्कारोत्पत्या भावनात्वावच्छिन्नं प्रत्यनुभवस्यानुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठा या कारणता तस्यामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावनायां वर्तत इति नासंभवः। नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यमापद्यते। तद्ध्यनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायामनुभवध्वंसेऽतिव्याप्तिः प्रसज्यते। तथा हि। ध्वंसत्वावच्छिन्नं प्रति प्रतियोगिनः कारणत्वं प्रतियोगित्वेन रूपेण तत्तदध्वंसत्वावच्छिन्नं प्रति तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेन कारणत्वमित्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता यानुभवनिष्ठा कारणता तस्यां प्रतियोगित्वमवच्छेदकं तत्तद्व्यक्तित्वं च। न त्वनुभवत्वमपीति सिद्धान्तात्। अन्यत्र दूषितत्वात्। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपानुभवजन्यत्वविरहेणैवातिव्याप्तिवारणसंभवात्कृतं स्मृतिहेतुत्वविशेषणेनेति चेन्न। स्मृतावतिव्याप्तिवारणायैव तद्विशेषणप्रवेशात्। तथा हि। स्मृतिं प्रत्यनुभव एव कारणं। न तु स्मृतिरप्यतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वम्। न तु घटज्ञानत्वेन। तथा च घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता तस्यां घटानुभवत्वं अवच्छेदकम्। तेन अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यमानत्वादतिव्याप्तिवारणाय स्मृतिहेतुत्वं उक्तम्। न हि स्मृतिः स्मृतिहेतुः। अतः न तत्रातिव्याप्तिरित्यलं पल्लवतल्लजकल्पानल्पजल्पनेन। कर्म चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। (पृथिव्यादिचतुष्टयमनोमात्रवृत्ति)॥ ६५॥ सामान्यम् नित्यमेकमनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति। तद्द्विविधं परापरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि॥ ६६॥ ; न्यायबोधिनी - सामान्यलक्षणम् सामान्यं निरूपयति। नित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्। नित्यत्वानुपादाने संयोगादावतिव्याप्तिः। तत्रापि अनेकसमवेतत्वसत्त्वात्। तद्वारणाय नित्यत्वविशेपणम्। अनेकसमतत्वानुपादाने आकाशादावतिव्याप्तिस्तद्वारणायानेकसमवेतत्वविशेषणम्। अनेकत्वानुपादाने जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात्, समवेतत्वाच्च अतिव्याप्तिः। अतः अनेकेति। विशेषाः नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः॥ ६७॥ ; न्यायबोधिनी - विशेषः नित्यद्रव्यवृत्तय इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः। अत एव व्यावर्तकाः इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मताप्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः। नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तम् प्रकारताविशेषणम्। एतेन व्यावर्तका इत्यस्य नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्यद्रव्यवृत्तय इति विफलमेव स्वरूपाख्यानस्यापि कृतत्वादिति प्रत्युक्तम्। समवायः नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यत्तदवस्थमपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथाऽवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति॥ ६८॥ ; न्यायबोधिनी - समवायलक्षणम् समवायं निरूपयति नित्येति। सम्बन्धवत्त्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्येति विशेषणम्। ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः। अभावः अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो नेति॥ ६९॥ ; न्यायबोधिनी - अभावाः अत्यन्ताभावं निरूपयति त्रैकालिकेति। प्रागभावाऽप्रतियोगित्वे सति ध्वंसाऽप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम्। ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्नसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। ध्वंसप्रागभावयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति स्वरूपाख्यानमेवेति बोध्यम्। अन्योन्याऽभावं निरूपयति तादात्म्येति। अभावत्रयवारणाय विशेषणम्। घटाभाववान्नेति प्रतीतिविषयघटादिवारणाय विशेष्यम्। सप्तपदार्थसिद्धिः सर्वेषामपि पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्॥ ७०॥ ; न्यायबोधिनी - न्यायसिद्धान्तः ननु सादृश्यादीनामतिरिक्तपदार्थानां निरूपणेन न्यूनतेत्यत आह। सर्वेषामिति। "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितणडाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगमः" इति न्यायस्यादिमसूत्र उक्तानां प्रमाणप्रमेयादीनाम् इत्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि घटपटादिरूपत्वेन नातिरिक्तत्वमेवमन्येषामप्यूह्यम्। विस्तरस्त्वन्यत्रानुसन्धेयः। काणादेति। कणादस्येदं काणादं काणादन्यायमते इति द्वन्द्वगर्भकर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताऽभिन्नव्युत्पत्तिसिद्धप्रयोजकान्नंभट्टाभिन्नविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः॥ कृष्णावलम्बिनो गाः पुषो गोवर्धनस्तमभ्यर्चन्। विपुलाभीरसभाजनजनितविबुधेन्द्रस्तवाभिरचनाभिः॥ इति तर्कसंग्रहव्याख्या न्यायबोधिन्याख्या संपूर्णा॥ समापनम् काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये। अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः॥ इति श्रीमहामहोपाध्याय अन्नम्भट्टविरचिततर्कसंग्रहः समाप्तः॥ </poem> == स्रोत == *[https://tarkasangraha.com/grantha?book=तर्कसङ्ग्रहः तर्कसङ्ग्रहः] 8pv2hc5vvyihnhsqdmc002lb3cjgyq8 शक्रादय स्तुति 0 122278 418663 332783 2026-09-30T02:41:51Z ~2026-52433-41 10771 छंद 418663 wikitext text/x-wiki छन्द: वसन्ततिलका <poem> शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः॥८४.२॥ देवा ऊचुः देव्या यया ततमिदं जगदात्मशक्त्या निः शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥८४.३॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभयस्य मतिं करोतु॥८४.४॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धां सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम्॥८४.५॥ किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु॥८४.६॥ हेतुः समस्तजगतां त्रिगुणापि दोषैर् न ज्ञायसे हरिहरादिभिरप्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतम् अव्याकृता हि परमा प्रकृतिस्त्वमाद्या॥८४.७॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयान्ति सकलेषु मखेषु देवि । स्वाहासि वै पितृगणस्य च तृप्तिहेतुर् उच्चार्यसे त्वमत एव जनैः स्वधा च॥८४.८॥ या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वम् अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर् विद्यासि सा भगवती परमा हि देवि॥८४.९॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानम् उद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री॥८४.१०॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा । श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा॥८४.११॥ ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण॥८४.१२॥ दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम् उद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः । प्राणान्मुमोच महीषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन॥८४.१३॥ देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि । विज्ञातमेतदधुनैव यदस्तमेतन् नीतं बलं सुविपुलं महिषासुरस्य॥८४.१४॥ ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना॥८४.१५॥ धर्म्याणि देवि सकलानि सदैव कर्माण्य् अत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्गं प्रयाति च ततो भवतीप्रसादाल् लोकत्रयेऽपि फलदा ननु देवि तेन॥८४.१६॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता॥८४.१७॥ एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् । संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि॥८४.१८॥ दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् । लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी॥८४.१९॥ खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् । यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत्॥८४.२०॥ दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः । वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥८४.२१॥ केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र । चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि॥८४.२२॥ त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते॥८४.२३॥ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च॥८४.२४॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥८४.२५॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम्॥८४.२६॥ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः॥८४.२७॥ ऋषीरुवाच एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः । अर्चिता जगतां धात्री तथा गन्धानुलेपनैः॥८४.२८॥ भक्त्या समस्तैस्त्रिदशार्दिव्यैर्धूपैस्तु धूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्॥८४.२९॥ देव्युवाच व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् । भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते । यदयं निहतः शत्रुरस्माकं महिषासुरः॥८४.३२॥ यदि चापि वरो देयस्त्वयास्माकं महेश्वरि । संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः॥८४.३३॥ यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने । तस्य वित्तर्धिविभवैर्धनदारादिसम्पदाम् । वृद्धयेऽस्मात्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके॥८४.३४॥ ऋषिरुवाच इति प्रसादिता देवैर्जगतोर्ऽथे तथाऽत्मनः । तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप॥८४.३५॥ इत्येतत्कथितं भूप सम्भूता सा यथा पुरा । देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी॥८४.३६॥ पुनश्च गौरीदेहात् सा समुद्भूता यथाभवत् । वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः॥८४.३७॥ रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाऽख्यातं यथावत्कथयामि ते॥८४.३८॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये चतुरशीतितमोऽद्यायः </poem> [[वर्गः:स्तोत्राणि]] a790bjjc2ftzjalmto7ceev8o3cww2m कामिकागमः - उत्तरभागः 0 164055 418665 410711 2026-09-30T04:27:21Z ~2026-52344-15 10772 418665 wikitext text/x-wiki {{header | title = कामिकागमः - उत्तरभागः | author = | translator = | section = | previous = | next = | year = | notes = }} == प्रथमः पटलः पश्चिमद्वारार्चनविधिः == पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा । मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ।। १ ।। राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् । प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ।। २ ।। सूर्यश्चेत्यादिभिर्मन्त्रैः संध्यासु तिसृषूदकम् । पीत्वा संमार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ।। ३ ।। ओं भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथांजलिम् । पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ।। ४ ।। एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये । श्रुति स्मृत्यादि संसिद्धिं अनुष्ठानन्तु यद्भवेत् ।। ५ ।। आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा । संध्यायां वन्दने वापि तर्पणे होमकर्मणि ।। ६ ।। गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् । कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ।। ७ ।। स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च । व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ।। ८ ।। समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः । त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ।। ९ ।। करन्यासं ततः कृत्वा सुषिरं देहमध्यमे । ध्यात्वा ज्वलन्तं हुंकारं प्राणान् संयम्य निश्चलम् ।। १० ।। फट्कारान्तं तु तेनैव रेचकेन समन्वितम् । पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ।। ११ ।। मूर्ति मन्त्रेण संगृह्य जीवं हुंकार मूर्धनि । कुंभकेन समोपेतं वायुमूर्ध्वगतं नयेत् ।। १२ ।। तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् । आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ।। १३ ।। निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् । व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ।। १४ ।। दहनं वाथ भूतानां परस्पर विशोधनम् । मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ।। १५ ।। शोध्यो परागरहितं कलामात्र व्यवस्थितम् । विचिन्त्य दिव्यदेहार्थ ममृताप्लावनं नयेत् ।। १६ ।। ध्यात्वा कुण्डलिनीं शक्तिं अमृतैक स्वरूपिणीम् । तदुद् भूतामृतस्त्रावैस्सिक्तां दिव्यां कलां स्मरेत् ।। १७ ।। ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् । पुनराप्लावनं कृत्वा करन्यासं समारभेत् ।। १८ ।। हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते । तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ।। १९ ।। शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् । कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ।। २० ।। करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते । मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ।। २१ ।। मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् । शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ।। २२ ।। नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् । महामुद्रां ततः कृत्वा शिवमन्त्रं अनुस्मरन् ।। २३ ।। महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शनरूपा अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली महामुद्रेय मुदिता परमीकरणे बुधैः महामुद्रेयमाख्याता न्यूनाधिकं समापनी प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ।। अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् । लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ।। २४ ।। श्रीकण्ठादि समोपेतं अक्षरन्यासमेव वा । केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ।। २५ ।। एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् । पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ।। २६ ।। आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् । हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ।। २७ ।। पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् । पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ।। २८ ।। चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् । उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुंकुमम् ।। २९ ।। चन्दनोशीर युक्तांभः पाद्यं कन्यसमुच्यते । वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ।। ३० ।। मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् । एलालवङ्ग कर्पूर मुर जातियुतं समम् ।। ३१ ।। एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् । आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ।। ३२ ।। शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् । तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ।। ३३ ।। अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते । सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ।। ३४ ।। एलालवङ्ग, कर्पूर वरालफलसंयुतम् । एतदाचमनीयं वा यजेत् यजनाङ्गके ।। ३५ ।। कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। ३६ ।। व्रीहि तण्डुलं संयुक्तं अक्षतं तत्प्रकीर्तितम् । पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ।। ३७ ।। कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः । द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत् ।। ३८ ।। हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया । तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ।। ३९ ।। द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् । मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ।। ४० ।। सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् । गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ।। ४१ ।। महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् । विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।। ४२ ।। प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् । वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ।। ४३ ।। अपनीय च तां लिंगात् चण्डेशाय निवेदयेत् । पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ।। ४४ ।। लिङ्गशुद्धि रियंख्याता शुद्धयः पञ्च चोदिताः । संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ।। ४५ ।। विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् । यजनं देवदेवस्य सर्व कामार्थ साधनम् ।। ४६ ।। विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते । गणेशं च गुरुं शक्तिमनन्तं धर्मसंमुखान् ।। ४७ ।। अधर्मप्रमुखानन्ते छदने पद्मकर्णिके । वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ।। ४८ ।। शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् । पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ।। ४९ ।। अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् । धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ।। ५० ।। सिंहासन मिदं प्रोक्तं, योगं मायाब्जमुच्यते । पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ।। ५१ ।। स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् । संकल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ।। ५२ ।। तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् । लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ।। ५३ ।। अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् । विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ।। ५४ ।। स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् । स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ।। ५५ ।। शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् । प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ।। ५६ ।। पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् । संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ।। ५७ ।। गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् । नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ।। ५८ ।। लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते । तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ।। ५९ ।। अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् । आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ।। ६० ।। भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् । तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ।। ६१ ।। नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् । आरात्रिकं ततो दद्यात् धूपदानावसानके ।। ६२ ।। भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः । भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ।। ६३ ।। दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् । रात्रौ नीराजनं कुर्यात् दीपदानावसानके ।। ६४ ।। महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् । आमन्त्रण हविः काले बलिं वा होममाचरेत् ।। ६५ ।। उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् । स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ।। ६६ ।। वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् । तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ।। ६७ ।। ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा । संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ।। ६८ ।। यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् । नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ।। ६९ ।। विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् । नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ।। ७० ।। रूपयौवनसंपन्ना योषितः कर्तृवांच्छया । मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ।। ७१ ।। तासां संख्या भवेद् ग्रामविन्यास जन संख्यया । उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ।। ७२ ।। वादकानष्ट संख्यातान् कल्पयेत् कल्पवित्तमः । तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ।। ७३ ।। विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् । साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिंगतः ।। ७४ ।। लिंगं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् । नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ।। ७५ ।। उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् । केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ।। ७६ ।। मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् । नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ।। ७७ ।। शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये । तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ।। ७८ ।। प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः । बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ।। ७९ ।। तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् । बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ।। ८० ।। एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके । कौबेरास्ये च लिंगे च सकले मिश्र लिंगके ।। ८१ ।। विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः । प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ।। ८२ ।। द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् । वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ।। ८३ ।। देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता । ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ।। ८४ ।। पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् । दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ।। ८५ ।। उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ।। ८६ ।। हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् । शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ।। ८७ ।। कवचं वायुदिग्भागे आग्नेययां वा प्रकल्पयेत् । पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ।। ८८ ।। पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् । गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ।। ८९ ।। लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः । देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ।। ९० ।। परिवारार्चनं पूर्वदेशादारभ्य कारयेत् । वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ।। ९१ ।। नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा । चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ।। ९२ ।। ९२१/२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु । इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम पटलः करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः । क्रन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुह्याय नमः ओं हं सद्योजात मूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे नमः ओं हूं शिखायै नमः ओं हैं कवचाय नमः ओं हः अस्त्राय नमः ओं हां कवचाय नमः ओं हां शिवाय वौषट् अङ्गन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुहचाय नमः ओं हं सद्योजातमूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे स्वाहा ओं हूं शिखायै वषट् ओं हैं कवचाय हुं ओं हः अस्त्राय फट् ओं हः अस्त्राय हुंफट् ओं हः अस्त्राय फट् ओं हां शिवाय वौषट् पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् । अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ।। सुप्रभेदागमेः उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् । चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ।। एलालवंग कर्पूर जम्बू जाती फलं मुरम् । षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ।। आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः । अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ।। बभमयरलसंज्ञैः अक्षरैः कॢप्तपत्रे । सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ।। अभयवरदहस्तं गण्डिकां चाक्षमाला । करयुगलमभयं चिन्तयेद्विश्वयोनिम् ।। वशषसदलयुक्ते सौम्यमाधारपद्मे तरुणमरुणगानं वारणास्यं गणेशम् । अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ।। डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिं । मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम् हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभं । श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ।। काद्यैष्ठान्तगतैः प्रकल्पितदले पंकेरुह पार्वती कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम् शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम् मूर्त्यंगेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम् मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत् हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया । तत्तद्योगतया स्वदेशिकतनुं भावेन दीपांकुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ।। महामुद्रा तावत् कराभ्यां संमुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शन रूपा अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली । महामुद्रेय मुदिता परमीकरणे बुधैः । महामुद्रेय माख्याता न्यूनाधिकं समापनी । प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि २ द्वितीय पटले दक्षिणद्वारार्चन विधिः वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता । लिंगे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ।। १ ।। प्रतिमा दक्षिणास्या चेदुत्तमोत्तम संज्ञका । मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ।। २ ।। प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः । नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ।। ३ ।। श्रेष्ठं पश्चान्मुखं लिंगं दक्षास्यं बेरमुच्यते । अव्यक्तं मोक्षदं लिंगं व्यक्तं भूतिप्रदायकम् ।। ४ ।। भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् । शौचमाचमनं स्नानं सन्ध्योपासन मेव च ।। ५ ।। कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् । द्वार मस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ।। ६ ।। गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् । यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ।। ७ ।। संप्रविश्यान्तरे वास्तु पतिं संपूज्य फूजकः । पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ।। ८ ।। लिंगार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे । अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ।। ९ ।। अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् । सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ।। १० ।। पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रपूजयेत् । ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ।। ११ ।। पितृवायवग्नि ईशेषु हृदयादि व्यवस्थितम् । अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ।। १२ ।। गणेशःपूर्व देशे वा प्राग्वद्वा संप्रकीर्तिताः । पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ।। १३ ।। उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् । प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ।। १४ ।। लिंगार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् । तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ।। १५ ।। लोहजे शैलजे वापि मृज्जे धतुज रत्नजे । चित्रहीने शिलाबिंबे मूललिंग वदाचरेत् ।। १६ ।। रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् । अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ।। १७ ।। वस्त्र संमार्जनं पुण्यदिवसे स्नपनं मतम् । कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ।। १८ ।। अथवा बाणलिंगे वा दर्पणादौ समर्चयेत् । आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ।। १९ ।। गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके । वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ।। २० ।। संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत् ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ।। २१ ।। अथापरं समानं स्यात् शिवलिंगार्चनेन तु । कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ।। २२ ।। प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् । हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ।। २३ ।। मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् । मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ।। २४ ।। न्यास मार्गेण संस्थाप्य सन्निधान निरोधने । विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ।। २५ ।। सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः । एलालवङ्ग कर्पूर वराल फल कल्पितम् ।। २६ ।। दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये । क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ।। २७ ।। कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। २८ ।। व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् । पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ।। २९ ।। संमिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे । पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ।। ३० ।। सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते । एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ।। ३१ ।। त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।। ३२ ।। तांबुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे । बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ।। ३३ ।। सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि संख्यार्ध नाड्योऽथवास्युः ।। ३४ ।। उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ।। ३५ ।। अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् । कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ।। ३६ ।। पवित्रारोहणं मासार्चन मङ्कुर वापनम् । नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ।। ३७ ।। समालोच्य विधेयं स्यात् सकले निष्कले शिवे । अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ।। ३८ ।। सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः । अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ।। ३९ ।। किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् । तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ।। ४० ।। तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ।। ४०१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः द्वितीयः पटलः सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि संख्यार्ध नोड्योऽथ-वास्युः ।। उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ।। अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ।। पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् षड्गुण - १. सर्वज्ञत्वम् २. परितृप्तत्वम् ३. अनादि बोधृत्वम् ४. स्वतन्त्रत्वम् ५. अलुप्तशक्तित्वम् ६. अनन्तशवक्तिस्वम् ३ तृतीय पटले सकलार्चनाविधिः वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् । शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ।। १ ।। कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च । सम्यगाचभ्य संगृह्य भसितं वारिणा सह ।। २ ।। त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च । तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ।। ३ ।। भूतशुद्धिं सुधाप्लावं आत्मावाहनमेव च । करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ।। ४ ।। स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् । पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ।। ५ ।। अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् । अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ।। ६ ।। विशेषार्घ्यञ्च संकल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१/२ । ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् । कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ७१/२ ।। द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् । द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीं ।। ८१/२ ।। नन्दिनञ्च महाकालं गंगाह्वां यमुनामपि । संपूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ।। ९९/२ ।। दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ । शिवस्येशानमन्त्रेण मालाद्यमपनीय च ।। १०१/२ ।। शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा । आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ।। १११/२ ।। अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकं । वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ।। १२१/२ ।। तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् । सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ।। १३१/२ ।। शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते । या तस्य विमलाशक्तिश्शिवस्य समवायिनी ।। १४१/२ ।। तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् । हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ।। २०१/२ ।। कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते । सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ।। २११/२ ।। रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता । अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ।। २२१/२ ।। एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते । एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ।। २३१/२ ।। तत्रेशानेन वक्त्रेण ममुना सकलेन च । मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ।। २४१/२ ।। ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् । षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ।। २५१/२ ।। सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत् । बेरे सदाशिवेवापि लिंगेप्येवं समाचरेत् ।। २६१/२ ।। महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् । प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ।। २७१/२ ।। कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् । तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ।। २८१/२ ।। महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा । विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ।। २९१/२ ।। आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः । तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ।। ३०१/२ ।। स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे । गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ।। ३११/२ ।। ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् । पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ।। ३२१/२ ।। इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः । परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ।। ३३१/२ ।। होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् । शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ।। ३४१/२ ।। द्वारपालार्चनोपेतं बलिहोमसमन्वितम् । शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ।। ३५१/२ ।। प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् । उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ।। ३६१/२ ।। पवित्रारोहणं संम्यक् कृत्तिकादीपमेव च । संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ।। ३७१/२ ।। मासोत्सवं तथा मासेनवनैवेद्यकर्म च । प्रायश्चित्तञ्च जीर्णानां उद्धारञ्च गुरूत्तमाः ।। ३८१/२ ।। देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् । किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसंगमे ।। ३९१/२ ।। पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः । गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ।। ४०१/२ ।। मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् । गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ।। ४११/२ ।। आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ।। ४२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः तृतीयः पटलः इन्दु निभ पञ्च मुख हस्त दश युक्तं । शूल वर टङ्क मसि वज्र मभयं स्यात् ।। पाश वरदाङ्कुश मणिर्दहन वामे । श्वेत कमलासन सदाशिव स्वरूपम् ।। ४ चतुर्थे पटले स्नपनविधिः अथातस्संप्रवाक्ष्यामि स्नपनं परमेष्ठिनः । अष्टम्यां वा चतुर्दश्यां विषुवायनसंक्रमे ।। १ ।। ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः । सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ।। २ ।। कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा । राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ।। ३ ।। भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने । प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ।। ४ ।। नित्ये नैमित्तिके काम्ये कारयेच्छंकरस्य च । स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ।। ५ ।। अंकुरार्पणमादौ स्यात् महास्नपन कर्मणि । प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ।। ६ ।। अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ।। ६१/२ ।। पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा । चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ।। ७१/२ ।। सर्वालंकारसंयुक्ततोरणैरन्वितेपि वा । नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ।। ८१/२ ।। अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् । सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ।। ९१/२ ।। द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १०१/२ ।। अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा । तदा द्वितालमानेन कर्णिकामानमीरितम् ।। १११/२ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।। १२१/२ ।। पञ्चविंशतिसंख्यान्तं तत्समन्तात्समावृतम् । एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३१/२ ।। आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् । पञ्चविंशतिसंख्यातान् कलशान् मध्यमस्थितम् ।। १४१/२ ।। परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् । अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ।। १५१/२ ।। मध्यमे तिथिसंख्यास्युः नवकोणे व्यवस्थिताः । मध्यमे तिथिसंख्येतु मध्यमत्रितयं त्यजेत् ।। १६१/२ ।। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् । चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ।। १७१/२ ।। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् । मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ।। १८१/२ ।। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् । अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।। १९१/२ ।। शिवव्यूहस्य परितः षोडशैव परित्यजेत् । सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ।। २०१/२ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः । मार्गबाह्ये तु कोणेस्यादेकविंशति संख्यकः ।। २११/२ ।। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते । सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ।। २२१/२ ।। सार्धहस्तान्तरं हस्तमानान्तरमथापि वा । स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च ।। २३१/२ ।। तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा । स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ।। २४१/२ ।। त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् । हीनहीनतरं प्रस्थमानमित्यभिधीयते ।। २५१/२ ।। शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् । अधश्चेधभिचारार्थं भवेदेव न संशयः ।। २६१/२ ।। आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि । मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ।। २७१/२ ।। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् । तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ।। २८१/२ ।। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् । हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ।। २९१/२ ।। शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् । शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ।। ३०१/२ ।। चतुस्त्रिद्वयेकसंख्यातप्रस्थमानप्रपूरितम् । कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ।। ३११/२ ।। अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् । वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ।। ३२१/२ ।। षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् । कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ।। ३३१/२ ।। मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् । मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ।। ३४१/२ ।। निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके । तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ।। ३५१/२ ।। तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च । माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ।। ३६१/२ ।। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् । कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ।। ३७१/२ ।। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा । द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ।। ३८१/२ ।। मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् । भूतिक्षुसार कदलीतिलसर्षपपानसाः ।। ३९१/२ ।। भसितंतिलसारञ्च कदलीतिलसर्षपान् । नालिकेरञ्च नारंङ्गद्वयंस्यान्मातुलंगकम् ।। ४०१/२ ।। डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके । पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ।। ४११/२ ।। तिलबिल्वे तदन्ते तु मातुलंगफलम्मतम् । नारंगद्वितयन्तस्माद्यवनीवारलाजकम् ।। ४२१/२ ।। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते । कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवंगकम् ।। ४३१/२ ।। तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् । सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ।। ४४१/२ ।। एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः । पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ।। ४५१/२ ।। एवं कृते भवन्त्यत्र कलशानान्तु षोडश । चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ।। ४६१/२ ।। अन्तरालेषु मध्यादि वसु संख्यकमीरितम् । ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ।। ४७१/२ ।। गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् । पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ।। ४८१/२ ।। शमीदूर्वा च शुक्लार्कबिल्वचम्पकशंखिनी । अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसंज्ञकम् ।। ४९१/२ ।। नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके । अथवान्यप्रकारेण तदेव पुनरुच्यते ।। ५०१/२ ।। पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै । क्षीरंदधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ।। ५११/२ ।। तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी । नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ।। ५२१/२ ।। पुन्नागशंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा । सिम्हधुर्तूरसंज्ञे च षोडशास्त्रविनिर्दिशेत् ।। ५३१/२ ।। सदुर्वासर्षपाम्राणि नारंगपनसेमते । कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ।। ५४१/२ ।। इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् । नीवारकुंकुमतिलमाञ्जीमुरजसत्तुकम् ।। ५५१/२ ।। मातुलंगं मलयजमलयजमगरूशीर रात्रिजम् । पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ।। ५६१/२ ।। विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि । अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया ।। ५७१/२ ।। अष्टौ गणेश्वरा बाह्ये चांगुष्ठप्रमुखास्तथा । क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा ।। ५८१/२ ।। एकोनेन तु पञ्चाशत् स्नपने देवतामताः । कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ।। ५९१/२ ।। द्वात्रिंशत्पदसंख्यास्यात् पाद्यदींस्तत्र विन्यसेत् । दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ।। ६०१/२ ।। अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ।। ६१ ।। अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते । चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ।। ६२ ।। कर्पूरं हरिबेरञ्च दान्तं मांसीमुरंतृणम् । तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ।। ६३ ।। चम्पकं सहदेवी च शतपत्री च रोचना । बिल्वं यवा शमी दूर्वा तक्कोलं मेघसम्ज्ञकम् ।। ६४ ।। धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् । रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ।। ६५ ।। धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः । प्लेक्षेभपिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ।। ६६ ।। अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् । तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ।। ६७ ।। बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् । श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ।। ६८ ।। सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् । दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ।। ६९ ।। गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका । वटशृंगेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ।। ७० ।। शंखिनी भृंगराजश्च नीवारं गैरिकं तथा । आम्रमोचरसं जातिः पाटली मार्जनं पुनः ।। ७१ ।। पञ्चमावरणं ह्येतदन्यथा च निगद्यते । शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ।। ७२ ।। अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च । नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ।। ७३ ।। पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ।। ७३१/२ ।। शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः । तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ।। ७४१/२ ।। गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः । महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ।। ७५१/२ ।। इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी । व्याघ्रनख्या च मंजिष्ठं सरलं भद्रकोष्ठकम् ।। ७६१/२ ।। नवनीतं द्राविडाह्वं सज्जं तक्कोलसंज्ञकम् । चञ्चलातिबलाचैव बलासिंहाप्रियंगुकम् ।। ७७१/२ ।। लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् । अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ।। ७८१/२ ।। सतिलं कुंकुमं मेघमगरुं कृष्णरोचना । श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ।। ७९१/२ ।। कृष्णागरुं चतगरं ततः प्रोक्तंमनश्शिलाम् । रक्तचन्दनसंज्ञञ्च लवंगं रात्रिचूर्णकम् ।। ८०१/२ ।। कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना । चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ।। ८११/२ ।। आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः । दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ।। ८२१/२ ।। अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ । पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ।। ८३१/२ ।। दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् । तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसंज्ञकम् ।। ८४१/२ ।। चम्पकं हरिबेरञ्च सर्षपन्नागकेसरं । तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ।। ८५१/२ ।। लवंगपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् । तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ।। ८६१/२ ।। भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च । धात्री च नालिकेरञ्च लिकुचं मातुलंगकम् ।। ८७१/२ ।। तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् । लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ।। ८८१/२ ।। रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् । गुञ्जादि निष्कपर्यन्तं पाद्याद्यंगं प्रमाणकम् ।। ८९१/२ ।। एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् । मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ।। ९०१/२ ।। आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् । कर्पूरकुंकुमादीनां मानमिष्टं प्रदीयताम् ।। ९११/२ ।। मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः । एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ।। ९२१/२ ।। नवसंख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः । अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ।। ९३१/२ ।। अष्टोत्तरसहस्राख्यं अधुनात्र निगद्यते । वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ।। ९४१/२ ।। एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमंत्रितम् । तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ।। ९५१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। ९६१/२ ।। क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा । सर्षपं नालिकेराख्यं रजनी मातुलंगकम् ।। ९७१/२ ।। लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् । पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ।। ९८१/२ ।। रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् । पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ।। ९९१/२ ।। मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् । दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ।। १००१/२ ।। कषायाढयोदकोपेतमुत्तरे पुनरुच्यते । कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ।। १०११/२ ।। माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् । पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ।। १०२१/२ ।। पञ्चरत्नमिति ज्ञेयं आद्या भावे द्वितीयकम् । रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ।। १०३१/२ ।। सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ।। १०४१/२ ।। सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला । गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ।। १०५१/२ ।। शालिकोद्रवनीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ।। १०६१/२ ।। नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ।। १०७१/२ ।। कुंकुमं हरिबेरञ्च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ।। १०८१/२ ।। पर्वते च नदीतीरे वल्मीके कर्कटावटे । वृषशृंगे च सत्क्षेत्रे समुद्रे गजदन्तके ।। १०९१/ २ ।। अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् । गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ।। ११०१/२ ।। शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते । दूर्वांकुरञ्च कुशाग्रं गौरसर्षपम् ।। ११११/२ ।। भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते । तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ।। ११२१/२ ।। अपामार्गसमायुक्तं पत्रतोयमिहेरितम् । पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ।। ११३१/२ ।। पुन्नागकुरवनारंगनन्द्यावर्तं च मल्लिका । श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ।। ११४१/२ ।। कुष्ठं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ।। ११५१/२ ।। शूलं कपालहरिणी पिनाकः परशुस्तथा । पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ।। ११६१/२ ।। पनसो नालिकेरश्च मातुलंगद्वयं ततः । नारंगद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ।। ११७१/२ ।। पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली । जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ।। ११८१/२ ।। अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः । गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ।। ११९१/२ ।। सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् । निकुन्तः पञ्चभिर्युक्तंकान्तोदकमिति स्मृतम् ।। १२०१/२ ।। उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। १२११/२ ।। गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ।। १२२१/२ ।। मयूरशिखिभूर्जत्वग्रोचनाभृंगराजकम् । कृतांजलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ।। १२३१/२ ।। अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् । चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ।। १२४१/२ ।। लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः । विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ।। १२५१/२ ।। रक्तोत्पलं शमीपश्चात् पद्मं सुरस संज्ञकम् । नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ।। १२६१/२ ।। यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका । जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ।। १२७१/२ ।। द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् । वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ।। १२८१/२ ।। तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् । माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ।। १२९१/२ ।। कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा । पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ।। १३०१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। १३११/२ ।। द्वितीयावरणे स्वर्णं पदे षोडशसंख्यके । चतुर्विंशति संख्याते नालिकेरफलं बहिः ।। १३२१/२ ।। द्वात्रिंशत्संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके । षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ।। १३३१/२ ।। चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् । द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ।। १३४१/२ ।। अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् । नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ।। १३५१/२ ।। दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् । चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ।। १३६१/२ ।। अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते । धातु लोहोदकं पश्चात् शतेषोडशसंयुते ।। १३७१/२ ।। शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् । सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ।। १३८१/२ ।। पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे । घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ।। १३९१/२ ।। वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् । प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ।। १४०१/२ ।। उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः । उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ।। १४११/२ ।। अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते । विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ।। १४२१/२ ।। स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः । पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ।। १४३१/२ ।। कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् । स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ।। १४४१/२ ।। अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः । तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ।। १४५१/२ ।। अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः । स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ।। १४६१/२ ।। तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः । अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ।। १४७१/२ ।। अष्टसंख्या समायुक्तो द्विशते मध्यमेष्टकम् । तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ।। १४८१/२ ।। बाह्ये षोडशसंख्यातान् गृहणीयाद्दिग्विदिग्गतम् । अष्टव्यूहन्तथात्वेतु उक्त संख्यान्वितं भवेत् ।। १४९१/२ ।। द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते । रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ।। १५०१/२ ।। दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् । लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ।। १५११/२ ।। निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् । तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ।। १५२१/२ ।। किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् । गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ।। १५३१/२ ।। फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः । तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ।। १५४१/२ ।। पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् । क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ।। १५५१/२ ।। फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ।। १५७ ।। घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् । अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ।। १५७ ।। ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् । तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ।। १५८ ।। शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते । मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ।। १५९ ।। वज्रं समस्तरत्नानां लोहानामग्निदैवतम् । यवो निखिल बीजानां धातूनां हरितालकम् ।। १६० ।। ओषधीनामभावे तु सहदेवी प्रशस्यते । फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ।। १६१ ।। नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते । चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ।। १६२ ।। त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् । सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ।। १६३ ।। फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ।। १६४ ।। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ।। १६५ ।। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः । गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ।। १६६ ।। दीपेन सहितो मन्त्री लिंगमुद्रां प्रदर्शयेत् । कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ।। १६७ ।। सहस्रकलशे पञ्चशतहोमं समाचरेत् । कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ।। १६८ ।। कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना । समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ।। १६९ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् । शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ।। १७० ।। अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् । पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ।। १७१ ।। चतुर्होमविधाने तु प्रधानेवाथ पूर्वके । शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ।। १७२ ।। मूलाद्दशांशतोंगानान्तथा ब्रह्म सुलोचने । कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ।। १७३ ।। प्रविश्य गर्भगेहे तु लिंगं संशोद्धय पूर्ववत् । संकल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ।। १७४ ।। ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ।। १७४१/२ ।। पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् । दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ।। १७५१/२ ।। नृत्तगेयसमायुक्तं शंखध्वनिसमन्वितम् । वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ।। १७६१/२ ।। जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् । उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ।। १७७१/२ ।। दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् । गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ।। १७८१/२ ।। अपनीय पिधानं तत् दक्षहस्तेन देशिकः । सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ।। १७९१/२ ।। संगृह्य तत्वचित्तस्तु लिंगमूर्ध्नि मनुं न्यसेत् । देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ।। १८०१/२ ।। शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् । पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ।। १८११/२ ।। दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु । ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ।। १८२१/२ ।। आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् । पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।। १८३१/२ ।। उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् । अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ।। १८४१/२ ।। नानाफलानि गव्यानि पञ्चामृतयुतानि च । विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ।। १८५१/२ ।। विरुक्ष्य गन्धतोयेन स्नापयेल्लिंगमादरात् । अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ।। १८६१/२ ।। सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् । आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ।। १८७१/२ ।। ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ।। १८८ ।। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् । स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ।। १८९ ।। गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च । प्रदर्श्य लिंगमुद्रान्तु कवचेनावकुण्ठयेत् ।। १९० ।। इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च । वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ।। १९१ ।। पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् । गत्वा सकलसामीप्यमासनं मूर्तिमेव च ।। १९२ ।। संकल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् । स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ।। १९३ ।। गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् । प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ।। १९४ ।। तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् । स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ।। १९५ ।। देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् । पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ।। १९६ ।। पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् । चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ।। १९७ ।। देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् । द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ।। १९८ ।। शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने । धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ।। १९९ ।। अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसंज्ञकाः । पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ।। २०० ।। ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिंगान्तास्समीरिताः । अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ।। २०१ ।। पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०२ ।। चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०३ ।। गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः । गंगादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ।। २०४ ।। स्नापयेत् परमेशानं सर्वदोषापनुत्तये । सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ।। २०५ ।। सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः । सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ।। २०६ ।। राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये । राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ।। २०७ ।। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये । तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ।। २०८ ।। युद्धोद्यते स्वसेनाया बलायामृति हेतवे । भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ।। २०९ ।। नरनारी गवादीनां रोगनाशार्थमेव । जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ।। २१० ।। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके । अयने विषुपे वापि ग्रहणस्थापनादिके ।। २११ ।। उत्सवे च पवित्रे च दमनारोपणेऽपिच । कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ।। २१२ ।। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः । मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ।। २१३ ।। प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि । जनकल्याणकाले च नराणां रक्षणार्थके ।। २१४ ।। विशेष पूजाकाले च भक्तानामुत्सवेपि च । देवभ्रमणकाले वा मृगयायां विशेषतः ।। २१५ ।। कुर्यात्प्रतिदिनं वापि त्रिसंध्यायां गुरूत्तमाः । सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ।। २१६ ।। प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते । कुम्भेनैकेन वा व्योमसंख्येन कलशेन वा ।। २१७ ।। प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा । पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ।। २१८ ।। एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा । इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ।। २१९ ।। एकद्रव्यंचतुर्दिक्षु भिन्नद्रव्यमथापि वा । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ।। २२० ।। नवकुम्भविधानेऽपि विधानं सदृशं मतम् । एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ।। २२१ ।। स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितं । प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ।। २२२ ।। पञ्चविंशतिसंख्यातमपि नित्ये प्रशंस्थितम् । उत्तमोत्तमपूजायामष्टोत्तरशतावधि ।। २२३ ।। स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् । नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ।। २२४ ।। पञ्चविंशतिसंख्यादि साष्टसाहस्रकावधौ । अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ।। २२५ ।। हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा । स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ।। २२६ ।। श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् । कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ।। २२७ ।। हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः । नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ।। २२८ ।। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया । काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ।। २२९ ।। कर्तव्यं वा न कर्तव्यमितिसन्देहसंगतौ । करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ।। २३० ।। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः । ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ।। २३१ ।। क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् । क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ।। २३२ ।। तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः । प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ।। २३३ ।। तद्विधानानुपन्ने तत्राप्येषो विधीयते । प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ।। २३४ ।। वर्तमाने तु शास्त्रार्थे तदंगं सृक्स्रुवादिकम् । स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ।। २३५ ।। एकमादिकमालोच्य कारयेद्यो नृपोत्तमः । सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ।। २३६ ।। तस्याप्यायुषमारोग्यम्मनस्संकल्पितञ्चयत् । सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ।। २३७ ।। विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स राजा क्षयमाप्नोति नात्रकार्या विचारणा ।। २३८ ।। तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञानपारगेण क्रियावता ।। २३९ ।। क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये । गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ।। २४० ।। तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः । विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ।। २४१ ।। पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् । संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ।। २४२ ।। गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् । चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ।। २४३ ।। गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् । कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ।। २४४ ।। पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा । नानोपदंशसंयुक्तं नानाफलसमन्वितम् ।। २४५ ।। दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् । एलालवंकेकर्पूरजातीतक्कोलचूर्णयुक् ।। २४६ ।। मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् । प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ।। २४७ ।। समिधाज्येन चरुणा तिलेनापि समन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ।। २४८ ।। तस्मात् भस्मसमादाय यजमानाय दापयेत् । संप्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ।। २४९ ।। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् । द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ।। २५० ।। षट्सप्तगुणसंख्यातं कर्मसिद्ध्यर्थमेव वा । पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ।। २५१ ।। नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः । नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ।। २५२ ।। समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् । सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ।। २५३ ।। नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः । सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ।। २५४ ।। तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् । धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ।। २५५ ।। विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् । नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ।। २५६ ।। एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च । सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ।। २५७ ।। नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् । लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ।। २५८ ।। नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः । अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ।। २५९ ।। ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् । ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ।। २६० ।। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे । विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ।। २६१ ।। कन्यायां मिधुने धनुष्यन्ते समाचरेत् । सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ।। २६२ ।। अर्धमेकं द्वयं वापि यामं वा घटिकामपि । आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ।। २६३ ।। आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ।। २६४ ।। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् । यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ।। २६५ ।। स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् । तोरणं स्रुक्स्रुवावष्टमंगलन्नवरत्नकम् ।। २६६ ।। तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च । वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ।। २६७ ।। आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने । निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ।। २६८ ।। निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् । नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ।। २६९ ।। नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ।। २६९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः स्नपनविधि पटलः पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा । चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ।। सूत्रन्यास मधोरेण तालमात्रान्तरं यथा कषायोदकं चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः । आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ।। मार्जनोदकं दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते । रत्नोदकम् माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् । पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ।। मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ।। पञ्चरत्नमिति ज्ञेयं आद्यभावे द्वितीयकम् ।। लोहोदकम् सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम् । आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ।। धातूदकम् सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला । गौरिकं रोचना चान्ते धातूदकमितं मतम् ।। बीजोदकम् शालिकोद्रव नीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ।। १०६ ।। गन्धोदकम् नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ।। १०७ ।। कुंकुमं हरिबेरं च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ।। १०८ ।। मृदोदकम् पर्वते च नदीतीरं वल्मीके कर्कटावटे । वृषशृंगे च सुक्षेत्रे समुद्रे गजदन्तके ।। अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम् ।। १०९ ।। मार्जनोदकम् गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली । शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ।। ११० ।। परिमाणोदकम् दूर्वांकुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् । भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ।। पत्रोदकम् तुलसी बिल्वपत्रं तमालश्च तपस्विनी । अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ।। पुष्पोदकम् पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः । पुन्नाग कुरव नारंग नद्यावर्तं च मल्लिका ।। श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ।। कुष्टं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ।। अस्त्रोदकम् शूलं कपाल हरिणी पिनाकः परशुस्तथा । पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ।। फलोदकम् पनसो नालिकेरश्च मातुलुंग द्वयं ततः । नारङ्गद्वयरंभाद्यैः उक्तमस्मिन् फलोदकम् कषायोदकम् पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली । जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम् आङ्योदकम् अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः । गन्धत्रय समायुक्तं आडयतोय मिति स्मृतम् ।। कान्तोदकम् सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् । निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ।। मूलोदकम् उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। वल्कलोदकम् मयूर शिखि भूर्जत्व ग्रोचना भ्रंगराजकम् । कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ।। त्वगोदकम् लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः । विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ।। चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२ विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। ४९ । १०९ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८ द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १० ।। अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् ।। ११ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११/२ । विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् शिवव्यूहस्य परितः षोडशैव परित्यजेत् सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः १४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम् १६ मध्यमे तिथिसंख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम् सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम् सार्धहस्तान्तरं हस्तमानान्तरमथापिवा स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा १० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। ११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् १११/२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्] विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः । १४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम् १६ मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम् अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः । एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।। मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् । स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् ।। अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् । शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।। सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ।। सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् । सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ।। स्याच्चतुर्दश संख्याता वीथि बाह्ये क्रमेण च । तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।। ५ पञ्चमे पटले नित्योत्सवविधिः नित्योत्सवविधिं वक्ष्ये नित्यपूजांगमुत्तमम् । शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ।। १ ।। प्रासादमण्टपादौ वा गोमयेनोपलेपिते । प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ।। २ ।। सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा । तिथ्यंगुलं समारभ्य व्योमांगुलविवृद्धितः ।। ३ ।। द्वात्रिंशदंगुलान्तं तु पात्रमानमुदीरितम् । वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ।। ४ ।। तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते । एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ।। ५ ।। शेषेण दलमाख्यातं विकाराष्टदलम्मतम् । अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ।। ६ ।। तद्वदोष्टसमोपेतं केवलं पात्रमेव वा । कुडुपद्वयमारभ्य कुडुपादाढकावधि ।। ७ ।। तण्डुलं कल्पयेदन्नलिंगार्थं वाऽक्षतार्थकम् । मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ।। ८ ।। तेनान्नलिंगं कर्तव्यं भूतमात्रप्रमाणतः । एकांगुलं तु दैर्घ्यंस्याद्यावदष्टादशांगुलम् ।। ९ ।। अंगुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् । अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ।। १० ।। नैमित्तिकार्थन्नित्यार्थमन्नलिंगमुदाहृतम् । त्रिकालमन्नलिंगं वा प्रातर्मध्याह्नयोस्तु वा ।। ११ ।। मध्याह्ने वाथ पूर्वाह्ने पुष्पलिंगमुदाहृतम् । प्रदोषेऽक्षतलिंगंस्यात्तत्रपाशुपतं यजेत् ।। १२ ।। चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि । त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ।। १३ ।। सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ।। १३१/२ ।। विद्युन्मालानिभश्वेतः जटामकुटमण्डितः । दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ।। १४१/२ ।। वरदाभयपाणिर्वा सर्वलक्षणसंयुतः । हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ।। १५१/२ ।। योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते । शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ।। १६१/२ ।। रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् । त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ।। १७१/२ ।। एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् । दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ।। १८१/२ ।। त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् । दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ।। १९१/२ ।। पुष्पाक्षतान्नलिंगेषु पूजनीयस्स्वमन्त्रतः । अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ।। २०१/२ ।। सपीठे गोलकाकारे विपीठे वा तमर्चयेत् । अन्नलिंग प्रमाणे तु मूलाग्रसमविस्तरे ।। २११/२ ।। हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते । स्थलिकामानदण्डेन सहितं वा समर्चयेत् ।। २२१/२ ।। इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु । पादुके त्र्यंगुले तस्मादंगुलांगुलवर्धनात् ।। २३१/२ ।। तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् । दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ।। २४१/२ ।। अष्टांशावधिको मध्यमानेन नवमानकः । तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ।। २५१/२ ।। समन्ताल्लोकपाः पूज्याः पूजादाववसानके । नवान्नलिंगसंयुक्तमथ नित्योत्सवं नयेत् ।। २६१/२ ।। सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् । द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ।। २७१/२ ।। मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः । रंगे वा शिबिकायां वा परिचारकमूर्धसु ।। २८१/२ ।। आरोप्यलंकृतान्देवान्वितानेन समन्वितम् । छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ।। २९१/२ ।। गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् । धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ।। ३०१/२ ।। आद्यं प्रदक्षिणं कुर्यात् मंगिणी तालसंयुतम् । वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृंगिणी ।। ३११/२ ।। मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी । षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ।। ३२१/२ ।। तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् । ग्रामे वा नगरे वापि तथा प्राकार एव वा ।। ३३१/२ ।। द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् । एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ।। ३४१/२ ।। अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् । गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ।। ३५१/२ ।। पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् । गोपुरे वाद्यहीनं वा शंखध्वनिसमन्वितम् ।। ३६१/२ ।। इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् । बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ।। ३७१/२ ।। दक्षिणे भृंगिणी तालं कौशिकेन समन्वितम् । मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ।। ३८१/२ ।। पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् । वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ।। ३९१/२ ।। सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः । शाला पाणिसमायुक्तं शांकरे ढक्करी मता ।। ४०१/२ ।। एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् । पक्षालितांघ्रयस्सर्वे प्रविशेयुश्शिवालयम् ।। ४११/२ ।। अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु । पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।। ४२१/२ ।। लिंगाद्देवं समाहृत्य लिंगे दक्षे निवेशयेत् । शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ।। ४३१/२ ।। अन्येषामपि देवानां देवीनां मूलबिम्बवत् । रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ।। ४४१/२ ।। संपाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् । तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।। ४५१/२ ।। पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः ६ षष्ठे पटले महोत्सवविधिः उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम् । ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ।। १ ।। ध्वजांकुरो ध्वजंगस्यात् ध्वजात् पूर्वन्तु तन्नयेत् । तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ।। २ ।। द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् । मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ।। ३ ।। राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा । माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ।। ४ ।। विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् । भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ।। ५ ।। त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके । अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ।। ६ ।। पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ।। ७ ।। तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि । भागं कृत्वैकभागेन पटविस्तार उच्यते ।। ८ ।। विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते । विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ।। ९ ।। वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ।। १० ।। श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् । रक्तशृंगसमायुक्तं तद्वत् खुरसमन्वितम् ।। ११ ।। ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् । विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ।। १२ ।। जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् । सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ।। १३ ।। मानं मात्रांगुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः । पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ।। १४ ।। चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् । पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ।। १५ ।। एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् । अस्त्र तोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ।। १६ ।। मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते । स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ।। १७ ।। ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् । सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ।। १८ ।। कलशैरष्टसंख्यातैस्सापिधानैस्सवस्त्रकैः । सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ।। १९ ।। आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् । वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ।। २० ।। प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि । वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ।। २१ ।। ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् । संकल्पितहृदादींश्च क्रमेण विनिवेशयेत् ।। २२ ।। तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् । आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ।। २३ ।। कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् । मध्यकुम्भेऽपि संपूज्य लोकपान् परितो यजेत् ।। २४ ।। वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ।। कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते । निरीक्षणादि संस्कारैश्शिवाग्निं संप्रकल्पयेत् ।। २५ ।। तन्मध्ये वृषमावाह्य सांगं सन्तर्पयेत्तदा । सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ।। २६ ।। तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् । पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् । पटस्थाय घटस्थाय वृषायासन रूपिणे ।। २८ ।। प्रातस्संपूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् । मुखवासनताम्बूलं वृषभाय निवेदयेत् ।। २९ ।। पुनः पूर्णाहुतिन्दत्वा सर्वमंगलसंयुतम् । सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ।। ३० ।। रंगे वा शिबिकायां वा समारोप्य वृषध्वजम् । त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ।। ३१ ।। ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति । दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ।। ३२ ।। ध्वजारोहणदिने वापि अधिवासदिनेपि वा । धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ।। ३३ ।। षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ।। ३३१/२ ।। एकादितलपर्यन्तं गोपुरान्तमथापि वा ।। ३४ ।। रुद्रद्विगुणमध्यस्थकरसंख्यामितन्तु वा । मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ।। ३५ ।। सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ।। ३५१/२ ।। पलाशखदिराश्वत्थवटचन्दन दारवः ।। ३६ ।। सालम्माधूकतालं वा साराम्रकमथापि वा ।। वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ।। ३७ ।। चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् । स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ।। ३८ ।। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते । द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ।। ३९ ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्य चांगुलात्षोडशांगुलम् ।। ४० ।। यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ।। ४१ ।। एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ।। ४२ ।। उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् । स्कन्धं द्वयं तन्मानद्वादशांगुलमानतः ।। ४३ ।। षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् । सप्तांगुलं समारभ्य गायत्र्यर्णांगुलावधि ।। ४४ ।। स्कन्धविस्तार उद्दिष्टो मूलांग्रे तु त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ।। ४५ ।। चतुस्त्रिद्वयंगुलं वापि मानमेषां प्रकीर्तितम् ।। ४५१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४६ ।। मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ।। ४६१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४७ ।। दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा । बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ।। ४८ ।। षडंगुलं समारभ्य षडंगुल विवृद्धितः । दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ।। ४९ ।। तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् । भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ।। ५० ।। कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् । दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ।। ५१ ।। पञ्चविंशतिमात्रादि त्रित्र्यंगुलविवर्धनात् । द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ।। ५२ ।। एकांगुलं समारभ्य पादमात्रविवृद्धितः । त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ।। ५३ ।। वलयाकाश एषो वा वलयस्याद्यथा बलम् । रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यंगुलनाहयुक् ।। ५४ ।। ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् । तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ।। ५५ ।। एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च । संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ।। ५६ ।। शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् । अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्वादिकन्यसेत् ।। ५७ ।। साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु । स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ।। ५८ ।। रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः । गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ।। ५९ ।। रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् । कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ।। ६० ।। हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ।। ६०१/२ ।। अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः । तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ।। ६११/२ ।। देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा । तथैव गोपुरस्यापि महापीठान्तिकेपि वा ।। ६२१/२ ।। अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः । नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ।। ६३१/२ ।। प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्संख्ययामताः । अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ।। ६४१/२ ।। दण्डाधिपास्समाख्याता पटेषु वृष एव हि । दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ।। ६५१/२ ।। हस्तमात्रं समारभ्य त्र्यंगुलादि विवृद्धितः । द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ।। ६६१/२ ।। समोत्तुंगा त्रिपादा वा अष्टांशात् सप्तपञ्च वा । चतुस्त्र्यंशार्धतुंगं वा वेदिका परिकीर्तिता ।। ६७१/२ ।। त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः । द्वित्र्यंगुलक्षयाद्वापि मेखला मानमीरितम् ।। ६८१/२ ।। मेखला रहिते पीठे मूलेस्यादुपवेदिका । द्वयंगुलात् पादवृद्धया तु षडंगुलसमाविधि ।। ६९१/२ ।। पादार्धार्धत्र्यंघ्रिसमा उत्सेधाः परिकीर्तिताः । वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरंगुलमानतः ।। ७०१/२ ।। व्योमांगुलविवृद्ध्याष्टादशांगुल समावधि । पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ।। ७११/२ ।। एकैकांगुल वेशात्तु रुद्रमात्रसमाविधि । पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ।। ७२१/२ ।। कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः । गुणांगुलावधिः कार्यः तदुत्सेधनमुच्यते ।। ७३१/२ ।। चतुरष्टदलं पद्मं विकारदलमेव वा । वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ।। ७४१/२ ।। तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् । एवं संपाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ।। ७५१/२ ।। पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् । दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ।। ७६१/२ ।। त्रिशूलेन समायुक्तं मंगलांकुरशोभितम् । धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ।। ७७१/२ ।। आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् । कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ।। ७८१/२ ।। दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् । दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ।। ७९१/२ ।। त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ।। ८० ।। बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः । क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ।। ८१ ।। कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः । वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ।। ८२ ।। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः । आदौ स्पृष्ट्वा स्वयञ्चान्यंप्रेरयेद्रोहणायवा ।। ८३ ।। अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः । पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ।। ८४ ।। आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् । क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ।। ८५ ।। तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् । वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ।। ८६ ।। आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः । दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ।। ८७ ।। शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् । वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ।। ८८ ।। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च । तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ।। ८९ ।। गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् । पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ।। ९० ।। सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् । चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ।। ९१ ।। अतः प्रभृतितीर्थान्तमवरोहावसानकम् । एककालंद्विकालं वा त्रिकालं पूजयेद्वृषम् ।। ९२ ।। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ९३ ।। नोपसर्गभयन्तत्र न परागमविभ्रमः । विपरीता न मतयो रोगिणामपिभूयसा ।। ९४ ।। स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः । शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ।। ९५ ।। कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् । प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ।। ९६ ।। भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि । स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ।। ९७ ।। षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः । एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ।। ९८ ।। पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् । पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ।। ९९ ।। मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके । वामे विष्णुं समावाह्य पालिकायां तु पार्वती ।। १०० ।। सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः । दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ।। १०१ ।। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके । मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ।। १०२ ।। कात्यायनी तु कौबेर्यां शूलमूले मता इमे । रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ।। १०३ ।। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् । भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ।। १०४ ।। ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् । वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ।। १०५ ।। सप्तकीलेषु मातृश्च नवकीले नवग्रहान् । रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ।। १०६ ।। प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः । गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ।। १०७ ।। भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् । एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ।। १०८ ।। तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः । सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ।। १०९ ।। वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् । तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ।। ११० ।। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा । भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ।। १११ ।। गन्धारादि स्वरोपेतं समतालादि तालकम् । गीतनृत्तसमायुक्तमन्नलिंगसमायुतम् ।। ११२ ।। प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा । संग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ।। ११३ ।। धूपदीपसमायुक्तं घण्टारवसमन्वितम् । प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ।। ११४ ।। इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः । बलिदानावसाने तु तालस्वरसमायुतम् ।। ११५ ।। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च । ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ।। ११६ ।। समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः । भृंगिणी कौशिकन्नट्ट भाषया मल्लतालकम् ।। ११७ ।। श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् । कोटिकन्तर्करागेण शालापाण्यातु डक्करी ।। ११८ ।। पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा । ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ।। ११९ ।। भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् । देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ।। १२० ।। न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् । तदग्रे वृषकुंभंस्यात् वृषविद्येश्वरान्वितम् ।। १२१ ।। तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् । क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।। १२२ ।। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा । प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ।। १२३ ।। त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना । भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम् ।। १२४ ।। अन्नलिंगसमायुक्तं सर्वातोद्यसमन्वितम् । ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ।। १२५ ।। बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च । ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ।। १२६ ।। रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् । ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ।। १२७ ।। देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् । ततोंकुरार्पणं रात्रौ यागारम्भदिने मतम् ।। १२८ ।। तदर्थमंकुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा । ग्रामप्रदक्षिणन्तीर्थांकुरस्यावश्यकम्मतम् ।। १२९ ।। अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा । अंकुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ।। १३० ।। संग्राह्य वापयेत् रात्रौ बीजान्यंकुरसिद्धये । तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ।। १३१ ।। अन्यत्सर्वं समुद्दिष्टमंकुरार्पण पूर्वके । तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ।। १३२ ।। केत्वंकुरो नवाहे स्यात् स्प्ताहे चोत्सवांकुरम् ।। १३२१/२ ।। एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् । यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ।। १३३१/२ ।। वामेऽवामे तथा पञ्चशालानामिष्टदेशके । मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ।। १३४१/२ ।। एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः । पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ।। १३५१/२ ।। समानपंक्तयोवास्युर्मात्रादेकांशवर्धनात् । नवांगुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ।। १३६१/२ ।। एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी । एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ।। १३७१/२ ।। शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् । एकाग्निसहितां वापि वितानध्वजसंयुताम् ।। १३८१/२ ।। दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् । नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ।। १३९१/२ ।। मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः । एकांगुलविवृद्धयाष्टाविंशत्यंगुलकावधि ।। १४०१/२ ।। वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः । अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ।। १४११/२ ।। मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् । युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ।। १४२१/२ ।। मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् । एवं सर्वञ्च संपाद्य शिल्पिमोचनमाचरेत् ।। १४३१/२ ।। पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् । भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ।। १४४१/२ ।। स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् । द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ।। १४५१/२ ।। तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् । तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ।। १४६१/२ ।। विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् । तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ।। १४७१/२ ।। पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसंख्यया । तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।। १४८१/२ ।। अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् । सर्वे ससूत्रवस्त्राढ्याहेमपंकजभूषिताः ।। १४९१/२ ।। सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः । स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ।। १५०१/२ ।। शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् । लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ।। १५११/२ ।। आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे । तोरणद्वारकुम्भांश्च लोकपालघटानपि ।। १५२१/२ ।। हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् । मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ।। १५३१/२ ।। एवं संपाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् । सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ।। १५४१/२ ।। सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः । स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ।। १५५१/२ ।। तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् । अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ।। १५६१/२ ।। सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् । ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ।। १५७१/२ ।। क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् । शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ।। १५८१/२ ।। नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः । षडंगमूर्तिपांगञ्चेत् पुत्रायुष्यफलप्रदम् ।। १५९१/२ ।। एकद्वित्र्यंगुलाधिक्यं योग्यनाहप्रमाणतः । संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ।। १६०१/२ ।। भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् । प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ।। १६११/२ ।। पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः । द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ।। १६२१/२ ।। तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् । अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ।। १६३१/२ ।। अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् । ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ।। १६४१/२ ।। पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु । स्थण्डिले पूजयेच्छक्तिं यंत्रिकायां त्रितत्वकम् ।। १६५१/२ ।। प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता । भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ।। १६६१/२ ।। अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् । पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ।। १६७१/२ ।। सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् । ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ।। १६८१/२ ।। कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः । अंगुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ।। १६९१/२ ।। आलभेत् भस्म संयुक्तं सूत्रन्दक्षांगुलद्वयात् । मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ।। १७०१/२ ।। देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् । सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ।। १७११/२ ।। जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा । ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ।। १७२१/२ ।। दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा । स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ।। १७३१/२ ।। देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः । उमा महेश्वरे वामे सुखासीने महेश्वरः ।। १७४१/२ ।। अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च । एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ।। १७५१/२ ।। कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् । यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ।। १७६१/२ ।। अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा । कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ।। १७७१/२ ।। रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः । त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ।। १७८१/२ ।। दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते । यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ।। १७९१/२ ।। तीर्थार्थमंकुरं कुर्यादनयोः पूर्वकालतः । देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ।। १८०१/२ ।। द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च । ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ।। १८११/२ ।। पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा । वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ।। १८२१/२ ।। कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् । पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ।। १८३१/२ ।। विद्यादेहञ्च संकल्प्य प्रणवं विन्यसेत् शिवम् । हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ।। १८४१/२ ।। एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् । विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ।। १८५१/२ ।। तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत् । तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ।। १८६१/२ ।। अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयं । तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ।। १८७१/२ ।। एवं क्रमेण संपूज्य यायात्कुण्डान्तिकं गुरुः । संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ।। १८८१/२ ।। नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् । न्यस्त्वाऽवाह्य शिवं सांगं सब्रह्मांगञ्च तर्पयेत् ।। १८९१/२ ।। चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै । स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ।। १९०१/२ ।। वेणुबिल्वयवा वापि सक्तुक्षीरं यवंगुलम् । तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ।। १९११/२ ।। ब्रह्मशालियवैर्वापि माषशालियवैस्सह । तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ।। १९२१/२ ।। चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः । समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ।। १९३१/२ ।। शतमष्टोत्तरं होमं शिवेनांगैर्दशांशतः । प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ।। १९४१/२ ।। द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे । तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ।। १९५१/२ ।। होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् । तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ।। १९६१/२ ।। नित्योत्सवविधानेन कृत्वा लिंगंहविर्मयम् । तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ।। १९७१/२ ।। दशायुधसमोपेतं धूपदीपसमन्वितम् । घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ।। १९८१/२ ।। नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् । प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ।। १९९१/२ ।। देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु । लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ।। २००१/२ ।। पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् । ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ।। २०११/२ ।। कृसरान्नं घृतोपेतं कदलीफलसंयुतम् । तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ।। २०२१/२ ।। रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् । चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ।। २०३१/२ ।। घृतं प्रियंगुसंयुक्तं इन्द्रवल्ली समन्वितम् । पञ्चमेहनि दातव्यं इन्द्रप्रियकरं भवेत् ।। २०४१/२ ।। वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् । षष्ठेहनि प्रदातव्यं ऋषीणां प्रीतिसिद्धये ।। २०५१/२ ।। गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् । सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ।। २०६१/२ ।। माषोदनं घृतोपेतं अजमांससमन्वितम् । अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ।। २०७१/२ ।। शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् । नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २०८१/२ ।। अथवान्यप्रकारेण देवताद्रव्यमुच्यते । शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ।। २०९१/२ ।। फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् । फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ।। २१०१/२ ।। भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ।। २११ ।। पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् । कदलीफलसंयुक्तं ऋषिभ्यो बलिमाचरेत् ।। २१२ ।। इन्द्रवल्ली हरिद्रा च प्रियंगुघृतसंयुतम् । चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ।। २१३ ।। पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् । पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ।। २१४ ।। गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् । षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ।। २१५ ।। कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् । सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २१६ ।। वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् । अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ।। २१७ ।। शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् । नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ।। २१८ ।। नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः । कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ।। २१९ ।। मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् । प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ।। २२० ।। रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् । घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ।। २२१ ।। द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् । पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ।। २२२ ।। तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् । कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ।। २२३ ।। चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् । इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ।। २२४ ।। पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् । गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ।। २२५ ।। षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् । कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ।। २२६ ।। सप्तमेहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् । क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ।। २२७ ।। अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् । दधिकान्नं गुलोपेतम्मातुलंगफलन्तथा ।। २२८ ।। नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् । गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ।। २२९ ।। दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् । रक्तान्नं मांससंयुक्तं अपूपं तिलचूर्णयुक् ।। २३० ।। एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् । शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।। २३१ ।। द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् । सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ।। २३२ ।। पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः । दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ।। २३३ ।। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् । दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ।। २३४ ।। दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः । वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ।। २३५ ।। बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् । ध्वजादि बलिपीठान्तं अथवा बलिरीरितः ।। २३६ ।। ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा । तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ।। २३७ ।। दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा । लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ।। २३८ ।। दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः । दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ।। २३९ ।। कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा । सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ।। २४० ।। बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते । प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ।। २४१ ।। डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् । सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ।। २४२ ।। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् । अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ।। २४३ ।। बेराण्यनेकरूपाणि तदन्ते कथितानि च । तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ।। २४४ ।। अन्नलिंगसमायुक्तं त्रिशूलेन समायुतम् । दशायुधसमायुक्तं गोलकालिंगसंयुतम् ।। २४५ ।। रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् । रथे वा शिबिकायां वा सर्वालंकारसंयुतम् ।। २४६ ।। एतैस्सर्वैविहीनोग्रे बल्यंगैश्च समन्वितः । तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरंगकम् ।। २४७ ।। तदन्ते देवदेवेशरथस्सर्वांगसुन्दरः । रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ।। २४८ ।। घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः । नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ।। २४९ ।। मदन्तिक गतेनैव शैवाचार्येण शोभितः । मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ।। २५० ।। परिचारक संज्ञेन मत्भक्तेनाप्रमादिना । पद्मकुड्मलसन्नद्धपाश संबन्धहस्तया ।। २५१ ।। पुरुषाकारधारिण्या शोभितो रुद्रकन्यया । मद्दास्यावाथ सर्वांगसुन्दर्यास्स्यन्दनस्य च ।। २५२ ।। तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः । तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ।। २५३ ।। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु । शिवभक्ताश्च ये ख्यातास्तेषां रंगान्यनेकधा ।। २५४ ।। तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः । एषामिष्टन्तु यत्ग्राह्यं बल्यंगं कौतुकं विना ।। २५५ ।। नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् । वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ।। २५६ ।। गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् । मंगुलांकुरसद्वीपवर्धनीकुम्भवारियुक् ।। २५७ ।। कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् । दर्भमाला समायुक्तं मुक्तादामविभूषितम् ।। २५८ ।। उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति । विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ।। २५९ ।। गृहालंकार उद्दिष्टो गृहहीनस्थलेपि च । नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ।। २६० ।। नानागानसमोपेतं नानानृत्तसमन्वितम् । नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ।। २६१ ।। तालवृन्तसमोपेतं धूपदीपसमन्वितम् । प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ।। २६२ ।। रथादौ शिबिकादौ वा परिचारकमूर्धसु । यानकाले तु ताम्बूलं देयं नानाफलानि च ।। २६३ ।। भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् । योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ।। २६४ ।। दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् । वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ।। २६५ ।। शंखध्वनिसमायुक्तं पाद्याचमनसंयुतम् । प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ।। २६६ ।। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु । आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ।। २६७ ।। प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे । दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ।। २६८ ।। कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये । चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ।। २६९ ।। आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः । शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ।। २७० ।। पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते । विधाय स्नपनं वाथ पञ्चखारिसमन्विते ।। २७१ ।। चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः । पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ।। २७२ ।। मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् । स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ।। २७३ ।। प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् । रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ।। २७४ ।। रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये । यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ।। २७५ ।। विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः । पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ।। २७६ ।। यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् । ततो धाम निवेशश्च देव्या सह निवेशनम् ।। २७७ ।। काले षोडशसंख्याते यामार्धपरिनिष्ठिते । कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ।। २७८ ।। स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः । पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ।। २७९ ।। तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् । स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ।। २८० ।। यानकाले बलेः काले पूर्वकालेऽथवामतः । परिवारोक्तमार्गेण बलिपीठे समाचरेत् ।। २८१ ।। मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् । यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ।। २८२ ।। तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् । उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ।। २८३ ।। रात्रौ नीराजनं कार्यं धूपदीपावसानके । प्रभूतन्तु हविर्दद्याद्यानकालावसानके ।। २८४ ।। एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते । ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ।। २८५ ।। नीत्वा देवं समाराध्य विनोदालोकनन्ततः । प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ।। २८६ ।। प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् । भविष्यद्वृष्टिशंकायान्धकारे महत्यपि ।। २८७ ।। शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे । यागारम्भदिने वाथ तीर्थदानदिनेपि च ।। २८८ ।। सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते । ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ।। २८९ ।। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च । बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ।। २९० ।। तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् । तैलाभ्यंगञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ।। २९१ ।। ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् । अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ।। २९२ ।। देवाग्रे स्थापयेत्तैलं स्थण्डिलेयंत्रिकोपरि । अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत् ।। २९३ ।। कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ।। २९३१/२ ।। शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः । सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ।। २९४१/२ ।। ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् । तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ।। २९५१/२ ।। तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् । नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ।। २९६१/२ ।। कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये । सर्वाभरणयुक्ताय पूजिताय विशेषतः ।। २९७१/२ ।। तस्मादन्यत्र कूटेवा रंगे वाऽस्थानमण्टपे । सर्वालंकारसंयुक्तं कृत्वा धामप्रदक्षिणम् ।। २९८१/२ ।। तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च । विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ।। २९९१/२ ।। प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः । नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ।। ३००१/२ ।। धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।। ३०१ ।। स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः । संप्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ।। ३०२ ।। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् । समिदाज्येन चरुणा तिललाजगुलैस्तु वा ।। ३०३ ।। मूलेन शतहोमस्स्यादस्त्रहोममतो न वा । पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ।। ३०४ ।। प्रायश्चित्तंत्वघोरेण कृत्वा पूर्णासमन्वितम् । सद्योजातेन संस्पृश्य गन्धंमूलेन दापयेत् ।। ३०५ ।। सवत्सांगां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् । तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ।। ३०६ ।। जलदानसमोपेतं यात्रादानमिदंमतम् । अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ।। ३०७ ।। ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् । शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ।। ३०८ ।। योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् । तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ।। ३०९ ।। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च । प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ।। ३१० ।। उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः । आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ।। ३११ ।। यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् । सर्वागमज्ञं शान्तञ्च शिवलिंगार्चनारतम् ।। ३१२ ।। नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् । ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ।। ३१३ ।। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा । तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ।। ३१४ ।। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि । तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ।। ३१५ ।। देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि । तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ।। ३१६ ।। तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः । यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ।। ३१७ ।। पूर्वान्ते भवेल्लिंगप्रतिष्ठादौ च सम्मतम् । अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ।। ३१८ ।। सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते । सर्वालंकारसंयुक्तं मुखेणसमन्वितम् ।। ३१९ ।। शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् । पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ।। ३२० ।। कृत्वा यानक्रमं प्रोक्तं सर्वमंगल संयुतम् । राजवेषधरैः पुंभिर्नानानृत्तसमन्वितैः ।। ३२१ ।। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः । अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ।। ३२२ ।। वर्जयेद्वाथ मुखं राजवेषधरान्वितम् । प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ।। ३२३ ।। कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् । तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ।। ३२४ ।। रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् । पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ।। ३२५ ।। कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् । अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ।। ३२६ ।। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः । युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ।। ३२७ ।। अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् । विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ।। ३२८ ।। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना । तीर्थार्थं साधयेद्रात्रौ कलशान्नवसंख्यया ।। ३२९ ।। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् । सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ।। ३३० ।। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा । प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ।। ३३१ ।। तीर्थस्थानञ्च संप्राप्य शुद्धिं कृत्वा महीतले । स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ।। ३३२ ।। पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् । पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ।। ३३३ ।। त्रिशूले सर्वतीर्थञ्च सर्वंदुर्गासमन्वितम् । मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ।। ३३४ ।। तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च । तीर्थसंग्रहणं कुर्यात् गंगाद्यावाहनेन च ।। ३३५ ।। हे देवि गंगे यमुने नर्मदे च सरस्वति । सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ।। ३३६ ।। सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् । खेरस्तमनं यावत् तीर्थानां पापशुद्धये ।। ३३७ ।। तीर्थसंग्रहणं तन्मध्ये प्राक्शिरान्वितम् । त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ।। ३३८ ।। जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् । तीर्थसंग्रहणं कृत्वा तीर्थं देवालयेपि वा ।। ३३९ ।। अवगाहनहीनन्तु नयेद्दूरजलाशये । सर्वालंकारसंयुक्तं प्रविशेदालयं प्रति ।। ३४० ।। होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना । चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ।। ३४१ ।। स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ । त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ।। ३४२ ।। तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये । वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ।। ३४३ ।। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् । संक्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ।। ३४४ ।। मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् । दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ।। ३४५ ।। सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् । तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ।। ३४६ ।। सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् । मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ।। ३४७ ।। शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा । दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ।। ३४८ ।। राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः । पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ।। ३४९ ।। मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ । नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ।। ३५० ।। दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च । दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ।। ३५१ ।। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे । तदादौ स्नानकालादौ कर्तव्यम्मंगलार्थकम् ।। ३५२ ।। तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् । दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ।। ३५३ ।। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् । नानाविधेषु पात्रेषु लिंगार्थकं प्रतिमार्थकम् ।। ३५४ ।। उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः । परिवारार्थमेकञ्च भागं संकल्पयेत् क्रमात् ।। ३५५ ।। अवशिष्टजनार्थञ्च संग्रहेत् कलशादिषु । केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ।। ३५६ ।। संप्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ।। ३५६१/२ ।। अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् । रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ।। ३५७१/२ ।। चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च । कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ।। ३५८१/२ ।। महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले । नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ।। ३५९१/२ ।। किं तु बेरसमोपेतं प्रपादि परिमण्डिते । कलशस्थापनोपेतं देवताह्वानसंयुतम् ।। ३६०१/२ ।। विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः । तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ।। ३६११/२ ।। तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत् । विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ।। ३६२१/२ ।। महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् । त्रिशूलसहितं वापि नानादेवालयागतैः ।। ३६३१/२ ।। त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् । अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ।। ३६४१/२ ।। महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् । अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ।। ३६५१/२ ।। पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् । हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ।। ३६६१/२ ।। तच्च (मोटि) समायुक्तं उत्तमोत्तममिष्यते । तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ।। ३६७१/२ ।। तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते । पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ।। ३६८१/२ ।। समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् । नक्षत्रमधिकं त्वह्निसंग्राह्यं तिथिरेव वा ।। ३६९१/२ ।। वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे । तीर्थर्क्षद्वयसंप्राप्तावेकमासे परं वरम् ।। ३७०१/२ ।। तत्रापि योगयुक्तञ्चेत् पूर्वं संग्राह्यमेव वा । यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ।। ३७११/२ ।। तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् । लिंगे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ।। ३७२१/२ ।। मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके । नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ।। ३७३१/२ ।। जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः । द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ।। ३७४१/२ ।। वियोगे तीरदेशे तु बेरस्नपनमेव वा । कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ।। ३७५१/२ ।। नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा । आरामादौ च देवेशं तोषयेत् सर्वमंगलैः ।। ३७६१/२ ।। ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् । सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ।। ३७७१/२ ।। पूर्णाहुतिं ततो हुत्वा सर्वमंगलसंयुतम् । धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ।। ३७८१/२ ।। ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् । गर्भगेहे सुसंस्थाप्य लिंगे पीठेह्यनुक्रमात् ।। ३७९१/२ ।। देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् । तत्तत् तोयैश्च संप्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ।। ३८०१/२ ।। ततस्संपूजयेद्देवं यथाविभवविस्तरम् । ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ।। ३८११/२ ।। तृतीये पञ्चमे वापि सप्तमे नवमेव वा । एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ।। ३८२१/२ ।। कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ।। ३८३ ।। मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः । ध्वजादि तीर्थपर्यन्तं दिनसंख्यास्थिता यदि ।। ३८४ ।। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् । ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ।। ३८५ ।। लिंगे बेरे शूले ध्वजे स्नपनमाचरेत् । अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ।। ३८६ ।। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः । कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ।। ३८७ ।। नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् । चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ।। ३८८ ।। ततो ग्रामबलिं दद्यात् अन्नलिंगसमन्वितम् । त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ।। ३८९ ।। भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् । श्रीखण्ट शंखसंयुक्तं बलिकाले तु घोषणम् ।। ३९० ।। कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः । ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ।। ३९१ ।। अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे । ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ।। ३९२ ।। आचार्यं पूजयेत्कर्ता वस्त्रहेमांगुलीयकैः । अंकुरार्पणकाले च ध्वजारोहणकालके ।। ३९३ ।। यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः । अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ।। ३९४ ।। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके । दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ।। ३९५ ।। अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ।। ३९६ ।। तदर्धसंख्यया प्रोक्ता दक्षिणाकन्यसक्रमे । श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ।। ३९७ ।। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता । भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ।। ३९८ ।। उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः । संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ।। ३९९ ।। बलि होमादिसंयुक्तो बेरयात्रादि संयुतः । वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ।। ४०० ।। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् । मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ।। ४०१ ।। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् । अंकुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ।। ४०२ ।। एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् । स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ।। ४०३ ।। तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः । अस्त्रं भेरीञ्च संपूज्य भेरीं सन्ताडयेत् क्रमात् ।। ४०४ ।। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् । धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।। ४०५ ।। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे । विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ।। ४०६ ।। समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ । पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।। ४०७ ।। हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् । उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ।। ४०८ ।। फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् । वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ।। ४०९ ।। द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा । स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमंगलैः ।। ४१० ।। संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा । कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ।। ४११ ।। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् । ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ।। ४१२ ।। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् । कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ।। ४१३ ।। आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः । ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ।। ४१४ ।। प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् । सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ।। ४१५ ।। चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् । आलये बलियाने च स्यातां तीर्थं विहाय वा ।। ४१६ ।। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके । तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ।। ४१७ ।। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते । बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ।। ४१८ ।। देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ।। ४१८१/२ ।। कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् । कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ।। ४१९१/२ ।। चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः । अयने विषुवे राहु दर्शनेदमनोत्सवे ।। ४२०१/२ ।। पवित्रेमासपूजायां कृत्तिकादीपरोहणे । संवत्सरादिलेखायान्नवतोयागतावपि ।। ४२११/२ ।। पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि । अन्यस्मिन् मंगले कार्ये कुर्यादेकोत्सवं बुधः ।। ४२२१/२ ।। एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये । वारपूजादि कर्तव्या रविवारादितः क्रमात् ।। ४२३१/२ ।। पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनांगकैः । पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ।। ४२४१/२ ।। स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा । गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ।। ४२५१/२ ।। अर्कवारादि वारेषु पत्राण्येतानि योजयेत् । माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ।। ४२६१/२ ।। प्रवालं गुजवारे तु बुधे मरकतं भवेत् । सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ।। ४२७१/२ ।। इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च । सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ।। ४२८१/२ ।। तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ।। ४२९ ।। तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् । वारपूजावसाने तु वारोत्सवमथाचरेत् ।। ४३० ।। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये । ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ।। ४३१ ।। जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च । तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ।। ४३२ ।। तत्तद्वारविभेदेन गन्धादिग्रहणेन वा । संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ।। ४३३ ।। वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते । पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ।। ४३४ ।। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके । ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ।। ४३५ ।। भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् । ब्राह्मणादि त्रयाणां वा शूद्रे वांकुरपूर्वकम् ।। ४३६ ।। नगरे ध्वजपूर्वं वा मंगले भेरिपूर्वकम् । पत्तनेंकुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ।। ४३७ ।। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे । पुरादौ संकरोनोक्तः उत्सवानां द्विजोत्तमाः ।। ४३८ ।। सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः । ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ।। ४३९ ।। ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः । उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ।। ४४० ।। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः । श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ।। ४४१ ।। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः । आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ।। ४४२ ।। ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा । गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ।। ४४३ ।। पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे । एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ।। ४४४ ।। ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा । ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ।। ४४५ ।। अथवा ध्वजमूले तु देवानां बलिरेव वा । नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ।। ४४६ ।। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् । प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ।। ४४७ ।। चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः । आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ।। ४४८ ।। उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा । केत्वंकुरन्नवाहे स्यात् सप्ताहेचोत्सवांकुरम् ।। ४४९ ।। तीर्थांकुरन्तु तत्संख्ये सर्वं सर्वत्र वामतम् । मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ।। ४५० ।। निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते । कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ।। ४५१ ।। मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः । सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ।। ४५२ ।। सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते । सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ।। ४५३ ।। उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् । विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ।। ४५४ ।। अथवान्यप्रकारेण उत्सवन्तु विधीयते । ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ।। ४५५ ।। तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे । श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ।। ४५६ ।। चण्डालेन सदारेण कुर्यात् घोषयुतेन च । तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ।। ४५७ ।। बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् । आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ।। ४५८ ।। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् । स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ।। ४५९ ।। एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् । नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ।। ४६० ।। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके । यागारम्भं पुनः कुर्यादंकुरार्पणपूर्वकम् ।। ४६१ ।। एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् । बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ।। ४६२ ।। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः । विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ।। ४६३ ।। अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् । तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ।। ४६४ ।। ध्वजानष्टौ समारोप्यांकितान् लोकेशवाहनैः । तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ।। ४६५ ।। ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः । तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ।। ४६६ ।। एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् । ध्वजानामष्टसंख्यानां तद्रात्राववरोहणम् ।। ४६७ ।। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् । नानागानसमायुक्तं नानानृत्तसमन्वितम् ।। ४६८ ।। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् । सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ।। ४६९ ।। स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः । एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।। ४७० ।। नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् । प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ।। ४७१ ।। स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् । चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ।। ४७२ ।। बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् । चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ।। ४७३ ।। तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् । ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ।। ४७४ ।। बेरयात्रा विहीनं वा विधिमेनां समाचरेत् । नवान्नलिंगं कृत्वा वा दिक्पालास्त्रार्थमेव वा ।। ४७५ ।। तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् । नित्योत्सवान्नलिंगानि दश वा परिकल्पयेत् ।। ४७६ ।। द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा । जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ।। ४७७ ।। इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ।। तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि । भागं कृत्वैक भागेन पट विस्तार उच्यते ।। विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते । विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ।। वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् । श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् । रक्तशृंग समायुक्तं तद्वत्खुर समन्वितम् ।। मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः । पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ।। चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् । पूर्णकुंभयुतं वापि त्रिशूलेन युतं न वा ।। एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ।। सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः । द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ।। यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ।। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ।। उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ।। ७ सप्तमे पटले निराजनविधिः नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते । प्रदोषादौ विधेयो वा धूपदीपावसानके ।। १ ।। उत्सवादौ च कर्तव्यमन्यस्मिन् मंगलेपि च । तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ।। २ ।। गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके । महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ।। ३ ।। पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च । पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ।। ४ ।। दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः । पादांगुलविवृद्ध्यातु नवांगुलसमाविधि ।। ५ ।। विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते । वसुधा मध्यमे भक्ते नवधामानमीरितम् ।। ६ ।। ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः । पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ।। ७ ।। पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् । धुर्तूरकुसुमाकारं शरवाकारमेव वा ।। ८ ।। चतुरष्टदलोपेतं सर्वालंकारसंयुतम् । एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ।। ९ ।। नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा । पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ।। १० ।। देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः । एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ।। ११ ।। कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा । वर्णभक्त हविष्यं च वटाश्वदकानि ।। १२ ।। चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् । मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ।। १३ ।। गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः । सर्वत्र दीपान्वा कुर्यान्नवसंख्यान् समुज्वलान् ।। १४ ।। घृतार्द्रांस्तैलसंयुक्तान् ब्रह्मांगसहितान्यसेत् । लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ।। १५ ।। वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः । कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ।। १६ ।। पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः । प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ।। १७ ।। तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया । संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ।। १८ ।। वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् । सर्वातोद्यसमायुक्तं शंखध्वनि समन्वितम् ।। १९ ।। गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् । स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ।। २० ।। देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् । दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ।। २१ ।। गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना । त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ।। २२ ।। संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् । आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ।। २३ ।। सोपि संगृह्य तं दीपं सप्रणामन्निवेशयेत् । सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ।। २४ ।। गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि । त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ।। २५ ।। अंगुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके । ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ।। २६ ।। पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके । देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ।। २७ ।। कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् । बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ।। २८ ।। तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु । भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ।। २९ ।। ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् । सर्वालंकारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ।। ३० ।। सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् । पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ।। ३१ ।। वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् । द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ।। ३२ ।। तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् । राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ।। ३३ ।। राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे । देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ।। ३४ ।। तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ।। ३४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः ८ अष्टमे पटले कृत्तिकादीपावलिविधिः दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः । मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ।। १ ।। पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये । रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ।। २ ।। कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् । वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ।। ३ ।। रवेरस्तमयात्पूर्वं यामपादावसानकम् । कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ।। ४ ।। एवन्निश्चित्य कालन्तु कारयेद्वांकुरार्पणम् । दीपाराधनपूवेद्युरधिवासनमारभेत् ।। ५ ।। देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा । अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ।। ६ ।। दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् । स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ।। ७ ।। ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुलविवृद्धितः ।। ८ ।। पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः । द्विमात्रात् पादवृद्ध्यातु षडंगुलसमावधि ।। ९ ।। विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ।। १० ।। नवकीलं समारभ्य व्योमकीलविवृद्धितः । सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ।। ११ ।। विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् । त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ।। १२ ।। तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः । दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ।। १३ ।। दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश । योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ।। १४ ।। छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् । एकहस्तविशालन्तु द्विगुणायतसंयुतम् ।। १५ ।। दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये । कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ।। १६ ।। हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः । योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ।। १७ ।। दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते । दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ।। १८ ।। प्रतिवेदन्तु कर्तव्या दीपिका बहुसंख्यया । स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ।। १९ ।। तोरणाकारतोपिवा वृत्ताकारेण वा बहून् । प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ।। २० ।। प्रासादे गोपुरे शाले परिवारालयादिषु । मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ।। २१ ।। वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु । बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ।। २२ ।। दीपावलिरियं कार्या अधिवासनपूर्वकम् । अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ।। २३ ।। षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् । स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ।। २४ ।। ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा । शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ।। २५ ।। दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् । बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ।। २६ ।। आलये मण्टपे वापि यागमण्टप एव वा । मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ।। २७ ।। स्थण्डिलन्तत्र संकल्प्य शस्त्रेण प्रोक्षयेत् गुरुः । नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ।। २८ ।। नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः । पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ।। २९ ।। कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् । शिवाग्निं तत्र संपाद्य शिवं सांगञ्च तर्पयेत् ।। ३० ।। समिधाज्येन चरुणा ततः कार्पासबीजतः । क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ।। ३१ ।। मूलेनांगैर्दशांशेन वह्निबीजमनुस्मरन् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ३२ ।। देवं सांगं विसृज्याथ दीपानारोपयेत् गुरुः । तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ।। ३३ ।। वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु । गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ।। ३४ ।। गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः । सर्वालंकारसंयुक्तं तरुणाख्यन्तु दीपकम् ।। ३५ ।। दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् । होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ।। ३६ ।। ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च । चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ।। ३७ ।। कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च । पूर्वस्यामथवाग्नेययां कूटमेकन्तु वा नयेत् ।। ३८ ।। तोरणानि यथायोग्यन्नयेदिच्छावशेन तु । सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ।। ३९ ।। सर्वालंकारसंयुक्तं कदलीपूगसंयुतम् । एवं संपाद्य सर्वन्तु मन्दीभूते दिवाकरे ।। ४० ।। पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् । वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ।। ४१ ।। स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् । कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ।। ४२ ।। कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा । अधिवासन होमेन समं होमं समाचरेत् ।। ४३ ।। वह्नावीशे तु कूटे वा देशिको होममाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ४४ ।। अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः । पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ।। ४५ ।। आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः । पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ।। ४६ ।। एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः । सर्वालंकारसंयुक्तं मंगलांकुर शोभितम् ।। ४७ ।। वितानध्वजसंयुक्तं छत्रचामरसंयुतम् । नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ।। ४८ ।। बेरेण च समायुक्तं बेरयात्रायुतन्नवा । ग्रहस्थे ब्रह्मचारी वा दीपं संग्राह्य पाणिना ।। ४९ ।। दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् । दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ।। ५० ।। विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् । मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ।। ५१ ।। दीपारोपणकर्तारं पूजयेत् परिचारकम् । वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ।। ५२ ।। ज्योतिलिंगमनुस्मृत्य दहेत् कूटचतुष्टयम् । अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ।। ५३ ।। तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् । कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ।। ५४ ।। हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् । प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ।। ५५ ।। प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् । स्नपनं कारयेन्नो वा बेरलिंगं तदुक्तितः ।। ५६ ।। प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् । पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ।। ५७ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् । अंकुरार्पणहीनं वा क्रियामेनां समाचरेत् ।। ५८ ।। गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् । अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ।। ५९ ।। तदंगमपरं चान्यद्देशिकाय प्रदापयेत् । इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ।। ६० ।। ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः । अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ।। ६१ ।। गोशालायां विशेषेण तेषां रोगनिवृत्तये । यान्तिथिं समनुप्राप्य उदयं याति भास्करः ।। ६२ ।। सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ।। ६२१/२ ।। यदृक्षं समनुप्राप्य अस्तं याति भास्करः । तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ।। ६३१/२ ।। एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ।। ६४ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः ८ ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुल विवृद्धितः ।। पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः । द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ।। विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ।। नव कीलं समारभ्य व्योमकील विवृद्धितः । शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ।। त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् । तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ।। दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ।। लोकः ३ कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् । विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ।। करणदोषः विष्टिः चतुर्थ्यां अपरे विष्टिः अष्टम्यां पूर्वभागतः एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः दशम्यां अपरे विष्टिः चतुर्दश्यां तु पूर्वतः वैनाशिकः द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम् ९ नवमे पटले मार्गशीर्षे घृतस्नान डोलारोहण पुष्ये क्षौद्रपूजा विधिः मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् । घृतस्नानसमोपेतं प्रागुक्तविधिना सह ।। १ ।। केवलस्नपनं वापि कारयित्वा विशेषतः । गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ।। २ ।। ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् । अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ।। ३ ।। बेरप्रदक्षिणं कृत्वा सर्वालंकार संयुतम् । चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ।। ४ ।। डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ।। ४१/२ ।। सर्वालंकारसंयुक्तं कृत्वा स्तम्भद्वयं तथा । स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ।। ५१/२ ।। तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् । चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ।। ६१/२ ।। नानालंकारसंयुक्ता मथबाहुद्वयान्विताम् । एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ।। ७१/२ ।। अस्त्रतोयेन संप्रोक्ष्य कल्पयेदासनं यथा । फलकायां यजेद्धंसं हृदा हंसासने यजेत् ।। ८१/२ ।। ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् । विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ।। ९१/२ ।। वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् । गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ।। १०१/२ ।। नानागानसमायुक्तन्नाना नृत्तसमन्वितम् । नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ।। १११/२ ।। अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् । प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ।। १२१/२ ।। डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च । अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ।। १३१/२ ।। पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ।। १४ ।। पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ।। १५ ।। पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः नवमः पटलः ९ डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः । सर्वालङ्कार संयुक्तं कृत्वा स्तंभद्वयं तथा ।। स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् । तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ।। चतुर्बाहु समायुक्तां ऊर्ध्व प्रच्छादनान्विताम् । नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ।। एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् । १० दशमे पटले माघमासे घृतकम्बलपूजाविधिः माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् । कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ।। १ ।। नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः । शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ।। २ ।। तदाज्यं पिण्डवत् कृत्वा कुंकुमागरुसंस्कृतम् । हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ।। ३ ।। हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् । पञ्चब्रह्मषडंगैश्च शिवेन तदनन्तरम् ।। ४ ।। विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा । विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ।। ५ ।। गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् । तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ।। ६ ।। पलाशसमिदाज्यान्न तिललाजसमन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ७ ।। घृते संपातहोमञ्च पवित्रारोहवर्त्मना । कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ।। ८ ।। कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा । संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।। ९ ।। विशेषेणार्चयित्वा तु सर्वालंकारसंयुतम् । धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।। १० ।। लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् । गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।। ११ ।। दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ।। १११/२ ।। सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च । पूर्ववत् पूजयेद्देवं गुरुं संपूजयेत्तदा ।। १२१/२ ।। दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् । अंकुरार्पणपूर्वं वा रहितं वैतदाचरेत् ।। १३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः ११ एकादशे पटले माघे शिवरात्रिपूजाविधिः अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः । श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ।। १ ।। अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् । मया सह मुदा सार्धं रमन्तीप्सितमाययुः ।। २ ।। न बाध्यन्ते यमादेशात् किंकरैः क्रूरदृष्टिभिः । यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ।। ३ ।। श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् । माघमास्यासिते पक्षे विद्यते या चतुर्दशी ।। ४ ।। तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा । तस्यामेव शिवपूजा शिवलिंगे शिवालये ।। ५ ।। कृतस्नानोपवासेन पूर्वेह्नि नियतेन च । साधकेनोपचारेण कर्तव्या श्रद्धया सह ।। ६ ।। पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः । शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ।। ७ ।। आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् । अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ।। ८ ।। पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् । गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ।। ९ ।। पवित्रैः पञ्चभिः कुर्यात् पञ्चांगैश्च क्रमेण तु । पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ।। १० ।। चूर्णेनापि सपिष्टेन रजन्या धूपितेन च । अस्त्रेण शोधितेनैव शोधयेदुदकेन च ।। ११ ।। नालिकेरोदकेनैव तं पश्चादभिषेचयेत् । गन्धोदकेन मूलांगब्रह्मभिश्चाभिषेचयेत् ।। १२ ।। कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् । लिंगमाच्छाद्य देवांगाद्येन शुद्धेन वाससा ।। १३ ।। यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् । चन्दनागरुकर्पूर कुंकुमाद्यैः क्रमेण तु ।। १४ ।। मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः । दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ।। १५ ।। गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् । दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ।। १६ ।। पायसं प्रथमे यामे द्वितीये कृसरं भवेत् । गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ।। १७ ।। निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् । सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ।। १८ ।। धूपमारात्रिकोपेतं शिवाय विनिवेद्य च । होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ।। १९ ।। कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् । शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ।। २० ।। संपूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले । समादाज्य हविर्लाज तिलैर्मूलांगब्रह्माभिः ।। २१ ।। शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् । दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ।। २२ ।। कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् । वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ।। २३ ।। पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः । स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ।। २४ ।। नीत्वा जागरणं रात्रौ प्रभाते विमले ततः । कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ।। २५ ।। देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् । दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ।। २६ ।। लिंगिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि । पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ।। २७ ।। गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः । पादौ हस्तौ च संक्षाल्य पारणन्तु समाचरेत् ।। २८ ।। इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः पटलः १२ द्वादशे पटले फाल्गुनमासगन्धपूजाविधिः उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् । विशेषस्नपनोपेतं विशेषयजनान्वितम् ।। १ ।। दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि । प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ।। २ ।। तत्पादं वा तदर्धं वा कुंकुमं स्यात्तदर्धतः । पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ।। ३ ।। कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् । वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ।। ४ ।। घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना । गन्धैरालिप्य लिंगन्तु सपीठं शिवमन्त्रतः ।। ५ ।। सुगन्धपुष्पमालाभिर्भूषयेल्लिंगपिण्डिके । कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ।। ६ ।। सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये । आभिचारकृते दोषे विधानमिदमाचरेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः द्वादशः पटलः १३ त्रयोदशे पटले चैत्रमास दमन पूजा विधिः दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् । हरकोपात् पुराजातः बैरवो दमनाह्वयः ।। १ ।। दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः । प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ।। २ ।। दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि । पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ।। ३ ।। ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः । ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ।। ४ ।। तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया । सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ।। ५ ।। शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः । अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ।। ६ ।। हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव । शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ।। ७ ।। एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् । यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ।। ८ ।। पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा । ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ।। ९ ।। सायाह्नसमये प्राप्ते विदध्यादधिवासनम् । आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ।। १० ।। यथा विधिसमभ्यर्च्य भानुशंकरपावकान् । पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ।। ११ ।। सद्योजातेन मनुना दीपितं हृदयेन वा । वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ।। १२ ।। दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा । पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ।। १३ ।। फलंमूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् । पञ्चांगमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ।। १४ ।। विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति । आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।। १५ ।। कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया । इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ।। १६ ।। संयोज्य शिवमन्त्रेण विदधीत जपादिकम् । शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ।। १७ ।। पवित्रकविधानेन कवचेनावकुण्ठयेत् । एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।। १८ ।। हविस्तदनु भुञ्जीत यदि वा पवनाशनः । शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ।। १९ ।। प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् । नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ।। २० ।। दमनैः पूजयेद्देवं पञ्चांगैरपि खण्डितैः । शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ।। २१ ।। ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् । आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ।। २२ ।। पवित्रक विधानेन क्रमेण शिवमर्चयेत् । पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ।। २३ ।। सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् । चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ।। २४ ।। मखेश्वराय च मखं पूरयेति च वीप्सितम् । शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ।। २५ ।। प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् । विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ।। २६ ।। भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् । सर्वन्तदस्तु संपूर्णंपर्व दामनकं मम ।। २७ ।। एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ।। २८ ।। ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् । पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः त्रयोदशःपटलः १४ चतुर्दशे पटले चैत्रमास वसन्तोत्सवविधिः तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः । पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ।। १ ।। नानामाला समाकीर्णे नानाफलविचित्रते । नानागानसमोपेते नानावाद्यसमन्विते ।। २ ।। नानानृत्तसमायुक्ते नानायन्त्रसमन्विते । प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ।। ३ ।। पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते । आस्थानमण्टपोपेते जलक्रिडासमन्विते ।। ४ ।। देवोद्यानेनयेद्देवं सर्वालंकारसंयुतम् । ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ।। ५ ।। परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः । पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ।। ६ ।। सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् । देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ।। ७ ।। कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः । स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ।। ८ ।। वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् । ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ।। ९ ।। नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च । एवं काले तु देवेशन्नयेद्देवालयं पुनः ।। १० ।। स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् । एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ।। ११ ।। एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ।। १११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः चतुर्दशः पटलः १५ पञ्चदशे पटले वेशाखमासशीतकुम्भविधिः ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् । विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ।। १ ।। सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये । प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ।। २ ।। चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे । शीतकुम्भविधिः कार्यस्तत्तंद्दोषापनुत्तये ।। ३ ।। यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिंगमूर्धनि । वस्त्वंगुलं समारभ्यांगुलवृद्ध्याकरान्तकम् ।। ४ ।। यथान्तरं तथा कृत्वा संप्रक्षालयाम्बुना गुरुः । वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ।। ५ ।। विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः । महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ।। ६ ।। एवं कृत्वा त्रिपादींश्च विन्यसेल्लिंगपूर्धनि । मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ।। ७ ।। तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् । चतुर्द्रोणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। ८ ।। मध्यमं खारिसंपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ।। ९ ।। कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ।। १० ।। एकद्वित्र्यंघ्रिसंयुक्तन्निष्कमानकृतेन तु । युगांगुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ।। ११ ।। पिधानेन समोपेतं पल्लवेन समन्वितम् । उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ।। १२ ।। पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् । आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ।। १३ ।। ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् । प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ।। १४ ।। प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् । गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ।। १५ ।। प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् । पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ।। १६ ।। गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् । अथवाचमनीयार्थं कल्पितो गन्ध एव वा ।। १७ ।। नीरोमजन्तुकं द्रव्यं उपकुम्भे विनिक्षिपेत् । हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ।। १८ ।। नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् । तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ।। १९ ।। समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः । आप्येनामृतबीजेन संपुटेन शिवेन च ।। २० ।। आप्याधारणयोपेतं सहस्रं वा तदर्थकम् । शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ।। २१ ।। आप्याणुसंपुटं मूलं जपेत्तत्संख्यकं यथा । जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ।। २२ ।। आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् । कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ।। २३ ।। अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः । शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकांक्षिभिः ।। २४ ।। सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् । तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ।। २५ ।। सहस्रसंख्यकावास्युः अर्धसंख्या समन्विताः । शतसंख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ।। २६ ।। एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः । पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ।। २७ ।। ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः । कुर्याच्छंखस्वनोपेतं प्रत्यहं चैवमाचरेत् ।। २८ ।। नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् । नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ।। २९ ।। नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः । संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ।। ३० ।। चन्दनागरुकर्पूरकुंकुमैः प्रचुरैर्गुरुः । गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ।। ३१ ।। कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ।। ३२ ।। नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः । पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ।। ३३ ।। ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः । मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ।। ३४ ।। नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि । जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ।। ३५ ।। पूजयेत् प्रत्यहं देवं यावत्स्यात् कांक्षितं फलम् । तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ।। ३६ ।। प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् । संग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ।। ३७ ।। आभ्यां कृत्वा सुधाम्नस्तु च सुवारके आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ।। ३८ ।। सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् । घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ।। ३९ ।। शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् । निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ।। ४० ।। तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति । सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ।। ४१ ।। द्विमासंन वा त्रिमासं वा विधिमेवंन समाचरेत् । आचार्यं पूजयेदादौ वस्त्रैः पञ्चांगभूषणैः ।। ४२ ।। दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः । अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ।। ४३ ।। अन्येषामपि सर्वेषां हेमवस्त्रांगुलीयकान् । निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ।। ४४ ।। प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् । ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ।। ४५ ।। नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि । दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ।। ४६ ।। स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ।। ४६१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः पञ्चदशः पटलः १५ यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि । वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ।। यथान्तरं तथा कृत्वा सप्रक्षाल्यांबुनागुरुः । वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ।। विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः । महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ।। एवं कृत्वा त्रिपादीं च विन्यसेल्लिंग मूर्धनि । चतुर्द्राणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बपलाकारं सवस्त्रंकूर्चसंयुतम् ।। कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ।। १६ षोडशे पटले ज्येष्ठमासफलपूजाविधिः ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः । विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ।। १ ।। विशेषपूजा संयुक्तं पायसेन समन्वितम् । विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ।। २ ।। नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च । पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ।। ३ ।। कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा । वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ।। ४ ।। सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् । क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ।। ५ ।। यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः षोडशः पटलः १७ सप्तदशे पटले आषाढ मास पूर्वफल्गुनी पूजा विधिः आषाढे मासि नक्षत्रे पूर्वफाल्गुन संज्ञके । आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ।। १ ।। कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना । देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ।। २ ।। वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् । ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ।। ३ ।। तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् । ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ।। ४ ।। आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् । रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ।। ५ ।। दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् । ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ।। ६ ।। हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् । त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ।। ७ ।। स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः । एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ।। ८ ।। संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः । सक्तुभिश्च फलोपेतैस्तान् संपूज्य ह्रदा गुरुः ।। ९ ।। तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् । तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ।। १० ।। तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि । आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ।। ११ ।। प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् । अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ।। १२ ।। बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् । नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ।। १३ ।। गुडखण्ड समोपेतं सक्तु संदापयेद् गुरुः । नानापूप समायुक्तं नानाफल समन्वितम् ।। १४ ।। जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् । विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ।। १५ ।। विधाय केवलं वापि त्रिशूलेन समन्वितम् । नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ।। १६ ।। प्रभूतहविषोपेतं मुखवासेन संयुतम् । ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ।। १७ ।। वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः । सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ।। १८ ।। सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये । विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ।। १९ ।। इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा विधिः सप्तदशः पटलः १८ अष्टादशे पटले श्रावणमासे पवित्रारोहण विधिः दुरितस्य विनाशार्थं संवत्सरकृतस्य तु । पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ।। १ ।। प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् । सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ।। २ ।। पुत्रको भुक्ति भांङ्नस्यात् जन्मनैकेन रोधनात् । समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ।। ३ ।। विधातव्यं प्रयत्नेन येन केन प्रकारतः । प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ।। ४ ।। पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् । आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ।। ५ ।। अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ । पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ।। ६ ।। इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः । चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ।। ७ ।। कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् । शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ।। ८ ।। कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् । क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ।। ९ ।। दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् । त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ।। १० ।। रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः । शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ।। ११ ।। शक्तयो नव वामाद्या नव सूत्राधिपा मताः । दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ।। १२ ।। शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् । द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ।। १३ ।। तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु । यवीयसां कलासंख्या मध्याना वर्ण लक्षिताः ।। १४ ।। ज्येष्ठानां पदसंख्याता स्तन्तवो मानुषे मताः । स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ।। १५ ।। स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च । संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ।। १६ ।। समा एव गृहस्थस्य परिवारामरादिषु । तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ।। १७ ।। एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः । ग्रन्थयस्तन्तु संख्याताः स्निग्ध गर्भा नवा मताः ।। १८ ।। यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः । एकादित्र्यंगुलं वापि ग्रन्थिमानमिहागमे ।। १९ ।। ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः । रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ।। २० ।। कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् । रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ।। २१ ।। त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् । पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ।। २२ ।। यज्ञसूत्राख्यमाला च बाहुमला ततः परम् । मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ।। २३ ।। आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् । यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ।। २४ ।। क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् । आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ।। २५ ।। पवित्रमेकं सर्वेषामावृतानां विधीयताम् । एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ।। २६ ।। क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् । यागधामवृषस्थान प्रासादालय संश्रयान् ।। २७ ।। कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् । एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ।। २८ ।। प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा । मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ।। २९ ।। षोडशस्तंभसंयुक्ते रविस्तंभ युतेऽपि वा । मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ।। ३० ।। त्रिभागायामयुक्ते वा विंशति स्तंभ संयुते । मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ।। ३१ ।। तत्समन्तात् सुसंकॢप्त नव पञ्चैक कुण्डके । तत्संख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ।। ३२ ।। पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् । कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ।। ३३ ।। कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः । अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ।। ३४ ।। परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् । लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ।। ३५ ।। इष्ट्वा संप्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् । संपूज्य विधिवद्देव समीपे स्वासनेस्थितः ।। ३६ ।। आसनार्चनमारभ्य कुर्यादावाहनान्तकम् । कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ।। ३७ ।। नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् । पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ।। ३८ ।। कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् । समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ।। ३९ ।। पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च । शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ।। ४० ।। प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु । शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ।। ४१ ।। तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु । स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ।। ४२ ।। शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् । कुर्यादात्मीय भागं तु केवलेन घृतेन च ।। ४३ ।। हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् । गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ।। ४४ ।। दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् । भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ।। ४५ ।। पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् । धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ।। ४६ ।। होमद्रव्याणि सर्वाणि सकुशान्यपरानने । दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ।। ४७ ।। रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् । दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ।। ४८ ।। तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् । तांबुलं भस्म संमिश्रं दद्यात्तत्पुरुषं स्मरन् ।। ४९ ।। ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् । स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ।। ५० ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् । धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ।। ५१ ।। ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः । स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ।। ५२ ।। तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् । तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ।। ५३ ।। मण्डले वेदिकोर्ध्वे चेदत्र कुंभान्तिकेऽपि वा । संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ।। ५४ ।। मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके । संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ।। ५५ ।। गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् । अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ।। ५६ ।। त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः । दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ।। ५७ ।। याग धामवृषस्थान प्रासादानल संश्रयान् । कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ।। ५८ ।। दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् । प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ।। ५९ ।। तदेतानि पवित्राणि भगवन् संस्कृतानि हि । अर्पयामि घटस्थाय शिवायाध्येषये दिति ।। ६० ।। समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् । आदौ वा कुंभवर्धन्योर्दत्वायायाच्छिवान्तिकम् ।। ६१ ।। स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् । एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ।। ६२ ।। धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः । आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ।। ६३ ।। शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना । आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ।। ६४ ।। समस्तविधिविच्छिद्र पूरणेशमखंप्रति । प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ।। ६५ ।। तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।। ६६ ।। जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् । दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ।। ६७ ।। दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः । आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ।। ६८ ।। इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम् । अन्येषां चैव मूर्तिना/ क्रमाद्दद्यात् बहिर्बलिम् ।। ६९ ।। वायव्यांक्षेत्रपालाय दत्वाचम्य बलिं पुनः । प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ।। ७० ।। भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् । अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ।। ७१ ।। स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः । मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ।। ७२ ।। नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् । सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ।। ७३ ।। निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः । पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ।। ७४ ।। आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् । अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ।। ७५ ।। अविसर्जित देवेशात् पवित्राण्यवरोपयेत् । तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ।। ७६ ।। दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् । समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ।। ७७ ।। कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः । द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुंभयोः ।। ७८ ।। दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् । स्वासने दीपसंकॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ।। ७९ ।। मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् । शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ।। ८० ।। विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् । पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ।। ८१ ।। जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः । कुण्डमस्त्रेण संप्रोक्ष्य मेखलापरिधिस्थितान् ।। ८२ ।। सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् । दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ।। ८३ ।। प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् । दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ।। ८४ ।। नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्संप्रविश्य च । ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ।। ८५ ।। गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च । कृत्वा विशेष पूजां च विभवस्यानुसारतः ।। ८६ ।। स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् । वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ।। ८७ ।। सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् । कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ।। ८८ ।। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः । प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ।। ८९ ।। कालात्मना त्वयादेव यद्दृष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ।। ९० ।। तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् । सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ।। ९१ ।। पूरयेति द्विरुच्चार्य मखव्रत फलं ततः । नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ।। ९२ ।। आत्मतत्त्वाधिपतये शिवाय नम इत्यपि । तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ।। ९३ ।। पवित्रकत्रयंमूर्ध्नि तद्भोगी शिवादिकम् । शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ।। ९४ ।। सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ।। ९५ ।। त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे । अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ।। ९६ ।। कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ।। ९७ ।। जपहोमार्चनाहीनं कृत्यं नित्यं मया तव । अकृतं वाक्यहीनं च तत्पूरय महेश्वर ।। ९८ ।। सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् । त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ।। ९९ ।। खण्डितं यन्मया देव व्रत वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञासूत्रगुंभितम् ।। १०० ।। जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् । गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ।। १०१ ।। अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा । अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ।। १०२ ।। एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् । व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ।। १०३ ।। सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते । शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ।। १०४ ।। वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्संप्रविश्य च । देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ।। १०५ ।। दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः । प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ।। १०६ ।। मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् । तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ।। १०७ ।। सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः । लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ।। १०८ ।। स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने । ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ।। १०९ ।। व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् । भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ।। ११० ।। मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् । भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ।। १११ ।। वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके । हृदये संनिवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ।। ११२ ।। परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः । शिवकुंभास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ।। ११३ ।। ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् । दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ।। ११४ ।। रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् । आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ।। ११५ ।। निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि । लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ।। ११६ ।। पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् । दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ।। ११७ ।। इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः अष्टादश पटलः १९ एकोनविंशत्तमे पटले नवनैवेद्यविधिः अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् । मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ।। १ ।। अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् । निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ।। २ ।। विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके । शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ।। ३ ।। नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् । मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ।। ४ ।। चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् । चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ।। ५ ।। हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् । पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ।। ६ ।। सलक्षणेन दात्रेण पूजितेनैव हेतिना । प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ।। ७ ।। शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् । तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ।। ८ ।। तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् । नालिकेरफलोपेतं नवपूगफलान्वितम् ।। ९ ।। मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् । नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ।। १० ।। पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः । आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ।। ११ ।। नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् । नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ।। १२ ।। ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति । पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ।। १३ ।। कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् । विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ।। १४ ।। वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा । गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ।। १५ ।। चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् । तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ।। १६ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् ।। १६१/२ ।। नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा । स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ।। १७१/२ ।। मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले । पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ।। १८१/२ ।। अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन् । तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ।। १९१/२ ।। कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद् गुरुः । धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ।। २०१/२ ।। नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् । तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ।। २११/२ ।। नवपूगफलोपेतं देव्यै च विनिवेदयेत् । सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ।। २२१/२ ।। अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् । वृषादिपरिवारेभ्यो होमकर्म समापयेत् ।। २३१/२ ।। नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् । बलिदानसमोपेतमतिथीनां समर्पणम् ।। २४१/२ ।। निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् । तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ।। २५१/२ ।। हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् । सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ।। २६१/२ ।। वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः । एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ।। २७१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः एकोनविंशतितमः पटलः २० विंशतितमे पटले समयविशेषदीक्षा विधिः अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् । आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः । सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ।। २ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत् । आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ।। ३ ।। पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् । वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ।। ४ ।। प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ।। ५ ।। प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् । तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ।। ६ ।। पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च । अस्त्रेण पार्ष्णिंघातस्य त्रयं कृत्वाथ भूगतान् ।। ७ ।। कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः । छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ।। ८ ।। दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् । अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ।। ९ ।। वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि । संपूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ।। १० ।। वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः । उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ।। ११ ।। सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः । विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ।। १२ ।। अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् । तदम्भसा तु संप्रोक्ष्य स्वशिरोद्रव्य संहितम् ।। १३ ।। अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् । हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ।। १४ ।। शिवहस्तं च संकल्प्य तदारोपितमस्तकः । ज्ञानासिं तत्वसंख्यातैश्चतुरूनैरथापि वा ।। १५ ।। दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् । कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ।। १६ ।। मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते । पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ।। १७ ।। शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः । सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ।। १८ ।। रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत् । गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ।। १९ ।। एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् । अमृतीकृत्य संपूज्य शिवेनैकत्वमाचरेत् ।। २० ।। मण्डपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत् । लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ।। २१ ।। हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः । नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ।। २२ ।। कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः । कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ।। २३ ।। विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् । वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ।। २४ ।। हेमाद्येकतमं कुम्भमानीय गलिताम्मसा । पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ।। २५ ।। संहृतौ विकिरास्त्राणामासनं तु चलाचलम् । संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ।। २६ ।। वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् । विन्यसेदस्त्रभूतांतां प्रत्यङ्गनालसमन्विताम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः । इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ।। २८ ।। वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः । विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ।। २९ ।। घटस्थं कलशस्थं वा कुंभस्थं वाजयेद्गुरुः । तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ।। ३० ।। भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ।। ३१ ।। सर्वेषां लोकपालानामनेन क्रमयोगतः । शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ।। ३२ ।। विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् । स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ।। ३३ ।। मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् । पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ।। ३४ ।। सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः । भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ।। ३५ ।। संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा । मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ।। ३६ ।। स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा । उमायै भगरूपिण्यै लिङ्ग रूपधराय च ।। ३७ ।। शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च । यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।। ३८ ।। एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ।। ३९ ।। रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि । यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ।। ४० ।। अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा । निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ।। ४१ ।। वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् । अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ।। ४२ ।। मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् । विशेषपूजयोपेतं पावके शिवमर्चयेत् ।। ४३ ।। भगवन् देहमाविश्य मदीयमनुकम्पया । कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनां ।। ४४ ।। संप्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः । मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ।। ४५ ।। उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् । सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ।। ४६ ।। यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः । होमाधि करणत्वेन पावकस्थस्सदाशिवः ।। ४७ ।। शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः । अनुग्रहकरो देवो मम देहे व्यवस्थितः ।। ४८ ।। पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः । अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ।। ४९ ।। ममापि हृदयादीनि साधनानि न संशयः । स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ।। ५० ।। यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः । त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ।। ५१ ।। अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः । भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ।। ५२ ।। विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः । सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ।। ५३ ।। तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर । प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ।। ५४ ।। कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् । उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ।। ५५ ।। द्वारस्य संमुखं बाह्ये प्रणवे कुशमण्डले । शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ।। ५६ ।। वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् । नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ।। ५७ ।। अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः । पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ।। ५८ ।। तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् । स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ।। ५९ ।। संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् । करोमि गुणसंपन्नं सतां मस्तकभूषणम् ।। ६० ।। ततस्संप्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना । दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ।। ६१ ।। उल्लिखेत् पाशसंतानं प्रवृत्तकरणोन्मुखम् । सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ।। ६२ ।। अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा । संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ।। ६३ ।। प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् । शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ।। ६४ ।। प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् । धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ।। ६५ ।। गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् । शासनेन सदेहेन शिवेन समधिष्ठितम् ।। ६६ ।। शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् । हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ।। ६७ ।। सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना । रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ।। ६८ ।। कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः । ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ।। ६९ ।। न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् । अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ।। ७० ।। सहसालोकितेशान शिववक्त्रसरोरुहम् । यात्तमङ्गमुञ्चेति प्रसूनं शिवसंमुखम् ।। ७१ ।। स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् । तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ।। ७२ ।। नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् । क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ।। ७३ ।। शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् । सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ।। ७४ ।। नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने । संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ।। ७५ ।। दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः । पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ।। ७६ ।। स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः । दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ।। ७७ ।। प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च । शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ।। ७८ ।। पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः । शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ।। ७९ ।। विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् । शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ।। ८० ।। हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति । आहारभावदोषाभ्यां योनि बीजशरीरतः ।। ८१ ।। शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर । रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ।। ८२ ।। अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः । इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ।। ८३ ।। प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः । विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ।। ८४ ।। मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके । समानीय ध्रुवेणैव संपूज्य शिशुमस्तकात् ।। ८५ ।। संहारमुद्रया स्वस्य हृदये पूरकेण तु । प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ।। ८६ ।। रेचकेन प्रयोगेण केशेशानसदाशिवान् । नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ।। ८७ ।। संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः । दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ।। ८८ ।। शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु । एवं समयसंस्कारयुक्तो यश्शिवपूजने ।। ८९ ।। होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च । योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ।। ९० ।। ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः । शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ।। ९१ ।। सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ।। ९११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः पटलः २१ एकविंशत्तमे पटले स्थालीपाकविधिः स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने । स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ।। १ ।। प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च । निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ।। २ ।। कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा । मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ।। ३ ।। वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके । षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ।। ४ ।। शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत् । पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ।। ५ ।। चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च । संमृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ।। ६ ।। दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् । आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ।। ७ ।। द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् । चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ।। ८ ।। चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् । विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ।। ९ ।। उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् । स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ।। १० ।। हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि । तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ।। ११ ।। प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् । सुशीतले भवेत्येवं वौषट्पल्लवया तथा ।। १२ ।। शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् । संमृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ।। १३ ।। अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले । पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ।। १४ ।। शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत् । एवं संपादितेनैव चरुणा होम-इष्यते ।। १५ ।। तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् । हविष्यचतुरंशेन होमकर्माथवा मतम् ।। १६ ।। होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः । पञ्चगोचर संस्थाय समस्तागमवेदिने ।। १७ ।। शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि । शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ।। १८ ।। हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि । आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ।। १९ ।। परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि । पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ।। २० ।। प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकांक्षिभिः । एतेषामन्यथाभावे सर्वं भवति चान्यथा ।। २१ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः एकविंशतितमः पटलः २२ द्वाविंशत्तमे पटले स्वप्नाध्याय विधिः अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः । दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ।। १ ।। तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति । लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ।। २ ।। संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि । षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ।। ३ ।। मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि । शीघ्रमेव फलं तस्य भविष्यति न संशयः ।। ४ ।। रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् । प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ।। ५ ।। मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् । यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ।। ६ ।। चन्द्रार्क तारग्रसनं परिमार्जनमेव च । भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ।। ७ ।। श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् । सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ।। ८ ।। गन्धर्व नगरं वापि देवगन्धर्व योषिताम् । दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ।। ९ ।। जातरूपमयं छत्रं श्वेतमाला विभूषितम् । चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ।। १० ।। तेषामारोहणं शस्तं तत्फलानां च संग्रहः । तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ।। ११ ।। गो सिंह वृषभाणां च वीक्षणारोहणे हिते । सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ।। १२ ।। सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् । तरणं निम्नगाम्भोधि काननानां जलस्य च ।। १३ ।। प्रशस्तं दोहनं कर्म महिषीणां गवामपि । सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ।। १४ ।। प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् । पयसः पाटलाया गोः पानं यद्वत्सलीलया ।। १५ ।। दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् । एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ।। १६ ।। सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् । एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ।। १७ ।। अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च । चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ।। १८ ।। पशुसिंह गजानां च लाभो युद्धे विशेषतः । अध्यापनं च शास्त्राणामन्नलेपनमेव च ।। १९ ।। तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च । बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ।। २० ।। सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः । श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ।। २१ ।। सरोजस्यातपत्रस्य मणीनां दर्पणस्य च । दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ।। २२ ।। विमलस्यांभसश्शस्तं दर्शनं हाटकस्य च । राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ।। २३ ।। देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि । सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ।। २४ ।। एतेषामपि पनेन राज्यं संप्राप्नुयान्नरः । शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ।। २५ ।। रूपयौवन संपन्नां श्रियंवा तादृशीमपि । उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ।। २६ ।। कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् । तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ।। २७ ।। दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा । भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ।। २८ ।। जयं विवादद्युतादौ संग्रामे विजयं तथा । कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ।। २९ ।। निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा । दृष्ट्वाग्निं संग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ।। ३० ।। नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् । तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ।। ३१ ।। परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च । निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ।। ३२ ।। निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् । स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ।। ३३ ।। हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः । पात्रे मणिमये वाथ राजते वाथ भोजनम् ।। ३४ ।। सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् । लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ।। ३५ ।। मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः । पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ।। ३६ ।। बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् । शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ।। ३७ ।। चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वंच पश्यति । ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ।। ३८ ।। छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः । पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ।। ३९ ।। छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् । लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ।। ४० ।। सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते । धनधान्यमवाप्नोति सर्वाभरण भूषितः ।। ४१ ।। आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ।। ४२ ।। चक्रं च पूर्ण कुंभं च श्रीवत्सं स्वस्तिकं तथा । सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ।। ४३ ।। शिवागमादि शब्दानां श्रवणं धनदं भवेत् । गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ।। ४४ ।। देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् । ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ।। ४५ ।। पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि । उद्यानारामकरणं शुभप्रदमिहोच्यते ।। ४६ ।। आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् । बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसंग्रहः ।। ४७ ।। स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् । गणानां विबुधानां च सुधापानं नभोगतिः ।। ४८ ।। इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् । भूवस्त्रलाभ पर्यङ्कशयया दाहोंबरस्य च ।। ४९ ।। आसनस्य च दाहो वा नावा रोहणमेव च । नवशुक्लांबरत्वं च तथा शुद्धोदनाशनम् ।। ५० ।। मधुनः पङ्कजस्येव जननं हननं स्वकम् । शंखपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ।। ५१ ।। दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन । अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ।। ५२ ।। लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः । पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ।। ५३ ।। बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् । हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ।। ५४ ।। विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् । उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ।। ५५ ।। सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः । चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ।। ५६ ।। अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः । रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ।। ५७ ।। भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च । नर्तनं ग्रसनं चैव विवाहो गीतमेव च ।। ५८ ।। तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् । स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ।। ५९ ।। पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः । चितायां रोहणं शक्रध्वजस्य पतनं तु वा ।। ६० ।। सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् । दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ।। ६१ ।। देव द्विजादि भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।। ६२ ।। हानिश्चैव स्वगात्राणां विरेकवमनक्रिये । दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ।। ६३ ।। गृहणाञ्चैव पातश्च गृह संमार्जनं तथा । पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ।। ६४ ।। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ।। ६५ ।। स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् । क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ।। ६६ ।। नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा । रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ।। ६७ ।। नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा । विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ।। ६८ ।। पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च । प्लवनं भग्नयानत्वमशुभाय भविष्यति ।। ६९ ।। सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः । द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ।। ७० ।। छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता । प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ।। ७१ ।। कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने । कार्पासतिल मूलादि लोहानि लभते च यः ।। ७२ ।। स्वस्थश्च लभते व्याधितो मृत्युमृच्छति । भग्न ध्वजाधिकं भग्नं छत्रंदृष्ट्वाऽशुभं लभेत् ।। ७३ ।। एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् । तथैवहसनं भुक्तिरोदनस्य तिलैः सह ।। ७४ ।। अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् । कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ।। ७५ ।। दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः । संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ।। ७६ ।। यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् । हीननृत्तसमजश्च नाभेरन्य प्रदेशके ।। ७७ ।। तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च । खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ।। ७८ ।। सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् । स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ।। ७९ ।। नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः । व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ।। ८० ।। आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः । सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ।। ८१ ।। परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि । अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ।। ८२ ।। शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् । पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ।। ८३ ।। शोषणं कथिताख्यं च तोयपानं प्रमेहिणः । हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ।। ८४ ।। रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति । भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ।। ८५ ।। आदित्यचन्द्रताराणां मलिनत्वमशोभितम् । पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ।। ८६ ।। ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् । दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ।। ८७ ।। काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा । पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ।। ८८ ।। पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा । गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ।। ८९ ।। निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् । म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ।। ९० ।। कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा । कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ।। ९१ ।। निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् । अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ।। ९२ ।। सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् । वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ।। ९३ ।। कृष्णकीटं च गांकृष्णां पश्येच्चेद्भयमाप्नुयात् । एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ।। ९४ ।। काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् । वह्नियान रथादीनां छत्रादीनां च भग्नता ।। ९५ ।। विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः । धूमायमानमात्मानं शिरोमुण्डनमेव च ।। ९६ ।। बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् । यवागू मारनालं वा पिपेद्धन विनाशनम् ।। ९७ ।। तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे । मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ।। ९८ ।। कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता । वर्तितैलतिलादीनामञ्जनालेपनं तथा ।। ९९ ।। अन्धकारनिवेशस्तु महामार्गगतिस्तुवा । संन्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ।। १०० ।। तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि । रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ।। १०१ ।। अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् । अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ।। १०२ ।। तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः । पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ।। १०३ ।। वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् । भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ।। १०४ ।। देवताश्च द्विजातिश्च पितरो योगिनो नृपः । यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ।। १०५ ।। एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च । लिंगं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ।। १०६ ।। यद्धातु प्रकृतिर्येन धातुना वापि दूषितः । तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ।। १०७ ।। यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् । तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ।। १०८ ।। तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे । दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ।। १०९ ।। समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् । प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ।। ११० ।। अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत् । द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ।। १११ ।। आचारेणाथ धर्मेण विद्यया वाथ यस्यतु । श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ।। ११२ ।। अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् । आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ।। ११३ ।। ब्राह्मण समयाख्येन संस्कारेण समन्वितः । निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ।। ११४ ।। नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् । आदौ समानदीक्षायां सत्यामपि च यत्र तु ।। ११५ ।। नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् । जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ।। ११६ ।। नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् । परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ।। ११७ ।। ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया । न संमान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ।। ११८ ।। एकदेशिक शिष्याणा माचारः परिकीर्तितः । किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ।। ११९ ।। तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकांक्षिभिः ।। १९९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः पटलः २३ त्रयोविंशत्तमे पटले निर्वाण दीक्षा विधिः निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् । आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः । सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ।। २ ।। पश्चिमद्वार मार्गेण संप्रविश्य मखालयम् । कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ।। ३ ।। भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् । कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ।। ४ ।। विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च । निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ।। ५ ।। कुंभं च वर्धनीं तत्र संपूज्य परितो गुरुः । लोकपालानथाभ्यर्च्य तेषां आज्ञां तु श्रावयेत् ।। ६ ।। भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च । मण्डले देव देवेशं इष्ट्वाऽग्नौ तर्पयेन्मनून् ।। ७ ।। भगवन् देहमाविश्य मदीयमनु कंपया । अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ।। ८ ।। इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् । सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ।। ९ ।। यज्ञस्य रक्षकः कुंभे पावके होम कारणम् । शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ।। १० ।। पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः । मन्त्राः कारणभूता ये शिवस्य हृदयादयः ।। ११ ।। ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि । संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ।। १२ ।। परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः । उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ।। १३ ।। तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम । पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृंहितः ।। १४ ।। आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसंमुखम् । आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ।। १५ ।। नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह । कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ।। १६ ।। अघोर संपुटं कृत्वा शिवं साङ्गं फटन्तकम् । कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ।। १७ ।। आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् । कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।। १८ ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः । संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ।। १९ ।। अंगुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् । सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ।। २० ।। सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत् । संपूज्यगंध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ।। २१ ।। संनिधानाय मूलेन चाहुति त्रयमाचरेत् । शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ।। २२ ।। संताड्य हृदयं तस्य रेचकेन प्रविश्य च । हुंकारं उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ।। २३ ।। हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा संगृह्यमूलतः । द्वादशान्ते न्यसेत् शिष्य जीवं हृदय संपुटम् ।। २४ ।। सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया । सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ।। २५ ।। हुत्वाहुतित्रयं तस्य संविधानाय मूलतः । मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ।। २६ ।। शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः । शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ।। २७ ।। पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम् । संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ।। २८ ।। शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् । उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ।। २९ ।। अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः । कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ।। ३० ।। गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् । व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ।। ३१ ।। मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च । व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ।। ३२ ।। व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः । तासांच संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ।। ३३ ।। स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि । शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ।। ३४ ।। तासांच दीपनं कार्यमोङ्कारादि फडन्तकम् । अघोरबीजं मूलं च शान्त्यतीतकलामपि ।। ३५ ।। चतुर्थ्यन्तं समुच्चार्य हुंकारं तु समुच्चरन् । त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ।। ३६ ।। आहुतीनांत्रयं हुत्वा पाशबन्धनमाचरेत् । शिरः संताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ।। ३७ ।। भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् । व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ।। ३८ ।। हुंफडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् । शिवं संपुटितं स्वस्वबीजं च भगवत् पदम् ।। ३९ ।। कलाचतुष्टयंपाशं मल तत्वादिव्यापकम् । बन्ध बन्ध पदंचोक्त्वा हुंफषन्त समन्वितम् ।। ४० ।। पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् । तत्सूत्रं च समादाय शरावयुग संपुटम् ।। ४१ ।। कृत्वासंपात होमंच तत्सूत्रं मण्डलाधिपे । निवेद्य तस्य रक्षार्थं शिवकुंभान्तिकं न्यसेत् ।। ४२ ।। प्रणतिं कारयित्वा च शिवेन शिवकुंभके । आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ।। ४३ ।। पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् । शुचौ सावरणे देशे विविक्ते लेपिते भुवः ।। ४४ ।। पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया । भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ।। ४५ ।। निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् । अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ।। ४६ ।। उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना । चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ।। ४७ ।। तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् । चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ।। ४८ ।। अष्टग्रासप्रमाणंतु पुटके ब्रह्मवृक्षके । मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ।। ४९ ।। अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः । शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ।। ५० ।। कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् । मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ।। ५१ ।। राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः । आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ।। ५२ ।। अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् । मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ।। ५३ ।। इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् । स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ।। ५४ ।। सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च । पूर्वयाम्योत्तमाङ्गासु शययासु कुशभस्मना ।। ५५ ।। परस्परमलग्नासु सोपधानासु पार्श्वतः । चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ।। ५६ ।। अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसंख्यया । हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ।। ५७ ।। वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः । अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः संकल्प्य बाह्यतः ।। ५८ ।। स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ । दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ।। ५९ ।। चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये । विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ।। ६० ।। प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् । प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ।। ६१ ।। निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके । शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ।। ६२ ।। चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् । पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ।। ६३ ।। अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः । शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ।। ६४ ।। घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः । शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ।। ६५ ।। आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे । अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ।। ६६ ।। करोम्यनुग्रहं देव शिशो रध्येषयेदिति । लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ।। ६७ ।। निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् । पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ।। ६८ ।। कालाग्निरथकुऽऽमाण्डं हाडकं ब्राह्मवैष्णवौ । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ।। ६९ ।। कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।। ७० ।। अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। ७१ ।। याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ।। ७२ ।। निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।। ७३ ।। बलो ह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। ७४ ।। मेघनादः सुनादश्च दशमः परिकीर्तितः । शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ।। ७५ ।। पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ।। ७६ ।। लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः । विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ।। ७७ ।। सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः । वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।। ७८ ।। ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ । शंभुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।। ७९ ।। संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः । वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ।। ८० ।। कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले । याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ।। ८१ ।। बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ।। ८२ ।। वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः । भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ।। ८३ ।। एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः । नमोद्वयं प्रणवं षडक्षरमतः परम् ।। ८४ ।। सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा । शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ।। ८५ ।। पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् । साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ।। ८६ ।। अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित । ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ।। ८७ ।। सर्वभूतसुखप्रद भवोद्भवपदं ततः । भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ।। ८८ ।। मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् । महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ।। ८९ ।। महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः । निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ।। ९० ।। ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् । इत्युच्चार्य निवृत्तिं तु सूत्रात्संग्राह्य पावले ।। ९१ ।। आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् । मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ।। ९२ ।। भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः । तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ।। ९३ ।। वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् । हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ।। ९४ ।। संनिधीभव देवेशि पश्वनुग्रहकर्मणि । प्रार्थैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ।। ९५ ।। अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च । स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ।। ९६ ।। अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया । आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ।। ९७ ।। तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् । सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ।। ९८ ।। पूरकेन हृदि स्वस्य संनिवेश्य च कुम्भकम् । कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ।। ९९ ।। आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया । सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ।। १०० ।। स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् । भगवन् देव देवेश शिशोस्सर्वासु योनिषु ।। १०१ ।। संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् । निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ।। १०२ ।। भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच । सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ।। १०३ ।। ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् । भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ।। १०४ ।। इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च । मूलहुतित्रयं दत्वा शिवंप्रतिवदेदिदम् ।। १०५ ।। भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति । कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ।। १०६ ।। भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ । कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ।। १०७ ।। प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु । देशतः कालतश्चैव देहेन विषयेण च ।। १०८ ।। संचितागामिभेदेन भोगन्नाना विधं स्मरन् । भोक्तृत्व लिंगितेपुंसि सुखदुःखात्मवेदनम् ।। १०९ ।। मूलाहुतित्रयं दत्वा शिवंसंप्रार्थयेदिति । भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ।। ११० ।। परमप्रीति रूपं च भोगेषु संस्मरन् । शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ।। १११ ।। लयंच कुरु कुर्वीति शिशोः निर्वाण कर्मणि । जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ।। ११२ ।। हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् । सर्वकर्मसु शुद्धिंच निष्कृत्या कुरु कुर्वणोः ।। ११३ ।। भगवन्निति विश्लेषम् भोगाभावादणोरिह । बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ।। ११४ ।। मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् । मलकार्यंच भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ।। ११५ ।। दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् । मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ।। ११६ ।। अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह । स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ।। ११७ ।। भगवन्नात्मनो मायाफल कर्मात्मकं त्विह । विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ।। ११८ ।। ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु । अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ।। ११९ ।। आहुतीनां त्रयं दत्वा निवृत्तिछेदननंत्विह । भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ।। १२० ।। अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः । संभाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ।। १२१ ।। ओंब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत् । शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ।। १२२ ।। आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः । कारणेशत्वयानास्य धातुः पदमनामयम् ।। १२३ ।। प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी । ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ।। १२४ ।। निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् । ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ।। १२५ ।। निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः । कुरुकुर्वीति संहारमुद्रया पूरकेन तु ।। १२६ ।। कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् । आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ।। १२७ ।। वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत् । आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ।। १२८ ।। अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् । त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ।। १२९ ।। गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च । पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ।। १३० ।। मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् । तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ।। १३१ ।। चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च । अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ।। १३२ ।। अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः । डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ।। १३३ ।। हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ । मध्यमेशो महाकालः केदारो भैरवस्तथा ।। १३४ ।। गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा । विमलेशोऽट्टहासश्च महेन्द्रो भीमसंज्ञकः ।। १३५ ।। वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः । गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।। १३६ ।। झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ।। १३७ ।। पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ।। १३८ ।। अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ । कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ।। १३९ ।। अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि । गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ।। १४० ।। झगलण्डाद्यहंकारे पैशाचाद्यं मनौस्थितम् । प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ।। १४१ ।। महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः । महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ।। १४२ ।। ततश्शर्वपदंचोक्तं शिवेति च ततः परम् । निधनोद्भवसंज्ञं च निधनाख्य पदं ततः ।। १४३ ।। अनिधनपदं चैवम् ओंस्वक्षःपदमतः परम् । ओंभुवश्चपदं चान्यदोंभूः पदमतः परम् ।। १४४ ।। चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः । अनादे तुपदं चान्यदभस्मेति पदं ततः ।। १४५ ।। अधूमपदमन्यच्च अनग्नीति पदं ततः । अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ।। १४६ ।। तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि । अरूपिन् पदयुग्मंच पदान्येकं च विंशतिः ।। १४७ ।। प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् । इत्युक्त संख्यत त्वार्णंपदमन्त्रैस्त्रिविष्टपैः ।। १४८ ।। गर्भितां तामनुस्मृत्य संतधीतोपभुक्त्या । शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ।। १४९ ।। वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् । सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ।। १५० ।। ओं ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् । नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ।। १५१ ।। कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् । निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ।। १५२ ।। हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् । कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ।। १५३ ।। रागो नियतिविद्ये च कलाकालौ च मोहिनी । ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ।। १५४ ।। मन्त्रश्शिखा पुराणीह सप्तविंशतिसंख्यया । वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ।। १५५ ।। प्रचण्डोमापती चाजोऽनन्तैकशिवसंज्ञकौ । क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ।। १५६ ।। पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः । वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ।। १५७ ।। एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः । षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ।। १५८ ।। अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि । पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ।। १५९ ।। व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् । परमेश्वर परायेति पदं चैव पुनर्भवेत् ।। १६० ।। ज्योतिरूपायसंज्ञं च सर्वयोगाद्यमेव च । पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ।। १६१ ।। गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः । पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ।। १६२ ।। शिवायेति पदं सर्वप्रभवेति ततः । शिवायेति पदं पश्चाद् ओं पदमन्ततः ।। १६३ ।। ध्यानाहारायसंज्ञं च कीर्तितानि पदानि च । संधानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ।। १६४ ।। निष्कृतिं शिखया दत्वा शतहोमं विधाय च । रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ।। १६५ ।। भवाख्यं पदमेतत्तु कलात्रितयगोचरम् । भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ।। १६६ ।। अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् । बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ।। १६७ ।। अनुकूलमसंकीर्णमनासक्तिनिबन्धनम् । विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ।। १६८ ।। तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः । वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ।। १६९ ।। वामा ज्येष्ठा च रौद्री च काली कलविकरणी । बलविकरणी चैव बलप्रमथनीत्यपि ।। १७० ।। सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् । पुराणि नव विद्यायामनन्तस्सूक्ष्मसंज्ञकः ।। १७१ ।। शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ।। १७२ ।। सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु । एकादशपदान्यासन्नित्यंयोगिन इत्यपि ।। १७३ ।। योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः । ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ।। १७४ ।। अनाथायपदं प्रोक्तमनन्तायपदं पुनः । शिवायेतिपदं सर्वव्यापिने च पदं ततः ।। १७५ ।। व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च । निष्कृतौ शतहोमं तु कवचेन समाचरेत् ।। १७६ ।। सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती । ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ।। १७७ ।। शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् । बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ।। १७८ ।। ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।। १७९ ।। पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् । इन्धिका दीपिका चैव रोचिका मोचिका तथा ।। १८० ।। तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु । व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ।। १८१ ।। अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता । भुवनानि तु शाक्तानि पञ्चैव कथितानि च ।। १८२ ।। एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् । ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ।। १८३ ।। संपूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् । कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।। १८४ ।। निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् । अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ।। १८५ ।। ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् । समयं समयाचारं शक्तो पाशात्मके न्यसेत् ।। १८६ ।। समयं समयाचारपाशशुद्धिं महेश्वर । शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ।। १८७ ।। शिवबीजं समुच्चार्य सदाशिवपदं पुनः । मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ।। १८८ ।। पूर्ववत्संविसृज्यात्म सूत्रं संगृह्य निर्मलम् । रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ।। १८९ ।। शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् । संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ।। १९० ।। पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् । शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ।। १९१ ।। आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः । आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ।। १९२ ।। नमः प्रणवसंयुक्तमुक्त्वा संपूज्य सन्निधौ । विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ।। १९३ ।। सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् । सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ।। १९४ ।। मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति । शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ।। १९५ ।। शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः । मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ।। १९६ ।। अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् । ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ।। १९७ ।। संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् । छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ।। १९८ ।। आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् । स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ।। १९९ ।। ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि । प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ।। २०० ।। अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः । यावत्वयं परं धाम भगवन् परमेश्वर ।। २०१ ।। शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् । एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ।। २०२ ।। समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसंमुखम् । शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ।। २०३ ।। अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् । सकलीकृतमन्त्राणामेकैकाहुतिदानतः ।। २०४ ।। सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे । विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ।। २०५ ।। इन्धिका दीपिका चैव रोचिका मोचिका तथा । तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ।। २०६ ।। बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः । आभिः कलाभिस्संकॢप्तदेहयुग्देशिकोत्तमः ।। २०७ ।। व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता । अनाथानाश्रिता चेति बहिः करणसंयुतः ।। २०८ ।। अन्तः करणसंयुक्तस्समनाकल्पितं च तत् । आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ।। २०९ ।। कृत्वा पूरककुम्भौ तु जिह्वासंबद्धतालयुक् । ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ।। २१० ।। सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि । नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ।। २११ ।। सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसंनिभम् । संभाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ।। २१२ ।। शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु । व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ।। २१३ ।। समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया । शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ।। २१४ ।। योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् । तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ।। २१५ ।। यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः । साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ।। २१६ ।। न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते । स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ।। २१७ ।। होमयेद् देशिको धीमान् प्रयोगेणामुना यथा । सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ।। २१८ ।। अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् । आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ।। २१९ ।। इत्येवं कथिता दीक्षा सर्वपापविमोचनी । चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ।। २२० ।। न्यायजा गूढजाता वा दीक्षायामधिकारिणः । जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकांक्षिणः ।। २२१ ।। दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया । अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ।। २२२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः पटलः २४ चतुर्विंशत्तमे पटले आचार्याभिषेक विधिः अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि । आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ।। १ ।। यत्र विप्राः सदाचाराः यतयश्च तपोधनाः । सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ।। २ ।। एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः । ककाराष्टक निर्मुक्तः प्रसंङ्गात् सोऽपि कथ्यते ।। ३ ।। कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः । कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ।। ४ ।। आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु । विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ।। ५ ।। दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे । स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ।। ६ ।। व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके । सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ।। ७ ।। विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च । ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ।। ८ ।। वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते । स्वार्थेष्टौ चल लिंगस्य प्रतिष्ठायां त्रयस्विमे ।। ९ ।। शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके । बाणलिंगेक्षणेवापि स्थापको यदि नैष्ठिकः ।। १० ।। आचार्यं गौलकं चैव दयित परिवर्तकम् । तथैव पारवेत्तारं देवलं च पुनर्भवत् ।। ११ ।। अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा । खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ।। १२ ।। अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा । असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ।। १३ ।। अथव्यसनिनं पारदारिकं वृषलीपतिम् । चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ।। १४ ।। परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् । परापवाद शीलं च तथा बहुकिणैर्वृतम् ।। १५ ।। सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् । बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ।। १६ ।। चपलं शठसञ्जारं वृद्ध्या जीवन मेव च । शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ।। १७ ।। सांख्ये विविधभेदे च मायावादेऽर्हतो मते । बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ।। १८ ।। अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके । सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ।। १९ ।। भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च । सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ।। २० ।। काव्य नाटकसक्तं च भरते तु निरन्तरम् । कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरं ।। २१ ।। ज्योतिज्ञानपरंवेद पुराणहित चेतसम् । तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ।। २२ ।। कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ।। २३ ।। शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च । चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ।। २४ ।। शैवार्थ देहिके हित्वा विचारं सन्ततं नरः । योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ।। २५ ।। अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् । अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ।। २६ ।। दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् । समान गोत्र संबन्धं कुसुमाक्षं च वर्जयेत् ।। २७ ।। इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि । अभिषेकं ततःकुर्यात् अंकुरार्पण पूर्वकम् ।। २८ ।। पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ । मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ।। २९ ।। अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् । चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ।। ३० ।। स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् । भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ।। ३१ ।। लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया । बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ।। ३२ ।। काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः । सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ।। ३३ ।। नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् । घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ।। ३४ ।। स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् । चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ।। ३५ ।। सदेशानेन विद्येशैः नवपञ्चपवित्रकैः । पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ।। ३६ ।। शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् । अथवा कलशानेकघटं वा शिव संयुतम् ।। ३७ ।। दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् । भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ।। ३८ ।। स्वासनेन तथा सम्यक् अर्चितं विभवेन वा । वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ।। ३९ ।। शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः । परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ।। ४० ।। सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च । आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ।। ४१ ।। पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् । आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ।। ४२ ।। ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः । करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ।। ४३ ।। दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः । पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ।। ४४ ।। राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः । आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ।। ४५ ।। दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ । तथैवं देव देवाय देशिकाय मयाकृतम् ।। ४६ ।। त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति । विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ।। ४७ ।। निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् । स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ।। ४८ ।। दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् । हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ।। ४९ ।। तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् । शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ।। ५० ।। अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः । तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ।। ५१ ।। अनेनैव प्रकारेण साधकं चाभिषेचयेत् । किंतु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ।। ५२ ।। दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः । सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ।। ५३ ।। जात्युद्धार विहीनो यस्सामान्य समयी भवेत् । तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ।। ५४ ।। दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः । न तु लिंगार्चने योग्याः किमु दीक्षादि कर्मणि ।। ५५ ।। शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् । शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ।। ५६ ।। शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते । मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ।। ५७ ।। शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् । बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ।। ५८ ।। भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ।। ५९ ।। भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते । सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ।। ६० ।। अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते । योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ।। ६१ ।। कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् । स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ।। ६२ ।। व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् । व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ।। ६३ ।। पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते । सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ।। ६४ ।। शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः । आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ।। ६५ ।। वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः । पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ।। ६६ ।। मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः । समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ।। ६७ ।। आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् । आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ।। ६८ ।। लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः । प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ।। ६९ ।। स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् । प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ।। ७० ।। स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च । यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ।। ७१ ।। स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते । आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ।। ७२ ।। तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया । स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ।। ७३ ।। अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति । आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ।। ७४ ।। साधकश्च तथा भूतस्सर्वकर्माणि शंसितः । महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ।। ७५ ।। नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् । लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ।। ७६ ।। मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् । संहिता पारगो वाथ लक्षाध्याययुपदेशतः ।। ७७ ।। संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका । शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ।। ७८ ।। सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् । चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ।। ७९ ।। पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ।। ८० ।। सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते । तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ।। ८१ ।। सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् । अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ।। ८२ ।। वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः । वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ।। ८३ ।। सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् । तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ।। ८४ ।। शब्दशास्त्रमलंकारो निरुक्तं छन्द एव च । कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ।। ८५ ।। आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च । लोकायतं तथा सांख्य मार्हतो मतमेव च ।। ८६ ।। मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् । वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ।। ८७ ।। तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् । धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ।। ८८ ।। रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् । न्याय वैशेषिकं सांख्यं सेश्वरं यत् प्रणीतवान् ।। ८९ ।। ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् । पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ।। ९० ।। सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् । ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ।। ९१ ।। पश्चिमं वाम संज्ञं तु वामाद्दक्षिणमुत्तमम् । दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ।। ९२ ।। पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः । सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ।। ९३ ।। अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः । सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ।। ९४ ।। सिद्धान्त विहिताचारो वैदिकाचार उच्यते । गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ।। ९५ ।। तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् । तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ।। ९६ ।। युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च । दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ।। ९७ ।। तथा पुंसवनादिश्च शैव आवश्यको मतः । तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ।। ९८ ।। क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये । वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ।। ९९ ।। भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः । वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ।। १०० ।। निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया । हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ।। १०१ ।। शैव कर्म समायुक्ता शैवे शैवी च केवला । श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ।। १०२ ।। आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च । सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ।। १०३ ।। गर्भाधानादिके वापि दहने श्राद्ध कर्मणि । अष्टका करणे वापि नित्यनैमित्तिकेपि वा ।। १०४ ।। वेदाध्ययन संस्कारे सोमयागादिकेपि वा । वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ।। १०५ ।। तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् । कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ।। १०६ ।। विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् । संग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ।। १०७ ।। शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा । वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ।। १०८ ।। तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि । सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ।। १०९ ।। शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः । तदापि वैदिकं वेदसार मित्यादि वाक्यतः ।। ११० ।। शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः । सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ।। १११ ।। स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते । कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ।। ११२ ।। कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् । अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ।। ११३ ।। अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् । सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रंदक्षिणाननम् ।। ११४ ।। अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् । विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ।। ११५ ।। स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत् । वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ।। ११६ ।। मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् । चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिंबमन्यतः ।। ११७ ।। प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् । जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ।। ११८ ।। जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् । किरणं तल मित्युक्तं वातुलं वामकं तलम् ।। ११९ ।। सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः । ऋषय ऊचुः पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ।। १२० ।। इत्यादि कथितं देव परस्परविरोधनं । ईश्वर उचाच बहुधा कथितं विप्राः भवद्भिरवधारितम् ।। १२१ ।। मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् । तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ।। १२२ ।। सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् । भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ।। १२३ ।। निराकारं भवेज्ज्ञानं संकरं तदुपास्यतः । परस्पर विरोधीति मतिहीनैः प्रबाध्यते ।। १२४ ।। ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः । न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ।। १२५ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा । न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ।। १२६ ।। उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः । कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ।। १२७ ।। दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः । विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ।। १२८ ।। रौरवान्मुख बिंबान्ता वामदेव मुखोद्भवाः । प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ।। १२९ ।। तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः । अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ।। १३० ।। स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः । अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ।। १३१ ।। विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता । हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ।। १३२ ।। विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् । विशिष्टे विद्यमाने च हठादज्ञेन कारिते ।। १३३ ।। साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता । तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ।। १३४ ।। कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् । लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ।। १३५ ।। द्रव्यं करोति सुमुखं सर्वलोकसमं यशः । ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ।। १३६ ।। तद्वित्तमाहृतं येन स पापी च स दुर्मतिः । नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ।। १३७ ।। इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः चतुर्विंशतितमः पटलः २४ ज्ञानदीक्षाविधिः ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः । सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ।। १ ।। एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे । सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ।। २ ।। शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे । शुद्धदेशे सुखासीनः पञ्चगोचरसंभवः ।। ३ ।। दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे । सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ।। ४ ।। स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि । गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ।। ५ ।। पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् । षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ।। ६ ।। ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।। ७ ।। दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसंनिधौ । सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ।। ८ ।। गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् । अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ।। ९ ।। तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् । प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ।। १० ।। तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् । पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ।। ११ ।। सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् । नवमं शिवयोगं च दशमं शिवभोगकम् ।। १२ ।। त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् । गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ।। १३ ।। इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ।। १३१/२ ।। २५ पञ्चविंशत्तमे पटले गोत्र निर्णय विधिः ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ।। १ ।। ऊनपञ्चाशदेवैषां संख्या स्यान्महतामिह । कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ।। २ ।। अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः । अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ।। ३ ।। शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः । शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ।। ४ ।। कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः । गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ।। ५ ।। क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा । नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ।। ६ ।। आदिशैवे यथा गोत्रमनुशैवे तथामतम् । किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ।। ७ ।। जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः । उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ।। ८ ।। प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः । कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ।। ९ ।। धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः । अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ।। १० ।। पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः । लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ।। ११ ।। भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः । ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ।। १२ ।। उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः । मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ।। १३ ।। पराशरस्ततोऽगस्त्यस्साम्बवाहनसंज्ञकाः । सोमवाहनसंज्ञाश्च यज्ञवाहास्ततो मताः ।। १४ ।। वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा । वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ।। १५ ।। हारिताः संकृतिश्चैव पश्चाद्रथीतरा मताः । मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ।। १६ ।। कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः । पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ।। १७ ।। तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः । कान्तका बाष्पका वाच्युकिता लोमका धनाः ।। १८ ।। साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् । यम दूता आनभिन्ना ततस्तारायणा मताः ।। १९ ।। चौलकायनसंज्ञाश्च जाबाल्युदुम्बरौ मतो । दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ।। २० ।। श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसंज्ञकाः । शालावतां मयूराश्च तथोदुत्सरित्यपि ।। २१ ।। चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसंज्ञकाः । ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ।। २२ ।। येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि । स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ।। २३ ।। पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ।। २४ ।। लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः । जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ।। २५ ।। कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः । विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ।। २६ ।। प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु संमताः । माणा उद्वहला एते रोक्षास्तु कुशिका मताः ।। २७ ।। प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः । माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ।। २८ ।। विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः । श्रौमितो देवतरसः कामकायनिकस्ततः ।। २९ ।। कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः । त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ।। ३० ।। देवश्रावस इत्यन्तो देवतरस इत्यमी । कठाः स्वैरन्ध्रिसंज्ञाश्चकरभाः सहिताः परे ।। ३१ ।। वाजायनाश्च कौकृत्यास्ततो जाणायना मताः । कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ।। ३२ ।। पिण्डिग्रीवास्ततो नारायणा नारद्य संज्ञकाः । एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ।। ३३ ।। विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः । आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ।। ३४ ।। तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः । त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ।। ३५ ।। विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः । आजायनस्ततः प्रोक्त एकवत्सश्च संमतः ।। ३६ ।। त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ।। ३७ ।। अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः । एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ।। ३८ ।। कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः । कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ।। ३९ ।। त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः । ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ।। ४० ।। पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च संमताः । ऋषी द्वौ संमतौ विश्वामित्रः पौरणः इत्यपि ।। ४१ ।। कौशिकाश्च दशाप्येवं न समन्वयगामिनः । काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ।। ४२ ।। ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः । आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ।। ४३ ।। धौमधौम्रायणा औधप्रचुराग्रायणा मताः । रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ।। ४४ ।। कायाताया अकापाया निकामौषनिकिस्तथा । काद्रायणा औज्वलयो रोहितायनसंज्ञकाः ।। ४५ ।। पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च । वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ।। ४६ ।। कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः । कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ।। ४७ ।। वैतम्बा देवयाताश्च महाचक्रेयसंज्ञकाः । पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ।। ४८ ।। वृषगणाश्च पानध्यो दाक्षपायण एव च । हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ।। ४९ ।। जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः । वैशम्पायनसंज्ञाक्ष ततः केशायताः स्मृताः ।। ५० ।। औकायनिस्ततो मार्जायनाः कांसायनाः परे । देवश्च होतसूच्यास्थूणा भागुरयस्तथा ।। ५१ ।। पाथिकार्याः खरेभा ये गोमयातास्ततः परम् । हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ।। ५२ ।। अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि । उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ।। ५३ ।। नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः । काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ।। ५४ ।। त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः । काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ।। ५५ ।। शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः । रभेरव्ययसौमानौ वनसंस्तु करेयुतः ।। ५६ ।। काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः । महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ।। ५७ ।। ततः कामशयः पश्चान्महौजक्य एव च । ततो मौञ्जायनाः प्रोक्तास्ततो गांगायना मताः ।। ५८ ।। वात्सभालय इत्युक्तास्ततो गोमिलसंज्ञकाः । वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ।। ५९ ।। बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः । हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ।। ६० ।। वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् । जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ।। ६१ ।। काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा । काश्यपक्षापवत्सारोऽसितं इत्यथवा त्रयः ।। ६२ ।। शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा । कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ।। ६३ ।। चैरन्घ्रिः पशवश्चिव पयणायनसंज्ञकाः । कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ।। ६४ ।। कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि । कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ।। ६५ ।। सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः । यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ।। ६६ ।। यौधवा याजपा एते लोगाक्षय इति स्मृताः । अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ।। ६७ ।। काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः । पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च संमताः ।। ६८ ।। भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः । देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ।। ६९ ।। ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः । आजा औमाश्च तौदेहाः परिणद्धेधसंज्ञकाः ।। ७० ।। शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः । वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ।। ७१ ।। श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः । ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसंज्ञकाः ।। ७२ ।। पैलाः सौज्ज्वलयः कारुणादयः शुगसंज्ञकाः । भारुण्डेया इषुमतास्तथा वौदोदमेघयः ।। ७३ ।। सौरभरास्तथा भाद्रपथयः परिकीर्तिताः । ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ।। ७४ ।। प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः । वाराहयोः देववेला वलभीगय इत्यपि ।। ७५ ।। भद्राङ्गगतसंज्ञाश्च शालाहलय इत्यपि । नृत्यायना महावेलास्ततः शालालयो मताः ।। ७६ ।। शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा । क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ।। ७७ ।। ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः । सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ।। ७८ ।। स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः । ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ।। ७९ ।। आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च । धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ।। ८० ।। मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः । काब्ल्याः कारुपथयः कारिषायणसंज्ञकाः ।। ८१ ।। भरद्वाजवनौ द्वौ तु ऋषयः पञ्च संमताः । भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ।। ८२ ।। अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः । एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ।। ८३ ।। भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः । स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ।। ८४ ।। सांभरायणसंज्ञाश्च तथा यौगन्धरायणः । सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ।। ८५ ।। ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः । भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ।। ८६ ।। सत्यापचय आख्याता जाणपक्वलसंज्ञकाः । पलाशशाखावन्तस्ते मर्कटायनसंज्ञकाः ।। ८७ ।। ततः संग्रहतुल्याश्च वैधूह्यः कारिरोतयः । त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ।। ८८ ।। पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः । अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ।। ८९ ।। गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः । ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ।। ९० ।। भारद्वाजास्त्रयश्चापि न समन्वयगामिनः । गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ।। ९१ ।। आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः । सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ।। ९२ ।। व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः । कठोरिः कारुणिः कीलालयः पार्थिवसंज्ञकाः ।। ९३ ।। काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः । एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ।। ९४ ।। प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः । शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ।। ९५ ।। ततः क्षीरकम्भाश्च ततः सौमुचयो मताः । सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ।। ९६ ।। राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः । एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ।। ९७ ।। अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः । कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ।। ९८ ।। पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः । ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ।। ९९ ।। पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः । कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ।। १०० ।। पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः । आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ।। १०१ ।। ततो दीर्घतमश्चेति पर्यायाः पञ्च संमताः । कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ।। १०२ ।। बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि । औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ।। १०३ ।। गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः । कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ।। १०४ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः । विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ।। १०५ ।। प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः । अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ।। १०६ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः । तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ।। १०७ ।। अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे । अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ।। १०८ ।। भोजश्चादितिसंज्ञश्च चान्द्रोशीः पार्व इत्यपि । कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ।। १०९ ।। ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः । ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ।। ११० ।। शाम्ब व्यसन संज्ञाश्च कार्मर्यायनयो मताः । ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ।। १११ ।। औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा । ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ।। ११२ ।। गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः । श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ।। ११३ ।। हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः । वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ।। ११४ ।। कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः । अनीलाययनसंज्ञाश्च अङ्गिराश्च ततो मताः ।। ११५ ।। गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः । शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ।। ११६ ।। भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः । त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ।। ११७ ।। अर्चनानस इत्येते ऋषयस्त्रय ईरिताः । तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ।। ११८ ।। अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः । ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ।। ११९ ।। अत्रिरर्चनानसेति गविष्ठिर इति त्रयः । मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ।। १२० ।। वैत भावय इत्येते ऋषयश्च ततो मताः । ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ।। १२१ ।। ततो गौरकयो वायुपूरकाः सायनास्ततः । इत्येते त्रियार्षेयाः स्युर्मुद्गलाः संप्रकीर्तिताः ।। १२२ ।। अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः । चतुर्विधा अप्यात्रेया न समन्वयगामिनः ।। १२३ ।। वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः । वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ।। १२४ ।। आश्वलायनसंज्ञाश्च गविष्ठास्त्वाश्वलयनाः । शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ।। १२५ ।। औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः । कोलायनाश्च को भोजिस्ततः पौलायना मताः ।। १२६ ।। सुन्दहरित इत्युक्तः काण्डेय विधिरेव च । सप्तवेलां इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ।। १२७ ।। एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः । प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ।। १२८ ।। ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः । आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ।। १२९ ।। पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः । सोमरङ्गलिनः कोकास्ततः कापटवा मताः ।। १३० ।। हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च । माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ।। १३१ ।। त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः । वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ।। १३२ ।। उपमन्युरौपगवा मण्डलेखय एव च । जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ।। १३३ ।। त्रैवर्ण वैवशागारिसारक्षा रक्षसंज्ञकाः । शैलालयो महाकर्णानया बालशिखा मताः ।। १३४ ।। औद्दाहमानयो बालानया भागास्ततो मताः । इत्युन्मायन संज्ञाश्च ततः कुण्डोदरायणाः ।। १३५ ।। लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः । अनृक्षर वसंज्ञाश्च कापिला वय एव च ।। १३६ ।। कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः । वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ।। १३७ ।। इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः । ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ।। १३८ ।। भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः । कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ।। १३९ ।। कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः । हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ।। १४० ।। खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः । श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ।। १४१ ।। पराशराः स्युररुणास्ततो भालुक्य संज्ञकाः । बादरिश्च तथा गार्गो वना वै कौकसादयः ।। १४२ ।। इत्येते कथिता पञ्च प्रनीलाश्च पराशराः । ततः सौधवसानाश्च आलंभायन संज्ञकाः ।। १४३ ।। स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः । चोलकायन संज्ञाश्च वार्णवल्कास्तथैव च ।। १४४ ।। पुनर्देवनगौख्याः श्रविष्टायन संज्ञकाः । ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ।। १४५ ।। आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च । कैमीयतय इत्येते पञ्च नीलाः पराशराः ।। १४६ ।। कृष्णाजिना काविशुभास्ततः श्यामायना मताः । ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ।। १४७ ।। श्वेताः पराशराः पञ्च वात्स्यायन एव च । श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ।। १४८ ।। श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः । वसिष्ठ शक्तिसंज्ञश्च पराशर इति त्रयः ।। १४९ ।। सर्वे पराशरास्त्वेते परस्परमयोगिनः । ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ।। १५० ।। शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः । तथौपदहनिश्चैव धावणिर्लावणिस्ततः ।। १५१ ।। लाव्योऽर्बुदोवैरणयो बुधादरय एव च । बोदरिः शैवरतयस्ततः श्यामातयो मताः ।। १५२ ।। ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा । गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ।। १५३ ।। दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे । सांभवाहन संज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५४ ।। दृढच्युतिरगस्त्यश्च सांभवाहस्त्रयस्त्विमे । सोमवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५५ ।। दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे । यज्ञवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ।। १५६ ।। दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे । अगस्तयस्तु चत्वारो नसमन्वियगामिनः ।। १५७ ।। जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः । मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ।। १५८ ।। आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः । शार्कराक्षास्ततो देवतायनाः शौनकायनाः ।। १५९ ।। माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः । पैङ्गलायन संज्ञाश्च पैला दाध्रेषयस्ततः ।। १६० ।। ततो बाह्यकयो वैश्वानरयश्च विलोहिताः । बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ।। १६१ ।। वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ । वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ।। १६२ ।। दधीचयश्च वापाणिस्ततः शैखावताः मताः । वाकायनाः सौकृतयस्ततो बालायना मताः ।। १६३ ।। सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः । ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ।। १६४ ।। जानायना औरक्षयाः काम्बरोदरयस्ततः । कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ।। १६५ ।। वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च । मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ।। १६६ ।। काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः । नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ।। १६७ ।। बाहुमित्रायणा आपिशलयो रोहितायनाः । ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ।। १६८ ।। ततो राजित वाहाश्च ततः शारद्वतायनाः । नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ।। १६९ ।। वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ।। १७० ।। ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि । विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ।। १७१ ।। प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः । ततस्त्वभयजाताः स्युः काण्डरथय एव च ।। १७२ ।। आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः । क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ।। १७३ ।। एते मताः विदा पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ।। १७४ ।। आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च । कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ।। १७५ ।। गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः । आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ।। १७६ ।। भार्गवश्च्यावनश्चाप्नुवानोरथानूपसंज्ञकाः । आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ।। १७७ ।। वत्सानमार्ष्टिषेणानां विदानां च परस्परम् । अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ।। १७८ ।। यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः । वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ।। १७९ ।। दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे । कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ।। १८० ।। सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः । भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ।। १८१ ।। ततः स्युर्भोग चितय एते यस्तका इति स्मृताः । त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ।। १८२ ।। भृगुश्चैव तथा यस्को दिवोदास इति त्रयः । मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ।। १८३ ।। सापिण्डिनो महावाल्या माल्या यावाल्यसंज्ञकाः । पुराभिनाय एजेयास्ततो राक्षायणा मताः ।। १८४ ।। कैतवायनयो माञ्जायना मादायवः स्मृताः । एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ।। १८५ ।। भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः । वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य संज्ञकाः ।। १८६ ।। त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः । भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ।। १८७ ।। शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति । गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ।। १८८ ।। श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः । एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ।। १८९ ।। एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः । यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ।। १९० ।। शुनकानां च संबन्धः कर्तव्य इति गम्यते । अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ।। १९१ ।। भद्रणा भद्रणाश्चैव शठमार्षण संज्ञकाः । शाबरायणसंज्ञाश्च सात्यकिः सात्यकायनाः ।। १९२ ।। बादरायणसंज्ञाश्च वात्स प्रायण संज्ञकाः । आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य संज्ञकाः ।। १९३ ।। देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः । एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ।। १९४ ।। अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा । वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ।। १९५ ।। कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे । मौञ्जिश्च माञ्जयश्चैव मर्कटायन संज्ञकाः ।। १९६ ।। मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः । मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ।। १९७ ।। अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः । हारिताश्च ततः कौत्साः सांख्या दार्भास्तथैव च ।। १९८ ।। शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ । नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ।। १९९ ।। कौतपाः कौलयः कारीषयः पौलय एव च । पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ।। २०० ।। इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः । आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ।। २०१ ।। ततः संकृतयस्तण्डिः शंभुश्च मलकास्ततः । पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ।। २०२ ।। हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः । चारायणाः पूतिभाषास्तत आग्रायणा मताः ।। २०३ ।। चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी । प्रोक्ता संकृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ।। २०४ ।। अङ्गिराः संकृतिश्चाम्बरीषश्च ऋषयस्त्रयः । रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ।। २०५ ।। शैलालयश्च लैभिश्च ततो लीभायना मताः । मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ।। २०६ ।। ततो हेमशता ह्येते त्रियार्षेया रथीतराः । अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ।। २०७ ।। अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् । मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ।। २०८ ।। ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः । ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ।। २०९ ।। त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः । हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ।। २१० ।। ऐतिशायन संज्ञाश्च तरस्विश्च पतञ्जलि । मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ।। २११ ।। ततः करशिखण्डश्च ततो मौषींतकिर्मतः । तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ।। २१२ ।। त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः । अङ्गिराश्च कपित्थाश्च अंबरीष इति त्रयम् ।। २१३ ।। विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् । राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ।। २१४ ।। क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः । वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ।। २१५ ।। आत्रेयश्चैव वाध्रेयो वाधूलश्चापि संकृतिः । वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ।। २१६ ।। नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह । अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ।। २१७ ।। समानगोत्रप्रवराञ्ज्ञात्वा संबन्धमाचरेत् । समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ।। २१८ ।। ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् । तस्याश्च रक्षणंकार्यमाहाराच्छादनादिभिः ।। २१९ ।। विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् । तयासह प्रमादेन संयोगाद्यं कृतं यदि ।। २२० ।। प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते । सकृदागमने कुर्यात् तेन चान्द्रायणेन च ।। २२१ ।। सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् । एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ।। २२२ ।। मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् । षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ।। २२३ ।। तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् । निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ।। २२४ ।। तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः । तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ।। २२५ ।। उपवासस्तदा स्नानं पञ्चगव्याशनं जपः । होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ।। २२६ ।। साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके । चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ।। २२७ ।। त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् । द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ।। २२८ ।। इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः पञ्चविंशतितमः पटलः २६ षड्विंशत्तमे पटले शताभिषेकविधिः शताभिषेकं वक्ष्येहं संक्षेपात् द्विजसत्तमाः । अकालमृत्यु मथनं आयुरारोग्यवर्धनम् ।। १ ।। वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् । दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ।। २ ।। उत्तरायण कालेतु शुक्लपक्षे विशेषतः । सुलग्ने च सुवारे च सुतिथौ शोभने दिने ।। ३ ।। स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः । मङ्गलाङ्कुर संयुक्ते मण्डपे समलंकृते ।। ४ ।। कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे । पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ।। ५ ।। मुखायामयुते वापि चतुर्द्वार समन्विते । एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ।। ६ ।। ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा । अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ।। ७ ।। राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ।। ८ ।। पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् । अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ।। ९ ।। कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः । तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ।। १० ।। प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् । तद्रात्रौ तु पयः पीत्वा शययायां कम्बलादिभिः ।। ११ ।। कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः । मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ।। १२ ।। विसृज्य शिल्पिनंपश्चात् पुण्याहं वाचयेद्गुरुः । पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ।। १३ ।। शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् । तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ।। १४ ।। परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम् । चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ।। १५ ।। अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः । तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ।। १६ ।। वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् । अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ।। १७ ।। त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः । आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ।। १८ ।। अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः । शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ।। १९ ।। तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् । अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ।। २० ।। मध्यमे शिवकुंभं तु द्वात्रिंशत्प्रस्थपूरितम् । वर्धनी च तदर्धेन पूरिता शिवपूरिताः ।। २१ ।। बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः । त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ।। २२ ।। अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् । पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ।। २३ ।। चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् । नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ।। २४ ।। नानागन्धसमायुक्तं नानाबीजसमन्वितम् । नानाधातुसमायुक्तं नानालोहसमन्वितम् ।। २५ ।। नानादिगौषधोपेतं नानाफलसमन्वितम् । नानापुष्पसमायुक्तं नानागव्यसमायुतम् ।। २६ ।। संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः । अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ।। २७ ।। पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः । वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ।। २८ ।। नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् । प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ।। २९ ।। हिरण्यं रजतं ताम्रमारकूटं च सीसकम् । आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ।। ३० ।। द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् । अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ।। ३१ ।। रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च । जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ।। ३२ ।। कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् । ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ।। ३३ ।। पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसंभवाः । बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसंभवाः ।। ३४ ।। औदुम्बरी च नारङ्गंमातुलुङ्गसमुद्भवाः । वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ।। ३५ ।। आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः । नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ।। ३६ ।। सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके । उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ।। ३७ ।। वकुलं करवीरं च पाटलं कुरवं तथा । मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ।। ३८ ।। चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः । चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ।। ३९ ।। तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् । नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ।। ४० ।। वैष्णवं माषनीवार गोधूमं यवमेव च । अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ।। ४१ ।। श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः । लक्ष्मीश्च शंखपुष्पी च विष्णुक्रान्तिश्च हंसिनी ।। ४२ ।। तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी । सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ।। ४३ ।। पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च । गोमयं नालिकेरं त मातुलुङ्गफलं तथा ।। ४४ ।। नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च । दाडिमीसंभवं चैव न्यस्तव्याः क्रमशस्ततः ।। ४५ ।। गन्धोदकमथैशान्यां कलशेषु नवस्वपि । एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ।। ४६ ।। आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः । वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ।। ४७ ।। पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकं एव च । मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ।। ४८ ।। पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् । मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ।। ४९ ।। बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् । दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ।। ५० ।। मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके । उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ।। ५१ ।। अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् । पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ।। ५२ ।। गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः । नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ।। ५३ ।। समिदाज्यचरू/ल्लाजतिलवैणव माषकान् । जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ।। ५४ ।। उदुम्बरवटाश्वत्थप्लक्षा इंद्रादिदिषु च । शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ।। ५५ ।। पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् । सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ।। ५६ ।। शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः । ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ।। ५७ ।। होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च । गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ।। ५८ ।। अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् । किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ।। ५९ ।। वर्धन्यां च यजेद् गौरीमशेषकलशेषु च । पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ।। ६० ।। दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् । कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ।। ६१ ।। सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् । प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ।। ६२ ।। सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् । पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ।। ६३ ।। आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणेवेन तु । पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ।। ६४ ।। कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते । कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ।। ६५ ।। भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे । पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ।। ६६ ।। सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् । अन्येषामपि सर्वेषां शतधारावटेन वा ।। ६७ ।। हैमेन राजनेतापि तथोरन्यतरेण वा । सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ।। ६८ ।। स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा । गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ।। ६९ ।। विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् । तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ।। ७० ।। स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् । सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ।। ७१ ।। स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् । आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ।। ७२ ।। गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् । पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ।। ७३ ।। स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् । स्थापयित्वा सवत्सांगां दर्शयेच्च पयस्विनीम् ।। ७४ ।। बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः । सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ।। ७५ ।। आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् । गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ।। ७६ ।। पूणकुम्भयुते दीपसंयुते फलकोपरि । स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ।। ७७ ।। कारयित्वा ततः स्त्रीभिः रजनीजलधारया । दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ।। ७८ ।। ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति । श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ।। ७९ ।। पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा । एकेनवाभिषेकं तु कारयेदभिषेचनम् ।। ८० ।। दक्षिणां च गुरोर्दद्दादुत्तमादिषु संभवाम् । दासीदासं भुवं गां च गृहोपकरणानि च ।। ८१ ।। मूर्तिपानां तदन्ते च तदन्ते जापिनामपि । स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ।। ८२ ।। पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च । एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ।। ८३ ।। इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् । आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ।। ८४ ।। यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ८५ ।। नोपसर्गभयं तत्र न परागमविप्लवः । स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ।। शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ।। ८६ ।। इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः षड्विंशतितमः पटलः २७ सप्तविंशत्तमे पटले अन्त्येष्टिविधिः अन्त्येष्टिं संप्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः । ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ।। १ ।। आचार्यसाधका वास्युः पुत्रका समयस्थिताः । गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ।। २ ।। आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता । अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ।। ३ ।। आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः । प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ।। ४ ।। तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् । परिहृत्य निषिद्धे च यैस्तेषां अप्रमादिनाम् ।। ५ ।। तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते । सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ।। ६ ।। यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् । यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ।। ७ ।। विधायस्नानमाग्नेयं मन्त्र संनद्ध विग्रहम् । मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ।। ८ ।। अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे । स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ।। ९ ।। संस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् । स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ।। १० ।। तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ । दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ।। ११ ।। नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् । एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ।। १२ ।। एकधा बहुधा वापि क्रियामेनां समाचरेत् । पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ।। १३ ।। विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा । एतत् सर्वं विधेयं तु देशिकेनतरेण वा ।। १४ ।। तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् । गत प्राणे नरे तस्य स्नानार्थं तीर्थ संभवम् ।। १५ ।। जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा । तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ।। १६ ।। विधायैवं घटान्वापि कलशान् स्नपनोक्तितः । संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ।। १७ ।। स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् । पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ।। १८ ।। स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् । अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ।। १९ ।। कृत्वा संहारमार्गेण कौपीनं वसनं तथा । परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ।। २० ।। दीक्षितानामथान्येषां शिवशासनधारिणाम् । अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ।। २१ ।। ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा । आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ।। २२ ।। पुरुषायतमानां च षडङ्गुलविवर्धनात् । त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ।। २३ ।। सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठराम्द । आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ।। २४ ।। रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् । इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ।। २५ ।। निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः । शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ।। २६ ।। स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना । संघेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ।। २७ ।। शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् । तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ।। २८ ।। निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः । दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ।। २९ ।। दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् । दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ।। ३० ।। जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् । वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ।। ३१ ।। वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् । सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ।। ३२ ।। व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् । विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ।। ३३ ।। गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च । ईप्सितं सुखमाप्नोति परत्रेह च भावितः ।। ३४ ।। नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः । अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ।। ३५ ।। असहायमनाथं च गतासुं शिवयोगिनम् । नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ।। ३६ ।। वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः । अथ स्थानमदूरस्थमुदकस्य समं शुचि ।। ३७ ।। प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे । षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ।। ३८ ।। कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले । संकल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ।। ३९ ।। हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् । कुण्डंदक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ।। ४० ।। गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् । शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ।। ४१ ।। प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः । विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ।। ४२ ।। कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् । तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनः ।। ४३ ।। आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना । ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ।। ४४ ।। संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् । विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ।। ४५ ।। समाहृत्य विधानेन चितावास्तु प्रपूजयेत् । पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ।। ४६ ।। पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते । वंशरज्ज्वादिसंपन्नै विन्यसेद्वास्तुदेवताः ।। ४७ ।। तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके । नैऋत्यां वारिणा संपन्ने विष्णुं कोष्ठचतुष्टये ।। ४८ ।। आग्नेययामग्निना सार्धं रुद्रं कोष्ठचतुष्टये । वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ।। ४९ ।। गगनेन सदेशानमैशकोष्ठचतुष्टये । पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ।। ५० ।। निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् । ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ।। ५१ ।। शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च । निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ।। ५२ ।। तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् । ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ।। ५३ ।। मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् । व्युत्क्रमासनमिष्ट्वैवं साङ्गं संपूज्य शङ्करम् ।। ५४ ।। संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च । क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ।। ५५ ।। संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे । शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ।। ५६ ।। साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः । अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ।। ५७ ।। संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः । चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ।। ५८ ।। रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः । तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ।। ५९ ।। आग्नेययादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् । ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ।। ६० ।। पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् । अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ।। ६१ ।। शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु । शवशययां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ।। ६२ ।। चन्दनागरुसंमिश्रैर्विपर्यस्तपटावृताम् । संपूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ।। ६३ ।। कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा । स्नापितं धूपितं तत्र भस्मना नववर्त्मना ।। ६४ ।। सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया । आग्नेययां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ।। ६५ ।। वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः । ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ।। ६६ ।। भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् । महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ।। ६७ ।। ओं हूं हामथ हं हां हूं महाजालमिदं मतम् । उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ।। ६८ ।। विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः । सषडंगंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ।। ६९ ।। चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् । निवृत्यादि समादाय युगपद्वा क्रमेण वा ।। ७० ।। कलास्तास्साधिपाः प्राग्वद्वह्नौ संपूजयेत्ततः । ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ।। ७१ ।। योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः । भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ।। ७२ ।। तिरोभावः पशुत्वस्य पाशविश्लेष भेदने । तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ।। ७३ ।। विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा । एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ।। ७४ ।। उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि । अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ।। ७५ ।। यदाक्तो न पुनर्जातु पराधीनो भवेदणुः । कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ।। ७६ ।। विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः । स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ।। ७७ ।। शवमभ्येत्य शययायामारोप्य प्रावृतं कुशैः । याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ।। ७८ ।। आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् । तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ।। ७९ ।। संछाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् । मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ।। ८० ।। सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् । गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ।। ८१ ।। पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् । त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ।। ८२ ।। गृहाण मन्त्रसंपूतां शाव्यामेनां महाहुतिम् । प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ।। ८३ ।। नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः । अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ।। ८४ ।। उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् । धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ।। ८५ ।। अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि । क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ।। ८६ ।। ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् । तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ।। ८७ ।। शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् । स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ।। ८८ ।। उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः । भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ।। ८९ ।। अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् । द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ।। ९० ।। शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् । विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। ९१ ।। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ।। ९२ ।। शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया । निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ।। ९३ ।। विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते । जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ।। ९४ ।। शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा । स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ।। ९५ ।। अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया । अविद्यमानदेहानां तथा विकलदेहिनाम् ।। ९६ ।। क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् । कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ।। ९७ ।। विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् । दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ।। ९८ ।। क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् । इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ।। ९९ ।। कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः । कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ।। १०० ।। प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः । अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ।। १०१ ।। किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् । भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ।। १०२ ।। दहनं मरणं येषां तत्कुलक्षयकारणम् । तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ।। १०३ ।। नृणामकृतचूडानां मृतानामवटक्रिया । न तेषां दहनं नैव बलिर्नैवोदकक्रिया ।। १०४ ।। नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया । ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ।। १०५ ।। यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया । लवणापूरणोपेता विना बल्युदकौदनैः ।। १०६ ।। कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् । प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ।। १०७ ।। दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः । कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ।। १०८ ।। सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् । आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ।। १०९ ।। बाहुमात्रं खनेद्भूमिं तच्छययायामविस्तराम् । न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ।। ११० ।। तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा । योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ।। १११ ।। लवणेनाथवापूर्य तत्समीपप्रदेशतः । तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ।। ११२ ।। बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् । तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ।। ११३ ।। अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् । भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ।। ११४ ।। अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् । समा वातीत्य भर्ता तु यदि देशान्तरं गतः ।। ११५ ।। द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् । मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ।। ११६ ।। वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः । पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ।। ११७ ।। मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् । होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ।। ११८ ।। श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना । नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ।। ११९ ।। तण्डुलं क्षीरसंमिश्रं वामदेवेन निक्षिपेत् । अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ।। १२० ।। स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह । वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ।। १२१ ।। दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् । त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ।। १२२ ।। तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् । स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ।। १२३ ।। यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः । तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ।। १२४ ।। इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया । अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ।। १२५ ।। प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः । पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ।। १२६ ।। प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् । पञ्चसप्ततिसंख्यातं तर्पणं प्रति भोजनम् ।। १२७ ।। कल्पयेद् द्विशतं पञ्चपञ्चसंख्यासमन्वितम् । ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ।। १२८ ।। नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने । दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ।। १२९ ।। तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा । नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ।। १३० ।। एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि । तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ।। १३१ ।। वीतशोकस्य सक्तानां नराणां मूढचेतसाम् । समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ।। १३२ ।। शिवव्रतधरा ये च शैवा ये हृहिणीसखाः । न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ।। १३३ ।। तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा । न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ।। १३४ ।। आत्मनो भोगहेतूनामभावादुपचर्यते । तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ।। १३५ ।। स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् । अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ।। १३६ ।। सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः । चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ।। १३७ ।। देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते । मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ।। १३८ ।। यः करोति स संमूढो जलबुद्बुदसंनिभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।। १३९ ।। कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।। १४० ।। फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ।। १४१ ।। अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः । द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ।। १४२ ।। घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः । तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् संचयनं चितेः ।। १४३ ।। हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा । पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ।। १४४ ।। अस्थिसंग्रहणं वाथ कुर्यात् संचयनं विना । एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ।। १४५ ।। अस्थिसंग्रहणं विप्रप्रमुखाणां क्रमेण वा । सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ।। १४६ ।। पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् । अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ।। १४७ ।। ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च । तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ।। १४८ ।। षण्मासे वाब्दसंपूर्तौ तदूर्ध्वे वाथ निक्षिपेत् । निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ।। १४९ ।। पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् । दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ।। १५० ।। शिष्यैकगुरुसंबन्धा गुरुसंबन्धिनश्च ये । त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ।। १५१ ।। तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा । दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ।। १५२ ।। गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् । आचारं दीक्षितास्तस्मात्कुर्वीर/ल्लोकसंवृतिम् ।। १५३ ।। शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् । पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ।। १५४ ।। पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया । अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ।। १५५ ।। क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते । विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ।। १५६ ।। दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका । उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ।। १५७ ।। क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् । सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ।। १५८ ।। पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका । माससंख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ।। १५९ ।। नाम्नः प्राग्दन्तजननात्तथोपनयनादपिं । स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ।। १६० ।। तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते । क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ।। १६१ ।। भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा । पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ।। १६२ ।। पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ । तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ।। १६३ ।। दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् । दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ।। १६४ ।। त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् । समानोदकवर्गाणामाशौचं विहितं विधौ ।। १६५ ।। ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् । आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ।। १६६ ।। आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् । पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ।। १६७ ।। यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः । वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ।। १६८ ।। एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः । भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ।। १६९ ।। तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् । शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।। १७० ।। शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी । सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ।। १७१ ।। प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा । सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ।। १७२ ।। तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।। १७३ ।। सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः । कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ।। १७४ ।। अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् । ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ।। १७५ ।। तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि । तथैव रुद्रकन्यानां पञ्चाचार्येऽपि संमतम् ।। १७६ ।। हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् । न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ।। १७७ ।। सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ।। १७८ ।। प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः । नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ।। १७९ ।। स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा । इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ।। १८० ।। ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः । शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ।। १८१ ।। दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता । आशौचं दासदासीनामधिष्ठातृकुलोचितम् ।। १८२ ।। प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः । कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ।। १८३ ।। तथैव देवदासीनां मातृजं कुलमीरितम् । राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ।। १८४ ।। समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा । गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ।। १८५ ।। निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् । हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ।। १८६ ।। काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते । स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ।। १८७ ।। स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् । परित्ययेत् परार्थं वा लोकसंवरणाय च ।। १८८ ।। भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः । ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ।। १८९ ।। आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः । तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ।। १९० ।। तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् । विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ।। १९१ ।। एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः । अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ।। १९२ ।। नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः । साधारणस्त्रियो याश्च पूता नैव कदाचन ।। १९३ ।। राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः । महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ।। १९४ ।। शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः । दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ।। १९५ ।। प्रेतसूतकसंबन्धि नित्यहानिं करोति यत् । तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ।। १९६ ।। प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् । त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ।। १९७ ।। विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् । योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ।। १९८ ।। भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा । यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ।। १९९ ।। मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् । अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ।। २०० ।। एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् । जपेदघोरं स्नानान्ते दशांशो होम एव वा ।। २०१ ।। यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च । अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ।। २०२ ।। निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च । नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ।। २०३ ।। शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता । एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ।। २०४ ।। अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ।। २०४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः सप्तविंशतितमः पटलः २८ अष्टाविंशत्तमे पटले पितृ यज्ञ विधिः पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः । आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ।। १ ।। अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् । पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ।। २ ।। तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः । गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ।। ३ ।। कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा । विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसंमितैः ।। ४ ।। दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् । प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ।। ५ ।। तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये । स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ।। ६ ।। तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् । पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ।। ७ ।। धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् । तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ।। ८ ।। गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् । आशौच रहितैः नवमद्भाण्ड एव हि ।। ९ ।। ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च । द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ।। १० ।। एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् । अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ।। ११ ।। पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा । कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ।। १२ ।। कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् । सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ।। १३ ।। तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् । मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ।। १४ ।। तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा । संग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ।। १५ ।। अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे । एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ।। १६ ।। विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते । ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ।। १७ ।। वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः । आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ।। १८ ।। पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा । तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ।। १९ ।। दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति । पिण्डमेकं तदा देय माशौचं चाप्रदानतः ।। २० ।। इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः अष्टविंशतितमः पटलः २९ एकोनत्रिंशत्तमे पटले शैव श्राद्ध विधिः ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् । नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ।। १ ।। प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् । नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ।। २ ।। कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते । वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ।। ३ ।। तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते । तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ।। ४ ।। एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् । श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ।। ५ ।। नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् । चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ।। ६ ।। मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् । नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ।। ७ ।। अनूदकमधूपं च गन्धमाल्य विवर्जितम् । आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ।। ८ ।। एकादशे त्रिपक्षे च तथा च प्रतिमासके । वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ।। ९ ।। षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् । एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ।। १० ।। यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश । पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ।। ११ ।। द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् । त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ।। १२ ।। सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति । मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ।। १३ ।। भोजनं सोदकुंभं च प्रदद्याद् देशिकात्मने । विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ।। १४ ।। सोदकुंभयुतं पश्चात् सपिण्डीकरणं समे । विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ।। १५ ।। षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् । एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ।। १६ ।। अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्याद्संवत्सद्गुरुः ।। १७ ।। पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् । सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ।। १८ ।। समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने । शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ।। १९ ।। एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशांमतम् । पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ।। २० ।। अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् । घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ।। २१ ।। चतुर्थी सप्तमी चैव नवमी च त्रयोदशी । अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ।। २२ ।। अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् । व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ।। २३ ।। विष्वोरपि गजच्छायासंक्रान्त्यादिषु कारयेत् । शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ।। २४ ।। एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये । अन्यदा वापि कर्तव्यं संभवे वसुपात्रयोः ।। २५ ।। रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि । रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ।। २६ ।। गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् । मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।। २७ ।। नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु । यदि कुर्यान्नवश्राद्धम्. कुलक्षयकरं भवेत् ।। २८ ।। शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः । एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ।। २९ ।। पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः । आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ।। ३० ।। * * * * * * * * * * * * * * * * ? । * * * * * * * * * * * * * * * * ? ।। ३१ ।। अमाद्वयस्तु वै मासो मलिनः पापसंभवः । गर्हितः पितृदेवेभ्यः सर्वकर्मसु संत्यजेत् ।। ३२ ।। नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे । वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ।। ३३ ।। नवमी स्यादमावास्या नभस्ये कृष्णपक्षके । तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ।। ३४ ।। तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च । कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ।। ३५ ।। अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः । कन्यां गते सवितरि पितरो यान्ति वै सुतान् ।। ३६ ।। ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ।। ३७ ।। अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति । उपात्तेषु सुसंतानं शकुना इव पिप्पले ।। ३८ ।। मधुमांसैश्च पाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ।। ३९ ।। पूर्वाहृणे दैविकं श्राद्धं अपराहृणे तु पैतृकम् । एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ।। ४० ।। शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके । आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ।। ४१ ।। आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ।। ४२ ।। द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध संपदि । स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ।। ४३ ।। आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः । न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ।। ४४ ।। पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः । उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ।। ४५ ।। शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः । दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ।। ४६ ।। शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ।। ४७ ।। संबन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः । फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ।। ४८ ।। शिवार्चनादिहीनाय शिवज्ञानापहारिणे । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ।। ४९ ।। सरोषमपसव्यं यैश्च युक्तमवज्ञया । सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ।। ५० ।। कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते । मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ।। ५१ ।। दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः । व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।। ५२ ।। अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् । श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ।। ५३ ।। पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।। ५४ ।। दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् । श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ।। ५५ ।। तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् । प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ।। ५६ ।। सोऽयं नरकमाप्नोति कुंभीपाकं न संशयः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ।। ५७ ।। श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः । सैन्धवं लवणं चैव तथा मानस सम्भवम् ।। ५८ ।। पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश । रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ।। ५९ ।। यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव । अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ।। ६० ।। कोद्रवं लवणं सर्वं तथा जम्बूफलानि च । कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ।। ६१ ।। बीजपूरक माषाणि मरीचिं पिप्पलीमपि । कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ।। ६२ ।। वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।। ६३ ।। कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् । पिण्याकं मथितं चापि तथातिलवणं च यत् ।। ६४ ।। हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ।। ६५ ।। निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् । बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ।। ६६ ।। दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ।। ६७ ।। अन्तर्जानु विशेषेण तथैवाचमनं भवेत् । दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ।। ६८ ।। विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमानि तावन्नरकमृच्छति ।। ६९ ।। यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ।। ७० ।। मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् । देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ।। ७१ ।। मृतसंपृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते । नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ।। ७२ ।। आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः । मित्राण्यारोग्यसंपश्च भवेच्छ्रद्धादनिन्दितात् ।। ७३ ।। नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः । कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ।। ७४ ।। भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि । शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ।। ७५ ।। नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् । चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।। ७६ ।। आचार्येण तु भुक्तेन कोटिर्भवति भोजिता । लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ।। ७७ ।। समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे । साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ।। ७८ ।। संभवे कथितं श्राद्धे सर्वे सर्वत्र वामताः । ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ।। ७९ ।। रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः । दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ।। ८० ।। स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः । तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ।। ८१ ।। तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि । पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ।। ८२ ।। बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् । एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ।। ८३ ।। एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् । षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ।। ८४ ।। इत्येवमभिसंधाय श्राद्धकर्म समाचरेत् । निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ।। ८५ ।। वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ । यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ।। ८६ ।। ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः । वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ।। ८७ ।। संयम्य चेन्द्रियग्राममनुगृहानुकम्पया । अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ।। ८८ ।। व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः । अभ्युत्थानासनाद्येन स्वागतेनागतानथ ।। ८९ ।। संभाव्य पादशौचाय कुर्यान्मण्डलकानि तु । सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ।। ९० ।। समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे । द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ।। ९१ ।। दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे । प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ।। ९२ ।। मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा । कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ।। ९३ ।। गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः । देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ।। ९४ ।। अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् । पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ।। ९५ ।। पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके । अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ।। ९६ ।। एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् । साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ।। ९७ ।। तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् । विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ।। ९८ ।। सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु । सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ।। ९९ ।। स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे । मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ।। १०० ।। पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् । दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ।। १०१ ।। सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः । तोयैराचमनं पश्चादाचान्तस्संप्रवेश्य तु ।। १०२ ।। उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते । आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ।। १०३ ।। ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ । कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ।। १०४ ।। न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः । उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ।। १०५ ।। आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः । आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ।। १०६ ।। स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् । अथ रक्षार्थमादाय यवानवकिरेत् परि ।। १०७ ।। प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ । रूपिणा संनिधानाय द्वितयस्य सकृत् सकृत् ।। १०८ ।। प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि । जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ।। १०९ ।। पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् । गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ।। ११० ।। वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा । दीपं च तेन संदद्यादीशानेन पवित्रकम् ।। १११ ।। वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् । तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ।। ११२ ।। कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् । कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ।। ११३ ।। आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् । स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ।। ११४ ।। रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः । त्रयाणां संनिधानार्थमघोरेणाञ्जलौ पृथक् ।। ११५ ।। पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् । भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ।। ११६ ।। तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् । गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ।। ११७ ।। ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् । पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ।। ११८ ।। ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ।। ११९ ।। सौवर्णं राजतं पात्रं ताम्रजं दलसंभवम् । भाजनं शुद्धमादाय भोजनायोपपादयेत् ।। १२० ।। हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् । पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ।। १२१ ।। सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः । शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ।। १२२ ।। कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् । सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ।। १२३ ।। ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः । उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ।। १२४ ।। हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् । पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ।। १२५ ।। अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः । दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ।। १२६ ।। संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् । पवित्रीकरणायेति ततस्सव्यमधोमुखम् ।। १२७ ।। तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च । गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ।। १२८ ।। अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् । आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ।। १२९ ।। शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः । अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ।। १३० ।। देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् । चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ।। १३१ ।। जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः । तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ।। १३२ ।। तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् । उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ।। १३३ ।। कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा । वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ।। १३४ ।। दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् । मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ।। १३५ ।। दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः । विधाय वारिणो धारां वामदेवमुदीरयन् ।। १३६ ।। क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् । संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ।। १३७ ।। क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् । पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ।। १३८ ।। प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये । सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ।। १३९ ।। गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये । वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ।। १४० ।। धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति । ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ।। १४१ ।। स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च । अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ।। १४२ ।। एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् । देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ।। १४३ ।। दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च । इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ।। १४४ ।। पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः । श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ।। १४५ ।। इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् । यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।। १४६ ।। पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् । सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ।। १४७ ।। अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा । इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ।। १४८ ।। पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ।। १४९ ।। ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः । धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ।। १५० ।। गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके । वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ।। १५१ ।। नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि । दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ।। १५२ ।। अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ।। १५३ ।। प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु । अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ।। १५४ ।। नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।। १५५ ।। आवाहनाग्निकरणरहितमपसव्यम् । उत्तिष्टतामित्यक्षययस्थाने तेषां विसर्जनम् ।। १५६ ।। अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे । एको वाथ नरो ग्राहो निमित्तस्य च संमतः ।। १५७ ।। स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् । गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ।। १५८ ।। वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च । आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ।। १५९ ।। उपधानयुतां शययां तदीयमपरं च यत् । दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ।। १६० ।। अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् । नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ।। १६१ ।। अनूदकमधूपं च गन्धमाल्यविवर्जितम् । पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ।। १६२ ।। जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः । प्रणामं न च कुर्वीत स्वधाकारं तथैव च ।। १६३ ।। नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति । अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ।। १६४ ।। हविष्यान्नेन ते मासं वत्सरं पायसेन तु । तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ।। १६५ ।। रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः । तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ।। १६६ ।। गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते । गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ।। १६७ ।। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ।। १६८ ।। ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् । पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ।। १६९ ।। सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप । कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ।। १७० ।। स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा । ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ।। १७१ ।। यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ।। १७२ ।। आयुष्कामो लभेदायुः धनकामो वसूनि च । विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ।। १७३ ।। पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् । एतानि लभते नित्यं श्राद्धदो नावसीदति ।। १७४ ।। प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः । ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ।। १७५ ।। पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः । योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ।। १७६ ।। कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ।। १७७ ।। एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । दानमाचमनं होमं भोजनं देवतार्चनम् ।। १७८ ।। प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् । आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ।। १७९ ।। परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ।। १८० ।। अटवी चाकृतारण्यं नदीतीराणि यानि च । सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ।। १८१ ।। चण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ।। १८२ ।। होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते । दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ।। १८३ ।। वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा । ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ।। १८४ ।। अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ।। १८५ ।। दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः । स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ।। १८६ ।। अथवान्यप्रकारेण कुतपस्त्विह कथ्यते । शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ।। १८७ ।। तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः । पिता पितामहश्चैव प्रपितामह एव च ।। १८८ ।। गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः । क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ।। १८९ ।। स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । पितामही तथा स्वेन तथैव प्रपितामही ।। १९० ।। पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति । मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ।। १९१ ।। मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् । अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ।। १९२ ।। एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता । सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ।। १९३ ।। न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते । अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।। १९४ ।। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ।। १९५ ।। स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः । स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ।। १९६ ।। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ।। १९७ ।। एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी । पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ।। १९८ ।। आसुरादि विवाहेषु विशेषः कश्चिदिष्यते । स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ।। १९९ ।। यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता । तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ।। २०० ।। जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् । पैतृकं तु भवेत् गोत्रं ऊर्ध्वं तु पितृ दैवतम् ।। २०१ ।। पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ।। २०११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम एकोन त्रिंशतितमः पटलः ३० त्रिंशत्तमे पटले प्रायश्चित्त विधिः प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । विधिर्निषेध इत्येवं चोदना द्विविधा मता ।। १ ।। अनुष्ठितायां तस्यांस्याद्यथावद्धर्म संग्रहः । वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ।। २ ।। तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् । यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ।। ३ ।। प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः । चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ।। ४ ।। सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः । तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ।। ५ ।। विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते । तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ।। ६ ।। आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया । कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ।। ७ ।। प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः । कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ।। ८ ।। ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् । स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ।। ९ ।। लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च । शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ।। १० ।। नमस्काराद्यमेतेषां शिवधामनिषेवणम् । शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ।। ११ ।। पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः । शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ।। १२ ।। उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् । शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ।। १३ ।। मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा । एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ।। १४ ।। एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् । विभज्य लक्षणं तेषां केषांचिदिह कथ्यते ।। १५ ।। पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः । सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ।। १६ ।। पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् । प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ।। १७ ।। दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम् । प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ।। १८ ।। मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् । तस्मान्मासावसानं तु हीनमित्यभिधीयते ।। १९ ।। मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् । लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ।। २० ।। आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः । प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ।। २१ ।। स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति । वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ।। २२ ।। पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः । नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ।। २३ ।। अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः । देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ।। २४ ।। सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः । राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ।। २५ ।। तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः । इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ।। २६ ।। अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना । मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ।। २७ ।। शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् । अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ।। २८ ।। मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः । जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ।। २९ ।। अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा । शाकयावकपिण्याककन्दमूलफलाशनः ।। ३० ।। स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् । जपं एव समाख्यातः प्रदक्षिण मथोच्यते ।। ३१ ।। नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः । लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ।। ३२ ।। अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् । गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ।। ३३ ।। गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः । सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ।। ३४ ।। परिहृत्य कृतं सर्वं यदि सर्वफलावहम् । अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।। ३५ ।। प्रासादार्ध प्रमाणं प्रासादसममेव वा । निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ।। ३६ ।। परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् । सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ।। ३७ ।। सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः । सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ।। ३८ ।। सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा । छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ।। ३९ ।। तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् । तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ।। ४० ।। प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ।। ४१ ।। अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् । अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ।। ४२ ।। क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् । एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ।। ४३ ।। कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते । सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ।। ४४ ।। शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् । शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ।। ४५ ।। ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसंज्ञकः । अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ।। ४६ ।। त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् । एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ।। ४७ ।। पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् । सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ।। ४८ ।। तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते । एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ।। ४९ ।। अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते । द्वादशाहनिर्राहारः पराक इति संस्मृतः ।। ५० ।। मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् । चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ।। ५१ ।। सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे । चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ।। ५२ ।। मध्यम द्वितयं वाथ तदर्थं दानमेव वा । उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ।। ५३ ।। मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना । तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ।। ५४ ।। शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् । देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ।। ५५ ।। गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् । संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ।। ५६ ।। अघोरामथवा शैवमस्त्रं पाशुपतं तु वा । अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ।। ५७ ।। कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ । समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ।। ५८ ।। तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् । सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ।। ५९ ।। प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् । स्वाहान्ते भगवन् सर्वक्षोपनाशंपदं ततः ।। ६० ।। कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् । पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ।। ६१ ।। पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् । मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ।। ६२ ।। कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् । तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः ।। ६३ ।। प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे । पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ।। ६४ ।। ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः । स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ।। ६५ ।। तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया । एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ।। ६६ ।। होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् । निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ।। ६७ ।। समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् । होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ।। ६८ ।। एवं शान्तिस्समादिष्टा नवधा सा समीरिता । एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ।। ६९ ।। पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः । कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ।। ७० ।। विसर्जनं तु वा देवे पावकस्य न सर्वथा । शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ।। ७१ ।। स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते । शुभाशास्वग्निदेशे वा मण्डपे समलंकृते ।। ७२ ।। स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेत्घटम् । ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ।। ७३ ।। सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् । परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ।। ७४ ।। विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् । प्रणवासनमारुढं दुराधर्षं महाबलम् ।। ७५ ।। पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ।। ७६ ।। कपालमालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामालानागाभरणलेलिहम् ।। ७७ ।। सूर्यकोट्ययुताभं च विघ्नसंघात मर्दकम् । भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ।। ७८ ।। खड्गचापमहाशूलाभयपाशांश्च दक्षिणे । खेटबाणा कपालांश्च वरप्रासौ च वामतः ।। ७९ ।। पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् । ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ।। ८० ।। ओं श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति । प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ।। ८१ ।। पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे । ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ।। ८२ ।। सर्वे पाशुपतोपेतहृदयादि समन्विताः । फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ।। ८३ ।। इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् । तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ।। ८४ ।। संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले । देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ।। ८५ ।। समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८६ ।। प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् । भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ।। ८७ ।। अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् । पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ।। ८८ ।। प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् । पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ।। ८९ ।। कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् । प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ।। ९० ।। अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः । समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ।। ९१ ।। कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् । ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ।। ९२ ।। होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना । कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसंख्यया ।। ९३ ।। दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः । प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ।। ९४ ।। लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा । मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ।। ९५ ।। यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु । दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ।। ९६ ।। वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा । स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ।। ९७ ।। सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् । एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ।। ९८ ।। मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च । अथैतद्यागशालायां कर्म सर्वं समापयेत् ।। ९९ ।। अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च । तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ।। १०० ।। शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके । तदग्रे संयजेदस्त्रंशिवाख्यंदेशिकोत्तमः ।। १०१ ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ।। १०२ ।। अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ।। १०३ ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् । दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ।। १०४ ।। सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते । ओं ह्रींङ्कारं ततः कृष्णवाससे चेति यत्पदम् ।। १०५ ।। ततश्च सिह्मवदने महावदन इत्यपि । महाभैरविवर्णे च सर्वशत्रुपदं ततः ।। १०६ ।। कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः । च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ।। १०७ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ।। १०८ ।। सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् । सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ।। १०९ ।। ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन । प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ।। ११० ।। ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः । प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ।। १११ ।। दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् । तथैव तस्मान्नेत्राणुश्चतुस्त्रिं/शद्भिरस्त्रकम् ।। ११२ ।। त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः । नमः स्वाहावषड्वौषड् ह्रुंफड् युक्ता हृदादयः ।। ११३ ।। सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ।। ११४ ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ।। ११५ ।। कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् । मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ।। ११६ ।। अट्टहासरवोपेतां कृष्णाजिन समन्विताम् । ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ।। ११७ ।। अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् । गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ।। ११८ ।। पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् । चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ।। ११९ ।। तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् । प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ।। १२० ।। इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् । कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ।। १२१ ।। स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह । तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ।। १२२ ।। कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् । प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ।। १२३ ।। प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।। १२४ ।। तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः । चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ।। १२५ ।। प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः । प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ।। १२६ ।। रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् । अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ।। १२७ ।। कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः । कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ।। १२८ ।। देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः । देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ।। १२९ ।। प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् । दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ।। १३० ।। दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते । प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ।। १३१ ।। समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः । होमश्च पुरुषाघोरवामाजैर्दिक्षु संमतः ।। १३२ ।। स्नपनादिषु होमेऽयं चतुर्दिक्षु च संमतः । वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ।। १३३ ।। शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे । उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ।। १३४ ।। सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते । तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ।। १३५ ।। पलाशसमिदाज्यान्नैश्शत संख्या शिवाणुना । शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ।। १३६ ।। ततोऽघोराणुना होमं पञ्चविंशतिसंख्यया । प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ।। १३७ ।। संहिताहोम एष स्यान्मूर्तिहोमो विधीयते । हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ।। १३८ ।। शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे । अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ।। १३९ ।। ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् । गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ।। १४० ।। मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् । यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ।। १४१ ।। वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः । दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ।। १४२ ।। दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि । ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। १४३ ।। प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ।। १४४ ।। सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ।। १४५ ।। नृत्यन्तं तं महाकायं नागाभरण भूषितम् । देवदानवदैत्यानां दर्पितानां विमर्दकम् ।। १४६ ।। वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् । पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ।। १४७ ।। तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे । स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ।। १४८ ।। संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना । तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले ।। १४९ ।। समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् । हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ।। १५० ।। प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले । कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ।। १५१ ।। पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च । पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ।। १५२ ।। अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् । स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ।। १५३ ।। लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् । तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ।। १५४ ।। प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि । अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।। १५५ ।। गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि । ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ।। १५६ ।। गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् । संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ।। १५७ ।। भस्मापि यजमानाय दातव्यं होमकर्मणि । अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ।। १५८ ।। मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः । अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ।। १५९ ।। यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् । संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ।। १६० ।। अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् । स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ।। १६१ ।। समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् । पञ्चाशत्संख्यकं वापि तदर्थं वा पृथक् पृथक् ।। १६२ ।। पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ । शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ।। १६३ ।। क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा । पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ।। १६४ ।। विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् । पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ।। १६५ ।। पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् । संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ।। १६६ ।। एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः । कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ।। १६७ ।। संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः । शान्त्युक्तदिन संख्याया वशेनैतत्समाचरेत् ।। १६८ ।। मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा । यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ।। १६९ ।। एकसन्ध्यादि भेदेन नित्यपूजा विलोपने । द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ।। १७० ।। लोपे चासनसंस्कारोपचाराणामथावृतेः । पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ।। १७१ ।। निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे । अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ।। १७२ ।। गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् । दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ।। १७३ ।। नीराजनस्य वा दीपमालास्थेनाहृतेन वा । मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ।। १७४ ।। लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः । लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ।। १७५ ।। दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके । हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ।। १७६ ।। कृमिकीटनराद्यस्थिनखरोमादिदर्शने । देवाय दत्तद्रव्येषु नखरोमादिदर्शने ।। १७७ ।। श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे । सामान्यप्राणिसंभूत मलयुक्तैरथापिवा ।। १७८ ।। नैवेद्याहरणे काले तोयसेके विलोपिते । तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ।। १७९ ।। प्रागेव निश्चित द्रव्यहीने तस्य वर्धने । लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ।। १८० ।। मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति । बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ।। १८१ ।। काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने । अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ।। १८२ ।। केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः । होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ।। १८३ ।। बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते । वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ।। १८४ ।। गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने । अतोद्य नृत्तकरणे वितानस्य विलोपने ।। १८५ ।। बलिप्रदान कालेतु वाद्यदीपविलोपने । पादुकाराधन हीने तद्याने वा विलोपिते ।। १८६ ।। अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये । उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ।। १८७ ।। बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके । सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ।। १८८ ।। सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा । तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ।। १८९ ।। अतोद्यनृत्तवैकल्ये नीराजनविलोपने । तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ।। १९० ।। अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः । कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ।। १९१ ।। सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते । निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ।। १९२ ।। बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः । दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ।। १९३ ।। विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा । आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ।। १९४ ।। अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे । एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ।। १९५ ।। अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते । एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ।। १९६ ।। स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् । मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ।। १९७ ।। विधाय पूजां त्रिगुणां द्विगुणां वा समामथ । उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ।। १९८ ।। नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः । कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ।। १९९ ।। प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः । त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ।। २०० ।। चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् । प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ।। २०१ ।। अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् । दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ।। २०२ ।। तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता । दिनानि यानि हीनानि पूजया नित्यसंज्ञया ।। २०३ ।। तदहस्संख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् । एक मासावधिं यावत्ततस्संप्रोक्षणं नयेत् ।। २०४ ।। नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः । द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ।। २०५ ।। तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् । पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ।। २०६ ।। आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते । शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ।। २०७ ।। अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः । पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ।। २०८ ।। विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् । शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ।। २०९ ।। नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके । तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ।। २१० ।। पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता । तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ।। २११ ।। शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् । दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ।। २१२ ।। अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः । पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ।। २१३ ।। तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः । गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ।। २१४ ।। तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः । धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ।। २१५ ।। घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः । पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ।। २१६ ।। दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता । आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ।। २१७ ।। नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् । ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ।। २१८ ।। अथ काण्डपटे हीने देवानां संनिधिक्षयः । भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २१९ ।। देवं संपूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे । शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ।। २२० ।। तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे । कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ।। २२१ ।। द्रव्याणामेव चैतेषामर्धे पादे तदर्धके । प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ।। २२२ ।। जप्त्वा देवाय तद्द्रव्यंद्विगुणं दापयेत्ततः । द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ।। २२३ ।। अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः । दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ।। २२४ ।। स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा । नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ।। २२५ ।। दद्योजातनरेशानाश्शतधावर्त्य देशिकः । याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ।। २२६ ।। दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः । प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ।। २२७ ।। हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः । संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ।। २२८ ।। नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते । विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ।। २२९ ।। अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् । पूर्वसंकल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ।। २३० ।। जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा । अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ।। २३१ ।। शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः । धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ।। २३२ ।। धूपारात्रिकयोर्दानकाले नीराजनस्य च । दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ।। २३३ ।। वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके । अणुना महता वापि राज्ञो रोगो भविष्यति ।। २३४ ।। संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् । पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ।। २३५ ।। संपूज्य देवदेवेशं मूर्तिहोमं समाचरेत् । अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ।। २३६ ।। लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना । निर्दग्धानि तदा कुर्यात् कर्म संप्रोक्षणादिकम् ।। २३७ ।। दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् । दहने सद्मनः कुर्यात् सद्म संप्रोक्षणात्मकम् ।। २३८ ।। देवाय स्नपनं कुर्यात् धामच्छेदादिसंभव । तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ।। २३९ ।। वह्निना लिङ्गबेरादावन्यवर्णमुपायते । मानुषं चेत् परित्याज्यं ग्राह्यं स्वायंभुवादिकम् ।। २४० ।। प्रतिक्रियानुकर्मोक्त्या कार्या संप्रोक्षणान्विता । पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ।। २४१ ।। सकले विकले कुर्याच्छिवस्य स्नपनं महत् । प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ।। २४२ ।। दीपानामथ वैकल्ये जपेदघोर शतत्रयम् । दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ।। २४३ ।। रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् । हविष्य दत्ते देवाय स्नपनं तु विधाय च ।। २४४ ।। द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि । अथ काण्डपटे हीने कवचं द्विशतं जपेत् ।। २४५ ।। गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् । कृमिकीटनराद्यस्थिनखरोमादि दर्शने ।। २४६ ।। त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् । शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ।। २४७ ।। पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् । श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ।। २४८ ।। स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया । सामान्यप्राणि संभूतमलयुक्ते तथाचरेत् ।। २४९ ।। नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् । हीनं लङ्घनं तत्र यदि जायेत दोषदम् ।। २५० ।। अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा । शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ।। २५१ ।। आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् । प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ।। २५२ ।। तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे । प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ।। २५३ ।। नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता । लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ।। २५४ ।। तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः । पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ।। २५५ ।। पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् । अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ।। २५६ ।। बलिदानविहीनं चेद्भवन्त्यखिलदेवताः । तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ।। २५७ ।। दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः । नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ।। २५८ ।। अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च । पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ।। २५९ ।। यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् । होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ।। २६० ।। तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः । प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ।। २६१ ।। शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् । कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ।। २६२ ।। तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा । अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ।। २६३ ।। होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः । अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ।। २६४ ।। शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे । वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ।। २६५ ।। पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् । इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ।। २६६ ।। शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् । अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ।। २६७ ।। कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा । नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ।। २६८ ।। किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः । रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ।। २६९ ।। तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे । सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ।। २७० ।। तत्संख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् । होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ।। २७१ ।। नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् । तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ।। २७२ ।। सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् । अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ।। २७३ ।। पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् । दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ।। २७४ ।। तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु । एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ।। २७५ ।। शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः । पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ।। २७६ ।। वर्धयेद्युग्म संख्यातं पक्षपक्षावसानकम् । नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ।। २७७ ।। निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा । बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ।। २७८ ।। तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा । वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ।। २७९ ।। गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् । तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ।। २८० ।। तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् । एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ।। २८१ ।। कृत्वा तु संहिताहोममघोर जपमेव वा । सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ।। २८२ ।। तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् । एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ।। २८३ ।। पादुकाराधने हीने याने वा पादरोगता । कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ।। २८४ ।। अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये । विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ।। २८५ ।। उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे । उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ।। २८६ ।। बेरादिपतने यानकाले संवत्सरोक्तवत् । तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ।। २८७ ।। बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् । पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ।। २८८ ।। ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे । पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ।। २८९ ।। विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् । भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ।। २९० ।। सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् । पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ।। २९१ ।। नवभिः कलशैर्वाथ गव्यस्नपनमेव वा । सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ।। २९२ ।। पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने । सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ।। २९३ ।। पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि । तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ।। २९४ ।। ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् । सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ।। २९५ ।। सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् । अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ।। २९६ ।। सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः । यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ।। २९७ ।। स्नपनं वा त्वघोरेण सहस्रजपमेववा । सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ।। २९८ ।। गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् । प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ।। २९९ ।। आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते । सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ।। ३०० ।। नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् । देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ।। ३०१ ।। द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च । शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ।। ३०२ ।। अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् । अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ।। ३०३ ।। अघोरजपसाहस्रमथ पञ्चशतं तु वा । कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ।। ३०४ ।। स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् । गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ।। ३०५ ।। स्थलशुद्धिं तदा कृत्वा देवं संपूज्य यत्नतः । अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ।। ३०६ ।। निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते । तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ।। ३०७ ।। क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः । अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ।। ३०८ ।। हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा । राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ।। ३०९ ।। सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः । तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ।। ३१० ।। पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः । षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ।। ३११ ।। स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः । अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ।। ३१२ ।। सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् । सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ।। ३१३ ।। बालातिबाला युवतिर्वृद्धाति श्रेयसी मता । अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ।। ३१४ ।। मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी । अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ।। ३१५ ।। सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः । तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ।। ३१६ ।। श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते । अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ।। ३१७ ।। आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता । सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ।। ३१८ ।। आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने । कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ।। ३१९ ।। आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने । पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ।। ३२० ।। द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः । षाण्मासोर्ध्वे विधातव्यं कर्मसंप्रोक्षणं द्विजाः ।। ३२१ ।। षाण्मासात्परतो यस्मादतो देवलकाह्वये । अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ।। ३२२ ।। मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता । चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ।। ३२३ ।। विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् । सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ।। ३२४ ।। अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् । कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ।। ३२५ ।। पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् । अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ।। ३२६ ।। एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः । अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ।। ३२७ ।। अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके । रिपुणा संगृहीतो वा देवी वा केवलाद्विजाः ।। ३२८ ।। देवीं विहाय देवो वा केवलो रिपुणा हृतः । तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ।। ३२९ ।। स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे । स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ।। ३३० ।। पिण्डिकापतने वाधः परिवारविलोपने । बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ।। ३३१ ।। तद्दाहपतनादौ च प्राकारे गोपुरे तथा । जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ।। ३३२ ।। कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः । उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ।। ३३३ ।। पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ । गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ।। ३३४ ।। गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः । चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।। ३३५ ।। हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः । शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ।। ३३६ ।। स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके । प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ।। ३३७ ।। परिवारालये वान्तर्मण्डपे वा द्वितीयके । महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ।। ३३८ ।। निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः । परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ।। ३३९ ।। अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे । उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ।। ३४० ।। गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके । विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ।। ३४१ ।। अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने । प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ।। ३४२ ।। साले वा मालिकायुक्ते केवले गोरुराङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ।। ३४३ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ।। ३४४ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिलीसंभवे वाथ मधुपञ्जर संभवे ।। ३४५ ।। बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ।। ३४६ ।। तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये । अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ।। ३४७ ।। दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि । मठे प्रपादिके वापि आरामादावथापि वा ।। ३४८ ।। लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ३४९ ।। वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके । कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ।। ३५० ।। स्थापिते शिवकुम्भे वा करके कलशेऽपिवा । भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ।। ३५१ ।। शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः । स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ।। ३५२ ।। स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके । विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ।। ३५३ ।। रत्नहेमाम्बरादीनां विलोपे च घटादिषु । गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ।। ३५४ ।। कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ३५५ ।। पवित्रारोहणे हीने दमनारोहणेऽपिवा । कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ।। ३५६ ।। बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते । पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ।। ३५७ ।। भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः । पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ।। ३५८ ।। एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते । अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ।। ३५९ ।। अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् । पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ।। ३६० ।। अघोरेण शतं होमं समिदाज्यतिलोदनैः । रिपुणा संगृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ।। ३६१ ।। तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते । सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ।। ३६२ ।। लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च । लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ।। ३६३ ।। सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् । मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ।। ३६४ ।। कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले । लक्षणोद्धारणं दृष्टि मोचनं जलवेशनं ।। ३६५ ।। विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः । अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ।। ३६६ ।। मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि । प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ।। ३६७ ।। तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् । तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।। ३६८ ।। संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना । कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ।। ३६९ ।। प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा । प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ।। ३७० ।। तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् । आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ।। ३७१ ।। संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः । संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ।। ३७२ ।। मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः । संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ।। ३७३ ।। अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः । तत्प्रासादानुरूपेण यजमानानुरूपतः ।। ३७४ ।। लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना । बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ।। ३७५ ।। बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् । देवीं विहाय देवो वा देवी वा केवला यदा ।। ३७६ ।। शत्रुभिस्संगृहीता चेत् स्थितस्यैवानुरूपतः । संपाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ।। ३७७ ।। कल्याणं कारयेदन्ते विधिना देशिकोत्तमः । स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ।। ३७८ ।। देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् । पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ।। ३७९ ।। प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् । आग्नेययामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ।। ३८० ।। नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् । वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ।। ३८१ ।। ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् । उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ।। ३८२ ।। शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् । प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ।। ३८३ ।। स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् । प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ।। ३८४ ।। कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् । प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ।। ३८५ ।। स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् । स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ।। ३८६ ।। तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते । शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ।। ३८७ ।। कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् । प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ।। ३८८ ।। पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले । ततस्संप्रोक्षणं कुर्यात् स्थलकर्मावसानके ।। ३८९ ।। पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः । पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ।। ३९० ।। सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् । नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ।। ३९१ ।। ततस्संप्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि । परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ।। ३९२ ।। परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः । बलिपीठे विहीने तु सर्वदोषावहं भवेत् ।। ३९३ ।। संकल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् । तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ।। ३९४ ।। शान्तिहोमं तदा कृत्वा संप्रोक्षणमथाचरेत् । प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ।। ३९५ ।। राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् । ततस्संप्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ।। ३९६ ।। कृत्वा गव्येन संप्रोक्ष्य शान्तिमेकाहमाचरेत् । कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ।। ३९७ ।। उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः । पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।। ३९८ ।। गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः । गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ।। ३९९ ।। चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः । हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।। ४०० ।। शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा । स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ।। ४०१ ।। राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते । मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ।। ४०२ ।। गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः । गव्येन स्नपनं कृत्वा संप्रोक्षनमथाचरेत् ।। ४०३ ।। ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति । शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ।। ४०४ ।। चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् । गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ।। ४०५ ।। संप्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः । ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ।। ४०६ ।। तदा संप्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् । चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ।। ४०७ ।। संप्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् । शान्तिकर्मदिशाहोमं क्रमात्संप्रोक्षणं नयेत् ।। ४०८ ।। त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने । प्रथमे च द्वितीये च चण्डालविहितं तु यत् ।। ४०९ ।। प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् । प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ।। ४१० ।। शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् । दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ।। ४११ ।। परिवारालयावेशेऽप्येतदेव समीरितम् । कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ।। ४१२ ।। चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् । कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ।। ४१३ ।। गोमयालोपनाद्यं च समानं सर्वकर्मसु । परिवारालयोक्तं प्रायश्चित्तं महानसे ।। ४१४ ।। महानससमा ज्ञेया बलिपीठेषु निष्कृतिः । निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ।। ४१५ ।। परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् । कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ।। ४१६ ।। अर्धमण्डपवेशादौ तस्य दोषो न विद्यते । अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ।। ४१७ ।। चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा । कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ।। ४१८ ।। उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् । गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ।। ४१९ ।। विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने । संप्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ।। ४२० ।। कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः । आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ।। ४२१ ।। दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः । ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ।। ४२२ ।। तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते । मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ।। ४२३ ।। दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः । दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ।। ४२४ ।। पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः । प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ।। ४२५ ।। साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ।। ४२६ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ।। ४२७ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ।। ४२८ ।। बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ।। ४२९ ।। पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः । रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ।। ४३० ।। पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् । मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ।। ४३१ ।। शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् । तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ।। ४३२ ।। सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः । राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ।। ४३३ ।। तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् । वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ।। ४३४ ।। वारुण्यां धनलाभस्यादादौ चोरभयं पुनः । वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ।। ४३५ ।। तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् । गृहनाशो भवेद्वारे शयनस्थानके मृतिः ।। ४३६ ।। तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् । द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ।। ४३७ ।। तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः । दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ।। ४३८ ।। तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु । सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ।। ४३९ ।। प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः । लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ।। ४४० ।। मधुनीडसमुत्पत्तावेवमेव फलं भवेत् । वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ।। ४४१ ।। खातयोग्यं खनित्वादावापूर्य लवणादिभिः । शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ।। ४४२ ।। पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः । संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ।। ४४३ ।। बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा । गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ।। ४४४ ।। जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् । कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ।। ४४५ ।। राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् । मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ।। ४४६ ।। संशोध्य गोमयाम्भोभिस्संप्रोक्ष्यास्रजवारिणा । देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ।। ४४७ ।। वल्मीकस्य पुरा प्रोक्तदिनसंख्यावशेन तु । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ४४८ ।। महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् । पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ।। ४४९ ।। वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् । अघोरं त्रिशतं जप्त्वा संपूर्णस्नपनं नयेत् ।। ४५० ।। विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते । हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ।। ४५१ ।। कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा । जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ।। ४५२ ।। पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः । इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ।। ४५३ ।। यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् । द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ।। ४५४ ।। क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धयस । स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ।। ४५५ ।। भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते । तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ।। ४५६ ।। तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् । जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ।। ४५७ ।। कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् । शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ।। ४५८ ।। संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् । सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ।। ४५९ ।। अघोरेणजपः पश्चात् कर्तव्यश्शतसंख्यया । तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ।। ४६० ।। पिधानलोपे घोरेण शतसंख्यं जपेद्गुरुः । कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ।। ४६१ ।। उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् । तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ।। ४६२ ।। रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् । तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ।। ४६३ ।। पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा । गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ।। ४६४ ।। तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे । पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ।। ४६५ ।। कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् । शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ।। ४६६ ।। जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ४६७ ।। पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः । तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ।। ४६८ ।। देवं संपूज्य विधिवत् दिशाहोमं तु कारयेत् । इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ।। ४६९ ।। दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः । दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ।। ४७० ।। मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके । राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ।। ४७१ ।। बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा । भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ।। ४७२ ।। संपूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते । कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ।। ४७३ ।। सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् । विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ।। ४७४ ।। तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः । शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ।। ४७५ ।। विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् । समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ।। ४७६ ।। कुम्भे च करके पीठे मृदादिपरिकल्पिते । इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ।। ४७७ ।। तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः । पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ।। ४७८ ।। तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् । एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ।। ४७९ ।। पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् । क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ।। ४८० ।। सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः । पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ।। ४८१ ।। कर्तारं बाधते नित्यं शक्तानपि च बाधते । तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ।। ४८२ ।। ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये । उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ।। ४८३ ।। एककालं द्विकालं वा त्रिकालं जपसंयुतम् । गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ।। ४८४ ।। सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा । सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ।। ४८५ ।। साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा । स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ।। ४८६ ।। जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् । वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ।। ४८७ ।। भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च । कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ।। ४८८ ।। पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि । ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ।। ४८९ ।। शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः । विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ।। ४९० ।। अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः । नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ।। ४९१ ।। तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च । व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ।। ४९२ ।। ततस्थानं देवदेवस्य शिवस्यामिततेजसः । योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ।। ४९३ ।। वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा । सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ।। ४९४ ।। निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा । पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ।। ४९५ ।। ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च । गणपस्कन्दनन्दीश वसूनां नागपस्य च ।। ४९६ ।। मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः । कल्पितं स्थानमीशस्य योग्यमेव न संशयः ।। ४९७ ।। सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् । साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ।। ४९८ ।। ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति । ते तु दुर्मतयः प्रोक्तास्सुचिरं संचरन्त्यलम् ।। ४९९ ।। रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः । मदैक शरणा ये तु तैः पूज्योहं न चापरैः ।। ५०० ।। अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ।। ५०१।। तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् । सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ।। ५०२ ।। देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ।। ५०३ ।। प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै । तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ।। ५०४ ।। बालाबलानां बद्धानामातुराणां च पादतः । प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ।। ५०५ ।। ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ।। ५०६ ।। अतो बालनरस्यास्य नापराधो न पातकम् । राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ।। ५०७ ।। देश आदिश्यते येन दिशिकस्त्विति कथ्यते । देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ।। ५०८ ।। भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च । हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ।। ५०९ ।। नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते । सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ।। ५१० ।। प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः । कामतस्तूपवासश्च लुप्ते देवार्चने यदा ।। ५११ ।। एककालार्चके वापि द्विकालाद्यर्चकेपि वा । एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ।। ५१२ ।। उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते । बहुकालार्चकस्यापि द्विकालादि विलोपने ।। ५१३ ।। लुप्तसंख्यावशेनैव प्रायश्चित्तं समाचरेत् । द्विदिनादि विलोपे तु बहुरूपसहस्रतः ।। ५१४ ।। प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने । अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ।। ५१५ ।। संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते । स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ।। ५१६ ।। नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः । लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ।। ५१७ ।। हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः । सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ।। ५१८ ।। साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् । द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ।। ५१९ ।। एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् । जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ।। ५२० ।। संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः । अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ।। ५२१ ।। द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः । संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र संमता ।। ५२२ ।। अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा । प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ।। ५२३ ।। ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः । क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ।। ५२४ ।। लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् । पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ।। ५२५ ।। श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः । त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ।। ५२६ ।। मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् । रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ।। ५२७ ।। तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् । विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ।। ५२८ ।। तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् । विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ।। ५२९ ।। स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् । प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ।। ५३० ।। वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् । चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ।। ५३१ ।। लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि । नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ।। ५३२ ।। अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि । विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ।। ५३३ ।। अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् । प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ।। ५३४ ।। अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् । व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ।। ५३५ ।। गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । अविधाय पवित्रं तदाषाढादिषु पञ्चसु ।। ५३६ ।। लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् । पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ।। ५३७ ।। अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते । जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ।। ५३८ ।। शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते । सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ।। ५३९ ।। स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः । नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ।। ५४० ।। शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् । अक्षमालां कराद्भ्रष्टां आलयेद्गन्धवारिणा ।। ५४१ ।। गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि । घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ।। ५४२ ।। पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा । शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। ५४३ ।। प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् । केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ।। ५४४ ।। अघोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ।। ५४५ ।। अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् । पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ।। ५४६ ।। द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् । महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ।। ५४७ ।। एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् । निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ।। ५४८ ।। भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने । अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ।। ५४९ ।। यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः । निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ।। ५५० ।। लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ।। ५५१ ।। चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् । ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ।। ५५२ ।। नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।। ५५३ ।। पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ।। लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् । स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ।। ५५५ ।। यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा । पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ।। ५५६ ।। भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा । देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ।। ५५७ ।। व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् । करोति यस्य संमूढा मद्धनस्तेयकृन्मतः ।। ५५८ ।। मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा । यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ।। ५५९ ।। त एवातीत दुष्टामद्भक्षितादपि सोषदाः । तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ।। ५६० ।। नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः । निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।। ५६१ ।। सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् । मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ।। ५६२ ।। स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते । भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ।। ५६३ ।। शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति । अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ।। ५६४ ।। भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः । मद्देहधारिणो लोके देशिका मत्परायणाः ।। ५६५ ।। मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु । तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ।। ५६६ ।। सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् । प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ।। ५६७ ।। मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् । अघोरायुत जापश्च गोमयालिप्तमण्डले ।। ५६८ ।। पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् । प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ।। ५६९ ।। अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् । एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ।। ५७० ।। उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् । महापातकिनां प्रोक्तं महाव्रतमिहागमे ।। ५७१ ।। अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५७२ ।। महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः । कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ।। ५७३ ।। ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते । तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ।। ५७४ ।। अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् । गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ।। ५७५ ।। दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् । अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ।। ५७६ ।। पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् । माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ।। ५७७ ।। सामान्यानि विजानीयाद् मद्यान्येकादशैव तु । द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ।। ५७८ ।। पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् । एकादशसुरापाने कुर्याद्व्रतदशांशकम् ।। ५७९ ।। सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः । गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ।। ५८० ।। द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते । सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ।। ५८१ ।। सुवर्णस्यापहारेण शतादभ्याधिके वधः । क्षत्रियादिषु संप्रोक्तो विप्रस्य न वधः क्वचित् ।। ५८२ ।। निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् । दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ।। ५८३ ।। शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु । शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ।। ५८४ ।। रजतस्यापहरणे धान्यस्य द्विगुणं मतम् । सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ।। ५८५ ।। दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि । गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ।। ५८६ ।। याजनं योनि संबन्धं स्वाध्यायं सहभोजनम् । पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ।। ५८७ ।। वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् । अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ।। ५८८ ।। मातृष्वसा च भगिनी स्वसुता च पितृष्वसा । आसां च गमनं विप्रास्त्वनुपातकमीरितम् ।। ५८९ ।। विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः । चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ।। ५९० ।। लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः । द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ।। ५९१ ।। तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु । दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ।। ५९२ ।। संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति । देवक्षेत्रापहरणं देवोपहरणाहृतिः ।। ५९३ ।। शिवागमापहारश्च शिवलिङ्गापहारणम् । शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ।। ५९४ ।। उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् । पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ।। ५९५ ।। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । सगोत्रा मातुलानीं च समान प्रवरा च या ।। ५९६ ।। तासां संगमनं चोपपातकं समुदाहृतम् । परिवित्तिः परिवेत्ता तयोर्याजनमेव च ।। ५९७ ।। तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् । गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त संग्रहः ।। ५९८ ।। पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने । उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ।। ५९९ ।। भूवेश्मरत्नवापीनां कुजानामपहर्तृता । वापीकूपतटाकादेर्हरणं तूपपातकम् ।। ६०० ।। गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः । उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ।। ६०१ ।। तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे । तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ।। ६०२ ।। तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् । तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ।। ६०३ ।। उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् । गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ।। ६०४ ।। गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति । गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ।। ६०५ ।। गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् । रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ।। ६०६ ।। पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । याजने पादहीनं स्याच्चरेत् सर्वं निपातने ।। ६०७ ।। औषधं लवणं चैव स्नेहपिण्याहभोजनम् । अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।। ६०८ ।। न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् । बलाभावाद्विपद्येत गौश्चरन्ती कथंचन ।। ६०९ ।। जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ।। ६१० ।। शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा । शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ।। ६११ ।। उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् । कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ।। ६१२ ।। नास्तिक्यमभिचारश्चायाज्य याजनमेव च । नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ।। ६१३ ।। मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् । तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ।। ६१४ ।। भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् । वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ।। ६१५ ।। नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् । वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ।। ६१६ ।। स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् । स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ।। ६१७ ।। पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् । शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ।। ६१८ ।। विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् । रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ।। ६१९ ।। रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् । विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ।। ६२० ।। चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् । व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ।। ६२१ ।। विप्रस्त्रीगमने चैवोपव्रतंतु समाचरेत् । पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ।। ६२२ ।। ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि । विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ।। ६२३ ।। उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् । महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ।। ६२४ ।। एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् । शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ।। ६२५ ।। शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये । कन्यासंगमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ।। ६२६ ।। वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? । तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ।। ६२७ ।। अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये । प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ।। ६२८ ।। अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु । रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ।। ६२९ ।। नदीशैलूषिकी वेणुजीवनी गमने व्रतम् । पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ।। ६३० ।। अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः । गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ।। ६३१ ।। न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् । न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ।। ६३२ ।। न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् । शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ।। ६३३ ।। उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः । उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ।। ६३४ ।। सहस्रमयुतं चैव जपो मध्यमहीनयोः । द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ।। ६३५ ।। जघन्योच्छिष्ट संपर्कादेवं शतगुणं भवेत् । जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ।। ६३६ ।। शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् । स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ।। ६३७ ।। सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् । स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ।। ६३८ ।। तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः । निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ।। ६३९ ।। कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः । सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ।। ६४० ।। यनश्ययासनानां च कांस्यरीतिशिलायसाम् । त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ।। ६४१ ।। व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् । वानरश्वमृगाणां च विष्ठाशनवराहयोः ।। ६४२ ।। दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते । शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ।। ६४३ ।। हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये । उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ।। ६४४ ।। कुक्कुटश्येन भासानामथ हंसमयूरयोः । पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ।। ६४५ ।। कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः । पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ।। ६४६ ।। मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः । नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ।। ६४७ ।। वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा । पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ।। ६४८ ।। भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः । तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ।। ६४९ ।। अनस्थिमत्सु चैतेषु शताघोरजपोमतः । अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ।। ६५० ।। हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा । पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ।। ६५१ ।। कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् । गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ।। ६५२ ।। योगंकृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् । प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ।। ६५३ ।। अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते । कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ।। ६५४ ।। अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् । गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ।। ६५५ ।। तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् । पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ।। ६५६ ।। पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः । मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ।। ६५७ ।। निषेधाभावतस्तस्य दोषस्तत्र न जायते । नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ।। ६५८ ।। गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् । गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ।। ६५९ ।। काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः । सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ।। ६६० ।। पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् । घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ।। ६६१ ।। कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् । रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ।। ६६२ ।। धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् । पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ।। ६६३ ।। अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् । क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ।। ६६४ ।। अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतंजपेत् । अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ।। ६६५ ।। उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः । दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ।। ६६६ ।। तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते । तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ।। ६६७ ।। स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति । आचम्यादीक्षितेनापि सजातीशशतं जपेत् ।। ६६८ ।। सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् । तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ।। ६६९ ।। इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु । शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ।। ६७० ।। भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु । स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ।। ६७१ ।। इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये । त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ।। ६७२ ।। पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः । कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ।। ६७३ ।। गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च । कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ।। ६७४ ।। ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् । रजकादि प्रवेशादावयुतार्धमजानतः ।। ६७५ ।। बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः । हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ।। ६७६ ।। शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा । भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ।। ६७७ ।। उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता । प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ।। ६७८ ।। तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् । दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ।। ६७९ ।। चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा । शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ।। ६८० ।। तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः । उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ।। ६८१ ।। विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् । तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ।। ६८२ ।। शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् । शरावपत्र पुटक प्रभृतीनां च भोजने ।। ६८३ ।। शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते । सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ।। ६८४ ।। गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः । बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ।। ६८५ ।। प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा । ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ।। ६८६ ।। विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा । श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ।। ६८७ ।। नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः । उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ।। ६८८ ।। जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना । अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ।। ६८९ ।। निर्माल्यसंकरे कामात् संपूज्यश्चण्डनायकः । तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ।। ६९० ।। अकामतोवा संपर्कात् केवलस्य शतं भवेत् । वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ।। ६९१ ।। जलजानां च सर्वेषां वैणवानां तथाम्भसा । स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ।। ६९२ ।। शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् । मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ।। ६९३ ।। फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् । क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ।। ६९४ ।। अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते । परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ।। ६९५ ।। प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा । समयानां प्रमादे तु शक्तिजापः प्रशस्यते ।। ६९६ ।। वस्त्रशययासनादीनां स्तेये गायत्रिकाशतम् । गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ।। ६९७ ।। शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः । म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ।। ६९८ ।। सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने । पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ।। ६९९ ।। अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ।। ७०० ।। देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ।। ७०१ ।। अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। ७०२ ।। आततायिनमायान्तमपि शस्त्रान्तगं रणे । जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ।। ७०३ ।। युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा विचारतः ।। ७०४ ।। असूर्या नाम ये लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ।। ७०५ ।। न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् । यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ।। ७०६ ।। ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् । शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ।। ७०७ ।। तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् । शैवं पाशुपतं कालामुखं कापालधारिणम् ।। ७०८ ।। यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना । ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ।। ७०९ ।। शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ । तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ।। ७१० ।। अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ।। ७११ ।। देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः । तथैवेह समुद्दिष्टमभिशापो महात्मनि ।। ७१२ ।। औषधं स्नेहमाहारं ददतो बन्धकस्य च । प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ।। ७१३ ।। प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् । निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ।। ७१४ ।। नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः । तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ।। ७१५ ।। तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् । तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ।। ७१६ ।। किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् । द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ।। ७१७ ।। क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः । ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ।। ७१८ ।। विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् । लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ।। ७१९ ।। मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा । मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ।। ७२० ।। उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा । राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ।। ७२१ ।। वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता । यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ।। ७२२ ।। दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः । सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ।। ७२३ ।। सर्वलोपेकृते तस्य महादोषः प्रजायते । शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ।। ७२४ ।। अनेन विधिना येन सर्वैनैमित्तिकादितः । विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ।। ७२५ ।। शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् । वृषाधिवासने हीने ध्वजे वारोपिते सति ।। ७२६ ।। गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् । वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ।। ७२७ ।। किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् । ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ।। ७२८ ।। शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् । ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ।। ७२९ ।। शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये । वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ।। ७३० ।। शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् । दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ।। ७३१ ।। मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा । स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ।। ७३२ ।। स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् । दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि संभवे ।। ७३३ ।। शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् । ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयंकरः ।। ७३४ ।। सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् । शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ।। ७३५ ।। एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् । ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ।। ७३६ ।। अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते । रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ।। ७३७ ।। आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् । पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ।। ७३८ ।। शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् । ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ।। ७३९ ।। पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः । पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ।। ७४० ।। मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा । केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ।। ७४१ ।। लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् । दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ।। ७४२ ।। दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः । रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ।। ७४३ ।। दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः । प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ।। ७४४ ।। उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् । ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ।। ७४५ ।। आवर्तयेदघोरेण त्रिशतं देशिकस्तदा । घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ।। ७४६ ।। आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा । ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ।। ७४७ ।। वृषकुम्भविभेदादिकारणात् केतुरोहणम् । कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ।। ७४८ ।। मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे । तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ।। ७४९ ।। एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् । आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ।। ७५० ।। एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः । ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ।। ७५१ ।। तदधो लम्बिते केतौ शान्तिहोमं विधाय च । आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ।। ७५२ ।। भेरीसंताडने हीने लोको मूकः प्रजायते । शान्तिहोमं तदा कृत्वा भेरीसंताडयेत्ततः ।। ७५३ ।। उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् । देवतावाहने हीने देवादीनामसन्निधिः ।। ७५४ ।। शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् । ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ।। ७५५ ।। अनाहूतास्तदा दोषो नान्यानाहूतिरापदि । पताकारोपणोपेते देवानावाहयेन्न वा ।। ७५६ ।। भेरीताडनकार्यं तु तद्वदेव समाचरेत् । भेरीचर्मादि भेदादौ कोणच्छेदादि संभवे ।। ७५७ ।। अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् । तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ।। ७५८ ।। कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् । तत्काले बलिकाले वा वादके पतिते भुवि ।। ७५९ ।। शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये । भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ।। ७६० ।। शान्तिहोमं तदा कृत्वा भेरीं संपूजयेद्धृदा । यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ।। ७६१ ।। विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् । कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ।। ७६२ ।। प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् । ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ।। ७६३ ।। शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये । विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ।। ७६४ ।। स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे । उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ।। ७६५ ।। नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् । यागोपकरणेऽप्येवं किं तु यागावसानके ।। ७६६ ।। शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च । प्रधानाधममध्यानां करणानां विलोपने ।। ७६७ ।। शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् । विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ।। ७६८ ।। पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये । शिवकुंभेषुवर्धन्यावृतेषु घटेषु वा ।। ७६९ ।। उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् । भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ।। ७७० ।। शान्तिहोममघोराणुजपं पञ्चशतं चतुः । शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ।। ७७१ ।। कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् । वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ।। ७७२ ।। स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः । कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ।। ७७३ ।। शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये । कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ।। ७७४ ।। जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः । पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ।। ७७५ ।। सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् । हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ।। ७७६ ।। स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये । शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ।। ७७७ ।। जपेद्घोरं त्रिशतं तदङ्गानां विलोपने । तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ।। ७७८ ।। पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् । आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ।। ७७९ ।। बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् । त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ।। ७८० ।। उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् । स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ।। ७८१ ।। वृषिकाले महावाते राष्ट्रक्षोभे महाभये । ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ।। ७८२ ।। स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः । एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ।। ७८३ ।। अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः । तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ।। ७८४ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ।। ७८५ ।। वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् । बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ।। ७८६ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ।। ७८७ ।। तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् । आलये बलियाने वा तस्यां देवालयावृतौ ।। ७८८ ।। देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः । तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ।। ७८९ ।। नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः । इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ।। ७९० ।। ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते । अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ।। ७९१ ।। अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो । तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ।। ७९२ ।। अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः । एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ।। ७९३ ।। अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् । अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ।। ७९४ ।। हीनेविताने घोरणोः शतसंख्यं जपं नयेत् । ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसंख्यया ।। ७९५ ।। ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः । बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ।। ७९६ ।। तद्दिनाधिपमन्त्रेण जपेतद्विशतसंख्यया । बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ।। ७९७ ।। बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् । मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ।। ७९८ ।। देवालये बलिर्हीनो यदाघोरं शतं जपेत् । यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ।। ७९९ ।। तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् । विधाय यानकाले वातदन्ते वा बलिं नयेत् ।। ८०० ।। अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि । शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ।। ८०१ ।। तच्छेदभेदपातादौ तथैव फलमादिशेत् । तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ।। ८०२ ।। विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् । नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ।। ८०३ ।। पतितं चेत्यजेदन्नं संपाद्यान्नं समाचरेत् । समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ।। ८०४ ।। बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् । भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ।। ८०५ ।। दशायुधानि वा भूमौ संभूतानि पतन्तिचेत् । निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ।। ८०६ ।। च्छेदभेदादियुक्तानि यदि दारुमयानि वा । तथान्यानि समापाद्य संभूतानीतराणि वा ।। ८०७ ।। संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् । लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ।। ८०८ ।। शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च । धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ।। ८०९ ।। च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् । उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ।। ८१० ।। समाप्योत्सवकार्यं तु तत्संधायानुकर्मवत् । संप्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ।। ८११ ।। यानकालेऽन्यकाले वा बेरादौ पतिते सति । राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ।। ८१२ ।। अव्यङ्गे पतिते बेरे पतिते वा करादधः । द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ।। ८१३ ।। संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती । स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ।। ८१४ ।। नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् । अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ।। ८१५ ।। अधिवासादिकं कर्म सद्य एव समाचरेत् । मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ।। ८१६ ।। पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् । उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ।। ८१७ ।। तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् । कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ।। ८१८ ।। धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः । गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ।। ८१९ ।। ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि । प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ।। ८२० ।। उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च । लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ।। ८२१ ।। उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः । बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ।। ८२२ ।। शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा । कुर्वाणश्चेत् क्रियांभूमौ पतितो देशिकस्तदा ।। ८२३ ।। ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् । जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ।। ८२४ ।। बलिदातरि तत्काले पतिते तं शतं जपेत् । आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ।। ८२५ ।। गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः । पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ।। ८२६ ।। पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः । अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ।। ८२७ ।। प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः । विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ।। ८२८ ।। निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् । रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ।। ८२९ ।। शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् । यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ।। ८३० ।। सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् । तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ।। ८३१ ।। सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् । आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ।। ८३२ ।। पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् । विनोद दर्शन काले जातश्चेत् कलहो महान् ।। ८३३ ।। शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् । विनोददर्शने हीने संहिताहोममाचरेत् ।। ८३४ ।। नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् । यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ।। ८३५ ।। देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया । स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ।। ८३६ ।। हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते । प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ।। ८३७ ।। तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह । शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ।। ८३८ ।। नृत्तमूर्त्युत्सवे हीने पूर्वसंकल्पिते नराः । भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ।। ८३९ ।। नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् । यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ।। ८४० ।। शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् । मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ।। ८४१ ।। शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् । हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ।। ८४२ ।। तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति । निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ।। ८४३ ।। एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति । अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ।। ८४४ ।। चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् । शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ।। ८४५ ।। विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः । चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ।। ८४६ ।। महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः । शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ।। ८४७ ।। पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा । कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ।। ८४८ ।। तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः । प्रासादे मनुजे जाते मृते राजो भयं महत् ।। ८४९ ।। मृतादि तत्प्रोदेशांत्तु विसृज्य च बहिस्ततः । प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ।। ८५० ।। तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै । मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ।। ८५१ ।। परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् । प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ।। ८५२ ।। पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् । शैव संभोजनं चान्ते जलसंप्रोक्षणं नयेत् ।। ८५३ ।। स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् । शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ।। ८५४ ।। प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना । अन्तस्सालान्तरे चेद्धि जलसंप्रोक्षणं नयेत् ।। ८५५ ।। अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् । गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ।। ८५६ ।। त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः । अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ।। ८५७ ।। पाकस्थानादि देशेषु मरणादौ च संभवे । पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ।। ८५८ ।। शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा । प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ।। ८५९ ।। धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि । परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ।। ८६० ।। कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् । सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ।। ८६१ ।। सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः । गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ।। ८६२ ।। स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् । केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ।। ८६३ ।। देवतामण्डपे तत्स्थदेवान् संप्रोक्ष्य गव्यतः । संपूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ।। ८६४ ।। एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च । उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ।। ८६५ ।। शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः । ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ।। ८६६ ।। गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् । एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ।। ८६७ ।। वस्त्रशययासनादीनां दाहच्छेदादि संभवे । दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ।। ८६८ ।। कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् । पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ।। ८६९ ।। प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः । वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ।। ८७० ।। महादोष समाख्यातो दोषो नान्यत्र कथ्यते । एवमेव नराणां च तदा स्नानं विधाय च ।। ८७१ ।। जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् । नराणां शिवभक्तानां दीक्षितानां शिवाय वा ।। ८७२ ।। वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये । कारयेत् संहिताहोमघोरं वा जपेत्तथा ।। ८७३ ।। अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे । संप्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ।। ८७४ ।। तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् । संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ।। ८७५ ।। गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् । गव्यसंप्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ।। ८७६ ।। सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् । गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।। ८७७ ।। मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् । श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ।। ८७८ ।। चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके । स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ।। ८७९ ।। तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् । यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ।। ८८० ।। व्यपोह्य पूर्वकुम्भादीन् संपूज्य वृषभध्वजम् । मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ।। ८८१ ।। कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् । कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ।। ८८२ ।। महानसेऽथवा स्थानमम्डपे गोपुरादिके । विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ।। ८८३ ।। प्रपायामग्निदग्धायां संहिताहोममाचरेत् । विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ।। ८८४ ।। अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् । स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ।। ८८५ ।। शान्तिश्च शान्तिहोमश्च संहिता होम एव च । दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ।। ८८६ ।। परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् । उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म संमतम् ।। ८८७ ।। ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् । महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ।। ८८८ ।। प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् । सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ।। ८८९ ।। अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः । अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ।। ८९० ।। आचार्य संकरो राष्ट्रं राजानं नाशयत्यथ । एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ।। ८९१ ।। कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसंकरः ।। ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि कल्पनम् ।। ८९२ ।। दीपनैवेद्य संकॢप्तिर्देवे नित्यार्चनं च यत् । सकलाराधनं यच्च परिवारार्चनादिकम् ।। ८९३ ।। नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् । उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ।। ८९४ ।। तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् । अनेक नरनिर्वत्य कथमेकः करोत्यहो ।। ८९५ ।। शिवः - साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् । नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ।। ८९६ ।। एकाचार्येण कर्तव्यमिति साधूदितं मवा । देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ।। ८९७ ।। तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः । आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ।। ८९८ ।। शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः । रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ।। ८९९ ।। तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् । यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ।। ९०० ।। यत्कृतं राजकार्यं स्यात्तथैवापि संमतम् । अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ।। ९०१ ।। तत्र संकरदोषोऽपि फलमेवं च निष्कृतिः । क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ।। ९०२ ।। सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् । अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः ।। ९०३ ।। शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये । शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ।। ९०४ ।। तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ।। ९०५ ।। इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ।। प्रणवासनमारूढं दुराधर्पं महाबलम् । पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् । कपाल मालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामाला नागाभरण लेलिहम् । सूर्यकोट्ययुताभं च विघ्नसंघातमर्दकम् । भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ।। खड्गचापमहाशूलाभय पाशांश्च दक्षिणे । खेट वाण कपालांश्च वरप्रासौ च वामतः ।। पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् । ध्यात्वैवं उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ।। सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् । वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ।। कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् । मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ।। अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ।। ध्यायेत् सूर्यसहस्राभं अघोरास्त्रं अरिन्दमम् । प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।। त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् । सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ।। चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् । नृत्यमानं महाकार्यं नागाभरणभूषितम् ।। देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३१. एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् । रजन्यां दर्शनं भानोः परराज भयं भवेत् ।। १ ।। विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् । दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ।। २ ।। पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा । संभवे भूमि कंपेतु नृप भङ्गो भवेद् ध्रुवम् ।। ३ ।। मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ संमितैः । तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ।। ४ ।। स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् । सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ।। ५ ।। प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् । नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ।। ६ ।। तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् । सांबं कुंभे च वर्धन्यां परितोष्ठ घटेषु च ।। ७ ।। स सूत्रांबरहैमेषु सप्ततीर्थं च कन्यया । पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ।। ८ ।। कुंभांभः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् । प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ।। ९ ।। सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् । कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ।। १० ।। शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् । तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ।। ११ ।। जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् । प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ।। १२ ।। गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् । पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ।। १३ ।। भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् । सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ।। १४ ।। मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् । मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ।। १५ ।। तद्द्रव्य स्नपनं कुर्यात् भूमिकंपोक्तमार्गतः । विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ।। १६ ।। शैवान् संभोजयेत् प्रश्चादेवं सप्ताहमाचरेत् । लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ।। १७ ।। लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे । संपूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ।। १८ ।। दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः । पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ।। १९ ।। लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा । वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ।। २० ।। शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् । अकस्मात्पतितं धाम मूलादामस्तकं यदि ।। २१ ।। नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् । स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ।। २२ ।। शान्त्युक्त दिन संख्यया वशेनैतत्समाचरेत् । प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ।। २३ ।। त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके । कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ।। २४ ।। प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः । स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ।। २५ ।। नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् । अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ।। २६ ।। निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् । धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ।। २७ ।। अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा । मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ।। २८ ।। धाम स्थानान्तरं प्राप्तं यदिलिंगादिसंयुतम् । नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ।। २९ ।। संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् । शैव संभोजनोपेतां विप्रभुक्ति समन्वितम् ।। ३० ।। लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा । बाणलिंगादिकं वाथ प्रासादेन समन्वितम् ।। ३१ ।। अथवा पूर्वलिंगं चेत् तत्प्रासाद समन्वितम् । अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ।। ३२ ।। हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् । स्थानानन्तर गतं लिंगं उदक् पूर्वत्र विन्यसेत् ।। ३३ ।। तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना । वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ।। ३४ ।। तद् वृक्ष जाति संभूत समिद्भिर्मूर्ति होमकम् । समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ।। ३५ ।। तत्समीपे स्थिते लिंगे स्वयं भूतादिके परम् । स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ।। ३६ ।। स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति संभवम् । तदन्य कुसुमे जाते तदन्य फल संभवे ।। ३७ ।। संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे । सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ।। ३८ ।। तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् । शिवलिङ्गे च बेरे वा पीठे वोष्णादि संभवे ।। ३९ ।। सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् । गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ।। ४० ।। स्नापयेत् परमेशानं पञ्चामृत समन्वितम् । अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ।। ४१ ।। सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः । चन्दनागरु कर्पूरोशीर कुंकुम संयुतम् ।। ४२ ।। गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् । दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ।। ४३ ।। शीतकुंभोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा । नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ।। ४४ ।। जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि । बहुशीर्षक हस्तांघ्रि नासादेहादि संयुतः ।। ४५ ।। स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः । स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ।। ४६ ।। तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् । शिवं संपूज्य विधिवत् दिशाहोमं समाचरेत् ।। ४७ ।। शैवान्संपूज्य विधिवत् शान्तिहोमं समाचरेत् । शिवान्संभोजये देवं नयेद्वा सप्तपञ्चमम् ।। ४८ ।। निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने । नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ।। ४९ ।। युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् । शिवं संपूज्य विधिवत् दिशा होमन्तु कारयेत् ।। ५० ।। स्नापयेत् परमेशानं नव सप्ताह माचरेत् । लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ।। ५१ ।। प्रक्षाल्यास्त्रांबुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् । लिंगे बेरे विमाने वा मण्डपे गोपुरादिषु ।। ५२ ।। परिवारालये साले देवेशास्थानमण्डपे ।। ५२१/२ ।। सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् । नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ।। ५३१/२ ।। तत्र लिंगे च पिठे च बेरे वायं विधिर्भवेत् । दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ।। ५४१/२ ।। अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् । पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ।। ५५१/२ ।। सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् । स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ।। ५६१/२ ।। एवं कृतेतु सप्ताहं अन्ते चोत्सव माचरेत् । प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ।। ५७१/२ ।। अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् । प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ।। ५८१/२ ।। शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् । प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ।। ५९१/२ ।। शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके । सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ।। ६०१/२ ।। प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः । तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ।। ६११/२ ।। ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् । करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ।। ६२१/२ ।। सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे । महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ।। ६३१/२ ।। पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् । धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ।। ६४१/२ ।। गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् । शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ।। ६५१/२ ।। पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् । शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ।। ६६१/२ ।। लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् । क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ।। ६७१/२ ।। तदर्धैवा तदर्धैवा शीत कुंभ स्तदन्तिके । लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ।। ६८१/२ ।। राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा । पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ।। ६९१/२ ।। शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः । चन्दनो शीर कर्पूर कुंकुमा गरु संयुतम् ।। ७०१/२ ।। पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् । संपूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ।। ७११/२ ।। शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि । भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ।। ७२१/२ ।। संप्रोक्ष्यस्त्रांबुना भेरी प्रमुखान् गन्धपुष्पकैः । अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ।। ७३१/२ ।। प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने । जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ।। ७४१/२ ।। नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् । रात्राविंद्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ।। ७५१/२ ।। शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने । अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ।। ७६१/२ ।। वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ।। ७७ ।। नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः । अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ।। ७८ ।। प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति । राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ।। ७९ ।। सप्ताहं वाथ पञ्चाहं तत् पात दिन संख्यकम् ! ।। ७९१/२ ।। स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये । क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे ।। ८०१/२ ।। चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते । तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ।। ८११/२ ।। शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् । वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ।। ८२१/२ ।। क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् । तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ।। ८३१/२ ।। लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके । सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ।। ८४१/२ ।। शिवं संपूज्य विधिवत् दिशाहोमन्तु कारयेत् । पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ।। ८५१/२ ।। अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिके । समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ।। ८६१/२ ।। शिवं संपूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् । तद्देशे शान्ति च यद्देशे पतितिस्तरुः ।। ८७१/२ ।। तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके । तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ।। ८८१/२ ।। शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् । तदेक शाखा पतने कलहो भुवि जायते ।। ८९१/२ ।। शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् । द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ।। ९०१/१ ।। शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः । एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ।। ९११/२ ।। शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि । मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ।। ९२१/२ ।। नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः । उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ।। ९३१/२ ।। कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे । अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ।। ९४१/२ ।। सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः । तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ।। ९५१/२ ।। अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः । आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ।। ९६१/२ ।। षड्वेद नेत्रमात्रं तु वेष्टयेत् लिंग पिण्डिके । बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ।। ९७१/२ ।। मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् । एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ९८१/२ ।। राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा । गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ।। ९९१/२ ।। संपूज्य देव देवेशं सप्ताहं शान्ति माचरेत् । पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ।। १००१/२ ।। मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु । तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ।। १०११/२ ।। शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये । प्रत्यहं होमरक्षां च देव देव प्रसादजम् ।। १०२१/२ ।। भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः । सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ।। १०३१/२ ।। गुरुं पुरोहितं वाथ महिषीं गजमेव च । वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ।। १०४१/२ ।। प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा । परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ।। १०५१/२ ।। ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् । मार्जार प्रमुखानां रोदनं यदि जायते ।। १०६१/२ ।। स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये । तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ।। १०७१/२ ।। शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च । शान्ति होमोऽथवा घोर जपो मार्जाररोदने ।। १०८१/२ ।। शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् । अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत् ।। १०९१/२ ।। लिंगे बेरे च पीठादौ खद्योतारोहणे सति । राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ।। ११०१/२ ।। तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् । तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ।। ११११/२ ।। स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा । नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ।। ११२१/२ ।। लिंगमूले च पीठे वा बेरे वा गर्भगेहके । परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ।। ११३१/२ ।। प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये । तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ।। ११४१/२ ।। पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् । कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ।। ११५१/२ ।। संजाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् । चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ।। ११६१/२ ।। सूर्येवास्तंगते तस्मिन् उदयात् पूर्वमेव वा । दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ।। ११७१/२ ।। दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् । शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ।। ११८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः पटलः ३२. द्वात्रिंशत्तमे पटले अनुकर्मविधिः अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् । प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ।। १ ।। हीने जात्यादि संस्थानेमानोन्मानादि हीनए । तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ।। २ ।। मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् । मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ।। ३ ।। तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते । स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ।। ४ ।। शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते । अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ।। ५ ।। मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः । अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ।। ६ ।। नागरे नागरं कुर्याद्वेसरे वेसरं मतम् । द्राविडे च तथा कार्यं वराटादौ तथा मतम् ।। ७ ।। घनेऽघने विमाने तु तथा भवनमिष्यते । भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ।। ८ ।। पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् । द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ।। ९ ।। नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि । नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ।। १० ।। अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् । सुस्थितंदुस्थितं वापि शिवलिङ्गं न चालयेत् ।। ११ ।। जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् । जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ।। १२ ।। जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते । जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ।। १३ ।। तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च । जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ।। १४ ।। भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते । लक्ष्मोज्झितंवज्रहतं संपुटं स्फुटितं तथा ।। १५ ।। आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् । त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ।। १६ ।। जीर्णाद्यैस्संयुतंत्याज्यं पीठं वा कशिला वृषः । अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ।। १७ ।। चलितं चालितं लिङ्गं पतितं पातितं तथा । अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ।। १८ ।। परित्यक्त शिलायोगमपि न स्थापितं भवेत् । तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ।। १९ ।। असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् । जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ।। २० ।। नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् । ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ।। २१ ।। न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः । स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ।। २२ ।। शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् । सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ।। २३ ।। बेरेऽप्येतत्समानं स्यांद्दुष्टे त्वन्यत्प्रयोजयेत् । बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ।। २४ ।। पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् । अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ।। २५ ।। लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः । कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ।। २६ ।। उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् । पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ।। २७ ।। उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् । अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ।। २८ ।। वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः । ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ।। २९ ।। शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् । ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ।। ३० ।। प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् । पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ।। ३१ ।। तमेव स्थापयेत्तत्र पुनरापादनं विना । भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ।। ३२ ।। शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् । रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ।। ३३ ।। वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले । लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ।। ३४ ।। तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् । अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ।। ३५ ।। तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा । सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ।। ३६ ।। ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः । शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ।। ३७ ।। अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् । पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ।। ३८ ।। चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकम्ज् । मण्डपे परिवारे च परिवारालयेऽप्यथा ।। ३९ ।। अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः । अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ।। ४० ।। ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ । सप्रमाणे यथा शास्त्रं विहितालंकृतान्विते ।। ४१ ।। अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते । प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ।। ४२ ।। दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते । तद्वास्तु परितोवृद्धिः समावाविषमापि वा ।। ४३ ।। गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् । ग्रामादीनां गृहादीनां शालानां च विशेषतः ।। ४४ ।। आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः । समं वा योजयेत्तस्मादधिकं वापि योजयेत् ।। ४५ ।। युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् । गृहमालिकयोर्भूमिं संख्ययापरिकल्पयेत् ।। ४६ ।। सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु । उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ।। ४७ ।। हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् । जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ।। ४८ ।। किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् । लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ।। ४९ ।। स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् । यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ।। ५० ।। सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते । तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ।। ५१ ।। पूर्वद्वारसमोपेत मेकतोरण संयुतम् । सर्वालंकार संयुक्तन्तर्भामालादि संयुतम् ।। ५२ ।। तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् । मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ।। ५३ ।। समिदाज्यतिलोपेतं हविषा च समन्वितम् । वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ।। ५४ ।। सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः । ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ।। ५५ ।। अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः । अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ।। ५६ ।। एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् । क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ।। ५७ ।। गत्वात दन्तिकं मंत्री हृदास्नाप्य प्रपूजयेत् । व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ।। ५८ ।। प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः । व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ।। ५९ ।। चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१/२ नमस्कारान्त संयुक्तं हृदयाद्यंग पञ्चकम् । न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ।। ६०१/२ ।। स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः । ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ।। ६११/२ ।। सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति । लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ।। ६२१/२ ।। विद्याविद्येश्वरैर्युक्तश्शंभुरत्रभविष्यति । एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ।। ६३१/२ ।। तस्माद्देवं समावाह्यकुंभे संस्थापयेत् गुरुः । अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ।। ६४१/२ ।। सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते । तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ।। ६५१/२ ।। संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् । प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ।। ६६१/२ ।। ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् । हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ।। ६७१/२ ।। विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् । तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ।। ६८१/२ ।। सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् । शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ।। ६९१/२ ।। भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् । प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ।। ७०१/२ ।। महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् । तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ।। ७११/२ ।। स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा । गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ।। ७२१/२ ।। एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः । मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ।। ७३१/२ ।। सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः । तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ।। ७४१/२ ।। तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके । संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ।। ७५१/२ ।। मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ । तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ।। ७६१/२ ।। मूललिंगन्नलब्धञ्चेद्देशकालानुरोधतः । षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ।। ७७१/२ ।। बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् । द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ।। ७८१/२ ।। कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः । षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ।। ७९१/२ ।। तत्र स्थं बाललिंगाद्यं त्यक्त्वामूलन्तुविन्यसेत् । सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ।। ८०१/२ ।। द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् । नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ।। ८११/२ ।। एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः । किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ।। ८२१/२ ।। परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः । शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ।। ८३१/२ ।। दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः । भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ।। ८४१/२ ।। शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः । तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ।। ८५१/२ ।। आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे । लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ।। ८६१/२ ।। वामदक्षिणसिद्धान्तभेदेन नव भेदिनः । शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ।। ८७१/२ ।। गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः । प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ।। ८८१/२ ।। तैरपि स्थापितं लिंगं मादिशैवस्समर्चयेत् । यामलत्व परंज्ञेयं तच्चमिश्रमिहोच्यते ।। ८९१/२ ।। वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् । वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ।। ९०१/२ ।। सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः । व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ।। ९११/२ ।। वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् । लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ।। ९२१/२ ।। तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् । गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ।। ९३१/२ ।। कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा । बृहस्पतिमतं सांख्यं योगंवैखानसन्तथा ।। ९४१/२ ।। वेदान्ताख्यञ्च मीमांस पुराणन्धर्म शास्त्रकम् । वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ।। ९५१/२ ।। तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् । सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ।। ९६१/२ ।। रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् । तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ।। ९७१/२ ।। लिंगाद्यमादिशैवेन स्थापितं पूजितन्तुवा । तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ।। ९८१/२ ।। तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः । तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ।। ९९१/२ ।। यदितैः पूजितं पश्चात् सेनानिं सेनया सह । अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ।। १००१/२ ।। शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति । तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ।। १०११/२ ।। तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् । राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ।। १०२१/२ ।। शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः । आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ।। १०३१/२ ।। तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः । तत् स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ।। १०४१/२ ।। शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः । कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ।। १०५१/२ ।। पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् । पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ।। १०६१/२ ।। अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् । कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ।। १०७१/२ ।। मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च । महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ।। १०८१/२ ।। ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः । तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ।। १०९१/२ ।। कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ।। ११० ।। पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् । लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ।। १११ ।। अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः । जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ।। ११२ ।। एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् । स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ।। ११३ ।। पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः । पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ।। ११४ ।। कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् । स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ।। ११५ ।। लिंगसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः । लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ।। ११६ ।। शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् । गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ।। ११७ ।। देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् । स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ।। ११८ ।। च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते । दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ।। ११९ ।। अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् । शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः।। १२० ।। ब्राह्मणान् भोजयेत् पश्चात् शैवान् संभोजयेत्ततः । प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ।। १२१ ।। मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा । मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ।। १२२ ।। सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये । आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ।। १२३ ।। तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् । सर्वेरंगैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ।। १२४ ।। लिङ्गे स्वायंभुवादौ तु जीर्णादौ शान्तिरीरितः । सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ।। १२५ ।। प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते । उत्सेधेरविमात्रान्तंक्षन्तव्यञ्चाङ्गुलादिकम् ।। १२६ ।। द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यंगेषुमात्रकम् । ग्रामखेटपुरादौतुदंडान्तं परिकीर्तितम् ।। १२७ ।। सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके । चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ।। १२८ ।। द्वाराद्यंगेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके । तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ।। १२९ ।। इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः ।। ३३. त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः काम्ययोग विधानंतु प्रवक्ष्यामि समासतः । काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ।। १ ।। सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः । तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ।। २ ।। व्यालबद्धजटाचूटः कपालदलमण्डितः । सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ।। ३ ।। चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् । महाकायो महादंष्ट्री किङ्किणीखसंयुतः ।। ४ ।। महाशूलाग्र संप्रोत महासुर विनाशनः । खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ।। ५ ।। वराभयकपालाहि पाशप्रासगदायकरः । दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ।। ६ ।। स्वसेना रक्षको नित्यं परसेनाभयंकरः । वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ।। ७ ।। सर्वदोष विनाशे तु समर्थो भक्तवत्सलः । असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ।। ८ ।। आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ।। ९ ।। चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः । त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ।। १० ।। सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः । ओं जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ।। ११ ।। एष एवामृतेशस्स्यादादौ कूटयुतो न वा । रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ।। १२ ।। हकारेण शरीरं तु रसमित्यादितः पठेत् । अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ।। १३ ।। आदौ स्याद्देवदेवेशेति (पदं) समुद्धरेत् । प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ।। १४ ।। पीठं जुंकारकॢप्तंस्यान्मूर्तिरों जुंसतो भवेत् । मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ।। १५ ।। कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् । अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ।। १६ ।। सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ।। १७ ।। व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः । त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ।। १८ ।। दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। १९ ।। अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो । न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ।। २० ।। भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् । तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ।। २१ ।। अमृतेशेन देवेन जलं संग्राह्य यत्नतः । शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ।। २२ ।। क्षीरेण सहसंपृक्तदूर्वाकाण्डमखण्डितम् । ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ।। २३ ।। देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् । नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ।। २४ ।। मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् । प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ।। २५ ।। कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम् । गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ।। २६ ।। स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान पुरादीनि न संशस्यः ।। २७ ।। किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा । अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ।। २८ ।। रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ।। २९ ।। स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् । किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ।। ३० ।। सप्तायुध समायुक्तं सर्वाभरणभूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। ३१ ।। धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् । मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ।। ३२ ।। पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् । पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ।। ३३ ।। शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् । दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ।। ३४ ।। घण्टां खेटं कपालं च शत्रुसंक्षय संमुखम् । अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ।। ३५ ।। अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः । ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिंदमम् ।। ३६ ।। प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।। ३७ ।। सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ।। ३८ ।। नृत्यमानं महाकायं नागाभरणभूषितम् । देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३९ ।। प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् । घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ।। ४० ।। ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः । चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ।। ४१ ।। ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् । घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ।। ४२ ।। प्रान्ते स्यादूहुंफडित्येवं चतुर्थ्यन्तं हृदादिकम् । नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ।। ४३ ।। परचक्रप्रथमने महाव्याधि प्रकोपने । शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ।। ४४ ।। किमनेन बहूक्तेन भयकालेऽप्युपस्थिते । मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ।। ४५ ।। परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् । मन्त्राणि योगयुक्तानि पावके शलभा यथा ।। ४६ ।। तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् । अनेनैव प्रकारेण ध्यात्वा संपूजयेद् गुरुः ।। ४७ ।। अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् । दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ।। ४८ ।। विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् । चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ।। ४९ ।। अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् । एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ।। ५० ।। हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् । संग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ।। ५१ ।। एवमभ्यर्चयेद्वोऽसौ सोऽयंमत्सदृशोमतः । तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ।। ५२ ।। सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः । पालनीयोविशेषेण साधकाधिपतिस्सदा ।। ५३ ।। दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते । वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ।। ५४ ।। फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि । ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ।। ५५ ।। दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् । मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ।। ५६ ।। स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः । नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ।। ५७ ।। शुद्धस्फटिकसंकाशं प्रसन्नवदनान्वितम् । गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ।। ५८ ।। व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् । शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ।। ५९ ।। वामे पद्मं च वह्निं च वरदाभयदं तु वा । पुस्तकेन युतंवाथ दधानं नयनत्रयम् ।। ६० ।। महावृषभसंयुक्तमनिसंघैस्समावृतम् । ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ।। ६१ ।। यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् । चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। ६२ ।। अथवान्य प्रकारेण भैरवं विकृताननम् । ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ।। ६३ ।। संग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः । अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ।। ६४ ।। यत् किंचित् क्रियते कर्म त्रैलोक्ये येन केनचित् । रहितो मन्त्रराजेन नैव सिध्यति साधकः ।। ६५ ।। आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पधस्तम् वक्त्रैर्युक्तं चतुर्भिः परमरुण चतुश्शक्तिभिर्व्याप्तदिक्कम् । कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालं भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि खट्वाङ्ग हस्तम् ।। ६६ ।। ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् । विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ।। ६७ ।। भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः । नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ।। ६८ ।। दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः । तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ।। ६९ ।। कामाचररतो वापि भावयेद्भास्करं सदा । वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।। ७० ।। सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् । ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ।। ७१ ।। शत्रुकृत्यादि संभूतरोगानीक विनाशनम् । चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ।। ७२ ।। स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु । ओं ह्रींकारं समुद्धृत्य तदन्ते कृष्णवाससे ।। ७३ ।। ततश्च सिंहवदने महावदन इत्यपि । महाभैरविवर्णेच सर्वशत्रुपदं तथा ।। ७४ ।। कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ।। ७५ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ।। ७६ ।। सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ।। ७६१/२ ।। ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ।। ७७१/२ ।। प्रत्यंगिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः । तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यंगिरात्मकः ।। ७८१/२ ।। प्रत्यंगिरेयं विख्यात श्शतवर्ण स्वरूपिणी । आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ।। ७९१/२ ।। दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् । तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ।। ८०१/२ ।। त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः । नमस्वाहावषड्वौषट् हुंपट्युक्ता हृदादयः ।। ८११/२ ।। सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् । कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ।। ८२१/२ ।। वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ।। ८३१/२ ।। अट्टहासादि शब्दैस्तु गर्जितामुदितामपि । कृष्णांबर धरां सासृक् मांसास्यां नर्तनेरताम् ।। ८४१/२ ।। मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् । कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ।। ८५१/२ ।। देवींध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् । ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ।। ८६१/२ ।। विद्याधरत्वलाभाय कृष्णागरुयुतं परम् । अथवा नाभिकंजल्कं जुहुयात् साधकोत्तमः ।। ८७१/२ ।। कदंबकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् । प्रियंगु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ।। ८८१/२ ।। करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् । खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ।। ८९१/२ ।। सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् । पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ।। ९०१/२ ।। धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् । कृष्णनीलं घृतं चैव स्तंभयेदभिचारतः ।। ९११/२ ।। रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् । कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ।। ९२१/२ ।। होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् । महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ।। ९३१/२ ।। गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् । जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ।। ९४१/२ ।। कुंकुमारोचनाश्चैव कार्पास फल गुग्गुलुः । वेणुनाभेदनं सद्यो भवेदेव न संशयः ।। ९५१/२ ।। निम्बपुष्पं तथाब्रीहिं निंबतैलसमायुतम् । अर्कक्षीर समायुक्तं होमयेदपिपारतम् ।। ९६१/२ ।। राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः । घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ।। ९७१/२ ।। दुकूल चरुलाजांश्च मधुत्रय समन्वितान् । औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ।। ९८१/२ ।। जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् । अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ।। ९९१/२ ।। मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् । विषमज्वर नाशाय चूतपत्राणि होमयेत् ।। १००१/२ ।। घृतेन सहसार्द्राणि प्लुतमृत्युंजिता तथा यथा । सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ।। १०११/२ ।। वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये । पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ।। १०२१/२ ।। सहस्रमयुतं वाथ लक्षन्तत्रिगुणंन्तु वा !! ।। १०३ ।। इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः त्रयस्त्रिंशतितमः पटलः ।। रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टक समोपेतं उर्ध्वकेशं सुदंष्ट्रिणम् ।। स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् । किंकिणीमालया भ्राजात् पादनुपूरसंयुतम् ।। सप्तायुध समायुक्तं सर्वाभरण भूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम् मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम् पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम् शूलमूलं च वेतालं खङ्गं हमरुगं शुभम् दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् । घण्टां खेटं कपालं च शत्रुसक्षय संमुखम् अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रं अर्चयेत् ।। तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् । व्यालबद्धजटाचूटः कपालदलमण्डितः ।। सुरपिंगेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः । चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ।। माकायो माहदंष्ट्री किंकिणीरवसंयुतः । महाशूलाग्रसंप्रोत महासुर विनाशनः ।। खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् । वराभयकपालाहि पाश प्रासगदाकरः ।। दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ।। अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ।। सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ।। व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः । त्रिशूलं चाभयं (डमरुं) चोर्ध्वे सुधाकलशमध्ययोः ।। दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे । आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् । वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ।। कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् । भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ।। ३४. चतुस्त्रिंशत्तमे पटले संप्रोक्षण विधिः । संप्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् । आवर्तंचेत्यनावर्तं पुनरावर्तनन्तथा ।। १ ।। ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् । मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ।। २ ।। तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते । पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ।। ३ ।। मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि । लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ।। ४ ।। मूलास्यात्समादाय स्थाप्य बालालये पुनः । तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ।। ५ ।। प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः । स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ।। ६ ।। चर्मच्छेदेऽहीने च भूषणादि विहीनके । अम्बुजासनहीने च स्थलकर्मविहीनके ।। ७ ।। विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते । यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ।। ८ ।। आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् । लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ।। ९ ।। न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः । कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ।। १० ।। आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् । लक्षणोद्धारणं तोयाधिवासः शयनं तथा ।। ११ ।। अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह । सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ।। १२ ।। ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम् । रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ।। १३ ।। शययाधिवासनं विप्रा विना व बेरकर्मणि । नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ।। १४ ।। प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् । स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ।। १५ ।। एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे संप्रोक्षण विधिः चतुर्स्त्रिंशतिमः पटलः ।। ३५. पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ।। १ ।। विष्ण्वंश समतुङ्गं च छाया दोष विवर्जितम्) । पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ।। २ ।। ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः । लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ।। ३ ।। सप्तविंशतिमानानि षड्विंशत्यंश मानकम् । लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ।। ४ ।। तदन्तरे तथा भक्ते सप्तविंशति मानकम् । लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ।। ५ ।। तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः । षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ।। ६ ।। हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः । लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ।। ७ ।। अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते । षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ।। ८ ।। एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् । विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ।। ९ ।। चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् । तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ।। १० ।। नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः । मानुषे पीठमानं स्यात्स्वयंभूतादिकेऽपि च ।। ११ ।। चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते । लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ।। १२ ।। विस्तारमध्यसप्तांशे मानं सप्तदशैव हि । मूलं प्रोक्त प्रमाणां च संग्राह्यं द्विजसत्तमाः ।। १३ ।। विस्तारार्धसमंतुङ्गं समं वाधाधिकं तु वा । प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ।। १४ ।। स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः । पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ।। १५ ।। वेदाश्रमं वर्तुलं वाथ संमतं पीठ रूपकम् । लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ।। १६ ।। बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा । कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ।। १७ ।। मानं सप्तदशाख्यातं समाश्रं वायतं तु वा । द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ।। १८ ।। पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते । विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ।। १९ ।। विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः । पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ।। २० ।। वसुधाभाजितेमध्ये नवमानमिति स्मृतम् । बिंबोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ।। २१ ।। बेरायामाष्टभागैकमपरं परिकीर्तितम् । अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ।। २२ ।। स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः । द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ।। २३ ।। आसने पद्मविस्तारस्त्रयोविंशति मात्रतः । अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ।। २४ ।। त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते । द्वादशांश विहीनेऽथ मध्ये षोडशधाकृते ।। २५ ।। विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः । विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ।। २६ ।। वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् । त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ।। २७ ।। एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् । शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ।। २८ ।। चतुरष्टदलोपेतं विकारार्क दलं तु वा । विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ।। २९ ।। अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् । त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ।। ३० ।। विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा । संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ।। ३१ ।। सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् । एकपीठमनेकेषां यदि शोभावशान्नयेत् ।। ३२ ।। वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा । पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ।। ३३ ।। अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने । षोडशांशे तु मानेन पादुकं परिकीर्तितम् ।। ३४ ।। वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् । वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ।। ३५ ।। षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ।। ३६ ।। वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ।। ३७ ।। एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। ३८ ।। कर्णस्त्वेकेनकंपः स्याद् भूतांशैरूर्ध्वपङ्कजम् । द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ।। ३९ ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४० ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४१ ।। व्योमांश मूर्ध्वकंपं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ।। ४२ ।। द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका । शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ।। ४३ ।। पञ्चविंशति भागेतु व्योमांश पादुकं भवेत् । पद्ममेकेन भागे तु व्योमांश पादुकं भवेत् ।। ४४ ।। जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः । गलमर्धंत्रिभागेन पद्मं द्वयंशेन वृत्तकम् ।। ४५ ।। कुमुदं पद्मभागेन वाजनं व्योम भागतः । भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ।। ४६ ।। कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् । एकेनकंपमर्धेन घृतवार्यभिधीयते ।। ४७ ।। पीठं शांभवमाख्यातमन्यथान्यद्विधीयते । एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ।। ४८ ।। भागेन पादुकं वेद भागेन जगतीमता । एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ।। ४९ ।। कुमुदं पद्मंशेन वाजननत्वेक भागतः । कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ।। ५० ।। द्विभागानु महापट्टी पद्मंशेन भागतः । कंपस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ।। ५१ ।। अष्टादश विभागेतु व्योमांशं पादुकं भवेत् । अद्ध्यर्धं पद्ममित्युक्तं कंपमेकांशतो भवेत् ।। ५२ ।। जगतीवेद भागेन गुणांशः कुमुदं भवेत् । कंपमेकेन कर्णस्यात् द्विभागं कंपमेकतः ।। ५३ ।। महापट्टी द्विभागेन वाजनञ्चैक भागतः । अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ।। ५४ ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंश मिमंबंध भागेन जगती भवेत् ।। ५५ ।। भागाभ्यां पंकजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पंकजम् । कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ।। ५६ ।। कंपंकर्णस्तु चार्द्धेनार्धेनकंपञ्चवारिजम् । भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ।। ५७ ।। घृतवारिसमाख्यातं संपत्करमिहोदितम् । रुद्रभागेतु तत्तुंगे व्योमांशं पादुकं भवेत् ।। ५८ ।। गुणांशं जगतीकंप मेकं कर्णोद्विभागतः । एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ।। ५९ ।। घृतवार्येकभागेन नन्दिकावृत्तमीरितम् । तिथ्यशं विभजेत्तुंग मद्ध्यर्धं पादुकं भवेत् ।। ६० ।। अर्द्धेन कंपपद्मं स्यात् गुणांशं गलमर्द्धतः । पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ।। ६१ ।। अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका । अर्द्धांश घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ।। ६२ ।। तुंगाष्टदशभागेतु द्विपादं पादुकं भवेत् । पंकजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। ६३ ।। षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ।। ६४ ।। घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् । कलांशं विभजेत्तुंगं व्योभागेन पादुका ।। ६५ ।। द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् । भागेन कंपं स्यात् द्विभागेन द्विभागतः ।। ६६ ।। महापट्यंश मानैक घृतवायूर्ध्वतो भवेत् । स्थंण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ।। ६७ ।। त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् । व्योमांशं कंपमित्युक्तं द्विभागं पद्ममुच्यते ।। ६८ ।। भागेन कंपमित्युक्तं शेषं पूर्ववदेवहि । एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ।। ६९ ।। कंपमंशेन भागेन पुनः कंपं द्विभागतः । पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ।। ७० ।। स्वायंभुवमिदं प्रोक्तमधिष्ठानानियानि च । उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ।। ७१ ।। घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः । द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ।। ७२ ।। महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् । घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ।। ७३ ।। अधिष्टानेक तोपेत मथवा परिकल्पयेत् । कर्णमानञ्च संग्राह्य कंपादौ विनियोजयेत् ।। ७४ ।। तन्मान मथकर्णेतु यावदेक यवेन च । वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ।। ७५ ।। सर्वेष्वंगेषु पीठानां सकले निष्कलेपि च । चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ।। ७६ ।। शलेदारुमये वापि मृण्मयेन्य मयेपिवा । निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ।। ७७ ।। पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः । तदर्द्धेणाग्र विस्तार स्सर्वलिंगेषु योग्यकः ।। ७८ ।। पीठार्द्धमानः पादोवा मध्यमे षोडशांशके । मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ।। ७९ ।। तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे । तथा विभक्ते संग्राह्य मानं सप्तदशैव च ।। ८० ।। प्रणालमूलदेशेतु गदग्रं तेन मानतः । त्रिपाद मर्द्ध पादोनं पञ्चत्रित्यत्रंश मेववा ।। ८१ ।। सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् । वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ।। ८२ ।। मूलकंपं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि । तदूर्ध्वेकंपमेकद्वि व्योमभागैस्तथा क्रमात् ।। ८३ ।। प्रणालघनमानेतु तन्मान मधुनोच्यते । कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ।। ८४ ।। त्रिसप्तमानं वेदांशा देकभागविवृद्धितः । दशभागावसानन्तु पीठनाल घनं तुवा ।। ८५ ।। समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् । अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ।। ८६ ।। तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् । अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ।। ८७ ।। खण्डंत्वंगावसानं स्यादूर्ध्व खण्डमखण्डजम् । प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ।। ८८ ।। नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः । सकलानामनालं स्यात् सनालमथपीठकम् ।। ८९ ।। घृतवारिविहीनं वा सहितं वा प्रकल्प्यते । बाणलिंगादि लिंगानां चतुरश्राय ताश्रकम् ।। ९० ।। कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् । पीठलग्नां प्रभां कुर्यात् भिन्नां वा भिन्नयोगिकाम् ।। ९१ ।। नाना वाजन पीठं संयुक्तां मुक्तादामावलि क्रियाम् । नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ।। ९२ ।। सर्वालंकारसंयुक्तामिष्टास्य घन संयुताम् । सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ।। ९३ ।। बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् । एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ।। ९४ ।। पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः । तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ।। ९५ ।। योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति । आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ।। ९६ ।। द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः । तथैव च पुनः कुर्यादन्यथा दोषकारकम् ।। ९७ ।। मानवे पीठ संकल्पपिधानं परिकीर्तितम् । चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ।। ९८ ।। दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा । वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ।। ९९ ।। पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् । लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ।। १०० ।। कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् । अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ।। १०१ ।। हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् । प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ।। १०२ ।। तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना । कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।। १०३ ।। योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च । तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ।। १०४ ।। एवं निष्पाद्य सर्वंतु पश्चात् कर्मसमारभेत् । विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ।। १०५ ।। शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् । लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुंभस्यवर्धनीम् ।। १०६ ।। मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा । ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ।। १०७ ।। गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् । पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ।। १०८ ।। आवाह्यलिङ्गं लिङ्गस्य शिवकुंभगतं न्यसेत् । पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ।। १०९ ।। विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् । नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ।। ११० ।। सहस्रसंख्यं मूलेन समिदाज्यन्नलाजकैः । तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ।। १११ ।। प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् । अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ।। ११२ ।। नित्यपूजा प्रकर्तव्या लिङ्गे कुंभे च नित्यशः । टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ।। ११३ ।। अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् । शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ।। ११४ ।। ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते । शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ।। ११५ ।। कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे । प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ।। ११६ ।। वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे । स्थण्डिलंकल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ।। ११७ ।। गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् । मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ।। ११८ ।। ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते । सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ।। ११९ ।। धान्यराशिंसवत्सांगांकन्यां हृदय मन्त्रतः । प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ।। १२० ।। प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् । प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ।। १२१ ।। स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् । कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ।। १२२ ।। देवीञ्चकलशानिष्ट्वा लंबकूर्च समन्विताम् । नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ।। १२३ ।। स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् । पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ।। १२४ ।। पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् । सवितानध्वजं दर्भमुक्ता पुष्पजमालया ।। १२५ ।। सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् । सर्वलक्षणसंपन्नं सुविसर्जित तक्षकम् ।। १२६ ।। ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् । पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ।। १२७ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् । प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ।। १२८ ।। मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु । गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ।। १२९ ।। कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः । कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ।। १३० ।। आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् । मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ।। १३१ ।। कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् । आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ।। १३२ ।। कृत्वा कौतुकबन्धंतु तन्नाले तद्गलेऽपि वा । शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ।। १३३ ।। तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् । दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ।। १३४ ।। ततश्शययां च संक्ल्प्य तदलाभेऽम्बरैर्नयेत् । आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद् धृदा ।। १३५ ।। आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् । सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ।। १३६ ।। सहैमपंकजं कूर्चफलपल्लव वस्त्रकम् । तन्मध्ये सासनां देवीमर्चयेद् गन्धसंमुखैः ।। १३७ ।। वर्धनीरष्ट संख्याताः कूर्चवस्त्रससूत्रकाः । सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ।। १३८ ।। वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् । गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ।। १३९ ।। तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् । कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ।। १४० ।। क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः । धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।। १४१ ।। धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु । पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ।। १४२ ।। लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् । चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ।। १४३ ।। समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः । पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ।। १४४ ।। शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः । पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ।। १४५ ।। सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा । देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ।। १४६ ।। शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् । तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ।। १४७ ।। प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् । भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ।। १४८ ।। अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः । ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ।। १४९ ।। कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः । द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ।। १५० ।। गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा । ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीमपि ।। १५१ ।। अग्नि होमैश्च संतर्प्य प्रायश्चित्तं विधाय च । दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ।। १५२ ।। सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् । धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ।। १५३ ।। लिङ्गसंस्ह्तापनप्रोक्तविधिना तांनिवेशयेत् । पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ।। १५४ ।। तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् । नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ।। १५५ ।। पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके । पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ।। १५६ ।। रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः । सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ।। १५७ ।। अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् । पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ।। १५८ ।। प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् । पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ।। १५९ ।। लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् । वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ।। १६० ।। देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे । संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतं ।। १६१ ।। वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् । जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ।। १६२ ।। लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः । स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ।। १६३ ।। केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।। १६४ ।। तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा । लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ।। १६५ ।। चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः । विशेषपूजा कर्तव्या होमेन च समन्विता ।। १६६ ।। पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् । चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ।। १६७ ।। बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् । पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ।। १६८ ।। समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ।। १६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः पटलः ।। अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके षोडशांशे तु मानेन पादुकं परिकीर्तितम् वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत् वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते । अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः घृतवार्यंशमानेन भद्रपीठमिदं मतम् । षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ।। वेदांशं ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम् एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् । द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ।। षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् । जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका । शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ।। पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत् पद्मं एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् कुमुदं पद्मं एकेन वाजनं व्योमभागतः भागाभ्यां कर्णं इति उक्तस्स्यात् एकेनैव वाजनम् कञ्चं एकेन भागाभ्यां महावाजनं ईरितम् एकेन कम्पमर्धेन घृतवार्यभिधीयते पीठं शाम्भवमाख्यातं अन्यथान्यद्विधीयते एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च भागेन पादुकं वेदभागेन जगती मता एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः कुमुदं पद्ममंशेन वाजनं एक भागतः कर्णो द्विभागो भागेन वाजनं पद्ममंशतः द्विभागा तु महापट्टी पद्ममंशेन भागतः कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् अष्टादश विभागे तु व्योमांशे पादुकं भवेत् । अध्यर्धं पद्मं इति उक्तं कम्पं एकांशतो भवेत् ।। जगती वेद भागेन गुणाशः कुमुदो भवेत् । कम्पं एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ।। महापट्टी द्विभागेन वाजनं च एक भागतः अर्धेन घृतवार्युक्तं उमा पीठमिदं मतम् ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंशमितं बन्धभागेन जगती भवेत् ।। भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् । कुमुदं स्यात् द्विभागेन पद्मं अर्धेन च अर्धतः कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम् भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि घृतवारि समाख्यातं सम्पत्करं इहोदितम् रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् । गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ।। एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः । घृतवार्येक भागेन नन्दिकावृत मीरितम् ।। तिथ्यंशं विभजेत्तुङ्गं अध्यर्धं पादुकं भवेत् । अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः पद्मं अंशेन भागाभ्यां कुमुदं पद्मं अंशतः अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् । पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनं इष्यते ।। घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ।। कलांशं विभजेत्तुगं व्योम भागेन पादुकम् । द्वाभ्यां पद्ममथैकेन कम्पंपड् भागतो गलम् ।। भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः । महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ।। त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् । योमांशं कम्पमित्युक्तं द्विभागं पद्मं उच्यते ।। भागेन कम्पं इत्युक्तं कम्पं षड् भागतो गलम् । भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।। महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् । कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।। पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् । स्वायंभुवं इदं प्रोक्तं अधिष्ठानानियानि च ।। उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः ३६. षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् । बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ।। १ ।। प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च । दत्तवाल्लिंगकोटीनां चतुर्दशाः महेश्वरः ।। २ ।। तानि संपूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् । लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ।। ३ ।। कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे । अन्यत्र च नदीमध्ये पर्वते च विशेषतः ।। ४ ।। माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् । पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ।। ५ ।। विस्तार नाहमानं तु बाणलिंगस्य नेष्यते । रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ।। ६ ।। सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते । स्नपने यजने धूपे गन्धपुष्प निवेदने ।। ७ ।। अन्य कर्मणि विप्रेन्द्राः स्वायंभूतादिके तथा । प्रासाद पीठिकादीनां नियमो न च नेष्यते ।। ८ ।। ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा । विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ।। ९ ।। शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् । एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ।। १० ।। लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा । विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ।। ११ ।। यथाभिमतमानं वा खामानमुदाहृतम् । सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ।। १२ ।। यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् । पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ।। १३ ।। उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा । स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ।। १४ ।। रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् । सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ।। १५ ।। रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् । सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ।। १६ ।। शैललिंग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः । चललिंग प्रतिष्ठायां प्रतिमादौ च मध्यमः ।। १७ ।। कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि । मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ।। १८ ।। तथैव बाणलिंगस्य किंतु कालोधमोथवा । विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ।। १९ ।। अंकुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् । रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ।। २० ।। पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् । लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ।। २१ ।। विधायलिंगशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः । जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ।। २२ ।। कुर्याल्लिंगाधि वासार्थं वेदिका सहितं यथा । वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ।। २३ ।। शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् । भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ।। २४ ।। स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् । जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ।। २५ ।। अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् । शययां मध्ये निवेश्याथ शिवकुंभं च वर्धनीम् ।। २६ ।। विद्येश कुंभ संयुक्तं ससूत्रं सापिधानक । सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ।। २७ ।। संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् । मूर्ति मूर्तिश्वरान्यस्त्वा संपाद्यैवं शिवानलम् ।। २८ ।। समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् । जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ।। २९ ।। मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः । तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ।। ३० ।। वस्त्रेणाच्छाद्य लिंगन्तु नैवेद्यं च निवेदयेत् । प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ।। ३१ ।। लिंगमग्नि मघोरेण जुहुयाच्चत संख्यया । संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ।। ३२ ।। मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् । एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ।। ३३ ।। संकल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् । तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ।। ३४ ।। स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् । यदनुक्तं भवेदत्र लिंग स्थापन वन्नयेत् ।। ३५ ।। चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते । प्रत्यहं पूजयेद्देवं अर्चनोक्त विद्यानतः ।। ३६ ।। शिष्टलिंगे गतिर्नास्ति समान्यस्य गतिं क्षणात् । जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ।। ३७ ।। सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् । कुंभे वा स्थण्डिले वापि मण्डले पीठकादिके ।। ३८ ।। पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके । संपूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ।। ३९ ।। अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः । पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ।। ४० ।। अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् । आदावन्ते च वा होमं प्रत्यहं होममेव वा ।। ४१ ।। तत्र संप्रोक्षणं नेष्टं तदर्धं होममेव वा । लिंगाग्रे स्थण्डिलं तत्र कुंभसंस्थापणं नुहि ।। ४२ ।। कुंभेत्वावाहनं तस्मात् कुंभमन्त्रान्निवेशयेत् । नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ।। ४३ ।। तत्कुंभोदैरपि स्नानं केवलं प्रोक्षणं तु वा । क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ।। ४४ ।। एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि । स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ।। ४५ ।। क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् । होमाद्यमपि नेष्टं स्यात् कर्तुं लिंगं समर्चयेत् ।। ४६ ।। गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् । मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ।। ४७ ।। पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः । तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ।। ४८ ।। शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् । अस्त्रांबु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ।। ४९ ।। बहु दैवसिकं स्नानं (भंगश्चेत्) स्नपनं महत् । महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ।। ५० ।। ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। ५१ ।। प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् । स्वायंभुवादि लिंगाना मेतत् सामान्यमीरितम् ।। ५२ ।। शिल्प्यपेक्षमिदं कर्म कुर्यात्संप्रोक्षणान्वितम् । अन्यत् सर्व समानं स्यात् कर्मसामान्यलिंगकः ।। ५३ ।। स्वायंभुवादि लिंगानां नेष्यतां मनु संकरः । अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ।। ५४ ।। स्वर्णादि लोहजेवापि तत् संभूतेति कीर्तितः । चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ।। ५५ ।। चलञ्च द्विविधं प्रोक्तं अङ्गं प्राधानिकं त्विति । चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ।। ५६ ।। पूजितं त्वंगमित्युक्त मन्यत् प्राधानिकम्मतम् । अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ।। ५७ ।। नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् । अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।। ५८ ।। त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ।। ५८१/२ ।। इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः षट्त्रि.शत्तमः पटलः ।। ३७. सप्तत्रिंशत्तमे पटले काम्यलिंग प्रतिष्ठा विधिः काम्यलिंग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् । काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ।। १ ।। कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ।। २ ।। फलं दृष्टमदृष्टं च द्विधं तत्परापरम् । कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ।। ३ ।। उत्तमं खेचरत्वं च श्रेष्ठं देव समानता । भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ।। ४ ।। विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् । इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ।। ५ ।। सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च । इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुंगवाः ।। ६ ।। गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् । अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ।। ७ ।। दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते । देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ।। ८ ।। मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् । अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ।। ९ ।। न सिद्धिर्न च मुक्तिश्च लिंगाश्रयणमन्तरा । शिवलिंग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ।। १० ।। एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् । भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ।। ११ ।। रत्नलिंग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः । तस्मालिंगाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ।। १२ ।। विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः । विधिवल्लिंगमाराध्य फलमिष्टतमं गताः ।। १३ ।। स्वायंभुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः । सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ।। १४ ।। स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् । यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ।। १५ ।। तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा । स्वयंन कर्तु मशक्तानां वृपतीनां हिताय च ।। १६ ।। देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च । स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ।। १७ ।। लिंगार्थमाकरं यायात् स्वस्य कृत्यानु सारतः । शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ।। १८ ।। तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः । रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ।। १९ ।। श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा । चतुर्णामपि वर्णानां शिला धात्री च संमता ।। २० ।। एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः । एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ।। २१ ।। तत्तद्भूजनिता एव मृदो लिंगार्थमीरिताः । फलं लिंगानूरूपेण शिलानां समुदाहृतम् ।। २२ ।। पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि । श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ।। २३ ।। आयसं मारणे लिंगमुन्मादे सांस्यजं भवेत् । उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ।। २४ ।। वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् । लोहलिंगं समाख्यातं रत्नलिंग मथोच्यते ।। २५ ।। वज्रलिंगं क्षितीशत्वे मौक्तमारोग्यदं भवेत् । इन्द्र नीलमयाल्लिंगात् सर्वान् कामान् समश्रुते ।। २६ ।। महान्नीलमयाल्लिंगात् वैणवं पदमाप्नुयात् । वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ।। २७ ।। आरोग्यतं मरकतं प्रवालं च वशीकरम् । राजावर्तमयाल्लिंगात् महाभोगं समश्रुते ।। २८ ।। नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् । शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ।। २९ ।। सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् । चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ।। ३० ।। स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये । वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ।। ३१ ।। क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् । गुणादष्टफल प्रोक्तं परासु मणिजातिषु ।। ३२ ।। इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना । सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ।। ३३ ।। साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् । रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ।। ३४ ।। सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे । यद्वा साधक नक्षत्र वशाल्लिंग तु दारुजम् ।। ३५ ।। कारस्करं चामलकंतथोदुम्बर जम्बुकौ । खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ।। ३६ ।। पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा । अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ।। ३७ ।। पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा । आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ।। ३८ ।। मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः । एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ।। ३९ ।। विधाय लिंगं कर्तव्यं साध्यर्क्षे मारणादिकम् । श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ।। ४० ।। चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् । सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ।। ४१ ।। साप्तपर्णं च सालोत्थं राजादन समुद्भवम् । विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ।। ४२ ।। उदुंबर मयं पुष्ट्यै शान्त्यै न्यग्रोध संभवम् । वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ।। ४३ ।। लिंगं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः । दारुजं लिंगमाख्यातं क्षणिकं लिङ्गमुच्यते ।। ४४ ।। संकेतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् । अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ।। ४५ ।। गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये । घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ।। ४६ ।। ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् । विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ।। ४७ ।। स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् । बिल्वादि पत्रजं लिंगं यत्तत्पुत्र विवर्धनम् ।। ४८ ।। तद्बीज जनितं लिंगं विशेषात् तृप्तिकारणम् । धान्य तण्डुलजं लिंगं तत्तद्द्रव्य फलप्रदम् ।। ४९ ।। कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् । रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ।। ५० ।। जलेन रचितं लिंगं प्राणिनां शान्तिपुष्टितम् । लिंगं यच्चित्रितं सद्यो विचित्रफल दायकम् ।। ५१ ।। कर्पूर चन्दनाद्यैस्तु लिंगं यत्तज्जरापहत् । द्रव्याणि कथितान्येवं लक्षणं च विधीयते ।। ५२ ।। प्रासाद गर्भमानेन लिंगं ज्येष्ठादि भेदतः । मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ।। ५३ ।। हस्तादि लिंगमानानि यानि तानि विमुक्तये । भुक्तये चानु षड्गेण भवन्ति विधियोगतः ।। ५४ ।। गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् । तदन्तरेऽष्टभागे तु नव लिंगानि सन्ति हि ।। ५५ ।। तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि । षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ।। ५६ ।। प्रासादे वा ततो वह्नि वेदग्रह विभाजिते । द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ।। ५७ ।। पूर्ववच्च प्रमाणानि लिंगानां विहितानि तु । एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ।। ५८ ।। अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः । एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ।। ५९ ।। नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् । हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ।। ६० ।। पादोनं दारुजं लोहमस्यार्धेनैव संमतम् । अङ्गुलादि वितस्त्यन्तं रत्नलिंगं द्विजोत्तमाः ।। ६१ ।। आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः । हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ।। ६२ ।। लिंगायामैक भागे तु वेद भागेन विस्तरः । खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ।। ६३ ।। चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् । अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ।। ६४ ।। पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिंगं वज्रशिरो यथा । वज्रकार्यं समायोज्य स्तंभादि परिकीर्तितम् ।। ६५ ।। लिंगोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् । वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ।। ६६ ।। आग्नेय पीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये । लिंगं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ।। ६७ ।। शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः । तापदाहं रिपोः कुर्याल्लिंगमाग्नेयकं द्विजाः ।। ६८ ।। नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः । प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ।। ६९ ।। याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके । लिंगं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ।। ७० ।। गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् । रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ।। ७१ ।। मारीं च भेदनं रोगं विधत्ते नात्र संशयः । दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ।। ७२ ।। अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः । स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ।। ७३ ।। खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् । अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ।। ७४ ।। तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् । कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ।। ७५ ।। उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् । चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ।। ७६ ।। वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् । पाशमस्तक युक्तं तत् पाशकाय विधानतः ।। ७७ ।। प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् । व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ।। ७८ ।। गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे । नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ।। ७९ ।। तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य माप्नुयात् ।। ८० ।। लिंगं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः । तेन लिंगेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ।। ८१ ।। भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः । पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ।। ८२ ।। यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् । गदा मस्तक लिंगं तु गदाङ्के स्थाप्य देशिकः ।। ८३ ।। जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् । जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ।। ८४ ।। लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् । दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ।। ८५ ।। एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् । अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ।। ८६ ।। कुक्कुटाण्ड शिरोयुक्तं लिंगमैशान्य पीठके । स्थापयित्वा स्वदिक् साम्यं लिंगं शूलशिरोयुतम् ।। ८७ ।। शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् । ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ।। ८८ ।। शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् । उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ।। ८९ ।। वस्वश्रं पूर्ववद्वृत्तं लिंगं छत्रशिरोयुतम् । ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ।। ९० ।। तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् । खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ।। ९१ ।। गायग्र्यंशे तु लिंगोच्चे शरांशैश्चतुरश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ।। ९२ ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् । चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ।। ९३ ।। व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् । लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ।। ९४ ।। तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते । सिद्धिलिंगमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ।। ९५ ।। आप्यादि देवलिंगेषु लोकपालार्चितेषु वा । सहस्र लिंगं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ।। ९६ ।। सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् । अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ।। ९७ ।। अष्टोत्तरशतं लिंगं सूत्रैर्विषययोजितैः । आढ्यादि लिंगान्युत्सेधैः समखण्डानि कल्पयेत् ।। ९८ ।। छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि । धारालिंगं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ।। ९९ ।। साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता । मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ।। १०० ।। आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् । मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ।। १०१ ।। आसुरं पौरुषं चैव सादेशैशान भैरवम् । देवत्वं देवराजत्वं सर्वकामफलं च यत् ।। १०२ ।। रुद्रत्वं च फलान्येषु लिंगेष्वेकाश्रकादिषु । एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ।। १०३ ।। लिंगानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च । अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ।। १०४ ।। भवन्ति पुण्डरीकादि शिरांसि फलभेदः । पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ।। १०५ ।। प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् । कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ।। १०६ ।। प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः । तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ।। १०७ ।। सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् । षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ।। १०८ ।। साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः । साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ।। १०९ ।। प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् । छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ।। ११० ।। अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् । त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ।। १११ ।। दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् । खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ।। ११२ ।। पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः । ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ।। ११३ ।। वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे । शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ।। ११४ ।। अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् । लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ।। ११५ ।। कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि । वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।। ११६ ।। गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् । ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ।। ११७ ।। तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः । लिंगाशे नवधा भक्ते नवांश कृत लक्ष्मकम् ।। ११८ ।। स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च । द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ।। ११९ ।। तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् । ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ।। १२० ।। पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः । षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ।। १२१ ।। हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् । नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ।। १२२ ।। अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् । कथितं हि तथापीह त्रिभागे रसभागके ।। १२३ ।। यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् । वेध दोष निवृत्यर्थं एवं लक्ष्म प्रकल्पयेत् ।। १२४ ।। गायत्र्यंशे तु लिंगोच्चे लक्ष्मविस्तृतिरंशतः । शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ।। १२५ ।। तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् । शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ।। १२६ ।। याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् । नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ।। १२७ ।। शूलाश्रमैश्वरं लिंगं वायव्यां ध्वजमस्तकम् । सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ।। १२८ ।। लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् । स्तंभनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ।। १२९ ।। अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् । मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ।। १३० ।। स्वतेजोलक्षणं लोहे बाणलिंगे तथैव च । लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ।। १३१ ।। शुभलक्षण लक्ष्मं चेत् लिंग सर्वार्थ सिद्धिदम् । पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ।। १३२ ।। लिंगायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् । ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ।। १३३ ।। वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च । प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ।। १३४ ।। ऐन्द्रयादि संज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः । वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ।। १३५ ।। पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् । वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ।। १३६ ।। निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् । सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ।। १३७ ।। ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् । योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ।। १३८ ।। पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् । पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ।। १३९ ।। तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः । पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ।। १४० ।। याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका । राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ।। १४१ ।। पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् । तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ।। १४२ ।। चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् । कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ।। १४३ ।। तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते । इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ।। १४४ ।। पाज्जगती कुंभवेत्रास्युः कण्ठश्चैकैक वेशतः । निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ।। १४५ ।। आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् । षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ।। १४६ ।। तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् । ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ।। १४७ ।। चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् । तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ।। १४८ ।। संस्थान वर्तनाकारैः वा राक्षसं मतम् । तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ।। १४९ ।। पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः । कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ।। १५० ।। तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः । आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ।। १५१ ।। याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला । षण्मेखला च वायव्या वारुणी पञ्चमेखला ।। १५२ ।। विष्ण्वंश षोडशोत्सेधः पुण्डिकापीठविस्तरः । शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ।। १५३ ।। वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका । पीठं सहस्रलिंगस्य सालङ्कारयुगाश्रयुक् ।। १५४ ।। आश्मेऽश्मसंभवा पिण्डी पार्थिवे पार्थिवी तथा । दारुजे दारुजा पिण्डी धातुजे धातु संभवा ।। १५५ ।। रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् । उच्छ्रयं चललिंगानां पूजांशाद् द्विगुणं भवेत् ।। १५६ ।। लिंगायामे भवेत्पिण्डी लिंगं च परितो यथा । कृशुषु वर्धयेद्द्रुद्रं स्थूललिंगेषु ह्रासयेत् ।। १५७ ।। ह्रासयेद्वर्धयेदंश मच्युतस्य हि न च्युतिः । पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ।। १५८ ।। चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् । मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ।। १५९ ।। पिण्डिका सहितोत्सेधं लिंगनाहसमं भवेत् । सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ।। १६० ।। समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् । मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ।। १६१ ।। साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा । गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ।। १६२ ।। मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् । अन्यद्वापि भवेल्लिंगं नदी प्रस्रवणोद्भवम् ।। १६३ ।। लिंगाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् । हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ।। १६४ ।। रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः । पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ।। १६५ ।। उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने । स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ।। १६६ ।। अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते । समलिंगे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ।। १६७ ।। कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। १६८ ।। पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् । द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ।। १६९ ।। चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ।। १७० ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा । भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ।। १७१ ।। भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् । व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ।। १७२ ।। बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् । पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ।। १७३ ।। वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् । देह पञ्चक संयुक्तं चरमद्वय संयुतम् ।। १७४ ।। तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् । जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ।। १७५ ।। दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् । दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ।। १७६ ।। व्यालबद्धजटाचूडं कपालदलमण्डितम् । तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ।। १७७ ।। उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् । भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ।। १७८ ।। दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् । बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ।। १७९ ।। वराभय करोपेतं ध्यानासक्तमिव स्थितम् । पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ।। १८० ।। ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ । इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ।। १८१ ।। कलावत्सरदेशीयं दिव्याभरणभूषितम् । सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ।। १८२ ।। ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् । भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ।। १८३ ।। संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् । कुर्यादीशान देहं तु दशतालोत्तमेन तु ।। १८४ ।। पुरुष प्रमुखान्देहानीश देहार्धमानतः । कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ।। १८५ ।। पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् । कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ।। १८६ ।। ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् । कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ।। १८७ ।। जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् । व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ।। १८८ ।। नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् । श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ।। १८९ ।। त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् । जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ।। १९० ।। नानावर्णांवरैर्युक्तं वेणिकादिभिरलंकृतम् । ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ।। १९१ ।। किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् । वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ।। १९२ ।। पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः । त्रिशूलं नागहस्तं च परशुः पाश एव च ।। १९३ ।। गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः । नागैराभरणैर्युक्तं कुण्डलाभ्यामलंकृतम् ।। १९४ ।। सर्वलक्षण संयुक्तं पादनूपुर संयुतम् । गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ।। १९५ ।। एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते । नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ।। १९६ ।। नाना विधायुधोपेत नवद्वय करोथवा । दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ।। १९७ ।। कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः । इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ।। १९८ ।। टङ्क विहाय शूलं वा डमरुं वापरे करे । अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल संज्ञितः ।। १९९ ।। त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः । वराभय करोपेता रुद्रोयं वाम संज्ञककः ।। २०० ।। एष एव हि खट्वाङ्ग रहित श्शूल संयुतः । अघोर रुद्रनामायं भीमो भव विनाशनः ।। २०१ ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः । अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ।। २०२ ।। धनुर्बाण समोपेता मृगटङ्क समायुतङ्क । भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ।। २०३ ।। अथवा पादुके पद्मे भक्तानां शेखरेषु वा । वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ।। २०४ ।। एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः । त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ।। २०५ ।। वरदाभय वामतः पार्वतीयुतः । आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ।। २०६ ।। देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही । तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ।। २०७ ।। तस्या कट्याश्रियो वापि देवोयं सर्वकामदः । गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ।। २०८ ।। कपालशूल संयुक्तौ वरदाभयसंयुतौ । त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ।। २०९ ।। प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ । एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ।। २१० ।। भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ । कालान्तकादि संयुक्तौ भक्तानामथवोपरि ।। २११ ।। एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः । देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ।। २१२ ।। द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ । मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ।। २१३ ।। विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा । अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ।। २१४ ।। चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः । शूल पङ्कज युक्तो वा वरदाभय संयुतः ।। २१५ ।। कपालशूल संयुक्तो बद्धपद्मासने स्थितः । नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ।। २१६ ।। चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः । पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ।। २१७ ।। मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा । वरदाभय हस्तो वा शान्तरूपः स्मिताननः ।। २१८ ।। जटामकुट संयुक्तः स्थानकादि समन्वितः । रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ।। २१९ ।। शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः । कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ।। २२० ।। मृगंशूल समायुक्तश्चतुर्भुज समन्वितः । पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ।। २२१ ।। वरदा संयुक्तः स्थितः पद्मासनोपरी । भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ।। २२२ ।। कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः । वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ।। २२३ ।। अथवा मृगटङ्कायां वराभय करान्विताः । उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ।। २२४ ।। कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः । उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ।। २२५ ।। तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः । किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ।। २२६ ।। यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः । एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ।। २२७ ।। एतन्नामादि वर्णेन बिन्दु नाद युतेन तु । त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ।। २२८ ।। उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः । रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ।। २२९ ।। अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः । कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ।। २३० ।। शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया । तत्रैव कुण्ड संकॢप्तिर्नव पञ्चैक सख्यया ।। २३१ ।। तक्षद्वासनं विप्र भोजनं वास्तु होमकम् । पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ।। २३२ ।। कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा । कुंभादीनां सपर्या च नैवेद्यादि निवेदनम् ।। २३३ ।। तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः । होमं पलाशसद्बिल्व वटोदुंबर पिप्पलैः ।। २३४ ।। अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः । प्रधाने तु पलाशेन घृतेन चरुणातिलैः ।। २३५ ।। द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च । मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ।। २३६ ।। उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् । कर्तव्य स्सर्व कर्मापि लिंग संस्थापनं यदि ।। २३७ ।। मुखलिंगस्य वा विप्राः तदध्यायोक्तमार्गतः । कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ।। २३८ ।। एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा । लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ।। २३९ ।। स्वायंभुवादिकं लिंगं समाश्रित्य कदाचन । कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् । इति उत्तरकामिकाखे महातन्त्रे काम्यलिंगप्रतिष्ठा विधिः सप्तत्रिंशत्तमः पटलः ।। लिङ्गायामैक भागे तु वेद भागेन विस्तरः खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम् अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम् वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना आग्नेयपीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः तापदाहं रिपो कुर्यात् लिङ्गं आग्नेयकं द्विजाः नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात् याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम् गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः मारीं च भेदनं रोगं विधत्ते नात्र संशयः दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम् अरतिक्षय विद्वेषं कील भेदेन मोहनम् तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम् कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम् उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम् चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् पाशमस्तक युक्तं तत् पाशकाय विधानतः प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम् व्याधिहानिञ्च सौभाग्यं आप्नुयान्नात्रसंशयाः पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम् यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात् गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः जाम्बूनदसुखप्राप्तिमतीव बलदं मतम् जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम् उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम् ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात् गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये । तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात् लिंगं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् । भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ।। दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् । एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात् अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत शूलाख्यायां तु संस्थाप्य पृथिवीशत्वं आप्नुयात् ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम् तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् । खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ।। गायत्र्यंशे तु लिंगोच्चे शरांशैश्चतुश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् । चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ।। त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः । वराभय करोपेतः रुद्रोऽयं वाम संज्ञकः ।। एष एव हि खड्वाङ्गरहितश्शूलसंयुतः । अघोररुद्र नामायं भीमो भयविनाशनः ।। शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः । कपालशूल संयुक्तो बद्धपद्मासनस्थितः ।। मृगशूल समायुक्त श्चतुर्भुजसमन्वितः । पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ।। वरदाभयसंयुक्तः स्थितः पद्मासनोपरि भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः धनुर्बाण समोपेतो मृगटङ्ग समायुतः भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तं अथोच्यते । समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ।। कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। चतुर्णां चैव वक्त्राणां उर्ध्वे कुर्यात्तुपञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा ३८. अष्टत्रिंशत्तमे पटले आर्षलिंग प्रासाद विधिः लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते । आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ।। १ ।। स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा । विकांशं वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ।। २ ।। मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते । पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ।। ३ ।। तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा । विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ।। ४ ।। अर्धाधिकं तु वा सप्तभागाधिक मथापि वा । लिंग विस्तारमानेन त्रिगुणं पीठ मुच्यते ।। ५ ।। गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् । प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ।। ६ ।। लिंग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् । पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ।। ७ ।। सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते । द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ।। ८ ।। नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् । सार्ध द्वयांश कैकांश समं वा भित्ति विस्तरः ।। ९ ।। उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते । लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ।। १० ।। त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा । द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ।। ११ ।। पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् । तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ।। १२ ।। एकांशस्य विस्तार मन्यथा च प्रकथ्यते । लिंग द्विगुण विस्तार कर्णपीठ विशालकम् ।। १३ ।। नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके । एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ।। १४ ।। परिणाहे विकारांशे तच्चतुर्दश कर्णकम् । पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ।। १५ ।। तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः । विस्तार द्विगुणे कर्ण दशांशेंश विहीनकम् ।। १६ ।। पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् । तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ।। १७ ।। हीना हीनान्तरेऽष्टांश पीठे नालीगृहे तथा । भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ।। १८ ।। लिंगे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् । एवमेकतले प्रोक्तं द्वितलादिषु धामसु ।। १९ ।। साधारे वा निराधारे त्वलिन्दं भित्तिरेव च । प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ।। २० ।। इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिंग प्रासाद विधिः अष्टत्रिंशत्तमः पटलः ।। ३९. एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते । पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ।। १ ।। पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे । लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ।। २ ।। लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः । त्रिभागंनालि गेहस्य त्रिचतुर्भाग भागतः ।। ३ ।। भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् । लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ।। ४ ।। सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् । तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ।। ५ ।। नालीगृह विशालं स्यात् पीठ विस्तार मानतः । समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ।। ६ ।। उदयं प्राग्देव स्यादन्यथापि चकथ्यते । पूजांशद्विगुणं पीठमुदयं तु विशालतः ।। ७ ।। चतुष्पञ्चगुणं नाली गेहमत्र विधीयते । ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ।। ८ ।। लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये । एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ।। ९ ।। त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् । पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ।। १० ।। तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् । अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ।। ११ ।। उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु । तथा तदपि तद्ग्राम मानं पौराणपौरुषे ।। १२ ।। पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् । उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ।। १३ ।। स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे । मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ।। १४ ।। पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् । यदि तद्वाह्य भागं च युग्ममेव विधीयते ।। १५ ।। युग्मंचेद्युग्ममेवस्यात् संमिश्रं तेषु नेष्यते । त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ।। १६ ।। इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन चत्वारिंशत्तमः पटलः ।। ४०. चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते । स्वायं बाणलिंगं दैवीकं चार्षकं त्विति ।। १ ।। सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः । तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ।। २ ।। पूजांश मानतो नाहात् विस्तारादुच्छ्रयादपि । एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ।। ३ ।। तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ।। ४ ।। अष्टौ वा देवमानानि नवमानानि सुव्रताः । तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ।। ५ ।। प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः । पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ।। ६ ।। पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः । अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ।। ७ ।। गर्भगेहविशाले तु द्विभागादेकभागतः । षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ।। ८ ।। एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता । भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ।। ९ ।। लिंगात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये । एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ।। १० ।। पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे । अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगवशात् प्रासाद विधिः चत्वारिंशत्तमः पटलः ४१. एकचत्वारिंशत्तमे पटले सार्व देशिक लिंग प्रासाद विधिः सार्वदेशिक लिंगादेस्स्थापनं सम्यगुच्यते । प्रासाद स्याथ लिंगस्य पीठस्याश्मन एव वा ।। १ ।। सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः । सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ।। २ ।। विशेषाद्राजसे देशे राज्ञां विजयकारणम् । धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ।। ३ ।। अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा । नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ।। ४ ।। द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे । वराटं चैव सालिंगं सर्वत्रापि च संमतम् ।। ५ ।। नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि । वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ।। ६ ।। सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते । स्वायंभुवं च बाणं च दैविकं चार्षकं तथा ।। ७ ।। यथा विशिष्टं विप्रेन्द्राः दाहृतम् । मानुषे त्वेव लिंगादौ फल वैशिष्य मिष्यते ।। ८ ।। तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् । तन्त्र संकर दोषोऽपि मन्त्र संकर एव वा ।। ९ ।। आचार्य संकरो वापि देशसंकर एव वा । काल संकर दोषश्च युगसंकर एव वा ।। १० ।। अन्येषां संकरो वापि यतो नातो विशिष्यते । सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ।। ११ ।। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् । पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ।। १२ ।। सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये । तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ।। १३ ।। अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः । एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ।। १४ ।। आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः । विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ।। १५ ।। विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् । प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ।। १६ ।। गुणयेदिष्टमानं तु नवनागरसैः क्रमात् । रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ।। १७ ।। गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः । गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ।। १८ ।। भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् । नृप कर्तृ दिना द्वास्तु लिंगाद्युक्त दिनान्तकम् ।। १९ ।। गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् । तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ।। २० ।। मैत्रं परममैत्रं कलहः प्रथमक्रमे । द्वितीये संपदाद्यास्तु पूर्ववत्समुदाहृदम् ।। २१ ।। शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् । वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ।। २२ ।। शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् । वियोगाद्यशुभं योगं गणं चासुर मानुषम् ।। २३ ।। वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया । सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ।। २४ ।। तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् । रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ।। २५ ।। ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः । पृथ्व्याद्याः पञ्च संख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ।। २६ ।। चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः । षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ।। २७ ।। निषादो धैवतस्सप्त योनयस्तासु शस्यते । षड्जऽऽच वृषभो मध्ये भूतेषु पृथिवी जलम् ।। २८ ।। गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते । पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ।। २९ ।। वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः । निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ।। ३० ।। प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा । लिंग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ।। ३१ ।। किं तु लिंगे च बेरे च तुड्गे नैव निरीक्षयेत् । धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यंश द्रिभागिकम् ।। ३२ ।। षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः । चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ।। ३३ ।। अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते । नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ।। ३४ ।। मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च । त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ।। ३५ ।। षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा । चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ।। ३६ ।। अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् । चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ।। ३७ ।। पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः । भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ।। ३८ ।। तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः । सार्व देशिक लिंगानि कथ्यन्ते गर्भमानतः ।। ३९ ।। प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् । नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ।। ४० ।। तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः । तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ।। ४१ ।। विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् । एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ।। ४२ ।। मध्यमेष्ट विभागे तु नव लिंगादयस्तु वा । गर्भन्तु नवधा कृत्वा नवलिंगोच्छ्रयस्तु वा ।। ४३ ।। अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् । मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ।। ४४ ।। त्रयस्त्रिंशत्प्रमाणानि लिंगानां कथितानि च । अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ।। ४५ ।। गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४६ ।। लिंगायामे विकारांशे चतुर्भूतरसैर्हितम् । एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ।। ४७ ।। नवहस्त प्रमाणान्तं मानं स्याल्लिंग दर्ध्यके । एक विंशति भागेन गर्भगेहे विभाजिते ।। ४८ ।। त्रयोदशांशकं श्रेष्ठं दशांश मधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४९ ।। लिंगायामे विकारांशे चतुर्भूत रसैर्हितम् । सत्रिभागैश्शरैर्लिंग विस्ताराः परिकीर्तितः ।। ५० ।। गायत्र्यंशे तु लिंगोच्चे पञ्चभिर्वाथ विस्तरः । अथवाष्ट दशांशे च लिंगोच्चे पञ्चभागिके ।। ५१ ।। चतुर्भागोथवा लिंगविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ।। ५२ ।। विस्तारः कथितश्शास्त्रे लिंगानां मुनिपुंगवाः । द्वार स्तम्भादिभिश्चैव मानं लिंगे समूह्यताम् ।। ५३ ।। भागेन वाथ लिंगानि विभजेत्तानि चाङ्गुलैः । आयादि शुभसिद्ध्यर्थं अंशैर्वा विभजेद्यथा ।। ५४ ।। षोडशांशं समारभ्य चतुर्विंशति संयुतम् । शतांशं विभजेत्तत्र त्वेकांश योजयेद्गुरुः ।। ५५ ।। तैर्वा निरीक्षये ल्लिंगं बेराद्यायादिकं गुरुः । समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ।। ५६ ।। स्वस्तिकं च सहस्रख्यं धारालिंगमिति द्विजाः । इयत्तया समुद्देश क्रमेणैष विधीयते ।। ५७ ।। त्रिधा विभज्य लिंगोच्चं कुर्याद्भागत्रयं क्रमात् । तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ।। ५८ ।। पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः । पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ।। ५९ ।। चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः । भाग भाग विवृद्ध्या स्यात् तस्मात्तस्माद्धरीशयोः ।। ६० ।। वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् । अथवान्यप्रकारेण वर्धमानं विधीयते ।। ६१ ।। एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् । चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ।। ६२ ।। नवाङ्गुलं तु विज्ञेयं लिंगयोर्वसरन्ध्रयोः । एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ।। ६३ ।। ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः । सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ।। ६४ ।। चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् । एवं शिवाधिकं लिंगं ब्राह्माद्यादिष्वनुक्रमात् ।। ६५ ।। लिंगोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः । षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ।। ६६ ।। त्रैरशिकमिदं लिंगंशुद्राणां तत् प्रशस्यते । नवधा लिंगमानेन त्रिचतुर्भिरजादयः ।। ६७ ।। स्वस्तिकं लिंगमाख्यातमन्यथा च निगद्यते । त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ।। ६८ ।। ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् । त्रयस्त्रिंशत्कृते लिंगे स्वस्थिकं शूद्रयोग्यकम् ।। ६९ ।। सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् । मुख लिंगं च पूर्वोक्त विधिनात्रापि भाव्यते ।। ७० ।। शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् । लिंगानामधिकं दद्याच्छिरसो वर्तनांशकम् ।। ७१ ।। समस्तमथवा त्र्यंशमधिकं वर्तनांशतः । शिवलिंगप्रतिष्ठोक्तविधिना लक्षणं नयेत् ।। ७२ ।। यावल्लिंगस्य विस्तार स्तावत् पीठस्य विस्तृतिः । लिंगविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ।। ७३ ।। चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः । पूजांश द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ।। ७४ ।। तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा । नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ।। ७५ ।। तत्तदन्तर मानानि पीठानां कथितानि च । गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ।। ७६ ।। गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः । विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ।। ७७ ।। ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् । पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ।। ७८ ।। पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् । लिंग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ।। ७९ ।। चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् । तत्तदन्तर मानानि नवधापरिकल्पयेत् ।। ८० ।। लिंगायाम समं वापि लिंगनाहसमं तु वा । पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ।। ८१ ।। तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा । तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ।। ८२ ।। तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् । लिंग विष्कंभ मानं तु विकारांश समं भवेत् ।। ८३ ।। भागादेक विवृद्ध्या तु चतुर्भागावसानकम् । ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ।। ८४ ।। एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् । कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजांश दैर्घ्यकम् ।। ८५ ।। तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः । छायादोषो यथा नस्यात् लिंगपीठिकयोर्द्विजाः ।। ८६ ।। देशस्य देशनाथस्य कर्तुः कारयितुस्तथा । आवहेदुत्तमां सिद्धिं सर्व लिंगेष्वयं विधिः ।। ८७ ।। तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् । अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ।। ८८ ।। कल्पितं पीठमेवं वा पीठलिंगं तु मुक्तिदम् । सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ।। ८९ ।। शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने । गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ।। ९० ।। तत्संग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके । स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ।। ९१ ।। लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा । तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ।। ९२ ।। ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः । त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ।। ९३ ।। यदाकार विशिष्टं तद्रूपं तस्य तदेव हि । प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ।। ९४ ।। सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः । प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ।। ९५ ।। जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् । परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ।। ९६ ।। स्वायम्भुवादि लिंगानां दृश्यभागादधः स्थितम् । दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ।। ९७ ।। दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् । तस्मादधः स्थितं लिंगं मूलेनैव परीक्षयेत् ।। ९८ ।। अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः । सार्वदेशिकलिंगानामित्थं लक्षण मीरितम् ।। ९९ ।। प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ।। ९९१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिंग प्रासाद विधिः एक चत्वारिंशत्तमः पटलः ।। ४२. द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः । प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ।। १ ।। मण्डपाः परिवारा वा प्राकारा गोपुरादयः । यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ।। २ ।। यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे । तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ।। ३ ।। शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च । पश्चिमोत्तरपूर्वाशाश्शुभाशास्संप्रकीर्तिताः ।। ४ ।। कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् । तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ।। ५ ।। प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः । परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ।। ६ ।। नित्योत्सवादिकं तत्र विरोधाय न कल्पते । अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ।। ७ ।। नैव पाशुपतेनापि न महाव्रतिना क्वचित् । न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ।। ८ ।। अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः । प्रमादत्तैः कृते तच्च शैवं संपादयेत् क्षणात् ।। ९ ।। एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् । अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ।। १० ।। पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् । स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ।। ११ ।। सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च । कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ।। १२ ।। आद्येष्टकादिकं कर्म तावदस्य समाचरेत् । एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ।। १३ ।। प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते । मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ।। १४ ।। पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा । क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ।। १५ ।। तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा । पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ।। १६ ।। एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः । आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ।। १७ ।। संलब्धकामो देहान्ते शिवेन सह मोदते । एकाद्येकैकवृद्ध्या तु रुद्रसंख्यावसानकम् ।। १८ ।। अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् । शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ।। १९ ।। एवं यः कारयेत् कर्ता स एवाहं न संशयः ।। १९१/२ ।। इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः पटलः ।। ४३. त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ।। १ ।। बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ।। २ ।। अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ।। ३ ।। बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् । बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ।। ४ ।। अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकॢप्तलोचनम् ।। ५ ।। ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ।। ६ ।। एवं सदाशिवः कार्यो मनोन्मना समन्वितम् । इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।। ७ ।। वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् । तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ।। ८ ।। बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् । जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ।। ९ ।। मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसंख्यया । तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ।। १० ।। पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा । पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ।। ११ ।। वेद्यूर्ध्वे स्थण्डिलं शययाकॢप्तिं पूर्ववदाचरेत् । प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ।। १२ ।। शययायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ।। १३ ।। सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् । वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ।। १४ ।। परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् । तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् । यवा/लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ।। १६ ।। अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ।। १७ ।। प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः । प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ।। १८ ।। उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् । देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।। १९ ।। ततो महूर्ते संप्राप्ते कुम्भाद्बीजं पुरो न्यसेत् । कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ।। २० ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २१ ।। अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् । तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २२ ।। स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् । देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ।। २३ ।। अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् । नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ।। २४ ।। सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः । इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ।। २५ ।। इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः त्रिचत्वारिंशत्तमः पटलः ।। ४४. चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ।। १ ।। ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके । गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ।। २ ।। त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् । तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ।। ३ ।। वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा । वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ।। ४ ।। दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः । एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ।। ५ ।। द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः । चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ।। ६ ।। गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते । पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ।। ७ ।। सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ।। ८ ।। षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः । आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ।। ९ ।। एवं विंशति भागान्तं विस्तारे परिकल्पिते । तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ।। १० ।। द्वितलादितलेऽलिन्दान् भित्तिं च बहुसंख्यया । पादेन वार्धभागेन त्रिपादेन समन्ततः ।। ११ ।। सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् । हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ।। १२ ।। अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् । शालाकारम् सभाकारं प्रासादाकारमेव च ।। १३ ।। मस्तकस्थूपिसंख्या स्यादेकादेकाद शान्तिका । दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ।। १४ ।। शिवायतनदेवा वा गणपः षण्मुखोऽपि वा । सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ।। १५ ।। शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् । पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ।। १६ ।। उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् । कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ।। १७ ।। आयामो वाथ संग्राह्याः प्रतिमालक्षणोक्तितः । धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ।। १८ ।। रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते । हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ।। १९ ।। प्रासादभित्तिदेवानामशेषाणामपि प्रभोः । प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ।। २० ।। रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता । प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ।। २१ ।। वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः । श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ।। २२ ।। सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः । प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ।। २३ ।। धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः । अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ।। २४ ।। देहली पेषणी चुल्की खण्डनोलूखली तथा । मुसली मुद्गरी देवी वर्धमानी च वा मताः ।। २५ ।। चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः । वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ।। २६ ।। वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि । नै -ऋते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ।। २७ ।। इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि । निर्माल्यधारिणीं देवीमशनीमीशगोचरे ।। २८ ।। पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः । महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ।। २९ ।। देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः । पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ।। ३० ।। चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् । अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ।। ३१ ।। पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च । भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ।। ३२ ।। लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके । प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ।। ३३ ।। मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् । ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ।। ३४ ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करन्डमकुटान्विता ।। ३५ ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ।। ३६ ।। पद्महस्ताति शान्ता च सादेवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ।। ३७ ।। यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ।। ३८ ।। देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ।। ३९ ।। प्रलम्बवामपादा वा लम्बितापरपादिका । देवेन सहिता वापि केवला वा प्रकीर्तिता ।। ४० ।। श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ।। ४१ ।। नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले । गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ।। ४२ ।। तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् । तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ।। ४३ ।। सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते । जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ।। ४४ ।। द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् । तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ।। ४५ ।। कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् । नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ।। ४६ ।। पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् । प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ।। ४८ ।। जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् । पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ।। ४९ ।। दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि । स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ।। ५० ।। मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः । उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ।। ५१ ।। लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा । अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ।। ५२ ।। एवं देवी प्रकर्तव्या तस्याः संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ।। ५३ ।। मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ।। ५४ ।। नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते । कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ।। ५५ ।। सान्तरेफ महामाया बिन्दुनाद समन्विता । मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ।। ५६ ।। गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ । वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ।। ५७ ।। अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् । बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ।। ५८ ।। ऐंकारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् । मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ।। ५९ ।। एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः । एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ।। ६० ।। हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ । आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ।। ६१ ।। एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते । कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ।। ६२ ।। मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् । तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ।। ६३ ।। वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च । पुष्परागं च गोमेदं तथा मरकतं द्विजाः ।। ६४ ।। हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् । अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ।। ६५ ।। तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् । गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ।। ६६ ।। आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् । ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।। ६७ ।। परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् । प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ।। ६८ ।। योन्याभवनपञ्चैक ऋक् संख्याकुण्डकल्पनम् । तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ।। ६९ ।। तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् । पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ।। ७० ।। होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् । जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ।। ७१ ।। गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा । शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ।। ७२ ।। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् । देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ।। ७३ ।। लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् । परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ।। ७४ ।। वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च संमतान् । आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।। ७५ ।। मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः । क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ।। ७६ ।। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा । धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ।। ७७ ।। पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः । गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ।। ७८ ।। मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् । गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ।। ७९ ।। पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः । वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ।। ८० ।। संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः । समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।। ८१ ।। पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ।। ८२ ।। पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८३ ।। गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् । मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।। ८४ ।। मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् । सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ।। ८५ ।। शान्त्यंभः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् । दर्भैस्संस्पर्शनंचैव प्रतिभागं समाचरेत् ।। ८६ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उत्थाप्य देवीं कुंभांश्च प्राग्वद्वह्निं च तर्पयेत् ।। ८७ ।। दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः । मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।। ८८ ।। कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् । प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ।। ८९ ।। सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् । चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ।। ९० ।। देव्यग्रे तु घटान्न्यस्य कुंभाद्बीजं तुतद्धृदि । विन्यसेदनुकुंभेभ्यः पीठस्य परितो मनून् ।। ९१ ।। तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः । तत्तत्कुंभोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। ९२ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः । स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ।। ९३ ।। यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी । तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ।। ९४ ।। संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः । उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ।। ९५ ।। ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः । देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ।। ९६ ।। कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता । इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ।। ९७ ।। एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः । भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवंपदम् ।। ९८ ।। पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् । शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ।। ९९ ।। शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे । प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ।। १०० ।। प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः । सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ।। १०१ ।। द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः । द्वारस्य पार्श्वयोश्चैव शंख पद्मनिधी तथा ।। १०२ ।। द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ । चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ।। १०३ ।। सर्वाभरण संपन्नौ सर्वरत्न विभूषितौ । ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ।। १०४ ।। गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् । अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ।। १०५ ।। समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् । सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ।। १०६ ।। अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः । खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ।। १०७ ।। देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् । कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ।। १०८ ।। वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः । शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ।। १०९ ।। सुधासंप्लावनं चात्मावाहनं चामृति कृतम् । करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ।। ११० ।। अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् । पञ्चमूर्धास्ययुग्देव्याः पूजायां संप्रकल्पयेत् ।। १११ ।। एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् । शशिन्यादय एवोक्ताः केवलास्तु कला इति ।। ११२ ।। अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् । देवी स्कन्द गणेशादीन् सर्वान् संपूजयेत्तु वा ।। ११३ ।। सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् । हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ।। ११४ ।। ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् । स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ।। ११५ ।। गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा । संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ११६ ।। बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि । गणाम्विकायै विद्महे महातपायै धीमहि ।। ११७ ।। इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् । इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ।। ११८ ।। देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः । देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ।। ११९ ।। बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि । सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ।। १२० ।। अथवा स्त्राणुनालब्ध तालवृन्तज वायुना । तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ।। १२१ ।। प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् । अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ।। १२२ ।। कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् । अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ।। १२३ ।। ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् । वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ।। १२४ ।। ततो देव्यासनायेति पूजयेदनुपूर्वशः । मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ।। १२५ ।। विद्यादेहं च संपाद्य पूजाबेर स्वरूपकम् । प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ।। १२६ ।। हृदयानुगतेनैव पुष्पपूरित सत्करः । आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ।। १२७ ।। सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् । हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ।। १२८ ।। अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् । वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ।। १२९ ।। पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् । गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ।। १३० ।। पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् । उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ।। १३१ ।। गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् । दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ।। १३२ ।। आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः । पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ।। १३३ ।। शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् । अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ।। १३४ ।। गणविद्येशलोकेशतदस्त्रान् परितो यजेत् । एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ।। १३५ ।। पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च । नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ।। १३६ ।। देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा । वरदाभयहस्ता च शंख चक्र करा परा ।। १३७ ।। पद्मासनस्था तस्यांतु यजेद्देवीं मनोन्मनीम् । पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ।। १३८ ।। पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् । पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।। १३९ ।। नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् । तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ।। १४० ।। एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् । षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ।। १४१ ।। नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः । उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ।। १४२ ।। पवित्रारोहं सम्यक् कृत्तिकादीपमेव च । संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ।। १४३ ।। मासोत्सवं तथा मासे नव नैवेद्यकं तथा । विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ।। १४४ ।। जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् । किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ।। १४५ ।। पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः । शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ।। १४६ ।। ध्वजहोमबलिं हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ।। १४७ ।। उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता । कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ।। १४८ ।। यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् । अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ।। १४९ ।। एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् । सर्व देवेषु सामान्यं विधानमिदमग्रजाः ।। १५० ।। धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् । दिग्देव मूर्तिसंयुक्तं मध्ये कुंभ समन्वितम् ।। १५१ ।। धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह । अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।। १५२ ।। देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् । तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ।। १५३ ।। एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ।। इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः पटलः ।। द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टममुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।। चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका । दुकूल वसनादेवी करण्ट मकुटान्विता ।। वरदा संयुक्ता पाशाङ्कुश करान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरावपि ।। दुकूलवसना देवी करण्डमकुटान्विता । वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ।। यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ।। दुकूल वसनादेवी करण्डमकुटान्विता वददाभयसंयुक्ता शुकोत्पल करावपि ।। यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ।। ४५. पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् । पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ।। १ ।। शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु । चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ।। २ ।। आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् । यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ।। ३ ।। अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः । एकादि नवभूम्यन्तभूमिभाग समन्वितम् ।। ४ ।। विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा । दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ।। ५ ।। गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः । पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ।। ६ ।। दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा । धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ।। ७ ।। प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः । मण्टपो वालयस्तस्य कूटाद्याकार एव वा ।। ८ ।। परितः परिवारोक्तः प्रसंगात् स च कथ्यते । विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ।। ९ ।। उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् । अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ।। १० ।। कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै । द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ।। ११ ।। कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् । आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ।। १२ ।। अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः । एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ।। १३ ।। हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः । विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ।। १४ ।। विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः । द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ।। १५ ।। हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ । उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ।। १६ ।। रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ । धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ।। १७ ।। तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः । कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ।। १८ ।। रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः । श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ।। १९ ।। पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः । परिवारा इति ख्याता गणेशाभिमुखस्थिताः ।। २० ।। परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः । बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ।। २१ ।। पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः । भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ।। २२ ।। लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ।। २३ ।। पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः । त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ।। २४ ।। स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् । प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ।। २५ ।। केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् । उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ।। २६ ।। अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः । ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ।। २७ ।। अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् । तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ।। २८ ।। जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् । केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते / मुच्यते ।। २९ ।। दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् । दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ।। ३० ।। दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् । मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ।। ३१ ।। नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते । कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ।। ३२ ।। कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् । कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ।। ३३ ।। मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् । हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ।। ३४ ।। नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् । अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ।। ३५ ।। जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते । जगवक्त्रो गणाधीशो भूतरूपो महोदरः ।। ३६ ।। नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः । नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ।। ३७ ।। अवामवामावर्तेभहस्तः पद्मासनस्थितः । स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।। ३८ ।। लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।। ३९ ।। पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् । शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ।। ४० ।। स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। ४१ ।। त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः । पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ।। ४२ ।। इष्टासनस्थितो वापि प्रभादिपरिमण्डितः । एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ।। ४३ ।। गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा । शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ।। ४४ ।। आसीनमासने रत्नमकुटादिविभूषिताम् । श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ।। ४५ ।। उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् । दिगम्बरां सुवदनां भुजद्वय समन्विताम् ।। ४६ ।। विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् । पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ।। ४७ ।। स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् । चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ।। ४८ ।। इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् । स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ।। ४९ ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः । द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ।। ५० ।। बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु । त्रयोदशान्तसंपन्नमथवा परिकल्पयेत् ।। ५१ ।। कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् । हृल्लेखासंपुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ।। ५२ ।। श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् । पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ।। ५३ ।। वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् । नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ।। ५४ ।। फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः । द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ।। ५५ ।। सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् । तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ।। ५६ ।। बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् । द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ।। ५७ ।। विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः । वरदं तु समुच्चार्य वरदद्वितयं वदेत् ।। ५८ ।। सर्वलोकवशं पश्चादानयेति पदं ततः । स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ।। ५९ ।। ओंकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः । हृल्लेखासंपुटो मन्त्रस्त्वथ कारणकार्ययुक् ।। ६० ।। गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः । इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ।। ६१ ।। सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने । दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ।। ६२ ।। कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी । अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ।। ६३ ।। अनामिकामथाकुञ्च तर्जनीमपि चानयेत् । अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसंज्ञिता ।। ६४ ।। अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ।। ६५ ।। पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा । पञ्च तत्संख्यहेम्नाथ हैमसूचि समन्वितम् ।। ६६ ।। पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् । कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् ।। ६७ ।। मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना । सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ।। ६८ ।। यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् । बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।। ६९ ।। तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा । परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ।। ७० ।। यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः । यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ।। ७१ ।। कुण्डानि नव पञ्चैक संख्यया कथितानि तु । तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ।। ७२ ।। प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् । मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ।। ७३ ।। उद्धास्य शिल्पिनं पश्चाद्द्विजान् संभोजयेत्ततः । पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।। ७४ ।। भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् । जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ।। ७५ ।। मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् । कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ।। ७६ ।। संकल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः । अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ।। ७७ ।। आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् । विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ।। ७८ ।। कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् । पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ।। ७९ ।। बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् । वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ।। ८० ।। सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् । कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ।। ८१ ।। परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् । आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ।। ८२ ।। देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् । सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ।। ८३ ।। शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च । न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ।। ८४ ।। गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् । उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ।। ८५ ।। मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः । इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ।। ८६ ।। पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः । मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ।। ८७ ।। विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् । पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ।। ८८ ।। गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् । वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ।। ८९ ।। संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः । दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ।। ९० ।। ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् । आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ।। ९१ ।। समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः । तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ।। ९२ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।। ९३ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ।। ९४ ।। प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् । दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ।। ९५ ।। मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् । कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ।। ९६ ।। अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् । प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ।। ९७ ।। सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् । चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ।। ९८ ।। द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि । विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ।। ९९ ।। तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् । तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ।। १०० ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् । गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ।। १०१ ।। तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः । विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ।। १०२ ।। विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् । तासां हृदि विशेषेण ततः स्थापनमाचरेत् ।। १०३ ।। विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् । आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ।। १०४ ।। विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् । पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभं ।। १०५ ।। लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु । तस्यार्चनं च संक्षोपाछृणुध्वं मुनिपुङ्गवाः ।। १०६ ।। उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च । सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ।। १०७ ।। कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयं । आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ।। १०८ ।। द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् । देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ।। १०९ ।। प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु । वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ।। ११० ।। संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः । तदुद्भूतामृतेनाद्रींकृतकाय समन्वितः ।। १११ ।। अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ । ईशास्यघोरवामाजान् करजेषु तले दृशाम् ।। ११२ ।। मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् । ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ।। ११३ ।। देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा । एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ।। ११४ ।। आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा । गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ।। ११५ ।। अथवा शिवमन्त्रैस्तु शैवींकृत्वा निजां तनुम् । इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ।। ११६ ।। स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् । गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ।। ११७ ।। पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा । संप्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ।। ११८ ।। हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् । मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ।। ११९ ।। इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे । इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ।। १२० ।। तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् । इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ।। १२१ ।। हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे । त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ।। १२२ ।। लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ।। १२३ ।। मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा । कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ।। १२४ ।। कल्पयेदासनं मध्ये प्रणवं धर्मसंमुखान् । अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ।। १२५ ।। प्रणवाम्भसि संभूतं पीतकर्णिकया युतम् । शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ।। १२६ ।। ततो गणासनायेति पूजयेदनुपूर्वशः । मूर्तिमावाह्य तां प्राग्वद्देहं संक्ल्प्य मन्त्रकैः ।। १२७ ।। प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः । हृदयानुगतेनैव पुष्पापूरितसत्करः ।। १२८ ।। निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ।। १२९ ।। हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् । अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ।। १३० ।। हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा । उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ।। १३१ ।। वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् । पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ।। १३२ ।। दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना । लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ।। १३३ ।। सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु । तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १३४ ।। तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना । नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ।। १३५ ।। गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चाद्धूपदानावसानके ।। १३६ ।। अग्नौ च रक्षोवायवीशदिक्षु दिक्षु हृदाद्यणून् । तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ।। १३७ ।। इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् । एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ।। १३८ ।। पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च । नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ।। १३९ ।। पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् । मूलेन शतपञ्चाशद्दशसंख्येन वा गुरुः ।। १४० ।। मूलाद्दशांशसंख्यैस्तैरङ्गैर्होमं समाचरेत् । नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ।। १४१ ।। पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् । पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ।। १४२ ।। नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा । पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।। १४३ ।। पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति । एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ।। १४४ ।। षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् । ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ।। १४५ ।। नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा । विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ।। १४६ ।। नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् । स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ।। १४७ ।। आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने । अष्टौ च नवसंख्ये स्युः पञ्चविंऽसतिसंख्यके ।। १४८ ।। लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके । लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ।। १४९ ।। पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् । एकोनपञ्चाशत्संख्यकलशे देवता मताः ।। १५० ।। गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके । अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ।। १५१ ।। अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः । वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ।। १५२ ।। शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् । अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ।। १५३ ।। उत्सवं दमनारोहं पवित्रारोहणक्रिया । दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ।। १५४ ।। नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः । जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।। १५५ ।। किंतु तस्य ध्वजे मूषं वा समालिखेत् । शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ।। १५६ ।। ध्वजहोमबलीन् हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ।। १५७ ।। उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता । उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ।। १५८ ।। अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः । वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ।। १५९ ।। शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् । सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ।। १६० ।। अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ।। १६१ ।। इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः पञ्चचत्वारिंशत्तमः पटलः ।। गजवक्त्रो गणाधीशो भूरूपो महोदरः । जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।। स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीट मकुटोज्ज्वलम् ।। शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् । स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ।। अवामावामवर्तेभ हस्तः पद्मासनस्थितः । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम् उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम् दिगम्बरां सुवदनां भुजद्वय समन्विताम् विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम् पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम् चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम् इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम् स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः गजवक्त्रो गणाधीशो भूतरूपो महोदरः नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम् स्थानकं वासनं वाथ गणेशं कारयेत्ततः गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा आसीनमासने रत्नमकुटादि विभूषितम् ४६. षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ।। १ ।। जटामकुटसंयुक्तो वक्रनागफणावृतः । पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ।। २ ।। त्रिंशत्संख्यावसानास्स्युः जटास्तास्सान्तरालकाः । धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ।। ३ ।। कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया । वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ।। ४ ।। युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः । व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ।। ५ ।। वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः । दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ।। ६ ।। कस्थ ब्रह्मकपालेन नानापुष्पैरलंकृतः । धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ।। ७ ।। शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः । स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ।। ८ ।। कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः । अम्बिकामुखबिंबाब्ज भ्रमरीकृतलोचनः ।। ९ ।। आबद्धकिंकिणीयुक्तः तद्वन्नूपुरशोभितः । वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ।। १० ।। दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च । वामापरकरस्थेन वह्निना दक्षकेन तु ।। ११ ।। डिन्डिमेन समायुक्त उपवीतेन संयुतः । गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ।। १२ ।। नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः । मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ।। १३ ।। नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् । ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ।। १४ ।। हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् । श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसंमतम् ।। १५ ।। सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् । सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ।। १६ ।। तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् । तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ।। १७ ।। सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः । सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ।। १८ ।। ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् । सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ।। १९ ।। सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः । सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ।। २० ।। सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् । अथवान्यप्रकारेण सूत्रपातोभिधीयते ।। २१ ।। कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः । नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ।। २२ ।। स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् । सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ।। २३ ।। बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् । मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ।। २४ ।। कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् । नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ।। २५ ।। सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् । बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ।। २६ ।। मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् । कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ।। २७ ।। पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् । स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ।। २८ ।। तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् । श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ।। २९ ।। तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् । तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ।। ३० ।। तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः । तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ।। ३१ ।। तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः । सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ।। ३२ ।। भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः । विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ।। ३३ ।। धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः । धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ।। ३४ ।। कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः । एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ।। ३५ ।। बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् । अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ।। ३६ ।। देवस्य वक्त्रमानेन स्यादपस्मारमानकम् । वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ।। ३७ ।। वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् । चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ।। ३८ ।। उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् । उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ।। ३९ ।। केशान्ताद्धनुपर्यन्तं अष्टभागमितिस्मृतम् । गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ।। ४० ।। षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः । तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ।। ४१ ।। तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते । ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ।। ४२ ।। जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः । द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ।। ४३ ।। व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे । आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ।। ४४ ।। देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते । द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ।। ४५ ।। सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता । ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ।। ४६ ।। गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः । प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ।। ४७ ।। सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः । एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ।। ४८ ।। द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा । तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ।। ४९ ।। कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा । भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ।। ५० ।। भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि । उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ।। ५१ ।। द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च । भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ।। ५२ ।। भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते । उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ।। ५३ ।। सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः । चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ।। ५४ ।। शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् । इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ।। ५५ ।। कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ।। ५६ ।। बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् । जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ।। ५७ ।। कुण्ठानि परितः पश्चान्नवपञ्चैक संख्यया । चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ।। ५८ ।। मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् । पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ।। ५९ ।। समरीचिपदे कुर्यात् वास्तुहोमं विधानतः । वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ।। ६० ।। पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् । शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ।। ६१ ।। कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि । शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ।। ६२ ।। वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् । लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ।। ६३ ।। ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां वेदहस्तान् धानां सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभां ।। अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् । अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ।। ६४ ।। तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् । होमं समारभेत् काले मूर्तिपैस्सह देशिकः ।। ६५ ।। कृत्वा कुण्डाग्निसंस्कारं अग्निकार्योक्तमाचरेत् । समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ।। ६६ ।। प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः । ऊदुंबरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ।। ६७ ।। शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः । प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ।। ६८ ।। ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् । गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ।। ६९ ।। रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् । समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ।। ७० ।। उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः । व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ।। ७१ ।। कुंभांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः । पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ।। ७२ ।। वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः । दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ।। ७३ ।। ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् । चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ।। ७४ ।। ततः कुंभान्समुद्धृत्य सर्वातोद्य समाकुलम् । हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ।। ७५ ।। कुंभाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् । वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ।। ७६ ।। विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् । देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ।। ७७ ।। तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः । उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ।। ७८ ।। अनुक्तमत्र सामान्यस्थापनोदित माचरेत् । एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ।। ७९ ।। स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ।। ७९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः षट्चत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः । जटामकुट संयुक्तो वक्रनाग फणावृतः ।। कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः स्थितो दक्षिणपादेन वामेनोपरि वर्तिना कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः दक्षाभयकरस्थेन वह्निना दक्षके न तु डिण्डिमेन समायुक्त उपवीतेन संयुतः गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक् नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः ४७. सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् । तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ।। १ ।। चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः ।। २ ।। कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ।। ३ ।। सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामेगौर्या च संयुतः ।। ४ ।। सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः । ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ।। ५ ।। श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् । मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ।। ६ ।। चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् । उष्णीषात्तुककुद्वंश कण्ठस्फिक् मध्यमाद्गतम् ।। ७ ।। पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् । हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ।। ८ ।। जानुः पक्षांगुलं वामे लम्बितस्य गुणाङ्गुलम् । सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ।। ९ ।। ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः । तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणांगुलम् ।। १० ।। सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् । कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ।। ११ ।। नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् । वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ।। १२ ।। वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया । ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ।। १३ ।। देवोच्चदशभागैक भागेनाभद्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। १४ ।। द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः । कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ।। १५ ।। दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः । द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ।। १६ ।। देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा । आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ।। १७ ।। स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः । सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।। १८ ।। प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका । रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ।। १९ ।। हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् । तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ।। २० ।। तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् । दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ।। २१ ।। जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् । दिगऽऽराण्याभवृत्तानि वेदाश्राणि च वानयेत् ।। २२ ।। कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्वहिः । शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ।। २३ ।। पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् । शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ।। २४ ।। कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः । वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ।। २५ ।। शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे । विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ।। २६ ।। स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः । लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ।। २७ ।। परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् । तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ।। २८ ।। कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः । तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ।। २९ ।। पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च । शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ।। ३० ।। प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् । षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ।। ३१ ।। एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् । द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ।। ३२ ।। संप्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः । वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ।। ३३ ।। कुम्भाद्बीजं महेशानहृदि न्यसेत् । वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ।। ३४ ।। सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् । गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ।। ३५ ।। अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् । एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।। ३६ ।। कल्याणकर्म कर्तव्यं यथाविधि विशेषतः । अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ।। ३७ ।। इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः । स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ।। ३८ ।। इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः सप्तचत्वारिंशत्तमः पटलः ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ।। वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया । स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । देवोच्चदशभागैक भगेनाथ द्विभागतः । त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः । कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ।। देव्यूरुसंस्थिता वापि निष्पंकजकरोऽथवा ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः सर्वाभरण संयुक्तो वरदाभयहस्तकः कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः सालम्बदक्षपादेन वामे गौर्या च संयुतः सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् देवोच्चदशभागैक भागेनाथद्विभागतः त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्याच संयुतः ।। देवोच्चदशभागैक भागेनाथ द्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ।। सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः । देवोच्चदशभागैक भागेनाथ द्विभागतः ।। त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ।। ४८. अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् । आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ।। १ ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः । वराभय समायुक्तः पूर्वस्थ कर पल्लवः ।। २ ।। वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे । वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ।। ३ ।। ऊरुस्पृष्ठकरो वापि कटको वा विधीयते । मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। ४ ।। मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता । पराङ्कुखौ संमुखौ चा मृगटङ्कौ समीरितौ ।। ५ ।। दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् । हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ।। ६ ।। मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् । श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ।। ७ ।। शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा । स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ।। ८ ।। नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् । स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ।। ९ ।। कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् । ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ।। १० ।। सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् । ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ।। ११ ।। एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् । अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ।। १२ ।। जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् । अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ।। १३ ।। भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् । तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ।। १४ ।। पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् । प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ।। १५ ।। ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे । सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ।। १६ ।। मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले । कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ।। १७ ।। मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् । एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ।। १८ ।। कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे । मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ।। १९ ।। देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः । उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ।। २० ।। पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् । मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ।। २१ ।। पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् । अग्रे दशांगुलं तस्य मूले तु मुखविस्तरम् ।। २२ ।। तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् । वामे महाफणिं तस्य सर्वालंकार भूषितम् ।। २३ ।। जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः । एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ।। २४ ।। जटामकुटमेतद्धि सर्वालङ्कार मीरितम् । रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ।। २५ ।। पद्म पत्रिकया वापि शोभितं वामकर्णकम् । सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ।। २६ ।। पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् । पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ।। २७ ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। २८ ।। सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः । मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ।। २९ ।। कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। ३० ।। समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः । संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ।। ३१ ।। चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा । सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ।। ३२ ।। तयालिङ्गित देवो वा अन्योन्या लिंगितस्तु वा । आलिंगन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ।। ३३ ।। एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते । कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ।। ३४ ।। रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् । जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ।। ३५ ।। कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया । तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ।। ३६ ।। विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः । समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ।। ३७ ।। पुण्याहं वाचयित्वा तु शययायाः कल्पनं नयेत् । स्नपनं कौतुकं शययारोहणं पृथगाचरेत् ।। ३८ ।। ततः कुंभं शिरोदेशे वर्धनी च तदुत्तरे । लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ।। ३९ ।। परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् । न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ।। ४० ।। कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः । लाजसस्येन्द्रकैश्चैव वटोदुंबर संज्ञकौ ।। ४१ ।। अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः । शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ।। ४२ ।। प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः । प्रभाते देवकुंभाग्नीन् अभ्यर्च्य गुरुरादरात् ।। ४३ ।। वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः । संप्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ।। ४४ ।। प्रतिमाग्रे घटान्न्यस्य कुंभाद्बीजं तु विन्यसेत् । देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ।। ४५ ।। सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् । अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ।। ४६ ।। विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् । कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ।। ४७ ।। कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः । अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ।। ४८ ।। चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः । बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ।। ४९ ।। इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः अष्टचत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्थ करुपल्लवः ।। ऊरुपृष्टकरो वापि कटको वा विधीयते । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ।। हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् । वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्य करपल्लवः ।। वरदं वाम हस्तस्यात् अभयं दक्षिणे करे । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।। चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः वराभय समायुक्तः पूर्वस्थकरपल्लवः मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम् वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः सुपत्रवलयोपेतः सर्वरत्नोपशोभितः छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः सापीहभिन्नपीठा वा देवेनालिङ्गताथवा ४९. एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै । चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ।। १ ।। समभागयुतस्सम्यक् स्थापकेन समन्वितः । सव्यकर्णस्थमकरकुण्डलेन समन्वितः ।। २ ।। कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः । धनुर्बाणयुतोपेत वामेतरकरान्वितः ।। ३ ।। दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः । नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ।। ४ ।। पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शरांगुलम् । दोर्मूलात्परहस्तान्तं षोडशांगुल ईरितः ।। ५ ।। परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः । शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ।। ६ ।। सूत्रन्तुलंबमयेद्वामे वामनासा पुटस्यतु । दक्षिणस्थितपादे च पुरस्तान्मुनि पुंगवाः ।। ७ ।। हृन्नाभिमेढ्रसव्यांघ्रि जानूनां सूत्रतोन्तरम् । सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ।। ८ ।। तत् पादांगुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् । कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।। ९ ।। एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः । सुमुहूर्ते सुलग्ने च कृत्त्वैवांकुर कर्म च ।। १० ।। रत्नन्यासं दृशांमोक्षं बेरशुद्धिं प्रदक्षिणम् । तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ।। ११ ।। मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया । कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।। १२ ।। संकल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् । देवेशस्य शिरोदेशे शिवकुंभं च वर्धनीम् ।। १३ ।। लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् । अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ।। १४ ।। गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः । तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः । पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। १६ ।। शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः । प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ।। १७ ।। प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च । ततो द्वितीय दिवसे देवकुंभाग्नितर्पणम् ।। १८ ।। पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् । सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ।। १९ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ।। २० ।। सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् । विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ।। २१ ।। कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् । उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ।। २२ ।। अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् । प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ।। २३ ।। इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् । सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ।। २४ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः एकोनपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः । सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ।। सव्यकर्णस्थमकर कुण्डलेन समन्वितः । किष्णापरशु संयुक्त परहस्त द्वयान्वितः ।। धनुर्बाणयुतोपेत वामेतर करान्वितः । देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ।। कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् । एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ।। ५०. पञ्चाशत्तमे पटले लिंगोद्भव विधिः लिंगोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते । गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् ।। १ ।। लिंगोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् । तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ।। २ ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिंगाधो शर्वजान्वन्त भागन्नेंद्रिय गोचरम् ।। ३ ।। लिंगोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् । बिंबस्यानन मानेन कारयेत् हंसमादरात् ।। ४ ।। बिंबाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् । तल्लिंगरसभागैक द्वित्रिवेदशरैर्नयेत् ।। ५ ।। व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ । तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ।। ६ ।। लिंगोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः । ब्रह्मविष्णूविहीनो वा हंस सूकर संयुतः ।। ७ ।। इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते । कालश्च पूर्ववत् ग्राह्यः तद्वदेवांकुरार्पणम् ।। ८ ।। पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् । कुण्दानि परितोश्राणि नव पञ्चैक संख्यया ।। ९ ।। दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि । नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ।। १० ।। प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् । भूषणं मण्डपस्यैव वास्तुहोममतः परम् ।। ११ ।। भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः । वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ।। १२ ।। जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः । कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ।। १३ ।। नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् । ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ।। १४ ।। वस्त्रैश्चैवतु संवेष्ट्य गंधाद्यैरर्चयेत्ततः । प्रधानकुंभं तेषां तु शिरो भागे तु विन्यसेत् ।। १५ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ।। १६ ।। लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः । रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ।। १७ ।। देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् । प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ।। १८ ।। ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः । समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ।। १९ ।। पलाशोदुंबराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च । शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ।। २० ।। प्रधानस्य पलाशस्तु स च सर्वत्रवामतः । द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ।। २१ ।। गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः । रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ।। २२ ।। देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् । बिंबानुद्धृत्य संपूज्य कुभान् कुण्डेषु पावकान् ।। २३ ।। देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः । मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् । वेद्याः कुंभान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ।। २४ ।। कुंभात् बीजं समादाय देवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ।। २५ ।। विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् । ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ।। २६ ।। स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् । बिंबान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ।। २७ ।। वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः । अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।। २८ ।। लिंगोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः । इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगोद्भवप्रतिष्ठा विधिः पञ्चाशत्तमः पटलः ।। गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् । लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ।। लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् । बिंबस्याननमानेन कारयेद्धंसमादरात् ।। बिंबद्विमुखमानेन भूकृष्टास्यंतु सूकरम् । ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ।। ५१. एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः । व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ।। १ ।। व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः । द्वाभ्यां विरहितो योगी स नानाकार भेदतः ।। २ ।। चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः । श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ।। ३ ।। व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा । उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ।। ४ ।। विकीर्ण मूर्धजोवापि जटामकुट एव वा । पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ।। ५ ।। धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः । पञ्चमुद्रासमोपेतो गंगा किंकिणि संयुतः ।। ६ ।। अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः । व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ।। ७ ।। लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् । वामांघ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ।। ८ ।। सन्दर्शसंज्ञयोपेता वामहस्तस्थ पुस्तकः । द्वात्रिंन्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ।। ९ ।। अथवा नागसंयुक्तो वामहस्तस्समीरितः । वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ।। १० ।। दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् । विकसत् पद्मसंकाशः अधस्ताद्विस्तृतांगुलिः ।। ११ ।। परहस्तद्वये चाक्ष माला ज्वाला समन्वितः । पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ।। १२ ।। कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः । नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ।। १३ ।। आभंगसहितं कुर्याद्देहमध्ये तु वामतः । सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ।। १४ ।। मात्रंकालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः । लंबपादस्थितं मध्य सूत्रादर्धांगुलान्तरे ।। १५ ।। अर्द्धार्धांगुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् । सदशांगुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ।। १६ ।। नयने मध्यमं विद्यात् अंगुष्ठस्तनयोस्ततः । नाभेस्तु मणिबन्धान्तः धृत्यंगुलमुदाहृतः ।। १७ ।। सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् । नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ।। १८ ।। दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसांगुलम् । परस्यमणिबन्धाच्च भुजमध्याद्भवांगुलम् ।। १९ ।। द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमांगुलात् । हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ।। २० ।। सजटामकुटादेव चूचुकास्य गलान्तकाः । ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ।। २१ ।। शुक्लाद्यंबर संयुक्ताः भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ।। २२ ।। रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ।। २३ ।। व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः । ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ।। २४ ।। वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः । दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ।। २५ ।। कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः । भागमग्रन्तदावामो भागाधिक चतुर्मुखः ।। २६ ।। विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् । कलावक्रास्य विस्तारा यामं वापि षडंगुलम् ।। २७ ।। तत्तुंगन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् । हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ।। २८ ।। त्रिंशदंगुलमित्युक्तमथान्यमणिबन्धतः । आनाभेरन्तरंनालं शेषं सर्वन्तु पूर्ववत् ।। २९ ।। व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् । तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ।। ३० ।। प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः । अथकुञ्चितवामांघ्रि युग्मस्फिग्गतपार्ष्णिकः ।। ३१ ।। उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् । संदर्शदृष्टिपातश्च आभंगञ्चैव पूर्ववत् ।। ३२ ।। नानामृगैस्तु संकीर्णं नाना व्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ।। ३३ ।। भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् । शैलंकुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ।। ३४ ।। फलशाखोप शाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ।। ३५ ।। रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ।। ३६ ।। शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः । आगमाहित चेतोभिः परमेशेन दीक्षितैः ।। ३७ ।। एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः । व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ।। ३८ ।। सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् । आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ।। ३९ ।। वटवृक्ष विहीनो वा भूताद्यावृत एव वा । भूतस्थलंब वा दक्षिणेशस्समीरितः ।। ४० ।। एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यं पूर्ववत् ग्राह्यमंकुरार्पणमेव च ।। ४१ ।। मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया । कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ।। ४२ ।। रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा । ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ।। ४३ ।। पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् । पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ।। ४४ ।। कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् । वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ।। ४५ ।। स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे । शययायां शाययेद्देवं कौशिकादि ऋषीनथ ।। ४६ ।। दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे । शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ।। ४७ ।। व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् । स्वांस्तुकुंभान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ।। ४८ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितोवसुकुंभांस्तु विद्येशाधिष्ठितान्न्यसेत् ।। ४९ ।। रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् । तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ।। ५० ।। तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् । कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ।। ५१ ।। समिदाज्यचरून् लाज तिलसर्षपवैणवान् । जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ।। ५२ ।। बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् । द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ।। ५३ ।। रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः । समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ।। ५४ ।। संपूज्योद्धृत्य बिंबांश्च कुंभान् कुण्डेषु पावकान् । देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ।। ५५ ।। मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् । कुंभान् बिंबपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ।। ५६ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ।। ५७ ।। विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् । तत्तत् कुंभ जलैश्चैव तत्तद्देशोभिषेचयेत् ।। ५८ ।। ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् । तत्तत् कुंभादकैश्चैव तेषां च स्नपनन्नयेत् ।। ५९ ।। श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् । विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ।। ६० ।। देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः । स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ।। ६१ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ।। ६२ ।। सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता । देहान्ते परमेशानं कर्ता यायादसंशयः ।। ६३ ।। इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन विधिरेकपञ्चाशत्तमः पटलः ।। व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक् तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयंमतः अथकुंचितवामांघ्रियुगस्फिग्गतपार्ष्णिकः उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् संदर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् । चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः विकीर्णमूर्धजो वाऽपि जटामकुट एव वा पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम् वामांघ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां संदर्श संज्ञयोपेतं वामहस्तस्थ पुस्तकः अथवा नागसंयुक्तो वामहस्तस्समीरितः परहतद्वये चाक्षमाला जालसमन्वितः व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ।। दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।। ५२. द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः भिक्षाटनस्य वक्ष्येहं कंकालस्यापि लक्षणम् । प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ।। १ ।। पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् । स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ।। २ ।। आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् । क्षौमांबरं सितं कुर्यात् सुन्दरं तं विभूषणम् ।। ३ ।। स शंख पत्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ।। ४ ।। समभंगयुतं वापि कान्तियुक्त निजांगकम् । प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ।। ५ ।। सव्यमध्यांगुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् । वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ।। ६ ।। उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ।। ७ ।। असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् । नानारूपधरैर्भूतैः अनेकैः परिवारितम् ।। ८ ।। भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ।। ९ ।। स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः । आशीर्वादान्विताः काश्चित् - काश्चिदालिंगनोन्मुखाः ।। १० ।। मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वांगुलं नयेत् । सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ।। ११ ।। दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् । नाभेर्मेढ्रात्तु वामे तु भागं सप्तांगुलं भवेत् ।। १२ ।। पादांगुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् । पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ।। १३ ।। सार्धविश्वांगुलैर्वाऽथ तयोरन्तर मिष्यते । प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ।। १४ ।। नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते । पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ।। १५ ।। हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् । ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ।। १६ ।। अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः । पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ।। १७ ।। कंकालपिंचधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् । भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशांगुलम् ।। १८ ।। अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः । तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ।। १९ ।। कंकालदण्डमानन्तु देवस्याधो गलान्तकम् । दंडाग्रेकारयेत् धीमान् कंकालं हि मुनीश्वराः ।। २० ।। योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः । भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ।। २१ ।। एषएवपरोदेवो नग्नः कंकाल वर्जितः । विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ।। २२ ।। कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ।। २३ ।। दिव्यढक्का समायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ।। २४ ।। व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः । सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ।। २५ ।। कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् । नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ।। २६ ।। डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् । कर्णान्तं षोडशैर्मात्रैः शेषं कंकालवद्भवेत् ।। २७ ।। भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा । स्थापनं च समासेन वक्ष्येऽहं मुनिपुंगवाः ।। २८ ।। कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्तांकुरक्रिया । रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ।। २९ ।। जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः । अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ।। ३० ।। नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् । जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ।। ३१ ।। यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् । तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ।। ३२ ।। उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये । पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ।। ३३ ।। स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् । मध्ये देवं च तद्दक्षे जाया भूतानि वामके ।। ३४ ।। यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् । पृथक् कंकाल दण्डश्चेत् शिरोदेशेतु शाययेत् ।। ३५ ।। शक्रशांकरयोर्मध्ये न्यसेत् कुंभञ्च वर्धनीम् । अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ।। ३६ ।। विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् । वीरेशाय नमश्चेति भूतकुंभे यजेत् गुरुः ।। ३७ ।। नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा । कंकालकुंभे कंकालं न्यस्त्वा तत्वादिकान्न्यसेत् ।। ३८ ।। तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते । मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ।। ३९ ।। प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः । विष्नूक्तवत् स्यात् कंकाले तथाहोमं समाचरेत् ।। ४० ।। कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः । तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ।। ४१ ।। पलाशखादिराश्वत्थोदुंबरो दिक्षु संमताः । शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ।। ४२ ।। प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः । देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ।। ४३ ।। ततो द्वितीयदिवसे देवकुंभाग्नि तर्पणम् । पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ।। ४४ ।। मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिंबपुरो घटान् । कुंभाम्मनुं समादाय देवस्य हृदि विन्यसेत् ।। ४५ ।। वर्धन्यामनुमादाय तस्य पीठांबुजे न्यसेत् । अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ।। ४६ ।। तत्तत् कुंभजलैः स्नाप्य स्नपनञ्चोत्सवं महत् । नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ।। ४७ ।। अनुक्तमत्रसंग्राह्यं सामान्यं स्थापनोक्तवत् । एवं यः कुरुतेमर्त्यः स पुण्यांगतिमाप्नुयात् ।। ४८ ।। मध्य सूत्रादि सूत्राणां द्व्यंगुल द्व्यंगुलञ्च यत् । अंगानामपि सर्वेषां तेषां वै सन्निवेशनम् ।। ४९ ।। हस्तानामपि संख्या च वस्त्राण्याभरणानि च । मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ।। ५० ।। आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया । भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ।। ५१ ।। एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । भिक्षाटने च कंकाले प्रतिष्ठैवं समीरिता ।। ५२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः द्विपञ्चाशत्तमः पटलः ।। पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम् समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् नानागण् समायुक्तं नानाभूतसमाकुलम् असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम् एष एव परोदेवः नग्नः कङ्कालवर्जितः विकीर्णोभय पार्श्वस्थ जटालकविभूषितः कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः सत्कपालं च वरदं वाम हस्तं तु कल्पयेत् दिव्यढक्का समायुक्तं वामस्थमपरंकरम् शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरंकरम् व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः सव्यं कोण समायुक्तं अथवा परिकल्पयेत् पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम् दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत् वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम् उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् नानागण समायुक्तं नानाभूतसमाकुलम् असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम् कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत् ५३. त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै । नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ।। १ ।। प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये । नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ।। २ ।। प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः । कालोंकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ।। ३ ।। शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः । पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ।। ४ ।। मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् । कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ।। ५ ।। कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः । पश्चात् शिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ।। ६ ।। पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् । जलादुत्तीर्य बिंबन्तु मृदाद्यैस्नपनं नयेत् ।। ७ ।। गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः । शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ।। ८ ।। शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् । पूर्ववत् स्हापयेत् कुंभान् परितश्शिवकुंभकम् ।। ९ ।। सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः । शिवंकुंभे यजेदस्त्रन्देवं पाशुपताह्वयम् ।। १० ।। तल्लक्षणोक्तरूपन्तु ध्यात्वागंधादिभिस्तदा । हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ।। ११ ।। दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि । मन्त्रेण वाथ संपूर्णन्देवं पाशुपताह्वयम् ।। १२ ।। अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः । ओंकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ।। १३ ।। मन्त्रेण विधिवत् भिन्ना ओंकाराद्याहृदादयः । हृदयादि समोपेता हुंफडन्ताः नमोन्तकाः ।। १४ ।। हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा । हुंकारकल्पितेनैव ह्रदासंपुरितेन च ।। १५ ।। वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः । तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ।। १६ ।। मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः । कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ।। १७ ।। समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् । पूर्वोक्तमूलब्रह्मांगैर्होमं पूर्वोक्तसंख्यया ।। १८ ।। तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः । पलाशोदुंबराश्वत्थ वटा इन्द्रापि दिक्षु च ।। १९ ।। शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः । प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ।। २० ।। संपूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः । प्रतिमाग्रेघटान्यस्वा तत् कुंभात्तुमनुं हृदि ।। २१ ।। न्यसेत् पीठांबुजेतस्य परिवारमनुन्यसेत् । स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।। २२ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ।। २३ ।। यात्त्येव च सुखं मोक्षमिहापि च परत्र च ।। २३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः त्रिपञ्चाशत्तमः पटलः ।। ५४. चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् । पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ।। १ ।। उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् । पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ।। २ ।। सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः । दिव्यलांगूलसंयुक्तं सुविकीर्ण जटान्वितम् ।। ३ ।। कन्धरोर्ध्वंनराकारं दिव्यमौकि समायुतम् । सिंहास्यं भीमदंष्ट्रंच भीमविक्रमसंयुतम् ।। ४ ।। हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् । कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ।। ५ ।। नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् । पादाभ्यामंबरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ।। ६ ।। गगनाभिमुखं देवं कारयेत् शरभेश्वरम् । एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ।। ७ ।। अष्टवर्गादिमंबीजं चतुर्दशविभूषितम् । षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ।। ८ ।। शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि । ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ।। ९ ।। आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् । योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ।। १० ।। कल्पयेदाद्यवर्णेन ब्रह्माण्यंगानि देशिकः । वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ।। ११ ।। मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः । बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ।। १२ ।। पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः । स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ।। १३ ।। कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् । प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ।। १४ ।। अंकुरार्पणकार्यन्तु तद्विधानेन कारयेत् । नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ।। १५ ।। मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् । जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ।। १६ ।। मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् । पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ।। १७ ।। स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् । विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ।। १८ ।। पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् । शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ।। १९ ।। पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् । उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ।। २० ।। भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो । रक्तवस्त्रेण संवेष्ट्य कुंभस्थापनमारभेत् ।। २१ ।। विन्यसेत् शिवकुंभं च विष्णुकुंभं च विन्यसेत् । स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ।। २२ ।। परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् । ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ।। २३ ।। प्रागुक्ताणु स्वरूपज्ञो गंधाद्यैरर्चयेत् गुरुः । हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ।। २४ ।। विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् । शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ।। २५ ।। मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि । मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ।। २६ ।। ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् । समिद्भिरपिपालाशैः घृतेन चरुणापि च ।। २७ ।। तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् । पूर्णांहुत्वा द्वितीयेह्नि वह्निकुंभामरार्चनम् ।। २८ ।। संप्राप्तदक्षिणस्तुष्टो गुरुस्संपूजितस्सह । मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ।। २९ ।। देवेशाग्रेघटान्यस्वा संकल्प्य स्थण्डिलं गुरुः । कुंभात् बीजं समादाय शरभेश हृदि न्यसेत् ।। ३० ।। विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् । अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।। ३१ ।। तत्तत् कुंभोदकैश्चैव स्नापयेत्परमेश्वरम् । स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ।। ३२ ।। एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् । अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ।। ३३ ।। स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् । देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ।। ३४ ।। सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् । वश्याकर्षण विद्वेषमनेन विधिना नयेत् ।। ३५ ।। अनुक्तमत्रसंग्राह्यं सामान्यस्थापनोक्तवत् । कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ।। ३६ ।। भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः । इयत्ता पुण्य संघस्य भोगान् भुक्त्वेह जन्मनि ।। ३७ ।। वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ।। इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः चतुष्पञ्चाशत्तमः पटलः ।। पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् । ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ।। पादैस्सिंह पदाकारैः चतुर्भुजश्च समन्वितम् । सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ।। दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् । कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ।। सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् । हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ।। कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् । नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।। पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु । गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।। ५५. पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः । प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ।। १ ।। उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। २ ।। एवं जानुरुनाभ्यन्त स्तनवक्षो गलास्यगम् । सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ।। ३ ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वांगसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। ४ ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। ५ ।। नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। ६ ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभंगसहितं कुर्यादागम शवणोन्मुखम् ।। ७ ।। नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः । नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ।। ८ ।। हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्जलि हस्तञ्च शंखाब्जापरहस्तकम् ।। ९ ।। कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः । कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ।। १० ।। इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यंमंकुरं रत्नविन्यासमुभयत्र च ।। ११ ।। नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् । तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ।। १२ ।। कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् । नवपञ्चैक संख्यानां लक्षणैः पूर्ववत् द्विजाः ।। १३ ।। तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् । वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ।। १४ ।। स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् । आरोहणं च शययायाः तस्याञ्च शयनं नयेत् ।। १५ ।। देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि । देवेश पादमूलेतु तेषां च शयनं नयेत् ।। १६ ।। देवोत्तमांगदेशेतु शिवकुंभञ्चवर्धनीम् । अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ।। १७ ।। तत्तदध्याय संसिद्धिं संग्राह्यं मुनि पुंगवाः । कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ।। १८ ।। समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् । सत् पलाशवटप्लक्षो दुंबराः पूर्वतो भवेत् ।। १९ ।। शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ।। २० ।। चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः । निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ।। २१ ।। द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः । संपूज्योद्धृत्य देवांस्तु कुंभान् कुण्डेषु पावकान् ।। २२ ।। सुमुहूर्तेऽठ संप्राप्ते सन्त्रन्यासं समाचरेत् । वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ।। २३ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । कृतस्थण्डिलका धारा बिंबाग्रेतु घटा न्यसेत् ।। २४ ।। कुंभान्मनुं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ।। २५ ।। देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् । अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।। २६ ।। चण्डेशादिषु देवेषु तत्तत् कुंभान् मनुं न्यसेत् । तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ।। २७ ।। स्नपनंञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा । देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ।। २८ ।। एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः पञ्चपञ्चाशत्तमः पटलः ।। उमया सहितस्याथ चन्द्रशेखरमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् । कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः उमया सहितस्याथ चन्द्रशेखमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ।। नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।। ५६. षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् । स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।। १ ।। सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः । त एवानुग्रपराः भक्तानुग्राहकामताः ।। २ ।। देवदानव गंधर्व मुनयो मनुजातयः । पिपीलिका गजाद्यन्ताः जंगमास्थावराश्चये ।। ३ ।। तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः । दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ।। ४ ।। शिवाधिष्टित देहस्तु मरणं याति यो नरः । सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ।। ५ ।। तस्मादुत्क्रान्तिकालेतु स्वेष्टलिंगन्तु संस्पृशन् । प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ।। ५ ।। सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् । आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ।। ६ ।। कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः । द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ।। ८ ।। तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः । भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ।। ९ ।। संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः । कालः प्राग्वत् समुद्दिष्ट स्तथैवांकुरकर्म च ।। १० ।। रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् । ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ।। ११ ।। प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् । कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ।। १२ ।। चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा । तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ।। १३ ।। स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् । शयनारोहणं कुंभस्थापनं पूर्ववन्नयेत् ।। १४ ।। तत्पादेभक्तकुंभन्तु तत्तद्ध्यान समन्वितम् । आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ।। १५ ।। तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् । अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ।। १६ ।। समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः । पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।। १७ ।। शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः । प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ।। १८ ।। ततो द्वितीयदिवसे कृतकुंभाग्नि पूजितः । पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ।। १९ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिंबपुरोघटान् ।। २० ।। कुंभान्मन्त्रं समादाय देवस्य हृदये न्यसेत् । देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ।। २१ ।। विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् । ततः कुंभाजलेनाथऽथ तौ च संस्नापयेत् सदा ।। २२ ।। भक्तकुंभस्य बीजन्तु तत भक्त हृदयेन्यसेत् । आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ।। २३ ।। तत् कुंभस्थ जलेनापि स्नापयेत् पीठमादरात् । स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ।। २४ ।। उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् । विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ।। २५ ।। तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः । एवं यः मर्त्यः स पुण्यांगतिमाप्नुयात् ।। २६ ।। पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् । देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। २७ ।। यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः । मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ।। २८ ।। जीवन्नेवाथवा कुर्यात् आत्मानं शिवसंज्ञितम् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः षठपञ्चाशत्तमः पटलः ।। सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् । आसीनां स्थितां वापि शयितां शुभलक्षणाम् ।। कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः । द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ।। ५७. सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।। १ ।। कुञ्चितासव्यपादस्तु व्याघ्र चर्मांबरान्वितः । ततोद्धृत सदक्षांघ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ।। २ ।। दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः । दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ।। ३ ।। कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः । शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ।। ४ ।। सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् । तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलांगुलम् ।। ५ ।। कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् । कर्णाग्रंतद्वितालं स्यात् दोस्समं परहस्तकम् ।। ६ ।। कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् । मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ।। ७ ।। नाभेस्सव्ये च वामांघ्रेरग्रे सूत्रं पुरो भवेत् । तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ।। ८ ।। स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् । अधोद्धृतांघ्रि जानूच्चं कट्यग्र सममेव हि ।। ९ ।। जंघमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् । दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ।। १० ।। परहस्तौ च कटकौ शूलहस्तस्थैव च । तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ।। ११ ।। सूत्रादन्वित जान्वन्तो गुणवह्ण्यंगुलो भवेत् । उद्धृतस्य तलस्याग्र जंघायास्मृति मात्रकम् ।। १२ ।। कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् । उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ।। १३ ।। शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् । दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ।। १४ ।। देवस्थन्नाभिमानेन नवतालेन कारयेत् । कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ।। १५ ।। अथवाथहराल्लिंगात् निर्गतात् पतितन्नयेत् । कालान्तलिंगमानाद्यं लिंगोद्भूतोक्तवन्नयेत् ।। १६ ।। त्रिभंगेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः । बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ।। १७ ।। कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु । मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ।। १८ ।। अपस्मारशरीरस्थ चरणेन युतो न वा । कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ।। १९ ।। अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् । कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ।। २० ।। भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् । मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ।। २१ ।। शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् । मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ।। २२ ।। देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः । लंभिनी तापिनी चैव वेदिनी द्राविणी तथा ।। २३ ।। मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे । मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ।। २४ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । वाराद्यं अंकुरं यागमण्टपं पूर्ववन्नयेत् ।। २५ ।। कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक संख्यया । दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ।। २६ ।। रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् । ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ।। २७ ।। देवे च काले कामे च कारयेत्तु पृथक् पृथक् । वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ।। २८ ।। देवस्य पाददेशेतु शययास्यात् काल कामयोः । कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ।। २९ ।। ईशकुंभं शिरोदेशे वर्धनीं तस्य चोत्तरे । कालकुंभं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ।। ३० ।। कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् । मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ।। ३१ ।। कामस्य पार्श्वयोः कॢप्त शययाशयितयोरपि । देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ।। ३२ ।। विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् । विद्येश्वरात्मकान्यस्य यजेत् गंधादिभिस्ततः ।। ३३ ।। तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् । तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ।। ३४ ।। कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् । आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ।। ३५ ।। शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि । मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ।। ३६ ।। प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः । कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ।। ३७ ।। अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् । पलाशो ढुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। ३८ ।। शमीखादिरमायूर श्रीवृक्षावह्निकोणतः । पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ।। ३९ ।। कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः । नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ।। ४० ।। देशिकस्सुविशुद्धात्मा संपूज्योद्धृत बिंबकः । कुंभान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ।। ४१ ।। वस्त्रहेमांगुलीयाद्यैः पूजितो मूर्तिपादिभिः । संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ।। ४२ ।। कुंभान् बिंबपुरो न्यस्य शिवकुंभमनुस्मरन् । शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ।। ४३ ।। वैद्येशकुंभबीजानि तत् पीठे परितो न्यसेत् । अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ।। ४४ ।। स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। ४५ ।। एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् । देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः सप्तपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः । कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ।। ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः । दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ।। दक्षहस्तस्थ परशुः नागपाश्ऽथवाम्गः । कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ।। शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा । शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ।। उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् । कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ।। देवस्यनाभिमानेन नवतालेनकारयेत् । कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ।। अथवाथ हराल्लिंगात् निर्गतान् पतितं नयेत् । कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ।। बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ।। कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु । मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ।। ५८. अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् । जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ।। १ ।। त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः । समभंगयुतो देव स्थानकस्थ प्रकीर्तितः ।। २ ।। सकुञ्चात् सव्यसत्पाद स्थितसव्येतरांघ्रिकः । इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ।। ३ ।। जल संग्रहणे योग्य वरवाम करान्विताः । स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ।। ४ ।। आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे । नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ।। ५ ।। एकैकमंगुलन्नीत्वा नाभिसूत्र समं भवेत् । वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ।। ६ ।। अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् । पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुंगवाः ।। ७ ।। मेद्रमूलसमन्दक्ष कटकस्यास्य लंबनम् । नाभेस्तं मणिबन्धान्तं स्मृत्यंगुलमितीरितम् ।। ८ ।। तद्बाहुमध्यात् पार्श्वान्तं शरांगुलमितिस्मतम् । पादांगुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ।। ९ ।। सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् । अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ।। १० ।। पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह । देवीदृगास्य चिबुक कक्ष चूचुकमानता ।। ११ ।। तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः । युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ।। १२ ।। श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् । पादांगुष्ठद्वयोर्मध्यं भवेदष्टदशांगुलम् ।। १३ ।। रसांगुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता । देवोच्चदशभागैक भागादेकादशावधि ।। १४ ।। भागमानयुतः श्यामः किरीटमकुटान्वितः । गृहीत शंख चक्रश्च हस्ताभ्यां धृतयापि च ।। १५ ।। तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः । नासाग्रात् स्थितपाद्यस्य चांगुष्ठान्तं विलंबयेत् ।। १६ ।। तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् । कुण्डिकोत्सेधविस्तारो तालसूत्रांगुलौ मतौ ।। १७ ।। तद्गलोत्सेधविस्तारो कलयाकोलकेन च । आस्यंपञ्चांगुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ।। १८ ।। तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् । एकांगुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ।। १९ ।। पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता । तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ।। २० ।। कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् । नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ।। २१ ।। तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् । वरदः कटकौ स्यातां वामेतर करावुभौ ।। २२ ।। हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् । चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ।। २३ ।। होमोन्मुख्ं प्रसन्नन्तं किंकुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ।। २४ ।। वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ । वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ।। २५ ।। स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ । सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ।। २६ ।। विलंबितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् । तत्पादांगुष्ठ मूलान्तान्नाभेर्वसुदशांगुलम् ।। २७ ।। अभय~चूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् । तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ।। २८ ।। ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् । ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ।। २९ ।। देवस्यांगुलमानेन द्विविंशत्यंगुलो भवेत् । अग्निकुण्डस्यविष्कंभस्त्रिमेखल युतस्य च ।। ३० ।। मेखलैकांगुलाप्रोक्ता प्रत्येकं मुनिपुंगवाः । द्वादशांगुलविस्तार दैर्घ्या सा सप्तजिह्वकः ।। ३१ ।। पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् । शिवादिहस्तसूत्राणां प्रमाणंद्व्यन्तरन्तु यत् ।। ३२ ।। उद्धृतिर्हस्त पादानामन्यांगाना मिहोच्यते । एषामेवनतिश्चापि संकोचो निर्गमोऽपि वा ।। ३३ ।। शरचापादि शास्त्राणां संग्रहे संस्थितिस्त्वियम् । अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ।। ३४ ।। दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः । भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ।। ३५ ।। दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः । देवीनामेवमेवस्यान्नरादीनां विशेषतः ।। ३६ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । संभाव्य पूर्ववत् कालं प्राग्वत् कृत्वांकुरार्पणम् ।। ३७ ।। देवस्यसव्ये ब्रह्माणं उत्तरे विष्णुमेव च । गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ।। ३८ ।। नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि । शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ।। ३९ ।। दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना । बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ।। ४० ।। तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः । ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरंबिकां श्रियम् ।। ४१ ।। यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् । पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ।। ४२ ।। अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः । योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ।। ४३ ।। स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः । देवस्यमण्डपे चापि कुण्डानि नव संख्यया ।। ४४ ।। पञ्चैक संख्ययावपि चतुरश्रनिभानि वा । दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ।। ४५ ।। उद्वास्यशिल्पिनं पश्चात् विप्रान् संभोजयेत्ततः । पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ।। ४६ ।। स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् । शयने शाययेद्देवन्तस्य वामे च दक्षिणे ।। ४७ ।। कृष्णञ्चैवाथभिन्न शययायां शाययेत् गुरुः । देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ।। ४८ ।। उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् । रक्तेन वासमा देवं देविं पीतेन केशवम् ।। ४९ ।। कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् । आचार्या स्संग्रहीतव्याः प्रतिमण्टपमुत्तमाः ।। ५० ।। गुरवः प्रतिदेवं वा संग्राह्यामुनिपुंगवाः । देवोत्तमांग देशेतु शिवकुंभञ्च वर्धनीम् ।। ५१ ।। ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् । परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ।। ५२ ।। देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् । वामाद्याधिष्ठितानष्ट कुंभाश्च परितो न्यसेत् ।। ५३ ।। तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् । यजेत् गंधादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ।। ५४ ।। तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः । अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ।। ५५ ।। ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् । समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ।। ५६ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च । शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ।। ५७ ।। प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः । प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।। ५८ ।। स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये । प्रभाते कृतनित्यन्तु कर्ता संपूजयेत् गुरुम् ।। ५९ ।। वस्त्रहेमांगुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् । तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ।। ६० ।। प्रतिमाग्रे घटन्न्यस्त्वा कुंभान् बीजन्तु विन्यसेत् । वर्धन्याबीजमादाय देवीहृदय मध्यमे ।। ६१ ।। सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे । भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ।। ६२ ।। अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् । संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ।। ६३ ।। दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् । कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ।। ६४ ।। सदाशिवादि देवानां देवीयस्य यथा मता । तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ।। ६५ ।। प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा । तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ।। ६६ ।। यथा वा लभते शोभा बलन्तेषां यथा भवेत् । तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ।। ६७ ।। सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु । दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ।। ६८ ।। प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा । एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ।। ६९ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः अष्टापञ्चाशत्तमः पटलः ।। जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः । त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।। समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः । कुञ्चितः सव्यपादस्तु स्थितसव्येतरांध्रिकः ।। इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः । जलसंग्रहणे योग्य वरवामकरान्वितः ।। स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह देवी दृगास्य चिबुक कक्षनूचुक मानका तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम् देवोच्च दशभागैक भागादेक दशावधि भागमानयुतः श्यामः किरीट मकुटान्वितः गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत् चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम् मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम् वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ स्रुवपात क्रियोपेतौन्योतु कटकामुखौ भूषणानां च सर्वेषां वामदक्षिण भेदतः दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ५९. एकोनषष्टितमे पटले कल्याण कर्म विधिः वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने । पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ।। १ ।। तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके । प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ।। २ ।। स्तण्डिलं तत्र संक्ल्प्य सितवस्त्रोत्तरच्छदम् । स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ।। ३ ।। गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः । अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ।। ४ ।। प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः । देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ।। ५ ।। तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् । विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ।। ६ ।। पाद्याचमनं सदशं चाम्बरद्वयम् । आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ।। ७ ।। स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् । सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ।। ८ ।। पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् । गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ।। ९ ।। पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः । देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ।। १० ।। आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् । अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ।। ११ ।। कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः । शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ।। १२ ।। सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः । अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ।। १३ ।। वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् । ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ।। १४ ।। शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि । पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ।। १५ ।। समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् । गुडदुग्धाज्य संमिश्रं मधुपर्कं हृदा प्रभोः ।। १६ ।। दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा । हुत्वा षोडश संख्यातं ततस्त्वाज्येन षोडश ।। १७ ।। नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा । ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ।।१८ ।। त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् । शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ।। १९ ।। तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः । ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ।। २० ।। पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् । संगृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ।। २१ ।। उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया । प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ।। २२ ।। शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् । तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ।। २३ ।। अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् । देशिकस्य तथान्यस्य सङ्गुलीय करेण च ।। २४ ।। प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा । अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ।। २५ ।। द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् । कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ।। २६ ।। शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु । विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ।। २७ ।। शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् । संपूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ।। २८ ।। ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् । तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ।। २९ ।। समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते । शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ।। ३० ।। अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना । शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ।। ३१ ।। वर्मणा तच्च संपूय नवखट्गोपरि स्थितम् । दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ।। ३२ ।। स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् । चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ।। ३३ ।। देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् । वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ।। ३४ ।। एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् । भिन्नपीठाम्बिकानां तु मूललिंगस्य च द्विजाः ।। ३५ ।। किंतु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् । गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ।। ३६ ।। मूललिंगस्य चोद्बाह्ये गर्भागारात्तु मण्डपे । विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ।। ३७ ।। प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः । स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ।। ३८ ।। आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः । इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ।। ३९ ।। गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् । यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ।। ४० ।। इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः पटलः ।। ६०. षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ।। १ ।। उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ।। २ ।। करमकुटं वाममलकेन समन्वितम् । ललाट दक्षिणे भागे नयनार्धेन संयुतम् ।। ३ ।। पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्र कुण्डलं तं विनावाथ कारयेत् ।। ४ ।। सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे । देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ।। ५ ।। दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः । तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ।। ६ ।। उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनांबरं सव्यपादं कुञ्चितमिष्यते ।। ७ ।। सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् । आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ।। ८ ।। वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् । नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ।। ९ ।। चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् । सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ।। १० ।। द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा । पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ।। ११ ।। अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् । चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ।। १२ ।। अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः । प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ।। १३ ।। भुजद्वययुतं शङ्ख कटकस्तत्र संमतः । पीतांबर समोपेतं सर्वाभरण संयुतम् ।। १४ ।। चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् । हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ।। १५ ।। बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः । तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ।। १६ ।। कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ।। १७ ।। प्रदक्षिणं पुरादीना मुदके चाधिवासनम् । सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ।। १८ ।। किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः । मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ।। १९ ।। प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् । शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ।। २० ।। पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् । शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ।। २१ ।। बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः । शयनारोहणं कृत्वा शाययेद्देवमादरात् ।। २२ ।। शिरः प्रदेशे देवस्य शिवकुंभं तु विन्यसेत् । उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ।। २३ ।। विष्णुश्चेत्तच्छिरोदेशे विष्णु कुंभं तु विन्यसेत् । तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ।। २४ ।। परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् । गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ।। २५ ।। तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् । क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ।। २६ ।। मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते । शर्वं च पशुपत्युग्ररुद्रांश्चेतांबलोत्कटान् ।। २७ ।। धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् । विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ।। २८ ।। पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् । पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ।। २९ ।। ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् । न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ।। ३० ।। जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ । न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ।। ३१ ।। शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् । ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ।। ३२ ।। तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् । एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ।। ३३ ।। संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् । अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ।। ३४ ।। समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि । होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ।। ३५ ।। पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ।। ३६ ।। प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते । विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ।। ३७ ।। ततो द्वितीये दिवसे देवान् कुंभाश्च पावकान् । यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ।। ३८ ।। मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः । शुभे महूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ।। ३९ ।। कुंभान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् । विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ।। ४० ।। कृष्णस्य कुंभात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् । अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।। ४१ ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं तद्देव स्थापनोदितम् ।। ४२ ।। विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ।। ४२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः षष्ठितमः पटलः ।। उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः करण्ट मकुटं वामं मलकेन समन्वितम् ललाट दक्षिणे भागे नयनार्धेन संयुतम् पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम् सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् संव्ये टंकाभयौ हस्ते उत्पलं वामगे करे उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम् व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि । भुजद्वयुतं शङ्खं कटकस्तत्र संमतः ।। पीताम्बर समोपेतं सर्वाभरण संयुतम् । चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ।। ६१. एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ।। १ ।। कृष्णा परशु संयुक्तो जटामकुटमण्डितः । ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।। २ ।। दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ।। ३ ।। स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् । कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ।। ४ ।। अथवा शिवलिंगस्य पार्श्वयोः नतगतौ तु तौ । अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ।। ५ ।। अथवा मध्यमे लिंगं पृथगालय संस्थितम् । तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ।। ६ ।। पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः । संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ।। ७ ।। पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः । भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ।। ८ ।। नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे । एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।। ९ ।। शिवलिंग प्रतिष्ठा च ब्रह्मणः केशवस्य च । तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ।। १० ।। इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते । पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ।। ११ ।। रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् । प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ।। १२ ।। कुण्डानि कारयेत्तत्र नवपञ्चैक संख्यया । दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ।। १३ ।। तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् । स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ।। १४ ।। ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् । शयनारोहं कुंभ स्थापनं पूर्वन्नयेत् ।। १५ ।। देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् । न्यस्त्वा तु शिवकुंभस्य उत्तरे वर्धनीं न्यसेत् ।। १६ ।। तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् । तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ।। १७ ।। अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् । तिलसर्षप मुद्गांश्च माषशिंबाद वैणवैः ।। १८ ।। पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः । शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ।। १९ ।। प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः । ततो द्वितीय दिवसे देव कुंभाग्नि तर्पणम् ।। २० ।। पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः । संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।। २१ ।। मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिंब पुरो घटान् । कुंभान्मनुं समादाय देवस्य हृदि विन्यसेत् ।। २२ ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ।। २३ ।। आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् । तत्तत् कुंभजलैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २४ ।। स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च । अनुक्त मत्र संग्राह्यं तत्त दध्याय चोदितम् ।। २५ ।। प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु । इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ।। २६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम एकष्टितमः पटलः ।। रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः । कृष्णापरशु संयुक्तः जटामकुटमण्डितः ।। ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ।। सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् । कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ।। ६२. द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।। १ ।। परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् । पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।। २ ।। अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके । स हस्तो हंस पक्षो वा पताकाधोमुखस्तु वा ।। ३ ।। तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् । तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ।। ४ ।। तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् । प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ।। ५ ।। हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् । एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ।। ६ ।। पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् । समभङ्गयुतो देवः स्थानकेनापि संयुतः ।। ७ ।। ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके । गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ।। ८ ।। सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् । सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ।। ९ ।। सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् । शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ।। १० ।। द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ।। ११ ।। अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ।। १२ ।। संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ।। १३ ।। मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् । एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ।। १५ ।। कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् । वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ।। १५ ।। जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् । कुण्डानि नवपञ्चैक संख्यया तत्र कारयेत् ।। १६ ।। चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा । पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ।। १७ ।। पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् । स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ।। १८ ।। आरोप्य शयने पश्चात् कुंभान् संस्थापयेत्तमः । शिवस्य च शिरोदेशे शिवकुंभं च वर्धनीम् ।। १९ ।। यदि भिन्नो वृषो देवपादमूले तु शाययेत् । दक्ष मस्तक संयुक्तां शययां संकल्प्य व पृथक् ।। २० ।। वृषमस्तकदेशे तु वृषकुंभं तु विन्यसेत् । परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ।। २१ ।। गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः । तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ।। २२ ।। अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् । समिदाज्यान्नलाजादि तिलसर्षप माषकैः ।। २३ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ।। २४ ।। प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् । ततो द्वितीये संतर्प्य देवान् कुंभांश्च पावकान् ।। २५ ।। समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः । संप्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ।। २६ ।। घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् । कुंभाद्बीजं समादाय देवस्य हृदि विन्यसेत् ।। २७ ।। वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २८ ।। वृष कुंभान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् । अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।। २९ ।। विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् । कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ।। ३० ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ।। ३१ ।। इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः । घनो वाप्य घनो वापि वृषभस्य च संमतः ।। ३२ ।। प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह । लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ।। ३३ ।। इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः द्विषष्ठितमः पटलः ।। वृषभारुधः चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः । परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ।। पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् । अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् समभङ्गयुतो देवण् स्थानकेनापि संयुतः तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत् पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ।। ६३. त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।। १ ।। दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः । तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ।। २ ।। संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः । जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ।। ३ ।। तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् । स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ।। ४ ।। सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः । हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ।। ५ ।। पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् । वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ।। ६ ।। इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः । देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ।। ७ ।। कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् । गलान्तं वाष्टतालेन विलंबितं जटान्वितम् ।। ८ ।। वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् । द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ।। ९ ।। कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् । रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ।। १० ।। तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः । प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ।। ११ ।। तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः । चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ।। १२ ।। मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् । पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ।। १३ ।। स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकं । भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ।। १४ ।। शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः । देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ।। १५ ।। देवेशस्य शिरः पार्श्वे शिवकुंभं च वर्धनीम् । भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ।। १६ ।। हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् । परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ।। १७ ।। पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः । गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ।। १८ ।। तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः । भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ।। १९ ।। पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना । मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ।। २० ।। बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् । चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ।। २१ ।। भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः । गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ।। २२ ।। कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः । तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ।। २३ ।। दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् । तत्तद्देव पुरस्तत्तत् कुंभान् न्यस्त्वा गुरूत्तमः ।। २४ ।। शिव कुंभमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् । वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।। २५ ।। अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् । गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ।। २६ ।। भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् । तत्तत् कुंभ जलेनैव स्नापयेत्तत् प्रदेशके ।। २७ ।। सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् । विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ।। २८ ।। कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः । कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ।। २९ ।। अनुक्तमत्र संग्राह्यं सामान्य स्थापनोक्तवत् । भगीरथ युतो वायं वियुक्तो वा महेश्वरः ।। ३० ।। जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः । इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ।। ३१ ।। यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ।। ३११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम त्रिषष्टितमः पटलः ।। ६४. चतुष्षष्ठितमे पटले गुह स्थापन विधिः गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ।। १ ।। नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् । अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ।। २ ।। अन्येदेवालयेऽप्येवमथवा पर्वतोपरि । पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ।। ३ ।। राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा । प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ।। ४ ।। कुमारालय इष्टस्यात् धाम लक्षण लक्षितः । अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ।। ५ ।। त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः । दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ।। ६ ।। रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् । गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ।। ७ ।। एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः । शिवोक्त मार्ग संकॢप्त गर्भाद्येष्ट कयान्वितः ।। ८ ।। तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः । दिङ्न्यस्त देव विन्यस्त मध्यकुंभ युतेन च ।। ९ ।। धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह । प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।। १० ।। पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा । परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।। ११ ।। यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् । गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ।। १२ ।। क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः । वरदाभय संयुक्ताः खड्ग खेट समन्विताः ।। १३ ।। खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः । भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ।। १४ ।। शकुनी पूतना चैव रेवती चार्धपूतना । वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ।। १५ ।। षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः । स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ।। १६ ।। एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः । वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ।। १७ ।। चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः । एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ।। १८ ।। इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् । विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।। १९ ।। बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् । बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ।। २० ।। द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् । दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ।। २१ ।। खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ । श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयंकरौ ।। २२ ।। जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ । ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ।। २३ ।। अभयं वज्रपद्मे च वरदं द्विभुजं तु वा । शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ।। २४ ।। लक्षणं तस्य संक्षेपाच्छ्रुणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ।। २५ ।। प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु । योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ।। २६ ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः । पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ।। २७ ।। बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ।। २८ ।। कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः । स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।। २९ ।। चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् । नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ।। ३० ।। वरदाभय संयुक्तः शक्तिद्वययुतो न वा । शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ।। ३१ ।। द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये । श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ।। ३२ ।। गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने । गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ।। ३३ ।। इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ।। ३४ ।। षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः । स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।। ३५ ।। सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके । रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ।। ३६ ।। करण्ड मकुटोपेतो नेत्रत्रय समन्वितः । शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ।। ३७ ।। दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा । समयूरध्वजं चैवमङ्कुशं वरदं वहन् ।। ३८ ।। सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः । ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ।। ३९ ।। एवं पञ्चविधस्कन्दो विभागस्थानभेदतः । द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ।। ४० ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः । शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ।। ४१ ।। चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् । सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।। ४२ ।। मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना । शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ।। ४३ ।। ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् । महासेनाय संयुक्तं विद्महे पद संयुतम् ।। ४४ ।। षडाननाय संयुक्तं धीमहीति पदं ततः । तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ।। ४५ ।। गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् । हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ।। ४६ ।। गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः । ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ।। ४७ ।। शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् । देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ।। ४८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ।। ४९ ।। हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् । कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ।। ५० ।। यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् । प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ।। ५१ ।। जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा । परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ।। ५२ ।। प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् । पद्माभनवपञ्चैक संख्या कुण्ड प्रकल्पनम् ।। ५३ ।। पूर्वोत्तरेशसंकॢप्त स्नान वेदिकयान्वितम् । तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ।। ५४ ।। पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे । स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ।। ५५ ।। जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् । गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ।। ५६ ।। आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा । वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्तिः संयुतम् ।। ५७ ।। सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् । शिरः प्रदेशे सूत्राढ्यं कुंभं वस्त्रादिभिर्युतम् ।। ५८ ।। न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् । देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ।। ५९ ।। परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् । सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ।। ६० ।। आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि । न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्यसेत् ।। ६१ ।। मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः । प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ।। ६२ ।। गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः । सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ।। ६३ ।। मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ।। ६४ ।। तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् । गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ।। ६५ ।। सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः । ब्रह्मांगानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ।। ६६ ।। मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् । तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ।। ६७ ।। समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः । पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ।। ६८ ।। शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः । पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ।। ६९ ।। वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् । शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ।। ७० ।। दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् । ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ।। ७१ ।। उद्धृत्य षण्मुखं तं च कुंभाग्नींश्च सु तर्पयेत् । प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ।। ७२ ।। दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः । मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ।। ७३ ।। कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् । विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ।। ७४ ।। सुलग्ने सुमूहूर्ते तु तथा द्वारस्य संमुखम् । अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ।। ७५ ।। देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् । कुंभाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ।। ७६ ।। यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् । पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ।। ७७ ।। तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् । तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ।। ७८ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले । गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ।। ७९ ।। इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् । सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ।। ८० ।। एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः । आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८१ ।। सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् । शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८२ ।। तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः । अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ।। ८३ ।। सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् । गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ।। ८४ ।। आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः । सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ।। ८५ ।। द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा । स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ।। ८६ ।। वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः । शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ।। ८७ ।। शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः । अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ।। ८८ ।। न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः । तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ।। ८९ ।। कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः । भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ।। ९० ।। देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा । सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ।। ९१ ।। आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् । इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ।। ९२ ।। शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् । अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ।। ९३ ।। विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा । अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ।। ९४ ।। अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् । हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ।। ९५ ।। इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् । दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ।। ९६ ।। त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना । लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।। ९७ ।। चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः । इत्थमात्मधाराद्रव्य मन्त्रबिंब विशोधनम् ।। ९८ ।। कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः । प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ।। ९९ ।। अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् । संक्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ।। १०० ।। ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् । विद्यादेहं च संक्ल्प्य तस्मिन्मूलेन षण्मुखम् ।। १०१ ।। हृदयानुगतेनैव पुष्पसंपूर्णसत्करः । आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ।। १०२ ।। निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ।। १०३ ।। महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् । पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ।। १०४ ।। नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु । गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ।। १०५ ।। विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् । वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ।। १०६ ।। चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् । पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ।। १०७ ।। कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः । लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ।। १०८ ।। सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु । तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १०९ ।। हृदा तैलाद्य संकॢप्तिं दद्यात् प्राग्वद् धृदाणुना । आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ।। ११० ।। गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चात् धूपदाना वसानके ।। १११ ।। वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् । तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ।। ११२ ।। ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् । द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ।। ११३ ।। गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् । नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ।। ११४ ।। आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् । मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ।। ११५ ।। जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् । दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ।। ११६ ।। तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह । एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ।। ११७ ।। ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् । तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ।। ११८ ।। अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् । ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ।। ११९ ।। शकुनी रेवती चैव पूतना मण्डपूतना । वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ।। १२० ।। शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः । षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ।। १२१ ।। सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः । सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ।। १२२ ।। कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके । वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ।। १२३ ।। द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् । तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ।। १२४ ।। शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ।। १२४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः पटलः ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ।। वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।। द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु । चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् । नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः वरदाभय संयुक्तः शक्तिद्वययुतो न वा षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः । पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ।। सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः । सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ।। रक्तांबर समायुक्तः बालचन्द्र समप्रभैः । करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।। शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् । दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।। समयूर ध्वजं चैवं अङ्कुशं वरदं वहन् । सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।। ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये । ६५. पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ।। १ ।। पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ।। २ ।। अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके । अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ।। ३ ।। धामलक्षण संसिद्धायामेनापि समन्वितः । एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ।। ४ ।। धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ।। ५ ।। प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः । मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ।। ६ ।। दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः । स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ।। ७ ।। दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च । धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ।। ८ ।। प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकार मण्डपोपेतः परितः परिवारः युक् ।। ९ ।। रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च । महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ।। १० ।। रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः । एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ।। ११ ।। सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ।। १२ ।। इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः । बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ।। १३ ।। द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ।। १४ ।। बलिपीठे बलिर्देयो यथादेशं बलिर्हितः । देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ।। १५ ।। द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ।। १६ ।। प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।। १७ ।। व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः । करालकज्जलाभासो जटिलश्चन्द्रशेखरः ।। १८ ।। चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। १९ ।। अथवा शंख वर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ।। २० ।। पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः । वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ।। २१ ।। अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। २२ ।। स्थानको वासनस्थो वा शयिता सव्यवात्तलः । सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ।। २३ ।। वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः । वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ।। २४ ।। शंकरेक्षण संपन्नश्शोकनम्र शिरास्तु वा । उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ।। २५ ।। एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः । अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ।। २६ ।। चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ।। २७ ।। कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ।। २८ ।। अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ।। २९ ।। सा देवी श्यामला हस्त द्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ।। ३० ।। एवमापाद्य बेरं मनुभिंस्थापनं नयेत् । चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ।। ३१ ।। चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च । चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ।। ३२ ।। ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च । मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ।। ३३ ।। ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः । ओं चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ।। ३४ ।। तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः । अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ।। ३५ ।। ज्ञानशक्ति पदैर्मन्त्रैः र्हुंट्कार समन्वितैः । चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ।। ३६ ।। विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ।। ३७ ।। कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् । सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ।। ३८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ।। ३९ ।। सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः । बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ।। ४० ।। तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् । यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ।। ४१ ।। याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् । नवपञ्चैक संख्यानि वृत्तान्यश्राणि वा द्विजाः ।। ४२ ।। मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह । उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ।। ४३ ।। पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् । जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ।। ४४ ।। कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् । कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ।। ४५ ।। पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु । वासोभ्यां वेष्टयित्वा तु कुंभन्यासं समाचरेत् ।। ४६ ।। चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् । सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ।। ४७ ।। तथा विधघटानष्टौ विन्यसेत् परितो बहिः । चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ।। ४८ ।। सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् । कुंभमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ।। ४९ ।। हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः । घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ।। ५० ।। लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा । गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ।। ५१ ।। आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् । क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ।। ५२ ।। प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा । सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ।। ५३ ।। मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् । संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ।। ५४ ।। कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् । प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ।। ५५ ।। लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः । प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ।। ५६ ।। शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः । तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ।। ५७ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ।। ५८ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य चण्ड बिंबं तु कुंभानग्नींश्च तर्पयेत् ।। ५९ ।। पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः । वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ।। ६० ।। अधमा निष्का तु द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ।। ६१ ।। प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः । सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ।। ६२ ।। देवाग्रस्थण्डिलस्तेभ्यः कुंभेभ्यो देशिकोत्तमः । तत्तत् कुंभगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ।। ६३ ।। स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि । कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ।। ६४ ।। चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा । चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ।। ६५ ।। आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च । विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ।। ६६ ।। लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः । चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ।। ६७ ।। चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते । स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ।। ६८ ।। चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना । द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ।। ६९ ।। आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च । सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ।। ७० ।। अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च । पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ।। ७१ ।। अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् । स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मंत्रशुद्धये ।। ७२ ।। पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे । इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ।। ७३ ।। तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् । दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ।। ७४ ।। संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च । चण्डासनं च मूर्तिं च संक्ल्प्येशाद्यणून् क्रमात् ।। ७५ ।। हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् । बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ।। ७६ ।। न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् । पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ।। ७७ ।। अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि । इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ।। ७८ ।। धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः । हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ।। ७९ ।। परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः । नैवेद्यः तद्विधानोक्तं दत्वा तांबूल संयुतम् ।। ८० ।। पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् । जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ।। ८१ ।। पलाशसमिदाज्यान्नैर्होमं च विभवे सति । मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ।। ८२ ।। नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् । पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ।। ८३ ।। प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा । पादुकाराधनोपेतं प्रविशेदालयं प्रति ।। ८४ ।। एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु । कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ।। ८५ ।। पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने । आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ।। ८६ ।। चण्डेशायेति संक्ल्प्य यच्छिवाय निवेदितम् । नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ।। ८७ ।। गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः । संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ।। ८८ ।। आत्मार्थे च परर्थे च सामान्यमिदमीरितम् । नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ।। ८९ ।। आयु.ः प्रज्ञां सौभाग्यमतुलां श्रियम् । अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ।। ९० ।। विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये । स्नपनं पूर्ववत् किंतु मध्ये चण्डेश्वरं घटे ।। ९१ ।। देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् । अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ।। ९२ ।। रुद्रभक्तादयोऽष्टौस्युर्नवकुंभाभिषेचने । इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ।। ९३ ।। पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् । शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ।। ९४ ।। उत्सवं दमनारोहं पवित्रारोहं नयेत् । दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ।। ९५ ।। नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् । किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ।। ९६ ।। शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह । धजहोम बलिं हित्वा केवलं यानमेव वा ।। ९७ ।। प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् । प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ।। ९८ ।। तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ।। १८१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः पञ्चषष्ठितमः पटलः ।। अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः शंकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ।। पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः । वराभय प्रदानभ्यां अन्यत्र परिमण्डितः ।। अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः । संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः । सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः) वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ।। संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। जटामकुट युक्तो वा धवलीकृत मूर्धजः । स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ।। संकरेक्षण संपन्नः शोकनम्र शिरो तु वा । अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ।। चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः । व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ।। करालकज्जका भासो जटिलश्चन्द्रशेखरः । चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ।। टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। ६६. षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ।। १ ।। स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा । शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ।। २ ।। तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् । शैवाः पाशुपताश्चैव महाव्रत धराश्रये ।। ३ ।। लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः । तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ।। ४ ।। शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् । स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ।। ५ ।। ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ।। ६ ।। स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ।। ७ ।। परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ।। ८ ।। परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते । त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ।। ९ ।। एक विंशति हस्तान्तो विमान व्यास इष्यते । आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ।। १० ।। सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् । आद्येष्टका विधानं च गर्भ संस्थापनं तथा ।। ११ ।। मूर्धेष्टका विधानं च प्राग्देव समीरितम् । तदर्थं शिवलिंगं वा प्रतिमा वा शिवस्य तु ।। १२ ।। स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ।। १३ ।। शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा । अर्ध चित्रमथा भासं पटादि परिकल्पितम् ।। १४ ।। लिंगं चेत् प्रतिमा चेद्वा लिंग बेरोक्त वर्त्मना । मानं तयोश्च संग्राह्या हर्म्याद् गर्भगृहादथ ।। १५ ।। द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु । षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ।। १६ ।। हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् । त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ।। १७ ।। मानमेतत्समाख्यातं जात्यायांश समन्वितम् । वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ।। १८ ।। आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् । नववेदहृदं सप्त नवसंख्याहृतं तु यत् ।। १९ ।। वारोह्यंशस्समाख्यातो यजमानानुकूलितम् । मृतनामाक्षरेणानुकूलितं च विधीयताम् ।। २० ।। लिंगं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ।। २१ ।। मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् । आसीनं स्नानकं वापि वाहनारूढमेव वा ।। २२ ।। आसने स्थानके वाथ पद्मसिंहासनं तु वा । अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ।। २३ ।। यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् । आसनोन्मान विस्तारायामं तद्वदलंकृतिम् ।। २४ ।। प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ।। २५ ।। अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ।। २६ ।। सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः । गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ।। २७ ।। स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।। २८ ।। मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः । ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ।। २९ ।। रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् । स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ।। ३० ।। संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् । हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ।। ३१ ।। ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् । नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ।। ३२ ।। तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया । मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ।। ३३ ।। सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् । धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ।। ३४ ।। दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् । सर्वालंकार संयुक्तं ग्रामादौ भ्रमणं नयेत् ।। ३५ ।। जलाधिवासयेद्बिबं लोकपाल घटान्वितम् । यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ।। ३६ ।। नव पञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् । उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ।। ३७ ।। वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः । प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ।। ३८ ।। जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् । शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ।। ३९ ।। आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् । संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ।। ४० ।। स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते । पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ।। ४१ ।। वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् । बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ।। ४२ ।। उपधानं न्यसेत्प्राच्यां तत्र बिंबं शिरो भवेत् । शिरसश्चोत्तरे भागे कुंभं प्राधानिकं न्यसेत् ।। ४३ ।। अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् । चन्दनोदक संपूर्णान् फा पल्लव संयुतान् ।। ४४ ।। तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते । सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ।। ४५ ।। आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः । सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ।। ४६ ।। विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः । ह्रींकारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ।। ४७ ।। स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते । प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ।। ४८ ।। पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् । वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ।। ४९ ।। स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः । पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ।। ५० ।। परिवार घटे पूज्या अष्टौ वा वसवो मताः । स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ।। ५१ ।। पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च । संपूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ।। ५२ ।। आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् । आत्मानमन्तरात्मानं परमात्मानमेव च ।। ५३ ।। तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् । स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ।। ५४ ।। अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि । इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ।। ५५ ।। तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् । अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ।। ५६ ।। जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् । संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ।। ५७ ।। ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् । प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ।। ५८ ।। तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् । समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ।। ५९ ।। पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् । शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ।। ६० ।। प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् । हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ।। ६१ ।। मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् । कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ।। ६२ ।। स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् । ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ।। ६३ ।। रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह । स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ।। ६४ ।। पञ्च गोचर संजात स्सोष्णीषस्सोत्तरीयकः । पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ।। ६५ ।। तद्वत् संपूजितैर्मूर्ति धारकैरणुजापिभिः । अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ।। ६६ ।। द्वारद्वाराधिपानिष्ट्वा कृतकुंभार्चनो गुरुः । संपूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ।। ६७ ।। उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः । प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ।। ६८ ।। रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् । आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ।। ६९ ।। मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् । संस्नाप्य कुंभपानीयैः परितः स्थापितैरपि ।। ७० ।। वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः । उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ।। ७१ ।। उत्सवं कारयेदन्ते यथा विभव विस्तरम् । ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ।। ७२ ।। आदिशैवकुलोद्भूतः पञ्चगोचर संभवः । आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ।। ७३ ।। कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः । पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ।। ७४ ।। प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् । वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ।। ७५ ।। कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च । परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ।। ७६ ।। प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः । प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ।। ७७ ।। अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये । षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ।। ७८ ।। तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् । तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ।। ७९ ।। जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् । पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ।। ८० ।। संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा । संमृज्य वाससा वस्त्रं गन्धं स धूमकम् ।। ८१ ।। दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् । ताम्बूलं च त्रिसन्ध्यासु दद्यात्संध्याद्वयेऽपि वा ।। ८२ ।। अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा । दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ।। ८३ ।। अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु । स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ।। ८४ ।। मध्य कुंभे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ । स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ।। ८५ ।। एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् । एकावरण संयुक्तमधमं त्विति कीर्तितम् ।। ८६ ।। प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति । भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ।। ८७ ।। संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् । नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ८८ ।। अथवैकदिनं वापि बलिहोम समन्वितम् । ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ।। ८९ ।। धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु । स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ।। ९० ।। भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् । इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ।। ९१ ।। यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके । यागशालां विधानेन कृत्वा वेदि समन्विताम् ।। ९२ ।। पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा । सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ।। ९३ ।। बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः । अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ।। ९४ ।। तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः । स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ।। ९५ ।। प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् । प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ।। ९६ ।। गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् । द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ।। ९७ ।। सायं प्रातर्बलि र्दद्यात् क्षुद्र बिंबसमन्वितम् । बल्यन्ते चोत्सवं कुर्यात् सर्वालंकार संयुतम् ।। ९८ ।। परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् । अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ।। ९९ ।। प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् । शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ।। १०० ।। धजोत्थान विहीनं वा बलिहोमोझितं तु वा । केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ।। १०१ ।। शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः । आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ।। १०२ ।। अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ।। १०२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः पटलः ।। ६७. सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः । सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ।। १ ।। प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके । भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ।। २ ।। अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः । पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ।। ३ ।। व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् । प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ।। ४ ।। भूर्जत्वक्कुलसंभूतं शीतालीदलमेव वा । तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ।। ५ ।। शैलदारुकृतं वापि लेखये दक्षरैः शुभः । मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ।। ६ ।। लिखेत् तूलिकया वापि देशिकः शिष्य एव वा । शुभवारर्क्षयोगादावारभेदनुकूलभे ।। ७ ।। पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः । न समीपे पशूनां तु कुर्यादध्ययनं बुधः ।। ८ ।। नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः । लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ।। ९ ।। गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् । वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ।। १० ।। गोमयालिप्त भूभागे रङ्गलेख समन्विते । प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ।। ११ ।। ज्वलद्दीपसमोपेते शुद्धशैव समावृते । लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ।। १२ ।। नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः । शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ।। १३ ।। ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः । प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ।। १४ ।। अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च । व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ।। १५ ।। पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः । छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ।। १६ ।। इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् । यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ।। १७ ।। शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः । अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ।। १८ ।। शिवविद्यानुसारेण विद्यादानं तदुच्यते । संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ।। १९ ।। प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि । अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ।। २० ।। देशभाषाद्युपायैश्च तथा भूतागमैरपि । प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ।। २१ ।। यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः । तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ।। २२ ।। शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् । इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ।। २३ ।। योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् । स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ।। २४ ।। शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् । प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ।। २५ ।। यावदक्षरं संख्यास्युः शिवज्ञानस्य पुस्तके । तावद्युतसहस्राणि दाता शिवपुरे नरः ।। २६ ।। दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् । मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ।। २७ ।। स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् । अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ।। २८ ।। वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा । श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ।। २९ ।। अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् । शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ।। ३० ।। आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् । मूल्येन कारयेद्वाथ तदेव फलमश्नुते ।। ३१ ।। यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः । स राजा वर्धते स राजाधिप ऊर्जितः ।। ३२ ।। राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ।। ३३ ।। शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः । यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ।। ३४ ।। तथा पाशुपतादीनि गारूडादीन्येनकधा । निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ।। ३५ ।। निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः । बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ।। ३६ ।। तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् । शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ।। ३७ ।। अन्येषामपि सर्वेषा माभिचारादिकम् तु वा । विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ।। ३८ ।। तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् । एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ।। ३९ ।। त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् । विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ।। ४० ।। एक शालादि भेदेन शाला वा लक्षणान्विताः । विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ।। ४१ ।। द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः । तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ।। ४२ ।। चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् । अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ।। ४३ ।। संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः । मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ।। ४४ ।। आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् । शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।। ४५ ।। मध्यमे शिव कुंभं तु पार्श्वयोर्वर्धनीद्वयम् । द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ।। ४६ ।। संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् । समिदाज्यतिलोपेतं हविषा च समन्वितम् ।। ४७ ।। यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् । संप्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ।। ४८ ।। मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ।। ४८१/२ ।। इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः पटलः ।। ६८. अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।। १ ।। गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ।। २ ।। कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ।। ३ ।। जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ।। ४ ।। स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः । तालाष्टांश विवृद्ध्या तु चतुस्तालावसनकम् ।। ५ ।। कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः । तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ।। ६ ।। हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ।। ७ ।। ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते । रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ।। ८ ।। तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा । गव्याभिषेचितं शस्त्र मलंकृत्य नयेत्ततः ।। ९ ।। ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे । प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ।। १० ।। एक वेदि समोपेतं पृथग्वेदियुतं तु वा । मण्डपं दशसंख्यातं प्रपा कुण्डसमन्वितम् ।। ११ ।। पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा । एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ।। १२ ।। इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे । वृत्त कुण्डं भवेदेवं कुण्डानि दश संख्यया ।। १३ ।। ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा । पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ।। १४ ।। शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा । आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ।। १५ ।। जलानीतं च सुस्नातं पूजितं कृतकौतुकम् । शयने शाययेद् बिंबं प्रदक्षिण शिरोन्वितम् ।। १६ ।। वस्त्रैराच्छादयेत्सर्वान् कुंभान् संस्थापयेद् गुरुः । परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ।। १७ ।। स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् । मध्य कुंभे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ।। १८ ।। विदिक्ष्वङ्गानि संपूज्य वाप्तिं पुरुष गोचरम् । स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ।। १९ ।। हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् । पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।। २० ।। शमीखादिर मायूर श्रीवृक्षास्संप्रकीर्तिताः । पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ।। २१ ।। प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् । संपूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ।। २२ ।। स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि । एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। २३ ।। इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः अष्टषष्टितमः पटलः ।। ६९. एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ।। १ ।। गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः । महतामेक भागं तु शूलानां मानमिष्यते ।। २ ।। प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ।। ३ ।। द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा । जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ।। ४ ।। यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् । भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ।। ५ ।। लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते । यजमाननृपग्रामानुकूलं लौकिकं मतम् ।। ६ ।। जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् । अंगुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ।। ७ ।। लौकिकं चान्यधामस्थ बेर साधारणं मतम् । युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ।। ८ ।। तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा । उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ।। ९ ।। तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् । पादमान युतं वाथ तन्मानं च पृथक् पृथक् ।। १० ।। तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः । रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ।। ११ ।। संग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् । पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ।। १२ ।। वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः । मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ।। १३ ।। चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते । मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ।। १४ ।। पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते । पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ।। १५ ।। अर्धपत्रं च पत्राग्रं तु कृशं भवेत् । पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ।। १६ ।। अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः । पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ।। १७ ।। तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि । पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ।। १८ ।। नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा । यवार्धं तु समारभ्य यवपाद विवर्धनात् ।। १९ ।। अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् । मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ।। २० ।। मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि । एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ।। २१ ।। पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः । पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ।। २२ ।। तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः । द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ।। २३ ।। पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् । तस्याधः पालिका कार्या पत्रायामार्ध भागतः ।। २४ ।। हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा । फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ।। २५ ।। पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् । एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ।। २६ ।। पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः । तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ।। २७ ।। पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् । घटवन्नाडिकामानं युघधा विभजेत्त तत् ।। २८ ।। एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका । हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ।। २९ ।। आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः । तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ।। ३० ।। दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा । तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ।। ३१ ।। विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा । पादं वान्तर मानं वा तदुच्चे दशधा कृते ।। ३२ ।। पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् । वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ।। ३३ ।। हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा । मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ।। ३४ ।। अथवा मध्य पत्रस्य मूले वृषभवाहनम् । पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ।। ३५ ।। देव्या समायुतं वाथ वृषभेण युतं न वा । देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ।। ३६ ।। अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् । माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ।। ३७ ।। टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् । पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ।। ३८ ।। शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते । मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ।। ३९ ।। पादेन मध्यमेऽष्टांश मानाद्वा दण्ड विस्तरः । विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ।। ४० ।। यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा । पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ।। ४१ ।। चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् । त्रिशूलापरभागे तु वृषभं वा समालिखेत् ।। ४२ ।। अथवा दण्डमानेन पुरुषं जटिलं तु वा । पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ।। ४३ ।। वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा । सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ।। ४४ ।। तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः । प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ।। ४५ ।। संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् । पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ।। ४६ ।। रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् । अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ।। ४७ ।। विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् । शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ।। ४८ ।। जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् । पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ।। ४९ ।। सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् । वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ।। ५० ।। शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना । ततो बिंबं समानीय स्नापयेत्पूर्ववर्त्मना ।। ५१ ।। कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु । बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ।। ५२ ।। शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् । आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ।। ५३ ।। त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् । शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ।। ५४ ।। चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् । स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ।। ५५ ।। विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् । द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ।। ५६ ।। यद्यस्ति प्रतिमा शर्वे शिवकुंभं च वर्धनीम् । वृषो यद्यस्ति तत्कुंभं तेषु तानर्चयेत्क्रमात् ।। ५७ ।। वज्रादीन् वसुकुंभेषु परितः संस्थितेषु च । तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ।। ५८ ।। पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः । दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ।। ५९ ।। शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः । न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ।। ६० ।। ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् । मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ।। ६१ ।। वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् । षण्मुखं कुंभदेशे तु कुंभस्यास्ये विनायकम् ।। ६२ ।। दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे । तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ।। ६३ ।। दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले । दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ।। ६४ ।। दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा । होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ।। ६५ ।। समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् । पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।। ६६ ।। पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः । प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ।। ६७ ।। पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे । सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ।। ६८ ।। विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् । ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ।। ६९ ।। ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि । तद्दिङ्मूर्त्यादि संयुक्तं पूर्व संख्या समन्वितम् ।। ७० ।। रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि । एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ।। ७१ ।। वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः । वज्रादीन् पंकजे सर्वान् देवान् प्राग्वन्निवेशयेत् ।। ७२ ।। तत्तत् कुंभजलैश्चैव स्नापयेच्छूलमादरात् । स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ।। ७३ ।। अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् । त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ।। ७४ ।। भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ।। ७४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन सप्ततितमः पटलः ।। ७०. सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ।। १ ।। देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः । चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ।। २ ।। तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते । चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ।। ३ ।। चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् । अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ।। ४ ।। नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः । पार्णेय प्रमुखास्तेषां आसनानि बहून्यपि ।। ५ ।। द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः । व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ।। ६ ।। द्वारोदयसमं वाष्ट नवभागोनमेव वा । नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ।। ७ ।। प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् । तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ।। ८ ।। पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु । उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ।। ९ ।। विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् । हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ।। १० ।। चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् । चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ।। ११ ।। अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् । सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ।। १२ ।। अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् । द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ।। १३ ।। पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् । अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ।। १४ ।। सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते । सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ।। १५ ।। पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदांश निर्गमात् । यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ।। १६ ।। एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः । दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ।। १७ ।। पादानामन्तरे पादा भवेयुरुपपीठके । पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ।। १८ ।। मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् । सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ।। १९ ।। एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः । उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ।। २० ।। स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् । मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ।। २१ ।। शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् । दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ।। २२ ।। राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते । त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ।। २३ ।। वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके । वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ।। २४ ।। वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका । सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ।। २५ ।। अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः । अर्धेनैकोनविंशांऽसं भद्रकं परिकीर्तितम् ।। २६ ।। त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके । सार्धार्द्धांश विभागार्धैरेकार्धाष्टांश सार्धकैः ।। २७ ।। अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः । पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ।। २८ ।। पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका । अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ।। २९ ।। आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः । एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ।। ३० ।। एत देव मुखे पृष्टे सौभद्रं संयुतम् । पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ।। ३१ ।। पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् । आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ।। ३२ ।। यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः । तद्विस्तार विभागेन मध्ये मकर तोरणम् ।। ३३ ।। पद्माभिषेक संपन्ना कार्या तोरण मध्यमे । तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ।। ३४ ।। मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता । कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ।। ३५ ।। मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् । अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ।। ३६ ।। स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् । कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ।। ३७ ।। नानारत्नसमोपेत मनन्तफण संयुतम् । विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ।। ३८ ।। वितोरणा विजिर्वाथ आसनं केवलं तु वा । पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ।। ३९ ।। पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् । उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ।। ४० ।। क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः । महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ।। ४१ ।। चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः । अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ।। ४२ ।। पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् । वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ।। ४३ ।। द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् । चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ।। ४४ ।। वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके । वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ।। ४५ ।। आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च । ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ।। ४६ ।। सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः । द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ।। ४७ ।। अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् । एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ।। ४८ ।। कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् । योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ।। ४९ ।। उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः । त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ।। ५० ।। पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् । वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ।। ५१ ।। वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् । श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ।। ५२ ।। नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः । पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ।। ५३ ।। पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते । अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ।। ५४ ।। प्रासाद लक्षणे पूर्वं कथितानि बहूनि च । अधिष्टानि सर्वाणि सोपपीठानि यानि च ।। ५५ ।। संग्राह्याणि च तानीह देशिकैर्नियमावृते । अवलम्बित पादस्याद् देवादीनां विशेषतः ।। ५६ ।। सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् । सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ।। ५७ ।। कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् । यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ।। ५८ ।। यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् । आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ।। ५९ ।। पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् । प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ।। ६० ।। आसनानां च सर्वेषामायादि विधिरुच्यते । परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ।। ६१ ।। बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् । सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद् गुरुः ।। ६२ ।। आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः । शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ।। ६३ ।। तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः । लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ।। ६४ ।। श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः । जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ।। ६५ ।। आसनार्थं च संग्राह्या द्रव्यग्रहणमार्गतः । एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ।। ६६ ।। कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः । शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ।। ६७ ।। पञ्च गव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् । अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ।। ६८ ।। शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् । पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ।। ६९ ।। स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः । गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ।। ७० ।। सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् । नमस्कार समोपेतं स्वबीजेन समन्वितम् ।। ७१ ।। मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः । तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ।। ७२ ।। समिदाज्यचरूंश्चैव तिललाज समन्वितम् । शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ।। ७३ ।। पूर्णाहुतिं ततः कृत्वा शान्तिकुंभांभसा गुरुः । सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ।। ७४ ।। स्नातं शुक्लांबरधरं मकुटेन विभूषितम् । सर्वाभरण संयुक्तं छत्र चामर संयुतम् ।। ७५ ।। सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् । नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ।। ७६ ।। मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् । तद्देव होम संयुक्तमासनाणुभिरन्वितम् ।। ७७ ।। आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः । अष्टदिक्वष्ट कुंभांश्च मध्यमे शक्रशर्वयोः ।। ७८ ।। प्रधान कुंभं संस्थाप्य स्वर्णवस्तादिभिर्युतम् । शिवासनाणु मध्ये च लोकपान् परितो यजेत् ।। ७९ ।। एवमादौ च संपूज्य ततो होमं समारभेत् । संतर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ।। ८० ।। सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः । शिवासनाणुं तन्मध्ये कुंभस्थं विनिवेशयेत् ।। ८१ ।। संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् । संपूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ।। ८२ ।। संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् । सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ।। ८३ ।। आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ।। ८४ ।। अन्येषामासनानां च प्रमाणमभिधीयते । सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ।। ८५ ।। मिश्रलोह शिलावृक्षमृत्सुधारत्न संभवम् । दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ।। ८६ ।। पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु । द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ।। ८७ ।। पञ्चाशनमानजातं तु विस्तारे मानमीरितम् । सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ।। ८८ ।। द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि । आयामे मानमुद्दिष्टं पादानं मानमुच्यते ।। ८९ ।। एकमात्रं समारभ्य व्योममात्र विवृद्धितः । पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ।। ९० ।। अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः । विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ।। ९१ ।। पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः । भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ।। ९२ ।। पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा । ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ।। ९३ ।। केवला वाथवा कार्या स्वशिरः पादसंयुताः । अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ।। ९४ ।। नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः । पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ।। ९५ ।। तदाननेलिकां वाथ फलकां वाथ योजयेत् । तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ।। ९६ ।। पादोर्ध्व फलका वाथ योजनीया यथेष्टतः । यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ।। ९७ ।। फलकासनमाख्यातं स्वर्णादीनां यथार्हकम् वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ।। ९८ ।। रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि । फलकां भूषयेद्वाथ केवला फलकाथवा ।। ९९ ।। तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् । नाना नाटक संयुक्तानयः कीलसमन्वितान् ।। १०० ।। नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा । चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ।। १०१ ।। अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् । आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ।। १०२ ।। त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः । चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ।। १०३ ।। तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् । स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ।। १०४ ।। सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् । फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ।। १०५ ।। तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् । एतेषामासनानां तु संस्कारः प्रागुदीरितः ।। १०६ ।। पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ।। १०६१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः पटलः ।। ७१. एकसप्ततितमे पटले रथादि स्थापन विधिः रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ।। १ ।। त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् । नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ।। २ ।। त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः । भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ।। ३ ।। अक्षोन्तरं समाख्यातं उपधानं द्विजोत्तमाः । पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ।। ४ ।। भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा । पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ।। ५ ।। इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः । यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ।। ६ ।। अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः । बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ।। ७ ।। तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः । स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ।। ८ ।। अक्षवधि विलंबिन्य स्त्वयः पट्टैर्दृढीकृताः । प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ।। ९ ।। शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् । अक्षोर्ध संप्रवेशार्थ मुपाधानन्तु वा नयेत् ।। १० ।। अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् । भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ।। ११ ।। तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् । पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ।। १२ ।। तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् । भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ।। १३ ।। समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते । तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ।। १४ ।। अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः । केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ।। १५ ।। ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् । भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ।। १६ ।। रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् । तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ।। १७ ।। त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः । द्वित्रिवेद महाभूत भाग विस्तार संयुताः ।। १८ ।। द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि । त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ।। १९ ।। योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् । भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ।। २० ।। प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् । चतुर्भागं समारभ्य भागस्याष्ट दशावधि ।। २१ ।। विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनां । चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ।। २२ ।। दशभागा वशानन्तु चक्रनेमि घनञ्चयत् । तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ।। २३ ।। एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः । वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ।। २४ ।। पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा । पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ।। २५ ।। यथाबलं विशालानि तथा विधधनानिच । चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ।। २६ ।। एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् । द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ।। २७ ।। एकद्वित्र्यङ्गुलांधिक्यन्नाभिदेशे भवेत् द्विजाः । तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ।। २८ ।। मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च । त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ।। २९ ।। सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा । ब्रह्मा रथांग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ।। ३० ।। भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते । एकभागा द्विकारान्त मेकभाग विवर्धनात् ।। ३१ ।। तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः । भारबाह्य विवृध्यातु रसभागावसानकाः ।। ३२ ।। एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः । गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ।। ३३ ।। त्रिभागे नैक भागेन मूलादारभ्य कारयेत् । उपान पद्मकंपानि कंपं कर्णञ्च कपकम् ।। ३४ ।। पद्मञ्च वाजनं कंपं दृष्टान्तार्थ मुदाहृतम् । पादोनार्धेन भागेन त्रिभागेन द्विभागतः ।। ३५ ।। त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् । एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ।। ३६ ।। धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् । चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ।। ३७ ।। गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् । उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ।। ३८ ।। उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् । फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ।। ३९ ।। फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् । सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ।। ४० ।। शतांऽसान्तं समुद्दिष्टं तन्मूलं वेद भागतः । वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ।। ४१ ।। षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् । कुंभ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ।। ४२ ।। पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् । तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ।। ४३ ।। वस्वं शांताय संयुक्तं तद्विस्तारोदरान्वितम् । तत्रिपाद विशालं वा तदन्तस्सममानकम् ।। ४४ ।। कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा । बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ।। ४५ ।। भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् । यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ।। ४६ ।। तद्विनिर्गमनोपेत मुपपीठं गलावधि । द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ।। ४७ ।। तत्संबन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः । पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ।। ४८ ।। यथेष्ट घन विस्तारे तत्संबन्धे परेपि वा । भरमूले तदग्रे च समभदे तथानयेत् ।। ४९ ।। अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि । तत्रपादा विधेयास्स्युः उपपीठावसानके ।। ५० ।। फलके द्वे विधातव्ये तत्पादोपरि संस्थिते । तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ।। ५१ ।। भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् । उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ।। ५२ ।। उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् । तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ।। ५३ ।। अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् । पंकित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ।। ५४ ।। पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने । सदन्त गलकंपौच महा वाजन माचरेत् ।। ५५ ।। उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् । प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ।। ५६ ।। एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा । अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ।। ५७ ।। अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः । तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ।। ५८ ।। गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः । सिंह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ।। ५९ ।। तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् । प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ।। ६० ।। त्रिभागन्तु समारभ्य भागभाग विवर्धनात् । नवभागावसानं स्यादलङ्गारश्च कथ्यते ।। ६१ ।। तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः । व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ।। ६२ ।। निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् । प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ।। ६३ ।। एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् । पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ।। ६४ ।। एकादि रसभागान्तं पार्श्वयोरुभयोरपि । प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ।। ६५ ।। रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा । षडादि त्रिंशदंशान्तं समं वा मूलपादतः ।। ६६ ।। प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः । अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ।। ६७ ।। छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः । एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ।। ६८ ।। भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु । न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ।। ६९ ।। पादानां कार्यः प्रस्तराणाञ्च मञ्चतः । प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ।। ७० ।। अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते । रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ।। ७१ ।। भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा । प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ।। ७२ ।। सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् । उपभद्र विहीनं वा भद्रं भारान्तमेव वा ।। ७३ ।। एतत् सर्वं विहायाथ केवलान्तूपपीठकम् । भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ।। ७४ ।। उपपीठं विहायास्मिन् केवलवामसूरकम् । बहिः करणमेवस्या दन्तरत्र निगद्यते ।। ७५ ।। पादवर्गेन्तरे क्षुद्रपादाः कंपोपरिस्थिताः । ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ।। ७६ ।। तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा । विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ।। ७७ ।। तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः । अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ।। ७८ ।। तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः । नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ।। ७९ ।। नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः । कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ।। ८० ।। एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा । पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ।। ८१ ।। वेदतालं समारभ्य तालार्धेन निवर्धयेत् । यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ।। ८२ ।। पाद पाद विवृध्यातु तत्वाङ्गुल समावधि । पाद विस्तार आखातो धाम पादा कृतिर्यथा ।। ८३ ।। अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः । बहुनीव्र समायुक्ताः फलकासु निवेशिताः ।। ८४ ।। तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् । तथैवायसनालैश्च धारस्सुदृधं यथा ।। ८५ ।। पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् । शिखाकरणमार्गेण लुपारोहण क्रियान्विता ।। ८६ ।। सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् । छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ।। ८७ ।। रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् । कथ्यते सचलेशेन विस्तारादायतोपिवा ।। ८८ ।। उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा । वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ।। ८९ ।। सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ । तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ।। ९० ।। शकटे शिबिकादौच शुभेशुभ मुदाहृतम् । रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ।। ९१ ।। उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढं । गोमूत्र गोमयांभोभिः कुशोदैस्तज्जलैरपि ।। ९२ ।। गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् । अस्त्रोदेनापि संप्रोक्षय गन्ध पुष्पादिभिः यजेत् ।। ९३ ।। कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु । वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ।। ९४ ।। मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ । दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ।। ९५ ।। हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् । उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ।। ९६ ।। धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः । अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ।। ९७ ।। फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् । कर्णिकान्नवशक्तींश्च शिवासनं अनुस्मरेत् ।। ९८ ।। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः । शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ।। ९९ ।। पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना । तदग्रे स्थंडिलं कृत्वा तस्मिन् सूत्रांबरान्वितान् ।। १०० ।। हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् । तत्र मध्ये शिवं पूर्वेभानुं इन्दुं तथानले ।। १०१ ।। दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे । वारुणे वृषभं वायावनन्तं विनिवेशयेत् ।। १०२ ।। धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे । गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ।। १०३ ।। संस्थापित घटानांवा समन्ता द्वारथस्यतु । नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ।। १०४ ।। आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् । शिवं साङ्गं प्रधानेतु तर्पयेच्छत संख्यया ।। १०५ ।। भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् । एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ।। १०६ ।। समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् । तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ।। १०७ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिङ्मताः । शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ।। १०८ ।। पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः । पूर्णान्दत्वा द्वितीयेह्नि कृत कुंभाग्नि पूजनः ।। १०९ ।। संप्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।। ११० ।। तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। १११ ।। एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः । इहैव धनवांच्छ्रीमान् वांछितं फलमाप्नुयात् ।। ११२ ।। रथमेवं सुसंकृत्य रथयात्रां समाचरेत् । पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ।। ११३ ।। तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः । षण्णवत्यंश कान्तस्तु शिबिका विस्तरोमतः ।। ११४ ।। त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः । एकोन् द्विशतं याव दायामं परिकल्पयेत् ।। ११५ ।। ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् । पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ।। ११६ ।। पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः । एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ।। ११७ ।। पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् । त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ।। ११८ ।। दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् । वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ।। ११९ ।। विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् । अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ।। १२० ।। वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् । त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ।। १२१ ।। आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ । विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ।। १२२ ।। योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् । विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ।। १२३ ।। त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् । हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ।। १२४ ।। त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः । त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ।। १२५ ।। व्योममात्रं समारभ्य पादमात्र विवृद्धितः । सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ।। १२६ ।। व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि । हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ।। १२७ ।। वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् । अष्टांशादंश वृध्यातु स्वन्न्यास द्विगुणावधि ।। १२८ ।। इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः । किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ।। १२९ ।। पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि । पट्टिका घन विस्तारो यथायोग्यं विधीयते ।। १३० ।। व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः । गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ।। १३१ ।। क्षुद्रकंपैश्च वल्लीभिर्नाराचैः कोणबन्धनैः । यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ।। १३२ ।। झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः । स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ।। १३३ ।। शिबिकालंकृतिं कुर्याद्यथा शोभं यथाबलम् । एषा पैठी समाख्याता शेखरी शिखरान्विता ।। १३४ ।। पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता । शूकः कालश्च तिमिरः पनसो निंबकार्जुनौ ।। १३५ ।। मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः । वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ।। १३६ ।। अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः । वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ।। १३७ ।। तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् । चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ।। १३८ ।। त्र्यंगुलादंगुलद्धर्यातु पञ्चाशत् करजावधि । पाद दैर्घ्यं समाख्यातं द्वयंगुलात् पादवृद्धितः ।। १३९ ।। तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः । अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ।। १४० ।। अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् । तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ।। १४१ ।। फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् । नानापट्ट समायुक्तन्नानावेत्र समायुतम् ।। १४२ ।। नाना नाराच संबन्धं पुलकाद्यैश्च शोभितम् । लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ।। १४३ ।। शिबिकायद्वदायाद्यैः संयुक्तं संपदेभवेत् । पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ।। १४४ ।। प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् । खट्वा पाद समायुक्तं पट्टिकां एक संयुतम् ।। १४५ ।। पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् । निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ।। १४६ ।। इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ।। ७२. द्विसप्ततितमे पटले करणलक्षण विधिः लक्षण करणानां च वक्ष्ये संक्षेपतः क्रमात् । याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ।। १ ।। सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः । त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ।। २ ।। वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः । तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ।। ३ ।। निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः । चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ।। ४ ।। दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः । षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ।। ५ ।। तत्संख्यामात्रदैर्घ्यं स्यात् किंचैकादशमात्रतः । ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ।। ६ ।। ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः । वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ।। ७ ।। ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः । ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ।। ८ ।। उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः । उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ।। ९ ।। अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके । द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ।। १० ।। पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् । अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ।। ११ ।। प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् । ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ।। १२ ।। करे संयोजनीयं स्यात् काले देवार्चनादिके । अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ।। १३ ।। त्रयोविंशतिसंख्यातदर्भैस्स्यान्निर्मितेन च । अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ।। १४ ।। यथेष्टान्तरयुक्तेन लम्बनेन समन्विता । दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ।। १५ ।। रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता । आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ।। १६ ।। तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् । सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ।। १७ ।। द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा । स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ।। १८ ।। पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् । याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ।। १९ ।। शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् । इष्टमानेन खातं स्याच्छिखामानं तथैव च ।। २० ।। विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा । सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ।। २१ ।। पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् । विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ।। २२ ।। यावत्तावद् घनं तेषामिष्टमानेन कारयेत् । एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ।। २३ ।। नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च । षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ।। २४ ।। पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् । अन्तरेष्टविभागे तु नवमानमुदाहृतम् ।। २५ ।। घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि । याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ।। २६ ।। दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् । श्रीवत्सं स्वस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ।। २७ ।। अन्येषामपि देवानां देवीनां चाष्टमङ्गले । वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ।। २८ ।। शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् । ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ।। २९ ।। विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते । पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।। ३० ।। पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् । विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ।। ३१ ।। पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् । तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ।। ३२ ।। स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः । तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ।। ३३ ।। पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् । श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ।। ३४ ।। शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् । श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ।। ३५ ।। स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः । दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ।। ३६ ।। चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् । शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ।। ३७ ।। लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः । पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ।। ३८ ।। एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् । हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ।। ३९ ।। वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् । ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ।। ४० ।। ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः । लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ।। ४१ ।। देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् । जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ।। ४२ ।। नवतालप्रमाणेन तेषां लक्षणमुच्यते । तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ।। ४३ ।। देहलब्धेन तेषां तु प्रमाणं प्रविधीयते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ४४ ।। तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् । मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ।। ४५ ।। लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु । इष्टमानेन चैतेषां विस्तार इह कथ्यते ।। ४६ ।। स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते । तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ।। ४७ ।। षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा । दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ।। ४८ ।। त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला । सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ।। ४९ ।। कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा । कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ।। ५० ।। यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि । नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ।। ५१ ।। शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् । कर्णपार्श्वैकमात्रोनशरावादामुखावधः ।। ५२ ।। कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् । अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ।। ५३ ।। तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् । आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ।। ५४ ।। कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता । तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ।। ५५ ।। दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः । मुष्ट्यष्.आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ।। ५६ ।। अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते । द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ।। ५७ ।। तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः । कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ।। ५८ ।। सप्ताऽऽगुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् । गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ।। ५९ ।। रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् । तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ।। ६० ।। पादं कलशमूले स्यादन्यथा वा निगद्यते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ६१ ।। विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् । विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ।। ६२ ।। त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् । कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ।। ६३ ।। वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् । त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ।। ६४ ।। दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् । अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ।। ६५ ।। त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः । स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ।। ६६ ।। एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् । षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ।। ६७ ।। तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् । गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ।। ६८ ।। पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः । नूतनं करणं श्रेष्ठं पुराणं तदभावतः ।। ६९ ।। पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः । तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ।। ७० ।। सहस्राघोररजापस्यात् पुराणकरणग्रहे । येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।। ७१ ।। तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः । अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ।। ७२ ।। अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् । श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ।। ७३ ।। तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः । तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।। ७४ ।। तेनैवोत्सवकर्माद्यं विहितं मुनिपुंगवाः । स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ।। ७५ ।। समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च । ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ।। ७६ ।। तोरणानि पयोवृक्षजातिलक्षणवन्ति च । पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ।। ७७ ।। वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् । तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ।। ७८ ।। शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् । शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ।। ७९ ।। एकादिवेदहस्तान्ततोरणे क्षुद्रमानके । उदयार्धप्रमाणं वा यादादौ परिपठ्यते ।। ८० ।। इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ।। ७३. त्रिसप्ततितमे पटले सौख्य कर्म विधिः प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च । सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ।। १ ।। सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् । ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ।। २ ।। तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् । अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ।। ३ ।। ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः । देवतारुवने पूर्व विनोदार्थं मया पुरा ।। ४ ।। कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः । तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ।। ५ ।। विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः । तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ।। ६ ।। मदालोकन मात्रेण दधते गर्भमक्षयम् । तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ।। ७ ।। तास्सर्वास्तत्र संपूज्य कानो वृत्तिर्भविष्यति । एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ।। ८ ।। मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि । तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ।। ९ ।। तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने । स्त्रीभिस्तद्वंश जाताभिः पञ्चाचार्य समन्वितम् ।। १० ।। इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले । मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ।। ११ ।। आहूय नन्दिनं चादाय करमध्यगम् । वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ।। १२ ।। ततः प्रभृति वर्तन्ते भुवि नन्दाव्य संज्ञया । यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ।। १३ ।। विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् । नर्तको मर्दकश्चैव गायको वांशिकस्तथा ।। १४ ।। तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः । चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ।। १५ ।। भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः । नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ।। १६ ।। तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् । नर्तने च स्वयं शक्तो मात्रागणन तत्परः ।। १७ ।। मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः । प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ।। १८ ।। गायको गान विद्याज्ञस्सप्तस्वर विशारदः । सप्त स्वर विभेदेन गायको गान नायकः ।। १९ ।। वांऽसिकस्तद्वदेव स्यात् किंतु वंशकृतश्रमः । सौख्ये तु वादयेद्वंश मुदात्तादि विभेदतः ।। २० ।। वादयेन्मुखं सौख्य काले मौर विको मतः । नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ।। २१ ।। गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ । अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ।। २२ ।। ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् । पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ।। २३ ।। अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः । पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ।। २४ ।। मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् । त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ।। २५ ।। देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् । प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ।। २६ ।। युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् । अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ।। २७ ।। पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन । सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ।। २८ ।। तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि । नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ।। २९ ।। आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा । पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ।। ३० ।। आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे । क्षालितं वेत्रमादाय हेतितो येन देशिकः ।। ३१ ।। संस्थाप्य वेत्रं पूर्वाग्रं उत्तराग्रमथापि वा । नन्दिनं तत्र संपूज्य गन्धपुष्पादिभ्र्गुरुः ।। ३२ ।। नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः । श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ।। ३३ ।। संप्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि । तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ।। ३४ ।। शिवायनम इत्येवं समस्तं शिरसि न्यसेत् । गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ।। ३५ ।। नामोक्त्वा नन्दपूर्वं तु संबुध्यन्तं यथा भवेत् । नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ।। ३६ ।। मदीयोत्सव कालादौ तव नृत्तानुकूलतः । एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ।। ३७ ।। तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् । पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ।। ३८ ।। ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् । शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ।। ३९ ।। एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते । देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ।। ४० ।। देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् । विन्यस्य तत्पुरः कुंभं स्वर्णवस्त्रादि संयुतम् ।। ४१ ।। पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् । पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ।। ४२ ।। तदम्भसा तु संप्रोक्ष्य शिरः कूर्चेन संस्पृशेत् । पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ।। ४३ ।। प्रवेशो रुद्रकन्यानामादौ संक्षिप्य कथ्यते । निर्दिष्ट दिवसात् पूर्वं मङ्गलांकुर माचरेत् ।। ४४ ।। प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् । विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ।। ४५ ।। सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः । निष्पाद्य देवदेवेशं पूर्वेद्युस्संप्रपूजयेत् ।। ४६ ।। गन्धाद्यैर्युग संख्याता रुद्रकन्या उपोषिताः । धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ।। ४७ ।। सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः । कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ।। ४८ ।। अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् । संस्थाप्य देव देवेशं सहस्रकलशादिभिः ।। ४९ ।। संपूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् । मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ।। ५० ।। पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः । मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ।। ५१ ।। नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् । साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ।। ५२ ।। नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् । स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ।। ५३ ।। तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् । पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ।। ५४ ।। प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् । सरस्वत्या समोपेतं लोकपालादि संयुतम् ।। ५५ ।। पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् । उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ।। ५६ ।। संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् । आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ।। ५७ ।। होमयेच्छत संख्यातामावृतिं दशसंख्यया । समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ।। ५८ ।। देवं संपूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् । प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ।। ५९ ।। तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् । नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ।। ६० ।। पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः । भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ।। ६१ ।। नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया । कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ।। ६२ ।। पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् । समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ।। ६३ ।। श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ।। ६४ ।। प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् । मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि- गीतयुक्तः । नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे कमलासनाय ।। ६५ ।। भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन । आमोद मत्तरलिभिर्रिकूजत् पुष्पांजलिस्यात् पुरुषोत्तमाय ।। ६६ ।। सान्तानिकादि शिव संस्कृत रुद्रकन्या । नानाविधाभिनयकै रभिवर्धमानः । नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै । पुष्पाञ्जलिर्भवतु मे परमेश्वराय ।। ६७ ।। स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए । उत्सवे स्नपने मासपूजायां होमकर्मणि ।। ६८ ।। धजारोहण कलादौ काम्यादौ च विशिष्यते ।। ६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ।। ७४. चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु । आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ।। १ ।। महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः । संस्कारेण विशेषोऽयंजात्या वैशि.य मुच्यते ।। २ ।। ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि । प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ।। ३ ।। वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा । योगेन क्रियया वाथ चर्ययापि विशिष्यते ।। ४ ।। आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः । तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ।। ५ ।। आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च । दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ।। ६ ।। पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् । मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ।। ७ ।। परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः । स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ।। ८ ।। पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः । क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ।। ९ ।। अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः । ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ।। १० ।। पूजयेद्देव कल्याणे पवित्रारोहणादिके । सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ।। ११ ।। देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः । देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ।। १२ ।। तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् । सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ।। १३ ।। सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः । दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ।। १४ ।। सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् । पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ।। १५ ।। पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ।। १६ ।। सहमार्गी शिवार्चाग्नि जपहोमं परायणः । प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ।। १७ ।। दासमार्गी शिवोद्यानलिंग बिम्बालयादि कृत् । शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ।। १८ ।। एवं बहु प्रकारेण शैवैस्सह विचार्य च । एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ।। १९ ।। इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः पटलः ।। ७५. पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः व्याधिनाश विधानं तु वक्ष्ये संक्षेप्तः क्रमात् । सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ।। १ ।। गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् । ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ।। २ ।। क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने । वात पित्तकफोद्रेके दाहमोह वणोकटे ।। ३ ।। महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे । एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ।। ४ ।। आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते । पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ।। ५ ।। तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे । पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ।। ६ ।। देवालये नदीतीरे पर्वते काननेऽपि वा । अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ।। ७ ।। गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते । लिंगे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ।। ८ ।। शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् । गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ।। ९ ।। स्नपनेन समोपेतं पञ्चगव्यामृतादिना । संपूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ।। १० ।। अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ११ ।। तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् । मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ।। १२ ।। पठित्वा देवदत्तस्य पदं चात्र विशेषतः । एवं जपं विधायैत दिष्टदेवे निवेदयेत् ।। १३ ।। गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् । स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ।। १४ ।। तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके । कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ।। १५ ।। तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् । गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ।। १६ ।। होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा । कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ।। १७ ।। देवं कुंभं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः । होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ।। १८ ।। तत्कुंभसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः । तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ।। १९ ।। रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः । होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ।। २० ।। कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः । गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ।। २१ ।। नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा । शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ।। २२ ।। प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः । चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ।। २३ ।। मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् । यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ।। २४ ।। तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः । एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ।। २५ ।। वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह । बलिरेष समाख्यातो धूपदीपसमन्वितः ।। २६ ।। पताकास्वादुपानीय युक्तसाधारणो मतः । अथवान्य प्रकारेण व्याधिमोचनमुच्यते ।। २७ ।। लिंगादौ देवमभ्यर्च्य जपहोमौ समाप्य च । सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ।। २८ ।। तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् । दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ।। २९ ।। तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा । कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ।। ३० ।। रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः । कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ।। ३१ ।। पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् । अनेन विधिना रोगी अरोगी स्यान्न संशयः ।। ३२ ।। केवलं बलिदानं वा चतुर्मासान्तमेव वा । पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ।। ३३ ।। अथवान्य प्रकारेण व्याधिनाशनमुच्यते । अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ।। ३४ ।। ग्रहणे विषुवे वापि द्वयोरयनयोरपि । स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ।। ३५ ।। गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा । स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ।। ३६ ।। पञ्चविंशति संखायतान् पञ्चसंख्यानथापि वा । एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ।। ३७ ।। ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् । सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ।। ३८ ।। सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् । गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ।। ३९ ।। अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः । तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ।। ४० ।। होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा । शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ।। ४१ ।। तस्मात्तद्भस्म संग्राह्य व्याधितं स्नापयेद् गुरुः । गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ।। ४२ ।। तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् । निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ।। ४३ ।। स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् । प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ।। ४४ ।। कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा । राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ।। ४५ ।। साधयेच्छत संख्यातान् कलशाष्टक संयुतान् । पञ्चाशत् संख्यया तेभ्यो न हीनान् साधयेत्गुरुः ।। ४६ ।। कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते । मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ।। ४७ ।। अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः । आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ।। ४८ ।। अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् । शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ।। ४९ ।। सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके । होमेन समसख्यां वा जप तुल्यं परं मतम् ।। ५० ।। शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् । अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ।। ५१ ।। सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके । कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ।। ५२ ।। पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् । विधाय जपमात्रं वा गोरोचनयुतं तु वा ।। ५३ ।। शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः । संपूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ।। ५४ ।। स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना । लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ।। ५५ ।। दुर्बलो बलवान्धीर स्सर्वैस्संपूज्यते भुवि । कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ।। ५६ ।। नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे । प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ।। ५७ ।। जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः । पूजां होमं च वा नित्यं जपतर्पण संयुतम् ।। ५८ ।। एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते । बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ।। ५९ ।। अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः । तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ।। ६० ।। विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः । सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ।। ६१ ।। गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते । मध्ये वा गजशालायां शूलस्थाने मनोरमे ।। ६२ ।। शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च । विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ।। ६३ ।। नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके । गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ।। ६४ ।। स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः । लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ।। ६५ ।। स कूर्चं सापिधानं च गन्धोदक समन्वितम् । एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ।। ६६ ।। दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् । तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ।। ६७ ।। पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् । सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ।। ६८ ।। कपालशूल संयुक्तं धनुर्बाण समन्वितम् । ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ।। ६९ ।। एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् । पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ।। ७० ।। गन्ध पुष्प समायुक्तं धूपदीप समायुतम् । नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ।। ७१ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ।। ७२ ।। तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके । कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ।। ७३ ।। समिदाज्य चरूपेतं तिलतण्डुल संयुतम् । क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ।। ७४ ।। समिधस्संप्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः । संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ७५ ।। प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् । तद्भस्म संग्रहं कृत्वा देवं कुंभे विसर्जयेत् ।। ७६ ।। तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः । ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ।। ७७ ।। अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च । स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ।। ७८ ।। रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा । बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ।। ७९ ।। गजशाला समीपे वा होमस्थानेऽथवा बैः । एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ।। ८० ।। किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः । गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ।। ८१ ।। सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा । तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ।। ८२ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् । एककालं द्विकालं वा त्रिकालं वा विशिष्यते ।। ८३ ।। नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् । साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ।। ८४ ।। हयानां च गजानां च रक्षणं चान्यथोच्यते । तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ।। ८५ ।। कुंभेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते । अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ।। ८६ ।। तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः । व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ।। ८७ ।। तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् । तन्मध्ये द्रोण संपूर्णं कुंभं विन्यस्य देशिकः ।। ८८ ।। सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् । पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ।। ८९ ।। तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् । चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ।। ९० ।। नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा । ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ।। ९१ ।। समिदाज्य चरूपेतं तिलसर्षप लाजकैः । क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ।। ९२ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । पञ्चाशत्संख्यया वाथ पञ्चविंशति संख्यया ।। ९३ ।। प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् । अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ।। ९४ ।। कुण्डद्वये वा होतव्यं एकस्मिन्स्थण्डिलेऽपि वा । पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ।। ९५ ।। पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् । साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ।। ९६ ।। अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः । कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ।। ९७ ।। अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः । पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ।। ९८ ।। रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः । स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ।। ९९ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् । महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ।। १०० ।। अन्नं मधुघृतोपेतं दधिलाज समन्वितम् । कदलीफल संयुक्त मपूपैश्च समन्वितम् ।। १०१ ।। नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् । दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ।। १०२ ।। विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः । अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ।। १०३ ।। क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् । तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ।। १०४ ।। अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् । तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ।। १०५ ।। दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः । गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ।। १०६ ।। तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् । आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ।। १०७ ।। शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् । कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ।। १०८ ।। व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले । केवलं तर्पणं वाथ पूजां हवन संयुताम् ।। १०९ ।। केवलं यजनं होमं बलिं नित्यं समाचरेत् । मर्त्यानामपि सर्वेषां एतत्सामान्यमुच्यते ।। ११० ।। होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् । केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ।। १११ ।। उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् । शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ।। ११२ ।। द्रोणपूर्णं समादाय कुम्भं बिंब समप्रभम् । तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ।। ११३ ।। तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते । तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ।। ११४ ।। तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् । विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ।। ११५ ।। फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् । एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ।। ११६ ।। छादयित्वा पिधानेन कल्पयेदासनं बुधः । आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ।। ११७ ।। अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् । तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ।। ११८ ।। कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः । मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ।। ११९ ।। तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् । अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ।। १२० ।। चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् । एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ।। १२१ ।। दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् । आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ।। १२२ ।। अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह । चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ।। १२३ ।। नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् । तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ।। १२४ ।। अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः । दत्वा स्वावरणोपेतं निरावरणमेव वा ।। १२५ ।। भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः । असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ।। १२६ ।। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः । तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ।। १२७ ।। अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् । गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ।। १२८ ।। नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् । अघोराय तदस्त्रय पानीयं च निवेदयेत् ।। १२९ ।। विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् । अघोराय तदस्त्राय संनिवेद्य जपं गुरुः ।। १३० ।। तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः । प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ।। १३१ ।। यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् । क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ।। १३२ ।। लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् । ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ।। १३३ ।। होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् । अघोरेण च तद्भस्म संग्राह्यास्त्रेण रक्षयेत् ।। १३४ ।। भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् । होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ।। १३५ ।। प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः । दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ।। १३६ ।। कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् । हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ।। १३७ ।। तस्मादुद्धृत्य कुंभं तु व्याधिस्थभिषेचयेत् । प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ।। १३८ ।। सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् । हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ।। १३९ ।। एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा । पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ।। १४० ।। प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् । यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ।। १४१ ।। पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा । तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ।। १४२ ।। एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये । महिषाज गवामेवं कारयेद्विजसत्तमाः ।। १४३ ।। अथोपयुक्तं यद् द्रव्यं आचार्याय प्रदापयेत् । प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ।। १४४ ।। तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः । एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ।। १४५ ।। होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् । गजानां वा हयानां वा शालायमङ्कणेऽपि वा ।। १४६ ।। तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् । शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ।। १४७ ।। संप्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् । वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ।। १४८ ।। गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् । वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ।। १४९ ।। हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् । अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ।। १५० ।। यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् । नोप सर्गभयं तत्र रोगपीडा न विद्यते ।। १५१ ।। उत्पन्नरोग नाशश्च भवत्येव न संशयः । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। १५२ ।। अघोरस्य तदस्त्रस्य यजनं होम संयुतम् । वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ।। १५३ ।। आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः । अनेन सदृशो योगो दुरिक्षयहेतुकः ।। १५४ ।। नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ।। १५४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः पञ्चसप्ततितमः पटलः ।। ७६. षट्सप्ततितमे पटले राज रक्षा विधिः राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः । भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ।। १ ।। ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः । ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ।। २ ।। ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः । मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ।। ३ ।। ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु । दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ।। ४ ।। ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः । स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ।। ५ ।। सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः । प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ।। ६ ।। स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् । वौषडंतं तु शूद्राणां तद्देव ध्यान सम्युतम् ।। ७ ।। स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् । दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ।। ८ ।। स्वानुकूलानु संजप्तमथवा विनिवेदयेत् । यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ।। ७७. सप्तसप्ततितमे पटले दुर्गा पूजा विधिः दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् । लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ।। १ ।। कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ।। २ ।। आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता । सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ।। ३ ।। अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ।। ४ ।। सन्तर्जयति हुंकारैः खड्गोपान्तकरान् परान् । तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ।। ५ ।। सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते । भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ।। ६ ।। तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः । पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ।। ७ ।। गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने । प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ।। ८ ।। मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः । मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ।। ९ ।। राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च । पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ।। १० ।। तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः । तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ।। ११ ।। समिदाज्येन हविषा पायसेन च होमयेत् । हुतशेषं तुरङ्गानां गजानामुपहारयेत् ।। १२ ।। बद्ध प्रतिसरान् पञ्च गजाश्वान् समलंकृतान् । भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ।। १३ ।। प्रत्यहं नृपतिः स्वाः स्वाः संपूज्य पितृदेवताः । पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ।। १४ ।। नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः । हुतशेषं प्रदातव्यमौपनायनिके गजे ।। १५ ।। तस्यापि हरणे राज्ञो विजयस्समुदाहृतः । पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ।। १६ ।। यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्य वृद्धये ।। इति १७ ।। ओं छं छत्राय नमः गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः । ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ।। १८ ।। ओं तुं तुरङ्गाय नमः प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। १९ ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ।। २० ।। यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा । मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २१ ।। सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ।। २२ ।। निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। २३ ।। अं अश्वाय नमः इत्यश्वमन्त्रः शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः । पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ।। २४ ।। ओं ध्वं ध्वजाय नमः काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः । अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ।। २५ ।। गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः । साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ।। २६ ।। कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ।। २७ ।। आं गं गजाय नमः । एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः । भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ।। २८ ।। वने वने प्रसूतास्ते वनयोनिर्महागजः । पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ।। २९ ।। भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ।। ३० ।। श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् । स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ।। ३१ ।। युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः । अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ।। ३२ ।। हस्तिमन्त्रः ओं हं हस्तिने नमः हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः । नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ।। ३३ ।। प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह । गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ३४ ।। व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु । श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ।। ३५ ।। पतन्तु परिशत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ।। ३६ ।। हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा । शोभितासि तथैवाद्य शोभया समयं स्मर ।। ३७ ।। नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ।। ३८ ।। सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः । पूतना रेवती नाम कालरात्रीति याः स्मृताः ।। ३९ ।। दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ।। ३९१/२ ।। पताका मन्त्रः ओं पं पताकाय नमः । असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ।। ४० ।। श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।। ४१ ।। ओं खं खड्गाय नमः नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।। ४२ ।। पिता पितामहो देवस्त्वं मां पालय सर्वदा । शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ।। ४३ ।। रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते । ओं वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।। ४४ ।। तव भूमि प्रधानानां तथा विजयवर्द्धनः । यथा जीमूतघोषेण हृष्यन्ति परवारणाः ।। ४५ ।। तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः । यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ।। ४६ ।। तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे । ओं दुं दुन्दुभये नमः सर्वायुध महामात्र सर्वायुध निषूदन ।। ४७ ।। चाप मां सर्वदा रक्ष साकं सायकसत्तमैः । ओं चं चापाय नमः पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ।। ४८ ।। विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव । ओं शं शङ्खाय नमः शशांकाकार संकाश हिमपिण्डित पाण्डर ।। ४९ ।। प्रोत्साधयाशु दुरितं चामरामर वल्लभ । ओं चं चामराय नमः सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ।। ५० ।। शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ।। ५१ ।। त्वया विस्तारिता चासि देवानां प्रतिपादिता । सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ।। ५२ ।। क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते । ओं क्षुं क्षुरिकाय नमः प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ।। ५३ ।। ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये । यशो देहि सुखं देहि देवो हि भव भूपतेः ।। ५४ ।। ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते । ओं कं कनकदण्डाय नमः विजयी भव देवोऽसि रिपुधाती प्रियंकरः ।। ५५ ।। दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः । एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ।। ५६ ।। तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे । त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ।। ५७ ।। त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः । नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ।। ५८ ।। त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते । ओं सिं सिंहासनाय नमः लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ।। ५९ ।। फलनैवेद्य कुसुमैः धूपदीप विलेपनैः । अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ।। ६० ।। रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् । प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ।। ६१ ।। पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् । राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ।। ६२ ।। स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः । कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ।। ६३ ।। कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः । नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ।। ६४ ।। द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् । अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ।। ६५ ।। तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् । धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ।। ६६ ।। शङ्ख चक्र समायुक्तां सर्वालंकार भूषिताम् । वराक्षमालाः मखरां महिषासुर संस्थिताम् ।। ६७ ।। सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् । चतुर्भुजां वा संपूज्य वरदाभय संयुताम् ।। ६८ ।। शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् । नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ।। ६९ ।। एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये । घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ।। ७० ।। शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया । ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ।। ७१ ।। भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् । कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ।। ७२ ।। भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् । दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ।। ७३ ।। बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा । मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ।। ७४ ।। असुरा यातुधानाश्च मातृसर्प पिशाचकाः । डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ।। ७५ ।। जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः । दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।। ७६ ।। जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः । मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ।। ७७ ।। सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः । इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् । नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ।। ७८ ।। इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ।। ७८. अष्टसप्ततितमे पटले वाजि नीराजन विधिः शान्ति नीराजनाख्यं तु संप्रवक्ष्यामि वाजिनाम् । कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ।। १ ।। नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा । द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ।। २ ।। नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके । अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ।। ३ ।। विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता । विंशद्धस्त समायामायागशालेय मीरिता ।। ४ ।। षट् संमितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् । तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ।। ५ ।। गंभीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् । हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ।। ६ ।। आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् । अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ।। ७ ।। प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् । कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ।। ८ ।। संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः । प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ।। ९ ।। ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च । ततश्चाचल देवाय सेनान्यै धनदाय च ।। १० ।। नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् । जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ।। ११ ।। नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा । स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ।। १२ ।। तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् । विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ।। १३ ।। वाहनागार मागम्य ब्रह्मचर्यसमन्वितः । बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ।। १४ ।। सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः । कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ।। १५ ।। समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् । आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ।। १६ ।। दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् । ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ।। १७ ।। सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् । तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ।। १८ ।। कालद्वये प्रधानस्य तुरगस्य विशेषतः । पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।। १९ ।। निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः । अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ।। उत्तराषाढतरस्य सन्धाने श्रवणस्य च । नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ।। २१ ।। दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ । प्रदक्षिणोदके सौम्ये विशाले द्रुमसंकटे ।। २२ ।। तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् । विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ।। २३ ।। तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् । सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ।। २४ ।। गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह । प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ।। २५ ।। माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् । वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन संज्ञिमम् ।। २६ ।। हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् । स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ।। २७ ।। सहदेवीं नागपुष्पं कपिकच्छुकमेव च । शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ।। २८ ।। कुंभेषु वाष्ट संख्येषु वस्त्रादि सहितेषु च । गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ।। २९ ।। नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् । जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ।। ३० ।। वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः । वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखं ।। ३१ ।। अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके । आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ।। ३२ ।। शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् । श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ।। ३३ ।। होमशेषं तदा पिण्डं पयोदधि समन्वितम् । कदली फल संयुक्तं दद्याद्वाजि वराय च ।। ३४ ।। यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति । केवलस्थैस्तदा तोयै श्शाखयो दुंबरो त्थया ।। ३५ ।। प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः । राजानं हस्तिनं पश्चाच्चमूं संप्रोक्ष्य त्तदा ।। ३६ ।। शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् । आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ।। ३७ ।। हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् । राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ।। ३८ ।। एवमेव गजादीनां तदा नीराजनं नयेत् । किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ।। ३९ ।। पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् । गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ।। ४० ।। वेदिका चतुरश्रा च गजभूमिरथोच्यते । शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ।। ४१ ।। पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ।। ४२ ।। इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः पटलः ।। ७९. एकोनाशीतितमे पटले राज नीराजन विधिः कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे । वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ।। १ ।। ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः । वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ।। २ ।। बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा । संपूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ।। ३ ।। तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् । विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ।। ४ ।। गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः । नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ।। ५ ।। त्रासयन्विघ्नजालं च घण्टानाद महारवैः । नीराजयेद्विशेषेण राजानं देशिकोत्तमः ।। ६ ।। तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः । सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ।। ७ ।। नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् । रूपयौवन संपन्न वेश्याभिर्वाथ कारयेत् ।। ८ ।। यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः । तेषां राजा सुखं याति सुभिक्षं जायते तथा ।। ९ ।। चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ।। ९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः पटलः ।। ८०. अशीतितमे पटले पुष्याभिषेक विधिः पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् । सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ।। १ ।। पुण्ये मनोरमे देशे रविहस्त प्रमाणतः । कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ।। २ ।। द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् । दर्पणोदरसंकाशं मण्डनैरुपशोभितम् ।। ३ ।। तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः । वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ।। ४ ।। चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् । पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ।। ५ ।। एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् । पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ।। ६ ।। उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः । कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ।। ७ ।। दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः । दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ।। ८ ।। आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ।। ९ ।। आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः । पूर्वं स्वपूजां संप्राप्य दत्वा शान्तिं महीपतेः ।। १० ।। एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् । शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ।। ११ ।। मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् । मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ।। १२ ।। यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः । पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ।। १३ ।। मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् । सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ।। १४ ।। तद्दक्षिणे विधातव्यं आसनं पाद संयुतम् । सोपान सहितं कुर्यादिष्टमान समन्वितम् ।। १५ ।। श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् । कुर्यात् प्रतिसरं रात्रौ सर्वालंकरा संयुतम् ।। १६ ।। प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् । चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ।। १७ ।। षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते । शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ।। १८ ।। नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः । भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ।। १९ ।। वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् । स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ।। २० ।। हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् । स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ।। २१ ।। पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः । उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ।। २२ ।। तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः । मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ।। २३ ।। हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् । श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ।। २४ ।। रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् । नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ।। २५ ।। अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः । पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ।। २६ ।। भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् । माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ।। २७ ।। पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् । द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ।। २८ ।। समन्तादेक भागेन वर्षकं स्यादिलावृतम् । एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ।। २९ ।। एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् । वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ।। ३० ।। तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् । श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ।। ३१ ।। पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् । अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ।। ३२ ।। जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः । जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ।। ३३ ।। शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः । बहिस्समुद्रा दीपाश्च सप्तसंख्याः प्रकीर्तिताः ।। ३४ ।। जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः । तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ।। ३५ ।। क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि । दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ।। ३६ ।। रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा । जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश संज्ञकः ।। ३७ ।। कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा । तस्माद् गोभेद संञश्च गोभेदात् पुष्कलं पुनः ।। ३८ ।। ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः । अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ।। ३९ ।। दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् । तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ।। ४० ।। सहस्रदश विस्तीर्णो देवानामाश्रमो मतः । हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ।। ४१ ।। ध्वजश्चण्डस्य कंलासः कदली बक एव च । वडवामुखो द्विपादः कारकः स्मृतः ।। ४२ ।। ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः । प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ।। ४३ ।। उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः । चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ।। ४४ ।। वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः । निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ।। ४५ ।। प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता । मांसेनान्नेन संपूज्य मद्यैः प्रतिसरादिभिः ।। ४६ ।। श्वेता चले दितसुता दानवाश्च समीरिताः । हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ।। ४७ ।। एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः । द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ।। ४८ ।। यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः । गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ।। ४९ ।। वामनश्च मरीचिश्च तथेक्षुप उदाहृतः । भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ।। ५० ।। दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः । मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ।। ५१ ।। देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः । वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ।। ५२ ।। स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः । चन्द्रतापन संज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ।। ५३ ।। स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः । आभिलोकः सुकेशश्च मलयो मलकस्तथा ।। ५४ ।। नयश्च नगमूर्धा च महोदर उदाहृतः । प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव संज्ञकः ।। ५५ ।। विरूपाक्षश्चरूपथो हरो राजा उदाहृतः । हिरण्य युक् शतमखश्शंबरश्शरभो मयः ।। ५६ ।। शरभयस्सूर्य संज्ञश्च चन्द्रमास्स उदाहृतः । चतुष्षष्टिश्च संज्ञानां पूजाश्चैषां च पूर्ववत् ।। ५७ ।। शृङ्गवत्यचले पूज्याः पितरसमुदाहृता । सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ।। ५८ ।। सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः । क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ।। ५९ ।। सप्तभिश्च गणैरेक विंशतिस्संख्यया मताः । अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ।। ६० ।। हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः । अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ।। ६१ ।। तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः । नीलाचले च ऋषयः संपूज्या काश्यपादयः ।। ६२ ।। काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ।। ६३ ।। पुलस्त्यः पुलहश्चैव क्रतुश्चैवांगिरा भृगुः । सनत्कुमारस्सनकः सनन्दश्च सनातनः ।। ६४ ।। दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च । द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ।। ६५ ।। कण्.वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः । शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ।। ६६ ।। च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः । यवक्रीतदेवरातौ देवराजोऽजकस्तथा ।। ६७ ।। चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः । ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ।। ६८ ।। निषधे पर्वते नाना अनन्ताद्या उदाहृतः । अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ।। ६९ ।। पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः । गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ।। ७० ।। सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् । देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ।। ७१ ।। धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ।। ७२ ।। अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ।। ७३ ।। सावित्रश्च जयन्तश्च पिनाकी चापराजितः । रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ।। ७४ ।। त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः । सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ।। ७५ ।। प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः । यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ।। ७६ ।। दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते । गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ।। ७७ ।। सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् । सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ।। ७८ ।। द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः । उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ।। ७९ ।। साधनश्चैव सन्धिश्च कुहरश्च करालकः । कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ।। ८० ।। हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः । अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ।। ८१ ।। ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः । स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ।। ८२ ।। रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश । मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ।। ८३ ।। घृतस्थला घृताची च विश्वाची पूर्वचित्तिका । प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ।। ८४ ।। रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः । दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ।। ८५ ।। अग्निभत्री च हेमा वै मेनका चोर्वशी ततः । चौर्विंशति संख्याताः सुगन्धैश्च् सुमाल्यकैः ।। ८६ ।। यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः । यक्षान्संपूज्येत्ते च महावैश्रवणस्तथा ।। ८७ ।। माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः । विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ।। ८८ ।। सर्ववर्णक बलिभिः पूज्य सूत्रादि कंददेत् । ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ।। ८९ ।। प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च । सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ।। ९० ।। एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः । दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ।। ९१ ।। नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह । ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ।। ९२ ।। सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् । संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ।। ९३ ।। दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै । आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ।। ९४ ।। बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ । एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ।। ९५ ।। पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे । धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ।। ९६ ।। उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ । भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ।। ९७ ।। वाराही वैष्णवी चैव कौमारी च ततो मताः । माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ।। ९८ ।। स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः । इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ।। ९९ ।। वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः । शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ।। १०० ।। पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि । आयता व्ययनी चैव प्रज्ञा मेना बला ततः ।। १०१ ।। एताः सुरस्त्रियः प्रोक्ता स्संख्यया च चतुर्दश । नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ।। १०२ ।। प्रतिसरं च वस्त्रं च पताका भूषणं तथा । यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ।। १०३ ।। सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः । ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ।। १०४ ।। ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् । अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ।। १०५ ।। संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश । सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ।। १०६ ।। ज्योतिष्टोमत्रयं पूर्वं अभया चापराजिता । जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ।। १०७ ।। सहा च सहदेवा च पूर्णकोशा शतावरी । अरिष्टा च शिवा भद्रा कुंभेष्वेतानि विन्यसेत् ।। १०८ ।। ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् । मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ।। १०९ ।। रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् । प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ।। ११० ।। आदावाडुहं चर्म जरया संभृतायुषः । प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ।। १११ ।। ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् । सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ।। ११२ ।। चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् । पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ।। ११३ ।। तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् । सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ।। ११४ ।। सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा । सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ।। ११५ ।। अनन्तरचितं मध्यमेवं वा परिकल्पयेत् । श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य संमतम् ।। ११६ ।। तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे । कृतस्नानं विलिप्ताङ्गं सर्वालंकार संयुक्तम् ।। ११७ ।। निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु । दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ।। ११८ ।। वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् । गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ।। ११९ ।। अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः । कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ।। १२० ।। आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् । आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ।। १२१ ।। भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् । सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ।। १२२ ।। उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः । विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ।। १२३ ।। अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः । सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।। १२४ ।। ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः । आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ।। १२५ ।। अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती । कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ।। १२६ ।। नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ।। १२७ ।। सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः । अदितिस्सुरसा चैव विनता कद्रुरेव च ।। १२८ ।। देव पत्न्यश्च याश्चोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ।। १२९ ।। वैमानिकास्सुरगणा मनवस्सागरैस्सह । सरितश्च महाभागाः किन्नराः पुरुषास्तथा ।। १३० ।। वैखानसा महाभागा द्विजा वैहायसाश्चये । सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ।। १३१ ।। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ।। १३२ ।। सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः । एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ।। १३३ ।। दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा । मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ।। १३४ ।। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः । द्वैपायनो यवक्रीतो देवरातस्सहानुजः ।। १३५ ।। एते वान्ये च बहवः पुण्यसंकीर्तनाशुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ।। १३६ ।। एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः । महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ।। १३७ ।। जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः । जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ।। १३८ ।। अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः । कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ।। १३९ ।। ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् । आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ।। १४० ।। ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् । अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ।। १४१ ।। परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् । सर्वालंकार संयुक्तं होमवेदीं प्रविश्य च ।। १४२ ।। वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च । सिंहस्य व्याघ्र संज्ञस्य चर्माण्यास्तीर्य तत्र च ।। १४३ ।। कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः । होमंकुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ।। १४४ ।। पलाश समिधो मृत्युजित्परमो मतः । होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ।। १४५ ।। यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ।। १४६ ।। तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् । नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ।। १४७ ।। ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः । प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ।। १४८ ।। दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः । ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ।। १४९ ।। सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये । सार्वभौम प्रसिद्ध्यर्थं आयुरारोग्यसिद्धये ।। १५० ।। सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु । पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ।। १५१ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः पटलः ।। ८१. एकाशीतितमे पटले ग्रह यज्ञ विधिः ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् । सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ।। १ ।। नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा । पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ।। २ ।। अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः । राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ।। ३ ।। प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः । तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ।। ४ ।। दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् । ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ।। ५ ।। भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ।। ६ ।। कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च । ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ।। ७ ।। सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा । दीपः प्रोक्ततस्तु नैवेद्यं शलि संभव मुच्यते ।। ८ ।। चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् । कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ।। ९ ।। होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् । अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ।। १० ।। अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् । पलाशः खदिरो वाथ स्वस्मित् कुश संभवे ।। ११ ।। क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ । स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ।।१२ ।। होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ।। १३ ।। इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ।। ८२. द्वयशीतितमे पटले प्रतिसर विधिः राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि । निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ।। १ ।। विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः । स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ।। २ ।। श्वेत तण्डुल संपूर्णं पुण्याह प्रोक्षणान्वितम् । यज्ञ सूत्रं च वलयं अङ्गुलीयकमेव च ।। ३ ।। कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् । प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ।। ४ ।। संपूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् । ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ।। ५ ।। वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् । बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ।। ६ ।। कौतुकं हृदयेनैव तेनैव भसितं तथा । चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ।। ७ ।। मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् । ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ।। ८ ।। दूर्वाग्रं केवलं निर्मितं राजतं तु वा । आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ।। ९ ।। पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः । सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ।। १० ।। मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः । पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ।। ११ ।। कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् । सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ।। १२ ।। सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् । पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ।। १३ ।। दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् । बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ।। १४ ।। सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः । ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ।। १५ ।। बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् । नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ।। १६ ।। समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः । देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ।। १७ ।। ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः । अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ।। १८ ।। अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् । इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः पटलः ।। ८३. त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये । ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ।। १ ।। ग्रहणादिषुकालेषु शुभे देशे विशेषतः । हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ।। २ ।। कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् । नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ।। ३ ।। विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् । तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ।। ४ ।। चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् । दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ।। ५ ।। अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् । सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ।। ६ ।। बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये म्तः । पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ।। ७ ।। एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते । सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ।। ८ ।। उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् । अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ।। ९ ।। पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् । पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ।। १० ।। द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् । तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ।। ११ ।। अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् । षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ।। १२ ।। अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः । षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ।। १३ ।। अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् । तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ।। १४ ।। ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् । मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ।। १५ ।। जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् । उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ।। १६ ।। शङ्कुं सुषिर संपन्नं वलयेन समन्वितम् । सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ।। १७ ।। एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ । चतुष्कुण्डल संयुक्तौ हस्तप्रमाण संमितौ ।। १८ ।। प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि । यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ।। १९ ।। स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् । कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ।। २० ।। खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् । तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ।। २१ ।। एवं सर्वं समापाद्य शिल्पिमोक्षावसानके । पुण्याहं वाचयित्वा तु मण्डपे समलंकृते ।। २२ ।। मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते । मण्डलं कारयेद्धीमान् सर्वतोभद्र संज्ञंकम् ।। २३ ।। वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च । शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ।। २४ ।। मध्यमे देवदेवेशं वामे गौरी समायुतम् । संपूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ।। २५ ।। वाम् संपूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् । सूर्यं मध्येऽग्नि देशे तु भारकरंनै-ऋतेऽथवा ।। २६ ।। भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् । उषां प्रभां तथा प्रज्ञां संन्ध्यां सावित्रिमर्चयेत् ।। २७ ।। मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् । विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ।। २८ ।। प्रभूतं विमलं सारमारध्यं पूर्वदेशतः । उत्तरान्तं च संपूज्य सुखं मध्ये प्रजूजयेत् ।। २९ ।। बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् । रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ।। ३० ।। दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः । सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ।। ३१ ।। ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते । प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ।। ३२ ।। गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः । स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ।। ३३ ।। शिवाग्निं स्वस्व शास्त्रोक्तं संपाद्याग्नि मुखान्वितम् । लोकेश सहितं देवं समावाह्य समर्चयेत् ।। ३४ ।। नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् । समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ।। ३५ ।। शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः । शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ।। ३६ ।। क्षीराक्त दूर्वयाहोमं पञ्चविंशति संख्यया । मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ।। ३७ ।। बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् । मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ।। ३८ ।। पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् । सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ।। ३९ ।। महा पूजा च कर्तव्या प्रभूत हविषान्विता । पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।। ४० ।। ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् । आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ।। ४१ ।। सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् । कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ।। ४२ ।। आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् । पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ।। ४३ ।। सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् । रुद्रगायत्रि संज्ञंतु यजमानस्तदा जपेत ।। ४४ ।। घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् । पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ।। ४५ ।। आलोक्य काञ्चनंतत्स्थं कूर्च हस्तो हरंस्मरन् । वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ।। ४६ ।। जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि । स्वकायेन तदायेन तुलारोहः कृतोभवेत् ।। ४७ ।। शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् । देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ।। ४८ ।। देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः । होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ।। ४९ ।। शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु । ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ।। ५० ।। यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् । शिवार्चकस्य पूजा च प्राग्व देव समीरिता ।। ५१ ।। तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क संमिता । तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।। ५२ ।। मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् । देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ।। ५३ ।। तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् । यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ।। ५४ ।। एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ।। ५५ ।। इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः पटलः ।। ८४. चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् । कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ।। १ ।। तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा । त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ।। २ ।। द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् । वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ।। ३ ।। तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् । एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ।। ४ ।। एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् । पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ।। ५ ।। विकारांशं तु तन्कृत्वा एकैकांश विवर्धनात् । अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ।। ६ ।। अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः । त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ।। ७ ।। पादुकोत्सेधमानं तु तदर्धं पादमेव वा । त्रिपादं वा समं वापि फलकाधनमिष्यते ।। ८ ।। पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः । मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ।। ९ ।। शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् । आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ।। १० ।। स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् । कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ।। ११ ।। तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् । नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ।। १२ ।। प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि । ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ।। १३ ।। गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् । पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ।। १४ ।। प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् । छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ।। १५ ।। तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः । कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ।। १६ ।। कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् । आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ।। १७ ।। भार्यादक्षपुटे दूर्वारससेचन माचरेत् । एकविंशति संख्यातानुदुम्बर फलान्वितान् ।। १८ ।। कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च । त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ।। १९ ।। भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् । भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ।। २० ।। हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् । अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ।। २१ ।। एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ।। २१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः पटलः ।। ८५. पञ्चशीतितमे पटले तिलपर्वतदान विधिः तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः । पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ।। १ ।। बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् । पञ्चगव्येन संप्रिक्ष्य मण्डलं मध्यकल्पितम् ।। २ ।। संछाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च । पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ।। ३ ।। वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः । तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ।। ४ ।। दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा । कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ।। ५ ।। दण्डमानसमं वाथ हीनं नैव समाचरेत् । वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ।। ६ ।। देशं संक्ल्पयित्वा तु पूयत्तु विशेषतः । निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ।। ७ ।। शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् । तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ।। ८ ।। अर्चयेच्च विधानज्ञो यजमानेन देशिकः । दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ।। ९ ।। अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः । अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ।। १० ।। अत्रानुक्तं तु यत् किंचिदर्चनं होममेव वा । स्नपनं देव देवस्य सहस्रकलशादिभिः ।। ११ ।। प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् । विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ।। १२ ।। दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् । अस्मात्परतरं दानं नास्तीह भुवनत्रये ।। १३ ।। अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् । सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ।। १४ ।। गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः । तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ।। १५ ।। कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् । दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ।। १६ ।। तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् । तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ।। १७ ।। अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु । अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ।। १८ ।। कृत्वा संपूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् । दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ।। १९ ।। ।। इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः पटलः ।। ८६. षड्शीतितमे पटले सुवर्ण भूमिदान विधिः सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः । काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ।। १ ।। एकहस्त प्रमाणेन सप्तद्वीपसमन्विता । समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ।। २ ।। मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा । अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ।। ३ ।। पूर्ववद्देवपूजां च होमं चैव विशेषतः । मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ।। ४ ।। सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् । पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ।। ५ ।। शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः पटलः ।। ८७. सप्ताशीतितमे पटले कल्पपादपदान विधिः कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः । पादपं शतनिष्केण सुवर्णे समाचरेत् ।। १ ।। बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् । नानाफलसमायुक्तं सर्वशोभासमन्वितम् ।। २ ।। शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् । छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ।। ३ ।। कारयेत् पल्लवानीह प्रवालैश्च विशेषतः । फलानि पद्मरागैश्च विविधानि समाचरेत् ।। ४ ।। नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् । वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ।। ५ ।। मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा । स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ।। ६ ।। इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु । वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।। ७ ।। शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा । स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ।। ८ ।। मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् । पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ।। ९ ।। लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः । ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ।। १० ।। अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः पटलः ।। ८८. अष्टाशीतितमे पटले गणेश दान विधिः गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् । पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ।। १ ।। तन्मध्यमे यजेद्देवं लोकपाल समावृतम् । तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ।। २ ।। सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् । तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ।। ३ ।। प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च । ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ।। ४ ।। उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः । तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ।। ५ ।। अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ।। ६ ।। इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः पटलः ।। ८९. एकोननवतितमे पटले हेम धेनुदान विधिः हेम धेनु प्रदानं तु वक्ष्ये संक्षेपतः क्रमात् । सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ।। १ ।। काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः । तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ।। २ ।। गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् । पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ।। ३ ।। भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके । पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ।। ४ ।। गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च । वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ।। ५ ।। वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् । सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ।। ६ ।। पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः । अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ।। ७ ।। अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् । क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ।। ८ ।। त्रिंऽसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने । अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः पटलः ।। ९०. नवतितमे पटले लक्ष्मीदान विधिः महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते । काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् । अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ।। २ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ।। ३ ।। श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् । विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ।। ४ ।। पूजयेच्छिव पूजां च होमं चैव विशेषतः । एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ।। ५ ।। स्नपनं देव देवस्य सहस्र कलशादिभिः । पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ।। ६ ।। इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ।। ९१. एकनवतितमे पटले तिलधेनु दान विधिः तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् । पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ।। १ ।। तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् । अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ।। २ ।। वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् । त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ।। ३ ।। पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् । तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र संख्यया ।। ४ ।। रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् । विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ।। ५ ।। दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् । षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ।। ६ ।। अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च । पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ।। ७ ।। प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः । तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ।। ८ ।। इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु । हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ।। ९ ।। प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। १० ।। तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च । केवलं रुद्रदानं वा सूर्यदान मथापि वा ।। ११ ।। मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् । पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ।। १२ ।। दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ।। १२१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः ।। ९२. द्विनवतितमे पटले सहस्रगोदान विधिः गवां सहस्र संख्यानां दानं वक्ष्यामि सिद्धये । सवत्सस्सगुणा एव संग्राह्या गुणवत्तराः ।। १ ।। अष्टौ संपूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः । शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ।। २ ।। कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः । मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।। ३ ।। पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् । स्नपनं च शिवस्याथ सहस्र कलशादिभिः ।। ४ ।। शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् । दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ।। ५ ।। दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते । गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ।। ६ ।। गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् । अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः ।। ९३. त्रिनवतितमे पटले हिरण्याश्व दान विधिः हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते । अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ।। १ ।। अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः । अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ।। २ ।। पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् । सर्वालंकार संयुक्तं कलाद्यैश्च समन्वितम् ।। ३ ।। मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ।। ४ ।। गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् । सुरेन्द्र बुद्ध्या संपूज्य पञ्च निष्कं प्रदाय च ।। ५ ।। दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः । मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ।। ६ ।। इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः ।। == चतुर्नवतितमे पटले कन्यादान विधिः == सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः । सर्व लक्षण संपन्नां दोष विवर्जिताम् ।। १ ।। विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् । दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ।। २ ।। उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः । संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ।। २३ ।। संभूष्य कन्यकां दद्याद्यागाय विधिनामुना । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। २४ ।। तत्र संपूज्य देवेशं कुर्यात् होमं च पूर्ववत् । नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ।। २५ ।। संपूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः । पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ।। ६ ।। ग्रहोपकरणोपेतं दासी दासमनुत्तमम् । दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ।। ७ ।। एवं यः कारयेद्दानं कन्यायास्सुखमेधते । कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ।। ८ ।। इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः ।। == पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः == हिरण्योक्ष प्रदानं तु संक्षेपेणाधुनोच्यते । काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः । वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ।। २ ।। स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् । कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ।। ३ ।। घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् । वृषाङ्गं कारयेद् विद्वान् किंकिणी मालयावृतम् ।। ४ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ।। ५ ।। गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् । पूर्ववच्छिवपूजा च होमं चैव विशेषतः ।। ६ ।। शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् । समिदाज्य चरूपेतं शान्ति होममथापि वा ।। ७ ।। चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ।। ८ ।। इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः पटलः ।। == षण्णवतितमे पटले गजदान विधिः == अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः । गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ।। १ ।। सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः । अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ।। २ ।। पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् । गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ।। ३ ।। पूर्ववच्छिव पूजा च होमयेच्च विशेषतः । शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ।। ४ ।। अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ।। ४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ।। == सप्तनवतितमे पटले लोकपालाष्टकदान विधिः === अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् । प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ।। १ ।। पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः । शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ।। २ ।। उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् । अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ।। ३ ।। एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् । दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ।। ४ ।। वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा । अत्रानुक्तं तु यत् किंचित् तुलाभारवदाचरेत् ।। ५ ।। लोकेशादनमेव स्यात् सर्वसंपत् समृद्धिदम् । परचक्रप्रमथनं गजवाजिविवर्धनम् ।। ६ ।। पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ।। इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः सप्तनवतितमः पटलः ।। == अष्टनवतितमे पटले स्दानोत्तम विधिः == सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् । मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ।। १ ।। प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् । मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ।। २ ।। गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः । ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ।। ३ ।। शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः । चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ।। ५ ।। तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् । शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ।। ६ ।। पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् । अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ।। ७ ।। इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ।। e9dell3z39dkblni00qx9gfkun7gytc 418666 418665 2026-09-30T04:27:43Z ~2026-52344-15 10772 /* सप्तनवतितमे पटले लोकपालाष्टकदान विधिः */ 418666 wikitext text/x-wiki {{header | title = कामिकागमः - उत्तरभागः | author = | translator = | section = | previous = | next = | year = | notes = }} == प्रथमः पटलः पश्चिमद्वारार्चनविधिः == पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा । मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ।। १ ।। राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् । प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ।। २ ।। सूर्यश्चेत्यादिभिर्मन्त्रैः संध्यासु तिसृषूदकम् । पीत्वा संमार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ।। ३ ।। ओं भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथांजलिम् । पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ।। ४ ।। एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये । श्रुति स्मृत्यादि संसिद्धिं अनुष्ठानन्तु यद्भवेत् ।। ५ ।। आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा । संध्यायां वन्दने वापि तर्पणे होमकर्मणि ।। ६ ।। गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् । कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ।। ७ ।। स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च । व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ।। ८ ।। समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः । त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ।। ९ ।। करन्यासं ततः कृत्वा सुषिरं देहमध्यमे । ध्यात्वा ज्वलन्तं हुंकारं प्राणान् संयम्य निश्चलम् ।। १० ।। फट्कारान्तं तु तेनैव रेचकेन समन्वितम् । पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ।। ११ ।। मूर्ति मन्त्रेण संगृह्य जीवं हुंकार मूर्धनि । कुंभकेन समोपेतं वायुमूर्ध्वगतं नयेत् ।। १२ ।। तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् । आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ।। १३ ।। निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् । व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ।। १४ ।। दहनं वाथ भूतानां परस्पर विशोधनम् । मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ।। १५ ।। शोध्यो परागरहितं कलामात्र व्यवस्थितम् । विचिन्त्य दिव्यदेहार्थ ममृताप्लावनं नयेत् ।। १६ ।। ध्यात्वा कुण्डलिनीं शक्तिं अमृतैक स्वरूपिणीम् । तदुद् भूतामृतस्त्रावैस्सिक्तां दिव्यां कलां स्मरेत् ।। १७ ।। ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् । पुनराप्लावनं कृत्वा करन्यासं समारभेत् ।। १८ ।। हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते । तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ।। १९ ।। शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् । कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ।। २० ।। करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते । मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ।। २१ ।। मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् । शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ।। २२ ।। नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् । महामुद्रां ततः कृत्वा शिवमन्त्रं अनुस्मरन् ।। २३ ।। महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शनरूपा अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली महामुद्रेय मुदिता परमीकरणे बुधैः महामुद्रेयमाख्याता न्यूनाधिकं समापनी प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ।। अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् । लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ।। २४ ।। श्रीकण्ठादि समोपेतं अक्षरन्यासमेव वा । केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ।। २५ ।। एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् । पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ।। २६ ।। आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् । हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ।। २७ ।। पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् । पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ।। २८ ।। चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् । उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुंकुमम् ।। २९ ।। चन्दनोशीर युक्तांभः पाद्यं कन्यसमुच्यते । वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ।। ३० ।। मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् । एलालवङ्ग कर्पूर मुर जातियुतं समम् ।। ३१ ।। एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् । आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ।। ३२ ।। शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् । तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ।। ३३ ।। अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते । सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ।। ३४ ।। एलालवङ्ग, कर्पूर वरालफलसंयुतम् । एतदाचमनीयं वा यजेत् यजनाङ्गके ।। ३५ ।। कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। ३६ ।। व्रीहि तण्डुलं संयुक्तं अक्षतं तत्प्रकीर्तितम् । पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ।। ३७ ।। कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः । द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत् ।। ३८ ।। हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया । तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ।। ३९ ।। द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् । मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ।। ४० ।। सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् । गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ।। ४१ ।। महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् । विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।। ४२ ।। प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् । वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ।। ४३ ।। अपनीय च तां लिंगात् चण्डेशाय निवेदयेत् । पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ।। ४४ ।। लिङ्गशुद्धि रियंख्याता शुद्धयः पञ्च चोदिताः । संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ।। ४५ ।। विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् । यजनं देवदेवस्य सर्व कामार्थ साधनम् ।। ४६ ।। विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते । गणेशं च गुरुं शक्तिमनन्तं धर्मसंमुखान् ।। ४७ ।। अधर्मप्रमुखानन्ते छदने पद्मकर्णिके । वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ।। ४८ ।। शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् । पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ।। ४९ ।। अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् । धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ।। ५० ।। सिंहासन मिदं प्रोक्तं, योगं मायाब्जमुच्यते । पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ।। ५१ ।। स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् । संकल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ।। ५२ ।। तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् । लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ।। ५३ ।। अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् । विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ।। ५४ ।। स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् । स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ।। ५५ ।। शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् । प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ।। ५६ ।। पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् । संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ।। ५७ ।। गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् । नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ।। ५८ ।। लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते । तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ।। ५९ ।। अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् । आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ।। ६० ।। भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् । तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ।। ६१ ।। नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् । आरात्रिकं ततो दद्यात् धूपदानावसानके ।। ६२ ।। भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः । भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ।। ६३ ।। दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् । रात्रौ नीराजनं कुर्यात् दीपदानावसानके ।। ६४ ।। महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् । आमन्त्रण हविः काले बलिं वा होममाचरेत् ।। ६५ ।। उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् । स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ।। ६६ ।। वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् । तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ।। ६७ ।। ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा । संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ।। ६८ ।। यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् । नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ।। ६९ ।। विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् । नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ।। ७० ।। रूपयौवनसंपन्ना योषितः कर्तृवांच्छया । मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ।। ७१ ।। तासां संख्या भवेद् ग्रामविन्यास जन संख्यया । उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ।। ७२ ।। वादकानष्ट संख्यातान् कल्पयेत् कल्पवित्तमः । तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ।। ७३ ।। विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् । साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिंगतः ।। ७४ ।। लिंगं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् । नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ।। ७५ ।। उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् । केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ।। ७६ ।। मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् । नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ।। ७७ ।। शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये । तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ।। ७८ ।। प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः । बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ।। ७९ ।। तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् । बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ।। ८० ।। एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके । कौबेरास्ये च लिंगे च सकले मिश्र लिंगके ।। ८१ ।। विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः । प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ।। ८२ ।। द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् । वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ।। ८३ ।। देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता । ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ।। ८४ ।। पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् । दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ।। ८५ ।। उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ।। ८६ ।। हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् । शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ।। ८७ ।। कवचं वायुदिग्भागे आग्नेययां वा प्रकल्पयेत् । पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ।। ८८ ।। पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् । गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ।। ८९ ।। लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः । देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ।। ९० ।। परिवारार्चनं पूर्वदेशादारभ्य कारयेत् । वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ।। ९१ ।। नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा । चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ।। ९२ ।। ९२१/२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु । इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम पटलः करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः । क्रन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुह्याय नमः ओं हं सद्योजात मूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे नमः ओं हूं शिखायै नमः ओं हैं कवचाय नमः ओं हः अस्त्राय नमः ओं हां कवचाय नमः ओं हां शिवाय वौषट् अङ्गन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुहचाय नमः ओं हं सद्योजातमूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे स्वाहा ओं हूं शिखायै वषट् ओं हैं कवचाय हुं ओं हः अस्त्राय फट् ओं हः अस्त्राय हुंफट् ओं हः अस्त्राय फट् ओं हां शिवाय वौषट् पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् । अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ।। सुप्रभेदागमेः उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् । चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ।। एलालवंग कर्पूर जम्बू जाती फलं मुरम् । षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ।। आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः । अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ।। बभमयरलसंज्ञैः अक्षरैः कॢप्तपत्रे । सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ।। अभयवरदहस्तं गण्डिकां चाक्षमाला । करयुगलमभयं चिन्तयेद्विश्वयोनिम् ।। वशषसदलयुक्ते सौम्यमाधारपद्मे तरुणमरुणगानं वारणास्यं गणेशम् । अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ।। डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिं । मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम् हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभं । श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ।। काद्यैष्ठान्तगतैः प्रकल्पितदले पंकेरुह पार्वती कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम् शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम् मूर्त्यंगेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम् मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत् हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया । तत्तद्योगतया स्वदेशिकतनुं भावेन दीपांकुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ।। महामुद्रा तावत् कराभ्यां संमुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शन रूपा अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली । महामुद्रेय मुदिता परमीकरणे बुधैः । महामुद्रेय माख्याता न्यूनाधिकं समापनी । प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि २ द्वितीय पटले दक्षिणद्वारार्चन विधिः वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता । लिंगे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ।। १ ।। प्रतिमा दक्षिणास्या चेदुत्तमोत्तम संज्ञका । मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ।। २ ।। प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः । नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ।। ३ ।। श्रेष्ठं पश्चान्मुखं लिंगं दक्षास्यं बेरमुच्यते । अव्यक्तं मोक्षदं लिंगं व्यक्तं भूतिप्रदायकम् ।। ४ ।। भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् । शौचमाचमनं स्नानं सन्ध्योपासन मेव च ।। ५ ।। कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् । द्वार मस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ।। ६ ।। गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् । यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ।। ७ ।। संप्रविश्यान्तरे वास्तु पतिं संपूज्य फूजकः । पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ।। ८ ।। लिंगार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे । अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ।। ९ ।। अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् । सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ।। १० ।। पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रपूजयेत् । ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ।। ११ ।। पितृवायवग्नि ईशेषु हृदयादि व्यवस्थितम् । अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ।। १२ ।। गणेशःपूर्व देशे वा प्राग्वद्वा संप्रकीर्तिताः । पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ।। १३ ।। उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् । प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ।। १४ ।। लिंगार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् । तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ।। १५ ।। लोहजे शैलजे वापि मृज्जे धतुज रत्नजे । चित्रहीने शिलाबिंबे मूललिंग वदाचरेत् ।। १६ ।। रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् । अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ।। १७ ।। वस्त्र संमार्जनं पुण्यदिवसे स्नपनं मतम् । कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ।। १८ ।। अथवा बाणलिंगे वा दर्पणादौ समर्चयेत् । आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ।। १९ ।। गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके । वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ।। २० ।। संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत् ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ।। २१ ।। अथापरं समानं स्यात् शिवलिंगार्चनेन तु । कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ।। २२ ।। प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् । हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ।। २३ ।। मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् । मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ।। २४ ।। न्यास मार्गेण संस्थाप्य सन्निधान निरोधने । विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ।। २५ ।। सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः । एलालवङ्ग कर्पूर वराल फल कल्पितम् ।। २६ ।। दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये । क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ।। २७ ।। कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। २८ ।। व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् । पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ।। २९ ।। संमिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे । पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ।। ३० ।। सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते । एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ।। ३१ ।। त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।। ३२ ।। तांबुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे । बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ।। ३३ ।। सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि संख्यार्ध नाड्योऽथवास्युः ।। ३४ ।। उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ।। ३५ ।। अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् । कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ।। ३६ ।। पवित्रारोहणं मासार्चन मङ्कुर वापनम् । नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ।। ३७ ।। समालोच्य विधेयं स्यात् सकले निष्कले शिवे । अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ।। ३८ ।। सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः । अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ।। ३९ ।। किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् । तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ।। ४० ।। तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ।। ४०१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः द्वितीयः पटलः सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि संख्यार्ध नोड्योऽथ-वास्युः ।। उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ।। अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ।। पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् षड्गुण - १. सर्वज्ञत्वम् २. परितृप्तत्वम् ३. अनादि बोधृत्वम् ४. स्वतन्त्रत्वम् ५. अलुप्तशक्तित्वम् ६. अनन्तशवक्तिस्वम् ३ तृतीय पटले सकलार्चनाविधिः वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् । शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ।। १ ।। कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च । सम्यगाचभ्य संगृह्य भसितं वारिणा सह ।। २ ।। त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च । तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ।। ३ ।। भूतशुद्धिं सुधाप्लावं आत्मावाहनमेव च । करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ।। ४ ।। स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् । पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ।। ५ ।। अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् । अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ।। ६ ।। विशेषार्घ्यञ्च संकल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१/२ । ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् । कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ७१/२ ।। द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् । द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीं ।। ८१/२ ।। नन्दिनञ्च महाकालं गंगाह्वां यमुनामपि । संपूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ।। ९९/२ ।। दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ । शिवस्येशानमन्त्रेण मालाद्यमपनीय च ।। १०१/२ ।। शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा । आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ।। १११/२ ।। अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकं । वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ।। १२१/२ ।। तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् । सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ।। १३१/२ ।। शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते । या तस्य विमलाशक्तिश्शिवस्य समवायिनी ।। १४१/२ ।। तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् । हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ।। २०१/२ ।। कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते । सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ।। २११/२ ।। रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता । अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ।। २२१/२ ।। एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते । एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ।। २३१/२ ।। तत्रेशानेन वक्त्रेण ममुना सकलेन च । मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ।। २४१/२ ।। ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् । षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ।। २५१/२ ।। सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत् । बेरे सदाशिवेवापि लिंगेप्येवं समाचरेत् ।। २६१/२ ।। महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् । प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ।। २७१/२ ।। कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् । तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ।। २८१/२ ।। महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा । विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ।। २९१/२ ।। आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः । तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ।। ३०१/२ ।। स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे । गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ।। ३११/२ ।। ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् । पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ।। ३२१/२ ।। इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः । परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ।। ३३१/२ ।। होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् । शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ।। ३४१/२ ।। द्वारपालार्चनोपेतं बलिहोमसमन्वितम् । शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ।। ३५१/२ ।। प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् । उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ।। ३६१/२ ।। पवित्रारोहणं संम्यक् कृत्तिकादीपमेव च । संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ।। ३७१/२ ।। मासोत्सवं तथा मासेनवनैवेद्यकर्म च । प्रायश्चित्तञ्च जीर्णानां उद्धारञ्च गुरूत्तमाः ।। ३८१/२ ।। देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् । किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसंगमे ।। ३९१/२ ।। पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः । गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ।। ४०१/२ ।। मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् । गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ।। ४११/२ ।। आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ।। ४२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः तृतीयः पटलः इन्दु निभ पञ्च मुख हस्त दश युक्तं । शूल वर टङ्क मसि वज्र मभयं स्यात् ।। पाश वरदाङ्कुश मणिर्दहन वामे । श्वेत कमलासन सदाशिव स्वरूपम् ।। ४ चतुर्थे पटले स्नपनविधिः अथातस्संप्रवाक्ष्यामि स्नपनं परमेष्ठिनः । अष्टम्यां वा चतुर्दश्यां विषुवायनसंक्रमे ।। १ ।। ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः । सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ।। २ ।। कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा । राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ।। ३ ।। भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने । प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ।। ४ ।। नित्ये नैमित्तिके काम्ये कारयेच्छंकरस्य च । स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ।। ५ ।। अंकुरार्पणमादौ स्यात् महास्नपन कर्मणि । प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ।। ६ ।। अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ।। ६१/२ ।। पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा । चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ।। ७१/२ ।। सर्वालंकारसंयुक्ततोरणैरन्वितेपि वा । नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ।। ८१/२ ।। अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् । सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ।। ९१/२ ।। द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १०१/२ ।। अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा । तदा द्वितालमानेन कर्णिकामानमीरितम् ।। १११/२ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।। १२१/२ ।। पञ्चविंशतिसंख्यान्तं तत्समन्तात्समावृतम् । एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३१/२ ।। आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् । पञ्चविंशतिसंख्यातान् कलशान् मध्यमस्थितम् ।। १४१/२ ।। परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् । अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ।। १५१/२ ।। मध्यमे तिथिसंख्यास्युः नवकोणे व्यवस्थिताः । मध्यमे तिथिसंख्येतु मध्यमत्रितयं त्यजेत् ।। १६१/२ ।। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् । चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ।। १७१/२ ।। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् । मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ।। १८१/२ ।। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् । अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।। १९१/२ ।। शिवव्यूहस्य परितः षोडशैव परित्यजेत् । सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ।। २०१/२ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः । मार्गबाह्ये तु कोणेस्यादेकविंशति संख्यकः ।। २११/२ ।। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते । सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ।। २२१/२ ।। सार्धहस्तान्तरं हस्तमानान्तरमथापि वा । स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च ।। २३१/२ ।। तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा । स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ।। २४१/२ ।। त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् । हीनहीनतरं प्रस्थमानमित्यभिधीयते ।। २५१/२ ।। शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् । अधश्चेधभिचारार्थं भवेदेव न संशयः ।। २६१/२ ।। आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि । मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ।। २७१/२ ।। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् । तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ।। २८१/२ ।। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् । हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ।। २९१/२ ।। शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् । शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ।। ३०१/२ ।। चतुस्त्रिद्वयेकसंख्यातप्रस्थमानप्रपूरितम् । कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ।। ३११/२ ।। अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् । वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ।। ३२१/२ ।। षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् । कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ।। ३३१/२ ।। मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् । मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ।। ३४१/२ ।। निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके । तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ।। ३५१/२ ।। तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च । माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ।। ३६१/२ ।। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् । कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ।। ३७१/२ ।। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा । द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ।। ३८१/२ ।। मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् । भूतिक्षुसार कदलीतिलसर्षपपानसाः ।। ३९१/२ ।। भसितंतिलसारञ्च कदलीतिलसर्षपान् । नालिकेरञ्च नारंङ्गद्वयंस्यान्मातुलंगकम् ।। ४०१/२ ।। डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके । पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ।। ४११/२ ।। तिलबिल्वे तदन्ते तु मातुलंगफलम्मतम् । नारंगद्वितयन्तस्माद्यवनीवारलाजकम् ।। ४२१/२ ।। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते । कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवंगकम् ।। ४३१/२ ।। तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् । सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ।। ४४१/२ ।। एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः । पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ।। ४५१/२ ।। एवं कृते भवन्त्यत्र कलशानान्तु षोडश । चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ।। ४६१/२ ।। अन्तरालेषु मध्यादि वसु संख्यकमीरितम् । ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ।। ४७१/२ ।। गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् । पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ।। ४८१/२ ।। शमीदूर्वा च शुक्लार्कबिल्वचम्पकशंखिनी । अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसंज्ञकम् ।। ४९१/२ ।। नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके । अथवान्यप्रकारेण तदेव पुनरुच्यते ।। ५०१/२ ।। पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै । क्षीरंदधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ।। ५११/२ ।। तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी । नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ।। ५२१/२ ।। पुन्नागशंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा । सिम्हधुर्तूरसंज्ञे च षोडशास्त्रविनिर्दिशेत् ।। ५३१/२ ।। सदुर्वासर्षपाम्राणि नारंगपनसेमते । कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ।। ५४१/२ ।। इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् । नीवारकुंकुमतिलमाञ्जीमुरजसत्तुकम् ।। ५५१/२ ।। मातुलंगं मलयजमलयजमगरूशीर रात्रिजम् । पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ।। ५६१/२ ।। विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि । अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया ।। ५७१/२ ।। अष्टौ गणेश्वरा बाह्ये चांगुष्ठप्रमुखास्तथा । क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा ।। ५८१/२ ।। एकोनेन तु पञ्चाशत् स्नपने देवतामताः । कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ।। ५९१/२ ।। द्वात्रिंशत्पदसंख्यास्यात् पाद्यदींस्तत्र विन्यसेत् । दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ।। ६०१/२ ।। अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ।। ६१ ।। अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते । चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ।। ६२ ।। कर्पूरं हरिबेरञ्च दान्तं मांसीमुरंतृणम् । तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ।। ६३ ।। चम्पकं सहदेवी च शतपत्री च रोचना । बिल्वं यवा शमी दूर्वा तक्कोलं मेघसम्ज्ञकम् ।। ६४ ।। धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् । रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ।। ६५ ।। धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः । प्लेक्षेभपिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ।। ६६ ।। अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् । तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ।। ६७ ।। बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् । श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ।। ६८ ।। सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् । दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ।। ६९ ।। गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका । वटशृंगेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ।। ७० ।। शंखिनी भृंगराजश्च नीवारं गैरिकं तथा । आम्रमोचरसं जातिः पाटली मार्जनं पुनः ।। ७१ ।। पञ्चमावरणं ह्येतदन्यथा च निगद्यते । शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ।। ७२ ।। अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च । नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ।। ७३ ।। पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ।। ७३१/२ ।। शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः । तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ।। ७४१/२ ।। गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः । महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ।। ७५१/२ ।। इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी । व्याघ्रनख्या च मंजिष्ठं सरलं भद्रकोष्ठकम् ।। ७६१/२ ।। नवनीतं द्राविडाह्वं सज्जं तक्कोलसंज्ञकम् । चञ्चलातिबलाचैव बलासिंहाप्रियंगुकम् ।। ७७१/२ ।। लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् । अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ।। ७८१/२ ।। सतिलं कुंकुमं मेघमगरुं कृष्णरोचना । श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ।। ७९१/२ ।। कृष्णागरुं चतगरं ततः प्रोक्तंमनश्शिलाम् । रक्तचन्दनसंज्ञञ्च लवंगं रात्रिचूर्णकम् ।। ८०१/२ ।। कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना । चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ।। ८११/२ ।। आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः । दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ।। ८२१/२ ।। अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ । पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ।। ८३१/२ ।। दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् । तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसंज्ञकम् ।। ८४१/२ ।। चम्पकं हरिबेरञ्च सर्षपन्नागकेसरं । तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ।। ८५१/२ ।। लवंगपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् । तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ।। ८६१/२ ।। भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च । धात्री च नालिकेरञ्च लिकुचं मातुलंगकम् ।। ८७१/२ ।। तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् । लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ।। ८८१/२ ।। रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् । गुञ्जादि निष्कपर्यन्तं पाद्याद्यंगं प्रमाणकम् ।। ८९१/२ ।। एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् । मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ।। ९०१/२ ।। आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् । कर्पूरकुंकुमादीनां मानमिष्टं प्रदीयताम् ।। ९११/२ ।। मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः । एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ।। ९२१/२ ।। नवसंख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः । अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ।। ९३१/२ ।। अष्टोत्तरसहस्राख्यं अधुनात्र निगद्यते । वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ।। ९४१/२ ।। एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमंत्रितम् । तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ।। ९५१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। ९६१/२ ।। क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा । सर्षपं नालिकेराख्यं रजनी मातुलंगकम् ।। ९७१/२ ।। लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् । पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ।। ९८१/२ ।। रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् । पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ।। ९९१/२ ।। मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् । दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ।। १००१/२ ।। कषायाढयोदकोपेतमुत्तरे पुनरुच्यते । कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ।। १०११/२ ।। माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् । पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ।। १०२१/२ ।। पञ्चरत्नमिति ज्ञेयं आद्या भावे द्वितीयकम् । रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ।। १०३१/२ ।। सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ।। १०४१/२ ।। सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला । गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ।। १०५१/२ ।। शालिकोद्रवनीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ।। १०६१/२ ।। नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ।। १०७१/२ ।। कुंकुमं हरिबेरञ्च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ।। १०८१/२ ।। पर्वते च नदीतीरे वल्मीके कर्कटावटे । वृषशृंगे च सत्क्षेत्रे समुद्रे गजदन्तके ।। १०९१/ २ ।। अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् । गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ।। ११०१/२ ।। शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते । दूर्वांकुरञ्च कुशाग्रं गौरसर्षपम् ।। ११११/२ ।। भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते । तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ।। ११२१/२ ।। अपामार्गसमायुक्तं पत्रतोयमिहेरितम् । पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ।। ११३१/२ ।। पुन्नागकुरवनारंगनन्द्यावर्तं च मल्लिका । श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ।। ११४१/२ ।। कुष्ठं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ।। ११५१/२ ।। शूलं कपालहरिणी पिनाकः परशुस्तथा । पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ।। ११६१/२ ।। पनसो नालिकेरश्च मातुलंगद्वयं ततः । नारंगद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ।। ११७१/२ ।। पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली । जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ।। ११८१/२ ।। अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः । गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ।। ११९१/२ ।। सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् । निकुन्तः पञ्चभिर्युक्तंकान्तोदकमिति स्मृतम् ।। १२०१/२ ।। उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। १२११/२ ।। गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ।। १२२१/२ ।। मयूरशिखिभूर्जत्वग्रोचनाभृंगराजकम् । कृतांजलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ।। १२३१/२ ।। अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् । चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ।। १२४१/२ ।। लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः । विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ।। १२५१/२ ।। रक्तोत्पलं शमीपश्चात् पद्मं सुरस संज्ञकम् । नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ।। १२६१/२ ।। यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका । जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ।। १२७१/२ ।। द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् । वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ।। १२८१/२ ।। तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् । माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ।। १२९१/२ ।। कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा । पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ।। १३०१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। १३११/२ ।। द्वितीयावरणे स्वर्णं पदे षोडशसंख्यके । चतुर्विंशति संख्याते नालिकेरफलं बहिः ।। १३२१/२ ।। द्वात्रिंशत्संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके । षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ।। १३३१/२ ।। चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् । द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ।। १३४१/२ ।। अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् । नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ।। १३५१/२ ।। दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् । चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ।। १३६१/२ ।। अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते । धातु लोहोदकं पश्चात् शतेषोडशसंयुते ।। १३७१/२ ।। शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् । सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ।। १३८१/२ ।। पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे । घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ।। १३९१/२ ।। वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् । प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ।। १४०१/२ ।। उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः । उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ।। १४११/२ ।। अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते । विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ।। १४२१/२ ।। स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः । पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ।। १४३१/२ ।। कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् । स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ।। १४४१/२ ।। अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः । तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ।। १४५१/२ ।। अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः । स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ।। १४६१/२ ।। तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः । अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ।। १४७१/२ ।। अष्टसंख्या समायुक्तो द्विशते मध्यमेष्टकम् । तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ।। १४८१/२ ।। बाह्ये षोडशसंख्यातान् गृहणीयाद्दिग्विदिग्गतम् । अष्टव्यूहन्तथात्वेतु उक्त संख्यान्वितं भवेत् ।। १४९१/२ ।। द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते । रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ।। १५०१/२ ।। दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् । लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ।। १५११/२ ।। निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् । तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ।। १५२१/२ ।। किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् । गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ।। १५३१/२ ।। फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः । तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ।। १५४१/२ ।। पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् । क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ।। १५५१/२ ।। फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ।। १५७ ।। घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् । अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ।। १५७ ।। ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् । तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ।। १५८ ।। शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते । मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ।। १५९ ।। वज्रं समस्तरत्नानां लोहानामग्निदैवतम् । यवो निखिल बीजानां धातूनां हरितालकम् ।। १६० ।। ओषधीनामभावे तु सहदेवी प्रशस्यते । फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ।। १६१ ।। नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते । चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ।। १६२ ।। त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् । सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ।। १६३ ।। फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ।। १६४ ।। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ।। १६५ ।। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः । गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ।। १६६ ।। दीपेन सहितो मन्त्री लिंगमुद्रां प्रदर्शयेत् । कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ।। १६७ ।। सहस्रकलशे पञ्चशतहोमं समाचरेत् । कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ।। १६८ ।। कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना । समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ।। १६९ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् । शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ।। १७० ।। अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् । पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ।। १७१ ।। चतुर्होमविधाने तु प्रधानेवाथ पूर्वके । शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ।। १७२ ।। मूलाद्दशांशतोंगानान्तथा ब्रह्म सुलोचने । कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ।। १७३ ।। प्रविश्य गर्भगेहे तु लिंगं संशोद्धय पूर्ववत् । संकल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ।। १७४ ।। ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ।। १७४१/२ ।। पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् । दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ।। १७५१/२ ।। नृत्तगेयसमायुक्तं शंखध्वनिसमन्वितम् । वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ।। १७६१/२ ।। जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् । उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ।। १७७१/२ ।। दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् । गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ।। १७८१/२ ।। अपनीय पिधानं तत् दक्षहस्तेन देशिकः । सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ।। १७९१/२ ।। संगृह्य तत्वचित्तस्तु लिंगमूर्ध्नि मनुं न्यसेत् । देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ।। १८०१/२ ।। शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् । पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ।। १८११/२ ।। दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु । ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ।। १८२१/२ ।। आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् । पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।। १८३१/२ ।। उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् । अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ।। १८४१/२ ।। नानाफलानि गव्यानि पञ्चामृतयुतानि च । विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ।। १८५१/२ ।। विरुक्ष्य गन्धतोयेन स्नापयेल्लिंगमादरात् । अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ।। १८६१/२ ।। सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् । आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ।। १८७१/२ ।। ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ।। १८८ ।। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् । स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ।। १८९ ।। गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च । प्रदर्श्य लिंगमुद्रान्तु कवचेनावकुण्ठयेत् ।। १९० ।। इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च । वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ।। १९१ ।। पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् । गत्वा सकलसामीप्यमासनं मूर्तिमेव च ।। १९२ ।। संकल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् । स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ।। १९३ ।। गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् । प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ।। १९४ ।। तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् । स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ।। १९५ ।। देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् । पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ।। १९६ ।। पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् । चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ।। १९७ ।। देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् । द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ।। १९८ ।। शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने । धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ।। १९९ ।। अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसंज्ञकाः । पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ।। २०० ।। ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिंगान्तास्समीरिताः । अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ।। २०१ ।। पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०२ ।। चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०३ ।। गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः । गंगादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ।। २०४ ।। स्नापयेत् परमेशानं सर्वदोषापनुत्तये । सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ।। २०५ ।। सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः । सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ।। २०६ ।। राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये । राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ।। २०७ ।। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये । तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ।। २०८ ।। युद्धोद्यते स्वसेनाया बलायामृति हेतवे । भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ।। २०९ ।। नरनारी गवादीनां रोगनाशार्थमेव । जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ।। २१० ।। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके । अयने विषुपे वापि ग्रहणस्थापनादिके ।। २११ ।। उत्सवे च पवित्रे च दमनारोपणेऽपिच । कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ।। २१२ ।। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः । मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ।। २१३ ।। प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि । जनकल्याणकाले च नराणां रक्षणार्थके ।। २१४ ।। विशेष पूजाकाले च भक्तानामुत्सवेपि च । देवभ्रमणकाले वा मृगयायां विशेषतः ।। २१५ ।। कुर्यात्प्रतिदिनं वापि त्रिसंध्यायां गुरूत्तमाः । सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ।। २१६ ।। प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते । कुम्भेनैकेन वा व्योमसंख्येन कलशेन वा ।। २१७ ।। प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा । पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ।। २१८ ।। एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा । इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ।। २१९ ।। एकद्रव्यंचतुर्दिक्षु भिन्नद्रव्यमथापि वा । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ।। २२० ।। नवकुम्भविधानेऽपि विधानं सदृशं मतम् । एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ।। २२१ ।। स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितं । प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ।। २२२ ।। पञ्चविंशतिसंख्यातमपि नित्ये प्रशंस्थितम् । उत्तमोत्तमपूजायामष्टोत्तरशतावधि ।। २२३ ।। स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् । नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ।। २२४ ।। पञ्चविंशतिसंख्यादि साष्टसाहस्रकावधौ । अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ।। २२५ ।। हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा । स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ।। २२६ ।। श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् । कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ।। २२७ ।। हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः । नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ।। २२८ ।। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया । काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ।। २२९ ।। कर्तव्यं वा न कर्तव्यमितिसन्देहसंगतौ । करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ।। २३० ।। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः । ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ।। २३१ ।। क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् । क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ।। २३२ ।। तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः । प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ।। २३३ ।। तद्विधानानुपन्ने तत्राप्येषो विधीयते । प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ।। २३४ ।। वर्तमाने तु शास्त्रार्थे तदंगं सृक्स्रुवादिकम् । स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ।। २३५ ।। एकमादिकमालोच्य कारयेद्यो नृपोत्तमः । सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ।। २३६ ।। तस्याप्यायुषमारोग्यम्मनस्संकल्पितञ्चयत् । सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ।। २३७ ।। विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स राजा क्षयमाप्नोति नात्रकार्या विचारणा ।। २३८ ।। तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञानपारगेण क्रियावता ।। २३९ ।। क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये । गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ।। २४० ।। तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः । विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ।। २४१ ।। पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् । संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ।। २४२ ।। गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् । चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ।। २४३ ।। गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् । कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ।। २४४ ।। पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा । नानोपदंशसंयुक्तं नानाफलसमन्वितम् ।। २४५ ।। दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् । एलालवंकेकर्पूरजातीतक्कोलचूर्णयुक् ।। २४६ ।। मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् । प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ।। २४७ ।। समिधाज्येन चरुणा तिलेनापि समन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ।। २४८ ।। तस्मात् भस्मसमादाय यजमानाय दापयेत् । संप्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ।। २४९ ।। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् । द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ।। २५० ।। षट्सप्तगुणसंख्यातं कर्मसिद्ध्यर्थमेव वा । पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ।। २५१ ।। नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः । नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ।। २५२ ।। समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् । सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ।। २५३ ।। नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः । सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ।। २५४ ।। तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् । धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ।। २५५ ।। विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् । नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ।। २५६ ।। एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च । सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ।। २५७ ।। नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् । लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ।। २५८ ।। नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः । अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ।। २५९ ।। ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् । ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ।। २६० ।। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे । विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ।। २६१ ।। कन्यायां मिधुने धनुष्यन्ते समाचरेत् । सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ।। २६२ ।। अर्धमेकं द्वयं वापि यामं वा घटिकामपि । आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ।। २६३ ।। आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ।। २६४ ।। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् । यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ।। २६५ ।। स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् । तोरणं स्रुक्स्रुवावष्टमंगलन्नवरत्नकम् ।। २६६ ।। तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च । वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ।। २६७ ।। आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने । निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ।। २६८ ।। निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् । नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ।। २६९ ।। नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ।। २६९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः स्नपनविधि पटलः पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा । चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ।। सूत्रन्यास मधोरेण तालमात्रान्तरं यथा कषायोदकं चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः । आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ।। मार्जनोदकं दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते । रत्नोदकम् माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् । पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ।। मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ।। पञ्चरत्नमिति ज्ञेयं आद्यभावे द्वितीयकम् ।। लोहोदकम् सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम् । आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ।। धातूदकम् सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला । गौरिकं रोचना चान्ते धातूदकमितं मतम् ।। बीजोदकम् शालिकोद्रव नीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ।। १०६ ।। गन्धोदकम् नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ।। १०७ ।। कुंकुमं हरिबेरं च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ।। १०८ ।। मृदोदकम् पर्वते च नदीतीरं वल्मीके कर्कटावटे । वृषशृंगे च सुक्षेत्रे समुद्रे गजदन्तके ।। अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम् ।। १०९ ।। मार्जनोदकम् गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली । शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ।। ११० ।। परिमाणोदकम् दूर्वांकुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् । भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ।। पत्रोदकम् तुलसी बिल्वपत्रं तमालश्च तपस्विनी । अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ।। पुष्पोदकम् पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः । पुन्नाग कुरव नारंग नद्यावर्तं च मल्लिका ।। श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ।। कुष्टं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ।। अस्त्रोदकम् शूलं कपाल हरिणी पिनाकः परशुस्तथा । पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ।। फलोदकम् पनसो नालिकेरश्च मातुलुंग द्वयं ततः । नारङ्गद्वयरंभाद्यैः उक्तमस्मिन् फलोदकम् कषायोदकम् पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली । जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम् आङ्योदकम् अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः । गन्धत्रय समायुक्तं आडयतोय मिति स्मृतम् ।। कान्तोदकम् सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् । निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ।। मूलोदकम् उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। वल्कलोदकम् मयूर शिखि भूर्जत्व ग्रोचना भ्रंगराजकम् । कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ।। त्वगोदकम् लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः । विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ।। चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२ विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। ४९ । १०९ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८ द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १० ।। अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् ।। ११ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११/२ । विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् शिवव्यूहस्य परितः षोडशैव परित्यजेत् सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः १४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम् १६ मध्यमे तिथिसंख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम् सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम् सार्धहस्तान्तरं हस्तमानान्तरमथापिवा स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा १० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। ११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् १११/२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्] विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः । १४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम् १६ मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम् अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः । एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।। मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् । स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् ।। अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् । शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।। सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ।। सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् । सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ।। स्याच्चतुर्दश संख्याता वीथि बाह्ये क्रमेण च । तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।। ५ पञ्चमे पटले नित्योत्सवविधिः नित्योत्सवविधिं वक्ष्ये नित्यपूजांगमुत्तमम् । शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ।। १ ।। प्रासादमण्टपादौ वा गोमयेनोपलेपिते । प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ।। २ ।। सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा । तिथ्यंगुलं समारभ्य व्योमांगुलविवृद्धितः ।। ३ ।। द्वात्रिंशदंगुलान्तं तु पात्रमानमुदीरितम् । वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ।। ४ ।। तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते । एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ।। ५ ।। शेषेण दलमाख्यातं विकाराष्टदलम्मतम् । अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ।। ६ ।। तद्वदोष्टसमोपेतं केवलं पात्रमेव वा । कुडुपद्वयमारभ्य कुडुपादाढकावधि ।। ७ ।। तण्डुलं कल्पयेदन्नलिंगार्थं वाऽक्षतार्थकम् । मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ।। ८ ।। तेनान्नलिंगं कर्तव्यं भूतमात्रप्रमाणतः । एकांगुलं तु दैर्घ्यंस्याद्यावदष्टादशांगुलम् ।। ९ ।। अंगुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् । अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ।। १० ।। नैमित्तिकार्थन्नित्यार्थमन्नलिंगमुदाहृतम् । त्रिकालमन्नलिंगं वा प्रातर्मध्याह्नयोस्तु वा ।। ११ ।। मध्याह्ने वाथ पूर्वाह्ने पुष्पलिंगमुदाहृतम् । प्रदोषेऽक्षतलिंगंस्यात्तत्रपाशुपतं यजेत् ।। १२ ।। चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि । त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ।। १३ ।। सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ।। १३१/२ ।। विद्युन्मालानिभश्वेतः जटामकुटमण्डितः । दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ।। १४१/२ ।। वरदाभयपाणिर्वा सर्वलक्षणसंयुतः । हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ।। १५१/२ ।। योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते । शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ।। १६१/२ ।। रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् । त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ।। १७१/२ ।। एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् । दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ।। १८१/२ ।। त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् । दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ।। १९१/२ ।। पुष्पाक्षतान्नलिंगेषु पूजनीयस्स्वमन्त्रतः । अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ।। २०१/२ ।। सपीठे गोलकाकारे विपीठे वा तमर्चयेत् । अन्नलिंग प्रमाणे तु मूलाग्रसमविस्तरे ।। २११/२ ।। हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते । स्थलिकामानदण्डेन सहितं वा समर्चयेत् ।। २२१/२ ।। इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु । पादुके त्र्यंगुले तस्मादंगुलांगुलवर्धनात् ।। २३१/२ ।। तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् । दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ।। २४१/२ ।। अष्टांशावधिको मध्यमानेन नवमानकः । तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ।। २५१/२ ।। समन्ताल्लोकपाः पूज्याः पूजादाववसानके । नवान्नलिंगसंयुक्तमथ नित्योत्सवं नयेत् ।। २६१/२ ।। सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् । द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ।। २७१/२ ।। मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः । रंगे वा शिबिकायां वा परिचारकमूर्धसु ।। २८१/२ ।। आरोप्यलंकृतान्देवान्वितानेन समन्वितम् । छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ।। २९१/२ ।। गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् । धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ।। ३०१/२ ।। आद्यं प्रदक्षिणं कुर्यात् मंगिणी तालसंयुतम् । वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृंगिणी ।। ३११/२ ।। मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी । षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ।। ३२१/२ ।। तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् । ग्रामे वा नगरे वापि तथा प्राकार एव वा ।। ३३१/२ ।। द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् । एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ।। ३४१/२ ।। अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् । गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ।। ३५१/२ ।। पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् । गोपुरे वाद्यहीनं वा शंखध्वनिसमन्वितम् ।। ३६१/२ ।। इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् । बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ।। ३७१/२ ।। दक्षिणे भृंगिणी तालं कौशिकेन समन्वितम् । मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ।। ३८१/२ ।। पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् । वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ।। ३९१/२ ।। सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः । शाला पाणिसमायुक्तं शांकरे ढक्करी मता ।। ४०१/२ ।। एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् । पक्षालितांघ्रयस्सर्वे प्रविशेयुश्शिवालयम् ।। ४११/२ ।। अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु । पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।। ४२१/२ ।। लिंगाद्देवं समाहृत्य लिंगे दक्षे निवेशयेत् । शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ।। ४३१/२ ।। अन्येषामपि देवानां देवीनां मूलबिम्बवत् । रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ।। ४४१/२ ।। संपाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् । तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।। ४५१/२ ।। पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः ६ षष्ठे पटले महोत्सवविधिः उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम् । ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ।। १ ।। ध्वजांकुरो ध्वजंगस्यात् ध्वजात् पूर्वन्तु तन्नयेत् । तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ।। २ ।। द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् । मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ।। ३ ।। राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा । माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ।। ४ ।। विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् । भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ।। ५ ।। त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके । अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ।। ६ ।। पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ।। ७ ।। तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि । भागं कृत्वैकभागेन पटविस्तार उच्यते ।। ८ ।। विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते । विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ।। ९ ।। वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ।। १० ।। श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् । रक्तशृंगसमायुक्तं तद्वत् खुरसमन्वितम् ।। ११ ।। ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् । विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ।। १२ ।। जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् । सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ।। १३ ।। मानं मात्रांगुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः । पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ।। १४ ।। चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् । पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ।। १५ ।। एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् । अस्त्र तोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ।। १६ ।। मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते । स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ।। १७ ।। ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् । सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ।। १८ ।। कलशैरष्टसंख्यातैस्सापिधानैस्सवस्त्रकैः । सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ।। १९ ।। आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् । वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ।। २० ।। प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि । वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ।। २१ ।। ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् । संकल्पितहृदादींश्च क्रमेण विनिवेशयेत् ।। २२ ।। तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् । आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ।। २३ ।। कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् । मध्यकुम्भेऽपि संपूज्य लोकपान् परितो यजेत् ।। २४ ।। वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ।। कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते । निरीक्षणादि संस्कारैश्शिवाग्निं संप्रकल्पयेत् ।। २५ ।। तन्मध्ये वृषमावाह्य सांगं सन्तर्पयेत्तदा । सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ।। २६ ।। तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् । पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् । पटस्थाय घटस्थाय वृषायासन रूपिणे ।। २८ ।। प्रातस्संपूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् । मुखवासनताम्बूलं वृषभाय निवेदयेत् ।। २९ ।। पुनः पूर्णाहुतिन्दत्वा सर्वमंगलसंयुतम् । सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ।। ३० ।। रंगे वा शिबिकायां वा समारोप्य वृषध्वजम् । त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ।। ३१ ।। ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति । दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ।। ३२ ।। ध्वजारोहणदिने वापि अधिवासदिनेपि वा । धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ।। ३३ ।। षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ।। ३३१/२ ।। एकादितलपर्यन्तं गोपुरान्तमथापि वा ।। ३४ ।। रुद्रद्विगुणमध्यस्थकरसंख्यामितन्तु वा । मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ।। ३५ ।। सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ।। ३५१/२ ।। पलाशखदिराश्वत्थवटचन्दन दारवः ।। ३६ ।। सालम्माधूकतालं वा साराम्रकमथापि वा ।। वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ।। ३७ ।। चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् । स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ।। ३८ ।। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते । द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ।। ३९ ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्य चांगुलात्षोडशांगुलम् ।। ४० ।। यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ।। ४१ ।। एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ।। ४२ ।। उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् । स्कन्धं द्वयं तन्मानद्वादशांगुलमानतः ।। ४३ ।। षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् । सप्तांगुलं समारभ्य गायत्र्यर्णांगुलावधि ।। ४४ ।। स्कन्धविस्तार उद्दिष्टो मूलांग्रे तु त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ।। ४५ ।। चतुस्त्रिद्वयंगुलं वापि मानमेषां प्रकीर्तितम् ।। ४५१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४६ ।। मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ।। ४६१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४७ ।। दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा । बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ।। ४८ ।। षडंगुलं समारभ्य षडंगुल विवृद्धितः । दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ।। ४९ ।। तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् । भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ।। ५० ।। कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् । दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ।। ५१ ।। पञ्चविंशतिमात्रादि त्रित्र्यंगुलविवर्धनात् । द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ।। ५२ ।। एकांगुलं समारभ्य पादमात्रविवृद्धितः । त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ।। ५३ ।। वलयाकाश एषो वा वलयस्याद्यथा बलम् । रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यंगुलनाहयुक् ।। ५४ ।। ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् । तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ।। ५५ ।। एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च । संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ।। ५६ ।। शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् । अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्वादिकन्यसेत् ।। ५७ ।। साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु । स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ।। ५८ ।। रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः । गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ।। ५९ ।। रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् । कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ।। ६० ।। हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ।। ६०१/२ ।। अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः । तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ।। ६११/२ ।। देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा । तथैव गोपुरस्यापि महापीठान्तिकेपि वा ।। ६२१/२ ।। अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः । नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ।। ६३१/२ ।। प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्संख्ययामताः । अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ।। ६४१/२ ।। दण्डाधिपास्समाख्याता पटेषु वृष एव हि । दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ।। ६५१/२ ।। हस्तमात्रं समारभ्य त्र्यंगुलादि विवृद्धितः । द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ।। ६६१/२ ।। समोत्तुंगा त्रिपादा वा अष्टांशात् सप्तपञ्च वा । चतुस्त्र्यंशार्धतुंगं वा वेदिका परिकीर्तिता ।। ६७१/२ ।। त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः । द्वित्र्यंगुलक्षयाद्वापि मेखला मानमीरितम् ।। ६८१/२ ।। मेखला रहिते पीठे मूलेस्यादुपवेदिका । द्वयंगुलात् पादवृद्धया तु षडंगुलसमाविधि ।। ६९१/२ ।। पादार्धार्धत्र्यंघ्रिसमा उत्सेधाः परिकीर्तिताः । वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरंगुलमानतः ।। ७०१/२ ।। व्योमांगुलविवृद्ध्याष्टादशांगुल समावधि । पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ।। ७११/२ ।। एकैकांगुल वेशात्तु रुद्रमात्रसमाविधि । पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ।। ७२१/२ ।। कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः । गुणांगुलावधिः कार्यः तदुत्सेधनमुच्यते ।। ७३१/२ ।। चतुरष्टदलं पद्मं विकारदलमेव वा । वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ।। ७४१/२ ।। तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् । एवं संपाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ।। ७५१/२ ।। पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् । दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ।। ७६१/२ ।। त्रिशूलेन समायुक्तं मंगलांकुरशोभितम् । धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ।। ७७१/२ ।। आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् । कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ।। ७८१/२ ।। दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् । दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ।। ७९१/२ ।। त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ।। ८० ।। बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः । क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ।। ८१ ।। कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः । वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ।। ८२ ।। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः । आदौ स्पृष्ट्वा स्वयञ्चान्यंप्रेरयेद्रोहणायवा ।। ८३ ।। अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः । पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ।। ८४ ।। आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् । क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ।। ८५ ।। तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् । वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ।। ८६ ।। आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः । दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ।। ८७ ।। शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् । वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ।। ८८ ।। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च । तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ।। ८९ ।। गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् । पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ।। ९० ।। सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् । चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ।। ९१ ।। अतः प्रभृतितीर्थान्तमवरोहावसानकम् । एककालंद्विकालं वा त्रिकालं पूजयेद्वृषम् ।। ९२ ।। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ९३ ।। नोपसर्गभयन्तत्र न परागमविभ्रमः । विपरीता न मतयो रोगिणामपिभूयसा ।। ९४ ।। स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः । शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ।। ९५ ।। कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् । प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ।। ९६ ।। भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि । स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ।। ९७ ।। षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः । एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ।। ९८ ।। पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् । पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ।। ९९ ।। मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके । वामे विष्णुं समावाह्य पालिकायां तु पार्वती ।। १०० ।। सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः । दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ।। १०१ ।। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके । मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ।। १०२ ।। कात्यायनी तु कौबेर्यां शूलमूले मता इमे । रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ।। १०३ ।। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् । भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ।। १०४ ।। ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् । वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ।। १०५ ।। सप्तकीलेषु मातृश्च नवकीले नवग्रहान् । रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ।। १०६ ।। प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः । गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ।। १०७ ।। भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् । एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ।। १०८ ।। तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः । सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ।। १०९ ।। वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् । तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ।। ११० ।। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा । भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ।। १११ ।। गन्धारादि स्वरोपेतं समतालादि तालकम् । गीतनृत्तसमायुक्तमन्नलिंगसमायुतम् ।। ११२ ।। प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा । संग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ।। ११३ ।। धूपदीपसमायुक्तं घण्टारवसमन्वितम् । प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ।। ११४ ।। इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः । बलिदानावसाने तु तालस्वरसमायुतम् ।। ११५ ।। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च । ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ।। ११६ ।। समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः । भृंगिणी कौशिकन्नट्ट भाषया मल्लतालकम् ।। ११७ ।। श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् । कोटिकन्तर्करागेण शालापाण्यातु डक्करी ।। ११८ ।। पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा । ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ।। ११९ ।। भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् । देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ।। १२० ।। न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् । तदग्रे वृषकुंभंस्यात् वृषविद्येश्वरान्वितम् ।। १२१ ।। तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् । क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।। १२२ ।। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा । प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ।। १२३ ।। त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना । भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम् ।। १२४ ।। अन्नलिंगसमायुक्तं सर्वातोद्यसमन्वितम् । ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ।। १२५ ।। बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च । ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ।। १२६ ।। रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् । ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ।। १२७ ।। देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् । ततोंकुरार्पणं रात्रौ यागारम्भदिने मतम् ।। १२८ ।। तदर्थमंकुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा । ग्रामप्रदक्षिणन्तीर्थांकुरस्यावश्यकम्मतम् ।। १२९ ।। अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा । अंकुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ।। १३० ।। संग्राह्य वापयेत् रात्रौ बीजान्यंकुरसिद्धये । तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ।। १३१ ।। अन्यत्सर्वं समुद्दिष्टमंकुरार्पण पूर्वके । तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ।। १३२ ।। केत्वंकुरो नवाहे स्यात् स्प्ताहे चोत्सवांकुरम् ।। १३२१/२ ।। एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् । यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ।। १३३१/२ ।। वामेऽवामे तथा पञ्चशालानामिष्टदेशके । मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ।। १३४१/२ ।। एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः । पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ।। १३५१/२ ।। समानपंक्तयोवास्युर्मात्रादेकांशवर्धनात् । नवांगुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ।। १३६१/२ ।। एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी । एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ।। १३७१/२ ।। शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् । एकाग्निसहितां वापि वितानध्वजसंयुताम् ।। १३८१/२ ।। दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् । नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ।। १३९१/२ ।। मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः । एकांगुलविवृद्धयाष्टाविंशत्यंगुलकावधि ।। १४०१/२ ।। वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः । अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ।। १४११/२ ।। मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् । युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ।। १४२१/२ ।। मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् । एवं सर्वञ्च संपाद्य शिल्पिमोचनमाचरेत् ।। १४३१/२ ।। पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् । भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ।। १४४१/२ ।। स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् । द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ।। १४५१/२ ।। तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् । तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ।। १४६१/२ ।। विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् । तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ।। १४७१/२ ।। पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसंख्यया । तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।। १४८१/२ ।। अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् । सर्वे ससूत्रवस्त्राढ्याहेमपंकजभूषिताः ।। १४९१/२ ।। सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः । स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ।। १५०१/२ ।। शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् । लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ।। १५११/२ ।। आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे । तोरणद्वारकुम्भांश्च लोकपालघटानपि ।। १५२१/२ ।। हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् । मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ।। १५३१/२ ।। एवं संपाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् । सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ।। १५४१/२ ।। सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः । स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ।। १५५१/२ ।। तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् । अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ।। १५६१/२ ।। सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् । ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ।। १५७१/२ ।। क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् । शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ।। १५८१/२ ।। नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः । षडंगमूर्तिपांगञ्चेत् पुत्रायुष्यफलप्रदम् ।। १५९१/२ ।। एकद्वित्र्यंगुलाधिक्यं योग्यनाहप्रमाणतः । संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ।। १६०१/२ ।। भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् । प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ।। १६११/२ ।। पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः । द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ।। १६२१/२ ।। तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् । अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ।। १६३१/२ ।। अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् । ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ।। १६४१/२ ।। पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु । स्थण्डिले पूजयेच्छक्तिं यंत्रिकायां त्रितत्वकम् ।। १६५१/२ ।। प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता । भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ।। १६६१/२ ।। अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् । पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ।। १६७१/२ ।। सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् । ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ।। १६८१/२ ।। कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः । अंगुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ।। १६९१/२ ।। आलभेत् भस्म संयुक्तं सूत्रन्दक्षांगुलद्वयात् । मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ।। १७०१/२ ।। देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् । सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ।। १७११/२ ।। जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा । ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ।। १७२१/२ ।। दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा । स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ।। १७३१/२ ।। देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः । उमा महेश्वरे वामे सुखासीने महेश्वरः ।। १७४१/२ ।। अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च । एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ।। १७५१/२ ।। कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् । यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ।। १७६१/२ ।। अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा । कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ।। १७७१/२ ।। रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः । त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ।। १७८१/२ ।। दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते । यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ।। १७९१/२ ।। तीर्थार्थमंकुरं कुर्यादनयोः पूर्वकालतः । देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ।। १८०१/२ ।। द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च । ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ।। १८११/२ ।। पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा । वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ।। १८२१/२ ।। कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् । पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ।। १८३१/२ ।। विद्यादेहञ्च संकल्प्य प्रणवं विन्यसेत् शिवम् । हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ।। १८४१/२ ।। एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् । विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ।। १८५१/२ ।। तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत् । तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ।। १८६१/२ ।। अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयं । तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ।। १८७१/२ ।। एवं क्रमेण संपूज्य यायात्कुण्डान्तिकं गुरुः । संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ।। १८८१/२ ।। नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् । न्यस्त्वाऽवाह्य शिवं सांगं सब्रह्मांगञ्च तर्पयेत् ।। १८९१/२ ।। चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै । स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ।। १९०१/२ ।। वेणुबिल्वयवा वापि सक्तुक्षीरं यवंगुलम् । तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ।। १९११/२ ।। ब्रह्मशालियवैर्वापि माषशालियवैस्सह । तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ।। १९२१/२ ।। चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः । समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ।। १९३१/२ ।। शतमष्टोत्तरं होमं शिवेनांगैर्दशांशतः । प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ।। १९४१/२ ।। द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे । तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ।। १९५१/२ ।। होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् । तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ।। १९६१/२ ।। नित्योत्सवविधानेन कृत्वा लिंगंहविर्मयम् । तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ।। १९७१/२ ।। दशायुधसमोपेतं धूपदीपसमन्वितम् । घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ।। १९८१/२ ।। नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् । प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ।। १९९१/२ ।। देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु । लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ।। २००१/२ ।। पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् । ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ।। २०११/२ ।। कृसरान्नं घृतोपेतं कदलीफलसंयुतम् । तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ।। २०२१/२ ।। रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् । चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ।। २०३१/२ ।। घृतं प्रियंगुसंयुक्तं इन्द्रवल्ली समन्वितम् । पञ्चमेहनि दातव्यं इन्द्रप्रियकरं भवेत् ।। २०४१/२ ।। वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् । षष्ठेहनि प्रदातव्यं ऋषीणां प्रीतिसिद्धये ।। २०५१/२ ।। गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् । सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ।। २०६१/२ ।। माषोदनं घृतोपेतं अजमांससमन्वितम् । अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ।। २०७१/२ ।। शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् । नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २०८१/२ ।। अथवान्यप्रकारेण देवताद्रव्यमुच्यते । शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ।। २०९१/२ ।। फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् । फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ।। २१०१/२ ।। भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ।। २११ ।। पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् । कदलीफलसंयुक्तं ऋषिभ्यो बलिमाचरेत् ।। २१२ ।। इन्द्रवल्ली हरिद्रा च प्रियंगुघृतसंयुतम् । चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ।। २१३ ।। पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् । पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ।। २१४ ।। गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् । षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ।। २१५ ।। कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् । सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २१६ ।। वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् । अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ।। २१७ ।। शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् । नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ।। २१८ ।। नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः । कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ।। २१९ ।। मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् । प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ।। २२० ।। रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् । घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ।। २२१ ।। द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् । पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ।। २२२ ।। तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् । कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ।। २२३ ।। चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् । इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ।। २२४ ।। पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् । गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ।। २२५ ।। षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् । कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ।। २२६ ।। सप्तमेहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् । क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ।। २२७ ।। अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् । दधिकान्नं गुलोपेतम्मातुलंगफलन्तथा ।। २२८ ।। नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् । गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ।। २२९ ।। दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् । रक्तान्नं मांससंयुक्तं अपूपं तिलचूर्णयुक् ।। २३० ।। एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् । शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।। २३१ ।। द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् । सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ।। २३२ ।। पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः । दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ।। २३३ ।। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् । दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ।। २३४ ।। दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः । वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ।। २३५ ।। बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् । ध्वजादि बलिपीठान्तं अथवा बलिरीरितः ।। २३६ ।। ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा । तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ।। २३७ ।। दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा । लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ।। २३८ ।। दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः । दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ।। २३९ ।। कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा । सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ।। २४० ।। बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते । प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ।। २४१ ।। डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् । सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ।। २४२ ।। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् । अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ।। २४३ ।। बेराण्यनेकरूपाणि तदन्ते कथितानि च । तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ।। २४४ ।। अन्नलिंगसमायुक्तं त्रिशूलेन समायुतम् । दशायुधसमायुक्तं गोलकालिंगसंयुतम् ।। २४५ ।। रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् । रथे वा शिबिकायां वा सर्वालंकारसंयुतम् ।। २४६ ।। एतैस्सर्वैविहीनोग्रे बल्यंगैश्च समन्वितः । तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरंगकम् ।। २४७ ।। तदन्ते देवदेवेशरथस्सर्वांगसुन्दरः । रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ।। २४८ ।। घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः । नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ।। २४९ ।। मदन्तिक गतेनैव शैवाचार्येण शोभितः । मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ।। २५० ।। परिचारक संज्ञेन मत्भक्तेनाप्रमादिना । पद्मकुड्मलसन्नद्धपाश संबन्धहस्तया ।। २५१ ।। पुरुषाकारधारिण्या शोभितो रुद्रकन्यया । मद्दास्यावाथ सर्वांगसुन्दर्यास्स्यन्दनस्य च ।। २५२ ।। तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः । तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ।। २५३ ।। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु । शिवभक्ताश्च ये ख्यातास्तेषां रंगान्यनेकधा ।। २५४ ।। तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः । एषामिष्टन्तु यत्ग्राह्यं बल्यंगं कौतुकं विना ।। २५५ ।। नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् । वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ।। २५६ ।। गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् । मंगुलांकुरसद्वीपवर्धनीकुम्भवारियुक् ।। २५७ ।। कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् । दर्भमाला समायुक्तं मुक्तादामविभूषितम् ।। २५८ ।। उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति । विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ।। २५९ ।। गृहालंकार उद्दिष्टो गृहहीनस्थलेपि च । नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ।। २६० ।। नानागानसमोपेतं नानानृत्तसमन्वितम् । नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ।। २६१ ।। तालवृन्तसमोपेतं धूपदीपसमन्वितम् । प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ।। २६२ ।। रथादौ शिबिकादौ वा परिचारकमूर्धसु । यानकाले तु ताम्बूलं देयं नानाफलानि च ।। २६३ ।। भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् । योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ।। २६४ ।। दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् । वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ।। २६५ ।। शंखध्वनिसमायुक्तं पाद्याचमनसंयुतम् । प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ।। २६६ ।। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु । आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ।। २६७ ।। प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे । दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ।। २६८ ।। कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये । चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ।। २६९ ।। आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः । शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ।। २७० ।। पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते । विधाय स्नपनं वाथ पञ्चखारिसमन्विते ।। २७१ ।। चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः । पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ।। २७२ ।। मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् । स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ।। २७३ ।। प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् । रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ।। २७४ ।। रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये । यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ।। २७५ ।। विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः । पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ।। २७६ ।। यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् । ततो धाम निवेशश्च देव्या सह निवेशनम् ।। २७७ ।। काले षोडशसंख्याते यामार्धपरिनिष्ठिते । कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ।। २७८ ।। स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः । पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ।। २७९ ।। तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् । स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ।। २८० ।। यानकाले बलेः काले पूर्वकालेऽथवामतः । परिवारोक्तमार्गेण बलिपीठे समाचरेत् ।। २८१ ।। मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् । यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ।। २८२ ।। तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् । उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ।। २८३ ।। रात्रौ नीराजनं कार्यं धूपदीपावसानके । प्रभूतन्तु हविर्दद्याद्यानकालावसानके ।। २८४ ।। एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते । ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ।। २८५ ।। नीत्वा देवं समाराध्य विनोदालोकनन्ततः । प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ।। २८६ ।। प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् । भविष्यद्वृष्टिशंकायान्धकारे महत्यपि ।। २८७ ।। शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे । यागारम्भदिने वाथ तीर्थदानदिनेपि च ।। २८८ ।। सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते । ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ।। २८९ ।। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च । बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ।। २९० ।। तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् । तैलाभ्यंगञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ।। २९१ ।। ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् । अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ।। २९२ ।। देवाग्रे स्थापयेत्तैलं स्थण्डिलेयंत्रिकोपरि । अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत् ।। २९३ ।। कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ।। २९३१/२ ।। शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः । सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ।। २९४१/२ ।। ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् । तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ।। २९५१/२ ।। तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् । नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ।। २९६१/२ ।। कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये । सर्वाभरणयुक्ताय पूजिताय विशेषतः ।। २९७१/२ ।। तस्मादन्यत्र कूटेवा रंगे वाऽस्थानमण्टपे । सर्वालंकारसंयुक्तं कृत्वा धामप्रदक्षिणम् ।। २९८१/२ ।। तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च । विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ।। २९९१/२ ।। प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः । नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ।। ३००१/२ ।। धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।। ३०१ ।। स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः । संप्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ।। ३०२ ।। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् । समिदाज्येन चरुणा तिललाजगुलैस्तु वा ।। ३०३ ।। मूलेन शतहोमस्स्यादस्त्रहोममतो न वा । पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ।। ३०४ ।। प्रायश्चित्तंत्वघोरेण कृत्वा पूर्णासमन्वितम् । सद्योजातेन संस्पृश्य गन्धंमूलेन दापयेत् ।। ३०५ ।। सवत्सांगां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् । तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ।। ३०६ ।। जलदानसमोपेतं यात्रादानमिदंमतम् । अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ।। ३०७ ।। ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् । शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ।। ३०८ ।। योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् । तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ।। ३०९ ।। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च । प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ।। ३१० ।। उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः । आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ।। ३११ ।। यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् । सर्वागमज्ञं शान्तञ्च शिवलिंगार्चनारतम् ।। ३१२ ।। नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् । ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ।। ३१३ ।। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा । तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ।। ३१४ ।। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि । तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ।। ३१५ ।। देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि । तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ।। ३१६ ।। तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः । यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ।। ३१७ ।। पूर्वान्ते भवेल्लिंगप्रतिष्ठादौ च सम्मतम् । अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ।। ३१८ ।। सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते । सर्वालंकारसंयुक्तं मुखेणसमन्वितम् ।। ३१९ ।। शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् । पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ।। ३२० ।। कृत्वा यानक्रमं प्रोक्तं सर्वमंगल संयुतम् । राजवेषधरैः पुंभिर्नानानृत्तसमन्वितैः ।। ३२१ ।। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः । अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ।। ३२२ ।। वर्जयेद्वाथ मुखं राजवेषधरान्वितम् । प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ।। ३२३ ।। कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् । तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ।। ३२४ ।। रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् । पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ।। ३२५ ।। कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् । अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ।। ३२६ ।। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः । युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ।। ३२७ ।। अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् । विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ।। ३२८ ।। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना । तीर्थार्थं साधयेद्रात्रौ कलशान्नवसंख्यया ।। ३२९ ।। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् । सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ।। ३३० ।। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा । प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ।। ३३१ ।। तीर्थस्थानञ्च संप्राप्य शुद्धिं कृत्वा महीतले । स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ।। ३३२ ।। पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् । पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ।। ३३३ ।। त्रिशूले सर्वतीर्थञ्च सर्वंदुर्गासमन्वितम् । मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ।। ३३४ ।। तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च । तीर्थसंग्रहणं कुर्यात् गंगाद्यावाहनेन च ।। ३३५ ।। हे देवि गंगे यमुने नर्मदे च सरस्वति । सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ।। ३३६ ।। सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् । खेरस्तमनं यावत् तीर्थानां पापशुद्धये ।। ३३७ ।। तीर्थसंग्रहणं तन्मध्ये प्राक्शिरान्वितम् । त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ।। ३३८ ।। जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् । तीर्थसंग्रहणं कृत्वा तीर्थं देवालयेपि वा ।। ३३९ ।। अवगाहनहीनन्तु नयेद्दूरजलाशये । सर्वालंकारसंयुक्तं प्रविशेदालयं प्रति ।। ३४० ।। होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना । चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ।। ३४१ ।। स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ । त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ।। ३४२ ।। तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये । वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ।। ३४३ ।। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् । संक्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ।। ३४४ ।। मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् । दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ।। ३४५ ।। सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् । तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ।। ३४६ ।। सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् । मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ।। ३४७ ।। शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा । दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ।। ३४८ ।। राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः । पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ।। ३४९ ।। मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ । नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ।। ३५० ।। दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च । दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ।। ३५१ ।। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे । तदादौ स्नानकालादौ कर्तव्यम्मंगलार्थकम् ।। ३५२ ।। तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् । दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ।। ३५३ ।। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् । नानाविधेषु पात्रेषु लिंगार्थकं प्रतिमार्थकम् ।। ३५४ ।। उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः । परिवारार्थमेकञ्च भागं संकल्पयेत् क्रमात् ।। ३५५ ।। अवशिष्टजनार्थञ्च संग्रहेत् कलशादिषु । केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ।। ३५६ ।। संप्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ।। ३५६१/२ ।। अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् । रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ।। ३५७१/२ ।। चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च । कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ।। ३५८१/२ ।। महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले । नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ।। ३५९१/२ ।। किं तु बेरसमोपेतं प्रपादि परिमण्डिते । कलशस्थापनोपेतं देवताह्वानसंयुतम् ।। ३६०१/२ ।। विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः । तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ।। ३६११/२ ।। तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत् । विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ।। ३६२१/२ ।। महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् । त्रिशूलसहितं वापि नानादेवालयागतैः ।। ३६३१/२ ।। त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् । अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ।। ३६४१/२ ।। महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् । अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ।। ३६५१/२ ।। पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् । हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ।। ३६६१/२ ।। तच्च (मोटि) समायुक्तं उत्तमोत्तममिष्यते । तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ।। ३६७१/२ ।। तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते । पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ।। ३६८१/२ ।। समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् । नक्षत्रमधिकं त्वह्निसंग्राह्यं तिथिरेव वा ।। ३६९१/२ ।। वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे । तीर्थर्क्षद्वयसंप्राप्तावेकमासे परं वरम् ।। ३७०१/२ ।। तत्रापि योगयुक्तञ्चेत् पूर्वं संग्राह्यमेव वा । यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ।। ३७११/२ ।। तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् । लिंगे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ।। ३७२१/२ ।। मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके । नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ।। ३७३१/२ ।। जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः । द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ।। ३७४१/२ ।। वियोगे तीरदेशे तु बेरस्नपनमेव वा । कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ।। ३७५१/२ ।। नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा । आरामादौ च देवेशं तोषयेत् सर्वमंगलैः ।। ३७६१/२ ।। ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् । सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ।। ३७७१/२ ।। पूर्णाहुतिं ततो हुत्वा सर्वमंगलसंयुतम् । धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ।। ३७८१/२ ।। ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् । गर्भगेहे सुसंस्थाप्य लिंगे पीठेह्यनुक्रमात् ।। ३७९१/२ ।। देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् । तत्तत् तोयैश्च संप्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ।। ३८०१/२ ।। ततस्संपूजयेद्देवं यथाविभवविस्तरम् । ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ।। ३८११/२ ।। तृतीये पञ्चमे वापि सप्तमे नवमेव वा । एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ।। ३८२१/२ ।। कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ।। ३८३ ।। मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः । ध्वजादि तीर्थपर्यन्तं दिनसंख्यास्थिता यदि ।। ३८४ ।। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् । ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ।। ३८५ ।। लिंगे बेरे शूले ध्वजे स्नपनमाचरेत् । अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ।। ३८६ ।। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः । कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ।। ३८७ ।। नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् । चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ।। ३८८ ।। ततो ग्रामबलिं दद्यात् अन्नलिंगसमन्वितम् । त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ।। ३८९ ।। भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् । श्रीखण्ट शंखसंयुक्तं बलिकाले तु घोषणम् ।। ३९० ।। कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः । ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ।। ३९१ ।। अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे । ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ।। ३९२ ।। आचार्यं पूजयेत्कर्ता वस्त्रहेमांगुलीयकैः । अंकुरार्पणकाले च ध्वजारोहणकालके ।। ३९३ ।। यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः । अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ।। ३९४ ।। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके । दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ।। ३९५ ।। अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ।। ३९६ ।। तदर्धसंख्यया प्रोक्ता दक्षिणाकन्यसक्रमे । श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ।। ३९७ ।। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता । भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ।। ३९८ ।। उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः । संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ।। ३९९ ।। बलि होमादिसंयुक्तो बेरयात्रादि संयुतः । वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ।। ४०० ।। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् । मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ।। ४०१ ।। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् । अंकुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ।। ४०२ ।। एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् । स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ।। ४०३ ।। तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः । अस्त्रं भेरीञ्च संपूज्य भेरीं सन्ताडयेत् क्रमात् ।। ४०४ ।। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् । धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।। ४०५ ।। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे । विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ।। ४०६ ।। समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ । पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।। ४०७ ।। हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् । उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ।। ४०८ ।। फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् । वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ।। ४०९ ।। द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा । स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमंगलैः ।। ४१० ।। संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा । कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ।। ४११ ।। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् । ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ।। ४१२ ।। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् । कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ।। ४१३ ।। आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः । ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ।। ४१४ ।। प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् । सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ।। ४१५ ।। चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् । आलये बलियाने च स्यातां तीर्थं विहाय वा ।। ४१६ ।। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके । तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ।। ४१७ ।। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते । बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ।। ४१८ ।। देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ।। ४१८१/२ ।। कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् । कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ।। ४१९१/२ ।। चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः । अयने विषुवे राहु दर्शनेदमनोत्सवे ।। ४२०१/२ ।। पवित्रेमासपूजायां कृत्तिकादीपरोहणे । संवत्सरादिलेखायान्नवतोयागतावपि ।। ४२११/२ ।। पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि । अन्यस्मिन् मंगले कार्ये कुर्यादेकोत्सवं बुधः ।। ४२२१/२ ।। एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये । वारपूजादि कर्तव्या रविवारादितः क्रमात् ।। ४२३१/२ ।। पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनांगकैः । पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ।। ४२४१/२ ।। स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा । गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ।। ४२५१/२ ।। अर्कवारादि वारेषु पत्राण्येतानि योजयेत् । माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ।। ४२६१/२ ।। प्रवालं गुजवारे तु बुधे मरकतं भवेत् । सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ।। ४२७१/२ ।। इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च । सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ।। ४२८१/२ ।। तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ।। ४२९ ।। तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् । वारपूजावसाने तु वारोत्सवमथाचरेत् ।। ४३० ।। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये । ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ।। ४३१ ।। जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च । तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ।। ४३२ ।। तत्तद्वारविभेदेन गन्धादिग्रहणेन वा । संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ।। ४३३ ।। वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते । पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ।। ४३४ ।। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके । ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ।। ४३५ ।। भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् । ब्राह्मणादि त्रयाणां वा शूद्रे वांकुरपूर्वकम् ।। ४३६ ।। नगरे ध्वजपूर्वं वा मंगले भेरिपूर्वकम् । पत्तनेंकुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ।। ४३७ ।। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे । पुरादौ संकरोनोक्तः उत्सवानां द्विजोत्तमाः ।। ४३८ ।। सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः । ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ।। ४३९ ।। ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः । उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ।। ४४० ।। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः । श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ।। ४४१ ।। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः । आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ।। ४४२ ।। ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा । गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ।। ४४३ ।। पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे । एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ।। ४४४ ।। ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा । ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ।। ४४५ ।। अथवा ध्वजमूले तु देवानां बलिरेव वा । नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ।। ४४६ ।। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् । प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ।। ४४७ ।। चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः । आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ।। ४४८ ।। उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा । केत्वंकुरन्नवाहे स्यात् सप्ताहेचोत्सवांकुरम् ।। ४४९ ।। तीर्थांकुरन्तु तत्संख्ये सर्वं सर्वत्र वामतम् । मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ।। ४५० ।। निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते । कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ।। ४५१ ।। मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः । सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ।। ४५२ ।। सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते । सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ।। ४५३ ।। उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् । विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ।। ४५४ ।। अथवान्यप्रकारेण उत्सवन्तु विधीयते । ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ।। ४५५ ।। तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे । श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ।। ४५६ ।। चण्डालेन सदारेण कुर्यात् घोषयुतेन च । तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ।। ४५७ ।। बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् । आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ।। ४५८ ।। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् । स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ।। ४५९ ।। एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् । नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ।। ४६० ।। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके । यागारम्भं पुनः कुर्यादंकुरार्पणपूर्वकम् ।। ४६१ ।। एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् । बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ।। ४६२ ।। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः । विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ।। ४६३ ।। अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् । तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ।। ४६४ ।। ध्वजानष्टौ समारोप्यांकितान् लोकेशवाहनैः । तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ।। ४६५ ।। ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः । तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ।। ४६६ ।। एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् । ध्वजानामष्टसंख्यानां तद्रात्राववरोहणम् ।। ४६७ ।। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् । नानागानसमायुक्तं नानानृत्तसमन्वितम् ।। ४६८ ।। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् । सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ।। ४६९ ।। स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः । एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।। ४७० ।। नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् । प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ।। ४७१ ।। स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् । चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ।। ४७२ ।। बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् । चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ।। ४७३ ।। तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् । ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ।। ४७४ ।। बेरयात्रा विहीनं वा विधिमेनां समाचरेत् । नवान्नलिंगं कृत्वा वा दिक्पालास्त्रार्थमेव वा ।। ४७५ ।। तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् । नित्योत्सवान्नलिंगानि दश वा परिकल्पयेत् ।। ४७६ ।। द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा । जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ।। ४७७ ।। इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ।। तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि । भागं कृत्वैक भागेन पट विस्तार उच्यते ।। विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते । विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ।। वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् । श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् । रक्तशृंग समायुक्तं तद्वत्खुर समन्वितम् ।। मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः । पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ।। चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् । पूर्णकुंभयुतं वापि त्रिशूलेन युतं न वा ।। एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ।। सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः । द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ।। यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ।। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ।। उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ।। ७ सप्तमे पटले निराजनविधिः नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते । प्रदोषादौ विधेयो वा धूपदीपावसानके ।। १ ।। उत्सवादौ च कर्तव्यमन्यस्मिन् मंगलेपि च । तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ।। २ ।। गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके । महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ।। ३ ।। पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च । पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ।। ४ ।। दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः । पादांगुलविवृद्ध्यातु नवांगुलसमाविधि ।। ५ ।। विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते । वसुधा मध्यमे भक्ते नवधामानमीरितम् ।। ६ ।। ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः । पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ।। ७ ।। पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् । धुर्तूरकुसुमाकारं शरवाकारमेव वा ।। ८ ।। चतुरष्टदलोपेतं सर्वालंकारसंयुतम् । एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ।। ९ ।। नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा । पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ।। १० ।। देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः । एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ।। ११ ।। कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा । वर्णभक्त हविष्यं च वटाश्वदकानि ।। १२ ।। चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् । मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ।। १३ ।। गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः । सर्वत्र दीपान्वा कुर्यान्नवसंख्यान् समुज्वलान् ।। १४ ।। घृतार्द्रांस्तैलसंयुक्तान् ब्रह्मांगसहितान्यसेत् । लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ।। १५ ।। वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः । कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ।। १६ ।। पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः । प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ।। १७ ।। तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया । संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ।। १८ ।। वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् । सर्वातोद्यसमायुक्तं शंखध्वनि समन्वितम् ।। १९ ।। गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् । स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ।। २० ।। देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् । दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ।। २१ ।। गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना । त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ।। २२ ।। संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् । आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ।। २३ ।। सोपि संगृह्य तं दीपं सप्रणामन्निवेशयेत् । सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ।। २४ ।। गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि । त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ।। २५ ।। अंगुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके । ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ।। २६ ।। पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके । देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ।। २७ ।। कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् । बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ।। २८ ।। तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु । भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ।। २९ ।। ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् । सर्वालंकारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ।। ३० ।। सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् । पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ।। ३१ ।। वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् । द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ।। ३२ ।। तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् । राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ।। ३३ ।। राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे । देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ।। ३४ ।। तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ।। ३४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः ८ अष्टमे पटले कृत्तिकादीपावलिविधिः दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः । मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ।। १ ।। पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये । रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ।। २ ।। कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् । वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ।। ३ ।। रवेरस्तमयात्पूर्वं यामपादावसानकम् । कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ।। ४ ।। एवन्निश्चित्य कालन्तु कारयेद्वांकुरार्पणम् । दीपाराधनपूवेद्युरधिवासनमारभेत् ।। ५ ।। देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा । अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ।। ६ ।। दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् । स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ।। ७ ।। ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुलविवृद्धितः ।। ८ ।। पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः । द्विमात्रात् पादवृद्ध्यातु षडंगुलसमावधि ।। ९ ।। विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ।। १० ।। नवकीलं समारभ्य व्योमकीलविवृद्धितः । सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ।। ११ ।। विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् । त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ।। १२ ।। तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः । दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ।। १३ ।। दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश । योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ।। १४ ।। छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् । एकहस्तविशालन्तु द्विगुणायतसंयुतम् ।। १५ ।। दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये । कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ।। १६ ।। हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः । योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ।। १७ ।। दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते । दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ।। १८ ।। प्रतिवेदन्तु कर्तव्या दीपिका बहुसंख्यया । स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ।। १९ ।। तोरणाकारतोपिवा वृत्ताकारेण वा बहून् । प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ।। २० ।। प्रासादे गोपुरे शाले परिवारालयादिषु । मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ।। २१ ।। वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु । बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ।। २२ ।। दीपावलिरियं कार्या अधिवासनपूर्वकम् । अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ।। २३ ।। षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् । स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ।। २४ ।। ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा । शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ।। २५ ।। दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् । बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ।। २६ ।। आलये मण्टपे वापि यागमण्टप एव वा । मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ।। २७ ।। स्थण्डिलन्तत्र संकल्प्य शस्त्रेण प्रोक्षयेत् गुरुः । नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ।। २८ ।। नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः । पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ।। २९ ।। कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् । शिवाग्निं तत्र संपाद्य शिवं सांगञ्च तर्पयेत् ।। ३० ।। समिधाज्येन चरुणा ततः कार्पासबीजतः । क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ।। ३१ ।। मूलेनांगैर्दशांशेन वह्निबीजमनुस्मरन् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ३२ ।। देवं सांगं विसृज्याथ दीपानारोपयेत् गुरुः । तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ।। ३३ ।। वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु । गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ।। ३४ ।। गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः । सर्वालंकारसंयुक्तं तरुणाख्यन्तु दीपकम् ।। ३५ ।। दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् । होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ।। ३६ ।। ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च । चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ।। ३७ ।। कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च । पूर्वस्यामथवाग्नेययां कूटमेकन्तु वा नयेत् ।। ३८ ।। तोरणानि यथायोग्यन्नयेदिच्छावशेन तु । सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ।। ३९ ।। सर्वालंकारसंयुक्तं कदलीपूगसंयुतम् । एवं संपाद्य सर्वन्तु मन्दीभूते दिवाकरे ।। ४० ।। पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् । वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ।। ४१ ।। स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् । कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ।। ४२ ।। कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा । अधिवासन होमेन समं होमं समाचरेत् ।। ४३ ।। वह्नावीशे तु कूटे वा देशिको होममाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ४४ ।। अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः । पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ।। ४५ ।। आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः । पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ।। ४६ ।। एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः । सर्वालंकारसंयुक्तं मंगलांकुर शोभितम् ।। ४७ ।। वितानध्वजसंयुक्तं छत्रचामरसंयुतम् । नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ।। ४८ ।। बेरेण च समायुक्तं बेरयात्रायुतन्नवा । ग्रहस्थे ब्रह्मचारी वा दीपं संग्राह्य पाणिना ।। ४९ ।। दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् । दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ।। ५० ।। विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् । मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ।। ५१ ।। दीपारोपणकर्तारं पूजयेत् परिचारकम् । वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ।। ५२ ।। ज्योतिलिंगमनुस्मृत्य दहेत् कूटचतुष्टयम् । अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ।। ५३ ।। तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् । कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ।। ५४ ।। हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् । प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ।। ५५ ।। प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् । स्नपनं कारयेन्नो वा बेरलिंगं तदुक्तितः ।। ५६ ।। प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् । पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ।। ५७ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् । अंकुरार्पणहीनं वा क्रियामेनां समाचरेत् ।। ५८ ।। गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् । अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ।। ५९ ।। तदंगमपरं चान्यद्देशिकाय प्रदापयेत् । इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ।। ६० ।। ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः । अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ।। ६१ ।। गोशालायां विशेषेण तेषां रोगनिवृत्तये । यान्तिथिं समनुप्राप्य उदयं याति भास्करः ।। ६२ ।। सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ।। ६२१/२ ।। यदृक्षं समनुप्राप्य अस्तं याति भास्करः । तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ।। ६३१/२ ।। एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ।। ६४ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः ८ ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुल विवृद्धितः ।। पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः । द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ।। विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ।। नव कीलं समारभ्य व्योमकील विवृद्धितः । शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ।। त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् । तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ।। दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ।। लोकः ३ कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् । विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ।। करणदोषः विष्टिः चतुर्थ्यां अपरे विष्टिः अष्टम्यां पूर्वभागतः एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः दशम्यां अपरे विष्टिः चतुर्दश्यां तु पूर्वतः वैनाशिकः द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम् ९ नवमे पटले मार्गशीर्षे घृतस्नान डोलारोहण पुष्ये क्षौद्रपूजा विधिः मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् । घृतस्नानसमोपेतं प्रागुक्तविधिना सह ।। १ ।। केवलस्नपनं वापि कारयित्वा विशेषतः । गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ।। २ ।। ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् । अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ।। ३ ।। बेरप्रदक्षिणं कृत्वा सर्वालंकार संयुतम् । चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ।। ४ ।। डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ।। ४१/२ ।। सर्वालंकारसंयुक्तं कृत्वा स्तम्भद्वयं तथा । स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ।। ५१/२ ।। तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् । चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ।। ६१/२ ।। नानालंकारसंयुक्ता मथबाहुद्वयान्विताम् । एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ।। ७१/२ ।। अस्त्रतोयेन संप्रोक्ष्य कल्पयेदासनं यथा । फलकायां यजेद्धंसं हृदा हंसासने यजेत् ।। ८१/२ ।। ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् । विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ।। ९१/२ ।। वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् । गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ।। १०१/२ ।। नानागानसमायुक्तन्नाना नृत्तसमन्वितम् । नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ।। १११/२ ।। अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् । प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ।। १२१/२ ।। डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च । अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ।। १३१/२ ।। पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ।। १४ ।। पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ।। १५ ।। पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः नवमः पटलः ९ डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः । सर्वालङ्कार संयुक्तं कृत्वा स्तंभद्वयं तथा ।। स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् । तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ।। चतुर्बाहु समायुक्तां ऊर्ध्व प्रच्छादनान्विताम् । नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ।। एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् । १० दशमे पटले माघमासे घृतकम्बलपूजाविधिः माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् । कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ।। १ ।। नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः । शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ।। २ ।। तदाज्यं पिण्डवत् कृत्वा कुंकुमागरुसंस्कृतम् । हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ।। ३ ।। हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् । पञ्चब्रह्मषडंगैश्च शिवेन तदनन्तरम् ।। ४ ।। विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा । विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ।। ५ ।। गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् । तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ।। ६ ।। पलाशसमिदाज्यान्न तिललाजसमन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ७ ।। घृते संपातहोमञ्च पवित्रारोहवर्त्मना । कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ।। ८ ।। कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा । संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।। ९ ।। विशेषेणार्चयित्वा तु सर्वालंकारसंयुतम् । धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।। १० ।। लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् । गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।। ११ ।। दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ।। १११/२ ।। सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च । पूर्ववत् पूजयेद्देवं गुरुं संपूजयेत्तदा ।। १२१/२ ।। दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् । अंकुरार्पणपूर्वं वा रहितं वैतदाचरेत् ।। १३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः ११ एकादशे पटले माघे शिवरात्रिपूजाविधिः अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः । श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ।। १ ।। अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् । मया सह मुदा सार्धं रमन्तीप्सितमाययुः ।। २ ।। न बाध्यन्ते यमादेशात् किंकरैः क्रूरदृष्टिभिः । यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ।। ३ ।। श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् । माघमास्यासिते पक्षे विद्यते या चतुर्दशी ।। ४ ।। तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा । तस्यामेव शिवपूजा शिवलिंगे शिवालये ।। ५ ।। कृतस्नानोपवासेन पूर्वेह्नि नियतेन च । साधकेनोपचारेण कर्तव्या श्रद्धया सह ।। ६ ।। पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः । शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ।। ७ ।। आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् । अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ।। ८ ।। पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् । गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ।। ९ ।। पवित्रैः पञ्चभिः कुर्यात् पञ्चांगैश्च क्रमेण तु । पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ।। १० ।। चूर्णेनापि सपिष्टेन रजन्या धूपितेन च । अस्त्रेण शोधितेनैव शोधयेदुदकेन च ।। ११ ।। नालिकेरोदकेनैव तं पश्चादभिषेचयेत् । गन्धोदकेन मूलांगब्रह्मभिश्चाभिषेचयेत् ।। १२ ।। कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् । लिंगमाच्छाद्य देवांगाद्येन शुद्धेन वाससा ।। १३ ।। यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् । चन्दनागरुकर्पूर कुंकुमाद्यैः क्रमेण तु ।। १४ ।। मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः । दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ।। १५ ।। गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् । दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ।। १६ ।। पायसं प्रथमे यामे द्वितीये कृसरं भवेत् । गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ।। १७ ।। निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् । सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ।। १८ ।। धूपमारात्रिकोपेतं शिवाय विनिवेद्य च । होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ।। १९ ।। कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् । शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ।। २० ।। संपूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले । समादाज्य हविर्लाज तिलैर्मूलांगब्रह्माभिः ।। २१ ।। शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् । दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ।। २२ ।। कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् । वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ।। २३ ।। पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः । स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ।। २४ ।। नीत्वा जागरणं रात्रौ प्रभाते विमले ततः । कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ।। २५ ।। देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् । दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ।। २६ ।। लिंगिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि । पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ।। २७ ।। गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः । पादौ हस्तौ च संक्षाल्य पारणन्तु समाचरेत् ।। २८ ।। इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः पटलः १२ द्वादशे पटले फाल्गुनमासगन्धपूजाविधिः उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् । विशेषस्नपनोपेतं विशेषयजनान्वितम् ।। १ ।। दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि । प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ।। २ ।। तत्पादं वा तदर्धं वा कुंकुमं स्यात्तदर्धतः । पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ।। ३ ।। कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् । वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ।। ४ ।। घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना । गन्धैरालिप्य लिंगन्तु सपीठं शिवमन्त्रतः ।। ५ ।। सुगन्धपुष्पमालाभिर्भूषयेल्लिंगपिण्डिके । कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ।। ६ ।। सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये । आभिचारकृते दोषे विधानमिदमाचरेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः द्वादशः पटलः १३ त्रयोदशे पटले चैत्रमास दमन पूजा विधिः दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् । हरकोपात् पुराजातः बैरवो दमनाह्वयः ।। १ ।। दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः । प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ।। २ ।। दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि । पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ।। ३ ।। ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः । ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ।। ४ ।। तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया । सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ।। ५ ।। शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः । अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ।। ६ ।। हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव । शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ।। ७ ।। एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् । यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ।। ८ ।। पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा । ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ।। ९ ।। सायाह्नसमये प्राप्ते विदध्यादधिवासनम् । आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ।। १० ।। यथा विधिसमभ्यर्च्य भानुशंकरपावकान् । पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ।। ११ ।। सद्योजातेन मनुना दीपितं हृदयेन वा । वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ।। १२ ।। दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा । पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ।। १३ ।। फलंमूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् । पञ्चांगमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ।। १४ ।। विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति । आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।। १५ ।। कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया । इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ।। १६ ।। संयोज्य शिवमन्त्रेण विदधीत जपादिकम् । शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ।। १७ ।। पवित्रकविधानेन कवचेनावकुण्ठयेत् । एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।। १८ ।। हविस्तदनु भुञ्जीत यदि वा पवनाशनः । शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ।। १९ ।। प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् । नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ।। २० ।। दमनैः पूजयेद्देवं पञ्चांगैरपि खण्डितैः । शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ।। २१ ।। ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् । आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ।। २२ ।। पवित्रक विधानेन क्रमेण शिवमर्चयेत् । पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ।। २३ ।। सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् । चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ।। २४ ।। मखेश्वराय च मखं पूरयेति च वीप्सितम् । शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ।। २५ ।। प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् । विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ।। २६ ।। भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् । सर्वन्तदस्तु संपूर्णंपर्व दामनकं मम ।। २७ ।। एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ।। २८ ।। ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् । पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः त्रयोदशःपटलः १४ चतुर्दशे पटले चैत्रमास वसन्तोत्सवविधिः तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः । पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ।। १ ।। नानामाला समाकीर्णे नानाफलविचित्रते । नानागानसमोपेते नानावाद्यसमन्विते ।। २ ।। नानानृत्तसमायुक्ते नानायन्त्रसमन्विते । प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ।। ३ ।। पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते । आस्थानमण्टपोपेते जलक्रिडासमन्विते ।। ४ ।। देवोद्यानेनयेद्देवं सर्वालंकारसंयुतम् । ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ।। ५ ।। परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः । पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ।। ६ ।। सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् । देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ।। ७ ।। कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः । स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ।। ८ ।। वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् । ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ।। ९ ।। नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च । एवं काले तु देवेशन्नयेद्देवालयं पुनः ।। १० ।। स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् । एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ।। ११ ।। एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ।। १११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः चतुर्दशः पटलः १५ पञ्चदशे पटले वेशाखमासशीतकुम्भविधिः ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् । विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ।। १ ।। सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये । प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ।। २ ।। चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे । शीतकुम्भविधिः कार्यस्तत्तंद्दोषापनुत्तये ।। ३ ।। यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिंगमूर्धनि । वस्त्वंगुलं समारभ्यांगुलवृद्ध्याकरान्तकम् ।। ४ ।। यथान्तरं तथा कृत्वा संप्रक्षालयाम्बुना गुरुः । वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ।। ५ ।। विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः । महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ।। ६ ।। एवं कृत्वा त्रिपादींश्च विन्यसेल्लिंगपूर्धनि । मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ।। ७ ।। तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् । चतुर्द्रोणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। ८ ।। मध्यमं खारिसंपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ।। ९ ।। कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ।। १० ।। एकद्वित्र्यंघ्रिसंयुक्तन्निष्कमानकृतेन तु । युगांगुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ।। ११ ।। पिधानेन समोपेतं पल्लवेन समन्वितम् । उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ।। १२ ।। पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् । आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ।। १३ ।। ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् । प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ।। १४ ।। प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् । गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ।। १५ ।। प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् । पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ।। १६ ।। गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् । अथवाचमनीयार्थं कल्पितो गन्ध एव वा ।। १७ ।। नीरोमजन्तुकं द्रव्यं उपकुम्भे विनिक्षिपेत् । हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ।। १८ ।। नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् । तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ।। १९ ।। समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः । आप्येनामृतबीजेन संपुटेन शिवेन च ।। २० ।। आप्याधारणयोपेतं सहस्रं वा तदर्थकम् । शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ।। २१ ।। आप्याणुसंपुटं मूलं जपेत्तत्संख्यकं यथा । जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ।। २२ ।। आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् । कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ।। २३ ।। अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः । शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकांक्षिभिः ।। २४ ।। सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् । तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ।। २५ ।। सहस्रसंख्यकावास्युः अर्धसंख्या समन्विताः । शतसंख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ।। २६ ।। एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः । पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ।। २७ ।। ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः । कुर्याच्छंखस्वनोपेतं प्रत्यहं चैवमाचरेत् ।। २८ ।। नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् । नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ।। २९ ।। नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः । संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ।। ३० ।। चन्दनागरुकर्पूरकुंकुमैः प्रचुरैर्गुरुः । गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ।। ३१ ।। कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ।। ३२ ।। नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः । पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ।। ३३ ।। ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः । मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ।। ३४ ।। नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि । जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ।। ३५ ।। पूजयेत् प्रत्यहं देवं यावत्स्यात् कांक्षितं फलम् । तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ।। ३६ ।। प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् । संग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ।। ३७ ।। आभ्यां कृत्वा सुधाम्नस्तु च सुवारके आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ।। ३८ ।। सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् । घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ।। ३९ ।। शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् । निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ।। ४० ।। तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति । सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ।। ४१ ।। द्विमासंन वा त्रिमासं वा विधिमेवंन समाचरेत् । आचार्यं पूजयेदादौ वस्त्रैः पञ्चांगभूषणैः ।। ४२ ।। दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः । अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ।। ४३ ।। अन्येषामपि सर्वेषां हेमवस्त्रांगुलीयकान् । निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ।। ४४ ।। प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् । ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ।। ४५ ।। नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि । दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ।। ४६ ।। स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ।। ४६१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः पञ्चदशः पटलः १५ यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि । वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ।। यथान्तरं तथा कृत्वा सप्रक्षाल्यांबुनागुरुः । वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ।। विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः । महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ।। एवं कृत्वा त्रिपादीं च विन्यसेल्लिंग मूर्धनि । चतुर्द्राणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बपलाकारं सवस्त्रंकूर्चसंयुतम् ।। कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ।। १६ षोडशे पटले ज्येष्ठमासफलपूजाविधिः ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः । विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ।। १ ।। विशेषपूजा संयुक्तं पायसेन समन्वितम् । विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ।। २ ।। नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च । पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ।। ३ ।। कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा । वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ।। ४ ।। सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् । क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ।। ५ ।। यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः षोडशः पटलः १७ सप्तदशे पटले आषाढ मास पूर्वफल्गुनी पूजा विधिः आषाढे मासि नक्षत्रे पूर्वफाल्गुन संज्ञके । आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ।। १ ।। कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना । देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ।। २ ।। वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् । ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ।। ३ ।। तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् । ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ।। ४ ।। आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् । रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ।। ५ ।। दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् । ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ।। ६ ।। हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् । त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ।। ७ ।। स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः । एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ।। ८ ।। संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः । सक्तुभिश्च फलोपेतैस्तान् संपूज्य ह्रदा गुरुः ।। ९ ।। तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् । तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ।। १० ।। तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि । आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ।। ११ ।। प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् । अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ।। १२ ।। बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् । नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ।। १३ ।। गुडखण्ड समोपेतं सक्तु संदापयेद् गुरुः । नानापूप समायुक्तं नानाफल समन्वितम् ।। १४ ।। जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् । विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ।। १५ ।। विधाय केवलं वापि त्रिशूलेन समन्वितम् । नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ।। १६ ।। प्रभूतहविषोपेतं मुखवासेन संयुतम् । ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ।। १७ ।। वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः । सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ।। १८ ।। सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये । विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ।। १९ ।। इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा विधिः सप्तदशः पटलः १८ अष्टादशे पटले श्रावणमासे पवित्रारोहण विधिः दुरितस्य विनाशार्थं संवत्सरकृतस्य तु । पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ।। १ ।। प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् । सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ।। २ ।। पुत्रको भुक्ति भांङ्नस्यात् जन्मनैकेन रोधनात् । समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ।। ३ ।। विधातव्यं प्रयत्नेन येन केन प्रकारतः । प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ।। ४ ।। पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् । आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ।। ५ ।। अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ । पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ।। ६ ।। इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः । चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ।। ७ ।। कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् । शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ।। ८ ।। कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् । क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ।। ९ ।। दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् । त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ।। १० ।। रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः । शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ।। ११ ।। शक्तयो नव वामाद्या नव सूत्राधिपा मताः । दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ।। १२ ।। शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् । द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ।। १३ ।। तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु । यवीयसां कलासंख्या मध्याना वर्ण लक्षिताः ।। १४ ।। ज्येष्ठानां पदसंख्याता स्तन्तवो मानुषे मताः । स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ।। १५ ।। स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च । संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ।। १६ ।। समा एव गृहस्थस्य परिवारामरादिषु । तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ।। १७ ।। एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः । ग्रन्थयस्तन्तु संख्याताः स्निग्ध गर्भा नवा मताः ।। १८ ।। यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः । एकादित्र्यंगुलं वापि ग्रन्थिमानमिहागमे ।। १९ ।। ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः । रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ।। २० ।। कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् । रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ।। २१ ।। त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् । पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ।। २२ ।। यज्ञसूत्राख्यमाला च बाहुमला ततः परम् । मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ।। २३ ।। आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् । यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ।। २४ ।। क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् । आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ।। २५ ।। पवित्रमेकं सर्वेषामावृतानां विधीयताम् । एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ।। २६ ।। क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् । यागधामवृषस्थान प्रासादालय संश्रयान् ।। २७ ।। कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् । एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ।। २८ ।। प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा । मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ।। २९ ।। षोडशस्तंभसंयुक्ते रविस्तंभ युतेऽपि वा । मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ।। ३० ।। त्रिभागायामयुक्ते वा विंशति स्तंभ संयुते । मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ।। ३१ ।। तत्समन्तात् सुसंकॢप्त नव पञ्चैक कुण्डके । तत्संख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ।। ३२ ।। पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् । कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ।। ३३ ।। कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः । अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ।। ३४ ।। परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् । लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ।। ३५ ।। इष्ट्वा संप्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् । संपूज्य विधिवद्देव समीपे स्वासनेस्थितः ।। ३६ ।। आसनार्चनमारभ्य कुर्यादावाहनान्तकम् । कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ।। ३७ ।। नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् । पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ।। ३८ ।। कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् । समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ।। ३९ ।। पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च । शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ।। ४० ।। प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु । शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ।। ४१ ।। तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु । स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ।। ४२ ।। शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् । कुर्यादात्मीय भागं तु केवलेन घृतेन च ।। ४३ ।। हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् । गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ।। ४४ ।। दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् । भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ।। ४५ ।। पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् । धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ।। ४६ ।। होमद्रव्याणि सर्वाणि सकुशान्यपरानने । दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ।। ४७ ।। रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् । दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ।। ४८ ।। तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् । तांबुलं भस्म संमिश्रं दद्यात्तत्पुरुषं स्मरन् ।। ४९ ।। ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् । स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ।। ५० ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् । धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ।। ५१ ।। ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः । स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ।। ५२ ।। तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् । तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ।। ५३ ।। मण्डले वेदिकोर्ध्वे चेदत्र कुंभान्तिकेऽपि वा । संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ।। ५४ ।। मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके । संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ।। ५५ ।। गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् । अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ।। ५६ ।। त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः । दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ।। ५७ ।। याग धामवृषस्थान प्रासादानल संश्रयान् । कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ।। ५८ ।। दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् । प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ।। ५९ ।। तदेतानि पवित्राणि भगवन् संस्कृतानि हि । अर्पयामि घटस्थाय शिवायाध्येषये दिति ।। ६० ।। समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् । आदौ वा कुंभवर्धन्योर्दत्वायायाच्छिवान्तिकम् ।। ६१ ।। स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् । एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ।। ६२ ।। धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः । आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ।। ६३ ।। शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना । आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ।। ६४ ।। समस्तविधिविच्छिद्र पूरणेशमखंप्रति । प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ।। ६५ ।। तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।। ६६ ।। जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् । दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ।। ६७ ।। दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः । आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ।। ६८ ।। इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम् । अन्येषां चैव मूर्तिना/ क्रमाद्दद्यात् बहिर्बलिम् ।। ६९ ।। वायव्यांक्षेत्रपालाय दत्वाचम्य बलिं पुनः । प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ।। ७० ।। भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् । अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ।। ७१ ।। स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः । मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ।। ७२ ।। नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् । सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ।। ७३ ।। निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः । पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ।। ७४ ।। आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् । अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ।। ७५ ।। अविसर्जित देवेशात् पवित्राण्यवरोपयेत् । तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ।। ७६ ।। दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् । समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ।। ७७ ।। कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः । द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुंभयोः ।। ७८ ।। दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् । स्वासने दीपसंकॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ।। ७९ ।। मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् । शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ।। ८० ।। विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् । पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ।। ८१ ।। जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः । कुण्डमस्त्रेण संप्रोक्ष्य मेखलापरिधिस्थितान् ।। ८२ ।। सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् । दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ।। ८३ ।। प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् । दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ।। ८४ ।। नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्संप्रविश्य च । ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ।। ८५ ।। गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च । कृत्वा विशेष पूजां च विभवस्यानुसारतः ।। ८६ ।। स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् । वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ।। ८७ ।। सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् । कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ।। ८८ ।। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः । प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ।। ८९ ।। कालात्मना त्वयादेव यद्दृष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ।। ९० ।। तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् । सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ।। ९१ ।। पूरयेति द्विरुच्चार्य मखव्रत फलं ततः । नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ।। ९२ ।। आत्मतत्त्वाधिपतये शिवाय नम इत्यपि । तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ।। ९३ ।। पवित्रकत्रयंमूर्ध्नि तद्भोगी शिवादिकम् । शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ।। ९४ ।। सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ।। ९५ ।। त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे । अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ।। ९६ ।। कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ।। ९७ ।। जपहोमार्चनाहीनं कृत्यं नित्यं मया तव । अकृतं वाक्यहीनं च तत्पूरय महेश्वर ।। ९८ ।। सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् । त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ।। ९९ ।। खण्डितं यन्मया देव व्रत वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञासूत्रगुंभितम् ।। १०० ।। जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् । गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ।। १०१ ।। अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा । अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ।। १०२ ।। एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् । व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ।। १०३ ।। सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते । शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ।। १०४ ।। वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्संप्रविश्य च । देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ।। १०५ ।। दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः । प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ।। १०६ ।। मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् । तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ।। १०७ ।। सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः । लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ।। १०८ ।। स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने । ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ।। १०९ ।। व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् । भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ।। ११० ।। मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् । भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ।। १११ ।। वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके । हृदये संनिवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ।। ११२ ।। परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः । शिवकुंभास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ।। ११३ ।। ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् । दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ।। ११४ ।। रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् । आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ।। ११५ ।। निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि । लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ।। ११६ ।। पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् । दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ।। ११७ ।। इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः अष्टादश पटलः १९ एकोनविंशत्तमे पटले नवनैवेद्यविधिः अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् । मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ।। १ ।। अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् । निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ।। २ ।। विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके । शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ।। ३ ।। नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् । मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ।। ४ ।। चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् । चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ।। ५ ।। हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् । पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ।। ६ ।। सलक्षणेन दात्रेण पूजितेनैव हेतिना । प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ।। ७ ।। शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् । तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ।। ८ ।। तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् । नालिकेरफलोपेतं नवपूगफलान्वितम् ।। ९ ।। मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् । नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ।। १० ।। पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः । आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ।। ११ ।। नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् । नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ।। १२ ।। ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति । पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ।। १३ ।। कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् । विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ।। १४ ।। वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा । गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ।। १५ ।। चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् । तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ।। १६ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् ।। १६१/२ ।। नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा । स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ।। १७१/२ ।। मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले । पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ।। १८१/२ ।। अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन् । तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ।। १९१/२ ।। कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद् गुरुः । धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ।। २०१/२ ।। नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् । तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ।। २११/२ ।। नवपूगफलोपेतं देव्यै च विनिवेदयेत् । सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ।। २२१/२ ।। अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् । वृषादिपरिवारेभ्यो होमकर्म समापयेत् ।। २३१/२ ।। नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् । बलिदानसमोपेतमतिथीनां समर्पणम् ।। २४१/२ ।। निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् । तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ।। २५१/२ ।। हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् । सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ।। २६१/२ ।। वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः । एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ।। २७१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः एकोनविंशतितमः पटलः २० विंशतितमे पटले समयविशेषदीक्षा विधिः अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् । आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः । सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ।। २ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत् । आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ।। ३ ।। पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् । वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ।। ४ ।। प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ।। ५ ।। प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् । तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ।। ६ ।। पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च । अस्त्रेण पार्ष्णिंघातस्य त्रयं कृत्वाथ भूगतान् ।। ७ ।। कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः । छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ।। ८ ।। दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् । अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ।। ९ ।। वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि । संपूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ।। १० ।। वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः । उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ।। ११ ।। सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः । विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ।। १२ ।। अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् । तदम्भसा तु संप्रोक्ष्य स्वशिरोद्रव्य संहितम् ।। १३ ।। अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् । हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ।। १४ ।। शिवहस्तं च संकल्प्य तदारोपितमस्तकः । ज्ञानासिं तत्वसंख्यातैश्चतुरूनैरथापि वा ।। १५ ।। दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् । कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ।। १६ ।। मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते । पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ।। १७ ।। शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः । सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ।। १८ ।। रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत् । गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ।। १९ ।। एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् । अमृतीकृत्य संपूज्य शिवेनैकत्वमाचरेत् ।। २० ।। मण्डपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत् । लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ।। २१ ।। हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः । नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ।। २२ ।। कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः । कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ।। २३ ।। विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् । वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ।। २४ ।। हेमाद्येकतमं कुम्भमानीय गलिताम्मसा । पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ।। २५ ।। संहृतौ विकिरास्त्राणामासनं तु चलाचलम् । संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ।। २६ ।। वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् । विन्यसेदस्त्रभूतांतां प्रत्यङ्गनालसमन्विताम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः । इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ।। २८ ।। वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः । विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ।। २९ ।। घटस्थं कलशस्थं वा कुंभस्थं वाजयेद्गुरुः । तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ।। ३० ।। भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ।। ३१ ।। सर्वेषां लोकपालानामनेन क्रमयोगतः । शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ।। ३२ ।। विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् । स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ।। ३३ ।। मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् । पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ।। ३४ ।। सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः । भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ।। ३५ ।। संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा । मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ।। ३६ ।। स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा । उमायै भगरूपिण्यै लिङ्ग रूपधराय च ।। ३७ ।। शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च । यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।। ३८ ।। एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ।। ३९ ।। रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि । यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ।। ४० ।। अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा । निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ।। ४१ ।। वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् । अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ।। ४२ ।। मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् । विशेषपूजयोपेतं पावके शिवमर्चयेत् ।। ४३ ।। भगवन् देहमाविश्य मदीयमनुकम्पया । कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनां ।। ४४ ।। संप्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः । मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ।। ४५ ।। उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् । सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ।। ४६ ।। यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः । होमाधि करणत्वेन पावकस्थस्सदाशिवः ।। ४७ ।। शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः । अनुग्रहकरो देवो मम देहे व्यवस्थितः ।। ४८ ।। पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः । अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ।। ४९ ।। ममापि हृदयादीनि साधनानि न संशयः । स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ।। ५० ।। यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः । त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ।। ५१ ।। अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः । भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ।। ५२ ।। विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः । सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ।। ५३ ।। तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर । प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ।। ५४ ।। कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् । उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ।। ५५ ।। द्वारस्य संमुखं बाह्ये प्रणवे कुशमण्डले । शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ।। ५६ ।। वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् । नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ।। ५७ ।। अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः । पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ।। ५८ ।। तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् । स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ।। ५९ ।। संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् । करोमि गुणसंपन्नं सतां मस्तकभूषणम् ।। ६० ।। ततस्संप्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना । दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ।। ६१ ।। उल्लिखेत् पाशसंतानं प्रवृत्तकरणोन्मुखम् । सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ।। ६२ ।। अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा । संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ।। ६३ ।। प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् । शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ।। ६४ ।। प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् । धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ।। ६५ ।। गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् । शासनेन सदेहेन शिवेन समधिष्ठितम् ।। ६६ ।। शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् । हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ।। ६७ ।। सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना । रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ।। ६८ ।। कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः । ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ।। ६९ ।। न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् । अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ।। ७० ।। सहसालोकितेशान शिववक्त्रसरोरुहम् । यात्तमङ्गमुञ्चेति प्रसूनं शिवसंमुखम् ।। ७१ ।। स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् । तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ।। ७२ ।। नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् । क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ।। ७३ ।। शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् । सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ।। ७४ ।। नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने । संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ।। ७५ ।। दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः । पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ।। ७६ ।। स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः । दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ।। ७७ ।। प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च । शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ।। ७८ ।। पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः । शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ।। ७९ ।। विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् । शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ।। ८० ।। हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति । आहारभावदोषाभ्यां योनि बीजशरीरतः ।। ८१ ।। शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर । रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ।। ८२ ।। अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः । इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ।। ८३ ।। प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः । विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ।। ८४ ।। मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके । समानीय ध्रुवेणैव संपूज्य शिशुमस्तकात् ।। ८५ ।। संहारमुद्रया स्वस्य हृदये पूरकेण तु । प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ।। ८६ ।। रेचकेन प्रयोगेण केशेशानसदाशिवान् । नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ।। ८७ ।। संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः । दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ।। ८८ ।। शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु । एवं समयसंस्कारयुक्तो यश्शिवपूजने ।। ८९ ।। होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च । योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ।। ९० ।। ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः । शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ।। ९१ ।। सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ।। ९११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः पटलः २१ एकविंशत्तमे पटले स्थालीपाकविधिः स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने । स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ।। १ ।। प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च । निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ।। २ ।। कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा । मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ।। ३ ।। वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके । षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ।। ४ ।। शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत् । पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ।। ५ ।। चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च । संमृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ।। ६ ।। दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् । आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ।। ७ ।। द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् । चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ।। ८ ।। चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् । विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ।। ९ ।। उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् । स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ।। १० ।। हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि । तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ।। ११ ।। प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् । सुशीतले भवेत्येवं वौषट्पल्लवया तथा ।। १२ ।। शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् । संमृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ।। १३ ।। अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले । पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ।। १४ ।। शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत् । एवं संपादितेनैव चरुणा होम-इष्यते ।। १५ ।। तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् । हविष्यचतुरंशेन होमकर्माथवा मतम् ।। १६ ।। होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः । पञ्चगोचर संस्थाय समस्तागमवेदिने ।। १७ ।। शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि । शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ।। १८ ।। हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि । आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ।। १९ ।। परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि । पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ।। २० ।। प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकांक्षिभिः । एतेषामन्यथाभावे सर्वं भवति चान्यथा ।। २१ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः एकविंशतितमः पटलः २२ द्वाविंशत्तमे पटले स्वप्नाध्याय विधिः अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः । दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ।। १ ।। तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति । लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ।। २ ।। संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि । षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ।। ३ ।। मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि । शीघ्रमेव फलं तस्य भविष्यति न संशयः ।। ४ ।। रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् । प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ।। ५ ।। मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् । यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ।। ६ ।। चन्द्रार्क तारग्रसनं परिमार्जनमेव च । भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ।। ७ ।। श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् । सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ।। ८ ।। गन्धर्व नगरं वापि देवगन्धर्व योषिताम् । दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ।। ९ ।। जातरूपमयं छत्रं श्वेतमाला विभूषितम् । चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ।। १० ।। तेषामारोहणं शस्तं तत्फलानां च संग्रहः । तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ।। ११ ।। गो सिंह वृषभाणां च वीक्षणारोहणे हिते । सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ।। १२ ।। सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् । तरणं निम्नगाम्भोधि काननानां जलस्य च ।। १३ ।। प्रशस्तं दोहनं कर्म महिषीणां गवामपि । सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ।। १४ ।। प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् । पयसः पाटलाया गोः पानं यद्वत्सलीलया ।। १५ ।। दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् । एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ।। १६ ।। सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् । एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ।। १७ ।। अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च । चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ।। १८ ।। पशुसिंह गजानां च लाभो युद्धे विशेषतः । अध्यापनं च शास्त्राणामन्नलेपनमेव च ।। १९ ।। तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च । बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ।। २० ।। सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः । श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ।। २१ ।। सरोजस्यातपत्रस्य मणीनां दर्पणस्य च । दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ।। २२ ।। विमलस्यांभसश्शस्तं दर्शनं हाटकस्य च । राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ।। २३ ।। देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि । सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ।। २४ ।। एतेषामपि पनेन राज्यं संप्राप्नुयान्नरः । शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ।। २५ ।। रूपयौवन संपन्नां श्रियंवा तादृशीमपि । उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ।। २६ ।। कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् । तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ।। २७ ।। दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा । भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ।। २८ ।। जयं विवादद्युतादौ संग्रामे विजयं तथा । कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ।। २९ ।। निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा । दृष्ट्वाग्निं संग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ।। ३० ।। नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् । तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ।। ३१ ।। परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च । निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ।। ३२ ।। निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् । स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ।। ३३ ।। हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः । पात्रे मणिमये वाथ राजते वाथ भोजनम् ।। ३४ ।। सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् । लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ।। ३५ ।। मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः । पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ।। ३६ ।। बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् । शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ।। ३७ ।। चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वंच पश्यति । ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ।। ३८ ।। छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः । पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ।। ३९ ।। छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् । लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ।। ४० ।। सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते । धनधान्यमवाप्नोति सर्वाभरण भूषितः ।। ४१ ।। आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ।। ४२ ।। चक्रं च पूर्ण कुंभं च श्रीवत्सं स्वस्तिकं तथा । सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ।। ४३ ।। शिवागमादि शब्दानां श्रवणं धनदं भवेत् । गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ।। ४४ ।। देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् । ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ।। ४५ ।। पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि । उद्यानारामकरणं शुभप्रदमिहोच्यते ।। ४६ ।। आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् । बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसंग्रहः ।। ४७ ।। स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् । गणानां विबुधानां च सुधापानं नभोगतिः ।। ४८ ।। इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् । भूवस्त्रलाभ पर्यङ्कशयया दाहोंबरस्य च ।। ४९ ।। आसनस्य च दाहो वा नावा रोहणमेव च । नवशुक्लांबरत्वं च तथा शुद्धोदनाशनम् ।। ५० ।। मधुनः पङ्कजस्येव जननं हननं स्वकम् । शंखपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ।। ५१ ।। दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन । अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ।। ५२ ।। लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः । पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ।। ५३ ।। बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् । हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ।। ५४ ।। विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् । उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ।। ५५ ।। सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः । चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ।। ५६ ।। अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः । रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ।। ५७ ।। भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च । नर्तनं ग्रसनं चैव विवाहो गीतमेव च ।। ५८ ।। तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् । स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ।। ५९ ।। पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः । चितायां रोहणं शक्रध्वजस्य पतनं तु वा ।। ६० ।। सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् । दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ।। ६१ ।। देव द्विजादि भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।। ६२ ।। हानिश्चैव स्वगात्राणां विरेकवमनक्रिये । दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ।। ६३ ।। गृहणाञ्चैव पातश्च गृह संमार्जनं तथा । पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ।। ६४ ।। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ।। ६५ ।। स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् । क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ।। ६६ ।। नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा । रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ।। ६७ ।। नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा । विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ।। ६८ ।। पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च । प्लवनं भग्नयानत्वमशुभाय भविष्यति ।। ६९ ।। सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः । द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ।। ७० ।। छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता । प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ।। ७१ ।। कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने । कार्पासतिल मूलादि लोहानि लभते च यः ।। ७२ ।। स्वस्थश्च लभते व्याधितो मृत्युमृच्छति । भग्न ध्वजाधिकं भग्नं छत्रंदृष्ट्वाऽशुभं लभेत् ।। ७३ ।। एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् । तथैवहसनं भुक्तिरोदनस्य तिलैः सह ।। ७४ ।। अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् । कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ।। ७५ ।। दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः । संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ।। ७६ ।। यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् । हीननृत्तसमजश्च नाभेरन्य प्रदेशके ।। ७७ ।। तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च । खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ।। ७८ ।। सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् । स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ।। ७९ ।। नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः । व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ।। ८० ।। आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः । सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ।। ८१ ।। परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि । अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ।। ८२ ।। शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् । पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ।। ८३ ।। शोषणं कथिताख्यं च तोयपानं प्रमेहिणः । हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ।। ८४ ।। रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति । भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ।। ८५ ।। आदित्यचन्द्रताराणां मलिनत्वमशोभितम् । पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ।। ८६ ।। ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् । दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ।। ८७ ।। काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा । पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ।। ८८ ।। पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा । गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ।। ८९ ।। निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् । म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ।। ९० ।। कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा । कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ।। ९१ ।। निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् । अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ।। ९२ ।। सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् । वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ।। ९३ ।। कृष्णकीटं च गांकृष्णां पश्येच्चेद्भयमाप्नुयात् । एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ।। ९४ ।। काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् । वह्नियान रथादीनां छत्रादीनां च भग्नता ।। ९५ ।। विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः । धूमायमानमात्मानं शिरोमुण्डनमेव च ।। ९६ ।। बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् । यवागू मारनालं वा पिपेद्धन विनाशनम् ।। ९७ ।। तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे । मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ।। ९८ ।। कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता । वर्तितैलतिलादीनामञ्जनालेपनं तथा ।। ९९ ।। अन्धकारनिवेशस्तु महामार्गगतिस्तुवा । संन्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ।। १०० ।। तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि । रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ।। १०१ ।। अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् । अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ।। १०२ ।। तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः । पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ।। १०३ ।। वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् । भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ।। १०४ ।। देवताश्च द्विजातिश्च पितरो योगिनो नृपः । यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ।। १०५ ।। एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च । लिंगं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ।। १०६ ।। यद्धातु प्रकृतिर्येन धातुना वापि दूषितः । तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ।। १०७ ।। यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् । तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ।। १०८ ।। तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे । दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ।। १०९ ।। समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् । प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ।। ११० ।। अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत् । द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ।। १११ ।। आचारेणाथ धर्मेण विद्यया वाथ यस्यतु । श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ।। ११२ ।। अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् । आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ।। ११३ ।। ब्राह्मण समयाख्येन संस्कारेण समन्वितः । निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ।। ११४ ।। नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् । आदौ समानदीक्षायां सत्यामपि च यत्र तु ।। ११५ ।। नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् । जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ।। ११६ ।। नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् । परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ।। ११७ ।। ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया । न संमान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ।। ११८ ।। एकदेशिक शिष्याणा माचारः परिकीर्तितः । किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ।। ११९ ।। तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकांक्षिभिः ।। १९९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः पटलः २३ त्रयोविंशत्तमे पटले निर्वाण दीक्षा विधिः निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् । आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः । सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ।। २ ।। पश्चिमद्वार मार्गेण संप्रविश्य मखालयम् । कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ।। ३ ।। भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् । कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ।। ४ ।। विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च । निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ।। ५ ।। कुंभं च वर्धनीं तत्र संपूज्य परितो गुरुः । लोकपालानथाभ्यर्च्य तेषां आज्ञां तु श्रावयेत् ।। ६ ।। भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च । मण्डले देव देवेशं इष्ट्वाऽग्नौ तर्पयेन्मनून् ।। ७ ।। भगवन् देहमाविश्य मदीयमनु कंपया । अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ।। ८ ।। इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् । सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ।। ९ ।। यज्ञस्य रक्षकः कुंभे पावके होम कारणम् । शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ।। १० ।। पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः । मन्त्राः कारणभूता ये शिवस्य हृदयादयः ।। ११ ।। ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि । संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ।। १२ ।। परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः । उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ।। १३ ।। तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम । पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृंहितः ।। १४ ।। आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसंमुखम् । आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ।। १५ ।। नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह । कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ।। १६ ।। अघोर संपुटं कृत्वा शिवं साङ्गं फटन्तकम् । कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ।। १७ ।। आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् । कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।। १८ ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः । संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ।। १९ ।। अंगुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् । सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ।। २० ।। सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत् । संपूज्यगंध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ।। २१ ।। संनिधानाय मूलेन चाहुति त्रयमाचरेत् । शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ।। २२ ।। संताड्य हृदयं तस्य रेचकेन प्रविश्य च । हुंकारं उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ।। २३ ।। हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा संगृह्यमूलतः । द्वादशान्ते न्यसेत् शिष्य जीवं हृदय संपुटम् ।। २४ ।। सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया । सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ।। २५ ।। हुत्वाहुतित्रयं तस्य संविधानाय मूलतः । मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ।। २६ ।। शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः । शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ।। २७ ।। पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम् । संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ।। २८ ।। शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् । उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ।। २९ ।। अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः । कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ।। ३० ।। गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् । व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ।। ३१ ।। मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च । व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ।। ३२ ।। व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः । तासांच संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ।। ३३ ।। स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि । शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ।। ३४ ।। तासांच दीपनं कार्यमोङ्कारादि फडन्तकम् । अघोरबीजं मूलं च शान्त्यतीतकलामपि ।। ३५ ।। चतुर्थ्यन्तं समुच्चार्य हुंकारं तु समुच्चरन् । त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ।। ३६ ।। आहुतीनांत्रयं हुत्वा पाशबन्धनमाचरेत् । शिरः संताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ।। ३७ ।। भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् । व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ।। ३८ ।। हुंफडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् । शिवं संपुटितं स्वस्वबीजं च भगवत् पदम् ।। ३९ ।। कलाचतुष्टयंपाशं मल तत्वादिव्यापकम् । बन्ध बन्ध पदंचोक्त्वा हुंफषन्त समन्वितम् ।। ४० ।। पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् । तत्सूत्रं च समादाय शरावयुग संपुटम् ।। ४१ ।। कृत्वासंपात होमंच तत्सूत्रं मण्डलाधिपे । निवेद्य तस्य रक्षार्थं शिवकुंभान्तिकं न्यसेत् ।। ४२ ।। प्रणतिं कारयित्वा च शिवेन शिवकुंभके । आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ।। ४३ ।। पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् । शुचौ सावरणे देशे विविक्ते लेपिते भुवः ।। ४४ ।। पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया । भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ।। ४५ ।। निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् । अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ।। ४६ ।। उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना । चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ।। ४७ ।। तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् । चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ।। ४८ ।। अष्टग्रासप्रमाणंतु पुटके ब्रह्मवृक्षके । मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ।। ४९ ।। अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः । शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ।। ५० ।। कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् । मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ।। ५१ ।। राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः । आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ।। ५२ ।। अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् । मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ।। ५३ ।। इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् । स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ।। ५४ ।। सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च । पूर्वयाम्योत्तमाङ्गासु शययासु कुशभस्मना ।। ५५ ।। परस्परमलग्नासु सोपधानासु पार्श्वतः । चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ।। ५६ ।। अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसंख्यया । हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ।। ५७ ।। वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः । अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः संकल्प्य बाह्यतः ।। ५८ ।। स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ । दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ।। ५९ ।। चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये । विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ।। ६० ।। प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् । प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ।। ६१ ।। निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके । शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ।। ६२ ।। चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् । पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ।। ६३ ।। अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः । शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ।। ६४ ।। घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः । शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ।। ६५ ।। आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे । अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ।। ६६ ।। करोम्यनुग्रहं देव शिशो रध्येषयेदिति । लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ।। ६७ ।। निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् । पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ।। ६८ ।। कालाग्निरथकुऽऽमाण्डं हाडकं ब्राह्मवैष्णवौ । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ।। ६९ ।। कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।। ७० ।। अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। ७१ ।। याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ।। ७२ ।। निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।। ७३ ।। बलो ह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। ७४ ।। मेघनादः सुनादश्च दशमः परिकीर्तितः । शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ।। ७५ ।। पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ।। ७६ ।। लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः । विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ।। ७७ ।। सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः । वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।। ७८ ।। ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ । शंभुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।। ७९ ।। संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः । वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ।। ८० ।। कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले । याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ।। ८१ ।। बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ।। ८२ ।। वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः । भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ।। ८३ ।। एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः । नमोद्वयं प्रणवं षडक्षरमतः परम् ।। ८४ ।। सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा । शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ।। ८५ ।। पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् । साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ।। ८६ ।। अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित । ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ।। ८७ ।। सर्वभूतसुखप्रद भवोद्भवपदं ततः । भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ।। ८८ ।। मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् । महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ।। ८९ ।। महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः । निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ।। ९० ।। ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् । इत्युच्चार्य निवृत्तिं तु सूत्रात्संग्राह्य पावले ।। ९१ ।। आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् । मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ।। ९२ ।। भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः । तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ।। ९३ ।। वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् । हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ।। ९४ ।। संनिधीभव देवेशि पश्वनुग्रहकर्मणि । प्रार्थैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ।। ९५ ।। अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च । स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ।। ९६ ।। अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया । आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ।। ९७ ।। तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् । सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ।। ९८ ।। पूरकेन हृदि स्वस्य संनिवेश्य च कुम्भकम् । कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ।। ९९ ।। आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया । सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ।। १०० ।। स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् । भगवन् देव देवेश शिशोस्सर्वासु योनिषु ।। १०१ ।। संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् । निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ।। १०२ ।। भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच । सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ।। १०३ ।। ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् । भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ।। १०४ ।। इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च । मूलहुतित्रयं दत्वा शिवंप्रतिवदेदिदम् ।। १०५ ।। भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति । कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ।। १०६ ।। भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ । कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ।। १०७ ।। प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु । देशतः कालतश्चैव देहेन विषयेण च ।। १०८ ।। संचितागामिभेदेन भोगन्नाना विधं स्मरन् । भोक्तृत्व लिंगितेपुंसि सुखदुःखात्मवेदनम् ।। १०९ ।। मूलाहुतित्रयं दत्वा शिवंसंप्रार्थयेदिति । भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ।। ११० ।। परमप्रीति रूपं च भोगेषु संस्मरन् । शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ।। १११ ।। लयंच कुरु कुर्वीति शिशोः निर्वाण कर्मणि । जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ।। ११२ ।। हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् । सर्वकर्मसु शुद्धिंच निष्कृत्या कुरु कुर्वणोः ।। ११३ ।। भगवन्निति विश्लेषम् भोगाभावादणोरिह । बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ।। ११४ ।। मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् । मलकार्यंच भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ।। ११५ ।। दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् । मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ।। ११६ ।। अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह । स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ।। ११७ ।। भगवन्नात्मनो मायाफल कर्मात्मकं त्विह । विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ।। ११८ ।। ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु । अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ।। ११९ ।। आहुतीनां त्रयं दत्वा निवृत्तिछेदननंत्विह । भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ।। १२० ।। अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः । संभाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ।। १२१ ।। ओंब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत् । शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ।। १२२ ।। आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः । कारणेशत्वयानास्य धातुः पदमनामयम् ।। १२३ ।। प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी । ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ।। १२४ ।। निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् । ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ।। १२५ ।। निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः । कुरुकुर्वीति संहारमुद्रया पूरकेन तु ।। १२६ ।। कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् । आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ।। १२७ ।। वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत् । आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ।। १२८ ।। अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् । त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ।। १२९ ।। गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च । पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ।। १३० ।। मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् । तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ।। १३१ ।। चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च । अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ।। १३२ ।। अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः । डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ।। १३३ ।। हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ । मध्यमेशो महाकालः केदारो भैरवस्तथा ।। १३४ ।। गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा । विमलेशोऽट्टहासश्च महेन्द्रो भीमसंज्ञकः ।। १३५ ।। वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः । गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।। १३६ ।। झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ।। १३७ ।। पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ।। १३८ ।। अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ । कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ।। १३९ ।। अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि । गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ।। १४० ।। झगलण्डाद्यहंकारे पैशाचाद्यं मनौस्थितम् । प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ।। १४१ ।। महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः । महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ।। १४२ ।। ततश्शर्वपदंचोक्तं शिवेति च ततः परम् । निधनोद्भवसंज्ञं च निधनाख्य पदं ततः ।। १४३ ।। अनिधनपदं चैवम् ओंस्वक्षःपदमतः परम् । ओंभुवश्चपदं चान्यदोंभूः पदमतः परम् ।। १४४ ।। चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः । अनादे तुपदं चान्यदभस्मेति पदं ततः ।। १४५ ।। अधूमपदमन्यच्च अनग्नीति पदं ततः । अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ।। १४६ ।। तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि । अरूपिन् पदयुग्मंच पदान्येकं च विंशतिः ।। १४७ ।। प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् । इत्युक्त संख्यत त्वार्णंपदमन्त्रैस्त्रिविष्टपैः ।। १४८ ।। गर्भितां तामनुस्मृत्य संतधीतोपभुक्त्या । शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ।। १४९ ।। वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् । सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ।। १५० ।। ओं ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् । नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ।। १५१ ।। कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् । निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ।। १५२ ।। हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् । कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ।। १५३ ।। रागो नियतिविद्ये च कलाकालौ च मोहिनी । ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ।। १५४ ।। मन्त्रश्शिखा पुराणीह सप्तविंशतिसंख्यया । वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ।। १५५ ।। प्रचण्डोमापती चाजोऽनन्तैकशिवसंज्ञकौ । क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ।। १५६ ।। पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः । वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ।। १५७ ।। एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः । षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ।। १५८ ।। अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि । पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ।। १५९ ।। व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् । परमेश्वर परायेति पदं चैव पुनर्भवेत् ।। १६० ।। ज्योतिरूपायसंज्ञं च सर्वयोगाद्यमेव च । पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ।। १६१ ।। गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः । पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ।। १६२ ।। शिवायेति पदं सर्वप्रभवेति ततः । शिवायेति पदं पश्चाद् ओं पदमन्ततः ।। १६३ ।। ध्यानाहारायसंज्ञं च कीर्तितानि पदानि च । संधानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ।। १६४ ।। निष्कृतिं शिखया दत्वा शतहोमं विधाय च । रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ।। १६५ ।। भवाख्यं पदमेतत्तु कलात्रितयगोचरम् । भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ।। १६६ ।। अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् । बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ।। १६७ ।। अनुकूलमसंकीर्णमनासक्तिनिबन्धनम् । विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ।। १६८ ।। तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः । वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ।। १६९ ।। वामा ज्येष्ठा च रौद्री च काली कलविकरणी । बलविकरणी चैव बलप्रमथनीत्यपि ।। १७० ।। सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् । पुराणि नव विद्यायामनन्तस्सूक्ष्मसंज्ञकः ।। १७१ ।। शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ।। १७२ ।। सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु । एकादशपदान्यासन्नित्यंयोगिन इत्यपि ।। १७३ ।। योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः । ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ।। १७४ ।। अनाथायपदं प्रोक्तमनन्तायपदं पुनः । शिवायेतिपदं सर्वव्यापिने च पदं ततः ।। १७५ ।। व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च । निष्कृतौ शतहोमं तु कवचेन समाचरेत् ।। १७६ ।। सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती । ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ।। १७७ ।। शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् । बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ।। १७८ ।। ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।। १७९ ।। पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् । इन्धिका दीपिका चैव रोचिका मोचिका तथा ।। १८० ।। तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु । व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ।। १८१ ।। अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता । भुवनानि तु शाक्तानि पञ्चैव कथितानि च ।। १८२ ।। एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् । ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ।। १८३ ।। संपूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् । कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।। १८४ ।। निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् । अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ।। १८५ ।। ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् । समयं समयाचारं शक्तो पाशात्मके न्यसेत् ।। १८६ ।। समयं समयाचारपाशशुद्धिं महेश्वर । शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ।। १८७ ।। शिवबीजं समुच्चार्य सदाशिवपदं पुनः । मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ।। १८८ ।। पूर्ववत्संविसृज्यात्म सूत्रं संगृह्य निर्मलम् । रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ।। १८९ ।। शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् । संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ।। १९० ।। पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् । शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ।। १९१ ।। आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः । आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ।। १९२ ।। नमः प्रणवसंयुक्तमुक्त्वा संपूज्य सन्निधौ । विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ।। १९३ ।। सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् । सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ।। १९४ ।। मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति । शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ।। १९५ ।। शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः । मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ।। १९६ ।। अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् । ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ।। १९७ ।। संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् । छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ।। १९८ ।। आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् । स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ।। १९९ ।। ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि । प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ।। २०० ।। अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः । यावत्वयं परं धाम भगवन् परमेश्वर ।। २०१ ।। शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् । एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ।। २०२ ।। समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसंमुखम् । शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ।। २०३ ।। अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् । सकलीकृतमन्त्राणामेकैकाहुतिदानतः ।। २०४ ।। सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे । विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ।। २०५ ।। इन्धिका दीपिका चैव रोचिका मोचिका तथा । तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ।। २०६ ।। बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः । आभिः कलाभिस्संकॢप्तदेहयुग्देशिकोत्तमः ।। २०७ ।। व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता । अनाथानाश्रिता चेति बहिः करणसंयुतः ।। २०८ ।। अन्तः करणसंयुक्तस्समनाकल्पितं च तत् । आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ।। २०९ ।। कृत्वा पूरककुम्भौ तु जिह्वासंबद्धतालयुक् । ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ।। २१० ।। सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि । नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ।। २११ ।। सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसंनिभम् । संभाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ।। २१२ ।। शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु । व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ।। २१३ ।। समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया । शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ।। २१४ ।। योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् । तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ।। २१५ ।। यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः । साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ।। २१६ ।। न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते । स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ।। २१७ ।। होमयेद् देशिको धीमान् प्रयोगेणामुना यथा । सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ।। २१८ ।। अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् । आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ।। २१९ ।। इत्येवं कथिता दीक्षा सर्वपापविमोचनी । चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ।। २२० ।। न्यायजा गूढजाता वा दीक्षायामधिकारिणः । जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकांक्षिणः ।। २२१ ।। दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया । अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ।। २२२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः पटलः २४ चतुर्विंशत्तमे पटले आचार्याभिषेक विधिः अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि । आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ।। १ ।। यत्र विप्राः सदाचाराः यतयश्च तपोधनाः । सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ।। २ ।। एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः । ककाराष्टक निर्मुक्तः प्रसंङ्गात् सोऽपि कथ्यते ।। ३ ।। कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः । कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ।। ४ ।। आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु । विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ।। ५ ।। दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे । स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ।। ६ ।। व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके । सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ।। ७ ।। विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च । ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ।। ८ ।। वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते । स्वार्थेष्टौ चल लिंगस्य प्रतिष्ठायां त्रयस्विमे ।। ९ ।। शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके । बाणलिंगेक्षणेवापि स्थापको यदि नैष्ठिकः ।। १० ।। आचार्यं गौलकं चैव दयित परिवर्तकम् । तथैव पारवेत्तारं देवलं च पुनर्भवत् ।। ११ ।। अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा । खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ।। १२ ।। अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा । असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ।। १३ ।। अथव्यसनिनं पारदारिकं वृषलीपतिम् । चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ।। १४ ।। परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् । परापवाद शीलं च तथा बहुकिणैर्वृतम् ।। १५ ।। सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् । बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ।। १६ ।। चपलं शठसञ्जारं वृद्ध्या जीवन मेव च । शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ।। १७ ।। सांख्ये विविधभेदे च मायावादेऽर्हतो मते । बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ।। १८ ।। अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके । सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ।। १९ ।। भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च । सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ।। २० ।। काव्य नाटकसक्तं च भरते तु निरन्तरम् । कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरं ।। २१ ।। ज्योतिज्ञानपरंवेद पुराणहित चेतसम् । तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ।। २२ ।। कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ।। २३ ।। शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च । चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ।। २४ ।। शैवार्थ देहिके हित्वा विचारं सन्ततं नरः । योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ।। २५ ।। अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् । अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ।। २६ ।। दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् । समान गोत्र संबन्धं कुसुमाक्षं च वर्जयेत् ।। २७ ।। इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि । अभिषेकं ततःकुर्यात् अंकुरार्पण पूर्वकम् ।। २८ ।। पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ । मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ।। २९ ।। अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् । चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ।। ३० ।। स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् । भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ।। ३१ ।। लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया । बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ।। ३२ ।। काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः । सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ।। ३३ ।। नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् । घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ।। ३४ ।। स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् । चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ।। ३५ ।। सदेशानेन विद्येशैः नवपञ्चपवित्रकैः । पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ।। ३६ ।। शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् । अथवा कलशानेकघटं वा शिव संयुतम् ।। ३७ ।। दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् । भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ।। ३८ ।। स्वासनेन तथा सम्यक् अर्चितं विभवेन वा । वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ।। ३९ ।। शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः । परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ।। ४० ।। सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च । आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ।। ४१ ।। पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् । आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ।। ४२ ।। ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः । करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ।। ४३ ।। दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः । पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ।। ४४ ।। राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः । आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ।। ४५ ।। दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ । तथैवं देव देवाय देशिकाय मयाकृतम् ।। ४६ ।। त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति । विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ।। ४७ ।। निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् । स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ।। ४८ ।। दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् । हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ।। ४९ ।। तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् । शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ।। ५० ।। अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः । तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ।। ५१ ।। अनेनैव प्रकारेण साधकं चाभिषेचयेत् । किंतु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ।। ५२ ।। दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः । सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ।। ५३ ।। जात्युद्धार विहीनो यस्सामान्य समयी भवेत् । तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ।। ५४ ।। दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः । न तु लिंगार्चने योग्याः किमु दीक्षादि कर्मणि ।। ५५ ।। शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् । शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ।। ५६ ।। शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते । मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ।। ५७ ।। शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् । बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ।। ५८ ।। भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ।। ५९ ।। भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते । सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ।। ६० ।। अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते । योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ।। ६१ ।। कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् । स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ।। ६२ ।। व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् । व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ।। ६३ ।। पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते । सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ।। ६४ ।। शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः । आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ।। ६५ ।। वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः । पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ।। ६६ ।। मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः । समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ।। ६७ ।। आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् । आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ।। ६८ ।। लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः । प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ।। ६९ ।। स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् । प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ।। ७० ।। स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च । यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ।। ७१ ।। स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते । आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ।। ७२ ।। तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया । स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ।। ७३ ।। अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति । आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ।। ७४ ।। साधकश्च तथा भूतस्सर्वकर्माणि शंसितः । महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ।। ७५ ।। नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् । लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ।। ७६ ।। मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् । संहिता पारगो वाथ लक्षाध्याययुपदेशतः ।। ७७ ।। संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका । शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ।। ७८ ।। सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् । चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ।। ७९ ।। पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ।। ८० ।। सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते । तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ।। ८१ ।। सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् । अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ।। ८२ ।। वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः । वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ।। ८३ ।। सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् । तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ।। ८४ ।। शब्दशास्त्रमलंकारो निरुक्तं छन्द एव च । कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ।। ८५ ।। आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च । लोकायतं तथा सांख्य मार्हतो मतमेव च ।। ८६ ।। मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् । वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ।। ८७ ।। तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् । धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ।। ८८ ।। रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् । न्याय वैशेषिकं सांख्यं सेश्वरं यत् प्रणीतवान् ।। ८९ ।। ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् । पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ।। ९० ।। सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् । ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ।। ९१ ।। पश्चिमं वाम संज्ञं तु वामाद्दक्षिणमुत्तमम् । दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ।। ९२ ।। पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः । सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ।। ९३ ।। अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः । सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ।। ९४ ।। सिद्धान्त विहिताचारो वैदिकाचार उच्यते । गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ।। ९५ ।। तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् । तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ।। ९६ ।। युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च । दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ।। ९७ ।। तथा पुंसवनादिश्च शैव आवश्यको मतः । तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ।। ९८ ।। क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये । वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ।। ९९ ।। भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः । वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ।। १०० ।। निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया । हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ।। १०१ ।। शैव कर्म समायुक्ता शैवे शैवी च केवला । श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ।। १०२ ।। आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च । सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ।। १०३ ।। गर्भाधानादिके वापि दहने श्राद्ध कर्मणि । अष्टका करणे वापि नित्यनैमित्तिकेपि वा ।। १०४ ।। वेदाध्ययन संस्कारे सोमयागादिकेपि वा । वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ।। १०५ ।। तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् । कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ।। १०६ ।। विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् । संग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ।। १०७ ।। शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा । वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ।। १०८ ।। तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि । सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ।। १०९ ।। शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः । तदापि वैदिकं वेदसार मित्यादि वाक्यतः ।। ११० ।। शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः । सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ।। १११ ।। स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते । कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ।। ११२ ।। कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् । अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ।। ११३ ।। अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् । सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रंदक्षिणाननम् ।। ११४ ।। अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् । विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ।। ११५ ।। स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत् । वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ।। ११६ ।। मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् । चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिंबमन्यतः ।। ११७ ।। प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् । जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ।। ११८ ।। जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् । किरणं तल मित्युक्तं वातुलं वामकं तलम् ।। ११९ ।। सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः । ऋषय ऊचुः पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ।। १२० ।। इत्यादि कथितं देव परस्परविरोधनं । ईश्वर उचाच बहुधा कथितं विप्राः भवद्भिरवधारितम् ।। १२१ ।। मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् । तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ।। १२२ ।। सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् । भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ।। १२३ ।। निराकारं भवेज्ज्ञानं संकरं तदुपास्यतः । परस्पर विरोधीति मतिहीनैः प्रबाध्यते ।। १२४ ।। ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः । न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ।। १२५ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा । न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ।। १२६ ।। उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः । कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ।। १२७ ।। दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः । विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ।। १२८ ।। रौरवान्मुख बिंबान्ता वामदेव मुखोद्भवाः । प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ।। १२९ ।। तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः । अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ।। १३० ।। स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः । अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ।। १३१ ।। विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता । हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ।। १३२ ।। विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् । विशिष्टे विद्यमाने च हठादज्ञेन कारिते ।। १३३ ।। साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता । तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ।। १३४ ।। कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् । लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ।। १३५ ।। द्रव्यं करोति सुमुखं सर्वलोकसमं यशः । ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ।। १३६ ।। तद्वित्तमाहृतं येन स पापी च स दुर्मतिः । नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ।। १३७ ।। इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः चतुर्विंशतितमः पटलः २४ ज्ञानदीक्षाविधिः ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः । सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ।। १ ।। एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे । सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ।। २ ।। शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे । शुद्धदेशे सुखासीनः पञ्चगोचरसंभवः ।। ३ ।। दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे । सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ।। ४ ।। स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि । गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ।। ५ ।। पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् । षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ।। ६ ।। ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।। ७ ।। दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसंनिधौ । सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ।। ८ ।। गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् । अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ।। ९ ।। तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् । प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ।। १० ।। तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् । पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ।। ११ ।। सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् । नवमं शिवयोगं च दशमं शिवभोगकम् ।। १२ ।। त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् । गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ।। १३ ।। इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ।। १३१/२ ।। २५ पञ्चविंशत्तमे पटले गोत्र निर्णय विधिः ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ।। १ ।। ऊनपञ्चाशदेवैषां संख्या स्यान्महतामिह । कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ।। २ ।। अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः । अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ।। ३ ।। शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः । शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ।। ४ ।। कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः । गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ।। ५ ।। क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा । नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ।। ६ ।। आदिशैवे यथा गोत्रमनुशैवे तथामतम् । किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ।। ७ ।। जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः । उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ।। ८ ।। प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः । कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ।। ९ ।। धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः । अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ।। १० ।। पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः । लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ।। ११ ।। भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः । ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ।। १२ ।। उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः । मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ।। १३ ।। पराशरस्ततोऽगस्त्यस्साम्बवाहनसंज्ञकाः । सोमवाहनसंज्ञाश्च यज्ञवाहास्ततो मताः ।। १४ ।। वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा । वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ।। १५ ।। हारिताः संकृतिश्चैव पश्चाद्रथीतरा मताः । मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ।। १६ ।। कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः । पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ।। १७ ।। तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः । कान्तका बाष्पका वाच्युकिता लोमका धनाः ।। १८ ।। साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् । यम दूता आनभिन्ना ततस्तारायणा मताः ।। १९ ।। चौलकायनसंज्ञाश्च जाबाल्युदुम्बरौ मतो । दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ।। २० ।। श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसंज्ञकाः । शालावतां मयूराश्च तथोदुत्सरित्यपि ।। २१ ।। चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसंज्ञकाः । ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ।। २२ ।। येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि । स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ।। २३ ।। पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ।। २४ ।। लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः । जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ।। २५ ।। कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः । विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ।। २६ ।। प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु संमताः । माणा उद्वहला एते रोक्षास्तु कुशिका मताः ।। २७ ।। प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः । माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ।। २८ ।। विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः । श्रौमितो देवतरसः कामकायनिकस्ततः ।। २९ ।। कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः । त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ।। ३० ।। देवश्रावस इत्यन्तो देवतरस इत्यमी । कठाः स्वैरन्ध्रिसंज्ञाश्चकरभाः सहिताः परे ।। ३१ ।। वाजायनाश्च कौकृत्यास्ततो जाणायना मताः । कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ।। ३२ ।। पिण्डिग्रीवास्ततो नारायणा नारद्य संज्ञकाः । एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ।। ३३ ।। विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः । आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ।। ३४ ।। तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः । त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ।। ३५ ।। विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः । आजायनस्ततः प्रोक्त एकवत्सश्च संमतः ।। ३६ ।। त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ।। ३७ ।। अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः । एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ।। ३८ ।। कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः । कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ।। ३९ ।। त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः । ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ।। ४० ।। पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च संमताः । ऋषी द्वौ संमतौ विश्वामित्रः पौरणः इत्यपि ।। ४१ ।। कौशिकाश्च दशाप्येवं न समन्वयगामिनः । काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ।। ४२ ।। ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः । आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ।। ४३ ।। धौमधौम्रायणा औधप्रचुराग्रायणा मताः । रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ।। ४४ ।। कायाताया अकापाया निकामौषनिकिस्तथा । काद्रायणा औज्वलयो रोहितायनसंज्ञकाः ।। ४५ ।। पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च । वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ।। ४६ ।। कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः । कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ।। ४७ ।। वैतम्बा देवयाताश्च महाचक्रेयसंज्ञकाः । पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ।। ४८ ।। वृषगणाश्च पानध्यो दाक्षपायण एव च । हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ।। ४९ ।। जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः । वैशम्पायनसंज्ञाक्ष ततः केशायताः स्मृताः ।। ५० ।। औकायनिस्ततो मार्जायनाः कांसायनाः परे । देवश्च होतसूच्यास्थूणा भागुरयस्तथा ।। ५१ ।। पाथिकार्याः खरेभा ये गोमयातास्ततः परम् । हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ।। ५२ ।। अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि । उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ।। ५३ ।। नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः । काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ।। ५४ ।। त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः । काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ।। ५५ ।। शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः । रभेरव्ययसौमानौ वनसंस्तु करेयुतः ।। ५६ ।। काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः । महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ।। ५७ ।। ततः कामशयः पश्चान्महौजक्य एव च । ततो मौञ्जायनाः प्रोक्तास्ततो गांगायना मताः ।। ५८ ।। वात्सभालय इत्युक्तास्ततो गोमिलसंज्ञकाः । वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ।। ५९ ।। बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः । हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ।। ६० ।। वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् । जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ।। ६१ ।। काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा । काश्यपक्षापवत्सारोऽसितं इत्यथवा त्रयः ।। ६२ ।। शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा । कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ।। ६३ ।। चैरन्घ्रिः पशवश्चिव पयणायनसंज्ञकाः । कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ।। ६४ ।। कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि । कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ।। ६५ ।। सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः । यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ।। ६६ ।। यौधवा याजपा एते लोगाक्षय इति स्मृताः । अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ।। ६७ ।। काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः । पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च संमताः ।। ६८ ।। भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः । देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ।। ६९ ।। ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः । आजा औमाश्च तौदेहाः परिणद्धेधसंज्ञकाः ।। ७० ।। शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः । वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ।। ७१ ।। श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः । ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसंज्ञकाः ।। ७२ ।। पैलाः सौज्ज्वलयः कारुणादयः शुगसंज्ञकाः । भारुण्डेया इषुमतास्तथा वौदोदमेघयः ।। ७३ ।। सौरभरास्तथा भाद्रपथयः परिकीर्तिताः । ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ।। ७४ ।। प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः । वाराहयोः देववेला वलभीगय इत्यपि ।। ७५ ।। भद्राङ्गगतसंज्ञाश्च शालाहलय इत्यपि । नृत्यायना महावेलास्ततः शालालयो मताः ।। ७६ ।। शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा । क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ।। ७७ ।। ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः । सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ।। ७८ ।। स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः । ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ।। ७९ ।। आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च । धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ।। ८० ।। मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः । काब्ल्याः कारुपथयः कारिषायणसंज्ञकाः ।। ८१ ।। भरद्वाजवनौ द्वौ तु ऋषयः पञ्च संमताः । भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ।। ८२ ।। अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः । एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ।। ८३ ।। भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः । स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ।। ८४ ।। सांभरायणसंज्ञाश्च तथा यौगन्धरायणः । सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ।। ८५ ।। ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः । भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ।। ८६ ।। सत्यापचय आख्याता जाणपक्वलसंज्ञकाः । पलाशशाखावन्तस्ते मर्कटायनसंज्ञकाः ।। ८७ ।। ततः संग्रहतुल्याश्च वैधूह्यः कारिरोतयः । त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ।। ८८ ।। पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः । अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ।। ८९ ।। गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः । ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ।। ९० ।। भारद्वाजास्त्रयश्चापि न समन्वयगामिनः । गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ।। ९१ ।। आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः । सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ।। ९२ ।। व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः । कठोरिः कारुणिः कीलालयः पार्थिवसंज्ञकाः ।। ९३ ।। काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः । एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ।। ९४ ।। प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः । शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ।। ९५ ।। ततः क्षीरकम्भाश्च ततः सौमुचयो मताः । सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ।। ९६ ।। राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः । एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ।। ९७ ।। अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः । कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ।। ९८ ।। पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः । ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ।। ९९ ।। पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः । कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ।। १०० ।। पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः । आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ।। १०१ ।। ततो दीर्घतमश्चेति पर्यायाः पञ्च संमताः । कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ।। १०२ ।। बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि । औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ।। १०३ ।। गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः । कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ।। १०४ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः । विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ।। १०५ ।। प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः । अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ।। १०६ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः । तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ।। १०७ ।। अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे । अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ।। १०८ ।। भोजश्चादितिसंज्ञश्च चान्द्रोशीः पार्व इत्यपि । कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ।। १०९ ।। ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः । ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ।। ११० ।। शाम्ब व्यसन संज्ञाश्च कार्मर्यायनयो मताः । ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ।। १११ ।। औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा । ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ।। ११२ ।। गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः । श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ।। ११३ ।। हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः । वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ।। ११४ ।। कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः । अनीलाययनसंज्ञाश्च अङ्गिराश्च ततो मताः ।। ११५ ।। गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः । शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ।। ११६ ।। भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः । त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ।। ११७ ।। अर्चनानस इत्येते ऋषयस्त्रय ईरिताः । तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ।। ११८ ।। अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः । ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ।। ११९ ।। अत्रिरर्चनानसेति गविष्ठिर इति त्रयः । मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ।। १२० ।। वैत भावय इत्येते ऋषयश्च ततो मताः । ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ।। १२१ ।। ततो गौरकयो वायुपूरकाः सायनास्ततः । इत्येते त्रियार्षेयाः स्युर्मुद्गलाः संप्रकीर्तिताः ।। १२२ ।। अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः । चतुर्विधा अप्यात्रेया न समन्वयगामिनः ।। १२३ ।। वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः । वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ।। १२४ ।। आश्वलायनसंज्ञाश्च गविष्ठास्त्वाश्वलयनाः । शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ।। १२५ ।। औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः । कोलायनाश्च को भोजिस्ततः पौलायना मताः ।। १२६ ।। सुन्दहरित इत्युक्तः काण्डेय विधिरेव च । सप्तवेलां इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ।। १२७ ।। एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः । प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ।। १२८ ।। ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः । आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ।। १२९ ।। पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः । सोमरङ्गलिनः कोकास्ततः कापटवा मताः ।। १३० ।। हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च । माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ।। १३१ ।। त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः । वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ।। १३२ ।। उपमन्युरौपगवा मण्डलेखय एव च । जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ।। १३३ ।। त्रैवर्ण वैवशागारिसारक्षा रक्षसंज्ञकाः । शैलालयो महाकर्णानया बालशिखा मताः ।। १३४ ।। औद्दाहमानयो बालानया भागास्ततो मताः । इत्युन्मायन संज्ञाश्च ततः कुण्डोदरायणाः ।। १३५ ।। लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः । अनृक्षर वसंज्ञाश्च कापिला वय एव च ।। १३६ ।। कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः । वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ।। १३७ ।। इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः । ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ।। १३८ ।। भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः । कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ।। १३९ ।। कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः । हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ।। १४० ।। खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः । श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ।। १४१ ।। पराशराः स्युररुणास्ततो भालुक्य संज्ञकाः । बादरिश्च तथा गार्गो वना वै कौकसादयः ।। १४२ ।। इत्येते कथिता पञ्च प्रनीलाश्च पराशराः । ततः सौधवसानाश्च आलंभायन संज्ञकाः ।। १४३ ।। स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः । चोलकायन संज्ञाश्च वार्णवल्कास्तथैव च ।। १४४ ।। पुनर्देवनगौख्याः श्रविष्टायन संज्ञकाः । ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ।। १४५ ।। आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च । कैमीयतय इत्येते पञ्च नीलाः पराशराः ।। १४६ ।। कृष्णाजिना काविशुभास्ततः श्यामायना मताः । ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ।। १४७ ।। श्वेताः पराशराः पञ्च वात्स्यायन एव च । श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ।। १४८ ।। श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः । वसिष्ठ शक्तिसंज्ञश्च पराशर इति त्रयः ।। १४९ ।। सर्वे पराशरास्त्वेते परस्परमयोगिनः । ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ।। १५० ।। शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः । तथौपदहनिश्चैव धावणिर्लावणिस्ततः ।। १५१ ।। लाव्योऽर्बुदोवैरणयो बुधादरय एव च । बोदरिः शैवरतयस्ततः श्यामातयो मताः ।। १५२ ।। ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा । गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ।। १५३ ।। दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे । सांभवाहन संज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५४ ।। दृढच्युतिरगस्त्यश्च सांभवाहस्त्रयस्त्विमे । सोमवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५५ ।। दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे । यज्ञवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ।। १५६ ।। दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे । अगस्तयस्तु चत्वारो नसमन्वियगामिनः ।। १५७ ।। जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः । मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ।। १५८ ।। आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः । शार्कराक्षास्ततो देवतायनाः शौनकायनाः ।। १५९ ।। माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः । पैङ्गलायन संज्ञाश्च पैला दाध्रेषयस्ततः ।। १६० ।। ततो बाह्यकयो वैश्वानरयश्च विलोहिताः । बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ।। १६१ ।। वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ । वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ।। १६२ ।। दधीचयश्च वापाणिस्ततः शैखावताः मताः । वाकायनाः सौकृतयस्ततो बालायना मताः ।। १६३ ।। सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः । ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ।। १६४ ।। जानायना औरक्षयाः काम्बरोदरयस्ततः । कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ।। १६५ ।। वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च । मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ।। १६६ ।। काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः । नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ।। १६७ ।। बाहुमित्रायणा आपिशलयो रोहितायनाः । ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ।। १६८ ।। ततो राजित वाहाश्च ततः शारद्वतायनाः । नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ।। १६९ ।। वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ।। १७० ।। ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि । विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ।। १७१ ।। प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः । ततस्त्वभयजाताः स्युः काण्डरथय एव च ।। १७२ ।। आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः । क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ।। १७३ ।। एते मताः विदा पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ।। १७४ ।। आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च । कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ।। १७५ ।। गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः । आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ।। १७६ ।। भार्गवश्च्यावनश्चाप्नुवानोरथानूपसंज्ञकाः । आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ।। १७७ ।। वत्सानमार्ष्टिषेणानां विदानां च परस्परम् । अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ।। १७८ ।। यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः । वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ।। १७९ ।। दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे । कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ।। १८० ।। सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः । भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ।। १८१ ।। ततः स्युर्भोग चितय एते यस्तका इति स्मृताः । त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ।। १८२ ।। भृगुश्चैव तथा यस्को दिवोदास इति त्रयः । मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ।। १८३ ।। सापिण्डिनो महावाल्या माल्या यावाल्यसंज्ञकाः । पुराभिनाय एजेयास्ततो राक्षायणा मताः ।। १८४ ।। कैतवायनयो माञ्जायना मादायवः स्मृताः । एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ।। १८५ ।। भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः । वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य संज्ञकाः ।। १८६ ।। त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः । भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ।। १८७ ।। शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति । गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ।। १८८ ।। श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः । एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ।। १८९ ।। एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः । यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ।। १९० ।। शुनकानां च संबन्धः कर्तव्य इति गम्यते । अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ।। १९१ ।। भद्रणा भद्रणाश्चैव शठमार्षण संज्ञकाः । शाबरायणसंज्ञाश्च सात्यकिः सात्यकायनाः ।। १९२ ।। बादरायणसंज्ञाश्च वात्स प्रायण संज्ञकाः । आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य संज्ञकाः ।। १९३ ।। देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः । एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ।। १९४ ।। अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा । वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ।। १९५ ।। कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे । मौञ्जिश्च माञ्जयश्चैव मर्कटायन संज्ञकाः ।। १९६ ।। मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः । मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ।। १९७ ।। अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः । हारिताश्च ततः कौत्साः सांख्या दार्भास्तथैव च ।। १९८ ।। शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ । नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ।। १९९ ।। कौतपाः कौलयः कारीषयः पौलय एव च । पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ।। २०० ।। इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः । आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ।। २०१ ।। ततः संकृतयस्तण्डिः शंभुश्च मलकास्ततः । पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ।। २०२ ।। हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः । चारायणाः पूतिभाषास्तत आग्रायणा मताः ।। २०३ ।। चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी । प्रोक्ता संकृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ।। २०४ ।। अङ्गिराः संकृतिश्चाम्बरीषश्च ऋषयस्त्रयः । रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ।। २०५ ।। शैलालयश्च लैभिश्च ततो लीभायना मताः । मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ।। २०६ ।। ततो हेमशता ह्येते त्रियार्षेया रथीतराः । अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ।। २०७ ।। अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् । मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ।। २०८ ।। ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः । ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ।। २०९ ।। त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः । हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ।। २१० ।। ऐतिशायन संज्ञाश्च तरस्विश्च पतञ्जलि । मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ।। २११ ।। ततः करशिखण्डश्च ततो मौषींतकिर्मतः । तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ।। २१२ ।। त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः । अङ्गिराश्च कपित्थाश्च अंबरीष इति त्रयम् ।। २१३ ।। विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् । राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ।। २१४ ।। क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः । वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ।। २१५ ।। आत्रेयश्चैव वाध्रेयो वाधूलश्चापि संकृतिः । वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ।। २१६ ।। नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह । अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ।। २१७ ।। समानगोत्रप्रवराञ्ज्ञात्वा संबन्धमाचरेत् । समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ।। २१८ ।। ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् । तस्याश्च रक्षणंकार्यमाहाराच्छादनादिभिः ।। २१९ ।। विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् । तयासह प्रमादेन संयोगाद्यं कृतं यदि ।। २२० ।। प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते । सकृदागमने कुर्यात् तेन चान्द्रायणेन च ।। २२१ ।। सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् । एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ।। २२२ ।। मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् । षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ।। २२३ ।। तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् । निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ।। २२४ ।। तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः । तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ।। २२५ ।। उपवासस्तदा स्नानं पञ्चगव्याशनं जपः । होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ।। २२६ ।। साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके । चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ।। २२७ ।। त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् । द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ।। २२८ ।। इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः पञ्चविंशतितमः पटलः २६ षड्विंशत्तमे पटले शताभिषेकविधिः शताभिषेकं वक्ष्येहं संक्षेपात् द्विजसत्तमाः । अकालमृत्यु मथनं आयुरारोग्यवर्धनम् ।। १ ।। वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् । दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ।। २ ।। उत्तरायण कालेतु शुक्लपक्षे विशेषतः । सुलग्ने च सुवारे च सुतिथौ शोभने दिने ।। ३ ।। स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः । मङ्गलाङ्कुर संयुक्ते मण्डपे समलंकृते ।। ४ ।। कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे । पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ।। ५ ।। मुखायामयुते वापि चतुर्द्वार समन्विते । एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ।। ६ ।। ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा । अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ।। ७ ।। राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ।। ८ ।। पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् । अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ।। ९ ।। कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः । तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ।। १० ।। प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् । तद्रात्रौ तु पयः पीत्वा शययायां कम्बलादिभिः ।। ११ ।। कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः । मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ।। १२ ।। विसृज्य शिल्पिनंपश्चात् पुण्याहं वाचयेद्गुरुः । पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ।। १३ ।। शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् । तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ।। १४ ।। परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम् । चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ।। १५ ।। अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः । तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ।। १६ ।। वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् । अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ।। १७ ।। त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः । आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ।। १८ ।। अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः । शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ।। १९ ।। तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् । अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ।। २० ।। मध्यमे शिवकुंभं तु द्वात्रिंशत्प्रस्थपूरितम् । वर्धनी च तदर्धेन पूरिता शिवपूरिताः ।। २१ ।। बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः । त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ।। २२ ।। अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् । पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ।। २३ ।। चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् । नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ।। २४ ।। नानागन्धसमायुक्तं नानाबीजसमन्वितम् । नानाधातुसमायुक्तं नानालोहसमन्वितम् ।। २५ ।। नानादिगौषधोपेतं नानाफलसमन्वितम् । नानापुष्पसमायुक्तं नानागव्यसमायुतम् ।। २६ ।। संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः । अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ।। २७ ।। पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः । वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ।। २८ ।। नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् । प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ।। २९ ।। हिरण्यं रजतं ताम्रमारकूटं च सीसकम् । आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ।। ३० ।। द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् । अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ।। ३१ ।। रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च । जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ।। ३२ ।। कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् । ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ।। ३३ ।। पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसंभवाः । बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसंभवाः ।। ३४ ।। औदुम्बरी च नारङ्गंमातुलुङ्गसमुद्भवाः । वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ।। ३५ ।। आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः । नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ।। ३६ ।। सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके । उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ।। ३७ ।। वकुलं करवीरं च पाटलं कुरवं तथा । मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ।। ३८ ।। चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः । चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ।। ३९ ।। तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् । नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ।। ४० ।। वैष्णवं माषनीवार गोधूमं यवमेव च । अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ।। ४१ ।। श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः । लक्ष्मीश्च शंखपुष्पी च विष्णुक्रान्तिश्च हंसिनी ।। ४२ ।। तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी । सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ।। ४३ ।। पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च । गोमयं नालिकेरं त मातुलुङ्गफलं तथा ।। ४४ ।। नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च । दाडिमीसंभवं चैव न्यस्तव्याः क्रमशस्ततः ।। ४५ ।। गन्धोदकमथैशान्यां कलशेषु नवस्वपि । एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ।। ४६ ।। आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः । वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ।। ४७ ।। पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकं एव च । मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ।। ४८ ।। पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् । मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ।। ४९ ।। बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् । दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ।। ५० ।। मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके । उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ।। ५१ ।। अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् । पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ।। ५२ ।। गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः । नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ।। ५३ ।। समिदाज्यचरू/ल्लाजतिलवैणव माषकान् । जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ।। ५४ ।। उदुम्बरवटाश्वत्थप्लक्षा इंद्रादिदिषु च । शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ।। ५५ ।। पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् । सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ।। ५६ ।। शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः । ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ।। ५७ ।। होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च । गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ।। ५८ ।। अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् । किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ।। ५९ ।। वर्धन्यां च यजेद् गौरीमशेषकलशेषु च । पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ।। ६० ।। दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् । कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ।। ६१ ।। सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् । प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ।। ६२ ।। सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् । पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ।। ६३ ।। आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणेवेन तु । पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ।। ६४ ।। कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते । कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ।। ६५ ।। भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे । पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ।। ६६ ।। सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् । अन्येषामपि सर्वेषां शतधारावटेन वा ।। ६७ ।। हैमेन राजनेतापि तथोरन्यतरेण वा । सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ।। ६८ ।। स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा । गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ।। ६९ ।। विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् । तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ।। ७० ।। स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् । सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ।। ७१ ।। स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् । आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ।। ७२ ।। गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् । पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ।। ७३ ।। स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् । स्थापयित्वा सवत्सांगां दर्शयेच्च पयस्विनीम् ।। ७४ ।। बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः । सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ।। ७५ ।। आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् । गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ।। ७६ ।। पूणकुम्भयुते दीपसंयुते फलकोपरि । स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ।। ७७ ।। कारयित्वा ततः स्त्रीभिः रजनीजलधारया । दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ।। ७८ ।। ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति । श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ।। ७९ ।। पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा । एकेनवाभिषेकं तु कारयेदभिषेचनम् ।। ८० ।। दक्षिणां च गुरोर्दद्दादुत्तमादिषु संभवाम् । दासीदासं भुवं गां च गृहोपकरणानि च ।। ८१ ।। मूर्तिपानां तदन्ते च तदन्ते जापिनामपि । स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ।। ८२ ।। पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च । एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ।। ८३ ।। इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् । आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ।। ८४ ।। यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ८५ ।। नोपसर्गभयं तत्र न परागमविप्लवः । स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ।। शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ।। ८६ ।। इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः षड्विंशतितमः पटलः २७ सप्तविंशत्तमे पटले अन्त्येष्टिविधिः अन्त्येष्टिं संप्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः । ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ।। १ ।। आचार्यसाधका वास्युः पुत्रका समयस्थिताः । गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ।। २ ।। आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता । अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ।। ३ ।। आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः । प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ।। ४ ।। तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् । परिहृत्य निषिद्धे च यैस्तेषां अप्रमादिनाम् ।। ५ ।। तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते । सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ।। ६ ।। यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् । यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ।। ७ ।। विधायस्नानमाग्नेयं मन्त्र संनद्ध विग्रहम् । मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ।। ८ ।। अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे । स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ।। ९ ।। संस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् । स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ।। १० ।। तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ । दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ।। ११ ।। नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् । एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ।। १२ ।। एकधा बहुधा वापि क्रियामेनां समाचरेत् । पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ।। १३ ।। विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा । एतत् सर्वं विधेयं तु देशिकेनतरेण वा ।। १४ ।। तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् । गत प्राणे नरे तस्य स्नानार्थं तीर्थ संभवम् ।। १५ ।। जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा । तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ।। १६ ।। विधायैवं घटान्वापि कलशान् स्नपनोक्तितः । संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ।। १७ ।। स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् । पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ।। १८ ।। स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् । अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ।। १९ ।। कृत्वा संहारमार्गेण कौपीनं वसनं तथा । परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ।। २० ।। दीक्षितानामथान्येषां शिवशासनधारिणाम् । अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ।। २१ ।। ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा । आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ।। २२ ।। पुरुषायतमानां च षडङ्गुलविवर्धनात् । त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ।। २३ ।। सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठराम्द । आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ।। २४ ।। रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् । इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ।। २५ ।। निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः । शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ।। २६ ।। स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना । संघेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ।। २७ ।। शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् । तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ।। २८ ।। निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः । दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ।। २९ ।। दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् । दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ।। ३० ।। जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् । वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ।। ३१ ।। वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् । सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ।। ३२ ।। व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् । विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ।। ३३ ।। गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च । ईप्सितं सुखमाप्नोति परत्रेह च भावितः ।। ३४ ।। नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः । अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ।। ३५ ।। असहायमनाथं च गतासुं शिवयोगिनम् । नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ।। ३६ ।। वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः । अथ स्थानमदूरस्थमुदकस्य समं शुचि ।। ३७ ।। प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे । षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ।। ३८ ।। कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले । संकल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ।। ३९ ।। हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् । कुण्डंदक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ।। ४० ।। गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् । शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ।। ४१ ।। प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः । विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ।। ४२ ।। कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् । तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनः ।। ४३ ।। आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना । ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ।। ४४ ।। संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् । विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ।। ४५ ।। समाहृत्य विधानेन चितावास्तु प्रपूजयेत् । पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ।। ४६ ।। पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते । वंशरज्ज्वादिसंपन्नै विन्यसेद्वास्तुदेवताः ।। ४७ ।। तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके । नैऋत्यां वारिणा संपन्ने विष्णुं कोष्ठचतुष्टये ।। ४८ ।। आग्नेययामग्निना सार्धं रुद्रं कोष्ठचतुष्टये । वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ।। ४९ ।। गगनेन सदेशानमैशकोष्ठचतुष्टये । पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ।। ५० ।। निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् । ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ।। ५१ ।। शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च । निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ।। ५२ ।। तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् । ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ।। ५३ ।। मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् । व्युत्क्रमासनमिष्ट्वैवं साङ्गं संपूज्य शङ्करम् ।। ५४ ।। संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च । क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ।। ५५ ।। संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे । शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ।। ५६ ।। साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः । अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ।। ५७ ।। संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः । चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ।। ५८ ।। रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः । तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ।। ५९ ।। आग्नेययादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् । ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ।। ६० ।। पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् । अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ।। ६१ ।। शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु । शवशययां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ।। ६२ ।। चन्दनागरुसंमिश्रैर्विपर्यस्तपटावृताम् । संपूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ।। ६३ ।। कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा । स्नापितं धूपितं तत्र भस्मना नववर्त्मना ।। ६४ ।। सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया । आग्नेययां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ।। ६५ ।। वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः । ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ।। ६६ ।। भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् । महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ।। ६७ ।। ओं हूं हामथ हं हां हूं महाजालमिदं मतम् । उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ।। ६८ ।। विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः । सषडंगंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ।। ६९ ।। चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् । निवृत्यादि समादाय युगपद्वा क्रमेण वा ।। ७० ।। कलास्तास्साधिपाः प्राग्वद्वह्नौ संपूजयेत्ततः । ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ।। ७१ ।। योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः । भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ।। ७२ ।। तिरोभावः पशुत्वस्य पाशविश्लेष भेदने । तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ।। ७३ ।। विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा । एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ।। ७४ ।। उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि । अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ।। ७५ ।। यदाक्तो न पुनर्जातु पराधीनो भवेदणुः । कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ।। ७६ ।। विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः । स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ।। ७७ ।। शवमभ्येत्य शययायामारोप्य प्रावृतं कुशैः । याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ।। ७८ ।। आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् । तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ।। ७९ ।। संछाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् । मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ।। ८० ।। सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् । गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ।। ८१ ।। पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् । त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ।। ८२ ।। गृहाण मन्त्रसंपूतां शाव्यामेनां महाहुतिम् । प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ।। ८३ ।। नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः । अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ।। ८४ ।। उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् । धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ।। ८५ ।। अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि । क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ।। ८६ ।। ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् । तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ।। ८७ ।। शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् । स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ।। ८८ ।। उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः । भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ।। ८९ ।। अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् । द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ।। ९० ।। शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् । विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। ९१ ।। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ।। ९२ ।। शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया । निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ।। ९३ ।। विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते । जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ।। ९४ ।। शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा । स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ।। ९५ ।। अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया । अविद्यमानदेहानां तथा विकलदेहिनाम् ।। ९६ ।। क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् । कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ।। ९७ ।। विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् । दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ।। ९८ ।। क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् । इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ।। ९९ ।। कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः । कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ।। १०० ।। प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः । अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ।। १०१ ।। किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् । भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ।। १०२ ।। दहनं मरणं येषां तत्कुलक्षयकारणम् । तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ।। १०३ ।। नृणामकृतचूडानां मृतानामवटक्रिया । न तेषां दहनं नैव बलिर्नैवोदकक्रिया ।। १०४ ।। नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया । ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ।। १०५ ।। यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया । लवणापूरणोपेता विना बल्युदकौदनैः ।। १०६ ।। कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् । प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ।। १०७ ।। दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः । कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ।। १०८ ।। सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् । आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ।। १०९ ।। बाहुमात्रं खनेद्भूमिं तच्छययायामविस्तराम् । न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ।। ११० ।। तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा । योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ।। १११ ।। लवणेनाथवापूर्य तत्समीपप्रदेशतः । तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ।। ११२ ।। बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् । तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ।। ११३ ।। अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् । भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ।। ११४ ।। अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् । समा वातीत्य भर्ता तु यदि देशान्तरं गतः ।। ११५ ।। द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् । मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ।। ११६ ।। वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः । पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ।। ११७ ।। मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् । होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ।। ११८ ।। श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना । नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ।। ११९ ।। तण्डुलं क्षीरसंमिश्रं वामदेवेन निक्षिपेत् । अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ।। १२० ।। स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह । वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ।। १२१ ।। दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् । त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ।। १२२ ।। तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् । स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ।। १२३ ।। यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः । तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ।। १२४ ।। इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया । अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ।। १२५ ।। प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः । पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ।। १२६ ।। प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् । पञ्चसप्ततिसंख्यातं तर्पणं प्रति भोजनम् ।। १२७ ।। कल्पयेद् द्विशतं पञ्चपञ्चसंख्यासमन्वितम् । ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ।। १२८ ।। नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने । दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ।। १२९ ।। तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा । नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ।। १३० ।। एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि । तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ।। १३१ ।। वीतशोकस्य सक्तानां नराणां मूढचेतसाम् । समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ।। १३२ ।। शिवव्रतधरा ये च शैवा ये हृहिणीसखाः । न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ।। १३३ ।। तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा । न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ।। १३४ ।। आत्मनो भोगहेतूनामभावादुपचर्यते । तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ।। १३५ ।। स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् । अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ।। १३६ ।। सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः । चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ।। १३७ ।। देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते । मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ।। १३८ ।। यः करोति स संमूढो जलबुद्बुदसंनिभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।। १३९ ।। कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।। १४० ।। फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ।। १४१ ।। अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः । द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ।। १४२ ।। घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः । तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् संचयनं चितेः ।। १४३ ।। हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा । पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ।। १४४ ।। अस्थिसंग्रहणं वाथ कुर्यात् संचयनं विना । एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ।। १४५ ।। अस्थिसंग्रहणं विप्रप्रमुखाणां क्रमेण वा । सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ।। १४६ ।। पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् । अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ।। १४७ ।। ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च । तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ।। १४८ ।। षण्मासे वाब्दसंपूर्तौ तदूर्ध्वे वाथ निक्षिपेत् । निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ।। १४९ ।। पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् । दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ।। १५० ।। शिष्यैकगुरुसंबन्धा गुरुसंबन्धिनश्च ये । त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ।। १५१ ।। तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा । दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ।। १५२ ।। गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् । आचारं दीक्षितास्तस्मात्कुर्वीर/ल्लोकसंवृतिम् ।। १५३ ।। शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् । पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ।। १५४ ।। पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया । अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ।। १५५ ।। क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते । विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ।। १५६ ।। दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका । उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ।। १५७ ।। क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् । सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ।। १५८ ।। पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका । माससंख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ।। १५९ ।। नाम्नः प्राग्दन्तजननात्तथोपनयनादपिं । स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ।। १६० ।। तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते । क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ।। १६१ ।। भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा । पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ।। १६२ ।। पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ । तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ।। १६३ ।। दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् । दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ।। १६४ ।। त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् । समानोदकवर्गाणामाशौचं विहितं विधौ ।। १६५ ।। ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् । आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ।। १६६ ।। आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् । पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ।। १६७ ।। यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः । वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ।। १६८ ।। एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः । भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ।। १६९ ।। तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् । शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।। १७० ।। शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी । सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ।। १७१ ।। प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा । सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ।। १७२ ।। तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।। १७३ ।। सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः । कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ।। १७४ ।। अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् । ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ।। १७५ ।। तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि । तथैव रुद्रकन्यानां पञ्चाचार्येऽपि संमतम् ।। १७६ ।। हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् । न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ।। १७७ ।। सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ।। १७८ ।। प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः । नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ।। १७९ ।। स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा । इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ।। १८० ।। ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः । शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ।। १८१ ।। दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता । आशौचं दासदासीनामधिष्ठातृकुलोचितम् ।। १८२ ।। प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः । कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ।। १८३ ।। तथैव देवदासीनां मातृजं कुलमीरितम् । राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ।। १८४ ।। समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा । गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ।। १८५ ।। निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् । हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ।। १८६ ।। काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते । स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ।। १८७ ।। स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् । परित्ययेत् परार्थं वा लोकसंवरणाय च ।। १८८ ।। भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः । ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ।। १८९ ।। आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः । तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ।। १९० ।। तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् । विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ।। १९१ ।। एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः । अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ।। १९२ ।। नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः । साधारणस्त्रियो याश्च पूता नैव कदाचन ।। १९३ ।। राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः । महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ।। १९४ ।। शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः । दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ।। १९५ ।। प्रेतसूतकसंबन्धि नित्यहानिं करोति यत् । तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ।। १९६ ।। प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् । त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ।। १९७ ।। विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् । योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ।। १९८ ।। भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा । यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ।। १९९ ।। मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् । अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ।। २०० ।। एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् । जपेदघोरं स्नानान्ते दशांशो होम एव वा ।। २०१ ।। यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च । अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ।। २०२ ।। निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च । नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ।। २०३ ।। शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता । एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ।। २०४ ।। अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ।। २०४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः सप्तविंशतितमः पटलः २८ अष्टाविंशत्तमे पटले पितृ यज्ञ विधिः पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः । आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ।। १ ।। अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् । पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ।। २ ।। तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः । गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ।। ३ ।। कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा । विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसंमितैः ।। ४ ।। दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् । प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ।। ५ ।। तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये । स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ।। ६ ।। तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् । पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ।। ७ ।। धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् । तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ।। ८ ।। गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् । आशौच रहितैः नवमद्भाण्ड एव हि ।। ९ ।। ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च । द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ।। १० ।। एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् । अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ।। ११ ।। पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा । कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ।। १२ ।। कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् । सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ।। १३ ।। तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् । मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ।। १४ ।। तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा । संग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ।। १५ ।। अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे । एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ।। १६ ।। विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते । ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ।। १७ ।। वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः । आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ।। १८ ।। पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा । तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ।। १९ ।। दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति । पिण्डमेकं तदा देय माशौचं चाप्रदानतः ।। २० ।। इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः अष्टविंशतितमः पटलः २९ एकोनत्रिंशत्तमे पटले शैव श्राद्ध विधिः ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् । नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ।। १ ।। प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् । नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ।। २ ।। कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते । वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ।। ३ ।। तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते । तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ।। ४ ।। एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् । श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ।। ५ ।। नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् । चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ।। ६ ।। मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् । नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ।। ७ ।। अनूदकमधूपं च गन्धमाल्य विवर्जितम् । आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ।। ८ ।। एकादशे त्रिपक्षे च तथा च प्रतिमासके । वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ।। ९ ।। षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् । एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ।। १० ।। यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश । पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ।। ११ ।। द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् । त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ।। १२ ।। सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति । मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ।। १३ ।। भोजनं सोदकुंभं च प्रदद्याद् देशिकात्मने । विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ।। १४ ।। सोदकुंभयुतं पश्चात् सपिण्डीकरणं समे । विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ।। १५ ।। षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् । एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ।। १६ ।। अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्याद्संवत्सद्गुरुः ।। १७ ।। पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् । सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ।। १८ ।। समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने । शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ।। १९ ।। एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशांमतम् । पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ।। २० ।। अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् । घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ।। २१ ।। चतुर्थी सप्तमी चैव नवमी च त्रयोदशी । अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ।। २२ ।। अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् । व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ।। २३ ।। विष्वोरपि गजच्छायासंक्रान्त्यादिषु कारयेत् । शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ।। २४ ।। एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये । अन्यदा वापि कर्तव्यं संभवे वसुपात्रयोः ।। २५ ।। रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि । रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ।। २६ ।। गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् । मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।। २७ ।। नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु । यदि कुर्यान्नवश्राद्धम्. कुलक्षयकरं भवेत् ।। २८ ।। शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः । एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ।। २९ ।। पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः । आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ।। ३० ।। * * * * * * * * * * * * * * * * ? । * * * * * * * * * * * * * * * * ? ।। ३१ ।। अमाद्वयस्तु वै मासो मलिनः पापसंभवः । गर्हितः पितृदेवेभ्यः सर्वकर्मसु संत्यजेत् ।। ३२ ।। नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे । वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ।। ३३ ।। नवमी स्यादमावास्या नभस्ये कृष्णपक्षके । तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ।। ३४ ।। तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च । कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ।। ३५ ।। अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः । कन्यां गते सवितरि पितरो यान्ति वै सुतान् ।। ३६ ।। ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ।। ३७ ।। अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति । उपात्तेषु सुसंतानं शकुना इव पिप्पले ।। ३८ ।। मधुमांसैश्च पाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ।। ३९ ।। पूर्वाहृणे दैविकं श्राद्धं अपराहृणे तु पैतृकम् । एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ।। ४० ।। शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके । आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ।। ४१ ।। आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ।। ४२ ।। द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध संपदि । स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ।। ४३ ।। आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः । न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ।। ४४ ।। पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः । उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ।। ४५ ।। शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः । दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ।। ४६ ।। शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ।। ४७ ।। संबन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः । फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ।। ४८ ।। शिवार्चनादिहीनाय शिवज्ञानापहारिणे । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ।। ४९ ।। सरोषमपसव्यं यैश्च युक्तमवज्ञया । सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ।। ५० ।। कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते । मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ।। ५१ ।। दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः । व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।। ५२ ।। अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् । श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ।। ५३ ।। पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।। ५४ ।। दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् । श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ।। ५५ ।। तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् । प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ।। ५६ ।। सोऽयं नरकमाप्नोति कुंभीपाकं न संशयः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ।। ५७ ।। श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः । सैन्धवं लवणं चैव तथा मानस सम्भवम् ।। ५८ ।। पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश । रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ।। ५९ ।। यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव । अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ।। ६० ।। कोद्रवं लवणं सर्वं तथा जम्बूफलानि च । कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ।। ६१ ।। बीजपूरक माषाणि मरीचिं पिप्पलीमपि । कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ।। ६२ ।। वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।। ६३ ।। कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् । पिण्याकं मथितं चापि तथातिलवणं च यत् ।। ६४ ।। हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ।। ६५ ।। निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् । बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ।। ६६ ।। दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ।। ६७ ।। अन्तर्जानु विशेषेण तथैवाचमनं भवेत् । दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ।। ६८ ।। विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमानि तावन्नरकमृच्छति ।। ६९ ।। यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ।। ७० ।। मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् । देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ।। ७१ ।। मृतसंपृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते । नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ।। ७२ ।। आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः । मित्राण्यारोग्यसंपश्च भवेच्छ्रद्धादनिन्दितात् ।। ७३ ।। नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः । कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ।। ७४ ।। भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि । शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ।। ७५ ।। नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् । चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।। ७६ ।। आचार्येण तु भुक्तेन कोटिर्भवति भोजिता । लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ।। ७७ ।। समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे । साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ।। ७८ ।। संभवे कथितं श्राद्धे सर्वे सर्वत्र वामताः । ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ।। ७९ ।। रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः । दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ।। ८० ।। स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः । तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ।। ८१ ।। तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि । पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ।। ८२ ।। बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् । एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ।। ८३ ।। एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् । षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ।। ८४ ।। इत्येवमभिसंधाय श्राद्धकर्म समाचरेत् । निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ।। ८५ ।। वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ । यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ।। ८६ ।। ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः । वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ।। ८७ ।। संयम्य चेन्द्रियग्राममनुगृहानुकम्पया । अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ।। ८८ ।। व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः । अभ्युत्थानासनाद्येन स्वागतेनागतानथ ।। ८९ ।। संभाव्य पादशौचाय कुर्यान्मण्डलकानि तु । सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ।। ९० ।। समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे । द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ।। ९१ ।। दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे । प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ।। ९२ ।। मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा । कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ।। ९३ ।। गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः । देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ।। ९४ ।। अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् । पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ।। ९५ ।। पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके । अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ।। ९६ ।। एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् । साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ।। ९७ ।। तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् । विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ।। ९८ ।। सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु । सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ।। ९९ ।। स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे । मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ।। १०० ।। पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् । दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ।। १०१ ।। सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः । तोयैराचमनं पश्चादाचान्तस्संप्रवेश्य तु ।। १०२ ।। उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते । आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ।। १०३ ।। ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ । कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ।। १०४ ।। न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः । उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ।। १०५ ।। आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः । आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ।। १०६ ।। स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् । अथ रक्षार्थमादाय यवानवकिरेत् परि ।। १०७ ।। प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ । रूपिणा संनिधानाय द्वितयस्य सकृत् सकृत् ।। १०८ ।। प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि । जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ।। १०९ ।। पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् । गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ।। ११० ।। वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा । दीपं च तेन संदद्यादीशानेन पवित्रकम् ।। १११ ।। वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् । तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ।। ११२ ।। कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् । कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ।। ११३ ।। आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् । स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ।। ११४ ।। रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः । त्रयाणां संनिधानार्थमघोरेणाञ्जलौ पृथक् ।। ११५ ।। पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् । भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ।। ११६ ।। तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् । गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ।। ११७ ।। ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् । पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ।। ११८ ।। ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ।। ११९ ।। सौवर्णं राजतं पात्रं ताम्रजं दलसंभवम् । भाजनं शुद्धमादाय भोजनायोपपादयेत् ।। १२० ।। हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् । पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ।। १२१ ।। सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः । शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ।। १२२ ।। कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् । सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ।। १२३ ।। ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः । उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ।। १२४ ।। हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् । पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ।। १२५ ।। अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः । दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ।। १२६ ।। संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् । पवित्रीकरणायेति ततस्सव्यमधोमुखम् ।। १२७ ।। तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च । गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ।। १२८ ।। अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् । आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ।। १२९ ।। शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः । अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ।। १३० ।। देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् । चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ।। १३१ ।। जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः । तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ।। १३२ ।। तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् । उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ।। १३३ ।। कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा । वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ।। १३४ ।। दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् । मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ।। १३५ ।। दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः । विधाय वारिणो धारां वामदेवमुदीरयन् ।। १३६ ।। क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् । संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ।। १३७ ।। क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् । पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ।। १३८ ।। प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये । सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ।। १३९ ।। गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये । वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ।। १४० ।। धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति । ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ।। १४१ ।। स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च । अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ।। १४२ ।। एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् । देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ।। १४३ ।। दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च । इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ।। १४४ ।। पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः । श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ।। १४५ ।। इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् । यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।। १४६ ।। पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् । सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ।। १४७ ।। अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा । इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ।। १४८ ।। पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ।। १४९ ।। ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः । धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ।। १५० ।। गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके । वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ।। १५१ ।। नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि । दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ।। १५२ ।। अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ।। १५३ ।। प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु । अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ।। १५४ ।। नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।। १५५ ।। आवाहनाग्निकरणरहितमपसव्यम् । उत्तिष्टतामित्यक्षययस्थाने तेषां विसर्जनम् ।। १५६ ।। अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे । एको वाथ नरो ग्राहो निमित्तस्य च संमतः ।। १५७ ।। स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् । गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ।। १५८ ।। वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च । आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ।। १५९ ।। उपधानयुतां शययां तदीयमपरं च यत् । दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ।। १६० ।। अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् । नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ।। १६१ ।। अनूदकमधूपं च गन्धमाल्यविवर्जितम् । पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ।। १६२ ।। जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः । प्रणामं न च कुर्वीत स्वधाकारं तथैव च ।। १६३ ।। नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति । अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ।। १६४ ।। हविष्यान्नेन ते मासं वत्सरं पायसेन तु । तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ।। १६५ ।। रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः । तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ।। १६६ ।। गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते । गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ।। १६७ ।। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ।। १६८ ।। ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् । पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ।। १६९ ।। सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप । कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ।। १७० ।। स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा । ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ।। १७१ ।। यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ।। १७२ ।। आयुष्कामो लभेदायुः धनकामो वसूनि च । विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ।। १७३ ।। पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् । एतानि लभते नित्यं श्राद्धदो नावसीदति ।। १७४ ।। प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः । ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ।। १७५ ।। पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः । योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ।। १७६ ।। कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ।। १७७ ।। एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । दानमाचमनं होमं भोजनं देवतार्चनम् ।। १७८ ।। प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् । आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ।। १७९ ।। परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ।। १८० ।। अटवी चाकृतारण्यं नदीतीराणि यानि च । सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ।। १८१ ।। चण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ।। १८२ ।। होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते । दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ।। १८३ ।। वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा । ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ।। १८४ ।। अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ।। १८५ ।। दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः । स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ।। १८६ ।। अथवान्यप्रकारेण कुतपस्त्विह कथ्यते । शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ।। १८७ ।। तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः । पिता पितामहश्चैव प्रपितामह एव च ।। १८८ ।। गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः । क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ।। १८९ ।। स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । पितामही तथा स्वेन तथैव प्रपितामही ।। १९० ।। पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति । मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ।। १९१ ।। मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् । अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ।। १९२ ।। एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता । सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ।। १९३ ।। न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते । अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।। १९४ ।। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ।। १९५ ।। स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः । स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ।। १९६ ।। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ।। १९७ ।। एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी । पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ।। १९८ ।। आसुरादि विवाहेषु विशेषः कश्चिदिष्यते । स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ।। १९९ ।। यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता । तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ।। २०० ।। जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् । पैतृकं तु भवेत् गोत्रं ऊर्ध्वं तु पितृ दैवतम् ।। २०१ ।। पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ।। २०११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम एकोन त्रिंशतितमः पटलः ३० त्रिंशत्तमे पटले प्रायश्चित्त विधिः प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । विधिर्निषेध इत्येवं चोदना द्विविधा मता ।। १ ।। अनुष्ठितायां तस्यांस्याद्यथावद्धर्म संग्रहः । वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ।। २ ।। तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् । यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ।। ३ ।। प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः । चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ।। ४ ।। सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः । तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ।। ५ ।। विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते । तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ।। ६ ।। आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया । कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ।। ७ ।। प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः । कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ।। ८ ।। ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् । स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ।। ९ ।। लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च । शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ।। १० ।। नमस्काराद्यमेतेषां शिवधामनिषेवणम् । शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ।। ११ ।। पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः । शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ।। १२ ।। उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् । शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ।। १३ ।। मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा । एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ।। १४ ।। एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् । विभज्य लक्षणं तेषां केषांचिदिह कथ्यते ।। १५ ।। पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः । सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ।। १६ ।। पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् । प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ।। १७ ।। दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम् । प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ।। १८ ।। मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् । तस्मान्मासावसानं तु हीनमित्यभिधीयते ।। १९ ।। मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् । लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ।। २० ।। आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः । प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ।। २१ ।। स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति । वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ।। २२ ।। पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः । नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ।। २३ ।। अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः । देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ।। २४ ।। सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः । राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ।। २५ ।। तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः । इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ।। २६ ।। अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना । मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ।। २७ ।। शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् । अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ।। २८ ।। मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः । जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ।। २९ ।। अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा । शाकयावकपिण्याककन्दमूलफलाशनः ।। ३० ।। स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् । जपं एव समाख्यातः प्रदक्षिण मथोच्यते ।। ३१ ।। नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः । लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ।। ३२ ।। अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् । गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ।। ३३ ।। गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः । सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ।। ३४ ।। परिहृत्य कृतं सर्वं यदि सर्वफलावहम् । अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।। ३५ ।। प्रासादार्ध प्रमाणं प्रासादसममेव वा । निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ।। ३६ ।। परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् । सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ।। ३७ ।। सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः । सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ।। ३८ ।। सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा । छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ।। ३९ ।। तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् । तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ।। ४० ।। प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ।। ४१ ।। अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् । अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ।। ४२ ।। क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् । एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ।। ४३ ।। कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते । सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ।। ४४ ।। शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् । शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ।। ४५ ।। ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसंज्ञकः । अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ।। ४६ ।। त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् । एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ।। ४७ ।। पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् । सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ।। ४८ ।। तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते । एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ।। ४९ ।। अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते । द्वादशाहनिर्राहारः पराक इति संस्मृतः ।। ५० ।। मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् । चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ।। ५१ ।। सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे । चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ।। ५२ ।। मध्यम द्वितयं वाथ तदर्थं दानमेव वा । उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ।। ५३ ।। मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना । तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ।। ५४ ।। शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् । देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ।। ५५ ।। गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् । संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ।। ५६ ।। अघोरामथवा शैवमस्त्रं पाशुपतं तु वा । अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ।। ५७ ।। कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ । समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ।। ५८ ।। तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् । सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ।। ५९ ।। प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् । स्वाहान्ते भगवन् सर्वक्षोपनाशंपदं ततः ।। ६० ।। कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् । पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ।। ६१ ।। पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् । मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ।। ६२ ।। कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् । तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः ।। ६३ ।। प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे । पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ।। ६४ ।। ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः । स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ।। ६५ ।। तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया । एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ।। ६६ ।। होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् । निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ।। ६७ ।। समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् । होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ।। ६८ ।। एवं शान्तिस्समादिष्टा नवधा सा समीरिता । एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ।। ६९ ।। पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः । कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ।। ७० ।। विसर्जनं तु वा देवे पावकस्य न सर्वथा । शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ।। ७१ ।। स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते । शुभाशास्वग्निदेशे वा मण्डपे समलंकृते ।। ७२ ।। स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेत्घटम् । ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ।। ७३ ।। सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् । परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ।। ७४ ।। विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् । प्रणवासनमारुढं दुराधर्षं महाबलम् ।। ७५ ।। पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ।। ७६ ।। कपालमालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामालानागाभरणलेलिहम् ।। ७७ ।। सूर्यकोट्ययुताभं च विघ्नसंघात मर्दकम् । भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ।। ७८ ।। खड्गचापमहाशूलाभयपाशांश्च दक्षिणे । खेटबाणा कपालांश्च वरप्रासौ च वामतः ।। ७९ ।। पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् । ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ।। ८० ।। ओं श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति । प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ।। ८१ ।। पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे । ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ।। ८२ ।। सर्वे पाशुपतोपेतहृदयादि समन्विताः । फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ।। ८३ ।। इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् । तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ।। ८४ ।। संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले । देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ।। ८५ ।। समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८६ ।। प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् । भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ।। ८७ ।। अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् । पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ।। ८८ ।। प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् । पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ।। ८९ ।। कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् । प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ।। ९० ।। अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः । समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ।। ९१ ।। कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् । ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ।। ९२ ।। होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना । कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसंख्यया ।। ९३ ।। दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः । प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ।। ९४ ।। लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा । मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ।। ९५ ।। यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु । दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ।। ९६ ।। वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा । स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ।। ९७ ।। सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् । एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ।। ९८ ।। मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च । अथैतद्यागशालायां कर्म सर्वं समापयेत् ।। ९९ ।। अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च । तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ।। १०० ।। शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके । तदग्रे संयजेदस्त्रंशिवाख्यंदेशिकोत्तमः ।। १०१ ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ।। १०२ ।। अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ।। १०३ ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् । दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ।। १०४ ।। सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते । ओं ह्रींङ्कारं ततः कृष्णवाससे चेति यत्पदम् ।। १०५ ।। ततश्च सिह्मवदने महावदन इत्यपि । महाभैरविवर्णे च सर्वशत्रुपदं ततः ।। १०६ ।। कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः । च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ।। १०७ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ।। १०८ ।। सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् । सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ।। १०९ ।। ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन । प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ।। ११० ।। ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः । प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ।। १११ ।। दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् । तथैव तस्मान्नेत्राणुश्चतुस्त्रिं/शद्भिरस्त्रकम् ।। ११२ ।। त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः । नमः स्वाहावषड्वौषड् ह्रुंफड् युक्ता हृदादयः ।। ११३ ।। सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ।। ११४ ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ।। ११५ ।। कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् । मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ।। ११६ ।। अट्टहासरवोपेतां कृष्णाजिन समन्विताम् । ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ।। ११७ ।। अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् । गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ।। ११८ ।। पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् । चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ।। ११९ ।। तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् । प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ।। १२० ।। इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् । कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ।। १२१ ।। स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह । तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ।। १२२ ।। कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् । प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ।। १२३ ।। प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।। १२४ ।। तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः । चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ।। १२५ ।। प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः । प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ।। १२६ ।। रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् । अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ।। १२७ ।। कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः । कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ।। १२८ ।। देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः । देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ।। १२९ ।। प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् । दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ।। १३० ।। दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते । प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ।। १३१ ।। समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः । होमश्च पुरुषाघोरवामाजैर्दिक्षु संमतः ।। १३२ ।। स्नपनादिषु होमेऽयं चतुर्दिक्षु च संमतः । वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ।। १३३ ।। शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे । उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ।। १३४ ।। सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते । तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ।। १३५ ।। पलाशसमिदाज्यान्नैश्शत संख्या शिवाणुना । शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ।। १३६ ।। ततोऽघोराणुना होमं पञ्चविंशतिसंख्यया । प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ।। १३७ ।। संहिताहोम एष स्यान्मूर्तिहोमो विधीयते । हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ।। १३८ ।। शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे । अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ।। १३९ ।। ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् । गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ।। १४० ।। मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् । यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ।। १४१ ।। वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः । दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ।। १४२ ।। दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि । ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। १४३ ।। प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ।। १४४ ।। सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ।। १४५ ।। नृत्यन्तं तं महाकायं नागाभरण भूषितम् । देवदानवदैत्यानां दर्पितानां विमर्दकम् ।। १४६ ।। वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् । पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ।। १४७ ।। तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे । स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ।। १४८ ।। संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना । तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले ।। १४९ ।। समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् । हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ।। १५० ।। प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले । कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ।। १५१ ।। पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च । पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ।। १५२ ।। अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् । स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ।। १५३ ।। लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् । तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ।। १५४ ।। प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि । अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।। १५५ ।। गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि । ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ।। १५६ ।। गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् । संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ।। १५७ ।। भस्मापि यजमानाय दातव्यं होमकर्मणि । अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ।। १५८ ।। मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः । अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ।। १५९ ।। यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् । संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ।। १६० ।। अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् । स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ।। १६१ ।। समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् । पञ्चाशत्संख्यकं वापि तदर्थं वा पृथक् पृथक् ।। १६२ ।। पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ । शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ।। १६३ ।। क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा । पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ।। १६४ ।। विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् । पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ।। १६५ ।। पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् । संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ।। १६६ ।। एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः । कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ।। १६७ ।। संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः । शान्त्युक्तदिन संख्याया वशेनैतत्समाचरेत् ।। १६८ ।। मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा । यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ।। १६९ ।। एकसन्ध्यादि भेदेन नित्यपूजा विलोपने । द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ।। १७० ।। लोपे चासनसंस्कारोपचाराणामथावृतेः । पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ।। १७१ ।। निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे । अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ।। १७२ ।। गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् । दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ।। १७३ ।। नीराजनस्य वा दीपमालास्थेनाहृतेन वा । मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ।। १७४ ।। लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः । लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ।। १७५ ।। दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके । हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ।। १७६ ।। कृमिकीटनराद्यस्थिनखरोमादिदर्शने । देवाय दत्तद्रव्येषु नखरोमादिदर्शने ।। १७७ ।। श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे । सामान्यप्राणिसंभूत मलयुक्तैरथापिवा ।। १७८ ।। नैवेद्याहरणे काले तोयसेके विलोपिते । तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ।। १७९ ।। प्रागेव निश्चित द्रव्यहीने तस्य वर्धने । लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ।। १८० ।। मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति । बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ।। १८१ ।। काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने । अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ।। १८२ ।। केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः । होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ।। १८३ ।। बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते । वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ।। १८४ ।। गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने । अतोद्य नृत्तकरणे वितानस्य विलोपने ।। १८५ ।। बलिप्रदान कालेतु वाद्यदीपविलोपने । पादुकाराधन हीने तद्याने वा विलोपिते ।। १८६ ।। अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये । उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ।। १८७ ।। बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके । सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ।। १८८ ।। सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा । तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ।। १८९ ।। अतोद्यनृत्तवैकल्ये नीराजनविलोपने । तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ।। १९० ।। अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः । कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ।। १९१ ।। सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते । निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ।। १९२ ।। बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः । दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ।। १९३ ।। विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा । आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ।। १९४ ।। अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे । एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ।। १९५ ।। अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते । एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ।। १९६ ।। स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् । मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ।। १९७ ।। विधाय पूजां त्रिगुणां द्विगुणां वा समामथ । उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ।। १९८ ।। नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः । कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ।। १९९ ।। प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः । त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ।। २०० ।। चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् । प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ।। २०१ ।। अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् । दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ।। २०२ ।। तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता । दिनानि यानि हीनानि पूजया नित्यसंज्ञया ।। २०३ ।। तदहस्संख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् । एक मासावधिं यावत्ततस्संप्रोक्षणं नयेत् ।। २०४ ।। नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः । द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ।। २०५ ।। तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् । पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ।। २०६ ।। आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते । शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ।। २०७ ।। अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः । पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ।। २०८ ।। विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् । शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ।। २०९ ।। नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके । तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ।। २१० ।। पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता । तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ।। २११ ।। शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् । दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ।। २१२ ।। अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः । पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ।। २१३ ।। तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः । गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ।। २१४ ।। तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः । धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ।। २१५ ।। घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः । पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ।। २१६ ।। दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता । आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ।। २१७ ।। नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् । ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ।। २१८ ।। अथ काण्डपटे हीने देवानां संनिधिक्षयः । भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २१९ ।। देवं संपूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे । शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ।। २२० ।। तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे । कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ।। २२१ ।। द्रव्याणामेव चैतेषामर्धे पादे तदर्धके । प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ।। २२२ ।। जप्त्वा देवाय तद्द्रव्यंद्विगुणं दापयेत्ततः । द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ।। २२३ ।। अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः । दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ।। २२४ ।। स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा । नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ।। २२५ ।। दद्योजातनरेशानाश्शतधावर्त्य देशिकः । याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ।। २२६ ।। दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः । प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ।। २२७ ।। हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः । संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ।। २२८ ।। नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते । विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ।। २२९ ।। अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् । पूर्वसंकल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ।। २३० ।। जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा । अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ।। २३१ ।। शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः । धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ।। २३२ ।। धूपारात्रिकयोर्दानकाले नीराजनस्य च । दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ।। २३३ ।। वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके । अणुना महता वापि राज्ञो रोगो भविष्यति ।। २३४ ।। संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् । पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ।। २३५ ।। संपूज्य देवदेवेशं मूर्तिहोमं समाचरेत् । अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ।। २३६ ।। लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना । निर्दग्धानि तदा कुर्यात् कर्म संप्रोक्षणादिकम् ।। २३७ ।। दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् । दहने सद्मनः कुर्यात् सद्म संप्रोक्षणात्मकम् ।। २३८ ।। देवाय स्नपनं कुर्यात् धामच्छेदादिसंभव । तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ।। २३९ ।। वह्निना लिङ्गबेरादावन्यवर्णमुपायते । मानुषं चेत् परित्याज्यं ग्राह्यं स्वायंभुवादिकम् ।। २४० ।। प्रतिक्रियानुकर्मोक्त्या कार्या संप्रोक्षणान्विता । पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ।। २४१ ।। सकले विकले कुर्याच्छिवस्य स्नपनं महत् । प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ।। २४२ ।। दीपानामथ वैकल्ये जपेदघोर शतत्रयम् । दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ।। २४३ ।। रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् । हविष्य दत्ते देवाय स्नपनं तु विधाय च ।। २४४ ।। द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि । अथ काण्डपटे हीने कवचं द्विशतं जपेत् ।। २४५ ।। गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् । कृमिकीटनराद्यस्थिनखरोमादि दर्शने ।। २४६ ।। त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् । शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ।। २४७ ।। पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् । श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ।। २४८ ।। स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया । सामान्यप्राणि संभूतमलयुक्ते तथाचरेत् ।। २४९ ।। नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् । हीनं लङ्घनं तत्र यदि जायेत दोषदम् ।। २५० ।। अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा । शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ।। २५१ ।। आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् । प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ।। २५२ ।। तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे । प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ।। २५३ ।। नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता । लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ।। २५४ ।। तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः । पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ।। २५५ ।। पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् । अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ।। २५६ ।। बलिदानविहीनं चेद्भवन्त्यखिलदेवताः । तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ।। २५७ ।। दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः । नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ।। २५८ ।। अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च । पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ।। २५९ ।। यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् । होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ।। २६० ।। तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः । प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ।। २६१ ।। शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् । कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ।। २६२ ।। तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा । अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ।। २६३ ।। होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः । अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ।। २६४ ।। शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे । वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ।। २६५ ।। पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् । इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ।। २६६ ।। शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् । अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ।। २६७ ।। कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा । नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ।। २६८ ।। किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः । रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ।। २६९ ।। तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे । सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ।। २७० ।। तत्संख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् । होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ।। २७१ ।। नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् । तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ।। २७२ ।। सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् । अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ।। २७३ ।। पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् । दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ।। २७४ ।। तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु । एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ।। २७५ ।। शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः । पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ।। २७६ ।। वर्धयेद्युग्म संख्यातं पक्षपक्षावसानकम् । नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ।। २७७ ।। निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा । बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ।। २७८ ।। तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा । वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ।। २७९ ।। गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् । तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ।। २८० ।। तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् । एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ।। २८१ ।। कृत्वा तु संहिताहोममघोर जपमेव वा । सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ।। २८२ ।। तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् । एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ।। २८३ ।। पादुकाराधने हीने याने वा पादरोगता । कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ।। २८४ ।। अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये । विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ।। २८५ ।। उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे । उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ।। २८६ ।। बेरादिपतने यानकाले संवत्सरोक्तवत् । तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ।। २८७ ।। बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् । पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ।। २८८ ।। ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे । पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ।। २८९ ।। विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् । भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ।। २९० ।। सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् । पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ।। २९१ ।। नवभिः कलशैर्वाथ गव्यस्नपनमेव वा । सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ।। २९२ ।। पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने । सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ।। २९३ ।। पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि । तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ।। २९४ ।। ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् । सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ।। २९५ ।। सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् । अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ।। २९६ ।। सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः । यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ।। २९७ ।। स्नपनं वा त्वघोरेण सहस्रजपमेववा । सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ।। २९८ ।। गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् । प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ।। २९९ ।। आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते । सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ।। ३०० ।। नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् । देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ।। ३०१ ।। द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च । शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ।। ३०२ ।। अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् । अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ।। ३०३ ।। अघोरजपसाहस्रमथ पञ्चशतं तु वा । कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ।। ३०४ ।। स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् । गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ।। ३०५ ।। स्थलशुद्धिं तदा कृत्वा देवं संपूज्य यत्नतः । अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ।। ३०६ ।। निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते । तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ।। ३०७ ।। क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः । अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ।। ३०८ ।। हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा । राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ।। ३०९ ।। सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः । तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ।। ३१० ।। पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः । षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ।। ३११ ।। स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः । अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ।। ३१२ ।। सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् । सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ।। ३१३ ।। बालातिबाला युवतिर्वृद्धाति श्रेयसी मता । अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ।। ३१४ ।। मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी । अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ।। ३१५ ।। सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः । तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ।। ३१६ ।। श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते । अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ।। ३१७ ।। आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता । सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ।। ३१८ ।। आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने । कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ।। ३१९ ।। आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने । पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ।। ३२० ।। द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः । षाण्मासोर्ध्वे विधातव्यं कर्मसंप्रोक्षणं द्विजाः ।। ३२१ ।। षाण्मासात्परतो यस्मादतो देवलकाह्वये । अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ।। ३२२ ।। मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता । चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ।। ३२३ ।। विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् । सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ।। ३२४ ।। अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् । कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ।। ३२५ ।। पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् । अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ।। ३२६ ।। एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः । अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ।। ३२७ ।। अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके । रिपुणा संगृहीतो वा देवी वा केवलाद्विजाः ।। ३२८ ।। देवीं विहाय देवो वा केवलो रिपुणा हृतः । तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ।। ३२९ ।। स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे । स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ।। ३३० ।। पिण्डिकापतने वाधः परिवारविलोपने । बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ।। ३३१ ।। तद्दाहपतनादौ च प्राकारे गोपुरे तथा । जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ।। ३३२ ।। कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः । उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ।। ३३३ ।। पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ । गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ।। ३३४ ।। गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः । चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।। ३३५ ।। हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः । शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ।। ३३६ ।। स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके । प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ।। ३३७ ।। परिवारालये वान्तर्मण्डपे वा द्वितीयके । महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ।। ३३८ ।। निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः । परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ।। ३३९ ।। अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे । उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ।। ३४० ।। गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके । विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ।। ३४१ ।। अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने । प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ।। ३४२ ।। साले वा मालिकायुक्ते केवले गोरुराङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ।। ३४३ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ।। ३४४ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिलीसंभवे वाथ मधुपञ्जर संभवे ।। ३४५ ।। बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ।। ३४६ ।। तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये । अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ।। ३४७ ।। दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि । मठे प्रपादिके वापि आरामादावथापि वा ।। ३४८ ।। लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ३४९ ।। वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके । कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ।। ३५० ।। स्थापिते शिवकुम्भे वा करके कलशेऽपिवा । भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ।। ३५१ ।। शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः । स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ।। ३५२ ।। स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके । विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ।। ३५३ ।। रत्नहेमाम्बरादीनां विलोपे च घटादिषु । गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ।। ३५४ ।। कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ३५५ ।। पवित्रारोहणे हीने दमनारोहणेऽपिवा । कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ।। ३५६ ।। बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते । पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ।। ३५७ ।। भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः । पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ।। ३५८ ।। एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते । अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ।। ३५९ ।। अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् । पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ।। ३६० ।। अघोरेण शतं होमं समिदाज्यतिलोदनैः । रिपुणा संगृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ।। ३६१ ।। तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते । सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ।। ३६२ ।। लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च । लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ।। ३६३ ।। सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् । मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ।। ३६४ ।। कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले । लक्षणोद्धारणं दृष्टि मोचनं जलवेशनं ।। ३६५ ।। विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः । अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ।। ३६६ ।। मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि । प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ।। ३६७ ।। तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् । तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।। ३६८ ।। संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना । कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ।। ३६९ ।। प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा । प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ।। ३७० ।। तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् । आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ।। ३७१ ।। संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः । संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ।। ३७२ ।। मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः । संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ।। ३७३ ।। अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः । तत्प्रासादानुरूपेण यजमानानुरूपतः ।। ३७४ ।। लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना । बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ।। ३७५ ।। बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् । देवीं विहाय देवो वा देवी वा केवला यदा ।। ३७६ ।। शत्रुभिस्संगृहीता चेत् स्थितस्यैवानुरूपतः । संपाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ।। ३७७ ।। कल्याणं कारयेदन्ते विधिना देशिकोत्तमः । स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ।। ३७८ ।। देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् । पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ।। ३७९ ।। प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् । आग्नेययामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ।। ३८० ।। नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् । वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ।। ३८१ ।। ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् । उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ।। ३८२ ।। शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् । प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ।। ३८३ ।। स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् । प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ।। ३८४ ।। कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् । प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ।। ३८५ ।। स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् । स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ।। ३८६ ।। तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते । शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ।। ३८७ ।। कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् । प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ।। ३८८ ।। पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले । ततस्संप्रोक्षणं कुर्यात् स्थलकर्मावसानके ।। ३८९ ।। पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः । पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ।। ३९० ।। सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् । नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ।। ३९१ ।। ततस्संप्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि । परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ।। ३९२ ।। परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः । बलिपीठे विहीने तु सर्वदोषावहं भवेत् ।। ३९३ ।। संकल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् । तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ।। ३९४ ।। शान्तिहोमं तदा कृत्वा संप्रोक्षणमथाचरेत् । प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ।। ३९५ ।। राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् । ततस्संप्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ।। ३९६ ।। कृत्वा गव्येन संप्रोक्ष्य शान्तिमेकाहमाचरेत् । कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ।। ३९७ ।। उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः । पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।। ३९८ ।। गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः । गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ।। ३९९ ।। चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः । हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।। ४०० ।। शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा । स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ।। ४०१ ।। राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते । मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ।। ४०२ ।। गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः । गव्येन स्नपनं कृत्वा संप्रोक्षनमथाचरेत् ।। ४०३ ।। ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति । शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ।। ४०४ ।। चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् । गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ।। ४०५ ।। संप्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः । ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ।। ४०६ ।। तदा संप्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् । चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ।। ४०७ ।। संप्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् । शान्तिकर्मदिशाहोमं क्रमात्संप्रोक्षणं नयेत् ।। ४०८ ।। त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने । प्रथमे च द्वितीये च चण्डालविहितं तु यत् ।। ४०९ ।। प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् । प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ।। ४१० ।। शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् । दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ।। ४११ ।। परिवारालयावेशेऽप्येतदेव समीरितम् । कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ।। ४१२ ।। चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् । कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ।। ४१३ ।। गोमयालोपनाद्यं च समानं सर्वकर्मसु । परिवारालयोक्तं प्रायश्चित्तं महानसे ।। ४१४ ।। महानससमा ज्ञेया बलिपीठेषु निष्कृतिः । निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ।। ४१५ ।। परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् । कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ।। ४१६ ।। अर्धमण्डपवेशादौ तस्य दोषो न विद्यते । अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ।। ४१७ ।। चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा । कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ।। ४१८ ।। उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् । गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ।। ४१९ ।। विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने । संप्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ।। ४२० ।। कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः । आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ।। ४२१ ।। दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः । ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ।। ४२२ ।। तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते । मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ।। ४२३ ।। दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः । दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ।। ४२४ ।। पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः । प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ।। ४२५ ।। साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ।। ४२६ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ।। ४२७ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ।। ४२८ ।। बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ।। ४२९ ।। पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः । रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ।। ४३० ।। पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् । मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ।। ४३१ ।। शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् । तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ।। ४३२ ।। सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः । राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ।। ४३३ ।। तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् । वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ।। ४३४ ।। वारुण्यां धनलाभस्यादादौ चोरभयं पुनः । वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ।। ४३५ ।। तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् । गृहनाशो भवेद्वारे शयनस्थानके मृतिः ।। ४३६ ।। तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् । द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ।। ४३७ ।। तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः । दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ।। ४३८ ।। तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु । सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ।। ४३९ ।। प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः । लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ।। ४४० ।। मधुनीडसमुत्पत्तावेवमेव फलं भवेत् । वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ।। ४४१ ।। खातयोग्यं खनित्वादावापूर्य लवणादिभिः । शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ।। ४४२ ।। पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः । संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ।। ४४३ ।। बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा । गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ।। ४४४ ।। जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् । कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ।। ४४५ ।। राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् । मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ।। ४४६ ।। संशोध्य गोमयाम्भोभिस्संप्रोक्ष्यास्रजवारिणा । देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ।। ४४७ ।। वल्मीकस्य पुरा प्रोक्तदिनसंख्यावशेन तु । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ४४८ ।। महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् । पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ।। ४४९ ।। वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् । अघोरं त्रिशतं जप्त्वा संपूर्णस्नपनं नयेत् ।। ४५० ।। विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते । हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ।। ४५१ ।। कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा । जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ।। ४५२ ।। पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः । इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ।। ४५३ ।। यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् । द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ।। ४५४ ।। क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धयस । स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ।। ४५५ ।। भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते । तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ।। ४५६ ।। तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् । जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ।। ४५७ ।। कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् । शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ।। ४५८ ।। संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् । सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ।। ४५९ ।। अघोरेणजपः पश्चात् कर्तव्यश्शतसंख्यया । तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ।। ४६० ।। पिधानलोपे घोरेण शतसंख्यं जपेद्गुरुः । कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ।। ४६१ ।। उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् । तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ।। ४६२ ।। रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् । तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ।। ४६३ ।। पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा । गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ।। ४६४ ।। तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे । पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ।। ४६५ ।। कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् । शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ।। ४६६ ।। जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ४६७ ।। पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः । तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ।। ४६८ ।। देवं संपूज्य विधिवत् दिशाहोमं तु कारयेत् । इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ।। ४६९ ।। दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः । दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ।। ४७० ।। मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके । राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ।। ४७१ ।। बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा । भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ।। ४७२ ।। संपूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते । कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ।। ४७३ ।। सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् । विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ।। ४७४ ।। तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः । शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ।। ४७५ ।। विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् । समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ।। ४७६ ।। कुम्भे च करके पीठे मृदादिपरिकल्पिते । इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ।। ४७७ ।। तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः । पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ।। ४७८ ।। तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् । एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ।। ४७९ ।। पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् । क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ।। ४८० ।। सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः । पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ।। ४८१ ।। कर्तारं बाधते नित्यं शक्तानपि च बाधते । तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ।। ४८२ ।। ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये । उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ।। ४८३ ।। एककालं द्विकालं वा त्रिकालं जपसंयुतम् । गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ।। ४८४ ।। सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा । सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ।। ४८५ ।। साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा । स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ।। ४८६ ।। जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् । वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ।। ४८७ ।। भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च । कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ।। ४८८ ।। पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि । ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ।। ४८९ ।। शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः । विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ।। ४९० ।। अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः । नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ।। ४९१ ।। तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च । व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ।। ४९२ ।। ततस्थानं देवदेवस्य शिवस्यामिततेजसः । योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ।। ४९३ ।। वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा । सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ।। ४९४ ।। निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा । पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ।। ४९५ ।। ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च । गणपस्कन्दनन्दीश वसूनां नागपस्य च ।। ४९६ ।। मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः । कल्पितं स्थानमीशस्य योग्यमेव न संशयः ।। ४९७ ।। सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् । साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ।। ४९८ ।। ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति । ते तु दुर्मतयः प्रोक्तास्सुचिरं संचरन्त्यलम् ।। ४९९ ।। रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः । मदैक शरणा ये तु तैः पूज्योहं न चापरैः ।। ५०० ।। अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ।। ५०१।। तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् । सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ।। ५०२ ।। देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ।। ५०३ ।। प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै । तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ।। ५०४ ।। बालाबलानां बद्धानामातुराणां च पादतः । प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ।। ५०५ ।। ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ।। ५०६ ।। अतो बालनरस्यास्य नापराधो न पातकम् । राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ।। ५०७ ।। देश आदिश्यते येन दिशिकस्त्विति कथ्यते । देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ।। ५०८ ।। भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च । हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ।। ५०९ ।। नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते । सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ।। ५१० ।। प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः । कामतस्तूपवासश्च लुप्ते देवार्चने यदा ।। ५११ ।। एककालार्चके वापि द्विकालाद्यर्चकेपि वा । एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ।। ५१२ ।। उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते । बहुकालार्चकस्यापि द्विकालादि विलोपने ।। ५१३ ।। लुप्तसंख्यावशेनैव प्रायश्चित्तं समाचरेत् । द्विदिनादि विलोपे तु बहुरूपसहस्रतः ।। ५१४ ।। प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने । अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ।। ५१५ ।। संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते । स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ।। ५१६ ।। नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः । लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ।। ५१७ ।। हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः । सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ।। ५१८ ।। साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् । द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ।। ५१९ ।। एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् । जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ।। ५२० ।। संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः । अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ।। ५२१ ।। द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः । संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र संमता ।। ५२२ ।। अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा । प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ।। ५२३ ।। ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः । क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ।। ५२४ ।। लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् । पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ।। ५२५ ।। श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः । त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ।। ५२६ ।। मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् । रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ।। ५२७ ।। तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् । विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ।। ५२८ ।। तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् । विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ।। ५२९ ।। स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् । प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ।। ५३० ।। वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् । चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ।। ५३१ ।। लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि । नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ।। ५३२ ।। अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि । विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ।। ५३३ ।। अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् । प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ।। ५३४ ।। अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् । व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ।। ५३५ ।। गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । अविधाय पवित्रं तदाषाढादिषु पञ्चसु ।। ५३६ ।। लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् । पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ।। ५३७ ।। अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते । जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ।। ५३८ ।। शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते । सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ।। ५३९ ।। स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः । नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ।। ५४० ।। शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् । अक्षमालां कराद्भ्रष्टां आलयेद्गन्धवारिणा ।। ५४१ ।। गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि । घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ।। ५४२ ।। पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा । शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। ५४३ ।। प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् । केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ।। ५४४ ।। अघोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ।। ५४५ ।। अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् । पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ।। ५४६ ।। द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् । महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ।। ५४७ ।। एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् । निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ।। ५४८ ।। भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने । अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ।। ५४९ ।। यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः । निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ।। ५५० ।। लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ।। ५५१ ।। चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् । ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ।। ५५२ ।। नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।। ५५३ ।। पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ।। लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् । स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ।। ५५५ ।। यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा । पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ।। ५५६ ।। भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा । देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ।। ५५७ ।। व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् । करोति यस्य संमूढा मद्धनस्तेयकृन्मतः ।। ५५८ ।। मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा । यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ।। ५५९ ।। त एवातीत दुष्टामद्भक्षितादपि सोषदाः । तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ।। ५६० ।। नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः । निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।। ५६१ ।। सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् । मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ।। ५६२ ।। स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते । भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ।। ५६३ ।। शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति । अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ।। ५६४ ।। भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः । मद्देहधारिणो लोके देशिका मत्परायणाः ।। ५६५ ।। मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु । तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ।। ५६६ ।। सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् । प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ।। ५६७ ।। मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् । अघोरायुत जापश्च गोमयालिप्तमण्डले ।। ५६८ ।। पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् । प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ।। ५६९ ।। अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् । एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ।। ५७० ।। उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् । महापातकिनां प्रोक्तं महाव्रतमिहागमे ।। ५७१ ।। अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५७२ ।। महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः । कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ।। ५७३ ।। ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते । तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ।। ५७४ ।। अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् । गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ।। ५७५ ।। दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् । अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ।। ५७६ ।। पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् । माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ।। ५७७ ।। सामान्यानि विजानीयाद् मद्यान्येकादशैव तु । द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ।। ५७८ ।। पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् । एकादशसुरापाने कुर्याद्व्रतदशांशकम् ।। ५७९ ।। सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः । गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ।। ५८० ।। द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते । सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ।। ५८१ ।। सुवर्णस्यापहारेण शतादभ्याधिके वधः । क्षत्रियादिषु संप्रोक्तो विप्रस्य न वधः क्वचित् ।। ५८२ ।। निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् । दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ।। ५८३ ।। शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु । शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ।। ५८४ ।। रजतस्यापहरणे धान्यस्य द्विगुणं मतम् । सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ।। ५८५ ।। दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि । गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ।। ५८६ ।। याजनं योनि संबन्धं स्वाध्यायं सहभोजनम् । पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ।। ५८७ ।। वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् । अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ।। ५८८ ।। मातृष्वसा च भगिनी स्वसुता च पितृष्वसा । आसां च गमनं विप्रास्त्वनुपातकमीरितम् ।। ५८९ ।। विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः । चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ।। ५९० ।। लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः । द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ।। ५९१ ।। तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु । दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ।। ५९२ ।। संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति । देवक्षेत्रापहरणं देवोपहरणाहृतिः ।। ५९३ ।। शिवागमापहारश्च शिवलिङ्गापहारणम् । शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ।। ५९४ ।। उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् । पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ।। ५९५ ।। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । सगोत्रा मातुलानीं च समान प्रवरा च या ।। ५९६ ।। तासां संगमनं चोपपातकं समुदाहृतम् । परिवित्तिः परिवेत्ता तयोर्याजनमेव च ।। ५९७ ।। तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् । गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त संग्रहः ।। ५९८ ।। पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने । उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ।। ५९९ ।। भूवेश्मरत्नवापीनां कुजानामपहर्तृता । वापीकूपतटाकादेर्हरणं तूपपातकम् ।। ६०० ।। गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः । उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ।। ६०१ ।। तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे । तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ।। ६०२ ।। तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् । तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ।। ६०३ ।। उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् । गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ।। ६०४ ।। गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति । गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ।। ६०५ ।। गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् । रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ।। ६०६ ।। पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । याजने पादहीनं स्याच्चरेत् सर्वं निपातने ।। ६०७ ।। औषधं लवणं चैव स्नेहपिण्याहभोजनम् । अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।। ६०८ ।। न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् । बलाभावाद्विपद्येत गौश्चरन्ती कथंचन ।। ६०९ ।। जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ।। ६१० ।। शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा । शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ।। ६११ ।। उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् । कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ।। ६१२ ।। नास्तिक्यमभिचारश्चायाज्य याजनमेव च । नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ।। ६१३ ।। मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् । तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ।। ६१४ ।। भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् । वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ।। ६१५ ।। नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् । वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ।। ६१६ ।। स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् । स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ।। ६१७ ।। पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् । शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ।। ६१८ ।। विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् । रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ।। ६१९ ।। रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् । विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ।। ६२० ।। चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् । व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ।। ६२१ ।। विप्रस्त्रीगमने चैवोपव्रतंतु समाचरेत् । पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ।। ६२२ ।। ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि । विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ।। ६२३ ।। उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् । महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ।। ६२४ ।। एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् । शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ।। ६२५ ।। शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये । कन्यासंगमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ।। ६२६ ।। वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? । तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ।। ६२७ ।। अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये । प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ।। ६२८ ।। अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु । रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ।। ६२९ ।। नदीशैलूषिकी वेणुजीवनी गमने व्रतम् । पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ।। ६३० ।। अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः । गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ।। ६३१ ।। न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् । न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ।। ६३२ ।। न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् । शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ।। ६३३ ।। उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः । उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ।। ६३४ ।। सहस्रमयुतं चैव जपो मध्यमहीनयोः । द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ।। ६३५ ।। जघन्योच्छिष्ट संपर्कादेवं शतगुणं भवेत् । जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ।। ६३६ ।। शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् । स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ।। ६३७ ।। सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् । स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ।। ६३८ ।। तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः । निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ।। ६३९ ।। कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः । सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ।। ६४० ।। यनश्ययासनानां च कांस्यरीतिशिलायसाम् । त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ।। ६४१ ।। व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् । वानरश्वमृगाणां च विष्ठाशनवराहयोः ।। ६४२ ।। दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते । शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ।। ६४३ ।। हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये । उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ।। ६४४ ।। कुक्कुटश्येन भासानामथ हंसमयूरयोः । पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ।। ६४५ ।। कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः । पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ।। ६४६ ।। मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः । नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ।। ६४७ ।। वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा । पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ।। ६४८ ।। भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः । तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ।। ६४९ ।। अनस्थिमत्सु चैतेषु शताघोरजपोमतः । अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ।। ६५० ।। हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा । पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ।। ६५१ ।। कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् । गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ।। ६५२ ।। योगंकृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् । प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ।। ६५३ ।। अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते । कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ।। ६५४ ।। अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् । गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ।। ६५५ ।। तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् । पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ।। ६५६ ।। पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः । मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ।। ६५७ ।। निषेधाभावतस्तस्य दोषस्तत्र न जायते । नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ।। ६५८ ।। गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् । गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ।। ६५९ ।। काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः । सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ।। ६६० ।। पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् । घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ।। ६६१ ।। कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् । रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ।। ६६२ ।। धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् । पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ।। ६६३ ।। अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् । क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ।। ६६४ ।। अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतंजपेत् । अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ।। ६६५ ।। उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः । दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ।। ६६६ ।। तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते । तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ।। ६६७ ।। स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति । आचम्यादीक्षितेनापि सजातीशशतं जपेत् ।। ६६८ ।। सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् । तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ।। ६६९ ।। इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु । शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ।। ६७० ।। भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु । स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ।। ६७१ ।। इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये । त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ।। ६७२ ।। पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः । कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ।। ६७३ ।। गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च । कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ।। ६७४ ।। ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् । रजकादि प्रवेशादावयुतार्धमजानतः ।। ६७५ ।। बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः । हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ।। ६७६ ।। शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा । भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ।। ६७७ ।। उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता । प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ।। ६७८ ।। तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् । दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ।। ६७९ ।। चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा । शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ।। ६८० ।। तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः । उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ।। ६८१ ।। विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् । तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ।। ६८२ ।। शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् । शरावपत्र पुटक प्रभृतीनां च भोजने ।। ६८३ ।। शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते । सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ।। ६८४ ।। गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः । बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ।। ६८५ ।। प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा । ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ।। ६८६ ।। विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा । श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ।। ६८७ ।। नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः । उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ।। ६८८ ।। जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना । अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ।। ६८९ ।। निर्माल्यसंकरे कामात् संपूज्यश्चण्डनायकः । तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ।। ६९० ।। अकामतोवा संपर्कात् केवलस्य शतं भवेत् । वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ।। ६९१ ।। जलजानां च सर्वेषां वैणवानां तथाम्भसा । स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ।। ६९२ ।। शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् । मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ।। ६९३ ।। फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् । क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ।। ६९४ ।। अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते । परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ।। ६९५ ।। प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा । समयानां प्रमादे तु शक्तिजापः प्रशस्यते ।। ६९६ ।। वस्त्रशययासनादीनां स्तेये गायत्रिकाशतम् । गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ।। ६९७ ।। शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः । म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ।। ६९८ ।। सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने । पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ।। ६९९ ।। अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ।। ७०० ।। देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ।। ७०१ ।। अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। ७०२ ।। आततायिनमायान्तमपि शस्त्रान्तगं रणे । जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ।। ७०३ ।। युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा विचारतः ।। ७०४ ।। असूर्या नाम ये लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ।। ७०५ ।। न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् । यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ।। ७०६ ।। ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् । शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ।। ७०७ ।। तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् । शैवं पाशुपतं कालामुखं कापालधारिणम् ।। ७०८ ।। यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना । ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ।। ७०९ ।। शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ । तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ।। ७१० ।। अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ।। ७११ ।। देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः । तथैवेह समुद्दिष्टमभिशापो महात्मनि ।। ७१२ ।। औषधं स्नेहमाहारं ददतो बन्धकस्य च । प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ।। ७१३ ।। प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् । निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ।। ७१४ ।। नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः । तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ।। ७१५ ।। तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् । तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ।। ७१६ ।। किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् । द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ।। ७१७ ।। क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः । ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ।। ७१८ ।। विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् । लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ।। ७१९ ।। मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा । मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ।। ७२० ।। उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा । राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ।। ७२१ ।। वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता । यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ।। ७२२ ।। दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः । सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ।। ७२३ ।। सर्वलोपेकृते तस्य महादोषः प्रजायते । शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ।। ७२४ ।। अनेन विधिना येन सर्वैनैमित्तिकादितः । विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ।। ७२५ ।। शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् । वृषाधिवासने हीने ध्वजे वारोपिते सति ।। ७२६ ।। गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् । वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ।। ७२७ ।। किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् । ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ।। ७२८ ।। शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् । ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ।। ७२९ ।। शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये । वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ।। ७३० ।। शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् । दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ।। ७३१ ।। मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा । स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ।। ७३२ ।। स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् । दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि संभवे ।। ७३३ ।। शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् । ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयंकरः ।। ७३४ ।। सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् । शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ।। ७३५ ।। एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् । ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ।। ७३६ ।। अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते । रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ।। ७३७ ।। आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् । पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ।। ७३८ ।। शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् । ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ।। ७३९ ।। पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः । पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ।। ७४० ।। मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा । केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ।। ७४१ ।। लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् । दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ।। ७४२ ।। दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः । रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ।। ७४३ ।। दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः । प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ।। ७४४ ।। उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् । ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ।। ७४५ ।। आवर्तयेदघोरेण त्रिशतं देशिकस्तदा । घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ।। ७४६ ।। आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा । ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ।। ७४७ ।। वृषकुम्भविभेदादिकारणात् केतुरोहणम् । कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ।। ७४८ ।। मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे । तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ।। ७४९ ।। एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् । आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ।। ७५० ।। एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः । ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ।। ७५१ ।। तदधो लम्बिते केतौ शान्तिहोमं विधाय च । आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ।। ७५२ ।। भेरीसंताडने हीने लोको मूकः प्रजायते । शान्तिहोमं तदा कृत्वा भेरीसंताडयेत्ततः ।। ७५३ ।। उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् । देवतावाहने हीने देवादीनामसन्निधिः ।। ७५४ ।। शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् । ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ।। ७५५ ।। अनाहूतास्तदा दोषो नान्यानाहूतिरापदि । पताकारोपणोपेते देवानावाहयेन्न वा ।। ७५६ ।। भेरीताडनकार्यं तु तद्वदेव समाचरेत् । भेरीचर्मादि भेदादौ कोणच्छेदादि संभवे ।। ७५७ ।। अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् । तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ।। ७५८ ।। कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् । तत्काले बलिकाले वा वादके पतिते भुवि ।। ७५९ ।। शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये । भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ।। ७६० ।। शान्तिहोमं तदा कृत्वा भेरीं संपूजयेद्धृदा । यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ।। ७६१ ।। विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् । कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ।। ७६२ ।। प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् । ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ।। ७६३ ।। शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये । विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ।। ७६४ ।। स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे । उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ।। ७६५ ।। नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् । यागोपकरणेऽप्येवं किं तु यागावसानके ।। ७६६ ।। शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च । प्रधानाधममध्यानां करणानां विलोपने ।। ७६७ ।। शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् । विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ।। ७६८ ।। पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये । शिवकुंभेषुवर्धन्यावृतेषु घटेषु वा ।। ७६९ ।। उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् । भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ।। ७७० ।। शान्तिहोममघोराणुजपं पञ्चशतं चतुः । शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ।। ७७१ ।। कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् । वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ।। ७७२ ।। स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः । कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ।। ७७३ ।। शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये । कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ।। ७७४ ।। जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः । पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ।। ७७५ ।। सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् । हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ।। ७७६ ।। स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये । शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ।। ७७७ ।। जपेद्घोरं त्रिशतं तदङ्गानां विलोपने । तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ।। ७७८ ।। पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् । आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ।। ७७९ ।। बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् । त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ।। ७८० ।। उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् । स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ।। ७८१ ।। वृषिकाले महावाते राष्ट्रक्षोभे महाभये । ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ।। ७८२ ।। स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः । एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ।। ७८३ ।। अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः । तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ।। ७८४ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ।। ७८५ ।। वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् । बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ।। ७८६ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ।। ७८७ ।। तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् । आलये बलियाने वा तस्यां देवालयावृतौ ।। ७८८ ।। देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः । तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ।। ७८९ ।। नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः । इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ।। ७९० ।। ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते । अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ।। ७९१ ।। अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो । तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ।। ७९२ ।। अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः । एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ।। ७९३ ।। अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् । अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ।। ७९४ ।। हीनेविताने घोरणोः शतसंख्यं जपं नयेत् । ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसंख्यया ।। ७९५ ।। ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः । बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ।। ७९६ ।। तद्दिनाधिपमन्त्रेण जपेतद्विशतसंख्यया । बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ।। ७९७ ।। बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् । मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ।। ७९८ ।। देवालये बलिर्हीनो यदाघोरं शतं जपेत् । यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ।। ७९९ ।। तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् । विधाय यानकाले वातदन्ते वा बलिं नयेत् ।। ८०० ।। अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि । शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ।। ८०१ ।। तच्छेदभेदपातादौ तथैव फलमादिशेत् । तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ।। ८०२ ।। विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् । नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ।। ८०३ ।। पतितं चेत्यजेदन्नं संपाद्यान्नं समाचरेत् । समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ।। ८०४ ।। बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् । भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ।। ८०५ ।। दशायुधानि वा भूमौ संभूतानि पतन्तिचेत् । निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ।। ८०६ ।। च्छेदभेदादियुक्तानि यदि दारुमयानि वा । तथान्यानि समापाद्य संभूतानीतराणि वा ।। ८०७ ।। संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् । लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ।। ८०८ ।। शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च । धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ।। ८०९ ।। च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् । उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ।। ८१० ।। समाप्योत्सवकार्यं तु तत्संधायानुकर्मवत् । संप्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ।। ८११ ।। यानकालेऽन्यकाले वा बेरादौ पतिते सति । राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ।। ८१२ ।। अव्यङ्गे पतिते बेरे पतिते वा करादधः । द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ।। ८१३ ।। संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती । स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ।। ८१४ ।। नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् । अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ।। ८१५ ।। अधिवासादिकं कर्म सद्य एव समाचरेत् । मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ।। ८१६ ।। पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् । उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ।। ८१७ ।। तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् । कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ।। ८१८ ।। धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः । गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ।। ८१९ ।। ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि । प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ।। ८२० ।। उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च । लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ।। ८२१ ।। उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः । बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ।। ८२२ ।। शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा । कुर्वाणश्चेत् क्रियांभूमौ पतितो देशिकस्तदा ।। ८२३ ।। ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् । जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ।। ८२४ ।। बलिदातरि तत्काले पतिते तं शतं जपेत् । आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ।। ८२५ ।। गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः । पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ।। ८२६ ।। पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः । अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ।। ८२७ ।। प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः । विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ।। ८२८ ।। निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् । रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ।। ८२९ ।। शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् । यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ।। ८३० ।। सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् । तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ।। ८३१ ।। सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् । आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ।। ८३२ ।। पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् । विनोद दर्शन काले जातश्चेत् कलहो महान् ।। ८३३ ।। शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् । विनोददर्शने हीने संहिताहोममाचरेत् ।। ८३४ ।। नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् । यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ।। ८३५ ।। देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया । स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ।। ८३६ ।। हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते । प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ।। ८३७ ।। तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह । शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ।। ८३८ ।। नृत्तमूर्त्युत्सवे हीने पूर्वसंकल्पिते नराः । भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ।। ८३९ ।। नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् । यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ।। ८४० ।। शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् । मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ।। ८४१ ।। शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् । हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ।। ८४२ ।। तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति । निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ।। ८४३ ।। एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति । अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ।। ८४४ ।। चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् । शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ।। ८४५ ।। विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः । चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ।। ८४६ ।। महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः । शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ।। ८४७ ।। पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा । कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ।। ८४८ ।। तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः । प्रासादे मनुजे जाते मृते राजो भयं महत् ।। ८४९ ।। मृतादि तत्प्रोदेशांत्तु विसृज्य च बहिस्ततः । प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ।। ८५० ।। तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै । मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ।। ८५१ ।। परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् । प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ।। ८५२ ।। पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् । शैव संभोजनं चान्ते जलसंप्रोक्षणं नयेत् ।। ८५३ ।। स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् । शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ।। ८५४ ।। प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना । अन्तस्सालान्तरे चेद्धि जलसंप्रोक्षणं नयेत् ।। ८५५ ।। अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् । गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ।। ८५६ ।। त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः । अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ।। ८५७ ।। पाकस्थानादि देशेषु मरणादौ च संभवे । पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ।। ८५८ ।। शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा । प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ।। ८५९ ।। धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि । परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ।। ८६० ।। कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् । सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ।। ८६१ ।। सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः । गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ।। ८६२ ।। स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् । केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ।। ८६३ ।। देवतामण्डपे तत्स्थदेवान् संप्रोक्ष्य गव्यतः । संपूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ।। ८६४ ।। एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च । उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ।। ८६५ ।। शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः । ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ।। ८६६ ।। गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् । एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ।। ८६७ ।। वस्त्रशययासनादीनां दाहच्छेदादि संभवे । दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ।। ८६८ ।। कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् । पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ।। ८६९ ।। प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः । वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ।। ८७० ।। महादोष समाख्यातो दोषो नान्यत्र कथ्यते । एवमेव नराणां च तदा स्नानं विधाय च ।। ८७१ ।। जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् । नराणां शिवभक्तानां दीक्षितानां शिवाय वा ।। ८७२ ।। वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये । कारयेत् संहिताहोमघोरं वा जपेत्तथा ।। ८७३ ।। अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे । संप्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ।। ८७४ ।। तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् । संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ।। ८७५ ।। गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् । गव्यसंप्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ।। ८७६ ।। सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् । गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।। ८७७ ।। मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् । श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ।। ८७८ ।। चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके । स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ।। ८७९ ।। तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् । यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ।। ८८० ।। व्यपोह्य पूर्वकुम्भादीन् संपूज्य वृषभध्वजम् । मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ।। ८८१ ।। कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् । कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ।। ८८२ ।। महानसेऽथवा स्थानमम्डपे गोपुरादिके । विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ।। ८८३ ।। प्रपायामग्निदग्धायां संहिताहोममाचरेत् । विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ।। ८८४ ।। अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् । स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ।। ८८५ ।। शान्तिश्च शान्तिहोमश्च संहिता होम एव च । दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ।। ८८६ ।। परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् । उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म संमतम् ।। ८८७ ।। ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् । महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ।। ८८८ ।। प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् । सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ।। ८८९ ।। अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः । अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ।। ८९० ।। आचार्य संकरो राष्ट्रं राजानं नाशयत्यथ । एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ।। ८९१ ।। कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसंकरः ।। ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि कल्पनम् ।। ८९२ ।। दीपनैवेद्य संकॢप्तिर्देवे नित्यार्चनं च यत् । सकलाराधनं यच्च परिवारार्चनादिकम् ।। ८९३ ।। नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् । उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ।। ८९४ ।। तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् । अनेक नरनिर्वत्य कथमेकः करोत्यहो ।। ८९५ ।। शिवः - साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् । नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ।। ८९६ ।। एकाचार्येण कर्तव्यमिति साधूदितं मवा । देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ।। ८९७ ।। तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः । आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ।। ८९८ ।। शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः । रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ।। ८९९ ।। तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् । यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ।। ९०० ।। यत्कृतं राजकार्यं स्यात्तथैवापि संमतम् । अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ।। ९०१ ।। तत्र संकरदोषोऽपि फलमेवं च निष्कृतिः । क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ।। ९०२ ।। सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् । अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः ।। ९०३ ।। शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये । शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ।। ९०४ ।। तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ।। ९०५ ।। इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ।। प्रणवासनमारूढं दुराधर्पं महाबलम् । पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् । कपाल मालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामाला नागाभरण लेलिहम् । सूर्यकोट्ययुताभं च विघ्नसंघातमर्दकम् । भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ।। खड्गचापमहाशूलाभय पाशांश्च दक्षिणे । खेट वाण कपालांश्च वरप्रासौ च वामतः ।। पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् । ध्यात्वैवं उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ।। सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् । वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ।। कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् । मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ।। अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ।। ध्यायेत् सूर्यसहस्राभं अघोरास्त्रं अरिन्दमम् । प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।। त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् । सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ।। चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् । नृत्यमानं महाकार्यं नागाभरणभूषितम् ।। देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३१. एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् । रजन्यां दर्शनं भानोः परराज भयं भवेत् ।। १ ।। विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् । दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ।। २ ।। पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा । संभवे भूमि कंपेतु नृप भङ्गो भवेद् ध्रुवम् ।। ३ ।। मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ संमितैः । तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ।। ४ ।। स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् । सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ।। ५ ।। प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् । नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ।। ६ ।। तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् । सांबं कुंभे च वर्धन्यां परितोष्ठ घटेषु च ।। ७ ।। स सूत्रांबरहैमेषु सप्ततीर्थं च कन्यया । पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ।। ८ ।। कुंभांभः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् । प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ।। ९ ।। सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् । कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ।। १० ।। शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् । तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ।। ११ ।। जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् । प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ।। १२ ।। गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् । पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ।। १३ ।। भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् । सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ।। १४ ।। मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् । मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ।। १५ ।। तद्द्रव्य स्नपनं कुर्यात् भूमिकंपोक्तमार्गतः । विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ।। १६ ।। शैवान् संभोजयेत् प्रश्चादेवं सप्ताहमाचरेत् । लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ।। १७ ।। लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे । संपूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ।। १८ ।। दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः । पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ।। १९ ।। लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा । वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ।। २० ।। शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् । अकस्मात्पतितं धाम मूलादामस्तकं यदि ।। २१ ।। नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् । स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ।। २२ ।। शान्त्युक्त दिन संख्यया वशेनैतत्समाचरेत् । प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ।। २३ ।। त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके । कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ।। २४ ।। प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः । स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ।। २५ ।। नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् । अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ।। २६ ।। निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् । धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ।। २७ ।। अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा । मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ।। २८ ।। धाम स्थानान्तरं प्राप्तं यदिलिंगादिसंयुतम् । नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ।। २९ ।। संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् । शैव संभोजनोपेतां विप्रभुक्ति समन्वितम् ।। ३० ।। लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा । बाणलिंगादिकं वाथ प्रासादेन समन्वितम् ।। ३१ ।। अथवा पूर्वलिंगं चेत् तत्प्रासाद समन्वितम् । अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ।। ३२ ।। हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् । स्थानानन्तर गतं लिंगं उदक् पूर्वत्र विन्यसेत् ।। ३३ ।। तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना । वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ।। ३४ ।। तद् वृक्ष जाति संभूत समिद्भिर्मूर्ति होमकम् । समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ।। ३५ ।। तत्समीपे स्थिते लिंगे स्वयं भूतादिके परम् । स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ।। ३६ ।। स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति संभवम् । तदन्य कुसुमे जाते तदन्य फल संभवे ।। ३७ ।। संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे । सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ।। ३८ ।। तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् । शिवलिङ्गे च बेरे वा पीठे वोष्णादि संभवे ।। ३९ ।। सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् । गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ।। ४० ।। स्नापयेत् परमेशानं पञ्चामृत समन्वितम् । अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ।। ४१ ।। सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः । चन्दनागरु कर्पूरोशीर कुंकुम संयुतम् ।। ४२ ।। गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् । दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ।। ४३ ।। शीतकुंभोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा । नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ।। ४४ ।। जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि । बहुशीर्षक हस्तांघ्रि नासादेहादि संयुतः ।। ४५ ।। स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः । स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ।। ४६ ।। तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् । शिवं संपूज्य विधिवत् दिशाहोमं समाचरेत् ।। ४७ ।। शैवान्संपूज्य विधिवत् शान्तिहोमं समाचरेत् । शिवान्संभोजये देवं नयेद्वा सप्तपञ्चमम् ।। ४८ ।। निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने । नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ।। ४९ ।। युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् । शिवं संपूज्य विधिवत् दिशा होमन्तु कारयेत् ।। ५० ।। स्नापयेत् परमेशानं नव सप्ताह माचरेत् । लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ।। ५१ ।। प्रक्षाल्यास्त्रांबुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् । लिंगे बेरे विमाने वा मण्डपे गोपुरादिषु ।। ५२ ।। परिवारालये साले देवेशास्थानमण्डपे ।। ५२१/२ ।। सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् । नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ।। ५३१/२ ।। तत्र लिंगे च पिठे च बेरे वायं विधिर्भवेत् । दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ।। ५४१/२ ।। अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् । पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ।। ५५१/२ ।। सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् । स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ।। ५६१/२ ।। एवं कृतेतु सप्ताहं अन्ते चोत्सव माचरेत् । प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ।। ५७१/२ ।। अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् । प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ।। ५८१/२ ।। शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् । प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ।। ५९१/२ ।। शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके । सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ।। ६०१/२ ।। प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः । तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ।। ६११/२ ।। ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् । करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ।। ६२१/२ ।। सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे । महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ।। ६३१/२ ।। पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् । धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ।। ६४१/२ ।। गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् । शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ।। ६५१/२ ।। पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् । शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ।। ६६१/२ ।। लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् । क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ।। ६७१/२ ।। तदर्धैवा तदर्धैवा शीत कुंभ स्तदन्तिके । लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ।। ६८१/२ ।। राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा । पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ।। ६९१/२ ।। शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः । चन्दनो शीर कर्पूर कुंकुमा गरु संयुतम् ।। ७०१/२ ।। पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् । संपूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ।। ७११/२ ।। शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि । भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ।। ७२१/२ ।। संप्रोक्ष्यस्त्रांबुना भेरी प्रमुखान् गन्धपुष्पकैः । अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ।। ७३१/२ ।। प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने । जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ।। ७४१/२ ।। नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् । रात्राविंद्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ।। ७५१/२ ।। शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने । अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ।। ७६१/२ ।। वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ।। ७७ ।। नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः । अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ।। ७८ ।। प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति । राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ।। ७९ ।। सप्ताहं वाथ पञ्चाहं तत् पात दिन संख्यकम् ! ।। ७९१/२ ।। स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये । क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे ।। ८०१/२ ।। चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते । तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ।। ८११/२ ।। शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् । वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ।। ८२१/२ ।। क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् । तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ।। ८३१/२ ।। लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके । सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ।। ८४१/२ ।। शिवं संपूज्य विधिवत् दिशाहोमन्तु कारयेत् । पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ।। ८५१/२ ।। अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिके । समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ।। ८६१/२ ।। शिवं संपूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् । तद्देशे शान्ति च यद्देशे पतितिस्तरुः ।। ८७१/२ ।। तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके । तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ।। ८८१/२ ।। शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् । तदेक शाखा पतने कलहो भुवि जायते ।। ८९१/२ ।। शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् । द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ।। ९०१/१ ।। शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः । एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ।। ९११/२ ।। शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि । मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ।। ९२१/२ ।। नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः । उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ।। ९३१/२ ।। कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे । अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ।। ९४१/२ ।। सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः । तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ।। ९५१/२ ।। अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः । आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ।। ९६१/२ ।। षड्वेद नेत्रमात्रं तु वेष्टयेत् लिंग पिण्डिके । बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ।। ९७१/२ ।। मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् । एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ९८१/२ ।। राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा । गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ।। ९९१/२ ।। संपूज्य देव देवेशं सप्ताहं शान्ति माचरेत् । पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ।। १००१/२ ।। मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु । तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ।। १०११/२ ।। शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये । प्रत्यहं होमरक्षां च देव देव प्रसादजम् ।। १०२१/२ ।। भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः । सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ।। १०३१/२ ।। गुरुं पुरोहितं वाथ महिषीं गजमेव च । वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ।। १०४१/२ ।। प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा । परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ।। १०५१/२ ।। ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् । मार्जार प्रमुखानां रोदनं यदि जायते ।। १०६१/२ ।। स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये । तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ।। १०७१/२ ।। शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च । शान्ति होमोऽथवा घोर जपो मार्जाररोदने ।। १०८१/२ ।। शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् । अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत् ।। १०९१/२ ।। लिंगे बेरे च पीठादौ खद्योतारोहणे सति । राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ।। ११०१/२ ।। तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् । तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ।। ११११/२ ।। स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा । नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ।। ११२१/२ ।। लिंगमूले च पीठे वा बेरे वा गर्भगेहके । परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ।। ११३१/२ ।। प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये । तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ।। ११४१/२ ।। पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् । कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ।। ११५१/२ ।। संजाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् । चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ।। ११६१/२ ।। सूर्येवास्तंगते तस्मिन् उदयात् पूर्वमेव वा । दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ।। ११७१/२ ।। दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् । शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ।। ११८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः पटलः ३२. द्वात्रिंशत्तमे पटले अनुकर्मविधिः अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् । प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ।। १ ।। हीने जात्यादि संस्थानेमानोन्मानादि हीनए । तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ।। २ ।। मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् । मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ।। ३ ।। तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते । स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ।। ४ ।। शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते । अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ।। ५ ।। मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः । अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ।। ६ ।। नागरे नागरं कुर्याद्वेसरे वेसरं मतम् । द्राविडे च तथा कार्यं वराटादौ तथा मतम् ।। ७ ।। घनेऽघने विमाने तु तथा भवनमिष्यते । भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ।। ८ ।। पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् । द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ।। ९ ।। नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि । नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ।। १० ।। अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् । सुस्थितंदुस्थितं वापि शिवलिङ्गं न चालयेत् ।। ११ ।। जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् । जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ।। १२ ।। जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते । जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ।। १३ ।। तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च । जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ।। १४ ।। भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते । लक्ष्मोज्झितंवज्रहतं संपुटं स्फुटितं तथा ।। १५ ।। आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् । त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ।। १६ ।। जीर्णाद्यैस्संयुतंत्याज्यं पीठं वा कशिला वृषः । अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ।। १७ ।। चलितं चालितं लिङ्गं पतितं पातितं तथा । अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ।। १८ ।। परित्यक्त शिलायोगमपि न स्थापितं भवेत् । तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ।। १९ ।। असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् । जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ।। २० ।। नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् । ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ।। २१ ।। न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः । स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ।। २२ ।। शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् । सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ।। २३ ।। बेरेऽप्येतत्समानं स्यांद्दुष्टे त्वन्यत्प्रयोजयेत् । बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ।। २४ ।। पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् । अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ।। २५ ।। लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः । कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ।। २६ ।। उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् । पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ।। २७ ।। उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् । अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ।। २८ ।। वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः । ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ।। २९ ।। शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् । ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ।। ३० ।। प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् । पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ।। ३१ ।। तमेव स्थापयेत्तत्र पुनरापादनं विना । भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ।। ३२ ।। शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् । रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ।। ३३ ।। वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले । लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ।। ३४ ।। तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् । अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ।। ३५ ।। तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा । सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ।। ३६ ।। ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः । शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ।। ३७ ।। अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् । पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ।। ३८ ।। चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकम्ज् । मण्डपे परिवारे च परिवारालयेऽप्यथा ।। ३९ ।। अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः । अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ।। ४० ।। ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ । सप्रमाणे यथा शास्त्रं विहितालंकृतान्विते ।। ४१ ।। अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते । प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ।। ४२ ।। दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते । तद्वास्तु परितोवृद्धिः समावाविषमापि वा ।। ४३ ।। गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् । ग्रामादीनां गृहादीनां शालानां च विशेषतः ।। ४४ ।। आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः । समं वा योजयेत्तस्मादधिकं वापि योजयेत् ।। ४५ ।। युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् । गृहमालिकयोर्भूमिं संख्ययापरिकल्पयेत् ।। ४६ ।। सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु । उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ।। ४७ ।। हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् । जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ।। ४८ ।। किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् । लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ।। ४९ ।। स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् । यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ।। ५० ।। सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते । तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ।। ५१ ।। पूर्वद्वारसमोपेत मेकतोरण संयुतम् । सर्वालंकार संयुक्तन्तर्भामालादि संयुतम् ।। ५२ ।। तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् । मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ।। ५३ ।। समिदाज्यतिलोपेतं हविषा च समन्वितम् । वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ।। ५४ ।। सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः । ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ।। ५५ ।। अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः । अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ।। ५६ ।। एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् । क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ।। ५७ ।। गत्वात दन्तिकं मंत्री हृदास्नाप्य प्रपूजयेत् । व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ।। ५८ ।। प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः । व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ।। ५९ ।। चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१/२ नमस्कारान्त संयुक्तं हृदयाद्यंग पञ्चकम् । न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ।। ६०१/२ ।। स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः । ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ।। ६११/२ ।। सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति । लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ।। ६२१/२ ।। विद्याविद्येश्वरैर्युक्तश्शंभुरत्रभविष्यति । एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ।। ६३१/२ ।। तस्माद्देवं समावाह्यकुंभे संस्थापयेत् गुरुः । अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ।। ६४१/२ ।। सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते । तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ।। ६५१/२ ।। संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् । प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ।। ६६१/२ ।। ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् । हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ।। ६७१/२ ।। विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् । तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ।। ६८१/२ ।। सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् । शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ।। ६९१/२ ।। भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् । प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ।। ७०१/२ ।। महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् । तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ।। ७११/२ ।। स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा । गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ।। ७२१/२ ।। एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः । मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ।। ७३१/२ ।। सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः । तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ।। ७४१/२ ।। तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके । संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ।। ७५१/२ ।। मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ । तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ।। ७६१/२ ।। मूललिंगन्नलब्धञ्चेद्देशकालानुरोधतः । षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ।। ७७१/२ ।। बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् । द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ।। ७८१/२ ।। कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः । षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ।। ७९१/२ ।। तत्र स्थं बाललिंगाद्यं त्यक्त्वामूलन्तुविन्यसेत् । सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ।। ८०१/२ ।। द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् । नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ।। ८११/२ ।। एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः । किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ।। ८२१/२ ।। परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः । शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ।। ८३१/२ ।। दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः । भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ।। ८४१/२ ।। शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः । तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ।। ८५१/२ ।। आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे । लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ।। ८६१/२ ।। वामदक्षिणसिद्धान्तभेदेन नव भेदिनः । शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ।। ८७१/२ ।। गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः । प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ।। ८८१/२ ।। तैरपि स्थापितं लिंगं मादिशैवस्समर्चयेत् । यामलत्व परंज्ञेयं तच्चमिश्रमिहोच्यते ।। ८९१/२ ।। वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् । वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ।। ९०१/२ ।। सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः । व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ।। ९११/२ ।। वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् । लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ।। ९२१/२ ।। तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् । गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ।। ९३१/२ ।। कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा । बृहस्पतिमतं सांख्यं योगंवैखानसन्तथा ।। ९४१/२ ।। वेदान्ताख्यञ्च मीमांस पुराणन्धर्म शास्त्रकम् । वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ।। ९५१/२ ।। तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् । सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ।। ९६१/२ ।। रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् । तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ।। ९७१/२ ।। लिंगाद्यमादिशैवेन स्थापितं पूजितन्तुवा । तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ।। ९८१/२ ।। तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः । तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ।। ९९१/२ ।। यदितैः पूजितं पश्चात् सेनानिं सेनया सह । अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ।। १००१/२ ।। शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति । तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ।। १०११/२ ।। तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् । राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ।। १०२१/२ ।। शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः । आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ।। १०३१/२ ।। तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः । तत् स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ।। १०४१/२ ।। शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः । कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ।। १०५१/२ ।। पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् । पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ।। १०६१/२ ।। अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् । कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ।। १०७१/२ ।। मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च । महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ।। १०८१/२ ।। ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः । तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ।। १०९१/२ ।। कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ।। ११० ।। पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् । लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ।। १११ ।। अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः । जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ।। ११२ ।। एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् । स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ।। ११३ ।। पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः । पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ।। ११४ ।। कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् । स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ।। ११५ ।। लिंगसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः । लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ।। ११६ ।। शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् । गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ।। ११७ ।। देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् । स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ।। ११८ ।। च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते । दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ।। ११९ ।। अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् । शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः।। १२० ।। ब्राह्मणान् भोजयेत् पश्चात् शैवान् संभोजयेत्ततः । प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ।। १२१ ।। मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा । मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ।। १२२ ।। सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये । आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ।। १२३ ।। तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् । सर्वेरंगैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ।। १२४ ।। लिङ्गे स्वायंभुवादौ तु जीर्णादौ शान्तिरीरितः । सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ।। १२५ ।। प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते । उत्सेधेरविमात्रान्तंक्षन्तव्यञ्चाङ्गुलादिकम् ।। १२६ ।। द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यंगेषुमात्रकम् । ग्रामखेटपुरादौतुदंडान्तं परिकीर्तितम् ।। १२७ ।। सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके । चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ।। १२८ ।। द्वाराद्यंगेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके । तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ।। १२९ ।। इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः ।। ३३. त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः काम्ययोग विधानंतु प्रवक्ष्यामि समासतः । काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ।। १ ।। सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः । तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ।। २ ।। व्यालबद्धजटाचूटः कपालदलमण्डितः । सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ।। ३ ।। चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् । महाकायो महादंष्ट्री किङ्किणीखसंयुतः ।। ४ ।। महाशूलाग्र संप्रोत महासुर विनाशनः । खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ।। ५ ।। वराभयकपालाहि पाशप्रासगदायकरः । दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ।। ६ ।। स्वसेना रक्षको नित्यं परसेनाभयंकरः । वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ।। ७ ।। सर्वदोष विनाशे तु समर्थो भक्तवत्सलः । असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ।। ८ ।। आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ।। ९ ।। चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः । त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ।। १० ।। सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः । ओं जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ।। ११ ।। एष एवामृतेशस्स्यादादौ कूटयुतो न वा । रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ।। १२ ।। हकारेण शरीरं तु रसमित्यादितः पठेत् । अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ।। १३ ।। आदौ स्याद्देवदेवेशेति (पदं) समुद्धरेत् । प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ।। १४ ।। पीठं जुंकारकॢप्तंस्यान्मूर्तिरों जुंसतो भवेत् । मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ।। १५ ।। कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् । अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ।। १६ ।। सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ।। १७ ।। व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः । त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ।। १८ ।। दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। १९ ।। अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो । न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ।। २० ।। भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् । तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ।। २१ ।। अमृतेशेन देवेन जलं संग्राह्य यत्नतः । शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ।। २२ ।। क्षीरेण सहसंपृक्तदूर्वाकाण्डमखण्डितम् । ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ।। २३ ।। देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् । नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ।। २४ ।। मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् । प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ।। २५ ।। कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम् । गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ।। २६ ।। स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान पुरादीनि न संशस्यः ।। २७ ।। किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा । अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ।। २८ ।। रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ।। २९ ।। स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् । किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ।। ३० ।। सप्तायुध समायुक्तं सर्वाभरणभूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। ३१ ।। धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् । मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ।। ३२ ।। पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् । पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ।। ३३ ।। शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् । दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ।। ३४ ।। घण्टां खेटं कपालं च शत्रुसंक्षय संमुखम् । अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ।। ३५ ।। अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः । ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिंदमम् ।। ३६ ।। प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।। ३७ ।। सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ।। ३८ ।। नृत्यमानं महाकायं नागाभरणभूषितम् । देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३९ ।। प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् । घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ।। ४० ।। ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः । चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ।। ४१ ।। ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् । घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ।। ४२ ।। प्रान्ते स्यादूहुंफडित्येवं चतुर्थ्यन्तं हृदादिकम् । नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ।। ४३ ।। परचक्रप्रथमने महाव्याधि प्रकोपने । शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ।। ४४ ।। किमनेन बहूक्तेन भयकालेऽप्युपस्थिते । मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ।। ४५ ।। परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् । मन्त्राणि योगयुक्तानि पावके शलभा यथा ।। ४६ ।। तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् । अनेनैव प्रकारेण ध्यात्वा संपूजयेद् गुरुः ।। ४७ ।। अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् । दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ।। ४८ ।। विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् । चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ।। ४९ ।। अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् । एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ।। ५० ।। हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् । संग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ।। ५१ ।। एवमभ्यर्चयेद्वोऽसौ सोऽयंमत्सदृशोमतः । तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ।। ५२ ।। सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः । पालनीयोविशेषेण साधकाधिपतिस्सदा ।। ५३ ।। दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते । वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ।। ५४ ।। फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि । ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ।। ५५ ।। दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् । मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ।। ५६ ।। स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः । नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ।। ५७ ।। शुद्धस्फटिकसंकाशं प्रसन्नवदनान्वितम् । गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ।। ५८ ।। व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् । शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ।। ५९ ।। वामे पद्मं च वह्निं च वरदाभयदं तु वा । पुस्तकेन युतंवाथ दधानं नयनत्रयम् ।। ६० ।। महावृषभसंयुक्तमनिसंघैस्समावृतम् । ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ।। ६१ ।। यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् । चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। ६२ ।। अथवान्य प्रकारेण भैरवं विकृताननम् । ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ।। ६३ ।। संग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः । अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ।। ६४ ।। यत् किंचित् क्रियते कर्म त्रैलोक्ये येन केनचित् । रहितो मन्त्रराजेन नैव सिध्यति साधकः ।। ६५ ।। आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पधस्तम् वक्त्रैर्युक्तं चतुर्भिः परमरुण चतुश्शक्तिभिर्व्याप्तदिक्कम् । कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालं भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि खट्वाङ्ग हस्तम् ।। ६६ ।। ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् । विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ।। ६७ ।। भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः । नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ।। ६८ ।। दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः । तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ।। ६९ ।। कामाचररतो वापि भावयेद्भास्करं सदा । वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।। ७० ।। सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् । ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ।। ७१ ।। शत्रुकृत्यादि संभूतरोगानीक विनाशनम् । चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ।। ७२ ।। स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु । ओं ह्रींकारं समुद्धृत्य तदन्ते कृष्णवाससे ।। ७३ ।। ततश्च सिंहवदने महावदन इत्यपि । महाभैरविवर्णेच सर्वशत्रुपदं तथा ।। ७४ ।। कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ।। ७५ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ।। ७६ ।। सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ।। ७६१/२ ।। ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ।। ७७१/२ ।। प्रत्यंगिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः । तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यंगिरात्मकः ।। ७८१/२ ।। प्रत्यंगिरेयं विख्यात श्शतवर्ण स्वरूपिणी । आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ।। ७९१/२ ।। दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् । तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ।। ८०१/२ ।। त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः । नमस्वाहावषड्वौषट् हुंपट्युक्ता हृदादयः ।। ८११/२ ।। सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् । कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ।। ८२१/२ ।। वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ।। ८३१/२ ।। अट्टहासादि शब्दैस्तु गर्जितामुदितामपि । कृष्णांबर धरां सासृक् मांसास्यां नर्तनेरताम् ।। ८४१/२ ।। मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् । कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ।। ८५१/२ ।। देवींध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् । ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ।। ८६१/२ ।। विद्याधरत्वलाभाय कृष्णागरुयुतं परम् । अथवा नाभिकंजल्कं जुहुयात् साधकोत्तमः ।। ८७१/२ ।। कदंबकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् । प्रियंगु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ।। ८८१/२ ।। करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् । खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ।। ८९१/२ ।। सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् । पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ।। ९०१/२ ।। धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् । कृष्णनीलं घृतं चैव स्तंभयेदभिचारतः ।। ९११/२ ।। रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् । कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ।। ९२१/२ ।। होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् । महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ।। ९३१/२ ।। गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् । जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ।। ९४१/२ ।। कुंकुमारोचनाश्चैव कार्पास फल गुग्गुलुः । वेणुनाभेदनं सद्यो भवेदेव न संशयः ।। ९५१/२ ।। निम्बपुष्पं तथाब्रीहिं निंबतैलसमायुतम् । अर्कक्षीर समायुक्तं होमयेदपिपारतम् ।। ९६१/२ ।। राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः । घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ।। ९७१/२ ।। दुकूल चरुलाजांश्च मधुत्रय समन्वितान् । औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ।। ९८१/२ ।। जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् । अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ।। ९९१/२ ।। मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् । विषमज्वर नाशाय चूतपत्राणि होमयेत् ।। १००१/२ ।। घृतेन सहसार्द्राणि प्लुतमृत्युंजिता तथा यथा । सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ।। १०११/२ ।। वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये । पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ।। १०२१/२ ।। सहस्रमयुतं वाथ लक्षन्तत्रिगुणंन्तु वा !! ।। १०३ ।। इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः त्रयस्त्रिंशतितमः पटलः ।। रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टक समोपेतं उर्ध्वकेशं सुदंष्ट्रिणम् ।। स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् । किंकिणीमालया भ्राजात् पादनुपूरसंयुतम् ।। सप्तायुध समायुक्तं सर्वाभरण भूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम् मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम् पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम् शूलमूलं च वेतालं खङ्गं हमरुगं शुभम् दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् । घण्टां खेटं कपालं च शत्रुसक्षय संमुखम् अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रं अर्चयेत् ।। तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् । व्यालबद्धजटाचूटः कपालदलमण्डितः ।। सुरपिंगेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः । चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ।। माकायो माहदंष्ट्री किंकिणीरवसंयुतः । महाशूलाग्रसंप्रोत महासुर विनाशनः ।। खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् । वराभयकपालाहि पाश प्रासगदाकरः ।। दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ।। अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ।। सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ।। व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः । त्रिशूलं चाभयं (डमरुं) चोर्ध्वे सुधाकलशमध्ययोः ।। दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे । आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् । वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ।। कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् । भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ।। ३४. चतुस्त्रिंशत्तमे पटले संप्रोक्षण विधिः । संप्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् । आवर्तंचेत्यनावर्तं पुनरावर्तनन्तथा ।। १ ।। ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् । मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ।। २ ।। तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते । पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ।। ३ ।। मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि । लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ।। ४ ।। मूलास्यात्समादाय स्थाप्य बालालये पुनः । तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ।। ५ ।। प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः । स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ।। ६ ।। चर्मच्छेदेऽहीने च भूषणादि विहीनके । अम्बुजासनहीने च स्थलकर्मविहीनके ।। ७ ।। विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते । यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ।। ८ ।। आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् । लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ।। ९ ।। न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः । कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ।। १० ।। आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् । लक्षणोद्धारणं तोयाधिवासः शयनं तथा ।। ११ ।। अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह । सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ।। १२ ।। ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम् । रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ।। १३ ।। शययाधिवासनं विप्रा विना व बेरकर्मणि । नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ।। १४ ।। प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् । स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ।। १५ ।। एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे संप्रोक्षण विधिः चतुर्स्त्रिंशतिमः पटलः ।। ३५. पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ।। १ ।। विष्ण्वंश समतुङ्गं च छाया दोष विवर्जितम्) । पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ।। २ ।। ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः । लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ।। ३ ।। सप्तविंशतिमानानि षड्विंशत्यंश मानकम् । लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ।। ४ ।। तदन्तरे तथा भक्ते सप्तविंशति मानकम् । लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ।। ५ ।। तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः । षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ।। ६ ।। हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः । लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ।। ७ ।। अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते । षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ।। ८ ।। एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् । विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ।। ९ ।। चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् । तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ।। १० ।। नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः । मानुषे पीठमानं स्यात्स्वयंभूतादिकेऽपि च ।। ११ ।। चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते । लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ।। १२ ।। विस्तारमध्यसप्तांशे मानं सप्तदशैव हि । मूलं प्रोक्त प्रमाणां च संग्राह्यं द्विजसत्तमाः ।। १३ ।। विस्तारार्धसमंतुङ्गं समं वाधाधिकं तु वा । प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ।। १४ ।। स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः । पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ।। १५ ।। वेदाश्रमं वर्तुलं वाथ संमतं पीठ रूपकम् । लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ।। १६ ।। बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा । कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ।। १७ ।। मानं सप्तदशाख्यातं समाश्रं वायतं तु वा । द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ।। १८ ।। पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते । विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ।। १९ ।। विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः । पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ।। २० ।। वसुधाभाजितेमध्ये नवमानमिति स्मृतम् । बिंबोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ।। २१ ।। बेरायामाष्टभागैकमपरं परिकीर्तितम् । अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ।। २२ ।। स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः । द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ।। २३ ।। आसने पद्मविस्तारस्त्रयोविंशति मात्रतः । अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ।। २४ ।। त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते । द्वादशांश विहीनेऽथ मध्ये षोडशधाकृते ।। २५ ।। विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः । विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ।। २६ ।। वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् । त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ।। २७ ।। एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् । शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ।। २८ ।। चतुरष्टदलोपेतं विकारार्क दलं तु वा । विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ।। २९ ।। अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् । त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ।। ३० ।। विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा । संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ।। ३१ ।। सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् । एकपीठमनेकेषां यदि शोभावशान्नयेत् ।। ३२ ।। वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा । पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ।। ३३ ।। अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने । षोडशांशे तु मानेन पादुकं परिकीर्तितम् ।। ३४ ।। वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् । वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ।। ३५ ।। षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ।। ३६ ।। वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ।। ३७ ।। एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। ३८ ।। कर्णस्त्वेकेनकंपः स्याद् भूतांशैरूर्ध्वपङ्कजम् । द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ।। ३९ ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४० ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४१ ।। व्योमांश मूर्ध्वकंपं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ।। ४२ ।। द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका । शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ।। ४३ ।। पञ्चविंशति भागेतु व्योमांश पादुकं भवेत् । पद्ममेकेन भागे तु व्योमांश पादुकं भवेत् ।। ४४ ।। जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः । गलमर्धंत्रिभागेन पद्मं द्वयंशेन वृत्तकम् ।। ४५ ।। कुमुदं पद्मभागेन वाजनं व्योम भागतः । भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ।। ४६ ।। कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् । एकेनकंपमर्धेन घृतवार्यभिधीयते ।। ४७ ।। पीठं शांभवमाख्यातमन्यथान्यद्विधीयते । एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ।। ४८ ।। भागेन पादुकं वेद भागेन जगतीमता । एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ।। ४९ ।। कुमुदं पद्मंशेन वाजननत्वेक भागतः । कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ।। ५० ।। द्विभागानु महापट्टी पद्मंशेन भागतः । कंपस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ।। ५१ ।। अष्टादश विभागेतु व्योमांशं पादुकं भवेत् । अद्ध्यर्धं पद्ममित्युक्तं कंपमेकांशतो भवेत् ।। ५२ ।। जगतीवेद भागेन गुणांशः कुमुदं भवेत् । कंपमेकेन कर्णस्यात् द्विभागं कंपमेकतः ।। ५३ ।। महापट्टी द्विभागेन वाजनञ्चैक भागतः । अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ।। ५४ ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंश मिमंबंध भागेन जगती भवेत् ।। ५५ ।। भागाभ्यां पंकजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पंकजम् । कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ।। ५६ ।। कंपंकर्णस्तु चार्द्धेनार्धेनकंपञ्चवारिजम् । भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ।। ५७ ।। घृतवारिसमाख्यातं संपत्करमिहोदितम् । रुद्रभागेतु तत्तुंगे व्योमांशं पादुकं भवेत् ।। ५८ ।। गुणांशं जगतीकंप मेकं कर्णोद्विभागतः । एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ।। ५९ ।। घृतवार्येकभागेन नन्दिकावृत्तमीरितम् । तिथ्यशं विभजेत्तुंग मद्ध्यर्धं पादुकं भवेत् ।। ६० ।। अर्द्धेन कंपपद्मं स्यात् गुणांशं गलमर्द्धतः । पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ।। ६१ ।। अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका । अर्द्धांश घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ।। ६२ ।। तुंगाष्टदशभागेतु द्विपादं पादुकं भवेत् । पंकजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। ६३ ।। षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ।। ६४ ।। घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् । कलांशं विभजेत्तुंगं व्योभागेन पादुका ।। ६५ ।। द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् । भागेन कंपं स्यात् द्विभागेन द्विभागतः ।। ६६ ।। महापट्यंश मानैक घृतवायूर्ध्वतो भवेत् । स्थंण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ।। ६७ ।। त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् । व्योमांशं कंपमित्युक्तं द्विभागं पद्ममुच्यते ।। ६८ ।। भागेन कंपमित्युक्तं शेषं पूर्ववदेवहि । एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ।। ६९ ।। कंपमंशेन भागेन पुनः कंपं द्विभागतः । पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ।। ७० ।। स्वायंभुवमिदं प्रोक्तमधिष्ठानानियानि च । उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ।। ७१ ।। घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः । द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ।। ७२ ।। महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् । घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ।। ७३ ।। अधिष्टानेक तोपेत मथवा परिकल्पयेत् । कर्णमानञ्च संग्राह्य कंपादौ विनियोजयेत् ।। ७४ ।। तन्मान मथकर्णेतु यावदेक यवेन च । वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ।। ७५ ।। सर्वेष्वंगेषु पीठानां सकले निष्कलेपि च । चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ।। ७६ ।। शलेदारुमये वापि मृण्मयेन्य मयेपिवा । निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ।। ७७ ।। पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः । तदर्द्धेणाग्र विस्तार स्सर्वलिंगेषु योग्यकः ।। ७८ ।। पीठार्द्धमानः पादोवा मध्यमे षोडशांशके । मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ।। ७९ ।। तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे । तथा विभक्ते संग्राह्य मानं सप्तदशैव च ।। ८० ।। प्रणालमूलदेशेतु गदग्रं तेन मानतः । त्रिपाद मर्द्ध पादोनं पञ्चत्रित्यत्रंश मेववा ।। ८१ ।। सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् । वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ।। ८२ ।। मूलकंपं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि । तदूर्ध्वेकंपमेकद्वि व्योमभागैस्तथा क्रमात् ।। ८३ ।। प्रणालघनमानेतु तन्मान मधुनोच्यते । कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ।। ८४ ।। त्रिसप्तमानं वेदांशा देकभागविवृद्धितः । दशभागावसानन्तु पीठनाल घनं तुवा ।। ८५ ।। समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् । अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ।। ८६ ।। तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् । अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ।। ८७ ।। खण्डंत्वंगावसानं स्यादूर्ध्व खण्डमखण्डजम् । प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ।। ८८ ।। नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः । सकलानामनालं स्यात् सनालमथपीठकम् ।। ८९ ।। घृतवारिविहीनं वा सहितं वा प्रकल्प्यते । बाणलिंगादि लिंगानां चतुरश्राय ताश्रकम् ।। ९० ।। कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् । पीठलग्नां प्रभां कुर्यात् भिन्नां वा भिन्नयोगिकाम् ।। ९१ ।। नाना वाजन पीठं संयुक्तां मुक्तादामावलि क्रियाम् । नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ।। ९२ ।। सर्वालंकारसंयुक्तामिष्टास्य घन संयुताम् । सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ।। ९३ ।। बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् । एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ।। ९४ ।। पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः । तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ।। ९५ ।। योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति । आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ।। ९६ ।। द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः । तथैव च पुनः कुर्यादन्यथा दोषकारकम् ।। ९७ ।। मानवे पीठ संकल्पपिधानं परिकीर्तितम् । चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ।। ९८ ।। दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा । वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ।। ९९ ।। पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् । लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ।। १०० ।। कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् । अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ।। १०१ ।। हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् । प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ।। १०२ ।। तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना । कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।। १०३ ।। योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च । तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ।। १०४ ।। एवं निष्पाद्य सर्वंतु पश्चात् कर्मसमारभेत् । विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ।। १०५ ।। शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् । लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुंभस्यवर्धनीम् ।। १०६ ।। मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा । ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ।। १०७ ।। गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् । पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ।। १०८ ।। आवाह्यलिङ्गं लिङ्गस्य शिवकुंभगतं न्यसेत् । पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ।। १०९ ।। विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् । नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ।। ११० ।। सहस्रसंख्यं मूलेन समिदाज्यन्नलाजकैः । तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ।। १११ ।। प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् । अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ।। ११२ ।। नित्यपूजा प्रकर्तव्या लिङ्गे कुंभे च नित्यशः । टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ।। ११३ ।। अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् । शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ।। ११४ ।। ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते । शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ।। ११५ ।। कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे । प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ।। ११६ ।। वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे । स्थण्डिलंकल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ।। ११७ ।। गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् । मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ।। ११८ ।। ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते । सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ।। ११९ ।। धान्यराशिंसवत्सांगांकन्यां हृदय मन्त्रतः । प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ।। १२० ।। प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् । प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ।। १२१ ।। स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् । कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ।। १२२ ।। देवीञ्चकलशानिष्ट्वा लंबकूर्च समन्विताम् । नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ।। १२३ ।। स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् । पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ।। १२४ ।। पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् । सवितानध्वजं दर्भमुक्ता पुष्पजमालया ।। १२५ ।। सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् । सर्वलक्षणसंपन्नं सुविसर्जित तक्षकम् ।। १२६ ।। ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् । पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ।। १२७ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् । प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ।। १२८ ।। मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु । गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ।। १२९ ।। कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः । कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ।। १३० ।। आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् । मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ।। १३१ ।। कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् । आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ।। १३२ ।। कृत्वा कौतुकबन्धंतु तन्नाले तद्गलेऽपि वा । शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ।। १३३ ।। तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् । दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ।। १३४ ।। ततश्शययां च संक्ल्प्य तदलाभेऽम्बरैर्नयेत् । आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद् धृदा ।। १३५ ।। आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् । सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ।। १३६ ।। सहैमपंकजं कूर्चफलपल्लव वस्त्रकम् । तन्मध्ये सासनां देवीमर्चयेद् गन्धसंमुखैः ।। १३७ ।। वर्धनीरष्ट संख्याताः कूर्चवस्त्रससूत्रकाः । सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ।। १३८ ।। वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् । गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ।। १३९ ।। तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् । कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ।। १४० ।। क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः । धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।। १४१ ।। धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु । पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ।। १४२ ।। लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् । चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ।। १४३ ।। समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः । पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ।। १४४ ।। शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः । पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ।। १४५ ।। सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा । देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ।। १४६ ।। शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् । तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ।। १४७ ।। प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् । भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ।। १४८ ।। अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः । ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ।। १४९ ।। कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः । द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ।। १५० ।। गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा । ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीमपि ।। १५१ ।। अग्नि होमैश्च संतर्प्य प्रायश्चित्तं विधाय च । दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ।। १५२ ।। सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् । धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ।। १५३ ।। लिङ्गसंस्ह्तापनप्रोक्तविधिना तांनिवेशयेत् । पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ।। १५४ ।। तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् । नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ।। १५५ ।। पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके । पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ।। १५६ ।। रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः । सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ।। १५७ ।। अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् । पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ।। १५८ ।। प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् । पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ।। १५९ ।। लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् । वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ।। १६० ।। देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे । संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतं ।। १६१ ।। वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् । जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ।। १६२ ।। लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः । स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ।। १६३ ।। केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।। १६४ ।। तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा । लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ।। १६५ ।। चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः । विशेषपूजा कर्तव्या होमेन च समन्विता ।। १६६ ।। पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् । चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ।। १६७ ।। बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् । पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ।। १६८ ।। समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ।। १६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः पटलः ।। अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके षोडशांशे तु मानेन पादुकं परिकीर्तितम् वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत् वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते । अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः घृतवार्यंशमानेन भद्रपीठमिदं मतम् । षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ।। वेदांशं ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम् एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् । द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ।। षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् । जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका । शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ।। पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत् पद्मं एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् कुमुदं पद्मं एकेन वाजनं व्योमभागतः भागाभ्यां कर्णं इति उक्तस्स्यात् एकेनैव वाजनम् कञ्चं एकेन भागाभ्यां महावाजनं ईरितम् एकेन कम्पमर्धेन घृतवार्यभिधीयते पीठं शाम्भवमाख्यातं अन्यथान्यद्विधीयते एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च भागेन पादुकं वेदभागेन जगती मता एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः कुमुदं पद्ममंशेन वाजनं एक भागतः कर्णो द्विभागो भागेन वाजनं पद्ममंशतः द्विभागा तु महापट्टी पद्ममंशेन भागतः कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् अष्टादश विभागे तु व्योमांशे पादुकं भवेत् । अध्यर्धं पद्मं इति उक्तं कम्पं एकांशतो भवेत् ।। जगती वेद भागेन गुणाशः कुमुदो भवेत् । कम्पं एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ।। महापट्टी द्विभागेन वाजनं च एक भागतः अर्धेन घृतवार्युक्तं उमा पीठमिदं मतम् ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंशमितं बन्धभागेन जगती भवेत् ।। भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् । कुमुदं स्यात् द्विभागेन पद्मं अर्धेन च अर्धतः कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम् भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि घृतवारि समाख्यातं सम्पत्करं इहोदितम् रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् । गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ।। एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः । घृतवार्येक भागेन नन्दिकावृत मीरितम् ।। तिथ्यंशं विभजेत्तुङ्गं अध्यर्धं पादुकं भवेत् । अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः पद्मं अंशेन भागाभ्यां कुमुदं पद्मं अंशतः अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् । पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनं इष्यते ।। घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ।। कलांशं विभजेत्तुगं व्योम भागेन पादुकम् । द्वाभ्यां पद्ममथैकेन कम्पंपड् भागतो गलम् ।। भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः । महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ।। त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् । योमांशं कम्पमित्युक्तं द्विभागं पद्मं उच्यते ।। भागेन कम्पं इत्युक्तं कम्पं षड् भागतो गलम् । भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।। महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् । कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।। पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् । स्वायंभुवं इदं प्रोक्तं अधिष्ठानानियानि च ।। उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः ३६. षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् । बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ।। १ ।। प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च । दत्तवाल्लिंगकोटीनां चतुर्दशाः महेश्वरः ।। २ ।। तानि संपूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् । लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ।। ३ ।। कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे । अन्यत्र च नदीमध्ये पर्वते च विशेषतः ।। ४ ।। माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् । पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ।। ५ ।। विस्तार नाहमानं तु बाणलिंगस्य नेष्यते । रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ।। ६ ।। सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते । स्नपने यजने धूपे गन्धपुष्प निवेदने ।। ७ ।। अन्य कर्मणि विप्रेन्द्राः स्वायंभूतादिके तथा । प्रासाद पीठिकादीनां नियमो न च नेष्यते ।। ८ ।। ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा । विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ।। ९ ।। शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् । एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ।। १० ।। लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा । विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ।। ११ ।। यथाभिमतमानं वा खामानमुदाहृतम् । सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ।। १२ ।। यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् । पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ।। १३ ।। उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा । स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ।। १४ ।। रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् । सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ।। १५ ।। रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् । सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ।। १६ ।। शैललिंग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः । चललिंग प्रतिष्ठायां प्रतिमादौ च मध्यमः ।। १७ ।। कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि । मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ।। १८ ।। तथैव बाणलिंगस्य किंतु कालोधमोथवा । विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ।। १९ ।। अंकुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् । रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ।। २० ।। पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् । लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ।। २१ ।। विधायलिंगशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः । जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ।। २२ ।। कुर्याल्लिंगाधि वासार्थं वेदिका सहितं यथा । वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ।। २३ ।। शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् । भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ।। २४ ।। स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् । जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ।। २५ ।। अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् । शययां मध्ये निवेश्याथ शिवकुंभं च वर्धनीम् ।। २६ ।। विद्येश कुंभ संयुक्तं ससूत्रं सापिधानक । सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ।। २७ ।। संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् । मूर्ति मूर्तिश्वरान्यस्त्वा संपाद्यैवं शिवानलम् ।। २८ ।। समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् । जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ।। २९ ।। मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः । तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ।। ३० ।। वस्त्रेणाच्छाद्य लिंगन्तु नैवेद्यं च निवेदयेत् । प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ।। ३१ ।। लिंगमग्नि मघोरेण जुहुयाच्चत संख्यया । संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ।। ३२ ।। मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् । एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ।। ३३ ।। संकल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् । तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ।। ३४ ।। स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् । यदनुक्तं भवेदत्र लिंग स्थापन वन्नयेत् ।। ३५ ।। चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते । प्रत्यहं पूजयेद्देवं अर्चनोक्त विद्यानतः ।। ३६ ।। शिष्टलिंगे गतिर्नास्ति समान्यस्य गतिं क्षणात् । जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ।। ३७ ।। सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् । कुंभे वा स्थण्डिले वापि मण्डले पीठकादिके ।। ३८ ।। पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके । संपूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ।। ३९ ।। अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः । पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ।। ४० ।। अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् । आदावन्ते च वा होमं प्रत्यहं होममेव वा ।। ४१ ।। तत्र संप्रोक्षणं नेष्टं तदर्धं होममेव वा । लिंगाग्रे स्थण्डिलं तत्र कुंभसंस्थापणं नुहि ।। ४२ ।। कुंभेत्वावाहनं तस्मात् कुंभमन्त्रान्निवेशयेत् । नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ।। ४३ ।। तत्कुंभोदैरपि स्नानं केवलं प्रोक्षणं तु वा । क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ।। ४४ ।। एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि । स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ।। ४५ ।। क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् । होमाद्यमपि नेष्टं स्यात् कर्तुं लिंगं समर्चयेत् ।। ४६ ।। गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् । मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ।। ४७ ।। पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः । तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ।। ४८ ।। शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् । अस्त्रांबु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ।। ४९ ।। बहु दैवसिकं स्नानं (भंगश्चेत्) स्नपनं महत् । महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ।। ५० ।। ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। ५१ ।। प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् । स्वायंभुवादि लिंगाना मेतत् सामान्यमीरितम् ।। ५२ ।। शिल्प्यपेक्षमिदं कर्म कुर्यात्संप्रोक्षणान्वितम् । अन्यत् सर्व समानं स्यात् कर्मसामान्यलिंगकः ।। ५३ ।। स्वायंभुवादि लिंगानां नेष्यतां मनु संकरः । अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ।। ५४ ।। स्वर्णादि लोहजेवापि तत् संभूतेति कीर्तितः । चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ।। ५५ ।। चलञ्च द्विविधं प्रोक्तं अङ्गं प्राधानिकं त्विति । चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ।। ५६ ।। पूजितं त्वंगमित्युक्त मन्यत् प्राधानिकम्मतम् । अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ।। ५७ ।। नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् । अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।। ५८ ।। त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ।। ५८१/२ ।। इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः षट्त्रि.शत्तमः पटलः ।। ३७. सप्तत्रिंशत्तमे पटले काम्यलिंग प्रतिष्ठा विधिः काम्यलिंग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् । काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ।। १ ।। कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ।। २ ।। फलं दृष्टमदृष्टं च द्विधं तत्परापरम् । कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ।। ३ ।। उत्तमं खेचरत्वं च श्रेष्ठं देव समानता । भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ।। ४ ।। विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् । इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ।। ५ ।। सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च । इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुंगवाः ।। ६ ।। गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् । अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ।। ७ ।। दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते । देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ।। ८ ।। मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् । अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ।। ९ ।। न सिद्धिर्न च मुक्तिश्च लिंगाश्रयणमन्तरा । शिवलिंग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ।। १० ।। एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् । भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ।। ११ ।। रत्नलिंग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः । तस्मालिंगाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ।। १२ ।। विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः । विधिवल्लिंगमाराध्य फलमिष्टतमं गताः ।। १३ ।। स्वायंभुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः । सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ।। १४ ।। स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् । यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ।। १५ ।। तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा । स्वयंन कर्तु मशक्तानां वृपतीनां हिताय च ।। १६ ।। देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च । स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ।। १७ ।। लिंगार्थमाकरं यायात् स्वस्य कृत्यानु सारतः । शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ।। १८ ।। तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः । रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ।। १९ ।। श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा । चतुर्णामपि वर्णानां शिला धात्री च संमता ।। २० ।। एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः । एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ।। २१ ।। तत्तद्भूजनिता एव मृदो लिंगार्थमीरिताः । फलं लिंगानूरूपेण शिलानां समुदाहृतम् ।। २२ ।। पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि । श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ।। २३ ।। आयसं मारणे लिंगमुन्मादे सांस्यजं भवेत् । उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ।। २४ ।। वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् । लोहलिंगं समाख्यातं रत्नलिंग मथोच्यते ।। २५ ।। वज्रलिंगं क्षितीशत्वे मौक्तमारोग्यदं भवेत् । इन्द्र नीलमयाल्लिंगात् सर्वान् कामान् समश्रुते ।। २६ ।। महान्नीलमयाल्लिंगात् वैणवं पदमाप्नुयात् । वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ।। २७ ।। आरोग्यतं मरकतं प्रवालं च वशीकरम् । राजावर्तमयाल्लिंगात् महाभोगं समश्रुते ।। २८ ।। नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् । शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ।। २९ ।। सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् । चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ।। ३० ।। स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये । वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ।। ३१ ।। क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् । गुणादष्टफल प्रोक्तं परासु मणिजातिषु ।। ३२ ।। इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना । सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ।। ३३ ।। साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् । रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ।। ३४ ।। सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे । यद्वा साधक नक्षत्र वशाल्लिंग तु दारुजम् ।। ३५ ।। कारस्करं चामलकंतथोदुम्बर जम्बुकौ । खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ।। ३६ ।। पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा । अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ।। ३७ ।। पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा । आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ।। ३८ ।। मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः । एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ।। ३९ ।। विधाय लिंगं कर्तव्यं साध्यर्क्षे मारणादिकम् । श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ।। ४० ।। चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् । सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ।। ४१ ।। साप्तपर्णं च सालोत्थं राजादन समुद्भवम् । विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ।। ४२ ।। उदुंबर मयं पुष्ट्यै शान्त्यै न्यग्रोध संभवम् । वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ।। ४३ ।। लिंगं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः । दारुजं लिंगमाख्यातं क्षणिकं लिङ्गमुच्यते ।। ४४ ।। संकेतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् । अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ।। ४५ ।। गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये । घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ।। ४६ ।। ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् । विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ।। ४७ ।। स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् । बिल्वादि पत्रजं लिंगं यत्तत्पुत्र विवर्धनम् ।। ४८ ।। तद्बीज जनितं लिंगं विशेषात् तृप्तिकारणम् । धान्य तण्डुलजं लिंगं तत्तद्द्रव्य फलप्रदम् ।। ४९ ।। कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् । रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ।। ५० ।। जलेन रचितं लिंगं प्राणिनां शान्तिपुष्टितम् । लिंगं यच्चित्रितं सद्यो विचित्रफल दायकम् ।। ५१ ।। कर्पूर चन्दनाद्यैस्तु लिंगं यत्तज्जरापहत् । द्रव्याणि कथितान्येवं लक्षणं च विधीयते ।। ५२ ।। प्रासाद गर्भमानेन लिंगं ज्येष्ठादि भेदतः । मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ।। ५३ ।। हस्तादि लिंगमानानि यानि तानि विमुक्तये । भुक्तये चानु षड्गेण भवन्ति विधियोगतः ।। ५४ ।। गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् । तदन्तरेऽष्टभागे तु नव लिंगानि सन्ति हि ।। ५५ ।। तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि । षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ।। ५६ ।। प्रासादे वा ततो वह्नि वेदग्रह विभाजिते । द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ।। ५७ ।। पूर्ववच्च प्रमाणानि लिंगानां विहितानि तु । एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ।। ५८ ।। अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः । एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ।। ५९ ।। नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् । हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ।। ६० ।। पादोनं दारुजं लोहमस्यार्धेनैव संमतम् । अङ्गुलादि वितस्त्यन्तं रत्नलिंगं द्विजोत्तमाः ।। ६१ ।। आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः । हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ।। ६२ ।। लिंगायामैक भागे तु वेद भागेन विस्तरः । खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ।। ६३ ।। चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् । अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ।। ६४ ।। पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिंगं वज्रशिरो यथा । वज्रकार्यं समायोज्य स्तंभादि परिकीर्तितम् ।। ६५ ।। लिंगोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् । वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ।। ६६ ।। आग्नेय पीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये । लिंगं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ।। ६७ ।। शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः । तापदाहं रिपोः कुर्याल्लिंगमाग्नेयकं द्विजाः ।। ६८ ।। नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः । प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ।। ६९ ।। याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके । लिंगं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ।। ७० ।। गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् । रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ।। ७१ ।। मारीं च भेदनं रोगं विधत्ते नात्र संशयः । दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ।। ७२ ।। अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः । स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ।। ७३ ।। खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् । अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ।। ७४ ।। तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् । कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ।। ७५ ।। उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् । चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ।। ७६ ।। वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् । पाशमस्तक युक्तं तत् पाशकाय विधानतः ।। ७७ ।। प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् । व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ।। ७८ ।। गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे । नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ।। ७९ ।। तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य माप्नुयात् ।। ८० ।। लिंगं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः । तेन लिंगेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ।। ८१ ।। भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः । पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ।। ८२ ।। यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् । गदा मस्तक लिंगं तु गदाङ्के स्थाप्य देशिकः ।। ८३ ।। जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् । जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ।। ८४ ।। लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् । दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ।। ८५ ।। एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् । अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ।। ८६ ।। कुक्कुटाण्ड शिरोयुक्तं लिंगमैशान्य पीठके । स्थापयित्वा स्वदिक् साम्यं लिंगं शूलशिरोयुतम् ।। ८७ ।। शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् । ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ।। ८८ ।। शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् । उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ।। ८९ ।। वस्वश्रं पूर्ववद्वृत्तं लिंगं छत्रशिरोयुतम् । ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ।। ९० ।। तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् । खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ।। ९१ ।। गायग्र्यंशे तु लिंगोच्चे शरांशैश्चतुरश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ।। ९२ ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् । चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ।। ९३ ।। व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् । लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ।। ९४ ।। तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते । सिद्धिलिंगमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ।। ९५ ।। आप्यादि देवलिंगेषु लोकपालार्चितेषु वा । सहस्र लिंगं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ।। ९६ ।। सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् । अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ।। ९७ ।। अष्टोत्तरशतं लिंगं सूत्रैर्विषययोजितैः । आढ्यादि लिंगान्युत्सेधैः समखण्डानि कल्पयेत् ।। ९८ ।। छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि । धारालिंगं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ।। ९९ ।। साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता । मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ।। १०० ।। आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् । मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ।। १०१ ।। आसुरं पौरुषं चैव सादेशैशान भैरवम् । देवत्वं देवराजत्वं सर्वकामफलं च यत् ।। १०२ ।। रुद्रत्वं च फलान्येषु लिंगेष्वेकाश्रकादिषु । एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ।। १०३ ।। लिंगानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च । अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ।। १०४ ।। भवन्ति पुण्डरीकादि शिरांसि फलभेदः । पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ।। १०५ ।। प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् । कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ।। १०६ ।। प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः । तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ।। १०७ ।। सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् । षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ।। १०८ ।। साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः । साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ।। १०९ ।। प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् । छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ।। ११० ।। अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् । त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ।। १११ ।। दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् । खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ।। ११२ ।। पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः । ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ।। ११३ ।। वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे । शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ।। ११४ ।। अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् । लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ।। ११५ ।। कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि । वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।। ११६ ।। गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् । ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ।। ११७ ।। तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः । लिंगाशे नवधा भक्ते नवांश कृत लक्ष्मकम् ।। ११८ ।। स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च । द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ।। ११९ ।। तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् । ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ।। १२० ।। पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः । षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ।। १२१ ।। हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् । नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ।। १२२ ।। अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् । कथितं हि तथापीह त्रिभागे रसभागके ।। १२३ ।। यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् । वेध दोष निवृत्यर्थं एवं लक्ष्म प्रकल्पयेत् ।। १२४ ।। गायत्र्यंशे तु लिंगोच्चे लक्ष्मविस्तृतिरंशतः । शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ।। १२५ ।। तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् । शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ।। १२६ ।। याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् । नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ।। १२७ ।। शूलाश्रमैश्वरं लिंगं वायव्यां ध्वजमस्तकम् । सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ।। १२८ ।। लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् । स्तंभनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ।। १२९ ।। अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् । मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ।। १३० ।। स्वतेजोलक्षणं लोहे बाणलिंगे तथैव च । लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ।। १३१ ।। शुभलक्षण लक्ष्मं चेत् लिंग सर्वार्थ सिद्धिदम् । पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ।। १३२ ।। लिंगायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् । ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ।। १३३ ।। वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च । प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ।। १३४ ।। ऐन्द्रयादि संज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः । वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ।। १३५ ।। पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् । वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ।। १३६ ।। निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् । सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ।। १३७ ।। ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् । योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ।। १३८ ।। पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् । पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ।। १३९ ।। तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः । पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ।। १४० ।। याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका । राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ।। १४१ ।। पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् । तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ।। १४२ ।। चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् । कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ।। १४३ ।। तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते । इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ।। १४४ ।। पाज्जगती कुंभवेत्रास्युः कण्ठश्चैकैक वेशतः । निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ।। १४५ ।। आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् । षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ।। १४६ ।। तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् । ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ।। १४७ ।। चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् । तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ।। १४८ ।। संस्थान वर्तनाकारैः वा राक्षसं मतम् । तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ।। १४९ ।। पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः । कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ।। १५० ।। तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः । आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ।। १५१ ।। याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला । षण्मेखला च वायव्या वारुणी पञ्चमेखला ।। १५२ ।। विष्ण्वंश षोडशोत्सेधः पुण्डिकापीठविस्तरः । शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ।। १५३ ।। वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका । पीठं सहस्रलिंगस्य सालङ्कारयुगाश्रयुक् ।। १५४ ।। आश्मेऽश्मसंभवा पिण्डी पार्थिवे पार्थिवी तथा । दारुजे दारुजा पिण्डी धातुजे धातु संभवा ।। १५५ ।। रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् । उच्छ्रयं चललिंगानां पूजांशाद् द्विगुणं भवेत् ।। १५६ ।। लिंगायामे भवेत्पिण्डी लिंगं च परितो यथा । कृशुषु वर्धयेद्द्रुद्रं स्थूललिंगेषु ह्रासयेत् ।। १५७ ।। ह्रासयेद्वर्धयेदंश मच्युतस्य हि न च्युतिः । पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ।। १५८ ।। चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् । मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ।। १५९ ।। पिण्डिका सहितोत्सेधं लिंगनाहसमं भवेत् । सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ।। १६० ।। समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् । मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ।। १६१ ।। साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा । गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ।। १६२ ।। मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् । अन्यद्वापि भवेल्लिंगं नदी प्रस्रवणोद्भवम् ।। १६३ ।। लिंगाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् । हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ।। १६४ ।। रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः । पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ।। १६५ ।। उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने । स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ।। १६६ ।। अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते । समलिंगे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ।। १६७ ।। कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। १६८ ।। पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् । द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ।। १६९ ।। चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ।। १७० ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा । भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ।। १७१ ।। भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् । व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ।। १७२ ।। बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् । पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ।। १७३ ।। वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् । देह पञ्चक संयुक्तं चरमद्वय संयुतम् ।। १७४ ।। तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् । जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ।। १७५ ।। दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् । दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ।। १७६ ।। व्यालबद्धजटाचूडं कपालदलमण्डितम् । तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ।। १७७ ।। उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् । भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ।। १७८ ।। दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् । बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ।। १७९ ।। वराभय करोपेतं ध्यानासक्तमिव स्थितम् । पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ।। १८० ।। ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ । इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ।। १८१ ।। कलावत्सरदेशीयं दिव्याभरणभूषितम् । सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ।। १८२ ।। ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् । भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ।। १८३ ।। संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् । कुर्यादीशान देहं तु दशतालोत्तमेन तु ।। १८४ ।। पुरुष प्रमुखान्देहानीश देहार्धमानतः । कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ।। १८५ ।। पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् । कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ।। १८६ ।। ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् । कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ।। १८७ ।। जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् । व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ।। १८८ ।। नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् । श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ।। १८९ ।। त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् । जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ।। १९० ।। नानावर्णांवरैर्युक्तं वेणिकादिभिरलंकृतम् । ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ।। १९१ ।। किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् । वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ।। १९२ ।। पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः । त्रिशूलं नागहस्तं च परशुः पाश एव च ।। १९३ ।। गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः । नागैराभरणैर्युक्तं कुण्डलाभ्यामलंकृतम् ।। १९४ ।। सर्वलक्षण संयुक्तं पादनूपुर संयुतम् । गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ।। १९५ ।। एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते । नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ।। १९६ ।। नाना विधायुधोपेत नवद्वय करोथवा । दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ।। १९७ ।। कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः । इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ।। १९८ ।। टङ्क विहाय शूलं वा डमरुं वापरे करे । अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल संज्ञितः ।। १९९ ।। त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः । वराभय करोपेता रुद्रोयं वाम संज्ञककः ।। २०० ।। एष एव हि खट्वाङ्ग रहित श्शूल संयुतः । अघोर रुद्रनामायं भीमो भव विनाशनः ।। २०१ ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः । अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ।। २०२ ।। धनुर्बाण समोपेता मृगटङ्क समायुतङ्क । भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ।। २०३ ।। अथवा पादुके पद्मे भक्तानां शेखरेषु वा । वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ।। २०४ ।। एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः । त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ।। २०५ ।। वरदाभय वामतः पार्वतीयुतः । आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ।। २०६ ।। देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही । तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ।। २०७ ।। तस्या कट्याश्रियो वापि देवोयं सर्वकामदः । गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ।। २०८ ।। कपालशूल संयुक्तौ वरदाभयसंयुतौ । त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ।। २०९ ।। प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ । एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ।। २१० ।। भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ । कालान्तकादि संयुक्तौ भक्तानामथवोपरि ।। २११ ।। एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः । देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ।। २१२ ।। द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ । मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ।। २१३ ।। विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा । अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ।। २१४ ।। चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः । शूल पङ्कज युक्तो वा वरदाभय संयुतः ।। २१५ ।। कपालशूल संयुक्तो बद्धपद्मासने स्थितः । नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ।। २१६ ।। चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः । पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ।। २१७ ।। मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा । वरदाभय हस्तो वा शान्तरूपः स्मिताननः ।। २१८ ।। जटामकुट संयुक्तः स्थानकादि समन्वितः । रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ।। २१९ ।। शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः । कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ।। २२० ।। मृगंशूल समायुक्तश्चतुर्भुज समन्वितः । पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ।। २२१ ।। वरदा संयुक्तः स्थितः पद्मासनोपरी । भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ।। २२२ ।। कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः । वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ।। २२३ ।। अथवा मृगटङ्कायां वराभय करान्विताः । उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ।। २२४ ।। कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः । उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ।। २२५ ।। तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः । किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ।। २२६ ।। यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः । एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ।। २२७ ।। एतन्नामादि वर्णेन बिन्दु नाद युतेन तु । त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ।। २२८ ।। उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः । रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ।। २२९ ।। अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः । कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ।। २३० ।। शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया । तत्रैव कुण्ड संकॢप्तिर्नव पञ्चैक सख्यया ।। २३१ ।। तक्षद्वासनं विप्र भोजनं वास्तु होमकम् । पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ।। २३२ ।। कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा । कुंभादीनां सपर्या च नैवेद्यादि निवेदनम् ।। २३३ ।। तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः । होमं पलाशसद्बिल्व वटोदुंबर पिप्पलैः ।। २३४ ।। अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः । प्रधाने तु पलाशेन घृतेन चरुणातिलैः ।। २३५ ।। द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च । मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ।। २३६ ।। उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् । कर्तव्य स्सर्व कर्मापि लिंग संस्थापनं यदि ।। २३७ ।। मुखलिंगस्य वा विप्राः तदध्यायोक्तमार्गतः । कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ।। २३८ ।। एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा । लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ।। २३९ ।। स्वायंभुवादिकं लिंगं समाश्रित्य कदाचन । कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् । इति उत्तरकामिकाखे महातन्त्रे काम्यलिंगप्रतिष्ठा विधिः सप्तत्रिंशत्तमः पटलः ।। लिङ्गायामैक भागे तु वेद भागेन विस्तरः खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम् अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम् वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना आग्नेयपीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः तापदाहं रिपो कुर्यात् लिङ्गं आग्नेयकं द्विजाः नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात् याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम् गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः मारीं च भेदनं रोगं विधत्ते नात्र संशयः दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम् अरतिक्षय विद्वेषं कील भेदेन मोहनम् तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम् कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम् उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम् चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् पाशमस्तक युक्तं तत् पाशकाय विधानतः प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम् व्याधिहानिञ्च सौभाग्यं आप्नुयान्नात्रसंशयाः पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम् यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात् गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः जाम्बूनदसुखप्राप्तिमतीव बलदं मतम् जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम् उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम् ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात् गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये । तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात् लिंगं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् । भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ।। दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् । एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात् अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत शूलाख्यायां तु संस्थाप्य पृथिवीशत्वं आप्नुयात् ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम् तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् । खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ।। गायत्र्यंशे तु लिंगोच्चे शरांशैश्चतुश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् । चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ।। त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः । वराभय करोपेतः रुद्रोऽयं वाम संज्ञकः ।। एष एव हि खड्वाङ्गरहितश्शूलसंयुतः । अघोररुद्र नामायं भीमो भयविनाशनः ।। शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः । कपालशूल संयुक्तो बद्धपद्मासनस्थितः ।। मृगशूल समायुक्त श्चतुर्भुजसमन्वितः । पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ।। वरदाभयसंयुक्तः स्थितः पद्मासनोपरि भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः धनुर्बाण समोपेतो मृगटङ्ग समायुतः भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तं अथोच्यते । समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ।। कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। चतुर्णां चैव वक्त्राणां उर्ध्वे कुर्यात्तुपञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा ३८. अष्टत्रिंशत्तमे पटले आर्षलिंग प्रासाद विधिः लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते । आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ।। १ ।। स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा । विकांशं वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ।। २ ।। मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते । पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ।। ३ ।। तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा । विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ।। ४ ।। अर्धाधिकं तु वा सप्तभागाधिक मथापि वा । लिंग विस्तारमानेन त्रिगुणं पीठ मुच्यते ।। ५ ।। गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् । प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ।। ६ ।। लिंग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् । पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ।। ७ ।। सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते । द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ।। ८ ।। नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् । सार्ध द्वयांश कैकांश समं वा भित्ति विस्तरः ।। ९ ।। उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते । लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ।। १० ।। त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा । द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ।। ११ ।। पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् । तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ।। १२ ।। एकांशस्य विस्तार मन्यथा च प्रकथ्यते । लिंग द्विगुण विस्तार कर्णपीठ विशालकम् ।। १३ ।। नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके । एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ।। १४ ।। परिणाहे विकारांशे तच्चतुर्दश कर्णकम् । पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ।। १५ ।। तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः । विस्तार द्विगुणे कर्ण दशांशेंश विहीनकम् ।। १६ ।। पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् । तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ।। १७ ।। हीना हीनान्तरेऽष्टांश पीठे नालीगृहे तथा । भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ।। १८ ।। लिंगे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् । एवमेकतले प्रोक्तं द्वितलादिषु धामसु ।। १९ ।। साधारे वा निराधारे त्वलिन्दं भित्तिरेव च । प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ।। २० ।। इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिंग प्रासाद विधिः अष्टत्रिंशत्तमः पटलः ।। ३९. एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते । पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ।। १ ।। पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे । लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ।। २ ।। लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः । त्रिभागंनालि गेहस्य त्रिचतुर्भाग भागतः ।। ३ ।। भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् । लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ।। ४ ।। सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् । तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ।। ५ ।। नालीगृह विशालं स्यात् पीठ विस्तार मानतः । समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ।। ६ ।। उदयं प्राग्देव स्यादन्यथापि चकथ्यते । पूजांशद्विगुणं पीठमुदयं तु विशालतः ।। ७ ।। चतुष्पञ्चगुणं नाली गेहमत्र विधीयते । ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ।। ८ ।। लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये । एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ।। ९ ।। त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् । पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ।। १० ।। तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् । अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ।। ११ ।। उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु । तथा तदपि तद्ग्राम मानं पौराणपौरुषे ।। १२ ।। पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् । उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ।। १३ ।। स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे । मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ।। १४ ।। पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् । यदि तद्वाह्य भागं च युग्ममेव विधीयते ।। १५ ।। युग्मंचेद्युग्ममेवस्यात् संमिश्रं तेषु नेष्यते । त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ।। १६ ।। इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन चत्वारिंशत्तमः पटलः ।। ४०. चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते । स्वायं बाणलिंगं दैवीकं चार्षकं त्विति ।। १ ।। सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः । तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ।। २ ।। पूजांश मानतो नाहात् विस्तारादुच्छ्रयादपि । एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ।। ३ ।। तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ।। ४ ।। अष्टौ वा देवमानानि नवमानानि सुव्रताः । तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ।। ५ ।। प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः । पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ।। ६ ।। पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः । अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ।। ७ ।। गर्भगेहविशाले तु द्विभागादेकभागतः । षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ।। ८ ।। एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता । भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ।। ९ ।। लिंगात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये । एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ।। १० ।। पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे । अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगवशात् प्रासाद विधिः चत्वारिंशत्तमः पटलः ४१. एकचत्वारिंशत्तमे पटले सार्व देशिक लिंग प्रासाद विधिः सार्वदेशिक लिंगादेस्स्थापनं सम्यगुच्यते । प्रासाद स्याथ लिंगस्य पीठस्याश्मन एव वा ।। १ ।। सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः । सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ।। २ ।। विशेषाद्राजसे देशे राज्ञां विजयकारणम् । धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ।। ३ ।। अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा । नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ।। ४ ।। द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे । वराटं चैव सालिंगं सर्वत्रापि च संमतम् ।। ५ ।। नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि । वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ।। ६ ।। सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते । स्वायंभुवं च बाणं च दैविकं चार्षकं तथा ।। ७ ।। यथा विशिष्टं विप्रेन्द्राः दाहृतम् । मानुषे त्वेव लिंगादौ फल वैशिष्य मिष्यते ।। ८ ।। तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् । तन्त्र संकर दोषोऽपि मन्त्र संकर एव वा ।। ९ ।। आचार्य संकरो वापि देशसंकर एव वा । काल संकर दोषश्च युगसंकर एव वा ।। १० ।। अन्येषां संकरो वापि यतो नातो विशिष्यते । सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ।। ११ ।। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् । पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ।। १२ ।। सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये । तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ।। १३ ।। अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः । एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ।। १४ ।। आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः । विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ।। १५ ।। विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् । प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ।। १६ ।। गुणयेदिष्टमानं तु नवनागरसैः क्रमात् । रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ।। १७ ।। गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः । गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ।। १८ ।। भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् । नृप कर्तृ दिना द्वास्तु लिंगाद्युक्त दिनान्तकम् ।। १९ ।। गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् । तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ।। २० ।। मैत्रं परममैत्रं कलहः प्रथमक्रमे । द्वितीये संपदाद्यास्तु पूर्ववत्समुदाहृदम् ।। २१ ।। शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् । वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ।। २२ ।। शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् । वियोगाद्यशुभं योगं गणं चासुर मानुषम् ।। २३ ।। वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया । सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ।। २४ ।। तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् । रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ।। २५ ।। ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः । पृथ्व्याद्याः पञ्च संख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ।। २६ ।। चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः । षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ।। २७ ।। निषादो धैवतस्सप्त योनयस्तासु शस्यते । षड्जऽऽच वृषभो मध्ये भूतेषु पृथिवी जलम् ।। २८ ।। गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते । पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ।। २९ ।। वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः । निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ।। ३० ।। प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा । लिंग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ।। ३१ ।। किं तु लिंगे च बेरे च तुड्गे नैव निरीक्षयेत् । धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यंश द्रिभागिकम् ।। ३२ ।। षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः । चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ।। ३३ ।। अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते । नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ।। ३४ ।। मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च । त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ।। ३५ ।। षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा । चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ।। ३६ ।। अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् । चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ।। ३७ ।। पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः । भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ।। ३८ ।। तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः । सार्व देशिक लिंगानि कथ्यन्ते गर्भमानतः ।। ३९ ।। प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् । नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ।। ४० ।। तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः । तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ।। ४१ ।। विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् । एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ।। ४२ ।। मध्यमेष्ट विभागे तु नव लिंगादयस्तु वा । गर्भन्तु नवधा कृत्वा नवलिंगोच्छ्रयस्तु वा ।। ४३ ।। अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् । मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ।। ४४ ।। त्रयस्त्रिंशत्प्रमाणानि लिंगानां कथितानि च । अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ।। ४५ ।। गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४६ ।। लिंगायामे विकारांशे चतुर्भूतरसैर्हितम् । एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ।। ४७ ।। नवहस्त प्रमाणान्तं मानं स्याल्लिंग दर्ध्यके । एक विंशति भागेन गर्भगेहे विभाजिते ।। ४८ ।। त्रयोदशांशकं श्रेष्ठं दशांश मधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४९ ।। लिंगायामे विकारांशे चतुर्भूत रसैर्हितम् । सत्रिभागैश्शरैर्लिंग विस्ताराः परिकीर्तितः ।। ५० ।। गायत्र्यंशे तु लिंगोच्चे पञ्चभिर्वाथ विस्तरः । अथवाष्ट दशांशे च लिंगोच्चे पञ्चभागिके ।। ५१ ।। चतुर्भागोथवा लिंगविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ।। ५२ ।। विस्तारः कथितश्शास्त्रे लिंगानां मुनिपुंगवाः । द्वार स्तम्भादिभिश्चैव मानं लिंगे समूह्यताम् ।। ५३ ।। भागेन वाथ लिंगानि विभजेत्तानि चाङ्गुलैः । आयादि शुभसिद्ध्यर्थं अंशैर्वा विभजेद्यथा ।। ५४ ।। षोडशांशं समारभ्य चतुर्विंशति संयुतम् । शतांशं विभजेत्तत्र त्वेकांश योजयेद्गुरुः ।। ५५ ।। तैर्वा निरीक्षये ल्लिंगं बेराद्यायादिकं गुरुः । समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ।। ५६ ।। स्वस्तिकं च सहस्रख्यं धारालिंगमिति द्विजाः । इयत्तया समुद्देश क्रमेणैष विधीयते ।। ५७ ।। त्रिधा विभज्य लिंगोच्चं कुर्याद्भागत्रयं क्रमात् । तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ।। ५८ ।। पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः । पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ।। ५९ ।। चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः । भाग भाग विवृद्ध्या स्यात् तस्मात्तस्माद्धरीशयोः ।। ६० ।। वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् । अथवान्यप्रकारेण वर्धमानं विधीयते ।। ६१ ।। एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् । चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ।। ६२ ।। नवाङ्गुलं तु विज्ञेयं लिंगयोर्वसरन्ध्रयोः । एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ।। ६३ ।। ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः । सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ।। ६४ ।। चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् । एवं शिवाधिकं लिंगं ब्राह्माद्यादिष्वनुक्रमात् ।। ६५ ।। लिंगोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः । षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ।। ६६ ।। त्रैरशिकमिदं लिंगंशुद्राणां तत् प्रशस्यते । नवधा लिंगमानेन त्रिचतुर्भिरजादयः ।। ६७ ।। स्वस्तिकं लिंगमाख्यातमन्यथा च निगद्यते । त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ।। ६८ ।। ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् । त्रयस्त्रिंशत्कृते लिंगे स्वस्थिकं शूद्रयोग्यकम् ।। ६९ ।। सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् । मुख लिंगं च पूर्वोक्त विधिनात्रापि भाव्यते ।। ७० ।। शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् । लिंगानामधिकं दद्याच्छिरसो वर्तनांशकम् ।। ७१ ।। समस्तमथवा त्र्यंशमधिकं वर्तनांशतः । शिवलिंगप्रतिष्ठोक्तविधिना लक्षणं नयेत् ।। ७२ ।। यावल्लिंगस्य विस्तार स्तावत् पीठस्य विस्तृतिः । लिंगविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ।। ७३ ।। चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः । पूजांश द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ।। ७४ ।। तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा । नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ।। ७५ ।। तत्तदन्तर मानानि पीठानां कथितानि च । गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ।। ७६ ।। गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः । विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ।। ७७ ।। ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् । पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ।। ७८ ।। पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् । लिंग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ।। ७९ ।। चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् । तत्तदन्तर मानानि नवधापरिकल्पयेत् ।। ८० ।। लिंगायाम समं वापि लिंगनाहसमं तु वा । पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ।। ८१ ।। तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा । तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ।। ८२ ।। तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् । लिंग विष्कंभ मानं तु विकारांश समं भवेत् ।। ८३ ।। भागादेक विवृद्ध्या तु चतुर्भागावसानकम् । ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ।। ८४ ।। एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् । कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजांश दैर्घ्यकम् ।। ८५ ।। तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः । छायादोषो यथा नस्यात् लिंगपीठिकयोर्द्विजाः ।। ८६ ।। देशस्य देशनाथस्य कर्तुः कारयितुस्तथा । आवहेदुत्तमां सिद्धिं सर्व लिंगेष्वयं विधिः ।। ८७ ।। तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् । अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ।। ८८ ।। कल्पितं पीठमेवं वा पीठलिंगं तु मुक्तिदम् । सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ।। ८९ ।। शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने । गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ।। ९० ।। तत्संग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके । स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ।। ९१ ।। लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा । तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ।। ९२ ।। ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः । त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ।। ९३ ।। यदाकार विशिष्टं तद्रूपं तस्य तदेव हि । प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ।। ९४ ।। सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः । प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ।। ९५ ।। जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् । परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ।। ९६ ।। स्वायम्भुवादि लिंगानां दृश्यभागादधः स्थितम् । दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ।। ९७ ।। दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् । तस्मादधः स्थितं लिंगं मूलेनैव परीक्षयेत् ।। ९८ ।। अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः । सार्वदेशिकलिंगानामित्थं लक्षण मीरितम् ।। ९९ ।। प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ।। ९९१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिंग प्रासाद विधिः एक चत्वारिंशत्तमः पटलः ।। ४२. द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः । प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ।। १ ।। मण्डपाः परिवारा वा प्राकारा गोपुरादयः । यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ।। २ ।। यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे । तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ।। ३ ।। शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च । पश्चिमोत्तरपूर्वाशाश्शुभाशास्संप्रकीर्तिताः ।। ४ ।। कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् । तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ।। ५ ।। प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः । परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ।। ६ ।। नित्योत्सवादिकं तत्र विरोधाय न कल्पते । अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ।। ७ ।। नैव पाशुपतेनापि न महाव्रतिना क्वचित् । न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ।। ८ ।। अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः । प्रमादत्तैः कृते तच्च शैवं संपादयेत् क्षणात् ।। ९ ।। एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् । अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ।। १० ।। पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् । स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ।। ११ ।। सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च । कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ।। १२ ।। आद्येष्टकादिकं कर्म तावदस्य समाचरेत् । एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ।। १३ ।। प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते । मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ।। १४ ।। पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा । क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ।। १५ ।। तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा । पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ।। १६ ।। एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः । आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ।। १७ ।। संलब्धकामो देहान्ते शिवेन सह मोदते । एकाद्येकैकवृद्ध्या तु रुद्रसंख्यावसानकम् ।। १८ ।। अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् । शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ।। १९ ।। एवं यः कारयेत् कर्ता स एवाहं न संशयः ।। १९१/२ ।। इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः पटलः ।। ४३. त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ।। १ ।। बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ।। २ ।। अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ।। ३ ।। बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् । बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ।। ४ ।। अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकॢप्तलोचनम् ।। ५ ।। ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ।। ६ ।। एवं सदाशिवः कार्यो मनोन्मना समन्वितम् । इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।। ७ ।। वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् । तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ।। ८ ।। बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् । जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ।। ९ ।। मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसंख्यया । तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ।। १० ।। पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा । पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ।। ११ ।। वेद्यूर्ध्वे स्थण्डिलं शययाकॢप्तिं पूर्ववदाचरेत् । प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ।। १२ ।। शययायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ।। १३ ।। सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् । वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ।। १४ ।। परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् । तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् । यवा/लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ।। १६ ।। अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ।। १७ ।। प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः । प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ।। १८ ।। उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् । देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।। १९ ।। ततो महूर्ते संप्राप्ते कुम्भाद्बीजं पुरो न्यसेत् । कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ।। २० ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २१ ।। अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् । तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २२ ।। स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् । देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ।। २३ ।। अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् । नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ।। २४ ।। सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः । इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ।। २५ ।। इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः त्रिचत्वारिंशत्तमः पटलः ।। ४४. चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ।। १ ।। ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके । गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ।। २ ।। त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् । तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ।। ३ ।। वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा । वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ।। ४ ।। दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः । एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ।। ५ ।। द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः । चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ।। ६ ।। गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते । पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ।। ७ ।। सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ।। ८ ।। षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः । आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ।। ९ ।। एवं विंशति भागान्तं विस्तारे परिकल्पिते । तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ।। १० ।। द्वितलादितलेऽलिन्दान् भित्तिं च बहुसंख्यया । पादेन वार्धभागेन त्रिपादेन समन्ततः ।। ११ ।। सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् । हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ।। १२ ।। अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् । शालाकारम् सभाकारं प्रासादाकारमेव च ।। १३ ।। मस्तकस्थूपिसंख्या स्यादेकादेकाद शान्तिका । दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ।। १४ ।। शिवायतनदेवा वा गणपः षण्मुखोऽपि वा । सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ।। १५ ।। शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् । पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ।। १६ ।। उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् । कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ।। १७ ।। आयामो वाथ संग्राह्याः प्रतिमालक्षणोक्तितः । धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ।। १८ ।। रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते । हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ।। १९ ।। प्रासादभित्तिदेवानामशेषाणामपि प्रभोः । प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ।। २० ।। रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता । प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ।। २१ ।। वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः । श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ।। २२ ।। सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः । प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ।। २३ ।। धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः । अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ।। २४ ।। देहली पेषणी चुल्की खण्डनोलूखली तथा । मुसली मुद्गरी देवी वर्धमानी च वा मताः ।। २५ ।। चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः । वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ।। २६ ।। वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि । नै -ऋते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ।। २७ ।। इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि । निर्माल्यधारिणीं देवीमशनीमीशगोचरे ।। २८ ।। पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः । महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ।। २९ ।। देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः । पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ।। ३० ।। चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् । अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ।। ३१ ।। पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च । भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ।। ३२ ।। लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके । प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ।। ३३ ।। मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् । ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ।। ३४ ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करन्डमकुटान्विता ।। ३५ ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ।। ३६ ।। पद्महस्ताति शान्ता च सादेवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ।। ३७ ।। यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ।। ३८ ।। देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ।। ३९ ।। प्रलम्बवामपादा वा लम्बितापरपादिका । देवेन सहिता वापि केवला वा प्रकीर्तिता ।। ४० ।। श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ।। ४१ ।। नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले । गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ।। ४२ ।। तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् । तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ।। ४३ ।। सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते । जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ।। ४४ ।। द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् । तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ।। ४५ ।। कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् । नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ।। ४६ ।। पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् । प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ।। ४८ ।। जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् । पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ।। ४९ ।। दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि । स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ।। ५० ।। मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः । उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ।। ५१ ।। लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा । अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ।। ५२ ।। एवं देवी प्रकर्तव्या तस्याः संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ।। ५३ ।। मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ।। ५४ ।। नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते । कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ।। ५५ ।। सान्तरेफ महामाया बिन्दुनाद समन्विता । मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ।। ५६ ।। गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ । वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ।। ५७ ।। अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् । बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ।। ५८ ।। ऐंकारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् । मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ।। ५९ ।। एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः । एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ।। ६० ।। हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ । आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ।। ६१ ।। एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते । कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ।। ६२ ।। मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् । तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ।। ६३ ।। वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च । पुष्परागं च गोमेदं तथा मरकतं द्विजाः ।। ६४ ।। हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् । अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ।। ६५ ।। तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् । गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ।। ६६ ।। आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् । ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।। ६७ ।। परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् । प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ।। ६८ ।। योन्याभवनपञ्चैक ऋक् संख्याकुण्डकल्पनम् । तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ।। ६९ ।। तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् । पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ।। ७० ।। होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् । जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ।। ७१ ।। गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा । शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ।। ७२ ।। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् । देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ।। ७३ ।। लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् । परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ।। ७४ ।। वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च संमतान् । आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।। ७५ ।। मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः । क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ।। ७६ ।। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा । धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ।। ७७ ।। पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः । गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ।। ७८ ।। मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् । गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ।। ७९ ।। पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः । वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ।। ८० ।। संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः । समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।। ८१ ।। पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ।। ८२ ।। पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८३ ।। गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् । मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।। ८४ ।। मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् । सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ।। ८५ ।। शान्त्यंभः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् । दर्भैस्संस्पर्शनंचैव प्रतिभागं समाचरेत् ।। ८६ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उत्थाप्य देवीं कुंभांश्च प्राग्वद्वह्निं च तर्पयेत् ।। ८७ ।। दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः । मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।। ८८ ।। कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् । प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ।। ८९ ।। सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् । चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ।। ९० ।। देव्यग्रे तु घटान्न्यस्य कुंभाद्बीजं तुतद्धृदि । विन्यसेदनुकुंभेभ्यः पीठस्य परितो मनून् ।। ९१ ।। तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः । तत्तत्कुंभोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। ९२ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः । स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ।। ९३ ।। यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी । तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ।। ९४ ।। संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः । उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ।। ९५ ।। ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः । देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ।। ९६ ।। कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता । इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ।। ९७ ।। एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः । भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवंपदम् ।। ९८ ।। पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् । शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ।। ९९ ।। शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे । प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ।। १०० ।। प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः । सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ।। १०१ ।। द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः । द्वारस्य पार्श्वयोश्चैव शंख पद्मनिधी तथा ।। १०२ ।। द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ । चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ।। १०३ ।। सर्वाभरण संपन्नौ सर्वरत्न विभूषितौ । ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ।। १०४ ।। गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् । अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ।। १०५ ।। समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् । सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ।। १०६ ।। अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः । खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ।। १०७ ।। देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् । कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ।। १०८ ।। वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः । शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ।। १०९ ।। सुधासंप्लावनं चात्मावाहनं चामृति कृतम् । करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ।। ११० ।। अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् । पञ्चमूर्धास्ययुग्देव्याः पूजायां संप्रकल्पयेत् ।। १११ ।। एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् । शशिन्यादय एवोक्ताः केवलास्तु कला इति ।। ११२ ।। अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् । देवी स्कन्द गणेशादीन् सर्वान् संपूजयेत्तु वा ।। ११३ ।। सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् । हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ।। ११४ ।। ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् । स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ।। ११५ ।। गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा । संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ११६ ।। बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि । गणाम्विकायै विद्महे महातपायै धीमहि ।। ११७ ।। इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् । इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ।। ११८ ।। देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः । देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ।। ११९ ।। बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि । सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ।। १२० ।। अथवा स्त्राणुनालब्ध तालवृन्तज वायुना । तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ।। १२१ ।। प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् । अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ।। १२२ ।। कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् । अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ।। १२३ ।। ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् । वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ।। १२४ ।। ततो देव्यासनायेति पूजयेदनुपूर्वशः । मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ।। १२५ ।। विद्यादेहं च संपाद्य पूजाबेर स्वरूपकम् । प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ।। १२६ ।। हृदयानुगतेनैव पुष्पपूरित सत्करः । आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ।। १२७ ।। सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् । हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ।। १२८ ।। अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् । वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ।। १२९ ।। पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् । गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ।। १३० ।। पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् । उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ।। १३१ ।। गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् । दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ।। १३२ ।। आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः । पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ।। १३३ ।। शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् । अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ।। १३४ ।। गणविद्येशलोकेशतदस्त्रान् परितो यजेत् । एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ।। १३५ ।। पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च । नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ।। १३६ ।। देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा । वरदाभयहस्ता च शंख चक्र करा परा ।। १३७ ।। पद्मासनस्था तस्यांतु यजेद्देवीं मनोन्मनीम् । पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ।। १३८ ।। पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् । पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।। १३९ ।। नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् । तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ।। १४० ।। एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् । षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ।। १४१ ।। नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः । उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ।। १४२ ।। पवित्रारोहं सम्यक् कृत्तिकादीपमेव च । संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ।। १४३ ।। मासोत्सवं तथा मासे नव नैवेद्यकं तथा । विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ।। १४४ ।। जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् । किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ।। १४५ ।। पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः । शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ।। १४६ ।। ध्वजहोमबलिं हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ।। १४७ ।। उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता । कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ।। १४८ ।। यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् । अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ।। १४९ ।। एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् । सर्व देवेषु सामान्यं विधानमिदमग्रजाः ।। १५० ।। धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् । दिग्देव मूर्तिसंयुक्तं मध्ये कुंभ समन्वितम् ।। १५१ ।। धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह । अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।। १५२ ।। देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् । तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ।। १५३ ।। एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ।। इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः पटलः ।। द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टममुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।। चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका । दुकूल वसनादेवी करण्ट मकुटान्विता ।। वरदा संयुक्ता पाशाङ्कुश करान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरावपि ।। दुकूलवसना देवी करण्डमकुटान्विता । वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ।। यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ।। दुकूल वसनादेवी करण्डमकुटान्विता वददाभयसंयुक्ता शुकोत्पल करावपि ।। यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ।। ४५. पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् । पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ।। १ ।। शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु । चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ।। २ ।। आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् । यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ।। ३ ।। अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः । एकादि नवभूम्यन्तभूमिभाग समन्वितम् ।। ४ ।। विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा । दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ।। ५ ।। गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः । पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ।। ६ ।। दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा । धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ।। ७ ।। प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः । मण्टपो वालयस्तस्य कूटाद्याकार एव वा ।। ८ ।। परितः परिवारोक्तः प्रसंगात् स च कथ्यते । विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ।। ९ ।। उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् । अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ।। १० ।। कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै । द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ।। ११ ।। कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् । आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ।। १२ ।। अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः । एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ।। १३ ।। हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः । विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ।। १४ ।। विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः । द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ।। १५ ।। हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ । उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ।। १६ ।। रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ । धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ।। १७ ।। तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः । कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ।। १८ ।। रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः । श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ।। १९ ।। पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः । परिवारा इति ख्याता गणेशाभिमुखस्थिताः ।। २० ।। परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः । बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ।। २१ ।। पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः । भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ।। २२ ।। लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ।। २३ ।। पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः । त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ।। २४ ।। स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् । प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ।। २५ ।। केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् । उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ।। २६ ।। अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः । ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ।। २७ ।। अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् । तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ।। २८ ।। जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् । केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते / मुच्यते ।। २९ ।। दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् । दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ।। ३० ।। दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् । मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ।। ३१ ।। नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते । कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ।। ३२ ।। कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् । कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ।। ३३ ।। मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् । हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ।। ३४ ।। नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् । अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ।। ३५ ।। जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते । जगवक्त्रो गणाधीशो भूतरूपो महोदरः ।। ३६ ।। नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः । नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ।। ३७ ।। अवामवामावर्तेभहस्तः पद्मासनस्थितः । स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।। ३८ ।। लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।। ३९ ।। पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् । शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ।। ४० ।। स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। ४१ ।। त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः । पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ।। ४२ ।। इष्टासनस्थितो वापि प्रभादिपरिमण्डितः । एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ।। ४३ ।। गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा । शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ।। ४४ ।। आसीनमासने रत्नमकुटादिविभूषिताम् । श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ।। ४५ ।। उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् । दिगम्बरां सुवदनां भुजद्वय समन्विताम् ।। ४६ ।। विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् । पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ।। ४७ ।। स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् । चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ।। ४८ ।। इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् । स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ।। ४९ ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः । द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ।। ५० ।। बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु । त्रयोदशान्तसंपन्नमथवा परिकल्पयेत् ।। ५१ ।। कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् । हृल्लेखासंपुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ।। ५२ ।। श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् । पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ।। ५३ ।। वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् । नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ।। ५४ ।। फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः । द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ।। ५५ ।। सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् । तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ।। ५६ ।। बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् । द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ।। ५७ ।। विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः । वरदं तु समुच्चार्य वरदद्वितयं वदेत् ।। ५८ ।। सर्वलोकवशं पश्चादानयेति पदं ततः । स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ।। ५९ ।। ओंकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः । हृल्लेखासंपुटो मन्त्रस्त्वथ कारणकार्ययुक् ।। ६० ।। गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः । इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ।। ६१ ।। सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने । दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ।। ६२ ।। कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी । अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ।। ६३ ।। अनामिकामथाकुञ्च तर्जनीमपि चानयेत् । अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसंज्ञिता ।। ६४ ।। अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ।। ६५ ।। पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा । पञ्च तत्संख्यहेम्नाथ हैमसूचि समन्वितम् ।। ६६ ।। पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् । कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् ।। ६७ ।। मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना । सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ।। ६८ ।। यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् । बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।। ६९ ।। तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा । परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ।। ७० ।। यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः । यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ।। ७१ ।। कुण्डानि नव पञ्चैक संख्यया कथितानि तु । तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ।। ७२ ।। प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् । मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ।। ७३ ।। उद्धास्य शिल्पिनं पश्चाद्द्विजान् संभोजयेत्ततः । पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।। ७४ ।। भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् । जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ।। ७५ ।। मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् । कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ।। ७६ ।। संकल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः । अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ।। ७७ ।। आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् । विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ।। ७८ ।। कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् । पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ।। ७९ ।। बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् । वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ।। ८० ।। सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् । कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ।। ८१ ।। परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् । आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ।। ८२ ।। देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् । सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ।। ८३ ।। शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च । न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ।। ८४ ।। गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् । उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ।। ८५ ।। मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः । इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ।। ८६ ।। पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः । मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ।। ८७ ।। विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् । पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ।। ८८ ।। गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् । वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ।। ८९ ।। संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः । दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ।। ९० ।। ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् । आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ।। ९१ ।। समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः । तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ।। ९२ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।। ९३ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ।। ९४ ।। प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् । दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ।। ९५ ।। मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् । कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ।। ९६ ।। अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् । प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ।। ९७ ।। सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् । चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ।। ९८ ।। द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि । विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ।। ९९ ।। तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् । तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ।। १०० ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् । गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ।। १०१ ।। तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः । विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ।। १०२ ।। विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् । तासां हृदि विशेषेण ततः स्थापनमाचरेत् ।। १०३ ।। विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् । आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ।। १०४ ।। विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् । पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभं ।। १०५ ।। लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु । तस्यार्चनं च संक्षोपाछृणुध्वं मुनिपुङ्गवाः ।। १०६ ।। उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च । सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ।। १०७ ।। कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयं । आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ।। १०८ ।। द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् । देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ।। १०९ ।। प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु । वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ।। ११० ।। संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः । तदुद्भूतामृतेनाद्रींकृतकाय समन्वितः ।। १११ ।। अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ । ईशास्यघोरवामाजान् करजेषु तले दृशाम् ।। ११२ ।। मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् । ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ।। ११३ ।। देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा । एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ।। ११४ ।। आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा । गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ।। ११५ ।। अथवा शिवमन्त्रैस्तु शैवींकृत्वा निजां तनुम् । इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ।। ११६ ।। स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् । गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ।। ११७ ।। पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा । संप्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ।। ११८ ।। हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् । मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ।। ११९ ।। इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे । इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ।। १२० ।। तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् । इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ।। १२१ ।। हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे । त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ।। १२२ ।। लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ।। १२३ ।। मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा । कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ।। १२४ ।। कल्पयेदासनं मध्ये प्रणवं धर्मसंमुखान् । अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ।। १२५ ।। प्रणवाम्भसि संभूतं पीतकर्णिकया युतम् । शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ।। १२६ ।। ततो गणासनायेति पूजयेदनुपूर्वशः । मूर्तिमावाह्य तां प्राग्वद्देहं संक्ल्प्य मन्त्रकैः ।। १२७ ।। प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः । हृदयानुगतेनैव पुष्पापूरितसत्करः ।। १२८ ।। निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ।। १२९ ।। हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् । अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ।। १३० ।। हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा । उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ।। १३१ ।। वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् । पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ।। १३२ ।। दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना । लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ।। १३३ ।। सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु । तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १३४ ।। तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना । नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ।। १३५ ।। गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चाद्धूपदानावसानके ।। १३६ ।। अग्नौ च रक्षोवायवीशदिक्षु दिक्षु हृदाद्यणून् । तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ।। १३७ ।। इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् । एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ।। १३८ ।। पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च । नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ।। १३९ ।। पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् । मूलेन शतपञ्चाशद्दशसंख्येन वा गुरुः ।। १४० ।। मूलाद्दशांशसंख्यैस्तैरङ्गैर्होमं समाचरेत् । नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ।। १४१ ।। पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् । पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ।। १४२ ।। नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा । पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।। १४३ ।। पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति । एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ।। १४४ ।। षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् । ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ।। १४५ ।। नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा । विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ।। १४६ ।। नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् । स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ।। १४७ ।। आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने । अष्टौ च नवसंख्ये स्युः पञ्चविंऽसतिसंख्यके ।। १४८ ।। लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके । लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ।। १४९ ।। पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् । एकोनपञ्चाशत्संख्यकलशे देवता मताः ।। १५० ।। गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके । अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ।। १५१ ।। अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः । वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ।। १५२ ।। शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् । अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ।। १५३ ।। उत्सवं दमनारोहं पवित्रारोहणक्रिया । दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ।। १५४ ।। नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः । जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।। १५५ ।। किंतु तस्य ध्वजे मूषं वा समालिखेत् । शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ।। १५६ ।। ध्वजहोमबलीन् हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ।। १५७ ।। उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता । उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ।। १५८ ।। अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः । वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ।। १५९ ।। शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् । सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ।। १६० ।। अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ।। १६१ ।। इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः पञ्चचत्वारिंशत्तमः पटलः ।। गजवक्त्रो गणाधीशो भूरूपो महोदरः । जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।। स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीट मकुटोज्ज्वलम् ।। शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् । स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ।। अवामावामवर्तेभ हस्तः पद्मासनस्थितः । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम् उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम् दिगम्बरां सुवदनां भुजद्वय समन्विताम् विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम् पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम् चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम् इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम् स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः गजवक्त्रो गणाधीशो भूतरूपो महोदरः नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम् स्थानकं वासनं वाथ गणेशं कारयेत्ततः गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा आसीनमासने रत्नमकुटादि विभूषितम् ४६. षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ।। १ ।। जटामकुटसंयुक्तो वक्रनागफणावृतः । पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ।। २ ।। त्रिंशत्संख्यावसानास्स्युः जटास्तास्सान्तरालकाः । धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ।। ३ ।। कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया । वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ।। ४ ।। युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः । व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ।। ५ ।। वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः । दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ।। ६ ।। कस्थ ब्रह्मकपालेन नानापुष्पैरलंकृतः । धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ।। ७ ।। शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः । स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ।। ८ ।। कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः । अम्बिकामुखबिंबाब्ज भ्रमरीकृतलोचनः ।। ९ ।। आबद्धकिंकिणीयुक्तः तद्वन्नूपुरशोभितः । वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ।। १० ।। दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च । वामापरकरस्थेन वह्निना दक्षकेन तु ।। ११ ।। डिन्डिमेन समायुक्त उपवीतेन संयुतः । गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ।। १२ ।। नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः । मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ।। १३ ।। नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् । ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ।। १४ ।। हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् । श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसंमतम् ।। १५ ।। सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् । सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ।। १६ ।। तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् । तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ।। १७ ।। सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः । सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ।। १८ ।। ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् । सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ।। १९ ।। सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः । सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ।। २० ।। सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् । अथवान्यप्रकारेण सूत्रपातोभिधीयते ।। २१ ।। कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः । नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ।। २२ ।। स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् । सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ।। २३ ।। बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् । मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ।। २४ ।। कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् । नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ।। २५ ।। सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् । बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ।। २६ ।। मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् । कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ।। २७ ।। पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् । स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ।। २८ ।। तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् । श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ।। २९ ।। तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् । तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ।। ३० ।। तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः । तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ।। ३१ ।। तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः । सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ।। ३२ ।। भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः । विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ।। ३३ ।। धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः । धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ।। ३४ ।। कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः । एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ।। ३५ ।। बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् । अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ।। ३६ ।। देवस्य वक्त्रमानेन स्यादपस्मारमानकम् । वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ।। ३७ ।। वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् । चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ।। ३८ ।। उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् । उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ।। ३९ ।। केशान्ताद्धनुपर्यन्तं अष्टभागमितिस्मृतम् । गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ।। ४० ।। षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः । तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ।। ४१ ।। तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते । ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ।। ४२ ।। जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः । द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ।। ४३ ।। व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे । आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ।। ४४ ।। देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते । द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ।। ४५ ।। सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता । ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ।। ४६ ।। गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः । प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ।। ४७ ।। सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः । एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ।। ४८ ।। द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा । तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ।। ४९ ।। कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा । भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ।। ५० ।। भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि । उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ।। ५१ ।। द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च । भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ।। ५२ ।। भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते । उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ।। ५३ ।। सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः । चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ।। ५४ ।। शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् । इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ।। ५५ ।। कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ।। ५६ ।। बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् । जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ।। ५७ ।। कुण्ठानि परितः पश्चान्नवपञ्चैक संख्यया । चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ।। ५८ ।। मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् । पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ।। ५९ ।। समरीचिपदे कुर्यात् वास्तुहोमं विधानतः । वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ।। ६० ।। पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् । शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ।। ६१ ।। कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि । शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ।। ६२ ।। वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् । लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ।। ६३ ।। ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां वेदहस्तान् धानां सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभां ।। अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् । अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ।। ६४ ।। तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् । होमं समारभेत् काले मूर्तिपैस्सह देशिकः ।। ६५ ।। कृत्वा कुण्डाग्निसंस्कारं अग्निकार्योक्तमाचरेत् । समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ।। ६६ ।। प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः । ऊदुंबरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ।। ६७ ।। शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः । प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ।। ६८ ।। ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् । गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ।। ६९ ।। रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् । समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ।। ७० ।। उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः । व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ।। ७१ ।। कुंभांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः । पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ।। ७२ ।। वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः । दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ।। ७३ ।। ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् । चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ।। ७४ ।। ततः कुंभान्समुद्धृत्य सर्वातोद्य समाकुलम् । हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ।। ७५ ।। कुंभाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् । वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ।। ७६ ।। विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् । देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ।। ७७ ।। तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः । उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ।। ७८ ।। अनुक्तमत्र सामान्यस्थापनोदित माचरेत् । एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ।। ७९ ।। स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ।। ७९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः षट्चत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः । जटामकुट संयुक्तो वक्रनाग फणावृतः ।। कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः स्थितो दक्षिणपादेन वामेनोपरि वर्तिना कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः दक्षाभयकरस्थेन वह्निना दक्षके न तु डिण्डिमेन समायुक्त उपवीतेन संयुतः गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक् नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः ४७. सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् । तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ।। १ ।। चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः ।। २ ।। कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ।। ३ ।। सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामेगौर्या च संयुतः ।। ४ ।। सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः । ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ।। ५ ।। श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् । मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ।। ६ ।। चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् । उष्णीषात्तुककुद्वंश कण्ठस्फिक् मध्यमाद्गतम् ।। ७ ।। पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् । हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ।। ८ ।। जानुः पक्षांगुलं वामे लम्बितस्य गुणाङ्गुलम् । सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ।। ९ ।। ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः । तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणांगुलम् ।। १० ।। सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् । कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ।। ११ ।। नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् । वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ।। १२ ।। वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया । ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ।। १३ ।। देवोच्चदशभागैक भागेनाभद्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। १४ ।। द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः । कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ।। १५ ।। दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः । द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ।। १६ ।। देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा । आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ।। १७ ।। स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः । सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।। १८ ।। प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका । रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ।। १९ ।। हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् । तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ।। २० ।। तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् । दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ।। २१ ।। जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् । दिगऽऽराण्याभवृत्तानि वेदाश्राणि च वानयेत् ।। २२ ।। कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्वहिः । शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ।। २३ ।। पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् । शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ।। २४ ।। कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः । वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ।। २५ ।। शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे । विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ।। २६ ।। स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः । लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ।। २७ ।। परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् । तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ।। २८ ।। कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः । तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ।। २९ ।। पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च । शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ।। ३० ।। प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् । षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ।। ३१ ।। एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् । द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ।। ३२ ।। संप्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः । वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ।। ३३ ।। कुम्भाद्बीजं महेशानहृदि न्यसेत् । वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ।। ३४ ।। सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् । गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ।। ३५ ।। अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् । एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।। ३६ ।। कल्याणकर्म कर्तव्यं यथाविधि विशेषतः । अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ।। ३७ ।। इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः । स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ।। ३८ ।। इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः सप्तचत्वारिंशत्तमः पटलः ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ।। वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया । स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । देवोच्चदशभागैक भगेनाथ द्विभागतः । त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः । कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ।। देव्यूरुसंस्थिता वापि निष्पंकजकरोऽथवा ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः सर्वाभरण संयुक्तो वरदाभयहस्तकः कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः सालम्बदक्षपादेन वामे गौर्या च संयुतः सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् देवोच्चदशभागैक भागेनाथद्विभागतः त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्याच संयुतः ।। देवोच्चदशभागैक भागेनाथ द्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ।। सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः । देवोच्चदशभागैक भागेनाथ द्विभागतः ।। त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ।। ४८. अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् । आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ।। १ ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः । वराभय समायुक्तः पूर्वस्थ कर पल्लवः ।। २ ।। वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे । वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ।। ३ ।। ऊरुस्पृष्ठकरो वापि कटको वा विधीयते । मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। ४ ।। मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता । पराङ्कुखौ संमुखौ चा मृगटङ्कौ समीरितौ ।। ५ ।। दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् । हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ।। ६ ।। मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् । श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ।। ७ ।। शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा । स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ।। ८ ।। नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् । स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ।। ९ ।। कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् । ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ।। १० ।। सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् । ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ।। ११ ।। एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् । अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ।। १२ ।। जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् । अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ।। १३ ।। भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् । तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ।। १४ ।। पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् । प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ।। १५ ।। ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे । सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ।। १६ ।। मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले । कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ।। १७ ।। मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् । एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ।। १८ ।। कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे । मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ।। १९ ।। देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः । उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ।। २० ।। पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् । मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ।। २१ ।। पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् । अग्रे दशांगुलं तस्य मूले तु मुखविस्तरम् ।। २२ ।। तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् । वामे महाफणिं तस्य सर्वालंकार भूषितम् ।। २३ ।। जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः । एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ।। २४ ।। जटामकुटमेतद्धि सर्वालङ्कार मीरितम् । रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ।। २५ ।। पद्म पत्रिकया वापि शोभितं वामकर्णकम् । सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ।। २६ ।। पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् । पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ।। २७ ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। २८ ।। सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः । मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ।। २९ ।। कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। ३० ।। समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः । संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ।। ३१ ।। चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा । सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ।। ३२ ।। तयालिङ्गित देवो वा अन्योन्या लिंगितस्तु वा । आलिंगन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ।। ३३ ।। एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते । कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ।। ३४ ।। रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् । जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ।। ३५ ।। कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया । तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ।। ३६ ।। विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः । समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ।। ३७ ।। पुण्याहं वाचयित्वा तु शययायाः कल्पनं नयेत् । स्नपनं कौतुकं शययारोहणं पृथगाचरेत् ।। ३८ ।। ततः कुंभं शिरोदेशे वर्धनी च तदुत्तरे । लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ।। ३९ ।। परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् । न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ।। ४० ।। कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः । लाजसस्येन्द्रकैश्चैव वटोदुंबर संज्ञकौ ।। ४१ ।। अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः । शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ।। ४२ ।। प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः । प्रभाते देवकुंभाग्नीन् अभ्यर्च्य गुरुरादरात् ।। ४३ ।। वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः । संप्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ।। ४४ ।। प्रतिमाग्रे घटान्न्यस्य कुंभाद्बीजं तु विन्यसेत् । देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ।। ४५ ।। सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् । अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ।। ४६ ।। विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् । कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ।। ४७ ।। कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः । अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ।। ४८ ।। चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः । बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ।। ४९ ।। इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः अष्टचत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्थ करुपल्लवः ।। ऊरुपृष्टकरो वापि कटको वा विधीयते । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ।। हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् । वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्य करपल्लवः ।। वरदं वाम हस्तस्यात् अभयं दक्षिणे करे । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।। चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः वराभय समायुक्तः पूर्वस्थकरपल्लवः मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम् वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः सुपत्रवलयोपेतः सर्वरत्नोपशोभितः छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः सापीहभिन्नपीठा वा देवेनालिङ्गताथवा ४९. एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै । चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ।। १ ।। समभागयुतस्सम्यक् स्थापकेन समन्वितः । सव्यकर्णस्थमकरकुण्डलेन समन्वितः ।। २ ।। कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः । धनुर्बाणयुतोपेत वामेतरकरान्वितः ।। ३ ।। दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः । नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ।। ४ ।। पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शरांगुलम् । दोर्मूलात्परहस्तान्तं षोडशांगुल ईरितः ।। ५ ।। परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः । शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ।। ६ ।। सूत्रन्तुलंबमयेद्वामे वामनासा पुटस्यतु । दक्षिणस्थितपादे च पुरस्तान्मुनि पुंगवाः ।। ७ ।। हृन्नाभिमेढ्रसव्यांघ्रि जानूनां सूत्रतोन्तरम् । सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ।। ८ ।। तत् पादांगुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् । कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।। ९ ।। एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः । सुमुहूर्ते सुलग्ने च कृत्त्वैवांकुर कर्म च ।। १० ।। रत्नन्यासं दृशांमोक्षं बेरशुद्धिं प्रदक्षिणम् । तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ।। ११ ।। मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया । कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।। १२ ।। संकल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् । देवेशस्य शिरोदेशे शिवकुंभं च वर्धनीम् ।। १३ ।। लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् । अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ।। १४ ।। गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः । तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः । पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। १६ ।। शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः । प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ।। १७ ।। प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च । ततो द्वितीय दिवसे देवकुंभाग्नितर्पणम् ।। १८ ।। पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् । सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ।। १९ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ।। २० ।। सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् । विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ।। २१ ।। कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् । उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ।। २२ ।। अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् । प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ।। २३ ।। इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् । सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ।। २४ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः एकोनपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः । सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ।। सव्यकर्णस्थमकर कुण्डलेन समन्वितः । किष्णापरशु संयुक्त परहस्त द्वयान्वितः ।। धनुर्बाणयुतोपेत वामेतर करान्वितः । देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ।। कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् । एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ।। ५०. पञ्चाशत्तमे पटले लिंगोद्भव विधिः लिंगोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते । गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् ।। १ ।। लिंगोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् । तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ।। २ ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिंगाधो शर्वजान्वन्त भागन्नेंद्रिय गोचरम् ।। ३ ।। लिंगोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् । बिंबस्यानन मानेन कारयेत् हंसमादरात् ।। ४ ।। बिंबाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् । तल्लिंगरसभागैक द्वित्रिवेदशरैर्नयेत् ।। ५ ।। व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ । तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ।। ६ ।। लिंगोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः । ब्रह्मविष्णूविहीनो वा हंस सूकर संयुतः ।। ७ ।। इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते । कालश्च पूर्ववत् ग्राह्यः तद्वदेवांकुरार्पणम् ।। ८ ।। पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् । कुण्दानि परितोश्राणि नव पञ्चैक संख्यया ।। ९ ।। दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि । नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ।। १० ।। प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् । भूषणं मण्डपस्यैव वास्तुहोममतः परम् ।। ११ ।। भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः । वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ।। १२ ।। जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः । कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ।। १३ ।। नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् । ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ।। १४ ।। वस्त्रैश्चैवतु संवेष्ट्य गंधाद्यैरर्चयेत्ततः । प्रधानकुंभं तेषां तु शिरो भागे तु विन्यसेत् ।। १५ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ।। १६ ।। लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः । रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ।। १७ ।। देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् । प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ।। १८ ।। ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः । समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ।। १९ ।। पलाशोदुंबराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च । शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ।। २० ।। प्रधानस्य पलाशस्तु स च सर्वत्रवामतः । द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ।। २१ ।। गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः । रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ।। २२ ।। देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् । बिंबानुद्धृत्य संपूज्य कुभान् कुण्डेषु पावकान् ।। २३ ।। देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः । मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् । वेद्याः कुंभान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ।। २४ ।। कुंभात् बीजं समादाय देवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ।। २५ ।। विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् । ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ।। २६ ।। स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् । बिंबान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ।। २७ ।। वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः । अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।। २८ ।। लिंगोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः । इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगोद्भवप्रतिष्ठा विधिः पञ्चाशत्तमः पटलः ।। गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् । लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ।। लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् । बिंबस्याननमानेन कारयेद्धंसमादरात् ।। बिंबद्विमुखमानेन भूकृष्टास्यंतु सूकरम् । ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ।। ५१. एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः । व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ।। १ ।। व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः । द्वाभ्यां विरहितो योगी स नानाकार भेदतः ।। २ ।। चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः । श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ।। ३ ।। व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा । उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ।। ४ ।। विकीर्ण मूर्धजोवापि जटामकुट एव वा । पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ।। ५ ।। धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः । पञ्चमुद्रासमोपेतो गंगा किंकिणि संयुतः ।। ६ ।। अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः । व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ।। ७ ।। लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् । वामांघ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ।। ८ ।। सन्दर्शसंज्ञयोपेता वामहस्तस्थ पुस्तकः । द्वात्रिंन्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ।। ९ ।। अथवा नागसंयुक्तो वामहस्तस्समीरितः । वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ।। १० ।। दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् । विकसत् पद्मसंकाशः अधस्ताद्विस्तृतांगुलिः ।। ११ ।। परहस्तद्वये चाक्ष माला ज्वाला समन्वितः । पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ।। १२ ।। कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः । नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ।। १३ ।। आभंगसहितं कुर्याद्देहमध्ये तु वामतः । सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ।। १४ ।। मात्रंकालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः । लंबपादस्थितं मध्य सूत्रादर्धांगुलान्तरे ।। १५ ।। अर्द्धार्धांगुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् । सदशांगुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ।। १६ ।। नयने मध्यमं विद्यात् अंगुष्ठस्तनयोस्ततः । नाभेस्तु मणिबन्धान्तः धृत्यंगुलमुदाहृतः ।। १७ ।। सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् । नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ।। १८ ।। दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसांगुलम् । परस्यमणिबन्धाच्च भुजमध्याद्भवांगुलम् ।। १९ ।। द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमांगुलात् । हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ।। २० ।। सजटामकुटादेव चूचुकास्य गलान्तकाः । ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ।। २१ ।। शुक्लाद्यंबर संयुक्ताः भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ।। २२ ।। रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ।। २३ ।। व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः । ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ।। २४ ।। वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः । दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ।। २५ ।। कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः । भागमग्रन्तदावामो भागाधिक चतुर्मुखः ।। २६ ।। विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् । कलावक्रास्य विस्तारा यामं वापि षडंगुलम् ।। २७ ।। तत्तुंगन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् । हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ।। २८ ।। त्रिंशदंगुलमित्युक्तमथान्यमणिबन्धतः । आनाभेरन्तरंनालं शेषं सर्वन्तु पूर्ववत् ।। २९ ।। व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् । तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ।। ३० ।। प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः । अथकुञ्चितवामांघ्रि युग्मस्फिग्गतपार्ष्णिकः ।। ३१ ।। उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् । संदर्शदृष्टिपातश्च आभंगञ्चैव पूर्ववत् ।। ३२ ।। नानामृगैस्तु संकीर्णं नाना व्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ।। ३३ ।। भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् । शैलंकुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ।। ३४ ।। फलशाखोप शाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ।। ३५ ।। रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ।। ३६ ।। शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः । आगमाहित चेतोभिः परमेशेन दीक्षितैः ।। ३७ ।। एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः । व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ।। ३८ ।। सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् । आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ।। ३९ ।। वटवृक्ष विहीनो वा भूताद्यावृत एव वा । भूतस्थलंब वा दक्षिणेशस्समीरितः ।। ४० ।। एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यं पूर्ववत् ग्राह्यमंकुरार्पणमेव च ।। ४१ ।। मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया । कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ।। ४२ ।। रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा । ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ।। ४३ ।। पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् । पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ।। ४४ ।। कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् । वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ।। ४५ ।। स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे । शययायां शाययेद्देवं कौशिकादि ऋषीनथ ।। ४६ ।। दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे । शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ।। ४७ ।। व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् । स्वांस्तुकुंभान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ।। ४८ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितोवसुकुंभांस्तु विद्येशाधिष्ठितान्न्यसेत् ।। ४९ ।। रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् । तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ।। ५० ।। तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् । कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ।। ५१ ।। समिदाज्यचरून् लाज तिलसर्षपवैणवान् । जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ।। ५२ ।। बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् । द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ।। ५३ ।। रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः । समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ।। ५४ ।। संपूज्योद्धृत्य बिंबांश्च कुंभान् कुण्डेषु पावकान् । देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ।। ५५ ।। मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् । कुंभान् बिंबपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ।। ५६ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ।। ५७ ।। विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् । तत्तत् कुंभ जलैश्चैव तत्तद्देशोभिषेचयेत् ।। ५८ ।। ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् । तत्तत् कुंभादकैश्चैव तेषां च स्नपनन्नयेत् ।। ५९ ।। श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् । विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ।। ६० ।। देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः । स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ।। ६१ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ।। ६२ ।। सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता । देहान्ते परमेशानं कर्ता यायादसंशयः ।। ६३ ।। इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन विधिरेकपञ्चाशत्तमः पटलः ।। व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक् तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयंमतः अथकुंचितवामांघ्रियुगस्फिग्गतपार्ष्णिकः उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् संदर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् । चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः विकीर्णमूर्धजो वाऽपि जटामकुट एव वा पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम् वामांघ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां संदर्श संज्ञयोपेतं वामहस्तस्थ पुस्तकः अथवा नागसंयुक्तो वामहस्तस्समीरितः परहतद्वये चाक्षमाला जालसमन्वितः व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ।। दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।। ५२. द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः भिक्षाटनस्य वक्ष्येहं कंकालस्यापि लक्षणम् । प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ।। १ ।। पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् । स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ।। २ ।। आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् । क्षौमांबरं सितं कुर्यात् सुन्दरं तं विभूषणम् ।। ३ ।। स शंख पत्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ।। ४ ।। समभंगयुतं वापि कान्तियुक्त निजांगकम् । प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ।। ५ ।। सव्यमध्यांगुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् । वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ।। ६ ।। उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ।। ७ ।। असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् । नानारूपधरैर्भूतैः अनेकैः परिवारितम् ।। ८ ।। भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ।। ९ ।। स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः । आशीर्वादान्विताः काश्चित् - काश्चिदालिंगनोन्मुखाः ।। १० ।। मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वांगुलं नयेत् । सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ।। ११ ।। दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् । नाभेर्मेढ्रात्तु वामे तु भागं सप्तांगुलं भवेत् ।। १२ ।। पादांगुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् । पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ।। १३ ।। सार्धविश्वांगुलैर्वाऽथ तयोरन्तर मिष्यते । प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ।। १४ ।। नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते । पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ।। १५ ।। हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् । ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ।। १६ ।। अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः । पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ।। १७ ।। कंकालपिंचधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् । भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशांगुलम् ।। १८ ।। अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः । तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ।। १९ ।। कंकालदण्डमानन्तु देवस्याधो गलान्तकम् । दंडाग्रेकारयेत् धीमान् कंकालं हि मुनीश्वराः ।। २० ।। योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः । भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ।। २१ ।। एषएवपरोदेवो नग्नः कंकाल वर्जितः । विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ।। २२ ।। कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ।। २३ ।। दिव्यढक्का समायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ।। २४ ।। व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः । सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ।। २५ ।। कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् । नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ।। २६ ।। डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् । कर्णान्तं षोडशैर्मात्रैः शेषं कंकालवद्भवेत् ।। २७ ।। भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा । स्थापनं च समासेन वक्ष्येऽहं मुनिपुंगवाः ।। २८ ।। कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्तांकुरक्रिया । रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ।। २९ ।। जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः । अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ।। ३० ।। नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् । जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ।। ३१ ।। यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् । तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ।। ३२ ।। उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये । पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ।। ३३ ।। स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् । मध्ये देवं च तद्दक्षे जाया भूतानि वामके ।। ३४ ।। यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् । पृथक् कंकाल दण्डश्चेत् शिरोदेशेतु शाययेत् ।। ३५ ।। शक्रशांकरयोर्मध्ये न्यसेत् कुंभञ्च वर्धनीम् । अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ।। ३६ ।। विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् । वीरेशाय नमश्चेति भूतकुंभे यजेत् गुरुः ।। ३७ ।। नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा । कंकालकुंभे कंकालं न्यस्त्वा तत्वादिकान्न्यसेत् ।। ३८ ।। तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते । मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ।। ३९ ।। प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः । विष्नूक्तवत् स्यात् कंकाले तथाहोमं समाचरेत् ।। ४० ।। कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः । तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ।। ४१ ।। पलाशखादिराश्वत्थोदुंबरो दिक्षु संमताः । शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ।। ४२ ।। प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः । देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ।। ४३ ।। ततो द्वितीयदिवसे देवकुंभाग्नि तर्पणम् । पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ।। ४४ ।। मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिंबपुरो घटान् । कुंभाम्मनुं समादाय देवस्य हृदि विन्यसेत् ।। ४५ ।। वर्धन्यामनुमादाय तस्य पीठांबुजे न्यसेत् । अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ।। ४६ ।। तत्तत् कुंभजलैः स्नाप्य स्नपनञ्चोत्सवं महत् । नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ।। ४७ ।। अनुक्तमत्रसंग्राह्यं सामान्यं स्थापनोक्तवत् । एवं यः कुरुतेमर्त्यः स पुण्यांगतिमाप्नुयात् ।। ४८ ।। मध्य सूत्रादि सूत्राणां द्व्यंगुल द्व्यंगुलञ्च यत् । अंगानामपि सर्वेषां तेषां वै सन्निवेशनम् ।। ४९ ।। हस्तानामपि संख्या च वस्त्राण्याभरणानि च । मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ।। ५० ।। आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया । भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ।। ५१ ।। एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । भिक्षाटने च कंकाले प्रतिष्ठैवं समीरिता ।। ५२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः द्विपञ्चाशत्तमः पटलः ।। पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम् समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् नानागण् समायुक्तं नानाभूतसमाकुलम् असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम् एष एव परोदेवः नग्नः कङ्कालवर्जितः विकीर्णोभय पार्श्वस्थ जटालकविभूषितः कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः सत्कपालं च वरदं वाम हस्तं तु कल्पयेत् दिव्यढक्का समायुक्तं वामस्थमपरंकरम् शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरंकरम् व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः सव्यं कोण समायुक्तं अथवा परिकल्पयेत् पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम् दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत् वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम् उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् नानागण समायुक्तं नानाभूतसमाकुलम् असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम् कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत् ५३. त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै । नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ।। १ ।। प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये । नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ।। २ ।। प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः । कालोंकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ।। ३ ।। शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः । पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ।। ४ ।। मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् । कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ।। ५ ।। कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः । पश्चात् शिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ।। ६ ।। पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् । जलादुत्तीर्य बिंबन्तु मृदाद्यैस्नपनं नयेत् ।। ७ ।। गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः । शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ।। ८ ।। शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् । पूर्ववत् स्हापयेत् कुंभान् परितश्शिवकुंभकम् ।। ९ ।। सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः । शिवंकुंभे यजेदस्त्रन्देवं पाशुपताह्वयम् ।। १० ।। तल्लक्षणोक्तरूपन्तु ध्यात्वागंधादिभिस्तदा । हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ।। ११ ।। दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि । मन्त्रेण वाथ संपूर्णन्देवं पाशुपताह्वयम् ।। १२ ।। अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः । ओंकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ।। १३ ।। मन्त्रेण विधिवत् भिन्ना ओंकाराद्याहृदादयः । हृदयादि समोपेता हुंफडन्ताः नमोन्तकाः ।। १४ ।। हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा । हुंकारकल्पितेनैव ह्रदासंपुरितेन च ।। १५ ।। वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः । तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ।। १६ ।। मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः । कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ।। १७ ।। समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् । पूर्वोक्तमूलब्रह्मांगैर्होमं पूर्वोक्तसंख्यया ।। १८ ।। तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः । पलाशोदुंबराश्वत्थ वटा इन्द्रापि दिक्षु च ।। १९ ।। शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः । प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ।। २० ।। संपूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः । प्रतिमाग्रेघटान्यस्वा तत् कुंभात्तुमनुं हृदि ।। २१ ।। न्यसेत् पीठांबुजेतस्य परिवारमनुन्यसेत् । स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।। २२ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ।। २३ ।। यात्त्येव च सुखं मोक्षमिहापि च परत्र च ।। २३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः त्रिपञ्चाशत्तमः पटलः ।। ५४. चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् । पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ।। १ ।। उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् । पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ।। २ ।। सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः । दिव्यलांगूलसंयुक्तं सुविकीर्ण जटान्वितम् ।। ३ ।। कन्धरोर्ध्वंनराकारं दिव्यमौकि समायुतम् । सिंहास्यं भीमदंष्ट्रंच भीमविक्रमसंयुतम् ।। ४ ।। हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् । कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ।। ५ ।। नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् । पादाभ्यामंबरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ।। ६ ।। गगनाभिमुखं देवं कारयेत् शरभेश्वरम् । एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ।। ७ ।। अष्टवर्गादिमंबीजं चतुर्दशविभूषितम् । षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ।। ८ ।। शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि । ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ।। ९ ।। आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् । योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ।। १० ।। कल्पयेदाद्यवर्णेन ब्रह्माण्यंगानि देशिकः । वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ।। ११ ।। मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः । बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ।। १२ ।। पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः । स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ।। १३ ।। कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् । प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ।। १४ ।। अंकुरार्पणकार्यन्तु तद्विधानेन कारयेत् । नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ।। १५ ।। मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् । जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ।। १६ ।। मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् । पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ।। १७ ।। स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् । विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ।। १८ ।। पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् । शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ।। १९ ।। पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् । उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ।। २० ।। भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो । रक्तवस्त्रेण संवेष्ट्य कुंभस्थापनमारभेत् ।। २१ ।। विन्यसेत् शिवकुंभं च विष्णुकुंभं च विन्यसेत् । स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ।। २२ ।। परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् । ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ।। २३ ।। प्रागुक्ताणु स्वरूपज्ञो गंधाद्यैरर्चयेत् गुरुः । हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ।। २४ ।। विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् । शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ।। २५ ।। मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि । मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ।। २६ ।। ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् । समिद्भिरपिपालाशैः घृतेन चरुणापि च ।। २७ ।। तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् । पूर्णांहुत्वा द्वितीयेह्नि वह्निकुंभामरार्चनम् ।। २८ ।। संप्राप्तदक्षिणस्तुष्टो गुरुस्संपूजितस्सह । मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ।। २९ ।। देवेशाग्रेघटान्यस्वा संकल्प्य स्थण्डिलं गुरुः । कुंभात् बीजं समादाय शरभेश हृदि न्यसेत् ।। ३० ।। विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् । अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।। ३१ ।। तत्तत् कुंभोदकैश्चैव स्नापयेत्परमेश्वरम् । स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ।। ३२ ।। एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् । अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ।। ३३ ।। स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् । देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ।। ३४ ।। सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् । वश्याकर्षण विद्वेषमनेन विधिना नयेत् ।। ३५ ।। अनुक्तमत्रसंग्राह्यं सामान्यस्थापनोक्तवत् । कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ।। ३६ ।। भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः । इयत्ता पुण्य संघस्य भोगान् भुक्त्वेह जन्मनि ।। ३७ ।। वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ।। इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः चतुष्पञ्चाशत्तमः पटलः ।। पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् । ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ।। पादैस्सिंह पदाकारैः चतुर्भुजश्च समन्वितम् । सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ।। दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् । कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ।। सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् । हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ।। कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् । नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।। पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु । गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।। ५५. पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः । प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ।। १ ।। उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। २ ।। एवं जानुरुनाभ्यन्त स्तनवक्षो गलास्यगम् । सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ।। ३ ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वांगसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। ४ ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। ५ ।। नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। ६ ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभंगसहितं कुर्यादागम शवणोन्मुखम् ।। ७ ।। नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः । नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ।। ८ ।। हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्जलि हस्तञ्च शंखाब्जापरहस्तकम् ।। ९ ।। कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः । कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ।। १० ।। इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यंमंकुरं रत्नविन्यासमुभयत्र च ।। ११ ।। नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् । तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ।। १२ ।। कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् । नवपञ्चैक संख्यानां लक्षणैः पूर्ववत् द्विजाः ।। १३ ।। तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् । वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ।। १४ ।। स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् । आरोहणं च शययायाः तस्याञ्च शयनं नयेत् ।। १५ ।। देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि । देवेश पादमूलेतु तेषां च शयनं नयेत् ।। १६ ।। देवोत्तमांगदेशेतु शिवकुंभञ्चवर्धनीम् । अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ।। १७ ।। तत्तदध्याय संसिद्धिं संग्राह्यं मुनि पुंगवाः । कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ।। १८ ।। समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् । सत् पलाशवटप्लक्षो दुंबराः पूर्वतो भवेत् ।। १९ ।। शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ।। २० ।। चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः । निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ।। २१ ।। द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः । संपूज्योद्धृत्य देवांस्तु कुंभान् कुण्डेषु पावकान् ।। २२ ।। सुमुहूर्तेऽठ संप्राप्ते सन्त्रन्यासं समाचरेत् । वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ।। २३ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । कृतस्थण्डिलका धारा बिंबाग्रेतु घटा न्यसेत् ।। २४ ।। कुंभान्मनुं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ।। २५ ।। देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् । अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।। २६ ।। चण्डेशादिषु देवेषु तत्तत् कुंभान् मनुं न्यसेत् । तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ।। २७ ।। स्नपनंञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा । देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ।। २८ ।। एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः पञ्चपञ्चाशत्तमः पटलः ।। उमया सहितस्याथ चन्द्रशेखरमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् । कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः उमया सहितस्याथ चन्द्रशेखमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ।। नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।। ५६. षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् । स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।। १ ।। सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः । त एवानुग्रपराः भक्तानुग्राहकामताः ।। २ ।। देवदानव गंधर्व मुनयो मनुजातयः । पिपीलिका गजाद्यन्ताः जंगमास्थावराश्चये ।। ३ ।। तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः । दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ।। ४ ।। शिवाधिष्टित देहस्तु मरणं याति यो नरः । सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ।। ५ ।। तस्मादुत्क्रान्तिकालेतु स्वेष्टलिंगन्तु संस्पृशन् । प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ।। ५ ।। सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् । आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ।। ६ ।। कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः । द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ।। ८ ।। तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः । भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ।। ९ ।। संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः । कालः प्राग्वत् समुद्दिष्ट स्तथैवांकुरकर्म च ।। १० ।। रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् । ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ।। ११ ।। प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् । कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ।। १२ ।। चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा । तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ।। १३ ।। स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् । शयनारोहणं कुंभस्थापनं पूर्ववन्नयेत् ।। १४ ।। तत्पादेभक्तकुंभन्तु तत्तद्ध्यान समन्वितम् । आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ।। १५ ।। तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् । अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ।। १६ ।। समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः । पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।। १७ ।। शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः । प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ।। १८ ।। ततो द्वितीयदिवसे कृतकुंभाग्नि पूजितः । पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ।। १९ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिंबपुरोघटान् ।। २० ।। कुंभान्मन्त्रं समादाय देवस्य हृदये न्यसेत् । देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ।। २१ ।। विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् । ततः कुंभाजलेनाथऽथ तौ च संस्नापयेत् सदा ।। २२ ।। भक्तकुंभस्य बीजन्तु तत भक्त हृदयेन्यसेत् । आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ।। २३ ।। तत् कुंभस्थ जलेनापि स्नापयेत् पीठमादरात् । स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ।। २४ ।। उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् । विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ।। २५ ।। तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः । एवं यः मर्त्यः स पुण्यांगतिमाप्नुयात् ।। २६ ।। पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् । देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। २७ ।। यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः । मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ।। २८ ।। जीवन्नेवाथवा कुर्यात् आत्मानं शिवसंज्ञितम् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः षठपञ्चाशत्तमः पटलः ।। सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् । आसीनां स्थितां वापि शयितां शुभलक्षणाम् ।। कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः । द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ।। ५७. सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।। १ ।। कुञ्चितासव्यपादस्तु व्याघ्र चर्मांबरान्वितः । ततोद्धृत सदक्षांघ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ।। २ ।। दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः । दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ।। ३ ।। कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः । शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ।। ४ ।। सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् । तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलांगुलम् ।। ५ ।। कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् । कर्णाग्रंतद्वितालं स्यात् दोस्समं परहस्तकम् ।। ६ ।। कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् । मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ।। ७ ।। नाभेस्सव्ये च वामांघ्रेरग्रे सूत्रं पुरो भवेत् । तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ।। ८ ।। स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् । अधोद्धृतांघ्रि जानूच्चं कट्यग्र सममेव हि ।। ९ ।। जंघमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् । दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ।। १० ।। परहस्तौ च कटकौ शूलहस्तस्थैव च । तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ।। ११ ।। सूत्रादन्वित जान्वन्तो गुणवह्ण्यंगुलो भवेत् । उद्धृतस्य तलस्याग्र जंघायास्मृति मात्रकम् ।। १२ ।। कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् । उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ।। १३ ।। शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् । दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ।। १४ ।। देवस्थन्नाभिमानेन नवतालेन कारयेत् । कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ।। १५ ।। अथवाथहराल्लिंगात् निर्गतात् पतितन्नयेत् । कालान्तलिंगमानाद्यं लिंगोद्भूतोक्तवन्नयेत् ।। १६ ।। त्रिभंगेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः । बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ।। १७ ।। कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु । मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ।। १८ ।। अपस्मारशरीरस्थ चरणेन युतो न वा । कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ।। १९ ।। अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् । कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ।। २० ।। भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् । मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ।। २१ ।। शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् । मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ।। २२ ।। देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः । लंभिनी तापिनी चैव वेदिनी द्राविणी तथा ।। २३ ।। मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे । मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ।। २४ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । वाराद्यं अंकुरं यागमण्टपं पूर्ववन्नयेत् ।। २५ ।। कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक संख्यया । दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ।। २६ ।। रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् । ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ।। २७ ।। देवे च काले कामे च कारयेत्तु पृथक् पृथक् । वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ।। २८ ।। देवस्य पाददेशेतु शययास्यात् काल कामयोः । कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ।। २९ ।। ईशकुंभं शिरोदेशे वर्धनीं तस्य चोत्तरे । कालकुंभं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ।। ३० ।। कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् । मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ।। ३१ ।। कामस्य पार्श्वयोः कॢप्त शययाशयितयोरपि । देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ।। ३२ ।। विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् । विद्येश्वरात्मकान्यस्य यजेत् गंधादिभिस्ततः ।। ३३ ।। तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् । तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ।। ३४ ।। कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् । आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ।। ३५ ।। शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि । मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ।। ३६ ।। प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः । कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ।। ३७ ।। अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् । पलाशो ढुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। ३८ ।। शमीखादिरमायूर श्रीवृक्षावह्निकोणतः । पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ।। ३९ ।। कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः । नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ।। ४० ।। देशिकस्सुविशुद्धात्मा संपूज्योद्धृत बिंबकः । कुंभान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ।। ४१ ।। वस्त्रहेमांगुलीयाद्यैः पूजितो मूर्तिपादिभिः । संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ।। ४२ ।। कुंभान् बिंबपुरो न्यस्य शिवकुंभमनुस्मरन् । शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ।। ४३ ।। वैद्येशकुंभबीजानि तत् पीठे परितो न्यसेत् । अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ।। ४४ ।। स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। ४५ ।। एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् । देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः सप्तपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः । कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ।। ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः । दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ।। दक्षहस्तस्थ परशुः नागपाश्ऽथवाम्गः । कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ।। शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा । शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ।। उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् । कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ।। देवस्यनाभिमानेन नवतालेनकारयेत् । कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ।। अथवाथ हराल्लिंगात् निर्गतान् पतितं नयेत् । कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ।। बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ।। कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु । मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ।। ५८. अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् । जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ।। १ ।। त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः । समभंगयुतो देव स्थानकस्थ प्रकीर्तितः ।। २ ।। सकुञ्चात् सव्यसत्पाद स्थितसव्येतरांघ्रिकः । इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ।। ३ ।। जल संग्रहणे योग्य वरवाम करान्विताः । स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ।। ४ ।। आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे । नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ।। ५ ।। एकैकमंगुलन्नीत्वा नाभिसूत्र समं भवेत् । वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ।। ६ ।। अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् । पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुंगवाः ।। ७ ।। मेद्रमूलसमन्दक्ष कटकस्यास्य लंबनम् । नाभेस्तं मणिबन्धान्तं स्मृत्यंगुलमितीरितम् ।। ८ ।। तद्बाहुमध्यात् पार्श्वान्तं शरांगुलमितिस्मतम् । पादांगुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ।। ९ ।। सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् । अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ।। १० ।। पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह । देवीदृगास्य चिबुक कक्ष चूचुकमानता ।। ११ ।। तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः । युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ।। १२ ।। श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् । पादांगुष्ठद्वयोर्मध्यं भवेदष्टदशांगुलम् ।। १३ ।। रसांगुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता । देवोच्चदशभागैक भागादेकादशावधि ।। १४ ।। भागमानयुतः श्यामः किरीटमकुटान्वितः । गृहीत शंख चक्रश्च हस्ताभ्यां धृतयापि च ।। १५ ।। तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः । नासाग्रात् स्थितपाद्यस्य चांगुष्ठान्तं विलंबयेत् ।। १६ ।। तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् । कुण्डिकोत्सेधविस्तारो तालसूत्रांगुलौ मतौ ।। १७ ।। तद्गलोत्सेधविस्तारो कलयाकोलकेन च । आस्यंपञ्चांगुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ।। १८ ।। तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् । एकांगुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ।। १९ ।। पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता । तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ।। २० ।। कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् । नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ।। २१ ।। तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् । वरदः कटकौ स्यातां वामेतर करावुभौ ।। २२ ।। हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् । चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ।। २३ ।। होमोन्मुख्ं प्रसन्नन्तं किंकुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ।। २४ ।। वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ । वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ।। २५ ।। स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ । सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ।। २६ ।। विलंबितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् । तत्पादांगुष्ठ मूलान्तान्नाभेर्वसुदशांगुलम् ।। २७ ।। अभय~चूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् । तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ।। २८ ।। ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् । ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ।। २९ ।। देवस्यांगुलमानेन द्विविंशत्यंगुलो भवेत् । अग्निकुण्डस्यविष्कंभस्त्रिमेखल युतस्य च ।। ३० ।। मेखलैकांगुलाप्रोक्ता प्रत्येकं मुनिपुंगवाः । द्वादशांगुलविस्तार दैर्घ्या सा सप्तजिह्वकः ।। ३१ ।। पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् । शिवादिहस्तसूत्राणां प्रमाणंद्व्यन्तरन्तु यत् ।। ३२ ।। उद्धृतिर्हस्त पादानामन्यांगाना मिहोच्यते । एषामेवनतिश्चापि संकोचो निर्गमोऽपि वा ।। ३३ ।। शरचापादि शास्त्राणां संग्रहे संस्थितिस्त्वियम् । अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ।। ३४ ।। दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः । भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ।। ३५ ।। दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः । देवीनामेवमेवस्यान्नरादीनां विशेषतः ।। ३६ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । संभाव्य पूर्ववत् कालं प्राग्वत् कृत्वांकुरार्पणम् ।। ३७ ।। देवस्यसव्ये ब्रह्माणं उत्तरे विष्णुमेव च । गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ।। ३८ ।। नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि । शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ।। ३९ ।। दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना । बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ।। ४० ।। तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः । ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरंबिकां श्रियम् ।। ४१ ।। यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् । पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ।। ४२ ।। अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः । योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ।। ४३ ।। स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः । देवस्यमण्डपे चापि कुण्डानि नव संख्यया ।। ४४ ।। पञ्चैक संख्ययावपि चतुरश्रनिभानि वा । दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ।। ४५ ।। उद्वास्यशिल्पिनं पश्चात् विप्रान् संभोजयेत्ततः । पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ।। ४६ ।। स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् । शयने शाययेद्देवन्तस्य वामे च दक्षिणे ।। ४७ ।। कृष्णञ्चैवाथभिन्न शययायां शाययेत् गुरुः । देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ।। ४८ ।। उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् । रक्तेन वासमा देवं देविं पीतेन केशवम् ।। ४९ ।। कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् । आचार्या स्संग्रहीतव्याः प्रतिमण्टपमुत्तमाः ।। ५० ।। गुरवः प्रतिदेवं वा संग्राह्यामुनिपुंगवाः । देवोत्तमांग देशेतु शिवकुंभञ्च वर्धनीम् ।। ५१ ।। ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् । परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ।। ५२ ।। देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् । वामाद्याधिष्ठितानष्ट कुंभाश्च परितो न्यसेत् ।। ५३ ।। तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् । यजेत् गंधादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ।। ५४ ।। तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः । अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ।। ५५ ।। ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् । समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ।। ५६ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च । शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ।। ५७ ।। प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः । प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।। ५८ ।। स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये । प्रभाते कृतनित्यन्तु कर्ता संपूजयेत् गुरुम् ।। ५९ ।। वस्त्रहेमांगुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् । तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ।। ६० ।। प्रतिमाग्रे घटन्न्यस्त्वा कुंभान् बीजन्तु विन्यसेत् । वर्धन्याबीजमादाय देवीहृदय मध्यमे ।। ६१ ।। सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे । भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ।। ६२ ।। अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् । संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ।। ६३ ।। दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् । कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ।। ६४ ।। सदाशिवादि देवानां देवीयस्य यथा मता । तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ।। ६५ ।। प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा । तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ।। ६६ ।। यथा वा लभते शोभा बलन्तेषां यथा भवेत् । तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ।। ६७ ।। सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु । दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ।। ६८ ।। प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा । एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ।। ६९ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः अष्टापञ्चाशत्तमः पटलः ।। जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः । त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।। समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः । कुञ्चितः सव्यपादस्तु स्थितसव्येतरांध्रिकः ।। इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः । जलसंग्रहणे योग्य वरवामकरान्वितः ।। स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह देवी दृगास्य चिबुक कक्षनूचुक मानका तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम् देवोच्च दशभागैक भागादेक दशावधि भागमानयुतः श्यामः किरीट मकुटान्वितः गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत् चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम् मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम् वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ स्रुवपात क्रियोपेतौन्योतु कटकामुखौ भूषणानां च सर्वेषां वामदक्षिण भेदतः दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ५९. एकोनषष्टितमे पटले कल्याण कर्म विधिः वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने । पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ।। १ ।। तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके । प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ।। २ ।। स्तण्डिलं तत्र संक्ल्प्य सितवस्त्रोत्तरच्छदम् । स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ।। ३ ।। गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः । अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ।। ४ ।। प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः । देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ।। ५ ।। तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् । विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ।। ६ ।। पाद्याचमनं सदशं चाम्बरद्वयम् । आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ।। ७ ।। स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् । सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ।। ८ ।। पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् । गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ।। ९ ।। पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः । देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ।। १० ।। आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् । अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ।। ११ ।। कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः । शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ।। १२ ।। सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः । अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ।। १३ ।। वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् । ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ।। १४ ।। शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि । पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ।। १५ ।। समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् । गुडदुग्धाज्य संमिश्रं मधुपर्कं हृदा प्रभोः ।। १६ ।। दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा । हुत्वा षोडश संख्यातं ततस्त्वाज्येन षोडश ।। १७ ।। नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा । ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ।।१८ ।। त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् । शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ।। १९ ।। तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः । ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ।। २० ।। पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् । संगृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ।। २१ ।। उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया । प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ।। २२ ।। शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् । तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ।। २३ ।। अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् । देशिकस्य तथान्यस्य सङ्गुलीय करेण च ।। २४ ।। प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा । अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ।। २५ ।। द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् । कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ।। २६ ।। शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु । विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ।। २७ ।। शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् । संपूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ।। २८ ।। ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् । तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ।। २९ ।। समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते । शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ।। ३० ।। अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना । शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ।। ३१ ।। वर्मणा तच्च संपूय नवखट्गोपरि स्थितम् । दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ।। ३२ ।। स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् । चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ।। ३३ ।। देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् । वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ।। ३४ ।। एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् । भिन्नपीठाम्बिकानां तु मूललिंगस्य च द्विजाः ।। ३५ ।। किंतु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् । गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ।। ३६ ।। मूललिंगस्य चोद्बाह्ये गर्भागारात्तु मण्डपे । विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ।। ३७ ।। प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः । स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ।। ३८ ।। आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः । इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ।। ३९ ।। गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् । यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ।। ४० ।। इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः पटलः ।। ६०. षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ।। १ ।। उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ।। २ ।। करमकुटं वाममलकेन समन्वितम् । ललाट दक्षिणे भागे नयनार्धेन संयुतम् ।। ३ ।। पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्र कुण्डलं तं विनावाथ कारयेत् ।। ४ ।। सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे । देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ।। ५ ।। दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः । तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ।। ६ ।। उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनांबरं सव्यपादं कुञ्चितमिष्यते ।। ७ ।। सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् । आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ।। ८ ।। वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् । नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ।। ९ ।। चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् । सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ।। १० ।। द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा । पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ।। ११ ।। अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् । चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ।। १२ ।। अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः । प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ।। १३ ।। भुजद्वययुतं शङ्ख कटकस्तत्र संमतः । पीतांबर समोपेतं सर्वाभरण संयुतम् ।। १४ ।। चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् । हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ।। १५ ।। बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः । तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ।। १६ ।। कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ।। १७ ।। प्रदक्षिणं पुरादीना मुदके चाधिवासनम् । सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ।। १८ ।। किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः । मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ।। १९ ।। प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् । शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ।। २० ।। पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् । शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ।। २१ ।। बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः । शयनारोहणं कृत्वा शाययेद्देवमादरात् ।। २२ ।। शिरः प्रदेशे देवस्य शिवकुंभं तु विन्यसेत् । उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ।। २३ ।। विष्णुश्चेत्तच्छिरोदेशे विष्णु कुंभं तु विन्यसेत् । तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ।। २४ ।। परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् । गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ।। २५ ।। तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् । क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ।। २६ ।। मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते । शर्वं च पशुपत्युग्ररुद्रांश्चेतांबलोत्कटान् ।। २७ ।। धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् । विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ।। २८ ।। पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् । पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ।। २९ ।। ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् । न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ।। ३० ।। जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ । न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ।। ३१ ।। शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् । ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ।। ३२ ।। तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् । एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ।। ३३ ।। संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् । अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ।। ३४ ।। समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि । होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ।। ३५ ।। पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ।। ३६ ।। प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते । विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ।। ३७ ।। ततो द्वितीये दिवसे देवान् कुंभाश्च पावकान् । यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ।। ३८ ।। मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः । शुभे महूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ।। ३९ ।। कुंभान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् । विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ।। ४० ।। कृष्णस्य कुंभात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् । अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।। ४१ ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं तद्देव स्थापनोदितम् ।। ४२ ।। विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ।। ४२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः षष्ठितमः पटलः ।। उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः करण्ट मकुटं वामं मलकेन समन्वितम् ललाट दक्षिणे भागे नयनार्धेन संयुतम् पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम् सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् संव्ये टंकाभयौ हस्ते उत्पलं वामगे करे उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम् व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि । भुजद्वयुतं शङ्खं कटकस्तत्र संमतः ।। पीताम्बर समोपेतं सर्वाभरण संयुतम् । चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ।। ६१. एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ।। १ ।। कृष्णा परशु संयुक्तो जटामकुटमण्डितः । ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।। २ ।। दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ।। ३ ।। स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् । कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ।। ४ ।। अथवा शिवलिंगस्य पार्श्वयोः नतगतौ तु तौ । अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ।। ५ ।। अथवा मध्यमे लिंगं पृथगालय संस्थितम् । तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ।। ६ ।। पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः । संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ।। ७ ।। पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः । भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ।। ८ ।। नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे । एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।। ९ ।। शिवलिंग प्रतिष्ठा च ब्रह्मणः केशवस्य च । तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ।। १० ।। इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते । पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ।। ११ ।। रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् । प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ।। १२ ।। कुण्डानि कारयेत्तत्र नवपञ्चैक संख्यया । दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ।। १३ ।। तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् । स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ।। १४ ।। ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् । शयनारोहं कुंभ स्थापनं पूर्वन्नयेत् ।। १५ ।। देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् । न्यस्त्वा तु शिवकुंभस्य उत्तरे वर्धनीं न्यसेत् ।। १६ ।। तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् । तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ।। १७ ।। अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् । तिलसर्षप मुद्गांश्च माषशिंबाद वैणवैः ।। १८ ।। पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः । शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ।। १९ ।। प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः । ततो द्वितीय दिवसे देव कुंभाग्नि तर्पणम् ।। २० ।। पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः । संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।। २१ ।। मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिंब पुरो घटान् । कुंभान्मनुं समादाय देवस्य हृदि विन्यसेत् ।। २२ ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ।। २३ ।। आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् । तत्तत् कुंभजलैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २४ ।। स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च । अनुक्त मत्र संग्राह्यं तत्त दध्याय चोदितम् ।। २५ ।। प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु । इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ।। २६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम एकष्टितमः पटलः ।। रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः । कृष्णापरशु संयुक्तः जटामकुटमण्डितः ।। ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ।। सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् । कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ।। ६२. द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।। १ ।। परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् । पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।। २ ।। अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके । स हस्तो हंस पक्षो वा पताकाधोमुखस्तु वा ।। ३ ।। तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् । तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ।। ४ ।। तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् । प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ।। ५ ।। हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् । एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ।। ६ ।। पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् । समभङ्गयुतो देवः स्थानकेनापि संयुतः ।। ७ ।। ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके । गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ।। ८ ।। सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् । सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ।। ९ ।। सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् । शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ।। १० ।। द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ।। ११ ।। अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ।। १२ ।। संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ।। १३ ।। मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् । एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ।। १५ ।। कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् । वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ।। १५ ।। जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् । कुण्डानि नवपञ्चैक संख्यया तत्र कारयेत् ।। १६ ।। चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा । पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ।। १७ ।। पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् । स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ।। १८ ।। आरोप्य शयने पश्चात् कुंभान् संस्थापयेत्तमः । शिवस्य च शिरोदेशे शिवकुंभं च वर्धनीम् ।। १९ ।। यदि भिन्नो वृषो देवपादमूले तु शाययेत् । दक्ष मस्तक संयुक्तां शययां संकल्प्य व पृथक् ।। २० ।। वृषमस्तकदेशे तु वृषकुंभं तु विन्यसेत् । परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ।। २१ ।। गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः । तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ।। २२ ।। अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् । समिदाज्यान्नलाजादि तिलसर्षप माषकैः ।। २३ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ।। २४ ।। प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् । ततो द्वितीये संतर्प्य देवान् कुंभांश्च पावकान् ।। २५ ।। समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः । संप्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ।। २६ ।। घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् । कुंभाद्बीजं समादाय देवस्य हृदि विन्यसेत् ।। २७ ।। वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २८ ।। वृष कुंभान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् । अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।। २९ ।। विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् । कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ।। ३० ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ।। ३१ ।। इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः । घनो वाप्य घनो वापि वृषभस्य च संमतः ।। ३२ ।। प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह । लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ।। ३३ ।। इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः द्विषष्ठितमः पटलः ।। वृषभारुधः चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः । परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ।। पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् । अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् समभङ्गयुतो देवण् स्थानकेनापि संयुतः तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत् पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ।। ६३. त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।। १ ।। दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः । तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ।। २ ।। संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः । जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ।। ३ ।। तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् । स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ।। ४ ।। सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः । हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ।। ५ ।। पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् । वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ।। ६ ।। इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः । देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ।। ७ ।। कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् । गलान्तं वाष्टतालेन विलंबितं जटान्वितम् ।। ८ ।। वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् । द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ।। ९ ।। कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् । रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ।। १० ।। तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः । प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ।। ११ ।। तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः । चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ।। १२ ।। मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् । पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ।। १३ ।। स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकं । भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ।। १४ ।। शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः । देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ।। १५ ।। देवेशस्य शिरः पार्श्वे शिवकुंभं च वर्धनीम् । भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ।। १६ ।। हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् । परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ।। १७ ।। पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः । गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ।। १८ ।। तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः । भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ।। १९ ।। पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना । मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ।। २० ।। बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् । चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ।। २१ ।। भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः । गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ।। २२ ।। कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः । तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ।। २३ ।। दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् । तत्तद्देव पुरस्तत्तत् कुंभान् न्यस्त्वा गुरूत्तमः ।। २४ ।। शिव कुंभमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् । वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।। २५ ।। अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् । गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ।। २६ ।। भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् । तत्तत् कुंभ जलेनैव स्नापयेत्तत् प्रदेशके ।। २७ ।। सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् । विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ।। २८ ।। कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः । कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ।। २९ ।। अनुक्तमत्र संग्राह्यं सामान्य स्थापनोक्तवत् । भगीरथ युतो वायं वियुक्तो वा महेश्वरः ।। ३० ।। जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः । इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ।। ३१ ।। यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ।। ३११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम त्रिषष्टितमः पटलः ।। ६४. चतुष्षष्ठितमे पटले गुह स्थापन विधिः गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ।। १ ।। नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् । अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ।। २ ।। अन्येदेवालयेऽप्येवमथवा पर्वतोपरि । पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ।। ३ ।। राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा । प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ।। ४ ।। कुमारालय इष्टस्यात् धाम लक्षण लक्षितः । अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ।। ५ ।। त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः । दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ।। ६ ।। रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् । गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ।। ७ ।। एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः । शिवोक्त मार्ग संकॢप्त गर्भाद्येष्ट कयान्वितः ।। ८ ।। तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः । दिङ्न्यस्त देव विन्यस्त मध्यकुंभ युतेन च ।। ९ ।। धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह । प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।। १० ।। पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा । परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।। ११ ।। यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् । गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ।। १२ ।। क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः । वरदाभय संयुक्ताः खड्ग खेट समन्विताः ।। १३ ।। खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः । भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ।। १४ ।। शकुनी पूतना चैव रेवती चार्धपूतना । वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ।। १५ ।। षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः । स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ।। १६ ।। एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः । वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ।। १७ ।। चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः । एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ।। १८ ।। इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् । विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।। १९ ।। बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् । बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ।। २० ।। द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् । दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ।। २१ ।। खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ । श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयंकरौ ।। २२ ।। जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ । ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ।। २३ ।। अभयं वज्रपद्मे च वरदं द्विभुजं तु वा । शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ।। २४ ।। लक्षणं तस्य संक्षेपाच्छ्रुणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ।। २५ ।। प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु । योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ।। २६ ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः । पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ।। २७ ।। बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ।। २८ ।। कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः । स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।। २९ ।। चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् । नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ।। ३० ।। वरदाभय संयुक्तः शक्तिद्वययुतो न वा । शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ।। ३१ ।। द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये । श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ।। ३२ ।। गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने । गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ।। ३३ ।। इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ।। ३४ ।। षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः । स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।। ३५ ।। सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके । रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ।। ३६ ।। करण्ड मकुटोपेतो नेत्रत्रय समन्वितः । शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ।। ३७ ।। दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा । समयूरध्वजं चैवमङ्कुशं वरदं वहन् ।। ३८ ।। सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः । ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ।। ३९ ।। एवं पञ्चविधस्कन्दो विभागस्थानभेदतः । द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ।। ४० ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः । शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ।। ४१ ।। चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् । सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।। ४२ ।। मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना । शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ।। ४३ ।। ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् । महासेनाय संयुक्तं विद्महे पद संयुतम् ।। ४४ ।। षडाननाय संयुक्तं धीमहीति पदं ततः । तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ।। ४५ ।। गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् । हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ।। ४६ ।। गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः । ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ।। ४७ ।। शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् । देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ।। ४८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ।। ४९ ।। हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् । कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ।। ५० ।। यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् । प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ।। ५१ ।। जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा । परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ।। ५२ ।। प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् । पद्माभनवपञ्चैक संख्या कुण्ड प्रकल्पनम् ।। ५३ ।। पूर्वोत्तरेशसंकॢप्त स्नान वेदिकयान्वितम् । तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ।। ५४ ।। पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे । स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ।। ५५ ।। जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् । गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ।। ५६ ।। आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा । वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्तिः संयुतम् ।। ५७ ।। सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् । शिरः प्रदेशे सूत्राढ्यं कुंभं वस्त्रादिभिर्युतम् ।। ५८ ।। न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् । देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ।। ५९ ।। परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् । सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ।। ६० ।। आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि । न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्यसेत् ।। ६१ ।। मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः । प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ।। ६२ ।। गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः । सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ।। ६३ ।। मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ।। ६४ ।। तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् । गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ।। ६५ ।। सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः । ब्रह्मांगानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ।। ६६ ।। मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् । तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ।। ६७ ।। समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः । पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ।। ६८ ।। शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः । पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ।। ६९ ।। वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् । शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ।। ७० ।। दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् । ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ।। ७१ ।। उद्धृत्य षण्मुखं तं च कुंभाग्नींश्च सु तर्पयेत् । प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ।। ७२ ।। दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः । मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ।। ७३ ।। कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् । विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ।। ७४ ।। सुलग्ने सुमूहूर्ते तु तथा द्वारस्य संमुखम् । अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ।। ७५ ।। देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् । कुंभाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ।। ७६ ।। यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् । पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ।। ७७ ।। तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् । तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ।। ७८ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले । गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ।। ७९ ।। इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् । सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ।। ८० ।। एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः । आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८१ ।। सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् । शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८२ ।। तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः । अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ।। ८३ ।। सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् । गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ।। ८४ ।। आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः । सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ।। ८५ ।। द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा । स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ।। ८६ ।। वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः । शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ।। ८७ ।। शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः । अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ।। ८८ ।। न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः । तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ।। ८९ ।। कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः । भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ।। ९० ।। देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा । सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ।। ९१ ।। आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् । इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ।। ९२ ।। शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् । अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ।। ९३ ।। विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा । अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ।। ९४ ।। अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् । हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ।। ९५ ।। इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् । दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ।। ९६ ।। त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना । लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।। ९७ ।। चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः । इत्थमात्मधाराद्रव्य मन्त्रबिंब विशोधनम् ।। ९८ ।। कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः । प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ।। ९९ ।। अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् । संक्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ।। १०० ।। ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् । विद्यादेहं च संक्ल्प्य तस्मिन्मूलेन षण्मुखम् ।। १०१ ।। हृदयानुगतेनैव पुष्पसंपूर्णसत्करः । आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ।। १०२ ।। निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ।। १०३ ।। महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् । पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ।। १०४ ।। नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु । गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ।। १०५ ।। विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् । वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ।। १०६ ।। चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् । पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ।। १०७ ।। कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः । लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ।। १०८ ।। सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु । तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १०९ ।। हृदा तैलाद्य संकॢप्तिं दद्यात् प्राग्वद् धृदाणुना । आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ।। ११० ।। गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चात् धूपदाना वसानके ।। १११ ।। वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् । तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ।। ११२ ।। ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् । द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ।। ११३ ।। गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् । नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ।। ११४ ।। आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् । मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ।। ११५ ।। जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् । दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ।। ११६ ।। तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह । एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ।। ११७ ।। ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् । तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ।। ११८ ।। अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् । ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ।। ११९ ।। शकुनी रेवती चैव पूतना मण्डपूतना । वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ।। १२० ।। शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः । षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ।। १२१ ।। सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः । सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ।। १२२ ।। कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके । वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ।। १२३ ।। द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् । तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ।। १२४ ।। शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ।। १२४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः पटलः ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ।। वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।। द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु । चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् । नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः वरदाभय संयुक्तः शक्तिद्वययुतो न वा षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः । पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ।। सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः । सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ।। रक्तांबर समायुक्तः बालचन्द्र समप्रभैः । करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।। शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् । दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।। समयूर ध्वजं चैवं अङ्कुशं वरदं वहन् । सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।। ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये । ६५. पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ।। १ ।। पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ।। २ ।। अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके । अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ।। ३ ।। धामलक्षण संसिद्धायामेनापि समन्वितः । एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ।। ४ ।। धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ।। ५ ।। प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः । मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ।। ६ ।। दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः । स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ।। ७ ।। दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च । धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ।। ८ ।। प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकार मण्डपोपेतः परितः परिवारः युक् ।। ९ ।। रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च । महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ।। १० ।। रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः । एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ।। ११ ।। सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ।। १२ ।। इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः । बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ।। १३ ।। द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ।। १४ ।। बलिपीठे बलिर्देयो यथादेशं बलिर्हितः । देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ।। १५ ।। द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ।। १६ ।। प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।। १७ ।। व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः । करालकज्जलाभासो जटिलश्चन्द्रशेखरः ।। १८ ।। चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। १९ ।। अथवा शंख वर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ।। २० ।। पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः । वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ।। २१ ।। अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। २२ ।। स्थानको वासनस्थो वा शयिता सव्यवात्तलः । सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ।। २३ ।। वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः । वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ।। २४ ।। शंकरेक्षण संपन्नश्शोकनम्र शिरास्तु वा । उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ।। २५ ।। एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः । अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ।। २६ ।। चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ।। २७ ।। कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ।। २८ ।। अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ।। २९ ।। सा देवी श्यामला हस्त द्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ।। ३० ।। एवमापाद्य बेरं मनुभिंस्थापनं नयेत् । चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ।। ३१ ।। चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च । चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ।। ३२ ।। ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च । मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ।। ३३ ।। ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः । ओं चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ।। ३४ ।। तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः । अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ।। ३५ ।। ज्ञानशक्ति पदैर्मन्त्रैः र्हुंट्कार समन्वितैः । चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ।। ३६ ।। विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ।। ३७ ।। कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् । सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ।। ३८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ।। ३९ ।। सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः । बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ।। ४० ।। तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् । यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ।। ४१ ।। याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् । नवपञ्चैक संख्यानि वृत्तान्यश्राणि वा द्विजाः ।। ४२ ।। मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह । उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ।। ४३ ।। पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् । जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ।। ४४ ।। कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् । कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ।। ४५ ।। पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु । वासोभ्यां वेष्टयित्वा तु कुंभन्यासं समाचरेत् ।। ४६ ।। चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् । सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ।। ४७ ।। तथा विधघटानष्टौ विन्यसेत् परितो बहिः । चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ।। ४८ ।। सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् । कुंभमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ।। ४९ ।। हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः । घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ।। ५० ।। लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा । गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ।। ५१ ।। आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् । क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ।। ५२ ।। प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा । सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ।। ५३ ।। मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् । संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ।। ५४ ।। कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् । प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ।। ५५ ।। लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः । प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ।। ५६ ।। शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः । तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ।। ५७ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ।। ५८ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य चण्ड बिंबं तु कुंभानग्नींश्च तर्पयेत् ।। ५९ ।। पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः । वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ।। ६० ।। अधमा निष्का तु द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ।। ६१ ।। प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः । सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ।। ६२ ।। देवाग्रस्थण्डिलस्तेभ्यः कुंभेभ्यो देशिकोत्तमः । तत्तत् कुंभगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ।। ६३ ।। स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि । कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ।। ६४ ।। चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा । चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ।। ६५ ।। आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च । विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ।। ६६ ।। लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः । चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ।। ६७ ।। चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते । स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ।। ६८ ।। चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना । द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ।। ६९ ।। आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च । सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ।। ७० ।। अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च । पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ।। ७१ ।। अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् । स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मंत्रशुद्धये ।। ७२ ।। पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे । इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ।। ७३ ।। तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् । दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ।। ७४ ।। संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च । चण्डासनं च मूर्तिं च संक्ल्प्येशाद्यणून् क्रमात् ।। ७५ ।। हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् । बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ।। ७६ ।। न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् । पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ।। ७७ ।। अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि । इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ।। ७८ ।। धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः । हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ।। ७९ ।। परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः । नैवेद्यः तद्विधानोक्तं दत्वा तांबूल संयुतम् ।। ८० ।। पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् । जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ।। ८१ ।। पलाशसमिदाज्यान्नैर्होमं च विभवे सति । मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ।। ८२ ।। नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् । पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ।। ८३ ।। प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा । पादुकाराधनोपेतं प्रविशेदालयं प्रति ।। ८४ ।। एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु । कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ।। ८५ ।। पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने । आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ।। ८६ ।। चण्डेशायेति संक्ल्प्य यच्छिवाय निवेदितम् । नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ।। ८७ ।। गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः । संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ।। ८८ ।। आत्मार्थे च परर्थे च सामान्यमिदमीरितम् । नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ।। ८९ ।। आयु.ः प्रज्ञां सौभाग्यमतुलां श्रियम् । अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ।। ९० ।। विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये । स्नपनं पूर्ववत् किंतु मध्ये चण्डेश्वरं घटे ।। ९१ ।। देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् । अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ।। ९२ ।। रुद्रभक्तादयोऽष्टौस्युर्नवकुंभाभिषेचने । इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ।। ९३ ।। पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् । शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ।। ९४ ।। उत्सवं दमनारोहं पवित्रारोहं नयेत् । दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ।। ९५ ।। नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् । किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ।। ९६ ।। शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह । धजहोम बलिं हित्वा केवलं यानमेव वा ।। ९७ ।। प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् । प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ।। ९८ ।। तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ।। १८१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः पञ्चषष्ठितमः पटलः ।। अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः शंकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ।। पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः । वराभय प्रदानभ्यां अन्यत्र परिमण्डितः ।। अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः । संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः । सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः) वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ।। संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। जटामकुट युक्तो वा धवलीकृत मूर्धजः । स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ।। संकरेक्षण संपन्नः शोकनम्र शिरो तु वा । अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ।। चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः । व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ।। करालकज्जका भासो जटिलश्चन्द्रशेखरः । चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ।। टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। ६६. षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ।। १ ।। स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा । शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ।। २ ।। तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् । शैवाः पाशुपताश्चैव महाव्रत धराश्रये ।। ३ ।। लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः । तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ।। ४ ।। शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् । स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ।। ५ ।। ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ।। ६ ।। स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ।। ७ ।। परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ।। ८ ।। परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते । त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ।। ९ ।। एक विंशति हस्तान्तो विमान व्यास इष्यते । आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ।। १० ।। सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् । आद्येष्टका विधानं च गर्भ संस्थापनं तथा ।। ११ ।। मूर्धेष्टका विधानं च प्राग्देव समीरितम् । तदर्थं शिवलिंगं वा प्रतिमा वा शिवस्य तु ।। १२ ।। स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ।। १३ ।। शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा । अर्ध चित्रमथा भासं पटादि परिकल्पितम् ।। १४ ।। लिंगं चेत् प्रतिमा चेद्वा लिंग बेरोक्त वर्त्मना । मानं तयोश्च संग्राह्या हर्म्याद् गर्भगृहादथ ।। १५ ।। द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु । षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ।। १६ ।। हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् । त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ।। १७ ।। मानमेतत्समाख्यातं जात्यायांश समन्वितम् । वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ।। १८ ।। आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् । नववेदहृदं सप्त नवसंख्याहृतं तु यत् ।। १९ ।। वारोह्यंशस्समाख्यातो यजमानानुकूलितम् । मृतनामाक्षरेणानुकूलितं च विधीयताम् ।। २० ।। लिंगं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ।। २१ ।। मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् । आसीनं स्नानकं वापि वाहनारूढमेव वा ।। २२ ।। आसने स्थानके वाथ पद्मसिंहासनं तु वा । अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ।। २३ ।। यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् । आसनोन्मान विस्तारायामं तद्वदलंकृतिम् ।। २४ ।। प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ।। २५ ।। अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ।। २६ ।। सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः । गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ।। २७ ।। स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।। २८ ।। मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः । ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ।। २९ ।। रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् । स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ।। ३० ।। संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् । हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ।। ३१ ।। ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् । नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ।। ३२ ।। तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया । मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ।। ३३ ।। सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् । धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ।। ३४ ।। दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् । सर्वालंकार संयुक्तं ग्रामादौ भ्रमणं नयेत् ।। ३५ ।। जलाधिवासयेद्बिबं लोकपाल घटान्वितम् । यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ।। ३६ ।। नव पञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् । उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ।। ३७ ।। वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः । प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ।। ३८ ।। जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् । शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ।। ३९ ।। आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् । संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ।। ४० ।। स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते । पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ।। ४१ ।। वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् । बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ।। ४२ ।। उपधानं न्यसेत्प्राच्यां तत्र बिंबं शिरो भवेत् । शिरसश्चोत्तरे भागे कुंभं प्राधानिकं न्यसेत् ।। ४३ ।। अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् । चन्दनोदक संपूर्णान् फा पल्लव संयुतान् ।। ४४ ।। तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते । सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ।। ४५ ।। आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः । सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ।। ४६ ।। विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः । ह्रींकारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ।। ४७ ।। स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते । प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ।। ४८ ।। पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् । वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ।। ४९ ।। स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः । पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ।। ५० ।। परिवार घटे पूज्या अष्टौ वा वसवो मताः । स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ।। ५१ ।। पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च । संपूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ।। ५२ ।। आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् । आत्मानमन्तरात्मानं परमात्मानमेव च ।। ५३ ।। तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् । स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ।। ५४ ।। अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि । इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ।। ५५ ।। तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् । अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ।। ५६ ।। जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् । संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ।। ५७ ।। ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् । प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ।। ५८ ।। तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् । समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ।। ५९ ।। पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् । शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ।। ६० ।। प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् । हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ।। ६१ ।। मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् । कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ।। ६२ ।। स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् । ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ।। ६३ ।। रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह । स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ।। ६४ ।। पञ्च गोचर संजात स्सोष्णीषस्सोत्तरीयकः । पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ।। ६५ ।। तद्वत् संपूजितैर्मूर्ति धारकैरणुजापिभिः । अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ।। ६६ ।। द्वारद्वाराधिपानिष्ट्वा कृतकुंभार्चनो गुरुः । संपूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ।। ६७ ।। उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः । प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ।। ६८ ।। रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् । आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ।। ६९ ।। मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् । संस्नाप्य कुंभपानीयैः परितः स्थापितैरपि ।। ७० ।। वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः । उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ।। ७१ ।। उत्सवं कारयेदन्ते यथा विभव विस्तरम् । ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ।। ७२ ।। आदिशैवकुलोद्भूतः पञ्चगोचर संभवः । आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ।। ७३ ।। कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः । पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ।। ७४ ।। प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् । वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ।। ७५ ।। कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च । परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ।। ७६ ।। प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः । प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ।। ७७ ।। अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये । षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ।। ७८ ।। तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् । तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ।। ७९ ।। जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् । पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ।। ८० ।। संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा । संमृज्य वाससा वस्त्रं गन्धं स धूमकम् ।। ८१ ।। दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् । ताम्बूलं च त्रिसन्ध्यासु दद्यात्संध्याद्वयेऽपि वा ।। ८२ ।। अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा । दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ।। ८३ ।। अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु । स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ।। ८४ ।। मध्य कुंभे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ । स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ।। ८५ ।। एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् । एकावरण संयुक्तमधमं त्विति कीर्तितम् ।। ८६ ।। प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति । भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ।। ८७ ।। संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् । नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ८८ ।। अथवैकदिनं वापि बलिहोम समन्वितम् । ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ।। ८९ ।। धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु । स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ।। ९० ।। भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् । इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ।। ९१ ।। यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके । यागशालां विधानेन कृत्वा वेदि समन्विताम् ।। ९२ ।। पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा । सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ।। ९३ ।। बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः । अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ।। ९४ ।। तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः । स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ।। ९५ ।। प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् । प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ।। ९६ ।। गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् । द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ।। ९७ ।। सायं प्रातर्बलि र्दद्यात् क्षुद्र बिंबसमन्वितम् । बल्यन्ते चोत्सवं कुर्यात् सर्वालंकार संयुतम् ।। ९८ ।। परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् । अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ।। ९९ ।। प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् । शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ।। १०० ।। धजोत्थान विहीनं वा बलिहोमोझितं तु वा । केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ।। १०१ ।। शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः । आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ।। १०२ ।। अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ।। १०२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः पटलः ।। ६७. सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः । सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ।। १ ।। प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके । भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ।। २ ।। अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः । पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ।। ३ ।। व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् । प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ।। ४ ।। भूर्जत्वक्कुलसंभूतं शीतालीदलमेव वा । तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ।। ५ ।। शैलदारुकृतं वापि लेखये दक्षरैः शुभः । मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ।। ६ ।। लिखेत् तूलिकया वापि देशिकः शिष्य एव वा । शुभवारर्क्षयोगादावारभेदनुकूलभे ।। ७ ।। पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः । न समीपे पशूनां तु कुर्यादध्ययनं बुधः ।। ८ ।। नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः । लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ।। ९ ।। गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् । वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ।। १० ।। गोमयालिप्त भूभागे रङ्गलेख समन्विते । प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ।। ११ ।। ज्वलद्दीपसमोपेते शुद्धशैव समावृते । लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ।। १२ ।। नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः । शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ।। १३ ।। ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः । प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ।। १४ ।। अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च । व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ।। १५ ।। पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः । छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ।। १६ ।। इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् । यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ।। १७ ।। शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः । अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ।। १८ ।। शिवविद्यानुसारेण विद्यादानं तदुच्यते । संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ।। १९ ।। प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि । अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ।। २० ।। देशभाषाद्युपायैश्च तथा भूतागमैरपि । प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ।। २१ ।। यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः । तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ।। २२ ।। शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् । इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ।। २३ ।। योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् । स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ।। २४ ।। शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् । प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ।। २५ ।। यावदक्षरं संख्यास्युः शिवज्ञानस्य पुस्तके । तावद्युतसहस्राणि दाता शिवपुरे नरः ।। २६ ।। दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् । मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ।। २७ ।। स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् । अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ।। २८ ।। वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा । श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ।। २९ ।। अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् । शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ।। ३० ।। आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् । मूल्येन कारयेद्वाथ तदेव फलमश्नुते ।। ३१ ।। यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः । स राजा वर्धते स राजाधिप ऊर्जितः ।। ३२ ।। राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ।। ३३ ।। शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः । यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ।। ३४ ।। तथा पाशुपतादीनि गारूडादीन्येनकधा । निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ।। ३५ ।। निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः । बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ।। ३६ ।। तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् । शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ।। ३७ ।। अन्येषामपि सर्वेषा माभिचारादिकम् तु वा । विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ।। ३८ ।। तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् । एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ।। ३९ ।। त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् । विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ।। ४० ।। एक शालादि भेदेन शाला वा लक्षणान्विताः । विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ।। ४१ ।। द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः । तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ।। ४२ ।। चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् । अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ।। ४३ ।। संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः । मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ।। ४४ ।। आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् । शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।। ४५ ।। मध्यमे शिव कुंभं तु पार्श्वयोर्वर्धनीद्वयम् । द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ।। ४६ ।। संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् । समिदाज्यतिलोपेतं हविषा च समन्वितम् ।। ४७ ।। यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् । संप्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ।। ४८ ।। मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ।। ४८१/२ ।। इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः पटलः ।। ६८. अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।। १ ।। गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ।। २ ।। कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ।। ३ ।। जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ।। ४ ।। स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः । तालाष्टांश विवृद्ध्या तु चतुस्तालावसनकम् ।। ५ ।। कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः । तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ।। ६ ।। हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ।। ७ ।। ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते । रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ।। ८ ।। तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा । गव्याभिषेचितं शस्त्र मलंकृत्य नयेत्ततः ।। ९ ।। ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे । प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ।। १० ।। एक वेदि समोपेतं पृथग्वेदियुतं तु वा । मण्डपं दशसंख्यातं प्रपा कुण्डसमन्वितम् ।। ११ ।। पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा । एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ।। १२ ।। इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे । वृत्त कुण्डं भवेदेवं कुण्डानि दश संख्यया ।। १३ ।। ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा । पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ।। १४ ।। शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा । आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ।। १५ ।। जलानीतं च सुस्नातं पूजितं कृतकौतुकम् । शयने शाययेद् बिंबं प्रदक्षिण शिरोन्वितम् ।। १६ ।। वस्त्रैराच्छादयेत्सर्वान् कुंभान् संस्थापयेद् गुरुः । परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ।। १७ ।। स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् । मध्य कुंभे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ।। १८ ।। विदिक्ष्वङ्गानि संपूज्य वाप्तिं पुरुष गोचरम् । स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ।। १९ ।। हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् । पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।। २० ।। शमीखादिर मायूर श्रीवृक्षास्संप्रकीर्तिताः । पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ।। २१ ।। प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् । संपूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ।। २२ ।। स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि । एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। २३ ।। इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः अष्टषष्टितमः पटलः ।। ६९. एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ।। १ ।। गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः । महतामेक भागं तु शूलानां मानमिष्यते ।। २ ।। प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ।। ३ ।। द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा । जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ।। ४ ।। यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् । भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ।। ५ ।। लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते । यजमाननृपग्रामानुकूलं लौकिकं मतम् ।। ६ ।। जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् । अंगुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ।। ७ ।। लौकिकं चान्यधामस्थ बेर साधारणं मतम् । युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ।। ८ ।। तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा । उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ।। ९ ।। तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् । पादमान युतं वाथ तन्मानं च पृथक् पृथक् ।। १० ।। तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः । रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ।। ११ ।। संग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् । पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ।। १२ ।। वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः । मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ।। १३ ।। चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते । मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ।। १४ ।। पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते । पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ।। १५ ।। अर्धपत्रं च पत्राग्रं तु कृशं भवेत् । पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ।। १६ ।। अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः । पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ।। १७ ।। तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि । पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ।। १८ ।। नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा । यवार्धं तु समारभ्य यवपाद विवर्धनात् ।। १९ ।। अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् । मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ।। २० ।। मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि । एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ।। २१ ।। पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः । पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ।। २२ ।। तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः । द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ।। २३ ।। पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् । तस्याधः पालिका कार्या पत्रायामार्ध भागतः ।। २४ ।। हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा । फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ।। २५ ।। पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् । एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ।। २६ ।। पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः । तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ।। २७ ।। पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् । घटवन्नाडिकामानं युघधा विभजेत्त तत् ।। २८ ।। एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका । हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ।। २९ ।। आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः । तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ।। ३० ।। दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा । तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ।। ३१ ।। विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा । पादं वान्तर मानं वा तदुच्चे दशधा कृते ।। ३२ ।। पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् । वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ।। ३३ ।। हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा । मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ।। ३४ ।। अथवा मध्य पत्रस्य मूले वृषभवाहनम् । पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ।। ३५ ।। देव्या समायुतं वाथ वृषभेण युतं न वा । देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ।। ३६ ।। अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् । माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ।। ३७ ।। टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् । पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ।। ३८ ।। शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते । मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ।। ३९ ।। पादेन मध्यमेऽष्टांश मानाद्वा दण्ड विस्तरः । विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ।। ४० ।। यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा । पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ।। ४१ ।। चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् । त्रिशूलापरभागे तु वृषभं वा समालिखेत् ।। ४२ ।। अथवा दण्डमानेन पुरुषं जटिलं तु वा । पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ।। ४३ ।। वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा । सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ।। ४४ ।। तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः । प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ।। ४५ ।। संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् । पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ।। ४६ ।। रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् । अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ।। ४७ ।। विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् । शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ।। ४८ ।। जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् । पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ।। ४९ ।। सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् । वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ।। ५० ।। शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना । ततो बिंबं समानीय स्नापयेत्पूर्ववर्त्मना ।। ५१ ।। कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु । बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ।। ५२ ।। शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् । आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ।। ५३ ।। त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् । शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ।। ५४ ।। चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् । स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ।। ५५ ।। विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् । द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ।। ५६ ।। यद्यस्ति प्रतिमा शर्वे शिवकुंभं च वर्धनीम् । वृषो यद्यस्ति तत्कुंभं तेषु तानर्चयेत्क्रमात् ।। ५७ ।। वज्रादीन् वसुकुंभेषु परितः संस्थितेषु च । तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ।। ५८ ।। पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः । दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ।। ५९ ।। शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः । न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ।। ६० ।। ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् । मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ।। ६१ ।। वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् । षण्मुखं कुंभदेशे तु कुंभस्यास्ये विनायकम् ।। ६२ ।। दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे । तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ।। ६३ ।। दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले । दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ।। ६४ ।। दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा । होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ।। ६५ ।। समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् । पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।। ६६ ।। पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः । प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ।। ६७ ।। पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे । सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ।। ६८ ।। विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् । ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ।। ६९ ।। ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि । तद्दिङ्मूर्त्यादि संयुक्तं पूर्व संख्या समन्वितम् ।। ७० ।। रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि । एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ।। ७१ ।। वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः । वज्रादीन् पंकजे सर्वान् देवान् प्राग्वन्निवेशयेत् ।। ७२ ।। तत्तत् कुंभजलैश्चैव स्नापयेच्छूलमादरात् । स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ।। ७३ ।। अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् । त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ।। ७४ ।। भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ।। ७४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन सप्ततितमः पटलः ।। ७०. सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ।। १ ।। देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः । चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ।। २ ।। तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते । चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ।। ३ ।। चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् । अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ।। ४ ।। नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः । पार्णेय प्रमुखास्तेषां आसनानि बहून्यपि ।। ५ ।। द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः । व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ।। ६ ।। द्वारोदयसमं वाष्ट नवभागोनमेव वा । नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ।। ७ ।। प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् । तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ।। ८ ।। पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु । उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ।। ९ ।। विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् । हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ।। १० ।। चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् । चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ।। ११ ।। अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् । सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ।। १२ ।। अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् । द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ।। १३ ।। पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् । अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ।। १४ ।। सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते । सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ।। १५ ।। पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदांश निर्गमात् । यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ।। १६ ।। एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः । दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ।। १७ ।। पादानामन्तरे पादा भवेयुरुपपीठके । पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ।। १८ ।। मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् । सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ।। १९ ।। एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः । उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ।। २० ।। स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् । मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ।। २१ ।। शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् । दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ।। २२ ।। राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते । त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ।। २३ ।। वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके । वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ।। २४ ।। वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका । सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ।। २५ ।। अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः । अर्धेनैकोनविंशांऽसं भद्रकं परिकीर्तितम् ।। २६ ।। त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके । सार्धार्द्धांश विभागार्धैरेकार्धाष्टांश सार्धकैः ।। २७ ।। अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः । पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ।। २८ ।। पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका । अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ।। २९ ।। आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः । एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ।। ३० ।। एत देव मुखे पृष्टे सौभद्रं संयुतम् । पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ।। ३१ ।। पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् । आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ।। ३२ ।। यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः । तद्विस्तार विभागेन मध्ये मकर तोरणम् ।। ३३ ।। पद्माभिषेक संपन्ना कार्या तोरण मध्यमे । तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ।। ३४ ।। मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता । कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ।। ३५ ।। मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् । अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ।। ३६ ।। स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् । कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ।। ३७ ।। नानारत्नसमोपेत मनन्तफण संयुतम् । विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ।। ३८ ।। वितोरणा विजिर्वाथ आसनं केवलं तु वा । पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ।। ३९ ।। पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् । उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ।। ४० ।। क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः । महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ।। ४१ ।। चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः । अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ।। ४२ ।। पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् । वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ।। ४३ ।। द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् । चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ।। ४४ ।। वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके । वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ।। ४५ ।। आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च । ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ।। ४६ ।। सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः । द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ।। ४७ ।। अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् । एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ।। ४८ ।। कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् । योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ।। ४९ ।। उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः । त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ।। ५० ।। पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् । वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ।। ५१ ।। वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् । श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ।। ५२ ।। नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः । पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ।। ५३ ।। पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते । अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ।। ५४ ।। प्रासाद लक्षणे पूर्वं कथितानि बहूनि च । अधिष्टानि सर्वाणि सोपपीठानि यानि च ।। ५५ ।। संग्राह्याणि च तानीह देशिकैर्नियमावृते । अवलम्बित पादस्याद् देवादीनां विशेषतः ।। ५६ ।। सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् । सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ।। ५७ ।। कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् । यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ।। ५८ ।। यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् । आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ।। ५९ ।। पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् । प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ।। ६० ।। आसनानां च सर्वेषामायादि विधिरुच्यते । परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ।। ६१ ।। बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् । सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद् गुरुः ।। ६२ ।। आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः । शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ।। ६३ ।। तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः । लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ।। ६४ ।। श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः । जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ।। ६५ ।। आसनार्थं च संग्राह्या द्रव्यग्रहणमार्गतः । एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ।। ६६ ।। कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः । शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ।। ६७ ।। पञ्च गव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् । अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ।। ६८ ।। शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् । पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ।। ६९ ।। स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः । गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ।। ७० ।। सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् । नमस्कार समोपेतं स्वबीजेन समन्वितम् ।। ७१ ।। मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः । तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ।। ७२ ।। समिदाज्यचरूंश्चैव तिललाज समन्वितम् । शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ।। ७३ ।। पूर्णाहुतिं ततः कृत्वा शान्तिकुंभांभसा गुरुः । सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ।। ७४ ।। स्नातं शुक्लांबरधरं मकुटेन विभूषितम् । सर्वाभरण संयुक्तं छत्र चामर संयुतम् ।। ७५ ।। सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् । नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ।। ७६ ।। मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् । तद्देव होम संयुक्तमासनाणुभिरन्वितम् ।। ७७ ।। आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः । अष्टदिक्वष्ट कुंभांश्च मध्यमे शक्रशर्वयोः ।। ७८ ।। प्रधान कुंभं संस्थाप्य स्वर्णवस्तादिभिर्युतम् । शिवासनाणु मध्ये च लोकपान् परितो यजेत् ।। ७९ ।। एवमादौ च संपूज्य ततो होमं समारभेत् । संतर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ।। ८० ।। सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः । शिवासनाणुं तन्मध्ये कुंभस्थं विनिवेशयेत् ।। ८१ ।। संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् । संपूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ।। ८२ ।। संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् । सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ।। ८३ ।। आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ।। ८४ ।। अन्येषामासनानां च प्रमाणमभिधीयते । सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ।। ८५ ।। मिश्रलोह शिलावृक्षमृत्सुधारत्न संभवम् । दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ।। ८६ ।। पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु । द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ।। ८७ ।। पञ्चाशनमानजातं तु विस्तारे मानमीरितम् । सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ।। ८८ ।। द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि । आयामे मानमुद्दिष्टं पादानं मानमुच्यते ।। ८९ ।। एकमात्रं समारभ्य व्योममात्र विवृद्धितः । पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ।। ९० ।। अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः । विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ।। ९१ ।। पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः । भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ।। ९२ ।। पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा । ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ।। ९३ ।। केवला वाथवा कार्या स्वशिरः पादसंयुताः । अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ।। ९४ ।। नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः । पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ।। ९५ ।। तदाननेलिकां वाथ फलकां वाथ योजयेत् । तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ।। ९६ ।। पादोर्ध्व फलका वाथ योजनीया यथेष्टतः । यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ।। ९७ ।। फलकासनमाख्यातं स्वर्णादीनां यथार्हकम् वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ।। ९८ ।। रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि । फलकां भूषयेद्वाथ केवला फलकाथवा ।। ९९ ।। तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् । नाना नाटक संयुक्तानयः कीलसमन्वितान् ।। १०० ।। नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा । चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ।। १०१ ।। अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् । आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ।। १०२ ।। त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः । चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ।। १०३ ।। तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् । स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ।। १०४ ।। सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् । फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ।। १०५ ।। तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् । एतेषामासनानां तु संस्कारः प्रागुदीरितः ।। १०६ ।। पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ।। १०६१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः पटलः ।। ७१. एकसप्ततितमे पटले रथादि स्थापन विधिः रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ।। १ ।। त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् । नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ।। २ ।। त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः । भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ।। ३ ।। अक्षोन्तरं समाख्यातं उपधानं द्विजोत्तमाः । पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ।। ४ ।। भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा । पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ।। ५ ।। इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः । यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ।। ६ ।। अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः । बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ।। ७ ।। तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः । स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ।। ८ ।। अक्षवधि विलंबिन्य स्त्वयः पट्टैर्दृढीकृताः । प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ।। ९ ।। शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् । अक्षोर्ध संप्रवेशार्थ मुपाधानन्तु वा नयेत् ।। १० ।। अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् । भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ।। ११ ।। तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् । पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ।। १२ ।। तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् । भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ।। १३ ।। समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते । तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ।। १४ ।। अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः । केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ।। १५ ।। ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् । भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ।। १६ ।। रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् । तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ।। १७ ।। त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः । द्वित्रिवेद महाभूत भाग विस्तार संयुताः ।। १८ ।। द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि । त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ।। १९ ।। योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् । भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ।। २० ।। प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् । चतुर्भागं समारभ्य भागस्याष्ट दशावधि ।। २१ ।। विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनां । चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ।। २२ ।। दशभागा वशानन्तु चक्रनेमि घनञ्चयत् । तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ।। २३ ।। एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः । वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ।। २४ ।। पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा । पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ।। २५ ।। यथाबलं विशालानि तथा विधधनानिच । चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ।। २६ ।। एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् । द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ।। २७ ।। एकद्वित्र्यङ्गुलांधिक्यन्नाभिदेशे भवेत् द्विजाः । तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ।। २८ ।। मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च । त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ।। २९ ।। सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा । ब्रह्मा रथांग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ।। ३० ।। भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते । एकभागा द्विकारान्त मेकभाग विवर्धनात् ।। ३१ ।। तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः । भारबाह्य विवृध्यातु रसभागावसानकाः ।। ३२ ।। एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः । गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ।। ३३ ।। त्रिभागे नैक भागेन मूलादारभ्य कारयेत् । उपान पद्मकंपानि कंपं कर्णञ्च कपकम् ।। ३४ ।। पद्मञ्च वाजनं कंपं दृष्टान्तार्थ मुदाहृतम् । पादोनार्धेन भागेन त्रिभागेन द्विभागतः ।। ३५ ।। त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् । एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ।। ३६ ।। धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् । चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ।। ३७ ।। गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् । उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ।। ३८ ।। उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् । फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ।। ३९ ।। फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् । सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ।। ४० ।। शतांऽसान्तं समुद्दिष्टं तन्मूलं वेद भागतः । वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ।। ४१ ।। षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् । कुंभ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ।। ४२ ।। पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् । तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ।। ४३ ।। वस्वं शांताय संयुक्तं तद्विस्तारोदरान्वितम् । तत्रिपाद विशालं वा तदन्तस्सममानकम् ।। ४४ ।। कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा । बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ।। ४५ ।। भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् । यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ।। ४६ ।। तद्विनिर्गमनोपेत मुपपीठं गलावधि । द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ।। ४७ ।। तत्संबन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः । पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ।। ४८ ।। यथेष्ट घन विस्तारे तत्संबन्धे परेपि वा । भरमूले तदग्रे च समभदे तथानयेत् ।। ४९ ।। अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि । तत्रपादा विधेयास्स्युः उपपीठावसानके ।। ५० ।। फलके द्वे विधातव्ये तत्पादोपरि संस्थिते । तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ।। ५१ ।। भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् । उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ।। ५२ ।। उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् । तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ।। ५३ ।। अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् । पंकित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ।। ५४ ।। पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने । सदन्त गलकंपौच महा वाजन माचरेत् ।। ५५ ।। उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् । प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ।। ५६ ।। एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा । अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ।। ५७ ।। अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः । तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ।। ५८ ।। गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः । सिंह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ।। ५९ ।। तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् । प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ।। ६० ।। त्रिभागन्तु समारभ्य भागभाग विवर्धनात् । नवभागावसानं स्यादलङ्गारश्च कथ्यते ।। ६१ ।। तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः । व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ।। ६२ ।। निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् । प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ।। ६३ ।। एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् । पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ।। ६४ ।। एकादि रसभागान्तं पार्श्वयोरुभयोरपि । प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ।। ६५ ।। रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा । षडादि त्रिंशदंशान्तं समं वा मूलपादतः ।। ६६ ।। प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः । अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ।। ६७ ।। छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः । एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ।। ६८ ।। भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु । न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ।। ६९ ।। पादानां कार्यः प्रस्तराणाञ्च मञ्चतः । प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ।। ७० ।। अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते । रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ।। ७१ ।। भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा । प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ।। ७२ ।। सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् । उपभद्र विहीनं वा भद्रं भारान्तमेव वा ।। ७३ ।। एतत् सर्वं विहायाथ केवलान्तूपपीठकम् । भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ।। ७४ ।। उपपीठं विहायास्मिन् केवलवामसूरकम् । बहिः करणमेवस्या दन्तरत्र निगद्यते ।। ७५ ।। पादवर्गेन्तरे क्षुद्रपादाः कंपोपरिस्थिताः । ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ।। ७६ ।। तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा । विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ।। ७७ ।। तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः । अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ।। ७८ ।। तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः । नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ।। ७९ ।। नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः । कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ।। ८० ।। एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा । पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ।। ८१ ।। वेदतालं समारभ्य तालार्धेन निवर्धयेत् । यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ।। ८२ ।। पाद पाद विवृध्यातु तत्वाङ्गुल समावधि । पाद विस्तार आखातो धाम पादा कृतिर्यथा ।। ८३ ।। अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः । बहुनीव्र समायुक्ताः फलकासु निवेशिताः ।। ८४ ।। तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् । तथैवायसनालैश्च धारस्सुदृधं यथा ।। ८५ ।। पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् । शिखाकरणमार्गेण लुपारोहण क्रियान्विता ।। ८६ ।। सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् । छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ।। ८७ ।। रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् । कथ्यते सचलेशेन विस्तारादायतोपिवा ।। ८८ ।। उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा । वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ।। ८९ ।। सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ । तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ।। ९० ।। शकटे शिबिकादौच शुभेशुभ मुदाहृतम् । रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ।। ९१ ।। उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढं । गोमूत्र गोमयांभोभिः कुशोदैस्तज्जलैरपि ।। ९२ ।। गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् । अस्त्रोदेनापि संप्रोक्षय गन्ध पुष्पादिभिः यजेत् ।। ९३ ।। कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु । वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ।। ९४ ।। मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ । दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ।। ९५ ।। हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् । उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ।। ९६ ।। धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः । अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ।। ९७ ।। फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् । कर्णिकान्नवशक्तींश्च शिवासनं अनुस्मरेत् ।। ९८ ।। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः । शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ।। ९९ ।। पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना । तदग्रे स्थंडिलं कृत्वा तस्मिन् सूत्रांबरान्वितान् ।। १०० ।। हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् । तत्र मध्ये शिवं पूर्वेभानुं इन्दुं तथानले ।। १०१ ।। दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे । वारुणे वृषभं वायावनन्तं विनिवेशयेत् ।। १०२ ।। धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे । गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ।। १०३ ।। संस्थापित घटानांवा समन्ता द्वारथस्यतु । नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ।। १०४ ।। आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् । शिवं साङ्गं प्रधानेतु तर्पयेच्छत संख्यया ।। १०५ ।। भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् । एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ।। १०६ ।। समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् । तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ।। १०७ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिङ्मताः । शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ।। १०८ ।। पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः । पूर्णान्दत्वा द्वितीयेह्नि कृत कुंभाग्नि पूजनः ।। १०९ ।। संप्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।। ११० ।। तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। १११ ।। एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः । इहैव धनवांच्छ्रीमान् वांछितं फलमाप्नुयात् ।। ११२ ।। रथमेवं सुसंकृत्य रथयात्रां समाचरेत् । पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ।। ११३ ।। तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः । षण्णवत्यंश कान्तस्तु शिबिका विस्तरोमतः ।। ११४ ।। त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः । एकोन् द्विशतं याव दायामं परिकल्पयेत् ।। ११५ ।। ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् । पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ।। ११६ ।। पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः । एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ।। ११७ ।। पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् । त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ।। ११८ ।। दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् । वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ।। ११९ ।। विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् । अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ।। १२० ।। वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् । त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ।। १२१ ।। आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ । विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ।। १२२ ।। योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् । विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ।। १२३ ।। त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् । हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ।। १२४ ।। त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः । त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ।। १२५ ।। व्योममात्रं समारभ्य पादमात्र विवृद्धितः । सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ।। १२६ ।। व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि । हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ।। १२७ ।। वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् । अष्टांशादंश वृध्यातु स्वन्न्यास द्विगुणावधि ।। १२८ ।। इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः । किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ।। १२९ ।। पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि । पट्टिका घन विस्तारो यथायोग्यं विधीयते ।। १३० ।। व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः । गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ।। १३१ ।। क्षुद्रकंपैश्च वल्लीभिर्नाराचैः कोणबन्धनैः । यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ।। १३२ ।। झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः । स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ।। १३३ ।। शिबिकालंकृतिं कुर्याद्यथा शोभं यथाबलम् । एषा पैठी समाख्याता शेखरी शिखरान्विता ।। १३४ ।। पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता । शूकः कालश्च तिमिरः पनसो निंबकार्जुनौ ।। १३५ ।। मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः । वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ।। १३६ ।। अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः । वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ।। १३७ ।। तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् । चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ।। १३८ ।। त्र्यंगुलादंगुलद्धर्यातु पञ्चाशत् करजावधि । पाद दैर्घ्यं समाख्यातं द्वयंगुलात् पादवृद्धितः ।। १३९ ।। तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः । अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ।। १४० ।। अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् । तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ।। १४१ ।। फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् । नानापट्ट समायुक्तन्नानावेत्र समायुतम् ।। १४२ ।। नाना नाराच संबन्धं पुलकाद्यैश्च शोभितम् । लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ।। १४३ ।। शिबिकायद्वदायाद्यैः संयुक्तं संपदेभवेत् । पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ।। १४४ ।। प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् । खट्वा पाद समायुक्तं पट्टिकां एक संयुतम् ।। १४५ ।। पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् । निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ।। १४६ ।। इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ।। ७२. द्विसप्ततितमे पटले करणलक्षण विधिः लक्षण करणानां च वक्ष्ये संक्षेपतः क्रमात् । याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ।। १ ।। सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः । त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ।। २ ।। वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः । तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ।। ३ ।। निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः । चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ।। ४ ।। दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः । षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ।। ५ ।। तत्संख्यामात्रदैर्घ्यं स्यात् किंचैकादशमात्रतः । ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ।। ६ ।। ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः । वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ।। ७ ।। ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः । ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ।। ८ ।। उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः । उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ।। ९ ।। अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके । द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ।। १० ।। पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् । अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ।। ११ ।। प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् । ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ।। १२ ।। करे संयोजनीयं स्यात् काले देवार्चनादिके । अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ।। १३ ।। त्रयोविंशतिसंख्यातदर्भैस्स्यान्निर्मितेन च । अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ।। १४ ।। यथेष्टान्तरयुक्तेन लम्बनेन समन्विता । दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ।। १५ ।। रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता । आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ।। १६ ।। तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् । सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ।। १७ ।। द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा । स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ।। १८ ।। पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् । याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ।। १९ ।। शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् । इष्टमानेन खातं स्याच्छिखामानं तथैव च ।। २० ।। विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा । सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ।। २१ ।। पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् । विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ।। २२ ।। यावत्तावद् घनं तेषामिष्टमानेन कारयेत् । एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ।। २३ ।। नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च । षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ।। २४ ।। पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् । अन्तरेष्टविभागे तु नवमानमुदाहृतम् ।। २५ ।। घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि । याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ।। २६ ।। दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् । श्रीवत्सं स्वस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ।। २७ ।। अन्येषामपि देवानां देवीनां चाष्टमङ्गले । वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ।। २८ ।। शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् । ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ।। २९ ।। विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते । पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।। ३० ।। पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् । विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ।। ३१ ।। पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् । तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ।। ३२ ।। स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः । तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ।। ३३ ।। पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् । श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ।। ३४ ।। शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् । श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ।। ३५ ।। स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः । दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ।। ३६ ।। चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् । शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ।। ३७ ।। लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः । पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ।। ३८ ।। एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् । हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ।। ३९ ।। वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् । ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ।। ४० ।। ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः । लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ।। ४१ ।। देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् । जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ।। ४२ ।। नवतालप्रमाणेन तेषां लक्षणमुच्यते । तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ।। ४३ ।। देहलब्धेन तेषां तु प्रमाणं प्रविधीयते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ४४ ।। तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् । मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ।। ४५ ।। लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु । इष्टमानेन चैतेषां विस्तार इह कथ्यते ।। ४६ ।। स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते । तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ।। ४७ ।। षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा । दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ।। ४८ ।। त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला । सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ।। ४९ ।। कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा । कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ।। ५० ।। यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि । नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ।। ५१ ।। शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् । कर्णपार्श्वैकमात्रोनशरावादामुखावधः ।। ५२ ।। कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् । अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ।। ५३ ।। तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् । आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ।। ५४ ।। कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता । तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ।। ५५ ।। दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः । मुष्ट्यष्.आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ।। ५६ ।। अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते । द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ।। ५७ ।। तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः । कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ।। ५८ ।। सप्ताऽऽगुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् । गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ।। ५९ ।। रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् । तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ।। ६० ।। पादं कलशमूले स्यादन्यथा वा निगद्यते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ६१ ।। विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् । विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ।। ६२ ।। त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् । कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ।। ६३ ।। वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् । त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ।। ६४ ।। दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् । अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ।। ६५ ।। त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः । स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ।। ६६ ।। एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् । षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ।। ६७ ।। तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् । गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ।। ६८ ।। पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः । नूतनं करणं श्रेष्ठं पुराणं तदभावतः ।। ६९ ।। पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः । तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ।। ७० ।। सहस्राघोररजापस्यात् पुराणकरणग्रहे । येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।। ७१ ।। तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः । अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ।। ७२ ।। अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् । श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ।। ७३ ।। तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः । तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।। ७४ ।। तेनैवोत्सवकर्माद्यं विहितं मुनिपुंगवाः । स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ।। ७५ ।। समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च । ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ।। ७६ ।। तोरणानि पयोवृक्षजातिलक्षणवन्ति च । पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ।। ७७ ।। वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् । तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ।। ७८ ।। शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् । शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ।। ७९ ।। एकादिवेदहस्तान्ततोरणे क्षुद्रमानके । उदयार्धप्रमाणं वा यादादौ परिपठ्यते ।। ८० ।। इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ।। ७३. त्रिसप्ततितमे पटले सौख्य कर्म विधिः प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च । सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ।। १ ।। सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् । ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ।। २ ।। तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् । अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ।। ३ ।। ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः । देवतारुवने पूर्व विनोदार्थं मया पुरा ।। ४ ।। कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः । तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ।। ५ ।। विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः । तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ।। ६ ।। मदालोकन मात्रेण दधते गर्भमक्षयम् । तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ।। ७ ।। तास्सर्वास्तत्र संपूज्य कानो वृत्तिर्भविष्यति । एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ।। ८ ।। मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि । तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ।। ९ ।। तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने । स्त्रीभिस्तद्वंश जाताभिः पञ्चाचार्य समन्वितम् ।। १० ।। इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले । मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ।। ११ ।। आहूय नन्दिनं चादाय करमध्यगम् । वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ।। १२ ।। ततः प्रभृति वर्तन्ते भुवि नन्दाव्य संज्ञया । यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ।। १३ ।। विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् । नर्तको मर्दकश्चैव गायको वांशिकस्तथा ।। १४ ।। तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः । चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ।। १५ ।। भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः । नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ।। १६ ।। तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् । नर्तने च स्वयं शक्तो मात्रागणन तत्परः ।। १७ ।। मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः । प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ।। १८ ।। गायको गान विद्याज्ञस्सप्तस्वर विशारदः । सप्त स्वर विभेदेन गायको गान नायकः ।। १९ ।। वांऽसिकस्तद्वदेव स्यात् किंतु वंशकृतश्रमः । सौख्ये तु वादयेद्वंश मुदात्तादि विभेदतः ।। २० ।। वादयेन्मुखं सौख्य काले मौर विको मतः । नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ।। २१ ।। गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ । अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ।। २२ ।। ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् । पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ।। २३ ।। अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः । पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ।। २४ ।। मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् । त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ।। २५ ।। देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् । प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ।। २६ ।। युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् । अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ।। २७ ।। पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन । सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ।। २८ ।। तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि । नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ।। २९ ।। आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा । पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ।। ३० ।। आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे । क्षालितं वेत्रमादाय हेतितो येन देशिकः ।। ३१ ।। संस्थाप्य वेत्रं पूर्वाग्रं उत्तराग्रमथापि वा । नन्दिनं तत्र संपूज्य गन्धपुष्पादिभ्र्गुरुः ।। ३२ ।। नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः । श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ।। ३३ ।। संप्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि । तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ।। ३४ ।। शिवायनम इत्येवं समस्तं शिरसि न्यसेत् । गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ।। ३५ ।। नामोक्त्वा नन्दपूर्वं तु संबुध्यन्तं यथा भवेत् । नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ।। ३६ ।। मदीयोत्सव कालादौ तव नृत्तानुकूलतः । एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ।। ३७ ।। तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् । पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ।। ३८ ।। ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् । शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ।। ३९ ।। एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते । देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ।। ४० ।। देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् । विन्यस्य तत्पुरः कुंभं स्वर्णवस्त्रादि संयुतम् ।। ४१ ।। पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् । पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ।। ४२ ।। तदम्भसा तु संप्रोक्ष्य शिरः कूर्चेन संस्पृशेत् । पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ।। ४३ ।। प्रवेशो रुद्रकन्यानामादौ संक्षिप्य कथ्यते । निर्दिष्ट दिवसात् पूर्वं मङ्गलांकुर माचरेत् ।। ४४ ।। प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् । विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ।। ४५ ।। सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः । निष्पाद्य देवदेवेशं पूर्वेद्युस्संप्रपूजयेत् ।। ४६ ।। गन्धाद्यैर्युग संख्याता रुद्रकन्या उपोषिताः । धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ।। ४७ ।। सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः । कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ।। ४८ ।। अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् । संस्थाप्य देव देवेशं सहस्रकलशादिभिः ।। ४९ ।। संपूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् । मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ।। ५० ।। पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः । मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ।। ५१ ।। नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् । साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ।। ५२ ।। नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् । स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ।। ५३ ।। तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् । पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ।। ५४ ।। प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् । सरस्वत्या समोपेतं लोकपालादि संयुतम् ।। ५५ ।। पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् । उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ।। ५६ ।। संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् । आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ।। ५७ ।। होमयेच्छत संख्यातामावृतिं दशसंख्यया । समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ।। ५८ ।। देवं संपूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् । प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ।। ५९ ।। तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् । नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ।। ६० ।। पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः । भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ।। ६१ ।। नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया । कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ।। ६२ ।। पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् । समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ।। ६३ ।। श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ।। ६४ ।। प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् । मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि- गीतयुक्तः । नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे कमलासनाय ।। ६५ ।। भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन । आमोद मत्तरलिभिर्रिकूजत् पुष्पांजलिस्यात् पुरुषोत्तमाय ।। ६६ ।। सान्तानिकादि शिव संस्कृत रुद्रकन्या । नानाविधाभिनयकै रभिवर्धमानः । नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै । पुष्पाञ्जलिर्भवतु मे परमेश्वराय ।। ६७ ।। स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए । उत्सवे स्नपने मासपूजायां होमकर्मणि ।। ६८ ।। धजारोहण कलादौ काम्यादौ च विशिष्यते ।। ६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ।। ७४. चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु । आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ।। १ ।। महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः । संस्कारेण विशेषोऽयंजात्या वैशि.य मुच्यते ।। २ ।। ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि । प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ।। ३ ।। वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा । योगेन क्रियया वाथ चर्ययापि विशिष्यते ।। ४ ।। आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः । तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ।। ५ ।। आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च । दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ।। ६ ।। पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् । मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ।। ७ ।। परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः । स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ।। ८ ।। पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः । क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ।। ९ ।। अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः । ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ।। १० ।। पूजयेद्देव कल्याणे पवित्रारोहणादिके । सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ।। ११ ।। देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः । देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ।। १२ ।। तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् । सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ।। १३ ।। सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः । दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ।। १४ ।। सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् । पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ।। १५ ।। पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ।। १६ ।। सहमार्गी शिवार्चाग्नि जपहोमं परायणः । प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ।। १७ ।। दासमार्गी शिवोद्यानलिंग बिम्बालयादि कृत् । शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ।। १८ ।। एवं बहु प्रकारेण शैवैस्सह विचार्य च । एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ।। १९ ।। इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः पटलः ।। ७५. पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः व्याधिनाश विधानं तु वक्ष्ये संक्षेप्तः क्रमात् । सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ।। १ ।। गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् । ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ।। २ ।। क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने । वात पित्तकफोद्रेके दाहमोह वणोकटे ।। ३ ।। महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे । एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ।। ४ ।। आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते । पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ।। ५ ।। तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे । पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ।। ६ ।। देवालये नदीतीरे पर्वते काननेऽपि वा । अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ।। ७ ।। गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते । लिंगे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ।। ८ ।। शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् । गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ।। ९ ।। स्नपनेन समोपेतं पञ्चगव्यामृतादिना । संपूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ।। १० ।। अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ११ ।। तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् । मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ।। १२ ।। पठित्वा देवदत्तस्य पदं चात्र विशेषतः । एवं जपं विधायैत दिष्टदेवे निवेदयेत् ।। १३ ।। गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् । स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ।। १४ ।। तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके । कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ।। १५ ।। तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् । गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ।। १६ ।। होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा । कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ।। १७ ।। देवं कुंभं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः । होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ।। १८ ।। तत्कुंभसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः । तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ।। १९ ।। रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः । होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ।। २० ।। कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः । गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ।। २१ ।। नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा । शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ।। २२ ।। प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः । चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ।। २३ ।। मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् । यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ।। २४ ।। तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः । एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ।। २५ ।। वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह । बलिरेष समाख्यातो धूपदीपसमन्वितः ।। २६ ।। पताकास्वादुपानीय युक्तसाधारणो मतः । अथवान्य प्रकारेण व्याधिमोचनमुच्यते ।। २७ ।। लिंगादौ देवमभ्यर्च्य जपहोमौ समाप्य च । सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ।। २८ ।। तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् । दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ।। २९ ।। तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा । कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ।। ३० ।। रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः । कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ।। ३१ ।। पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् । अनेन विधिना रोगी अरोगी स्यान्न संशयः ।। ३२ ।। केवलं बलिदानं वा चतुर्मासान्तमेव वा । पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ।। ३३ ।। अथवान्य प्रकारेण व्याधिनाशनमुच्यते । अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ।। ३४ ।। ग्रहणे विषुवे वापि द्वयोरयनयोरपि । स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ।। ३५ ।। गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा । स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ।। ३६ ।। पञ्चविंशति संखायतान् पञ्चसंख्यानथापि वा । एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ।। ३७ ।। ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् । सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ।। ३८ ।। सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् । गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ।। ३९ ।। अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः । तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ।। ४० ।। होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा । शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ।। ४१ ।। तस्मात्तद्भस्म संग्राह्य व्याधितं स्नापयेद् गुरुः । गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ।। ४२ ।। तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् । निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ।। ४३ ।। स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् । प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ।। ४४ ।। कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा । राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ।। ४५ ।। साधयेच्छत संख्यातान् कलशाष्टक संयुतान् । पञ्चाशत् संख्यया तेभ्यो न हीनान् साधयेत्गुरुः ।। ४६ ।। कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते । मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ।। ४७ ।। अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः । आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ।। ४८ ।। अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् । शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ।। ४९ ।। सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके । होमेन समसख्यां वा जप तुल्यं परं मतम् ।। ५० ।। शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् । अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ।। ५१ ।। सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके । कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ।। ५२ ।। पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् । विधाय जपमात्रं वा गोरोचनयुतं तु वा ।। ५३ ।। शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः । संपूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ।। ५४ ।। स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना । लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ।। ५५ ।। दुर्बलो बलवान्धीर स्सर्वैस्संपूज्यते भुवि । कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ।। ५६ ।। नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे । प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ।। ५७ ।। जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः । पूजां होमं च वा नित्यं जपतर्पण संयुतम् ।। ५८ ।। एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते । बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ।। ५९ ।। अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः । तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ।। ६० ।। विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः । सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ।। ६१ ।। गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते । मध्ये वा गजशालायां शूलस्थाने मनोरमे ।। ६२ ।। शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च । विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ।। ६३ ।। नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके । गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ।। ६४ ।। स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः । लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ।। ६५ ।। स कूर्चं सापिधानं च गन्धोदक समन्वितम् । एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ।। ६६ ।। दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् । तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ।। ६७ ।। पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् । सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ।। ६८ ।। कपालशूल संयुक्तं धनुर्बाण समन्वितम् । ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ।। ६९ ।। एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् । पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ।। ७० ।। गन्ध पुष्प समायुक्तं धूपदीप समायुतम् । नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ।। ७१ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ।। ७२ ।। तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके । कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ।। ७३ ।। समिदाज्य चरूपेतं तिलतण्डुल संयुतम् । क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ।। ७४ ।। समिधस्संप्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः । संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ७५ ।। प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् । तद्भस्म संग्रहं कृत्वा देवं कुंभे विसर्जयेत् ।। ७६ ।। तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः । ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ।। ७७ ।। अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च । स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ।। ७८ ।। रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा । बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ।। ७९ ।। गजशाला समीपे वा होमस्थानेऽथवा बैः । एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ।। ८० ।। किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः । गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ।। ८१ ।। सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा । तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ।। ८२ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् । एककालं द्विकालं वा त्रिकालं वा विशिष्यते ।। ८३ ।। नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् । साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ।। ८४ ।। हयानां च गजानां च रक्षणं चान्यथोच्यते । तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ।। ८५ ।। कुंभेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते । अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ।। ८६ ।। तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः । व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ।। ८७ ।। तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् । तन्मध्ये द्रोण संपूर्णं कुंभं विन्यस्य देशिकः ।। ८८ ।। सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् । पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ।। ८९ ।। तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् । चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ।। ९० ।। नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा । ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ।। ९१ ।। समिदाज्य चरूपेतं तिलसर्षप लाजकैः । क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ।। ९२ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । पञ्चाशत्संख्यया वाथ पञ्चविंशति संख्यया ।। ९३ ।। प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् । अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ।। ९४ ।। कुण्डद्वये वा होतव्यं एकस्मिन्स्थण्डिलेऽपि वा । पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ।। ९५ ।। पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् । साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ।। ९६ ।। अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः । कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ।। ९७ ।। अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः । पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ।। ९८ ।। रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः । स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ।। ९९ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् । महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ।। १०० ।। अन्नं मधुघृतोपेतं दधिलाज समन्वितम् । कदलीफल संयुक्त मपूपैश्च समन्वितम् ।। १०१ ।। नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् । दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ।। १०२ ।। विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः । अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ।। १०३ ।। क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् । तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ।। १०४ ।। अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् । तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ।। १०५ ।। दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः । गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ।। १०६ ।। तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् । आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ।। १०७ ।। शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् । कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ।। १०८ ।। व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले । केवलं तर्पणं वाथ पूजां हवन संयुताम् ।। १०९ ।। केवलं यजनं होमं बलिं नित्यं समाचरेत् । मर्त्यानामपि सर्वेषां एतत्सामान्यमुच्यते ।। ११० ।। होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् । केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ।। १११ ।। उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् । शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ।। ११२ ।। द्रोणपूर्णं समादाय कुम्भं बिंब समप्रभम् । तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ।। ११३ ।। तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते । तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ।। ११४ ।। तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् । विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ।। ११५ ।। फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् । एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ।। ११६ ।। छादयित्वा पिधानेन कल्पयेदासनं बुधः । आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ।। ११७ ।। अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् । तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ।। ११८ ।। कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः । मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ।। ११९ ।। तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् । अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ।। १२० ।। चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् । एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ।। १२१ ।। दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् । आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ।। १२२ ।। अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह । चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ।। १२३ ।। नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् । तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ।। १२४ ।। अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः । दत्वा स्वावरणोपेतं निरावरणमेव वा ।। १२५ ।। भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः । असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ।। १२६ ।। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः । तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ।। १२७ ।। अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् । गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ।। १२८ ।। नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् । अघोराय तदस्त्रय पानीयं च निवेदयेत् ।। १२९ ।। विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् । अघोराय तदस्त्राय संनिवेद्य जपं गुरुः ।। १३० ।। तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः । प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ।। १३१ ।। यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् । क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ।। १३२ ।। लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् । ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ।। १३३ ।। होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् । अघोरेण च तद्भस्म संग्राह्यास्त्रेण रक्षयेत् ।। १३४ ।। भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् । होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ।। १३५ ।। प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः । दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ।। १३६ ।। कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् । हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ।। १३७ ।। तस्मादुद्धृत्य कुंभं तु व्याधिस्थभिषेचयेत् । प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ।। १३८ ।। सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् । हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ।। १३९ ।। एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा । पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ।। १४० ।। प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् । यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ।। १४१ ।। पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा । तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ।। १४२ ।। एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये । महिषाज गवामेवं कारयेद्विजसत्तमाः ।। १४३ ।। अथोपयुक्तं यद् द्रव्यं आचार्याय प्रदापयेत् । प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ।। १४४ ।। तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः । एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ।। १४५ ।। होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् । गजानां वा हयानां वा शालायमङ्कणेऽपि वा ।। १४६ ।। तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् । शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ।। १४७ ।। संप्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् । वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ।। १४८ ।। गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् । वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ।। १४९ ।। हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् । अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ।। १५० ।। यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् । नोप सर्गभयं तत्र रोगपीडा न विद्यते ।। १५१ ।। उत्पन्नरोग नाशश्च भवत्येव न संशयः । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। १५२ ।। अघोरस्य तदस्त्रस्य यजनं होम संयुतम् । वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ।। १५३ ।। आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः । अनेन सदृशो योगो दुरिक्षयहेतुकः ।। १५४ ।। नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ।। १५४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः पञ्चसप्ततितमः पटलः ।। ७६. षट्सप्ततितमे पटले राज रक्षा विधिः राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः । भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ।। १ ।। ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः । ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ।। २ ।। ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः । मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ।। ३ ।। ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु । दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ।। ४ ।। ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः । स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ।। ५ ।। सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः । प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ।। ६ ।। स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् । वौषडंतं तु शूद्राणां तद्देव ध्यान सम्युतम् ।। ७ ।। स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् । दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ।। ८ ।। स्वानुकूलानु संजप्तमथवा विनिवेदयेत् । यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ।। ७७. सप्तसप्ततितमे पटले दुर्गा पूजा विधिः दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् । लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ।। १ ।। कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ।। २ ।। आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता । सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ।। ३ ।। अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ।। ४ ।। सन्तर्जयति हुंकारैः खड्गोपान्तकरान् परान् । तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ।। ५ ।। सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते । भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ।। ६ ।। तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः । पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ।। ७ ।। गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने । प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ।। ८ ।। मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः । मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ।। ९ ।। राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च । पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ।। १० ।। तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः । तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ।। ११ ।। समिदाज्येन हविषा पायसेन च होमयेत् । हुतशेषं तुरङ्गानां गजानामुपहारयेत् ।। १२ ।। बद्ध प्रतिसरान् पञ्च गजाश्वान् समलंकृतान् । भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ।। १३ ।। प्रत्यहं नृपतिः स्वाः स्वाः संपूज्य पितृदेवताः । पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ।। १४ ।। नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः । हुतशेषं प्रदातव्यमौपनायनिके गजे ।। १५ ।। तस्यापि हरणे राज्ञो विजयस्समुदाहृतः । पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ।। १६ ।। यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्य वृद्धये ।। इति १७ ।। ओं छं छत्राय नमः गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः । ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ।। १८ ।। ओं तुं तुरङ्गाय नमः प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। १९ ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ।। २० ।। यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा । मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २१ ।। सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ।। २२ ।। निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। २३ ।। अं अश्वाय नमः इत्यश्वमन्त्रः शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः । पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ।। २४ ।। ओं ध्वं ध्वजाय नमः काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः । अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ।। २५ ।। गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः । साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ।। २६ ।। कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ।। २७ ।। आं गं गजाय नमः । एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः । भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ।। २८ ।। वने वने प्रसूतास्ते वनयोनिर्महागजः । पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ।। २९ ।। भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ।। ३० ।। श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् । स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ।। ३१ ।। युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः । अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ।। ३२ ।। हस्तिमन्त्रः ओं हं हस्तिने नमः हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः । नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ।। ३३ ।। प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह । गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ३४ ।। व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु । श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ।। ३५ ।। पतन्तु परिशत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ।। ३६ ।। हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा । शोभितासि तथैवाद्य शोभया समयं स्मर ।। ३७ ।। नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ।। ३८ ।। सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः । पूतना रेवती नाम कालरात्रीति याः स्मृताः ।। ३९ ।। दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ।। ३९१/२ ।। पताका मन्त्रः ओं पं पताकाय नमः । असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ।। ४० ।। श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।। ४१ ।। ओं खं खड्गाय नमः नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।। ४२ ।। पिता पितामहो देवस्त्वं मां पालय सर्वदा । शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ।। ४३ ।। रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते । ओं वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।। ४४ ।। तव भूमि प्रधानानां तथा विजयवर्द्धनः । यथा जीमूतघोषेण हृष्यन्ति परवारणाः ।। ४५ ।। तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः । यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ।। ४६ ।। तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे । ओं दुं दुन्दुभये नमः सर्वायुध महामात्र सर्वायुध निषूदन ।। ४७ ।। चाप मां सर्वदा रक्ष साकं सायकसत्तमैः । ओं चं चापाय नमः पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ।। ४८ ।। विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव । ओं शं शङ्खाय नमः शशांकाकार संकाश हिमपिण्डित पाण्डर ।। ४९ ।। प्रोत्साधयाशु दुरितं चामरामर वल्लभ । ओं चं चामराय नमः सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ।। ५० ।। शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ।। ५१ ।। त्वया विस्तारिता चासि देवानां प्रतिपादिता । सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ।। ५२ ।। क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते । ओं क्षुं क्षुरिकाय नमः प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ।। ५३ ।। ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये । यशो देहि सुखं देहि देवो हि भव भूपतेः ।। ५४ ।। ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते । ओं कं कनकदण्डाय नमः विजयी भव देवोऽसि रिपुधाती प्रियंकरः ।। ५५ ।। दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः । एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ।। ५६ ।। तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे । त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ।। ५७ ।। त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः । नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ।। ५८ ।। त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते । ओं सिं सिंहासनाय नमः लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ।। ५९ ।। फलनैवेद्य कुसुमैः धूपदीप विलेपनैः । अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ।। ६० ।। रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् । प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ।। ६१ ।। पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् । राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ।। ६२ ।। स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः । कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ।। ६३ ।। कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः । नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ।। ६४ ।। द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् । अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ।। ६५ ।। तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् । धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ।। ६६ ।। शङ्ख चक्र समायुक्तां सर्वालंकार भूषिताम् । वराक्षमालाः मखरां महिषासुर संस्थिताम् ।। ६७ ।। सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् । चतुर्भुजां वा संपूज्य वरदाभय संयुताम् ।। ६८ ।। शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् । नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ।। ६९ ।। एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये । घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ।। ७० ।। शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया । ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ।। ७१ ।। भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् । कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ।। ७२ ।। भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् । दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ।। ७३ ।। बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा । मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ।। ७४ ।। असुरा यातुधानाश्च मातृसर्प पिशाचकाः । डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ।। ७५ ।। जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः । दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।। ७६ ।। जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः । मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ।। ७७ ।। सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः । इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् । नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ।। ७८ ।। इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ।। ७८. अष्टसप्ततितमे पटले वाजि नीराजन विधिः शान्ति नीराजनाख्यं तु संप्रवक्ष्यामि वाजिनाम् । कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ।। १ ।। नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा । द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ।। २ ।। नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके । अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ।। ३ ।। विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता । विंशद्धस्त समायामायागशालेय मीरिता ।। ४ ।। षट् संमितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् । तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ।। ५ ।। गंभीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् । हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ।। ६ ।। आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् । अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ।। ७ ।। प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् । कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ।। ८ ।। संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः । प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ।। ९ ।। ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च । ततश्चाचल देवाय सेनान्यै धनदाय च ।। १० ।। नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् । जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ।। ११ ।। नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा । स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ।। १२ ।। तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् । विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ।। १३ ।। वाहनागार मागम्य ब्रह्मचर्यसमन्वितः । बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ।। १४ ।। सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः । कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ।। १५ ।। समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् । आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ।। १६ ।। दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् । ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ।। १७ ।। सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् । तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ।। १८ ।। कालद्वये प्रधानस्य तुरगस्य विशेषतः । पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।। १९ ।। निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः । अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ।। उत्तराषाढतरस्य सन्धाने श्रवणस्य च । नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ।। २१ ।। दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ । प्रदक्षिणोदके सौम्ये विशाले द्रुमसंकटे ।। २२ ।। तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् । विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ।। २३ ।। तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् । सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ।। २४ ।। गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह । प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ।। २५ ।। माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् । वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन संज्ञिमम् ।। २६ ।। हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् । स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ।। २७ ।। सहदेवीं नागपुष्पं कपिकच्छुकमेव च । शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ।। २८ ।। कुंभेषु वाष्ट संख्येषु वस्त्रादि सहितेषु च । गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ।। २९ ।। नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् । जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ।। ३० ।। वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः । वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखं ।। ३१ ।। अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके । आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ।। ३२ ।। शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् । श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ।। ३३ ।। होमशेषं तदा पिण्डं पयोदधि समन्वितम् । कदली फल संयुक्तं दद्याद्वाजि वराय च ।। ३४ ।। यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति । केवलस्थैस्तदा तोयै श्शाखयो दुंबरो त्थया ।। ३५ ।। प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः । राजानं हस्तिनं पश्चाच्चमूं संप्रोक्ष्य त्तदा ।। ३६ ।। शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् । आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ।। ३७ ।। हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् । राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ।। ३८ ।। एवमेव गजादीनां तदा नीराजनं नयेत् । किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ।। ३९ ।। पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् । गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ।। ४० ।। वेदिका चतुरश्रा च गजभूमिरथोच्यते । शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ।। ४१ ।। पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ।। ४२ ।। इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः पटलः ।। ७९. एकोनाशीतितमे पटले राज नीराजन विधिः कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे । वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ।। १ ।। ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः । वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ।। २ ।। बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा । संपूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ।। ३ ।। तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् । विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ।। ४ ।। गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः । नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ।। ५ ।। त्रासयन्विघ्नजालं च घण्टानाद महारवैः । नीराजयेद्विशेषेण राजानं देशिकोत्तमः ।। ६ ।। तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः । सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ।। ७ ।। नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् । रूपयौवन संपन्न वेश्याभिर्वाथ कारयेत् ।। ८ ।। यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः । तेषां राजा सुखं याति सुभिक्षं जायते तथा ।। ९ ।। चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ।। ९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः पटलः ।। ८०. अशीतितमे पटले पुष्याभिषेक विधिः पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् । सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ।। १ ।। पुण्ये मनोरमे देशे रविहस्त प्रमाणतः । कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ।। २ ।। द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् । दर्पणोदरसंकाशं मण्डनैरुपशोभितम् ।। ३ ।। तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः । वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ।। ४ ।। चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् । पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ।। ५ ।। एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् । पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ।। ६ ।। उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः । कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ।। ७ ।। दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः । दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ।। ८ ।। आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ।। ९ ।। आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः । पूर्वं स्वपूजां संप्राप्य दत्वा शान्तिं महीपतेः ।। १० ।। एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् । शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ।। ११ ।। मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् । मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ।। १२ ।। यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः । पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ।। १३ ।। मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् । सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ।। १४ ।। तद्दक्षिणे विधातव्यं आसनं पाद संयुतम् । सोपान सहितं कुर्यादिष्टमान समन्वितम् ।। १५ ।। श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् । कुर्यात् प्रतिसरं रात्रौ सर्वालंकरा संयुतम् ।। १६ ।। प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् । चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ।। १७ ।। षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते । शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ।। १८ ।। नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः । भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ।। १९ ।। वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् । स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ।। २० ।। हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् । स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ।। २१ ।। पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः । उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ।। २२ ।। तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः । मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ।। २३ ।। हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् । श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ।। २४ ।। रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् । नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ।। २५ ।। अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः । पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ।। २६ ।। भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् । माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ।। २७ ।। पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् । द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ।। २८ ।। समन्तादेक भागेन वर्षकं स्यादिलावृतम् । एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ।। २९ ।। एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् । वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ।। ३० ।। तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् । श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ।। ३१ ।। पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् । अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ।। ३२ ।। जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः । जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ।। ३३ ।। शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः । बहिस्समुद्रा दीपाश्च सप्तसंख्याः प्रकीर्तिताः ।। ३४ ।। जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः । तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ।। ३५ ।। क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि । दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ।। ३६ ।। रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा । जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश संज्ञकः ।। ३७ ।। कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा । तस्माद् गोभेद संञश्च गोभेदात् पुष्कलं पुनः ।। ३८ ।। ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः । अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ।। ३९ ।। दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् । तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ।। ४० ।। सहस्रदश विस्तीर्णो देवानामाश्रमो मतः । हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ।। ४१ ।। ध्वजश्चण्डस्य कंलासः कदली बक एव च । वडवामुखो द्विपादः कारकः स्मृतः ।। ४२ ।। ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः । प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ।। ४३ ।। उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः । चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ।। ४४ ।। वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः । निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ।। ४५ ।। प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता । मांसेनान्नेन संपूज्य मद्यैः प्रतिसरादिभिः ।। ४६ ।। श्वेता चले दितसुता दानवाश्च समीरिताः । हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ।। ४७ ।। एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः । द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ।। ४८ ।। यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः । गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ।। ४९ ।। वामनश्च मरीचिश्च तथेक्षुप उदाहृतः । भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ।। ५० ।। दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः । मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ।। ५१ ।। देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः । वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ।। ५२ ।। स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः । चन्द्रतापन संज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ।। ५३ ।। स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः । आभिलोकः सुकेशश्च मलयो मलकस्तथा ।। ५४ ।। नयश्च नगमूर्धा च महोदर उदाहृतः । प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव संज्ञकः ।। ५५ ।। विरूपाक्षश्चरूपथो हरो राजा उदाहृतः । हिरण्य युक् शतमखश्शंबरश्शरभो मयः ।। ५६ ।। शरभयस्सूर्य संज्ञश्च चन्द्रमास्स उदाहृतः । चतुष्षष्टिश्च संज्ञानां पूजाश्चैषां च पूर्ववत् ।। ५७ ।। शृङ्गवत्यचले पूज्याः पितरसमुदाहृता । सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ।। ५८ ।। सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः । क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ।। ५९ ।। सप्तभिश्च गणैरेक विंशतिस्संख्यया मताः । अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ।। ६० ।। हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः । अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ।। ६१ ।। तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः । नीलाचले च ऋषयः संपूज्या काश्यपादयः ।। ६२ ।। काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ।। ६३ ।। पुलस्त्यः पुलहश्चैव क्रतुश्चैवांगिरा भृगुः । सनत्कुमारस्सनकः सनन्दश्च सनातनः ।। ६४ ।। दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च । द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ।। ६५ ।। कण्.वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः । शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ।। ६६ ।। च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः । यवक्रीतदेवरातौ देवराजोऽजकस्तथा ।। ६७ ।। चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः । ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ।। ६८ ।। निषधे पर्वते नाना अनन्ताद्या उदाहृतः । अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ।। ६९ ।। पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः । गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ।। ७० ।। सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् । देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ।। ७१ ।। धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ।। ७२ ।। अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ।। ७३ ।। सावित्रश्च जयन्तश्च पिनाकी चापराजितः । रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ।। ७४ ।। त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः । सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ।। ७५ ।। प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः । यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ।। ७६ ।। दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते । गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ।। ७७ ।। सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् । सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ।। ७८ ।। द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः । उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ।। ७९ ।। साधनश्चैव सन्धिश्च कुहरश्च करालकः । कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ।। ८० ।। हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः । अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ।। ८१ ।। ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः । स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ।। ८२ ।। रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश । मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ।। ८३ ।। घृतस्थला घृताची च विश्वाची पूर्वचित्तिका । प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ।। ८४ ।। रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः । दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ।। ८५ ।। अग्निभत्री च हेमा वै मेनका चोर्वशी ततः । चौर्विंशति संख्याताः सुगन्धैश्च् सुमाल्यकैः ।। ८६ ।। यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः । यक्षान्संपूज्येत्ते च महावैश्रवणस्तथा ।। ८७ ।। माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः । विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ।। ८८ ।। सर्ववर्णक बलिभिः पूज्य सूत्रादि कंददेत् । ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ।। ८९ ।। प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च । सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ।। ९० ।। एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः । दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ।। ९१ ।। नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह । ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ।। ९२ ।। सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् । संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ।। ९३ ।। दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै । आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ।। ९४ ।। बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ । एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ।। ९५ ।। पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे । धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ।। ९६ ।। उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ । भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ।। ९७ ।। वाराही वैष्णवी चैव कौमारी च ततो मताः । माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ।। ९८ ।। स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः । इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ।। ९९ ।। वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः । शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ।। १०० ।। पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि । आयता व्ययनी चैव प्रज्ञा मेना बला ततः ।। १०१ ।। एताः सुरस्त्रियः प्रोक्ता स्संख्यया च चतुर्दश । नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ।। १०२ ।। प्रतिसरं च वस्त्रं च पताका भूषणं तथा । यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ।। १०३ ।। सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः । ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ।। १०४ ।। ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् । अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ।। १०५ ।। संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश । सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ।। १०६ ।। ज्योतिष्टोमत्रयं पूर्वं अभया चापराजिता । जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ।। १०७ ।। सहा च सहदेवा च पूर्णकोशा शतावरी । अरिष्टा च शिवा भद्रा कुंभेष्वेतानि विन्यसेत् ।। १०८ ।। ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् । मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ।। १०९ ।। रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् । प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ।। ११० ।। आदावाडुहं चर्म जरया संभृतायुषः । प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ।। १११ ।। ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् । सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ।। ११२ ।। चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् । पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ।। ११३ ।। तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् । सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ।। ११४ ।। सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा । सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ।। ११५ ।। अनन्तरचितं मध्यमेवं वा परिकल्पयेत् । श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य संमतम् ।। ११६ ।। तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे । कृतस्नानं विलिप्ताङ्गं सर्वालंकार संयुक्तम् ।। ११७ ।। निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु । दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ।। ११८ ।। वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् । गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ।। ११९ ।। अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः । कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ।। १२० ।। आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् । आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ।। १२१ ।। भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् । सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ।। १२२ ।। उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः । विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ।। १२३ ।। अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः । सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।। १२४ ।। ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः । आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ।। १२५ ।। अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती । कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ।। १२६ ।। नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ।। १२७ ।। सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः । अदितिस्सुरसा चैव विनता कद्रुरेव च ।। १२८ ।। देव पत्न्यश्च याश्चोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ।। १२९ ।। वैमानिकास्सुरगणा मनवस्सागरैस्सह । सरितश्च महाभागाः किन्नराः पुरुषास्तथा ।। १३० ।। वैखानसा महाभागा द्विजा वैहायसाश्चये । सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ।। १३१ ।। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ।। १३२ ।। सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः । एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ।। १३३ ।। दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा । मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ।। १३४ ।। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः । द्वैपायनो यवक्रीतो देवरातस्सहानुजः ।। १३५ ।। एते वान्ये च बहवः पुण्यसंकीर्तनाशुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ।। १३६ ।। एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः । महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ।। १३७ ।। जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः । जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ।। १३८ ।। अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः । कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ।। १३९ ।। ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् । आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ।। १४० ।। ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् । अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ।। १४१ ।। परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् । सर्वालंकार संयुक्तं होमवेदीं प्रविश्य च ।। १४२ ।। वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च । सिंहस्य व्याघ्र संज्ञस्य चर्माण्यास्तीर्य तत्र च ।। १४३ ।। कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः । होमंकुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ।। १४४ ।। पलाश समिधो मृत्युजित्परमो मतः । होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ।। १४५ ।। यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ।। १४६ ।। तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् । नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ।। १४७ ।। ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः । प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ।। १४८ ।। दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः । ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ।। १४९ ।। सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये । सार्वभौम प्रसिद्ध्यर्थं आयुरारोग्यसिद्धये ।। १५० ।। सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु । पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ।। १५१ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः पटलः ।। ८१. एकाशीतितमे पटले ग्रह यज्ञ विधिः ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् । सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ।। १ ।। नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा । पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ।। २ ।। अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः । राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ।। ३ ।। प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः । तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ।। ४ ।। दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् । ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ।। ५ ।। भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ।। ६ ।। कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च । ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ।। ७ ।। सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा । दीपः प्रोक्ततस्तु नैवेद्यं शलि संभव मुच्यते ।। ८ ।। चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् । कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ।। ९ ।। होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् । अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ।। १० ।। अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् । पलाशः खदिरो वाथ स्वस्मित् कुश संभवे ।। ११ ।। क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ । स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ।।१२ ।। होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ।। १३ ।। इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ।। ८२. द्वयशीतितमे पटले प्रतिसर विधिः राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि । निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ।। १ ।। विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः । स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ।। २ ।। श्वेत तण्डुल संपूर्णं पुण्याह प्रोक्षणान्वितम् । यज्ञ सूत्रं च वलयं अङ्गुलीयकमेव च ।। ३ ।। कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् । प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ।। ४ ।। संपूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् । ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ।। ५ ।। वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् । बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ।। ६ ।। कौतुकं हृदयेनैव तेनैव भसितं तथा । चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ।। ७ ।। मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् । ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ।। ८ ।। दूर्वाग्रं केवलं निर्मितं राजतं तु वा । आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ।। ९ ।। पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः । सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ।। १० ।। मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः । पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ।। ११ ।। कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् । सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ।। १२ ।। सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् । पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ।। १३ ।। दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् । बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ।। १४ ।। सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः । ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ।। १५ ।। बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् । नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ।। १६ ।। समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः । देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ।। १७ ।। ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः । अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ।। १८ ।। अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् । इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः पटलः ।। ८३. त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये । ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ।। १ ।। ग्रहणादिषुकालेषु शुभे देशे विशेषतः । हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ।। २ ।। कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् । नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ।। ३ ।। विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् । तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ।। ४ ।। चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् । दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ।। ५ ।। अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् । सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ।। ६ ।। बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये म्तः । पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ।। ७ ।। एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते । सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ।। ८ ।। उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् । अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ।। ९ ।। पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् । पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ।। १० ।। द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् । तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ।। ११ ।। अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् । षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ।। १२ ।। अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः । षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ।। १३ ।। अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् । तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ।। १४ ।। ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् । मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ।। १५ ।। जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् । उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ।। १६ ।। शङ्कुं सुषिर संपन्नं वलयेन समन्वितम् । सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ।। १७ ।। एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ । चतुष्कुण्डल संयुक्तौ हस्तप्रमाण संमितौ ।। १८ ।। प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि । यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ।। १९ ।। स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् । कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ।। २० ।। खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् । तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ।। २१ ।। एवं सर्वं समापाद्य शिल्पिमोक्षावसानके । पुण्याहं वाचयित्वा तु मण्डपे समलंकृते ।। २२ ।। मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते । मण्डलं कारयेद्धीमान् सर्वतोभद्र संज्ञंकम् ।। २३ ।। वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च । शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ।। २४ ।। मध्यमे देवदेवेशं वामे गौरी समायुतम् । संपूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ।। २५ ।। वाम् संपूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् । सूर्यं मध्येऽग्नि देशे तु भारकरंनै-ऋतेऽथवा ।। २६ ।। भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् । उषां प्रभां तथा प्रज्ञां संन्ध्यां सावित्रिमर्चयेत् ।। २७ ।। मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् । विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ।। २८ ।। प्रभूतं विमलं सारमारध्यं पूर्वदेशतः । उत्तरान्तं च संपूज्य सुखं मध्ये प्रजूजयेत् ।। २९ ।। बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् । रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ।। ३० ।। दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः । सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ।। ३१ ।। ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते । प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ।। ३२ ।। गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः । स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ।। ३३ ।। शिवाग्निं स्वस्व शास्त्रोक्तं संपाद्याग्नि मुखान्वितम् । लोकेश सहितं देवं समावाह्य समर्चयेत् ।। ३४ ।। नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् । समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ।। ३५ ।। शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः । शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ।। ३६ ।। क्षीराक्त दूर्वयाहोमं पञ्चविंशति संख्यया । मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ।। ३७ ।। बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् । मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ।। ३८ ।। पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् । सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ।। ३९ ।। महा पूजा च कर्तव्या प्रभूत हविषान्विता । पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।। ४० ।। ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् । आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ।। ४१ ।। सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् । कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ।। ४२ ।। आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् । पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ।। ४३ ।। सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् । रुद्रगायत्रि संज्ञंतु यजमानस्तदा जपेत ।। ४४ ।। घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् । पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ।। ४५ ।। आलोक्य काञ्चनंतत्स्थं कूर्च हस्तो हरंस्मरन् । वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ।। ४६ ।। जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि । स्वकायेन तदायेन तुलारोहः कृतोभवेत् ।। ४७ ।। शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् । देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ।। ४८ ।। देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः । होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ।। ४९ ।। शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु । ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ।। ५० ।। यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् । शिवार्चकस्य पूजा च प्राग्व देव समीरिता ।। ५१ ।। तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क संमिता । तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।। ५२ ।। मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् । देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ।। ५३ ।। तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् । यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ।। ५४ ।। एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ।। ५५ ।। इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः पटलः ।। ८४. चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् । कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ।। १ ।। तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा । त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ।। २ ।। द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् । वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ।। ३ ।। तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् । एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ।। ४ ।। एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् । पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ।। ५ ।। विकारांशं तु तन्कृत्वा एकैकांश विवर्धनात् । अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ।। ६ ।। अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः । त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ।। ७ ।। पादुकोत्सेधमानं तु तदर्धं पादमेव वा । त्रिपादं वा समं वापि फलकाधनमिष्यते ।। ८ ।। पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः । मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ।। ९ ।। शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् । आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ।। १० ।। स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् । कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ।। ११ ।। तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् । नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ।। १२ ।। प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि । ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ।। १३ ।। गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् । पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ।। १४ ।। प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् । छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ।। १५ ।। तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः । कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ।। १६ ।। कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् । आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ।। १७ ।। भार्यादक्षपुटे दूर्वारससेचन माचरेत् । एकविंशति संख्यातानुदुम्बर फलान्वितान् ।। १८ ।। कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च । त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ।। १९ ।। भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् । भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ।। २० ।। हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् । अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ।। २१ ।। एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ।। २१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः पटलः ।। ८५. पञ्चशीतितमे पटले तिलपर्वतदान विधिः तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः । पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ।। १ ।। बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् । पञ्चगव्येन संप्रिक्ष्य मण्डलं मध्यकल्पितम् ।। २ ।। संछाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च । पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ।। ३ ।। वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः । तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ।। ४ ।। दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा । कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ।। ५ ।। दण्डमानसमं वाथ हीनं नैव समाचरेत् । वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ।। ६ ।। देशं संक्ल्पयित्वा तु पूयत्तु विशेषतः । निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ।। ७ ।। शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् । तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ।। ८ ।। अर्चयेच्च विधानज्ञो यजमानेन देशिकः । दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ।। ९ ।। अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः । अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ।। १० ।। अत्रानुक्तं तु यत् किंचिदर्चनं होममेव वा । स्नपनं देव देवस्य सहस्रकलशादिभिः ।। ११ ।। प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् । विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ।। १२ ।। दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् । अस्मात्परतरं दानं नास्तीह भुवनत्रये ।। १३ ।। अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् । सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ।। १४ ।। गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः । तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ।। १५ ।। कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् । दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ।। १६ ।। तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् । तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ।। १७ ।। अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु । अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ।। १८ ।। कृत्वा संपूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् । दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ।। १९ ।। ।। इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः पटलः ।। ८६. षड्शीतितमे पटले सुवर्ण भूमिदान विधिः सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः । काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ।। १ ।। एकहस्त प्रमाणेन सप्तद्वीपसमन्विता । समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ।। २ ।। मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा । अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ।। ३ ।। पूर्ववद्देवपूजां च होमं चैव विशेषतः । मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ।। ४ ।। सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् । पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ।। ५ ।। शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः पटलः ।। ८७. सप्ताशीतितमे पटले कल्पपादपदान विधिः कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः । पादपं शतनिष्केण सुवर्णे समाचरेत् ।। १ ।। बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् । नानाफलसमायुक्तं सर्वशोभासमन्वितम् ।। २ ।। शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् । छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ।। ३ ।। कारयेत् पल्लवानीह प्रवालैश्च विशेषतः । फलानि पद्मरागैश्च विविधानि समाचरेत् ।। ४ ।। नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् । वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ।। ५ ।। मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा । स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ।। ६ ।। इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु । वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।। ७ ।। शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा । स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ।। ८ ।। मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् । पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ।। ९ ।। लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः । ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ।। १० ।। अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः पटलः ।। ८८. अष्टाशीतितमे पटले गणेश दान विधिः गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् । पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ।। १ ।। तन्मध्यमे यजेद्देवं लोकपाल समावृतम् । तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ।। २ ।। सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् । तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ।। ३ ।। प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च । ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ।। ४ ।। उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः । तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ।। ५ ।। अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ।। ६ ।। इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः पटलः ।। ८९. एकोननवतितमे पटले हेम धेनुदान विधिः हेम धेनु प्रदानं तु वक्ष्ये संक्षेपतः क्रमात् । सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ।। १ ।। काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः । तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ।। २ ।। गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् । पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ।। ३ ।। भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके । पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ।। ४ ।। गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च । वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ।। ५ ।। वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् । सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ।। ६ ।। पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः । अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ।। ७ ।। अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् । क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ।। ८ ।। त्रिंऽसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने । अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः पटलः ।। ९०. नवतितमे पटले लक्ष्मीदान विधिः महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते । काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् । अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ।। २ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ।। ३ ।। श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् । विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ।। ४ ।। पूजयेच्छिव पूजां च होमं चैव विशेषतः । एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ।। ५ ।। स्नपनं देव देवस्य सहस्र कलशादिभिः । पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ।। ६ ।। इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ।। ९१. एकनवतितमे पटले तिलधेनु दान विधिः तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् । पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ।। १ ।। तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् । अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ।। २ ।। वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् । त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ।। ३ ।। पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् । तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र संख्यया ।। ४ ।। रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् । विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ।। ५ ।। दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् । षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ।। ६ ।। अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च । पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ।। ७ ।। प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः । तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ।। ८ ।। इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु । हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ।। ९ ।। प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। १० ।। तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च । केवलं रुद्रदानं वा सूर्यदान मथापि वा ।। ११ ।। मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् । पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ।। १२ ।। दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ।। १२१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः ।। ९२. द्विनवतितमे पटले सहस्रगोदान विधिः गवां सहस्र संख्यानां दानं वक्ष्यामि सिद्धये । सवत्सस्सगुणा एव संग्राह्या गुणवत्तराः ।। १ ।। अष्टौ संपूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः । शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ।। २ ।। कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः । मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।। ३ ।। पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् । स्नपनं च शिवस्याथ सहस्र कलशादिभिः ।। ४ ।। शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् । दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ।। ५ ।। दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते । गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ।। ६ ।। गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् । अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः ।। ९३. त्रिनवतितमे पटले हिरण्याश्व दान विधिः हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते । अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ।। १ ।। अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः । अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ।। २ ।। पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् । सर्वालंकार संयुक्तं कलाद्यैश्च समन्वितम् ।। ३ ।। मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ।। ४ ।। गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् । सुरेन्द्र बुद्ध्या संपूज्य पञ्च निष्कं प्रदाय च ।। ५ ।। दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः । मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ।। ६ ।। इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः ।। == चतुर्नवतितमे पटले कन्यादान विधिः == सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः । सर्व लक्षण संपन्नां दोष विवर्जिताम् ।। १ ।। विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् । दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ।। २ ।। उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः । संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ।। २३ ।। संभूष्य कन्यकां दद्याद्यागाय विधिनामुना । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। २४ ।। तत्र संपूज्य देवेशं कुर्यात् होमं च पूर्ववत् । नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ।। २५ ।। संपूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः । पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ।। ६ ।। ग्रहोपकरणोपेतं दासी दासमनुत्तमम् । दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ।। ७ ।। एवं यः कारयेद्दानं कन्यायास्सुखमेधते । कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ।। ८ ।। इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः ।। == पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः == हिरण्योक्ष प्रदानं तु संक्षेपेणाधुनोच्यते । काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः । वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ।। २ ।। स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् । कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ।। ३ ।। घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् । वृषाङ्गं कारयेद् विद्वान् किंकिणी मालयावृतम् ।। ४ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ।। ५ ।। गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् । पूर्ववच्छिवपूजा च होमं चैव विशेषतः ।। ६ ।। शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् । समिदाज्य चरूपेतं शान्ति होममथापि वा ।। ७ ।। चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ।। ८ ।। इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः पटलः ।। == षण्णवतितमे पटले गजदान विधिः == अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः । गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ।। १ ।। सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः । अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ।। २ ।। पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् । गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ।। ३ ।। पूर्ववच्छिव पूजा च होमयेच्च विशेषतः । शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ।। ४ ।। अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ।। ४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ।। == सप्तनवतितमे पटले लोकपालाष्टकदान विधिः == अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् । प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ।। १ ।। पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः । शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ।। २ ।। उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् । अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ।। ३ ।। एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् । दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ।। ४ ।। वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा । अत्रानुक्तं तु यत् किंचित् तुलाभारवदाचरेत् ।। ५ ।। लोकेशादनमेव स्यात् सर्वसंपत् समृद्धिदम् । परचक्रप्रमथनं गजवाजिविवर्धनम् ।। ६ ।। पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ।। इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः सप्तनवतितमः पटलः ।। == अष्टनवतितमे पटले स्दानोत्तम विधिः == सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् । मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ।। १ ।। प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् । मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ।। २ ।। गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः । ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ।। ३ ।। शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः । चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ।। ५ ।। तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् । शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ।। ६ ।। पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् । अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ।। ७ ।। इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ।। mlx9d7zwt2eqg5yr0z8wmdmk6ort2up 418667 418666 2026-09-30T04:43:27Z ~2026-52344-15 10772 /* प्रथमः पटलः पश्चिमद्वारार्चनविधिः */ 418667 wikitext text/x-wiki {{header | title = कामिकागमः - उत्तरभागः | author = | translator = | section = | previous = | next = | year = | notes = }} == प्रथमः पटलः पश्चिमद्वारार्चनविधिः == पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा । मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ।। १ ।। राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् । प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ।। २ ।। सूर्यश्चेत्यादिभिर्मन्त्रैः संध्यासु तिसृषूदकम् । पीत्वा संमार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ।। ३ ।। ओं भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथांजलिम् । पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ।। ४ ।। एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये । श्रुति स्मृत्यादि संसिद्धिं अनुष्ठानन्तु यद्भवेत् ।। ५ ।। आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा । संध्यायां वन्दने वापि तर्पणे होमकर्मणि ।। ६ ।। गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् । कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ।। ७ ।। स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च । व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ।। ८ ।। समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः । त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ।। ९ ।। करन्यासं ततः कृत्वा सुषिरं देहमध्यमे । ध्यात्वा ज्वलन्तं हुंकारं प्राणान् संयम्य निश्चलम् ।। १० ।। फट्कारान्तं तु तेनैव रेचकेन समन्वितम् । पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ।। ११ ।। मूर्ति मन्त्रेण संगृह्य जीवं हुंकार मूर्धनि । कुंभकेन समोपेतं वायुमूर्ध्वगतं नयेत् ।। १२ ।। तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् । आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ।। १३ ।। निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् । व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ।। १४ ।। दहनं वाथ भूतानां परस्पर विशोधनम् । मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ।। १५ ।। शोध्यो परागरहितं कलामात्र व्यवस्थितम् । विचिन्त्य दिव्यदेहार्थ ममृताप्लावनं नयेत् ।। १६ ।। ध्यात्वा कुण्डलिनीं शक्तिं अमृतैक स्वरूपिणीम् । तदुद् भूतामृतस्त्रावैस्सिक्तां दिव्यां कलां स्मरेत् ।। १७ ।। ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् । पुनराप्लावनं कृत्वा करन्यासं समारभेत् ।। १८ ।। हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते । तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ।। १९ ।। शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् । कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ।। २० ।। करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते । मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ।। २१ ।। मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् । शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ।। २२ ।। नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् । महामुद्रां ततः कृत्वा शिवमन्त्रं अनुस्मरन् ।। २३ ।। महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शनरूपा अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली महामुद्रेय मुदिता परमीकरणे बुधैः महामुद्रेयमाख्याता न्यूनाधिकं समापनी प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ।। अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् । लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ।। २४ ।। श्रीकण्ठादि समोपेतं अक्षरन्यासमेव वा । केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ।। २५ ।। एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् । पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ।। २६ ।। आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् । हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ।। २७ ।। पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् । पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ।। २८ ।। चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् । उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुंकुमम् ।। २९ ।। चन्दनोशीर युक्तांभः पाद्यं कन्यसमुच्यते । वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ।। ३० ।। मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् । एलालवङ्ग कर्पूर मुर जातियुतं समम् ।। ३१ ।। एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् । आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ।। ३२ ।। शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् । तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ।। ३३ ।। अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते । सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ।। ३४ ।। एलालवङ्ग, कर्पूर वरालफलसंयुतम् । एतदाचमनीयं वा यजेत् यजनाङ्गके ।। ३५ ।। कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। ३६ ।। व्रीहि तण्डुलं संयुक्तं अक्षतं तत्प्रकीर्तितम् । पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ।। ३७ ।। कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः । द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत् ।। ३८ ।। हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया । तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ।। ३९ ।। द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् । मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ।। ४० ।। सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् । गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ।। ४१ ।। महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् । विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।। ४२ ।। प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् । वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ।। ४३ ।। अपनीय च तां लिंगात् चण्डेशाय निवेदयेत् । पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ।। ४४ ।। लिङ्गशुद्धि रियंख्याता शुद्धयः पञ्च चोदिताः । संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ।। ४५ ।। विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् । यजनं देवदेवस्य सर्व कामार्थ साधनम् ।। ४६ ।। विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते । गणेशं च गुरुं शक्तिमनन्तं धर्मसंमुखान् ।। ४७ ।। अधर्मप्रमुखानन्ते छदने पद्मकर्णिके । वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ।। ४८ ।। शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् । पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ।। ४९ ।। अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् । धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ।। ५० ।। सिंहासन मिदं प्रोक्तं, योगं मायाब्जमुच्यते । पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ।। ५१ ।। स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् । संकल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ।। ५२ ।। तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् । लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ।। ५३ ।। अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् । विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ।। ५४ ।। स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् । स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ।। ५५ ।। शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् । प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ।। ५६ ।। पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् । संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ।। ५७ ।। गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् । नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ।। ५८ ।। लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते । तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ।। ५९ ।। अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् । आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ।। ६० ।। भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् । तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ।। ६१ ।। नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् । आरात्रिकं ततो दद्यात् धूपदानावसानके ।। ६२ ।। भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः । भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ।। ६३ ।। दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् । रात्रौ नीराजनं कुर्यात् दीपदानावसानके ।। ६४ ।। महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् । आमन्त्रण हविः काले बलिं वा होममाचरेत् ।। ६५ ।। उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् । स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ।। ६६ ।। वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् । तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ।। ६७ ।। ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा । संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ।। ६८ ।। यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् । नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ।। ६९ ।। विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् । नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ।। ७० ।। रूपयौवनसंपन्ना योषितः कर्तृवांच्छया । मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ।। ७१ ।। तासां संख्या भवेद् ग्रामविन्यास जन संख्यया । उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ।। ७२ ।। वादकानष्ट संख्यातान् कल्पयेत् कल्पवित्तमः । तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ।। ७३ ।। विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् । साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिंगतः ।। ७४ ।। लिंगं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् । नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ।। ७५ ।। उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् । केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ।। ७६ ।। मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् । नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ।। ७७ ।। शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये । तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ।। ७८ ।। प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः । बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ।। ७९ ।। तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् । बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ।। ८० ।। एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके । कौबेरास्ये च लिंगे च सकले मिश्र लिंगके ।। ८१ ।। विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः । प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ।। ८२ ।। द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् । वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ।। ८३ ।। देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता । ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ।। ८४ ।। पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् । दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ।। ८५ ।। उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ।। ८६ ।। हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् । शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ।। ८७ ।। कवचं वायुदिग्भागे आग्नेययां वा प्रकल्पयेत् । पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ।। ८८ ।। पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् । गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ।। ८९ ।। लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः । देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ।। ९० ।। परिवारार्चनं पूर्वदेशादारभ्य कारयेत् । वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ।। ९१ ।। नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा । चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ।। ९२ ।। ९२१/२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु । इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम पटलः करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः । क्रन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुह्याय नमः ओं हं सद्योजात मूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे नमः ओं हूं शिखायै नमः ओं हैं कवचाय नमः ओं हः अस्त्राय नमः ओं हां कवचाय नमः ओं हां शिवाय वौषट् अङ्गन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुहचाय नमः ओं हं सद्योजातमूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे स्वाहा ओं हूं शिखायै वषट् ओं हैं कवचाय हुं ओं हः अस्त्राय फट् ओं हः अस्त्राय हुंफट् ओं हः अस्त्राय फट् ओं हां शिवाय वौषट् पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् । अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ।। सुप्रभेदागमेः उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् । चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ।। एलालवंग कर्पूर जम्बू जाती फलं मुरम् । षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ।। आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः । अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ।। बभमयरलसंज्ञैः अक्षरैः कॢप्तपत्रे । सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ।। अभयवरदहस्तं गण्डिकां चाक्षमाला । करयुगलमभयं चिन्तयेद्विश्वयोनिम् ।। वशषसदलयुक्ते सौम्यमाधारपद्मे तरुणमरुणगानं वारणास्यं गणेशम् । अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ।। डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिं । मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम् हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभं । श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ।। काद्यैष्ठान्तगतैः प्रकल्पितदले पंकेरुह पार्वती कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम् शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम् मूर्त्यंगेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम् मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत् हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया । तत्तद्योगतया स्वदेशिकतनुं भावेन दीपांकुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ।। महामुद्रा तावत् कराभ्यां संमुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शन रूपा अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली । महामुद्रेय मुदिता परमीकरणे बुधैः । महामुद्रेय माख्याता न्यूनाधिकं समापनी । प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि २ द्वितीय पटले दक्षिणद्वारार्चन विधिः वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता । लिंगे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ।। १ ।। प्रतिमा दक्षिणास्या चेदुत्तमोत्तम संज्ञका । मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ।। २ ।। प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः । नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ।। ३ ।। श्रेष्ठं पश्चान्मुखं लिंगं दक्षास्यं बेरमुच्यते । अव्यक्तं मोक्षदं लिंगं व्यक्तं भूतिप्रदायकम् ।। ४ ।। भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् । शौचमाचमनं स्नानं सन्ध्योपासन मेव च ।। ५ ।। कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् । द्वार मस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ।। ६ ।। गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् । यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ।। ७ ।। संप्रविश्यान्तरे वास्तु पतिं संपूज्य फूजकः । पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ।। ८ ।। लिंगार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे । अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ।। ९ ।। अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् । सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ।। १० ।। पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रपूजयेत् । ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ।। ११ ।। पितृवायवग्नि ईशेषु हृदयादि व्यवस्थितम् । अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ।। १२ ।। गणेशःपूर्व देशे वा प्राग्वद्वा संप्रकीर्तिताः । पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ।। १३ ।। उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् । प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ।। १४ ।। लिंगार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् । तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ।। १५ ।। लोहजे शैलजे वापि मृज्जे धतुज रत्नजे । चित्रहीने शिलाबिंबे मूललिंग वदाचरेत् ।। १६ ।। रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् । अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ।। १७ ।। वस्त्र संमार्जनं पुण्यदिवसे स्नपनं मतम् । कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ।। १८ ।। अथवा बाणलिंगे वा दर्पणादौ समर्चयेत् । आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ।। १९ ।। गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके । वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ।। २० ।। संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत् ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ।। २१ ।। अथापरं समानं स्यात् शिवलिंगार्चनेन तु । कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ।। २२ ।। प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् । हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ।। २३ ।। मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् । मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ।। २४ ।। न्यास मार्गेण संस्थाप्य सन्निधान निरोधने । विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ।। २५ ।। सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः । एलालवङ्ग कर्पूर वराल फल कल्पितम् ।। २६ ।। दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये । क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ।। २७ ।। कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। २८ ।। व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् । पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ।। २९ ।। संमिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे । पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ।। ३० ।। सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते । एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ।। ३१ ।। त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।। ३२ ।। तांबुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे । बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ।। ३३ ।। सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि संख्यार्ध नाड्योऽथवास्युः ।। ३४ ।। उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ।। ३५ ।। अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् । कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ।। ३६ ।। पवित्रारोहणं मासार्चन मङ्कुर वापनम् । नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ।। ३७ ।। समालोच्य विधेयं स्यात् सकले निष्कले शिवे । अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ।। ३८ ।। सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः । अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ।। ३९ ।। किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् । तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ।। ४० ।। तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ।। ४०१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः द्वितीयः पटलः सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि संख्यार्ध नोड्योऽथ-वास्युः ।। उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ।। अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ।। पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् षड्गुण - १. सर्वज्ञत्वम् २. परितृप्तत्वम् ३. अनादि बोधृत्वम् ४. स्वतन्त्रत्वम् ५. अलुप्तशक्तित्वम् ६. अनन्तशवक्तिस्वम् ३ तृतीय पटले सकलार्चनाविधिः वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् । शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ।। १ ।। कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च । सम्यगाचभ्य संगृह्य भसितं वारिणा सह ।। २ ।। त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च । तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ।। ३ ।। भूतशुद्धिं सुधाप्लावं आत्मावाहनमेव च । करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ।। ४ ।। स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् । पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ।। ५ ।। अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् । अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ।। ६ ।। विशेषार्घ्यञ्च संकल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१/२ । ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् । कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ७१/२ ।। द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् । द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीं ।। ८१/२ ।। नन्दिनञ्च महाकालं गंगाह्वां यमुनामपि । संपूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ।। ९९/२ ।। दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ । शिवस्येशानमन्त्रेण मालाद्यमपनीय च ।। १०१/२ ।। शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा । आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ।। १११/२ ।। अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकं । वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ।। १२१/२ ।। तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् । सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ।। १३१/२ ।। शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते । या तस्य विमलाशक्तिश्शिवस्य समवायिनी ।। १४१/२ ।। तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् । हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ।। २०१/२ ।। कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते । सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ।। २११/२ ।। रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता । अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ।। २२१/२ ।। एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते । एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ।। २३१/२ ।। तत्रेशानेन वक्त्रेण ममुना सकलेन च । मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ।। २४१/२ ।। ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् । षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ।। २५१/२ ।। सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत् । बेरे सदाशिवेवापि लिंगेप्येवं समाचरेत् ।। २६१/२ ।। महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् । प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ।। २७१/२ ।। कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् । तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ।। २८१/२ ।। महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा । विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ।। २९१/२ ।। आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः । तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ।। ३०१/२ ।। स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे । गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ।। ३११/२ ।। ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् । पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ।। ३२१/२ ।। इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः । परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ।। ३३१/२ ।। होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् । शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ।। ३४१/२ ।। द्वारपालार्चनोपेतं बलिहोमसमन्वितम् । शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ।। ३५१/२ ।। प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् । उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ।। ३६१/२ ।। पवित्रारोहणं संम्यक् कृत्तिकादीपमेव च । संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ।। ३७१/२ ।। मासोत्सवं तथा मासेनवनैवेद्यकर्म च । प्रायश्चित्तञ्च जीर्णानां उद्धारञ्च गुरूत्तमाः ।। ३८१/२ ।। देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् । किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसंगमे ।। ३९१/२ ।। पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः । गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ।। ४०१/२ ।। मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् । गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ।। ४११/२ ।। आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ।। ४२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः तृतीयः पटलः इन्दु निभ पञ्च मुख हस्त दश युक्तं । शूल वर टङ्क मसि वज्र मभयं स्यात् ।। पाश वरदाङ्कुश मणिर्दहन वामे । श्वेत कमलासन सदाशिव स्वरूपम् ।। ४ चतुर्थे पटले स्नपनविधिः अथातस्संप्रवाक्ष्यामि स्नपनं परमेष्ठिनः । अष्टम्यां वा चतुर्दश्यां विषुवायनसंक्रमे ।। १ ।। ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः । सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ।। २ ।। कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा । राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ।। ३ ।। भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने । प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ।। ४ ।। नित्ये नैमित्तिके काम्ये कारयेच्छंकरस्य च । स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ।। ५ ।। अंकुरार्पणमादौ स्यात् महास्नपन कर्मणि । प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ।। ६ ।। अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ।। ६१/२ ।। पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा । चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ।। ७१/२ ।। सर्वालंकारसंयुक्ततोरणैरन्वितेपि वा । नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ।। ८१/२ ।। अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् । सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ।। ९१/२ ।। द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १०१/२ ।। अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा । तदा द्वितालमानेन कर्णिकामानमीरितम् ।। १११/२ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।। १२१/२ ।। पञ्चविंशतिसंख्यान्तं तत्समन्तात्समावृतम् । एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३१/२ ।। आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् । पञ्चविंशतिसंख्यातान् कलशान् मध्यमस्थितम् ।। १४१/२ ।। परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् । अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ।। १५१/२ ।। मध्यमे तिथिसंख्यास्युः नवकोणे व्यवस्थिताः । मध्यमे तिथिसंख्येतु मध्यमत्रितयं त्यजेत् ।। १६१/२ ।। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् । चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ।। १७१/२ ।। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् । मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ।। १८१/२ ।। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् । अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।। १९१/२ ।। शिवव्यूहस्य परितः षोडशैव परित्यजेत् । सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ।। २०१/२ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः । मार्गबाह्ये तु कोणेस्यादेकविंशति संख्यकः ।। २११/२ ।। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते । सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ।। २२१/२ ।। सार्धहस्तान्तरं हस्तमानान्तरमथापि वा । स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च ।। २३१/२ ।। तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा । स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ।। २४१/२ ।। त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् । हीनहीनतरं प्रस्थमानमित्यभिधीयते ।। २५१/२ ।। शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् । अधश्चेधभिचारार्थं भवेदेव न संशयः ।। २६१/२ ।। आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि । मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ।। २७१/२ ।। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् । तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ।। २८१/२ ।। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् । हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ।। २९१/२ ।। शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् । शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ।। ३०१/२ ।। चतुस्त्रिद्वयेकसंख्यातप्रस्थमानप्रपूरितम् । कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ।। ३११/२ ।। अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् । वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ।। ३२१/२ ।। षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् । कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ।। ३३१/२ ।। मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् । मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ।। ३४१/२ ।। निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके । तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ।। ३५१/२ ।। तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च । माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ।। ३६१/२ ।। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् । कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ।। ३७१/२ ।। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा । द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ।। ३८१/२ ।। मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् । भूतिक्षुसार कदलीतिलसर्षपपानसाः ।। ३९१/२ ।। भसितंतिलसारञ्च कदलीतिलसर्षपान् । नालिकेरञ्च नारंङ्गद्वयंस्यान्मातुलंगकम् ।। ४०१/२ ।। डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके । पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ।। ४११/२ ।। तिलबिल्वे तदन्ते तु मातुलंगफलम्मतम् । नारंगद्वितयन्तस्माद्यवनीवारलाजकम् ।। ४२१/२ ।। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते । कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवंगकम् ।। ४३१/२ ।। तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् । सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ।। ४४१/२ ।। एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः । पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ।। ४५१/२ ।। एवं कृते भवन्त्यत्र कलशानान्तु षोडश । चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ।। ४६१/२ ।। अन्तरालेषु मध्यादि वसु संख्यकमीरितम् । ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ।। ४७१/२ ।। गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् । पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ।। ४८१/२ ।। शमीदूर्वा च शुक्लार्कबिल्वचम्पकशंखिनी । अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसंज्ञकम् ।। ४९१/२ ।। नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके । अथवान्यप्रकारेण तदेव पुनरुच्यते ।। ५०१/२ ।। पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै । क्षीरंदधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ।। ५११/२ ।। तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी । नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ।। ५२१/२ ।। पुन्नागशंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा । सिम्हधुर्तूरसंज्ञे च षोडशास्त्रविनिर्दिशेत् ।। ५३१/२ ।। सदुर्वासर्षपाम्राणि नारंगपनसेमते । कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ।। ५४१/२ ।। इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् । नीवारकुंकुमतिलमाञ्जीमुरजसत्तुकम् ।। ५५१/२ ।। मातुलंगं मलयजमलयजमगरूशीर रात्रिजम् । पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ।। ५६१/२ ।। विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि । अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया ।। ५७१/२ ।। अष्टौ गणेश्वरा बाह्ये चांगुष्ठप्रमुखास्तथा । क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा ।। ५८१/२ ।। एकोनेन तु पञ्चाशत् स्नपने देवतामताः । कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ।। ५९१/२ ।। द्वात्रिंशत्पदसंख्यास्यात् पाद्यदींस्तत्र विन्यसेत् । दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ।। ६०१/२ ।। अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ।। ६१ ।। अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते । चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ।। ६२ ।। कर्पूरं हरिबेरञ्च दान्तं मांसीमुरंतृणम् । तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ।। ६३ ।। चम्पकं सहदेवी च शतपत्री च रोचना । बिल्वं यवा शमी दूर्वा तक्कोलं मेघसम्ज्ञकम् ।। ६४ ।। धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् । रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ।। ६५ ।। धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः । प्लेक्षेभपिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ।। ६६ ।। अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् । तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ।। ६७ ।। बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् । श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ।। ६८ ।। सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् । दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ।। ६९ ।। गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका । वटशृंगेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ।। ७० ।। शंखिनी भृंगराजश्च नीवारं गैरिकं तथा । आम्रमोचरसं जातिः पाटली मार्जनं पुनः ।। ७१ ।। पञ्चमावरणं ह्येतदन्यथा च निगद्यते । शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ।। ७२ ।। अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च । नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ।। ७३ ।। पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ।। ७३१/२ ।। शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः । तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ।। ७४१/२ ।। गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः । महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ।। ७५१/२ ।। इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी । व्याघ्रनख्या च मंजिष्ठं सरलं भद्रकोष्ठकम् ।। ७६१/२ ।। नवनीतं द्राविडाह्वं सज्जं तक्कोलसंज्ञकम् । चञ्चलातिबलाचैव बलासिंहाप्रियंगुकम् ।। ७७१/२ ।। लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् । अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ।। ७८१/२ ।। सतिलं कुंकुमं मेघमगरुं कृष्णरोचना । श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ।। ७९१/२ ।। कृष्णागरुं चतगरं ततः प्रोक्तंमनश्शिलाम् । रक्तचन्दनसंज्ञञ्च लवंगं रात्रिचूर्णकम् ।। ८०१/२ ।। कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना । चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ।। ८११/२ ।। आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः । दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ।। ८२१/२ ।। अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ । पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ।। ८३१/२ ।। दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् । तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसंज्ञकम् ।। ८४१/२ ।। चम्पकं हरिबेरञ्च सर्षपन्नागकेसरं । तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ।। ८५१/२ ।। लवंगपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् । तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ।। ८६१/२ ।। भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च । धात्री च नालिकेरञ्च लिकुचं मातुलंगकम् ।। ८७१/२ ।। तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् । लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ।। ८८१/२ ।। रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् । गुञ्जादि निष्कपर्यन्तं पाद्याद्यंगं प्रमाणकम् ।। ८९१/२ ।। एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् । मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ।। ९०१/२ ।। आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् । कर्पूरकुंकुमादीनां मानमिष्टं प्रदीयताम् ।। ९११/२ ।। मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः । एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ।। ९२१/२ ।। नवसंख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः । अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ।। ९३१/२ ।। अष्टोत्तरसहस्राख्यं अधुनात्र निगद्यते । वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ।। ९४१/२ ।। एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमंत्रितम् । तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ।। ९५१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। ९६१/२ ।। क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा । सर्षपं नालिकेराख्यं रजनी मातुलंगकम् ।। ९७१/२ ।। लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् । पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ।। ९८१/२ ।। रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् । पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ।। ९९१/२ ।। मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् । दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ।। १००१/२ ।। कषायाढयोदकोपेतमुत्तरे पुनरुच्यते । कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ।। १०११/२ ।। माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् । पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ।। १०२१/२ ।। पञ्चरत्नमिति ज्ञेयं आद्या भावे द्वितीयकम् । रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ।। १०३१/२ ।। सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ।। १०४१/२ ।। सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला । गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ।। १०५१/२ ।। शालिकोद्रवनीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ।। १०६१/२ ।। नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ।। १०७१/२ ।। कुंकुमं हरिबेरञ्च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ।। १०८१/२ ।। पर्वते च नदीतीरे वल्मीके कर्कटावटे । वृषशृंगे च सत्क्षेत्रे समुद्रे गजदन्तके ।। १०९१/ २ ।। अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् । गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ।। ११०१/२ ।। शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते । दूर्वांकुरञ्च कुशाग्रं गौरसर्षपम् ।। ११११/२ ।। भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते । तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ।। ११२१/२ ।। अपामार्गसमायुक्तं पत्रतोयमिहेरितम् । पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ।। ११३१/२ ।। पुन्नागकुरवनारंगनन्द्यावर्तं च मल्लिका । श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ।। ११४१/२ ।। कुष्ठं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ।। ११५१/२ ।। शूलं कपालहरिणी पिनाकः परशुस्तथा । पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ।। ११६१/२ ।। पनसो नालिकेरश्च मातुलंगद्वयं ततः । नारंगद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ।। ११७१/२ ।। पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली । जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ।। ११८१/२ ।। अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः । गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ।। ११९१/२ ।। सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् । निकुन्तः पञ्चभिर्युक्तंकान्तोदकमिति स्मृतम् ।। १२०१/२ ।। उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। १२११/२ ।। गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ।। १२२१/२ ।। मयूरशिखिभूर्जत्वग्रोचनाभृंगराजकम् । कृतांजलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ।। १२३१/२ ।। अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् । चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ।। १२४१/२ ।। लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः । विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ।। १२५१/२ ।। रक्तोत्पलं शमीपश्चात् पद्मं सुरस संज्ञकम् । नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ।। १२६१/२ ।। यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका । जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ।। १२७१/२ ।। द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् । वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ।। १२८१/२ ।। तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् । माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ।। १२९१/२ ।। कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा । पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ।। १३०१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। १३११/२ ।। द्वितीयावरणे स्वर्णं पदे षोडशसंख्यके । चतुर्विंशति संख्याते नालिकेरफलं बहिः ।। १३२१/२ ।। द्वात्रिंशत्संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके । षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ।। १३३१/२ ।। चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् । द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ।। १३४१/२ ।। अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् । नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ।। १३५१/२ ।। दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् । चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ।। १३६१/२ ।। अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते । धातु लोहोदकं पश्चात् शतेषोडशसंयुते ।। १३७१/२ ।। शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् । सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ।। १३८१/२ ।। पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे । घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ।। १३९१/२ ।। वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् । प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ।। १४०१/२ ।। उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः । उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ।। १४११/२ ।। अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते । विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ।। १४२१/२ ।। स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः । पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ।। १४३१/२ ।। कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् । स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ।। १४४१/२ ।। अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः । तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ।। १४५१/२ ।। अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः । स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ।। १४६१/२ ।। तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः । अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ।। १४७१/२ ।। अष्टसंख्या समायुक्तो द्विशते मध्यमेष्टकम् । तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ।। १४८१/२ ।। बाह्ये षोडशसंख्यातान् गृहणीयाद्दिग्विदिग्गतम् । अष्टव्यूहन्तथात्वेतु उक्त संख्यान्वितं भवेत् ।। १४९१/२ ।। द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते । रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ।। १५०१/२ ।। दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् । लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ।। १५११/२ ।। निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् । तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ।। १५२१/२ ।। किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् । गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ।। १५३१/२ ।। फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः । तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ।। १५४१/२ ।। पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् । क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ।। १५५१/२ ।। फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ।। १५७ ।। घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् । अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ।। १५७ ।। ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् । तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ।। १५८ ।। शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते । मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ।। १५९ ।। वज्रं समस्तरत्नानां लोहानामग्निदैवतम् । यवो निखिल बीजानां धातूनां हरितालकम् ।। १६० ।। ओषधीनामभावे तु सहदेवी प्रशस्यते । फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ।। १६१ ।। नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते । चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ।। १६२ ।। त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् । सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ।। १६३ ।। फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ।। १६४ ।। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ।। १६५ ।। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः । गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ।। १६६ ।। दीपेन सहितो मन्त्री लिंगमुद्रां प्रदर्शयेत् । कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ।। १६७ ।। सहस्रकलशे पञ्चशतहोमं समाचरेत् । कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ।। १६८ ।। कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना । समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ।। १६९ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् । शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ।। १७० ।। अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् । पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ।। १७१ ।। चतुर्होमविधाने तु प्रधानेवाथ पूर्वके । शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ।। १७२ ।। मूलाद्दशांशतोंगानान्तथा ब्रह्म सुलोचने । कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ।। १७३ ।। प्रविश्य गर्भगेहे तु लिंगं संशोद्धय पूर्ववत् । संकल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ।। १७४ ।। ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ।। १७४१/२ ।। पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् । दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ।। १७५१/२ ।। नृत्तगेयसमायुक्तं शंखध्वनिसमन्वितम् । वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ।। १७६१/२ ।। जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् । उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ।। १७७१/२ ।। दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् । गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ।। १७८१/२ ।। अपनीय पिधानं तत् दक्षहस्तेन देशिकः । सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ।। १७९१/२ ।। संगृह्य तत्वचित्तस्तु लिंगमूर्ध्नि मनुं न्यसेत् । देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ।। १८०१/२ ।। शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् । पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ।। १८११/२ ।। दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु । ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ।। १८२१/२ ।। आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् । पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।। १८३१/२ ।। उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् । अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ।। १८४१/२ ।। नानाफलानि गव्यानि पञ्चामृतयुतानि च । विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ।। १८५१/२ ।। विरुक्ष्य गन्धतोयेन स्नापयेल्लिंगमादरात् । अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ।। १८६१/२ ।। सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् । आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ।। १८७१/२ ।। ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ।। १८८ ।। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् । स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ।। १८९ ।। गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च । प्रदर्श्य लिंगमुद्रान्तु कवचेनावकुण्ठयेत् ।। १९० ।। इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च । वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ।। १९१ ।। पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् । गत्वा सकलसामीप्यमासनं मूर्तिमेव च ।। १९२ ।। संकल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् । स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ।। १९३ ।। गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् । प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ।। १९४ ।। तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् । स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ।। १९५ ।। देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् । पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ।। १९६ ।। पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् । चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ।। १९७ ।। देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् । द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ।। १९८ ।। शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने । धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ।। १९९ ।। अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसंज्ञकाः । पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ।। २०० ।। ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिंगान्तास्समीरिताः । अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ।। २०१ ।। पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०२ ।। चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०३ ।। गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः । गंगादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ।। २०४ ।। स्नापयेत् परमेशानं सर्वदोषापनुत्तये । सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ।। २०५ ।। सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः । सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ।। २०६ ।। राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये । राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ।। २०७ ।। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये । तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ।। २०८ ।। युद्धोद्यते स्वसेनाया बलायामृति हेतवे । भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ।। २०९ ।। नरनारी गवादीनां रोगनाशार्थमेव । जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ।। २१० ।। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके । अयने विषुपे वापि ग्रहणस्थापनादिके ।। २११ ।। उत्सवे च पवित्रे च दमनारोपणेऽपिच । कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ।। २१२ ।। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः । मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ।। २१३ ।। प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि । जनकल्याणकाले च नराणां रक्षणार्थके ।। २१४ ।। विशेष पूजाकाले च भक्तानामुत्सवेपि च । देवभ्रमणकाले वा मृगयायां विशेषतः ।। २१५ ।। कुर्यात्प्रतिदिनं वापि त्रिसंध्यायां गुरूत्तमाः । सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ।। २१६ ।। प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते । कुम्भेनैकेन वा व्योमसंख्येन कलशेन वा ।। २१७ ।। प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा । पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ।। २१८ ।। एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा । इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ।। २१९ ।। एकद्रव्यंचतुर्दिक्षु भिन्नद्रव्यमथापि वा । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ।। २२० ।। नवकुम्भविधानेऽपि विधानं सदृशं मतम् । एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ।। २२१ ।। स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितं । प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ।। २२२ ।। पञ्चविंशतिसंख्यातमपि नित्ये प्रशंस्थितम् । उत्तमोत्तमपूजायामष्टोत्तरशतावधि ।। २२३ ।। स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् । नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ।। २२४ ।। पञ्चविंशतिसंख्यादि साष्टसाहस्रकावधौ । अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ।। २२५ ।। हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा । स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ।। २२६ ।। श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् । कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ।। २२७ ।। हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः । नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ।। २२८ ।। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया । काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ।। २२९ ।। कर्तव्यं वा न कर्तव्यमितिसन्देहसंगतौ । करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ।। २३० ।। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः । ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ।। २३१ ।। क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् । क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ।। २३२ ।। तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः । प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ।। २३३ ।। तद्विधानानुपन्ने तत्राप्येषो विधीयते । प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ।। २३४ ।। वर्तमाने तु शास्त्रार्थे तदंगं सृक्स्रुवादिकम् । स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ।। २३५ ।। एकमादिकमालोच्य कारयेद्यो नृपोत्तमः । सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ।। २३६ ।। तस्याप्यायुषमारोग्यम्मनस्संकल्पितञ्चयत् । सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ।। २३७ ।। विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स राजा क्षयमाप्नोति नात्रकार्या विचारणा ।। २३८ ।। तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञानपारगेण क्रियावता ।। २३९ ।। क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये । गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ।। २४० ।। तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः । विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ।। २४१ ।। पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् । संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ।। २४२ ।। गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् । चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ।। २४३ ।। गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् । कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ।। २४४ ।। पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा । नानोपदंशसंयुक्तं नानाफलसमन्वितम् ।। २४५ ।। दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् । एलालवंकेकर्पूरजातीतक्कोलचूर्णयुक् ।। २४६ ।। मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् । प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ।। २४७ ।। समिधाज्येन चरुणा तिलेनापि समन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ।। २४८ ।। तस्मात् भस्मसमादाय यजमानाय दापयेत् । संप्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ।। २४९ ।। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् । द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ।। २५० ।। षट्सप्तगुणसंख्यातं कर्मसिद्ध्यर्थमेव वा । पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ।। २५१ ।। नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः । नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ।। २५२ ।। समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् । सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ।। २५३ ।। नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः । सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ।। २५४ ।। तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् । धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ।। २५५ ।। विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् । नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ।। २५६ ।। एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च । सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ।। २५७ ।। नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् । लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ।। २५८ ।। नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः । अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ।। २५९ ।। ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् । ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ।। २६० ।। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे । विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ।। २६१ ।। कन्यायां मिधुने धनुष्यन्ते समाचरेत् । सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ।। २६२ ।। अर्धमेकं द्वयं वापि यामं वा घटिकामपि । आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ।। २६३ ।। आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ।। २६४ ।। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् । यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ।। २६५ ।। स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् । तोरणं स्रुक्स्रुवावष्टमंगलन्नवरत्नकम् ।। २६६ ।। तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च । वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ।। २६७ ।। आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने । निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ।। २६८ ।। निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् । नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ।। २६९ ।। नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ।। २६९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः स्नपनविधि पटलः पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा । चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ।। सूत्रन्यास मधोरेण तालमात्रान्तरं यथा कषायोदकं चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः । आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ।। मार्जनोदकं दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते । रत्नोदकम् माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् । पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ।। मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ।। पञ्चरत्नमिति ज्ञेयं आद्यभावे द्वितीयकम् ।। लोहोदकम् सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम् । आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ।। धातूदकम् सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला । गौरिकं रोचना चान्ते धातूदकमितं मतम् ।। बीजोदकम् शालिकोद्रव नीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ।। १०६ ।। गन्धोदकम् नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ।। १०७ ।। कुंकुमं हरिबेरं च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ।। १०८ ।। मृदोदकम् पर्वते च नदीतीरं वल्मीके कर्कटावटे । वृषशृंगे च सुक्षेत्रे समुद्रे गजदन्तके ।। अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम् ।। १०९ ।। मार्जनोदकम् गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली । शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ।। ११० ।। परिमाणोदकम् दूर्वांकुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् । भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ।। पत्रोदकम् तुलसी बिल्वपत्रं तमालश्च तपस्विनी । अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ।। पुष्पोदकम् पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः । पुन्नाग कुरव नारंग नद्यावर्तं च मल्लिका ।। श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ।। कुष्टं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ।। अस्त्रोदकम् शूलं कपाल हरिणी पिनाकः परशुस्तथा । पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ।। फलोदकम् पनसो नालिकेरश्च मातुलुंग द्वयं ततः । नारङ्गद्वयरंभाद्यैः उक्तमस्मिन् फलोदकम् कषायोदकम् पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली । जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम् आङ्योदकम् अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः । गन्धत्रय समायुक्तं आडयतोय मिति स्मृतम् ।। कान्तोदकम् सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् । निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ।। मूलोदकम् उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। वल्कलोदकम् मयूर शिखि भूर्जत्व ग्रोचना भ्रंगराजकम् । कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ।। त्वगोदकम् लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः । विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ।। चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२ विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। ४९ । १०९ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८ द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १० ।। अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् ।। ११ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११/२ । विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् शिवव्यूहस्य परितः षोडशैव परित्यजेत् सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः १४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम् १६ मध्यमे तिथिसंख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम् सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम् सार्धहस्तान्तरं हस्तमानान्तरमथापिवा स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा १० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। ११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् १११/२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्] विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः । १४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम् १६ मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम् अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः । एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।। मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् । स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् ।। अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् । शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।। सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ।। सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् । सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ।। स्याच्चतुर्दश संख्याता वीथि बाह्ये क्रमेण च । तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।। ५ पञ्चमे पटले नित्योत्सवविधिः नित्योत्सवविधिं वक्ष्ये नित्यपूजांगमुत्तमम् । शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ।। १ ।। प्रासादमण्टपादौ वा गोमयेनोपलेपिते । प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ।। २ ।। सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा । तिथ्यंगुलं समारभ्य व्योमांगुलविवृद्धितः ।। ३ ।। द्वात्रिंशदंगुलान्तं तु पात्रमानमुदीरितम् । वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ।। ४ ।। तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते । एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ।। ५ ।। शेषेण दलमाख्यातं विकाराष्टदलम्मतम् । अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ।। ६ ।। तद्वदोष्टसमोपेतं केवलं पात्रमेव वा । कुडुपद्वयमारभ्य कुडुपादाढकावधि ।। ७ ।। तण्डुलं कल्पयेदन्नलिंगार्थं वाऽक्षतार्थकम् । मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ।। ८ ।। तेनान्नलिंगं कर्तव्यं भूतमात्रप्रमाणतः । एकांगुलं तु दैर्घ्यंस्याद्यावदष्टादशांगुलम् ।। ९ ।। अंगुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् । अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ।। १० ।। नैमित्तिकार्थन्नित्यार्थमन्नलिंगमुदाहृतम् । त्रिकालमन्नलिंगं वा प्रातर्मध्याह्नयोस्तु वा ।। ११ ।। मध्याह्ने वाथ पूर्वाह्ने पुष्पलिंगमुदाहृतम् । प्रदोषेऽक्षतलिंगंस्यात्तत्रपाशुपतं यजेत् ।। १२ ।। चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि । त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ।। १३ ।। सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ।। १३१/२ ।। विद्युन्मालानिभश्वेतः जटामकुटमण्डितः । दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ।। १४१/२ ।। वरदाभयपाणिर्वा सर्वलक्षणसंयुतः । हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ।। १५१/२ ।। योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते । शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ।। १६१/२ ।। रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् । त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ।। १७१/२ ।। एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् । दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ।। १८१/२ ।। त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् । दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ।। १९१/२ ।। पुष्पाक्षतान्नलिंगेषु पूजनीयस्स्वमन्त्रतः । अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ।। २०१/२ ।। सपीठे गोलकाकारे विपीठे वा तमर्चयेत् । अन्नलिंग प्रमाणे तु मूलाग्रसमविस्तरे ।। २११/२ ।। हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते । स्थलिकामानदण्डेन सहितं वा समर्चयेत् ।। २२१/२ ।। इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु । पादुके त्र्यंगुले तस्मादंगुलांगुलवर्धनात् ।। २३१/२ ।। तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् । दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ।। २४१/२ ।। अष्टांशावधिको मध्यमानेन नवमानकः । तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ।। २५१/२ ।। समन्ताल्लोकपाः पूज्याः पूजादाववसानके । नवान्नलिंगसंयुक्तमथ नित्योत्सवं नयेत् ।। २६१/२ ।। सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् । द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ।। २७१/२ ।। मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः । रंगे वा शिबिकायां वा परिचारकमूर्धसु ।। २८१/२ ।। आरोप्यलंकृतान्देवान्वितानेन समन्वितम् । छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ।। २९१/२ ।। गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् । धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ।। ३०१/२ ।। आद्यं प्रदक्षिणं कुर्यात् मंगिणी तालसंयुतम् । वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृंगिणी ।। ३११/२ ।। मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी । षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ।। ३२१/२ ।। तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् । ग्रामे वा नगरे वापि तथा प्राकार एव वा ।। ३३१/२ ।। द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् । एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ।। ३४१/२ ।। अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् । गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ।। ३५१/२ ।। पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् । गोपुरे वाद्यहीनं वा शंखध्वनिसमन्वितम् ।। ३६१/२ ।। इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् । बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ।। ३७१/२ ।। दक्षिणे भृंगिणी तालं कौशिकेन समन्वितम् । मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ।। ३८१/२ ।। पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् । वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ।। ३९१/२ ।। सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः । शाला पाणिसमायुक्तं शांकरे ढक्करी मता ।। ४०१/२ ।। एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् । पक्षालितांघ्रयस्सर्वे प्रविशेयुश्शिवालयम् ।। ४११/२ ।। अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु । पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।। ४२१/२ ।। लिंगाद्देवं समाहृत्य लिंगे दक्षे निवेशयेत् । शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ।। ४३१/२ ।। अन्येषामपि देवानां देवीनां मूलबिम्बवत् । रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ।। ४४१/२ ।। संपाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् । तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।। ४५१/२ ।। पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः ६ षष्ठे पटले महोत्सवविधिः उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम् । ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ।। १ ।। ध्वजांकुरो ध्वजंगस्यात् ध्वजात् पूर्वन्तु तन्नयेत् । तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ।। २ ।। द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् । मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ।। ३ ।। राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा । माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ।। ४ ।। विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् । भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ।। ५ ।। त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके । अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ।। ६ ।। पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ।। ७ ।। तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि । भागं कृत्वैकभागेन पटविस्तार उच्यते ।। ८ ।। विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते । विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ।। ९ ।। वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ।। १० ।। श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् । रक्तशृंगसमायुक्तं तद्वत् खुरसमन्वितम् ।। ११ ।। ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् । विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ।। १२ ।। जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् । सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ।। १३ ।। मानं मात्रांगुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः । पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ।। १४ ।। चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् । पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ।। १५ ।। एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् । अस्त्र तोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ।। १६ ।। मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते । स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ।। १७ ।। ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् । सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ।। १८ ।। कलशैरष्टसंख्यातैस्सापिधानैस्सवस्त्रकैः । सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ।। १९ ।। आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् । वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ।। २० ।। प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि । वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ।। २१ ।। ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् । संकल्पितहृदादींश्च क्रमेण विनिवेशयेत् ।। २२ ।। तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् । आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ।। २३ ।। कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् । मध्यकुम्भेऽपि संपूज्य लोकपान् परितो यजेत् ।। २४ ।। वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ।। कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते । निरीक्षणादि संस्कारैश्शिवाग्निं संप्रकल्पयेत् ।। २५ ।। तन्मध्ये वृषमावाह्य सांगं सन्तर्पयेत्तदा । सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ।। २६ ।। तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् । पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् । पटस्थाय घटस्थाय वृषायासन रूपिणे ।। २८ ।। प्रातस्संपूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् । मुखवासनताम्बूलं वृषभाय निवेदयेत् ।। २९ ।। पुनः पूर्णाहुतिन्दत्वा सर्वमंगलसंयुतम् । सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ।। ३० ।। रंगे वा शिबिकायां वा समारोप्य वृषध्वजम् । त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ।। ३१ ।। ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति । दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ।। ३२ ।। ध्वजारोहणदिने वापि अधिवासदिनेपि वा । धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ।। ३३ ।। षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ।। ३३१/२ ।। एकादितलपर्यन्तं गोपुरान्तमथापि वा ।। ३४ ।। रुद्रद्विगुणमध्यस्थकरसंख्यामितन्तु वा । मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ।। ३५ ।। सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ।। ३५१/२ ।। पलाशखदिराश्वत्थवटचन्दन दारवः ।। ३६ ।। सालम्माधूकतालं वा साराम्रकमथापि वा ।। वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ।। ३७ ।। चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् । स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ।। ३८ ।। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते । द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ।। ३९ ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्य चांगुलात्षोडशांगुलम् ।। ४० ।। यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ।। ४१ ।। एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ।। ४२ ।। उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् । स्कन्धं द्वयं तन्मानद्वादशांगुलमानतः ।। ४३ ।। षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् । सप्तांगुलं समारभ्य गायत्र्यर्णांगुलावधि ।। ४४ ।। स्कन्धविस्तार उद्दिष्टो मूलांग्रे तु त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ।। ४५ ।। चतुस्त्रिद्वयंगुलं वापि मानमेषां प्रकीर्तितम् ।। ४५१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४६ ।। मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ।। ४६१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४७ ।। दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा । बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ।। ४८ ।। षडंगुलं समारभ्य षडंगुल विवृद्धितः । दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ।। ४९ ।। तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् । भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ।। ५० ।। कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् । दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ।। ५१ ।। पञ्चविंशतिमात्रादि त्रित्र्यंगुलविवर्धनात् । द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ।। ५२ ।। एकांगुलं समारभ्य पादमात्रविवृद्धितः । त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ।। ५३ ।। वलयाकाश एषो वा वलयस्याद्यथा बलम् । रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यंगुलनाहयुक् ।। ५४ ।। ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् । तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ।। ५५ ।। एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च । संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ।। ५६ ।। शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् । अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्वादिकन्यसेत् ।। ५७ ।। साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु । स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ।। ५८ ।। रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः । गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ।। ५९ ।। रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् । कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ।। ६० ।। हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ।। ६०१/२ ।। अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः । तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ।। ६११/२ ।। देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा । तथैव गोपुरस्यापि महापीठान्तिकेपि वा ।। ६२१/२ ।। अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः । नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ।। ६३१/२ ।। प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्संख्ययामताः । अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ।। ६४१/२ ।। दण्डाधिपास्समाख्याता पटेषु वृष एव हि । दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ।। ६५१/२ ।। हस्तमात्रं समारभ्य त्र्यंगुलादि विवृद्धितः । द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ।। ६६१/२ ।। समोत्तुंगा त्रिपादा वा अष्टांशात् सप्तपञ्च वा । चतुस्त्र्यंशार्धतुंगं वा वेदिका परिकीर्तिता ।। ६७१/२ ।। त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः । द्वित्र्यंगुलक्षयाद्वापि मेखला मानमीरितम् ।। ६८१/२ ।। मेखला रहिते पीठे मूलेस्यादुपवेदिका । द्वयंगुलात् पादवृद्धया तु षडंगुलसमाविधि ।। ६९१/२ ।। पादार्धार्धत्र्यंघ्रिसमा उत्सेधाः परिकीर्तिताः । वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरंगुलमानतः ।। ७०१/२ ।। व्योमांगुलविवृद्ध्याष्टादशांगुल समावधि । पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ।। ७११/२ ।। एकैकांगुल वेशात्तु रुद्रमात्रसमाविधि । पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ।। ७२१/२ ।। कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः । गुणांगुलावधिः कार्यः तदुत्सेधनमुच्यते ।। ७३१/२ ।। चतुरष्टदलं पद्मं विकारदलमेव वा । वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ।। ७४१/२ ।। तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् । एवं संपाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ।। ७५१/२ ।। पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् । दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ।। ७६१/२ ।। त्रिशूलेन समायुक्तं मंगलांकुरशोभितम् । धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ।। ७७१/२ ।। आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् । कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ।। ७८१/२ ।। दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् । दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ।। ७९१/२ ।। त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ।। ८० ।। बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः । क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ।। ८१ ।। कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः । वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ।। ८२ ।। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः । आदौ स्पृष्ट्वा स्वयञ्चान्यंप्रेरयेद्रोहणायवा ।। ८३ ।। अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः । पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ।। ८४ ।। आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् । क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ।। ८५ ।। तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् । वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ।। ८६ ।। आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः । दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ।। ८७ ।। शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् । वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ।। ८८ ।। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च । तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ।। ८९ ।। गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् । पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ।। ९० ।। सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् । चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ।। ९१ ।। अतः प्रभृतितीर्थान्तमवरोहावसानकम् । एककालंद्विकालं वा त्रिकालं पूजयेद्वृषम् ।। ९२ ।। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ९३ ।। नोपसर्गभयन्तत्र न परागमविभ्रमः । विपरीता न मतयो रोगिणामपिभूयसा ।। ९४ ।। स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः । शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ।। ९५ ।। कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् । प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ।। ९६ ।। भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि । स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ।। ९७ ।। षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः । एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ।। ९८ ।। पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् । पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ।। ९९ ।। मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके । वामे विष्णुं समावाह्य पालिकायां तु पार्वती ।। १०० ।। सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः । दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ।। १०१ ।। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके । मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ।। १०२ ।। कात्यायनी तु कौबेर्यां शूलमूले मता इमे । रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ।। १०३ ।। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् । भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ।। १०४ ।। ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् । वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ।। १०५ ।। सप्तकीलेषु मातृश्च नवकीले नवग्रहान् । रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ।। १०६ ।। प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः । गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ।। १०७ ।। भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् । एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ।। १०८ ।। तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः । सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ।। १०९ ।। वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् । तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ।। ११० ।। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा । भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ।। १११ ।। गन्धारादि स्वरोपेतं समतालादि तालकम् । गीतनृत्तसमायुक्तमन्नलिंगसमायुतम् ।। ११२ ।। प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा । संग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ।। ११३ ।। धूपदीपसमायुक्तं घण्टारवसमन्वितम् । प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ।। ११४ ।। इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः । बलिदानावसाने तु तालस्वरसमायुतम् ।। ११५ ।। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च । ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ।। ११६ ।। समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः । भृंगिणी कौशिकन्नट्ट भाषया मल्लतालकम् ।। ११७ ।। श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् । कोटिकन्तर्करागेण शालापाण्यातु डक्करी ।। ११८ ।। पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा । ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ।। ११९ ।। भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् । देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ।। १२० ।। न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् । तदग्रे वृषकुंभंस्यात् वृषविद्येश्वरान्वितम् ।। १२१ ।। तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् । क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।। १२२ ।। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा । प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ।। १२३ ।। त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना । भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम् ।। १२४ ।। अन्नलिंगसमायुक्तं सर्वातोद्यसमन्वितम् । ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ।। १२५ ।। बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च । ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ।। १२६ ।। रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् । ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ।। १२७ ।। देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् । ततोंकुरार्पणं रात्रौ यागारम्भदिने मतम् ।। १२८ ।। तदर्थमंकुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा । ग्रामप्रदक्षिणन्तीर्थांकुरस्यावश्यकम्मतम् ।। १२९ ।। अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा । अंकुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ।। १३० ।। संग्राह्य वापयेत् रात्रौ बीजान्यंकुरसिद्धये । तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ।। १३१ ।। अन्यत्सर्वं समुद्दिष्टमंकुरार्पण पूर्वके । तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ।। १३२ ।। केत्वंकुरो नवाहे स्यात् स्प्ताहे चोत्सवांकुरम् ।। १३२१/२ ।। एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् । यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ।। १३३१/२ ।। वामेऽवामे तथा पञ्चशालानामिष्टदेशके । मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ।। १३४१/२ ।। एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः । पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ।। १३५१/२ ।। समानपंक्तयोवास्युर्मात्रादेकांशवर्धनात् । नवांगुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ।। १३६१/२ ।। एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी । एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ।। १३७१/२ ।। शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् । एकाग्निसहितां वापि वितानध्वजसंयुताम् ।। १३८१/२ ।। दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् । नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ।। १३९१/२ ।। मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः । एकांगुलविवृद्धयाष्टाविंशत्यंगुलकावधि ।। १४०१/२ ।। वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः । अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ।। १४११/२ ।। मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् । युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ।। १४२१/२ ।। मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् । एवं सर्वञ्च संपाद्य शिल्पिमोचनमाचरेत् ।। १४३१/२ ।। पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् । भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ।। १४४१/२ ।। स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् । द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ।। १४५१/२ ।। तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् । तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ।। १४६१/२ ।। विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् । तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ।। १४७१/२ ।। पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसंख्यया । तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।। १४८१/२ ।। अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् । सर्वे ससूत्रवस्त्राढ्याहेमपंकजभूषिताः ।। १४९१/२ ।। सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः । स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ।। १५०१/२ ।। शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् । लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ।। १५११/२ ।। आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे । तोरणद्वारकुम्भांश्च लोकपालघटानपि ।। १५२१/२ ।। हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् । मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ।। १५३१/२ ।। एवं संपाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् । सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ।। १५४१/२ ।। सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः । स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ।। १५५१/२ ।। तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् । अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ।। १५६१/२ ।। सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् । ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ।। १५७१/२ ।। क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् । शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ।। १५८१/२ ।। नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः । षडंगमूर्तिपांगञ्चेत् पुत्रायुष्यफलप्रदम् ।। १५९१/२ ।। एकद्वित्र्यंगुलाधिक्यं योग्यनाहप्रमाणतः । संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ।। १६०१/२ ।। भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् । प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ।। १६११/२ ।। पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः । द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ।। १६२१/२ ।। तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् । अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ।। १६३१/२ ।। अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् । ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ।। १६४१/२ ।। पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु । स्थण्डिले पूजयेच्छक्तिं यंत्रिकायां त्रितत्वकम् ।। १६५१/२ ।। प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता । भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ।। १६६१/२ ।। अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् । पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ।। १६७१/२ ।। सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् । ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ।। १६८१/२ ।। कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः । अंगुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ।। १६९१/२ ।। आलभेत् भस्म संयुक्तं सूत्रन्दक्षांगुलद्वयात् । मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ।। १७०१/२ ।। देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् । सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ।। १७११/२ ।। जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा । ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ।। १७२१/२ ।। दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा । स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ।। १७३१/२ ।। देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः । उमा महेश्वरे वामे सुखासीने महेश्वरः ।। १७४१/२ ।। अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च । एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ।। १७५१/२ ।। कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् । यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ।। १७६१/२ ।। अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा । कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ।। १७७१/२ ।। रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः । त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ।। १७८१/२ ।। दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते । यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ।। १७९१/२ ।। तीर्थार्थमंकुरं कुर्यादनयोः पूर्वकालतः । देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ।। १८०१/२ ।। द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च । ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ।। १८११/२ ।। पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा । वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ।। १८२१/२ ।। कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् । पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ।। १८३१/२ ।। विद्यादेहञ्च संकल्प्य प्रणवं विन्यसेत् शिवम् । हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ।। १८४१/२ ।। एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् । विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ।। १८५१/२ ।। तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत् । तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ।। १८६१/२ ।। अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयं । तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ।। १८७१/२ ।। एवं क्रमेण संपूज्य यायात्कुण्डान्तिकं गुरुः । संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ।। १८८१/२ ।। नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् । न्यस्त्वाऽवाह्य शिवं सांगं सब्रह्मांगञ्च तर्पयेत् ।। १८९१/२ ।। चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै । स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ।। १९०१/२ ।। वेणुबिल्वयवा वापि सक्तुक्षीरं यवंगुलम् । तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ।। १९११/२ ।। ब्रह्मशालियवैर्वापि माषशालियवैस्सह । तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ।। १९२१/२ ।। चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः । समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ।। १९३१/२ ।। शतमष्टोत्तरं होमं शिवेनांगैर्दशांशतः । प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ।। १९४१/२ ।। द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे । तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ।। १९५१/२ ।। होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् । तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ।। १९६१/२ ।। नित्योत्सवविधानेन कृत्वा लिंगंहविर्मयम् । तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ।। १९७१/२ ।। दशायुधसमोपेतं धूपदीपसमन्वितम् । घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ।। १९८१/२ ।। नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् । प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ।। १९९१/२ ।। देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु । लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ।। २००१/२ ।। पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् । ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ।। २०११/२ ।। कृसरान्नं घृतोपेतं कदलीफलसंयुतम् । तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ।। २०२१/२ ।। रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् । चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ।। २०३१/२ ।। घृतं प्रियंगुसंयुक्तं इन्द्रवल्ली समन्वितम् । पञ्चमेहनि दातव्यं इन्द्रप्रियकरं भवेत् ।। २०४१/२ ।। वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् । षष्ठेहनि प्रदातव्यं ऋषीणां प्रीतिसिद्धये ।। २०५१/२ ।। गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् । सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ।। २०६१/२ ।। माषोदनं घृतोपेतं अजमांससमन्वितम् । अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ।। २०७१/२ ।। शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् । नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २०८१/२ ।। अथवान्यप्रकारेण देवताद्रव्यमुच्यते । शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ।। २०९१/२ ।। फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् । फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ।। २१०१/२ ।। भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ।। २११ ।। पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् । कदलीफलसंयुक्तं ऋषिभ्यो बलिमाचरेत् ।। २१२ ।। इन्द्रवल्ली हरिद्रा च प्रियंगुघृतसंयुतम् । चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ।। २१३ ।। पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् । पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ।। २१४ ।। गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् । षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ।। २१५ ।। कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् । सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २१६ ।। वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् । अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ।। २१७ ।। शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् । नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ।। २१८ ।। नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः । कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ।। २१९ ।। मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् । प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ।। २२० ।। रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् । घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ।। २२१ ।। द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् । पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ।। २२२ ।। तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् । कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ।। २२३ ।। चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् । इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ।। २२४ ।। पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् । गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ।। २२५ ।। षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् । कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ।। २२६ ।। सप्तमेहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् । क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ।। २२७ ।। अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् । दधिकान्नं गुलोपेतम्मातुलंगफलन्तथा ।। २२८ ।। नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् । गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ।। २२९ ।। दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् । रक्तान्नं मांससंयुक्तं अपूपं तिलचूर्णयुक् ।। २३० ।। एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् । शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।। २३१ ।। द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् । सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ।। २३२ ।। पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः । दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ।। २३३ ।। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् । दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ।। २३४ ।। दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः । वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ।। २३५ ।। बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् । ध्वजादि बलिपीठान्तं अथवा बलिरीरितः ।। २३६ ।। ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा । तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ।। २३७ ।। दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा । लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ।। २३८ ।। दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः । दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ।। २३९ ।। कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा । सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ।। २४० ।। बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते । प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ।। २४१ ।। डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् । सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ।। २४२ ।। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् । अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ।। २४३ ।। बेराण्यनेकरूपाणि तदन्ते कथितानि च । तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ।। २४४ ।। अन्नलिंगसमायुक्तं त्रिशूलेन समायुतम् । दशायुधसमायुक्तं गोलकालिंगसंयुतम् ।। २४५ ।। रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् । रथे वा शिबिकायां वा सर्वालंकारसंयुतम् ।। २४६ ।। एतैस्सर्वैविहीनोग्रे बल्यंगैश्च समन्वितः । तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरंगकम् ।। २४७ ।। तदन्ते देवदेवेशरथस्सर्वांगसुन्दरः । रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ।। २४८ ।। घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः । नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ।। २४९ ।। मदन्तिक गतेनैव शैवाचार्येण शोभितः । मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ।। २५० ।। परिचारक संज्ञेन मत्भक्तेनाप्रमादिना । पद्मकुड्मलसन्नद्धपाश संबन्धहस्तया ।। २५१ ।। पुरुषाकारधारिण्या शोभितो रुद्रकन्यया । मद्दास्यावाथ सर्वांगसुन्दर्यास्स्यन्दनस्य च ।। २५२ ।। तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः । तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ।। २५३ ।। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु । शिवभक्ताश्च ये ख्यातास्तेषां रंगान्यनेकधा ।। २५४ ।। तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः । एषामिष्टन्तु यत्ग्राह्यं बल्यंगं कौतुकं विना ।। २५५ ।। नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् । वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ।। २५६ ।। गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् । मंगुलांकुरसद्वीपवर्धनीकुम्भवारियुक् ।। २५७ ।। कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् । दर्भमाला समायुक्तं मुक्तादामविभूषितम् ।। २५८ ।। उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति । विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ।। २५९ ।। गृहालंकार उद्दिष्टो गृहहीनस्थलेपि च । नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ।। २६० ।। नानागानसमोपेतं नानानृत्तसमन्वितम् । नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ।। २६१ ।। तालवृन्तसमोपेतं धूपदीपसमन्वितम् । प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ।। २६२ ।। रथादौ शिबिकादौ वा परिचारकमूर्धसु । यानकाले तु ताम्बूलं देयं नानाफलानि च ।। २६३ ।। भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् । योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ।। २६४ ।। दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् । वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ।। २६५ ।। शंखध्वनिसमायुक्तं पाद्याचमनसंयुतम् । प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ।। २६६ ।। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु । आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ।। २६७ ।। प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे । दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ।। २६८ ।। कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये । चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ।। २६९ ।। आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः । शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ।। २७० ।। पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते । विधाय स्नपनं वाथ पञ्चखारिसमन्विते ।। २७१ ।। चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः । पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ।। २७२ ।। मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् । स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ।। २७३ ।। प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् । रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ।। २७४ ।। रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये । यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ।। २७५ ।। विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः । पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ।। २७६ ।। यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् । ततो धाम निवेशश्च देव्या सह निवेशनम् ।। २७७ ।। काले षोडशसंख्याते यामार्धपरिनिष्ठिते । कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ।। २७८ ।। स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः । पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ।। २७९ ।। तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् । स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ।। २८० ।। यानकाले बलेः काले पूर्वकालेऽथवामतः । परिवारोक्तमार्गेण बलिपीठे समाचरेत् ।। २८१ ।। मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् । यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ।। २८२ ।। तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् । उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ।। २८३ ।। रात्रौ नीराजनं कार्यं धूपदीपावसानके । प्रभूतन्तु हविर्दद्याद्यानकालावसानके ।। २८४ ।। एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते । ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ।। २८५ ।। नीत्वा देवं समाराध्य विनोदालोकनन्ततः । प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ।। २८६ ।। प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् । भविष्यद्वृष्टिशंकायान्धकारे महत्यपि ।। २८७ ।। शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे । यागारम्भदिने वाथ तीर्थदानदिनेपि च ।। २८८ ।। सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते । ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ।। २८९ ।। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च । बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ।। २९० ।। तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् । तैलाभ्यंगञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ।। २९१ ।। ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् । अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ।। २९२ ।। देवाग्रे स्थापयेत्तैलं स्थण्डिलेयंत्रिकोपरि । अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत् ।। २९३ ।। कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ।। २९३१/२ ।। शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः । सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ।। २९४१/२ ।। ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् । तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ।। २९५१/२ ।। तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् । नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ।। २९६१/२ ।। कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये । सर्वाभरणयुक्ताय पूजिताय विशेषतः ।। २९७१/२ ।। तस्मादन्यत्र कूटेवा रंगे वाऽस्थानमण्टपे । सर्वालंकारसंयुक्तं कृत्वा धामप्रदक्षिणम् ।। २९८१/२ ।। तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च । विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ।। २९९१/२ ।। प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः । नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ।। ३००१/२ ।। धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।। ३०१ ।। स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः । संप्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ।। ३०२ ।। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् । समिदाज्येन चरुणा तिललाजगुलैस्तु वा ।। ३०३ ।। मूलेन शतहोमस्स्यादस्त्रहोममतो न वा । पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ।। ३०४ ।। प्रायश्चित्तंत्वघोरेण कृत्वा पूर्णासमन्वितम् । सद्योजातेन संस्पृश्य गन्धंमूलेन दापयेत् ।। ३०५ ।। सवत्सांगां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् । तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ।। ३०६ ।। जलदानसमोपेतं यात्रादानमिदंमतम् । अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ।। ३०७ ।। ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् । शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ।। ३०८ ।। योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् । तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ।। ३०९ ।। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च । प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ।। ३१० ।। उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः । आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ।। ३११ ।। यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् । सर्वागमज्ञं शान्तञ्च शिवलिंगार्चनारतम् ।। ३१२ ।। नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् । ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ।। ३१३ ।। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा । तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ।। ३१४ ।। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि । तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ।। ३१५ ।। देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि । तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ।। ३१६ ।। तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः । यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ।। ३१७ ।। पूर्वान्ते भवेल्लिंगप्रतिष्ठादौ च सम्मतम् । अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ।। ३१८ ।। सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते । सर्वालंकारसंयुक्तं मुखेणसमन्वितम् ।। ३१९ ।। शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् । पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ।। ३२० ।। कृत्वा यानक्रमं प्रोक्तं सर्वमंगल संयुतम् । राजवेषधरैः पुंभिर्नानानृत्तसमन्वितैः ।। ३२१ ।। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः । अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ।। ३२२ ।। वर्जयेद्वाथ मुखं राजवेषधरान्वितम् । प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ।। ३२३ ।। कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् । तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ।। ३२४ ।। रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् । पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ।। ३२५ ।। कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् । अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ।। ३२६ ।। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः । युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ।। ३२७ ।। अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् । विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ।। ३२८ ।। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना । तीर्थार्थं साधयेद्रात्रौ कलशान्नवसंख्यया ।। ३२९ ।। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् । सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ।। ३३० ।। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा । प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ।। ३३१ ।। तीर्थस्थानञ्च संप्राप्य शुद्धिं कृत्वा महीतले । स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ।। ३३२ ।। पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् । पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ।। ३३३ ।। त्रिशूले सर्वतीर्थञ्च सर्वंदुर्गासमन्वितम् । मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ।। ३३४ ।। तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च । तीर्थसंग्रहणं कुर्यात् गंगाद्यावाहनेन च ।। ३३५ ।। हे देवि गंगे यमुने नर्मदे च सरस्वति । सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ।। ३३६ ।। सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् । खेरस्तमनं यावत् तीर्थानां पापशुद्धये ।। ३३७ ।। तीर्थसंग्रहणं तन्मध्ये प्राक्शिरान्वितम् । त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ।। ३३८ ।। जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् । तीर्थसंग्रहणं कृत्वा तीर्थं देवालयेपि वा ।। ३३९ ।। अवगाहनहीनन्तु नयेद्दूरजलाशये । सर्वालंकारसंयुक्तं प्रविशेदालयं प्रति ।। ३४० ।। होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना । चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ।। ३४१ ।। स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ । त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ।। ३४२ ।। तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये । वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ।। ३४३ ।। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् । संक्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ।। ३४४ ।। मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् । दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ।। ३४५ ।। सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् । तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ।। ३४६ ।। सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् । मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ।। ३४७ ।। शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा । दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ।। ३४८ ।। राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः । पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ।। ३४९ ।। मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ । नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ।। ३५० ।। दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च । दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ।। ३५१ ।। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे । तदादौ स्नानकालादौ कर्तव्यम्मंगलार्थकम् ।। ३५२ ।। तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् । दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ।। ३५३ ।। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् । नानाविधेषु पात्रेषु लिंगार्थकं प्रतिमार्थकम् ।। ३५४ ।। उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः । परिवारार्थमेकञ्च भागं संकल्पयेत् क्रमात् ।। ३५५ ।। अवशिष्टजनार्थञ्च संग्रहेत् कलशादिषु । केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ।। ३५६ ।। संप्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ।। ३५६१/२ ।। अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् । रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ।। ३५७१/२ ।। चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च । कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ।। ३५८१/२ ।। महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले । नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ।। ३५९१/२ ।। किं तु बेरसमोपेतं प्रपादि परिमण्डिते । कलशस्थापनोपेतं देवताह्वानसंयुतम् ।। ३६०१/२ ।। विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः । तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ।। ३६११/२ ।। तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत् । विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ।। ३६२१/२ ।। महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् । त्रिशूलसहितं वापि नानादेवालयागतैः ।। ३६३१/२ ।। त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् । अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ।। ३६४१/२ ।। महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् । अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ।। ३६५१/२ ।। पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् । हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ।। ३६६१/२ ।। तच्च (मोटि) समायुक्तं उत्तमोत्तममिष्यते । तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ।। ३६७१/२ ।। तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते । पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ।। ३६८१/२ ।। समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् । नक्षत्रमधिकं त्वह्निसंग्राह्यं तिथिरेव वा ।। ३६९१/२ ।। वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे । तीर्थर्क्षद्वयसंप्राप्तावेकमासे परं वरम् ।। ३७०१/२ ।। तत्रापि योगयुक्तञ्चेत् पूर्वं संग्राह्यमेव वा । यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ।। ३७११/२ ।। तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् । लिंगे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ।। ३७२१/२ ।। मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके । नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ।। ३७३१/२ ।। जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः । द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ।। ३७४१/२ ।। वियोगे तीरदेशे तु बेरस्नपनमेव वा । कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ।। ३७५१/२ ।। नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा । आरामादौ च देवेशं तोषयेत् सर्वमंगलैः ।। ३७६१/२ ।। ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् । सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ।। ३७७१/२ ।। पूर्णाहुतिं ततो हुत्वा सर्वमंगलसंयुतम् । धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ।। ३७८१/२ ।। ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् । गर्भगेहे सुसंस्थाप्य लिंगे पीठेह्यनुक्रमात् ।। ३७९१/२ ।। देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् । तत्तत् तोयैश्च संप्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ।। ३८०१/२ ।। ततस्संपूजयेद्देवं यथाविभवविस्तरम् । ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ।। ३८११/२ ।। तृतीये पञ्चमे वापि सप्तमे नवमेव वा । एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ।। ३८२१/२ ।। कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ।। ३८३ ।। मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः । ध्वजादि तीर्थपर्यन्तं दिनसंख्यास्थिता यदि ।। ३८४ ।। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् । ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ।। ३८५ ।। लिंगे बेरे शूले ध्वजे स्नपनमाचरेत् । अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ।। ३८६ ।। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः । कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ।। ३८७ ।। नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् । चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ।। ३८८ ।। ततो ग्रामबलिं दद्यात् अन्नलिंगसमन्वितम् । त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ।। ३८९ ।। भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् । श्रीखण्ट शंखसंयुक्तं बलिकाले तु घोषणम् ।। ३९० ।। कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः । ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ।। ३९१ ।। अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे । ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ।। ३९२ ।। आचार्यं पूजयेत्कर्ता वस्त्रहेमांगुलीयकैः । अंकुरार्पणकाले च ध्वजारोहणकालके ।। ३९३ ।। यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः । अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ।। ३९४ ।। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके । दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ।। ३९५ ।। अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ।। ३९६ ।। तदर्धसंख्यया प्रोक्ता दक्षिणाकन्यसक्रमे । श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ।। ३९७ ।। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता । भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ।। ३९८ ।। उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः । संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ।। ३९९ ।। बलि होमादिसंयुक्तो बेरयात्रादि संयुतः । वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ।। ४०० ।। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् । मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ।। ४०१ ।। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् । अंकुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ।। ४०२ ।। एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् । स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ।। ४०३ ।। तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः । अस्त्रं भेरीञ्च संपूज्य भेरीं सन्ताडयेत् क्रमात् ।। ४०४ ।। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् । धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।। ४०५ ।। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे । विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ।। ४०६ ।। समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ । पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।। ४०७ ।। हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् । उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ।। ४०८ ।। फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् । वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ।। ४०९ ।। द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा । स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमंगलैः ।। ४१० ।। संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा । कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ।। ४११ ।। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् । ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ।। ४१२ ।। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् । कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ।। ४१३ ।। आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः । ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ।। ४१४ ।। प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् । सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ।। ४१५ ।। चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् । आलये बलियाने च स्यातां तीर्थं विहाय वा ।। ४१६ ।। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके । तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ।। ४१७ ।। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते । बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ।। ४१८ ।। देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ।। ४१८१/२ ।। कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् । कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ।। ४१९१/२ ।। चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः । अयने विषुवे राहु दर्शनेदमनोत्सवे ।। ४२०१/२ ।। पवित्रेमासपूजायां कृत्तिकादीपरोहणे । संवत्सरादिलेखायान्नवतोयागतावपि ।। ४२११/२ ।। पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि । अन्यस्मिन् मंगले कार्ये कुर्यादेकोत्सवं बुधः ।। ४२२१/२ ।। एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये । वारपूजादि कर्तव्या रविवारादितः क्रमात् ।। ४२३१/२ ।। पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनांगकैः । पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ।। ४२४१/२ ।। स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा । गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ।। ४२५१/२ ।। अर्कवारादि वारेषु पत्राण्येतानि योजयेत् । माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ।। ४२६१/२ ।। प्रवालं गुजवारे तु बुधे मरकतं भवेत् । सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ।। ४२७१/२ ।। इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च । सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ।। ४२८१/२ ।। तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ।। ४२९ ।। तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् । वारपूजावसाने तु वारोत्सवमथाचरेत् ।। ४३० ।। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये । ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ।। ४३१ ।। जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च । तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ।। ४३२ ।। तत्तद्वारविभेदेन गन्धादिग्रहणेन वा । संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ।। ४३३ ।। वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते । पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ।। ४३४ ।। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके । ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ।। ४३५ ।। भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् । ब्राह्मणादि त्रयाणां वा शूद्रे वांकुरपूर्वकम् ।। ४३६ ।। नगरे ध्वजपूर्वं वा मंगले भेरिपूर्वकम् । पत्तनेंकुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ।। ४३७ ।। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे । पुरादौ संकरोनोक्तः उत्सवानां द्विजोत्तमाः ।। ४३८ ।। सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः । ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ।। ४३९ ।। ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः । उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ।। ४४० ।। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः । श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ।। ४४१ ।। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः । आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ।। ४४२ ।। ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा । गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ।। ४४३ ।। पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे । एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ।। ४४४ ।। ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा । ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ।। ४४५ ।। अथवा ध्वजमूले तु देवानां बलिरेव वा । नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ।। ४४६ ।। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् । प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ।। ४४७ ।। चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः । आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ।। ४४८ ।। उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा । केत्वंकुरन्नवाहे स्यात् सप्ताहेचोत्सवांकुरम् ।। ४४९ ।। तीर्थांकुरन्तु तत्संख्ये सर्वं सर्वत्र वामतम् । मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ।। ४५० ।। निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते । कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ।। ४५१ ।। मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः । सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ।। ४५२ ।। सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते । सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ।। ४५३ ।। उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् । विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ।। ४५४ ।। अथवान्यप्रकारेण उत्सवन्तु विधीयते । ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ।। ४५५ ।। तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे । श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ।। ४५६ ।। चण्डालेन सदारेण कुर्यात् घोषयुतेन च । तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ।। ४५७ ।। बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् । आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ।। ४५८ ।। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् । स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ।। ४५९ ।। एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् । नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ।। ४६० ।। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके । यागारम्भं पुनः कुर्यादंकुरार्पणपूर्वकम् ।। ४६१ ।। एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् । बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ।। ४६२ ।। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः । विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ।। ४६३ ।। अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् । तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ।। ४६४ ।। ध्वजानष्टौ समारोप्यांकितान् लोकेशवाहनैः । तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ।। ४६५ ।। ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः । तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ।। ४६६ ।। एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् । ध्वजानामष्टसंख्यानां तद्रात्राववरोहणम् ।। ४६७ ।। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् । नानागानसमायुक्तं नानानृत्तसमन्वितम् ।। ४६८ ।। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् । सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ।। ४६९ ।। स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः । एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।। ४७० ।। नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् । प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ।। ४७१ ।। स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् । चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ।। ४७२ ।। बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् । चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ।। ४७३ ।। तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् । ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ।। ४७४ ।। बेरयात्रा विहीनं वा विधिमेनां समाचरेत् । नवान्नलिंगं कृत्वा वा दिक्पालास्त्रार्थमेव वा ।। ४७५ ।। तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् । नित्योत्सवान्नलिंगानि दश वा परिकल्पयेत् ।। ४७६ ।। द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा । जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ।। ४७७ ।। इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ।। तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि । भागं कृत्वैक भागेन पट विस्तार उच्यते ।। विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते । विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ।। वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् । श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् । रक्तशृंग समायुक्तं तद्वत्खुर समन्वितम् ।। मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः । पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ।। चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् । पूर्णकुंभयुतं वापि त्रिशूलेन युतं न वा ।। एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ।। सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः । द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ।। यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ।। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ।। उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ।। ७ सप्तमे पटले निराजनविधिः नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते । प्रदोषादौ विधेयो वा धूपदीपावसानके ।। १ ।। उत्सवादौ च कर्तव्यमन्यस्मिन् मंगलेपि च । तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ।। २ ।। गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके । महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ।। ३ ।। पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च । पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ।। ४ ।। दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः । पादांगुलविवृद्ध्यातु नवांगुलसमाविधि ।। ५ ।। विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते । वसुधा मध्यमे भक्ते नवधामानमीरितम् ।। ६ ।। ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः । पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ।। ७ ।। पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् । धुर्तूरकुसुमाकारं शरवाकारमेव वा ।। ८ ।। चतुरष्टदलोपेतं सर्वालंकारसंयुतम् । एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ।। ९ ।। नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा । पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ।। १० ।। देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः । एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ।। ११ ।। कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा । वर्णभक्त हविष्यं च वटाश्वदकानि ।। १२ ।। चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् । मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ।। १३ ।। गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः । सर्वत्र दीपान्वा कुर्यान्नवसंख्यान् समुज्वलान् ।। १४ ।। घृतार्द्रांस्तैलसंयुक्तान् ब्रह्मांगसहितान्यसेत् । लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ।। १५ ।। वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः । कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ।। १६ ।। पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः । प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ।। १७ ।। तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया । संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ।। १८ ।। वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् । सर्वातोद्यसमायुक्तं शंखध्वनि समन्वितम् ।। १९ ।। गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् । स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ।। २० ।। देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् । दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ।। २१ ।। गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना । त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ।। २२ ।। संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् । आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ।। २३ ।। सोपि संगृह्य तं दीपं सप्रणामन्निवेशयेत् । सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ।। २४ ।। गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि । त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ।। २५ ।। अंगुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके । ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ।। २६ ।। पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके । देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ।। २७ ।। कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् । बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ।। २८ ।। तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु । भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ।। २९ ।। ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् । सर्वालंकारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ।। ३० ।। सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् । पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ।। ३१ ।। वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् । द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ।। ३२ ।। तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् । राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ।। ३३ ।। राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे । देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ।। ३४ ।। तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ।। ३४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः ८ अष्टमे पटले कृत्तिकादीपावलिविधिः दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः । मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ।। १ ।। पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये । रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ।। २ ।। कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् । वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ।। ३ ।। रवेरस्तमयात्पूर्वं यामपादावसानकम् । कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ।। ४ ।। एवन्निश्चित्य कालन्तु कारयेद्वांकुरार्पणम् । दीपाराधनपूवेद्युरधिवासनमारभेत् ।। ५ ।। देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा । अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ।। ६ ।। दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् । स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ।। ७ ।। ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुलविवृद्धितः ।। ८ ।। पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः । द्विमात्रात् पादवृद्ध्यातु षडंगुलसमावधि ।। ९ ।। विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ।। १० ।। नवकीलं समारभ्य व्योमकीलविवृद्धितः । सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ।। ११ ।। विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् । त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ।। १२ ।। तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः । दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ।। १३ ।। दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश । योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ।। १४ ।। छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् । एकहस्तविशालन्तु द्विगुणायतसंयुतम् ।। १५ ।। दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये । कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ।। १६ ।। हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः । योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ।। १७ ।। दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते । दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ।। १८ ।। प्रतिवेदन्तु कर्तव्या दीपिका बहुसंख्यया । स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ।। १९ ।। तोरणाकारतोपिवा वृत्ताकारेण वा बहून् । प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ।। २० ।। प्रासादे गोपुरे शाले परिवारालयादिषु । मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ।। २१ ।। वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु । बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ।। २२ ।। दीपावलिरियं कार्या अधिवासनपूर्वकम् । अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ।। २३ ।। षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् । स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ।। २४ ।। ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा । शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ।। २५ ।। दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् । बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ।। २६ ।। आलये मण्टपे वापि यागमण्टप एव वा । मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ।। २७ ।। स्थण्डिलन्तत्र संकल्प्य शस्त्रेण प्रोक्षयेत् गुरुः । नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ।। २८ ।। नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः । पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ।। २९ ।। कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् । शिवाग्निं तत्र संपाद्य शिवं सांगञ्च तर्पयेत् ।। ३० ।। समिधाज्येन चरुणा ततः कार्पासबीजतः । क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ।। ३१ ।। मूलेनांगैर्दशांशेन वह्निबीजमनुस्मरन् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ३२ ।। देवं सांगं विसृज्याथ दीपानारोपयेत् गुरुः । तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ।। ३३ ।। वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु । गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ।। ३४ ।। गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः । सर्वालंकारसंयुक्तं तरुणाख्यन्तु दीपकम् ।। ३५ ।। दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् । होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ।। ३६ ।। ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च । चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ।। ३७ ।। कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च । पूर्वस्यामथवाग्नेययां कूटमेकन्तु वा नयेत् ।। ३८ ।। तोरणानि यथायोग्यन्नयेदिच्छावशेन तु । सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ।। ३९ ।। सर्वालंकारसंयुक्तं कदलीपूगसंयुतम् । एवं संपाद्य सर्वन्तु मन्दीभूते दिवाकरे ।। ४० ।। पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् । वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ।। ४१ ।। स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् । कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ।। ४२ ।। कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा । अधिवासन होमेन समं होमं समाचरेत् ।। ४३ ।। वह्नावीशे तु कूटे वा देशिको होममाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ४४ ।। अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः । पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ।। ४५ ।। आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः । पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ।। ४६ ।। एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः । सर्वालंकारसंयुक्तं मंगलांकुर शोभितम् ।। ४७ ।। वितानध्वजसंयुक्तं छत्रचामरसंयुतम् । नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ।। ४८ ।। बेरेण च समायुक्तं बेरयात्रायुतन्नवा । ग्रहस्थे ब्रह्मचारी वा दीपं संग्राह्य पाणिना ।। ४९ ।। दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् । दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ।। ५० ।। विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् । मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ।। ५१ ।। दीपारोपणकर्तारं पूजयेत् परिचारकम् । वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ।। ५२ ।। ज्योतिलिंगमनुस्मृत्य दहेत् कूटचतुष्टयम् । अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ।। ५३ ।। तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् । कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ।। ५४ ।। हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् । प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ।। ५५ ।। प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् । स्नपनं कारयेन्नो वा बेरलिंगं तदुक्तितः ।। ५६ ।। प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् । पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ।। ५७ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् । अंकुरार्पणहीनं वा क्रियामेनां समाचरेत् ।। ५८ ।। गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् । अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ।। ५९ ।। तदंगमपरं चान्यद्देशिकाय प्रदापयेत् । इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ।। ६० ।। ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः । अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ।। ६१ ।। गोशालायां विशेषेण तेषां रोगनिवृत्तये । यान्तिथिं समनुप्राप्य उदयं याति भास्करः ।। ६२ ।। सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ।। ६२१/२ ।। यदृक्षं समनुप्राप्य अस्तं याति भास्करः । तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ।। ६३१/२ ।। एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ।। ६४ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः ८ ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुल विवृद्धितः ।। पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः । द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ।। विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ।। नव कीलं समारभ्य व्योमकील विवृद्धितः । शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ।। त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् । तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ।। दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ।। लोकः ३ कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् । विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ।। करणदोषः विष्टिः चतुर्थ्यां अपरे विष्टिः अष्टम्यां पूर्वभागतः एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः दशम्यां अपरे विष्टिः चतुर्दश्यां तु पूर्वतः वैनाशिकः द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम् ९ नवमे पटले मार्गशीर्षे घृतस्नान डोलारोहण पुष्ये क्षौद्रपूजा विधिः मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् । घृतस्नानसमोपेतं प्रागुक्तविधिना सह ।। १ ।। केवलस्नपनं वापि कारयित्वा विशेषतः । गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ।। २ ।। ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् । अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ।। ३ ।। बेरप्रदक्षिणं कृत्वा सर्वालंकार संयुतम् । चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ।। ४ ।। डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ।। ४१/२ ।। सर्वालंकारसंयुक्तं कृत्वा स्तम्भद्वयं तथा । स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ।। ५१/२ ।। तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् । चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ।। ६१/२ ।। नानालंकारसंयुक्ता मथबाहुद्वयान्विताम् । एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ।। ७१/२ ।। अस्त्रतोयेन संप्रोक्ष्य कल्पयेदासनं यथा । फलकायां यजेद्धंसं हृदा हंसासने यजेत् ।। ८१/२ ।। ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् । विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ।। ९१/२ ।। वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् । गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ।। १०१/२ ।। नानागानसमायुक्तन्नाना नृत्तसमन्वितम् । नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ।। १११/२ ।। अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् । प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ।। १२१/२ ।। डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च । अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ।। १३१/२ ।। पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ।। १४ ।। पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ।। १५ ।। पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः नवमः पटलः ९ डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः । सर्वालङ्कार संयुक्तं कृत्वा स्तंभद्वयं तथा ।। स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् । तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ।। चतुर्बाहु समायुक्तां ऊर्ध्व प्रच्छादनान्विताम् । नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ।। एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् । १० दशमे पटले माघमासे घृतकम्बलपूजाविधिः माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् । कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ।। १ ।। नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः । शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ।। २ ।। तदाज्यं पिण्डवत् कृत्वा कुंकुमागरुसंस्कृतम् । हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ।। ३ ।। हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् । पञ्चब्रह्मषडंगैश्च शिवेन तदनन्तरम् ।। ४ ।। विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा । विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ।। ५ ।। गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् । तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ।। ६ ।। पलाशसमिदाज्यान्न तिललाजसमन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ७ ।। घृते संपातहोमञ्च पवित्रारोहवर्त्मना । कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ।। ८ ।। कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा । संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।। ९ ।। विशेषेणार्चयित्वा तु सर्वालंकारसंयुतम् । धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।। १० ।। लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् । गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।। ११ ।। दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ।। १११/२ ।। सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च । पूर्ववत् पूजयेद्देवं गुरुं संपूजयेत्तदा ।। १२१/२ ।। दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् । अंकुरार्पणपूर्वं वा रहितं वैतदाचरेत् ।। १३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः ११ एकादशे पटले माघे शिवरात्रिपूजाविधिः अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः । श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ।। १ ।। अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् । मया सह मुदा सार्धं रमन्तीप्सितमाययुः ।। २ ।। न बाध्यन्ते यमादेशात् किंकरैः क्रूरदृष्टिभिः । यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ।। ३ ।। श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् । माघमास्यासिते पक्षे विद्यते या चतुर्दशी ।। ४ ।। तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा । तस्यामेव शिवपूजा शिवलिंगे शिवालये ।। ५ ।। कृतस्नानोपवासेन पूर्वेह्नि नियतेन च । साधकेनोपचारेण कर्तव्या श्रद्धया सह ।। ६ ।। पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः । शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ।। ७ ।। आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् । अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ।। ८ ।। पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् । गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ।। ९ ।। पवित्रैः पञ्चभिः कुर्यात् पञ्चांगैश्च क्रमेण तु । पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ।। १० ।। चूर्णेनापि सपिष्टेन रजन्या धूपितेन च । अस्त्रेण शोधितेनैव शोधयेदुदकेन च ।। ११ ।। नालिकेरोदकेनैव तं पश्चादभिषेचयेत् । गन्धोदकेन मूलांगब्रह्मभिश्चाभिषेचयेत् ।। १२ ।। कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् । लिंगमाच्छाद्य देवांगाद्येन शुद्धेन वाससा ।। १३ ।। यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् । चन्दनागरुकर्पूर कुंकुमाद्यैः क्रमेण तु ।। १४ ।। मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः । दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ।। १५ ।। गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् । दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ।। १६ ।। पायसं प्रथमे यामे द्वितीये कृसरं भवेत् । गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ।। १७ ।। निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् । सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ।। १८ ।। धूपमारात्रिकोपेतं शिवाय विनिवेद्य च । होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ।। १९ ।। कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् । शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ।। २० ।। संपूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले । समादाज्य हविर्लाज तिलैर्मूलांगब्रह्माभिः ।। २१ ।। शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् । दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ।। २२ ।। कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् । वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ।। २३ ।। पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः । स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ।। २४ ।। नीत्वा जागरणं रात्रौ प्रभाते विमले ततः । कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ।। २५ ।। देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् । दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ।। २६ ।। लिंगिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि । पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ।। २७ ।। गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः । पादौ हस्तौ च संक्षाल्य पारणन्तु समाचरेत् ।। २८ ।। इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः पटलः १२ द्वादशे पटले फाल्गुनमासगन्धपूजाविधिः उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् । विशेषस्नपनोपेतं विशेषयजनान्वितम् ।। १ ।। दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि । प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ।। २ ।। तत्पादं वा तदर्धं वा कुंकुमं स्यात्तदर्धतः । पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ।। ३ ।। कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् । वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ।। ४ ।। घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना । गन्धैरालिप्य लिंगन्तु सपीठं शिवमन्त्रतः ।। ५ ।। सुगन्धपुष्पमालाभिर्भूषयेल्लिंगपिण्डिके । कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ।। ६ ।। सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये । आभिचारकृते दोषे विधानमिदमाचरेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः द्वादशः पटलः १३ त्रयोदशे पटले चैत्रमास दमन पूजा विधिः दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् । हरकोपात् पुराजातः बैरवो दमनाह्वयः ।। १ ।। दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः । प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ।। २ ।। दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि । पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ।। ३ ।। ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः । ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ।। ४ ।। तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया । सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ।। ५ ।। शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः । अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ।। ६ ।। हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव । शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ।। ७ ।। एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् । यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ।। ८ ।। पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा । ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ।। ९ ।। सायाह्नसमये प्राप्ते विदध्यादधिवासनम् । आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ।। १० ।। यथा विधिसमभ्यर्च्य भानुशंकरपावकान् । पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ।। ११ ।। सद्योजातेन मनुना दीपितं हृदयेन वा । वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ।। १२ ।। दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा । पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ।। १३ ।। फलंमूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् । पञ्चांगमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ।। १४ ।। विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति । आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।। १५ ।। कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया । इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ।। १६ ।। संयोज्य शिवमन्त्रेण विदधीत जपादिकम् । शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ।। १७ ।। पवित्रकविधानेन कवचेनावकुण्ठयेत् । एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।। १८ ।। हविस्तदनु भुञ्जीत यदि वा पवनाशनः । शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ।। १९ ।। प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् । नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ।। २० ।। दमनैः पूजयेद्देवं पञ्चांगैरपि खण्डितैः । शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ।। २१ ।। ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् । आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ।। २२ ।। पवित्रक विधानेन क्रमेण शिवमर्चयेत् । पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ।। २३ ।। सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् । चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ।। २४ ।। मखेश्वराय च मखं पूरयेति च वीप्सितम् । शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ।। २५ ।। प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् । विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ।। २६ ।। भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् । सर्वन्तदस्तु संपूर्णंपर्व दामनकं मम ।। २७ ।। एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ।। २८ ।। ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् । पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः त्रयोदशःपटलः १४ चतुर्दशे पटले चैत्रमास वसन्तोत्सवविधिः तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः । पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ।। १ ।। नानामाला समाकीर्णे नानाफलविचित्रते । नानागानसमोपेते नानावाद्यसमन्विते ।। २ ।। नानानृत्तसमायुक्ते नानायन्त्रसमन्विते । प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ।। ३ ।। पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते । आस्थानमण्टपोपेते जलक्रिडासमन्विते ।। ४ ।। देवोद्यानेनयेद्देवं सर्वालंकारसंयुतम् । ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ।। ५ ।। परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः । पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ।। ६ ।। सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् । देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ।। ७ ।। कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः । स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ।। ८ ।। वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् । ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ।। ९ ।। नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च । एवं काले तु देवेशन्नयेद्देवालयं पुनः ।। १० ।। स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् । एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ।। ११ ।। एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ।। १११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः चतुर्दशः पटलः १५ पञ्चदशे पटले वेशाखमासशीतकुम्भविधिः ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् । विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ।। १ ।। सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये । प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ।। २ ।। चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे । शीतकुम्भविधिः कार्यस्तत्तंद्दोषापनुत्तये ।। ३ ।। यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिंगमूर्धनि । वस्त्वंगुलं समारभ्यांगुलवृद्ध्याकरान्तकम् ।। ४ ।। यथान्तरं तथा कृत्वा संप्रक्षालयाम्बुना गुरुः । वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ।। ५ ।। विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः । महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ।। ६ ।। एवं कृत्वा त्रिपादींश्च विन्यसेल्लिंगपूर्धनि । मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ।। ७ ।। तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् । चतुर्द्रोणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। ८ ।। मध्यमं खारिसंपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ।। ९ ।। कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ।। १० ।। एकद्वित्र्यंघ्रिसंयुक्तन्निष्कमानकृतेन तु । युगांगुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ।। ११ ।। पिधानेन समोपेतं पल्लवेन समन्वितम् । उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ।। १२ ।। पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् । आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ।। १३ ।। ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् । प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ।। १४ ।। प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् । गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ।। १५ ।। प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् । पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ।। १६ ।। गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् । अथवाचमनीयार्थं कल्पितो गन्ध एव वा ।। १७ ।। नीरोमजन्तुकं द्रव्यं उपकुम्भे विनिक्षिपेत् । हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ।। १८ ।। नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् । तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ।। १९ ।। समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः । आप्येनामृतबीजेन संपुटेन शिवेन च ।। २० ।। आप्याधारणयोपेतं सहस्रं वा तदर्थकम् । शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ।। २१ ।। आप्याणुसंपुटं मूलं जपेत्तत्संख्यकं यथा । जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ।। २२ ।। आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् । कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ।। २३ ।। अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः । शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकांक्षिभिः ।। २४ ।। सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् । तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ।। २५ ।। सहस्रसंख्यकावास्युः अर्धसंख्या समन्विताः । शतसंख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ।। २६ ।। एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः । पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ।। २७ ।। ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः । कुर्याच्छंखस्वनोपेतं प्रत्यहं चैवमाचरेत् ।। २८ ।। नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् । नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ।। २९ ।। नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः । संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ।। ३० ।। चन्दनागरुकर्पूरकुंकुमैः प्रचुरैर्गुरुः । गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ।। ३१ ।। कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ।। ३२ ।। नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः । पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ।। ३३ ।। ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः । मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ।। ३४ ।। नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि । जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ।। ३५ ।। पूजयेत् प्रत्यहं देवं यावत्स्यात् कांक्षितं फलम् । तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ।। ३६ ।। प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् । संग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ।। ३७ ।। आभ्यां कृत्वा सुधाम्नस्तु च सुवारके आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ।। ३८ ।। सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् । घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ।। ३९ ।। शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् । निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ।। ४० ।। तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति । सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ।। ४१ ।। द्विमासंन वा त्रिमासं वा विधिमेवंन समाचरेत् । आचार्यं पूजयेदादौ वस्त्रैः पञ्चांगभूषणैः ।। ४२ ।। दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः । अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ।। ४३ ।। अन्येषामपि सर्वेषां हेमवस्त्रांगुलीयकान् । निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ।। ४४ ।। प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् । ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ।। ४५ ।। नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि । दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ।। ४६ ।। स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ।। ४६१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः पञ्चदशः पटलः १५ यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि । वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ।। यथान्तरं तथा कृत्वा सप्रक्षाल्यांबुनागुरुः । वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ।। विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः । महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ।। एवं कृत्वा त्रिपादीं च विन्यसेल्लिंग मूर्धनि । चतुर्द्राणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बपलाकारं सवस्त्रंकूर्चसंयुतम् ।। कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ।। १६ षोडशे पटले ज्येष्ठमासफलपूजाविधिः ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः । विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ।। १ ।। विशेषपूजा संयुक्तं पायसेन समन्वितम् । विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ।। २ ।। नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च । पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ।। ३ ।। कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा । वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ।। ४ ।। सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् । क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ।। ५ ।। यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः षोडशः पटलः १७ सप्तदशे पटले आषाढ मास पूर्वफल्गुनी पूजा विधिः आषाढे मासि नक्षत्रे पूर्वफाल्गुन संज्ञके । आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ।। १ ।। कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना । देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ।। २ ।। वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् । ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ।। ३ ।। तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् । ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ।। ४ ।। आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् । रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ।। ५ ।। दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् । ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ।। ६ ।। हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् । त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ।। ७ ।। स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः । एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ।। ८ ।। संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः । सक्तुभिश्च फलोपेतैस्तान् संपूज्य ह्रदा गुरुः ।। ९ ।। तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् । तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ।। १० ।। तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि । आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ।। ११ ।। प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् । अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ।। १२ ।। बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् । नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ।। १३ ।। गुडखण्ड समोपेतं सक्तु संदापयेद् गुरुः । नानापूप समायुक्तं नानाफल समन्वितम् ।। १४ ।। जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् । विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ।। १५ ।। विधाय केवलं वापि त्रिशूलेन समन्वितम् । नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ।। १६ ।। प्रभूतहविषोपेतं मुखवासेन संयुतम् । ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ।। १७ ।। वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः । सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ।। १८ ।। सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये । विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ।। १९ ।। इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा विधिः सप्तदशः पटलः १८ अष्टादशे पटले श्रावणमासे पवित्रारोहण विधिः दुरितस्य विनाशार्थं संवत्सरकृतस्य तु । पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ।। १ ।। प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् । सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ।। २ ।। पुत्रको भुक्ति भांङ्नस्यात् जन्मनैकेन रोधनात् । समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ।। ३ ।। विधातव्यं प्रयत्नेन येन केन प्रकारतः । प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ।। ४ ।। पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् । आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ।। ५ ।। अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ । पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ।। ६ ।। इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः । चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ।। ७ ।। कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् । शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ।। ८ ।। कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् । क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ।। ९ ।। दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् । त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ।। १० ।। रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः । शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ।। ११ ।। शक्तयो नव वामाद्या नव सूत्राधिपा मताः । दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ।। १२ ।। शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् । द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ।। १३ ।। तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु । यवीयसां कलासंख्या मध्याना वर्ण लक्षिताः ।। १४ ।। ज्येष्ठानां पदसंख्याता स्तन्तवो मानुषे मताः । स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ।। १५ ।। स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च । संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ।। १६ ।। समा एव गृहस्थस्य परिवारामरादिषु । तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ।। १७ ।। एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः । ग्रन्थयस्तन्तु संख्याताः स्निग्ध गर्भा नवा मताः ।। १८ ।। यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः । एकादित्र्यंगुलं वापि ग्रन्थिमानमिहागमे ।। १९ ।। ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः । रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ।। २० ।। कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् । रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ।। २१ ।। त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् । पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ।। २२ ।। यज्ञसूत्राख्यमाला च बाहुमला ततः परम् । मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ।। २३ ।। आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् । यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ।। २४ ।। क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् । आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ।। २५ ।। पवित्रमेकं सर्वेषामावृतानां विधीयताम् । एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ।। २६ ।। क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् । यागधामवृषस्थान प्रासादालय संश्रयान् ।। २७ ।। कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् । एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ।। २८ ।। प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा । मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ।। २९ ।। षोडशस्तंभसंयुक्ते रविस्तंभ युतेऽपि वा । मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ।। ३० ।। त्रिभागायामयुक्ते वा विंशति स्तंभ संयुते । मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ।। ३१ ।। तत्समन्तात् सुसंकॢप्त नव पञ्चैक कुण्डके । तत्संख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ।। ३२ ।। पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् । कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ।। ३३ ।। कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः । अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ।। ३४ ।। परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् । लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ।। ३५ ।। इष्ट्वा संप्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् । संपूज्य विधिवद्देव समीपे स्वासनेस्थितः ।। ३६ ।। आसनार्चनमारभ्य कुर्यादावाहनान्तकम् । कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ।। ३७ ।। नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् । पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ।। ३८ ।। कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् । समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ।। ३९ ।। पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च । शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ।। ४० ।। प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु । शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ।। ४१ ।। तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु । स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ।। ४२ ।। शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् । कुर्यादात्मीय भागं तु केवलेन घृतेन च ।। ४३ ।। हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् । गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ।। ४४ ।। दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् । भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ।। ४५ ।। पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् । धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ।। ४६ ।। होमद्रव्याणि सर्वाणि सकुशान्यपरानने । दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ।। ४७ ।। रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् । दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ।। ४८ ।। तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् । तांबुलं भस्म संमिश्रं दद्यात्तत्पुरुषं स्मरन् ।। ४९ ।। ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् । स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ।। ५० ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् । धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ।। ५१ ।। ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः । स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ।। ५२ ।। तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् । तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ।। ५३ ।। मण्डले वेदिकोर्ध्वे चेदत्र कुंभान्तिकेऽपि वा । संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ।। ५४ ।। मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके । संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ।। ५५ ।। गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् । अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ।। ५६ ।। त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः । दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ।। ५७ ।। याग धामवृषस्थान प्रासादानल संश्रयान् । कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ।। ५८ ।। दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् । प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ।। ५९ ।। तदेतानि पवित्राणि भगवन् संस्कृतानि हि । अर्पयामि घटस्थाय शिवायाध्येषये दिति ।। ६० ।। समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् । आदौ वा कुंभवर्धन्योर्दत्वायायाच्छिवान्तिकम् ।। ६१ ।। स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् । एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ।। ६२ ।। धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः । आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ।। ६३ ।। शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना । आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ।। ६४ ।। समस्तविधिविच्छिद्र पूरणेशमखंप्रति । प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ।। ६५ ।। तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।। ६६ ।। जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् । दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ।। ६७ ।। दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः । आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ।। ६८ ।। इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम् । अन्येषां चैव मूर्तिना/ क्रमाद्दद्यात् बहिर्बलिम् ।। ६९ ।। वायव्यांक्षेत्रपालाय दत्वाचम्य बलिं पुनः । प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ।। ७० ।। भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् । अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ।। ७१ ।। स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः । मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ।। ७२ ।। नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् । सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ।। ७३ ।। निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः । पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ।। ७४ ।। आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् । अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ।। ७५ ।। अविसर्जित देवेशात् पवित्राण्यवरोपयेत् । तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ।। ७६ ।। दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् । समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ।। ७७ ।। कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः । द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुंभयोः ।। ७८ ।। दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् । स्वासने दीपसंकॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ।। ७९ ।। मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् । शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ।। ८० ।। विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् । पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ।। ८१ ।। जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः । कुण्डमस्त्रेण संप्रोक्ष्य मेखलापरिधिस्थितान् ।। ८२ ।। सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् । दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ।। ८३ ।। प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् । दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ।। ८४ ।। नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्संप्रविश्य च । ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ।। ८५ ।। गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च । कृत्वा विशेष पूजां च विभवस्यानुसारतः ।। ८६ ।। स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् । वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ।। ८७ ।। सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् । कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ।। ८८ ।। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः । प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ।। ८९ ।। कालात्मना त्वयादेव यद्दृष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ।। ९० ।। तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् । सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ।। ९१ ।। पूरयेति द्विरुच्चार्य मखव्रत फलं ततः । नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ।। ९२ ।। आत्मतत्त्वाधिपतये शिवाय नम इत्यपि । तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ।। ९३ ।। पवित्रकत्रयंमूर्ध्नि तद्भोगी शिवादिकम् । शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ।। ९४ ।। सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ।। ९५ ।। त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे । अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ।। ९६ ।। कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ।। ९७ ।। जपहोमार्चनाहीनं कृत्यं नित्यं मया तव । अकृतं वाक्यहीनं च तत्पूरय महेश्वर ।। ९८ ।। सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् । त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ।। ९९ ।। खण्डितं यन्मया देव व्रत वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञासूत्रगुंभितम् ।। १०० ।। जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् । गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ।। १०१ ।। अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा । अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ।। १०२ ।। एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् । व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ।। १०३ ।। सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते । शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ।। १०४ ।। वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्संप्रविश्य च । देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ।। १०५ ।। दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः । प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ।। १०६ ।। मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् । तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ।। १०७ ।। सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः । लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ।। १०८ ।। स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने । ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ।। १०९ ।। व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् । भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ।। ११० ।। मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् । भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ।। १११ ।। वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके । हृदये संनिवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ।। ११२ ।। परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः । शिवकुंभास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ।। ११३ ।। ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् । दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ।। ११४ ।। रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् । आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ।। ११५ ।। निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि । लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ।। ११६ ।। पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् । दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ।। ११७ ।। इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः अष्टादश पटलः १९ एकोनविंशत्तमे पटले नवनैवेद्यविधिः अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् । मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ।। १ ।। अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् । निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ।। २ ।। विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके । शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ।। ३ ।। नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् । मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ।। ४ ।। चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् । चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ।। ५ ।। हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् । पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ।। ६ ।। सलक्षणेन दात्रेण पूजितेनैव हेतिना । प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ।। ७ ।। शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् । तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ।। ८ ।। तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् । नालिकेरफलोपेतं नवपूगफलान्वितम् ।। ९ ।। मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् । नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ।। १० ।। पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः । आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ।। ११ ।। नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् । नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ।। १२ ।। ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति । पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ।। १३ ।। कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् । विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ।। १४ ।। वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा । गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ।। १५ ।। चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् । तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ।। १६ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् ।। १६१/२ ।। नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा । स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ।। १७१/२ ।। मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले । पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ।। १८१/२ ।। अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन् । तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ।। १९१/२ ।। कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद् गुरुः । धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ।। २०१/२ ।। नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् । तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ।। २११/२ ।। नवपूगफलोपेतं देव्यै च विनिवेदयेत् । सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ।। २२१/२ ।। अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् । वृषादिपरिवारेभ्यो होमकर्म समापयेत् ।। २३१/२ ।। नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् । बलिदानसमोपेतमतिथीनां समर्पणम् ।। २४१/२ ।। निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् । तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ।। २५१/२ ।। हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् । सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ।। २६१/२ ।। वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः । एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ।। २७१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः एकोनविंशतितमः पटलः २० विंशतितमे पटले समयविशेषदीक्षा विधिः अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् । आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः । सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ।। २ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत् । आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ।। ३ ।। पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् । वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ।। ४ ।। प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ।। ५ ।। प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् । तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ।। ६ ।। पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च । अस्त्रेण पार्ष्णिंघातस्य त्रयं कृत्वाथ भूगतान् ।। ७ ।। कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः । छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ।। ८ ।। दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् । अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ।। ९ ।। वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि । संपूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ।। १० ।। वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः । उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ।। ११ ।। सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः । विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ।। १२ ।। अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् । तदम्भसा तु संप्रोक्ष्य स्वशिरोद्रव्य संहितम् ।। १३ ।। अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् । हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ।। १४ ।। शिवहस्तं च संकल्प्य तदारोपितमस्तकः । ज्ञानासिं तत्वसंख्यातैश्चतुरूनैरथापि वा ।। १५ ।। दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् । कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ।। १६ ।। मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते । पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ।। १७ ।। शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः । सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ।। १८ ।। रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत् । गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ।। १९ ।। एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् । अमृतीकृत्य संपूज्य शिवेनैकत्वमाचरेत् ।। २० ।। मण्डपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत् । लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ।। २१ ।। हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः । नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ।। २२ ।। कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः । कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ।। २३ ।। विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् । वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ।। २४ ।। हेमाद्येकतमं कुम्भमानीय गलिताम्मसा । पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ।। २५ ।। संहृतौ विकिरास्त्राणामासनं तु चलाचलम् । संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ।। २६ ।। वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् । विन्यसेदस्त्रभूतांतां प्रत्यङ्गनालसमन्विताम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः । इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ।। २८ ।। वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः । विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ।। २९ ।। घटस्थं कलशस्थं वा कुंभस्थं वाजयेद्गुरुः । तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ।। ३० ।। भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ।। ३१ ।। सर्वेषां लोकपालानामनेन क्रमयोगतः । शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ।। ३२ ।। विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् । स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ।। ३३ ।। मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् । पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ।। ३४ ।। सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः । भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ।। ३५ ।। संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा । मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ।। ३६ ।। स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा । उमायै भगरूपिण्यै लिङ्ग रूपधराय च ।। ३७ ।। शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च । यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।। ३८ ।। एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ।। ३९ ।। रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि । यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ।। ४० ।। अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा । निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ।। ४१ ।। वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् । अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ।। ४२ ।। मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् । विशेषपूजयोपेतं पावके शिवमर्चयेत् ।। ४३ ।। भगवन् देहमाविश्य मदीयमनुकम्पया । कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनां ।। ४४ ।। संप्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः । मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ।। ४५ ।। उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् । सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ।। ४६ ।। यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः । होमाधि करणत्वेन पावकस्थस्सदाशिवः ।। ४७ ।। शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः । अनुग्रहकरो देवो मम देहे व्यवस्थितः ।। ४८ ।। पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः । अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ।। ४९ ।। ममापि हृदयादीनि साधनानि न संशयः । स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ।। ५० ।। यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः । त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ।। ५१ ।। अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः । भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ।। ५२ ।। विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः । सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ।। ५३ ।। तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर । प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ।। ५४ ।। कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् । उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ।। ५५ ।। द्वारस्य संमुखं बाह्ये प्रणवे कुशमण्डले । शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ।। ५६ ।। वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् । नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ।। ५७ ।। अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः । पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ।। ५८ ।। तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् । स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ।। ५९ ।। संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् । करोमि गुणसंपन्नं सतां मस्तकभूषणम् ।। ६० ।। ततस्संप्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना । दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ।। ६१ ।। उल्लिखेत् पाशसंतानं प्रवृत्तकरणोन्मुखम् । सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ।। ६२ ।। अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा । संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ।। ६३ ।। प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् । शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ।। ६४ ।। प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् । धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ।। ६५ ।। गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् । शासनेन सदेहेन शिवेन समधिष्ठितम् ।। ६६ ।। शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् । हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ।। ६७ ।। सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना । रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ।। ६८ ।। कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः । ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ।। ६९ ।। न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् । अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ।। ७० ।। सहसालोकितेशान शिववक्त्रसरोरुहम् । यात्तमङ्गमुञ्चेति प्रसूनं शिवसंमुखम् ।। ७१ ।। स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् । तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ।। ७२ ।। नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् । क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ।। ७३ ।। शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् । सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ।। ७४ ।। नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने । संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ।। ७५ ।। दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः । पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ।। ७६ ।। स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः । दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ।। ७७ ।। प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च । शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ।। ७८ ।। पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः । शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ।। ७९ ।। विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् । शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ।। ८० ।। हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति । आहारभावदोषाभ्यां योनि बीजशरीरतः ।। ८१ ।। शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर । रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ।। ८२ ।। अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः । इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ।। ८३ ।। प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः । विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ।। ८४ ।। मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके । समानीय ध्रुवेणैव संपूज्य शिशुमस्तकात् ।। ८५ ।। संहारमुद्रया स्वस्य हृदये पूरकेण तु । प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ।। ८६ ।। रेचकेन प्रयोगेण केशेशानसदाशिवान् । नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ।। ८७ ।। संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः । दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ।। ८८ ।। शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु । एवं समयसंस्कारयुक्तो यश्शिवपूजने ।। ८९ ।। होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च । योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ।। ९० ।। ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः । शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ।। ९१ ।। सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ।। ९११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः पटलः २१ एकविंशत्तमे पटले स्थालीपाकविधिः स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने । स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ।। १ ।। प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च । निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ।। २ ।। कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा । मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ।। ३ ।। वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके । षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ।। ४ ।। शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत् । पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ।। ५ ।। चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च । संमृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ।। ६ ।। दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् । आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ।। ७ ।। द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् । चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ।। ८ ।। चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् । विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ।। ९ ।। उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् । स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ।। १० ।। हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि । तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ।। ११ ।। प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् । सुशीतले भवेत्येवं वौषट्पल्लवया तथा ।। १२ ।। शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् । संमृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ।। १३ ।। अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले । पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ।। १४ ।। शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत् । एवं संपादितेनैव चरुणा होम-इष्यते ।। १५ ।। तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् । हविष्यचतुरंशेन होमकर्माथवा मतम् ।। १६ ।। होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः । पञ्चगोचर संस्थाय समस्तागमवेदिने ।। १७ ।। शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि । शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ।। १८ ।। हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि । आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ।। १९ ।। परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि । पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ।। २० ।। प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकांक्षिभिः । एतेषामन्यथाभावे सर्वं भवति चान्यथा ।। २१ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः एकविंशतितमः पटलः २२ द्वाविंशत्तमे पटले स्वप्नाध्याय विधिः अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः । दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ।। १ ।। तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति । लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ।। २ ।। संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि । षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ।। ३ ।। मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि । शीघ्रमेव फलं तस्य भविष्यति न संशयः ।। ४ ।। रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् । प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ।। ५ ।। मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् । यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ।। ६ ।। चन्द्रार्क तारग्रसनं परिमार्जनमेव च । भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ।। ७ ।। श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् । सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ।। ८ ।। गन्धर्व नगरं वापि देवगन्धर्व योषिताम् । दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ।। ९ ।। जातरूपमयं छत्रं श्वेतमाला विभूषितम् । चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ।। १० ।। तेषामारोहणं शस्तं तत्फलानां च संग्रहः । तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ।। ११ ।। गो सिंह वृषभाणां च वीक्षणारोहणे हिते । सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ।। १२ ।। सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् । तरणं निम्नगाम्भोधि काननानां जलस्य च ।। १३ ।। प्रशस्तं दोहनं कर्म महिषीणां गवामपि । सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ।। १४ ।। प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् । पयसः पाटलाया गोः पानं यद्वत्सलीलया ।। १५ ।। दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् । एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ।। १६ ।। सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् । एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ।। १७ ।। अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च । चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ।। १८ ।। पशुसिंह गजानां च लाभो युद्धे विशेषतः । अध्यापनं च शास्त्राणामन्नलेपनमेव च ।। १९ ।। तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च । बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ।। २० ।। सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः । श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ।। २१ ।। सरोजस्यातपत्रस्य मणीनां दर्पणस्य च । दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ।। २२ ।। विमलस्यांभसश्शस्तं दर्शनं हाटकस्य च । राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ।। २३ ।। देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि । सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ।। २४ ।। एतेषामपि पनेन राज्यं संप्राप्नुयान्नरः । शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ।। २५ ।। रूपयौवन संपन्नां श्रियंवा तादृशीमपि । उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ।। २६ ।। कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् । तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ।। २७ ।। दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा । भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ।। २८ ।। जयं विवादद्युतादौ संग्रामे विजयं तथा । कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ।। २९ ।। निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा । दृष्ट्वाग्निं संग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ।। ३० ।। नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् । तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ।। ३१ ।। परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च । निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ।। ३२ ।। निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् । स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ।। ३३ ।। हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः । पात्रे मणिमये वाथ राजते वाथ भोजनम् ।। ३४ ।। सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् । लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ।। ३५ ।। मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः । पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ।। ३६ ।। बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् । शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ।। ३७ ।। चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वंच पश्यति । ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ।। ३८ ।। छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः । पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ।। ३९ ।। छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् । लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ।। ४० ।। सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते । धनधान्यमवाप्नोति सर्वाभरण भूषितः ।। ४१ ।। आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ।। ४२ ।। चक्रं च पूर्ण कुंभं च श्रीवत्सं स्वस्तिकं तथा । सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ।। ४३ ।। शिवागमादि शब्दानां श्रवणं धनदं भवेत् । गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ।। ४४ ।। देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् । ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ।। ४५ ।। पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि । उद्यानारामकरणं शुभप्रदमिहोच्यते ।। ४६ ।। आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् । बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसंग्रहः ।। ४७ ।। स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् । गणानां विबुधानां च सुधापानं नभोगतिः ।। ४८ ।। इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् । भूवस्त्रलाभ पर्यङ्कशयया दाहोंबरस्य च ।। ४९ ।। आसनस्य च दाहो वा नावा रोहणमेव च । नवशुक्लांबरत्वं च तथा शुद्धोदनाशनम् ।। ५० ।। मधुनः पङ्कजस्येव जननं हननं स्वकम् । शंखपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ।। ५१ ।। दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन । अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ।। ५२ ।। लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः । पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ।। ५३ ।। बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् । हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ।। ५४ ।। विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् । उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ।। ५५ ।। सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः । चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ।। ५६ ।। अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः । रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ।। ५७ ।। भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च । नर्तनं ग्रसनं चैव विवाहो गीतमेव च ।। ५८ ।। तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् । स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ।। ५९ ।। पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः । चितायां रोहणं शक्रध्वजस्य पतनं तु वा ।। ६० ।। सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् । दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ।। ६१ ।। देव द्विजादि भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।। ६२ ।। हानिश्चैव स्वगात्राणां विरेकवमनक्रिये । दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ।। ६३ ।। गृहणाञ्चैव पातश्च गृह संमार्जनं तथा । पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ।। ६४ ।। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ।। ६५ ।। स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् । क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ।। ६६ ।। नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा । रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ।। ६७ ।। नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा । विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ।। ६८ ।। पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च । प्लवनं भग्नयानत्वमशुभाय भविष्यति ।। ६९ ।। सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः । द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ।। ७० ।। छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता । प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ।। ७१ ।। कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने । कार्पासतिल मूलादि लोहानि लभते च यः ।। ७२ ।। स्वस्थश्च लभते व्याधितो मृत्युमृच्छति । भग्न ध्वजाधिकं भग्नं छत्रंदृष्ट्वाऽशुभं लभेत् ।। ७३ ।। एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् । तथैवहसनं भुक्तिरोदनस्य तिलैः सह ।। ७४ ।। अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् । कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ।। ७५ ।। दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः । संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ।। ७६ ।। यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् । हीननृत्तसमजश्च नाभेरन्य प्रदेशके ।। ७७ ।। तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च । खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ।। ७८ ।। सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् । स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ।। ७९ ।। नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः । व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ।। ८० ।। आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः । सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ।। ८१ ।। परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि । अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ।। ८२ ।। शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् । पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ।। ८३ ।। शोषणं कथिताख्यं च तोयपानं प्रमेहिणः । हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ।। ८४ ।। रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति । भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ।। ८५ ।। आदित्यचन्द्रताराणां मलिनत्वमशोभितम् । पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ।। ८६ ।। ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् । दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ।। ८७ ।। काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा । पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ।। ८८ ।। पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा । गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ।। ८९ ।। निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् । म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ।। ९० ।। कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा । कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ।। ९१ ।। निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् । अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ।। ९२ ।। सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् । वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ।। ९३ ।। कृष्णकीटं च गांकृष्णां पश्येच्चेद्भयमाप्नुयात् । एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ।। ९४ ।। काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् । वह्नियान रथादीनां छत्रादीनां च भग्नता ।। ९५ ।। विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः । धूमायमानमात्मानं शिरोमुण्डनमेव च ।। ९६ ।। बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् । यवागू मारनालं वा पिपेद्धन विनाशनम् ।। ९७ ।। तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे । मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ।। ९८ ।। कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता । वर्तितैलतिलादीनामञ्जनालेपनं तथा ।। ९९ ।। अन्धकारनिवेशस्तु महामार्गगतिस्तुवा । संन्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ।। १०० ।। तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि । रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ।। १०१ ।। अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् । अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ।। १०२ ।। तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः । पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ।। १०३ ।। वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् । भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ।। १०४ ।। देवताश्च द्विजातिश्च पितरो योगिनो नृपः । यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ।। १०५ ।। एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च । लिंगं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ।। १०६ ।। यद्धातु प्रकृतिर्येन धातुना वापि दूषितः । तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ।। १०७ ।। यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् । तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ।। १०८ ।। तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे । दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ।। १०९ ।। समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् । प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ।। ११० ।। अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत् । द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ।। १११ ।। आचारेणाथ धर्मेण विद्यया वाथ यस्यतु । श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ।। ११२ ।। अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् । आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ।। ११३ ।। ब्राह्मण समयाख्येन संस्कारेण समन्वितः । निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ।। ११४ ।। नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् । आदौ समानदीक्षायां सत्यामपि च यत्र तु ।। ११५ ।। नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् । जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ।। ११६ ।। नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् । परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ।। ११७ ।। ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया । न संमान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ।। ११८ ।। एकदेशिक शिष्याणा माचारः परिकीर्तितः । किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ।। ११९ ।। तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकांक्षिभिः ।। १९९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः पटलः २३ त्रयोविंशत्तमे पटले निर्वाण दीक्षा विधिः निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् । आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः । सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ।। २ ।। पश्चिमद्वार मार्गेण संप्रविश्य मखालयम् । कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ।। ३ ।। भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् । कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ।। ४ ।। विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च । निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ।। ५ ।। कुंभं च वर्धनीं तत्र संपूज्य परितो गुरुः । लोकपालानथाभ्यर्च्य तेषां आज्ञां तु श्रावयेत् ।। ६ ।। भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च । मण्डले देव देवेशं इष्ट्वाऽग्नौ तर्पयेन्मनून् ।। ७ ।। भगवन् देहमाविश्य मदीयमनु कंपया । अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ।। ८ ।। इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् । सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ।। ९ ।। यज्ञस्य रक्षकः कुंभे पावके होम कारणम् । शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ।। १० ।। पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः । मन्त्राः कारणभूता ये शिवस्य हृदयादयः ।। ११ ।। ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि । संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ।। १२ ।। परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः । उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ।। १३ ।। तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम । पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृंहितः ।। १४ ।। आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसंमुखम् । आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ।। १५ ।। नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह । कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ।। १६ ।। अघोर संपुटं कृत्वा शिवं साङ्गं फटन्तकम् । कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ।। १७ ।। आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् । कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।। १८ ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः । संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ।। १९ ।। अंगुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् । सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ।। २० ।। सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत् । संपूज्यगंध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ।। २१ ।। संनिधानाय मूलेन चाहुति त्रयमाचरेत् । शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ।। २२ ।। संताड्य हृदयं तस्य रेचकेन प्रविश्य च । हुंकारं उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ।। २३ ।। हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा संगृह्यमूलतः । द्वादशान्ते न्यसेत् शिष्य जीवं हृदय संपुटम् ।। २४ ।। सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया । सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ।। २५ ।। हुत्वाहुतित्रयं तस्य संविधानाय मूलतः । मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ।। २६ ।। शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः । शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ।। २७ ।। पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम् । संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ।। २८ ।। शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् । उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ।। २९ ।। अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः । कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ।। ३० ।। गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् । व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ।। ३१ ।। मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च । व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ।। ३२ ।। व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः । तासांच संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ।। ३३ ।। स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि । शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ।। ३४ ।। तासांच दीपनं कार्यमोङ्कारादि फडन्तकम् । अघोरबीजं मूलं च शान्त्यतीतकलामपि ।। ३५ ।। चतुर्थ्यन्तं समुच्चार्य हुंकारं तु समुच्चरन् । त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ।। ३६ ।। आहुतीनांत्रयं हुत्वा पाशबन्धनमाचरेत् । शिरः संताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ।। ३७ ।। भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् । व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ।। ३८ ।। हुंफडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् । शिवं संपुटितं स्वस्वबीजं च भगवत् पदम् ।। ३९ ।। कलाचतुष्टयंपाशं मल तत्वादिव्यापकम् । बन्ध बन्ध पदंचोक्त्वा हुंफषन्त समन्वितम् ।। ४० ।। पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् । तत्सूत्रं च समादाय शरावयुग संपुटम् ।। ४१ ।। कृत्वासंपात होमंच तत्सूत्रं मण्डलाधिपे । निवेद्य तस्य रक्षार्थं शिवकुंभान्तिकं न्यसेत् ।। ४२ ।। प्रणतिं कारयित्वा च शिवेन शिवकुंभके । आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ।। ४३ ।। पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् । शुचौ सावरणे देशे विविक्ते लेपिते भुवः ।। ४४ ।। पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया । भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ।। ४५ ।। निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् । अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ।। ४६ ।। उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना । चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ।। ४७ ।। तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् । चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ।। ४८ ।। अष्टग्रासप्रमाणंतु पुटके ब्रह्मवृक्षके । मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ।। ४९ ।। अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः । शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ।। ५० ।। कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् । मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ।। ५१ ।। राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः । आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ।। ५२ ।। अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् । मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ।। ५३ ।। इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् । स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ।। ५४ ।। सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च । पूर्वयाम्योत्तमाङ्गासु शययासु कुशभस्मना ।। ५५ ।। परस्परमलग्नासु सोपधानासु पार्श्वतः । चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ।। ५६ ।। अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसंख्यया । हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ।। ५७ ।। वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः । अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः संकल्प्य बाह्यतः ।। ५८ ।। स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ । दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ।। ५९ ।। चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये । विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ।। ६० ।। प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् । प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ।। ६१ ।। निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके । शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ।। ६२ ।। चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् । पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ।। ६३ ।। अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः । शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ।। ६४ ।। घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः । शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ।। ६५ ।। आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे । अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ।। ६६ ।। करोम्यनुग्रहं देव शिशो रध्येषयेदिति । लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ।। ६७ ।। निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् । पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ।। ६८ ।। कालाग्निरथकुऽऽमाण्डं हाडकं ब्राह्मवैष्णवौ । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ।। ६९ ।। कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।। ७० ।। अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। ७१ ।। याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ।। ७२ ।। निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।। ७३ ।। बलो ह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। ७४ ।। मेघनादः सुनादश्च दशमः परिकीर्तितः । शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ।। ७५ ।। पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ।। ७६ ।। लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः । विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ।। ७७ ।। सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः । वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।। ७८ ।। ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ । शंभुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।। ७९ ।। संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः । वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ।। ८० ।। कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले । याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ।। ८१ ।। बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ।। ८२ ।। वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः । भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ।। ८३ ।। एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः । नमोद्वयं प्रणवं षडक्षरमतः परम् ।। ८४ ।। सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा । शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ।। ८५ ।। पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् । साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ।। ८६ ।। अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित । ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ।। ८७ ।। सर्वभूतसुखप्रद भवोद्भवपदं ततः । भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ।। ८८ ।। मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् । महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ।। ८९ ।। महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः । निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ।। ९० ।। ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् । इत्युच्चार्य निवृत्तिं तु सूत्रात्संग्राह्य पावले ।। ९१ ।। आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् । मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ।। ९२ ।। भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः । तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ।। ९३ ।। वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् । हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ।। ९४ ।। संनिधीभव देवेशि पश्वनुग्रहकर्मणि । प्रार्थैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ।। ९५ ।। अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च । स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ।। ९६ ।। अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया । आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ।। ९७ ।। तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् । सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ।। ९८ ।। पूरकेन हृदि स्वस्य संनिवेश्य च कुम्भकम् । कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ।। ९९ ।। आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया । सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ।। १०० ।। स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् । भगवन् देव देवेश शिशोस्सर्वासु योनिषु ।। १०१ ।। संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् । निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ।। १०२ ।। भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच । सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ।। १०३ ।। ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् । भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ।। १०४ ।। इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च । मूलहुतित्रयं दत्वा शिवंप्रतिवदेदिदम् ।। १०५ ।। भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति । कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ।। १०६ ।। भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ । कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ।। १०७ ।। प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु । देशतः कालतश्चैव देहेन विषयेण च ।। १०८ ।। संचितागामिभेदेन भोगन्नाना विधं स्मरन् । भोक्तृत्व लिंगितेपुंसि सुखदुःखात्मवेदनम् ।। १०९ ।। मूलाहुतित्रयं दत्वा शिवंसंप्रार्थयेदिति । भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ।। ११० ।। परमप्रीति रूपं च भोगेषु संस्मरन् । शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ।। १११ ।। लयंच कुरु कुर्वीति शिशोः निर्वाण कर्मणि । जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ।। ११२ ।। हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् । सर्वकर्मसु शुद्धिंच निष्कृत्या कुरु कुर्वणोः ।। ११३ ।। भगवन्निति विश्लेषम् भोगाभावादणोरिह । बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ।। ११४ ।। मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् । मलकार्यंच भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ।। ११५ ।। दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् । मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ।। ११६ ।। अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह । स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ।। ११७ ।। भगवन्नात्मनो मायाफल कर्मात्मकं त्विह । विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ।। ११८ ।। ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु । अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ।। ११९ ।। आहुतीनां त्रयं दत्वा निवृत्तिछेदननंत्विह । भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ।। १२० ।। अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः । संभाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ।। १२१ ।। ओंब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत् । शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ।। १२२ ।। आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः । कारणेशत्वयानास्य धातुः पदमनामयम् ।। १२३ ।। प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी । ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ।। १२४ ।। निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् । ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ।। १२५ ।। निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः । कुरुकुर्वीति संहारमुद्रया पूरकेन तु ।। १२६ ।। कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् । आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ।। १२७ ।। वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत् । आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ।। १२८ ।। अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् । त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ।। १२९ ।। गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च । पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ।। १३० ।। मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् । तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ।। १३१ ।। चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च । अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ।। १३२ ।। अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः । डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ।। १३३ ।। हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ । मध्यमेशो महाकालः केदारो भैरवस्तथा ।। १३४ ।। गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा । विमलेशोऽट्टहासश्च महेन्द्रो भीमसंज्ञकः ।। १३५ ।। वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः । गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।। १३६ ।। झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ।। १३७ ।। पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ।। १३८ ।। अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ । कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ।। १३९ ।। अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि । गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ।। १४० ।। झगलण्डाद्यहंकारे पैशाचाद्यं मनौस्थितम् । प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ।। १४१ ।। महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः । महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ।। १४२ ।। ततश्शर्वपदंचोक्तं शिवेति च ततः परम् । निधनोद्भवसंज्ञं च निधनाख्य पदं ततः ।। १४३ ।। अनिधनपदं चैवम् ओंस्वक्षःपदमतः परम् । ओंभुवश्चपदं चान्यदोंभूः पदमतः परम् ।। १४४ ।। चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः । अनादे तुपदं चान्यदभस्मेति पदं ततः ।। १४५ ।। अधूमपदमन्यच्च अनग्नीति पदं ततः । अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ।। १४६ ।। तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि । अरूपिन् पदयुग्मंच पदान्येकं च विंशतिः ।। १४७ ।। प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् । इत्युक्त संख्यत त्वार्णंपदमन्त्रैस्त्रिविष्टपैः ।। १४८ ।। गर्भितां तामनुस्मृत्य संतधीतोपभुक्त्या । शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ।। १४९ ।। वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् । सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ।। १५० ।। ओं ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् । नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ।। १५१ ।। कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् । निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ।। १५२ ।। हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् । कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ।। १५३ ।। रागो नियतिविद्ये च कलाकालौ च मोहिनी । ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ।। १५४ ।। मन्त्रश्शिखा पुराणीह सप्तविंशतिसंख्यया । वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ।। १५५ ।। प्रचण्डोमापती चाजोऽनन्तैकशिवसंज्ञकौ । क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ।। १५६ ।। पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः । वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ।। १५७ ।। एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः । षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ।। १५८ ।। अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि । पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ।। १५९ ।। व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् । परमेश्वर परायेति पदं चैव पुनर्भवेत् ।। १६० ।। ज्योतिरूपायसंज्ञं च सर्वयोगाद्यमेव च । पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ।। १६१ ।। गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः । पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ।। १६२ ।। शिवायेति पदं सर्वप्रभवेति ततः । शिवायेति पदं पश्चाद् ओं पदमन्ततः ।। १६३ ।। ध्यानाहारायसंज्ञं च कीर्तितानि पदानि च । संधानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ।। १६४ ।। निष्कृतिं शिखया दत्वा शतहोमं विधाय च । रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ।। १६५ ।। भवाख्यं पदमेतत्तु कलात्रितयगोचरम् । भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ।। १६६ ।। अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् । बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ।। १६७ ।। अनुकूलमसंकीर्णमनासक्तिनिबन्धनम् । विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ।। १६८ ।। तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः । वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ।। १६९ ।। वामा ज्येष्ठा च रौद्री च काली कलविकरणी । बलविकरणी चैव बलप्रमथनीत्यपि ।। १७० ।। सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् । पुराणि नव विद्यायामनन्तस्सूक्ष्मसंज्ञकः ।। १७१ ।। शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ।। १७२ ।। सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु । एकादशपदान्यासन्नित्यंयोगिन इत्यपि ।। १७३ ।। योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः । ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ।। १७४ ।। अनाथायपदं प्रोक्तमनन्तायपदं पुनः । शिवायेतिपदं सर्वव्यापिने च पदं ततः ।। १७५ ।। व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च । निष्कृतौ शतहोमं तु कवचेन समाचरेत् ।। १७६ ।। सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती । ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ।। १७७ ।। शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् । बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ।। १७८ ।। ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।। १७९ ।। पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् । इन्धिका दीपिका चैव रोचिका मोचिका तथा ।। १८० ।। तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु । व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ।। १८१ ।। अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता । भुवनानि तु शाक्तानि पञ्चैव कथितानि च ।। १८२ ।। एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् । ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ।। १८३ ।। संपूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् । कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।। १८४ ।। निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् । अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ।। १८५ ।। ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् । समयं समयाचारं शक्तो पाशात्मके न्यसेत् ।। १८६ ।। समयं समयाचारपाशशुद्धिं महेश्वर । शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ।। १८७ ।। शिवबीजं समुच्चार्य सदाशिवपदं पुनः । मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ।। १८८ ।। पूर्ववत्संविसृज्यात्म सूत्रं संगृह्य निर्मलम् । रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ।। १८९ ।। शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् । संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ।। १९० ।। पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् । शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ।। १९१ ।। आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः । आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ।। १९२ ।। नमः प्रणवसंयुक्तमुक्त्वा संपूज्य सन्निधौ । विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ।। १९३ ।। सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् । सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ।। १९४ ।। मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति । शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ।। १९५ ।। शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः । मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ।। १९६ ।। अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् । ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ।। १९७ ।। संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् । छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ।। १९८ ।। आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् । स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ।। १९९ ।। ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि । प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ।। २०० ।। अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः । यावत्वयं परं धाम भगवन् परमेश्वर ।। २०१ ।। शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् । एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ।। २०२ ।। समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसंमुखम् । शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ।। २०३ ।। अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् । सकलीकृतमन्त्राणामेकैकाहुतिदानतः ।। २०४ ।। सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे । विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ।। २०५ ।। इन्धिका दीपिका चैव रोचिका मोचिका तथा । तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ।। २०६ ।। बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः । आभिः कलाभिस्संकॢप्तदेहयुग्देशिकोत्तमः ।। २०७ ।। व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता । अनाथानाश्रिता चेति बहिः करणसंयुतः ।। २०८ ।। अन्तः करणसंयुक्तस्समनाकल्पितं च तत् । आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ।। २०९ ।। कृत्वा पूरककुम्भौ तु जिह्वासंबद्धतालयुक् । ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ।। २१० ।। सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि । नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ।। २११ ।। सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसंनिभम् । संभाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ।। २१२ ।। शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु । व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ।। २१३ ।। समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया । शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ।। २१४ ।। योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् । तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ।। २१५ ।। यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः । साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ।। २१६ ।। न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते । स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ।। २१७ ।। होमयेद् देशिको धीमान् प्रयोगेणामुना यथा । सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ।। २१८ ।। अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् । आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ।। २१९ ।। इत्येवं कथिता दीक्षा सर्वपापविमोचनी । चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ।। २२० ।। न्यायजा गूढजाता वा दीक्षायामधिकारिणः । जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकांक्षिणः ।। २२१ ।। दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया । अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ।। २२२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः पटलः २४ चतुर्विंशत्तमे पटले आचार्याभिषेक विधिः अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि । आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ।। १ ।। यत्र विप्राः सदाचाराः यतयश्च तपोधनाः । सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ।। २ ।। एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः । ककाराष्टक निर्मुक्तः प्रसंङ्गात् सोऽपि कथ्यते ।। ३ ।। कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः । कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ।। ४ ।। आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु । विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ।। ५ ।। दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे । स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ।। ६ ।। व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके । सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ।। ७ ।। विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च । ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ।। ८ ।। वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते । स्वार्थेष्टौ चल लिंगस्य प्रतिष्ठायां त्रयस्विमे ।। ९ ।। शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके । बाणलिंगेक्षणेवापि स्थापको यदि नैष्ठिकः ।। १० ।। आचार्यं गौलकं चैव दयित परिवर्तकम् । तथैव पारवेत्तारं देवलं च पुनर्भवत् ।। ११ ।। अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा । खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ।। १२ ।। अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा । असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ।। १३ ।। अथव्यसनिनं पारदारिकं वृषलीपतिम् । चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ।। १४ ।। परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् । परापवाद शीलं च तथा बहुकिणैर्वृतम् ।। १५ ।। सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् । बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ।। १६ ।। चपलं शठसञ्जारं वृद्ध्या जीवन मेव च । शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ।। १७ ।। सांख्ये विविधभेदे च मायावादेऽर्हतो मते । बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ।। १८ ।। अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके । सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ।। १९ ।। भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च । सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ।। २० ।। काव्य नाटकसक्तं च भरते तु निरन्तरम् । कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरं ।। २१ ।। ज्योतिज्ञानपरंवेद पुराणहित चेतसम् । तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ।। २२ ।। कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ।। २३ ।। शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च । चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ।। २४ ।। शैवार्थ देहिके हित्वा विचारं सन्ततं नरः । योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ।। २५ ।। अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् । अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ।। २६ ।। दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् । समान गोत्र संबन्धं कुसुमाक्षं च वर्जयेत् ।। २७ ।। इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि । अभिषेकं ततःकुर्यात् अंकुरार्पण पूर्वकम् ।। २८ ।। पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ । मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ।। २९ ।। अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् । चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ।। ३० ।। स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् । भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ।। ३१ ।। लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया । बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ।। ३२ ।। काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः । सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ।। ३३ ।। नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् । घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ।। ३४ ।। स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् । चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ।। ३५ ।। सदेशानेन विद्येशैः नवपञ्चपवित्रकैः । पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ।। ३६ ।। शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् । अथवा कलशानेकघटं वा शिव संयुतम् ।। ३७ ।। दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् । भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ।। ३८ ।। स्वासनेन तथा सम्यक् अर्चितं विभवेन वा । वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ।। ३९ ।। शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः । परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ।। ४० ।। सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च । आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ।। ४१ ।। पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् । आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ।। ४२ ।। ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः । करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ।। ४३ ।। दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः । पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ।। ४४ ।। राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः । आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ।। ४५ ।। दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ । तथैवं देव देवाय देशिकाय मयाकृतम् ।। ४६ ।। त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति । विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ।। ४७ ।। निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् । स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ।। ४८ ।। दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् । हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ।। ४९ ।। तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् । शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ।। ५० ।। अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः । तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ।। ५१ ।। अनेनैव प्रकारेण साधकं चाभिषेचयेत् । किंतु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ।। ५२ ।। दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः । सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ।। ५३ ।। जात्युद्धार विहीनो यस्सामान्य समयी भवेत् । तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ।। ५४ ।। दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः । न तु लिंगार्चने योग्याः किमु दीक्षादि कर्मणि ।। ५५ ।। शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् । शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ।। ५६ ।। शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते । मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ।। ५७ ।। शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् । बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ।। ५८ ।। भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ।। ५९ ।। भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते । सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ।। ६० ।। अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते । योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ।। ६१ ।। कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् । स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ।। ६२ ।। व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् । व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ।। ६३ ।। पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते । सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ।। ६४ ।। शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः । आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ।। ६५ ।। वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः । पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ।। ६६ ।। मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः । समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ।। ६७ ।। आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् । आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ।। ६८ ।। लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः । प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ।। ६९ ।। स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् । प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ।। ७० ।। स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च । यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ।। ७१ ।। स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते । आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ।। ७२ ।। तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया । स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ।। ७३ ।। अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति । आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ।। ७४ ।। साधकश्च तथा भूतस्सर्वकर्माणि शंसितः । महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ।। ७५ ।। नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् । लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ।। ७६ ।। मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् । संहिता पारगो वाथ लक्षाध्याययुपदेशतः ।। ७७ ।। संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका । शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ।। ७८ ।। सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् । चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ।। ७९ ।। पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ।। ८० ।। सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते । तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ।। ८१ ।। सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् । अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ।। ८२ ।। वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः । वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ।। ८३ ।। सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् । तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ।। ८४ ।। शब्दशास्त्रमलंकारो निरुक्तं छन्द एव च । कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ।। ८५ ।। आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च । लोकायतं तथा सांख्य मार्हतो मतमेव च ।। ८६ ।। मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् । वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ।। ८७ ।। तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् । धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ।। ८८ ।। रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् । न्याय वैशेषिकं सांख्यं सेश्वरं यत् प्रणीतवान् ।। ८९ ।। ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् । पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ।। ९० ।। सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् । ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ।। ९१ ।। पश्चिमं वाम संज्ञं तु वामाद्दक्षिणमुत्तमम् । दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ।। ९२ ।। पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः । सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ।। ९३ ।। अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः । सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ।। ९४ ।। सिद्धान्त विहिताचारो वैदिकाचार उच्यते । गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ।। ९५ ।। तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् । तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ।। ९६ ।। युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च । दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ।। ९७ ।। तथा पुंसवनादिश्च शैव आवश्यको मतः । तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ।। ९८ ।। क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये । वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ।। ९९ ।। भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः । वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ।। १०० ।। निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया । हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ।। १०१ ।। शैव कर्म समायुक्ता शैवे शैवी च केवला । श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ।। १०२ ।। आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च । सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ।। १०३ ।। गर्भाधानादिके वापि दहने श्राद्ध कर्मणि । अष्टका करणे वापि नित्यनैमित्तिकेपि वा ।। १०४ ।। वेदाध्ययन संस्कारे सोमयागादिकेपि वा । वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ।। १०५ ।। तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् । कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ।। १०६ ।। विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् । संग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ।। १०७ ।। शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा । वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ।। १०८ ।। तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि । सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ।। १०९ ।। शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः । तदापि वैदिकं वेदसार मित्यादि वाक्यतः ।। ११० ।। शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः । सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ।। १११ ।। स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते । कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ।। ११२ ।। कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् । अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ।। ११३ ।। अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् । सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रंदक्षिणाननम् ।। ११४ ।। अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् । विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ।। ११५ ।। स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत् । वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ।। ११६ ।। मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् । चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिंबमन्यतः ।। ११७ ।। प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् । जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ।। ११८ ।। जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् । किरणं तल मित्युक्तं वातुलं वामकं तलम् ।। ११९ ।। सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः । ऋषय ऊचुः पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ।। १२० ।। इत्यादि कथितं देव परस्परविरोधनं । ईश्वर उचाच बहुधा कथितं विप्राः भवद्भिरवधारितम् ।। १२१ ।। मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् । तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ।। १२२ ।। सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् । भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ।। १२३ ।। निराकारं भवेज्ज्ञानं संकरं तदुपास्यतः । परस्पर विरोधीति मतिहीनैः प्रबाध्यते ।। १२४ ।। ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः । न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ।। १२५ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा । न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ।। १२६ ।। उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः । कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ।। १२७ ।। दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः । विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ।। १२८ ।। रौरवान्मुख बिंबान्ता वामदेव मुखोद्भवाः । प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ।। १२९ ।। तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः । अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ।। १३० ।। स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः । अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ।। १३१ ।। विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता । हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ।। १३२ ।। विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् । विशिष्टे विद्यमाने च हठादज्ञेन कारिते ।। १३३ ।। साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता । तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ।। १३४ ।। कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् । लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ।। १३५ ।। द्रव्यं करोति सुमुखं सर्वलोकसमं यशः । ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ।। १३६ ।। तद्वित्तमाहृतं येन स पापी च स दुर्मतिः । नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ।। १३७ ।। इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः चतुर्विंशतितमः पटलः २४ ज्ञानदीक्षाविधिः ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः । सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ।। १ ।। एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे । सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ।। २ ।। शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे । शुद्धदेशे सुखासीनः पञ्चगोचरसंभवः ।। ३ ।। दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे । सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ।। ४ ।। स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि । गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ।। ५ ।। पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् । षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ।। ६ ।। ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।। ७ ।। दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसंनिधौ । सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ।। ८ ।। गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् । अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ।। ९ ।। तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् । प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ।। १० ।। तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् । पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ।। ११ ।। सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् । नवमं शिवयोगं च दशमं शिवभोगकम् ।। १२ ।। त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् । गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ।। १३ ।। इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ।। १३१/२ ।। २५ पञ्चविंशत्तमे पटले गोत्र निर्णय विधिः ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ।। १ ।। ऊनपञ्चाशदेवैषां संख्या स्यान्महतामिह । कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ।। २ ।। अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः । अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ।। ३ ।। शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः । शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ।। ४ ।। कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः । गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ।। ५ ।। क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा । नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ।। ६ ।। आदिशैवे यथा गोत्रमनुशैवे तथामतम् । किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ।। ७ ।। जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः । उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ।। ८ ।। प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः । कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ।। ९ ।। धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः । अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ।। १० ।। पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः । लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ।। ११ ।। भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः । ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ।। १२ ।। उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः । मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ।। १३ ।। पराशरस्ततोऽगस्त्यस्साम्बवाहनसंज्ञकाः । सोमवाहनसंज्ञाश्च यज्ञवाहास्ततो मताः ।। १४ ।। वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा । वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ।। १५ ।। हारिताः संकृतिश्चैव पश्चाद्रथीतरा मताः । मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ।। १६ ।। कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः । पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ।। १७ ।। तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः । कान्तका बाष्पका वाच्युकिता लोमका धनाः ।। १८ ।। साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् । यम दूता आनभिन्ना ततस्तारायणा मताः ।। १९ ।। चौलकायनसंज्ञाश्च जाबाल्युदुम्बरौ मतो । दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ।। २० ।। श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसंज्ञकाः । शालावतां मयूराश्च तथोदुत्सरित्यपि ।। २१ ।। चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसंज्ञकाः । ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ।। २२ ।। येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि । स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ।। २३ ।। पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ।। २४ ।। लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः । जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ।। २५ ।। कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः । विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ।। २६ ।। प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु संमताः । माणा उद्वहला एते रोक्षास्तु कुशिका मताः ।। २७ ।। प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः । माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ।। २८ ।। विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः । श्रौमितो देवतरसः कामकायनिकस्ततः ।। २९ ।। कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः । त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ।। ३० ।। देवश्रावस इत्यन्तो देवतरस इत्यमी । कठाः स्वैरन्ध्रिसंज्ञाश्चकरभाः सहिताः परे ।। ३१ ।। वाजायनाश्च कौकृत्यास्ततो जाणायना मताः । कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ।। ३२ ।। पिण्डिग्रीवास्ततो नारायणा नारद्य संज्ञकाः । एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ।। ३३ ।। विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः । आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ।। ३४ ।। तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः । त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ।। ३५ ।। विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः । आजायनस्ततः प्रोक्त एकवत्सश्च संमतः ।। ३६ ।। त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ।। ३७ ।। अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः । एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ।। ३८ ।। कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः । कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ।। ३९ ।। त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः । ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ।। ४० ।। पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च संमताः । ऋषी द्वौ संमतौ विश्वामित्रः पौरणः इत्यपि ।। ४१ ।। कौशिकाश्च दशाप्येवं न समन्वयगामिनः । काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ।। ४२ ।। ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः । आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ।। ४३ ।। धौमधौम्रायणा औधप्रचुराग्रायणा मताः । रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ।। ४४ ।। कायाताया अकापाया निकामौषनिकिस्तथा । काद्रायणा औज्वलयो रोहितायनसंज्ञकाः ।। ४५ ।। पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च । वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ।। ४६ ।। कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः । कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ।। ४७ ।। वैतम्बा देवयाताश्च महाचक्रेयसंज्ञकाः । पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ।। ४८ ।। वृषगणाश्च पानध्यो दाक्षपायण एव च । हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ।। ४९ ।। जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः । वैशम्पायनसंज्ञाक्ष ततः केशायताः स्मृताः ।। ५० ।। औकायनिस्ततो मार्जायनाः कांसायनाः परे । देवश्च होतसूच्यास्थूणा भागुरयस्तथा ।। ५१ ।। पाथिकार्याः खरेभा ये गोमयातास्ततः परम् । हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ।। ५२ ।। अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि । उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ।। ५३ ।। नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः । काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ।। ५४ ।। त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः । काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ।। ५५ ।। शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः । रभेरव्ययसौमानौ वनसंस्तु करेयुतः ।। ५६ ।। काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः । महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ।। ५७ ।। ततः कामशयः पश्चान्महौजक्य एव च । ततो मौञ्जायनाः प्रोक्तास्ततो गांगायना मताः ।। ५८ ।। वात्सभालय इत्युक्तास्ततो गोमिलसंज्ञकाः । वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ।। ५९ ।। बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः । हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ।। ६० ।। वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् । जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ।। ६१ ।। काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा । काश्यपक्षापवत्सारोऽसितं इत्यथवा त्रयः ।। ६२ ।। शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा । कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ।। ६३ ।। चैरन्घ्रिः पशवश्चिव पयणायनसंज्ञकाः । कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ।। ६४ ।। कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि । कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ।। ६५ ।। सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः । यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ।। ६६ ।। यौधवा याजपा एते लोगाक्षय इति स्मृताः । अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ।। ६७ ।। काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः । पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च संमताः ।। ६८ ।। भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः । देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ।। ६९ ।। ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः । आजा औमाश्च तौदेहाः परिणद्धेधसंज्ञकाः ।। ७० ।। शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः । वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ।। ७१ ।। श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः । ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसंज्ञकाः ।। ७२ ।। पैलाः सौज्ज्वलयः कारुणादयः शुगसंज्ञकाः । भारुण्डेया इषुमतास्तथा वौदोदमेघयः ।। ७३ ।। सौरभरास्तथा भाद्रपथयः परिकीर्तिताः । ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ।। ७४ ।। प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः । वाराहयोः देववेला वलभीगय इत्यपि ।। ७५ ।। भद्राङ्गगतसंज्ञाश्च शालाहलय इत्यपि । नृत्यायना महावेलास्ततः शालालयो मताः ।। ७६ ।। शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा । क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ।। ७७ ।। ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः । सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ।। ७८ ।। स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः । ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ।। ७९ ।। आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च । धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ।। ८० ।। मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः । काब्ल्याः कारुपथयः कारिषायणसंज्ञकाः ।। ८१ ।। भरद्वाजवनौ द्वौ तु ऋषयः पञ्च संमताः । भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ।। ८२ ।। अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः । एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ।। ८३ ।। भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः । स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ।। ८४ ।। सांभरायणसंज्ञाश्च तथा यौगन्धरायणः । सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ।। ८५ ।। ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः । भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ।। ८६ ।। सत्यापचय आख्याता जाणपक्वलसंज्ञकाः । पलाशशाखावन्तस्ते मर्कटायनसंज्ञकाः ।। ८७ ।। ततः संग्रहतुल्याश्च वैधूह्यः कारिरोतयः । त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ।। ८८ ।। पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः । अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ।। ८९ ।। गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः । ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ।। ९० ।। भारद्वाजास्त्रयश्चापि न समन्वयगामिनः । गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ।। ९१ ।। आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः । सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ।। ९२ ।। व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः । कठोरिः कारुणिः कीलालयः पार्थिवसंज्ञकाः ।। ९३ ।। काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः । एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ।। ९४ ।। प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः । शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ।। ९५ ।। ततः क्षीरकम्भाश्च ततः सौमुचयो मताः । सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ।। ९६ ।। राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः । एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ।। ९७ ।। अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः । कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ।। ९८ ।। पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः । ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ।। ९९ ।। पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः । कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ।। १०० ।। पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः । आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ।। १०१ ।। ततो दीर्घतमश्चेति पर्यायाः पञ्च संमताः । कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ।। १०२ ।। बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि । औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ।। १०३ ।। गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः । कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ।। १०४ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः । विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ।। १०५ ।। प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः । अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ।। १०६ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः । तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ।। १०७ ।। अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे । अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ।। १०८ ।। भोजश्चादितिसंज्ञश्च चान्द्रोशीः पार्व इत्यपि । कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ।। १०९ ।। ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः । ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ।। ११० ।। शाम्ब व्यसन संज्ञाश्च कार्मर्यायनयो मताः । ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ।। १११ ।। औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा । ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ।। ११२ ।। गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः । श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ।। ११३ ।। हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः । वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ।। ११४ ।। कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः । अनीलाययनसंज्ञाश्च अङ्गिराश्च ततो मताः ।। ११५ ।। गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः । शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ।। ११६ ।। भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः । त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ।। ११७ ।। अर्चनानस इत्येते ऋषयस्त्रय ईरिताः । तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ।। ११८ ।। अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः । ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ।। ११९ ।। अत्रिरर्चनानसेति गविष्ठिर इति त्रयः । मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ।। १२० ।। वैत भावय इत्येते ऋषयश्च ततो मताः । ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ।। १२१ ।। ततो गौरकयो वायुपूरकाः सायनास्ततः । इत्येते त्रियार्षेयाः स्युर्मुद्गलाः संप्रकीर्तिताः ।। १२२ ।। अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः । चतुर्विधा अप्यात्रेया न समन्वयगामिनः ।। १२३ ।। वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः । वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ।। १२४ ।। आश्वलायनसंज्ञाश्च गविष्ठास्त्वाश्वलयनाः । शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ।। १२५ ।। औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः । कोलायनाश्च को भोजिस्ततः पौलायना मताः ।। १२६ ।। सुन्दहरित इत्युक्तः काण्डेय विधिरेव च । सप्तवेलां इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ।। १२७ ।। एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः । प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ।। १२८ ।। ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः । आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ।। १२९ ।। पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः । सोमरङ्गलिनः कोकास्ततः कापटवा मताः ।। १३० ।। हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च । माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ।। १३१ ।। त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः । वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ।। १३२ ।। उपमन्युरौपगवा मण्डलेखय एव च । जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ।। १३३ ।। त्रैवर्ण वैवशागारिसारक्षा रक्षसंज्ञकाः । शैलालयो महाकर्णानया बालशिखा मताः ।। १३४ ।। औद्दाहमानयो बालानया भागास्ततो मताः । इत्युन्मायन संज्ञाश्च ततः कुण्डोदरायणाः ।। १३५ ।। लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः । अनृक्षर वसंज्ञाश्च कापिला वय एव च ।। १३६ ।। कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः । वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ।। १३७ ।। इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः । ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ।। १३८ ।। भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः । कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ।। १३९ ।। कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः । हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ।। १४० ।। खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः । श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ।। १४१ ।। पराशराः स्युररुणास्ततो भालुक्य संज्ञकाः । बादरिश्च तथा गार्गो वना वै कौकसादयः ।। १४२ ।। इत्येते कथिता पञ्च प्रनीलाश्च पराशराः । ततः सौधवसानाश्च आलंभायन संज्ञकाः ।। १४३ ।। स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः । चोलकायन संज्ञाश्च वार्णवल्कास्तथैव च ।। १४४ ।। पुनर्देवनगौख्याः श्रविष्टायन संज्ञकाः । ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ।। १४५ ।। आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च । कैमीयतय इत्येते पञ्च नीलाः पराशराः ।। १४६ ।। कृष्णाजिना काविशुभास्ततः श्यामायना मताः । ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ।। १४७ ।। श्वेताः पराशराः पञ्च वात्स्यायन एव च । श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ।। १४८ ।। श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः । वसिष्ठ शक्तिसंज्ञश्च पराशर इति त्रयः ।। १४९ ।। सर्वे पराशरास्त्वेते परस्परमयोगिनः । ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ।। १५० ।। शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः । तथौपदहनिश्चैव धावणिर्लावणिस्ततः ।। १५१ ।। लाव्योऽर्बुदोवैरणयो बुधादरय एव च । बोदरिः शैवरतयस्ततः श्यामातयो मताः ।। १५२ ।। ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा । गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ।। १५३ ।। दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे । सांभवाहन संज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५४ ।। दृढच्युतिरगस्त्यश्च सांभवाहस्त्रयस्त्विमे । सोमवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५५ ।। दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे । यज्ञवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ।। १५६ ।। दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे । अगस्तयस्तु चत्वारो नसमन्वियगामिनः ।। १५७ ।। जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः । मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ।। १५८ ।। आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः । शार्कराक्षास्ततो देवतायनाः शौनकायनाः ।। १५९ ।। माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः । पैङ्गलायन संज्ञाश्च पैला दाध्रेषयस्ततः ।। १६० ।। ततो बाह्यकयो वैश्वानरयश्च विलोहिताः । बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ।। १६१ ।। वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ । वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ।। १६२ ।। दधीचयश्च वापाणिस्ततः शैखावताः मताः । वाकायनाः सौकृतयस्ततो बालायना मताः ।। १६३ ।। सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः । ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ।। १६४ ।। जानायना औरक्षयाः काम्बरोदरयस्ततः । कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ।। १६५ ।। वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च । मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ।। १६६ ।। काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः । नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ।। १६७ ।। बाहुमित्रायणा आपिशलयो रोहितायनाः । ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ।। १६८ ।। ततो राजित वाहाश्च ततः शारद्वतायनाः । नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ।। १६९ ।। वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ।। १७० ।। ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि । विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ।। १७१ ।। प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः । ततस्त्वभयजाताः स्युः काण्डरथय एव च ।। १७२ ।। आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः । क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ।। १७३ ।। एते मताः विदा पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ।। १७४ ।। आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च । कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ।। १७५ ।। गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः । आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ।। १७६ ।। भार्गवश्च्यावनश्चाप्नुवानोरथानूपसंज्ञकाः । आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ।। १७७ ।। वत्सानमार्ष्टिषेणानां विदानां च परस्परम् । अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ।। १७८ ।। यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः । वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ।। १७९ ।। दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे । कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ।। १८० ।। सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः । भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ।। १८१ ।। ततः स्युर्भोग चितय एते यस्तका इति स्मृताः । त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ।। १८२ ।। भृगुश्चैव तथा यस्को दिवोदास इति त्रयः । मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ।। १८३ ।। सापिण्डिनो महावाल्या माल्या यावाल्यसंज्ञकाः । पुराभिनाय एजेयास्ततो राक्षायणा मताः ।। १८४ ।। कैतवायनयो माञ्जायना मादायवः स्मृताः । एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ।। १८५ ।। भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः । वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य संज्ञकाः ।। १८६ ।। त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः । भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ।। १८७ ।। शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति । गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ।। १८८ ।। श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः । एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ।। १८९ ।। एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः । यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ।। १९० ।। शुनकानां च संबन्धः कर्तव्य इति गम्यते । अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ।। १९१ ।। भद्रणा भद्रणाश्चैव शठमार्षण संज्ञकाः । शाबरायणसंज्ञाश्च सात्यकिः सात्यकायनाः ।। १९२ ।। बादरायणसंज्ञाश्च वात्स प्रायण संज्ञकाः । आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य संज्ञकाः ।। १९३ ।। देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः । एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ।। १९४ ।। अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा । वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ।। १९५ ।। कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे । मौञ्जिश्च माञ्जयश्चैव मर्कटायन संज्ञकाः ।। १९६ ।। मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः । मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ।। १९७ ।। अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः । हारिताश्च ततः कौत्साः सांख्या दार्भास्तथैव च ।। १९८ ।। शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ । नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ।। १९९ ।। कौतपाः कौलयः कारीषयः पौलय एव च । पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ।। २०० ।। इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः । आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ।। २०१ ।। ततः संकृतयस्तण्डिः शंभुश्च मलकास्ततः । पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ।। २०२ ।। हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः । चारायणाः पूतिभाषास्तत आग्रायणा मताः ।। २०३ ।। चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी । प्रोक्ता संकृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ।। २०४ ।। अङ्गिराः संकृतिश्चाम्बरीषश्च ऋषयस्त्रयः । रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ।। २०५ ।। शैलालयश्च लैभिश्च ततो लीभायना मताः । मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ।। २०६ ।। ततो हेमशता ह्येते त्रियार्षेया रथीतराः । अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ।। २०७ ।। अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् । मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ।। २०८ ।। ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः । ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ।। २०९ ।। त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः । हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ।। २१० ।। ऐतिशायन संज्ञाश्च तरस्विश्च पतञ्जलि । मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ।। २११ ।। ततः करशिखण्डश्च ततो मौषींतकिर्मतः । तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ।। २१२ ।। त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः । अङ्गिराश्च कपित्थाश्च अंबरीष इति त्रयम् ।। २१३ ।। विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् । राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ।। २१४ ।। क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः । वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ।। २१५ ।। आत्रेयश्चैव वाध्रेयो वाधूलश्चापि संकृतिः । वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ।। २१६ ।। नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह । अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ।। २१७ ।। समानगोत्रप्रवराञ्ज्ञात्वा संबन्धमाचरेत् । समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ।। २१८ ।। ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् । तस्याश्च रक्षणंकार्यमाहाराच्छादनादिभिः ।। २१९ ।। विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् । तयासह प्रमादेन संयोगाद्यं कृतं यदि ।। २२० ।। प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते । सकृदागमने कुर्यात् तेन चान्द्रायणेन च ।। २२१ ।। सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् । एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ।। २२२ ।। मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् । षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ।। २२३ ।। तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् । निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ।। २२४ ।। तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः । तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ।। २२५ ।। उपवासस्तदा स्नानं पञ्चगव्याशनं जपः । होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ।। २२६ ।। साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके । चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ।। २२७ ।। त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् । द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ।। २२८ ।। इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः पञ्चविंशतितमः पटलः २६ षड्विंशत्तमे पटले शताभिषेकविधिः शताभिषेकं वक्ष्येहं संक्षेपात् द्विजसत्तमाः । अकालमृत्यु मथनं आयुरारोग्यवर्धनम् ।। १ ।। वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् । दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ।। २ ।। उत्तरायण कालेतु शुक्लपक्षे विशेषतः । सुलग्ने च सुवारे च सुतिथौ शोभने दिने ।। ३ ।। स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः । मङ्गलाङ्कुर संयुक्ते मण्डपे समलंकृते ।। ४ ।। कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे । पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ।। ५ ।। मुखायामयुते वापि चतुर्द्वार समन्विते । एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ।। ६ ।। ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा । अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ।। ७ ।। राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ।। ८ ।। पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् । अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ।। ९ ।। कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः । तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ।। १० ।। प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् । तद्रात्रौ तु पयः पीत्वा शययायां कम्बलादिभिः ।। ११ ।। कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः । मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ।। १२ ।। विसृज्य शिल्पिनंपश्चात् पुण्याहं वाचयेद्गुरुः । पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ।। १३ ।। शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् । तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ।। १४ ।। परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम् । चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ।। १५ ।। अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः । तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ।। १६ ।। वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् । अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ।। १७ ।। त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः । आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ।। १८ ।। अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः । शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ।। १९ ।। तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् । अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ।। २० ।। मध्यमे शिवकुंभं तु द्वात्रिंशत्प्रस्थपूरितम् । वर्धनी च तदर्धेन पूरिता शिवपूरिताः ।। २१ ।। बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः । त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ।। २२ ।। अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् । पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ।। २३ ।। चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् । नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ।। २४ ।। नानागन्धसमायुक्तं नानाबीजसमन्वितम् । नानाधातुसमायुक्तं नानालोहसमन्वितम् ।। २५ ।। नानादिगौषधोपेतं नानाफलसमन्वितम् । नानापुष्पसमायुक्तं नानागव्यसमायुतम् ।। २६ ।। संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः । अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ।। २७ ।। पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः । वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ।। २८ ।। नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् । प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ।। २९ ।। हिरण्यं रजतं ताम्रमारकूटं च सीसकम् । आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ।। ३० ।। द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् । अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ।। ३१ ।। रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च । जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ।। ३२ ।। कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् । ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ।। ३३ ।। पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसंभवाः । बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसंभवाः ।। ३४ ।। औदुम्बरी च नारङ्गंमातुलुङ्गसमुद्भवाः । वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ।। ३५ ।। आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः । नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ।। ३६ ।। सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके । उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ।। ३७ ।। वकुलं करवीरं च पाटलं कुरवं तथा । मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ।। ३८ ।। चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः । चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ।। ३९ ।। तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् । नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ।। ४० ।। वैष्णवं माषनीवार गोधूमं यवमेव च । अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ।। ४१ ।। श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः । लक्ष्मीश्च शंखपुष्पी च विष्णुक्रान्तिश्च हंसिनी ।। ४२ ।। तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी । सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ।। ४३ ।। पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च । गोमयं नालिकेरं त मातुलुङ्गफलं तथा ।। ४४ ।। नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च । दाडिमीसंभवं चैव न्यस्तव्याः क्रमशस्ततः ।। ४५ ।। गन्धोदकमथैशान्यां कलशेषु नवस्वपि । एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ।। ४६ ।। आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः । वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ।। ४७ ।। पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकं एव च । मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ।। ४८ ।। पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् । मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ।। ४९ ।। बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् । दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ।। ५० ।। मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके । उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ।। ५१ ।। अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् । पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ।। ५२ ।। गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः । नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ।। ५३ ।। समिदाज्यचरू/ल्लाजतिलवैणव माषकान् । जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ।। ५४ ।। उदुम्बरवटाश्वत्थप्लक्षा इंद्रादिदिषु च । शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ।। ५५ ।। पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् । सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ।। ५६ ।। शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः । ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ।। ५७ ।। होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च । गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ।। ५८ ।। अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् । किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ।। ५९ ।। वर्धन्यां च यजेद् गौरीमशेषकलशेषु च । पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ।। ६० ।। दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् । कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ।। ६१ ।। सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् । प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ।। ६२ ।। सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् । पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ।। ६३ ।। आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणेवेन तु । पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ।। ६४ ।। कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते । कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ।। ६५ ।। भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे । पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ।। ६६ ।। सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् । अन्येषामपि सर्वेषां शतधारावटेन वा ।। ६७ ।। हैमेन राजनेतापि तथोरन्यतरेण वा । सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ।। ६८ ।। स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा । गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ।। ६९ ।। विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् । तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ।। ७० ।। स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् । सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ।। ७१ ।। स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् । आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ।। ७२ ।। गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् । पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ।। ७३ ।। स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् । स्थापयित्वा सवत्सांगां दर्शयेच्च पयस्विनीम् ।। ७४ ।। बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः । सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ।। ७५ ।। आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् । गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ।। ७६ ।। पूणकुम्भयुते दीपसंयुते फलकोपरि । स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ।। ७७ ।। कारयित्वा ततः स्त्रीभिः रजनीजलधारया । दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ।। ७८ ।। ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति । श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ।। ७९ ।। पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा । एकेनवाभिषेकं तु कारयेदभिषेचनम् ।। ८० ।। दक्षिणां च गुरोर्दद्दादुत्तमादिषु संभवाम् । दासीदासं भुवं गां च गृहोपकरणानि च ।। ८१ ।। मूर्तिपानां तदन्ते च तदन्ते जापिनामपि । स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ।। ८२ ।। पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च । एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ।। ८३ ।। इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् । आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ।। ८४ ।। यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ८५ ।। नोपसर्गभयं तत्र न परागमविप्लवः । स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ।। शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ।। ८६ ।। इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः षड्विंशतितमः पटलः २७ सप्तविंशत्तमे पटले अन्त्येष्टिविधिः अन्त्येष्टिं संप्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः । ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ।। १ ।। आचार्यसाधका वास्युः पुत्रका समयस्थिताः । गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ।। २ ।। आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता । अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ।। ३ ।। आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः । प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ।। ४ ।। तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् । परिहृत्य निषिद्धे च यैस्तेषां अप्रमादिनाम् ।। ५ ।। तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते । सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ।। ६ ।। यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् । यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ।। ७ ।। विधायस्नानमाग्नेयं मन्त्र संनद्ध विग्रहम् । मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ।। ८ ।। अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे । स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ।। ९ ।। संस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् । स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ।। १० ।। तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ । दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ।। ११ ।। नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् । एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ।। १२ ।। एकधा बहुधा वापि क्रियामेनां समाचरेत् । पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ।। १३ ।। विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा । एतत् सर्वं विधेयं तु देशिकेनतरेण वा ।। १४ ।। तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् । गत प्राणे नरे तस्य स्नानार्थं तीर्थ संभवम् ।। १५ ।। जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा । तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ।। १६ ।। विधायैवं घटान्वापि कलशान् स्नपनोक्तितः । संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ।। १७ ।। स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् । पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ।। १८ ।। स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् । अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ।। १९ ।। कृत्वा संहारमार्गेण कौपीनं वसनं तथा । परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ।। २० ।। दीक्षितानामथान्येषां शिवशासनधारिणाम् । अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ।। २१ ।। ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा । आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ।। २२ ।। पुरुषायतमानां च षडङ्गुलविवर्धनात् । त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ।। २३ ।। सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठराम्द । आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ।। २४ ।। रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् । इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ।। २५ ।। निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः । शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ।। २६ ।। स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना । संघेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ।। २७ ।। शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् । तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ।। २८ ।। निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः । दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ।। २९ ।। दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् । दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ।। ३० ।। जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् । वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ।। ३१ ।। वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् । सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ।। ३२ ।। व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् । विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ।। ३३ ।। गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च । ईप्सितं सुखमाप्नोति परत्रेह च भावितः ।। ३४ ।। नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः । अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ।। ३५ ।। असहायमनाथं च गतासुं शिवयोगिनम् । नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ।। ३६ ।। वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः । अथ स्थानमदूरस्थमुदकस्य समं शुचि ।। ३७ ।। प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे । षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ।। ३८ ।। कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले । संकल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ।। ३९ ।। हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् । कुण्डंदक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ।। ४० ।। गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् । शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ।। ४१ ।। प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः । विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ।। ४२ ।। कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् । तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनः ।। ४३ ।। आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना । ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ।। ४४ ।। संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् । विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ।। ४५ ।। समाहृत्य विधानेन चितावास्तु प्रपूजयेत् । पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ।। ४६ ।। पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते । वंशरज्ज्वादिसंपन्नै विन्यसेद्वास्तुदेवताः ।। ४७ ।। तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके । नैऋत्यां वारिणा संपन्ने विष्णुं कोष्ठचतुष्टये ।। ४८ ।। आग्नेययामग्निना सार्धं रुद्रं कोष्ठचतुष्टये । वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ।। ४९ ।। गगनेन सदेशानमैशकोष्ठचतुष्टये । पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ।। ५० ।। निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् । ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ।। ५१ ।। शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च । निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ।। ५२ ।। तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् । ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ।। ५३ ।। मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् । व्युत्क्रमासनमिष्ट्वैवं साङ्गं संपूज्य शङ्करम् ।। ५४ ।। संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च । क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ।। ५५ ।। संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे । शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ।। ५६ ।। साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः । अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ।। ५७ ।। संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः । चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ।। ५८ ।। रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः । तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ।। ५९ ।। आग्नेययादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् । ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ।। ६० ।। पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् । अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ।। ६१ ।। शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु । शवशययां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ।। ६२ ।। चन्दनागरुसंमिश्रैर्विपर्यस्तपटावृताम् । संपूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ।। ६३ ।। कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा । स्नापितं धूपितं तत्र भस्मना नववर्त्मना ।। ६४ ।। सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया । आग्नेययां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ।। ६५ ।। वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः । ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ।। ६६ ।। भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् । महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ।। ६७ ।। ओं हूं हामथ हं हां हूं महाजालमिदं मतम् । उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ।। ६८ ।। विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः । सषडंगंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ।। ६९ ।। चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् । निवृत्यादि समादाय युगपद्वा क्रमेण वा ।। ७० ।। कलास्तास्साधिपाः प्राग्वद्वह्नौ संपूजयेत्ततः । ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ।। ७१ ।। योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः । भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ।। ७२ ।। तिरोभावः पशुत्वस्य पाशविश्लेष भेदने । तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ।। ७३ ।। विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा । एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ।। ७४ ।। उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि । अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ।। ७५ ।। यदाक्तो न पुनर्जातु पराधीनो भवेदणुः । कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ।। ७६ ।। विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः । स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ।। ७७ ।। शवमभ्येत्य शययायामारोप्य प्रावृतं कुशैः । याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ।। ७८ ।। आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् । तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ।। ७९ ।। संछाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् । मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ।। ८० ।। सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् । गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ।। ८१ ।। पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् । त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ।। ८२ ।। गृहाण मन्त्रसंपूतां शाव्यामेनां महाहुतिम् । प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ।। ८३ ।। नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः । अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ।। ८४ ।। उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् । धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ।। ८५ ।। अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि । क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ।। ८६ ।। ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् । तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ।। ८७ ।। शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् । स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ।। ८८ ।। उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः । भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ।। ८९ ।। अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् । द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ।। ९० ।। शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् । विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। ९१ ।। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ।। ९२ ।। शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया । निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ।। ९३ ।। विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते । जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ।। ९४ ।। शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा । स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ।। ९५ ।। अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया । अविद्यमानदेहानां तथा विकलदेहिनाम् ।। ९६ ।। क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् । कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ।। ९७ ।। विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् । दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ।। ९८ ।। क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् । इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ।। ९९ ।। कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः । कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ।। १०० ।। प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः । अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ।। १०१ ।। किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् । भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ।। १०२ ।। दहनं मरणं येषां तत्कुलक्षयकारणम् । तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ।। १०३ ।। नृणामकृतचूडानां मृतानामवटक्रिया । न तेषां दहनं नैव बलिर्नैवोदकक्रिया ।। १०४ ।। नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया । ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ।। १०५ ।। यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया । लवणापूरणोपेता विना बल्युदकौदनैः ।। १०६ ।। कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् । प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ।। १०७ ।। दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः । कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ।। १०८ ।। सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् । आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ।। १०९ ।। बाहुमात्रं खनेद्भूमिं तच्छययायामविस्तराम् । न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ।। ११० ।। तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा । योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ।। १११ ।। लवणेनाथवापूर्य तत्समीपप्रदेशतः । तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ।। ११२ ।। बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् । तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ।। ११३ ।। अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् । भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ।। ११४ ।। अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् । समा वातीत्य भर्ता तु यदि देशान्तरं गतः ।। ११५ ।। द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् । मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ।। ११६ ।। वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः । पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ।। ११७ ।। मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् । होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ।। ११८ ।। श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना । नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ।। ११९ ।। तण्डुलं क्षीरसंमिश्रं वामदेवेन निक्षिपेत् । अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ।। १२० ।। स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह । वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ।। १२१ ।। दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् । त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ।। १२२ ।। तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् । स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ।। १२३ ।। यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः । तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ।। १२४ ।। इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया । अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ।। १२५ ।। प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः । पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ।। १२६ ।। प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् । पञ्चसप्ततिसंख्यातं तर्पणं प्रति भोजनम् ।। १२७ ।। कल्पयेद् द्विशतं पञ्चपञ्चसंख्यासमन्वितम् । ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ।। १२८ ।। नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने । दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ।। १२९ ।। तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा । नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ।। १३० ।। एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि । तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ।। १३१ ।। वीतशोकस्य सक्तानां नराणां मूढचेतसाम् । समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ।। १३२ ।। शिवव्रतधरा ये च शैवा ये हृहिणीसखाः । न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ।। १३३ ।। तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा । न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ।। १३४ ।। आत्मनो भोगहेतूनामभावादुपचर्यते । तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ।। १३५ ।। स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् । अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ।। १३६ ।। सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः । चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ।। १३७ ।। देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते । मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ।। १३८ ।। यः करोति स संमूढो जलबुद्बुदसंनिभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।। १३९ ।। कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।। १४० ।। फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ।। १४१ ।। अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः । द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ।। १४२ ।। घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः । तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् संचयनं चितेः ।। १४३ ।। हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा । पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ।। १४४ ।। अस्थिसंग्रहणं वाथ कुर्यात् संचयनं विना । एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ।। १४५ ।। अस्थिसंग्रहणं विप्रप्रमुखाणां क्रमेण वा । सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ।। १४६ ।। पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् । अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ।। १४७ ।। ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च । तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ।। १४८ ।। षण्मासे वाब्दसंपूर्तौ तदूर्ध्वे वाथ निक्षिपेत् । निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ।। १४९ ।। पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् । दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ।। १५० ।। शिष्यैकगुरुसंबन्धा गुरुसंबन्धिनश्च ये । त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ।। १५१ ।। तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा । दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ।। १५२ ।। गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् । आचारं दीक्षितास्तस्मात्कुर्वीर/ल्लोकसंवृतिम् ।। १५३ ।। शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् । पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ।। १५४ ।। पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया । अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ।। १५५ ।। क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते । विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ।। १५६ ।। दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका । उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ।। १५७ ।। क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् । सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ।। १५८ ।। पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका । माससंख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ।। १५९ ।। नाम्नः प्राग्दन्तजननात्तथोपनयनादपिं । स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ।। १६० ।। तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते । क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ।। १६१ ।। भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा । पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ।। १६२ ।। पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ । तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ।। १६३ ।। दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् । दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ।। १६४ ।। त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् । समानोदकवर्गाणामाशौचं विहितं विधौ ।। १६५ ।। ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् । आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ।। १६६ ।। आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् । पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ।। १६७ ।। यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः । वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ।। १६८ ।। एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः । भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ।। १६९ ।। तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् । शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।। १७० ।। शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी । सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ।। १७१ ।। प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा । सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ।। १७२ ।। तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।। १७३ ।। सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः । कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ।। १७४ ।। अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् । ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ।। १७५ ।। तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि । तथैव रुद्रकन्यानां पञ्चाचार्येऽपि संमतम् ।। १७६ ।। हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् । न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ।। १७७ ।। सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ।। १७८ ।। प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः । नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ।। १७९ ।। स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा । इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ।। १८० ।। ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः । शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ।। १८१ ।। दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता । आशौचं दासदासीनामधिष्ठातृकुलोचितम् ।। १८२ ।। प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः । कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ।। १८३ ।। तथैव देवदासीनां मातृजं कुलमीरितम् । राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ।। १८४ ।। समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा । गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ।। १८५ ।। निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् । हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ।। १८६ ।। काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते । स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ।। १८७ ।। स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् । परित्ययेत् परार्थं वा लोकसंवरणाय च ।। १८८ ।। भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः । ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ।। १८९ ।। आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः । तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ।। १९० ।। तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् । विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ।। १९१ ।। एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः । अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ।। १९२ ।। नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः । साधारणस्त्रियो याश्च पूता नैव कदाचन ।। १९३ ।। राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः । महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ।। १९४ ।। शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः । दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ।। १९५ ।। प्रेतसूतकसंबन्धि नित्यहानिं करोति यत् । तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ।। १९६ ।। प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् । त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ।। १९७ ।। विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् । योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ।। १९८ ।। भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा । यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ।। १९९ ।। मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् । अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ।। २०० ।। एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् । जपेदघोरं स्नानान्ते दशांशो होम एव वा ।। २०१ ।। यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च । अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ।। २०२ ।। निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च । नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ।। २०३ ।। शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता । एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ।। २०४ ।। अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ।। २०४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः सप्तविंशतितमः पटलः २८ अष्टाविंशत्तमे पटले पितृ यज्ञ विधिः पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः । आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ।। १ ।। अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् । पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ।। २ ।। तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः । गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ।। ३ ।। कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा । विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसंमितैः ।। ४ ।। दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् । प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ।। ५ ।। तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये । स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ।। ६ ।। तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् । पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ।। ७ ।। धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् । तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ।। ८ ।। गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् । आशौच रहितैः नवमद्भाण्ड एव हि ।। ९ ।। ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च । द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ।। १० ।। एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् । अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ।। ११ ।। पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा । कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ।। १२ ।। कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् । सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ।। १३ ।। तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् । मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ।। १४ ।। तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा । संग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ।। १५ ।। अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे । एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ।। १६ ।। विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते । ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ।। १७ ।। वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः । आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ।। १८ ।। पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा । तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ।। १९ ।। दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति । पिण्डमेकं तदा देय माशौचं चाप्रदानतः ।। २० ।। इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः अष्टविंशतितमः पटलः २९ एकोनत्रिंशत्तमे पटले शैव श्राद्ध विधिः ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् । नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ।। १ ।। प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् । नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ।। २ ।। कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते । वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ।। ३ ।। तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते । तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ।। ४ ।। एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् । श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ।। ५ ।। नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् । चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ।। ६ ।। मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् । नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ।। ७ ।। अनूदकमधूपं च गन्धमाल्य विवर्जितम् । आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ।। ८ ।। एकादशे त्रिपक्षे च तथा च प्रतिमासके । वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ।। ९ ।। षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् । एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ।। १० ।। यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश । पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ।। ११ ।। द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् । त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ।। १२ ।। सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति । मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ।। १३ ।। भोजनं सोदकुंभं च प्रदद्याद् देशिकात्मने । विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ।। १४ ।। सोदकुंभयुतं पश्चात् सपिण्डीकरणं समे । विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ।। १५ ।। षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् । एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ।। १६ ।। अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्याद्संवत्सद्गुरुः ।। १७ ।। पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् । सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ।। १८ ।। समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने । शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ।। १९ ।। एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशांमतम् । पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ।। २० ।। अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् । घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ।। २१ ।। चतुर्थी सप्तमी चैव नवमी च त्रयोदशी । अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ।। २२ ।। अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् । व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ।। २३ ।। विष्वोरपि गजच्छायासंक्रान्त्यादिषु कारयेत् । शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ।। २४ ।। एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये । अन्यदा वापि कर्तव्यं संभवे वसुपात्रयोः ।। २५ ।। रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि । रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ।। २६ ।। गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् । मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।। २७ ।। नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु । यदि कुर्यान्नवश्राद्धम्. कुलक्षयकरं भवेत् ।। २८ ।। शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः । एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ।। २९ ।। पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः । आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ।। ३० ।। * * * * * * * * * * * * * * * * ? । * * * * * * * * * * * * * * * * ? ।। ३१ ।। अमाद्वयस्तु वै मासो मलिनः पापसंभवः । गर्हितः पितृदेवेभ्यः सर्वकर्मसु संत्यजेत् ।। ३२ ।। नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे । वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ।। ३३ ।। नवमी स्यादमावास्या नभस्ये कृष्णपक्षके । तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ।। ३४ ।। तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च । कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ।। ३५ ।। अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः । कन्यां गते सवितरि पितरो यान्ति वै सुतान् ।। ३६ ।। ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ।। ३७ ।। अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति । उपात्तेषु सुसंतानं शकुना इव पिप्पले ।। ३८ ।। मधुमांसैश्च पाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ।। ३९ ।। पूर्वाहृणे दैविकं श्राद्धं अपराहृणे तु पैतृकम् । एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ।। ४० ।। शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके । आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ।। ४१ ।। आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ।। ४२ ।। द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध संपदि । स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ।। ४३ ।। आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः । न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ।। ४४ ।। पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः । उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ।। ४५ ।। शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः । दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ।। ४६ ।। शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ।। ४७ ।। संबन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः । फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ।। ४८ ।। शिवार्चनादिहीनाय शिवज्ञानापहारिणे । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ।। ४९ ।। सरोषमपसव्यं यैश्च युक्तमवज्ञया । सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ।। ५० ।। कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते । मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ।। ५१ ।। दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः । व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।। ५२ ।। अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् । श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ।। ५३ ।। पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।। ५४ ।। दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् । श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ।। ५५ ।। तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् । प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ।। ५६ ।। सोऽयं नरकमाप्नोति कुंभीपाकं न संशयः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ।। ५७ ।। श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः । सैन्धवं लवणं चैव तथा मानस सम्भवम् ।। ५८ ।। पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश । रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ।। ५९ ।। यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव । अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ।। ६० ।। कोद्रवं लवणं सर्वं तथा जम्बूफलानि च । कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ।। ६१ ।। बीजपूरक माषाणि मरीचिं पिप्पलीमपि । कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ।। ६२ ।। वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।। ६३ ।। कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् । पिण्याकं मथितं चापि तथातिलवणं च यत् ।। ६४ ।। हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ।। ६५ ।। निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् । बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ।। ६६ ।। दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ।। ६७ ।। अन्तर्जानु विशेषेण तथैवाचमनं भवेत् । दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ।। ६८ ।। विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमानि तावन्नरकमृच्छति ।। ६९ ।। यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ।। ७० ।। मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् । देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ।। ७१ ।। मृतसंपृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते । नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ।। ७२ ।। आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः । मित्राण्यारोग्यसंपश्च भवेच्छ्रद्धादनिन्दितात् ।। ७३ ।। नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः । कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ।। ७४ ।। भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि । शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ।। ७५ ।। नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् । चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।। ७६ ।। आचार्येण तु भुक्तेन कोटिर्भवति भोजिता । लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ।। ७७ ।। समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे । साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ।। ७८ ।। संभवे कथितं श्राद्धे सर्वे सर्वत्र वामताः । ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ।। ७९ ।। रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः । दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ।। ८० ।। स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः । तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ।। ८१ ।। तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि । पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ।। ८२ ।। बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् । एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ।। ८३ ।। एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् । षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ।। ८४ ।। इत्येवमभिसंधाय श्राद्धकर्म समाचरेत् । निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ।। ८५ ।। वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ । यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ।। ८६ ।। ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः । वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ।। ८७ ।। संयम्य चेन्द्रियग्राममनुगृहानुकम्पया । अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ।। ८८ ।। व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः । अभ्युत्थानासनाद्येन स्वागतेनागतानथ ।। ८९ ।। संभाव्य पादशौचाय कुर्यान्मण्डलकानि तु । सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ।। ९० ।। समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे । द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ।। ९१ ।। दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे । प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ।। ९२ ।। मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा । कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ।। ९३ ।। गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः । देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ।। ९४ ।। अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् । पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ।। ९५ ।। पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके । अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ।। ९६ ।। एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् । साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ।। ९७ ।। तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् । विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ।। ९८ ।। सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु । सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ।। ९९ ।। स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे । मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ।। १०० ।। पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् । दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ।। १०१ ।। सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः । तोयैराचमनं पश्चादाचान्तस्संप्रवेश्य तु ।। १०२ ।। उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते । आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ।। १०३ ।। ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ । कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ।। १०४ ।। न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः । उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ।। १०५ ।। आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः । आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ।। १०६ ।। स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् । अथ रक्षार्थमादाय यवानवकिरेत् परि ।। १०७ ।। प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ । रूपिणा संनिधानाय द्वितयस्य सकृत् सकृत् ।। १०८ ।। प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि । जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ।। १०९ ।। पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् । गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ।। ११० ।। वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा । दीपं च तेन संदद्यादीशानेन पवित्रकम् ।। १११ ।। वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् । तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ।। ११२ ।। कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् । कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ।। ११३ ।। आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् । स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ।। ११४ ।। रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः । त्रयाणां संनिधानार्थमघोरेणाञ्जलौ पृथक् ।। ११५ ।। पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् । भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ।। ११६ ।। तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् । गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ।। ११७ ।। ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् । पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ।। ११८ ।। ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ।। ११९ ।। सौवर्णं राजतं पात्रं ताम्रजं दलसंभवम् । भाजनं शुद्धमादाय भोजनायोपपादयेत् ।। १२० ।। हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् । पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ।। १२१ ।। सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः । शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ।। १२२ ।। कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् । सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ।। १२३ ।। ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः । उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ।। १२४ ।। हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् । पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ।। १२५ ।। अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः । दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ।। १२६ ।। संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् । पवित्रीकरणायेति ततस्सव्यमधोमुखम् ।। १२७ ।। तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च । गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ।। १२८ ।। अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् । आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ।। १२९ ।। शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः । अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ।। १३० ।। देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् । चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ।। १३१ ।। जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः । तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ।। १३२ ।। तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् । उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ।। १३३ ।। कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा । वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ।। १३४ ।। दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् । मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ।। १३५ ।। दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः । विधाय वारिणो धारां वामदेवमुदीरयन् ।। १३६ ।। क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् । संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ।। १३७ ।। क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् । पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ।। १३८ ।। प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये । सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ।। १३९ ।। गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये । वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ।। १४० ।। धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति । ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ।। १४१ ।। स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च । अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ।। १४२ ।। एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् । देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ।। १४३ ।। दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च । इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ।। १४४ ।। पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः । श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ।। १४५ ।। इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् । यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।। १४६ ।। पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् । सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ।। १४७ ।। अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा । इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ।। १४८ ।। पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ।। १४९ ।। ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः । धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ।। १५० ।। गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके । वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ।। १५१ ।। नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि । दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ।। १५२ ।। अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ।। १५३ ।। प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु । अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ।। १५४ ।। नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।। १५५ ।। आवाहनाग्निकरणरहितमपसव्यम् । उत्तिष्टतामित्यक्षययस्थाने तेषां विसर्जनम् ।। १५६ ।। अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे । एको वाथ नरो ग्राहो निमित्तस्य च संमतः ।। १५७ ।। स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् । गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ।। १५८ ।। वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च । आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ।। १५९ ।। उपधानयुतां शययां तदीयमपरं च यत् । दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ।। १६० ।। अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् । नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ।। १६१ ।। अनूदकमधूपं च गन्धमाल्यविवर्जितम् । पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ।। १६२ ।। जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः । प्रणामं न च कुर्वीत स्वधाकारं तथैव च ।। १६३ ।। नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति । अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ।। १६४ ।। हविष्यान्नेन ते मासं वत्सरं पायसेन तु । तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ।। १६५ ।। रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः । तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ।। १६६ ।। गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते । गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ।। १६७ ।। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ।। १६८ ।। ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् । पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ।। १६९ ।। सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप । कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ।। १७० ।। स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा । ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ।। १७१ ।। यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ।। १७२ ।। आयुष्कामो लभेदायुः धनकामो वसूनि च । विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ।। १७३ ।। पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् । एतानि लभते नित्यं श्राद्धदो नावसीदति ।। १७४ ।। प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः । ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ।। १७५ ।। पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः । योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ।। १७६ ।। कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ।। १७७ ।। एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । दानमाचमनं होमं भोजनं देवतार्चनम् ।। १७८ ।। प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् । आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ।। १७९ ।। परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ।। १८० ।। अटवी चाकृतारण्यं नदीतीराणि यानि च । सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ।। १८१ ।। चण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ।। १८२ ।। होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते । दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ।। १८३ ।। वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा । ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ।। १८४ ।। अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ।। १८५ ।। दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः । स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ।। १८६ ।। अथवान्यप्रकारेण कुतपस्त्विह कथ्यते । शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ।। १८७ ।। तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः । पिता पितामहश्चैव प्रपितामह एव च ।। १८८ ।। गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः । क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ।। १८९ ।। स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । पितामही तथा स्वेन तथैव प्रपितामही ।। १९० ।। पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति । मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ।। १९१ ।। मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् । अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ।। १९२ ।। एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता । सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ।। १९३ ।। न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते । अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।। १९४ ।। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ।। १९५ ।। स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः । स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ।। १९६ ।। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ।। १९७ ।। एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी । पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ।। १९८ ।। आसुरादि विवाहेषु विशेषः कश्चिदिष्यते । स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ।। १९९ ।। यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता । तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ।। २०० ।। जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् । पैतृकं तु भवेत् गोत्रं ऊर्ध्वं तु पितृ दैवतम् ।। २०१ ।। पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ।। २०११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम एकोन त्रिंशतितमः पटलः ३० त्रिंशत्तमे पटले प्रायश्चित्त विधिः प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । विधिर्निषेध इत्येवं चोदना द्विविधा मता ।। १ ।। अनुष्ठितायां तस्यांस्याद्यथावद्धर्म संग्रहः । वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ।। २ ।। तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् । यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ।। ३ ।। प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः । चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ।। ४ ।। सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः । तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ।। ५ ।। विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते । तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ।। ६ ।। आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया । कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ।। ७ ।। प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः । कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ।। ८ ।। ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् । स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ।। ९ ।। लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च । शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ।। १० ।। नमस्काराद्यमेतेषां शिवधामनिषेवणम् । शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ।। ११ ।। पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः । शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ।। १२ ।। उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् । शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ।। १३ ।। मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा । एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ।। १४ ।। एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् । विभज्य लक्षणं तेषां केषांचिदिह कथ्यते ।। १५ ।। पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः । सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ।। १६ ।। पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् । प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ।। १७ ।। दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम् । प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ।। १८ ।। मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् । तस्मान्मासावसानं तु हीनमित्यभिधीयते ।। १९ ।। मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् । लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ।। २० ।। आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः । प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ।। २१ ।। स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति । वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ।। २२ ।। पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः । नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ।। २३ ।। अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः । देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ।। २४ ।। सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः । राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ।। २५ ।। तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः । इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ।। २६ ।। अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना । मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ।। २७ ।। शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् । अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ।। २८ ।। मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः । जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ।। २९ ।। अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा । शाकयावकपिण्याककन्दमूलफलाशनः ।। ३० ।। स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् । जपं एव समाख्यातः प्रदक्षिण मथोच्यते ।। ३१ ।। नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः । लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ।। ३२ ।। अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् । गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ।। ३३ ।। गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः । सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ।। ३४ ।। परिहृत्य कृतं सर्वं यदि सर्वफलावहम् । अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।। ३५ ।। प्रासादार्ध प्रमाणं प्रासादसममेव वा । निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ।। ३६ ।। परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् । सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ।। ३७ ।। सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः । सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ।। ३८ ।। सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा । छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ।। ३९ ।। तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् । तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ।। ४० ।। प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ।। ४१ ।। अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् । अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ।। ४२ ।। क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् । एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ।। ४३ ।। कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते । सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ।। ४४ ।। शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् । शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ।। ४५ ।। ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसंज्ञकः । अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ।। ४६ ।। त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् । एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ।। ४७ ।। पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् । सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ।। ४८ ।। तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते । एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ।। ४९ ।। अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते । द्वादशाहनिर्राहारः पराक इति संस्मृतः ।। ५० ।। मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् । चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ।। ५१ ।। सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे । चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ।। ५२ ।। मध्यम द्वितयं वाथ तदर्थं दानमेव वा । उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ।। ५३ ।। मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना । तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ।। ५४ ।। शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् । देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ।। ५५ ।। गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् । संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ।। ५६ ।। अघोरामथवा शैवमस्त्रं पाशुपतं तु वा । अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ।। ५७ ।। कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ । समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ।। ५८ ।। तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् । सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ।। ५९ ।। प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् । स्वाहान्ते भगवन् सर्वक्षोपनाशंपदं ततः ।। ६० ।। कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् । पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ।। ६१ ।। पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् । मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ।। ६२ ।। कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् । तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः ।। ६३ ।। प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे । पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ।। ६४ ।। ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः । स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ।। ६५ ।। तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया । एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ।। ६६ ।। होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् । निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ।। ६७ ।। समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् । होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ।। ६८ ।। एवं शान्तिस्समादिष्टा नवधा सा समीरिता । एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ।। ६९ ।। पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः । कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ।। ७० ।। विसर्जनं तु वा देवे पावकस्य न सर्वथा । शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ।। ७१ ।। स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते । शुभाशास्वग्निदेशे वा मण्डपे समलंकृते ।। ७२ ।। स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेत्घटम् । ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ।। ७३ ।। सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् । परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ।। ७४ ।। विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् । प्रणवासनमारुढं दुराधर्षं महाबलम् ।। ७५ ।। पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ।। ७६ ।। कपालमालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामालानागाभरणलेलिहम् ।। ७७ ।। सूर्यकोट्ययुताभं च विघ्नसंघात मर्दकम् । भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ।। ७८ ।। खड्गचापमहाशूलाभयपाशांश्च दक्षिणे । खेटबाणा कपालांश्च वरप्रासौ च वामतः ।। ७९ ।। पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् । ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ।। ८० ।। ओं श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति । प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ।। ८१ ।। पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे । ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ।। ८२ ।। सर्वे पाशुपतोपेतहृदयादि समन्विताः । फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ।। ८३ ।। इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् । तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ।। ८४ ।। संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले । देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ।। ८५ ।। समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८६ ।। प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् । भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ।। ८७ ।। अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् । पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ।। ८८ ।। प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् । पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ।। ८९ ।। कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् । प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ।। ९० ।। अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः । समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ।। ९१ ।। कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् । ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ।। ९२ ।। होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना । कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसंख्यया ।। ९३ ।। दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः । प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ।। ९४ ।। लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा । मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ।। ९५ ।। यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु । दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ।। ९६ ।। वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा । स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ।। ९७ ।। सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् । एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ।। ९८ ।। मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च । अथैतद्यागशालायां कर्म सर्वं समापयेत् ।। ९९ ।। अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च । तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ।। १०० ।। शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके । तदग्रे संयजेदस्त्रंशिवाख्यंदेशिकोत्तमः ।। १०१ ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ।। १०२ ।। अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ।। १०३ ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् । दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ।। १०४ ।। सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते । ओं ह्रींङ्कारं ततः कृष्णवाससे चेति यत्पदम् ।। १०५ ।। ततश्च सिह्मवदने महावदन इत्यपि । महाभैरविवर्णे च सर्वशत्रुपदं ततः ।। १०६ ।। कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः । च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ।। १०७ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ।। १०८ ।। सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् । सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ।। १०९ ।। ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन । प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ।। ११० ।। ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः । प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ।। १११ ।। दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् । तथैव तस्मान्नेत्राणुश्चतुस्त्रिं/शद्भिरस्त्रकम् ।। ११२ ।। त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः । नमः स्वाहावषड्वौषड् ह्रुंफड् युक्ता हृदादयः ।। ११३ ।। सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ।। ११४ ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ।। ११५ ।। कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् । मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ।। ११६ ।। अट्टहासरवोपेतां कृष्णाजिन समन्विताम् । ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ।। ११७ ।। अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् । गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ।। ११८ ।। पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् । चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ।। ११९ ।। तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् । प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ।। १२० ।। इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् । कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ।। १२१ ।। स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह । तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ।। १२२ ।। कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् । प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ।। १२३ ।। प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।। १२४ ।। तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः । चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ।। १२५ ।। प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः । प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ।। १२६ ।। रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् । अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ।। १२७ ।। कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः । कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ।। १२८ ।। देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः । देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ।। १२९ ।। प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् । दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ।। १३० ।। दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते । प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ।। १३१ ।। समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः । होमश्च पुरुषाघोरवामाजैर्दिक्षु संमतः ।। १३२ ।। स्नपनादिषु होमेऽयं चतुर्दिक्षु च संमतः । वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ।। १३३ ।। शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे । उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ।। १३४ ।। सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते । तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ।। १३५ ।। पलाशसमिदाज्यान्नैश्शत संख्या शिवाणुना । शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ।। १३६ ।। ततोऽघोराणुना होमं पञ्चविंशतिसंख्यया । प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ।। १३७ ।। संहिताहोम एष स्यान्मूर्तिहोमो विधीयते । हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ।। १३८ ।। शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे । अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ।। १३९ ।। ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् । गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ।। १४० ।। मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् । यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ।। १४१ ।। वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः । दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ।। १४२ ।। दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि । ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। १४३ ।। प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ।। १४४ ।। सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ।। १४५ ।। नृत्यन्तं तं महाकायं नागाभरण भूषितम् । देवदानवदैत्यानां दर्पितानां विमर्दकम् ।। १४६ ।। वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् । पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ।। १४७ ।। तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे । स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ।। १४८ ।। संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना । तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले ।। १४९ ।। समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् । हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ।। १५० ।। प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले । कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ।। १५१ ।। पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च । पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ।। १५२ ।। अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् । स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ।। १५३ ।। लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् । तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ।। १५४ ।। प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि । अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।। १५५ ।। गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि । ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ।। १५६ ।। गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् । संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ।। १५७ ।। भस्मापि यजमानाय दातव्यं होमकर्मणि । अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ।। १५८ ।। मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः । अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ।। १५९ ।। यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् । संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ।। १६० ।। अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् । स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ।। १६१ ।। समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् । पञ्चाशत्संख्यकं वापि तदर्थं वा पृथक् पृथक् ।। १६२ ।। पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ । शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ।। १६३ ।। क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा । पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ।। १६४ ।। विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् । पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ।। १६५ ।। पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् । संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ।। १६६ ।। एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः । कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ।। १६७ ।। संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः । शान्त्युक्तदिन संख्याया वशेनैतत्समाचरेत् ।। १६८ ।। मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा । यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ।। १६९ ।। एकसन्ध्यादि भेदेन नित्यपूजा विलोपने । द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ।। १७० ।। लोपे चासनसंस्कारोपचाराणामथावृतेः । पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ।। १७१ ।। निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे । अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ।। १७२ ।। गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् । दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ।। १७३ ।। नीराजनस्य वा दीपमालास्थेनाहृतेन वा । मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ।। १७४ ।। लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः । लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ।। १७५ ।। दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके । हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ।। १७६ ।। कृमिकीटनराद्यस्थिनखरोमादिदर्शने । देवाय दत्तद्रव्येषु नखरोमादिदर्शने ।। १७७ ।। श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे । सामान्यप्राणिसंभूत मलयुक्तैरथापिवा ।। १७८ ।। नैवेद्याहरणे काले तोयसेके विलोपिते । तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ।। १७९ ।। प्रागेव निश्चित द्रव्यहीने तस्य वर्धने । लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ।। १८० ।। मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति । बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ।। १८१ ।। काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने । अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ।। १८२ ।। केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः । होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ।। १८३ ।। बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते । वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ।। १८४ ।। गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने । अतोद्य नृत्तकरणे वितानस्य विलोपने ।। १८५ ।। बलिप्रदान कालेतु वाद्यदीपविलोपने । पादुकाराधन हीने तद्याने वा विलोपिते ।। १८६ ।। अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये । उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ।। १८७ ।। बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके । सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ।। १८८ ।। सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा । तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ।। १८९ ।। अतोद्यनृत्तवैकल्ये नीराजनविलोपने । तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ।। १९० ।। अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः । कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ।। १९१ ।। सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते । निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ।। १९२ ।। बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः । दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ।। १९३ ।। विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा । आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ।। १९४ ।। अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे । एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ।। १९५ ।। अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते । एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ।। १९६ ।। स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् । मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ।। १९७ ।। विधाय पूजां त्रिगुणां द्विगुणां वा समामथ । उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ।। १९८ ।। नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः । कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ।। १९९ ।। प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः । त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ।। २०० ।। चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् । प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ।। २०१ ।। अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् । दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ।। २०२ ।। तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता । दिनानि यानि हीनानि पूजया नित्यसंज्ञया ।। २०३ ।। तदहस्संख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् । एक मासावधिं यावत्ततस्संप्रोक्षणं नयेत् ।। २०४ ।। नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः । द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ।। २०५ ।। तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् । पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ।। २०६ ।। आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते । शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ।। २०७ ।। अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः । पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ।। २०८ ।। विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् । शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ।। २०९ ।। नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके । तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ।। २१० ।। पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता । तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ।। २११ ।। शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् । दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ।। २१२ ।। अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः । पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ।। २१३ ।। तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः । गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ।। २१४ ।। तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः । धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ।। २१५ ।। घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः । पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ।। २१६ ।। दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता । आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ।। २१७ ।। नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् । ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ।। २१८ ।। अथ काण्डपटे हीने देवानां संनिधिक्षयः । भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २१९ ।। देवं संपूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे । शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ।। २२० ।। तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे । कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ।। २२१ ।। द्रव्याणामेव चैतेषामर्धे पादे तदर्धके । प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ।। २२२ ।। जप्त्वा देवाय तद्द्रव्यंद्विगुणं दापयेत्ततः । द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ।। २२३ ।। अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः । दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ।। २२४ ।। स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा । नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ।। २२५ ।। दद्योजातनरेशानाश्शतधावर्त्य देशिकः । याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ।। २२६ ।। दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः । प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ।। २२७ ।। हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः । संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ।। २२८ ।। नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते । विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ।। २२९ ।। अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् । पूर्वसंकल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ।। २३० ।। जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा । अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ।। २३१ ।। शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः । धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ।। २३२ ।। धूपारात्रिकयोर्दानकाले नीराजनस्य च । दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ।। २३३ ।। वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके । अणुना महता वापि राज्ञो रोगो भविष्यति ।। २३४ ।। संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् । पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ।। २३५ ।। संपूज्य देवदेवेशं मूर्तिहोमं समाचरेत् । अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ।। २३६ ।। लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना । निर्दग्धानि तदा कुर्यात् कर्म संप्रोक्षणादिकम् ।। २३७ ।। दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् । दहने सद्मनः कुर्यात् सद्म संप्रोक्षणात्मकम् ।। २३८ ।। देवाय स्नपनं कुर्यात् धामच्छेदादिसंभव । तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ।। २३९ ।। वह्निना लिङ्गबेरादावन्यवर्णमुपायते । मानुषं चेत् परित्याज्यं ग्राह्यं स्वायंभुवादिकम् ।। २४० ।। प्रतिक्रियानुकर्मोक्त्या कार्या संप्रोक्षणान्विता । पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ।। २४१ ।। सकले विकले कुर्याच्छिवस्य स्नपनं महत् । प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ।। २४२ ।। दीपानामथ वैकल्ये जपेदघोर शतत्रयम् । दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ।। २४३ ।। रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् । हविष्य दत्ते देवाय स्नपनं तु विधाय च ।। २४४ ।। द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि । अथ काण्डपटे हीने कवचं द्विशतं जपेत् ।। २४५ ।। गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् । कृमिकीटनराद्यस्थिनखरोमादि दर्शने ।। २४६ ।। त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् । शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ।। २४७ ।। पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् । श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ।। २४८ ।। स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया । सामान्यप्राणि संभूतमलयुक्ते तथाचरेत् ।। २४९ ।। नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् । हीनं लङ्घनं तत्र यदि जायेत दोषदम् ।। २५० ।। अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा । शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ।। २५१ ।। आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् । प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ।। २५२ ।। तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे । प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ।। २५३ ।। नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता । लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ।। २५४ ।। तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः । पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ।। २५५ ।। पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् । अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ।। २५६ ।। बलिदानविहीनं चेद्भवन्त्यखिलदेवताः । तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ।। २५७ ।। दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः । नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ।। २५८ ।। अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च । पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ।। २५९ ।। यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् । होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ।। २६० ।। तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः । प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ।। २६१ ।। शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् । कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ।। २६२ ।। तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा । अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ।। २६३ ।। होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः । अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ।। २६४ ।। शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे । वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ।। २६५ ।। पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् । इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ।। २६६ ।। शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् । अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ।। २६७ ।। कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा । नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ।। २६८ ।। किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः । रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ।। २६९ ।। तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे । सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ।। २७० ।। तत्संख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् । होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ।। २७१ ।। नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् । तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ।। २७२ ।। सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् । अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ।। २७३ ।। पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् । दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ।। २७४ ।। तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु । एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ।। २७५ ।। शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः । पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ।। २७६ ।। वर्धयेद्युग्म संख्यातं पक्षपक्षावसानकम् । नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ।। २७७ ।। निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा । बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ।। २७८ ।। तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा । वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ।। २७९ ।। गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् । तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ।। २८० ।। तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् । एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ।। २८१ ।। कृत्वा तु संहिताहोममघोर जपमेव वा । सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ।। २८२ ।। तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् । एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ।। २८३ ।। पादुकाराधने हीने याने वा पादरोगता । कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ।। २८४ ।। अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये । विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ।। २८५ ।। उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे । उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ।। २८६ ।। बेरादिपतने यानकाले संवत्सरोक्तवत् । तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ।। २८७ ।। बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् । पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ।। २८८ ।। ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे । पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ।। २८९ ।। विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् । भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ।। २९० ।। सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् । पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ।। २९१ ।। नवभिः कलशैर्वाथ गव्यस्नपनमेव वा । सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ।। २९२ ।। पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने । सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ।। २९३ ।। पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि । तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ।। २९४ ।। ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् । सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ।। २९५ ।। सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् । अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ।। २९६ ।। सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः । यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ।। २९७ ।। स्नपनं वा त्वघोरेण सहस्रजपमेववा । सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ।। २९८ ।। गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् । प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ।। २९९ ।। आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते । सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ।। ३०० ।। नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् । देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ।। ३०१ ।। द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च । शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ।। ३०२ ।। अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् । अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ।। ३०३ ।। अघोरजपसाहस्रमथ पञ्चशतं तु वा । कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ।। ३०४ ।। स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् । गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ।। ३०५ ।। स्थलशुद्धिं तदा कृत्वा देवं संपूज्य यत्नतः । अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ।। ३०६ ।। निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते । तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ।। ३०७ ।। क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः । अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ।। ३०८ ।। हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा । राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ।। ३०९ ।। सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः । तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ।। ३१० ।। पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः । षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ।। ३११ ।। स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः । अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ।। ३१२ ।। सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् । सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ।। ३१३ ।। बालातिबाला युवतिर्वृद्धाति श्रेयसी मता । अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ।। ३१४ ।। मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी । अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ।। ३१५ ।। सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः । तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ।। ३१६ ।। श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते । अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ।। ३१७ ।। आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता । सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ।। ३१८ ।। आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने । कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ।। ३१९ ।। आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने । पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ।। ३२० ।। द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः । षाण्मासोर्ध्वे विधातव्यं कर्मसंप्रोक्षणं द्विजाः ।। ३२१ ।। षाण्मासात्परतो यस्मादतो देवलकाह्वये । अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ।। ३२२ ।। मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता । चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ।। ३२३ ।। विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् । सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ।। ३२४ ।। अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् । कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ।। ३२५ ।। पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् । अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ।। ३२६ ।। एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः । अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ।। ३२७ ।। अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके । रिपुणा संगृहीतो वा देवी वा केवलाद्विजाः ।। ३२८ ।। देवीं विहाय देवो वा केवलो रिपुणा हृतः । तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ।। ३२९ ।। स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे । स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ।। ३३० ।। पिण्डिकापतने वाधः परिवारविलोपने । बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ।। ३३१ ।। तद्दाहपतनादौ च प्राकारे गोपुरे तथा । जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ।। ३३२ ।। कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः । उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ।। ३३३ ।। पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ । गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ।। ३३४ ।। गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः । चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।। ३३५ ।। हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः । शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ।। ३३६ ।। स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके । प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ।। ३३७ ।। परिवारालये वान्तर्मण्डपे वा द्वितीयके । महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ।। ३३८ ।। निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः । परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ।। ३३९ ।। अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे । उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ।। ३४० ।। गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके । विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ।। ३४१ ।। अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने । प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ।। ३४२ ।। साले वा मालिकायुक्ते केवले गोरुराङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ।। ३४३ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ।। ३४४ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिलीसंभवे वाथ मधुपञ्जर संभवे ।। ३४५ ।। बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ।। ३४६ ।। तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये । अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ।। ३४७ ।। दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि । मठे प्रपादिके वापि आरामादावथापि वा ।। ३४८ ।। लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ३४९ ।। वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके । कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ।। ३५० ।। स्थापिते शिवकुम्भे वा करके कलशेऽपिवा । भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ।। ३५१ ।। शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः । स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ।। ३५२ ।। स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके । विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ।। ३५३ ।। रत्नहेमाम्बरादीनां विलोपे च घटादिषु । गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ।। ३५४ ।। कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ३५५ ।। पवित्रारोहणे हीने दमनारोहणेऽपिवा । कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ।। ३५६ ।। बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते । पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ।। ३५७ ।। भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः । पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ।। ३५८ ।। एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते । अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ।। ३५९ ।। अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् । पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ।। ३६० ।। अघोरेण शतं होमं समिदाज्यतिलोदनैः । रिपुणा संगृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ।। ३६१ ।। तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते । सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ।। ३६२ ।। लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च । लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ।। ३६३ ।। सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् । मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ।। ३६४ ।। कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले । लक्षणोद्धारणं दृष्टि मोचनं जलवेशनं ।। ३६५ ।। विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः । अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ।। ३६६ ।। मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि । प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ।। ३६७ ।। तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् । तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।। ३६८ ।। संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना । कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ।। ३६९ ।। प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा । प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ।। ३७० ।। तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् । आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ।। ३७१ ।। संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः । संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ।। ३७२ ।। मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः । संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ।। ३७३ ।। अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः । तत्प्रासादानुरूपेण यजमानानुरूपतः ।। ३७४ ।। लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना । बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ।। ३७५ ।। बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् । देवीं विहाय देवो वा देवी वा केवला यदा ।। ३७६ ।। शत्रुभिस्संगृहीता चेत् स्थितस्यैवानुरूपतः । संपाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ।। ३७७ ।। कल्याणं कारयेदन्ते विधिना देशिकोत्तमः । स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ।। ३७८ ।। देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् । पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ।। ३७९ ।। प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् । आग्नेययामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ।। ३८० ।। नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् । वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ।। ३८१ ।। ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् । उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ।। ३८२ ।। शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् । प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ।। ३८३ ।। स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् । प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ।। ३८४ ।। कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् । प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ।। ३८५ ।। स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् । स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ।। ३८६ ।। तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते । शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ।। ३८७ ।। कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् । प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ।। ३८८ ।। पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले । ततस्संप्रोक्षणं कुर्यात् स्थलकर्मावसानके ।। ३८९ ।। पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः । पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ।। ३९० ।। सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् । नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ।। ३९१ ।। ततस्संप्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि । परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ।। ३९२ ।। परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः । बलिपीठे विहीने तु सर्वदोषावहं भवेत् ।। ३९३ ।। संकल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् । तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ।। ३९४ ।। शान्तिहोमं तदा कृत्वा संप्रोक्षणमथाचरेत् । प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ।। ३९५ ।। राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् । ततस्संप्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ।। ३९६ ।। कृत्वा गव्येन संप्रोक्ष्य शान्तिमेकाहमाचरेत् । कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ।। ३९७ ।। उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः । पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।। ३९८ ।। गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः । गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ।। ३९९ ।। चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः । हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।। ४०० ।। शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा । स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ।। ४०१ ।। राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते । मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ।। ४०२ ।। गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः । गव्येन स्नपनं कृत्वा संप्रोक्षनमथाचरेत् ।। ४०३ ।। ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति । शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ।। ४०४ ।। चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् । गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ।। ४०५ ।। संप्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः । ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ।। ४०६ ।। तदा संप्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् । चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ।। ४०७ ।। संप्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् । शान्तिकर्मदिशाहोमं क्रमात्संप्रोक्षणं नयेत् ।। ४०८ ।। त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने । प्रथमे च द्वितीये च चण्डालविहितं तु यत् ।। ४०९ ।। प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् । प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ।। ४१० ।। शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् । दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ।। ४११ ।। परिवारालयावेशेऽप्येतदेव समीरितम् । कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ।। ४१२ ।। चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् । कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ।। ४१३ ।। गोमयालोपनाद्यं च समानं सर्वकर्मसु । परिवारालयोक्तं प्रायश्चित्तं महानसे ।। ४१४ ।। महानससमा ज्ञेया बलिपीठेषु निष्कृतिः । निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ।। ४१५ ।। परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् । कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ।। ४१६ ।। अर्धमण्डपवेशादौ तस्य दोषो न विद्यते । अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ।। ४१७ ।। चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा । कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ।। ४१८ ।। उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् । गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ।। ४१९ ।। विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने । संप्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ।। ४२० ।। कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः । आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ।। ४२१ ।। दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः । ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ।। ४२२ ।। तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते । मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ।। ४२३ ।। दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः । दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ।। ४२४ ।। पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः । प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ।। ४२५ ।। साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ।। ४२६ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ।। ४२७ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ।। ४२८ ।। बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ।। ४२९ ।। पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः । रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ।। ४३० ।। पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् । मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ।। ४३१ ।। शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् । तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ।। ४३२ ।। सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः । राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ।। ४३३ ।। तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् । वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ।। ४३४ ।। वारुण्यां धनलाभस्यादादौ चोरभयं पुनः । वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ।। ४३५ ।। तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् । गृहनाशो भवेद्वारे शयनस्थानके मृतिः ।। ४३६ ।। तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् । द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ।। ४३७ ।। तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः । दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ।। ४३८ ।। तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु । सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ।। ४३९ ।। प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः । लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ।। ४४० ।। मधुनीडसमुत्पत्तावेवमेव फलं भवेत् । वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ।। ४४१ ।। खातयोग्यं खनित्वादावापूर्य लवणादिभिः । शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ।। ४४२ ।। पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः । संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ।। ४४३ ।। बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा । गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ।। ४४४ ।। जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् । कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ।। ४४५ ।। राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् । मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ।। ४४६ ।। संशोध्य गोमयाम्भोभिस्संप्रोक्ष्यास्रजवारिणा । देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ।। ४४७ ।। वल्मीकस्य पुरा प्रोक्तदिनसंख्यावशेन तु । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ४४८ ।। महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् । पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ।। ४४९ ।। वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् । अघोरं त्रिशतं जप्त्वा संपूर्णस्नपनं नयेत् ।। ४५० ।। विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते । हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ।। ४५१ ।। कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा । जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ।। ४५२ ।। पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः । इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ।। ४५३ ।। यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् । द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ।। ४५४ ।। क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धयस । स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ।। ४५५ ।। भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते । तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ।। ४५६ ।। तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् । जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ।। ४५७ ।। कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् । शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ।। ४५८ ।। संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् । सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ।। ४५९ ।। अघोरेणजपः पश्चात् कर्तव्यश्शतसंख्यया । तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ।। ४६० ।। पिधानलोपे घोरेण शतसंख्यं जपेद्गुरुः । कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ।। ४६१ ।। उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् । तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ।। ४६२ ।। रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् । तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ।। ४६३ ।। पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा । गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ।। ४६४ ।। तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे । पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ।। ४६५ ।। कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् । शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ।। ४६६ ।। जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ४६७ ।। पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः । तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ।। ४६८ ।। देवं संपूज्य विधिवत् दिशाहोमं तु कारयेत् । इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ।। ४६९ ।। दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः । दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ।। ४७० ।। मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके । राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ।। ४७१ ।। बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा । भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ।। ४७२ ।। संपूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते । कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ।। ४७३ ।। सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् । विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ।। ४७४ ।। तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः । शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ।। ४७५ ।। विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् । समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ।। ४७६ ।। कुम्भे च करके पीठे मृदादिपरिकल्पिते । इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ।। ४७७ ।। तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः । पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ।। ४७८ ।। तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् । एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ।। ४७९ ।। पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् । क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ।। ४८० ।। सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः । पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ।। ४८१ ।। कर्तारं बाधते नित्यं शक्तानपि च बाधते । तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ।। ४८२ ।। ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये । उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ।। ४८३ ।। एककालं द्विकालं वा त्रिकालं जपसंयुतम् । गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ।। ४८४ ।। सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा । सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ।। ४८५ ।। साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा । स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ।। ४८६ ।। जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् । वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ।। ४८७ ।। भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च । कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ।। ४८८ ।। पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि । ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ।। ४८९ ।। शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः । विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ।। ४९० ।। अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः । नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ।। ४९१ ।। तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च । व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ।। ४९२ ।। ततस्थानं देवदेवस्य शिवस्यामिततेजसः । योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ।। ४९३ ।। वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा । सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ।। ४९४ ।। निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा । पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ।। ४९५ ।। ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च । गणपस्कन्दनन्दीश वसूनां नागपस्य च ।। ४९६ ।। मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः । कल्पितं स्थानमीशस्य योग्यमेव न संशयः ।। ४९७ ।। सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् । साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ।। ४९८ ।। ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति । ते तु दुर्मतयः प्रोक्तास्सुचिरं संचरन्त्यलम् ।। ४९९ ।। रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः । मदैक शरणा ये तु तैः पूज्योहं न चापरैः ।। ५०० ।। अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ।। ५०१।। तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् । सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ।। ५०२ ।। देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ।। ५०३ ।। प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै । तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ।। ५०४ ।। बालाबलानां बद्धानामातुराणां च पादतः । प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ।। ५०५ ।। ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ।। ५०६ ।। अतो बालनरस्यास्य नापराधो न पातकम् । राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ।। ५०७ ।। देश आदिश्यते येन दिशिकस्त्विति कथ्यते । देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ।। ५०८ ।। भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च । हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ।। ५०९ ।। नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते । सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ।। ५१० ।। प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः । कामतस्तूपवासश्च लुप्ते देवार्चने यदा ।। ५११ ।। एककालार्चके वापि द्विकालाद्यर्चकेपि वा । एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ।। ५१२ ।। उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते । बहुकालार्चकस्यापि द्विकालादि विलोपने ।। ५१३ ।। लुप्तसंख्यावशेनैव प्रायश्चित्तं समाचरेत् । द्विदिनादि विलोपे तु बहुरूपसहस्रतः ।। ५१४ ।। प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने । अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ।। ५१५ ।। संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते । स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ।। ५१६ ।। नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः । लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ।। ५१७ ।। हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः । सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ।। ५१८ ।। साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् । द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ।। ५१९ ।। एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् । जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ।। ५२० ।। संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः । अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ।। ५२१ ।। द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः । संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र संमता ।। ५२२ ।। अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा । प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ।। ५२३ ।। ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः । क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ।। ५२४ ।। लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् । पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ।। ५२५ ।। श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः । त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ।। ५२६ ।। मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् । रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ।। ५२७ ।। तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् । विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ।। ५२८ ।। तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् । विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ।। ५२९ ।। स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् । प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ।। ५३० ।। वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् । चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ।। ५३१ ।। लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि । नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ।। ५३२ ।। अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि । विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ।। ५३३ ।। अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् । प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ।। ५३४ ।। अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् । व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ।। ५३५ ।। गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । अविधाय पवित्रं तदाषाढादिषु पञ्चसु ।। ५३६ ।। लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् । पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ।। ५३७ ।। अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते । जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ।। ५३८ ।। शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते । सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ।। ५३९ ।। स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः । नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ।। ५४० ।। शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् । अक्षमालां कराद्भ्रष्टां आलयेद्गन्धवारिणा ।। ५४१ ।। गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि । घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ।। ५४२ ।। पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा । शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। ५४३ ।। प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् । केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ।। ५४४ ।। अघोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ।। ५४५ ।। अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् । पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ।। ५४६ ।। द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् । महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ।। ५४७ ।। एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् । निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ।। ५४८ ।। भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने । अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ।। ५४९ ।। यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः । निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ।। ५५० ।। लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ।। ५५१ ।। चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् । ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ।। ५५२ ।। नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।। ५५३ ।। पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ।। लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् । स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ।। ५५५ ।। यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा । पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ।। ५५६ ।। भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा । देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ।। ५५७ ।। व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् । करोति यस्य संमूढा मद्धनस्तेयकृन्मतः ।। ५५८ ।। मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा । यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ।। ५५९ ।। त एवातीत दुष्टामद्भक्षितादपि सोषदाः । तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ।। ५६० ।। नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः । निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।। ५६१ ।। सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् । मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ।। ५६२ ।। स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते । भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ।। ५६३ ।। शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति । अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ।। ५६४ ।। भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः । मद्देहधारिणो लोके देशिका मत्परायणाः ।। ५६५ ।। मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु । तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ।। ५६६ ।। सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् । प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ।। ५६७ ।। मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् । अघोरायुत जापश्च गोमयालिप्तमण्डले ।। ५६८ ।। पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् । प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ।। ५६९ ।। अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् । एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ।। ५७० ।। उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् । महापातकिनां प्रोक्तं महाव्रतमिहागमे ।। ५७१ ।। अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५७२ ।। महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः । कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ।। ५७३ ।। ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते । तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ।। ५७४ ।। अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् । गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ।। ५७५ ।। दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् । अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ।। ५७६ ।। पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् । माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ।। ५७७ ।। सामान्यानि विजानीयाद् मद्यान्येकादशैव तु । द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ।। ५७८ ।। पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् । एकादशसुरापाने कुर्याद्व्रतदशांशकम् ।। ५७९ ।। सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः । गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ।। ५८० ।। द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते । सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ।। ५८१ ।। सुवर्णस्यापहारेण शतादभ्याधिके वधः । क्षत्रियादिषु संप्रोक्तो विप्रस्य न वधः क्वचित् ।। ५८२ ।। निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् । दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ।। ५८३ ।। शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु । शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ।। ५८४ ।। रजतस्यापहरणे धान्यस्य द्विगुणं मतम् । सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ।। ५८५ ।। दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि । गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ।। ५८६ ।। याजनं योनि संबन्धं स्वाध्यायं सहभोजनम् । पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ।। ५८७ ।। वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् । अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ।। ५८८ ।। मातृष्वसा च भगिनी स्वसुता च पितृष्वसा । आसां च गमनं विप्रास्त्वनुपातकमीरितम् ।। ५८९ ।। विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः । चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ।। ५९० ।। लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः । द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ।। ५९१ ।। तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु । दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ।। ५९२ ।। संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति । देवक्षेत्रापहरणं देवोपहरणाहृतिः ।। ५९३ ।। शिवागमापहारश्च शिवलिङ्गापहारणम् । शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ।। ५९४ ।। उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् । पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ।। ५९५ ।। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । सगोत्रा मातुलानीं च समान प्रवरा च या ।। ५९६ ।। तासां संगमनं चोपपातकं समुदाहृतम् । परिवित्तिः परिवेत्ता तयोर्याजनमेव च ।। ५९७ ।। तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् । गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त संग्रहः ।। ५९८ ।। पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने । उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ।। ५९९ ।। भूवेश्मरत्नवापीनां कुजानामपहर्तृता । वापीकूपतटाकादेर्हरणं तूपपातकम् ।। ६०० ।। गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः । उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ।। ६०१ ।। तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे । तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ।। ६०२ ।। तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् । तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ।। ६०३ ।। उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् । गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ।। ६०४ ।। गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति । गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ।। ६०५ ।। गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् । रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ।। ६०६ ।। पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । याजने पादहीनं स्याच्चरेत् सर्वं निपातने ।। ६०७ ।। औषधं लवणं चैव स्नेहपिण्याहभोजनम् । अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।। ६०८ ।। न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् । बलाभावाद्विपद्येत गौश्चरन्ती कथंचन ।। ६०९ ।। जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ।। ६१० ।। शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा । शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ।। ६११ ।। उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् । कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ।। ६१२ ।। नास्तिक्यमभिचारश्चायाज्य याजनमेव च । नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ।। ६१३ ।। मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् । तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ।। ६१४ ।। भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् । वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ।। ६१५ ।। नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् । वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ।। ६१६ ।। स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् । स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ।। ६१७ ।। पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् । शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ।। ६१८ ।। विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् । रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ।। ६१९ ।। रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् । विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ।। ६२० ।। चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् । व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ।। ६२१ ।। विप्रस्त्रीगमने चैवोपव्रतंतु समाचरेत् । पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ।। ६२२ ।। ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि । विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ।। ६२३ ।। उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् । महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ।। ६२४ ।। एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् । शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ।। ६२५ ।। शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये । कन्यासंगमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ।। ६२६ ।। वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? । तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ।। ६२७ ।। अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये । प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ।। ६२८ ।। अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु । रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ।। ६२९ ।। नदीशैलूषिकी वेणुजीवनी गमने व्रतम् । पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ।। ६३० ।। अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः । गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ।। ६३१ ।। न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् । न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ।। ६३२ ।। न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् । शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ।। ६३३ ।। उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः । उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ।। ६३४ ।। सहस्रमयुतं चैव जपो मध्यमहीनयोः । द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ।। ६३५ ।। जघन्योच्छिष्ट संपर्कादेवं शतगुणं भवेत् । जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ।। ६३६ ।। शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् । स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ।। ६३७ ।। सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् । स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ।। ६३८ ।। तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः । निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ।। ६३९ ।। कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः । सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ।। ६४० ।। यनश्ययासनानां च कांस्यरीतिशिलायसाम् । त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ।। ६४१ ।। व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् । वानरश्वमृगाणां च विष्ठाशनवराहयोः ।। ६४२ ।। दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते । शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ।। ६४३ ।। हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये । उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ।। ६४४ ।। कुक्कुटश्येन भासानामथ हंसमयूरयोः । पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ।। ६४५ ।। कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः । पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ।। ६४६ ।। मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः । नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ।। ६४७ ।। वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा । पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ।। ६४८ ।। भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः । तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ।। ६४९ ।। अनस्थिमत्सु चैतेषु शताघोरजपोमतः । अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ।। ६५० ।। हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा । पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ।। ६५१ ।। कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् । गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ।। ६५२ ।। योगंकृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् । प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ।। ६५३ ।। अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते । कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ।। ६५४ ।। अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् । गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ।। ६५५ ।। तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् । पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ।। ६५६ ।। पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः । मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ।। ६५७ ।। निषेधाभावतस्तस्य दोषस्तत्र न जायते । नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ।। ६५८ ।। गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् । गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ।। ६५९ ।। काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः । सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ।। ६६० ।। पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् । घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ।। ६६१ ।। कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् । रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ।। ६६२ ।। धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् । पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ।। ६६३ ।। अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् । क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ।। ६६४ ।। अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतंजपेत् । अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ।। ६६५ ।। उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः । दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ।। ६६६ ।। तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते । तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ।। ६६७ ।। स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति । आचम्यादीक्षितेनापि सजातीशशतं जपेत् ।। ६६८ ।। सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् । तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ।। ६६९ ।। इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु । शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ।। ६७० ।। भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु । स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ।। ६७१ ।। इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये । त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ।। ६७२ ।। पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः । कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ।। ६७३ ।। गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च । कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ।। ६७४ ।। ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् । रजकादि प्रवेशादावयुतार्धमजानतः ।। ६७५ ।। बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः । हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ।। ६७६ ।। शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा । भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ।। ६७७ ।। उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता । प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ।। ६७८ ।। तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् । दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ।। ६७९ ।। चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा । शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ।। ६८० ।। तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः । उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ।। ६८१ ।। विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् । तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ।। ६८२ ।। शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् । शरावपत्र पुटक प्रभृतीनां च भोजने ।। ६८३ ।। शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते । सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ।। ६८४ ।। गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः । बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ।। ६८५ ।। प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा । ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ।। ६८६ ।। विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा । श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ।। ६८७ ।। नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः । उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ।। ६८८ ।। जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना । अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ।। ६८९ ।। निर्माल्यसंकरे कामात् संपूज्यश्चण्डनायकः । तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ।। ६९० ।। अकामतोवा संपर्कात् केवलस्य शतं भवेत् । वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ।। ६९१ ।। जलजानां च सर्वेषां वैणवानां तथाम्भसा । स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ।। ६९२ ।। शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् । मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ।। ६९३ ।। फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् । क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ।। ६९४ ।। अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते । परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ।। ६९५ ।। प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा । समयानां प्रमादे तु शक्तिजापः प्रशस्यते ।। ६९६ ।। वस्त्रशययासनादीनां स्तेये गायत्रिकाशतम् । गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ।। ६९७ ।। शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः । म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ।। ६९८ ।। सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने । पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ।। ६९९ ।। अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ।। ७०० ।। देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ।। ७०१ ।। अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। ७०२ ।। आततायिनमायान्तमपि शस्त्रान्तगं रणे । जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ।। ७०३ ।। युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा विचारतः ।। ७०४ ।। असूर्या नाम ये लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ।। ७०५ ।। न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् । यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ।। ७०६ ।। ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् । शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ।। ७०७ ।। तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् । शैवं पाशुपतं कालामुखं कापालधारिणम् ।। ७०८ ।। यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना । ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ।। ७०९ ।। शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ । तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ।। ७१० ।। अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ।। ७११ ।। देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः । तथैवेह समुद्दिष्टमभिशापो महात्मनि ।। ७१२ ।। औषधं स्नेहमाहारं ददतो बन्धकस्य च । प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ।। ७१३ ।। प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् । निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ।। ७१४ ।। नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः । तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ।। ७१५ ।। तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् । तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ।। ७१६ ।। किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् । द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ।। ७१७ ।। क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः । ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ।। ७१८ ।। विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् । लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ।। ७१९ ।। मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा । मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ।। ७२० ।। उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा । राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ।। ७२१ ।। वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता । यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ।। ७२२ ।। दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः । सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ।। ७२३ ।। सर्वलोपेकृते तस्य महादोषः प्रजायते । शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ।। ७२४ ।। अनेन विधिना येन सर्वैनैमित्तिकादितः । विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ।। ७२५ ।। शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् । वृषाधिवासने हीने ध्वजे वारोपिते सति ।। ७२६ ।। गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् । वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ।। ७२७ ।। किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् । ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ।। ७२८ ।। शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् । ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ।। ७२९ ।। शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये । वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ।। ७३० ।। शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् । दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ।। ७३१ ।। मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा । स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ।। ७३२ ।। स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् । दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि संभवे ।। ७३३ ।। शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् । ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयंकरः ।। ७३४ ।। सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् । शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ।। ७३५ ।। एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् । ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ।। ७३६ ।। अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते । रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ।। ७३७ ।। आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् । पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ।। ७३८ ।। शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् । ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ।। ७३९ ।। पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः । पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ।। ७४० ।। मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा । केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ।। ७४१ ।। लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् । दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ।। ७४२ ।। दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः । रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ।। ७४३ ।। दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः । प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ।। ७४४ ।। उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् । ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ।। ७४५ ।। आवर्तयेदघोरेण त्रिशतं देशिकस्तदा । घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ।। ७४६ ।। आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा । ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ।। ७४७ ।। वृषकुम्भविभेदादिकारणात् केतुरोहणम् । कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ।। ७४८ ।। मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे । तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ।। ७४९ ।। एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् । आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ।। ७५० ।। एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः । ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ।। ७५१ ।। तदधो लम्बिते केतौ शान्तिहोमं विधाय च । आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ।। ७५२ ।। भेरीसंताडने हीने लोको मूकः प्रजायते । शान्तिहोमं तदा कृत्वा भेरीसंताडयेत्ततः ।। ७५३ ।। उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् । देवतावाहने हीने देवादीनामसन्निधिः ।। ७५४ ।। शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् । ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ।। ७५५ ।। अनाहूतास्तदा दोषो नान्यानाहूतिरापदि । पताकारोपणोपेते देवानावाहयेन्न वा ।। ७५६ ।। भेरीताडनकार्यं तु तद्वदेव समाचरेत् । भेरीचर्मादि भेदादौ कोणच्छेदादि संभवे ।। ७५७ ।। अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् । तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ।। ७५८ ।। कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् । तत्काले बलिकाले वा वादके पतिते भुवि ।। ७५९ ।। शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये । भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ।। ७६० ।। शान्तिहोमं तदा कृत्वा भेरीं संपूजयेद्धृदा । यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ।। ७६१ ।। विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् । कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ।। ७६२ ।। प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् । ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ।। ७६३ ।। शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये । विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ।। ७६४ ।। स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे । उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ।। ७६५ ।। नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् । यागोपकरणेऽप्येवं किं तु यागावसानके ।। ७६६ ।। शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च । प्रधानाधममध्यानां करणानां विलोपने ।। ७६७ ।। शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् । विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ।। ७६८ ।। पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये । शिवकुंभेषुवर्धन्यावृतेषु घटेषु वा ।। ७६९ ।। उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् । भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ।। ७७० ।। शान्तिहोममघोराणुजपं पञ्चशतं चतुः । शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ।। ७७१ ।। कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् । वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ।। ७७२ ।। स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः । कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ।। ७७३ ।। शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये । कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ।। ७७४ ।। जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः । पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ।। ७७५ ।। सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् । हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ।। ७७६ ।। स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये । शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ।। ७७७ ।। जपेद्घोरं त्रिशतं तदङ्गानां विलोपने । तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ।। ७७८ ।। पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् । आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ।। ७७९ ।। बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् । त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ।। ७८० ।। उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् । स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ।। ७८१ ।। वृषिकाले महावाते राष्ट्रक्षोभे महाभये । ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ।। ७८२ ।। स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः । एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ।। ७८३ ।। अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः । तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ।। ७८४ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ।। ७८५ ।। वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् । बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ।। ७८६ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ।। ७८७ ।। तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् । आलये बलियाने वा तस्यां देवालयावृतौ ।। ७८८ ।। देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः । तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ।। ७८९ ।। नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः । इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ।। ७९० ।। ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते । अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ।। ७९१ ।। अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो । तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ।। ७९२ ।। अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः । एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ।। ७९३ ।। अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् । अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ।। ७९४ ।। हीनेविताने घोरणोः शतसंख्यं जपं नयेत् । ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसंख्यया ।। ७९५ ।। ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः । बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ।। ७९६ ।। तद्दिनाधिपमन्त्रेण जपेतद्विशतसंख्यया । बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ।। ७९७ ।। बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् । मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ।। ७९८ ।। देवालये बलिर्हीनो यदाघोरं शतं जपेत् । यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ।। ७९९ ।। तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् । विधाय यानकाले वातदन्ते वा बलिं नयेत् ।। ८०० ।। अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि । शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ।। ८०१ ।। तच्छेदभेदपातादौ तथैव फलमादिशेत् । तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ।। ८०२ ।। विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् । नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ।। ८०३ ।। पतितं चेत्यजेदन्नं संपाद्यान्नं समाचरेत् । समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ।। ८०४ ।। बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् । भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ।। ८०५ ।। दशायुधानि वा भूमौ संभूतानि पतन्तिचेत् । निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ।। ८०६ ।। च्छेदभेदादियुक्तानि यदि दारुमयानि वा । तथान्यानि समापाद्य संभूतानीतराणि वा ।। ८०७ ।। संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् । लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ।। ८०८ ।। शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च । धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ।। ८०९ ।। च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् । उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ।। ८१० ।। समाप्योत्सवकार्यं तु तत्संधायानुकर्मवत् । संप्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ।। ८११ ।। यानकालेऽन्यकाले वा बेरादौ पतिते सति । राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ।। ८१२ ।। अव्यङ्गे पतिते बेरे पतिते वा करादधः । द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ।। ८१३ ।। संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती । स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ।। ८१४ ।। नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् । अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ।। ८१५ ।। अधिवासादिकं कर्म सद्य एव समाचरेत् । मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ।। ८१६ ।। पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् । उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ।। ८१७ ।। तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् । कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ।। ८१८ ।। धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः । गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ।। ८१९ ।। ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि । प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ।। ८२० ।। उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च । लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ।। ८२१ ।। उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः । बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ।। ८२२ ।। शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा । कुर्वाणश्चेत् क्रियांभूमौ पतितो देशिकस्तदा ।। ८२३ ।। ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् । जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ।। ८२४ ।। बलिदातरि तत्काले पतिते तं शतं जपेत् । आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ।। ८२५ ।। गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः । पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ।। ८२६ ।। पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः । अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ।। ८२७ ।। प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः । विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ।। ८२८ ।। निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् । रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ।। ८२९ ।। शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् । यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ।। ८३० ।। सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् । तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ।। ८३१ ।। सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् । आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ।। ८३२ ।। पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् । विनोद दर्शन काले जातश्चेत् कलहो महान् ।। ८३३ ।। शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् । विनोददर्शने हीने संहिताहोममाचरेत् ।। ८३४ ।। नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् । यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ।। ८३५ ।। देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया । स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ।। ८३६ ।। हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते । प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ।। ८३७ ।। तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह । शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ।। ८३८ ।। नृत्तमूर्त्युत्सवे हीने पूर्वसंकल्पिते नराः । भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ।। ८३९ ।। नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् । यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ।। ८४० ।। शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् । मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ।। ८४१ ।। शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् । हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ।। ८४२ ।। तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति । निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ।। ८४३ ।। एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति । अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ।। ८४४ ।। चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् । शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ।। ८४५ ।। विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः । चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ।। ८४६ ।। महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः । शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ।। ८४७ ।। पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा । कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ।। ८४८ ।। तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः । प्रासादे मनुजे जाते मृते राजो भयं महत् ।। ८४९ ।। मृतादि तत्प्रोदेशांत्तु विसृज्य च बहिस्ततः । प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ।। ८५० ।। तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै । मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ।। ८५१ ।। परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् । प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ।। ८५२ ।। पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् । शैव संभोजनं चान्ते जलसंप्रोक्षणं नयेत् ।। ८५३ ।। स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् । शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ।। ८५४ ।। प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना । अन्तस्सालान्तरे चेद्धि जलसंप्रोक्षणं नयेत् ।। ८५५ ।। अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् । गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ।। ८५६ ।। त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः । अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ।। ८५७ ।। पाकस्थानादि देशेषु मरणादौ च संभवे । पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ।। ८५८ ।। शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा । प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ।। ८५९ ।। धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि । परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ।। ८६० ।। कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् । सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ।। ८६१ ।। सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः । गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ।। ८६२ ।। स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् । केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ।। ८६३ ।। देवतामण्डपे तत्स्थदेवान् संप्रोक्ष्य गव्यतः । संपूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ।। ८६४ ।। एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च । उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ।। ८६५ ।। शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः । ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ।। ८६६ ।। गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् । एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ।। ८६७ ।। वस्त्रशययासनादीनां दाहच्छेदादि संभवे । दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ।। ८६८ ।। कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् । पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ।। ८६९ ।। प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः । वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ।। ८७० ।। महादोष समाख्यातो दोषो नान्यत्र कथ्यते । एवमेव नराणां च तदा स्नानं विधाय च ।। ८७१ ।। जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् । नराणां शिवभक्तानां दीक्षितानां शिवाय वा ।। ८७२ ।। वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये । कारयेत् संहिताहोमघोरं वा जपेत्तथा ।। ८७३ ।। अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे । संप्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ।। ८७४ ।। तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् । संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ।। ८७५ ।। गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् । गव्यसंप्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ।। ८७६ ।। सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् । गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।। ८७७ ।। मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् । श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ।। ८७८ ।। चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके । स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ।। ८७९ ।। तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् । यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ।। ८८० ।। व्यपोह्य पूर्वकुम्भादीन् संपूज्य वृषभध्वजम् । मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ।। ८८१ ।। कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् । कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ।। ८८२ ।। महानसेऽथवा स्थानमम्डपे गोपुरादिके । विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ।। ८८३ ।। प्रपायामग्निदग्धायां संहिताहोममाचरेत् । विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ।। ८८४ ।। अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् । स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ।। ८८५ ।। शान्तिश्च शान्तिहोमश्च संहिता होम एव च । दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ।। ८८६ ।। परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् । उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म संमतम् ।। ८८७ ।। ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् । महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ।। ८८८ ।। प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् । सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ।। ८८९ ।। अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः । अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ।। ८९० ।। आचार्य संकरो राष्ट्रं राजानं नाशयत्यथ । एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ।। ८९१ ।। कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसंकरः ।। ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि कल्पनम् ।। ८९२ ।। दीपनैवेद्य संकॢप्तिर्देवे नित्यार्चनं च यत् । सकलाराधनं यच्च परिवारार्चनादिकम् ।। ८९३ ।। नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् । उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ।। ८९४ ।। तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् । अनेक नरनिर्वत्य कथमेकः करोत्यहो ।। ८९५ ।। शिवः - साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् । नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ।। ८९६ ।। एकाचार्येण कर्तव्यमिति साधूदितं मवा । देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ।। ८९७ ।। तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः । आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ।। ८९८ ।। शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः । रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ।। ८९९ ।। तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् । यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ।। ९०० ।। यत्कृतं राजकार्यं स्यात्तथैवापि संमतम् । अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ।। ९०१ ।। तत्र संकरदोषोऽपि फलमेवं च निष्कृतिः । क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ।। ९०२ ।। सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् । अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः ।। ९०३ ।। शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये । शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ।। ९०४ ।। तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ।। ९०५ ।। इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ।। प्रणवासनमारूढं दुराधर्पं महाबलम् । पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् । कपाल मालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामाला नागाभरण लेलिहम् । सूर्यकोट्ययुताभं च विघ्नसंघातमर्दकम् । भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ।। खड्गचापमहाशूलाभय पाशांश्च दक्षिणे । खेट वाण कपालांश्च वरप्रासौ च वामतः ।। पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् । ध्यात्वैवं उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ।। सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् । वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ।। कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् । मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ।। अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ।। ध्यायेत् सूर्यसहस्राभं अघोरास्त्रं अरिन्दमम् । प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।। त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् । सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ।। चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् । नृत्यमानं महाकार्यं नागाभरणभूषितम् ।। देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३१. एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् । रजन्यां दर्शनं भानोः परराज भयं भवेत् ।। १ ।। विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् । दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ।। २ ।। पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा । संभवे भूमि कंपेतु नृप भङ्गो भवेद् ध्रुवम् ।। ३ ।। मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ संमितैः । तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ।। ४ ।। स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् । सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ।। ५ ।। प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् । नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ।। ६ ।। तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् । सांबं कुंभे च वर्धन्यां परितोष्ठ घटेषु च ।। ७ ।। स सूत्रांबरहैमेषु सप्ततीर्थं च कन्यया । पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ।। ८ ।। कुंभांभः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् । प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ।। ९ ।। सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् । कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ।। १० ।। शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् । तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ।। ११ ।। जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् । प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ।। १२ ।। गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् । पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ।। १३ ।। भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् । सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ।। १४ ।। मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् । मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ।। १५ ।। तद्द्रव्य स्नपनं कुर्यात् भूमिकंपोक्तमार्गतः । विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ।। १६ ।। शैवान् संभोजयेत् प्रश्चादेवं सप्ताहमाचरेत् । लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ।। १७ ।। लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे । संपूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ।। १८ ।। दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः । पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ।। १९ ।। लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा । वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ।। २० ।। शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् । अकस्मात्पतितं धाम मूलादामस्तकं यदि ।। २१ ।। नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् । स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ।। २२ ।। शान्त्युक्त दिन संख्यया वशेनैतत्समाचरेत् । प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ।। २३ ।। त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके । कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ।। २४ ।। प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः । स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ।। २५ ।। नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् । अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ।। २६ ।। निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् । धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ।। २७ ।। अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा । मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ।। २८ ।। धाम स्थानान्तरं प्राप्तं यदिलिंगादिसंयुतम् । नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ।। २९ ।। संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् । शैव संभोजनोपेतां विप्रभुक्ति समन्वितम् ।। ३० ।। लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा । बाणलिंगादिकं वाथ प्रासादेन समन्वितम् ।। ३१ ।। अथवा पूर्वलिंगं चेत् तत्प्रासाद समन्वितम् । अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ।। ३२ ।। हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् । स्थानानन्तर गतं लिंगं उदक् पूर्वत्र विन्यसेत् ।। ३३ ।। तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना । वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ।। ३४ ।। तद् वृक्ष जाति संभूत समिद्भिर्मूर्ति होमकम् । समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ।। ३५ ।। तत्समीपे स्थिते लिंगे स्वयं भूतादिके परम् । स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ।। ३६ ।। स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति संभवम् । तदन्य कुसुमे जाते तदन्य फल संभवे ।। ३७ ।। संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे । सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ।। ३८ ।। तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् । शिवलिङ्गे च बेरे वा पीठे वोष्णादि संभवे ।। ३९ ।। सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् । गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ।। ४० ।। स्नापयेत् परमेशानं पञ्चामृत समन्वितम् । अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ।। ४१ ।। सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः । चन्दनागरु कर्पूरोशीर कुंकुम संयुतम् ।। ४२ ।। गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् । दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ।। ४३ ।। शीतकुंभोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा । नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ।। ४४ ।। जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि । बहुशीर्षक हस्तांघ्रि नासादेहादि संयुतः ।। ४५ ।। स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः । स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ।। ४६ ।। तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् । शिवं संपूज्य विधिवत् दिशाहोमं समाचरेत् ।। ४७ ।। शैवान्संपूज्य विधिवत् शान्तिहोमं समाचरेत् । शिवान्संभोजये देवं नयेद्वा सप्तपञ्चमम् ।। ४८ ।। निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने । नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ।। ४९ ।। युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् । शिवं संपूज्य विधिवत् दिशा होमन्तु कारयेत् ।। ५० ।। स्नापयेत् परमेशानं नव सप्ताह माचरेत् । लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ।। ५१ ।। प्रक्षाल्यास्त्रांबुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् । लिंगे बेरे विमाने वा मण्डपे गोपुरादिषु ।। ५२ ।। परिवारालये साले देवेशास्थानमण्डपे ।। ५२१/२ ।। सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् । नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ।। ५३१/२ ।। तत्र लिंगे च पिठे च बेरे वायं विधिर्भवेत् । दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ।। ५४१/२ ।। अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् । पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ।। ५५१/२ ।। सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् । स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ।। ५६१/२ ।। एवं कृतेतु सप्ताहं अन्ते चोत्सव माचरेत् । प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ।। ५७१/२ ।। अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् । प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ।। ५८१/२ ।। शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् । प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ।। ५९१/२ ।। शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके । सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ।। ६०१/२ ।। प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः । तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ।। ६११/२ ।। ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् । करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ।। ६२१/२ ।। सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे । महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ।। ६३१/२ ।। पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् । धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ।। ६४१/२ ।। गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् । शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ।। ६५१/२ ।। पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् । शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ।। ६६१/२ ।। लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् । क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ।। ६७१/२ ।। तदर्धैवा तदर्धैवा शीत कुंभ स्तदन्तिके । लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ।। ६८१/२ ।। राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा । पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ।। ६९१/२ ।। शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः । चन्दनो शीर कर्पूर कुंकुमा गरु संयुतम् ।। ७०१/२ ।। पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् । संपूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ।। ७११/२ ।। शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि । भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ।। ७२१/२ ।। संप्रोक्ष्यस्त्रांबुना भेरी प्रमुखान् गन्धपुष्पकैः । अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ।। ७३१/२ ।। प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने । जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ।। ७४१/२ ।। नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् । रात्राविंद्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ।। ७५१/२ ।। शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने । अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ।। ७६१/२ ।। वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ।। ७७ ।। नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः । अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ।। ७८ ।। प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति । राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ।। ७९ ।। सप्ताहं वाथ पञ्चाहं तत् पात दिन संख्यकम् ! ।। ७९१/२ ।। स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये । क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे ।। ८०१/२ ।। चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते । तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ।। ८११/२ ।। शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् । वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ।। ८२१/२ ।। क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् । तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ।। ८३१/२ ।। लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके । सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ।। ८४१/२ ।। शिवं संपूज्य विधिवत् दिशाहोमन्तु कारयेत् । पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ।। ८५१/२ ।। अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिके । समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ।। ८६१/२ ।। शिवं संपूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् । तद्देशे शान्ति च यद्देशे पतितिस्तरुः ।। ८७१/२ ।। तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके । तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ।। ८८१/२ ।। शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् । तदेक शाखा पतने कलहो भुवि जायते ।। ८९१/२ ।। शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् । द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ।। ९०१/१ ।। शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः । एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ।। ९११/२ ।। शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि । मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ।। ९२१/२ ।। नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः । उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ।। ९३१/२ ।। कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे । अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ।। ९४१/२ ।। सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः । तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ।। ९५१/२ ।। अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः । आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ।। ९६१/२ ।। षड्वेद नेत्रमात्रं तु वेष्टयेत् लिंग पिण्डिके । बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ।। ९७१/२ ।। मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् । एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ९८१/२ ।। राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा । गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ।। ९९१/२ ।। संपूज्य देव देवेशं सप्ताहं शान्ति माचरेत् । पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ।। १००१/२ ।। मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु । तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ।। १०११/२ ।। शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये । प्रत्यहं होमरक्षां च देव देव प्रसादजम् ।। १०२१/२ ।। भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः । सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ।। १०३१/२ ।। गुरुं पुरोहितं वाथ महिषीं गजमेव च । वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ।। १०४१/२ ।। प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा । परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ।। १०५१/२ ।। ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् । मार्जार प्रमुखानां रोदनं यदि जायते ।। १०६१/२ ।। स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये । तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ।। १०७१/२ ।। शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च । शान्ति होमोऽथवा घोर जपो मार्जाररोदने ।। १०८१/२ ।। शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् । अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत् ।। १०९१/२ ।। लिंगे बेरे च पीठादौ खद्योतारोहणे सति । राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ।। ११०१/२ ।। तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् । तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ।। ११११/२ ।। स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा । नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ।। ११२१/२ ।। लिंगमूले च पीठे वा बेरे वा गर्भगेहके । परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ।। ११३१/२ ।। प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये । तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ।। ११४१/२ ।। पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् । कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ।। ११५१/२ ।। संजाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् । चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ।। ११६१/२ ।। सूर्येवास्तंगते तस्मिन् उदयात् पूर्वमेव वा । दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ।। ११७१/२ ।। दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् । शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ।। ११८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः पटलः ३२. द्वात्रिंशत्तमे पटले अनुकर्मविधिः अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् । प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ।। १ ।। हीने जात्यादि संस्थानेमानोन्मानादि हीनए । तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ।। २ ।। मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् । मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ।। ३ ।। तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते । स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ।। ४ ।। शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते । अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ।। ५ ।। मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः । अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ।। ६ ।। नागरे नागरं कुर्याद्वेसरे वेसरं मतम् । द्राविडे च तथा कार्यं वराटादौ तथा मतम् ।। ७ ।। घनेऽघने विमाने तु तथा भवनमिष्यते । भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ।। ८ ।। पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् । द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ।। ९ ।। नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि । नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ।। १० ।। अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् । सुस्थितंदुस्थितं वापि शिवलिङ्गं न चालयेत् ।। ११ ।। जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् । जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ।। १२ ।। जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते । जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ।। १३ ।। तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च । जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ।। १४ ।। भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते । लक्ष्मोज्झितंवज्रहतं संपुटं स्फुटितं तथा ।। १५ ।। आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् । त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ।। १६ ।। जीर्णाद्यैस्संयुतंत्याज्यं पीठं वा कशिला वृषः । अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ।। १७ ।। चलितं चालितं लिङ्गं पतितं पातितं तथा । अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ।। १८ ।। परित्यक्त शिलायोगमपि न स्थापितं भवेत् । तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ।। १९ ।। असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् । जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ।। २० ।। नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् । ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ।। २१ ।। न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः । स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ।। २२ ।। शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् । सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ।। २३ ।। बेरेऽप्येतत्समानं स्यांद्दुष्टे त्वन्यत्प्रयोजयेत् । बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ।। २४ ।। पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् । अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ।। २५ ।। लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः । कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ।। २६ ।। उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् । पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ।। २७ ।। उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् । अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ।। २८ ।। वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः । ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ।। २९ ।। शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् । ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ।। ३० ।। प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् । पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ।। ३१ ।। तमेव स्थापयेत्तत्र पुनरापादनं विना । भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ।। ३२ ।। शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् । रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ।। ३३ ।। वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले । लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ।। ३४ ।। तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् । अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ।। ३५ ।। तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा । सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ।। ३६ ।। ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः । शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ।। ३७ ।। अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् । पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ।। ३८ ।। चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकम्ज् । मण्डपे परिवारे च परिवारालयेऽप्यथा ।। ३९ ।। अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः । अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ।। ४० ।। ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ । सप्रमाणे यथा शास्त्रं विहितालंकृतान्विते ।। ४१ ।। अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते । प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ।। ४२ ।। दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते । तद्वास्तु परितोवृद्धिः समावाविषमापि वा ।। ४३ ।। गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् । ग्रामादीनां गृहादीनां शालानां च विशेषतः ।। ४४ ।। आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः । समं वा योजयेत्तस्मादधिकं वापि योजयेत् ।। ४५ ।। युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् । गृहमालिकयोर्भूमिं संख्ययापरिकल्पयेत् ।। ४६ ।। सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु । उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ।। ४७ ।। हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् । जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ।। ४८ ।। किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् । लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ।। ४९ ।। स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् । यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ।। ५० ।। सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते । तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ।। ५१ ।। पूर्वद्वारसमोपेत मेकतोरण संयुतम् । सर्वालंकार संयुक्तन्तर्भामालादि संयुतम् ।। ५२ ।। तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् । मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ।। ५३ ।। समिदाज्यतिलोपेतं हविषा च समन्वितम् । वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ।। ५४ ।। सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः । ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ।। ५५ ।। अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः । अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ।। ५६ ।। एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् । क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ।। ५७ ।। गत्वात दन्तिकं मंत्री हृदास्नाप्य प्रपूजयेत् । व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ।। ५८ ।। प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः । व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ।। ५९ ।। चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१/२ नमस्कारान्त संयुक्तं हृदयाद्यंग पञ्चकम् । न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ।। ६०१/२ ।। स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः । ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ।। ६११/२ ।। सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति । लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ।। ६२१/२ ।। विद्याविद्येश्वरैर्युक्तश्शंभुरत्रभविष्यति । एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ।। ६३१/२ ।। तस्माद्देवं समावाह्यकुंभे संस्थापयेत् गुरुः । अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ।। ६४१/२ ।। सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते । तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ।। ६५१/२ ।। संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् । प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ।। ६६१/२ ।। ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् । हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ।। ६७१/२ ।। विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् । तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ।। ६८१/२ ।। सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् । शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ।। ६९१/२ ।। भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् । प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ।। ७०१/२ ।। महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् । तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ।। ७११/२ ।। स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा । गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ।। ७२१/२ ।। एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः । मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ।। ७३१/२ ।। सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः । तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ।। ७४१/२ ।। तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके । संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ।। ७५१/२ ।। मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ । तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ।। ७६१/२ ।। मूललिंगन्नलब्धञ्चेद्देशकालानुरोधतः । षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ।। ७७१/२ ।। बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् । द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ।। ७८१/२ ।। कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः । षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ।। ७९१/२ ।। तत्र स्थं बाललिंगाद्यं त्यक्त्वामूलन्तुविन्यसेत् । सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ।। ८०१/२ ।। द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् । नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ।। ८११/२ ।। एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः । किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ।। ८२१/२ ।। परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः । शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ।। ८३१/२ ।। दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः । भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ।। ८४१/२ ।। शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः । तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ।। ८५१/२ ।। आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे । लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ।। ८६१/२ ।। वामदक्षिणसिद्धान्तभेदेन नव भेदिनः । शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ।। ८७१/२ ।। गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः । प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ।। ८८१/२ ।। तैरपि स्थापितं लिंगं मादिशैवस्समर्चयेत् । यामलत्व परंज्ञेयं तच्चमिश्रमिहोच्यते ।। ८९१/२ ।। वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् । वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ।। ९०१/२ ।। सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः । व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ।। ९११/२ ।। वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् । लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ।। ९२१/२ ।। तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् । गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ।। ९३१/२ ।। कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा । बृहस्पतिमतं सांख्यं योगंवैखानसन्तथा ।। ९४१/२ ।। वेदान्ताख्यञ्च मीमांस पुराणन्धर्म शास्त्रकम् । वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ।। ९५१/२ ।। तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् । सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ।। ९६१/२ ।। रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् । तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ।। ९७१/२ ।। लिंगाद्यमादिशैवेन स्थापितं पूजितन्तुवा । तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ।। ९८१/२ ।। तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः । तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ।। ९९१/२ ।। यदितैः पूजितं पश्चात् सेनानिं सेनया सह । अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ।। १००१/२ ।। शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति । तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ।। १०११/२ ।। तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् । राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ।। १०२१/२ ।। शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः । आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ।। १०३१/२ ।। तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः । तत् स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ।। १०४१/२ ।। शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः । कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ।। १०५१/२ ।। पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् । पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ।। १०६१/२ ।। अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् । कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ।। १०७१/२ ।। मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च । महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ।। १०८१/२ ।। ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः । तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ।। १०९१/२ ।। कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ।। ११० ।। पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् । लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ।। १११ ।। अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः । जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ।। ११२ ।। एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् । स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ।। ११३ ।। पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः । पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ।। ११४ ।। कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् । स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ।। ११५ ।। लिंगसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः । लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ।। ११६ ।। शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् । गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ।। ११७ ।। देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् । स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ।। ११८ ।। च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते । दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ।। ११९ ।। अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् । शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः।। १२० ।। ब्राह्मणान् भोजयेत् पश्चात् शैवान् संभोजयेत्ततः । प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ।। १२१ ।। मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा । मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ।। १२२ ।। सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये । आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ।। १२३ ।। तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् । सर्वेरंगैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ।। १२४ ।। लिङ्गे स्वायंभुवादौ तु जीर्णादौ शान्तिरीरितः । सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ।। १२५ ।। प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते । उत्सेधेरविमात्रान्तंक्षन्तव्यञ्चाङ्गुलादिकम् ।। १२६ ।। द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यंगेषुमात्रकम् । ग्रामखेटपुरादौतुदंडान्तं परिकीर्तितम् ।। १२७ ।। सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके । चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ।। १२८ ।। द्वाराद्यंगेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके । तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ।। १२९ ।। इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः ।। ३३. त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः काम्ययोग विधानंतु प्रवक्ष्यामि समासतः । काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ।। १ ।। सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः । तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ।। २ ।। व्यालबद्धजटाचूटः कपालदलमण्डितः । सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ।। ३ ।। चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् । महाकायो महादंष्ट्री किङ्किणीखसंयुतः ।। ४ ।। महाशूलाग्र संप्रोत महासुर विनाशनः । खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ।। ५ ।। वराभयकपालाहि पाशप्रासगदायकरः । दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ।। ६ ।। स्वसेना रक्षको नित्यं परसेनाभयंकरः । वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ।। ७ ।। सर्वदोष विनाशे तु समर्थो भक्तवत्सलः । असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ।। ८ ।। आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ।। ९ ।। चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः । त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ।। १० ।। सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः । ओं जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ।। ११ ।। एष एवामृतेशस्स्यादादौ कूटयुतो न वा । रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ।। १२ ।। हकारेण शरीरं तु रसमित्यादितः पठेत् । अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ।। १३ ।। आदौ स्याद्देवदेवेशेति (पदं) समुद्धरेत् । प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ।। १४ ।। पीठं जुंकारकॢप्तंस्यान्मूर्तिरों जुंसतो भवेत् । मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ।। १५ ।। कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् । अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ।। १६ ।। सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ।। १७ ।। व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः । त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ।। १८ ।। दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। १९ ।। अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो । न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ।। २० ।। भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् । तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ।। २१ ।। अमृतेशेन देवेन जलं संग्राह्य यत्नतः । शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ।। २२ ।। क्षीरेण सहसंपृक्तदूर्वाकाण्डमखण्डितम् । ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ।। २३ ।। देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् । नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ।। २४ ।। मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् । प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ।। २५ ।। कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम् । गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ।। २६ ।। स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान पुरादीनि न संशस्यः ।। २७ ।। किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा । अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ।। २८ ।। रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ।। २९ ।। स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् । किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ।। ३० ।। सप्तायुध समायुक्तं सर्वाभरणभूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। ३१ ।। धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् । मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ।। ३२ ।। पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् । पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ।। ३३ ।। शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् । दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ।। ३४ ।। घण्टां खेटं कपालं च शत्रुसंक्षय संमुखम् । अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ।। ३५ ।। अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः । ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिंदमम् ।। ३६ ।। प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।। ३७ ।। सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ।। ३८ ।। नृत्यमानं महाकायं नागाभरणभूषितम् । देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३९ ।। प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् । घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ।। ४० ।। ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः । चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ।। ४१ ।। ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् । घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ।। ४२ ।। प्रान्ते स्यादूहुंफडित्येवं चतुर्थ्यन्तं हृदादिकम् । नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ।। ४३ ।। परचक्रप्रथमने महाव्याधि प्रकोपने । शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ।। ४४ ।। किमनेन बहूक्तेन भयकालेऽप्युपस्थिते । मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ।। ४५ ।। परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् । मन्त्राणि योगयुक्तानि पावके शलभा यथा ।। ४६ ।। तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् । अनेनैव प्रकारेण ध्यात्वा संपूजयेद् गुरुः ।। ४७ ।। अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् । दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ।। ४८ ।। विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् । चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ।। ४९ ।। अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् । एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ।। ५० ।। हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् । संग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ।। ५१ ।। एवमभ्यर्चयेद्वोऽसौ सोऽयंमत्सदृशोमतः । तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ।। ५२ ।। सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः । पालनीयोविशेषेण साधकाधिपतिस्सदा ।। ५३ ।। दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते । वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ।। ५४ ।। फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि । ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ।। ५५ ।। दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् । मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ।। ५६ ।। स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः । नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ।। ५७ ।। शुद्धस्फटिकसंकाशं प्रसन्नवदनान्वितम् । गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ।। ५८ ।। व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् । शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ।। ५९ ।। वामे पद्मं च वह्निं च वरदाभयदं तु वा । पुस्तकेन युतंवाथ दधानं नयनत्रयम् ।। ६० ।। महावृषभसंयुक्तमनिसंघैस्समावृतम् । ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ।। ६१ ।। यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् । चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। ६२ ।। अथवान्य प्रकारेण भैरवं विकृताननम् । ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ।। ६३ ।। संग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः । अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ।। ६४ ।। यत् किंचित् क्रियते कर्म त्रैलोक्ये येन केनचित् । रहितो मन्त्रराजेन नैव सिध्यति साधकः ।। ६५ ।। आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पधस्तम् वक्त्रैर्युक्तं चतुर्भिः परमरुण चतुश्शक्तिभिर्व्याप्तदिक्कम् । कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालं भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि खट्वाङ्ग हस्तम् ।। ६६ ।। ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् । विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ।। ६७ ।। भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः । नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ।। ६८ ।। दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः । तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ।। ६९ ।। कामाचररतो वापि भावयेद्भास्करं सदा । वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।। ७० ।। सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् । ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ।। ७१ ।। शत्रुकृत्यादि संभूतरोगानीक विनाशनम् । चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ।। ७२ ।। स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु । ओं ह्रींकारं समुद्धृत्य तदन्ते कृष्णवाससे ।। ७३ ।। ततश्च सिंहवदने महावदन इत्यपि । महाभैरविवर्णेच सर्वशत्रुपदं तथा ।। ७४ ।। कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ।। ७५ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ।। ७६ ।। सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ।। ७६१/२ ।। ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ।। ७७१/२ ।। प्रत्यंगिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः । तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यंगिरात्मकः ।। ७८१/२ ।। प्रत्यंगिरेयं विख्यात श्शतवर्ण स्वरूपिणी । आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ।। ७९१/२ ।। दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् । तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ।। ८०१/२ ।। त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः । नमस्वाहावषड्वौषट् हुंपट्युक्ता हृदादयः ।। ८११/२ ।। सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् । कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ।। ८२१/२ ।। वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ।। ८३१/२ ।। अट्टहासादि शब्दैस्तु गर्जितामुदितामपि । कृष्णांबर धरां सासृक् मांसास्यां नर्तनेरताम् ।। ८४१/२ ।। मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् । कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ।। ८५१/२ ।। देवींध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् । ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ।। ८६१/२ ।। विद्याधरत्वलाभाय कृष्णागरुयुतं परम् । अथवा नाभिकंजल्कं जुहुयात् साधकोत्तमः ।। ८७१/२ ।। कदंबकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् । प्रियंगु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ।। ८८१/२ ।। करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् । खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ।। ८९१/२ ।। सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् । पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ।। ९०१/२ ।। धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् । कृष्णनीलं घृतं चैव स्तंभयेदभिचारतः ।। ९११/२ ।। रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् । कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ।। ९२१/२ ।। होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् । महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ।। ९३१/२ ।। गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् । जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ।। ९४१/२ ।। कुंकुमारोचनाश्चैव कार्पास फल गुग्गुलुः । वेणुनाभेदनं सद्यो भवेदेव न संशयः ।। ९५१/२ ।। निम्बपुष्पं तथाब्रीहिं निंबतैलसमायुतम् । अर्कक्षीर समायुक्तं होमयेदपिपारतम् ।। ९६१/२ ।। राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः । घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ।। ९७१/२ ।। दुकूल चरुलाजांश्च मधुत्रय समन्वितान् । औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ।। ९८१/२ ।। जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् । अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ।। ९९१/२ ।। मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् । विषमज्वर नाशाय चूतपत्राणि होमयेत् ।। १००१/२ ।। घृतेन सहसार्द्राणि प्लुतमृत्युंजिता तथा यथा । सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ।। १०११/२ ।। वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये । पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ।। १०२१/२ ।। सहस्रमयुतं वाथ लक्षन्तत्रिगुणंन्तु वा !! ।। १०३ ।। इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः त्रयस्त्रिंशतितमः पटलः ।। रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टक समोपेतं उर्ध्वकेशं सुदंष्ट्रिणम् ।। स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् । किंकिणीमालया भ्राजात् पादनुपूरसंयुतम् ।। सप्तायुध समायुक्तं सर्वाभरण भूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम् मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम् पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम् शूलमूलं च वेतालं खङ्गं हमरुगं शुभम् दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् । घण्टां खेटं कपालं च शत्रुसक्षय संमुखम् अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रं अर्चयेत् ।। तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् । व्यालबद्धजटाचूटः कपालदलमण्डितः ।। सुरपिंगेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः । चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ।। माकायो माहदंष्ट्री किंकिणीरवसंयुतः । महाशूलाग्रसंप्रोत महासुर विनाशनः ।। खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् । वराभयकपालाहि पाश प्रासगदाकरः ।। दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ।। अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ।। सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ।। व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः । त्रिशूलं चाभयं (डमरुं) चोर्ध्वे सुधाकलशमध्ययोः ।। दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे । आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् । वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ।। कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् । भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ।। ३४. चतुस्त्रिंशत्तमे पटले संप्रोक्षण विधिः । संप्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् । आवर्तंचेत्यनावर्तं पुनरावर्तनन्तथा ।। १ ।। ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् । मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ।। २ ।। तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते । पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ।। ३ ।। मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि । लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ।। ४ ।। मूलास्यात्समादाय स्थाप्य बालालये पुनः । तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ।। ५ ।। प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः । स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ।। ६ ।। चर्मच्छेदेऽहीने च भूषणादि विहीनके । अम्बुजासनहीने च स्थलकर्मविहीनके ।। ७ ।। विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते । यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ।। ८ ।। आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् । लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ।। ९ ।। न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः । कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ।। १० ।। आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् । लक्षणोद्धारणं तोयाधिवासः शयनं तथा ।। ११ ।। अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह । सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ।। १२ ।। ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम् । रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ।। १३ ।। शययाधिवासनं विप्रा विना व बेरकर्मणि । नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ।। १४ ।। प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् । स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ।। १५ ।। एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे संप्रोक्षण विधिः चतुर्स्त्रिंशतिमः पटलः ।। ३५. पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ।। १ ।। विष्ण्वंश समतुङ्गं च छाया दोष विवर्जितम्) । पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ।। २ ।। ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः । लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ।। ३ ।। सप्तविंशतिमानानि षड्विंशत्यंश मानकम् । लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ।। ४ ।। तदन्तरे तथा भक्ते सप्तविंशति मानकम् । लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ।। ५ ।। तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः । षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ।। ६ ।। हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः । लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ।। ७ ।। अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते । षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ।। ८ ।। एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् । विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ।। ९ ।। चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् । तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ।। १० ।। नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः । मानुषे पीठमानं स्यात्स्वयंभूतादिकेऽपि च ।। ११ ।। चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते । लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ।। १२ ।। विस्तारमध्यसप्तांशे मानं सप्तदशैव हि । मूलं प्रोक्त प्रमाणां च संग्राह्यं द्विजसत्तमाः ।। १३ ।। विस्तारार्धसमंतुङ्गं समं वाधाधिकं तु वा । प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ।। १४ ।। स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः । पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ।। १५ ।। वेदाश्रमं वर्तुलं वाथ संमतं पीठ रूपकम् । लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ।। १६ ।। बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा । कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ।। १७ ।। मानं सप्तदशाख्यातं समाश्रं वायतं तु वा । द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ।। १८ ।। पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते । विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ।। १९ ।। विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः । पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ।। २० ।। वसुधाभाजितेमध्ये नवमानमिति स्मृतम् । बिंबोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ।। २१ ।। बेरायामाष्टभागैकमपरं परिकीर्तितम् । अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ।। २२ ।। स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः । द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ।। २३ ।। आसने पद्मविस्तारस्त्रयोविंशति मात्रतः । अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ।। २४ ।। त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते । द्वादशांश विहीनेऽथ मध्ये षोडशधाकृते ।। २५ ।। विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः । विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ।। २६ ।। वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् । त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ।। २७ ।। एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् । शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ।। २८ ।। चतुरष्टदलोपेतं विकारार्क दलं तु वा । विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ।। २९ ।। अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् । त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ।। ३० ।। विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा । संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ।। ३१ ।। सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् । एकपीठमनेकेषां यदि शोभावशान्नयेत् ।। ३२ ।। वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा । पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ।। ३३ ।। अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने । षोडशांशे तु मानेन पादुकं परिकीर्तितम् ।। ३४ ।। वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् । वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ।। ३५ ।। षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ।। ३६ ।। वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ।। ३७ ।। एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। ३८ ।। कर्णस्त्वेकेनकंपः स्याद् भूतांशैरूर्ध्वपङ्कजम् । द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ।। ३९ ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४० ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४१ ।। व्योमांश मूर्ध्वकंपं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ।। ४२ ।। द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका । शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ।। ४३ ।। पञ्चविंशति भागेतु व्योमांश पादुकं भवेत् । पद्ममेकेन भागे तु व्योमांश पादुकं भवेत् ।। ४४ ।। जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः । गलमर्धंत्रिभागेन पद्मं द्वयंशेन वृत्तकम् ।। ४५ ।। कुमुदं पद्मभागेन वाजनं व्योम भागतः । भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ।। ४६ ।। कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् । एकेनकंपमर्धेन घृतवार्यभिधीयते ।। ४७ ।। पीठं शांभवमाख्यातमन्यथान्यद्विधीयते । एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ।। ४८ ।। भागेन पादुकं वेद भागेन जगतीमता । एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ।। ४९ ।। कुमुदं पद्मंशेन वाजननत्वेक भागतः । कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ।। ५० ।। द्विभागानु महापट्टी पद्मंशेन भागतः । कंपस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ।। ५१ ।। अष्टादश विभागेतु व्योमांशं पादुकं भवेत् । अद्ध्यर्धं पद्ममित्युक्तं कंपमेकांशतो भवेत् ।। ५२ ।। जगतीवेद भागेन गुणांशः कुमुदं भवेत् । कंपमेकेन कर्णस्यात् द्विभागं कंपमेकतः ।। ५३ ।। महापट्टी द्विभागेन वाजनञ्चैक भागतः । अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ।। ५४ ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंश मिमंबंध भागेन जगती भवेत् ।। ५५ ।। भागाभ्यां पंकजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पंकजम् । कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ।। ५६ ।। कंपंकर्णस्तु चार्द्धेनार्धेनकंपञ्चवारिजम् । भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ।। ५७ ।। घृतवारिसमाख्यातं संपत्करमिहोदितम् । रुद्रभागेतु तत्तुंगे व्योमांशं पादुकं भवेत् ।। ५८ ।। गुणांशं जगतीकंप मेकं कर्णोद्विभागतः । एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ।। ५९ ।। घृतवार्येकभागेन नन्दिकावृत्तमीरितम् । तिथ्यशं विभजेत्तुंग मद्ध्यर्धं पादुकं भवेत् ।। ६० ।। अर्द्धेन कंपपद्मं स्यात् गुणांशं गलमर्द्धतः । पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ।। ६१ ।। अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका । अर्द्धांश घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ।। ६२ ।। तुंगाष्टदशभागेतु द्विपादं पादुकं भवेत् । पंकजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। ६३ ।। षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ।। ६४ ।। घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् । कलांशं विभजेत्तुंगं व्योभागेन पादुका ।। ६५ ।। द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् । भागेन कंपं स्यात् द्विभागेन द्विभागतः ।। ६६ ।। महापट्यंश मानैक घृतवायूर्ध्वतो भवेत् । स्थंण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ।। ६७ ।। त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् । व्योमांशं कंपमित्युक्तं द्विभागं पद्ममुच्यते ।। ६८ ।। भागेन कंपमित्युक्तं शेषं पूर्ववदेवहि । एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ।। ६९ ।। कंपमंशेन भागेन पुनः कंपं द्विभागतः । पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ।। ७० ।। स्वायंभुवमिदं प्रोक्तमधिष्ठानानियानि च । उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ।। ७१ ।। घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः । द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ।। ७२ ।। महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् । घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ।। ७३ ।। अधिष्टानेक तोपेत मथवा परिकल्पयेत् । कर्णमानञ्च संग्राह्य कंपादौ विनियोजयेत् ।। ७४ ।। तन्मान मथकर्णेतु यावदेक यवेन च । वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ।। ७५ ।। सर्वेष्वंगेषु पीठानां सकले निष्कलेपि च । चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ।। ७६ ।। शलेदारुमये वापि मृण्मयेन्य मयेपिवा । निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ।। ७७ ।। पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः । तदर्द्धेणाग्र विस्तार स्सर्वलिंगेषु योग्यकः ।। ७८ ।। पीठार्द्धमानः पादोवा मध्यमे षोडशांशके । मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ।। ७९ ।। तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे । तथा विभक्ते संग्राह्य मानं सप्तदशैव च ।। ८० ।। प्रणालमूलदेशेतु गदग्रं तेन मानतः । त्रिपाद मर्द्ध पादोनं पञ्चत्रित्यत्रंश मेववा ।। ८१ ।। सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् । वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ।। ८२ ।। मूलकंपं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि । तदूर्ध्वेकंपमेकद्वि व्योमभागैस्तथा क्रमात् ।। ८३ ।। प्रणालघनमानेतु तन्मान मधुनोच्यते । कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ।। ८४ ।। त्रिसप्तमानं वेदांशा देकभागविवृद्धितः । दशभागावसानन्तु पीठनाल घनं तुवा ।। ८५ ।। समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् । अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ।। ८६ ।। तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् । अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ।। ८७ ।। खण्डंत्वंगावसानं स्यादूर्ध्व खण्डमखण्डजम् । प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ।। ८८ ।। नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः । सकलानामनालं स्यात् सनालमथपीठकम् ।। ८९ ।। घृतवारिविहीनं वा सहितं वा प्रकल्प्यते । बाणलिंगादि लिंगानां चतुरश्राय ताश्रकम् ।। ९० ।। कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् । पीठलग्नां प्रभां कुर्यात् भिन्नां वा भिन्नयोगिकाम् ।। ९१ ।। नाना वाजन पीठं संयुक्तां मुक्तादामावलि क्रियाम् । नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ।। ९२ ।। सर्वालंकारसंयुक्तामिष्टास्य घन संयुताम् । सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ।। ९३ ।। बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् । एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ।। ९४ ।। पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः । तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ।। ९५ ।। योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति । आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ।। ९६ ।। द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः । तथैव च पुनः कुर्यादन्यथा दोषकारकम् ।। ९७ ।। मानवे पीठ संकल्पपिधानं परिकीर्तितम् । चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ।। ९८ ।। दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा । वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ।। ९९ ।। पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् । लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ।। १०० ।। कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् । अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ।। १०१ ।। हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् । प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ।। १०२ ।। तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना । कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।। १०३ ।। योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च । तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ।। १०४ ।। एवं निष्पाद्य सर्वंतु पश्चात् कर्मसमारभेत् । विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ।। १०५ ।। शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् । लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुंभस्यवर्धनीम् ।। १०६ ।। मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा । ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ।। १०७ ।। गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् । पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ।। १०८ ।। आवाह्यलिङ्गं लिङ्गस्य शिवकुंभगतं न्यसेत् । पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ।। १०९ ।। विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् । नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ।। ११० ।। सहस्रसंख्यं मूलेन समिदाज्यन्नलाजकैः । तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ।। १११ ।। प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् । अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ।। ११२ ।। नित्यपूजा प्रकर्तव्या लिङ्गे कुंभे च नित्यशः । टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ।। ११३ ।। अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् । शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ।। ११४ ।। ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते । शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ।। ११५ ।। कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे । प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ।। ११६ ।। वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे । स्थण्डिलंकल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ।। ११७ ।। गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् । मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ।। ११८ ।। ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते । सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ।। ११९ ।। धान्यराशिंसवत्सांगांकन्यां हृदय मन्त्रतः । प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ।। १२० ।। प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् । प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ।। १२१ ।। स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् । कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ।। १२२ ।। देवीञ्चकलशानिष्ट्वा लंबकूर्च समन्विताम् । नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ।। १२३ ।। स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् । पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ।। १२४ ।। पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् । सवितानध्वजं दर्भमुक्ता पुष्पजमालया ।। १२५ ।। सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् । सर्वलक्षणसंपन्नं सुविसर्जित तक्षकम् ।। १२६ ।। ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् । पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ।। १२७ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् । प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ।। १२८ ।। मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु । गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ।। १२९ ।। कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः । कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ।। १३० ।। आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् । मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ।। १३१ ।। कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् । आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ।। १३२ ।। कृत्वा कौतुकबन्धंतु तन्नाले तद्गलेऽपि वा । शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ।। १३३ ।। तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् । दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ।। १३४ ।। ततश्शययां च संक्ल्प्य तदलाभेऽम्बरैर्नयेत् । आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद् धृदा ।। १३५ ।। आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् । सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ।। १३६ ।। सहैमपंकजं कूर्चफलपल्लव वस्त्रकम् । तन्मध्ये सासनां देवीमर्चयेद् गन्धसंमुखैः ।। १३७ ।। वर्धनीरष्ट संख्याताः कूर्चवस्त्रससूत्रकाः । सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ।। १३८ ।। वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् । गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ।। १३९ ।। तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् । कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ।। १४० ।। क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः । धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।। १४१ ।। धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु । पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ।। १४२ ।। लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् । चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ।। १४३ ।। समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः । पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ।। १४४ ।। शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः । पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ।। १४५ ।। सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा । देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ।। १४६ ।। शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् । तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ।। १४७ ।। प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् । भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ।। १४८ ।। अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः । ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ।। १४९ ।। कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः । द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ।। १५० ।। गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा । ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीमपि ।। १५१ ।। अग्नि होमैश्च संतर्प्य प्रायश्चित्तं विधाय च । दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ।। १५२ ।। सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् । धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ।। १५३ ।। लिङ्गसंस्ह्तापनप्रोक्तविधिना तांनिवेशयेत् । पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ।। १५४ ।। तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् । नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ।। १५५ ।। पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके । पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ।। १५६ ।। रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः । सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ।। १५७ ।। अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् । पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ।। १५८ ।। प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् । पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ।। १५९ ।। लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् । वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ।। १६० ।। देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे । संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतं ।। १६१ ।। वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् । जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ।। १६२ ।। लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः । स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ।। १६३ ।। केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।। १६४ ।। तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा । लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ।। १६५ ।। चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः । विशेषपूजा कर्तव्या होमेन च समन्विता ।। १६६ ।। पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् । चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ।। १६७ ।। बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् । पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ।। १६८ ।। समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ।। १६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः पटलः ।। अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके षोडशांशे तु मानेन पादुकं परिकीर्तितम् वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत् वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते । अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः घृतवार्यंशमानेन भद्रपीठमिदं मतम् । षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ।। वेदांशं ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम् एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् । द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ।। षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् । जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका । शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ।। पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत् पद्मं एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् कुमुदं पद्मं एकेन वाजनं व्योमभागतः भागाभ्यां कर्णं इति उक्तस्स्यात् एकेनैव वाजनम् कञ्चं एकेन भागाभ्यां महावाजनं ईरितम् एकेन कम्पमर्धेन घृतवार्यभिधीयते पीठं शाम्भवमाख्यातं अन्यथान्यद्विधीयते एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च भागेन पादुकं वेदभागेन जगती मता एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः कुमुदं पद्ममंशेन वाजनं एक भागतः कर्णो द्विभागो भागेन वाजनं पद्ममंशतः द्विभागा तु महापट्टी पद्ममंशेन भागतः कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् अष्टादश विभागे तु व्योमांशे पादुकं भवेत् । अध्यर्धं पद्मं इति उक्तं कम्पं एकांशतो भवेत् ।। जगती वेद भागेन गुणाशः कुमुदो भवेत् । कम्पं एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ।। महापट्टी द्विभागेन वाजनं च एक भागतः अर्धेन घृतवार्युक्तं उमा पीठमिदं मतम् ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंशमितं बन्धभागेन जगती भवेत् ।। भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् । कुमुदं स्यात् द्विभागेन पद्मं अर्धेन च अर्धतः कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम् भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि घृतवारि समाख्यातं सम्पत्करं इहोदितम् रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् । गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ।। एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः । घृतवार्येक भागेन नन्दिकावृत मीरितम् ।। तिथ्यंशं विभजेत्तुङ्गं अध्यर्धं पादुकं भवेत् । अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः पद्मं अंशेन भागाभ्यां कुमुदं पद्मं अंशतः अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् । पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनं इष्यते ।। घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ।। कलांशं विभजेत्तुगं व्योम भागेन पादुकम् । द्वाभ्यां पद्ममथैकेन कम्पंपड् भागतो गलम् ।। भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः । महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ।। त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् । योमांशं कम्पमित्युक्तं द्विभागं पद्मं उच्यते ।। भागेन कम्पं इत्युक्तं कम्पं षड् भागतो गलम् । भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।। महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् । कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।। पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् । स्वायंभुवं इदं प्रोक्तं अधिष्ठानानियानि च ।। उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः ३६. षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् । बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ।। १ ।। प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च । दत्तवाल्लिंगकोटीनां चतुर्दशाः महेश्वरः ।। २ ।। तानि संपूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् । लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ।। ३ ।। कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे । अन्यत्र च नदीमध्ये पर्वते च विशेषतः ।। ४ ।। माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् । पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ।। ५ ।। विस्तार नाहमानं तु बाणलिंगस्य नेष्यते । रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ।। ६ ।। सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते । स्नपने यजने धूपे गन्धपुष्प निवेदने ।। ७ ।। अन्य कर्मणि विप्रेन्द्राः स्वायंभूतादिके तथा । प्रासाद पीठिकादीनां नियमो न च नेष्यते ।। ८ ।। ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा । विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ।। ९ ।। शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् । एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ।। १० ।। लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा । विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ।। ११ ।। यथाभिमतमानं वा खामानमुदाहृतम् । सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ।। १२ ।। यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् । पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ।। १३ ।। उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा । स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ।। १४ ।। रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् । सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ।। १५ ।। रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् । सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ।। १६ ।। शैललिंग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः । चललिंग प्रतिष्ठायां प्रतिमादौ च मध्यमः ।। १७ ।। कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि । मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ।। १८ ।। तथैव बाणलिंगस्य किंतु कालोधमोथवा । विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ।। १९ ।। अंकुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् । रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ।। २० ।। पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् । लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ।। २१ ।। विधायलिंगशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः । जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ।। २२ ।। कुर्याल्लिंगाधि वासार्थं वेदिका सहितं यथा । वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ।। २३ ।। शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् । भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ।। २४ ।। स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् । जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ।। २५ ।। अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् । शययां मध्ये निवेश्याथ शिवकुंभं च वर्धनीम् ।। २६ ।। विद्येश कुंभ संयुक्तं ससूत्रं सापिधानक । सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ।। २७ ।। संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् । मूर्ति मूर्तिश्वरान्यस्त्वा संपाद्यैवं शिवानलम् ।। २८ ।। समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् । जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ।। २९ ।। मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः । तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ।। ३० ।। वस्त्रेणाच्छाद्य लिंगन्तु नैवेद्यं च निवेदयेत् । प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ।। ३१ ।। लिंगमग्नि मघोरेण जुहुयाच्चत संख्यया । संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ।। ३२ ।। मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् । एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ।। ३३ ।। संकल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् । तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ।। ३४ ।। स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् । यदनुक्तं भवेदत्र लिंग स्थापन वन्नयेत् ।। ३५ ।। चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते । प्रत्यहं पूजयेद्देवं अर्चनोक्त विद्यानतः ।। ३६ ।। शिष्टलिंगे गतिर्नास्ति समान्यस्य गतिं क्षणात् । जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ।। ३७ ।। सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् । कुंभे वा स्थण्डिले वापि मण्डले पीठकादिके ।। ३८ ।। पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके । संपूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ।। ३९ ।। अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः । पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ।। ४० ।। अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् । आदावन्ते च वा होमं प्रत्यहं होममेव वा ।। ४१ ।। तत्र संप्रोक्षणं नेष्टं तदर्धं होममेव वा । लिंगाग्रे स्थण्डिलं तत्र कुंभसंस्थापणं नुहि ।। ४२ ।। कुंभेत्वावाहनं तस्मात् कुंभमन्त्रान्निवेशयेत् । नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ।। ४३ ।। तत्कुंभोदैरपि स्नानं केवलं प्रोक्षणं तु वा । क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ।। ४४ ।। एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि । स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ।। ४५ ।। क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् । होमाद्यमपि नेष्टं स्यात् कर्तुं लिंगं समर्चयेत् ।। ४६ ।। गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् । मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ।। ४७ ।। पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः । तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ।। ४८ ।। शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् । अस्त्रांबु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ।। ४९ ।। बहु दैवसिकं स्नानं (भंगश्चेत्) स्नपनं महत् । महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ।। ५० ।। ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। ५१ ।। प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् । स्वायंभुवादि लिंगाना मेतत् सामान्यमीरितम् ।। ५२ ।। शिल्प्यपेक्षमिदं कर्म कुर्यात्संप्रोक्षणान्वितम् । अन्यत् सर्व समानं स्यात् कर्मसामान्यलिंगकः ।। ५३ ।। स्वायंभुवादि लिंगानां नेष्यतां मनु संकरः । अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ।। ५४ ।। स्वर्णादि लोहजेवापि तत् संभूतेति कीर्तितः । चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ।। ५५ ।। चलञ्च द्विविधं प्रोक्तं अङ्गं प्राधानिकं त्विति । चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ।। ५६ ।। पूजितं त्वंगमित्युक्त मन्यत् प्राधानिकम्मतम् । अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ।। ५७ ।। नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् । अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।। ५८ ।। त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ।। ५८१/२ ।। इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः षट्त्रि.शत्तमः पटलः ।। ३७. सप्तत्रिंशत्तमे पटले काम्यलिंग प्रतिष्ठा विधिः काम्यलिंग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् । काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ।। १ ।। कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ।। २ ।। फलं दृष्टमदृष्टं च द्विधं तत्परापरम् । कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ।। ३ ।। उत्तमं खेचरत्वं च श्रेष्ठं देव समानता । भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ।। ४ ।। विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् । इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ।। ५ ।। सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च । इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुंगवाः ।। ६ ।। गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् । अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ।। ७ ।। दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते । देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ।। ८ ।। मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् । अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ।। ९ ।। न सिद्धिर्न च मुक्तिश्च लिंगाश्रयणमन्तरा । शिवलिंग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ।। १० ।। एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् । भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ।। ११ ।। रत्नलिंग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः । तस्मालिंगाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ।। १२ ।। विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः । विधिवल्लिंगमाराध्य फलमिष्टतमं गताः ।। १३ ।। स्वायंभुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः । सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ।। १४ ।। स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् । यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ।। १५ ।। तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा । स्वयंन कर्तु मशक्तानां वृपतीनां हिताय च ।। १६ ।। देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च । स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ।। १७ ।। लिंगार्थमाकरं यायात् स्वस्य कृत्यानु सारतः । शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ।। १८ ।। तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः । रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ।। १९ ।। श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा । चतुर्णामपि वर्णानां शिला धात्री च संमता ।। २० ।। एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः । एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ।। २१ ।। तत्तद्भूजनिता एव मृदो लिंगार्थमीरिताः । फलं लिंगानूरूपेण शिलानां समुदाहृतम् ।। २२ ।। पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि । श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ।। २३ ।। आयसं मारणे लिंगमुन्मादे सांस्यजं भवेत् । उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ।। २४ ।। वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् । लोहलिंगं समाख्यातं रत्नलिंग मथोच्यते ।। २५ ।। वज्रलिंगं क्षितीशत्वे मौक्तमारोग्यदं भवेत् । इन्द्र नीलमयाल्लिंगात् सर्वान् कामान् समश्रुते ।। २६ ।। महान्नीलमयाल्लिंगात् वैणवं पदमाप्नुयात् । वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ।। २७ ।। आरोग्यतं मरकतं प्रवालं च वशीकरम् । राजावर्तमयाल्लिंगात् महाभोगं समश्रुते ।। २८ ।। नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् । शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ।। २९ ।। सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् । चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ।। ३० ।। स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये । वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ।। ३१ ।। क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् । गुणादष्टफल प्रोक्तं परासु मणिजातिषु ।। ३२ ।। इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना । सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ।। ३३ ।। साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् । रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ।। ३४ ।। सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे । यद्वा साधक नक्षत्र वशाल्लिंग तु दारुजम् ।। ३५ ।। कारस्करं चामलकंतथोदुम्बर जम्बुकौ । खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ।। ३६ ।। पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा । अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ।। ३७ ।। पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा । आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ।। ३८ ।। मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः । एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ।। ३९ ।। विधाय लिंगं कर्तव्यं साध्यर्क्षे मारणादिकम् । श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ।। ४० ।। चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् । सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ।। ४१ ।। साप्तपर्णं च सालोत्थं राजादन समुद्भवम् । विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ।। ४२ ।। उदुंबर मयं पुष्ट्यै शान्त्यै न्यग्रोध संभवम् । वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ।। ४३ ।। लिंगं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः । दारुजं लिंगमाख्यातं क्षणिकं लिङ्गमुच्यते ।। ४४ ।। संकेतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् । अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ।। ४५ ।। गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये । घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ।। ४६ ।। ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् । विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ।। ४७ ।। स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् । बिल्वादि पत्रजं लिंगं यत्तत्पुत्र विवर्धनम् ।। ४८ ।। तद्बीज जनितं लिंगं विशेषात् तृप्तिकारणम् । धान्य तण्डुलजं लिंगं तत्तद्द्रव्य फलप्रदम् ।। ४९ ।। कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् । रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ।। ५० ।। जलेन रचितं लिंगं प्राणिनां शान्तिपुष्टितम् । लिंगं यच्चित्रितं सद्यो विचित्रफल दायकम् ।। ५१ ।। कर्पूर चन्दनाद्यैस्तु लिंगं यत्तज्जरापहत् । द्रव्याणि कथितान्येवं लक्षणं च विधीयते ।। ५२ ।। प्रासाद गर्भमानेन लिंगं ज्येष्ठादि भेदतः । मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ।। ५३ ।। हस्तादि लिंगमानानि यानि तानि विमुक्तये । भुक्तये चानु षड्गेण भवन्ति विधियोगतः ।। ५४ ।। गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् । तदन्तरेऽष्टभागे तु नव लिंगानि सन्ति हि ।। ५५ ।। तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि । षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ।। ५६ ।। प्रासादे वा ततो वह्नि वेदग्रह विभाजिते । द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ।। ५७ ।। पूर्ववच्च प्रमाणानि लिंगानां विहितानि तु । एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ।। ५८ ।। अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः । एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ।। ५९ ।। नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् । हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ।। ६० ।। पादोनं दारुजं लोहमस्यार्धेनैव संमतम् । अङ्गुलादि वितस्त्यन्तं रत्नलिंगं द्विजोत्तमाः ।। ६१ ।। आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः । हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ।। ६२ ।। लिंगायामैक भागे तु वेद भागेन विस्तरः । खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ।। ६३ ।। चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् । अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ।। ६४ ।। पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिंगं वज्रशिरो यथा । वज्रकार्यं समायोज्य स्तंभादि परिकीर्तितम् ।। ६५ ।। लिंगोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् । वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ।। ६६ ।। आग्नेय पीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये । लिंगं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ।। ६७ ।। शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः । तापदाहं रिपोः कुर्याल्लिंगमाग्नेयकं द्विजाः ।। ६८ ।। नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः । प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ।। ६९ ।। याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके । लिंगं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ।। ७० ।। गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् । रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ।। ७१ ।। मारीं च भेदनं रोगं विधत्ते नात्र संशयः । दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ।। ७२ ।। अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः । स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ।। ७३ ।। खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् । अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ।। ७४ ।। तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् । कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ।। ७५ ।। उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् । चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ।। ७६ ।। वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् । पाशमस्तक युक्तं तत् पाशकाय विधानतः ।। ७७ ।। प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् । व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ।। ७८ ।। गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे । नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ।। ७९ ।। तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य माप्नुयात् ।। ८० ।। लिंगं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः । तेन लिंगेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ।। ८१ ।। भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः । पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ।। ८२ ।। यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् । गदा मस्तक लिंगं तु गदाङ्के स्थाप्य देशिकः ।। ८३ ।। जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् । जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ।। ८४ ।। लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् । दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ।। ८५ ।। एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् । अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ।। ८६ ।। कुक्कुटाण्ड शिरोयुक्तं लिंगमैशान्य पीठके । स्थापयित्वा स्वदिक् साम्यं लिंगं शूलशिरोयुतम् ।। ८७ ।। शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् । ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ।। ८८ ।। शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् । उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ।। ८९ ।। वस्वश्रं पूर्ववद्वृत्तं लिंगं छत्रशिरोयुतम् । ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ।। ९० ।। तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् । खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ।। ९१ ।। गायग्र्यंशे तु लिंगोच्चे शरांशैश्चतुरश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ।। ९२ ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् । चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ।। ९३ ।। व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् । लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ।। ९४ ।। तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते । सिद्धिलिंगमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ।। ९५ ।। आप्यादि देवलिंगेषु लोकपालार्चितेषु वा । सहस्र लिंगं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ।। ९६ ।। सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् । अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ।। ९७ ।। अष्टोत्तरशतं लिंगं सूत्रैर्विषययोजितैः । आढ्यादि लिंगान्युत्सेधैः समखण्डानि कल्पयेत् ।। ९८ ।। छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि । धारालिंगं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ।। ९९ ।। साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता । मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ।। १०० ।। आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् । मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ।। १०१ ।। आसुरं पौरुषं चैव सादेशैशान भैरवम् । देवत्वं देवराजत्वं सर्वकामफलं च यत् ।। १०२ ।। रुद्रत्वं च फलान्येषु लिंगेष्वेकाश्रकादिषु । एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ।। १०३ ।। लिंगानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च । अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ।। १०४ ।। भवन्ति पुण्डरीकादि शिरांसि फलभेदः । पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ।। १०५ ।। प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् । कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ।। १०६ ।। प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः । तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ।। १०७ ।। सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् । षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ।। १०८ ।। साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः । साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ।। १०९ ।। प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् । छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ।। ११० ।। अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् । त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ।। १११ ।। दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् । खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ।। ११२ ।। पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः । ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ।। ११३ ।। वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे । शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ।। ११४ ।। अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् । लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ।। ११५ ।। कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि । वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।। ११६ ।। गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् । ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ।। ११७ ।। तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः । लिंगाशे नवधा भक्ते नवांश कृत लक्ष्मकम् ।। ११८ ।। स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च । द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ।। ११९ ।। तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् । ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ।। १२० ।। पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः । षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ।। १२१ ।। हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् । नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ।। १२२ ।। अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् । कथितं हि तथापीह त्रिभागे रसभागके ।। १२३ ।। यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् । वेध दोष निवृत्यर्थं एवं लक्ष्म प्रकल्पयेत् ।। १२४ ।। गायत्र्यंशे तु लिंगोच्चे लक्ष्मविस्तृतिरंशतः । शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ।। १२५ ।। तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् । शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ।। १२६ ।। याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् । नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ।। १२७ ।। शूलाश्रमैश्वरं लिंगं वायव्यां ध्वजमस्तकम् । सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ।। १२८ ।। लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् । स्तंभनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ।। १२९ ।। अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् । मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ।। १३० ।। स्वतेजोलक्षणं लोहे बाणलिंगे तथैव च । लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ।। १३१ ।। शुभलक्षण लक्ष्मं चेत् लिंग सर्वार्थ सिद्धिदम् । पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ।। १३२ ।। लिंगायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् । ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ।। १३३ ।। वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च । प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ।। १३४ ।। ऐन्द्रयादि संज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः । वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ।। १३५ ।। पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् । वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ।। १३६ ।। निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् । सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ।। १३७ ।। ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् । योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ।। १३८ ।। पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् । पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ।। १३९ ।। तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः । पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ।। १४० ।। याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका । राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ।। १४१ ।। पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् । तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ।। १४२ ।। चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् । कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ।। १४३ ।। तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते । इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ।। १४४ ।। पाज्जगती कुंभवेत्रास्युः कण्ठश्चैकैक वेशतः । निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ।। १४५ ।। आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् । षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ।। १४६ ।। तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् । ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ।। १४७ ।। चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् । तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ।। १४८ ।। संस्थान वर्तनाकारैः वा राक्षसं मतम् । तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ।। १४९ ।। पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः । कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ।। १५० ।। तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः । आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ।। १५१ ।। याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला । षण्मेखला च वायव्या वारुणी पञ्चमेखला ।। १५२ ।। विष्ण्वंश षोडशोत्सेधः पुण्डिकापीठविस्तरः । शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ।। १५३ ।। वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका । पीठं सहस्रलिंगस्य सालङ्कारयुगाश्रयुक् ।। १५४ ।। आश्मेऽश्मसंभवा पिण्डी पार्थिवे पार्थिवी तथा । दारुजे दारुजा पिण्डी धातुजे धातु संभवा ।। १५५ ।। रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् । उच्छ्रयं चललिंगानां पूजांशाद् द्विगुणं भवेत् ।। १५६ ।। लिंगायामे भवेत्पिण्डी लिंगं च परितो यथा । कृशुषु वर्धयेद्द्रुद्रं स्थूललिंगेषु ह्रासयेत् ।। १५७ ।। ह्रासयेद्वर्धयेदंश मच्युतस्य हि न च्युतिः । पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ।। १५८ ।। चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् । मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ।। १५९ ।। पिण्डिका सहितोत्सेधं लिंगनाहसमं भवेत् । सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ।। १६० ।। समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् । मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ।। १६१ ।। साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा । गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ।। १६२ ।। मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् । अन्यद्वापि भवेल्लिंगं नदी प्रस्रवणोद्भवम् ।। १६३ ।। लिंगाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् । हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ।। १६४ ।। रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः । पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ।। १६५ ।। उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने । स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ।। १६६ ।। अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते । समलिंगे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ।। १६७ ।। कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। १६८ ।। पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् । द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ।। १६९ ।। चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ।। १७० ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा । भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ।। १७१ ।। भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् । व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ।। १७२ ।। बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् । पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ।। १७३ ।। वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् । देह पञ्चक संयुक्तं चरमद्वय संयुतम् ।। १७४ ।। तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् । जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ।। १७५ ।। दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् । दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ।। १७६ ।। व्यालबद्धजटाचूडं कपालदलमण्डितम् । तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ।। १७७ ।। उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् । भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ।। १७८ ।। दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् । बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ।। १७९ ।। वराभय करोपेतं ध्यानासक्तमिव स्थितम् । पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ।। १८० ।। ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ । इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ।। १८१ ।। कलावत्सरदेशीयं दिव्याभरणभूषितम् । सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ।। १८२ ।। ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् । भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ।। १८३ ।। संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् । कुर्यादीशान देहं तु दशतालोत्तमेन तु ।। १८४ ।। पुरुष प्रमुखान्देहानीश देहार्धमानतः । कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ।। १८५ ।। पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् । कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ।। १८६ ।। ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् । कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ।। १८७ ।। जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् । व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ।। १८८ ।। नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् । श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ।। १८९ ।। त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् । जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ।। १९० ।। नानावर्णांवरैर्युक्तं वेणिकादिभिरलंकृतम् । ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ।। १९१ ।। किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् । वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ।। १९२ ।। पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः । त्रिशूलं नागहस्तं च परशुः पाश एव च ।। १९३ ।। गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः । नागैराभरणैर्युक्तं कुण्डलाभ्यामलंकृतम् ।। १९४ ।। सर्वलक्षण संयुक्तं पादनूपुर संयुतम् । गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ।। १९५ ।। एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते । नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ।। १९६ ।। नाना विधायुधोपेत नवद्वय करोथवा । दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ।। १९७ ।। कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः । इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ।। १९८ ।। टङ्क विहाय शूलं वा डमरुं वापरे करे । अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल संज्ञितः ।। १९९ ।। त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः । वराभय करोपेता रुद्रोयं वाम संज्ञककः ।। २०० ।। एष एव हि खट्वाङ्ग रहित श्शूल संयुतः । अघोर रुद्रनामायं भीमो भव विनाशनः ।। २०१ ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः । अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ।। २०२ ।। धनुर्बाण समोपेता मृगटङ्क समायुतङ्क । भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ।। २०३ ।। अथवा पादुके पद्मे भक्तानां शेखरेषु वा । वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ।। २०४ ।। एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः । त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ।। २०५ ।। वरदाभय वामतः पार्वतीयुतः । आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ।। २०६ ।। देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही । तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ।। २०७ ।। तस्या कट्याश्रियो वापि देवोयं सर्वकामदः । गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ।। २०८ ।। कपालशूल संयुक्तौ वरदाभयसंयुतौ । त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ।। २०९ ।। प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ । एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ।। २१० ।। भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ । कालान्तकादि संयुक्तौ भक्तानामथवोपरि ।। २११ ।। एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः । देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ।। २१२ ।। द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ । मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ।। २१३ ।। विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा । अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ।। २१४ ।। चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः । शूल पङ्कज युक्तो वा वरदाभय संयुतः ।। २१५ ।। कपालशूल संयुक्तो बद्धपद्मासने स्थितः । नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ।। २१६ ।। चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः । पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ।। २१७ ।। मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा । वरदाभय हस्तो वा शान्तरूपः स्मिताननः ।। २१८ ।। जटामकुट संयुक्तः स्थानकादि समन्वितः । रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ।। २१९ ।। शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः । कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ।। २२० ।। मृगंशूल समायुक्तश्चतुर्भुज समन्वितः । पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ।। २२१ ।। वरदा संयुक्तः स्थितः पद्मासनोपरी । भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ।। २२२ ।। कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः । वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ।। २२३ ।। अथवा मृगटङ्कायां वराभय करान्विताः । उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ।। २२४ ।। कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः । उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ।। २२५ ।। तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः । किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ।। २२६ ।। यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः । एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ।। २२७ ।। एतन्नामादि वर्णेन बिन्दु नाद युतेन तु । त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ।। २२८ ।। उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः । रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ।। २२९ ।। अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः । कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ।। २३० ।। शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया । तत्रैव कुण्ड संकॢप्तिर्नव पञ्चैक सख्यया ।। २३१ ।। तक्षद्वासनं विप्र भोजनं वास्तु होमकम् । पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ।। २३२ ।। कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा । कुंभादीनां सपर्या च नैवेद्यादि निवेदनम् ।। २३३ ।। तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः । होमं पलाशसद्बिल्व वटोदुंबर पिप्पलैः ।। २३४ ।। अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः । प्रधाने तु पलाशेन घृतेन चरुणातिलैः ।। २३५ ।। द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च । मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ।। २३६ ।। उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् । कर्तव्य स्सर्व कर्मापि लिंग संस्थापनं यदि ।। २३७ ।। मुखलिंगस्य वा विप्राः तदध्यायोक्तमार्गतः । कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ।। २३८ ।। एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा । लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ।। २३९ ।। स्वायंभुवादिकं लिंगं समाश्रित्य कदाचन । कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् । इति उत्तरकामिकाखे महातन्त्रे काम्यलिंगप्रतिष्ठा विधिः सप्तत्रिंशत्तमः पटलः ।। लिङ्गायामैक भागे तु वेद भागेन विस्तरः खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम् अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम् वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना आग्नेयपीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः तापदाहं रिपो कुर्यात् लिङ्गं आग्नेयकं द्विजाः नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात् याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम् गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः मारीं च भेदनं रोगं विधत्ते नात्र संशयः दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम् अरतिक्षय विद्वेषं कील भेदेन मोहनम् तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम् कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम् उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम् चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् पाशमस्तक युक्तं तत् पाशकाय विधानतः प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम् व्याधिहानिञ्च सौभाग्यं आप्नुयान्नात्रसंशयाः पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम् यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात् गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः जाम्बूनदसुखप्राप्तिमतीव बलदं मतम् जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम् उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम् ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात् गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये । तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात् लिंगं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् । भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ।। दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् । एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात् अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत शूलाख्यायां तु संस्थाप्य पृथिवीशत्वं आप्नुयात् ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम् तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् । खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ।। गायत्र्यंशे तु लिंगोच्चे शरांशैश्चतुश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् । चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ।। त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः । वराभय करोपेतः रुद्रोऽयं वाम संज्ञकः ।। एष एव हि खड्वाङ्गरहितश्शूलसंयुतः । अघोररुद्र नामायं भीमो भयविनाशनः ।। शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः । कपालशूल संयुक्तो बद्धपद्मासनस्थितः ।। मृगशूल समायुक्त श्चतुर्भुजसमन्वितः । पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ।। वरदाभयसंयुक्तः स्थितः पद्मासनोपरि भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः धनुर्बाण समोपेतो मृगटङ्ग समायुतः भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तं अथोच्यते । समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ।। कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। चतुर्णां चैव वक्त्राणां उर्ध्वे कुर्यात्तुपञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा ३८. अष्टत्रिंशत्तमे पटले आर्षलिंग प्रासाद विधिः लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते । आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ।। १ ।। स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा । विकांशं वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ।। २ ।। मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते । पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ।। ३ ।। तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा । विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ।। ४ ।। अर्धाधिकं तु वा सप्तभागाधिक मथापि वा । लिंग विस्तारमानेन त्रिगुणं पीठ मुच्यते ।। ५ ।। गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् । प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ।। ६ ।। लिंग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् । पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ।। ७ ।। सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते । द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ।। ८ ।। नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् । सार्ध द्वयांश कैकांश समं वा भित्ति विस्तरः ।। ९ ।। उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते । लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ।। १० ।। त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा । द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ।। ११ ।। पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् । तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ।। १२ ।। एकांशस्य विस्तार मन्यथा च प्रकथ्यते । लिंग द्विगुण विस्तार कर्णपीठ विशालकम् ।। १३ ।। नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके । एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ।। १४ ।। परिणाहे विकारांशे तच्चतुर्दश कर्णकम् । पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ।। १५ ।। तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः । विस्तार द्विगुणे कर्ण दशांशेंश विहीनकम् ।। १६ ।। पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् । तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ।। १७ ।। हीना हीनान्तरेऽष्टांश पीठे नालीगृहे तथा । भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ।। १८ ।। लिंगे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् । एवमेकतले प्रोक्तं द्वितलादिषु धामसु ।। १९ ।। साधारे वा निराधारे त्वलिन्दं भित्तिरेव च । प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ।। २० ।। इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिंग प्रासाद विधिः अष्टत्रिंशत्तमः पटलः ।। ३९. एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते । पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ।। १ ।। पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे । लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ।। २ ।। लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः । त्रिभागंनालि गेहस्य त्रिचतुर्भाग भागतः ।। ३ ।। भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् । लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ।। ४ ।। सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् । तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ।। ५ ।। नालीगृह विशालं स्यात् पीठ विस्तार मानतः । समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ।। ६ ।। उदयं प्राग्देव स्यादन्यथापि चकथ्यते । पूजांशद्विगुणं पीठमुदयं तु विशालतः ।। ७ ।। चतुष्पञ्चगुणं नाली गेहमत्र विधीयते । ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ।। ८ ।। लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये । एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ।। ९ ।। त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् । पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ।। १० ।। तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् । अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ।। ११ ।। उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु । तथा तदपि तद्ग्राम मानं पौराणपौरुषे ।। १२ ।। पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् । उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ।। १३ ।। स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे । मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ।। १४ ।। पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् । यदि तद्वाह्य भागं च युग्ममेव विधीयते ।। १५ ।। युग्मंचेद्युग्ममेवस्यात् संमिश्रं तेषु नेष्यते । त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ।। १६ ।। इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन चत्वारिंशत्तमः पटलः ।। ४०. चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते । स्वायं बाणलिंगं दैवीकं चार्षकं त्विति ।। १ ।। सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः । तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ।। २ ।। पूजांश मानतो नाहात् विस्तारादुच्छ्रयादपि । एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ।। ३ ।। तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ।। ४ ।। अष्टौ वा देवमानानि नवमानानि सुव्रताः । तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ।। ५ ।। प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः । पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ।। ६ ।। पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः । अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ।। ७ ।। गर्भगेहविशाले तु द्विभागादेकभागतः । षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ।। ८ ।। एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता । भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ।। ९ ।। लिंगात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये । एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ।। १० ।। पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे । अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगवशात् प्रासाद विधिः चत्वारिंशत्तमः पटलः ४१. एकचत्वारिंशत्तमे पटले सार्व देशिक लिंग प्रासाद विधिः सार्वदेशिक लिंगादेस्स्थापनं सम्यगुच्यते । प्रासाद स्याथ लिंगस्य पीठस्याश्मन एव वा ।। १ ।। सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः । सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ।। २ ।। विशेषाद्राजसे देशे राज्ञां विजयकारणम् । धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ।। ३ ।। अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा । नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ।। ४ ।। द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे । वराटं चैव सालिंगं सर्वत्रापि च संमतम् ।। ५ ।। नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि । वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ।। ६ ।। सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते । स्वायंभुवं च बाणं च दैविकं चार्षकं तथा ।। ७ ।। यथा विशिष्टं विप्रेन्द्राः दाहृतम् । मानुषे त्वेव लिंगादौ फल वैशिष्य मिष्यते ।। ८ ।। तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् । तन्त्र संकर दोषोऽपि मन्त्र संकर एव वा ।। ९ ।। आचार्य संकरो वापि देशसंकर एव वा । काल संकर दोषश्च युगसंकर एव वा ।। १० ।। अन्येषां संकरो वापि यतो नातो विशिष्यते । सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ।। ११ ।। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् । पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ।। १२ ।। सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये । तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ।। १३ ।। अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः । एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ।। १४ ।। आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः । विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ।। १५ ।। विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् । प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ।। १६ ।। गुणयेदिष्टमानं तु नवनागरसैः क्रमात् । रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ।। १७ ।। गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः । गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ।। १८ ।। भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् । नृप कर्तृ दिना द्वास्तु लिंगाद्युक्त दिनान्तकम् ।। १९ ।। गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् । तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ।। २० ।। मैत्रं परममैत्रं कलहः प्रथमक्रमे । द्वितीये संपदाद्यास्तु पूर्ववत्समुदाहृदम् ।। २१ ।। शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् । वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ।। २२ ।। शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् । वियोगाद्यशुभं योगं गणं चासुर मानुषम् ।। २३ ।। वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया । सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ।। २४ ।। तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् । रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ।। २५ ।। ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः । पृथ्व्याद्याः पञ्च संख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ।। २६ ।। चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः । षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ।। २७ ।। निषादो धैवतस्सप्त योनयस्तासु शस्यते । षड्जऽऽच वृषभो मध्ये भूतेषु पृथिवी जलम् ।। २८ ।। गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते । पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ।। २९ ।। वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः । निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ।। ३० ।। प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा । लिंग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ।। ३१ ।। किं तु लिंगे च बेरे च तुड्गे नैव निरीक्षयेत् । धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यंश द्रिभागिकम् ।। ३२ ।। षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः । चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ।। ३३ ।। अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते । नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ।। ३४ ।। मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च । त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ।। ३५ ।। षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा । चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ।। ३६ ।। अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् । चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ।। ३७ ।। पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः । भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ।। ३८ ।। तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः । सार्व देशिक लिंगानि कथ्यन्ते गर्भमानतः ।। ३९ ।। प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् । नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ।। ४० ।। तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः । तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ।। ४१ ।। विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् । एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ।। ४२ ।। मध्यमेष्ट विभागे तु नव लिंगादयस्तु वा । गर्भन्तु नवधा कृत्वा नवलिंगोच्छ्रयस्तु वा ।। ४३ ।। अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् । मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ।। ४४ ।। त्रयस्त्रिंशत्प्रमाणानि लिंगानां कथितानि च । अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ।। ४५ ।। गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४६ ।। लिंगायामे विकारांशे चतुर्भूतरसैर्हितम् । एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ।। ४७ ।। नवहस्त प्रमाणान्तं मानं स्याल्लिंग दर्ध्यके । एक विंशति भागेन गर्भगेहे विभाजिते ।। ४८ ।। त्रयोदशांशकं श्रेष्ठं दशांश मधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४९ ।। लिंगायामे विकारांशे चतुर्भूत रसैर्हितम् । सत्रिभागैश्शरैर्लिंग विस्ताराः परिकीर्तितः ।। ५० ।। गायत्र्यंशे तु लिंगोच्चे पञ्चभिर्वाथ विस्तरः । अथवाष्ट दशांशे च लिंगोच्चे पञ्चभागिके ।। ५१ ।। चतुर्भागोथवा लिंगविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ।। ५२ ।। विस्तारः कथितश्शास्त्रे लिंगानां मुनिपुंगवाः । द्वार स्तम्भादिभिश्चैव मानं लिंगे समूह्यताम् ।। ५३ ।। भागेन वाथ लिंगानि विभजेत्तानि चाङ्गुलैः । आयादि शुभसिद्ध्यर्थं अंशैर्वा विभजेद्यथा ।। ५४ ।। षोडशांशं समारभ्य चतुर्विंशति संयुतम् । शतांशं विभजेत्तत्र त्वेकांश योजयेद्गुरुः ।। ५५ ।। तैर्वा निरीक्षये ल्लिंगं बेराद्यायादिकं गुरुः । समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ।। ५६ ।। स्वस्तिकं च सहस्रख्यं धारालिंगमिति द्विजाः । इयत्तया समुद्देश क्रमेणैष विधीयते ।। ५७ ।। त्रिधा विभज्य लिंगोच्चं कुर्याद्भागत्रयं क्रमात् । तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ।। ५८ ।। पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः । पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ।। ५९ ।। चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः । भाग भाग विवृद्ध्या स्यात् तस्मात्तस्माद्धरीशयोः ।। ६० ।। वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् । अथवान्यप्रकारेण वर्धमानं विधीयते ।। ६१ ।। एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् । चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ।। ६२ ।। नवाङ्गुलं तु विज्ञेयं लिंगयोर्वसरन्ध्रयोः । एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ।। ६३ ।। ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः । सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ।। ६४ ।। चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् । एवं शिवाधिकं लिंगं ब्राह्माद्यादिष्वनुक्रमात् ।। ६५ ।। लिंगोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः । षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ।। ६६ ।। त्रैरशिकमिदं लिंगंशुद्राणां तत् प्रशस्यते । नवधा लिंगमानेन त्रिचतुर्भिरजादयः ।। ६७ ।। स्वस्तिकं लिंगमाख्यातमन्यथा च निगद्यते । त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ।। ६८ ।। ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् । त्रयस्त्रिंशत्कृते लिंगे स्वस्थिकं शूद्रयोग्यकम् ।। ६९ ।। सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् । मुख लिंगं च पूर्वोक्त विधिनात्रापि भाव्यते ।। ७० ।। शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् । लिंगानामधिकं दद्याच्छिरसो वर्तनांशकम् ।। ७१ ।। समस्तमथवा त्र्यंशमधिकं वर्तनांशतः । शिवलिंगप्रतिष्ठोक्तविधिना लक्षणं नयेत् ।। ७२ ।। यावल्लिंगस्य विस्तार स्तावत् पीठस्य विस्तृतिः । लिंगविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ।। ७३ ।। चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः । पूजांश द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ।। ७४ ।। तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा । नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ।। ७५ ।। तत्तदन्तर मानानि पीठानां कथितानि च । गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ।। ७६ ।। गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः । विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ।। ७७ ।। ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् । पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ।। ७८ ।। पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् । लिंग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ।। ७९ ।। चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् । तत्तदन्तर मानानि नवधापरिकल्पयेत् ।। ८० ।। लिंगायाम समं वापि लिंगनाहसमं तु वा । पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ।। ८१ ।। तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा । तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ।। ८२ ।। तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् । लिंग विष्कंभ मानं तु विकारांश समं भवेत् ।। ८३ ।। भागादेक विवृद्ध्या तु चतुर्भागावसानकम् । ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ।। ८४ ।। एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् । कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजांश दैर्घ्यकम् ।। ८५ ।। तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः । छायादोषो यथा नस्यात् लिंगपीठिकयोर्द्विजाः ।। ८६ ।। देशस्य देशनाथस्य कर्तुः कारयितुस्तथा । आवहेदुत्तमां सिद्धिं सर्व लिंगेष्वयं विधिः ।। ८७ ।। तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् । अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ।। ८८ ।। कल्पितं पीठमेवं वा पीठलिंगं तु मुक्तिदम् । सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ।। ८९ ।। शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने । गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ।। ९० ।। तत्संग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके । स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ।। ९१ ।। लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा । तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ।। ९२ ।। ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः । त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ।। ९३ ।। यदाकार विशिष्टं तद्रूपं तस्य तदेव हि । प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ।। ९४ ।। सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः । प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ।। ९५ ।। जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् । परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ।। ९६ ।। स्वायम्भुवादि लिंगानां दृश्यभागादधः स्थितम् । दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ।। ९७ ।। दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् । तस्मादधः स्थितं लिंगं मूलेनैव परीक्षयेत् ।। ९८ ।। अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः । सार्वदेशिकलिंगानामित्थं लक्षण मीरितम् ।। ९९ ।। प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ।। ९९१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिंग प्रासाद विधिः एक चत्वारिंशत्तमः पटलः ।। ४२. द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः । प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ।। १ ।। मण्डपाः परिवारा वा प्राकारा गोपुरादयः । यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ।। २ ।। यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे । तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ।। ३ ।। शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च । पश्चिमोत्तरपूर्वाशाश्शुभाशास्संप्रकीर्तिताः ।। ४ ।। कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् । तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ।। ५ ।। प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः । परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ।। ६ ।। नित्योत्सवादिकं तत्र विरोधाय न कल्पते । अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ।। ७ ।। नैव पाशुपतेनापि न महाव्रतिना क्वचित् । न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ।। ८ ।। अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः । प्रमादत्तैः कृते तच्च शैवं संपादयेत् क्षणात् ।। ९ ।। एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् । अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ।। १० ।। पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् । स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ।। ११ ।। सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च । कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ।। १२ ।। आद्येष्टकादिकं कर्म तावदस्य समाचरेत् । एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ।। १३ ।। प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते । मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ।। १४ ।। पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा । क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ।। १५ ।। तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा । पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ।। १६ ।। एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः । आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ।। १७ ।। संलब्धकामो देहान्ते शिवेन सह मोदते । एकाद्येकैकवृद्ध्या तु रुद्रसंख्यावसानकम् ।। १८ ।। अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् । शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ।। १९ ।। एवं यः कारयेत् कर्ता स एवाहं न संशयः ।। १९१/२ ।। इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः पटलः ।। ४३. त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ।। १ ।। बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ।। २ ।। अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ।। ३ ।। बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् । बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ।। ४ ।। अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकॢप्तलोचनम् ।। ५ ।। ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ।। ६ ।। एवं सदाशिवः कार्यो मनोन्मना समन्वितम् । इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।। ७ ।। वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् । तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ।। ८ ।। बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् । जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ।। ९ ।। मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसंख्यया । तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ।। १० ।। पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा । पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ।। ११ ।। वेद्यूर्ध्वे स्थण्डिलं शययाकॢप्तिं पूर्ववदाचरेत् । प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ।। १२ ।। शययायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ।। १३ ।। सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् । वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ।। १४ ।। परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् । तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् । यवा/लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ।। १६ ।। अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ।। १७ ।। प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः । प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ।। १८ ।। उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् । देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।। १९ ।। ततो महूर्ते संप्राप्ते कुम्भाद्बीजं पुरो न्यसेत् । कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ।। २० ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २१ ।। अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् । तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २२ ।। स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् । देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ।। २३ ।। अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् । नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ।। २४ ।। सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः । इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ।। २५ ।। इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः त्रिचत्वारिंशत्तमः पटलः ।। ४४. चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ।। १ ।। ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके । गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ।। २ ।। त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् । तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ।। ३ ।। वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा । वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ।। ४ ।। दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः । एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ।। ५ ।। द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः । चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ।। ६ ।। गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते । पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ।। ७ ।। सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ।। ८ ।। षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः । आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ।। ९ ।। एवं विंशति भागान्तं विस्तारे परिकल्पिते । तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ।। १० ।। द्वितलादितलेऽलिन्दान् भित्तिं च बहुसंख्यया । पादेन वार्धभागेन त्रिपादेन समन्ततः ।। ११ ।। सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् । हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ।। १२ ।। अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् । शालाकारम् सभाकारं प्रासादाकारमेव च ।। १३ ।। मस्तकस्थूपिसंख्या स्यादेकादेकाद शान्तिका । दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ।। १४ ।। शिवायतनदेवा वा गणपः षण्मुखोऽपि वा । सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ।। १५ ।। शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् । पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ।। १६ ।। उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् । कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ।। १७ ।। आयामो वाथ संग्राह्याः प्रतिमालक्षणोक्तितः । धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ।। १८ ।। रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते । हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ।। १९ ।। प्रासादभित्तिदेवानामशेषाणामपि प्रभोः । प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ।। २० ।। रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता । प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ।। २१ ।। वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः । श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ।। २२ ।। सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः । प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ।। २३ ।। धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः । अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ।। २४ ।। देहली पेषणी चुल्की खण्डनोलूखली तथा । मुसली मुद्गरी देवी वर्धमानी च वा मताः ।। २५ ।। चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः । वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ।। २६ ।। वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि । नै -ऋते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ।। २७ ।। इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि । निर्माल्यधारिणीं देवीमशनीमीशगोचरे ।। २८ ।। पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः । महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ।। २९ ।। देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः । पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ।। ३० ।। चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् । अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ।। ३१ ।। पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च । भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ।। ३२ ।। लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके । प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ।। ३३ ।। मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् । ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ।। ३४ ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करन्डमकुटान्विता ।। ३५ ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ।। ३६ ।। पद्महस्ताति शान्ता च सादेवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ।। ३७ ।। यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ।। ३८ ।। देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ।। ३९ ।। प्रलम्बवामपादा वा लम्बितापरपादिका । देवेन सहिता वापि केवला वा प्रकीर्तिता ।। ४० ।। श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ।। ४१ ।। नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले । गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ।। ४२ ।। तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् । तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ।। ४३ ।। सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते । जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ।। ४४ ।। द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् । तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ।। ४५ ।। कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् । नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ।। ४६ ।। पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् । प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ।। ४८ ।। जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् । पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ।। ४९ ।। दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि । स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ।। ५० ।। मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः । उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ।। ५१ ।। लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा । अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ।। ५२ ।। एवं देवी प्रकर्तव्या तस्याः संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ।। ५३ ।। मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ।। ५४ ।। नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते । कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ।। ५५ ।। सान्तरेफ महामाया बिन्दुनाद समन्विता । मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ।। ५६ ।। गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ । वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ।। ५७ ।। अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् । बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ।। ५८ ।। ऐंकारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् । मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ।। ५९ ।। एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः । एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ।। ६० ।। हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ । आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ।। ६१ ।। एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते । कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ।। ६२ ।। मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् । तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ।। ६३ ।। वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च । पुष्परागं च गोमेदं तथा मरकतं द्विजाः ।। ६४ ।। हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् । अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ।। ६५ ।। तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् । गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ।। ६६ ।। आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् । ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।। ६७ ।। परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् । प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ।। ६८ ।। योन्याभवनपञ्चैक ऋक् संख्याकुण्डकल्पनम् । तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ।। ६९ ।। तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् । पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ।। ७० ।। होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् । जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ।। ७१ ।। गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा । शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ।। ७२ ।। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् । देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ।। ७३ ।। लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् । परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ।। ७४ ।। वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च संमतान् । आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।। ७५ ।। मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः । क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ।। ७६ ।। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा । धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ।। ७७ ।। पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः । गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ।। ७८ ।। मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् । गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ।। ७९ ।। पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः । वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ।। ८० ।। संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः । समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।। ८१ ।। पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ।। ८२ ।। पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८३ ।। गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् । मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।। ८४ ।। मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् । सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ।। ८५ ।। शान्त्यंभः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् । दर्भैस्संस्पर्शनंचैव प्रतिभागं समाचरेत् ।। ८६ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उत्थाप्य देवीं कुंभांश्च प्राग्वद्वह्निं च तर्पयेत् ।। ८७ ।। दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः । मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।। ८८ ।। कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् । प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ।। ८९ ।। सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् । चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ।। ९० ।। देव्यग्रे तु घटान्न्यस्य कुंभाद्बीजं तुतद्धृदि । विन्यसेदनुकुंभेभ्यः पीठस्य परितो मनून् ।। ९१ ।। तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः । तत्तत्कुंभोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। ९२ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः । स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ।। ९३ ।। यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी । तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ।। ९४ ।। संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः । उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ।। ९५ ।। ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः । देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ।। ९६ ।। कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता । इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ।। ९७ ।। एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः । भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवंपदम् ।। ९८ ।। पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् । शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ।। ९९ ।। शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे । प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ।। १०० ।। प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः । सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ।। १०१ ।। द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः । द्वारस्य पार्श्वयोश्चैव शंख पद्मनिधी तथा ।। १०२ ।। द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ । चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ।। १०३ ।। सर्वाभरण संपन्नौ सर्वरत्न विभूषितौ । ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ।। १०४ ।। गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् । अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ।। १०५ ।। समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् । सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ।। १०६ ।। अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः । खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ।। १०७ ।। देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् । कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ।। १०८ ।। वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः । शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ।। १०९ ।। सुधासंप्लावनं चात्मावाहनं चामृति कृतम् । करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ।। ११० ।। अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् । पञ्चमूर्धास्ययुग्देव्याः पूजायां संप्रकल्पयेत् ।। १११ ।। एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् । शशिन्यादय एवोक्ताः केवलास्तु कला इति ।। ११२ ।। अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् । देवी स्कन्द गणेशादीन् सर्वान् संपूजयेत्तु वा ।। ११३ ।। सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् । हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ।। ११४ ।। ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् । स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ।। ११५ ।। गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा । संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ११६ ।। बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि । गणाम्विकायै विद्महे महातपायै धीमहि ।। ११७ ।। इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् । इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ।। ११८ ।। देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः । देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ।। ११९ ।। बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि । सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ।। १२० ।। अथवा स्त्राणुनालब्ध तालवृन्तज वायुना । तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ।। १२१ ।। प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् । अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ।। १२२ ।। कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् । अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ।। १२३ ।। ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् । वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ।। १२४ ।। ततो देव्यासनायेति पूजयेदनुपूर्वशः । मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ।। १२५ ।। विद्यादेहं च संपाद्य पूजाबेर स्वरूपकम् । प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ।। १२६ ।। हृदयानुगतेनैव पुष्पपूरित सत्करः । आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ।। १२७ ।। सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् । हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ।। १२८ ।। अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् । वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ।। १२९ ।। पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् । गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ।। १३० ।। पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् । उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ।। १३१ ।। गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् । दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ।। १३२ ।। आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः । पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ।। १३३ ।। शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् । अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ।। १३४ ।। गणविद्येशलोकेशतदस्त्रान् परितो यजेत् । एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ।। १३५ ।। पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च । नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ।। १३६ ।। देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा । वरदाभयहस्ता च शंख चक्र करा परा ।। १३७ ।। पद्मासनस्था तस्यांतु यजेद्देवीं मनोन्मनीम् । पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ।। १३८ ।। पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् । पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।। १३९ ।। नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् । तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ।। १४० ।। एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् । षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ।। १४१ ।। नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः । उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ।। १४२ ।। पवित्रारोहं सम्यक् कृत्तिकादीपमेव च । संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ।। १४३ ।। मासोत्सवं तथा मासे नव नैवेद्यकं तथा । विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ।। १४४ ।। जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् । किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ।। १४५ ।। पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः । शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ।। १४६ ।। ध्वजहोमबलिं हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ।। १४७ ।। उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता । कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ।। १४८ ।। यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् । अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ।। १४९ ।। एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् । सर्व देवेषु सामान्यं विधानमिदमग्रजाः ।। १५० ।। धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् । दिग्देव मूर्तिसंयुक्तं मध्ये कुंभ समन्वितम् ।। १५१ ।। धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह । अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।। १५२ ।। देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् । तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ।। १५३ ।। एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ।। इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः पटलः ।। द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टममुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।। चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका । दुकूल वसनादेवी करण्ट मकुटान्विता ।। वरदा संयुक्ता पाशाङ्कुश करान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरावपि ।। दुकूलवसना देवी करण्डमकुटान्विता । वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ।। यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ।। दुकूल वसनादेवी करण्डमकुटान्विता वददाभयसंयुक्ता शुकोत्पल करावपि ।। यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ।। ४५. पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् । पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ।। १ ।। शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु । चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ।। २ ।। आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् । यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ।। ३ ।। अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः । एकादि नवभूम्यन्तभूमिभाग समन्वितम् ।। ४ ।। विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा । दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ।। ५ ।। गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः । पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ।। ६ ।। दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा । धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ।। ७ ।। प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः । मण्टपो वालयस्तस्य कूटाद्याकार एव वा ।। ८ ।। परितः परिवारोक्तः प्रसंगात् स च कथ्यते । विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ।। ९ ।। उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् । अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ।। १० ।। कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै । द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ।। ११ ।। कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् । आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ।। १२ ।। अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः । एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ।। १३ ।। हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः । विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ।। १४ ।। विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः । द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ।। १५ ।। हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ । उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ।। १६ ।। रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ । धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ।। १७ ।। तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः । कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ।। १८ ।। रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः । श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ।। १९ ।। पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः । परिवारा इति ख्याता गणेशाभिमुखस्थिताः ।। २० ।। परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः । बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ।। २१ ।। पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः । भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ।। २२ ।। लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ।। २३ ।। पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः । त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ।। २४ ।। स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् । प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ।। २५ ।। केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् । उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ।। २६ ।। अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः । ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ।। २७ ।। अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् । तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ।। २८ ।। जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् । केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते / मुच्यते ।। २९ ।। दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् । दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ।। ३० ।। दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् । मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ।। ३१ ।। नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते । कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ।। ३२ ।। कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् । कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ।। ३३ ।। मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् । हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ।। ३४ ।। नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् । अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ।। ३५ ।। जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते । जगवक्त्रो गणाधीशो भूतरूपो महोदरः ।। ३६ ।। नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः । नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ।। ३७ ।। अवामवामावर्तेभहस्तः पद्मासनस्थितः । स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।। ३८ ।। लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।। ३९ ।। पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् । शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ।। ४० ।। स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। ४१ ।। त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः । पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ।। ४२ ।। इष्टासनस्थितो वापि प्रभादिपरिमण्डितः । एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ।। ४३ ।। गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा । शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ।। ४४ ।। आसीनमासने रत्नमकुटादिविभूषिताम् । श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ।। ४५ ।। उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् । दिगम्बरां सुवदनां भुजद्वय समन्विताम् ।। ४६ ।। विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् । पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ।। ४७ ।। स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् । चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ।। ४८ ।। इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् । स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ।। ४९ ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः । द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ।। ५० ।। बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु । त्रयोदशान्तसंपन्नमथवा परिकल्पयेत् ।। ५१ ।। कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् । हृल्लेखासंपुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ।। ५२ ।। श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् । पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ।। ५३ ।। वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् । नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ।। ५४ ।। फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः । द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ।। ५५ ।। सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् । तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ।। ५६ ।। बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् । द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ।। ५७ ।। विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः । वरदं तु समुच्चार्य वरदद्वितयं वदेत् ।। ५८ ।। सर्वलोकवशं पश्चादानयेति पदं ततः । स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ।। ५९ ।। ओंकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः । हृल्लेखासंपुटो मन्त्रस्त्वथ कारणकार्ययुक् ।। ६० ।। गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः । इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ।। ६१ ।। सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने । दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ।। ६२ ।। कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी । अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ।। ६३ ।। अनामिकामथाकुञ्च तर्जनीमपि चानयेत् । अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसंज्ञिता ।। ६४ ।। अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ।। ६५ ।। पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा । पञ्च तत्संख्यहेम्नाथ हैमसूचि समन्वितम् ।। ६६ ।। पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् । कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् ।। ६७ ।। मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना । सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ।। ६८ ।। यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् । बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।। ६९ ।। तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा । परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ।। ७० ।। यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः । यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ।। ७१ ।। कुण्डानि नव पञ्चैक संख्यया कथितानि तु । तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ।। ७२ ।। प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् । मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ।। ७३ ।। उद्धास्य शिल्पिनं पश्चाद्द्विजान् संभोजयेत्ततः । पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।। ७४ ।। भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् । जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ।। ७५ ।। मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् । कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ।। ७६ ।। संकल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः । अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ।। ७७ ।। आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् । विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ।। ७८ ।। कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् । पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ।। ७९ ।। बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् । वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ।। ८० ।। सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् । कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ।। ८१ ।। परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् । आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ।। ८२ ।। देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् । सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ।। ८३ ।। शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च । न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ।। ८४ ।। गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् । उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ।। ८५ ।। मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः । इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ।। ८६ ।। पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः । मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ।। ८७ ।। विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् । पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ।। ८८ ।। गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् । वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ।। ८९ ।। संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः । दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ।। ९० ।। ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् । आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ।। ९१ ।। समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः । तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ।। ९२ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।। ९३ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ।। ९४ ।। प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् । दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ।। ९५ ।। मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् । कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ।। ९६ ।। अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् । प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ।। ९७ ।। सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् । चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ।। ९८ ।। द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि । विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ।। ९९ ।। तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् । तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ।। १०० ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् । गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ।। १०१ ।। तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः । विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ।। १०२ ।। विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् । तासां हृदि विशेषेण ततः स्थापनमाचरेत् ।। १०३ ।। विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् । आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ।। १०४ ।। विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् । पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभं ।। १०५ ।। लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु । तस्यार्चनं च संक्षोपाछृणुध्वं मुनिपुङ्गवाः ।। १०६ ।। उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च । सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ।। १०७ ।। कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयं । आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ।। १०८ ।। द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् । देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ।। १०९ ।। प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु । वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ।। ११० ।। संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः । तदुद्भूतामृतेनाद्रींकृतकाय समन्वितः ।। १११ ।। अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ । ईशास्यघोरवामाजान् करजेषु तले दृशाम् ।। ११२ ।। मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् । ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ।। ११३ ।। देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा । एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ।। ११४ ।। आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा । गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ।। ११५ ।। अथवा शिवमन्त्रैस्तु शैवींकृत्वा निजां तनुम् । इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ।। ११६ ।। स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् । गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ।। ११७ ।। पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा । संप्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ।। ११८ ।। हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् । मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ।। ११९ ।। इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे । इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ।। १२० ।। तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् । इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ।। १२१ ।। हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे । त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ।। १२२ ।। लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ।। १२३ ।। मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा । कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ।। १२४ ।। कल्पयेदासनं मध्ये प्रणवं धर्मसंमुखान् । अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ।। १२५ ।। प्रणवाम्भसि संभूतं पीतकर्णिकया युतम् । शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ।। १२६ ।। ततो गणासनायेति पूजयेदनुपूर्वशः । मूर्तिमावाह्य तां प्राग्वद्देहं संक्ल्प्य मन्त्रकैः ।। १२७ ।। प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः । हृदयानुगतेनैव पुष्पापूरितसत्करः ।। १२८ ।। निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ।। १२९ ।। हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् । अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ।। १३० ।। हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा । उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ।। १३१ ।। वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् । पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ।। १३२ ।। दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना । लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ।। १३३ ।। सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु । तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १३४ ।। तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना । नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ।। १३५ ।। गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चाद्धूपदानावसानके ।। १३६ ।। अग्नौ च रक्षोवायवीशदिक्षु दिक्षु हृदाद्यणून् । तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ।। १३७ ।। इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् । एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ।। १३८ ।। पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च । नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ।। १३९ ।। पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् । मूलेन शतपञ्चाशद्दशसंख्येन वा गुरुः ।। १४० ।। मूलाद्दशांशसंख्यैस्तैरङ्गैर्होमं समाचरेत् । नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ।। १४१ ।। पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् । पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ।। १४२ ।। नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा । पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।। १४३ ।। पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति । एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ।। १४४ ।। षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् । ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ।। १४५ ।। नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा । विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ।। १४६ ।। नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् । स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ।। १४७ ।। आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने । अष्टौ च नवसंख्ये स्युः पञ्चविंऽसतिसंख्यके ।। १४८ ।। लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके । लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ।। १४९ ।। पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् । एकोनपञ्चाशत्संख्यकलशे देवता मताः ।। १५० ।। गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके । अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ।। १५१ ।। अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः । वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ।। १५२ ।। शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् । अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ।। १५३ ।। उत्सवं दमनारोहं पवित्रारोहणक्रिया । दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ।। १५४ ।। नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः । जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।। १५५ ।। किंतु तस्य ध्वजे मूषं वा समालिखेत् । शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ।। १५६ ।। ध्वजहोमबलीन् हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ।। १५७ ।। उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता । उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ।। १५८ ।। अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः । वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ।। १५९ ।। शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् । सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ।। १६० ।। अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ।। १६१ ।। इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः पञ्चचत्वारिंशत्तमः पटलः ।। गजवक्त्रो गणाधीशो भूरूपो महोदरः । जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।। स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीट मकुटोज्ज्वलम् ।। शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् । स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ।। अवामावामवर्तेभ हस्तः पद्मासनस्थितः । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम् उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम् दिगम्बरां सुवदनां भुजद्वय समन्विताम् विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम् पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम् चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम् इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम् स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः गजवक्त्रो गणाधीशो भूतरूपो महोदरः नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम् स्थानकं वासनं वाथ गणेशं कारयेत्ततः गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा आसीनमासने रत्नमकुटादि विभूषितम् ४६. षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ।। १ ।। जटामकुटसंयुक्तो वक्रनागफणावृतः । पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ।। २ ।। त्रिंशत्संख्यावसानास्स्युः जटास्तास्सान्तरालकाः । धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ।। ३ ।। कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया । वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ।। ४ ।। युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः । व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ।। ५ ।। वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः । दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ।। ६ ।। कस्थ ब्रह्मकपालेन नानापुष्पैरलंकृतः । धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ।। ७ ।। शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः । स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ।। ८ ।। कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः । अम्बिकामुखबिंबाब्ज भ्रमरीकृतलोचनः ।। ९ ।। आबद्धकिंकिणीयुक्तः तद्वन्नूपुरशोभितः । वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ।। १० ।। दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च । वामापरकरस्थेन वह्निना दक्षकेन तु ।। ११ ।। डिन्डिमेन समायुक्त उपवीतेन संयुतः । गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ।। १२ ।। नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः । मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ।। १३ ।। नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् । ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ।। १४ ।। हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् । श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसंमतम् ।। १५ ।। सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् । सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ।। १६ ।। तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् । तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ।। १७ ।। सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः । सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ।। १८ ।। ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् । सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ।। १९ ।। सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः । सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ।। २० ।। सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् । अथवान्यप्रकारेण सूत्रपातोभिधीयते ।। २१ ।। कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः । नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ।। २२ ।। स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् । सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ।। २३ ।। बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् । मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ।। २४ ।। कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् । नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ।। २५ ।। सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् । बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ।। २६ ।। मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् । कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ।। २७ ।। पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् । स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ।। २८ ।। तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् । श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ।। २९ ।। तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् । तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ।। ३० ।। तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः । तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ।। ३१ ।। तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः । सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ।। ३२ ।। भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः । विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ।। ३३ ।। धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः । धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ।। ३४ ।। कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः । एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ।। ३५ ।। बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् । अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ।। ३६ ।। देवस्य वक्त्रमानेन स्यादपस्मारमानकम् । वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ।। ३७ ।। वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् । चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ।। ३८ ।। उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् । उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ।। ३९ ।। केशान्ताद्धनुपर्यन्तं अष्टभागमितिस्मृतम् । गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ।। ४० ।। षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः । तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ।। ४१ ।। तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते । ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ।। ४२ ।। जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः । द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ।। ४३ ।। व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे । आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ।। ४४ ।। देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते । द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ।। ४५ ।। सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता । ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ।। ४६ ।। गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः । प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ।। ४७ ।। सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः । एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ।। ४८ ।। द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा । तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ।। ४९ ।। कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा । भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ।। ५० ।। भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि । उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ।। ५१ ।। द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च । भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ।। ५२ ।। भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते । उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ।। ५३ ।। सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः । चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ।। ५४ ।। शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् । इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ।। ५५ ।। कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ।। ५६ ।। बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् । जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ।। ५७ ।। कुण्ठानि परितः पश्चान्नवपञ्चैक संख्यया । चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ।। ५८ ।। मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् । पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ।। ५९ ।। समरीचिपदे कुर्यात् वास्तुहोमं विधानतः । वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ।। ६० ।। पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् । शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ।। ६१ ।। कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि । शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ।। ६२ ।। वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् । लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ।। ६३ ।। ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां वेदहस्तान् धानां सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभां ।। अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् । अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ।। ६४ ।। तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् । होमं समारभेत् काले मूर्तिपैस्सह देशिकः ।। ६५ ।। कृत्वा कुण्डाग्निसंस्कारं अग्निकार्योक्तमाचरेत् । समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ।। ६६ ।। प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः । ऊदुंबरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ।। ६७ ।। शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः । प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ।। ६८ ।। ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् । गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ।। ६९ ।। रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् । समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ।। ७० ।। उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः । व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ।। ७१ ।। कुंभांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः । पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ।। ७२ ।। वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः । दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ।। ७३ ।। ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् । चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ।। ७४ ।। ततः कुंभान्समुद्धृत्य सर्वातोद्य समाकुलम् । हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ।। ७५ ।। कुंभाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् । वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ।। ७६ ।। विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् । देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ।। ७७ ।। तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः । उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ।। ७८ ।। अनुक्तमत्र सामान्यस्थापनोदित माचरेत् । एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ।। ७९ ।। स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ।। ७९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः षट्चत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः । जटामकुट संयुक्तो वक्रनाग फणावृतः ।। कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः स्थितो दक्षिणपादेन वामेनोपरि वर्तिना कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः दक्षाभयकरस्थेन वह्निना दक्षके न तु डिण्डिमेन समायुक्त उपवीतेन संयुतः गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक् नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः ४७. सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् । तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ।। १ ।। चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः ।। २ ।। कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ।। ३ ।। सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामेगौर्या च संयुतः ।। ४ ।। सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः । ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ।। ५ ।। श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् । मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ।। ६ ।। चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् । उष्णीषात्तुककुद्वंश कण्ठस्फिक् मध्यमाद्गतम् ।। ७ ।। पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् । हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ।। ८ ।। जानुः पक्षांगुलं वामे लम्बितस्य गुणाङ्गुलम् । सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ।। ९ ।। ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः । तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणांगुलम् ।। १० ।। सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् । कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ।। ११ ।। नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् । वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ।। १२ ।। वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया । ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ।। १३ ।। देवोच्चदशभागैक भागेनाभद्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। १४ ।। द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः । कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ।। १५ ।। दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः । द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ।। १६ ।। देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा । आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ।। १७ ।। स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः । सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।। १८ ।। प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका । रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ।। १९ ।। हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् । तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ।। २० ।। तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् । दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ।। २१ ।। जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् । दिगऽऽराण्याभवृत्तानि वेदाश्राणि च वानयेत् ।। २२ ।। कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्वहिः । शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ।। २३ ।। पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् । शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ।। २४ ।। कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः । वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ।। २५ ।। शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे । विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ।। २६ ।। स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः । लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ।। २७ ।। परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् । तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ।। २८ ।। कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः । तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ।। २९ ।। पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च । शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ।। ३० ।। प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् । षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ।। ३१ ।। एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् । द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ।। ३२ ।। संप्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः । वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ।। ३३ ।। कुम्भाद्बीजं महेशानहृदि न्यसेत् । वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ।। ३४ ।। सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् । गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ।। ३५ ।। अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् । एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।। ३६ ।। कल्याणकर्म कर्तव्यं यथाविधि विशेषतः । अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ।। ३७ ।। इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः । स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ।। ३८ ।। इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः सप्तचत्वारिंशत्तमः पटलः ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ।। वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया । स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । देवोच्चदशभागैक भगेनाथ द्विभागतः । त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः । कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ।। देव्यूरुसंस्थिता वापि निष्पंकजकरोऽथवा ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः सर्वाभरण संयुक्तो वरदाभयहस्तकः कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः सालम्बदक्षपादेन वामे गौर्या च संयुतः सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् देवोच्चदशभागैक भागेनाथद्विभागतः त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्याच संयुतः ।। देवोच्चदशभागैक भागेनाथ द्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ।। सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः । देवोच्चदशभागैक भागेनाथ द्विभागतः ।। त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ।। ४८. अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् । आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ।। १ ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः । वराभय समायुक्तः पूर्वस्थ कर पल्लवः ।। २ ।। वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे । वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ।। ३ ।। ऊरुस्पृष्ठकरो वापि कटको वा विधीयते । मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। ४ ।। मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता । पराङ्कुखौ संमुखौ चा मृगटङ्कौ समीरितौ ।। ५ ।। दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् । हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ।। ६ ।। मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् । श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ।। ७ ।। शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा । स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ।। ८ ।। नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् । स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ।। ९ ।। कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् । ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ।। १० ।। सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् । ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ।। ११ ।। एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् । अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ।। १२ ।। जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् । अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ।। १३ ।। भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् । तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ।। १४ ।। पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् । प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ।। १५ ।। ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे । सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ।। १६ ।। मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले । कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ।। १७ ।। मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् । एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ।। १८ ।। कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे । मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ।। १९ ।। देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः । उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ।। २० ।। पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् । मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ।। २१ ।। पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् । अग्रे दशांगुलं तस्य मूले तु मुखविस्तरम् ।। २२ ।। तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् । वामे महाफणिं तस्य सर्वालंकार भूषितम् ।। २३ ।। जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः । एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ।। २४ ।। जटामकुटमेतद्धि सर्वालङ्कार मीरितम् । रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ।। २५ ।। पद्म पत्रिकया वापि शोभितं वामकर्णकम् । सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ।। २६ ।। पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् । पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ।। २७ ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। २८ ।। सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः । मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ।। २९ ।। कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। ३० ।। समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः । संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ।। ३१ ।। चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा । सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ।। ३२ ।। तयालिङ्गित देवो वा अन्योन्या लिंगितस्तु वा । आलिंगन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ।। ३३ ।। एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते । कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ।। ३४ ।। रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् । जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ।। ३५ ।। कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया । तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ।। ३६ ।। विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः । समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ।। ३७ ।। पुण्याहं वाचयित्वा तु शययायाः कल्पनं नयेत् । स्नपनं कौतुकं शययारोहणं पृथगाचरेत् ।। ३८ ।। ततः कुंभं शिरोदेशे वर्धनी च तदुत्तरे । लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ।। ३९ ।। परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् । न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ।। ४० ।। कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः । लाजसस्येन्द्रकैश्चैव वटोदुंबर संज्ञकौ ।। ४१ ।। अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः । शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ।। ४२ ।। प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः । प्रभाते देवकुंभाग्नीन् अभ्यर्च्य गुरुरादरात् ।। ४३ ।। वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः । संप्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ।। ४४ ।। प्रतिमाग्रे घटान्न्यस्य कुंभाद्बीजं तु विन्यसेत् । देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ।। ४५ ।। सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् । अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ।। ४६ ।। विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् । कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ।। ४७ ।। कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः । अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ।। ४८ ।। चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः । बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ।। ४९ ।। इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः अष्टचत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्थ करुपल्लवः ।। ऊरुपृष्टकरो वापि कटको वा विधीयते । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ।। हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् । वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्य करपल्लवः ।। वरदं वाम हस्तस्यात् अभयं दक्षिणे करे । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।। चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः वराभय समायुक्तः पूर्वस्थकरपल्लवः मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम् वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः सुपत्रवलयोपेतः सर्वरत्नोपशोभितः छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः सापीहभिन्नपीठा वा देवेनालिङ्गताथवा ४९. एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै । चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ।। १ ।। समभागयुतस्सम्यक् स्थापकेन समन्वितः । सव्यकर्णस्थमकरकुण्डलेन समन्वितः ।। २ ।। कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः । धनुर्बाणयुतोपेत वामेतरकरान्वितः ।। ३ ।। दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः । नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ।। ४ ।। पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शरांगुलम् । दोर्मूलात्परहस्तान्तं षोडशांगुल ईरितः ।। ५ ।। परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः । शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ।। ६ ।। सूत्रन्तुलंबमयेद्वामे वामनासा पुटस्यतु । दक्षिणस्थितपादे च पुरस्तान्मुनि पुंगवाः ।। ७ ।। हृन्नाभिमेढ्रसव्यांघ्रि जानूनां सूत्रतोन्तरम् । सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ।। ८ ।। तत् पादांगुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् । कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।। ९ ।। एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः । सुमुहूर्ते सुलग्ने च कृत्त्वैवांकुर कर्म च ।। १० ।। रत्नन्यासं दृशांमोक्षं बेरशुद्धिं प्रदक्षिणम् । तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ।। ११ ।। मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया । कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।। १२ ।। संकल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् । देवेशस्य शिरोदेशे शिवकुंभं च वर्धनीम् ।। १३ ।। लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् । अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ।। १४ ।। गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः । तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः । पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। १६ ।। शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः । प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ।। १७ ।। प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च । ततो द्वितीय दिवसे देवकुंभाग्नितर्पणम् ।। १८ ।। पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् । सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ।। १९ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ।। २० ।। सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् । विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ।। २१ ।। कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् । उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ।। २२ ।। अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् । प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ।। २३ ।। इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् । सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ।। २४ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः एकोनपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः । सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ।। सव्यकर्णस्थमकर कुण्डलेन समन्वितः । किष्णापरशु संयुक्त परहस्त द्वयान्वितः ।। धनुर्बाणयुतोपेत वामेतर करान्वितः । देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ।। कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् । एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ।। ५०. पञ्चाशत्तमे पटले लिंगोद्भव विधिः लिंगोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते । गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् ।। १ ।। लिंगोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् । तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ।। २ ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिंगाधो शर्वजान्वन्त भागन्नेंद्रिय गोचरम् ।। ३ ।। लिंगोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् । बिंबस्यानन मानेन कारयेत् हंसमादरात् ।। ४ ।। बिंबाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् । तल्लिंगरसभागैक द्वित्रिवेदशरैर्नयेत् ।। ५ ।। व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ । तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ।। ६ ।। लिंगोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः । ब्रह्मविष्णूविहीनो वा हंस सूकर संयुतः ।। ७ ।। इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते । कालश्च पूर्ववत् ग्राह्यः तद्वदेवांकुरार्पणम् ।। ८ ।। पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् । कुण्दानि परितोश्राणि नव पञ्चैक संख्यया ।। ९ ।। दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि । नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ।। १० ।। प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् । भूषणं मण्डपस्यैव वास्तुहोममतः परम् ।। ११ ।। भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः । वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ।। १२ ।। जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः । कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ।। १३ ।। नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् । ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ।। १४ ।। वस्त्रैश्चैवतु संवेष्ट्य गंधाद्यैरर्चयेत्ततः । प्रधानकुंभं तेषां तु शिरो भागे तु विन्यसेत् ।। १५ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ।। १६ ।। लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः । रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ।। १७ ।। देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् । प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ।। १८ ।। ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः । समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ।। १९ ।। पलाशोदुंबराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च । शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ।। २० ।। प्रधानस्य पलाशस्तु स च सर्वत्रवामतः । द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ।। २१ ।। गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः । रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ।। २२ ।। देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् । बिंबानुद्धृत्य संपूज्य कुभान् कुण्डेषु पावकान् ।। २३ ।। देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः । मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् । वेद्याः कुंभान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ।। २४ ।। कुंभात् बीजं समादाय देवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ।। २५ ।। विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् । ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ।। २६ ।। स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् । बिंबान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ।। २७ ।। वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः । अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।। २८ ।। लिंगोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः । इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगोद्भवप्रतिष्ठा विधिः पञ्चाशत्तमः पटलः ।। गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् । लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ।। लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् । बिंबस्याननमानेन कारयेद्धंसमादरात् ।। बिंबद्विमुखमानेन भूकृष्टास्यंतु सूकरम् । ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ।। ५१. एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः । व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ।। १ ।। व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः । द्वाभ्यां विरहितो योगी स नानाकार भेदतः ।। २ ।। चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः । श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ।। ३ ।। व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा । उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ।। ४ ।। विकीर्ण मूर्धजोवापि जटामकुट एव वा । पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ।। ५ ।। धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः । पञ्चमुद्रासमोपेतो गंगा किंकिणि संयुतः ।। ६ ।। अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः । व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ।। ७ ।। लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् । वामांघ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ।। ८ ।। सन्दर्शसंज्ञयोपेता वामहस्तस्थ पुस्तकः । द्वात्रिंन्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ।। ९ ।। अथवा नागसंयुक्तो वामहस्तस्समीरितः । वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ।। १० ।। दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् । विकसत् पद्मसंकाशः अधस्ताद्विस्तृतांगुलिः ।। ११ ।। परहस्तद्वये चाक्ष माला ज्वाला समन्वितः । पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ।। १२ ।। कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः । नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ।। १३ ।। आभंगसहितं कुर्याद्देहमध्ये तु वामतः । सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ।। १४ ।। मात्रंकालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः । लंबपादस्थितं मध्य सूत्रादर्धांगुलान्तरे ।। १५ ।। अर्द्धार्धांगुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् । सदशांगुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ।। १६ ।। नयने मध्यमं विद्यात् अंगुष्ठस्तनयोस्ततः । नाभेस्तु मणिबन्धान्तः धृत्यंगुलमुदाहृतः ।। १७ ।। सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् । नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ।। १८ ।। दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसांगुलम् । परस्यमणिबन्धाच्च भुजमध्याद्भवांगुलम् ।। १९ ।। द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमांगुलात् । हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ।। २० ।। सजटामकुटादेव चूचुकास्य गलान्तकाः । ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ।। २१ ।। शुक्लाद्यंबर संयुक्ताः भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ।। २२ ।। रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ।। २३ ।। व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः । ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ।। २४ ।। वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः । दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ।। २५ ।। कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः । भागमग्रन्तदावामो भागाधिक चतुर्मुखः ।। २६ ।। विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् । कलावक्रास्य विस्तारा यामं वापि षडंगुलम् ।। २७ ।। तत्तुंगन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् । हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ।। २८ ।। त्रिंशदंगुलमित्युक्तमथान्यमणिबन्धतः । आनाभेरन्तरंनालं शेषं सर्वन्तु पूर्ववत् ।। २९ ।। व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् । तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ।। ३० ।। प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः । अथकुञ्चितवामांघ्रि युग्मस्फिग्गतपार्ष्णिकः ।। ३१ ।। उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् । संदर्शदृष्टिपातश्च आभंगञ्चैव पूर्ववत् ।। ३२ ।। नानामृगैस्तु संकीर्णं नाना व्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ।। ३३ ।। भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् । शैलंकुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ।। ३४ ।। फलशाखोप शाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ।। ३५ ।। रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ।। ३६ ।। शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः । आगमाहित चेतोभिः परमेशेन दीक्षितैः ।। ३७ ।। एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः । व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ।। ३८ ।। सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् । आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ।। ३९ ।। वटवृक्ष विहीनो वा भूताद्यावृत एव वा । भूतस्थलंब वा दक्षिणेशस्समीरितः ।। ४० ।। एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यं पूर्ववत् ग्राह्यमंकुरार्पणमेव च ।। ४१ ।। मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया । कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ।। ४२ ।। रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा । ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ।। ४३ ।। पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् । पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ।। ४४ ।। कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् । वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ।। ४५ ।। स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे । शययायां शाययेद्देवं कौशिकादि ऋषीनथ ।। ४६ ।। दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे । शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ।। ४७ ।। व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् । स्वांस्तुकुंभान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ।। ४८ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितोवसुकुंभांस्तु विद्येशाधिष्ठितान्न्यसेत् ।। ४९ ।। रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् । तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ।। ५० ।। तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् । कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ।। ५१ ।। समिदाज्यचरून् लाज तिलसर्षपवैणवान् । जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ।। ५२ ।। बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् । द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ।। ५३ ।। रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः । समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ।। ५४ ।। संपूज्योद्धृत्य बिंबांश्च कुंभान् कुण्डेषु पावकान् । देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ।। ५५ ।। मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् । कुंभान् बिंबपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ।। ५६ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ।। ५७ ।। विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् । तत्तत् कुंभ जलैश्चैव तत्तद्देशोभिषेचयेत् ।। ५८ ।। ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् । तत्तत् कुंभादकैश्चैव तेषां च स्नपनन्नयेत् ।। ५९ ।। श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् । विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ।। ६० ।। देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः । स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ।। ६१ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ।। ६२ ।। सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता । देहान्ते परमेशानं कर्ता यायादसंशयः ।। ६३ ।। इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन विधिरेकपञ्चाशत्तमः पटलः ।। व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक् तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयंमतः अथकुंचितवामांघ्रियुगस्फिग्गतपार्ष्णिकः उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् संदर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् । चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः विकीर्णमूर्धजो वाऽपि जटामकुट एव वा पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम् वामांघ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां संदर्श संज्ञयोपेतं वामहस्तस्थ पुस्तकः अथवा नागसंयुक्तो वामहस्तस्समीरितः परहतद्वये चाक्षमाला जालसमन्वितः व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ।। दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।। ५२. द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः भिक्षाटनस्य वक्ष्येहं कंकालस्यापि लक्षणम् । प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ।। १ ।। पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् । स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ।। २ ।। आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् । क्षौमांबरं सितं कुर्यात् सुन्दरं तं विभूषणम् ।। ३ ।। स शंख पत्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ।। ४ ।। समभंगयुतं वापि कान्तियुक्त निजांगकम् । प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ।। ५ ।। सव्यमध्यांगुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् । वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ।। ६ ।। उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ।। ७ ।। असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् । नानारूपधरैर्भूतैः अनेकैः परिवारितम् ।। ८ ।। भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ।। ९ ।। स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः । आशीर्वादान्विताः काश्चित् - काश्चिदालिंगनोन्मुखाः ।। १० ।। मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वांगुलं नयेत् । सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ।। ११ ।। दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् । नाभेर्मेढ्रात्तु वामे तु भागं सप्तांगुलं भवेत् ।। १२ ।। पादांगुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् । पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ।। १३ ।। सार्धविश्वांगुलैर्वाऽथ तयोरन्तर मिष्यते । प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ।। १४ ।। नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते । पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ।। १५ ।। हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् । ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ।। १६ ।। अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः । पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ।। १७ ।। कंकालपिंचधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् । भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशांगुलम् ।। १८ ।। अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः । तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ।। १९ ।। कंकालदण्डमानन्तु देवस्याधो गलान्तकम् । दंडाग्रेकारयेत् धीमान् कंकालं हि मुनीश्वराः ।। २० ।। योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः । भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ।। २१ ।। एषएवपरोदेवो नग्नः कंकाल वर्जितः । विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ।। २२ ।। कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ।। २३ ।। दिव्यढक्का समायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ।। २४ ।। व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः । सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ।। २५ ।। कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् । नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ।। २६ ।। डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् । कर्णान्तं षोडशैर्मात्रैः शेषं कंकालवद्भवेत् ।। २७ ।। भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा । स्थापनं च समासेन वक्ष्येऽहं मुनिपुंगवाः ।। २८ ।। कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्तांकुरक्रिया । रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ।। २९ ।। जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः । अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ।। ३० ।। नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् । जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ।। ३१ ।। यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् । तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ।। ३२ ।। उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये । पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ।। ३३ ।। स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् । मध्ये देवं च तद्दक्षे जाया भूतानि वामके ।। ३४ ।। यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् । पृथक् कंकाल दण्डश्चेत् शिरोदेशेतु शाययेत् ।। ३५ ।। शक्रशांकरयोर्मध्ये न्यसेत् कुंभञ्च वर्धनीम् । अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ।। ३६ ।। विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् । वीरेशाय नमश्चेति भूतकुंभे यजेत् गुरुः ।। ३७ ।। नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा । कंकालकुंभे कंकालं न्यस्त्वा तत्वादिकान्न्यसेत् ।। ३८ ।। तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते । मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ।। ३९ ।। प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः । विष्नूक्तवत् स्यात् कंकाले तथाहोमं समाचरेत् ।। ४० ।। कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः । तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ।। ४१ ।। पलाशखादिराश्वत्थोदुंबरो दिक्षु संमताः । शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ।। ४२ ।। प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः । देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ।। ४३ ।। ततो द्वितीयदिवसे देवकुंभाग्नि तर्पणम् । पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ।। ४४ ।। मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिंबपुरो घटान् । कुंभाम्मनुं समादाय देवस्य हृदि विन्यसेत् ।। ४५ ।। वर्धन्यामनुमादाय तस्य पीठांबुजे न्यसेत् । अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ।। ४६ ।। तत्तत् कुंभजलैः स्नाप्य स्नपनञ्चोत्सवं महत् । नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ।। ४७ ।। अनुक्तमत्रसंग्राह्यं सामान्यं स्थापनोक्तवत् । एवं यः कुरुतेमर्त्यः स पुण्यांगतिमाप्नुयात् ।। ४८ ।। मध्य सूत्रादि सूत्राणां द्व्यंगुल द्व्यंगुलञ्च यत् । अंगानामपि सर्वेषां तेषां वै सन्निवेशनम् ।। ४९ ।। हस्तानामपि संख्या च वस्त्राण्याभरणानि च । मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ।। ५० ।। आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया । भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ।। ५१ ।। एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । भिक्षाटने च कंकाले प्रतिष्ठैवं समीरिता ।। ५२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः द्विपञ्चाशत्तमः पटलः ।। पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम् समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् नानागण् समायुक्तं नानाभूतसमाकुलम् असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम् एष एव परोदेवः नग्नः कङ्कालवर्जितः विकीर्णोभय पार्श्वस्थ जटालकविभूषितः कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः सत्कपालं च वरदं वाम हस्तं तु कल्पयेत् दिव्यढक्का समायुक्तं वामस्थमपरंकरम् शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरंकरम् व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः सव्यं कोण समायुक्तं अथवा परिकल्पयेत् पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम् दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत् वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम् उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् नानागण समायुक्तं नानाभूतसमाकुलम् असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम् कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत् ५३. त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै । नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ।। १ ।। प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये । नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ।। २ ।। प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः । कालोंकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ।। ३ ।। शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः । पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ।। ४ ।। मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् । कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ।। ५ ।। कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः । पश्चात् शिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ।। ६ ।। पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् । जलादुत्तीर्य बिंबन्तु मृदाद्यैस्नपनं नयेत् ।। ७ ।। गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः । शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ।। ८ ।। शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् । पूर्ववत् स्हापयेत् कुंभान् परितश्शिवकुंभकम् ।। ९ ।। सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः । शिवंकुंभे यजेदस्त्रन्देवं पाशुपताह्वयम् ।। १० ।। तल्लक्षणोक्तरूपन्तु ध्यात्वागंधादिभिस्तदा । हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ।। ११ ।। दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि । मन्त्रेण वाथ संपूर्णन्देवं पाशुपताह्वयम् ।। १२ ।। अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः । ओंकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ।। १३ ।। मन्त्रेण विधिवत् भिन्ना ओंकाराद्याहृदादयः । हृदयादि समोपेता हुंफडन्ताः नमोन्तकाः ।। १४ ।। हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा । हुंकारकल्पितेनैव ह्रदासंपुरितेन च ।। १५ ।। वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः । तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ।। १६ ।। मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः । कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ।। १७ ।। समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् । पूर्वोक्तमूलब्रह्मांगैर्होमं पूर्वोक्तसंख्यया ।। १८ ।। तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः । पलाशोदुंबराश्वत्थ वटा इन्द्रापि दिक्षु च ।। १९ ।। शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः । प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ।। २० ।। संपूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः । प्रतिमाग्रेघटान्यस्वा तत् कुंभात्तुमनुं हृदि ।। २१ ।। न्यसेत् पीठांबुजेतस्य परिवारमनुन्यसेत् । स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।। २२ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ।। २३ ।। यात्त्येव च सुखं मोक्षमिहापि च परत्र च ।। २३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः त्रिपञ्चाशत्तमः पटलः ।। ५४. चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् । पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ।। १ ।। उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् । पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ।। २ ।। सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः । दिव्यलांगूलसंयुक्तं सुविकीर्ण जटान्वितम् ।। ३ ।। कन्धरोर्ध्वंनराकारं दिव्यमौकि समायुतम् । सिंहास्यं भीमदंष्ट्रंच भीमविक्रमसंयुतम् ।। ४ ।। हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् । कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ।। ५ ।। नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् । पादाभ्यामंबरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ।। ६ ।। गगनाभिमुखं देवं कारयेत् शरभेश्वरम् । एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ।। ७ ।। अष्टवर्गादिमंबीजं चतुर्दशविभूषितम् । षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ।। ८ ।। शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि । ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ।। ९ ।। आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् । योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ।। १० ।। कल्पयेदाद्यवर्णेन ब्रह्माण्यंगानि देशिकः । वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ।। ११ ।। मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः । बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ।। १२ ।। पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः । स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ।। १३ ।। कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् । प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ।। १४ ।। अंकुरार्पणकार्यन्तु तद्विधानेन कारयेत् । नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ।। १५ ।। मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् । जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ।। १६ ।। मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् । पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ।। १७ ।। स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् । विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ।। १८ ।। पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् । शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ।। १९ ।। पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् । उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ।। २० ।। भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो । रक्तवस्त्रेण संवेष्ट्य कुंभस्थापनमारभेत् ।। २१ ।। विन्यसेत् शिवकुंभं च विष्णुकुंभं च विन्यसेत् । स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ।। २२ ।। परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् । ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ।। २३ ।। प्रागुक्ताणु स्वरूपज्ञो गंधाद्यैरर्चयेत् गुरुः । हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ।। २४ ।। विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् । शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ।। २५ ।। मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि । मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ।। २६ ।। ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् । समिद्भिरपिपालाशैः घृतेन चरुणापि च ।। २७ ।। तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् । पूर्णांहुत्वा द्वितीयेह्नि वह्निकुंभामरार्चनम् ।। २८ ।। संप्राप्तदक्षिणस्तुष्टो गुरुस्संपूजितस्सह । मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ।। २९ ।। देवेशाग्रेघटान्यस्वा संकल्प्य स्थण्डिलं गुरुः । कुंभात् बीजं समादाय शरभेश हृदि न्यसेत् ।। ३० ।। विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् । अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।। ३१ ।। तत्तत् कुंभोदकैश्चैव स्नापयेत्परमेश्वरम् । स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ।। ३२ ।। एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् । अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ।। ३३ ।। स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् । देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ।। ३४ ।। सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् । वश्याकर्षण विद्वेषमनेन विधिना नयेत् ।। ३५ ।। अनुक्तमत्रसंग्राह्यं सामान्यस्थापनोक्तवत् । कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ।। ३६ ।। भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः । इयत्ता पुण्य संघस्य भोगान् भुक्त्वेह जन्मनि ।। ३७ ।। वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ।। इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः चतुष्पञ्चाशत्तमः पटलः ।। पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् । ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ।। पादैस्सिंह पदाकारैः चतुर्भुजश्च समन्वितम् । सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ।। दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् । कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ।। सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् । हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ।। कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् । नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।। पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु । गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।। ५५. पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः । प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ।। १ ।। उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। २ ।। एवं जानुरुनाभ्यन्त स्तनवक्षो गलास्यगम् । सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ।। ३ ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वांगसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। ४ ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। ५ ।। नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। ६ ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभंगसहितं कुर्यादागम शवणोन्मुखम् ।। ७ ।। नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः । नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ।। ८ ।। हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्जलि हस्तञ्च शंखाब्जापरहस्तकम् ।। ९ ।। कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः । कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ।। १० ।। इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यंमंकुरं रत्नविन्यासमुभयत्र च ।। ११ ।। नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् । तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ।। १२ ।। कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् । नवपञ्चैक संख्यानां लक्षणैः पूर्ववत् द्विजाः ।। १३ ।। तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् । वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ।। १४ ।। स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् । आरोहणं च शययायाः तस्याञ्च शयनं नयेत् ।। १५ ।। देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि । देवेश पादमूलेतु तेषां च शयनं नयेत् ।। १६ ।। देवोत्तमांगदेशेतु शिवकुंभञ्चवर्धनीम् । अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ।। १७ ।। तत्तदध्याय संसिद्धिं संग्राह्यं मुनि पुंगवाः । कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ।। १८ ।। समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् । सत् पलाशवटप्लक्षो दुंबराः पूर्वतो भवेत् ।। १९ ।। शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ।। २० ।। चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः । निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ।। २१ ।। द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः । संपूज्योद्धृत्य देवांस्तु कुंभान् कुण्डेषु पावकान् ।। २२ ।। सुमुहूर्तेऽठ संप्राप्ते सन्त्रन्यासं समाचरेत् । वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ।। २३ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । कृतस्थण्डिलका धारा बिंबाग्रेतु घटा न्यसेत् ।। २४ ।। कुंभान्मनुं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ।। २५ ।। देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् । अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।। २६ ।। चण्डेशादिषु देवेषु तत्तत् कुंभान् मनुं न्यसेत् । तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ।। २७ ।। स्नपनंञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा । देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ।। २८ ।। एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः पञ्चपञ्चाशत्तमः पटलः ।। उमया सहितस्याथ चन्द्रशेखरमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् । कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः उमया सहितस्याथ चन्द्रशेखमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ।। नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।। ५६. षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् । स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।। १ ।। सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः । त एवानुग्रपराः भक्तानुग्राहकामताः ।। २ ।। देवदानव गंधर्व मुनयो मनुजातयः । पिपीलिका गजाद्यन्ताः जंगमास्थावराश्चये ।। ३ ।। तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः । दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ।। ४ ।। शिवाधिष्टित देहस्तु मरणं याति यो नरः । सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ।। ५ ।। तस्मादुत्क्रान्तिकालेतु स्वेष्टलिंगन्तु संस्पृशन् । प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ।। ५ ।। सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् । आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ।। ६ ।। कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः । द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ।। ८ ।। तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः । भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ।। ९ ।। संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः । कालः प्राग्वत् समुद्दिष्ट स्तथैवांकुरकर्म च ।। १० ।। रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् । ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ।। ११ ।। प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् । कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ।। १२ ।। चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा । तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ।। १३ ।। स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् । शयनारोहणं कुंभस्थापनं पूर्ववन्नयेत् ।। १४ ।। तत्पादेभक्तकुंभन्तु तत्तद्ध्यान समन्वितम् । आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ।। १५ ।। तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् । अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ।। १६ ।। समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः । पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।। १७ ।। शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः । प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ।। १८ ।। ततो द्वितीयदिवसे कृतकुंभाग्नि पूजितः । पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ।। १९ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिंबपुरोघटान् ।। २० ।। कुंभान्मन्त्रं समादाय देवस्य हृदये न्यसेत् । देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ।। २१ ।। विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् । ततः कुंभाजलेनाथऽथ तौ च संस्नापयेत् सदा ।। २२ ।। भक्तकुंभस्य बीजन्तु तत भक्त हृदयेन्यसेत् । आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ।। २३ ।। तत् कुंभस्थ जलेनापि स्नापयेत् पीठमादरात् । स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ।। २४ ।। उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् । विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ।। २५ ।। तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः । एवं यः मर्त्यः स पुण्यांगतिमाप्नुयात् ।। २६ ।। पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् । देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। २७ ।। यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः । मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ।। २८ ।। जीवन्नेवाथवा कुर्यात् आत्मानं शिवसंज्ञितम् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः षठपञ्चाशत्तमः पटलः ।। सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् । आसीनां स्थितां वापि शयितां शुभलक्षणाम् ।। कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः । द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ।। ५७. सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।। १ ।। कुञ्चितासव्यपादस्तु व्याघ्र चर्मांबरान्वितः । ततोद्धृत सदक्षांघ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ।। २ ।। दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः । दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ।। ३ ।। कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः । शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ।। ४ ।। सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् । तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलांगुलम् ।। ५ ।। कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् । कर्णाग्रंतद्वितालं स्यात् दोस्समं परहस्तकम् ।। ६ ।। कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् । मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ।। ७ ।। नाभेस्सव्ये च वामांघ्रेरग्रे सूत्रं पुरो भवेत् । तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ।। ८ ।। स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् । अधोद्धृतांघ्रि जानूच्चं कट्यग्र सममेव हि ।। ९ ।। जंघमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् । दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ।। १० ।। परहस्तौ च कटकौ शूलहस्तस्थैव च । तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ।। ११ ।। सूत्रादन्वित जान्वन्तो गुणवह्ण्यंगुलो भवेत् । उद्धृतस्य तलस्याग्र जंघायास्मृति मात्रकम् ।। १२ ।। कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् । उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ।। १३ ।। शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् । दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ।। १४ ।। देवस्थन्नाभिमानेन नवतालेन कारयेत् । कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ।। १५ ।। अथवाथहराल्लिंगात् निर्गतात् पतितन्नयेत् । कालान्तलिंगमानाद्यं लिंगोद्भूतोक्तवन्नयेत् ।। १६ ।। त्रिभंगेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः । बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ।। १७ ।। कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु । मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ।। १८ ।। अपस्मारशरीरस्थ चरणेन युतो न वा । कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ।। १९ ।। अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् । कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ।। २० ।। भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् । मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ।। २१ ।। शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् । मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ।। २२ ।। देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः । लंभिनी तापिनी चैव वेदिनी द्राविणी तथा ।। २३ ।। मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे । मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ।। २४ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । वाराद्यं अंकुरं यागमण्टपं पूर्ववन्नयेत् ।। २५ ।। कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक संख्यया । दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ।। २६ ।। रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् । ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ।। २७ ।। देवे च काले कामे च कारयेत्तु पृथक् पृथक् । वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ।। २८ ।। देवस्य पाददेशेतु शययास्यात् काल कामयोः । कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ।। २९ ।। ईशकुंभं शिरोदेशे वर्धनीं तस्य चोत्तरे । कालकुंभं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ।। ३० ।। कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् । मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ।। ३१ ।। कामस्य पार्श्वयोः कॢप्त शययाशयितयोरपि । देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ।। ३२ ।। विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् । विद्येश्वरात्मकान्यस्य यजेत् गंधादिभिस्ततः ।। ३३ ।। तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् । तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ।। ३४ ।। कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् । आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ।। ३५ ।। शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि । मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ।। ३६ ।। प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः । कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ।। ३७ ।। अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् । पलाशो ढुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। ३८ ।। शमीखादिरमायूर श्रीवृक्षावह्निकोणतः । पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ।। ३९ ।। कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः । नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ।। ४० ।। देशिकस्सुविशुद्धात्मा संपूज्योद्धृत बिंबकः । कुंभान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ।। ४१ ।। वस्त्रहेमांगुलीयाद्यैः पूजितो मूर्तिपादिभिः । संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ।। ४२ ।। कुंभान् बिंबपुरो न्यस्य शिवकुंभमनुस्मरन् । शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ।। ४३ ।। वैद्येशकुंभबीजानि तत् पीठे परितो न्यसेत् । अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ।। ४४ ।। स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। ४५ ।। एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् । देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः सप्तपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः । कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ।। ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः । दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ।। दक्षहस्तस्थ परशुः नागपाश्ऽथवाम्गः । कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ।। शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा । शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ।। उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् । कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ।। देवस्यनाभिमानेन नवतालेनकारयेत् । कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ।। अथवाथ हराल्लिंगात् निर्गतान् पतितं नयेत् । कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ।। बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ।। कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु । मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ।। ५८. अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् । जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ।। १ ।। त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः । समभंगयुतो देव स्थानकस्थ प्रकीर्तितः ।। २ ।। सकुञ्चात् सव्यसत्पाद स्थितसव्येतरांघ्रिकः । इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ।। ३ ।। जल संग्रहणे योग्य वरवाम करान्विताः । स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ।। ४ ।। आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे । नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ।। ५ ।। एकैकमंगुलन्नीत्वा नाभिसूत्र समं भवेत् । वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ।। ६ ।। अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् । पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुंगवाः ।। ७ ।। मेद्रमूलसमन्दक्ष कटकस्यास्य लंबनम् । नाभेस्तं मणिबन्धान्तं स्मृत्यंगुलमितीरितम् ।। ८ ।। तद्बाहुमध्यात् पार्श्वान्तं शरांगुलमितिस्मतम् । पादांगुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ।। ९ ।। सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् । अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ।। १० ।। पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह । देवीदृगास्य चिबुक कक्ष चूचुकमानता ।। ११ ।। तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः । युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ।। १२ ।। श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् । पादांगुष्ठद्वयोर्मध्यं भवेदष्टदशांगुलम् ।। १३ ।। रसांगुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता । देवोच्चदशभागैक भागादेकादशावधि ।। १४ ।। भागमानयुतः श्यामः किरीटमकुटान्वितः । गृहीत शंख चक्रश्च हस्ताभ्यां धृतयापि च ।। १५ ।। तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः । नासाग्रात् स्थितपाद्यस्य चांगुष्ठान्तं विलंबयेत् ।। १६ ।। तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् । कुण्डिकोत्सेधविस्तारो तालसूत्रांगुलौ मतौ ।। १७ ।। तद्गलोत्सेधविस्तारो कलयाकोलकेन च । आस्यंपञ्चांगुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ।। १८ ।। तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् । एकांगुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ।। १९ ।। पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता । तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ।। २० ।। कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् । नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ।। २१ ।। तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् । वरदः कटकौ स्यातां वामेतर करावुभौ ।। २२ ।। हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् । चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ।। २३ ।। होमोन्मुख्ं प्रसन्नन्तं किंकुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ।। २४ ।। वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ । वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ।। २५ ।। स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ । सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ।। २६ ।। विलंबितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् । तत्पादांगुष्ठ मूलान्तान्नाभेर्वसुदशांगुलम् ।। २७ ।। अभय~चूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् । तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ।। २८ ।। ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् । ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ।। २९ ।। देवस्यांगुलमानेन द्विविंशत्यंगुलो भवेत् । अग्निकुण्डस्यविष्कंभस्त्रिमेखल युतस्य च ।। ३० ।। मेखलैकांगुलाप्रोक्ता प्रत्येकं मुनिपुंगवाः । द्वादशांगुलविस्तार दैर्घ्या सा सप्तजिह्वकः ।। ३१ ।। पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् । शिवादिहस्तसूत्राणां प्रमाणंद्व्यन्तरन्तु यत् ।। ३२ ।। उद्धृतिर्हस्त पादानामन्यांगाना मिहोच्यते । एषामेवनतिश्चापि संकोचो निर्गमोऽपि वा ।। ३३ ।। शरचापादि शास्त्राणां संग्रहे संस्थितिस्त्वियम् । अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ।। ३४ ।। दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः । भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ।। ३५ ।। दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः । देवीनामेवमेवस्यान्नरादीनां विशेषतः ।। ३६ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । संभाव्य पूर्ववत् कालं प्राग्वत् कृत्वांकुरार्पणम् ।। ३७ ।। देवस्यसव्ये ब्रह्माणं उत्तरे विष्णुमेव च । गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ।। ३८ ।। नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि । शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ।। ३९ ।। दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना । बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ।। ४० ।। तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः । ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरंबिकां श्रियम् ।। ४१ ।। यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् । पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ।। ४२ ।। अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः । योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ।। ४३ ।। स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः । देवस्यमण्डपे चापि कुण्डानि नव संख्यया ।। ४४ ।। पञ्चैक संख्ययावपि चतुरश्रनिभानि वा । दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ।। ४५ ।। उद्वास्यशिल्पिनं पश्चात् विप्रान् संभोजयेत्ततः । पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ।। ४६ ।। स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् । शयने शाययेद्देवन्तस्य वामे च दक्षिणे ।। ४७ ।। कृष्णञ्चैवाथभिन्न शययायां शाययेत् गुरुः । देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ।। ४८ ।। उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् । रक्तेन वासमा देवं देविं पीतेन केशवम् ।। ४९ ।। कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् । आचार्या स्संग्रहीतव्याः प्रतिमण्टपमुत्तमाः ।। ५० ।। गुरवः प्रतिदेवं वा संग्राह्यामुनिपुंगवाः । देवोत्तमांग देशेतु शिवकुंभञ्च वर्धनीम् ।। ५१ ।। ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् । परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ।। ५२ ।। देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् । वामाद्याधिष्ठितानष्ट कुंभाश्च परितो न्यसेत् ।। ५३ ।। तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् । यजेत् गंधादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ।। ५४ ।। तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः । अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ।। ५५ ।। ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् । समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ।। ५६ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च । शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ।। ५७ ।। प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः । प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।। ५८ ।। स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये । प्रभाते कृतनित्यन्तु कर्ता संपूजयेत् गुरुम् ।। ५९ ।। वस्त्रहेमांगुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् । तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ।। ६० ।। प्रतिमाग्रे घटन्न्यस्त्वा कुंभान् बीजन्तु विन्यसेत् । वर्धन्याबीजमादाय देवीहृदय मध्यमे ।। ६१ ।। सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे । भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ।। ६२ ।। अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् । संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ।। ६३ ।। दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् । कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ।। ६४ ।। सदाशिवादि देवानां देवीयस्य यथा मता । तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ।। ६५ ।। प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा । तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ।। ६६ ।। यथा वा लभते शोभा बलन्तेषां यथा भवेत् । तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ।। ६७ ।। सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु । दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ।। ६८ ।। प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा । एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ।। ६९ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः अष्टापञ्चाशत्तमः पटलः ।। जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः । त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।। समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः । कुञ्चितः सव्यपादस्तु स्थितसव्येतरांध्रिकः ।। इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः । जलसंग्रहणे योग्य वरवामकरान्वितः ।। स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह देवी दृगास्य चिबुक कक्षनूचुक मानका तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम् देवोच्च दशभागैक भागादेक दशावधि भागमानयुतः श्यामः किरीट मकुटान्वितः गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत् चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम् मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम् वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ स्रुवपात क्रियोपेतौन्योतु कटकामुखौ भूषणानां च सर्वेषां वामदक्षिण भेदतः दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ५९. एकोनषष्टितमे पटले कल्याण कर्म विधिः वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने । पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ।। १ ।। तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके । प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ।। २ ।। स्तण्डिलं तत्र संक्ल्प्य सितवस्त्रोत्तरच्छदम् । स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ।। ३ ।। गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः । अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ।। ४ ।। प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः । देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ।। ५ ।। तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् । विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ।। ६ ।। पाद्याचमनं सदशं चाम्बरद्वयम् । आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ।। ७ ।। स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् । सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ।। ८ ।। पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् । गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ।। ९ ।। पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः । देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ।। १० ।। आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् । अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ।। ११ ।। कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः । शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ।। १२ ।। सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः । अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ।। १३ ।। वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् । ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ।। १४ ।। शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि । पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ।। १५ ।। समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् । गुडदुग्धाज्य संमिश्रं मधुपर्कं हृदा प्रभोः ।। १६ ।। दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा । हुत्वा षोडश संख्यातं ततस्त्वाज्येन षोडश ।। १७ ।। नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा । ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ।।१८ ।। त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् । शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ।। १९ ।। तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः । ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ।। २० ।। पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् । संगृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ।। २१ ।। उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया । प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ।। २२ ।। शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् । तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ।। २३ ।। अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् । देशिकस्य तथान्यस्य सङ्गुलीय करेण च ।। २४ ।। प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा । अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ।। २५ ।। द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् । कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ।। २६ ।। शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु । विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ।। २७ ।। शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् । संपूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ।। २८ ।। ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् । तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ।। २९ ।। समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते । शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ।। ३० ।। अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना । शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ।। ३१ ।। वर्मणा तच्च संपूय नवखट्गोपरि स्थितम् । दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ।। ३२ ।। स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् । चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ।। ३३ ।। देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् । वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ।। ३४ ।। एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् । भिन्नपीठाम्बिकानां तु मूललिंगस्य च द्विजाः ।। ३५ ।। किंतु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् । गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ।। ३६ ।। मूललिंगस्य चोद्बाह्ये गर्भागारात्तु मण्डपे । विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ।। ३७ ।। प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः । स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ।। ३८ ।। आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः । इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ।। ३९ ।। गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् । यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ।। ४० ।। इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः पटलः ।। ६०. षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ।। १ ।। उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ।। २ ।। करमकुटं वाममलकेन समन्वितम् । ललाट दक्षिणे भागे नयनार्धेन संयुतम् ।। ३ ।। पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्र कुण्डलं तं विनावाथ कारयेत् ।। ४ ।। सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे । देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ।। ५ ।। दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः । तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ।। ६ ।। उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनांबरं सव्यपादं कुञ्चितमिष्यते ।। ७ ।। सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् । आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ।। ८ ।। वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् । नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ।। ९ ।। चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् । सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ।। १० ।। द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा । पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ।। ११ ।। अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् । चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ।। १२ ।। अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः । प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ।। १३ ।। भुजद्वययुतं शङ्ख कटकस्तत्र संमतः । पीतांबर समोपेतं सर्वाभरण संयुतम् ।। १४ ।। चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् । हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ।। १५ ।। बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः । तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ।। १६ ।। कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ।। १७ ।। प्रदक्षिणं पुरादीना मुदके चाधिवासनम् । सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ।। १८ ।। किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः । मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ।। १९ ।। प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् । शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ।। २० ।। पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् । शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ।। २१ ।। बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः । शयनारोहणं कृत्वा शाययेद्देवमादरात् ।। २२ ।। शिरः प्रदेशे देवस्य शिवकुंभं तु विन्यसेत् । उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ।। २३ ।। विष्णुश्चेत्तच्छिरोदेशे विष्णु कुंभं तु विन्यसेत् । तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ।। २४ ।। परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् । गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ।। २५ ।। तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् । क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ।। २६ ।। मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते । शर्वं च पशुपत्युग्ररुद्रांश्चेतांबलोत्कटान् ।। २७ ।। धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् । विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ।। २८ ।। पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् । पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ।। २९ ।। ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् । न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ।। ३० ।। जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ । न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ।। ३१ ।। शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् । ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ।। ३२ ।। तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् । एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ।। ३३ ।। संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् । अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ।। ३४ ।। समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि । होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ।। ३५ ।। पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ।। ३६ ।। प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते । विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ।। ३७ ।। ततो द्वितीये दिवसे देवान् कुंभाश्च पावकान् । यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ।। ३८ ।। मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः । शुभे महूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ।। ३९ ।। कुंभान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् । विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ।। ४० ।। कृष्णस्य कुंभात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् । अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।। ४१ ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं तद्देव स्थापनोदितम् ।। ४२ ।। विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ।। ४२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः षष्ठितमः पटलः ।। उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः करण्ट मकुटं वामं मलकेन समन्वितम् ललाट दक्षिणे भागे नयनार्धेन संयुतम् पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम् सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् संव्ये टंकाभयौ हस्ते उत्पलं वामगे करे उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम् व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि । भुजद्वयुतं शङ्खं कटकस्तत्र संमतः ।। पीताम्बर समोपेतं सर्वाभरण संयुतम् । चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ।। ६१. एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ।। १ ।। कृष्णा परशु संयुक्तो जटामकुटमण्डितः । ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।। २ ।। दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ।। ३ ।। स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् । कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ।। ४ ।। अथवा शिवलिंगस्य पार्श्वयोः नतगतौ तु तौ । अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ।। ५ ।। अथवा मध्यमे लिंगं पृथगालय संस्थितम् । तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ।। ६ ।। पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः । संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ।। ७ ।। पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः । भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ।। ८ ।। नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे । एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।। ९ ।। शिवलिंग प्रतिष्ठा च ब्रह्मणः केशवस्य च । तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ।। १० ।। इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते । पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ।। ११ ।। रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् । प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ।। १२ ।। कुण्डानि कारयेत्तत्र नवपञ्चैक संख्यया । दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ।। १३ ।। तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् । स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ।। १४ ।। ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् । शयनारोहं कुंभ स्थापनं पूर्वन्नयेत् ।। १५ ।। देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् । न्यस्त्वा तु शिवकुंभस्य उत्तरे वर्धनीं न्यसेत् ।। १६ ।। तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् । तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ।। १७ ।। अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् । तिलसर्षप मुद्गांश्च माषशिंबाद वैणवैः ।। १८ ।। पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः । शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ।। १९ ।। प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः । ततो द्वितीय दिवसे देव कुंभाग्नि तर्पणम् ।। २० ।। पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः । संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।। २१ ।। मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिंब पुरो घटान् । कुंभान्मनुं समादाय देवस्य हृदि विन्यसेत् ।। २२ ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ।। २३ ।। आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् । तत्तत् कुंभजलैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २४ ।। स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च । अनुक्त मत्र संग्राह्यं तत्त दध्याय चोदितम् ।। २५ ।। प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु । इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ।। २६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम एकष्टितमः पटलः ।। रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः । कृष्णापरशु संयुक्तः जटामकुटमण्डितः ।। ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ।। सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् । कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ।। ६२. द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।। १ ।। परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् । पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।। २ ।। अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके । स हस्तो हंस पक्षो वा पताकाधोमुखस्तु वा ।। ३ ।। तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् । तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ।। ४ ।। तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् । प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ।। ५ ।। हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् । एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ।। ६ ।। पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् । समभङ्गयुतो देवः स्थानकेनापि संयुतः ।। ७ ।। ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके । गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ।। ८ ।। सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् । सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ।। ९ ।। सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् । शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ।। १० ।। द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ।। ११ ।। अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ।। १२ ।। संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ।। १३ ।। मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् । एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ।। १५ ।। कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् । वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ।। १५ ।। जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् । कुण्डानि नवपञ्चैक संख्यया तत्र कारयेत् ।। १६ ।। चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा । पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ।। १७ ।। पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् । स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ।। १८ ।। आरोप्य शयने पश्चात् कुंभान् संस्थापयेत्तमः । शिवस्य च शिरोदेशे शिवकुंभं च वर्धनीम् ।। १९ ।। यदि भिन्नो वृषो देवपादमूले तु शाययेत् । दक्ष मस्तक संयुक्तां शययां संकल्प्य व पृथक् ।। २० ।। वृषमस्तकदेशे तु वृषकुंभं तु विन्यसेत् । परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ।। २१ ।। गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः । तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ।। २२ ।। अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् । समिदाज्यान्नलाजादि तिलसर्षप माषकैः ।। २३ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ।। २४ ।। प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् । ततो द्वितीये संतर्प्य देवान् कुंभांश्च पावकान् ।। २५ ।। समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः । संप्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ।। २६ ।। घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् । कुंभाद्बीजं समादाय देवस्य हृदि विन्यसेत् ।। २७ ।। वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २८ ।। वृष कुंभान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् । अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।। २९ ।। विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् । कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ।। ३० ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ।। ३१ ।। इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः । घनो वाप्य घनो वापि वृषभस्य च संमतः ।। ३२ ।। प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह । लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ।। ३३ ।। इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः द्विषष्ठितमः पटलः ।। वृषभारुधः चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः । परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ।। पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् । अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् समभङ्गयुतो देवण् स्थानकेनापि संयुतः तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत् पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ।। ६३. त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।। १ ।। दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः । तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ।। २ ।। संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः । जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ।। ३ ।। तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् । स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ।। ४ ।। सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः । हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ।। ५ ।। पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् । वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ।। ६ ।। इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः । देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ।। ७ ।। कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् । गलान्तं वाष्टतालेन विलंबितं जटान्वितम् ।। ८ ।। वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् । द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ।। ९ ।। कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् । रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ।। १० ।। तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः । प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ।। ११ ।। तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः । चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ।। १२ ।। मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् । पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ।। १३ ।। स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकं । भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ।। १४ ।। शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः । देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ।। १५ ।। देवेशस्य शिरः पार्श्वे शिवकुंभं च वर्धनीम् । भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ।। १६ ।। हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् । परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ।। १७ ।। पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः । गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ।। १८ ।। तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः । भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ।। १९ ।। पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना । मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ।। २० ।। बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् । चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ।। २१ ।। भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः । गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ।। २२ ।। कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः । तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ।। २३ ।। दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् । तत्तद्देव पुरस्तत्तत् कुंभान् न्यस्त्वा गुरूत्तमः ।। २४ ।। शिव कुंभमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् । वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।। २५ ।। अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् । गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ।। २६ ।। भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् । तत्तत् कुंभ जलेनैव स्नापयेत्तत् प्रदेशके ।। २७ ।। सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् । विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ।। २८ ।। कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः । कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ।। २९ ।। अनुक्तमत्र संग्राह्यं सामान्य स्थापनोक्तवत् । भगीरथ युतो वायं वियुक्तो वा महेश्वरः ।। ३० ।। जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः । इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ।। ३१ ।। यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ।। ३११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम त्रिषष्टितमः पटलः ।। ६४. चतुष्षष्ठितमे पटले गुह स्थापन विधिः गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ।। १ ।। नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् । अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ।। २ ।। अन्येदेवालयेऽप्येवमथवा पर्वतोपरि । पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ।। ३ ।। राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा । प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ।। ४ ।। कुमारालय इष्टस्यात् धाम लक्षण लक्षितः । अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ।। ५ ।। त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः । दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ।। ६ ।। रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् । गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ।। ७ ।। एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः । शिवोक्त मार्ग संकॢप्त गर्भाद्येष्ट कयान्वितः ।। ८ ।। तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः । दिङ्न्यस्त देव विन्यस्त मध्यकुंभ युतेन च ।। ९ ।। धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह । प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।। १० ।। पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा । परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।। ११ ।। यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् । गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ।। १२ ।। क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः । वरदाभय संयुक्ताः खड्ग खेट समन्विताः ।। १३ ।। खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः । भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ।। १४ ।। शकुनी पूतना चैव रेवती चार्धपूतना । वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ।। १५ ।। षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः । स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ।। १६ ।। एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः । वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ।। १७ ।। चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः । एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ।। १८ ।। इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् । विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।। १९ ।। बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् । बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ।। २० ।। द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् । दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ।। २१ ।। खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ । श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयंकरौ ।। २२ ।। जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ । ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ।। २३ ।। अभयं वज्रपद्मे च वरदं द्विभुजं तु वा । शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ।। २४ ।। लक्षणं तस्य संक्षेपाच्छ्रुणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ।। २५ ।। प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु । योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ।। २६ ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः । पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ।। २७ ।। बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ।। २८ ।। कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः । स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।। २९ ।। चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् । नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ।। ३० ।। वरदाभय संयुक्तः शक्तिद्वययुतो न वा । शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ।। ३१ ।। द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये । श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ।। ३२ ।। गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने । गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ।। ३३ ।। इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ।। ३४ ।। षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः । स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।। ३५ ।। सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके । रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ।। ३६ ।। करण्ड मकुटोपेतो नेत्रत्रय समन्वितः । शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ।। ३७ ।। दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा । समयूरध्वजं चैवमङ्कुशं वरदं वहन् ।। ३८ ।। सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः । ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ।। ३९ ।। एवं पञ्चविधस्कन्दो विभागस्थानभेदतः । द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ।। ४० ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः । शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ।। ४१ ।। चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् । सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।। ४२ ।। मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना । शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ।। ४३ ।। ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् । महासेनाय संयुक्तं विद्महे पद संयुतम् ।। ४४ ।। षडाननाय संयुक्तं धीमहीति पदं ततः । तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ।। ४५ ।। गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् । हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ।। ४६ ।। गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः । ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ।। ४७ ।। शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् । देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ।। ४८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ।। ४९ ।। हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् । कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ।। ५० ।। यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् । प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ।। ५१ ।। जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा । परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ।। ५२ ।। प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् । पद्माभनवपञ्चैक संख्या कुण्ड प्रकल्पनम् ।। ५३ ।। पूर्वोत्तरेशसंकॢप्त स्नान वेदिकयान्वितम् । तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ।। ५४ ।। पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे । स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ।। ५५ ।। जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् । गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ।। ५६ ।। आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा । वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्तिः संयुतम् ।। ५७ ।। सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् । शिरः प्रदेशे सूत्राढ्यं कुंभं वस्त्रादिभिर्युतम् ।। ५८ ।। न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् । देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ।। ५९ ।। परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् । सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ।। ६० ।। आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि । न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्यसेत् ।। ६१ ।। मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः । प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ।। ६२ ।। गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः । सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ।। ६३ ।। मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ।। ६४ ।। तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् । गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ।। ६५ ।। सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः । ब्रह्मांगानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ।। ६६ ।। मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् । तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ।। ६७ ।। समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः । पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ।। ६८ ।। शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः । पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ।। ६९ ।। वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् । शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ।। ७० ।। दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् । ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ।। ७१ ।। उद्धृत्य षण्मुखं तं च कुंभाग्नींश्च सु तर्पयेत् । प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ।। ७२ ।। दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः । मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ।। ७३ ।। कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् । विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ।। ७४ ।। सुलग्ने सुमूहूर्ते तु तथा द्वारस्य संमुखम् । अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ।। ७५ ।। देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् । कुंभाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ।। ७६ ।। यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् । पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ।। ७७ ।। तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् । तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ।। ७८ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले । गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ।। ७९ ।। इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् । सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ।। ८० ।। एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः । आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८१ ।। सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् । शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८२ ।। तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः । अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ।। ८३ ।। सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् । गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ।। ८४ ।। आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः । सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ।। ८५ ।। द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा । स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ।। ८६ ।। वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः । शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ।। ८७ ।। शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः । अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ।। ८८ ।। न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः । तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ।। ८९ ।। कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः । भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ।। ९० ।। देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा । सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ।। ९१ ।। आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् । इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ।। ९२ ।। शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् । अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ।। ९३ ।। विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा । अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ।। ९४ ।। अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् । हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ।। ९५ ।। इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् । दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ।। ९६ ।। त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना । लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।। ९७ ।। चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः । इत्थमात्मधाराद्रव्य मन्त्रबिंब विशोधनम् ।। ९८ ।। कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः । प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ।। ९९ ।। अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् । संक्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ।। १०० ।। ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् । विद्यादेहं च संक्ल्प्य तस्मिन्मूलेन षण्मुखम् ।। १०१ ।। हृदयानुगतेनैव पुष्पसंपूर्णसत्करः । आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ।। १०२ ।। निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ।। १०३ ।। महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् । पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ।। १०४ ।। नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु । गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ।। १०५ ।। विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् । वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ।। १०६ ।। चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् । पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ।। १०७ ।। कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः । लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ।। १०८ ।। सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु । तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १०९ ।। हृदा तैलाद्य संकॢप्तिं दद्यात् प्राग्वद् धृदाणुना । आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ।। ११० ।। गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चात् धूपदाना वसानके ।। १११ ।। वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् । तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ।। ११२ ।। ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् । द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ।। ११३ ।। गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् । नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ।। ११४ ।। आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् । मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ।। ११५ ।। जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् । दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ।। ११६ ।। तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह । एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ।। ११७ ।। ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् । तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ।। ११८ ।। अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् । ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ।। ११९ ।। शकुनी रेवती चैव पूतना मण्डपूतना । वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ।। १२० ।। शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः । षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ।। १२१ ।। सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः । सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ।। १२२ ।। कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके । वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ।। १२३ ।। द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् । तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ।। १२४ ।। शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ।। १२४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः पटलः ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ।। वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।। द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु । चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् । नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः वरदाभय संयुक्तः शक्तिद्वययुतो न वा षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः । पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ।। सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः । सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ।। रक्तांबर समायुक्तः बालचन्द्र समप्रभैः । करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।। शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् । दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।। समयूर ध्वजं चैवं अङ्कुशं वरदं वहन् । सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।। ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये । ६५. पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ।। १ ।। पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ।। २ ।। अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके । अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ।। ३ ।। धामलक्षण संसिद्धायामेनापि समन्वितः । एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ।। ४ ।। धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ।। ५ ।। प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः । मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ।। ६ ।। दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः । स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ।। ७ ।। दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च । धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ।। ८ ।। प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकार मण्डपोपेतः परितः परिवारः युक् ।। ९ ।। रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च । महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ।। १० ।। रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः । एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ।। ११ ।। सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ।। १२ ।। इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः । बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ।। १३ ।। द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ।। १४ ।। बलिपीठे बलिर्देयो यथादेशं बलिर्हितः । देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ।। १५ ।। द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ।। १६ ।। प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।। १७ ।। व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः । करालकज्जलाभासो जटिलश्चन्द्रशेखरः ।। १८ ।। चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। १९ ।। अथवा शंख वर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ।। २० ।। पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः । वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ।। २१ ।। अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। २२ ।। स्थानको वासनस्थो वा शयिता सव्यवात्तलः । सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ।। २३ ।। वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः । वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ।। २४ ।। शंकरेक्षण संपन्नश्शोकनम्र शिरास्तु वा । उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ।। २५ ।। एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः । अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ।। २६ ।। चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ।। २७ ।। कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ।। २८ ।। अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ।। २९ ।। सा देवी श्यामला हस्त द्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ।। ३० ।। एवमापाद्य बेरं मनुभिंस्थापनं नयेत् । चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ।। ३१ ।। चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च । चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ।। ३२ ।। ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च । मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ।। ३३ ।। ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः । ओं चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ।। ३४ ।। तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः । अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ।। ३५ ।। ज्ञानशक्ति पदैर्मन्त्रैः र्हुंट्कार समन्वितैः । चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ।। ३६ ।। विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ।। ३७ ।। कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् । सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ।। ३८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ।। ३९ ।। सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः । बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ।। ४० ।। तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् । यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ।। ४१ ।। याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् । नवपञ्चैक संख्यानि वृत्तान्यश्राणि वा द्विजाः ।। ४२ ।। मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह । उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ।। ४३ ।। पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् । जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ।। ४४ ।। कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् । कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ।। ४५ ।। पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु । वासोभ्यां वेष्टयित्वा तु कुंभन्यासं समाचरेत् ।। ४६ ।। चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् । सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ।। ४७ ।। तथा विधघटानष्टौ विन्यसेत् परितो बहिः । चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ।। ४८ ।। सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् । कुंभमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ।। ४९ ।। हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः । घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ।। ५० ।। लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा । गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ।। ५१ ।। आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् । क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ।। ५२ ।। प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा । सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ।। ५३ ।। मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् । संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ।। ५४ ।। कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् । प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ।। ५५ ।। लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः । प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ।। ५६ ।। शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः । तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ।। ५७ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ।। ५८ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य चण्ड बिंबं तु कुंभानग्नींश्च तर्पयेत् ।। ५९ ।। पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः । वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ।। ६० ।। अधमा निष्का तु द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ।। ६१ ।। प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः । सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ।। ६२ ।। देवाग्रस्थण्डिलस्तेभ्यः कुंभेभ्यो देशिकोत्तमः । तत्तत् कुंभगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ।। ६३ ।। स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि । कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ।। ६४ ।। चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा । चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ।। ६५ ।। आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च । विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ।। ६६ ।। लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः । चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ।। ६७ ।। चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते । स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ।। ६८ ।। चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना । द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ।। ६९ ।। आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च । सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ।। ७० ।। अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च । पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ।। ७१ ।। अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् । स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मंत्रशुद्धये ।। ७२ ।। पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे । इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ।। ७३ ।। तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् । दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ।। ७४ ।। संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च । चण्डासनं च मूर्तिं च संक्ल्प्येशाद्यणून् क्रमात् ।। ७५ ।। हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् । बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ।। ७६ ।। न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् । पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ।। ७७ ।। अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि । इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ।। ७८ ।। धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः । हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ।। ७९ ।। परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः । नैवेद्यः तद्विधानोक्तं दत्वा तांबूल संयुतम् ।। ८० ।। पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् । जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ।। ८१ ।। पलाशसमिदाज्यान्नैर्होमं च विभवे सति । मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ।। ८२ ।। नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् । पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ।। ८३ ।। प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा । पादुकाराधनोपेतं प्रविशेदालयं प्रति ।। ८४ ।। एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु । कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ।। ८५ ।। पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने । आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ।। ८६ ।। चण्डेशायेति संक्ल्प्य यच्छिवाय निवेदितम् । नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ।। ८७ ।। गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः । संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ।। ८८ ।। आत्मार्थे च परर्थे च सामान्यमिदमीरितम् । नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ।। ८९ ।। आयु.ः प्रज्ञां सौभाग्यमतुलां श्रियम् । अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ।। ९० ।। विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये । स्नपनं पूर्ववत् किंतु मध्ये चण्डेश्वरं घटे ।। ९१ ।। देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् । अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ।। ९२ ।। रुद्रभक्तादयोऽष्टौस्युर्नवकुंभाभिषेचने । इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ।। ९३ ।। पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् । शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ।। ९४ ।। उत्सवं दमनारोहं पवित्रारोहं नयेत् । दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ।। ९५ ।। नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् । किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ।। ९६ ।। शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह । धजहोम बलिं हित्वा केवलं यानमेव वा ।। ९७ ।। प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् । प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ।। ९८ ।। तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ।। १८१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः पञ्चषष्ठितमः पटलः ।। अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः शंकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ।। पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः । वराभय प्रदानभ्यां अन्यत्र परिमण्डितः ।। अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः । संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः । सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः) वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ।। संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। जटामकुट युक्तो वा धवलीकृत मूर्धजः । स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ।। संकरेक्षण संपन्नः शोकनम्र शिरो तु वा । अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ।। चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः । व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ।। करालकज्जका भासो जटिलश्चन्द्रशेखरः । चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ।। टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। ६६. षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ।। १ ।। स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा । शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ।। २ ।। तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् । शैवाः पाशुपताश्चैव महाव्रत धराश्रये ।। ३ ।। लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः । तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ।। ४ ।। शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् । स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ।। ५ ।। ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ।। ६ ।। स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ।। ७ ।। परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ।। ८ ।। परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते । त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ।। ९ ।। एक विंशति हस्तान्तो विमान व्यास इष्यते । आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ।। १० ।। सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् । आद्येष्टका विधानं च गर्भ संस्थापनं तथा ।। ११ ।। मूर्धेष्टका विधानं च प्राग्देव समीरितम् । तदर्थं शिवलिंगं वा प्रतिमा वा शिवस्य तु ।। १२ ।। स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ।। १३ ।। शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा । अर्ध चित्रमथा भासं पटादि परिकल्पितम् ।। १४ ।। लिंगं चेत् प्रतिमा चेद्वा लिंग बेरोक्त वर्त्मना । मानं तयोश्च संग्राह्या हर्म्याद् गर्भगृहादथ ।। १५ ।। द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु । षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ।। १६ ।। हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् । त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ।। १७ ।। मानमेतत्समाख्यातं जात्यायांश समन्वितम् । वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ।। १८ ।। आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् । नववेदहृदं सप्त नवसंख्याहृतं तु यत् ।। १९ ।। वारोह्यंशस्समाख्यातो यजमानानुकूलितम् । मृतनामाक्षरेणानुकूलितं च विधीयताम् ।। २० ।। लिंगं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ।। २१ ।। मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् । आसीनं स्नानकं वापि वाहनारूढमेव वा ।। २२ ।। आसने स्थानके वाथ पद्मसिंहासनं तु वा । अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ।। २३ ।। यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् । आसनोन्मान विस्तारायामं तद्वदलंकृतिम् ।। २४ ।। प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ।। २५ ।। अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ।। २६ ।। सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः । गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ।। २७ ।। स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।। २८ ।। मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः । ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ।। २९ ।। रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् । स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ।। ३० ।। संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् । हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ।। ३१ ।। ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् । नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ।। ३२ ।। तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया । मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ।। ३३ ।। सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् । धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ।। ३४ ।। दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् । सर्वालंकार संयुक्तं ग्रामादौ भ्रमणं नयेत् ।। ३५ ।। जलाधिवासयेद्बिबं लोकपाल घटान्वितम् । यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ।। ३६ ।। नव पञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् । उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ।। ३७ ।। वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः । प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ।। ३८ ।। जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् । शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ।। ३९ ।। आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् । संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ।। ४० ।। स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते । पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ।। ४१ ।। वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् । बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ।। ४२ ।। उपधानं न्यसेत्प्राच्यां तत्र बिंबं शिरो भवेत् । शिरसश्चोत्तरे भागे कुंभं प्राधानिकं न्यसेत् ।। ४३ ।। अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् । चन्दनोदक संपूर्णान् फा पल्लव संयुतान् ।। ४४ ।। तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते । सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ।। ४५ ।। आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः । सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ।। ४६ ।। विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः । ह्रींकारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ।। ४७ ।। स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते । प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ।। ४८ ।। पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् । वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ।। ४९ ।। स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः । पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ।। ५० ।। परिवार घटे पूज्या अष्टौ वा वसवो मताः । स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ।। ५१ ।। पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च । संपूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ।। ५२ ।। आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् । आत्मानमन्तरात्मानं परमात्मानमेव च ।। ५३ ।। तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् । स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ।। ५४ ।। अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि । इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ।। ५५ ।। तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् । अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ।। ५६ ।। जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् । संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ।। ५७ ।। ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् । प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ।। ५८ ।। तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् । समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ।। ५९ ।। पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् । शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ।। ६० ।। प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् । हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ।। ६१ ।। मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् । कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ।। ६२ ।। स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् । ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ।। ६३ ।। रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह । स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ।। ६४ ।। पञ्च गोचर संजात स्सोष्णीषस्सोत्तरीयकः । पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ।। ६५ ।। तद्वत् संपूजितैर्मूर्ति धारकैरणुजापिभिः । अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ।। ६६ ।। द्वारद्वाराधिपानिष्ट्वा कृतकुंभार्चनो गुरुः । संपूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ।। ६७ ।। उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः । प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ।। ६८ ।। रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् । आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ।। ६९ ।। मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् । संस्नाप्य कुंभपानीयैः परितः स्थापितैरपि ।। ७० ।। वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः । उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ।। ७१ ।। उत्सवं कारयेदन्ते यथा विभव विस्तरम् । ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ।। ७२ ।। आदिशैवकुलोद्भूतः पञ्चगोचर संभवः । आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ।। ७३ ।। कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः । पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ।। ७४ ।। प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् । वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ।। ७५ ।। कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च । परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ।। ७६ ।। प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः । प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ।। ७७ ।। अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये । षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ।। ७८ ।। तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् । तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ।। ७९ ।। जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् । पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ।। ८० ।। संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा । संमृज्य वाससा वस्त्रं गन्धं स धूमकम् ।। ८१ ।। दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् । ताम्बूलं च त्रिसन्ध्यासु दद्यात्संध्याद्वयेऽपि वा ।। ८२ ।। अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा । दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ।। ८३ ।। अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु । स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ।। ८४ ।। मध्य कुंभे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ । स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ।। ८५ ।। एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् । एकावरण संयुक्तमधमं त्विति कीर्तितम् ।। ८६ ।। प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति । भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ।। ८७ ।। संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् । नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ८८ ।। अथवैकदिनं वापि बलिहोम समन्वितम् । ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ।। ८९ ।। धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु । स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ।। ९० ।। भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् । इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ।। ९१ ।। यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके । यागशालां विधानेन कृत्वा वेदि समन्विताम् ।। ९२ ।। पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा । सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ।। ९३ ।। बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः । अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ।। ९४ ।। तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः । स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ।। ९५ ।। प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् । प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ।। ९६ ।। गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् । द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ।। ९७ ।। सायं प्रातर्बलि र्दद्यात् क्षुद्र बिंबसमन्वितम् । बल्यन्ते चोत्सवं कुर्यात् सर्वालंकार संयुतम् ।। ९८ ।। परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् । अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ।। ९९ ।। प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् । शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ।। १०० ।। धजोत्थान विहीनं वा बलिहोमोझितं तु वा । केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ।। १०१ ।। शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः । आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ।। १०२ ।। अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ।। १०२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः पटलः ।। ६७. सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः । सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ।। १ ।। प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके । भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ।। २ ।। अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः । पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ।। ३ ।। व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् । प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ।। ४ ।। भूर्जत्वक्कुलसंभूतं शीतालीदलमेव वा । तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ।। ५ ।। शैलदारुकृतं वापि लेखये दक्षरैः शुभः । मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ।। ६ ।। लिखेत् तूलिकया वापि देशिकः शिष्य एव वा । शुभवारर्क्षयोगादावारभेदनुकूलभे ।। ७ ।। पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः । न समीपे पशूनां तु कुर्यादध्ययनं बुधः ।। ८ ।। नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः । लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ।। ९ ।। गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् । वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ।। १० ।। गोमयालिप्त भूभागे रङ्गलेख समन्विते । प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ।। ११ ।। ज्वलद्दीपसमोपेते शुद्धशैव समावृते । लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ।। १२ ।। नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः । शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ।। १३ ।। ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः । प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ।। १४ ।। अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च । व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ।। १५ ।। पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः । छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ।। १६ ।। इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् । यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ।। १७ ।। शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः । अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ।। १८ ।। शिवविद्यानुसारेण विद्यादानं तदुच्यते । संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ।। १९ ।। प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि । अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ।। २० ।। देशभाषाद्युपायैश्च तथा भूतागमैरपि । प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ।। २१ ।। यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः । तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ।। २२ ।। शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् । इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ।। २३ ।। योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् । स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ।। २४ ।। शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् । प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ।। २५ ।। यावदक्षरं संख्यास्युः शिवज्ञानस्य पुस्तके । तावद्युतसहस्राणि दाता शिवपुरे नरः ।। २६ ।। दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् । मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ।। २७ ।। स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् । अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ।। २८ ।। वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा । श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ।। २९ ।। अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् । शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ।। ३० ।। आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् । मूल्येन कारयेद्वाथ तदेव फलमश्नुते ।। ३१ ।। यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः । स राजा वर्धते स राजाधिप ऊर्जितः ।। ३२ ।। राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ।। ३३ ।। शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः । यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ।। ३४ ।। तथा पाशुपतादीनि गारूडादीन्येनकधा । निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ।। ३५ ।। निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः । बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ।। ३६ ।। तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् । शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ।। ३७ ।। अन्येषामपि सर्वेषा माभिचारादिकम् तु वा । विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ।। ३८ ।। तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् । एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ।। ३९ ।। त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् । विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ।। ४० ।। एक शालादि भेदेन शाला वा लक्षणान्विताः । विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ।। ४१ ।। द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः । तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ।। ४२ ।। चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् । अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ।। ४३ ।। संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः । मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ।। ४४ ।। आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् । शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।। ४५ ।। मध्यमे शिव कुंभं तु पार्श्वयोर्वर्धनीद्वयम् । द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ।। ४६ ।। संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् । समिदाज्यतिलोपेतं हविषा च समन्वितम् ।। ४७ ।। यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् । संप्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ।। ४८ ।। मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ।। ४८१/२ ।। इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः पटलः ।। ६८. अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।। १ ।। गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ।। २ ।। कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ।। ३ ।। जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ।। ४ ।। स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः । तालाष्टांश विवृद्ध्या तु चतुस्तालावसनकम् ।। ५ ।। कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः । तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ।। ६ ।। हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ।। ७ ।। ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते । रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ।। ८ ।। तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा । गव्याभिषेचितं शस्त्र मलंकृत्य नयेत्ततः ।। ९ ।। ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे । प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ।। १० ।। एक वेदि समोपेतं पृथग्वेदियुतं तु वा । मण्डपं दशसंख्यातं प्रपा कुण्डसमन्वितम् ।। ११ ।। पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा । एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ।। १२ ।। इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे । वृत्त कुण्डं भवेदेवं कुण्डानि दश संख्यया ।। १३ ।। ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा । पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ।। १४ ।। शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा । आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ।। १५ ।। जलानीतं च सुस्नातं पूजितं कृतकौतुकम् । शयने शाययेद् बिंबं प्रदक्षिण शिरोन्वितम् ।। १६ ।। वस्त्रैराच्छादयेत्सर्वान् कुंभान् संस्थापयेद् गुरुः । परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ।। १७ ।। स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् । मध्य कुंभे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ।। १८ ।। विदिक्ष्वङ्गानि संपूज्य वाप्तिं पुरुष गोचरम् । स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ।। १९ ।। हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् । पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।। २० ।। शमीखादिर मायूर श्रीवृक्षास्संप्रकीर्तिताः । पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ।। २१ ।। प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् । संपूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ।। २२ ।। स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि । एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। २३ ।। इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः अष्टषष्टितमः पटलः ।। ६९. एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ।। १ ।। गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः । महतामेक भागं तु शूलानां मानमिष्यते ।। २ ।। प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ।। ३ ।। द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा । जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ।। ४ ।। यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् । भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ।। ५ ।। लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते । यजमाननृपग्रामानुकूलं लौकिकं मतम् ।। ६ ।। जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् । अंगुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ।। ७ ।। लौकिकं चान्यधामस्थ बेर साधारणं मतम् । युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ।। ८ ।। तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा । उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ।। ९ ।। तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् । पादमान युतं वाथ तन्मानं च पृथक् पृथक् ।। १० ।। तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः । रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ।। ११ ।। संग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् । पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ।। १२ ।। वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः । मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ।। १३ ।। चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते । मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ।। १४ ।। पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते । पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ।। १५ ।। अर्धपत्रं च पत्राग्रं तु कृशं भवेत् । पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ।। १६ ।। अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः । पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ।। १७ ।। तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि । पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ।। १८ ।। नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा । यवार्धं तु समारभ्य यवपाद विवर्धनात् ।। १९ ।। अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् । मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ।। २० ।। मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि । एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ।। २१ ।। पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः । पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ।। २२ ।। तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः । द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ।। २३ ।। पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् । तस्याधः पालिका कार्या पत्रायामार्ध भागतः ।। २४ ।। हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा । फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ।। २५ ।। पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् । एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ।। २६ ।। पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः । तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ।। २७ ।। पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् । घटवन्नाडिकामानं युघधा विभजेत्त तत् ।। २८ ।। एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका । हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ।। २९ ।। आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः । तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ।। ३० ।। दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा । तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ।। ३१ ।। विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा । पादं वान्तर मानं वा तदुच्चे दशधा कृते ।। ३२ ।। पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् । वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ।। ३३ ।। हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा । मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ।। ३४ ।। अथवा मध्य पत्रस्य मूले वृषभवाहनम् । पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ।। ३५ ।। देव्या समायुतं वाथ वृषभेण युतं न वा । देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ।। ३६ ।। अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् । माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ।। ३७ ।। टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् । पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ।। ३८ ।। शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते । मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ।। ३९ ।। पादेन मध्यमेऽष्टांश मानाद्वा दण्ड विस्तरः । विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ।। ४० ।। यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा । पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ।। ४१ ।। चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् । त्रिशूलापरभागे तु वृषभं वा समालिखेत् ।। ४२ ।। अथवा दण्डमानेन पुरुषं जटिलं तु वा । पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ।। ४३ ।। वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा । सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ।। ४४ ।। तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः । प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ।। ४५ ।। संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् । पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ।। ४६ ।। रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् । अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ।। ४७ ।। विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् । शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ।। ४८ ।। जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् । पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ।। ४९ ।। सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् । वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ।। ५० ।। शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना । ततो बिंबं समानीय स्नापयेत्पूर्ववर्त्मना ।। ५१ ।। कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु । बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ।। ५२ ।। शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् । आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ।। ५३ ।। त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् । शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ।। ५४ ।। चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् । स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ।। ५५ ।। विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् । द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ।। ५६ ।। यद्यस्ति प्रतिमा शर्वे शिवकुंभं च वर्धनीम् । वृषो यद्यस्ति तत्कुंभं तेषु तानर्चयेत्क्रमात् ।। ५७ ।। वज्रादीन् वसुकुंभेषु परितः संस्थितेषु च । तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ।। ५८ ।। पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः । दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ।। ५९ ।। शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः । न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ।। ६० ।। ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् । मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ।। ६१ ।। वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् । षण्मुखं कुंभदेशे तु कुंभस्यास्ये विनायकम् ।। ६२ ।। दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे । तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ।। ६३ ।। दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले । दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ।। ६४ ।। दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा । होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ।। ६५ ।। समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् । पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।। ६६ ।। पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः । प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ।। ६७ ।। पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे । सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ।। ६८ ।। विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् । ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ।। ६९ ।। ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि । तद्दिङ्मूर्त्यादि संयुक्तं पूर्व संख्या समन्वितम् ।। ७० ।। रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि । एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ।। ७१ ।। वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः । वज्रादीन् पंकजे सर्वान् देवान् प्राग्वन्निवेशयेत् ।। ७२ ।। तत्तत् कुंभजलैश्चैव स्नापयेच्छूलमादरात् । स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ।। ७३ ।। अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् । त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ।। ७४ ।। भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ।। ७४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन सप्ततितमः पटलः ।। ७०. सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ।। १ ।। देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः । चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ।। २ ।। तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते । चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ।। ३ ।। चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् । अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ।। ४ ।। नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः । पार्णेय प्रमुखास्तेषां आसनानि बहून्यपि ।। ५ ।। द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः । व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ।। ६ ।। द्वारोदयसमं वाष्ट नवभागोनमेव वा । नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ।। ७ ।। प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् । तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ।। ८ ।। पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु । उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ।। ९ ।। विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् । हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ।। १० ।। चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् । चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ।। ११ ।। अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् । सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ।। १२ ।। अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् । द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ।। १३ ।। पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् । अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ।। १४ ।। सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते । सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ।। १५ ।। पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदांश निर्गमात् । यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ।। १६ ।। एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः । दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ।। १७ ।। पादानामन्तरे पादा भवेयुरुपपीठके । पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ।। १८ ।। मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् । सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ।। १९ ।। एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः । उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ।। २० ।। स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् । मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ।। २१ ।। शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् । दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ।। २२ ।। राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते । त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ।। २३ ।। वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके । वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ।। २४ ।। वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका । सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ।। २५ ।। अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः । अर्धेनैकोनविंशांऽसं भद्रकं परिकीर्तितम् ।। २६ ।। त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके । सार्धार्द्धांश विभागार्धैरेकार्धाष्टांश सार्धकैः ।। २७ ।। अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः । पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ।। २८ ।। पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका । अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ।। २९ ।। आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः । एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ।। ३० ।। एत देव मुखे पृष्टे सौभद्रं संयुतम् । पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ।। ३१ ।। पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् । आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ।। ३२ ।। यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः । तद्विस्तार विभागेन मध्ये मकर तोरणम् ।। ३३ ।। पद्माभिषेक संपन्ना कार्या तोरण मध्यमे । तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ।। ३४ ।। मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता । कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ।। ३५ ।। मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् । अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ।। ३६ ।। स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् । कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ।। ३७ ।। नानारत्नसमोपेत मनन्तफण संयुतम् । विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ।। ३८ ।। वितोरणा विजिर्वाथ आसनं केवलं तु वा । पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ।। ३९ ।। पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् । उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ।। ४० ।। क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः । महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ।। ४१ ।। चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः । अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ।। ४२ ।। पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् । वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ।। ४३ ।। द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् । चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ।। ४४ ।। वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके । वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ।। ४५ ।। आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च । ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ।। ४६ ।। सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः । द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ।। ४७ ।। अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् । एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ।। ४८ ।। कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् । योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ।। ४९ ।। उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः । त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ।। ५० ।। पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् । वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ।। ५१ ।। वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् । श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ।। ५२ ।। नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः । पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ।। ५३ ।। पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते । अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ।। ५४ ।। प्रासाद लक्षणे पूर्वं कथितानि बहूनि च । अधिष्टानि सर्वाणि सोपपीठानि यानि च ।। ५५ ।। संग्राह्याणि च तानीह देशिकैर्नियमावृते । अवलम्बित पादस्याद् देवादीनां विशेषतः ।। ५६ ।। सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् । सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ।। ५७ ।। कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् । यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ।। ५८ ।। यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् । आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ।। ५९ ।। पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् । प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ।। ६० ।। आसनानां च सर्वेषामायादि विधिरुच्यते । परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ।। ६१ ।। बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् । सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद् गुरुः ।। ६२ ।। आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः । शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ।। ६३ ।। तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः । लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ।। ६४ ।। श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः । जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ।। ६५ ।। आसनार्थं च संग्राह्या द्रव्यग्रहणमार्गतः । एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ।। ६६ ।। कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः । शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ।। ६७ ।। पञ्च गव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् । अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ।। ६८ ।। शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् । पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ।। ६९ ।। स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः । गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ।। ७० ।। सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् । नमस्कार समोपेतं स्वबीजेन समन्वितम् ।। ७१ ।। मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः । तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ।। ७२ ।। समिदाज्यचरूंश्चैव तिललाज समन्वितम् । शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ।। ७३ ।। पूर्णाहुतिं ततः कृत्वा शान्तिकुंभांभसा गुरुः । सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ।। ७४ ।। स्नातं शुक्लांबरधरं मकुटेन विभूषितम् । सर्वाभरण संयुक्तं छत्र चामर संयुतम् ।। ७५ ।। सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् । नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ।। ७६ ।। मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् । तद्देव होम संयुक्तमासनाणुभिरन्वितम् ।। ७७ ।। आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः । अष्टदिक्वष्ट कुंभांश्च मध्यमे शक्रशर्वयोः ।। ७८ ।। प्रधान कुंभं संस्थाप्य स्वर्णवस्तादिभिर्युतम् । शिवासनाणु मध्ये च लोकपान् परितो यजेत् ।। ७९ ।। एवमादौ च संपूज्य ततो होमं समारभेत् । संतर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ।। ८० ।। सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः । शिवासनाणुं तन्मध्ये कुंभस्थं विनिवेशयेत् ।। ८१ ।। संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् । संपूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ।। ८२ ।। संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् । सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ।। ८३ ।। आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ।। ८४ ।। अन्येषामासनानां च प्रमाणमभिधीयते । सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ।। ८५ ।। मिश्रलोह शिलावृक्षमृत्सुधारत्न संभवम् । दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ।। ८६ ।। पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु । द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ।। ८७ ।। पञ्चाशनमानजातं तु विस्तारे मानमीरितम् । सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ।। ८८ ।। द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि । आयामे मानमुद्दिष्टं पादानं मानमुच्यते ।। ८९ ।। एकमात्रं समारभ्य व्योममात्र विवृद्धितः । पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ।। ९० ।। अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः । विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ।। ९१ ।। पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः । भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ।। ९२ ।। पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा । ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ।। ९३ ।। केवला वाथवा कार्या स्वशिरः पादसंयुताः । अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ।। ९४ ।। नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः । पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ।। ९५ ।। तदाननेलिकां वाथ फलकां वाथ योजयेत् । तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ।। ९६ ।। पादोर्ध्व फलका वाथ योजनीया यथेष्टतः । यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ।। ९७ ।। फलकासनमाख्यातं स्वर्णादीनां यथार्हकम् वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ।। ९८ ।। रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि । फलकां भूषयेद्वाथ केवला फलकाथवा ।। ९९ ।। तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् । नाना नाटक संयुक्तानयः कीलसमन्वितान् ।। १०० ।। नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा । चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ।। १०१ ।। अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् । आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ।। १०२ ।। त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः । चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ।। १०३ ।। तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् । स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ।। १०४ ।। सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् । फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ।। १०५ ।। तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् । एतेषामासनानां तु संस्कारः प्रागुदीरितः ।। १०६ ।। पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ।। १०६१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः पटलः ।। ७१. एकसप्ततितमे पटले रथादि स्थापन विधिः रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ।। १ ।। त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् । नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ।। २ ।। त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः । भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ।। ३ ।। अक्षोन्तरं समाख्यातं उपधानं द्विजोत्तमाः । पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ।। ४ ।। भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा । पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ।। ५ ।। इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः । यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ।। ६ ।। अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः । बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ।। ७ ।। तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः । स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ।। ८ ।। अक्षवधि विलंबिन्य स्त्वयः पट्टैर्दृढीकृताः । प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ।। ९ ।। शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् । अक्षोर्ध संप्रवेशार्थ मुपाधानन्तु वा नयेत् ।। १० ।। अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् । भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ।। ११ ।। तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् । पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ।। १२ ।। तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् । भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ।। १३ ।। समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते । तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ।। १४ ।। अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः । केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ।। १५ ।। ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् । भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ।। १६ ।। रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् । तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ।। १७ ।। त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः । द्वित्रिवेद महाभूत भाग विस्तार संयुताः ।। १८ ।। द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि । त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ।। १९ ।। योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् । भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ।। २० ।। प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् । चतुर्भागं समारभ्य भागस्याष्ट दशावधि ।। २१ ।। विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनां । चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ।। २२ ।। दशभागा वशानन्तु चक्रनेमि घनञ्चयत् । तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ।। २३ ।। एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः । वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ।। २४ ।। पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा । पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ।। २५ ।। यथाबलं विशालानि तथा विधधनानिच । चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ।। २६ ।। एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् । द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ।। २७ ।। एकद्वित्र्यङ्गुलांधिक्यन्नाभिदेशे भवेत् द्विजाः । तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ।। २८ ।। मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च । त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ।। २९ ।। सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा । ब्रह्मा रथांग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ।। ३० ।। भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते । एकभागा द्विकारान्त मेकभाग विवर्धनात् ।। ३१ ।। तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः । भारबाह्य विवृध्यातु रसभागावसानकाः ।। ३२ ।। एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः । गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ।। ३३ ।। त्रिभागे नैक भागेन मूलादारभ्य कारयेत् । उपान पद्मकंपानि कंपं कर्णञ्च कपकम् ।। ३४ ।। पद्मञ्च वाजनं कंपं दृष्टान्तार्थ मुदाहृतम् । पादोनार्धेन भागेन त्रिभागेन द्विभागतः ।। ३५ ।। त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् । एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ।। ३६ ।। धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् । चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ।। ३७ ।। गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् । उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ।। ३८ ।। उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् । फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ।। ३९ ।। फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् । सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ।। ४० ।। शतांऽसान्तं समुद्दिष्टं तन्मूलं वेद भागतः । वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ।। ४१ ।। षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् । कुंभ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ।। ४२ ।। पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् । तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ।। ४३ ।। वस्वं शांताय संयुक्तं तद्विस्तारोदरान्वितम् । तत्रिपाद विशालं वा तदन्तस्सममानकम् ।। ४४ ।। कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा । बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ।। ४५ ।। भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् । यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ।। ४६ ।। तद्विनिर्गमनोपेत मुपपीठं गलावधि । द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ।। ४७ ।। तत्संबन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः । पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ।। ४८ ।। यथेष्ट घन विस्तारे तत्संबन्धे परेपि वा । भरमूले तदग्रे च समभदे तथानयेत् ।। ४९ ।। अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि । तत्रपादा विधेयास्स्युः उपपीठावसानके ।। ५० ।। फलके द्वे विधातव्ये तत्पादोपरि संस्थिते । तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ।। ५१ ।। भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् । उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ।। ५२ ।। उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् । तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ।। ५३ ।। अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् । पंकित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ।। ५४ ।। पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने । सदन्त गलकंपौच महा वाजन माचरेत् ।। ५५ ।। उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् । प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ।। ५६ ।। एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा । अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ।। ५७ ।। अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः । तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ।। ५८ ।। गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः । सिंह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ।। ५९ ।। तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् । प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ।। ६० ।। त्रिभागन्तु समारभ्य भागभाग विवर्धनात् । नवभागावसानं स्यादलङ्गारश्च कथ्यते ।। ६१ ।। तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः । व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ।। ६२ ।। निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् । प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ।। ६३ ।। एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् । पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ।। ६४ ।। एकादि रसभागान्तं पार्श्वयोरुभयोरपि । प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ।। ६५ ।। रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा । षडादि त्रिंशदंशान्तं समं वा मूलपादतः ।। ६६ ।। प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः । अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ।। ६७ ।। छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः । एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ।। ६८ ।। भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु । न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ।। ६९ ।। पादानां कार्यः प्रस्तराणाञ्च मञ्चतः । प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ।। ७० ।। अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते । रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ।। ७१ ।। भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा । प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ।। ७२ ।। सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् । उपभद्र विहीनं वा भद्रं भारान्तमेव वा ।। ७३ ।। एतत् सर्वं विहायाथ केवलान्तूपपीठकम् । भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ।। ७४ ।। उपपीठं विहायास्मिन् केवलवामसूरकम् । बहिः करणमेवस्या दन्तरत्र निगद्यते ।। ७५ ।। पादवर्गेन्तरे क्षुद्रपादाः कंपोपरिस्थिताः । ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ।। ७६ ।। तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा । विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ।। ७७ ।। तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः । अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ।। ७८ ।। तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः । नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ।। ७९ ।। नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः । कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ।। ८० ।। एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा । पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ।। ८१ ।। वेदतालं समारभ्य तालार्धेन निवर्धयेत् । यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ।। ८२ ।। पाद पाद विवृध्यातु तत्वाङ्गुल समावधि । पाद विस्तार आखातो धाम पादा कृतिर्यथा ।। ८३ ।। अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः । बहुनीव्र समायुक्ताः फलकासु निवेशिताः ।। ८४ ।। तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् । तथैवायसनालैश्च धारस्सुदृधं यथा ।। ८५ ।। पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् । शिखाकरणमार्गेण लुपारोहण क्रियान्विता ।। ८६ ।। सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् । छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ।। ८७ ।। रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् । कथ्यते सचलेशेन विस्तारादायतोपिवा ।। ८८ ।। उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा । वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ।। ८९ ।। सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ । तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ।। ९० ।। शकटे शिबिकादौच शुभेशुभ मुदाहृतम् । रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ।। ९१ ।। उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढं । गोमूत्र गोमयांभोभिः कुशोदैस्तज्जलैरपि ।। ९२ ।। गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् । अस्त्रोदेनापि संप्रोक्षय गन्ध पुष्पादिभिः यजेत् ।। ९३ ।। कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु । वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ।। ९४ ।। मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ । दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ।। ९५ ।। हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् । उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ।। ९६ ।। धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः । अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ।। ९७ ।। फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् । कर्णिकान्नवशक्तींश्च शिवासनं अनुस्मरेत् ।। ९८ ।। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः । शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ।। ९९ ।। पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना । तदग्रे स्थंडिलं कृत्वा तस्मिन् सूत्रांबरान्वितान् ।। १०० ।। हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् । तत्र मध्ये शिवं पूर्वेभानुं इन्दुं तथानले ।। १०१ ।। दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे । वारुणे वृषभं वायावनन्तं विनिवेशयेत् ।। १०२ ।। धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे । गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ।। १०३ ।। संस्थापित घटानांवा समन्ता द्वारथस्यतु । नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ।। १०४ ।। आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् । शिवं साङ्गं प्रधानेतु तर्पयेच्छत संख्यया ।। १०५ ।। भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् । एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ।। १०६ ।। समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् । तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ।। १०७ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिङ्मताः । शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ।। १०८ ।। पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः । पूर्णान्दत्वा द्वितीयेह्नि कृत कुंभाग्नि पूजनः ।। १०९ ।। संप्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।। ११० ।। तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। १११ ।। एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः । इहैव धनवांच्छ्रीमान् वांछितं फलमाप्नुयात् ।। ११२ ।। रथमेवं सुसंकृत्य रथयात्रां समाचरेत् । पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ।। ११३ ।। तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः । षण्णवत्यंश कान्तस्तु शिबिका विस्तरोमतः ।। ११४ ।। त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः । एकोन् द्विशतं याव दायामं परिकल्पयेत् ।। ११५ ।। ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् । पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ।। ११६ ।। पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः । एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ।। ११७ ।। पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् । त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ।। ११८ ।। दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् । वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ।। ११९ ।। विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् । अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ।। १२० ।। वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् । त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ।। १२१ ।। आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ । विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ।। १२२ ।। योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् । विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ।। १२३ ।। त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् । हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ।। १२४ ।। त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः । त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ।। १२५ ।। व्योममात्रं समारभ्य पादमात्र विवृद्धितः । सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ।। १२६ ।। व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि । हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ।। १२७ ।। वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् । अष्टांशादंश वृध्यातु स्वन्न्यास द्विगुणावधि ।। १२८ ।। इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः । किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ।। १२९ ।। पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि । पट्टिका घन विस्तारो यथायोग्यं विधीयते ।। १३० ।। व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः । गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ।। १३१ ।। क्षुद्रकंपैश्च वल्लीभिर्नाराचैः कोणबन्धनैः । यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ।। १३२ ।। झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः । स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ।। १३३ ।। शिबिकालंकृतिं कुर्याद्यथा शोभं यथाबलम् । एषा पैठी समाख्याता शेखरी शिखरान्विता ।। १३४ ।। पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता । शूकः कालश्च तिमिरः पनसो निंबकार्जुनौ ।। १३५ ।। मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः । वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ।। १३६ ।। अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः । वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ।। १३७ ।। तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् । चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ।। १३८ ।। त्र्यंगुलादंगुलद्धर्यातु पञ्चाशत् करजावधि । पाद दैर्घ्यं समाख्यातं द्वयंगुलात् पादवृद्धितः ।। १३९ ।। तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः । अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ।। १४० ।। अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् । तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ।। १४१ ।। फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् । नानापट्ट समायुक्तन्नानावेत्र समायुतम् ।। १४२ ।। नाना नाराच संबन्धं पुलकाद्यैश्च शोभितम् । लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ।। १४३ ।। शिबिकायद्वदायाद्यैः संयुक्तं संपदेभवेत् । पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ।। १४४ ।। प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् । खट्वा पाद समायुक्तं पट्टिकां एक संयुतम् ।। १४५ ।। पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् । निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ।। १४६ ।। इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ।। ७२. द्विसप्ततितमे पटले करणलक्षण विधिः लक्षण करणानां च वक्ष्ये संक्षेपतः क्रमात् । याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ।। १ ।। सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः । त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ।। २ ।। वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः । तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ।। ३ ।। निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः । चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ।। ४ ।। दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः । षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ।। ५ ।। तत्संख्यामात्रदैर्घ्यं स्यात् किंचैकादशमात्रतः । ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ।। ६ ।। ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः । वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ।। ७ ।। ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः । ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ।। ८ ।। उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः । उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ।। ९ ।। अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके । द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ।। १० ।। पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् । अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ।। ११ ।। प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् । ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ।। १२ ।। करे संयोजनीयं स्यात् काले देवार्चनादिके । अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ।। १३ ।। त्रयोविंशतिसंख्यातदर्भैस्स्यान्निर्मितेन च । अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ।। १४ ।। यथेष्टान्तरयुक्तेन लम्बनेन समन्विता । दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ।। १५ ।। रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता । आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ।। १६ ।। तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् । सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ।। १७ ।। द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा । स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ।। १८ ।। पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् । याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ।। १९ ।। शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् । इष्टमानेन खातं स्याच्छिखामानं तथैव च ।। २० ।। विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा । सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ।। २१ ।। पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् । विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ।। २२ ।। यावत्तावद् घनं तेषामिष्टमानेन कारयेत् । एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ।। २३ ।। नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च । षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ।। २४ ।। पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् । अन्तरेष्टविभागे तु नवमानमुदाहृतम् ।। २५ ।। घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि । याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ।। २६ ।। दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् । श्रीवत्सं स्वस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ।। २७ ।। अन्येषामपि देवानां देवीनां चाष्टमङ्गले । वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ।। २८ ।। शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् । ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ।। २९ ।। विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते । पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।। ३० ।। पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् । विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ।। ३१ ।। पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् । तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ।। ३२ ।। स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः । तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ।। ३३ ।। पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् । श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ।। ३४ ।। शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् । श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ।। ३५ ।। स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः । दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ।। ३६ ।। चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् । शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ।। ३७ ।। लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः । पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ।। ३८ ।। एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् । हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ।। ३९ ।। वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् । ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ।। ४० ।। ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः । लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ।। ४१ ।। देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् । जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ।। ४२ ।। नवतालप्रमाणेन तेषां लक्षणमुच्यते । तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ।। ४३ ।। देहलब्धेन तेषां तु प्रमाणं प्रविधीयते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ४४ ।। तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् । मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ।। ४५ ।। लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु । इष्टमानेन चैतेषां विस्तार इह कथ्यते ।। ४६ ।। स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते । तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ।। ४७ ।। षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा । दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ।। ४८ ।। त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला । सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ।। ४९ ।। कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा । कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ।। ५० ।। यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि । नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ।। ५१ ।। शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् । कर्णपार्श्वैकमात्रोनशरावादामुखावधः ।। ५२ ।। कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् । अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ।। ५३ ।। तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् । आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ।। ५४ ।। कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता । तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ।। ५५ ।। दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः । मुष्ट्यष्.आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ।। ५६ ।। अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते । द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ।। ५७ ।। तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः । कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ।। ५८ ।। सप्ताऽऽगुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् । गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ।। ५९ ।। रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् । तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ।। ६० ।। पादं कलशमूले स्यादन्यथा वा निगद्यते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ६१ ।। विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् । विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ।। ६२ ।। त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् । कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ।। ६३ ।। वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् । त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ।। ६४ ।। दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् । अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ।। ६५ ।। त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः । स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ।। ६६ ।। एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् । षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ।। ६७ ।। तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् । गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ।। ६८ ।। पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः । नूतनं करणं श्रेष्ठं पुराणं तदभावतः ।। ६९ ।। पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः । तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ।। ७० ।। सहस्राघोररजापस्यात् पुराणकरणग्रहे । येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।। ७१ ।। तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः । अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ।। ७२ ।। अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् । श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ।। ७३ ।। तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः । तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।। ७४ ।। तेनैवोत्सवकर्माद्यं विहितं मुनिपुंगवाः । स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ।। ७५ ।। समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च । ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ।। ७६ ।। तोरणानि पयोवृक्षजातिलक्षणवन्ति च । पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ।। ७७ ।। वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् । तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ।। ७८ ।। शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् । शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ।। ७९ ।। एकादिवेदहस्तान्ततोरणे क्षुद्रमानके । उदयार्धप्रमाणं वा यादादौ परिपठ्यते ।। ८० ।। इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ।। ७३. त्रिसप्ततितमे पटले सौख्य कर्म विधिः प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च । सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ।। १ ।। सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् । ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ।। २ ।। तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् । अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ।। ३ ।। ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः । देवतारुवने पूर्व विनोदार्थं मया पुरा ।। ४ ।। कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः । तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ।। ५ ।। विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः । तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ।। ६ ।। मदालोकन मात्रेण दधते गर्भमक्षयम् । तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ।। ७ ।। तास्सर्वास्तत्र संपूज्य कानो वृत्तिर्भविष्यति । एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ।। ८ ।। मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि । तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ।। ९ ।। तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने । स्त्रीभिस्तद्वंश जाताभिः पञ्चाचार्य समन्वितम् ।। १० ।। इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले । मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ।। ११ ।। आहूय नन्दिनं चादाय करमध्यगम् । वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ।। १२ ।। ततः प्रभृति वर्तन्ते भुवि नन्दाव्य संज्ञया । यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ।। १३ ।। विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् । नर्तको मर्दकश्चैव गायको वांशिकस्तथा ।। १४ ।। तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः । चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ।। १५ ।। भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः । नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ।। १६ ।। तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् । नर्तने च स्वयं शक्तो मात्रागणन तत्परः ।। १७ ।। मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः । प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ।। १८ ।। गायको गान विद्याज्ञस्सप्तस्वर विशारदः । सप्त स्वर विभेदेन गायको गान नायकः ।। १९ ।। वांऽसिकस्तद्वदेव स्यात् किंतु वंशकृतश्रमः । सौख्ये तु वादयेद्वंश मुदात्तादि विभेदतः ।। २० ।। वादयेन्मुखं सौख्य काले मौर विको मतः । नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ।। २१ ।। गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ । अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ।। २२ ।। ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् । पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ।। २३ ।। अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः । पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ।। २४ ।। मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् । त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ।। २५ ।। देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् । प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ।। २६ ।। युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् । अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ।। २७ ।। पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन । सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ।। २८ ।। तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि । नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ।। २९ ।। आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा । पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ।। ३० ।। आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे । क्षालितं वेत्रमादाय हेतितो येन देशिकः ।। ३१ ।। संस्थाप्य वेत्रं पूर्वाग्रं उत्तराग्रमथापि वा । नन्दिनं तत्र संपूज्य गन्धपुष्पादिभ्र्गुरुः ।। ३२ ।। नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः । श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ।। ३३ ।। संप्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि । तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ।। ३४ ।। शिवायनम इत्येवं समस्तं शिरसि न्यसेत् । गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ।। ३५ ।। नामोक्त्वा नन्दपूर्वं तु संबुध्यन्तं यथा भवेत् । नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ।। ३६ ।। मदीयोत्सव कालादौ तव नृत्तानुकूलतः । एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ।। ३७ ।। तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् । पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ।। ३८ ।। ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् । शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ।। ३९ ।। एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते । देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ।। ४० ।। देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् । विन्यस्य तत्पुरः कुंभं स्वर्णवस्त्रादि संयुतम् ।। ४१ ।। पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् । पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ।। ४२ ।। तदम्भसा तु संप्रोक्ष्य शिरः कूर्चेन संस्पृशेत् । पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ।। ४३ ।। प्रवेशो रुद्रकन्यानामादौ संक्षिप्य कथ्यते । निर्दिष्ट दिवसात् पूर्वं मङ्गलांकुर माचरेत् ।। ४४ ।। प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् । विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ।। ४५ ।। सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः । निष्पाद्य देवदेवेशं पूर्वेद्युस्संप्रपूजयेत् ।। ४६ ।। गन्धाद्यैर्युग संख्याता रुद्रकन्या उपोषिताः । धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ।। ४७ ।। सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः । कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ।। ४८ ।। अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् । संस्थाप्य देव देवेशं सहस्रकलशादिभिः ।। ४९ ।। संपूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् । मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ।। ५० ।। पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः । मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ।। ५१ ।। नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् । साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ।। ५२ ।। नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् । स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ।। ५३ ।। तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् । पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ।। ५४ ।। प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् । सरस्वत्या समोपेतं लोकपालादि संयुतम् ।। ५५ ।। पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् । उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ।। ५६ ।। संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् । आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ।। ५७ ।। होमयेच्छत संख्यातामावृतिं दशसंख्यया । समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ।। ५८ ।। देवं संपूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् । प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ।। ५९ ।। तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् । नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ।। ६० ।। पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः । भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ।। ६१ ।। नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया । कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ।। ६२ ।। पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् । समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ।। ६३ ।। श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ।। ६४ ।। प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् । मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि- गीतयुक्तः । नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे कमलासनाय ।। ६५ ।। भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन । आमोद मत्तरलिभिर्रिकूजत् पुष्पांजलिस्यात् पुरुषोत्तमाय ।। ६६ ।। सान्तानिकादि शिव संस्कृत रुद्रकन्या । नानाविधाभिनयकै रभिवर्धमानः । नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै । पुष्पाञ्जलिर्भवतु मे परमेश्वराय ।। ६७ ।। स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए । उत्सवे स्नपने मासपूजायां होमकर्मणि ।। ६८ ।। धजारोहण कलादौ काम्यादौ च विशिष्यते ।। ६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ।। ७४. चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु । आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ।। १ ।। महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः । संस्कारेण विशेषोऽयंजात्या वैशि.य मुच्यते ।। २ ।। ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि । प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ।। ३ ।। वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा । योगेन क्रियया वाथ चर्ययापि विशिष्यते ।। ४ ।। आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः । तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ।। ५ ।। आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च । दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ।। ६ ।। पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् । मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ।। ७ ।। परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः । स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ।। ८ ।। पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः । क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ।। ९ ।। अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः । ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ।। १० ।। पूजयेद्देव कल्याणे पवित्रारोहणादिके । सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ।। ११ ।। देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः । देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ।। १२ ।। तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् । सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ।। १३ ।। सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः । दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ।। १४ ।। सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् । पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ।। १५ ।। पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ।। १६ ।। सहमार्गी शिवार्चाग्नि जपहोमं परायणः । प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ।। १७ ।। दासमार्गी शिवोद्यानलिंग बिम्बालयादि कृत् । शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ।। १८ ।। एवं बहु प्रकारेण शैवैस्सह विचार्य च । एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ।। १९ ।। इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः पटलः ।। ७५. पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः व्याधिनाश विधानं तु वक्ष्ये संक्षेप्तः क्रमात् । सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ।। १ ।। गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् । ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ।। २ ।। क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने । वात पित्तकफोद्रेके दाहमोह वणोकटे ।। ३ ।। महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे । एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ।। ४ ।। आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते । पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ।। ५ ।। तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे । पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ।। ६ ।। देवालये नदीतीरे पर्वते काननेऽपि वा । अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ।। ७ ।। गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते । लिंगे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ।। ८ ।। शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् । गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ।। ९ ।। स्नपनेन समोपेतं पञ्चगव्यामृतादिना । संपूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ।। १० ।। अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ११ ।। तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् । मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ।। १२ ।। पठित्वा देवदत्तस्य पदं चात्र विशेषतः । एवं जपं विधायैत दिष्टदेवे निवेदयेत् ।। १३ ।। गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् । स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ।। १४ ।। तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके । कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ।। १५ ।। तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् । गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ।। १६ ।। होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा । कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ।। १७ ।। देवं कुंभं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः । होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ।। १८ ।। तत्कुंभसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः । तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ।। १९ ।। रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः । होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ।। २० ।। कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः । गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ।। २१ ।। नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा । शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ।। २२ ।। प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः । चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ।। २३ ।। मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् । यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ।। २४ ।। तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः । एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ।। २५ ।। वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह । बलिरेष समाख्यातो धूपदीपसमन्वितः ।। २६ ।। पताकास्वादुपानीय युक्तसाधारणो मतः । अथवान्य प्रकारेण व्याधिमोचनमुच्यते ।। २७ ।। लिंगादौ देवमभ्यर्च्य जपहोमौ समाप्य च । सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ।। २८ ।। तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् । दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ।। २९ ।। तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा । कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ।। ३० ।। रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः । कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ।। ३१ ।। पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् । अनेन विधिना रोगी अरोगी स्यान्न संशयः ।। ३२ ।। केवलं बलिदानं वा चतुर्मासान्तमेव वा । पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ।। ३३ ।। अथवान्य प्रकारेण व्याधिनाशनमुच्यते । अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ।। ३४ ।। ग्रहणे विषुवे वापि द्वयोरयनयोरपि । स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ।। ३५ ।। गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा । स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ।। ३६ ।। पञ्चविंशति संखायतान् पञ्चसंख्यानथापि वा । एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ।। ३७ ।। ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् । सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ।। ३८ ।। सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् । गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ।। ३९ ।। अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः । तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ।। ४० ।। होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा । शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ।। ४१ ।। तस्मात्तद्भस्म संग्राह्य व्याधितं स्नापयेद् गुरुः । गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ।। ४२ ।। तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् । निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ।। ४३ ।। स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् । प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ।। ४४ ।। कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा । राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ।। ४५ ।। साधयेच्छत संख्यातान् कलशाष्टक संयुतान् । पञ्चाशत् संख्यया तेभ्यो न हीनान् साधयेत्गुरुः ।। ४६ ।। कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते । मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ।। ४७ ।। अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः । आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ।। ४८ ।। अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् । शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ।। ४९ ।। सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके । होमेन समसख्यां वा जप तुल्यं परं मतम् ।। ५० ।। शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् । अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ।। ५१ ।। सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके । कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ।। ५२ ।। पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् । विधाय जपमात्रं वा गोरोचनयुतं तु वा ।। ५३ ।। शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः । संपूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ।। ५४ ।। स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना । लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ।। ५५ ।। दुर्बलो बलवान्धीर स्सर्वैस्संपूज्यते भुवि । कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ।। ५६ ।। नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे । प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ।। ५७ ।। जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः । पूजां होमं च वा नित्यं जपतर्पण संयुतम् ।। ५८ ।। एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते । बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ।। ५९ ।। अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः । तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ।। ६० ।। विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः । सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ।। ६१ ।। गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते । मध्ये वा गजशालायां शूलस्थाने मनोरमे ।। ६२ ।। शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च । विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ।। ६३ ।। नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके । गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ।। ६४ ।। स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः । लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ।। ६५ ।। स कूर्चं सापिधानं च गन्धोदक समन्वितम् । एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ।। ६६ ।। दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् । तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ।। ६७ ।। पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् । सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ।। ६८ ।। कपालशूल संयुक्तं धनुर्बाण समन्वितम् । ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ।। ६९ ।। एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् । पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ।। ७० ।। गन्ध पुष्प समायुक्तं धूपदीप समायुतम् । नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ।। ७१ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ।। ७२ ।। तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके । कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ।। ७३ ।। समिदाज्य चरूपेतं तिलतण्डुल संयुतम् । क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ।। ७४ ।। समिधस्संप्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः । संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ७५ ।। प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् । तद्भस्म संग्रहं कृत्वा देवं कुंभे विसर्जयेत् ।। ७६ ।। तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः । ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ।। ७७ ।। अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च । स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ।। ७८ ।। रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा । बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ।। ७९ ।। गजशाला समीपे वा होमस्थानेऽथवा बैः । एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ।। ८० ।। किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः । गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ।। ८१ ।। सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा । तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ।। ८२ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् । एककालं द्विकालं वा त्रिकालं वा विशिष्यते ।। ८३ ।। नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् । साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ।। ८४ ।। हयानां च गजानां च रक्षणं चान्यथोच्यते । तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ।। ८५ ।। कुंभेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते । अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ।। ८६ ।। तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः । व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ।। ८७ ।। तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् । तन्मध्ये द्रोण संपूर्णं कुंभं विन्यस्य देशिकः ।। ८८ ।। सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् । पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ।। ८९ ।। तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् । चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ।। ९० ।। नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा । ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ।। ९१ ।। समिदाज्य चरूपेतं तिलसर्षप लाजकैः । क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ।। ९२ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । पञ्चाशत्संख्यया वाथ पञ्चविंशति संख्यया ।। ९३ ।। प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् । अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ।। ९४ ।। कुण्डद्वये वा होतव्यं एकस्मिन्स्थण्डिलेऽपि वा । पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ।। ९५ ।। पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् । साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ।। ९६ ।। अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः । कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ।। ९७ ।। अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः । पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ।। ९८ ।। रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः । स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ।। ९९ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् । महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ।। १०० ।। अन्नं मधुघृतोपेतं दधिलाज समन्वितम् । कदलीफल संयुक्त मपूपैश्च समन्वितम् ।। १०१ ।। नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् । दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ।। १०२ ।। विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः । अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ।। १०३ ।। क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् । तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ।। १०४ ।। अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् । तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ।। १०५ ।। दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः । गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ।। १०६ ।। तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् । आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ।। १०७ ।। शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् । कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ।। १०८ ।। व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले । केवलं तर्पणं वाथ पूजां हवन संयुताम् ।। १०९ ।। केवलं यजनं होमं बलिं नित्यं समाचरेत् । मर्त्यानामपि सर्वेषां एतत्सामान्यमुच्यते ।। ११० ।। होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् । केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ।। १११ ।। उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् । शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ।। ११२ ।। द्रोणपूर्णं समादाय कुम्भं बिंब समप्रभम् । तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ।। ११३ ।। तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते । तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ।। ११४ ।। तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् । विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ।। ११५ ।। फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् । एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ।। ११६ ।। छादयित्वा पिधानेन कल्पयेदासनं बुधः । आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ।। ११७ ।। अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् । तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ।। ११८ ।। कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः । मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ।। ११९ ।। तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् । अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ।। १२० ।। चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् । एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ।। १२१ ।। दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् । आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ।। १२२ ।। अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह । चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ।। १२३ ।। नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् । तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ।। १२४ ।। अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः । दत्वा स्वावरणोपेतं निरावरणमेव वा ।। १२५ ।। भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः । असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ।। १२६ ।। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः । तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ।। १२७ ।। अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् । गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ।। १२८ ।। नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् । अघोराय तदस्त्रय पानीयं च निवेदयेत् ।। १२९ ।। विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् । अघोराय तदस्त्राय संनिवेद्य जपं गुरुः ।। १३० ।। तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः । प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ।। १३१ ।। यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् । क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ।। १३२ ।। लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् । ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ।। १३३ ।। होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् । अघोरेण च तद्भस्म संग्राह्यास्त्रेण रक्षयेत् ।। १३४ ।। भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् । होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ।। १३५ ।। प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः । दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ।। १३६ ।। कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् । हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ।। १३७ ।। तस्मादुद्धृत्य कुंभं तु व्याधिस्थभिषेचयेत् । प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ।। १३८ ।। सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् । हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ।। १३९ ।। एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा । पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ।। १४० ।। प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् । यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ।। १४१ ।। पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा । तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ।। १४२ ।। एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये । महिषाज गवामेवं कारयेद्विजसत्तमाः ।। १४३ ।। अथोपयुक्तं यद् द्रव्यं आचार्याय प्रदापयेत् । प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ।। १४४ ।। तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः । एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ।। १४५ ।। होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् । गजानां वा हयानां वा शालायमङ्कणेऽपि वा ।। १४६ ।। तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् । शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ।। १४७ ।। संप्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् । वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ।। १४८ ।। गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् । वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ।। १४९ ।। हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् । अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ।। १५० ।। यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् । नोप सर्गभयं तत्र रोगपीडा न विद्यते ।। १५१ ।। उत्पन्नरोग नाशश्च भवत्येव न संशयः । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। १५२ ।। अघोरस्य तदस्त्रस्य यजनं होम संयुतम् । वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ।। १५३ ।। आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः । अनेन सदृशो योगो दुरिक्षयहेतुकः ।। १५४ ।। नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ।। १५४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः पञ्चसप्ततितमः पटलः ।। ७६. षट्सप्ततितमे पटले राज रक्षा विधिः राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः । भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ।। १ ।। ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः । ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ।। २ ।। ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः । मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ।। ३ ।। ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु । दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ।। ४ ।। ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः । स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ।। ५ ।। सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः । प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ।। ६ ।। स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् । वौषडंतं तु शूद्राणां तद्देव ध्यान सम्युतम् ।। ७ ।। स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् । दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ।। ८ ।। स्वानुकूलानु संजप्तमथवा विनिवेदयेत् । यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ।। ७७. सप्तसप्ततितमे पटले दुर्गा पूजा विधिः दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् । लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ।। १ ।। कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ।। २ ।। आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता । सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ।। ३ ।। अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ।। ४ ।। सन्तर्जयति हुंकारैः खड्गोपान्तकरान् परान् । तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ।। ५ ।। सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते । भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ।। ६ ।। तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः । पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ।। ७ ।। गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने । प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ।। ८ ।। मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः । मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ।। ९ ।। राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च । पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ।। १० ।। तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः । तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ।। ११ ।। समिदाज्येन हविषा पायसेन च होमयेत् । हुतशेषं तुरङ्गानां गजानामुपहारयेत् ।। १२ ।। बद्ध प्रतिसरान् पञ्च गजाश्वान् समलंकृतान् । भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ।। १३ ।। प्रत्यहं नृपतिः स्वाः स्वाः संपूज्य पितृदेवताः । पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ।। १४ ।। नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः । हुतशेषं प्रदातव्यमौपनायनिके गजे ।। १५ ।। तस्यापि हरणे राज्ञो विजयस्समुदाहृतः । पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ।। १६ ।। यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्य वृद्धये ।। इति १७ ।। ओं छं छत्राय नमः गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः । ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ।। १८ ।। ओं तुं तुरङ्गाय नमः प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। १९ ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ।। २० ।। यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा । मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २१ ।। सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ।। २२ ।। निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। २३ ।। अं अश्वाय नमः इत्यश्वमन्त्रः शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः । पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ।। २४ ।। ओं ध्वं ध्वजाय नमः काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः । अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ।। २५ ।। गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः । साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ।। २६ ।। कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ।। २७ ।। आं गं गजाय नमः । एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः । भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ।। २८ ।। वने वने प्रसूतास्ते वनयोनिर्महागजः । पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ।। २९ ।। भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ।। ३० ।। श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् । स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ।। ३१ ।। युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः । अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ।। ३२ ।। हस्तिमन्त्रः ओं हं हस्तिने नमः हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः । नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ।। ३३ ।। प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह । गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ३४ ।। व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु । श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ।। ३५ ।। पतन्तु परिशत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ।। ३६ ।। हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा । शोभितासि तथैवाद्य शोभया समयं स्मर ।। ३७ ।। नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ।। ३८ ।। सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः । पूतना रेवती नाम कालरात्रीति याः स्मृताः ।। ३९ ।। दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ।। ३९१/२ ।। पताका मन्त्रः ओं पं पताकाय नमः । असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ।। ४० ।। श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।। ४१ ।। ओं खं खड्गाय नमः नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।। ४२ ।। पिता पितामहो देवस्त्वं मां पालय सर्वदा । शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ।। ४३ ।। रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते । ओं वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।। ४४ ।। तव भूमि प्रधानानां तथा विजयवर्द्धनः । यथा जीमूतघोषेण हृष्यन्ति परवारणाः ।। ४५ ।। तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः । यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ।। ४६ ।। तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे । ओं दुं दुन्दुभये नमः सर्वायुध महामात्र सर्वायुध निषूदन ।। ४७ ।। चाप मां सर्वदा रक्ष साकं सायकसत्तमैः । ओं चं चापाय नमः पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ।। ४८ ।। विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव । ओं शं शङ्खाय नमः शशांकाकार संकाश हिमपिण्डित पाण्डर ।। ४९ ।। प्रोत्साधयाशु दुरितं चामरामर वल्लभ । ओं चं चामराय नमः सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ।। ५० ।। शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ।। ५१ ।। त्वया विस्तारिता चासि देवानां प्रतिपादिता । सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ।। ५२ ।। क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते । ओं क्षुं क्षुरिकाय नमः प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ।। ५३ ।। ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये । यशो देहि सुखं देहि देवो हि भव भूपतेः ।। ५४ ।। ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते । ओं कं कनकदण्डाय नमः विजयी भव देवोऽसि रिपुधाती प्रियंकरः ।। ५५ ।। दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः । एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ।। ५६ ।। तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे । त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ।। ५७ ।। त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः । नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ।। ५८ ।। त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते । ओं सिं सिंहासनाय नमः लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ।। ५९ ।। फलनैवेद्य कुसुमैः धूपदीप विलेपनैः । अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ।। ६० ।। रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् । प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ।। ६१ ।। पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् । राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ।। ६२ ।। स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः । कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ।। ६३ ।। कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः । नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ।। ६४ ।। द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् । अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ।। ६५ ।। तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् । धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ।। ६६ ।। शङ्ख चक्र समायुक्तां सर्वालंकार भूषिताम् । वराक्षमालाः मखरां महिषासुर संस्थिताम् ।। ६७ ।। सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् । चतुर्भुजां वा संपूज्य वरदाभय संयुताम् ।। ६८ ।। शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् । नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ।। ६९ ।। एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये । घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ।। ७० ।। शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया । ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ।। ७१ ।। भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् । कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ।। ७२ ।। भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् । दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ।। ७३ ।। बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा । मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ।। ७४ ।। असुरा यातुधानाश्च मातृसर्प पिशाचकाः । डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ।। ७५ ।। जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः । दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।। ७६ ।। जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः । मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ।। ७७ ।। सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः । इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् । नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ।। ७८ ।। इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ।। ७८. अष्टसप्ततितमे पटले वाजि नीराजन विधिः शान्ति नीराजनाख्यं तु संप्रवक्ष्यामि वाजिनाम् । कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ।। १ ।। नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा । द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ।। २ ।। नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके । अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ।। ३ ।। विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता । विंशद्धस्त समायामायागशालेय मीरिता ।। ४ ।। षट् संमितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् । तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ।। ५ ।। गंभीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् । हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ।। ६ ।। आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् । अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ।। ७ ।। प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् । कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ।। ८ ।। संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः । प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ।। ९ ।। ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च । ततश्चाचल देवाय सेनान्यै धनदाय च ।। १० ।। नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् । जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ।। ११ ।। नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा । स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ।। १२ ।। तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् । विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ।। १३ ।। वाहनागार मागम्य ब्रह्मचर्यसमन्वितः । बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ।। १४ ।। सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः । कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ।। १५ ।। समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् । आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ।। १६ ।। दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् । ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ।। १७ ।। सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् । तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ।। १८ ।। कालद्वये प्रधानस्य तुरगस्य विशेषतः । पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।। १९ ।। निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः । अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ।। उत्तराषाढतरस्य सन्धाने श्रवणस्य च । नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ।। २१ ।। दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ । प्रदक्षिणोदके सौम्ये विशाले द्रुमसंकटे ।। २२ ।। तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् । विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ।। २३ ।। तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् । सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ।। २४ ।। गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह । प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ।। २५ ।। माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् । वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन संज्ञिमम् ।। २६ ।। हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् । स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ।। २७ ।। सहदेवीं नागपुष्पं कपिकच्छुकमेव च । शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ।। २८ ।। कुंभेषु वाष्ट संख्येषु वस्त्रादि सहितेषु च । गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ।। २९ ।। नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् । जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ।। ३० ।। वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः । वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखं ।। ३१ ।। अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके । आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ।। ३२ ।। शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् । श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ।। ३३ ।। होमशेषं तदा पिण्डं पयोदधि समन्वितम् । कदली फल संयुक्तं दद्याद्वाजि वराय च ।। ३४ ।। यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति । केवलस्थैस्तदा तोयै श्शाखयो दुंबरो त्थया ।। ३५ ।। प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः । राजानं हस्तिनं पश्चाच्चमूं संप्रोक्ष्य त्तदा ।। ३६ ।। शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् । आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ।। ३७ ।। हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् । राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ।। ३८ ।। एवमेव गजादीनां तदा नीराजनं नयेत् । किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ।। ३९ ।। पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् । गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ।। ४० ।। वेदिका चतुरश्रा च गजभूमिरथोच्यते । शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ।। ४१ ।। पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ।। ४२ ।। इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः पटलः ।। ७९. एकोनाशीतितमे पटले राज नीराजन विधिः कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे । वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ।। १ ।। ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः । वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ।। २ ।। बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा । संपूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ।। ३ ।। तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् । विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ।। ४ ।। गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः । नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ।। ५ ।। त्रासयन्विघ्नजालं च घण्टानाद महारवैः । नीराजयेद्विशेषेण राजानं देशिकोत्तमः ।। ६ ।। तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः । सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ।। ७ ।। नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् । रूपयौवन संपन्न वेश्याभिर्वाथ कारयेत् ।। ८ ।। यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः । तेषां राजा सुखं याति सुभिक्षं जायते तथा ।। ९ ।। चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ।। ९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः पटलः ।। == अशीतितमे पटले पुष्याभिषेक विधिः == पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् । सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ।। १ ।। पुण्ये मनोरमे देशे रविहस्त प्रमाणतः । कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ।। २ ।। द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् । दर्पणोदरसंकाशं मण्डनैरुपशोभितम् ।। ३ ।। तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः । वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ।। ४ ।। चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् । पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ।। ५ ।। एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् । पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ।। ६ ।। उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः । कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ।। ७ ।। दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः । दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ।। ८ ।। आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ।। ९ ।। आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः । पूर्वं स्वपूजां संप्राप्य दत्वा शान्तिं महीपतेः ।। १० ।। एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् । शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ।। ११ ।। मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् । मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ।। १२ ।। यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः । पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ।। १३ ।। मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् । सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ।। १४ ।। तद्दक्षिणे विधातव्यं आसनं पाद संयुतम् । सोपान सहितं कुर्यादिष्टमान समन्वितम् ।। १५ ।। श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् । कुर्यात् प्रतिसरं रात्रौ सर्वालंकरा संयुतम् ।। १६ ।। प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् । चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ।। १७ ।। षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते । शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ।। १८ ।। नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः । भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ।। १९ ।। वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् । स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ।। २० ।। हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् । स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ।। २१ ।। पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः । उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ।। २२ ।। तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः । मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ।। २३ ।। हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् । श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ।। २४ ।। रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् । नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ।। २५ ।। अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः । पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ।। २६ ।। भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् । माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ।। २७ ।। पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् । द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ।। २८ ।। समन्तादेक भागेन वर्षकं स्यादिलावृतम् । एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ।। २९ ।। एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् । वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ।। ३० ।। तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् । श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ।। ३१ ।। पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् । अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ।। ३२ ।। जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः । जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ।। ३३ ।। शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः । बहिस्समुद्रा दीपाश्च सप्तसंख्याः प्रकीर्तिताः ।। ३४ ।। जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः । तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ।। ३५ ।। क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि । दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ।। ३६ ।। रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा । जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश संज्ञकः ।। ३७ ।। कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा । तस्माद् गोभेद संञश्च गोभेदात् पुष्कलं पुनः ।। ३८ ।। ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः । अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ।। ३९ ।। दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् । तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ।। ४० ।। सहस्रदश विस्तीर्णो देवानामाश्रमो मतः । हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ।। ४१ ।। ध्वजश्चण्डस्य कंलासः कदली बक एव च । वडवामुखो द्विपादः कारकः स्मृतः ।। ४२ ।। ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः । प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ।। ४३ ।। उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः । चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ।। ४४ ।। वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः । निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ।। ४५ ।। प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता । मांसेनान्नेन संपूज्य मद्यैः प्रतिसरादिभिः ।। ४६ ।। श्वेता चले दितसुता दानवाश्च समीरिताः । हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ।। ४७ ।। एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः । द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ।। ४८ ।। यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः । गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ।। ४९ ।। वामनश्च मरीचिश्च तथेक्षुप उदाहृतः । भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ।। ५० ।। दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः । मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ।। ५१ ।। देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः । वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ।। ५२ ।। स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः । चन्द्रतापन संज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ।। ५३ ।। स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः । आभिलोकः सुकेशश्च मलयो मलकस्तथा ।। ५४ ।। नयश्च नगमूर्धा च महोदर उदाहृतः । प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव संज्ञकः ।। ५५ ।। विरूपाक्षश्चरूपथो हरो राजा उदाहृतः । हिरण्य युक् शतमखश्शंबरश्शरभो मयः ।। ५६ ।। शरभयस्सूर्य संज्ञश्च चन्द्रमास्स उदाहृतः । चतुष्षष्टिश्च संज्ञानां पूजाश्चैषां च पूर्ववत् ।। ५७ ।। शृङ्गवत्यचले पूज्याः पितरसमुदाहृता । सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ।। ५८ ।। सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः । क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ।। ५९ ।। सप्तभिश्च गणैरेक विंशतिस्संख्यया मताः । अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ।। ६० ।। हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः । अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ।। ६१ ।। तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः । नीलाचले च ऋषयः संपूज्या काश्यपादयः ।। ६२ ।। काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ।। ६३ ।। पुलस्त्यः पुलहश्चैव क्रतुश्चैवांगिरा भृगुः । सनत्कुमारस्सनकः सनन्दश्च सनातनः ।। ६४ ।। दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च । द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ।। ६५ ।। कण्.वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः । शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ।। ६६ ।। च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः । यवक्रीतदेवरातौ देवराजोऽजकस्तथा ।। ६७ ।। चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः । ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ।। ६८ ।। निषधे पर्वते नाना अनन्ताद्या उदाहृतः । अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ।। ६९ ।। पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः । गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ।। ७० ।। सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् । देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ।। ७१ ।। धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ।। ७२ ।। अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ।। ७३ ।। सावित्रश्च जयन्तश्च पिनाकी चापराजितः । रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ।। ७४ ।। त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः । सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ।। ७५ ।। प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः । यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ।। ७६ ।। दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते । गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ।। ७७ ।। सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् । सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ।। ७८ ।। द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः । उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ।। ७९ ।। साधनश्चैव सन्धिश्च कुहरश्च करालकः । कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ।। ८० ।। हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः । अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ।। ८१ ।। ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः । स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ।। ८२ ।। रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश । मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ।। ८३ ।। घृतस्थला घृताची च विश्वाची पूर्वचित्तिका । प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ।। ८४ ।। रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः । दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ।। ८५ ।। अग्निभत्री च हेमा वै मेनका चोर्वशी ततः । चौर्विंशति संख्याताः सुगन्धैश्च् सुमाल्यकैः ।। ८६ ।। यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः । यक्षान्संपूज्येत्ते च महावैश्रवणस्तथा ।। ८७ ।। माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः । विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ।। ८८ ।। सर्ववर्णक बलिभिः पूज्य सूत्रादि कंददेत् । ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ।। ८९ ।। प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च । सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ।। ९० ।। एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः । दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ।। ९१ ।। नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह । ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ।। ९२ ।। सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् । संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ।। ९३ ।। दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै । आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ।। ९४ ।। बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ । एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ।। ९५ ।। पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे । धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ।। ९६ ।। उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ । भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ।। ९७ ।। वाराही वैष्णवी चैव कौमारी च ततो मताः । माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ।। ९८ ।। स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः । इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ।। ९९ ।। वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः । शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ।। १०० ।। पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि । आयता व्ययनी चैव प्रज्ञा मेना बला ततः ।। १०१ ।। एताः सुरस्त्रियः प्रोक्ता स्संख्यया च चतुर्दश । नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ।। १०२ ।। प्रतिसरं च वस्त्रं च पताका भूषणं तथा । यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ।। १०३ ।। सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः । ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ।। १०४ ।। ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् । अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ।। १०५ ।। संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश । सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ।। १०६ ।। ज्योतिष्टोमत्रयं पूर्वं अभया चापराजिता । जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ।। १०७ ।। सहा च सहदेवा च पूर्णकोशा शतावरी । अरिष्टा च शिवा भद्रा कुंभेष्वेतानि विन्यसेत् ।। १०८ ।। ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् । मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ।। १०९ ।। रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् । प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ।। ११० ।। आदावाडुहं चर्म जरया संभृतायुषः । प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ।। १११ ।। ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् । सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ।। ११२ ।। चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् । पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ।। ११३ ।। तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् । सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ।। ११४ ।। सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा । सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ।। ११५ ।। अनन्तरचितं मध्यमेवं वा परिकल्पयेत् । श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य संमतम् ।। ११६ ।। तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे । कृतस्नानं विलिप्ताङ्गं सर्वालंकार संयुक्तम् ।। ११७ ।। निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु । दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ।। ११८ ।। वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् । गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ।। ११९ ।। अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः । कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ।। १२० ।। आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् । आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ।। १२१ ।। भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् । सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ।। १२२ ।। उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः । विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ।। १२३ ।। अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः । सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।। १२४ ।। ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः । आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ।। १२५ ।। अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती । कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ।। १२६ ।। नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ।। १२७ ।। सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः । अदितिस्सुरसा चैव विनता कद्रुरेव च ।। १२८ ।। देव पत्न्यश्च याश्चोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ।। १२९ ।। वैमानिकास्सुरगणा मनवस्सागरैस्सह । सरितश्च महाभागाः किन्नराः पुरुषास्तथा ।। १३० ।। वैखानसा महाभागा द्विजा वैहायसाश्चये । सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ।। १३१ ।। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ।। १३२ ।। सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः । एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ।। १३३ ।। दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा । मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ।। १३४ ।। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः । द्वैपायनो यवक्रीतो देवरातस्सहानुजः ।। १३५ ।। एते वान्ये च बहवः पुण्यसंकीर्तनाशुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ।। १३६ ।। एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः । महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ।। १३७ ।। जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः । जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ।। १३८ ।। अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः । कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ।। १३९ ।। ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् । आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ।। १४० ।। ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् । अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ।। १४१ ।। परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् । सर्वालंकार संयुक्तं होमवेदीं प्रविश्य च ।। १४२ ।। वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च । सिंहस्य व्याघ्र संज्ञस्य चर्माण्यास्तीर्य तत्र च ।। १४३ ।। कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः । होमंकुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ।। १४४ ।। पलाश समिधो मृत्युजित्परमो मतः । होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ।। १४५ ।। यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ।। १४६ ।। तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् । नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ।। १४७ ।। ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः । प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ।। १४८ ।। दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः । ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ।। १४९ ।। सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये । सार्वभौम प्रसिद्ध्यर्थं आयुरारोग्यसिद्धये ।। १५० ।। सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु । पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ।। १५१ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः पटलः ।। == एकाशीतितमे पटले ग्रह यज्ञ विधिः == ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् । सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ।। १ ।। नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा । पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ।। २ ।। अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः । राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ।। ३ ।। प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः । तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ।। ४ ।। दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् । ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ।। ५ ।। भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ।। ६ ।। कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च । ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ।। ७ ।। सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा । दीपः प्रोक्ततस्तु नैवेद्यं शलि संभव मुच्यते ।। ८ ।। चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् । कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ।। ९ ।। होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् । अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ।। १० ।। अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् । पलाशः खदिरो वाथ स्वस्मित् कुश संभवे ।। ११ ।। क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ । स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ।।१२ ।। होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ।। १३ ।। इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ।। == द्वयशीतितमे पटले प्रतिसर विधिः == राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि । निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ।। १ ।। विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः । स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ।। २ ।। श्वेत तण्डुल संपूर्णं पुण्याह प्रोक्षणान्वितम् । यज्ञ सूत्रं च वलयं अङ्गुलीयकमेव च ।। ३ ।। कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् । प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ।। ४ ।। संपूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् । ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ।। ५ ।। वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् । बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ।। ६ ।। कौतुकं हृदयेनैव तेनैव भसितं तथा । चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ।। ७ ।। मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् । ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ।। ८ ।। दूर्वाग्रं केवलं निर्मितं राजतं तु वा । आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ।। ९ ।। पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः । सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ।। १० ।। मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः । पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ।। ११ ।। कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् । सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ।। १२ ।। सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् । पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ।। १३ ।। दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् । बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ।। १४ ।। सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः । ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ।। १५ ।। बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् । नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ।। १६ ।। समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः । देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ।। १७ ।। ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः । अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ।। १८ ।। अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् । इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः पटलः ।। == त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः == वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये । ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ।। १ ।। ग्रहणादिषुकालेषु शुभे देशे विशेषतः । हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ।। २ ।। कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् । नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ।। ३ ।। विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् । तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ।। ४ ।। चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् । दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ।। ५ ।। अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् । सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ।। ६ ।। बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये म्तः । पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ।। ७ ।। एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते । सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ।। ८ ।। उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् । अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ।। ९ ।। पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् । पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ।। १० ।। द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् । तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ।। ११ ।। अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् । षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ।। १२ ।। अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः । षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ।। १३ ।। अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् । तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ।। १४ ।। ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् । मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ।। १५ ।। जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् । उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ।। १६ ।। शङ्कुं सुषिर संपन्नं वलयेन समन्वितम् । सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ।। १७ ।। एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ । चतुष्कुण्डल संयुक्तौ हस्तप्रमाण संमितौ ।। १८ ।। प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि । यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ।। १९ ।। स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् । कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ।। २० ।। खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् । तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ।। २१ ।। एवं सर्वं समापाद्य शिल्पिमोक्षावसानके । पुण्याहं वाचयित्वा तु मण्डपे समलंकृते ।। २२ ।। मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते । मण्डलं कारयेद्धीमान् सर्वतोभद्र संज्ञंकम् ।। २३ ।। वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च । शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ।। २४ ।। मध्यमे देवदेवेशं वामे गौरी समायुतम् । संपूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ।। २५ ।। वाम् संपूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् । सूर्यं मध्येऽग्नि देशे तु भारकरंनै-ऋतेऽथवा ।। २६ ।। भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् । उषां प्रभां तथा प्रज्ञां संन्ध्यां सावित्रिमर्चयेत् ।। २७ ।। मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् । विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ।। २८ ।। प्रभूतं विमलं सारमारध्यं पूर्वदेशतः । उत्तरान्तं च संपूज्य सुखं मध्ये प्रजूजयेत् ।। २९ ।। बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् । रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ।। ३० ।। दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः । सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ।। ३१ ।। ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते । प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ।। ३२ ।। गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः । स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ।। ३३ ।। शिवाग्निं स्वस्व शास्त्रोक्तं संपाद्याग्नि मुखान्वितम् । लोकेश सहितं देवं समावाह्य समर्चयेत् ।। ३४ ।। नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् । समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ।। ३५ ।। शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः । शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ।। ३६ ।। क्षीराक्त दूर्वयाहोमं पञ्चविंशति संख्यया । मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ।। ३७ ।। बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् । मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ।। ३८ ।। पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् । सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ।। ३९ ।। महा पूजा च कर्तव्या प्रभूत हविषान्विता । पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।। ४० ।। ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् । आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ।। ४१ ।। सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् । कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ।। ४२ ।। आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् । पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ।। ४३ ।। सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् । रुद्रगायत्रि संज्ञंतु यजमानस्तदा जपेत ।। ४४ ।। घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् । पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ।। ४५ ।। आलोक्य काञ्चनंतत्स्थं कूर्च हस्तो हरंस्मरन् । वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ।। ४६ ।। जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि । स्वकायेन तदायेन तुलारोहः कृतोभवेत् ।। ४७ ।। शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् । देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ।। ४८ ।। देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः । होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ।। ४९ ।। शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु । ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ।। ५० ।। यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् । शिवार्चकस्य पूजा च प्राग्व देव समीरिता ।। ५१ ।। तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क संमिता । तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।। ५२ ।। मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् । देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ।। ५३ ।। तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् । यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ।। ५४ ।। एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ।। ५५ ।। इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः पटलः ।। == चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः == हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् । कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ।। १ ।। तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा । त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ।। २ ।। द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् । वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ।। ३ ।। तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् । एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ।। ४ ।। एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् । पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ।। ५ ।। विकारांशं तु तन्कृत्वा एकैकांश विवर्धनात् । अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ।। ६ ।। अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः । त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ।। ७ ।। पादुकोत्सेधमानं तु तदर्धं पादमेव वा । त्रिपादं वा समं वापि फलकाधनमिष्यते ।। ८ ।। पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः । मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ।। ९ ।। शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् । आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ।। १० ।। स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् । कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ।। ११ ।। तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् । नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ।। १२ ।। प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि । ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ।। १३ ।। गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् । पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ।। १४ ।। प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् । छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ।। १५ ।। तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः । कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ।। १६ ।। कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् । आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ।। १७ ।। भार्यादक्षपुटे दूर्वारससेचन माचरेत् । एकविंशति संख्यातानुदुम्बर फलान्वितान् ।। १८ ।। कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च । त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ।। १९ ।। भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् । भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ।। २० ।। हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् । अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ।। २१ ।। एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ।। २१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः पटलः ।। == पञ्चशीतितमे पटले तिलपर्वतदान विधिः == तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः । पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ।। १ ।। बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् । पञ्चगव्येन संप्रिक्ष्य मण्डलं मध्यकल्पितम् ।। २ ।। संछाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च । पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ।। ३ ।। वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः । तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ।। ४ ।। दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा । कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ।। ५ ।। दण्डमानसमं वाथ हीनं नैव समाचरेत् । वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ।। ६ ।। देशं संक्ल्पयित्वा तु पूयत्तु विशेषतः । निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ।। ७ ।। शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् । तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ।। ८ ।। अर्चयेच्च विधानज्ञो यजमानेन देशिकः । दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ।। ९ ।। अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः । अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ।। १० ।। अत्रानुक्तं तु यत् किंचिदर्चनं होममेव वा । स्नपनं देव देवस्य सहस्रकलशादिभिः ।। ११ ।। प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् । विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ।। १२ ।। दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् । अस्मात्परतरं दानं नास्तीह भुवनत्रये ।। १३ ।। अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् । सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ।। १४ ।। गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः । तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ।। १५ ।। कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् । दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ।। १६ ।। तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् । तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ।। १७ ।। अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु । अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ।। १८ ।। कृत्वा संपूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् । दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ।। १९ ।। ।। इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः पटलः ।। == षड्शीतितमे पटले सुवर्ण भूमिदान विधिः == सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः । काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ।। १ ।। एकहस्त प्रमाणेन सप्तद्वीपसमन्विता । समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ।। २ ।। मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा । अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ।। ३ ।। पूर्ववद्देवपूजां च होमं चैव विशेषतः । मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ।। ४ ।। सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् । पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ।। ५ ।। शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः पटलः ।। == सप्ताशीतितमे पटले कल्पपादपदान विधिः == कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः । पादपं शतनिष्केण सुवर्णे समाचरेत् ।। १ ।। बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् । नानाफलसमायुक्तं सर्वशोभासमन्वितम् ।। २ ।। शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् । छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ।। ३ ।। कारयेत् पल्लवानीह प्रवालैश्च विशेषतः । फलानि पद्मरागैश्च विविधानि समाचरेत् ।। ४ ।। नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् । वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ।। ५ ।। मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा । स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ।। ६ ।। इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु । वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।। ७ ।। शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा । स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ।। ८ ।। मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् । पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ।। ९ ।। लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः । ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ।। १० ।। अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः पटलः ।। == अष्टाशीतितमे पटले गणेश दान विधिः == गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् । पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ।। १ ।। तन्मध्यमे यजेद्देवं लोकपाल समावृतम् । तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ।। २ ।। सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् । तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ।। ३ ।। प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च । ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ।। ४ ।। उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः । तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ।। ५ ।। अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ।। ६ ।। इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः पटलः ।। == एकोननवतितमे पटले हेम धेनुदान विधिः == हेम धेनु प्रदानं तु वक्ष्ये संक्षेपतः क्रमात् । सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ।। १ ।। काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः । तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ।। २ ।। गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् । पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ।। ३ ।। भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके । पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ।। ४ ।। गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च । वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ।। ५ ।। वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् । सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ।। ६ ।। पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः । अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ।। ७ ।। अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् । क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ।। ८ ।। त्रिंऽसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने । अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः पटलः ।। == नवतितमे पटले लक्ष्मीदान विधिः == महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते । काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् । अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ।। २ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ।। ३ ।। श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् । विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ।। ४ ।। पूजयेच्छिव पूजां च होमं चैव विशेषतः । एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ।। ५ ।। स्नपनं देव देवस्य सहस्र कलशादिभिः । पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ।। ६ ।। इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ।। == एकनवतितमे पटले तिलधेनु दान विधिः === तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् । पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ।। १ ।। तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् । अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ।। २ ।। वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् । त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ।। ३ ।। पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् । तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र संख्यया ।। ४ ।। रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् । विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ।। ५ ।। दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् । षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ।। ६ ।। अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च । पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ।। ७ ।। प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः । तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ।। ८ ।। इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु । हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ।। ९ ।। प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। १० ।। तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च । केवलं रुद्रदानं वा सूर्यदान मथापि वा ।। ११ ।। मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् । पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ।। १२ ।। दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ।। १२१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः ।। == द्विनवतितमे पटले सहस्रगोदान विधिः == गवां सहस्र संख्यानां दानं वक्ष्यामि सिद्धये । सवत्सस्सगुणा एव संग्राह्या गुणवत्तराः ।। १ ।। अष्टौ संपूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः । शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ।। २ ।। कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः । मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।। ३ ।। पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् । स्नपनं च शिवस्याथ सहस्र कलशादिभिः ।। ४ ।। शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् । दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ।। ५ ।। दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते । गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ।। ६ ।। गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् । अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः ।। == त्रिनवतितमे पटले हिरण्याश्व दान विधिः == हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते । अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ।। १ ।। अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः । अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ।। २ ।। पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् । सर्वालंकार संयुक्तं कलाद्यैश्च समन्वितम् ।। ३ ।। मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ।। ४ ।। गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् । सुरेन्द्र बुद्ध्या संपूज्य पञ्च निष्कं प्रदाय च ।। ५ ।। दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः । मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ।। ६ ।। इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः ।। == चतुर्नवतितमे पटले कन्यादान विधिः == सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः । सर्व लक्षण संपन्नां दोष विवर्जिताम् ।। १ ।। विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् । दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ।। २ ।। उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः । संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ।। २३ ।। संभूष्य कन्यकां दद्याद्यागाय विधिनामुना । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। २४ ।। तत्र संपूज्य देवेशं कुर्यात् होमं च पूर्ववत् । नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ।। २५ ।। संपूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः । पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ।। ६ ।। ग्रहोपकरणोपेतं दासी दासमनुत्तमम् । दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ।। ७ ।। एवं यः कारयेद्दानं कन्यायास्सुखमेधते । कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ।। ८ ।। इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः ।। == पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः == हिरण्योक्ष प्रदानं तु संक्षेपेणाधुनोच्यते । काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः । वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ।। २ ।। स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् । कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ।। ३ ।। घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् । वृषाङ्गं कारयेद् विद्वान् किंकिणी मालयावृतम् ।। ४ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ।। ५ ।। गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् । पूर्ववच्छिवपूजा च होमं चैव विशेषतः ।। ६ ।। शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् । समिदाज्य चरूपेतं शान्ति होममथापि वा ।। ७ ।। चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ।। ८ ।। इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः पटलः ।। == षण्णवतितमे पटले गजदान विधिः == अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः । गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ।। १ ।। सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः । अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ।। २ ।। पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् । गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ।। ३ ।। पूर्ववच्छिव पूजा च होमयेच्च विशेषतः । शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ।। ४ ।। अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ।। ४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ।। == सप्तनवतितमे पटले लोकपालाष्टकदान विधिः == अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् । प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ।। १ ।। पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः । शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ।। २ ।। उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् । अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ।। ३ ।। एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् । दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ।। ४ ।। वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा । अत्रानुक्तं तु यत् किंचित् तुलाभारवदाचरेत् ।। ५ ।। लोकेशादनमेव स्यात् सर्वसंपत् समृद्धिदम् । परचक्रप्रमथनं गजवाजिविवर्धनम् ।। ६ ।। पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ।। इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः सप्तनवतितमः पटलः ।। == अष्टनवतितमे पटले स्दानोत्तम विधिः == सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् । मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ।। १ ।। प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् । मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ।। २ ।। गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः । ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ।। ३ ।। शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः । चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ।। ५ ।। तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् । शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ।। ६ ।। पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् । अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ।। ७ ।। इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ।। e32t1hakq41708548ap8deip3jg218a 418668 418667 2026-09-30T04:50:08Z ~2026-52344-15 10772 /* प्रथमः पटलः पश्चिमद्वारार्चनविधिः */ 418668 wikitext text/x-wiki {{header | title = कामिकागमः - उत्तरभागः | author = | translator = | section = | previous = | next = | year = | notes = }} == प्रथमः पटलः पश्चिमद्वारार्चनविधिः == पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा । मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ।। १ ।। राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् । प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ।। २ ।। सूर्यश्चेत्यादिभिर्मन्त्रैः संध्यासु तिसृषूदकम् । पीत्वा संमार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ।। ३ ।। ओं भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथांजलिम् । पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ।। ४ ।। एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये । श्रुति स्मृत्यादि संसिद्धिं अनुष्ठानन्तु यद्भवेत् ।। ५ ।। आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा । संध्यायां वन्दने वापि तर्पणे होमकर्मणि ।। ६ ।। गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् । कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ।। ७ ।। स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च । व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ।। ८ ।। समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः । त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ।। ९ ।। करन्यासं ततः कृत्वा सुषिरं देहमध्यमे । ध्यात्वा ज्वलन्तं हुंकारं प्राणान् संयम्य निश्चलम् ।। १० ।। फट्कारान्तं तु तेनैव रेचकेन समन्वितम् । पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ।। ११ ।। मूर्ति मन्त्रेण संगृह्य जीवं हुंकार मूर्धनि । कुंभकेन समोपेतं वायुमूर्ध्वगतं नयेत् ।। १२ ।। तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् । आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ।। १३ ।। निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् । व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ।। १४ ।। दहनं वाथ भूतानां परस्पर विशोधनम् । मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ।। १५ ।। शोध्यो परागरहितं कलामात्र व्यवस्थितम् । विचिन्त्य दिव्यदेहार्थ ममृताप्लावनं नयेत् ।। १६ ।। ध्यात्वा कुण्डलिनीं शक्तिं अमृतैक स्वरूपिणीम् । तदुद् भूतामृतस्त्रावैस्सिक्तां दिव्यां कलां स्मरेत् ।। १७ ।। ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् । पुनराप्लावनं कृत्वा करन्यासं समारभेत् ।। १८ ।। हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते । तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ।। १९ ।। शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् । कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ।। २० ।। करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते । मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ।। २१ ।। मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् । शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ।। २२ ।। नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् । महामुद्रां ततः कृत्वा शिवमन्त्रं अनुस्मरन् ।। २३ ।। महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शनरूपा अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली महामुद्रेय मुदिता परमीकरणे बुधैः महामुद्रेयमाख्याता न्यूनाधिकं समापनी प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ।। अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् । लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ।। २४ ।। श्रीकण्ठादि समोपेतं अक्षरन्यासमेव वा । केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ।। २५ ।। एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् । पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ।। २६ ।। आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् । हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ।। २७ ।। पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् । पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ।। २८ ।। चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् । उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुंकुमम् ।। २९ ।। चन्दनोशीर युक्तांभः पाद्यं कन्यसमुच्यते । वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ।। ३० ।। मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् । एलालवङ्ग कर्पूर मुर जातियुतं समम् ।। ३१ ।। एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् । आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ।। ३२ ।। शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् । तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ।। ३३ ।। अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते । सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ।। ३४ ।। एलालवङ्ग, कर्पूर वरालफलसंयुतम् । एतदाचमनीयं वा यजेत् यजनाङ्गके ।। ३५ ।। कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। ३६ ।। व्रीहि तण्डुलं संयुक्तं अक्षतं तत्प्रकीर्तितम् । पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ।। ३७ ।। कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः । द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत् ।। ३८ ।। हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया । तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ।। ३९ ।। द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् । मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ।। ४० ।। सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् । गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ।। ४१ ।। महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् । विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।। ४२ ।। प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् । वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ।। ४३ ।। अपनीय च तां लिंगात् चण्डेशाय निवेदयेत् । पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ।। ४४ ।। लिङ्गशुद्धि रियंख्याता शुद्धयः पञ्च चोदिताः । संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ।। ४५ ।। विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् । यजनं देवदेवस्य सर्व कामार्थ साधनम् ।। ४६ ।। विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते । गणेशं च गुरुं शक्तिमनन्तं धर्मसंमुखान् ।। ४७ ।। अधर्मप्रमुखानन्ते छदने पद्मकर्णिके । वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ।। ४८ ।। शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् । पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ।। ४९ ।। अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् । धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ।। ५० ।। सिंहासन मिदं प्रोक्तं, योगं मायाब्जमुच्यते । पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ।। ५१ ।। स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् । संकल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ।। ५२ ।। तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् । लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ।। ५३ ।। अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् । विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ।। ५४ ।। स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् । स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ।। ५५ ।। शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् । प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ।। ५६ ।। पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् । संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ।। ५७ ।। गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् । नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ।। ५८ ।। लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते । तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ।। ५९ ।। अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् । आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ।। ६० ।। भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् । तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ।। ६१ ।। नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् । आरात्रिकं ततो दद्यात् धूपदानावसानके ।। ६२ ।। भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः । भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ।। ६३ ।। दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् । रात्रौ नीराजनं कुर्यात् दीपदानावसानके ।। ६४ ।। महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् । आमन्त्रण हविः काले बलिं वा होममाचरेत् ।। ६५ ।। उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् । स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ।। ६६ ।। वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् । तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ।। ६७ ।। ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा । संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ।। ६८ ।। यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् । नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ।। ६९ ।। विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् । नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ।। ७० ।। रूपयौवनसंपन्ना योषितः कर्तृवांच्छया । मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ।। ७१ ।। तासां संख्या भवेद् ग्रामविन्यास जन संख्यया । उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ।। ७२ ।। वादकानष्ट संख्यातान् कल्पयेत् कल्पवित्तमः । तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ।। ७३ ।। विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् । साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिंगतः ।। ७४ ।। लिंगं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् । नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ।। ७५ ।। उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् । केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ।। ७६ ।। मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् । नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ।। ७७ ।। शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये । तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ।। ७८ ।। प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः । बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ।। ७९ ।। तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् । बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ।। ८० ।। एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके । कौबेरास्ये च लिंगे च सकले मिश्र लिंगके ।। ८१ ।। विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः । प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ।। ८२ ।। द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् । वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ।। ८३ ।। देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता । ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ।। ८४ ।। पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् । दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ।। ८५ ।। उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ।। ८६ ।। हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् । शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ।। ८७ ।। कवचं वायुदिग्भागे आग्नेययां वा प्रकल्पयेत् । पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ।। ८८ ।। पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् । गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ।। ८९ ।। लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः । देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ।। ९० ।। परिवारार्चनं पूर्वदेशादारभ्य कारयेत् । वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ।। ९१ ।। नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा । चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ।। ९२ ।। ९२१/२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु । इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम पटलः करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः । क्रन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुह्याय नमः ओं हं सद्योजात मूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे नमः ओं हूं शिखायै नमः ओं हैं कवचाय नमः ओं हः अस्त्राय नमः ओं हां कवचाय नमः ओं हां शिवाय वौषट् अङ्गन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुहचाय नमः ओं हं सद्योजातमूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे स्वाहा ओं हूं शिखायै वषट् ओं हैं कवचाय हुं ओं हः अस्त्राय फट् ओं हः अस्त्राय हुंफट् ओं हः अस्त्राय फट् ओं हां शिवाय वौषट् पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् । अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ।। सुप्रभेदागमेः उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् । चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ।। एलालवंग कर्पूर जम्बू जाती फलं मुरम् । षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ।। आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः । अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ।। बभमयरलसंज्ञैः अक्षरैः कॢप्तपत्रे । सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ।। अभयवरदहस्तं गण्डिकां चाक्षमाला । करयुगलमभयं चिन्तयेद्विश्वयोनिम् ।। वशषसदलयुक्ते सौम्यमाधारपद्मे तरुणमरुणगानं वारणास्यं गणेशम् । अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ।। डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिं । मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम् हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभं । श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ।। काद्यैष्ठान्तगतैः प्रकल्पितदले पंकेरुह पार्वती कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम् शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम् मूर्त्यंगेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम् मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत् हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया । तत्तद्योगतया स्वदेशिकतनुं भावेन दीपांकुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ।। महामुद्रा तावत् कराभ्यां संमुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शन रूपा अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली । महामुद्रेय मुदिता परमीकरणे बुधैः । महामुद्रेय माख्याता न्यूनाधिकं समापनी । प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि == द्वितीय पटले दक्षिणद्वारार्चन विधिः == वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता । लिंगे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ।। १ ।। प्रतिमा दक्षिणास्या चेदुत्तमोत्तम संज्ञका । मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ।। २ ।। प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः । नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ।। ३ ।। श्रेष्ठं पश्चान्मुखं लिंगं दक्षास्यं बेरमुच्यते । अव्यक्तं मोक्षदं लिंगं व्यक्तं भूतिप्रदायकम् ।। ४ ।। भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् । शौचमाचमनं स्नानं सन्ध्योपासन मेव च ।। ५ ।। कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् । द्वार मस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ।। ६ ।। गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् । यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ।। ७ ।। संप्रविश्यान्तरे वास्तु पतिं संपूज्य फूजकः । पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ।। ८ ।। लिंगार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे । अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ।। ९ ।। अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् । सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ।। १० ।। पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रपूजयेत् । ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ।। ११ ।। पितृवायवग्नि ईशेषु हृदयादि व्यवस्थितम् । अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ।। १२ ।। गणेशःपूर्व देशे वा प्राग्वद्वा संप्रकीर्तिताः । पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ।। १३ ।। उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् । प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ।। १४ ।। लिंगार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् । तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ।। १५ ।। लोहजे शैलजे वापि मृज्जे धतुज रत्नजे । चित्रहीने शिलाबिंबे मूललिंग वदाचरेत् ।। १६ ।। रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् । अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ।। १७ ।। वस्त्र संमार्जनं पुण्यदिवसे स्नपनं मतम् । कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ।। १८ ।। अथवा बाणलिंगे वा दर्पणादौ समर्चयेत् । आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ।। १९ ।। गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके । वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ।। २० ।। संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत् ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ।। २१ ।। अथापरं समानं स्यात् शिवलिंगार्चनेन तु । कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ।। २२ ।। प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् । हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ।। २३ ।। मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् । मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ।। २४ ।। न्यास मार्गेण संस्थाप्य सन्निधान निरोधने । विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ।। २५ ।। सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः । एलालवङ्ग कर्पूर वराल फल कल्पितम् ।। २६ ।। दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये । क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ।। २७ ।। कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। २८ ।। व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् । पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ।। २९ ।। संमिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे । पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ।। ३० ।। सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते । एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ।। ३१ ।। त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।। ३२ ।। तांबुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे । बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ।। ३३ ।। सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि संख्यार्ध नाड्योऽथवास्युः ।। ३४ ।। उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ।। ३५ ।। अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् । कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ।। ३६ ।। पवित्रारोहणं मासार्चन मङ्कुर वापनम् । नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ।। ३७ ।। समालोच्य विधेयं स्यात् सकले निष्कले शिवे । अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ।। ३८ ।। सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः । अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ।। ३९ ।। किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् । तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ।। ४० ।। तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ।। ४०१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः द्वितीयः पटलः सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि संख्यार्ध नोड्योऽथ-वास्युः ।। उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ।। अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ।। पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् षड्गुण - १. सर्वज्ञत्वम् २. परितृप्तत्वम् ३. अनादि बोधृत्वम् ४. स्वतन्त्रत्वम् ५. अलुप्तशक्तित्वम् ६. अनन्तशवक्तिस्वम् == तृतीय पटले सकलार्चनाविधिः == वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् । शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ।। १ ।। कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च । सम्यगाचभ्य संगृह्य भसितं वारिणा सह ।। २ ।। त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च । तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ।। ३ ।। भूतशुद्धिं सुधाप्लावं आत्मावाहनमेव च । करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ।। ४ ।। स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् । पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ।। ५ ।। अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् । अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ।। ६ ।। विशेषार्घ्यञ्च संकल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१/२ । ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् । कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ७१/२ ।। द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् । द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीं ।। ८१/२ ।। नन्दिनञ्च महाकालं गंगाह्वां यमुनामपि । संपूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ।। ९९/२ ।। दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ । शिवस्येशानमन्त्रेण मालाद्यमपनीय च ।। १०१/२ ।। शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा । आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ।। १११/२ ।। अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकं । वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ।। १२१/२ ।। तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् । सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ।। १३१/२ ।। शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते । या तस्य विमलाशक्तिश्शिवस्य समवायिनी ।। १४१/२ ।। तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् । हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ।। २०१/२ ।। कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते । सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ।। २११/२ ।। रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता । अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ।। २२१/२ ।। एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते । एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ।। २३१/२ ।। तत्रेशानेन वक्त्रेण ममुना सकलेन च । मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ।। २४१/२ ।। ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् । षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ।। २५१/२ ।। सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत् । बेरे सदाशिवेवापि लिंगेप्येवं समाचरेत् ।। २६१/२ ।। महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् । प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ।। २७१/२ ।। कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् । तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ।। २८१/२ ।। महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा । विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ।। २९१/२ ।। आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः । तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ।। ३०१/२ ।। स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे । गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ।। ३११/२ ।। ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् । पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ।। ३२१/२ ।। इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः । परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ।। ३३१/२ ।। होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् । शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ।। ३४१/२ ।। द्वारपालार्चनोपेतं बलिहोमसमन्वितम् । शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ।। ३५१/२ ।। प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् । उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ।। ३६१/२ ।। पवित्रारोहणं संम्यक् कृत्तिकादीपमेव च । संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ।। ३७१/२ ।। मासोत्सवं तथा मासेनवनैवेद्यकर्म च । प्रायश्चित्तञ्च जीर्णानां उद्धारञ्च गुरूत्तमाः ।। ३८१/२ ।। देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् । किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसंगमे ।। ३९१/२ ।। पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः । गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ।। ४०१/२ ।। मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् । गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ।। ४११/२ ।। आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ।। ४२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः तृतीयः पटलः इन्दु निभ पञ्च मुख हस्त दश युक्तं । शूल वर टङ्क मसि वज्र मभयं स्यात् ।। पाश वरदाङ्कुश मणिर्दहन वामे । श्वेत कमलासन सदाशिव स्वरूपम् ।। == चतुर्थे पटले स्नपनविधिः == अथातस्संप्रवाक्ष्यामि स्नपनं परमेष्ठिनः । अष्टम्यां वा चतुर्दश्यां विषुवायनसंक्रमे ।। १ ।। ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः । सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ।। २ ।। कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा । राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ।। ३ ।। भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने । प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ।। ४ ।। नित्ये नैमित्तिके काम्ये कारयेच्छंकरस्य च । स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ।। ५ ।। अंकुरार्पणमादौ स्यात् महास्नपन कर्मणि । प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ।। ६ ।। अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ।। ६१/२ ।। पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा । चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ।। ७१/२ ।। सर्वालंकारसंयुक्ततोरणैरन्वितेपि वा । नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ।। ८१/२ ।। अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् । सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ।। ९१/२ ।। द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १०१/२ ।। अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा । तदा द्वितालमानेन कर्णिकामानमीरितम् ।। १११/२ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।। १२१/२ ।। पञ्चविंशतिसंख्यान्तं तत्समन्तात्समावृतम् । एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३१/२ ।। आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् । पञ्चविंशतिसंख्यातान् कलशान् मध्यमस्थितम् ।। १४१/२ ।। परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् । अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ।। १५१/२ ।। मध्यमे तिथिसंख्यास्युः नवकोणे व्यवस्थिताः । मध्यमे तिथिसंख्येतु मध्यमत्रितयं त्यजेत् ।। १६१/२ ।। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् । चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ।। १७१/२ ।। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् । मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ।। १८१/२ ।। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् । अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।। १९१/२ ।। शिवव्यूहस्य परितः षोडशैव परित्यजेत् । सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ।। २०१/२ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः । मार्गबाह्ये तु कोणेस्यादेकविंशति संख्यकः ।। २११/२ ।। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते । सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ।। २२१/२ ।। सार्धहस्तान्तरं हस्तमानान्तरमथापि वा । स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च ।। २३१/२ ।। तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा । स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ।। २४१/२ ।। त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् । हीनहीनतरं प्रस्थमानमित्यभिधीयते ।। २५१/२ ।। शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् । अधश्चेधभिचारार्थं भवेदेव न संशयः ।। २६१/२ ।। आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि । मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ।। २७१/२ ।। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् । तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ।। २८१/२ ।। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् । हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ।। २९१/२ ।। शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् । शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ।। ३०१/२ ।। चतुस्त्रिद्वयेकसंख्यातप्रस्थमानप्रपूरितम् । कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ।। ३११/२ ।। अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् । वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ।। ३२१/२ ।। षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् । कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ।। ३३१/२ ।। मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् । मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ।। ३४१/२ ।। निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके । तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ।। ३५१/२ ।। तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च । माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ।। ३६१/२ ।। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् । कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ।। ३७१/२ ।। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा । द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ।। ३८१/२ ।। मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् । भूतिक्षुसार कदलीतिलसर्षपपानसाः ।। ३९१/२ ।। भसितंतिलसारञ्च कदलीतिलसर्षपान् । नालिकेरञ्च नारंङ्गद्वयंस्यान्मातुलंगकम् ।। ४०१/२ ।। डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके । पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ।। ४११/२ ।। तिलबिल्वे तदन्ते तु मातुलंगफलम्मतम् । नारंगद्वितयन्तस्माद्यवनीवारलाजकम् ।। ४२१/२ ।। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते । कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवंगकम् ।। ४३१/२ ।। तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् । सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ।। ४४१/२ ।। एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः । पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ।। ४५१/२ ।। एवं कृते भवन्त्यत्र कलशानान्तु षोडश । चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ।। ४६१/२ ।। अन्तरालेषु मध्यादि वसु संख्यकमीरितम् । ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ।। ४७१/२ ।। गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् । पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ।। ४८१/२ ।। शमीदूर्वा च शुक्लार्कबिल्वचम्पकशंखिनी । अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसंज्ञकम् ।। ४९१/२ ।। नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके । अथवान्यप्रकारेण तदेव पुनरुच्यते ।। ५०१/२ ।। पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै । क्षीरंदधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ।। ५११/२ ।। तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी । नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ।। ५२१/२ ।। पुन्नागशंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा । सिम्हधुर्तूरसंज्ञे च षोडशास्त्रविनिर्दिशेत् ।। ५३१/२ ।। सदुर्वासर्षपाम्राणि नारंगपनसेमते । कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ।। ५४१/२ ।। इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् । नीवारकुंकुमतिलमाञ्जीमुरजसत्तुकम् ।। ५५१/२ ।। मातुलंगं मलयजमलयजमगरूशीर रात्रिजम् । पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ।। ५६१/२ ।। विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि । अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया ।। ५७१/२ ।। अष्टौ गणेश्वरा बाह्ये चांगुष्ठप्रमुखास्तथा । क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा ।। ५८१/२ ।। एकोनेन तु पञ्चाशत् स्नपने देवतामताः । कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ।। ५९१/२ ।। द्वात्रिंशत्पदसंख्यास्यात् पाद्यदींस्तत्र विन्यसेत् । दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ।। ६०१/२ ।। अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ।। ६१ ।। अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते । चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ।। ६२ ।। कर्पूरं हरिबेरञ्च दान्तं मांसीमुरंतृणम् । तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ।। ६३ ।। चम्पकं सहदेवी च शतपत्री च रोचना । बिल्वं यवा शमी दूर्वा तक्कोलं मेघसम्ज्ञकम् ।। ६४ ।। धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् । रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ।। ६५ ।। धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः । प्लेक्षेभपिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ।। ६६ ।। अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् । तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ।। ६७ ।। बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् । श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ।। ६८ ।। सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् । दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ।। ६९ ।। गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका । वटशृंगेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ।। ७० ।। शंखिनी भृंगराजश्च नीवारं गैरिकं तथा । आम्रमोचरसं जातिः पाटली मार्जनं पुनः ।। ७१ ।। पञ्चमावरणं ह्येतदन्यथा च निगद्यते । शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ।। ७२ ।। अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च । नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ।। ७३ ।। पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ।। ७३१/२ ।। शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः । तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ।। ७४१/२ ।। गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः । महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ।। ७५१/२ ।। इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी । व्याघ्रनख्या च मंजिष्ठं सरलं भद्रकोष्ठकम् ।। ७६१/२ ।। नवनीतं द्राविडाह्वं सज्जं तक्कोलसंज्ञकम् । चञ्चलातिबलाचैव बलासिंहाप्रियंगुकम् ।। ७७१/२ ।। लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् । अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ।। ७८१/२ ।। सतिलं कुंकुमं मेघमगरुं कृष्णरोचना । श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ।। ७९१/२ ।। कृष्णागरुं चतगरं ततः प्रोक्तंमनश्शिलाम् । रक्तचन्दनसंज्ञञ्च लवंगं रात्रिचूर्णकम् ।। ८०१/२ ।। कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना । चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ।। ८११/२ ।। आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः । दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ।। ८२१/२ ।। अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ । पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ।। ८३१/२ ।। दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् । तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसंज्ञकम् ।। ८४१/२ ।। चम्पकं हरिबेरञ्च सर्षपन्नागकेसरं । तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ।। ८५१/२ ।। लवंगपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् । तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ।। ८६१/२ ।। भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च । धात्री च नालिकेरञ्च लिकुचं मातुलंगकम् ।। ८७१/२ ।। तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् । लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ।। ८८१/२ ।। रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् । गुञ्जादि निष्कपर्यन्तं पाद्याद्यंगं प्रमाणकम् ।। ८९१/२ ।। एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् । मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ।। ९०१/२ ।। आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् । कर्पूरकुंकुमादीनां मानमिष्टं प्रदीयताम् ।। ९११/२ ।। मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः । एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ।। ९२१/२ ।। नवसंख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः । अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ।। ९३१/२ ।। अष्टोत्तरसहस्राख्यं अधुनात्र निगद्यते । वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ।। ९४१/२ ।। एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमंत्रितम् । तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ।। ९५१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। ९६१/२ ।। क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा । सर्षपं नालिकेराख्यं रजनी मातुलंगकम् ।। ९७१/२ ।। लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् । पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ।। ९८१/२ ।। रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् । पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ।। ९९१/२ ।। मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् । दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ।। १००१/२ ।। कषायाढयोदकोपेतमुत्तरे पुनरुच्यते । कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ।। १०११/२ ।। माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् । पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ।। १०२१/२ ।। पञ्चरत्नमिति ज्ञेयं आद्या भावे द्वितीयकम् । रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ।। १०३१/२ ।। सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ।। १०४१/२ ।। सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला । गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ।। १०५१/२ ।। शालिकोद्रवनीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ।। १०६१/२ ।। नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ।। १०७१/२ ।। कुंकुमं हरिबेरञ्च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ।। १०८१/२ ।। पर्वते च नदीतीरे वल्मीके कर्कटावटे । वृषशृंगे च सत्क्षेत्रे समुद्रे गजदन्तके ।। १०९१/ २ ।। अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् । गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ।। ११०१/२ ।। शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते । दूर्वांकुरञ्च कुशाग्रं गौरसर्षपम् ।। ११११/२ ।। भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते । तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ।। ११२१/२ ।। अपामार्गसमायुक्तं पत्रतोयमिहेरितम् । पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ।। ११३१/२ ।। पुन्नागकुरवनारंगनन्द्यावर्तं च मल्लिका । श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ।। ११४१/२ ।। कुष्ठं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ।। ११५१/२ ।। शूलं कपालहरिणी पिनाकः परशुस्तथा । पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ।। ११६१/२ ।। पनसो नालिकेरश्च मातुलंगद्वयं ततः । नारंगद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ।। ११७१/२ ।। पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली । जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ।। ११८१/२ ।। अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः । गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ।। ११९१/२ ।। सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् । निकुन्तः पञ्चभिर्युक्तंकान्तोदकमिति स्मृतम् ।। १२०१/२ ।। उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। १२११/२ ।। गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ।। १२२१/२ ।। मयूरशिखिभूर्जत्वग्रोचनाभृंगराजकम् । कृतांजलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ।। १२३१/२ ।। अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् । चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ।। १२४१/२ ।। लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः । विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ।। १२५१/२ ।। रक्तोत्पलं शमीपश्चात् पद्मं सुरस संज्ञकम् । नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ।। १२६१/२ ।। यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका । जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ।। १२७१/२ ।। द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् । वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ।। १२८१/२ ।। तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् । माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ।। १२९१/२ ।। कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा । पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ।। १३०१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। १३११/२ ।। द्वितीयावरणे स्वर्णं पदे षोडशसंख्यके । चतुर्विंशति संख्याते नालिकेरफलं बहिः ।। १३२१/२ ।। द्वात्रिंशत्संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके । षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ।। १३३१/२ ।। चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् । द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ।। १३४१/२ ।। अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् । नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ।। १३५१/२ ।। दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् । चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ।। १३६१/२ ।। अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते । धातु लोहोदकं पश्चात् शतेषोडशसंयुते ।। १३७१/२ ।। शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् । सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ।। १३८१/२ ।। पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे । घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ।। १३९१/२ ।। वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् । प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ।। १४०१/२ ।। उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः । उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ।। १४११/२ ।। अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते । विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ।। १४२१/२ ।। स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः । पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ।। १४३१/२ ।। कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् । स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ।। १४४१/२ ।। अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः । तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ।। १४५१/२ ।। अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः । स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ।। १४६१/२ ।। तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः । अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ।। १४७१/२ ।। अष्टसंख्या समायुक्तो द्विशते मध्यमेष्टकम् । तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ।। १४८१/२ ।। बाह्ये षोडशसंख्यातान् गृहणीयाद्दिग्विदिग्गतम् । अष्टव्यूहन्तथात्वेतु उक्त संख्यान्वितं भवेत् ।। १४९१/२ ।। द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते । रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ।। १५०१/२ ।। दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् । लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ।। १५११/२ ।। निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् । तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ।। १५२१/२ ।। किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् । गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ।। १५३१/२ ।। फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः । तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ।। १५४१/२ ।। पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् । क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ।। १५५१/२ ।। फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ।। १५७ ।। घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् । अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ।। १५७ ।। ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् । तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ।। १५८ ।। शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते । मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ।। १५९ ।। वज्रं समस्तरत्नानां लोहानामग्निदैवतम् । यवो निखिल बीजानां धातूनां हरितालकम् ।। १६० ।। ओषधीनामभावे तु सहदेवी प्रशस्यते । फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ।। १६१ ।। नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते । चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ।। १६२ ।। त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् । सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ।। १६३ ।। फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ।। १६४ ।। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ।। १६५ ।। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः । गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ।। १६६ ।। दीपेन सहितो मन्त्री लिंगमुद्रां प्रदर्शयेत् । कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ।। १६७ ।। सहस्रकलशे पञ्चशतहोमं समाचरेत् । कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ।। १६८ ।। कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना । समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ।। १६९ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् । शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ।। १७० ।। अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् । पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ।। १७१ ।। चतुर्होमविधाने तु प्रधानेवाथ पूर्वके । शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ।। १७२ ।। मूलाद्दशांशतोंगानान्तथा ब्रह्म सुलोचने । कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ।। १७३ ।। प्रविश्य गर्भगेहे तु लिंगं संशोद्धय पूर्ववत् । संकल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ।। १७४ ।। ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ।। १७४१/२ ।। पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् । दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ।। १७५१/२ ।। नृत्तगेयसमायुक्तं शंखध्वनिसमन्वितम् । वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ।। १७६१/२ ।। जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् । उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ।। १७७१/२ ।। दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् । गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ।। १७८१/२ ।। अपनीय पिधानं तत् दक्षहस्तेन देशिकः । सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ।। १७९१/२ ।। संगृह्य तत्वचित्तस्तु लिंगमूर्ध्नि मनुं न्यसेत् । देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ।। १८०१/२ ।। शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् । पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ।। १८११/२ ।। दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु । ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ।। १८२१/२ ।। आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् । पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।। १८३१/२ ।। उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् । अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ।। १८४१/२ ।। नानाफलानि गव्यानि पञ्चामृतयुतानि च । विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ।। १८५१/२ ।। विरुक्ष्य गन्धतोयेन स्नापयेल्लिंगमादरात् । अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ।। १८६१/२ ।। सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् । आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ।। १८७१/२ ।। ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ।। १८८ ।। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् । स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ।। १८९ ।। गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च । प्रदर्श्य लिंगमुद्रान्तु कवचेनावकुण्ठयेत् ।। १९० ।। इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च । वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ।। १९१ ।। पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् । गत्वा सकलसामीप्यमासनं मूर्तिमेव च ।। १९२ ।। संकल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् । स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ।। १९३ ।। गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् । प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ।। १९४ ।। तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् । स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ।। १९५ ।। देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् । पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ।। १९६ ।। पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् । चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ।। १९७ ।। देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् । द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ।। १९८ ।। शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने । धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ।। १९९ ।। अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसंज्ञकाः । पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ।। २०० ।। ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिंगान्तास्समीरिताः । अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ।। २०१ ।। पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०२ ।। चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०३ ।। गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः । गंगादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ।। २०४ ।। स्नापयेत् परमेशानं सर्वदोषापनुत्तये । सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ।। २०५ ।। सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः । सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ।। २०६ ।। राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये । राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ।। २०७ ।। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये । तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ।। २०८ ।। युद्धोद्यते स्वसेनाया बलायामृति हेतवे । भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ।। २०९ ।। नरनारी गवादीनां रोगनाशार्थमेव । जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ।। २१० ।। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके । अयने विषुपे वापि ग्रहणस्थापनादिके ।। २११ ।। उत्सवे च पवित्रे च दमनारोपणेऽपिच । कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ।। २१२ ।। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः । मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ।। २१३ ।। प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि । जनकल्याणकाले च नराणां रक्षणार्थके ।। २१४ ।। विशेष पूजाकाले च भक्तानामुत्सवेपि च । देवभ्रमणकाले वा मृगयायां विशेषतः ।। २१५ ।। कुर्यात्प्रतिदिनं वापि त्रिसंध्यायां गुरूत्तमाः । सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ।। २१६ ।। प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते । कुम्भेनैकेन वा व्योमसंख्येन कलशेन वा ।। २१७ ।। प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा । पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ।। २१८ ।। एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा । इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ।। २१९ ।। एकद्रव्यंचतुर्दिक्षु भिन्नद्रव्यमथापि वा । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ।। २२० ।। नवकुम्भविधानेऽपि विधानं सदृशं मतम् । एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ।। २२१ ।। स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितं । प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ।। २२२ ।। पञ्चविंशतिसंख्यातमपि नित्ये प्रशंस्थितम् । उत्तमोत्तमपूजायामष्टोत्तरशतावधि ।। २२३ ।। स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् । नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ।। २२४ ।। पञ्चविंशतिसंख्यादि साष्टसाहस्रकावधौ । अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ।। २२५ ।। हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा । स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ।। २२६ ।। श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् । कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ।। २२७ ।। हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः । नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ।। २२८ ।। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया । काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ।। २२९ ।। कर्तव्यं वा न कर्तव्यमितिसन्देहसंगतौ । करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ।। २३० ।। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः । ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ।। २३१ ।। क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् । क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ।। २३२ ।। तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः । प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ।। २३३ ।। तद्विधानानुपन्ने तत्राप्येषो विधीयते । प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ।। २३४ ।। वर्तमाने तु शास्त्रार्थे तदंगं सृक्स्रुवादिकम् । स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ।। २३५ ।। एकमादिकमालोच्य कारयेद्यो नृपोत्तमः । सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ।। २३६ ।। तस्याप्यायुषमारोग्यम्मनस्संकल्पितञ्चयत् । सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ।। २३७ ।। विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स राजा क्षयमाप्नोति नात्रकार्या विचारणा ।। २३८ ।। तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञानपारगेण क्रियावता ।। २३९ ।। क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये । गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ।। २४० ।। तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः । विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ।। २४१ ।। पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् । संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ।। २४२ ।। गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् । चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ।। २४३ ।। गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् । कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ।। २४४ ।। पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा । नानोपदंशसंयुक्तं नानाफलसमन्वितम् ।। २४५ ।। दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् । एलालवंकेकर्पूरजातीतक्कोलचूर्णयुक् ।। २४६ ।। मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् । प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ।। २४७ ।। समिधाज्येन चरुणा तिलेनापि समन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ।। २४८ ।। तस्मात् भस्मसमादाय यजमानाय दापयेत् । संप्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ।। २४९ ।। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् । द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ।। २५० ।। षट्सप्तगुणसंख्यातं कर्मसिद्ध्यर्थमेव वा । पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ।। २५१ ।। नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः । नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ।। २५२ ।। समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् । सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ।। २५३ ।। नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः । सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ।। २५४ ।। तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् । धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ।। २५५ ।। विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् । नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ।। २५६ ।। एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च । सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ।। २५७ ।। नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् । लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ।। २५८ ।। नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः । अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ।। २५९ ।। ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् । ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ।। २६० ।। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे । विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ।। २६१ ।। कन्यायां मिधुने धनुष्यन्ते समाचरेत् । सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ।। २६२ ।। अर्धमेकं द्वयं वापि यामं वा घटिकामपि । आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ।। २६३ ।। आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ।। २६४ ।। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् । यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ।। २६५ ।। स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् । तोरणं स्रुक्स्रुवावष्टमंगलन्नवरत्नकम् ।। २६६ ।। तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च । वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ।। २६७ ।। आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने । निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ।। २६८ ।। निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् । नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ।। २६९ ।। नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ।। २६९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः स्नपनविधि पटलः पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा । चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ।। सूत्रन्यास मधोरेण तालमात्रान्तरं यथा कषायोदकं चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः । आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ।। मार्जनोदकं दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते । रत्नोदकम् माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् । पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ।। मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ।। पञ्चरत्नमिति ज्ञेयं आद्यभावे द्वितीयकम् ।। लोहोदकम् सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम् । आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ।। धातूदकम् सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला । गौरिकं रोचना चान्ते धातूदकमितं मतम् ।। बीजोदकम् शालिकोद्रव नीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ।। १०६ ।। गन्धोदकम् नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ।। १०७ ।। कुंकुमं हरिबेरं च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ।। १०८ ।। मृदोदकम् पर्वते च नदीतीरं वल्मीके कर्कटावटे । वृषशृंगे च सुक्षेत्रे समुद्रे गजदन्तके ।। अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम् ।। १०९ ।। मार्जनोदकम् गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली । शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ।। ११० ।। परिमाणोदकम् दूर्वांकुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् । भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ।। पत्रोदकम् तुलसी बिल्वपत्रं तमालश्च तपस्विनी । अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ।। पुष्पोदकम् पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः । पुन्नाग कुरव नारंग नद्यावर्तं च मल्लिका ।। श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ।। कुष्टं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ।। अस्त्रोदकम् शूलं कपाल हरिणी पिनाकः परशुस्तथा । पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ।। फलोदकम् पनसो नालिकेरश्च मातुलुंग द्वयं ततः । नारङ्गद्वयरंभाद्यैः उक्तमस्मिन् फलोदकम् कषायोदकम् पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली । जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम् आङ्योदकम् अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः । गन्धत्रय समायुक्तं आडयतोय मिति स्मृतम् ।। कान्तोदकम् सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् । निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ।। मूलोदकम् उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। वल्कलोदकम् मयूर शिखि भूर्जत्व ग्रोचना भ्रंगराजकम् । कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ।। त्वगोदकम् लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः । विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ।। चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२ विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। ४९ । १०९ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८ द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १० ।। अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् ।। ११ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११/२ । विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् शिवव्यूहस्य परितः षोडशैव परित्यजेत् सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः १४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम् १६ मध्यमे तिथिसंख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम् सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम् सार्धहस्तान्तरं हस्तमानान्तरमथापिवा स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा १० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। ११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् १११/२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्] विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः । १४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम् १६ मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम् अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः । एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।। मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् । स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् ।। अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् । शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।। सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ।। सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् । सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ।। स्याच्चतुर्दश संख्याता वीथि बाह्ये क्रमेण च । तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।। == पञ्चमे पटले नित्योत्सवविधिः == नित्योत्सवविधिं वक्ष्ये नित्यपूजांगमुत्तमम् । शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ।। १ ।। प्रासादमण्टपादौ वा गोमयेनोपलेपिते । प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ।। २ ।। सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा । तिथ्यंगुलं समारभ्य व्योमांगुलविवृद्धितः ।। ३ ।। द्वात्रिंशदंगुलान्तं तु पात्रमानमुदीरितम् । वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ।। ४ ।। तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते । एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ।। ५ ।। शेषेण दलमाख्यातं विकाराष्टदलम्मतम् । अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ।। ६ ।। तद्वदोष्टसमोपेतं केवलं पात्रमेव वा । कुडुपद्वयमारभ्य कुडुपादाढकावधि ।। ७ ।। तण्डुलं कल्पयेदन्नलिंगार्थं वाऽक्षतार्थकम् । मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ।। ८ ।। तेनान्नलिंगं कर्तव्यं भूतमात्रप्रमाणतः । एकांगुलं तु दैर्घ्यंस्याद्यावदष्टादशांगुलम् ।। ९ ।। अंगुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् । अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ।। १० ।। नैमित्तिकार्थन्नित्यार्थमन्नलिंगमुदाहृतम् । त्रिकालमन्नलिंगं वा प्रातर्मध्याह्नयोस्तु वा ।। ११ ।। मध्याह्ने वाथ पूर्वाह्ने पुष्पलिंगमुदाहृतम् । प्रदोषेऽक्षतलिंगंस्यात्तत्रपाशुपतं यजेत् ।। १२ ।। चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि । त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ।। १३ ।। सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ।। १३१/२ ।। विद्युन्मालानिभश्वेतः जटामकुटमण्डितः । दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ।। १४१/२ ।। वरदाभयपाणिर्वा सर्वलक्षणसंयुतः । हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ।। १५१/२ ।। योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते । शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ।। १६१/२ ।। रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् । त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ।। १७१/२ ।। एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् । दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ।। १८१/२ ।। त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् । दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ।। १९१/२ ।। पुष्पाक्षतान्नलिंगेषु पूजनीयस्स्वमन्त्रतः । अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ।। २०१/२ ।। सपीठे गोलकाकारे विपीठे वा तमर्चयेत् । अन्नलिंग प्रमाणे तु मूलाग्रसमविस्तरे ।। २११/२ ।। हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते । स्थलिकामानदण्डेन सहितं वा समर्चयेत् ।। २२१/२ ।। इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु । पादुके त्र्यंगुले तस्मादंगुलांगुलवर्धनात् ।। २३१/२ ।। तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् । दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ।। २४१/२ ।। अष्टांशावधिको मध्यमानेन नवमानकः । तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ।। २५१/२ ।। समन्ताल्लोकपाः पूज्याः पूजादाववसानके । नवान्नलिंगसंयुक्तमथ नित्योत्सवं नयेत् ।। २६१/२ ।। सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् । द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ।। २७१/२ ।। मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः । रंगे वा शिबिकायां वा परिचारकमूर्धसु ।। २८१/२ ।। आरोप्यलंकृतान्देवान्वितानेन समन्वितम् । छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ।। २९१/२ ।। गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् । धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ।। ३०१/२ ।। आद्यं प्रदक्षिणं कुर्यात् मंगिणी तालसंयुतम् । वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृंगिणी ।। ३११/२ ।। मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी । षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ।। ३२१/२ ।। तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् । ग्रामे वा नगरे वापि तथा प्राकार एव वा ।। ३३१/२ ।। द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् । एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ।। ३४१/२ ।। अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् । गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ।। ३५१/२ ।। पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् । गोपुरे वाद्यहीनं वा शंखध्वनिसमन्वितम् ।। ३६१/२ ।। इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् । बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ।। ३७१/२ ।। दक्षिणे भृंगिणी तालं कौशिकेन समन्वितम् । मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ।। ३८१/२ ।। पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् । वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ।। ३९१/२ ।। सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः । शाला पाणिसमायुक्तं शांकरे ढक्करी मता ।। ४०१/२ ।। एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् । पक्षालितांघ्रयस्सर्वे प्रविशेयुश्शिवालयम् ।। ४११/२ ।। अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु । पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।। ४२१/२ ।। लिंगाद्देवं समाहृत्य लिंगे दक्षे निवेशयेत् । शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ।। ४३१/२ ।। अन्येषामपि देवानां देवीनां मूलबिम्बवत् । रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ।। ४४१/२ ।। संपाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् । तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।। ४५१/२ ।। पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः == षष्ठे पटले महोत्सवविधिः == उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम् । ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ।। १ ।। ध्वजांकुरो ध्वजंगस्यात् ध्वजात् पूर्वन्तु तन्नयेत् । तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ।। २ ।। द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् । मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ।। ३ ।। राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा । माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ।। ४ ।। विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् । भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ।। ५ ।। त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके । अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ।। ६ ।। पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ।। ७ ।। तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि । भागं कृत्वैकभागेन पटविस्तार उच्यते ।। ८ ।। विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते । विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ।। ९ ।। वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ।। १० ।। श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् । रक्तशृंगसमायुक्तं तद्वत् खुरसमन्वितम् ।। ११ ।। ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् । विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ।। १२ ।। जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् । सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ।। १३ ।। मानं मात्रांगुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः । पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ।। १४ ।। चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् । पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ।। १५ ।। एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् । अस्त्र तोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ।। १६ ।। मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते । स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ।। १७ ।। ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् । सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ।। १८ ।। कलशैरष्टसंख्यातैस्सापिधानैस्सवस्त्रकैः । सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ।। १९ ।। आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् । वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ।। २० ।। प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि । वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ।। २१ ।। ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् । संकल्पितहृदादींश्च क्रमेण विनिवेशयेत् ।। २२ ।। तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् । आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ।। २३ ।। कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् । मध्यकुम्भेऽपि संपूज्य लोकपान् परितो यजेत् ।। २४ ।। वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ।। कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते । निरीक्षणादि संस्कारैश्शिवाग्निं संप्रकल्पयेत् ।। २५ ।। तन्मध्ये वृषमावाह्य सांगं सन्तर्पयेत्तदा । सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ।। २६ ।। तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् । पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् । पटस्थाय घटस्थाय वृषायासन रूपिणे ।। २८ ।। प्रातस्संपूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् । मुखवासनताम्बूलं वृषभाय निवेदयेत् ।। २९ ।। पुनः पूर्णाहुतिन्दत्वा सर्वमंगलसंयुतम् । सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ।। ३० ।। रंगे वा शिबिकायां वा समारोप्य वृषध्वजम् । त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ।। ३१ ।। ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति । दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ।। ३२ ।। ध्वजारोहणदिने वापि अधिवासदिनेपि वा । धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ।। ३३ ।। षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ।। ३३१/२ ।। एकादितलपर्यन्तं गोपुरान्तमथापि वा ।। ३४ ।। रुद्रद्विगुणमध्यस्थकरसंख्यामितन्तु वा । मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ।। ३५ ।। सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ।। ३५१/२ ।। पलाशखदिराश्वत्थवटचन्दन दारवः ।। ३६ ।। सालम्माधूकतालं वा साराम्रकमथापि वा ।। वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ।। ३७ ।। चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् । स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ।। ३८ ।। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते । द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ।। ३९ ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्य चांगुलात्षोडशांगुलम् ।। ४० ।। यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ।। ४१ ।। एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ।। ४२ ।। उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् । स्कन्धं द्वयं तन्मानद्वादशांगुलमानतः ।। ४३ ।। षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् । सप्तांगुलं समारभ्य गायत्र्यर्णांगुलावधि ।। ४४ ।। स्कन्धविस्तार उद्दिष्टो मूलांग्रे तु त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ।। ४५ ।। चतुस्त्रिद्वयंगुलं वापि मानमेषां प्रकीर्तितम् ।। ४५१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४६ ।। मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ।। ४६१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४७ ।। दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा । बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ।। ४८ ।। षडंगुलं समारभ्य षडंगुल विवृद्धितः । दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ।। ४९ ।। तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् । भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ।। ५० ।। कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् । दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ।। ५१ ।। पञ्चविंशतिमात्रादि त्रित्र्यंगुलविवर्धनात् । द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ।। ५२ ।। एकांगुलं समारभ्य पादमात्रविवृद्धितः । त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ।। ५३ ।। वलयाकाश एषो वा वलयस्याद्यथा बलम् । रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यंगुलनाहयुक् ।। ५४ ।। ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् । तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ।। ५५ ।। एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च । संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ।। ५६ ।। शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् । अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्वादिकन्यसेत् ।। ५७ ।। साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु । स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ।। ५८ ।। रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः । गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ।। ५९ ।। रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् । कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ।। ६० ।। हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ।। ६०१/२ ।। अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः । तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ।। ६११/२ ।। देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा । तथैव गोपुरस्यापि महापीठान्तिकेपि वा ।। ६२१/२ ।। अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः । नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ।। ६३१/२ ।। प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्संख्ययामताः । अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ।। ६४१/२ ।। दण्डाधिपास्समाख्याता पटेषु वृष एव हि । दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ।। ६५१/२ ।। हस्तमात्रं समारभ्य त्र्यंगुलादि विवृद्धितः । द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ।। ६६१/२ ।। समोत्तुंगा त्रिपादा वा अष्टांशात् सप्तपञ्च वा । चतुस्त्र्यंशार्धतुंगं वा वेदिका परिकीर्तिता ।। ६७१/२ ।। त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः । द्वित्र्यंगुलक्षयाद्वापि मेखला मानमीरितम् ।। ६८१/२ ।। मेखला रहिते पीठे मूलेस्यादुपवेदिका । द्वयंगुलात् पादवृद्धया तु षडंगुलसमाविधि ।। ६९१/२ ।। पादार्धार्धत्र्यंघ्रिसमा उत्सेधाः परिकीर्तिताः । वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरंगुलमानतः ।। ७०१/२ ।। व्योमांगुलविवृद्ध्याष्टादशांगुल समावधि । पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ।। ७११/२ ।। एकैकांगुल वेशात्तु रुद्रमात्रसमाविधि । पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ।। ७२१/२ ।। कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः । गुणांगुलावधिः कार्यः तदुत्सेधनमुच्यते ।। ७३१/२ ।। चतुरष्टदलं पद्मं विकारदलमेव वा । वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ।। ७४१/२ ।। तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् । एवं संपाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ।। ७५१/२ ।। पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् । दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ।। ७६१/२ ।। त्रिशूलेन समायुक्तं मंगलांकुरशोभितम् । धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ।। ७७१/२ ।। आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् । कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ।। ७८१/२ ।। दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् । दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ।। ७९१/२ ।। त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ।। ८० ।। बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः । क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ।। ८१ ।। कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः । वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ।। ८२ ।। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः । आदौ स्पृष्ट्वा स्वयञ्चान्यंप्रेरयेद्रोहणायवा ।। ८३ ।। अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः । पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ।। ८४ ।। आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् । क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ।। ८५ ।। तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् । वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ।। ८६ ।। आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः । दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ।। ८७ ।। शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् । वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ।। ८८ ।। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च । तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ।। ८९ ।। गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् । पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ।। ९० ।। सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् । चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ।। ९१ ।। अतः प्रभृतितीर्थान्तमवरोहावसानकम् । एककालंद्विकालं वा त्रिकालं पूजयेद्वृषम् ।। ९२ ।। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ९३ ।। नोपसर्गभयन्तत्र न परागमविभ्रमः । विपरीता न मतयो रोगिणामपिभूयसा ।। ९४ ।। स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः । शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ।। ९५ ।। कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् । प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ।। ९६ ।। भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि । स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ।। ९७ ।। षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः । एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ।। ९८ ।। पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् । पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ।। ९९ ।। मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके । वामे विष्णुं समावाह्य पालिकायां तु पार्वती ।। १०० ।। सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः । दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ।। १०१ ।। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके । मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ।। १०२ ।। कात्यायनी तु कौबेर्यां शूलमूले मता इमे । रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ।। १०३ ।। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् । भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ।। १०४ ।। ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् । वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ।। १०५ ।। सप्तकीलेषु मातृश्च नवकीले नवग्रहान् । रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ।। १०६ ।। प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः । गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ।। १०७ ।। भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् । एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ।। १०८ ।। तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः । सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ।। १०९ ।। वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् । तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ।। ११० ।। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा । भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ।। १११ ।। गन्धारादि स्वरोपेतं समतालादि तालकम् । गीतनृत्तसमायुक्तमन्नलिंगसमायुतम् ।। ११२ ।। प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा । संग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ।। ११३ ।। धूपदीपसमायुक्तं घण्टारवसमन्वितम् । प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ।। ११४ ।। इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः । बलिदानावसाने तु तालस्वरसमायुतम् ।। ११५ ।। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च । ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ।। ११६ ।। समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः । भृंगिणी कौशिकन्नट्ट भाषया मल्लतालकम् ।। ११७ ।। श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् । कोटिकन्तर्करागेण शालापाण्यातु डक्करी ।। ११८ ।। पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा । ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ।। ११९ ।। भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् । देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ।। १२० ।। न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् । तदग्रे वृषकुंभंस्यात् वृषविद्येश्वरान्वितम् ।। १२१ ।। तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् । क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।। १२२ ।। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा । प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ।। १२३ ।। त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना । भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम् ।। १२४ ।। अन्नलिंगसमायुक्तं सर्वातोद्यसमन्वितम् । ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ।। १२५ ।। बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च । ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ।। १२६ ।। रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् । ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ।। १२७ ।। देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् । ततोंकुरार्पणं रात्रौ यागारम्भदिने मतम् ।। १२८ ।। तदर्थमंकुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा । ग्रामप्रदक्षिणन्तीर्थांकुरस्यावश्यकम्मतम् ।। १२९ ।। अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा । अंकुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ।। १३० ।। संग्राह्य वापयेत् रात्रौ बीजान्यंकुरसिद्धये । तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ।। १३१ ।। अन्यत्सर्वं समुद्दिष्टमंकुरार्पण पूर्वके । तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ।। १३२ ।। केत्वंकुरो नवाहे स्यात् स्प्ताहे चोत्सवांकुरम् ।। १३२१/२ ।। एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् । यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ।। १३३१/२ ।। वामेऽवामे तथा पञ्चशालानामिष्टदेशके । मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ।। १३४१/२ ।। एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः । पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ।। १३५१/२ ।। समानपंक्तयोवास्युर्मात्रादेकांशवर्धनात् । नवांगुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ।। १३६१/२ ।। एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी । एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ।। १३७१/२ ।। शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् । एकाग्निसहितां वापि वितानध्वजसंयुताम् ।। १३८१/२ ।। दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् । नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ।। १३९१/२ ।। मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः । एकांगुलविवृद्धयाष्टाविंशत्यंगुलकावधि ।। १४०१/२ ।। वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः । अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ।। १४११/२ ।। मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् । युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ।। १४२१/२ ।। मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् । एवं सर्वञ्च संपाद्य शिल्पिमोचनमाचरेत् ।। १४३१/२ ।। पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् । भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ।। १४४१/२ ।। स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् । द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ।। १४५१/२ ।। तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् । तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ।। १४६१/२ ।। विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् । तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ।। १४७१/२ ।। पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसंख्यया । तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।। १४८१/२ ।। अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् । सर्वे ससूत्रवस्त्राढ्याहेमपंकजभूषिताः ।। १४९१/२ ।। सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः । स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ।। १५०१/२ ।। शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् । लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ।। १५११/२ ।। आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे । तोरणद्वारकुम्भांश्च लोकपालघटानपि ।। १५२१/२ ।। हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् । मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ।। १५३१/२ ।। एवं संपाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् । सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ।। १५४१/२ ।। सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः । स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ।। १५५१/२ ।। तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् । अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ।। १५६१/२ ।। सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् । ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ।। १५७१/२ ।। क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् । शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ।। १५८१/२ ।। नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः । षडंगमूर्तिपांगञ्चेत् पुत्रायुष्यफलप्रदम् ।। १५९१/२ ।। एकद्वित्र्यंगुलाधिक्यं योग्यनाहप्रमाणतः । संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ।। १६०१/२ ।। भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् । प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ।। १६११/२ ।। पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः । द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ।। १६२१/२ ।। तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् । अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ।। १६३१/२ ।। अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् । ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ।। १६४१/२ ।। पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु । स्थण्डिले पूजयेच्छक्तिं यंत्रिकायां त्रितत्वकम् ।। १६५१/२ ।। प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता । भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ।। १६६१/२ ।। अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् । पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ।। १६७१/२ ।। सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् । ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ।। १६८१/२ ।। कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः । अंगुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ।। १६९१/२ ।। आलभेत् भस्म संयुक्तं सूत्रन्दक्षांगुलद्वयात् । मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ।। १७०१/२ ।। देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् । सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ।। १७११/२ ।। जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा । ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ।। १७२१/२ ।। दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा । स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ।। १७३१/२ ।। देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः । उमा महेश्वरे वामे सुखासीने महेश्वरः ।। १७४१/२ ।। अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च । एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ।। १७५१/२ ।। कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् । यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ।। १७६१/२ ।। अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा । कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ।। १७७१/२ ।। रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः । त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ।। १७८१/२ ।। दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते । यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ।। १७९१/२ ।। तीर्थार्थमंकुरं कुर्यादनयोः पूर्वकालतः । देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ।। १८०१/२ ।। द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च । ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ।। १८११/२ ।। पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा । वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ।। १८२१/२ ।। कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् । पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ।। १८३१/२ ।। विद्यादेहञ्च संकल्प्य प्रणवं विन्यसेत् शिवम् । हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ।। १८४१/२ ।। एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् । विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ।। १८५१/२ ।। तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत् । तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ।। १८६१/२ ।। अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयं । तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ।। १८७१/२ ।। एवं क्रमेण संपूज्य यायात्कुण्डान्तिकं गुरुः । संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ।। १८८१/२ ।। नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् । न्यस्त्वाऽवाह्य शिवं सांगं सब्रह्मांगञ्च तर्पयेत् ।। १८९१/२ ।। चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै । स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ।। १९०१/२ ।। वेणुबिल्वयवा वापि सक्तुक्षीरं यवंगुलम् । तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ।। १९११/२ ।। ब्रह्मशालियवैर्वापि माषशालियवैस्सह । तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ।। १९२१/२ ।। चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः । समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ।। १९३१/२ ।। शतमष्टोत्तरं होमं शिवेनांगैर्दशांशतः । प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ।। १९४१/२ ।। द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे । तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ।। १९५१/२ ।। होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् । तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ।। १९६१/२ ।। नित्योत्सवविधानेन कृत्वा लिंगंहविर्मयम् । तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ।। १९७१/२ ।। दशायुधसमोपेतं धूपदीपसमन्वितम् । घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ।। १९८१/२ ।। नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् । प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ।। १९९१/२ ।। देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु । लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ।। २००१/२ ।। पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् । ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ।। २०११/२ ।। कृसरान्नं घृतोपेतं कदलीफलसंयुतम् । तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ।। २०२१/२ ।। रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् । चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ।। २०३१/२ ।। घृतं प्रियंगुसंयुक्तं इन्द्रवल्ली समन्वितम् । पञ्चमेहनि दातव्यं इन्द्रप्रियकरं भवेत् ।। २०४१/२ ।। वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् । षष्ठेहनि प्रदातव्यं ऋषीणां प्रीतिसिद्धये ।। २०५१/२ ।। गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् । सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ।। २०६१/२ ।। माषोदनं घृतोपेतं अजमांससमन्वितम् । अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ।। २०७१/२ ।। शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् । नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २०८१/२ ।। अथवान्यप्रकारेण देवताद्रव्यमुच्यते । शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ।। २०९१/२ ।। फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् । फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ।। २१०१/२ ।। भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ।। २११ ।। पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् । कदलीफलसंयुक्तं ऋषिभ्यो बलिमाचरेत् ।। २१२ ।। इन्द्रवल्ली हरिद्रा च प्रियंगुघृतसंयुतम् । चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ।। २१३ ।। पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् । पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ।। २१४ ।। गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् । षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ।। २१५ ।। कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् । सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २१६ ।। वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् । अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ।। २१७ ।। शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् । नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ।। २१८ ।। नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः । कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ।। २१९ ।। मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् । प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ।। २२० ।। रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् । घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ।। २२१ ।। द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् । पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ।। २२२ ।। तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् । कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ।। २२३ ।। चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् । इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ।। २२४ ।। पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् । गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ।। २२५ ।। षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् । कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ।। २२६ ।। सप्तमेहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् । क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ।। २२७ ।। अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् । दधिकान्नं गुलोपेतम्मातुलंगफलन्तथा ।। २२८ ।। नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् । गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ।। २२९ ।। दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् । रक्तान्नं मांससंयुक्तं अपूपं तिलचूर्णयुक् ।। २३० ।। एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् । शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।। २३१ ।। द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् । सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ।। २३२ ।। पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः । दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ।। २३३ ।। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् । दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ।। २३४ ।। दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः । वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ।। २३५ ।। बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् । ध्वजादि बलिपीठान्तं अथवा बलिरीरितः ।। २३६ ।। ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा । तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ।। २३७ ।। दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा । लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ।। २३८ ।। दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः । दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ।। २३९ ।। कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा । सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ।। २४० ।। बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते । प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ।। २४१ ।। डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् । सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ।। २४२ ।। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् । अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ।। २४३ ।। बेराण्यनेकरूपाणि तदन्ते कथितानि च । तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ।। २४४ ।। अन्नलिंगसमायुक्तं त्रिशूलेन समायुतम् । दशायुधसमायुक्तं गोलकालिंगसंयुतम् ।। २४५ ।। रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् । रथे वा शिबिकायां वा सर्वालंकारसंयुतम् ।। २४६ ।। एतैस्सर्वैविहीनोग्रे बल्यंगैश्च समन्वितः । तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरंगकम् ।। २४७ ।। तदन्ते देवदेवेशरथस्सर्वांगसुन्दरः । रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ।। २४८ ।। घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः । नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ।। २४९ ।। मदन्तिक गतेनैव शैवाचार्येण शोभितः । मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ।। २५० ।। परिचारक संज्ञेन मत्भक्तेनाप्रमादिना । पद्मकुड्मलसन्नद्धपाश संबन्धहस्तया ।। २५१ ।। पुरुषाकारधारिण्या शोभितो रुद्रकन्यया । मद्दास्यावाथ सर्वांगसुन्दर्यास्स्यन्दनस्य च ।। २५२ ।। तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः । तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ।। २५३ ।। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु । शिवभक्ताश्च ये ख्यातास्तेषां रंगान्यनेकधा ।। २५४ ।। तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः । एषामिष्टन्तु यत्ग्राह्यं बल्यंगं कौतुकं विना ।। २५५ ।। नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् । वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ।। २५६ ।। गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् । मंगुलांकुरसद्वीपवर्धनीकुम्भवारियुक् ।। २५७ ।। कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् । दर्भमाला समायुक्तं मुक्तादामविभूषितम् ।। २५८ ।। उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति । विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ।। २५९ ।। गृहालंकार उद्दिष्टो गृहहीनस्थलेपि च । नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ।। २६० ।। नानागानसमोपेतं नानानृत्तसमन्वितम् । नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ।। २६१ ।। तालवृन्तसमोपेतं धूपदीपसमन्वितम् । प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ।। २६२ ।। रथादौ शिबिकादौ वा परिचारकमूर्धसु । यानकाले तु ताम्बूलं देयं नानाफलानि च ।। २६३ ।। भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् । योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ।। २६४ ।। दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् । वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ।। २६५ ।। शंखध्वनिसमायुक्तं पाद्याचमनसंयुतम् । प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ।। २६६ ।। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु । आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ।। २६७ ।। प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे । दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ।। २६८ ।। कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये । चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ।। २६९ ।। आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः । शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ।। २७० ।। पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते । विधाय स्नपनं वाथ पञ्चखारिसमन्विते ।। २७१ ।। चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः । पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ।। २७२ ।। मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् । स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ।। २७३ ।। प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् । रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ।। २७४ ।। रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये । यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ।। २७५ ।। विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः । पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ।। २७६ ।। यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् । ततो धाम निवेशश्च देव्या सह निवेशनम् ।। २७७ ।। काले षोडशसंख्याते यामार्धपरिनिष्ठिते । कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ।। २७८ ।। स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः । पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ।। २७९ ।। तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् । स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ।। २८० ।। यानकाले बलेः काले पूर्वकालेऽथवामतः । परिवारोक्तमार्गेण बलिपीठे समाचरेत् ।। २८१ ।। मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् । यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ।। २८२ ।। तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् । उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ।। २८३ ।। रात्रौ नीराजनं कार्यं धूपदीपावसानके । प्रभूतन्तु हविर्दद्याद्यानकालावसानके ।। २८४ ।। एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते । ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ।। २८५ ।। नीत्वा देवं समाराध्य विनोदालोकनन्ततः । प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ।। २८६ ।। प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् । भविष्यद्वृष्टिशंकायान्धकारे महत्यपि ।। २८७ ।। शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे । यागारम्भदिने वाथ तीर्थदानदिनेपि च ।। २८८ ।। सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते । ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ।। २८९ ।। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च । बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ।। २९० ।। तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् । तैलाभ्यंगञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ।। २९१ ।। ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् । अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ।। २९२ ।। देवाग्रे स्थापयेत्तैलं स्थण्डिलेयंत्रिकोपरि । अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत् ।। २९३ ।। कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ।। २९३१/२ ।। शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः । सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ।। २९४१/२ ।। ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् । तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ।। २९५१/२ ।। तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् । नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ।। २९६१/२ ।। कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये । सर्वाभरणयुक्ताय पूजिताय विशेषतः ।। २९७१/२ ।। तस्मादन्यत्र कूटेवा रंगे वाऽस्थानमण्टपे । सर्वालंकारसंयुक्तं कृत्वा धामप्रदक्षिणम् ।। २९८१/२ ।। तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च । विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ।। २९९१/२ ।। प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः । नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ।। ३००१/२ ।। धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।। ३०१ ।। स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः । संप्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ।। ३०२ ।। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् । समिदाज्येन चरुणा तिललाजगुलैस्तु वा ।। ३०३ ।। मूलेन शतहोमस्स्यादस्त्रहोममतो न वा । पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ।। ३०४ ।। प्रायश्चित्तंत्वघोरेण कृत्वा पूर्णासमन्वितम् । सद्योजातेन संस्पृश्य गन्धंमूलेन दापयेत् ।। ३०५ ।। सवत्सांगां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् । तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ।। ३०६ ।। जलदानसमोपेतं यात्रादानमिदंमतम् । अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ।। ३०७ ।। ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् । शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ।। ३०८ ।। योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् । तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ।। ३०९ ।। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च । प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ।। ३१० ।। उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः । आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ।। ३११ ।। यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् । सर्वागमज्ञं शान्तञ्च शिवलिंगार्चनारतम् ।। ३१२ ।। नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् । ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ।। ३१३ ।। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा । तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ।। ३१४ ।। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि । तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ।। ३१५ ।। देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि । तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ।। ३१६ ।। तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः । यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ।। ३१७ ।। पूर्वान्ते भवेल्लिंगप्रतिष्ठादौ च सम्मतम् । अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ।। ३१८ ।। सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते । सर्वालंकारसंयुक्तं मुखेणसमन्वितम् ।। ३१९ ।। शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् । पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ।। ३२० ।। कृत्वा यानक्रमं प्रोक्तं सर्वमंगल संयुतम् । राजवेषधरैः पुंभिर्नानानृत्तसमन्वितैः ।। ३२१ ।। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः । अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ।। ३२२ ।। वर्जयेद्वाथ मुखं राजवेषधरान्वितम् । प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ।। ३२३ ।। कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् । तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ।। ३२४ ।। रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् । पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ।। ३२५ ।। कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् । अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ।। ३२६ ।। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः । युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ।। ३२७ ।। अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् । विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ।। ३२८ ।। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना । तीर्थार्थं साधयेद्रात्रौ कलशान्नवसंख्यया ।। ३२९ ।। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् । सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ।। ३३० ।। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा । प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ।। ३३१ ।। तीर्थस्थानञ्च संप्राप्य शुद्धिं कृत्वा महीतले । स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ।। ३३२ ।। पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् । पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ।। ३३३ ।। त्रिशूले सर्वतीर्थञ्च सर्वंदुर्गासमन्वितम् । मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ।। ३३४ ।। तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च । तीर्थसंग्रहणं कुर्यात् गंगाद्यावाहनेन च ।। ३३५ ।। हे देवि गंगे यमुने नर्मदे च सरस्वति । सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ।। ३३६ ।। सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् । खेरस्तमनं यावत् तीर्थानां पापशुद्धये ।। ३३७ ।। तीर्थसंग्रहणं तन्मध्ये प्राक्शिरान्वितम् । त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ।। ३३८ ।। जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् । तीर्थसंग्रहणं कृत्वा तीर्थं देवालयेपि वा ।। ३३९ ।। अवगाहनहीनन्तु नयेद्दूरजलाशये । सर्वालंकारसंयुक्तं प्रविशेदालयं प्रति ।। ३४० ।। होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना । चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ।। ३४१ ।। स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ । त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ।। ३४२ ।। तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये । वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ।। ३४३ ।। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् । संक्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ।। ३४४ ।। मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् । दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ।। ३४५ ।। सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् । तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ।। ३४६ ।। सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् । मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ।। ३४७ ।। शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा । दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ।। ३४८ ।। राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः । पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ।। ३४९ ।। मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ । नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ।। ३५० ।। दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च । दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ।। ३५१ ।। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे । तदादौ स्नानकालादौ कर्तव्यम्मंगलार्थकम् ।। ३५२ ।। तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् । दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ।। ३५३ ।। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् । नानाविधेषु पात्रेषु लिंगार्थकं प्रतिमार्थकम् ।। ३५४ ।। उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः । परिवारार्थमेकञ्च भागं संकल्पयेत् क्रमात् ।। ३५५ ।। अवशिष्टजनार्थञ्च संग्रहेत् कलशादिषु । केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ।। ३५६ ।। संप्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ।। ३५६१/२ ।। अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् । रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ।। ३५७१/२ ।। चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च । कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ।। ३५८१/२ ।। महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले । नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ।। ३५९१/२ ।। किं तु बेरसमोपेतं प्रपादि परिमण्डिते । कलशस्थापनोपेतं देवताह्वानसंयुतम् ।। ३६०१/२ ।। विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः । तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ।। ३६११/२ ।। तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत् । विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ।। ३६२१/२ ।। महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् । त्रिशूलसहितं वापि नानादेवालयागतैः ।। ३६३१/२ ।। त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् । अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ।। ३६४१/२ ।। महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् । अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ।। ३६५१/२ ।। पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् । हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ।। ३६६१/२ ।। तच्च (मोटि) समायुक्तं उत्तमोत्तममिष्यते । तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ।। ३६७१/२ ।। तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते । पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ।। ३६८१/२ ।। समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् । नक्षत्रमधिकं त्वह्निसंग्राह्यं तिथिरेव वा ।। ३६९१/२ ।। वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे । तीर्थर्क्षद्वयसंप्राप्तावेकमासे परं वरम् ।। ३७०१/२ ।। तत्रापि योगयुक्तञ्चेत् पूर्वं संग्राह्यमेव वा । यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ।। ३७११/२ ।। तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् । लिंगे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ।। ३७२१/२ ।। मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके । नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ।। ३७३१/२ ।। जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः । द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ।। ३७४१/२ ।। वियोगे तीरदेशे तु बेरस्नपनमेव वा । कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ।। ३७५१/२ ।। नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा । आरामादौ च देवेशं तोषयेत् सर्वमंगलैः ।। ३७६१/२ ।। ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् । सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ।। ३७७१/२ ।। पूर्णाहुतिं ततो हुत्वा सर्वमंगलसंयुतम् । धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ।। ३७८१/२ ।। ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् । गर्भगेहे सुसंस्थाप्य लिंगे पीठेह्यनुक्रमात् ।। ३७९१/२ ।। देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् । तत्तत् तोयैश्च संप्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ।। ३८०१/२ ।। ततस्संपूजयेद्देवं यथाविभवविस्तरम् । ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ।। ३८११/२ ।। तृतीये पञ्चमे वापि सप्तमे नवमेव वा । एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ।। ३८२१/२ ।। कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ।। ३८३ ।। मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः । ध्वजादि तीर्थपर्यन्तं दिनसंख्यास्थिता यदि ।। ३८४ ।। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् । ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ।। ३८५ ।। लिंगे बेरे शूले ध्वजे स्नपनमाचरेत् । अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ।। ३८६ ।। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः । कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ।। ३८७ ।। नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् । चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ।। ३८८ ।। ततो ग्रामबलिं दद्यात् अन्नलिंगसमन्वितम् । त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ।। ३८९ ।। भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् । श्रीखण्ट शंखसंयुक्तं बलिकाले तु घोषणम् ।। ३९० ।। कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः । ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ।। ३९१ ।। अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे । ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ।। ३९२ ।। आचार्यं पूजयेत्कर्ता वस्त्रहेमांगुलीयकैः । अंकुरार्पणकाले च ध्वजारोहणकालके ।। ३९३ ।। यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः । अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ।। ३९४ ।। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके । दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ।। ३९५ ।। अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ।। ३९६ ।। तदर्धसंख्यया प्रोक्ता दक्षिणाकन्यसक्रमे । श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ।। ३९७ ।। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता । भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ।। ३९८ ।। उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः । संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ।। ३९९ ।। बलि होमादिसंयुक्तो बेरयात्रादि संयुतः । वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ।। ४०० ।। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् । मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ।। ४०१ ।। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् । अंकुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ।। ४०२ ।। एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् । स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ।। ४०३ ।। तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः । अस्त्रं भेरीञ्च संपूज्य भेरीं सन्ताडयेत् क्रमात् ।। ४०४ ।। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् । धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।। ४०५ ।। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे । विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ।। ४०६ ।। समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ । पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।। ४०७ ।। हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् । उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ।। ४०८ ।। फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् । वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ।। ४०९ ।। द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा । स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमंगलैः ।। ४१० ।। संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा । कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ।। ४११ ।। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् । ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ।। ४१२ ।। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् । कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ।। ४१३ ।। आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः । ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ।। ४१४ ।। प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् । सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ।। ४१५ ।। चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् । आलये बलियाने च स्यातां तीर्थं विहाय वा ।। ४१६ ।। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके । तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ।। ४१७ ।। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते । बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ।। ४१८ ।। देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ।। ४१८१/२ ।। कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् । कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ।। ४१९१/२ ।। चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः । अयने विषुवे राहु दर्शनेदमनोत्सवे ।। ४२०१/२ ।। पवित्रेमासपूजायां कृत्तिकादीपरोहणे । संवत्सरादिलेखायान्नवतोयागतावपि ।। ४२११/२ ।। पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि । अन्यस्मिन् मंगले कार्ये कुर्यादेकोत्सवं बुधः ।। ४२२१/२ ।। एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये । वारपूजादि कर्तव्या रविवारादितः क्रमात् ।। ४२३१/२ ।। पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनांगकैः । पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ।। ४२४१/२ ।। स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा । गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ।। ४२५१/२ ।। अर्कवारादि वारेषु पत्राण्येतानि योजयेत् । माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ।। ४२६१/२ ।। प्रवालं गुजवारे तु बुधे मरकतं भवेत् । सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ।। ४२७१/२ ।। इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च । सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ।। ४२८१/२ ।। तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ।। ४२९ ।। तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् । वारपूजावसाने तु वारोत्सवमथाचरेत् ।। ४३० ।। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये । ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ।। ४३१ ।। जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च । तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ।। ४३२ ।। तत्तद्वारविभेदेन गन्धादिग्रहणेन वा । संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ।। ४३३ ।। वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते । पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ।। ४३४ ।। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके । ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ।। ४३५ ।। भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् । ब्राह्मणादि त्रयाणां वा शूद्रे वांकुरपूर्वकम् ।। ४३६ ।। नगरे ध्वजपूर्वं वा मंगले भेरिपूर्वकम् । पत्तनेंकुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ।। ४३७ ।। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे । पुरादौ संकरोनोक्तः उत्सवानां द्विजोत्तमाः ।। ४३८ ।। सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः । ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ।। ४३९ ।। ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः । उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ।। ४४० ।। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः । श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ।। ४४१ ।। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः । आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ।। ४४२ ।। ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा । गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ।। ४४३ ।। पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे । एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ।। ४४४ ।। ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा । ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ।। ४४५ ।। अथवा ध्वजमूले तु देवानां बलिरेव वा । नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ।। ४४६ ।। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् । प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ।। ४४७ ।। चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः । आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ।। ४४८ ।। उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा । केत्वंकुरन्नवाहे स्यात् सप्ताहेचोत्सवांकुरम् ।। ४४९ ।। तीर्थांकुरन्तु तत्संख्ये सर्वं सर्वत्र वामतम् । मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ।। ४५० ।। निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते । कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ।। ४५१ ।। मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः । सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ।। ४५२ ।। सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते । सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ।। ४५३ ।। उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् । विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ।। ४५४ ।। अथवान्यप्रकारेण उत्सवन्तु विधीयते । ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ।। ४५५ ।। तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे । श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ।। ४५६ ।। चण्डालेन सदारेण कुर्यात् घोषयुतेन च । तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ।। ४५७ ।। बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् । आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ।। ४५८ ।। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् । स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ।। ४५९ ।। एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् । नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ।। ४६० ।। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके । यागारम्भं पुनः कुर्यादंकुरार्पणपूर्वकम् ।। ४६१ ।। एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् । बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ।। ४६२ ।। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः । विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ।। ४६३ ।। अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् । तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ।। ४६४ ।। ध्वजानष्टौ समारोप्यांकितान् लोकेशवाहनैः । तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ।। ४६५ ।। ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः । तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ।। ४६६ ।। एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् । ध्वजानामष्टसंख्यानां तद्रात्राववरोहणम् ।। ४६७ ।। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् । नानागानसमायुक्तं नानानृत्तसमन्वितम् ।। ४६८ ।। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् । सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ।। ४६९ ।। स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः । एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।। ४७० ।। नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् । प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ।। ४७१ ।। स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् । चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ।। ४७२ ।। बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् । चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ।। ४७३ ।। तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् । ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ।। ४७४ ।। बेरयात्रा विहीनं वा विधिमेनां समाचरेत् । नवान्नलिंगं कृत्वा वा दिक्पालास्त्रार्थमेव वा ।। ४७५ ।। तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् । नित्योत्सवान्नलिंगानि दश वा परिकल्पयेत् ।। ४७६ ।। द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा । जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ।। ४७७ ।। इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ।। तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि । भागं कृत्वैक भागेन पट विस्तार उच्यते ।। विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते । विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ।। वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् । श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् । रक्तशृंग समायुक्तं तद्वत्खुर समन्वितम् ।। मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः । पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ।। चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् । पूर्णकुंभयुतं वापि त्रिशूलेन युतं न वा ।। एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ।। सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः । द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ।। यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ।। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ।। उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ।। == सप्तमे पटले निराजनविधिः == नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते । प्रदोषादौ विधेयो वा धूपदीपावसानके ।। १ ।। उत्सवादौ च कर्तव्यमन्यस्मिन् मंगलेपि च । तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ।। २ ।। गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके । महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ।। ३ ।। पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च । पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ।। ४ ।। दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः । पादांगुलविवृद्ध्यातु नवांगुलसमाविधि ।। ५ ।। विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते । वसुधा मध्यमे भक्ते नवधामानमीरितम् ।। ६ ।। ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः । पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ।। ७ ।। पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् । धुर्तूरकुसुमाकारं शरवाकारमेव वा ।। ८ ।। चतुरष्टदलोपेतं सर्वालंकारसंयुतम् । एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ।। ९ ।। नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा । पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ।। १० ।। देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः । एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ।। ११ ।। कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा । वर्णभक्त हविष्यं च वटाश्वदकानि ।। १२ ।। चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् । मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ।। १३ ।। गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः । सर्वत्र दीपान्वा कुर्यान्नवसंख्यान् समुज्वलान् ।। १४ ।। घृतार्द्रांस्तैलसंयुक्तान् ब्रह्मांगसहितान्यसेत् । लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ।। १५ ।। वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः । कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ।। १६ ।। पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः । प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ।। १७ ।। तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया । संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ।। १८ ।। वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् । सर्वातोद्यसमायुक्तं शंखध्वनि समन्वितम् ।। १९ ।। गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् । स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ।। २० ।। देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् । दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ।। २१ ।। गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना । त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ।। २२ ।। संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् । आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ।। २३ ।। सोपि संगृह्य तं दीपं सप्रणामन्निवेशयेत् । सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ।। २४ ।। गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि । त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ।। २५ ।। अंगुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके । ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ।। २६ ।। पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके । देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ।। २७ ।। कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् । बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ।। २८ ।। तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु । भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ।। २९ ।। ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् । सर्वालंकारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ।। ३० ।। सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् । पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ।। ३१ ।। वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् । द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ।। ३२ ।। तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् । राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ।। ३३ ।। राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे । देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ।। ३४ ।। तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ।। ३४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः == अष्टमे पटले कृत्तिकादीपावलिविधिः == दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः । मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ।। १ ।। पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये । रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ।। २ ।। कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् । वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ।। ३ ।। रवेरस्तमयात्पूर्वं यामपादावसानकम् । कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ।। ४ ।। एवन्निश्चित्य कालन्तु कारयेद्वांकुरार्पणम् । दीपाराधनपूवेद्युरधिवासनमारभेत् ।। ५ ।। देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा । अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ।। ६ ।। दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् । स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ।। ७ ।। ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुलविवृद्धितः ।। ८ ।। पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः । द्विमात्रात् पादवृद्ध्यातु षडंगुलसमावधि ।। ९ ।। विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ।। १० ।। नवकीलं समारभ्य व्योमकीलविवृद्धितः । सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ।। ११ ।। विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् । त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ।। १२ ।। तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः । दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ।। १३ ।। दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश । योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ।। १४ ।। छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् । एकहस्तविशालन्तु द्विगुणायतसंयुतम् ।। १५ ।। दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये । कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ।। १६ ।। हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः । योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ।। १७ ।। दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते । दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ।। १८ ।। प्रतिवेदन्तु कर्तव्या दीपिका बहुसंख्यया । स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ।। १९ ।। तोरणाकारतोपिवा वृत्ताकारेण वा बहून् । प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ।। २० ।। प्रासादे गोपुरे शाले परिवारालयादिषु । मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ।। २१ ।। वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु । बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ।। २२ ।। दीपावलिरियं कार्या अधिवासनपूर्वकम् । अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ।। २३ ।। षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् । स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ।। २४ ।। ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा । शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ।। २५ ।। दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् । बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ।। २६ ।। आलये मण्टपे वापि यागमण्टप एव वा । मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ।। २७ ।। स्थण्डिलन्तत्र संकल्प्य शस्त्रेण प्रोक्षयेत् गुरुः । नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ।। २८ ।। नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः । पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ।। २९ ।। कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् । शिवाग्निं तत्र संपाद्य शिवं सांगञ्च तर्पयेत् ।। ३० ।। समिधाज्येन चरुणा ततः कार्पासबीजतः । क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ।। ३१ ।। मूलेनांगैर्दशांशेन वह्निबीजमनुस्मरन् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ३२ ।। देवं सांगं विसृज्याथ दीपानारोपयेत् गुरुः । तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ।। ३३ ।। वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु । गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ।। ३४ ।। गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः । सर्वालंकारसंयुक्तं तरुणाख्यन्तु दीपकम् ।। ३५ ।। दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् । होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ।। ३६ ।। ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च । चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ।। ३७ ।। कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च । पूर्वस्यामथवाग्नेययां कूटमेकन्तु वा नयेत् ।। ३८ ।। तोरणानि यथायोग्यन्नयेदिच्छावशेन तु । सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ।। ३९ ।। सर्वालंकारसंयुक्तं कदलीपूगसंयुतम् । एवं संपाद्य सर्वन्तु मन्दीभूते दिवाकरे ।। ४० ।। पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् । वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ।। ४१ ।। स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् । कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ।। ४२ ।। कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा । अधिवासन होमेन समं होमं समाचरेत् ।। ४३ ।। वह्नावीशे तु कूटे वा देशिको होममाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ४४ ।। अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः । पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ।। ४५ ।। आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः । पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ।। ४६ ।। एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः । सर्वालंकारसंयुक्तं मंगलांकुर शोभितम् ।। ४७ ।। वितानध्वजसंयुक्तं छत्रचामरसंयुतम् । नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ।। ४८ ।। बेरेण च समायुक्तं बेरयात्रायुतन्नवा । ग्रहस्थे ब्रह्मचारी वा दीपं संग्राह्य पाणिना ।। ४९ ।। दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् । दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ।। ५० ।। विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् । मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ।। ५१ ।। दीपारोपणकर्तारं पूजयेत् परिचारकम् । वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ।। ५२ ।। ज्योतिलिंगमनुस्मृत्य दहेत् कूटचतुष्टयम् । अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ।। ५३ ।। तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् । कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ।। ५४ ।। हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् । प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ।। ५५ ।। प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् । स्नपनं कारयेन्नो वा बेरलिंगं तदुक्तितः ।। ५६ ।। प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् । पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ।। ५७ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् । अंकुरार्पणहीनं वा क्रियामेनां समाचरेत् ।। ५८ ।। गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् । अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ।। ५९ ।। तदंगमपरं चान्यद्देशिकाय प्रदापयेत् । इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ।। ६० ।। ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः । अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ।। ६१ ।। गोशालायां विशेषेण तेषां रोगनिवृत्तये । यान्तिथिं समनुप्राप्य उदयं याति भास्करः ।। ६२ ।। सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ।। ६२१/२ ।। यदृक्षं समनुप्राप्य अस्तं याति भास्करः । तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ।। ६३१/२ ।। एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ।। ६४ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः ८ ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुल विवृद्धितः ।। पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः । द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ।। विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ।। नव कीलं समारभ्य व्योमकील विवृद्धितः । शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ।। त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् । तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ।। दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ।। लोकः ३ कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् । विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ।। करणदोषः विष्टिः चतुर्थ्यां अपरे विष्टिः अष्टम्यां पूर्वभागतः एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः दशम्यां अपरे विष्टिः चतुर्दश्यां तु पूर्वतः वैनाशिकः द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम् == नवमे पटले मार्गशीर्षे घृतस्नान डोलारोहण पुष्ये क्षौद्रपूजा विधिः == मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् । घृतस्नानसमोपेतं प्रागुक्तविधिना सह ।। १ ।। केवलस्नपनं वापि कारयित्वा विशेषतः । गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ।। २ ।। ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् । अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ।। ३ ।। बेरप्रदक्षिणं कृत्वा सर्वालंकार संयुतम् । चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ।। ४ ।। डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ।। ४१/२ ।। सर्वालंकारसंयुक्तं कृत्वा स्तम्भद्वयं तथा । स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ।। ५१/२ ।। तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् । चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ।। ६१/२ ।। नानालंकारसंयुक्ता मथबाहुद्वयान्विताम् । एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ।। ७१/२ ।। अस्त्रतोयेन संप्रोक्ष्य कल्पयेदासनं यथा । फलकायां यजेद्धंसं हृदा हंसासने यजेत् ।। ८१/२ ।। ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् । विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ।। ९१/२ ।। वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् । गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ।। १०१/२ ।। नानागानसमायुक्तन्नाना नृत्तसमन्वितम् । नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ।। १११/२ ।। अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् । प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ।। १२१/२ ।। डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च । अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ।। १३१/२ ।। पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ।। १४ ।। पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ।। १५ ।। पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः नवमः पटलः ९ डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः । सर्वालङ्कार संयुक्तं कृत्वा स्तंभद्वयं तथा ।। स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् । तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ।। चतुर्बाहु समायुक्तां ऊर्ध्व प्रच्छादनान्विताम् । नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ।। एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् । == दशमे पटले माघमासे घृतकम्बलपूजाविधिः == माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् । कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ।। १ ।। नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः । शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ।। २ ।। तदाज्यं पिण्डवत् कृत्वा कुंकुमागरुसंस्कृतम् । हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ।। ३ ।। हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् । पञ्चब्रह्मषडंगैश्च शिवेन तदनन्तरम् ।। ४ ।। विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा । विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ।। ५ ।। गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् । तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ।। ६ ।। पलाशसमिदाज्यान्न तिललाजसमन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ७ ।। घृते संपातहोमञ्च पवित्रारोहवर्त्मना । कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ।। ८ ।। कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा । संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।। ९ ।। विशेषेणार्चयित्वा तु सर्वालंकारसंयुतम् । धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।। १० ।। लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् । गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।। ११ ।। दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ।। १११/२ ।। सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च । पूर्ववत् पूजयेद्देवं गुरुं संपूजयेत्तदा ।। १२१/२ ।। दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् । अंकुरार्पणपूर्वं वा रहितं वैतदाचरेत् ।। १३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः == एकादशे पटले माघे शिवरात्रिपूजाविधिः == अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः । श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ।। १ ।। अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् । मया सह मुदा सार्धं रमन्तीप्सितमाययुः ।। २ ।। न बाध्यन्ते यमादेशात् किंकरैः क्रूरदृष्टिभिः । यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ।। ३ ।। श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् । माघमास्यासिते पक्षे विद्यते या चतुर्दशी ।। ४ ।। तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा । तस्यामेव शिवपूजा शिवलिंगे शिवालये ।। ५ ।। कृतस्नानोपवासेन पूर्वेह्नि नियतेन च । साधकेनोपचारेण कर्तव्या श्रद्धया सह ।। ६ ।। पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः । शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ।। ७ ।। आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् । अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ।। ८ ।। पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् । गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ।। ९ ।। पवित्रैः पञ्चभिः कुर्यात् पञ्चांगैश्च क्रमेण तु । पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ।। १० ।। चूर्णेनापि सपिष्टेन रजन्या धूपितेन च । अस्त्रेण शोधितेनैव शोधयेदुदकेन च ।। ११ ।। नालिकेरोदकेनैव तं पश्चादभिषेचयेत् । गन्धोदकेन मूलांगब्रह्मभिश्चाभिषेचयेत् ।। १२ ।। कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् । लिंगमाच्छाद्य देवांगाद्येन शुद्धेन वाससा ।। १३ ।। यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् । चन्दनागरुकर्पूर कुंकुमाद्यैः क्रमेण तु ।। १४ ।। मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः । दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ।। १५ ।। गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् । दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ।। १६ ।। पायसं प्रथमे यामे द्वितीये कृसरं भवेत् । गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ।। १७ ।। निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् । सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ।। १८ ।। धूपमारात्रिकोपेतं शिवाय विनिवेद्य च । होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ।। १९ ।। कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् । शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ।। २० ।। संपूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले । समादाज्य हविर्लाज तिलैर्मूलांगब्रह्माभिः ।। २१ ।। शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् । दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ।। २२ ।। कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् । वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ।। २३ ।। पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः । स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ।। २४ ।। नीत्वा जागरणं रात्रौ प्रभाते विमले ततः । कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ।। २५ ।। देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् । दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ।। २६ ।। लिंगिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि । पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ।। २७ ।। गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः । पादौ हस्तौ च संक्षाल्य पारणन्तु समाचरेत् ।। २८ ।। इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः पटलः १२ द्वादशे पटले फाल्गुनमासगन्धपूजाविधिः उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् । विशेषस्नपनोपेतं विशेषयजनान्वितम् ।। १ ।। दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि । प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ।। २ ।। तत्पादं वा तदर्धं वा कुंकुमं स्यात्तदर्धतः । पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ।। ३ ।। कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् । वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ।। ४ ।। घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना । गन्धैरालिप्य लिंगन्तु सपीठं शिवमन्त्रतः ।। ५ ।। सुगन्धपुष्पमालाभिर्भूषयेल्लिंगपिण्डिके । कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ।। ६ ।। सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये । आभिचारकृते दोषे विधानमिदमाचरेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः द्वादशः पटलः १३ त्रयोदशे पटले चैत्रमास दमन पूजा विधिः दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् । हरकोपात् पुराजातः बैरवो दमनाह्वयः ।। १ ।। दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः । प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ।। २ ।। दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि । पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ।। ३ ।। ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः । ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ।। ४ ।। तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया । सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ।। ५ ।। शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः । अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ।। ६ ।। हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव । शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ।। ७ ।। एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् । यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ।। ८ ।। पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा । ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ।। ९ ।। सायाह्नसमये प्राप्ते विदध्यादधिवासनम् । आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ।। १० ।। यथा विधिसमभ्यर्च्य भानुशंकरपावकान् । पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ।। ११ ।। सद्योजातेन मनुना दीपितं हृदयेन वा । वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ।। १२ ।। दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा । पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ।। १३ ।। फलंमूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् । पञ्चांगमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ।। १४ ।। विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति । आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।। १५ ।। कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया । इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ।। १६ ।। संयोज्य शिवमन्त्रेण विदधीत जपादिकम् । शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ।। १७ ।। पवित्रकविधानेन कवचेनावकुण्ठयेत् । एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।। १८ ।। हविस्तदनु भुञ्जीत यदि वा पवनाशनः । शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ।। १९ ।। प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् । नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ।। २० ।। दमनैः पूजयेद्देवं पञ्चांगैरपि खण्डितैः । शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ।। २१ ।। ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् । आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ।। २२ ।। पवित्रक विधानेन क्रमेण शिवमर्चयेत् । पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ।। २३ ।। सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् । चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ।। २४ ।। मखेश्वराय च मखं पूरयेति च वीप्सितम् । शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ।। २५ ।। प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् । विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ।। २६ ।। भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् । सर्वन्तदस्तु संपूर्णंपर्व दामनकं मम ।। २७ ।। एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ।। २८ ।। ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् । पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः त्रयोदशःपटलः १४ चतुर्दशे पटले चैत्रमास वसन्तोत्सवविधिः तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः । पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ।। १ ।। नानामाला समाकीर्णे नानाफलविचित्रते । नानागानसमोपेते नानावाद्यसमन्विते ।। २ ।। नानानृत्तसमायुक्ते नानायन्त्रसमन्विते । प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ।। ३ ।। पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते । आस्थानमण्टपोपेते जलक्रिडासमन्विते ।। ४ ।। देवोद्यानेनयेद्देवं सर्वालंकारसंयुतम् । ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ।। ५ ।। परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः । पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ।। ६ ।। सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् । देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ।। ७ ।। कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः । स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ।। ८ ।। वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् । ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ।। ९ ।। नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च । एवं काले तु देवेशन्नयेद्देवालयं पुनः ।। १० ।। स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् । एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ।। ११ ।। एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ।। १११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः चतुर्दशः पटलः १५ पञ्चदशे पटले वेशाखमासशीतकुम्भविधिः ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् । विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ।। १ ।। सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये । प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ।। २ ।। चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे । शीतकुम्भविधिः कार्यस्तत्तंद्दोषापनुत्तये ।। ३ ।। यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिंगमूर्धनि । वस्त्वंगुलं समारभ्यांगुलवृद्ध्याकरान्तकम् ।। ४ ।। यथान्तरं तथा कृत्वा संप्रक्षालयाम्बुना गुरुः । वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ।। ५ ।। विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः । महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ।। ६ ।। एवं कृत्वा त्रिपादींश्च विन्यसेल्लिंगपूर्धनि । मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ।। ७ ।। तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् । चतुर्द्रोणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। ८ ।। मध्यमं खारिसंपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ।। ९ ।। कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ।। १० ।। एकद्वित्र्यंघ्रिसंयुक्तन्निष्कमानकृतेन तु । युगांगुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ।। ११ ।। पिधानेन समोपेतं पल्लवेन समन्वितम् । उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ।। १२ ।। पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् । आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ।। १३ ।। ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् । प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ।। १४ ।। प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् । गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ।। १५ ।। प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् । पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ।। १६ ।। गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् । अथवाचमनीयार्थं कल्पितो गन्ध एव वा ।। १७ ।। नीरोमजन्तुकं द्रव्यं उपकुम्भे विनिक्षिपेत् । हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ।। १८ ।। नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् । तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ।। १९ ।। समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः । आप्येनामृतबीजेन संपुटेन शिवेन च ।। २० ।। आप्याधारणयोपेतं सहस्रं वा तदर्थकम् । शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ।। २१ ।। आप्याणुसंपुटं मूलं जपेत्तत्संख्यकं यथा । जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ।। २२ ।। आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् । कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ।। २३ ।। अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः । शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकांक्षिभिः ।। २४ ।। सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् । तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ।। २५ ।। सहस्रसंख्यकावास्युः अर्धसंख्या समन्विताः । शतसंख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ।। २६ ।। एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः । पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ।। २७ ।। ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः । कुर्याच्छंखस्वनोपेतं प्रत्यहं चैवमाचरेत् ।। २८ ।। नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् । नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ।। २९ ।। नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः । संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ।। ३० ।। चन्दनागरुकर्पूरकुंकुमैः प्रचुरैर्गुरुः । गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ।। ३१ ।। कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ।। ३२ ।। नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः । पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ।। ३३ ।। ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः । मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ।। ३४ ।। नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि । जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ।। ३५ ।। पूजयेत् प्रत्यहं देवं यावत्स्यात् कांक्षितं फलम् । तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ।। ३६ ।। प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् । संग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ।। ३७ ।। आभ्यां कृत्वा सुधाम्नस्तु च सुवारके आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ।। ३८ ।। सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् । घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ।। ३९ ।। शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् । निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ।। ४० ।। तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति । सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ।। ४१ ।। द्विमासंन वा त्रिमासं वा विधिमेवंन समाचरेत् । आचार्यं पूजयेदादौ वस्त्रैः पञ्चांगभूषणैः ।। ४२ ।। दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः । अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ।। ४३ ।। अन्येषामपि सर्वेषां हेमवस्त्रांगुलीयकान् । निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ।। ४४ ।। प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् । ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ।। ४५ ।। नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि । दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ।। ४६ ।। स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ।। ४६१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः पञ्चदशः पटलः १५ यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि । वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ।। यथान्तरं तथा कृत्वा सप्रक्षाल्यांबुनागुरुः । वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ।। विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः । महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ।। एवं कृत्वा त्रिपादीं च विन्यसेल्लिंग मूर्धनि । चतुर्द्राणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बपलाकारं सवस्त्रंकूर्चसंयुतम् ।। कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ।। १६ षोडशे पटले ज्येष्ठमासफलपूजाविधिः ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः । विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ।। १ ।। विशेषपूजा संयुक्तं पायसेन समन्वितम् । विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ।। २ ।। नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च । पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ।। ३ ।। कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा । वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ।। ४ ।। सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् । क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ।। ५ ।। यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः षोडशः पटलः १७ सप्तदशे पटले आषाढ मास पूर्वफल्गुनी पूजा विधिः आषाढे मासि नक्षत्रे पूर्वफाल्गुन संज्ञके । आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ।। १ ।। कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना । देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ।। २ ।। वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् । ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ।। ३ ।। तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् । ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ।। ४ ।। आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् । रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ।। ५ ।। दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् । ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ।। ६ ।। हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् । त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ।। ७ ।। स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः । एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ।। ८ ।। संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः । सक्तुभिश्च फलोपेतैस्तान् संपूज्य ह्रदा गुरुः ।। ९ ।। तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् । तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ।। १० ।। तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि । आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ।। ११ ।। प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् । अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ।। १२ ।। बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् । नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ।। १३ ।। गुडखण्ड समोपेतं सक्तु संदापयेद् गुरुः । नानापूप समायुक्तं नानाफल समन्वितम् ।। १४ ।। जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् । विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ।। १५ ।। विधाय केवलं वापि त्रिशूलेन समन्वितम् । नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ।। १६ ।। प्रभूतहविषोपेतं मुखवासेन संयुतम् । ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ।। १७ ।। वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः । सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ।। १८ ।। सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये । विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ।। १९ ।। इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा विधिः सप्तदशः पटलः १८ अष्टादशे पटले श्रावणमासे पवित्रारोहण विधिः दुरितस्य विनाशार्थं संवत्सरकृतस्य तु । पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ।। १ ।। प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् । सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ।। २ ।। पुत्रको भुक्ति भांङ्नस्यात् जन्मनैकेन रोधनात् । समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ।। ३ ।। विधातव्यं प्रयत्नेन येन केन प्रकारतः । प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ।। ४ ।। पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् । आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ।। ५ ।। अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ । पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ।। ६ ।। इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः । चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ।। ७ ।। कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् । शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ।। ८ ।। कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् । क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ।। ९ ।। दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् । त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ।। १० ।। रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः । शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ।। ११ ।। शक्तयो नव वामाद्या नव सूत्राधिपा मताः । दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ।। १२ ।। शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् । द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ।। १३ ।। तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु । यवीयसां कलासंख्या मध्याना वर्ण लक्षिताः ।। १४ ।। ज्येष्ठानां पदसंख्याता स्तन्तवो मानुषे मताः । स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ।। १५ ।। स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च । संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ।। १६ ।। समा एव गृहस्थस्य परिवारामरादिषु । तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ।। १७ ।। एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः । ग्रन्थयस्तन्तु संख्याताः स्निग्ध गर्भा नवा मताः ।। १८ ।। यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः । एकादित्र्यंगुलं वापि ग्रन्थिमानमिहागमे ।। १९ ।। ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः । रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ।। २० ।। कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् । रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ।। २१ ।। त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् । पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ।। २२ ।। यज्ञसूत्राख्यमाला च बाहुमला ततः परम् । मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ।। २३ ।। आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् । यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ।। २४ ।। क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् । आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ।। २५ ।। पवित्रमेकं सर्वेषामावृतानां विधीयताम् । एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ।। २६ ।। क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् । यागधामवृषस्थान प्रासादालय संश्रयान् ।। २७ ।। कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् । एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ।। २८ ।। प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा । मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ।। २९ ।। षोडशस्तंभसंयुक्ते रविस्तंभ युतेऽपि वा । मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ।। ३० ।। त्रिभागायामयुक्ते वा विंशति स्तंभ संयुते । मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ।। ३१ ।। तत्समन्तात् सुसंकॢप्त नव पञ्चैक कुण्डके । तत्संख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ।। ३२ ।। पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् । कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ।। ३३ ।। कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः । अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ।। ३४ ।। परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् । लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ।। ३५ ।। इष्ट्वा संप्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् । संपूज्य विधिवद्देव समीपे स्वासनेस्थितः ।। ३६ ।। आसनार्चनमारभ्य कुर्यादावाहनान्तकम् । कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ।। ३७ ।। नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् । पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ।। ३८ ।। कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् । समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ।। ३९ ।। पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च । शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ।। ४० ।। प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु । शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ।। ४१ ।। तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु । स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ।। ४२ ।। शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् । कुर्यादात्मीय भागं तु केवलेन घृतेन च ।। ४३ ।। हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् । गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ।। ४४ ।। दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् । भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ।। ४५ ।। पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् । धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ।। ४६ ।। होमद्रव्याणि सर्वाणि सकुशान्यपरानने । दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ।। ४७ ।। रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् । दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ।। ४८ ।। तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् । तांबुलं भस्म संमिश्रं दद्यात्तत्पुरुषं स्मरन् ।। ४९ ।। ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् । स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ।। ५० ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् । धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ।। ५१ ।। ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः । स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ।। ५२ ।। तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् । तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ।। ५३ ।। मण्डले वेदिकोर्ध्वे चेदत्र कुंभान्तिकेऽपि वा । संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ।। ५४ ।। मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके । संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ।। ५५ ।। गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् । अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ।। ५६ ।। त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः । दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ।। ५७ ।। याग धामवृषस्थान प्रासादानल संश्रयान् । कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ।। ५८ ।। दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् । प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ।। ५९ ।। तदेतानि पवित्राणि भगवन् संस्कृतानि हि । अर्पयामि घटस्थाय शिवायाध्येषये दिति ।। ६० ।। समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् । आदौ वा कुंभवर्धन्योर्दत्वायायाच्छिवान्तिकम् ।। ६१ ।। स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् । एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ।। ६२ ।। धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः । आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ।। ६३ ।। शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना । आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ।। ६४ ।। समस्तविधिविच्छिद्र पूरणेशमखंप्रति । प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ।। ६५ ।। तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।। ६६ ।। जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् । दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ।। ६७ ।। दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः । आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ।। ६८ ।। इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम् । अन्येषां चैव मूर्तिना/ क्रमाद्दद्यात् बहिर्बलिम् ।। ६९ ।। वायव्यांक्षेत्रपालाय दत्वाचम्य बलिं पुनः । प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ।। ७० ।। भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् । अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ।। ७१ ।। स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः । मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ।। ७२ ।। नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् । सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ।। ७३ ।। निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः । पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ।। ७४ ।। आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् । अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ।। ७५ ।। अविसर्जित देवेशात् पवित्राण्यवरोपयेत् । तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ।। ७६ ।। दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् । समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ।। ७७ ।। कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः । द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुंभयोः ।। ७८ ।। दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् । स्वासने दीपसंकॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ।। ७९ ।। मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् । शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ।। ८० ।। विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् । पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ।। ८१ ।। जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः । कुण्डमस्त्रेण संप्रोक्ष्य मेखलापरिधिस्थितान् ।। ८२ ।। सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् । दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ।। ८३ ।। प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् । दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ।। ८४ ।। नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्संप्रविश्य च । ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ।। ८५ ।। गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च । कृत्वा विशेष पूजां च विभवस्यानुसारतः ।। ८६ ।। स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् । वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ।। ८७ ।। सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् । कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ।। ८८ ।। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः । प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ।। ८९ ।। कालात्मना त्वयादेव यद्दृष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ।। ९० ।। तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् । सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ।। ९१ ।। पूरयेति द्विरुच्चार्य मखव्रत फलं ततः । नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ।। ९२ ।। आत्मतत्त्वाधिपतये शिवाय नम इत्यपि । तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ।। ९३ ।। पवित्रकत्रयंमूर्ध्नि तद्भोगी शिवादिकम् । शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ।। ९४ ।। सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ।। ९५ ।। त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे । अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ।। ९६ ।। कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ।। ९७ ।। जपहोमार्चनाहीनं कृत्यं नित्यं मया तव । अकृतं वाक्यहीनं च तत्पूरय महेश्वर ।। ९८ ।। सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् । त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ।। ९९ ।। खण्डितं यन्मया देव व्रत वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञासूत्रगुंभितम् ।। १०० ।। जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् । गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ।। १०१ ।। अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा । अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ।। १०२ ।। एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् । व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ।। १०३ ।। सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते । शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ।। १०४ ।। वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्संप्रविश्य च । देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ।। १०५ ।। दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः । प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ।। १०६ ।। मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् । तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ।। १०७ ।। सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः । लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ।। १०८ ।। स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने । ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ।। १०९ ।। व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् । भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ।। ११० ।। मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् । भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ।। १११ ।। वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके । हृदये संनिवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ।। ११२ ।। परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः । शिवकुंभास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ।। ११३ ।। ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् । दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ।। ११४ ।। रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् । आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ।। ११५ ।। निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि । लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ।। ११६ ।। पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् । दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ।। ११७ ।। इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः अष्टादश पटलः १९ एकोनविंशत्तमे पटले नवनैवेद्यविधिः अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् । मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ।। १ ।। अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् । निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ।। २ ।। विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके । शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ।। ३ ।। नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् । मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ।। ४ ।। चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् । चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ।। ५ ।। हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् । पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ।। ६ ।। सलक्षणेन दात्रेण पूजितेनैव हेतिना । प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ।। ७ ।। शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् । तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ।। ८ ।। तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् । नालिकेरफलोपेतं नवपूगफलान्वितम् ।। ९ ।। मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् । नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ।। १० ।। पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः । आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ।। ११ ।। नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् । नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ।। १२ ।। ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति । पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ।। १३ ।। कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् । विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ।। १४ ।। वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा । गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ।। १५ ।। चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् । तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ।। १६ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् ।। १६१/२ ।। नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा । स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ।। १७१/२ ।। मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले । पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ।। १८१/२ ।। अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन् । तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ।। १९१/२ ।। कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद् गुरुः । धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ।। २०१/२ ।। नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् । तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ।। २११/२ ।। नवपूगफलोपेतं देव्यै च विनिवेदयेत् । सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ।। २२१/२ ।। अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् । वृषादिपरिवारेभ्यो होमकर्म समापयेत् ।। २३१/२ ।। नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् । बलिदानसमोपेतमतिथीनां समर्पणम् ।। २४१/२ ।। निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् । तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ।। २५१/२ ।। हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् । सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ।। २६१/२ ।। वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः । एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ।। २७१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः एकोनविंशतितमः पटलः २० विंशतितमे पटले समयविशेषदीक्षा विधिः अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् । आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः । सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ।। २ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत् । आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ।। ३ ।। पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् । वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ।। ४ ।। प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ।। ५ ।। प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् । तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ।। ६ ।। पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च । अस्त्रेण पार्ष्णिंघातस्य त्रयं कृत्वाथ भूगतान् ।। ७ ।। कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः । छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ।। ८ ।। दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् । अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ।। ९ ।। वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि । संपूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ।। १० ।। वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः । उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ।। ११ ।। सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः । विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ।। १२ ।। अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् । तदम्भसा तु संप्रोक्ष्य स्वशिरोद्रव्य संहितम् ।। १३ ।। अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् । हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ।। १४ ।। शिवहस्तं च संकल्प्य तदारोपितमस्तकः । ज्ञानासिं तत्वसंख्यातैश्चतुरूनैरथापि वा ।। १५ ।। दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् । कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ।। १६ ।। मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते । पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ।। १७ ।। शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः । सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ।। १८ ।। रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत् । गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ।। १९ ।। एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् । अमृतीकृत्य संपूज्य शिवेनैकत्वमाचरेत् ।। २० ।। मण्डपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत् । लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ।। २१ ।। हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः । नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ।। २२ ।। कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः । कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ।। २३ ।। विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् । वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ।। २४ ।। हेमाद्येकतमं कुम्भमानीय गलिताम्मसा । पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ।। २५ ।। संहृतौ विकिरास्त्राणामासनं तु चलाचलम् । संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ।। २६ ।। वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् । विन्यसेदस्त्रभूतांतां प्रत्यङ्गनालसमन्विताम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः । इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ।। २८ ।। वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः । विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ।। २९ ।। घटस्थं कलशस्थं वा कुंभस्थं वाजयेद्गुरुः । तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ।। ३० ।। भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ।। ३१ ।। सर्वेषां लोकपालानामनेन क्रमयोगतः । शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ।। ३२ ।। विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् । स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ।। ३३ ।। मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् । पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ।। ३४ ।। सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः । भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ।। ३५ ।। संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा । मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ।। ३६ ।। स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा । उमायै भगरूपिण्यै लिङ्ग रूपधराय च ।। ३७ ।। शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च । यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।। ३८ ।। एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ।। ३९ ।। रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि । यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ।। ४० ।। अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा । निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ।। ४१ ।। वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् । अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ।। ४२ ।। मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् । विशेषपूजयोपेतं पावके शिवमर्चयेत् ।। ४३ ।। भगवन् देहमाविश्य मदीयमनुकम्पया । कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनां ।। ४४ ।। संप्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः । मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ।। ४५ ।। उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् । सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ।। ४६ ।। यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः । होमाधि करणत्वेन पावकस्थस्सदाशिवः ।। ४७ ।। शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः । अनुग्रहकरो देवो मम देहे व्यवस्थितः ।। ४८ ।। पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः । अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ।। ४९ ।। ममापि हृदयादीनि साधनानि न संशयः । स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ।। ५० ।। यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः । त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ।। ५१ ।। अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः । भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ।। ५२ ।। विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः । सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ।। ५३ ।। तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर । प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ।। ५४ ।। कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् । उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ।। ५५ ।। द्वारस्य संमुखं बाह्ये प्रणवे कुशमण्डले । शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ।। ५६ ।। वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् । नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ।। ५७ ।। अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः । पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ।। ५८ ।। तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् । स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ।। ५९ ।। संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् । करोमि गुणसंपन्नं सतां मस्तकभूषणम् ।। ६० ।। ततस्संप्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना । दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ।। ६१ ।। उल्लिखेत् पाशसंतानं प्रवृत्तकरणोन्मुखम् । सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ।। ६२ ।। अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा । संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ।। ६३ ।। प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् । शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ।। ६४ ।। प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् । धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ।। ६५ ।। गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् । शासनेन सदेहेन शिवेन समधिष्ठितम् ।। ६६ ।। शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् । हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ।। ६७ ।। सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना । रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ।। ६८ ।। कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः । ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ।। ६९ ।। न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् । अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ।। ७० ।। सहसालोकितेशान शिववक्त्रसरोरुहम् । यात्तमङ्गमुञ्चेति प्रसूनं शिवसंमुखम् ।। ७१ ।। स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् । तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ।। ७२ ।। नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् । क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ।। ७३ ।। शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् । सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ।। ७४ ।। नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने । संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ।। ७५ ।। दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः । पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ।। ७६ ।। स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः । दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ।। ७७ ।। प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च । शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ।। ७८ ।। पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः । शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ।। ७९ ।। विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् । शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ।। ८० ।। हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति । आहारभावदोषाभ्यां योनि बीजशरीरतः ।। ८१ ।। शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर । रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ।। ८२ ।। अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः । इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ।। ८३ ।। प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः । विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ।। ८४ ।। मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके । समानीय ध्रुवेणैव संपूज्य शिशुमस्तकात् ।। ८५ ।। संहारमुद्रया स्वस्य हृदये पूरकेण तु । प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ।। ८६ ।। रेचकेन प्रयोगेण केशेशानसदाशिवान् । नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ।। ८७ ।। संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः । दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ।। ८८ ।। शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु । एवं समयसंस्कारयुक्तो यश्शिवपूजने ।। ८९ ।। होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च । योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ।। ९० ।। ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः । शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ।। ९१ ।। सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ।। ९११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः पटलः २१ एकविंशत्तमे पटले स्थालीपाकविधिः स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने । स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ।। १ ।। प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च । निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ।। २ ।। कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा । मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ।। ३ ।। वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके । षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ।। ४ ।। शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत् । पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ।। ५ ।। चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च । संमृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ।। ६ ।। दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् । आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ।। ७ ।। द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् । चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ।। ८ ।। चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् । विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ।। ९ ।। उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् । स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ।। १० ।। हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि । तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ।। ११ ।। प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् । सुशीतले भवेत्येवं वौषट्पल्लवया तथा ।। १२ ।। शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् । संमृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ।। १३ ।। अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले । पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ।। १४ ।। शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत् । एवं संपादितेनैव चरुणा होम-इष्यते ।। १५ ।। तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् । हविष्यचतुरंशेन होमकर्माथवा मतम् ।। १६ ।। होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः । पञ्चगोचर संस्थाय समस्तागमवेदिने ।। १७ ।। शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि । शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ।। १८ ।। हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि । आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ।। १९ ।। परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि । पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ।। २० ।। प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकांक्षिभिः । एतेषामन्यथाभावे सर्वं भवति चान्यथा ।। २१ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः एकविंशतितमः पटलः २२ द्वाविंशत्तमे पटले स्वप्नाध्याय विधिः अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः । दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ।। १ ।। तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति । लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ।। २ ।। संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि । षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ।। ३ ।। मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि । शीघ्रमेव फलं तस्य भविष्यति न संशयः ।। ४ ।। रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् । प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ।। ५ ।। मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् । यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ।। ६ ।। चन्द्रार्क तारग्रसनं परिमार्जनमेव च । भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ।। ७ ।। श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् । सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ।। ८ ।। गन्धर्व नगरं वापि देवगन्धर्व योषिताम् । दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ।। ९ ।। जातरूपमयं छत्रं श्वेतमाला विभूषितम् । चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ।। १० ।। तेषामारोहणं शस्तं तत्फलानां च संग्रहः । तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ।। ११ ।। गो सिंह वृषभाणां च वीक्षणारोहणे हिते । सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ।। १२ ।। सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् । तरणं निम्नगाम्भोधि काननानां जलस्य च ।। १३ ।। प्रशस्तं दोहनं कर्म महिषीणां गवामपि । सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ।। १४ ।। प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् । पयसः पाटलाया गोः पानं यद्वत्सलीलया ।। १५ ।। दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् । एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ।। १६ ।। सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् । एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ।। १७ ।। अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च । चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ।। १८ ।। पशुसिंह गजानां च लाभो युद्धे विशेषतः । अध्यापनं च शास्त्राणामन्नलेपनमेव च ।। १९ ।। तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च । बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ।। २० ।। सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः । श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ।। २१ ।। सरोजस्यातपत्रस्य मणीनां दर्पणस्य च । दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ।। २२ ।। विमलस्यांभसश्शस्तं दर्शनं हाटकस्य च । राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ।। २३ ।। देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि । सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ।। २४ ।। एतेषामपि पनेन राज्यं संप्राप्नुयान्नरः । शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ।। २५ ।। रूपयौवन संपन्नां श्रियंवा तादृशीमपि । उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ।। २६ ।। कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् । तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ।। २७ ।। दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा । भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ।। २८ ।। जयं विवादद्युतादौ संग्रामे विजयं तथा । कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ।। २९ ।। निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा । दृष्ट्वाग्निं संग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ।। ३० ।। नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् । तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ।। ३१ ।। परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च । निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ।। ३२ ।। निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् । स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ।। ३३ ।। हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः । पात्रे मणिमये वाथ राजते वाथ भोजनम् ।। ३४ ।। सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् । लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ।। ३५ ।। मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः । पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ।। ३६ ।। बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् । शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ।। ३७ ।। चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वंच पश्यति । ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ।। ३८ ।। छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः । पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ।। ३९ ।। छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् । लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ।। ४० ।। सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते । धनधान्यमवाप्नोति सर्वाभरण भूषितः ।। ४१ ।। आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ।। ४२ ।। चक्रं च पूर्ण कुंभं च श्रीवत्सं स्वस्तिकं तथा । सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ।। ४३ ।। शिवागमादि शब्दानां श्रवणं धनदं भवेत् । गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ।। ४४ ।। देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् । ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ।। ४५ ।। पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि । उद्यानारामकरणं शुभप्रदमिहोच्यते ।। ४६ ।। आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् । बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसंग्रहः ।। ४७ ।। स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् । गणानां विबुधानां च सुधापानं नभोगतिः ।। ४८ ।। इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् । भूवस्त्रलाभ पर्यङ्कशयया दाहोंबरस्य च ।। ४९ ।। आसनस्य च दाहो वा नावा रोहणमेव च । नवशुक्लांबरत्वं च तथा शुद्धोदनाशनम् ।। ५० ।। मधुनः पङ्कजस्येव जननं हननं स्वकम् । शंखपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ।। ५१ ।। दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन । अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ।। ५२ ।। लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः । पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ।। ५३ ।। बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् । हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ।। ५४ ।। विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् । उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ।। ५५ ।। सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः । चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ।। ५६ ।। अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः । रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ।। ५७ ।। भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च । नर्तनं ग्रसनं चैव विवाहो गीतमेव च ।। ५८ ।। तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् । स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ।। ५९ ।। पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः । चितायां रोहणं शक्रध्वजस्य पतनं तु वा ।। ६० ।। सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् । दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ।। ६१ ।। देव द्विजादि भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।। ६२ ।। हानिश्चैव स्वगात्राणां विरेकवमनक्रिये । दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ।। ६३ ।। गृहणाञ्चैव पातश्च गृह संमार्जनं तथा । पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ।। ६४ ।। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ।। ६५ ।। स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् । क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ।। ६६ ।। नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा । रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ।। ६७ ।। नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा । विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ।। ६८ ।। पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च । प्लवनं भग्नयानत्वमशुभाय भविष्यति ।। ६९ ।। सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः । द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ।। ७० ।। छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता । प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ।। ७१ ।। कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने । कार्पासतिल मूलादि लोहानि लभते च यः ।। ७२ ।। स्वस्थश्च लभते व्याधितो मृत्युमृच्छति । भग्न ध्वजाधिकं भग्नं छत्रंदृष्ट्वाऽशुभं लभेत् ।। ७३ ।। एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् । तथैवहसनं भुक्तिरोदनस्य तिलैः सह ।। ७४ ।। अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् । कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ।। ७५ ।। दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः । संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ।। ७६ ।। यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् । हीननृत्तसमजश्च नाभेरन्य प्रदेशके ।। ७७ ।। तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च । खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ।। ७८ ।। सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् । स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ।। ७९ ।। नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः । व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ।। ८० ।। आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः । सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ।। ८१ ।। परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि । अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ।। ८२ ।। शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् । पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ।। ८३ ।। शोषणं कथिताख्यं च तोयपानं प्रमेहिणः । हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ।। ८४ ।। रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति । भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ।। ८५ ।। आदित्यचन्द्रताराणां मलिनत्वमशोभितम् । पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ।। ८६ ।। ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् । दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ।। ८७ ।। काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा । पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ।। ८८ ।। पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा । गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ।। ८९ ।। निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् । म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ।। ९० ।। कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा । कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ।। ९१ ।। निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् । अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ।। ९२ ।। सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् । वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ।। ९३ ।। कृष्णकीटं च गांकृष्णां पश्येच्चेद्भयमाप्नुयात् । एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ।। ९४ ।। काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् । वह्नियान रथादीनां छत्रादीनां च भग्नता ।। ९५ ।। विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः । धूमायमानमात्मानं शिरोमुण्डनमेव च ।। ९६ ।। बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् । यवागू मारनालं वा पिपेद्धन विनाशनम् ।। ९७ ।। तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे । मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ।। ९८ ।। कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता । वर्तितैलतिलादीनामञ्जनालेपनं तथा ।। ९९ ।। अन्धकारनिवेशस्तु महामार्गगतिस्तुवा । संन्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ।। १०० ।। तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि । रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ।। १०१ ।। अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् । अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ।। १०२ ।। तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः । पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ।। १०३ ।। वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् । भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ।। १०४ ।। देवताश्च द्विजातिश्च पितरो योगिनो नृपः । यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ।। १०५ ।। एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च । लिंगं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ।। १०६ ।। यद्धातु प्रकृतिर्येन धातुना वापि दूषितः । तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ।। १०७ ।। यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् । तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ।। १०८ ।। तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे । दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ।। १०९ ।। समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् । प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ।। ११० ।। अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत् । द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ।। १११ ।। आचारेणाथ धर्मेण विद्यया वाथ यस्यतु । श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ।। ११२ ।। अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् । आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ।। ११३ ।। ब्राह्मण समयाख्येन संस्कारेण समन्वितः । निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ।। ११४ ।। नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् । आदौ समानदीक्षायां सत्यामपि च यत्र तु ।। ११५ ।। नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् । जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ।। ११६ ।। नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् । परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ।। ११७ ।। ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया । न संमान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ।। ११८ ।। एकदेशिक शिष्याणा माचारः परिकीर्तितः । किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ।। ११९ ।। तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकांक्षिभिः ।। १९९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः पटलः २३ त्रयोविंशत्तमे पटले निर्वाण दीक्षा विधिः निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् । आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः । सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ।। २ ।। पश्चिमद्वार मार्गेण संप्रविश्य मखालयम् । कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ।। ३ ।। भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् । कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ।। ४ ।। विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च । निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ।। ५ ।। कुंभं च वर्धनीं तत्र संपूज्य परितो गुरुः । लोकपालानथाभ्यर्च्य तेषां आज्ञां तु श्रावयेत् ।। ६ ।। भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च । मण्डले देव देवेशं इष्ट्वाऽग्नौ तर्पयेन्मनून् ।। ७ ।। भगवन् देहमाविश्य मदीयमनु कंपया । अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ।। ८ ।। इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् । सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ।। ९ ।। यज्ञस्य रक्षकः कुंभे पावके होम कारणम् । शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ।। १० ।। पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः । मन्त्राः कारणभूता ये शिवस्य हृदयादयः ।। ११ ।। ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि । संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ।। १२ ।। परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः । उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ।। १३ ।। तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम । पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृंहितः ।। १४ ।। आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसंमुखम् । आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ।। १५ ।। नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह । कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ।। १६ ।। अघोर संपुटं कृत्वा शिवं साङ्गं फटन्तकम् । कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ।। १७ ।। आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् । कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।। १८ ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः । संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ।। १९ ।। अंगुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् । सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ।। २० ।। सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत् । संपूज्यगंध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ।। २१ ।। संनिधानाय मूलेन चाहुति त्रयमाचरेत् । शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ।। २२ ।। संताड्य हृदयं तस्य रेचकेन प्रविश्य च । हुंकारं उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ।। २३ ।। हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा संगृह्यमूलतः । द्वादशान्ते न्यसेत् शिष्य जीवं हृदय संपुटम् ।। २४ ।। सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया । सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ।। २५ ।। हुत्वाहुतित्रयं तस्य संविधानाय मूलतः । मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ।। २६ ।। शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः । शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ।। २७ ।। पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम् । संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ।। २८ ।। शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् । उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ।। २९ ।। अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः । कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ।। ३० ।। गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् । व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ।। ३१ ।। मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च । व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ।। ३२ ।। व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः । तासांच संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ।। ३३ ।। स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि । शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ।। ३४ ।। तासांच दीपनं कार्यमोङ्कारादि फडन्तकम् । अघोरबीजं मूलं च शान्त्यतीतकलामपि ।। ३५ ।। चतुर्थ्यन्तं समुच्चार्य हुंकारं तु समुच्चरन् । त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ।। ३६ ।। आहुतीनांत्रयं हुत्वा पाशबन्धनमाचरेत् । शिरः संताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ।। ३७ ।। भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् । व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ।। ३८ ।। हुंफडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् । शिवं संपुटितं स्वस्वबीजं च भगवत् पदम् ।। ३९ ।। कलाचतुष्टयंपाशं मल तत्वादिव्यापकम् । बन्ध बन्ध पदंचोक्त्वा हुंफषन्त समन्वितम् ।। ४० ।। पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् । तत्सूत्रं च समादाय शरावयुग संपुटम् ।। ४१ ।। कृत्वासंपात होमंच तत्सूत्रं मण्डलाधिपे । निवेद्य तस्य रक्षार्थं शिवकुंभान्तिकं न्यसेत् ।। ४२ ।। प्रणतिं कारयित्वा च शिवेन शिवकुंभके । आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ।। ४३ ।। पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् । शुचौ सावरणे देशे विविक्ते लेपिते भुवः ।। ४४ ।। पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया । भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ।। ४५ ।। निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् । अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ।। ४६ ।। उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना । चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ।। ४७ ।। तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् । चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ।। ४८ ।। अष्टग्रासप्रमाणंतु पुटके ब्रह्मवृक्षके । मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ।। ४९ ।। अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः । शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ।। ५० ।। कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् । मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ।। ५१ ।। राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः । आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ।। ५२ ।। अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् । मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ।। ५३ ।। इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् । स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ।। ५४ ।। सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च । पूर्वयाम्योत्तमाङ्गासु शययासु कुशभस्मना ।। ५५ ।। परस्परमलग्नासु सोपधानासु पार्श्वतः । चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ।। ५६ ।। अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसंख्यया । हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ।। ५७ ।। वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः । अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः संकल्प्य बाह्यतः ।। ५८ ।। स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ । दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ।। ५९ ।। चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये । विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ।। ६० ।। प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् । प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ।। ६१ ।। निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके । शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ।। ६२ ।। चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् । पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ।। ६३ ।। अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः । शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ।। ६४ ।। घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः । शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ।। ६५ ।। आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे । अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ।। ६६ ।। करोम्यनुग्रहं देव शिशो रध्येषयेदिति । लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ।। ६७ ।। निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् । पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ।। ६८ ।। कालाग्निरथकुऽऽमाण्डं हाडकं ब्राह्मवैष्णवौ । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ।। ६९ ।। कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।। ७० ।। अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। ७१ ।। याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ।। ७२ ।। निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।। ७३ ।। बलो ह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। ७४ ।। मेघनादः सुनादश्च दशमः परिकीर्तितः । शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ।। ७५ ।। पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ।। ७६ ।। लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः । विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ।। ७७ ।। सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः । वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।। ७८ ।। ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ । शंभुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।। ७९ ।। संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः । वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ।। ८० ।। कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले । याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ।। ८१ ।। बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ।। ८२ ।। वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः । भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ।। ८३ ।। एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः । नमोद्वयं प्रणवं षडक्षरमतः परम् ।। ८४ ।। सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा । शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ।। ८५ ।। पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् । साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ।। ८६ ।। अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित । ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ।। ८७ ।। सर्वभूतसुखप्रद भवोद्भवपदं ततः । भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ।। ८८ ।। मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् । महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ।। ८९ ।। महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः । निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ।। ९० ।। ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् । इत्युच्चार्य निवृत्तिं तु सूत्रात्संग्राह्य पावले ।। ९१ ।। आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् । मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ।। ९२ ।। भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः । तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ।। ९३ ।। वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् । हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ।। ९४ ।। संनिधीभव देवेशि पश्वनुग्रहकर्मणि । प्रार्थैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ।। ९५ ।। अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च । स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ।। ९६ ।। अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया । आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ।। ९७ ।। तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् । सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ।। ९८ ।। पूरकेन हृदि स्वस्य संनिवेश्य च कुम्भकम् । कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ।। ९९ ।। आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया । सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ।। १०० ।। स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् । भगवन् देव देवेश शिशोस्सर्वासु योनिषु ।। १०१ ।। संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् । निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ।। १०२ ।। भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच । सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ।। १०३ ।। ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् । भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ।। १०४ ।। इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च । मूलहुतित्रयं दत्वा शिवंप्रतिवदेदिदम् ।। १०५ ।। भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति । कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ।। १०६ ।। भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ । कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ।। १०७ ।। प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु । देशतः कालतश्चैव देहेन विषयेण च ।। १०८ ।। संचितागामिभेदेन भोगन्नाना विधं स्मरन् । भोक्तृत्व लिंगितेपुंसि सुखदुःखात्मवेदनम् ।। १०९ ।। मूलाहुतित्रयं दत्वा शिवंसंप्रार्थयेदिति । भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ।। ११० ।। परमप्रीति रूपं च भोगेषु संस्मरन् । शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ।। १११ ।। लयंच कुरु कुर्वीति शिशोः निर्वाण कर्मणि । जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ।। ११२ ।। हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् । सर्वकर्मसु शुद्धिंच निष्कृत्या कुरु कुर्वणोः ।। ११३ ।। भगवन्निति विश्लेषम् भोगाभावादणोरिह । बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ।। ११४ ।। मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् । मलकार्यंच भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ।। ११५ ।। दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् । मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ।। ११६ ।। अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह । स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ।। ११७ ।। भगवन्नात्मनो मायाफल कर्मात्मकं त्विह । विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ।। ११८ ।। ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु । अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ।। ११९ ।। आहुतीनां त्रयं दत्वा निवृत्तिछेदननंत्विह । भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ।। १२० ।। अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः । संभाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ।। १२१ ।। ओंब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत् । शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ।। १२२ ।। आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः । कारणेशत्वयानास्य धातुः पदमनामयम् ।। १२३ ।। प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी । ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ।। १२४ ।। निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् । ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ।। १२५ ।। निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः । कुरुकुर्वीति संहारमुद्रया पूरकेन तु ।। १२६ ।। कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् । आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ।। १२७ ।। वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत् । आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ।। १२८ ।। अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् । त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ।। १२९ ।। गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च । पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ।। १३० ।। मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् । तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ।। १३१ ।। चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च । अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ।। १३२ ।। अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः । डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ।। १३३ ।। हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ । मध्यमेशो महाकालः केदारो भैरवस्तथा ।। १३४ ।। गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा । विमलेशोऽट्टहासश्च महेन्द्रो भीमसंज्ञकः ।। १३५ ।। वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः । गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।। १३६ ।। झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ।। १३७ ।। पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ।। १३८ ।। अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ । कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ।। १३९ ।। अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि । गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ।। १४० ।। झगलण्डाद्यहंकारे पैशाचाद्यं मनौस्थितम् । प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ।। १४१ ।। महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः । महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ।। १४२ ।। ततश्शर्वपदंचोक्तं शिवेति च ततः परम् । निधनोद्भवसंज्ञं च निधनाख्य पदं ततः ।। १४३ ।। अनिधनपदं चैवम् ओंस्वक्षःपदमतः परम् । ओंभुवश्चपदं चान्यदोंभूः पदमतः परम् ।। १४४ ।। चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः । अनादे तुपदं चान्यदभस्मेति पदं ततः ।। १४५ ।। अधूमपदमन्यच्च अनग्नीति पदं ततः । अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ।। १४६ ।। तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि । अरूपिन् पदयुग्मंच पदान्येकं च विंशतिः ।। १४७ ।। प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् । इत्युक्त संख्यत त्वार्णंपदमन्त्रैस्त्रिविष्टपैः ।। १४८ ।। गर्भितां तामनुस्मृत्य संतधीतोपभुक्त्या । शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ।। १४९ ।। वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् । सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ।। १५० ।। ओं ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् । नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ।। १५१ ।। कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् । निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ।। १५२ ।। हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् । कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ।। १५३ ।। रागो नियतिविद्ये च कलाकालौ च मोहिनी । ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ।। १५४ ।। मन्त्रश्शिखा पुराणीह सप्तविंशतिसंख्यया । वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ।। १५५ ।। प्रचण्डोमापती चाजोऽनन्तैकशिवसंज्ञकौ । क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ।। १५६ ।। पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः । वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ।। १५७ ।। एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः । षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ।। १५८ ।। अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि । पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ।। १५९ ।। व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् । परमेश्वर परायेति पदं चैव पुनर्भवेत् ।। १६० ।। ज्योतिरूपायसंज्ञं च सर्वयोगाद्यमेव च । पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ।। १६१ ।। गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः । पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ।। १६२ ।। शिवायेति पदं सर्वप्रभवेति ततः । शिवायेति पदं पश्चाद् ओं पदमन्ततः ।। १६३ ।। ध्यानाहारायसंज्ञं च कीर्तितानि पदानि च । संधानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ।। १६४ ।। निष्कृतिं शिखया दत्वा शतहोमं विधाय च । रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ।। १६५ ।। भवाख्यं पदमेतत्तु कलात्रितयगोचरम् । भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ।। १६६ ।। अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् । बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ।। १६७ ।। अनुकूलमसंकीर्णमनासक्तिनिबन्धनम् । विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ।। १६८ ।। तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः । वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ।। १६९ ।। वामा ज्येष्ठा च रौद्री च काली कलविकरणी । बलविकरणी चैव बलप्रमथनीत्यपि ।। १७० ।। सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् । पुराणि नव विद्यायामनन्तस्सूक्ष्मसंज्ञकः ।। १७१ ।। शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ।। १७२ ।। सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु । एकादशपदान्यासन्नित्यंयोगिन इत्यपि ।। १७३ ।। योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः । ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ।। १७४ ।। अनाथायपदं प्रोक्तमनन्तायपदं पुनः । शिवायेतिपदं सर्वव्यापिने च पदं ततः ।। १७५ ।। व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च । निष्कृतौ शतहोमं तु कवचेन समाचरेत् ।। १७६ ।। सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती । ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ।। १७७ ।। शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् । बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ।। १७८ ।। ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।। १७९ ।। पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् । इन्धिका दीपिका चैव रोचिका मोचिका तथा ।। १८० ।। तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु । व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ।। १८१ ।। अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता । भुवनानि तु शाक्तानि पञ्चैव कथितानि च ।। १८२ ।। एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् । ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ।। १८३ ।। संपूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् । कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।। १८४ ।। निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् । अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ।। १८५ ।। ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् । समयं समयाचारं शक्तो पाशात्मके न्यसेत् ।। १८६ ।। समयं समयाचारपाशशुद्धिं महेश्वर । शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ।। १८७ ।। शिवबीजं समुच्चार्य सदाशिवपदं पुनः । मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ।। १८८ ।। पूर्ववत्संविसृज्यात्म सूत्रं संगृह्य निर्मलम् । रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ।। १८९ ।। शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् । संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ।। १९० ।। पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् । शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ।। १९१ ।। आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः । आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ।। १९२ ।। नमः प्रणवसंयुक्तमुक्त्वा संपूज्य सन्निधौ । विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ।। १९३ ।। सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् । सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ।। १९४ ।। मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति । शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ।। १९५ ।। शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः । मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ।। १९६ ।। अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् । ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ।। १९७ ।। संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् । छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ।। १९८ ।। आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् । स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ।। १९९ ।। ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि । प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ।। २०० ।। अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः । यावत्वयं परं धाम भगवन् परमेश्वर ।। २०१ ।। शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् । एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ।। २०२ ।। समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसंमुखम् । शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ।। २०३ ।। अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् । सकलीकृतमन्त्राणामेकैकाहुतिदानतः ।। २०४ ।। सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे । विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ।। २०५ ।। इन्धिका दीपिका चैव रोचिका मोचिका तथा । तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ।। २०६ ।। बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः । आभिः कलाभिस्संकॢप्तदेहयुग्देशिकोत्तमः ।। २०७ ।। व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता । अनाथानाश्रिता चेति बहिः करणसंयुतः ।। २०८ ।। अन्तः करणसंयुक्तस्समनाकल्पितं च तत् । आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ।। २०९ ।। कृत्वा पूरककुम्भौ तु जिह्वासंबद्धतालयुक् । ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ।। २१० ।। सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि । नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ।। २११ ।। सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसंनिभम् । संभाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ।। २१२ ।। शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु । व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ।। २१३ ।। समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया । शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ।। २१४ ।। योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् । तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ।। २१५ ।। यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः । साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ।। २१६ ।। न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते । स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ।। २१७ ।। होमयेद् देशिको धीमान् प्रयोगेणामुना यथा । सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ।। २१८ ।। अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् । आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ।। २१९ ।। इत्येवं कथिता दीक्षा सर्वपापविमोचनी । चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ।। २२० ।। न्यायजा गूढजाता वा दीक्षायामधिकारिणः । जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकांक्षिणः ।। २२१ ।। दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया । अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ।। २२२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः पटलः २४ चतुर्विंशत्तमे पटले आचार्याभिषेक विधिः अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि । आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ।। १ ।। यत्र विप्राः सदाचाराः यतयश्च तपोधनाः । सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ।। २ ।। एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः । ककाराष्टक निर्मुक्तः प्रसंङ्गात् सोऽपि कथ्यते ।। ३ ।। कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः । कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ।। ४ ।। आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु । विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ।। ५ ।। दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे । स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ।। ६ ।। व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके । सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ।। ७ ।। विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च । ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ।। ८ ।। वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते । स्वार्थेष्टौ चल लिंगस्य प्रतिष्ठायां त्रयस्विमे ।। ९ ।। शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके । बाणलिंगेक्षणेवापि स्थापको यदि नैष्ठिकः ।। १० ।। आचार्यं गौलकं चैव दयित परिवर्तकम् । तथैव पारवेत्तारं देवलं च पुनर्भवत् ।। ११ ।। अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा । खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ।। १२ ।। अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा । असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ।। १३ ।। अथव्यसनिनं पारदारिकं वृषलीपतिम् । चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ।। १४ ।। परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् । परापवाद शीलं च तथा बहुकिणैर्वृतम् ।। १५ ।। सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् । बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ।। १६ ।। चपलं शठसञ्जारं वृद्ध्या जीवन मेव च । शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ।। १७ ।। सांख्ये विविधभेदे च मायावादेऽर्हतो मते । बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ।। १८ ।। अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके । सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ।। १९ ।। भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च । सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ।। २० ।। काव्य नाटकसक्तं च भरते तु निरन्तरम् । कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरं ।। २१ ।। ज्योतिज्ञानपरंवेद पुराणहित चेतसम् । तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ।। २२ ।। कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ।। २३ ।। शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च । चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ।। २४ ।। शैवार्थ देहिके हित्वा विचारं सन्ततं नरः । योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ।। २५ ।। अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् । अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ।। २६ ।। दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् । समान गोत्र संबन्धं कुसुमाक्षं च वर्जयेत् ।। २७ ।। इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि । अभिषेकं ततःकुर्यात् अंकुरार्पण पूर्वकम् ।। २८ ।। पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ । मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ।। २९ ।। अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् । चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ।। ३० ।। स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् । भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ।। ३१ ।। लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया । बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ।। ३२ ।। काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः । सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ।। ३३ ।। नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् । घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ।। ३४ ।। स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् । चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ।। ३५ ।। सदेशानेन विद्येशैः नवपञ्चपवित्रकैः । पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ।। ३६ ।। शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् । अथवा कलशानेकघटं वा शिव संयुतम् ।। ३७ ।। दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् । भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ।। ३८ ।। स्वासनेन तथा सम्यक् अर्चितं विभवेन वा । वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ।। ३९ ।। शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः । परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ।। ४० ।। सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च । आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ।। ४१ ।। पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् । आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ।। ४२ ।। ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः । करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ।। ४३ ।। दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः । पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ।। ४४ ।। राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः । आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ।। ४५ ।। दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ । तथैवं देव देवाय देशिकाय मयाकृतम् ।। ४६ ।। त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति । विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ।। ४७ ।। निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् । स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ।। ४८ ।। दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् । हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ।। ४९ ।। तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् । शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ।। ५० ।। अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः । तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ।। ५१ ।। अनेनैव प्रकारेण साधकं चाभिषेचयेत् । किंतु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ।। ५२ ।। दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः । सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ।। ५३ ।। जात्युद्धार विहीनो यस्सामान्य समयी भवेत् । तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ।। ५४ ।। दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः । न तु लिंगार्चने योग्याः किमु दीक्षादि कर्मणि ।। ५५ ।। शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् । शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ।। ५६ ।। शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते । मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ।। ५७ ।। शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् । बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ।। ५८ ।। भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ।। ५९ ।। भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते । सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ।। ६० ।। अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते । योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ।। ६१ ।। कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् । स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ।। ६२ ।। व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् । व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ।। ६३ ।। पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते । सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ।। ६४ ।। शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः । आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ।। ६५ ।। वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः । पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ।। ६६ ।। मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः । समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ।। ६७ ।। आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् । आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ।। ६८ ।। लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः । प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ।। ६९ ।। स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् । प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ।। ७० ।। स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च । यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ।। ७१ ।। स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते । आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ।। ७२ ।। तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया । स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ।। ७३ ।। अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति । आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ।। ७४ ।। साधकश्च तथा भूतस्सर्वकर्माणि शंसितः । महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ।। ७५ ।। नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् । लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ।। ७६ ।। मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् । संहिता पारगो वाथ लक्षाध्याययुपदेशतः ।। ७७ ।। संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका । शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ।। ७८ ।। सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् । चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ।। ७९ ।। पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ।। ८० ।। सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते । तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ।। ८१ ।। सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् । अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ।। ८२ ।। वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः । वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ।। ८३ ।। सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् । तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ।। ८४ ।। शब्दशास्त्रमलंकारो निरुक्तं छन्द एव च । कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ।। ८५ ।। आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च । लोकायतं तथा सांख्य मार्हतो मतमेव च ।। ८६ ।। मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् । वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ।। ८७ ।। तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् । धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ।। ८८ ।। रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् । न्याय वैशेषिकं सांख्यं सेश्वरं यत् प्रणीतवान् ।। ८९ ।। ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् । पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ।। ९० ।। सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् । ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ।। ९१ ।। पश्चिमं वाम संज्ञं तु वामाद्दक्षिणमुत्तमम् । दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ।। ९२ ।। पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः । सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ।। ९३ ।। अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः । सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ।। ९४ ।। सिद्धान्त विहिताचारो वैदिकाचार उच्यते । गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ।। ९५ ।। तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् । तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ।। ९६ ।। युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च । दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ।। ९७ ।। तथा पुंसवनादिश्च शैव आवश्यको मतः । तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ।। ९८ ।। क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये । वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ।। ९९ ।। भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः । वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ।। १०० ।। निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया । हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ।। १०१ ।। शैव कर्म समायुक्ता शैवे शैवी च केवला । श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ।। १०२ ।। आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च । सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ।। १०३ ।। गर्भाधानादिके वापि दहने श्राद्ध कर्मणि । अष्टका करणे वापि नित्यनैमित्तिकेपि वा ।। १०४ ।। वेदाध्ययन संस्कारे सोमयागादिकेपि वा । वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ।। १०५ ।। तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् । कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ।। १०६ ।। विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् । संग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ।। १०७ ।। शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा । वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ।। १०८ ।। तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि । सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ।। १०९ ।। शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः । तदापि वैदिकं वेदसार मित्यादि वाक्यतः ।। ११० ।। शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः । सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ।। १११ ।। स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते । कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ।। ११२ ।। कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् । अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ।। ११३ ।। अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् । सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रंदक्षिणाननम् ।। ११४ ।। अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् । विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ।। ११५ ।। स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत् । वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ।। ११६ ।। मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् । चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिंबमन्यतः ।। ११७ ।। प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् । जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ।। ११८ ।। जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् । किरणं तल मित्युक्तं वातुलं वामकं तलम् ।। ११९ ।। सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः । ऋषय ऊचुः पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ।। १२० ।। इत्यादि कथितं देव परस्परविरोधनं । ईश्वर उचाच बहुधा कथितं विप्राः भवद्भिरवधारितम् ।। १२१ ।। मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् । तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ।। १२२ ।। सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् । भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ।। १२३ ।। निराकारं भवेज्ज्ञानं संकरं तदुपास्यतः । परस्पर विरोधीति मतिहीनैः प्रबाध्यते ।। १२४ ।। ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः । न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ।। १२५ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा । न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ।। १२६ ।। उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः । कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ।। १२७ ।। दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः । विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ।। १२८ ।। रौरवान्मुख बिंबान्ता वामदेव मुखोद्भवाः । प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ।। १२९ ।। तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः । अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ।। १३० ।। स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः । अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ।। १३१ ।। विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता । हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ।। १३२ ।। विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् । विशिष्टे विद्यमाने च हठादज्ञेन कारिते ।। १३३ ।। साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता । तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ।। १३४ ।। कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् । लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ।। १३५ ।। द्रव्यं करोति सुमुखं सर्वलोकसमं यशः । ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ।। १३६ ।। तद्वित्तमाहृतं येन स पापी च स दुर्मतिः । नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ।। १३७ ।। इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः चतुर्विंशतितमः पटलः २४ ज्ञानदीक्षाविधिः ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः । सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ।। १ ।। एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे । सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ।। २ ।। शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे । शुद्धदेशे सुखासीनः पञ्चगोचरसंभवः ।। ३ ।। दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे । सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ।। ४ ।। स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि । गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ।। ५ ।। पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् । षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ।। ६ ।। ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।। ७ ।। दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसंनिधौ । सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ।। ८ ।। गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् । अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ।। ९ ।। तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् । प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ।। १० ।। तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् । पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ।। ११ ।। सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् । नवमं शिवयोगं च दशमं शिवभोगकम् ।। १२ ।। त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् । गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ।। १३ ।। इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ।। १३१/२ ।। २५ पञ्चविंशत्तमे पटले गोत्र निर्णय विधिः ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ।। १ ।। ऊनपञ्चाशदेवैषां संख्या स्यान्महतामिह । कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ।। २ ।। अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः । अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ।। ३ ।। शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः । शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ।। ४ ।। कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः । गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ।। ५ ।। क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा । नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ।। ६ ।। आदिशैवे यथा गोत्रमनुशैवे तथामतम् । किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ।। ७ ।। जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः । उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ।। ८ ।। प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः । कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ।। ९ ।। धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः । अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ।। १० ।। पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः । लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ।। ११ ।। भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः । ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ।। १२ ।। उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः । मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ।। १३ ।। पराशरस्ततोऽगस्त्यस्साम्बवाहनसंज्ञकाः । सोमवाहनसंज्ञाश्च यज्ञवाहास्ततो मताः ।। १४ ।। वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा । वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ।। १५ ।। हारिताः संकृतिश्चैव पश्चाद्रथीतरा मताः । मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ।। १६ ।। कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः । पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ।। १७ ।। तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः । कान्तका बाष्पका वाच्युकिता लोमका धनाः ।। १८ ।। साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् । यम दूता आनभिन्ना ततस्तारायणा मताः ।। १९ ।। चौलकायनसंज्ञाश्च जाबाल्युदुम्बरौ मतो । दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ।। २० ।। श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसंज्ञकाः । शालावतां मयूराश्च तथोदुत्सरित्यपि ।। २१ ।। चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसंज्ञकाः । ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ।। २२ ।। येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि । स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ।। २३ ।। पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ।। २४ ।। लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः । जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ।। २५ ।। कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः । विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ।। २६ ।। प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु संमताः । माणा उद्वहला एते रोक्षास्तु कुशिका मताः ।। २७ ।। प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः । माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ।। २८ ।। विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः । श्रौमितो देवतरसः कामकायनिकस्ततः ।। २९ ।। कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः । त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ।। ३० ।। देवश्रावस इत्यन्तो देवतरस इत्यमी । कठाः स्वैरन्ध्रिसंज्ञाश्चकरभाः सहिताः परे ।। ३१ ।। वाजायनाश्च कौकृत्यास्ततो जाणायना मताः । कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ।। ३२ ।। पिण्डिग्रीवास्ततो नारायणा नारद्य संज्ञकाः । एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ।। ३३ ।। विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः । आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ।। ३४ ।। तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः । त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ।। ३५ ।। विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः । आजायनस्ततः प्रोक्त एकवत्सश्च संमतः ।। ३६ ।। त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ।। ३७ ।। अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः । एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ।। ३८ ।। कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः । कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ।। ३९ ।। त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः । ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ।। ४० ।। पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च संमताः । ऋषी द्वौ संमतौ विश्वामित्रः पौरणः इत्यपि ।। ४१ ।। कौशिकाश्च दशाप्येवं न समन्वयगामिनः । काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ।। ४२ ।। ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः । आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ।। ४३ ।। धौमधौम्रायणा औधप्रचुराग्रायणा मताः । रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ।। ४४ ।। कायाताया अकापाया निकामौषनिकिस्तथा । काद्रायणा औज्वलयो रोहितायनसंज्ञकाः ।। ४५ ।। पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च । वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ।। ४६ ।। कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः । कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ।। ४७ ।। वैतम्बा देवयाताश्च महाचक्रेयसंज्ञकाः । पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ।। ४८ ।। वृषगणाश्च पानध्यो दाक्षपायण एव च । हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ।। ४९ ।। जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः । वैशम्पायनसंज्ञाक्ष ततः केशायताः स्मृताः ।। ५० ।। औकायनिस्ततो मार्जायनाः कांसायनाः परे । देवश्च होतसूच्यास्थूणा भागुरयस्तथा ।। ५१ ।। पाथिकार्याः खरेभा ये गोमयातास्ततः परम् । हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ।। ५२ ।। अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि । उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ।। ५३ ।। नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः । काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ।। ५४ ।। त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः । काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ।। ५५ ।। शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः । रभेरव्ययसौमानौ वनसंस्तु करेयुतः ।। ५६ ।। काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः । महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ।। ५७ ।। ततः कामशयः पश्चान्महौजक्य एव च । ततो मौञ्जायनाः प्रोक्तास्ततो गांगायना मताः ।। ५८ ।। वात्सभालय इत्युक्तास्ततो गोमिलसंज्ञकाः । वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ।। ५९ ।। बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः । हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ।। ६० ।। वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् । जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ।। ६१ ।। काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा । काश्यपक्षापवत्सारोऽसितं इत्यथवा त्रयः ।। ६२ ।। शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा । कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ।। ६३ ।। चैरन्घ्रिः पशवश्चिव पयणायनसंज्ञकाः । कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ।। ६४ ।। कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि । कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ।। ६५ ।। सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः । यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ।। ६६ ।। यौधवा याजपा एते लोगाक्षय इति स्मृताः । अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ।। ६७ ।। काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः । पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च संमताः ।। ६८ ।। भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः । देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ।। ६९ ।। ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः । आजा औमाश्च तौदेहाः परिणद्धेधसंज्ञकाः ।। ७० ।। शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः । वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ।। ७१ ।। श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः । ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसंज्ञकाः ।। ७२ ।। पैलाः सौज्ज्वलयः कारुणादयः शुगसंज्ञकाः । भारुण्डेया इषुमतास्तथा वौदोदमेघयः ।। ७३ ।। सौरभरास्तथा भाद्रपथयः परिकीर्तिताः । ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ।। ७४ ।। प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः । वाराहयोः देववेला वलभीगय इत्यपि ।। ७५ ।। भद्राङ्गगतसंज्ञाश्च शालाहलय इत्यपि । नृत्यायना महावेलास्ततः शालालयो मताः ।। ७६ ।। शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा । क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ।। ७७ ।। ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः । सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ।। ७८ ।। स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः । ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ।। ७९ ।। आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च । धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ।। ८० ।। मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः । काब्ल्याः कारुपथयः कारिषायणसंज्ञकाः ।। ८१ ।। भरद्वाजवनौ द्वौ तु ऋषयः पञ्च संमताः । भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ।। ८२ ।। अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः । एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ।। ८३ ।। भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः । स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ।। ८४ ।। सांभरायणसंज्ञाश्च तथा यौगन्धरायणः । सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ।। ८५ ।। ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः । भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ।। ८६ ।। सत्यापचय आख्याता जाणपक्वलसंज्ञकाः । पलाशशाखावन्तस्ते मर्कटायनसंज्ञकाः ।। ८७ ।। ततः संग्रहतुल्याश्च वैधूह्यः कारिरोतयः । त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ।। ८८ ।। पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः । अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ।। ८९ ।। गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः । ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ।। ९० ।। भारद्वाजास्त्रयश्चापि न समन्वयगामिनः । गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ।। ९१ ।। आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः । सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ।। ९२ ।। व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः । कठोरिः कारुणिः कीलालयः पार्थिवसंज्ञकाः ।। ९३ ।। काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः । एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ।। ९४ ।। प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः । शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ।। ९५ ।। ततः क्षीरकम्भाश्च ततः सौमुचयो मताः । सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ।। ९६ ।। राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः । एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ।। ९७ ।। अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः । कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ।। ९८ ।। पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः । ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ।। ९९ ।। पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः । कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ।। १०० ।। पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः । आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ।। १०१ ।। ततो दीर्घतमश्चेति पर्यायाः पञ्च संमताः । कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ।। १०२ ।। बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि । औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ।। १०३ ।। गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः । कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ।। १०४ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः । विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ।। १०५ ।। प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः । अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ।। १०६ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः । तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ।। १०७ ।। अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे । अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ।। १०८ ।। भोजश्चादितिसंज्ञश्च चान्द्रोशीः पार्व इत्यपि । कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ।। १०९ ।। ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः । ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ।। ११० ।। शाम्ब व्यसन संज्ञाश्च कार्मर्यायनयो मताः । ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ।। १११ ।। औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा । ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ।। ११२ ।। गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः । श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ।। ११३ ।। हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः । वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ।। ११४ ।। कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः । अनीलाययनसंज्ञाश्च अङ्गिराश्च ततो मताः ।। ११५ ।। गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः । शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ।। ११६ ।। भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः । त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ।। ११७ ।। अर्चनानस इत्येते ऋषयस्त्रय ईरिताः । तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ।। ११८ ।। अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः । ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ।। ११९ ।। अत्रिरर्चनानसेति गविष्ठिर इति त्रयः । मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ।। १२० ।। वैत भावय इत्येते ऋषयश्च ततो मताः । ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ।। १२१ ।। ततो गौरकयो वायुपूरकाः सायनास्ततः । इत्येते त्रियार्षेयाः स्युर्मुद्गलाः संप्रकीर्तिताः ।। १२२ ।। अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः । चतुर्विधा अप्यात्रेया न समन्वयगामिनः ।। १२३ ।। वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः । वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ।। १२४ ।। आश्वलायनसंज्ञाश्च गविष्ठास्त्वाश्वलयनाः । शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ।। १२५ ।। औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः । कोलायनाश्च को भोजिस्ततः पौलायना मताः ।। १२६ ।। सुन्दहरित इत्युक्तः काण्डेय विधिरेव च । सप्तवेलां इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ।। १२७ ।। एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः । प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ।। १२८ ।। ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः । आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ।। १२९ ।। पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः । सोमरङ्गलिनः कोकास्ततः कापटवा मताः ।। १३० ।। हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च । माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ।। १३१ ।। त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः । वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ।। १३२ ।। उपमन्युरौपगवा मण्डलेखय एव च । जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ।। १३३ ।। त्रैवर्ण वैवशागारिसारक्षा रक्षसंज्ञकाः । शैलालयो महाकर्णानया बालशिखा मताः ।। १३४ ।। औद्दाहमानयो बालानया भागास्ततो मताः । इत्युन्मायन संज्ञाश्च ततः कुण्डोदरायणाः ।। १३५ ।। लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः । अनृक्षर वसंज्ञाश्च कापिला वय एव च ।। १३६ ।। कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः । वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ।। १३७ ।। इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः । ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ।। १३८ ।। भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः । कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ।। १३९ ।। कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः । हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ।। १४० ।। खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः । श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ।। १४१ ।। पराशराः स्युररुणास्ततो भालुक्य संज्ञकाः । बादरिश्च तथा गार्गो वना वै कौकसादयः ।। १४२ ।। इत्येते कथिता पञ्च प्रनीलाश्च पराशराः । ततः सौधवसानाश्च आलंभायन संज्ञकाः ।। १४३ ।। स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः । चोलकायन संज्ञाश्च वार्णवल्कास्तथैव च ।। १४४ ।। पुनर्देवनगौख्याः श्रविष्टायन संज्ञकाः । ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ।। १४५ ।। आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च । कैमीयतय इत्येते पञ्च नीलाः पराशराः ।। १४६ ।। कृष्णाजिना काविशुभास्ततः श्यामायना मताः । ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ।। १४७ ।। श्वेताः पराशराः पञ्च वात्स्यायन एव च । श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ।। १४८ ।। श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः । वसिष्ठ शक्तिसंज्ञश्च पराशर इति त्रयः ।। १४९ ।। सर्वे पराशरास्त्वेते परस्परमयोगिनः । ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ।। १५० ।। शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः । तथौपदहनिश्चैव धावणिर्लावणिस्ततः ।। १५१ ।। लाव्योऽर्बुदोवैरणयो बुधादरय एव च । बोदरिः शैवरतयस्ततः श्यामातयो मताः ।। १५२ ।। ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा । गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ।। १५३ ।। दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे । सांभवाहन संज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५४ ।। दृढच्युतिरगस्त्यश्च सांभवाहस्त्रयस्त्विमे । सोमवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५५ ।। दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे । यज्ञवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ।। १५६ ।। दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे । अगस्तयस्तु चत्वारो नसमन्वियगामिनः ।। १५७ ।। जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः । मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ।। १५८ ।। आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः । शार्कराक्षास्ततो देवतायनाः शौनकायनाः ।। १५९ ।। माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः । पैङ्गलायन संज्ञाश्च पैला दाध्रेषयस्ततः ।। १६० ।। ततो बाह्यकयो वैश्वानरयश्च विलोहिताः । बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ।। १६१ ।। वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ । वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ।। १६२ ।। दधीचयश्च वापाणिस्ततः शैखावताः मताः । वाकायनाः सौकृतयस्ततो बालायना मताः ।। १६३ ।। सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः । ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ।। १६४ ।। जानायना औरक्षयाः काम्बरोदरयस्ततः । कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ।। १६५ ।। वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च । मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ।। १६६ ।। काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः । नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ।। १६७ ।। बाहुमित्रायणा आपिशलयो रोहितायनाः । ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ।। १६८ ।। ततो राजित वाहाश्च ततः शारद्वतायनाः । नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ।। १६९ ।। वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ।। १७० ।। ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि । विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ।। १७१ ।। प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः । ततस्त्वभयजाताः स्युः काण्डरथय एव च ।। १७२ ।। आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः । क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ।। १७३ ।। एते मताः विदा पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ।। १७४ ।। आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च । कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ।। १७५ ।। गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः । आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ।। १७६ ।। भार्गवश्च्यावनश्चाप्नुवानोरथानूपसंज्ञकाः । आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ।। १७७ ।। वत्सानमार्ष्टिषेणानां विदानां च परस्परम् । अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ।। १७८ ।। यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः । वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ।। १७९ ।। दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे । कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ।। १८० ।। सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः । भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ।। १८१ ।। ततः स्युर्भोग चितय एते यस्तका इति स्मृताः । त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ।। १८२ ।। भृगुश्चैव तथा यस्को दिवोदास इति त्रयः । मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ।। १८३ ।। सापिण्डिनो महावाल्या माल्या यावाल्यसंज्ञकाः । पुराभिनाय एजेयास्ततो राक्षायणा मताः ।। १८४ ।। कैतवायनयो माञ्जायना मादायवः स्मृताः । एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ।। १८५ ।। भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः । वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य संज्ञकाः ।। १८६ ।। त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः । भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ।। १८७ ।। शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति । गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ।। १८८ ।। श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः । एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ।। १८९ ।। एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः । यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ।। १९० ।। शुनकानां च संबन्धः कर्तव्य इति गम्यते । अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ।। १९१ ।। भद्रणा भद्रणाश्चैव शठमार्षण संज्ञकाः । शाबरायणसंज्ञाश्च सात्यकिः सात्यकायनाः ।। १९२ ।। बादरायणसंज्ञाश्च वात्स प्रायण संज्ञकाः । आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य संज्ञकाः ।। १९३ ।। देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः । एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ।। १९४ ।। अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा । वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ।। १९५ ।। कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे । मौञ्जिश्च माञ्जयश्चैव मर्कटायन संज्ञकाः ।। १९६ ।। मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः । मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ।। १९७ ।। अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः । हारिताश्च ततः कौत्साः सांख्या दार्भास्तथैव च ।। १९८ ।। शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ । नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ।। १९९ ।। कौतपाः कौलयः कारीषयः पौलय एव च । पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ।। २०० ।। इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः । आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ।। २०१ ।। ततः संकृतयस्तण्डिः शंभुश्च मलकास्ततः । पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ।। २०२ ।। हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः । चारायणाः पूतिभाषास्तत आग्रायणा मताः ।। २०३ ।। चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी । प्रोक्ता संकृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ।। २०४ ।। अङ्गिराः संकृतिश्चाम्बरीषश्च ऋषयस्त्रयः । रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ।। २०५ ।। शैलालयश्च लैभिश्च ततो लीभायना मताः । मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ।। २०६ ।। ततो हेमशता ह्येते त्रियार्षेया रथीतराः । अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ।। २०७ ।। अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् । मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ।। २०८ ।। ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः । ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ।। २०९ ।। त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः । हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ।। २१० ।। ऐतिशायन संज्ञाश्च तरस्विश्च पतञ्जलि । मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ।। २११ ।। ततः करशिखण्डश्च ततो मौषींतकिर्मतः । तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ।। २१२ ।। त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः । अङ्गिराश्च कपित्थाश्च अंबरीष इति त्रयम् ।। २१३ ।। विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् । राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ।। २१४ ।। क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः । वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ।। २१५ ।। आत्रेयश्चैव वाध्रेयो वाधूलश्चापि संकृतिः । वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ।। २१६ ।। नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह । अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ।। २१७ ।। समानगोत्रप्रवराञ्ज्ञात्वा संबन्धमाचरेत् । समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ।। २१८ ।। ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् । तस्याश्च रक्षणंकार्यमाहाराच्छादनादिभिः ।। २१९ ।। विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् । तयासह प्रमादेन संयोगाद्यं कृतं यदि ।। २२० ।। प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते । सकृदागमने कुर्यात् तेन चान्द्रायणेन च ।। २२१ ।। सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् । एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ।। २२२ ।। मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् । षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ।। २२३ ।। तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् । निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ।। २२४ ।। तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः । तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ।। २२५ ।। उपवासस्तदा स्नानं पञ्चगव्याशनं जपः । होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ।। २२६ ।। साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके । चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ।। २२७ ।। त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् । द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ।। २२८ ।। इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः पञ्चविंशतितमः पटलः २६ षड्विंशत्तमे पटले शताभिषेकविधिः शताभिषेकं वक्ष्येहं संक्षेपात् द्विजसत्तमाः । अकालमृत्यु मथनं आयुरारोग्यवर्धनम् ।। १ ।। वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् । दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ।। २ ।। उत्तरायण कालेतु शुक्लपक्षे विशेषतः । सुलग्ने च सुवारे च सुतिथौ शोभने दिने ।। ३ ।। स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः । मङ्गलाङ्कुर संयुक्ते मण्डपे समलंकृते ।। ४ ।। कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे । पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ।। ५ ।। मुखायामयुते वापि चतुर्द्वार समन्विते । एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ।। ६ ।। ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा । अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ।। ७ ।। राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ।। ८ ।। पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् । अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ।। ९ ।। कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः । तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ।। १० ।। प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् । तद्रात्रौ तु पयः पीत्वा शययायां कम्बलादिभिः ।। ११ ।। कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः । मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ।। १२ ।। विसृज्य शिल्पिनंपश्चात् पुण्याहं वाचयेद्गुरुः । पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ।। १३ ।। शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् । तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ।। १४ ।। परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम् । चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ।। १५ ।। अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः । तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ।। १६ ।। वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् । अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ।। १७ ।। त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः । आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ।। १८ ।। अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः । शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ।। १९ ।। तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् । अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ।। २० ।। मध्यमे शिवकुंभं तु द्वात्रिंशत्प्रस्थपूरितम् । वर्धनी च तदर्धेन पूरिता शिवपूरिताः ।। २१ ।। बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः । त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ।। २२ ।। अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् । पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ।। २३ ।। चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् । नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ।। २४ ।। नानागन्धसमायुक्तं नानाबीजसमन्वितम् । नानाधातुसमायुक्तं नानालोहसमन्वितम् ।। २५ ।। नानादिगौषधोपेतं नानाफलसमन्वितम् । नानापुष्पसमायुक्तं नानागव्यसमायुतम् ।। २६ ।। संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः । अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ।। २७ ।। पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः । वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ।। २८ ।। नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् । प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ।। २९ ।। हिरण्यं रजतं ताम्रमारकूटं च सीसकम् । आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ।। ३० ।। द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् । अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ।। ३१ ।। रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च । जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ।। ३२ ।। कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् । ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ।। ३३ ।। पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसंभवाः । बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसंभवाः ।। ३४ ।। औदुम्बरी च नारङ्गंमातुलुङ्गसमुद्भवाः । वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ।। ३५ ।। आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः । नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ।। ३६ ।। सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके । उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ।। ३७ ।। वकुलं करवीरं च पाटलं कुरवं तथा । मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ।। ३८ ।। चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः । चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ।। ३९ ।। तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् । नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ।। ४० ।। वैष्णवं माषनीवार गोधूमं यवमेव च । अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ।। ४१ ।। श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः । लक्ष्मीश्च शंखपुष्पी च विष्णुक्रान्तिश्च हंसिनी ।। ४२ ।। तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी । सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ।। ४३ ।। पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च । गोमयं नालिकेरं त मातुलुङ्गफलं तथा ।। ४४ ।। नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च । दाडिमीसंभवं चैव न्यस्तव्याः क्रमशस्ततः ।। ४५ ।। गन्धोदकमथैशान्यां कलशेषु नवस्वपि । एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ।। ४६ ।। आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः । वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ।। ४७ ।। पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकं एव च । मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ।। ४८ ।। पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् । मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ।। ४९ ।। बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् । दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ।। ५० ।। मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके । उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ।। ५१ ।। अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् । पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ।। ५२ ।। गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः । नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ।। ५३ ।। समिदाज्यचरू/ल्लाजतिलवैणव माषकान् । जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ।। ५४ ।। उदुम्बरवटाश्वत्थप्लक्षा इंद्रादिदिषु च । शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ।। ५५ ।। पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् । सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ।। ५६ ।। शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः । ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ।। ५७ ।। होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च । गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ।। ५८ ।। अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् । किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ।। ५९ ।। वर्धन्यां च यजेद् गौरीमशेषकलशेषु च । पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ।। ६० ।। दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् । कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ।। ६१ ।। सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् । प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ।। ६२ ।। सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् । पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ।। ६३ ।। आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणेवेन तु । पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ।। ६४ ।। कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते । कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ।। ६५ ।। भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे । पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ।। ६६ ।। सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् । अन्येषामपि सर्वेषां शतधारावटेन वा ।। ६७ ।। हैमेन राजनेतापि तथोरन्यतरेण वा । सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ।। ६८ ।। स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा । गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ।। ६९ ।। विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् । तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ।। ७० ।। स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् । सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ।। ७१ ।। स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् । आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ।। ७२ ।। गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् । पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ।। ७३ ।। स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् । स्थापयित्वा सवत्सांगां दर्शयेच्च पयस्विनीम् ।। ७४ ।। बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः । सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ।। ७५ ।। आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् । गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ।। ७६ ।। पूणकुम्भयुते दीपसंयुते फलकोपरि । स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ।। ७७ ।। कारयित्वा ततः स्त्रीभिः रजनीजलधारया । दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ।। ७८ ।। ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति । श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ।। ७९ ।। पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा । एकेनवाभिषेकं तु कारयेदभिषेचनम् ।। ८० ।। दक्षिणां च गुरोर्दद्दादुत्तमादिषु संभवाम् । दासीदासं भुवं गां च गृहोपकरणानि च ।। ८१ ।। मूर्तिपानां तदन्ते च तदन्ते जापिनामपि । स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ।। ८२ ।। पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च । एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ।। ८३ ।। इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् । आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ।। ८४ ।। यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ८५ ।। नोपसर्गभयं तत्र न परागमविप्लवः । स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ।। शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ।। ८६ ।। इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः षड्विंशतितमः पटलः २७ सप्तविंशत्तमे पटले अन्त्येष्टिविधिः अन्त्येष्टिं संप्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः । ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ।। १ ।। आचार्यसाधका वास्युः पुत्रका समयस्थिताः । गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ।। २ ।। आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता । अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ।। ३ ।। आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः । प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ।। ४ ।। तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् । परिहृत्य निषिद्धे च यैस्तेषां अप्रमादिनाम् ।। ५ ।। तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते । सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ।। ६ ।। यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् । यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ।। ७ ।। विधायस्नानमाग्नेयं मन्त्र संनद्ध विग्रहम् । मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ।। ८ ।। अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे । स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ।। ९ ।। संस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् । स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ।। १० ।। तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ । दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ।। ११ ।। नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् । एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ।। १२ ।। एकधा बहुधा वापि क्रियामेनां समाचरेत् । पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ।। १३ ।। विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा । एतत् सर्वं विधेयं तु देशिकेनतरेण वा ।। १४ ।। तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् । गत प्राणे नरे तस्य स्नानार्थं तीर्थ संभवम् ।। १५ ।। जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा । तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ।। १६ ।। विधायैवं घटान्वापि कलशान् स्नपनोक्तितः । संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ।। १७ ।। स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् । पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ।। १८ ।। स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् । अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ।। १९ ।। कृत्वा संहारमार्गेण कौपीनं वसनं तथा । परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ।। २० ।। दीक्षितानामथान्येषां शिवशासनधारिणाम् । अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ।। २१ ।। ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा । आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ।। २२ ।। पुरुषायतमानां च षडङ्गुलविवर्धनात् । त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ।। २३ ।। सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठराम्द । आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ।। २४ ।। रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् । इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ।। २५ ।। निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः । शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ।। २६ ।। स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना । संघेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ।। २७ ।। शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् । तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ।। २८ ।। निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः । दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ।। २९ ।। दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् । दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ।। ३० ।। जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् । वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ।। ३१ ।। वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् । सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ।। ३२ ।। व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् । विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ।। ३३ ।। गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च । ईप्सितं सुखमाप्नोति परत्रेह च भावितः ।। ३४ ।। नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः । अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ।। ३५ ।। असहायमनाथं च गतासुं शिवयोगिनम् । नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ।। ३६ ।। वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः । अथ स्थानमदूरस्थमुदकस्य समं शुचि ।। ३७ ।। प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे । षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ।। ३८ ।। कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले । संकल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ।। ३९ ।। हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् । कुण्डंदक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ।। ४० ।। गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् । शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ।। ४१ ।। प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः । विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ।। ४२ ।। कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् । तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनः ।। ४३ ।। आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना । ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ।। ४४ ।। संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् । विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ।। ४५ ।। समाहृत्य विधानेन चितावास्तु प्रपूजयेत् । पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ।। ४६ ।। पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते । वंशरज्ज्वादिसंपन्नै विन्यसेद्वास्तुदेवताः ।। ४७ ।। तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके । नैऋत्यां वारिणा संपन्ने विष्णुं कोष्ठचतुष्टये ।। ४८ ।। आग्नेययामग्निना सार्धं रुद्रं कोष्ठचतुष्टये । वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ।। ४९ ।। गगनेन सदेशानमैशकोष्ठचतुष्टये । पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ।। ५० ।। निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् । ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ।। ५१ ।। शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च । निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ।। ५२ ।। तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् । ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ।। ५३ ।। मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् । व्युत्क्रमासनमिष्ट्वैवं साङ्गं संपूज्य शङ्करम् ।। ५४ ।। संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च । क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ।। ५५ ।। संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे । शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ।। ५६ ।। साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः । अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ।। ५७ ।। संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः । चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ।। ५८ ।। रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः । तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ।। ५९ ।। आग्नेययादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् । ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ।। ६० ।। पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् । अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ।। ६१ ।। शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु । शवशययां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ।। ६२ ।। चन्दनागरुसंमिश्रैर्विपर्यस्तपटावृताम् । संपूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ।। ६३ ।। कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा । स्नापितं धूपितं तत्र भस्मना नववर्त्मना ।। ६४ ।। सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया । आग्नेययां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ।। ६५ ।। वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः । ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ।। ६६ ।। भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् । महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ।। ६७ ।। ओं हूं हामथ हं हां हूं महाजालमिदं मतम् । उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ।। ६८ ।। विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः । सषडंगंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ।। ६९ ।। चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् । निवृत्यादि समादाय युगपद्वा क्रमेण वा ।। ७० ।। कलास्तास्साधिपाः प्राग्वद्वह्नौ संपूजयेत्ततः । ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ।। ७१ ।। योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः । भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ।। ७२ ।। तिरोभावः पशुत्वस्य पाशविश्लेष भेदने । तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ।। ७३ ।। विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा । एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ।। ७४ ।। उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि । अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ।। ७५ ।। यदाक्तो न पुनर्जातु पराधीनो भवेदणुः । कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ।। ७६ ।। विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः । स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ।। ७७ ।। शवमभ्येत्य शययायामारोप्य प्रावृतं कुशैः । याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ।। ७८ ।। आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् । तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ।। ७९ ।। संछाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् । मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ।। ८० ।। सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् । गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ।। ८१ ।। पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् । त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ।। ८२ ।। गृहाण मन्त्रसंपूतां शाव्यामेनां महाहुतिम् । प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ।। ८३ ।। नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः । अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ।। ८४ ।। उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् । धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ।। ८५ ।। अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि । क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ।। ८६ ।। ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् । तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ।। ८७ ।। शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् । स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ।। ८८ ।। उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः । भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ।। ८९ ।। अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् । द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ।। ९० ।। शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् । विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। ९१ ।। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ।। ९२ ।। शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया । निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ।। ९३ ।। विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते । जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ।। ९४ ।। शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा । स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ।। ९५ ।। अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया । अविद्यमानदेहानां तथा विकलदेहिनाम् ।। ९६ ।। क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् । कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ।। ९७ ।। विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् । दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ।। ९८ ।। क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् । इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ।। ९९ ।। कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः । कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ।। १०० ।। प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः । अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ।। १०१ ।। किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् । भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ।। १०२ ।। दहनं मरणं येषां तत्कुलक्षयकारणम् । तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ।। १०३ ।। नृणामकृतचूडानां मृतानामवटक्रिया । न तेषां दहनं नैव बलिर्नैवोदकक्रिया ।। १०४ ।। नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया । ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ।। १०५ ।। यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया । लवणापूरणोपेता विना बल्युदकौदनैः ।। १०६ ।। कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् । प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ।। १०७ ।। दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः । कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ।। १०८ ।। सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् । आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ।। १०९ ।। बाहुमात्रं खनेद्भूमिं तच्छययायामविस्तराम् । न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ।। ११० ।। तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा । योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ।। १११ ।। लवणेनाथवापूर्य तत्समीपप्रदेशतः । तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ।। ११२ ।। बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् । तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ।। ११३ ।। अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् । भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ।। ११४ ।। अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् । समा वातीत्य भर्ता तु यदि देशान्तरं गतः ।। ११५ ।। द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् । मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ।। ११६ ।। वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः । पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ।। ११७ ।। मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् । होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ।। ११८ ।। श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना । नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ।। ११९ ।। तण्डुलं क्षीरसंमिश्रं वामदेवेन निक्षिपेत् । अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ।। १२० ।। स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह । वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ।। १२१ ।। दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् । त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ।। १२२ ।। तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् । स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ।। १२३ ।। यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः । तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ।। १२४ ।। इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया । अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ।। १२५ ।। प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः । पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ।। १२६ ।। प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् । पञ्चसप्ततिसंख्यातं तर्पणं प्रति भोजनम् ।। १२७ ।। कल्पयेद् द्विशतं पञ्चपञ्चसंख्यासमन्वितम् । ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ।। १२८ ।। नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने । दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ।। १२९ ।। तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा । नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ।। १३० ।। एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि । तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ।। १३१ ।। वीतशोकस्य सक्तानां नराणां मूढचेतसाम् । समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ।। १३२ ।। शिवव्रतधरा ये च शैवा ये हृहिणीसखाः । न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ।। १३३ ।। तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा । न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ।। १३४ ।। आत्मनो भोगहेतूनामभावादुपचर्यते । तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ।। १३५ ।। स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् । अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ।। १३६ ।। सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः । चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ।। १३७ ।। देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते । मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ।। १३८ ।। यः करोति स संमूढो जलबुद्बुदसंनिभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।। १३९ ।। कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।। १४० ।। फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ।। १४१ ।। अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः । द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ।। १४२ ।। घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः । तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् संचयनं चितेः ।। १४३ ।। हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा । पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ।। १४४ ।। अस्थिसंग्रहणं वाथ कुर्यात् संचयनं विना । एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ।। १४५ ।। अस्थिसंग्रहणं विप्रप्रमुखाणां क्रमेण वा । सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ।। १४६ ।। पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् । अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ।। १४७ ।। ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च । तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ।। १४८ ।। षण्मासे वाब्दसंपूर्तौ तदूर्ध्वे वाथ निक्षिपेत् । निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ।। १४९ ।। पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् । दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ।। १५० ।। शिष्यैकगुरुसंबन्धा गुरुसंबन्धिनश्च ये । त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ।। १५१ ।। तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा । दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ।। १५२ ।। गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् । आचारं दीक्षितास्तस्मात्कुर्वीर/ल्लोकसंवृतिम् ।। १५३ ।। शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् । पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ।। १५४ ।। पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया । अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ।। १५५ ।। क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते । विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ।। १५६ ।। दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका । उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ।। १५७ ।। क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् । सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ।। १५८ ।। पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका । माससंख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ।। १५९ ।। नाम्नः प्राग्दन्तजननात्तथोपनयनादपिं । स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ।। १६० ।। तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते । क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ।। १६१ ।। भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा । पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ।। १६२ ।। पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ । तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ।। १६३ ।। दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् । दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ।। १६४ ।। त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् । समानोदकवर्गाणामाशौचं विहितं विधौ ।। १६५ ।। ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् । आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ।। १६६ ।। आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् । पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ।। १६७ ।। यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः । वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ।। १६८ ।। एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः । भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ।। १६९ ।। तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् । शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।। १७० ।। शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी । सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ।। १७१ ।। प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा । सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ।। १७२ ।। तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।। १७३ ।। सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः । कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ।। १७४ ।। अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् । ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ।। १७५ ।। तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि । तथैव रुद्रकन्यानां पञ्चाचार्येऽपि संमतम् ।। १७६ ।। हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् । न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ।। १७७ ।। सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ।। १७८ ।। प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः । नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ।। १७९ ।। स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा । इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ।। १८० ।। ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः । शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ।। १८१ ।। दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता । आशौचं दासदासीनामधिष्ठातृकुलोचितम् ।। १८२ ।। प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः । कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ।। १८३ ।। तथैव देवदासीनां मातृजं कुलमीरितम् । राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ।। १८४ ।। समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा । गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ।। १८५ ।। निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् । हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ।। १८६ ।। काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते । स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ।। १८७ ।। स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् । परित्ययेत् परार्थं वा लोकसंवरणाय च ।। १८८ ।। भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः । ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ।। १८९ ।। आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः । तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ।। १९० ।। तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् । विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ।। १९१ ।। एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः । अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ।। १९२ ।। नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः । साधारणस्त्रियो याश्च पूता नैव कदाचन ।। १९३ ।। राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः । महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ।। १९४ ।। शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः । दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ।। १९५ ।। प्रेतसूतकसंबन्धि नित्यहानिं करोति यत् । तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ।। १९६ ।। प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् । त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ।। १९७ ।। विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् । योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ।। १९८ ।। भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा । यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ।। १९९ ।। मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् । अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ।। २०० ।। एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् । जपेदघोरं स्नानान्ते दशांशो होम एव वा ।। २०१ ।। यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च । अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ।। २०२ ।। निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च । नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ।। २०३ ।। शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता । एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ।। २०४ ।। अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ।। २०४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः सप्तविंशतितमः पटलः २८ अष्टाविंशत्तमे पटले पितृ यज्ञ विधिः पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः । आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ।। १ ।। अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् । पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ।। २ ।। तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः । गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ।। ३ ।। कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा । विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसंमितैः ।। ४ ।। दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् । प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ।। ५ ।। तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये । स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ।। ६ ।। तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् । पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ।। ७ ।। धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् । तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ।। ८ ।। गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् । आशौच रहितैः नवमद्भाण्ड एव हि ।। ९ ।। ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च । द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ।। १० ।। एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् । अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ।। ११ ।। पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा । कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ।। १२ ।। कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् । सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ।। १३ ।। तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् । मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ।। १४ ।। तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा । संग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ।। १५ ।। अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे । एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ।। १६ ।। विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते । ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ।। १७ ।। वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः । आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ।। १८ ।। पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा । तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ।। १९ ।। दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति । पिण्डमेकं तदा देय माशौचं चाप्रदानतः ।। २० ।। इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः अष्टविंशतितमः पटलः २९ एकोनत्रिंशत्तमे पटले शैव श्राद्ध विधिः ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् । नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ।। १ ।। प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् । नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ।। २ ।। कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते । वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ।। ३ ।। तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते । तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ।। ४ ।। एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् । श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ।। ५ ।। नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् । चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ।। ६ ।। मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् । नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ।। ७ ।। अनूदकमधूपं च गन्धमाल्य विवर्जितम् । आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ।। ८ ।। एकादशे त्रिपक्षे च तथा च प्रतिमासके । वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ।। ९ ।। षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् । एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ।। १० ।। यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश । पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ।। ११ ।। द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् । त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ।। १२ ।। सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति । मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ।। १३ ।। भोजनं सोदकुंभं च प्रदद्याद् देशिकात्मने । विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ।। १४ ।। सोदकुंभयुतं पश्चात् सपिण्डीकरणं समे । विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ।। १५ ।। षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् । एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ।। १६ ।। अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्याद्संवत्सद्गुरुः ।। १७ ।। पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् । सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ।। १८ ।। समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने । शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ।। १९ ।। एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशांमतम् । पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ।। २० ।। अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् । घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ।। २१ ।। चतुर्थी सप्तमी चैव नवमी च त्रयोदशी । अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ।। २२ ।। अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् । व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ।। २३ ।। विष्वोरपि गजच्छायासंक्रान्त्यादिषु कारयेत् । शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ।। २४ ।। एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये । अन्यदा वापि कर्तव्यं संभवे वसुपात्रयोः ।। २५ ।। रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि । रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ।। २६ ।। गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् । मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।। २७ ।। नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु । यदि कुर्यान्नवश्राद्धम्. कुलक्षयकरं भवेत् ।। २८ ।। शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः । एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ।। २९ ।। पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः । आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ।। ३० ।। * * * * * * * * * * * * * * * * ? । * * * * * * * * * * * * * * * * ? ।। ३१ ।। अमाद्वयस्तु वै मासो मलिनः पापसंभवः । गर्हितः पितृदेवेभ्यः सर्वकर्मसु संत्यजेत् ।। ३२ ।। नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे । वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ।। ३३ ।। नवमी स्यादमावास्या नभस्ये कृष्णपक्षके । तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ।। ३४ ।। तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च । कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ।। ३५ ।। अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः । कन्यां गते सवितरि पितरो यान्ति वै सुतान् ।। ३६ ।। ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ।। ३७ ।। अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति । उपात्तेषु सुसंतानं शकुना इव पिप्पले ।। ३८ ।। मधुमांसैश्च पाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ।। ३९ ।। पूर्वाहृणे दैविकं श्राद्धं अपराहृणे तु पैतृकम् । एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ।। ४० ।। शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके । आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ।। ४१ ।। आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ।। ४२ ।। द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध संपदि । स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ।। ४३ ।। आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः । न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ।। ४४ ।। पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः । उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ।। ४५ ।। शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः । दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ।। ४६ ।। शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ।। ४७ ।। संबन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः । फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ।। ४८ ।। शिवार्चनादिहीनाय शिवज्ञानापहारिणे । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ।। ४९ ।। सरोषमपसव्यं यैश्च युक्तमवज्ञया । सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ।। ५० ।। कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते । मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ।। ५१ ।। दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः । व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।। ५२ ।। अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् । श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ।। ५३ ।। पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।। ५४ ।। दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् । श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ।। ५५ ।। तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् । प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ।। ५६ ।। सोऽयं नरकमाप्नोति कुंभीपाकं न संशयः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ।। ५७ ।। श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः । सैन्धवं लवणं चैव तथा मानस सम्भवम् ।। ५८ ।। पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश । रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ।। ५९ ।। यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव । अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ।। ६० ।। कोद्रवं लवणं सर्वं तथा जम्बूफलानि च । कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ।। ६१ ।। बीजपूरक माषाणि मरीचिं पिप्पलीमपि । कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ।। ६२ ।। वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।। ६३ ।। कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् । पिण्याकं मथितं चापि तथातिलवणं च यत् ।। ६४ ।। हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ।। ६५ ।। निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् । बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ।। ६६ ।। दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ।। ६७ ।। अन्तर्जानु विशेषेण तथैवाचमनं भवेत् । दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ।। ६८ ।। विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमानि तावन्नरकमृच्छति ।। ६९ ।। यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ।। ७० ।। मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् । देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ।। ७१ ।। मृतसंपृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते । नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ।। ७२ ।। आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः । मित्राण्यारोग्यसंपश्च भवेच्छ्रद्धादनिन्दितात् ।। ७३ ।। नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः । कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ।। ७४ ।। भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि । शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ।। ७५ ।। नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् । चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।। ७६ ।। आचार्येण तु भुक्तेन कोटिर्भवति भोजिता । लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ।। ७७ ।। समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे । साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ।। ७८ ।। संभवे कथितं श्राद्धे सर्वे सर्वत्र वामताः । ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ।। ७९ ।। रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः । दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ।। ८० ।। स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः । तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ।। ८१ ।। तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि । पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ।। ८२ ।। बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् । एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ।। ८३ ।। एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् । षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ।। ८४ ।। इत्येवमभिसंधाय श्राद्धकर्म समाचरेत् । निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ।। ८५ ।। वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ । यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ।। ८६ ।। ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः । वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ।। ८७ ।। संयम्य चेन्द्रियग्राममनुगृहानुकम्पया । अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ।। ८८ ।। व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः । अभ्युत्थानासनाद्येन स्वागतेनागतानथ ।। ८९ ।। संभाव्य पादशौचाय कुर्यान्मण्डलकानि तु । सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ।। ९० ।। समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे । द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ।। ९१ ।। दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे । प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ।। ९२ ।। मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा । कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ।। ९३ ।। गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः । देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ।। ९४ ।। अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् । पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ।। ९५ ।। पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके । अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ।। ९६ ।। एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् । साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ।। ९७ ।। तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् । विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ।। ९८ ।। सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु । सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ।। ९९ ।। स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे । मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ।। १०० ।। पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् । दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ।। १०१ ।। सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः । तोयैराचमनं पश्चादाचान्तस्संप्रवेश्य तु ।। १०२ ।। उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते । आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ।। १०३ ।। ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ । कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ।। १०४ ।। न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः । उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ।। १०५ ।। आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः । आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ।। १०६ ।। स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् । अथ रक्षार्थमादाय यवानवकिरेत् परि ।। १०७ ।। प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ । रूपिणा संनिधानाय द्वितयस्य सकृत् सकृत् ।। १०८ ।। प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि । जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ।। १०९ ।। पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् । गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ।। ११० ।। वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा । दीपं च तेन संदद्यादीशानेन पवित्रकम् ।। १११ ।। वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् । तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ।। ११२ ।। कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् । कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ।। ११३ ।। आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् । स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ।। ११४ ।। रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः । त्रयाणां संनिधानार्थमघोरेणाञ्जलौ पृथक् ।। ११५ ।। पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् । भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ।। ११६ ।। तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् । गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ।। ११७ ।। ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् । पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ।। ११८ ।। ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ।। ११९ ।। सौवर्णं राजतं पात्रं ताम्रजं दलसंभवम् । भाजनं शुद्धमादाय भोजनायोपपादयेत् ।। १२० ।। हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् । पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ।। १२१ ।। सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः । शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ।। १२२ ।। कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् । सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ।। १२३ ।। ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः । उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ।। १२४ ।। हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् । पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ।। १२५ ।। अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः । दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ।। १२६ ।। संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् । पवित्रीकरणायेति ततस्सव्यमधोमुखम् ।। १२७ ।। तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च । गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ।। १२८ ।। अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् । आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ।। १२९ ।। शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः । अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ।। १३० ।। देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् । चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ।। १३१ ।। जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः । तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ।। १३२ ।। तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् । उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ।। १३३ ।। कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा । वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ।। १३४ ।। दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् । मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ।। १३५ ।। दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः । विधाय वारिणो धारां वामदेवमुदीरयन् ।। १३६ ।। क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् । संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ।। १३७ ।। क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् । पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ।। १३८ ।। प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये । सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ।। १३९ ।। गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये । वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ।। १४० ।। धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति । ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ।। १४१ ।। स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च । अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ।। १४२ ।। एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् । देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ।। १४३ ।। दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च । इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ।। १४४ ।। पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः । श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ।। १४५ ।। इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् । यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।। १४६ ।। पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् । सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ।। १४७ ।। अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा । इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ।। १४८ ।। पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ।। १४९ ।। ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः । धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ।। १५० ।। गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके । वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ।। १५१ ।। नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि । दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ।। १५२ ।। अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ।। १५३ ।। प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु । अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ।। १५४ ।। नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।। १५५ ।। आवाहनाग्निकरणरहितमपसव्यम् । उत्तिष्टतामित्यक्षययस्थाने तेषां विसर्जनम् ।। १५६ ।। अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे । एको वाथ नरो ग्राहो निमित्तस्य च संमतः ।। १५७ ।। स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् । गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ।। १५८ ।। वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च । आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ।। १५९ ।। उपधानयुतां शययां तदीयमपरं च यत् । दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ।। १६० ।। अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् । नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ।। १६१ ।। अनूदकमधूपं च गन्धमाल्यविवर्जितम् । पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ।। १६२ ।। जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः । प्रणामं न च कुर्वीत स्वधाकारं तथैव च ।। १६३ ।। नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति । अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ।। १६४ ।। हविष्यान्नेन ते मासं वत्सरं पायसेन तु । तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ।। १६५ ।। रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः । तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ।। १६६ ।। गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते । गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ।। १६७ ।। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ।। १६८ ।। ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् । पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ।। १६९ ।। सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप । कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ।। १७० ।। स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा । ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ।। १७१ ।। यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ।। १७२ ।। आयुष्कामो लभेदायुः धनकामो वसूनि च । विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ।। १७३ ।। पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् । एतानि लभते नित्यं श्राद्धदो नावसीदति ।। १७४ ।। प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः । ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ।। १७५ ।। पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः । योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ।। १७६ ।। कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ।। १७७ ।। एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । दानमाचमनं होमं भोजनं देवतार्चनम् ।। १७८ ।। प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् । आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ।। १७९ ।। परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ।। १८० ।। अटवी चाकृतारण्यं नदीतीराणि यानि च । सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ।। १८१ ।। चण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ।। १८२ ।। होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते । दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ।। १८३ ।। वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा । ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ।। १८४ ।। अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ।। १८५ ।। दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः । स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ।। १८६ ।। अथवान्यप्रकारेण कुतपस्त्विह कथ्यते । शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ।। १८७ ।। तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः । पिता पितामहश्चैव प्रपितामह एव च ।। १८८ ।। गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः । क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ।। १८९ ।। स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । पितामही तथा स्वेन तथैव प्रपितामही ।। १९० ।। पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति । मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ।। १९१ ।। मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् । अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ।। १९२ ।। एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता । सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ।। १९३ ।। न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते । अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।। १९४ ।। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ।। १९५ ।। स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः । स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ।। १९६ ।। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ।। १९७ ।। एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी । पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ।। १९८ ।। आसुरादि विवाहेषु विशेषः कश्चिदिष्यते । स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ।। १९९ ।। यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता । तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ।। २०० ।। जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् । पैतृकं तु भवेत् गोत्रं ऊर्ध्वं तु पितृ दैवतम् ।। २०१ ।। पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ।। २०११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम एकोन त्रिंशतितमः पटलः ३० त्रिंशत्तमे पटले प्रायश्चित्त विधिः प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । विधिर्निषेध इत्येवं चोदना द्विविधा मता ।। १ ।। अनुष्ठितायां तस्यांस्याद्यथावद्धर्म संग्रहः । वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ।। २ ।। तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् । यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ।। ३ ।। प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः । चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ।। ४ ।। सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः । तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ।। ५ ।। विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते । तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ।। ६ ।। आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया । कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ।। ७ ।। प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः । कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ।। ८ ।। ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् । स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ।। ९ ।। लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च । शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ।। १० ।। नमस्काराद्यमेतेषां शिवधामनिषेवणम् । शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ।। ११ ।। पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः । शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ।। १२ ।। उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् । शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ।। १३ ।। मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा । एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ।। १४ ।। एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् । विभज्य लक्षणं तेषां केषांचिदिह कथ्यते ।। १५ ।। पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः । सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ।। १६ ।। पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् । प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ।। १७ ।। दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम् । प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ।। १८ ।। मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् । तस्मान्मासावसानं तु हीनमित्यभिधीयते ।। १९ ।। मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् । लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ।। २० ।। आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः । प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ।। २१ ।। स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति । वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ।। २२ ।। पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः । नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ।। २३ ।। अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः । देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ।। २४ ।। सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः । राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ।। २५ ।। तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः । इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ।। २६ ।। अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना । मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ।। २७ ।। शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् । अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ।। २८ ।। मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः । जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ।। २९ ।। अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा । शाकयावकपिण्याककन्दमूलफलाशनः ।। ३० ।। स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् । जपं एव समाख्यातः प्रदक्षिण मथोच्यते ।। ३१ ।। नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः । लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ।। ३२ ।। अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् । गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ।। ३३ ।। गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः । सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ।। ३४ ।। परिहृत्य कृतं सर्वं यदि सर्वफलावहम् । अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।। ३५ ।। प्रासादार्ध प्रमाणं प्रासादसममेव वा । निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ।। ३६ ।। परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् । सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ।। ३७ ।। सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः । सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ।। ३८ ।। सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा । छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ।। ३९ ।। तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् । तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ।। ४० ।। प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ।। ४१ ।। अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् । अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ।। ४२ ।। क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् । एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ।। ४३ ।। कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते । सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ।। ४४ ।। शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् । शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ।। ४५ ।। ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसंज्ञकः । अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ।। ४६ ।। त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् । एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ।। ४७ ।। पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् । सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ।। ४८ ।। तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते । एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ।। ४९ ।। अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते । द्वादशाहनिर्राहारः पराक इति संस्मृतः ।। ५० ।। मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् । चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ।। ५१ ।। सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे । चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ।। ५२ ।। मध्यम द्वितयं वाथ तदर्थं दानमेव वा । उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ।। ५३ ।। मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना । तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ।। ५४ ।। शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् । देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ।। ५५ ।। गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् । संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ।। ५६ ।। अघोरामथवा शैवमस्त्रं पाशुपतं तु वा । अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ।। ५७ ।। कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ । समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ।। ५८ ।। तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् । सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ।। ५९ ।। प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् । स्वाहान्ते भगवन् सर्वक्षोपनाशंपदं ततः ।। ६० ।। कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् । पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ।। ६१ ।। पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् । मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ।। ६२ ।। कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् । तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः ।। ६३ ।। प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे । पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ।। ६४ ।। ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः । स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ।। ६५ ।। तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया । एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ।। ६६ ।। होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् । निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ।। ६७ ।। समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् । होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ।। ६८ ।। एवं शान्तिस्समादिष्टा नवधा सा समीरिता । एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ।। ६९ ।। पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः । कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ।। ७० ।। विसर्जनं तु वा देवे पावकस्य न सर्वथा । शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ।। ७१ ।। स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते । शुभाशास्वग्निदेशे वा मण्डपे समलंकृते ।। ७२ ।। स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेत्घटम् । ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ।। ७३ ।। सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् । परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ।। ७४ ।। विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् । प्रणवासनमारुढं दुराधर्षं महाबलम् ।। ७५ ।। पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ।। ७६ ।। कपालमालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामालानागाभरणलेलिहम् ।। ७७ ।। सूर्यकोट्ययुताभं च विघ्नसंघात मर्दकम् । भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ।। ७८ ।। खड्गचापमहाशूलाभयपाशांश्च दक्षिणे । खेटबाणा कपालांश्च वरप्रासौ च वामतः ।। ७९ ।। पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् । ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ।। ८० ।। ओं श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति । प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ।। ८१ ।। पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे । ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ।। ८२ ।। सर्वे पाशुपतोपेतहृदयादि समन्विताः । फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ।। ८३ ।। इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् । तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ।। ८४ ।। संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले । देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ।। ८५ ।। समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८६ ।। प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् । भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ।। ८७ ।। अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् । पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ।। ८८ ।। प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् । पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ।। ८९ ।। कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् । प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ।। ९० ।। अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः । समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ।। ९१ ।। कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् । ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ।। ९२ ।। होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना । कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसंख्यया ।। ९३ ।। दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः । प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ।। ९४ ।। लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा । मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ।। ९५ ।। यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु । दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ।। ९६ ।। वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा । स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ।। ९७ ।। सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् । एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ।। ९८ ।। मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च । अथैतद्यागशालायां कर्म सर्वं समापयेत् ।। ९९ ।। अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च । तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ।। १०० ।। शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके । तदग्रे संयजेदस्त्रंशिवाख्यंदेशिकोत्तमः ।। १०१ ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ।। १०२ ।। अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ।। १०३ ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् । दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ।। १०४ ।। सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते । ओं ह्रींङ्कारं ततः कृष्णवाससे चेति यत्पदम् ।। १०५ ।। ततश्च सिह्मवदने महावदन इत्यपि । महाभैरविवर्णे च सर्वशत्रुपदं ततः ।। १०६ ।। कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः । च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ।। १०७ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ।। १०८ ।। सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् । सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ।। १०९ ।। ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन । प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ।। ११० ।। ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः । प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ।। १११ ।। दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् । तथैव तस्मान्नेत्राणुश्चतुस्त्रिं/शद्भिरस्त्रकम् ।। ११२ ।। त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः । नमः स्वाहावषड्वौषड् ह्रुंफड् युक्ता हृदादयः ।। ११३ ।। सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ।। ११४ ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ।। ११५ ।। कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् । मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ।। ११६ ।। अट्टहासरवोपेतां कृष्णाजिन समन्विताम् । ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ।। ११७ ।। अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् । गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ।। ११८ ।। पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् । चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ।। ११९ ।। तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् । प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ।। १२० ।। इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् । कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ।। १२१ ।। स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह । तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ।। १२२ ।। कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् । प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ।। १२३ ।। प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।। १२४ ।। तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः । चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ।। १२५ ।। प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः । प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ।। १२६ ।। रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् । अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ।। १२७ ।। कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः । कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ।। १२८ ।। देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः । देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ।। १२९ ।। प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् । दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ।। १३० ।। दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते । प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ।। १३१ ।। समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः । होमश्च पुरुषाघोरवामाजैर्दिक्षु संमतः ।। १३२ ।। स्नपनादिषु होमेऽयं चतुर्दिक्षु च संमतः । वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ।। १३३ ।। शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे । उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ।। १३४ ।। सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते । तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ।। १३५ ।। पलाशसमिदाज्यान्नैश्शत संख्या शिवाणुना । शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ।। १३६ ।। ततोऽघोराणुना होमं पञ्चविंशतिसंख्यया । प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ।। १३७ ।। संहिताहोम एष स्यान्मूर्तिहोमो विधीयते । हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ।। १३८ ।। शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे । अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ।। १३९ ।। ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् । गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ।। १४० ।। मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् । यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ।। १४१ ।। वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः । दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ।। १४२ ।। दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि । ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। १४३ ।। प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ।। १४४ ।। सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ।। १४५ ।। नृत्यन्तं तं महाकायं नागाभरण भूषितम् । देवदानवदैत्यानां दर्पितानां विमर्दकम् ।। १४६ ।। वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् । पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ।। १४७ ।। तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे । स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ।। १४८ ।। संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना । तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले ।। १४९ ।। समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् । हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ।। १५० ।। प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले । कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ।। १५१ ।। पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च । पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ।। १५२ ।। अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् । स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ।। १५३ ।। लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् । तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ।। १५४ ।। प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि । अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।। १५५ ।। गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि । ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ।। १५६ ।। गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् । संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ।। १५७ ।। भस्मापि यजमानाय दातव्यं होमकर्मणि । अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ।। १५८ ।। मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः । अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ।। १५९ ।। यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् । संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ।। १६० ।। अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् । स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ।। १६१ ।। समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् । पञ्चाशत्संख्यकं वापि तदर्थं वा पृथक् पृथक् ।। १६२ ।। पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ । शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ।। १६३ ।। क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा । पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ।। १६४ ।। विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् । पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ।। १६५ ।। पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् । संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ।। १६६ ।। एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः । कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ।। १६७ ।। संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः । शान्त्युक्तदिन संख्याया वशेनैतत्समाचरेत् ।। १६८ ।। मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा । यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ।। १६९ ।। एकसन्ध्यादि भेदेन नित्यपूजा विलोपने । द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ।। १७० ।। लोपे चासनसंस्कारोपचाराणामथावृतेः । पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ।। १७१ ।। निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे । अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ।। १७२ ।। गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् । दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ।। १७३ ।। नीराजनस्य वा दीपमालास्थेनाहृतेन वा । मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ।। १७४ ।। लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः । लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ।। १७५ ।। दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके । हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ।। १७६ ।। कृमिकीटनराद्यस्थिनखरोमादिदर्शने । देवाय दत्तद्रव्येषु नखरोमादिदर्शने ।। १७७ ।। श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे । सामान्यप्राणिसंभूत मलयुक्तैरथापिवा ।। १७८ ।। नैवेद्याहरणे काले तोयसेके विलोपिते । तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ।। १७९ ।। प्रागेव निश्चित द्रव्यहीने तस्य वर्धने । लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ।। १८० ।। मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति । बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ।। १८१ ।। काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने । अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ।। १८२ ।। केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः । होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ।। १८३ ।। बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते । वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ।। १८४ ।। गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने । अतोद्य नृत्तकरणे वितानस्य विलोपने ।। १८५ ।। बलिप्रदान कालेतु वाद्यदीपविलोपने । पादुकाराधन हीने तद्याने वा विलोपिते ।। १८६ ।। अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये । उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ।। १८७ ।। बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके । सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ।। १८८ ।। सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा । तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ।। १८९ ।। अतोद्यनृत्तवैकल्ये नीराजनविलोपने । तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ।। १९० ।। अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः । कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ।। १९१ ।। सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते । निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ।। १९२ ।। बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः । दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ।। १९३ ।। विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा । आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ।। १९४ ।। अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे । एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ।। १९५ ।। अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते । एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ।। १९६ ।। स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् । मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ।। १९७ ।। विधाय पूजां त्रिगुणां द्विगुणां वा समामथ । उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ।। १९८ ।। नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः । कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ।। १९९ ।। प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः । त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ।। २०० ।। चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् । प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ।। २०१ ।। अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् । दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ।। २०२ ।। तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता । दिनानि यानि हीनानि पूजया नित्यसंज्ञया ।। २०३ ।। तदहस्संख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् । एक मासावधिं यावत्ततस्संप्रोक्षणं नयेत् ।। २०४ ।। नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः । द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ।। २०५ ।। तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् । पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ।। २०६ ।। आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते । शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ।। २०७ ।। अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः । पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ।। २०८ ।। विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् । शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ।। २०९ ।। नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके । तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ।। २१० ।। पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता । तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ।। २११ ।। शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् । दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ।। २१२ ।। अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः । पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ।। २१३ ।। तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः । गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ।। २१४ ।। तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः । धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ।। २१५ ।। घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः । पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ।। २१६ ।। दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता । आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ।। २१७ ।। नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् । ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ।। २१८ ।। अथ काण्डपटे हीने देवानां संनिधिक्षयः । भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २१९ ।। देवं संपूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे । शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ।। २२० ।। तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे । कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ।। २२१ ।। द्रव्याणामेव चैतेषामर्धे पादे तदर्धके । प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ।। २२२ ।। जप्त्वा देवाय तद्द्रव्यंद्विगुणं दापयेत्ततः । द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ।। २२३ ।। अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः । दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ।। २२४ ।। स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा । नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ।। २२५ ।। दद्योजातनरेशानाश्शतधावर्त्य देशिकः । याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ।। २२६ ।। दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः । प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ।। २२७ ।। हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः । संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ।। २२८ ।। नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते । विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ।। २२९ ।। अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् । पूर्वसंकल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ।। २३० ।। जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा । अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ।। २३१ ।। शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः । धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ।। २३२ ।। धूपारात्रिकयोर्दानकाले नीराजनस्य च । दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ।। २३३ ।। वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके । अणुना महता वापि राज्ञो रोगो भविष्यति ।। २३४ ।। संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् । पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ।। २३५ ।। संपूज्य देवदेवेशं मूर्तिहोमं समाचरेत् । अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ।। २३६ ।। लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना । निर्दग्धानि तदा कुर्यात् कर्म संप्रोक्षणादिकम् ।। २३७ ।। दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् । दहने सद्मनः कुर्यात् सद्म संप्रोक्षणात्मकम् ।। २३८ ।। देवाय स्नपनं कुर्यात् धामच्छेदादिसंभव । तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ।। २३९ ।। वह्निना लिङ्गबेरादावन्यवर्णमुपायते । मानुषं चेत् परित्याज्यं ग्राह्यं स्वायंभुवादिकम् ।। २४० ।। प्रतिक्रियानुकर्मोक्त्या कार्या संप्रोक्षणान्विता । पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ।। २४१ ।। सकले विकले कुर्याच्छिवस्य स्नपनं महत् । प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ।। २४२ ।। दीपानामथ वैकल्ये जपेदघोर शतत्रयम् । दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ।। २४३ ।। रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् । हविष्य दत्ते देवाय स्नपनं तु विधाय च ।। २४४ ।। द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि । अथ काण्डपटे हीने कवचं द्विशतं जपेत् ।। २४५ ।। गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् । कृमिकीटनराद्यस्थिनखरोमादि दर्शने ।। २४६ ।। त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् । शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ।। २४७ ।। पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् । श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ।। २४८ ।। स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया । सामान्यप्राणि संभूतमलयुक्ते तथाचरेत् ।। २४९ ।। नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् । हीनं लङ्घनं तत्र यदि जायेत दोषदम् ।। २५० ।। अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा । शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ।। २५१ ।। आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् । प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ।। २५२ ।। तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे । प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ।। २५३ ।। नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता । लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ।। २५४ ।। तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः । पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ।। २५५ ।। पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् । अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ।। २५६ ।। बलिदानविहीनं चेद्भवन्त्यखिलदेवताः । तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ।। २५७ ।। दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः । नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ।। २५८ ।। अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च । पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ।। २५९ ।। यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् । होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ।। २६० ।। तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः । प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ।। २६१ ।। शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् । कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ।। २६२ ।। तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा । अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ।। २६३ ।। होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः । अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ।। २६४ ।। शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे । वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ।। २६५ ।। पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् । इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ।। २६६ ।। शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् । अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ।। २६७ ।। कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा । नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ।। २६८ ।। किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः । रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ।। २६९ ।। तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे । सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ।। २७० ।। तत्संख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् । होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ।। २७१ ।। नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् । तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ।। २७२ ।। सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् । अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ।। २७३ ।। पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् । दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ।। २७४ ।। तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु । एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ।। २७५ ।। शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः । पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ।। २७६ ।। वर्धयेद्युग्म संख्यातं पक्षपक्षावसानकम् । नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ।। २७७ ।। निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा । बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ।। २७८ ।। तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा । वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ।। २७९ ।। गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् । तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ।। २८० ।। तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् । एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ।। २८१ ।। कृत्वा तु संहिताहोममघोर जपमेव वा । सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ।। २८२ ।। तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् । एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ।। २८३ ।। पादुकाराधने हीने याने वा पादरोगता । कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ।। २८४ ।। अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये । विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ।। २८५ ।। उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे । उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ।। २८६ ।। बेरादिपतने यानकाले संवत्सरोक्तवत् । तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ।। २८७ ।। बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् । पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ।। २८८ ।। ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे । पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ।। २८९ ।। विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् । भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ।। २९० ।। सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् । पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ।। २९१ ।। नवभिः कलशैर्वाथ गव्यस्नपनमेव वा । सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ।। २९२ ।। पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने । सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ।। २९३ ।। पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि । तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ।। २९४ ।। ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् । सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ।। २९५ ।। सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् । अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ।। २९६ ।। सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः । यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ।। २९७ ।। स्नपनं वा त्वघोरेण सहस्रजपमेववा । सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ।। २९८ ।। गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् । प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ।। २९९ ।। आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते । सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ।। ३०० ।। नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् । देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ।। ३०१ ।। द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च । शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ।। ३०२ ।। अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् । अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ।। ३०३ ।। अघोरजपसाहस्रमथ पञ्चशतं तु वा । कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ।। ३०४ ।। स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् । गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ।। ३०५ ।। स्थलशुद्धिं तदा कृत्वा देवं संपूज्य यत्नतः । अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ।। ३०६ ।। निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते । तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ।। ३०७ ।। क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः । अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ।। ३०८ ।। हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा । राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ।। ३०९ ।। सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः । तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ।। ३१० ।। पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः । षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ।। ३११ ।। स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः । अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ।। ३१२ ।। सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् । सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ।। ३१३ ।। बालातिबाला युवतिर्वृद्धाति श्रेयसी मता । अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ।। ३१४ ।। मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी । अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ।। ३१५ ।। सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः । तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ।। ३१६ ।। श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते । अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ।। ३१७ ।। आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता । सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ।। ३१८ ।। आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने । कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ।। ३१९ ।। आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने । पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ।। ३२० ।। द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः । षाण्मासोर्ध्वे विधातव्यं कर्मसंप्रोक्षणं द्विजाः ।। ३२१ ।। षाण्मासात्परतो यस्मादतो देवलकाह्वये । अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ।। ३२२ ।। मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता । चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ।। ३२३ ।। विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् । सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ।। ३२४ ।। अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् । कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ।। ३२५ ।। पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् । अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ।। ३२६ ।। एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः । अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ।। ३२७ ।। अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके । रिपुणा संगृहीतो वा देवी वा केवलाद्विजाः ।। ३२८ ।। देवीं विहाय देवो वा केवलो रिपुणा हृतः । तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ।। ३२९ ।। स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे । स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ।। ३३० ।। पिण्डिकापतने वाधः परिवारविलोपने । बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ।। ३३१ ।। तद्दाहपतनादौ च प्राकारे गोपुरे तथा । जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ।। ३३२ ।। कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः । उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ।। ३३३ ।। पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ । गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ।। ३३४ ।। गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः । चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।। ३३५ ।। हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः । शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ।। ३३६ ।। स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके । प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ।। ३३७ ।। परिवारालये वान्तर्मण्डपे वा द्वितीयके । महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ।। ३३८ ।। निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः । परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ।। ३३९ ।। अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे । उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ।। ३४० ।। गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके । विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ।। ३४१ ।। अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने । प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ।। ३४२ ।। साले वा मालिकायुक्ते केवले गोरुराङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ।। ३४३ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ।। ३४४ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिलीसंभवे वाथ मधुपञ्जर संभवे ।। ३४५ ।। बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ।। ३४६ ।। तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये । अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ।। ३४७ ।। दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि । मठे प्रपादिके वापि आरामादावथापि वा ।। ३४८ ।। लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ३४९ ।। वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके । कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ।। ३५० ।। स्थापिते शिवकुम्भे वा करके कलशेऽपिवा । भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ।। ३५१ ।। शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः । स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ।। ३५२ ।। स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके । विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ।। ३५३ ।। रत्नहेमाम्बरादीनां विलोपे च घटादिषु । गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ।। ३५४ ।। कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ३५५ ।। पवित्रारोहणे हीने दमनारोहणेऽपिवा । कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ।। ३५६ ।। बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते । पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ।। ३५७ ।। भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः । पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ।। ३५८ ।। एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते । अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ।। ३५९ ।। अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् । पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ।। ३६० ।। अघोरेण शतं होमं समिदाज्यतिलोदनैः । रिपुणा संगृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ।। ३६१ ।। तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते । सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ।। ३६२ ।। लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च । लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ।। ३६३ ।। सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् । मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ।। ३६४ ।। कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले । लक्षणोद्धारणं दृष्टि मोचनं जलवेशनं ।। ३६५ ।। विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः । अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ।। ३६६ ।। मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि । प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ।। ३६७ ।। तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् । तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।। ३६८ ।। संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना । कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ।। ३६९ ।। प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा । प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ।। ३७० ।। तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् । आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ।। ३७१ ।। संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः । संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ।। ३७२ ।। मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः । संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ।। ३७३ ।। अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः । तत्प्रासादानुरूपेण यजमानानुरूपतः ।। ३७४ ।। लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना । बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ।। ३७५ ।। बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् । देवीं विहाय देवो वा देवी वा केवला यदा ।। ३७६ ।। शत्रुभिस्संगृहीता चेत् स्थितस्यैवानुरूपतः । संपाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ।। ३७७ ।। कल्याणं कारयेदन्ते विधिना देशिकोत्तमः । स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ।। ३७८ ।। देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् । पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ।। ३७९ ।। प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् । आग्नेययामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ।। ३८० ।। नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् । वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ।। ३८१ ।। ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् । उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ।। ३८२ ।। शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् । प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ।। ३८३ ।। स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् । प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ।। ३८४ ।। कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् । प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ।। ३८५ ।। स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् । स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ।। ३८६ ।। तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते । शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ।। ३८७ ।। कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् । प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ।। ३८८ ।। पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले । ततस्संप्रोक्षणं कुर्यात् स्थलकर्मावसानके ।। ३८९ ।। पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः । पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ।। ३९० ।। सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् । नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ।। ३९१ ।। ततस्संप्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि । परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ।। ३९२ ।। परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः । बलिपीठे विहीने तु सर्वदोषावहं भवेत् ।। ३९३ ।। संकल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् । तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ।। ३९४ ।। शान्तिहोमं तदा कृत्वा संप्रोक्षणमथाचरेत् । प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ।। ३९५ ।। राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् । ततस्संप्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ।। ३९६ ।। कृत्वा गव्येन संप्रोक्ष्य शान्तिमेकाहमाचरेत् । कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ।। ३९७ ।। उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः । पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।। ३९८ ।। गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः । गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ।। ३९९ ।। चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः । हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।। ४०० ।। शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा । स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ।। ४०१ ।। राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते । मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ।। ४०२ ।। गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः । गव्येन स्नपनं कृत्वा संप्रोक्षनमथाचरेत् ।। ४०३ ।। ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति । शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ।। ४०४ ।। चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् । गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ।। ४०५ ।। संप्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः । ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ।। ४०६ ।। तदा संप्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् । चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ।। ४०७ ।। संप्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् । शान्तिकर्मदिशाहोमं क्रमात्संप्रोक्षणं नयेत् ।। ४०८ ।। त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने । प्रथमे च द्वितीये च चण्डालविहितं तु यत् ।। ४०९ ।। प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् । प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ।। ४१० ।। शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् । दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ।। ४११ ।। परिवारालयावेशेऽप्येतदेव समीरितम् । कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ।। ४१२ ।। चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् । कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ।। ४१३ ।। गोमयालोपनाद्यं च समानं सर्वकर्मसु । परिवारालयोक्तं प्रायश्चित्तं महानसे ।। ४१४ ।। महानससमा ज्ञेया बलिपीठेषु निष्कृतिः । निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ।। ४१५ ।। परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् । कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ।। ४१६ ।। अर्धमण्डपवेशादौ तस्य दोषो न विद्यते । अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ।। ४१७ ।। चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा । कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ।। ४१८ ।। उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् । गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ।। ४१९ ।। विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने । संप्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ।। ४२० ।। कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः । आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ।। ४२१ ।। दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः । ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ।। ४२२ ।। तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते । मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ।। ४२३ ।। दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः । दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ।। ४२४ ।। पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः । प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ।। ४२५ ।। साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ।। ४२६ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ।। ४२७ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ।। ४२८ ।। बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ।। ४२९ ।। पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः । रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ।। ४३० ।। पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् । मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ।। ४३१ ।। शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् । तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ।। ४३२ ।। सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः । राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ।। ४३३ ।। तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् । वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ।। ४३४ ।। वारुण्यां धनलाभस्यादादौ चोरभयं पुनः । वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ।। ४३५ ।। तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् । गृहनाशो भवेद्वारे शयनस्थानके मृतिः ।। ४३६ ।। तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् । द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ।। ४३७ ।। तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः । दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ।। ४३८ ।। तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु । सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ।। ४३९ ।। प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः । लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ।। ४४० ।। मधुनीडसमुत्पत्तावेवमेव फलं भवेत् । वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ।। ४४१ ।। खातयोग्यं खनित्वादावापूर्य लवणादिभिः । शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ।। ४४२ ।। पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः । संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ।। ४४३ ।। बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा । गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ।। ४४४ ।। जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् । कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ।। ४४५ ।। राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् । मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ।। ४४६ ।। संशोध्य गोमयाम्भोभिस्संप्रोक्ष्यास्रजवारिणा । देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ।। ४४७ ।। वल्मीकस्य पुरा प्रोक्तदिनसंख्यावशेन तु । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ४४८ ।। महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् । पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ।। ४४९ ।। वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् । अघोरं त्रिशतं जप्त्वा संपूर्णस्नपनं नयेत् ।। ४५० ।। विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते । हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ।। ४५१ ।। कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा । जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ।। ४५२ ।। पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः । इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ।। ४५३ ।। यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् । द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ।। ४५४ ।। क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धयस । स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ।। ४५५ ।। भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते । तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ।। ४५६ ।। तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् । जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ।। ४५७ ।। कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् । शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ।। ४५८ ।। संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् । सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ।। ४५९ ।। अघोरेणजपः पश्चात् कर्तव्यश्शतसंख्यया । तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ।। ४६० ।। पिधानलोपे घोरेण शतसंख्यं जपेद्गुरुः । कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ।। ४६१ ।। उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् । तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ।। ४६२ ।। रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् । तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ।। ४६३ ।। पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा । गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ।। ४६४ ।। तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे । पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ।। ४६५ ।। कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् । शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ।। ४६६ ।। जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ४६७ ।। पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः । तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ।। ४६८ ।। देवं संपूज्य विधिवत् दिशाहोमं तु कारयेत् । इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ।। ४६९ ।। दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः । दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ।। ४७० ।। मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके । राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ।। ४७१ ।। बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा । भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ।। ४७२ ।। संपूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते । कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ।। ४७३ ।। सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् । विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ।। ४७४ ।। तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः । शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ।। ४७५ ।। विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् । समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ।। ४७६ ।। कुम्भे च करके पीठे मृदादिपरिकल्पिते । इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ।। ४७७ ।। तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः । पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ।। ४७८ ।। तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् । एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ।। ४७९ ।। पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् । क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ।। ४८० ।। सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः । पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ।। ४८१ ।। कर्तारं बाधते नित्यं शक्तानपि च बाधते । तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ।। ४८२ ।। ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये । उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ।। ४८३ ।। एककालं द्विकालं वा त्रिकालं जपसंयुतम् । गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ।। ४८४ ।। सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा । सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ।। ४८५ ।। साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा । स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ।। ४८६ ।। जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् । वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ।। ४८७ ।। भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च । कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ।। ४८८ ।। पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि । ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ।। ४८९ ।। शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः । विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ।। ४९० ।। अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः । नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ।। ४९१ ।। तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च । व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ।। ४९२ ।। ततस्थानं देवदेवस्य शिवस्यामिततेजसः । योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ।। ४९३ ।। वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा । सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ।। ४९४ ।। निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा । पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ।। ४९५ ।। ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च । गणपस्कन्दनन्दीश वसूनां नागपस्य च ।। ४९६ ।। मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः । कल्पितं स्थानमीशस्य योग्यमेव न संशयः ।। ४९७ ।। सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् । साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ।। ४९८ ।। ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति । ते तु दुर्मतयः प्रोक्तास्सुचिरं संचरन्त्यलम् ।। ४९९ ।। रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः । मदैक शरणा ये तु तैः पूज्योहं न चापरैः ।। ५०० ।। अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ।। ५०१।। तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् । सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ।। ५०२ ।। देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ।। ५०३ ।। प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै । तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ।। ५०४ ।। बालाबलानां बद्धानामातुराणां च पादतः । प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ।। ५०५ ।। ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ।। ५०६ ।। अतो बालनरस्यास्य नापराधो न पातकम् । राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ।। ५०७ ।। देश आदिश्यते येन दिशिकस्त्विति कथ्यते । देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ।। ५०८ ।। भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च । हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ।। ५०९ ।। नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते । सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ।। ५१० ।। प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः । कामतस्तूपवासश्च लुप्ते देवार्चने यदा ।। ५११ ।। एककालार्चके वापि द्विकालाद्यर्चकेपि वा । एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ।। ५१२ ।। उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते । बहुकालार्चकस्यापि द्विकालादि विलोपने ।। ५१३ ।। लुप्तसंख्यावशेनैव प्रायश्चित्तं समाचरेत् । द्विदिनादि विलोपे तु बहुरूपसहस्रतः ।। ५१४ ।। प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने । अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ।। ५१५ ।। संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते । स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ।। ५१६ ।। नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः । लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ।। ५१७ ।। हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः । सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ।। ५१८ ।। साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् । द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ।। ५१९ ।। एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् । जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ।। ५२० ।। संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः । अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ।। ५२१ ।। द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः । संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र संमता ।। ५२२ ।। अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा । प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ।। ५२३ ।। ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः । क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ।। ५२४ ।। लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् । पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ।। ५२५ ।। श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः । त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ।। ५२६ ।। मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् । रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ।। ५२७ ।। तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् । विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ।। ५२८ ।। तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् । विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ।। ५२९ ।। स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् । प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ।। ५३० ।। वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् । चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ।। ५३१ ।। लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि । नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ।। ५३२ ।। अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि । विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ।। ५३३ ।। अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् । प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ।। ५३४ ।। अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् । व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ।। ५३५ ।। गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । अविधाय पवित्रं तदाषाढादिषु पञ्चसु ।। ५३६ ।। लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् । पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ।। ५३७ ।। अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते । जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ।। ५३८ ।। शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते । सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ।। ५३९ ।। स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः । नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ।। ५४० ।। शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् । अक्षमालां कराद्भ्रष्टां आलयेद्गन्धवारिणा ।। ५४१ ।। गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि । घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ।। ५४२ ।। पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा । शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। ५४३ ।। प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् । केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ।। ५४४ ।। अघोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ।। ५४५ ।। अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् । पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ।। ५४६ ।। द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् । महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ।। ५४७ ।। एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् । निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ।। ५४८ ।। भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने । अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ।। ५४९ ।। यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः । निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ।। ५५० ।। लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ।। ५५१ ।। चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् । ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ।। ५५२ ।। नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।। ५५३ ।। पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ।। लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् । स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ।। ५५५ ।। यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा । पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ।। ५५६ ।। भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा । देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ।। ५५७ ।। व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् । करोति यस्य संमूढा मद्धनस्तेयकृन्मतः ।। ५५८ ।। मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा । यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ।। ५५९ ।। त एवातीत दुष्टामद्भक्षितादपि सोषदाः । तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ।। ५६० ।। नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः । निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।। ५६१ ।। सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् । मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ।। ५६२ ।। स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते । भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ।। ५६३ ।। शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति । अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ।। ५६४ ।। भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः । मद्देहधारिणो लोके देशिका मत्परायणाः ।। ५६५ ।। मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु । तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ।। ५६६ ।। सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् । प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ।। ५६७ ।। मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् । अघोरायुत जापश्च गोमयालिप्तमण्डले ।। ५६८ ।। पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् । प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ।। ५६९ ।। अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् । एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ।। ५७० ।। उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् । महापातकिनां प्रोक्तं महाव्रतमिहागमे ।। ५७१ ।। अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५७२ ।। महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः । कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ।। ५७३ ।। ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते । तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ।। ५७४ ।। अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् । गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ।। ५७५ ।। दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् । अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ।। ५७६ ।। पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् । माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ।। ५७७ ।। सामान्यानि विजानीयाद् मद्यान्येकादशैव तु । द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ।। ५७८ ।। पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् । एकादशसुरापाने कुर्याद्व्रतदशांशकम् ।। ५७९ ।। सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः । गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ।। ५८० ।। द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते । सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ।। ५८१ ।। सुवर्णस्यापहारेण शतादभ्याधिके वधः । क्षत्रियादिषु संप्रोक्तो विप्रस्य न वधः क्वचित् ।। ५८२ ।। निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् । दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ।। ५८३ ।। शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु । शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ।। ५८४ ।। रजतस्यापहरणे धान्यस्य द्विगुणं मतम् । सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ।। ५८५ ।। दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि । गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ।। ५८६ ।। याजनं योनि संबन्धं स्वाध्यायं सहभोजनम् । पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ।। ५८७ ।। वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् । अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ।। ५८८ ।। मातृष्वसा च भगिनी स्वसुता च पितृष्वसा । आसां च गमनं विप्रास्त्वनुपातकमीरितम् ।। ५८९ ।। विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः । चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ।। ५९० ।। लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः । द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ।। ५९१ ।। तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु । दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ।। ५९२ ।। संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति । देवक्षेत्रापहरणं देवोपहरणाहृतिः ।। ५९३ ।। शिवागमापहारश्च शिवलिङ्गापहारणम् । शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ।। ५९४ ।। उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् । पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ।। ५९५ ।। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । सगोत्रा मातुलानीं च समान प्रवरा च या ।। ५९६ ।। तासां संगमनं चोपपातकं समुदाहृतम् । परिवित्तिः परिवेत्ता तयोर्याजनमेव च ।। ५९७ ।। तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् । गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त संग्रहः ।। ५९८ ।। पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने । उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ।। ५९९ ।। भूवेश्मरत्नवापीनां कुजानामपहर्तृता । वापीकूपतटाकादेर्हरणं तूपपातकम् ।। ६०० ।। गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः । उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ।। ६०१ ।। तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे । तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ।। ६०२ ।। तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् । तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ।। ६०३ ।। उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् । गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ।। ६०४ ।। गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति । गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ।। ६०५ ।। गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् । रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ।। ६०६ ।। पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । याजने पादहीनं स्याच्चरेत् सर्वं निपातने ।। ६०७ ।। औषधं लवणं चैव स्नेहपिण्याहभोजनम् । अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।। ६०८ ।। न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् । बलाभावाद्विपद्येत गौश्चरन्ती कथंचन ।। ६०९ ।। जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ।। ६१० ।। शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा । शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ।। ६११ ।। उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् । कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ।। ६१२ ।। नास्तिक्यमभिचारश्चायाज्य याजनमेव च । नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ।। ६१३ ।। मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् । तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ।। ६१४ ।। भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् । वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ।। ६१५ ।। नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् । वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ।। ६१६ ।। स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् । स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ।। ६१७ ।। पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् । शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ।। ६१८ ।। विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् । रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ।। ६१९ ।। रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् । विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ।। ६२० ।। चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् । व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ।। ६२१ ।। विप्रस्त्रीगमने चैवोपव्रतंतु समाचरेत् । पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ।। ६२२ ।। ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि । विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ।। ६२३ ।। उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् । महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ।। ६२४ ।। एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् । शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ।। ६२५ ।। शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये । कन्यासंगमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ।। ६२६ ।। वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? । तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ।। ६२७ ।। अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये । प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ।। ६२८ ।। अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु । रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ।। ६२९ ।। नदीशैलूषिकी वेणुजीवनी गमने व्रतम् । पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ।। ६३० ।। अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः । गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ।। ६३१ ।। न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् । न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ।। ६३२ ।। न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् । शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ।। ६३३ ।। उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः । उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ।। ६३४ ।। सहस्रमयुतं चैव जपो मध्यमहीनयोः । द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ।। ६३५ ।। जघन्योच्छिष्ट संपर्कादेवं शतगुणं भवेत् । जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ।। ६३६ ।। शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् । स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ।। ६३७ ।। सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् । स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ।। ६३८ ।। तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः । निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ।। ६३९ ।। कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः । सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ।। ६४० ।। यनश्ययासनानां च कांस्यरीतिशिलायसाम् । त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ।। ६४१ ।। व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् । वानरश्वमृगाणां च विष्ठाशनवराहयोः ।। ६४२ ।। दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते । शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ।। ६४३ ।। हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये । उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ।। ६४४ ।। कुक्कुटश्येन भासानामथ हंसमयूरयोः । पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ।। ६४५ ।। कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः । पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ।। ६४६ ।। मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः । नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ।। ६४७ ।। वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा । पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ।। ६४८ ।। भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः । तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ।। ६४९ ।। अनस्थिमत्सु चैतेषु शताघोरजपोमतः । अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ।। ६५० ।। हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा । पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ।। ६५१ ।। कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् । गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ।। ६५२ ।। योगंकृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् । प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ।। ६५३ ।। अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते । कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ।। ६५४ ।। अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् । गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ।। ६५५ ।। तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् । पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ।। ६५६ ।। पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः । मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ।। ६५७ ।। निषेधाभावतस्तस्य दोषस्तत्र न जायते । नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ।। ६५८ ।। गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् । गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ।। ६५९ ।। काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः । सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ।। ६६० ।। पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् । घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ।। ६६१ ।। कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् । रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ।। ६६२ ।। धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् । पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ।। ६६३ ।। अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् । क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ।। ६६४ ।। अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतंजपेत् । अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ।। ६६५ ।। उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः । दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ।। ६६६ ।। तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते । तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ।। ६६७ ।। स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति । आचम्यादीक्षितेनापि सजातीशशतं जपेत् ।। ६६८ ।। सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् । तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ।। ६६९ ।। इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु । शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ।। ६७० ।। भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु । स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ।। ६७१ ।। इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये । त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ।। ६७२ ।। पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः । कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ।। ६७३ ।। गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च । कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ।। ६७४ ।। ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् । रजकादि प्रवेशादावयुतार्धमजानतः ।। ६७५ ।। बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः । हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ।। ६७६ ।। शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा । भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ।। ६७७ ।। उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता । प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ।। ६७८ ।। तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् । दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ।। ६७९ ।। चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा । शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ।। ६८० ।। तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः । उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ।। ६८१ ।। विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् । तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ।। ६८२ ।। शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् । शरावपत्र पुटक प्रभृतीनां च भोजने ।। ६८३ ।। शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते । सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ।। ६८४ ।। गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः । बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ।। ६८५ ।। प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा । ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ।। ६८६ ।। विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा । श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ।। ६८७ ।। नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः । उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ।। ६८८ ।। जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना । अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ।। ६८९ ।। निर्माल्यसंकरे कामात् संपूज्यश्चण्डनायकः । तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ।। ६९० ।। अकामतोवा संपर्कात् केवलस्य शतं भवेत् । वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ।। ६९१ ।। जलजानां च सर्वेषां वैणवानां तथाम्भसा । स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ।। ६९२ ।। शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् । मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ।। ६९३ ।। फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् । क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ।। ६९४ ।। अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते । परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ।। ६९५ ।। प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा । समयानां प्रमादे तु शक्तिजापः प्रशस्यते ।। ६९६ ।। वस्त्रशययासनादीनां स्तेये गायत्रिकाशतम् । गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ।। ६९७ ।। शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः । म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ।। ६९८ ।। सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने । पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ।। ६९९ ।। अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ।। ७०० ।। देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ।। ७०१ ।। अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। ७०२ ।। आततायिनमायान्तमपि शस्त्रान्तगं रणे । जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ।। ७०३ ।। युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा विचारतः ।। ७०४ ।। असूर्या नाम ये लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ।। ७०५ ।। न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् । यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ।। ७०६ ।। ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् । शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ।। ७०७ ।। तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् । शैवं पाशुपतं कालामुखं कापालधारिणम् ।। ७०८ ।। यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना । ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ।। ७०९ ।। शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ । तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ।। ७१० ।। अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ।। ७११ ।। देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः । तथैवेह समुद्दिष्टमभिशापो महात्मनि ।। ७१२ ।। औषधं स्नेहमाहारं ददतो बन्धकस्य च । प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ।। ७१३ ।। प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् । निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ।। ७१४ ।। नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः । तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ।। ७१५ ।। तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् । तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ।। ७१६ ।। किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् । द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ।। ७१७ ।। क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः । ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ।। ७१८ ।। विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् । लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ।। ७१९ ।। मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा । मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ।। ७२० ।। उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा । राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ।। ७२१ ।। वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता । यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ।। ७२२ ।। दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः । सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ।। ७२३ ।। सर्वलोपेकृते तस्य महादोषः प्रजायते । शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ।। ७२४ ।। अनेन विधिना येन सर्वैनैमित्तिकादितः । विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ।। ७२५ ।। शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् । वृषाधिवासने हीने ध्वजे वारोपिते सति ।। ७२६ ।। गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् । वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ।। ७२७ ।। किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् । ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ।। ७२८ ।। शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् । ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ।। ७२९ ।। शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये । वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ।। ७३० ।। शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् । दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ।। ७३१ ।। मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा । स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ।। ७३२ ।। स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् । दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि संभवे ।। ७३३ ।। शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् । ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयंकरः ।। ७३४ ।। सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् । शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ।। ७३५ ।। एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् । ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ।। ७३६ ।। अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते । रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ।। ७३७ ।। आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् । पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ।। ७३८ ।। शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् । ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ।। ७३९ ।। पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः । पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ।। ७४० ।। मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा । केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ।। ७४१ ।। लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् । दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ।। ७४२ ।। दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः । रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ।। ७४३ ।। दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः । प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ।। ७४४ ।। उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् । ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ।। ७४५ ।। आवर्तयेदघोरेण त्रिशतं देशिकस्तदा । घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ।। ७४६ ।। आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा । ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ।। ७४७ ।। वृषकुम्भविभेदादिकारणात् केतुरोहणम् । कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ।। ७४८ ।। मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे । तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ।। ७४९ ।। एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् । आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ।। ७५० ।। एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः । ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ।। ७५१ ।। तदधो लम्बिते केतौ शान्तिहोमं विधाय च । आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ।। ७५२ ।। भेरीसंताडने हीने लोको मूकः प्रजायते । शान्तिहोमं तदा कृत्वा भेरीसंताडयेत्ततः ।। ७५३ ।। उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् । देवतावाहने हीने देवादीनामसन्निधिः ।। ७५४ ।। शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् । ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ।। ७५५ ।। अनाहूतास्तदा दोषो नान्यानाहूतिरापदि । पताकारोपणोपेते देवानावाहयेन्न वा ।। ७५६ ।। भेरीताडनकार्यं तु तद्वदेव समाचरेत् । भेरीचर्मादि भेदादौ कोणच्छेदादि संभवे ।। ७५७ ।। अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् । तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ।। ७५८ ।। कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् । तत्काले बलिकाले वा वादके पतिते भुवि ।। ७५९ ।। शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये । भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ।। ७६० ।। शान्तिहोमं तदा कृत्वा भेरीं संपूजयेद्धृदा । यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ।। ७६१ ।। विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् । कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ।। ७६२ ।। प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् । ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ।। ७६३ ।। शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये । विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ।। ७६४ ।। स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे । उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ।। ७६५ ।। नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् । यागोपकरणेऽप्येवं किं तु यागावसानके ।। ७६६ ।। शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च । प्रधानाधममध्यानां करणानां विलोपने ।। ७६७ ।। शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् । विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ।। ७६८ ।। पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये । शिवकुंभेषुवर्धन्यावृतेषु घटेषु वा ।। ७६९ ।। उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् । भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ।। ७७० ।। शान्तिहोममघोराणुजपं पञ्चशतं चतुः । शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ।। ७७१ ।। कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् । वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ।। ७७२ ।। स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः । कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ।। ७७३ ।। शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये । कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ।। ७७४ ।। जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः । पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ।। ७७५ ।। सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् । हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ।। ७७६ ।। स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये । शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ।। ७७७ ।। जपेद्घोरं त्रिशतं तदङ्गानां विलोपने । तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ।। ७७८ ।। पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् । आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ।। ७७९ ।। बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् । त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ।। ७८० ।। उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् । स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ।। ७८१ ।। वृषिकाले महावाते राष्ट्रक्षोभे महाभये । ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ।। ७८२ ।। स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः । एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ।। ७८३ ।। अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः । तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ।। ७८४ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ।। ७८५ ।। वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् । बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ।। ७८६ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ।। ७८७ ।। तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् । आलये बलियाने वा तस्यां देवालयावृतौ ।। ७८८ ।। देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः । तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ।। ७८९ ।। नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः । इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ।। ७९० ।। ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते । अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ।। ७९१ ।। अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो । तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ।। ७९२ ।। अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः । एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ।। ७९३ ।। अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् । अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ।। ७९४ ।। हीनेविताने घोरणोः शतसंख्यं जपं नयेत् । ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसंख्यया ।। ७९५ ।। ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः । बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ।। ७९६ ।। तद्दिनाधिपमन्त्रेण जपेतद्विशतसंख्यया । बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ।। ७९७ ।। बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् । मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ।। ७९८ ।। देवालये बलिर्हीनो यदाघोरं शतं जपेत् । यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ।। ७९९ ।। तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् । विधाय यानकाले वातदन्ते वा बलिं नयेत् ।। ८०० ।। अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि । शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ।। ८०१ ।। तच्छेदभेदपातादौ तथैव फलमादिशेत् । तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ।। ८०२ ।। विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् । नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ।। ८०३ ।। पतितं चेत्यजेदन्नं संपाद्यान्नं समाचरेत् । समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ।। ८०४ ।। बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् । भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ।। ८०५ ।। दशायुधानि वा भूमौ संभूतानि पतन्तिचेत् । निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ।। ८०६ ।। च्छेदभेदादियुक्तानि यदि दारुमयानि वा । तथान्यानि समापाद्य संभूतानीतराणि वा ।। ८०७ ।। संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् । लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ।। ८०८ ।। शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च । धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ।। ८०९ ।। च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् । उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ।। ८१० ।। समाप्योत्सवकार्यं तु तत्संधायानुकर्मवत् । संप्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ।। ८११ ।। यानकालेऽन्यकाले वा बेरादौ पतिते सति । राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ।। ८१२ ।। अव्यङ्गे पतिते बेरे पतिते वा करादधः । द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ।। ८१३ ।। संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती । स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ।। ८१४ ।। नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् । अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ।। ८१५ ।। अधिवासादिकं कर्म सद्य एव समाचरेत् । मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ।। ८१६ ।। पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् । उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ।। ८१७ ।। तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् । कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ।। ८१८ ।। धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः । गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ।। ८१९ ।। ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि । प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ।। ८२० ।। उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च । लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ।। ८२१ ।। उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः । बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ।। ८२२ ।। शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा । कुर्वाणश्चेत् क्रियांभूमौ पतितो देशिकस्तदा ।। ८२३ ।। ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् । जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ।। ८२४ ।। बलिदातरि तत्काले पतिते तं शतं जपेत् । आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ।। ८२५ ।। गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः । पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ।। ८२६ ।। पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः । अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ।। ८२७ ।। प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः । विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ।। ८२८ ।। निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् । रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ।। ८२९ ।। शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् । यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ।। ८३० ।। सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् । तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ।। ८३१ ।। सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् । आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ।। ८३२ ।। पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् । विनोद दर्शन काले जातश्चेत् कलहो महान् ।। ८३३ ।। शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् । विनोददर्शने हीने संहिताहोममाचरेत् ।। ८३४ ।। नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् । यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ।। ८३५ ।। देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया । स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ।। ८३६ ।। हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते । प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ।। ८३७ ।। तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह । शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ।। ८३८ ।। नृत्तमूर्त्युत्सवे हीने पूर्वसंकल्पिते नराः । भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ।। ८३९ ।। नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् । यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ।। ८४० ।। शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् । मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ।। ८४१ ।। शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् । हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ।। ८४२ ।। तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति । निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ।। ८४३ ।। एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति । अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ।। ८४४ ।। चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् । शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ।। ८४५ ।। विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः । चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ।। ८४६ ।। महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः । शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ।। ८४७ ।। पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा । कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ।। ८४८ ।। तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः । प्रासादे मनुजे जाते मृते राजो भयं महत् ।। ८४९ ।। मृतादि तत्प्रोदेशांत्तु विसृज्य च बहिस्ततः । प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ।। ८५० ।। तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै । मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ।। ८५१ ।। परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् । प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ।। ८५२ ।। पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् । शैव संभोजनं चान्ते जलसंप्रोक्षणं नयेत् ।। ८५३ ।। स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् । शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ।। ८५४ ।। प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना । अन्तस्सालान्तरे चेद्धि जलसंप्रोक्षणं नयेत् ।। ८५५ ।। अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् । गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ।। ८५६ ।। त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः । अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ।। ८५७ ।। पाकस्थानादि देशेषु मरणादौ च संभवे । पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ।। ८५८ ।। शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा । प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ।। ८५९ ।। धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि । परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ।। ८६० ।। कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् । सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ।। ८६१ ।। सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः । गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ।। ८६२ ।। स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् । केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ।। ८६३ ।। देवतामण्डपे तत्स्थदेवान् संप्रोक्ष्य गव्यतः । संपूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ।। ८६४ ।। एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च । उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ।। ८६५ ।। शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः । ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ।। ८६६ ।। गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् । एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ।। ८६७ ।। वस्त्रशययासनादीनां दाहच्छेदादि संभवे । दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ।। ८६८ ।। कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् । पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ।। ८६९ ।। प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः । वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ।। ८७० ।। महादोष समाख्यातो दोषो नान्यत्र कथ्यते । एवमेव नराणां च तदा स्नानं विधाय च ।। ८७१ ।। जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् । नराणां शिवभक्तानां दीक्षितानां शिवाय वा ।। ८७२ ।। वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये । कारयेत् संहिताहोमघोरं वा जपेत्तथा ।। ८७३ ।। अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे । संप्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ।। ८७४ ।। तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् । संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ।। ८७५ ।। गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् । गव्यसंप्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ।। ८७६ ।। सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् । गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।। ८७७ ।। मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् । श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ।। ८७८ ।। चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके । स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ।। ८७९ ।। तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् । यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ।। ८८० ।। व्यपोह्य पूर्वकुम्भादीन् संपूज्य वृषभध्वजम् । मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ।। ८८१ ।। कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् । कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ।। ८८२ ।। महानसेऽथवा स्थानमम्डपे गोपुरादिके । विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ।। ८८३ ।। प्रपायामग्निदग्धायां संहिताहोममाचरेत् । विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ।। ८८४ ।। अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् । स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ।। ८८५ ।। शान्तिश्च शान्तिहोमश्च संहिता होम एव च । दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ।। ८८६ ।। परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् । उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म संमतम् ।। ८८७ ।। ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् । महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ।। ८८८ ।। प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् । सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ।। ८८९ ।। अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः । अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ।। ८९० ।। आचार्य संकरो राष्ट्रं राजानं नाशयत्यथ । एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ।। ८९१ ।। कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसंकरः ।। ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि कल्पनम् ।। ८९२ ।। दीपनैवेद्य संकॢप्तिर्देवे नित्यार्चनं च यत् । सकलाराधनं यच्च परिवारार्चनादिकम् ।। ८९३ ।। नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् । उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ।। ८९४ ।। तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् । अनेक नरनिर्वत्य कथमेकः करोत्यहो ।। ८९५ ।। शिवः - साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् । नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ।। ८९६ ।। एकाचार्येण कर्तव्यमिति साधूदितं मवा । देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ।। ८९७ ।। तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः । आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ।। ८९८ ।। शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः । रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ।। ८९९ ।। तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् । यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ।। ९०० ।। यत्कृतं राजकार्यं स्यात्तथैवापि संमतम् । अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ।। ९०१ ।। तत्र संकरदोषोऽपि फलमेवं च निष्कृतिः । क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ।। ९०२ ।। सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् । अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः ।। ९०३ ।। शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये । शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ।। ९०४ ।। तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ।। ९०५ ।। इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ।। प्रणवासनमारूढं दुराधर्पं महाबलम् । पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् । कपाल मालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामाला नागाभरण लेलिहम् । सूर्यकोट्ययुताभं च विघ्नसंघातमर्दकम् । भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ।। खड्गचापमहाशूलाभय पाशांश्च दक्षिणे । खेट वाण कपालांश्च वरप्रासौ च वामतः ।। पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् । ध्यात्वैवं उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ।। सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् । वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ।। कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् । मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ।। अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ।। ध्यायेत् सूर्यसहस्राभं अघोरास्त्रं अरिन्दमम् । प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।। त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् । सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ।। चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् । नृत्यमानं महाकार्यं नागाभरणभूषितम् ।। देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३१. एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् । रजन्यां दर्शनं भानोः परराज भयं भवेत् ।। १ ।। विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् । दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ।। २ ।। पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा । संभवे भूमि कंपेतु नृप भङ्गो भवेद् ध्रुवम् ।। ३ ।। मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ संमितैः । तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ।। ४ ।। स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् । सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ।। ५ ।। प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् । नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ।। ६ ।। तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् । सांबं कुंभे च वर्धन्यां परितोष्ठ घटेषु च ।। ७ ।। स सूत्रांबरहैमेषु सप्ततीर्थं च कन्यया । पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ।। ८ ।। कुंभांभः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् । प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ।। ९ ।। सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् । कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ।। १० ।। शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् । तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ।। ११ ।। जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् । प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ।। १२ ।। गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् । पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ।। १३ ।। भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् । सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ।। १४ ।। मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् । मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ।। १५ ।। तद्द्रव्य स्नपनं कुर्यात् भूमिकंपोक्तमार्गतः । विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ।। १६ ।। शैवान् संभोजयेत् प्रश्चादेवं सप्ताहमाचरेत् । लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ।। १७ ।। लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे । संपूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ।। १८ ।। दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः । पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ।। १९ ।। लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा । वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ।। २० ।। शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् । अकस्मात्पतितं धाम मूलादामस्तकं यदि ।। २१ ।। नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् । स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ।। २२ ।। शान्त्युक्त दिन संख्यया वशेनैतत्समाचरेत् । प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ।। २३ ।। त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके । कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ।। २४ ।। प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः । स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ।। २५ ।। नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् । अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ।। २६ ।। निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् । धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ।। २७ ।। अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा । मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ।। २८ ।। धाम स्थानान्तरं प्राप्तं यदिलिंगादिसंयुतम् । नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ।। २९ ।। संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् । शैव संभोजनोपेतां विप्रभुक्ति समन्वितम् ।। ३० ।। लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा । बाणलिंगादिकं वाथ प्रासादेन समन्वितम् ।। ३१ ।। अथवा पूर्वलिंगं चेत् तत्प्रासाद समन्वितम् । अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ।। ३२ ।। हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् । स्थानानन्तर गतं लिंगं उदक् पूर्वत्र विन्यसेत् ।। ३३ ।। तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना । वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ।। ३४ ।। तद् वृक्ष जाति संभूत समिद्भिर्मूर्ति होमकम् । समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ।। ३५ ।। तत्समीपे स्थिते लिंगे स्वयं भूतादिके परम् । स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ।। ३६ ।। स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति संभवम् । तदन्य कुसुमे जाते तदन्य फल संभवे ।। ३७ ।। संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे । सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ।। ३८ ।। तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् । शिवलिङ्गे च बेरे वा पीठे वोष्णादि संभवे ।। ३९ ।। सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् । गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ।। ४० ।। स्नापयेत् परमेशानं पञ्चामृत समन्वितम् । अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ।। ४१ ।। सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः । चन्दनागरु कर्पूरोशीर कुंकुम संयुतम् ।। ४२ ।। गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् । दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ।। ४३ ।। शीतकुंभोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा । नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ।। ४४ ।। जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि । बहुशीर्षक हस्तांघ्रि नासादेहादि संयुतः ।। ४५ ।। स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः । स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ।। ४६ ।। तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् । शिवं संपूज्य विधिवत् दिशाहोमं समाचरेत् ।। ४७ ।। शैवान्संपूज्य विधिवत् शान्तिहोमं समाचरेत् । शिवान्संभोजये देवं नयेद्वा सप्तपञ्चमम् ।। ४८ ।। निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने । नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ।। ४९ ।। युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् । शिवं संपूज्य विधिवत् दिशा होमन्तु कारयेत् ।। ५० ।। स्नापयेत् परमेशानं नव सप्ताह माचरेत् । लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ।। ५१ ।। प्रक्षाल्यास्त्रांबुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् । लिंगे बेरे विमाने वा मण्डपे गोपुरादिषु ।। ५२ ।। परिवारालये साले देवेशास्थानमण्डपे ।। ५२१/२ ।। सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् । नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ।। ५३१/२ ।। तत्र लिंगे च पिठे च बेरे वायं विधिर्भवेत् । दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ।। ५४१/२ ।। अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् । पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ।। ५५१/२ ।। सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् । स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ।। ५६१/२ ।। एवं कृतेतु सप्ताहं अन्ते चोत्सव माचरेत् । प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ।। ५७१/२ ।। अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् । प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ।। ५८१/२ ।। शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् । प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ।। ५९१/२ ।। शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके । सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ।। ६०१/२ ।। प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः । तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ।। ६११/२ ।। ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् । करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ।। ६२१/२ ।। सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे । महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ।। ६३१/२ ।। पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् । धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ।। ६४१/२ ।। गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् । शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ।। ६५१/२ ।। पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् । शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ।। ६६१/२ ।। लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् । क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ।। ६७१/२ ।। तदर्धैवा तदर्धैवा शीत कुंभ स्तदन्तिके । लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ।। ६८१/२ ।। राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा । पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ।। ६९१/२ ।। शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः । चन्दनो शीर कर्पूर कुंकुमा गरु संयुतम् ।। ७०१/२ ।। पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् । संपूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ।। ७११/२ ।। शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि । भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ।। ७२१/२ ।। संप्रोक्ष्यस्त्रांबुना भेरी प्रमुखान् गन्धपुष्पकैः । अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ।। ७३१/२ ।। प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने । जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ।। ७४१/२ ।। नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् । रात्राविंद्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ।। ७५१/२ ।। शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने । अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ।। ७६१/२ ।। वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ।। ७७ ।। नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः । अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ।। ७८ ।। प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति । राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ।। ७९ ।। सप्ताहं वाथ पञ्चाहं तत् पात दिन संख्यकम् ! ।। ७९१/२ ।। स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये । क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे ।। ८०१/२ ।। चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते । तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ।। ८११/२ ।। शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् । वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ।। ८२१/२ ।। क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् । तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ।। ८३१/२ ।। लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके । सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ।। ८४१/२ ।। शिवं संपूज्य विधिवत् दिशाहोमन्तु कारयेत् । पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ।। ८५१/२ ।। अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिके । समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ।। ८६१/२ ।। शिवं संपूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् । तद्देशे शान्ति च यद्देशे पतितिस्तरुः ।। ८७१/२ ।। तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके । तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ।। ८८१/२ ।। शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् । तदेक शाखा पतने कलहो भुवि जायते ।। ८९१/२ ।। शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् । द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ।। ९०१/१ ।। शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः । एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ।। ९११/२ ।। शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि । मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ।। ९२१/२ ।। नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः । उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ।। ९३१/२ ।। कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे । अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ।। ९४१/२ ।। सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः । तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ।। ९५१/२ ।। अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः । आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ।। ९६१/२ ।। षड्वेद नेत्रमात्रं तु वेष्टयेत् लिंग पिण्डिके । बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ।। ९७१/२ ।। मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् । एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ९८१/२ ।। राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा । गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ।। ९९१/२ ।। संपूज्य देव देवेशं सप्ताहं शान्ति माचरेत् । पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ।। १००१/२ ।। मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु । तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ।। १०११/२ ।। शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये । प्रत्यहं होमरक्षां च देव देव प्रसादजम् ।। १०२१/२ ।। भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः । सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ।। १०३१/२ ।। गुरुं पुरोहितं वाथ महिषीं गजमेव च । वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ।। १०४१/२ ।। प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा । परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ।। १०५१/२ ।। ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् । मार्जार प्रमुखानां रोदनं यदि जायते ।। १०६१/२ ।। स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये । तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ।। १०७१/२ ।। शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च । शान्ति होमोऽथवा घोर जपो मार्जाररोदने ।। १०८१/२ ।। शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् । अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत् ।। १०९१/२ ।। लिंगे बेरे च पीठादौ खद्योतारोहणे सति । राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ।। ११०१/२ ।। तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् । तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ।। ११११/२ ।। स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा । नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ।। ११२१/२ ।। लिंगमूले च पीठे वा बेरे वा गर्भगेहके । परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ।। ११३१/२ ।। प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये । तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ।। ११४१/२ ।। पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् । कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ।। ११५१/२ ।। संजाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् । चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ।। ११६१/२ ।। सूर्येवास्तंगते तस्मिन् उदयात् पूर्वमेव वा । दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ।। ११७१/२ ।। दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् । शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ।। ११८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः पटलः ३२. द्वात्रिंशत्तमे पटले अनुकर्मविधिः अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् । प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ।। १ ।। हीने जात्यादि संस्थानेमानोन्मानादि हीनए । तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ।। २ ।। मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् । मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ।। ३ ।। तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते । स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ।। ४ ।। शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते । अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ।। ५ ।। मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः । अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ।। ६ ।। नागरे नागरं कुर्याद्वेसरे वेसरं मतम् । द्राविडे च तथा कार्यं वराटादौ तथा मतम् ।। ७ ।। घनेऽघने विमाने तु तथा भवनमिष्यते । भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ।। ८ ।। पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् । द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ।। ९ ।। नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि । नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ।। १० ।। अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् । सुस्थितंदुस्थितं वापि शिवलिङ्गं न चालयेत् ।। ११ ।। जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् । जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ।। १२ ।। जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते । जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ।। १३ ।। तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च । जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ।। १४ ।। भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते । लक्ष्मोज्झितंवज्रहतं संपुटं स्फुटितं तथा ।। १५ ।। आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् । त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ।। १६ ।। जीर्णाद्यैस्संयुतंत्याज्यं पीठं वा कशिला वृषः । अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ।। १७ ।। चलितं चालितं लिङ्गं पतितं पातितं तथा । अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ।। १८ ।। परित्यक्त शिलायोगमपि न स्थापितं भवेत् । तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ।। १९ ।। असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् । जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ।। २० ।। नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् । ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ।। २१ ।। न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः । स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ।। २२ ।। शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् । सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ।। २३ ।। बेरेऽप्येतत्समानं स्यांद्दुष्टे त्वन्यत्प्रयोजयेत् । बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ।। २४ ।। पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् । अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ।। २५ ।। लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः । कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ।। २६ ।। उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् । पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ।। २७ ।। उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् । अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ।। २८ ।। वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः । ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ।। २९ ।। शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् । ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ।। ३० ।। प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् । पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ।। ३१ ।। तमेव स्थापयेत्तत्र पुनरापादनं विना । भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ।। ३२ ।। शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् । रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ।। ३३ ।। वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले । लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ।। ३४ ।। तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् । अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ।। ३५ ।। तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा । सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ।। ३६ ।। ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः । शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ।। ३७ ।। अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् । पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ।। ३८ ।। चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकम्ज् । मण्डपे परिवारे च परिवारालयेऽप्यथा ।। ३९ ।। अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः । अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ।। ४० ।। ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ । सप्रमाणे यथा शास्त्रं विहितालंकृतान्विते ।। ४१ ।। अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते । प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ।। ४२ ।। दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते । तद्वास्तु परितोवृद्धिः समावाविषमापि वा ।। ४३ ।। गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् । ग्रामादीनां गृहादीनां शालानां च विशेषतः ।। ४४ ।। आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः । समं वा योजयेत्तस्मादधिकं वापि योजयेत् ।। ४५ ।। युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् । गृहमालिकयोर्भूमिं संख्ययापरिकल्पयेत् ।। ४६ ।। सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु । उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ।। ४७ ।। हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् । जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ।। ४८ ।। किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् । लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ।। ४९ ।। स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् । यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ।। ५० ।। सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते । तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ।। ५१ ।। पूर्वद्वारसमोपेत मेकतोरण संयुतम् । सर्वालंकार संयुक्तन्तर्भामालादि संयुतम् ।। ५२ ।। तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् । मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ।। ५३ ।। समिदाज्यतिलोपेतं हविषा च समन्वितम् । वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ।। ५४ ।। सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः । ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ।। ५५ ।। अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः । अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ।। ५६ ।। एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् । क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ।। ५७ ।। गत्वात दन्तिकं मंत्री हृदास्नाप्य प्रपूजयेत् । व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ।। ५८ ।। प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः । व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ।। ५९ ।। चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१/२ नमस्कारान्त संयुक्तं हृदयाद्यंग पञ्चकम् । न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ।। ६०१/२ ।। स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः । ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ।। ६११/२ ।। सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति । लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ।। ६२१/२ ।। विद्याविद्येश्वरैर्युक्तश्शंभुरत्रभविष्यति । एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ।। ६३१/२ ।। तस्माद्देवं समावाह्यकुंभे संस्थापयेत् गुरुः । अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ।। ६४१/२ ।। सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते । तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ।। ६५१/२ ।। संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् । प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ।। ६६१/२ ।। ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् । हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ।। ६७१/२ ।। विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् । तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ।। ६८१/२ ।। सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् । शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ।। ६९१/२ ।। भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् । प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ।। ७०१/२ ।। महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् । तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ।। ७११/२ ।। स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा । गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ।। ७२१/२ ।। एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः । मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ।। ७३१/२ ।। सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः । तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ।। ७४१/२ ।। तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके । संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ।। ७५१/२ ।। मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ । तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ।। ७६१/२ ।। मूललिंगन्नलब्धञ्चेद्देशकालानुरोधतः । षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ।। ७७१/२ ।। बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् । द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ।। ७८१/२ ।। कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः । षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ।। ७९१/२ ।। तत्र स्थं बाललिंगाद्यं त्यक्त्वामूलन्तुविन्यसेत् । सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ।। ८०१/२ ।। द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् । नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ।। ८११/२ ।। एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः । किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ।। ८२१/२ ।। परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः । शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ।। ८३१/२ ।। दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः । भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ।। ८४१/२ ।। शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः । तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ।। ८५१/२ ।। आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे । लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ।। ८६१/२ ।। वामदक्षिणसिद्धान्तभेदेन नव भेदिनः । शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ।। ८७१/२ ।। गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः । प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ।। ८८१/२ ।। तैरपि स्थापितं लिंगं मादिशैवस्समर्चयेत् । यामलत्व परंज्ञेयं तच्चमिश्रमिहोच्यते ।। ८९१/२ ।। वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् । वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ।। ९०१/२ ।। सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः । व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ।। ९११/२ ।। वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् । लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ।। ९२१/२ ।। तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् । गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ।। ९३१/२ ।। कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा । बृहस्पतिमतं सांख्यं योगंवैखानसन्तथा ।। ९४१/२ ।। वेदान्ताख्यञ्च मीमांस पुराणन्धर्म शास्त्रकम् । वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ।। ९५१/२ ।। तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् । सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ।। ९६१/२ ।। रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् । तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ।। ९७१/२ ।। लिंगाद्यमादिशैवेन स्थापितं पूजितन्तुवा । तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ।। ९८१/२ ।। तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः । तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ।। ९९१/२ ।। यदितैः पूजितं पश्चात् सेनानिं सेनया सह । अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ।। १००१/२ ।। शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति । तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ।। १०११/२ ।। तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् । राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ।। १०२१/२ ।। शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः । आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ।। १०३१/२ ।। तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः । तत् स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ।। १०४१/२ ।। शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः । कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ।। १०५१/२ ।। पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् । पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ।। १०६१/२ ।। अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् । कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ।। १०७१/२ ।। मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च । महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ।। १०८१/२ ।। ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः । तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ।। १०९१/२ ।। कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ।। ११० ।। पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् । लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ।। १११ ।। अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः । जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ।। ११२ ।। एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् । स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ।। ११३ ।। पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः । पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ।। ११४ ।। कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् । स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ।। ११५ ।। लिंगसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः । लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ।। ११६ ।। शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् । गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ।। ११७ ।। देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् । स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ।। ११८ ।। च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते । दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ।। ११९ ।। अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् । शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः।। १२० ।। ब्राह्मणान् भोजयेत् पश्चात् शैवान् संभोजयेत्ततः । प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ।। १२१ ।। मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा । मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ।। १२२ ।। सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये । आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ।। १२३ ।। तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् । सर्वेरंगैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ।। १२४ ।। लिङ्गे स्वायंभुवादौ तु जीर्णादौ शान्तिरीरितः । सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ।। १२५ ।। प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते । उत्सेधेरविमात्रान्तंक्षन्तव्यञ्चाङ्गुलादिकम् ।। १२६ ।। द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यंगेषुमात्रकम् । ग्रामखेटपुरादौतुदंडान्तं परिकीर्तितम् ।। १२७ ।। सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके । चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ।। १२८ ।। द्वाराद्यंगेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके । तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ।। १२९ ।। इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः ।। ३३. त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः काम्ययोग विधानंतु प्रवक्ष्यामि समासतः । काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ।। १ ।। सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः । तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ।। २ ।। व्यालबद्धजटाचूटः कपालदलमण्डितः । सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ।। ३ ।। चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् । महाकायो महादंष्ट्री किङ्किणीखसंयुतः ।। ४ ।। महाशूलाग्र संप्रोत महासुर विनाशनः । खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ।। ५ ।। वराभयकपालाहि पाशप्रासगदायकरः । दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ।। ६ ।। स्वसेना रक्षको नित्यं परसेनाभयंकरः । वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ।। ७ ।। सर्वदोष विनाशे तु समर्थो भक्तवत्सलः । असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ।। ८ ।। आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ।। ९ ।। चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः । त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ।। १० ।। सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः । ओं जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ।। ११ ।। एष एवामृतेशस्स्यादादौ कूटयुतो न वा । रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ।। १२ ।। हकारेण शरीरं तु रसमित्यादितः पठेत् । अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ।। १३ ।। आदौ स्याद्देवदेवेशेति (पदं) समुद्धरेत् । प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ।। १४ ।। पीठं जुंकारकॢप्तंस्यान्मूर्तिरों जुंसतो भवेत् । मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ।। १५ ।। कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् । अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ।। १६ ।। सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ।। १७ ।। व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः । त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ।। १८ ।। दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। १९ ।। अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो । न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ।। २० ।। भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् । तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ।। २१ ।। अमृतेशेन देवेन जलं संग्राह्य यत्नतः । शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ।। २२ ।। क्षीरेण सहसंपृक्तदूर्वाकाण्डमखण्डितम् । ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ।। २३ ।। देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् । नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ।। २४ ।। मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् । प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ।। २५ ।। कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम् । गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ।। २६ ।। स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान पुरादीनि न संशस्यः ।। २७ ।। किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा । अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ।। २८ ।। रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ।। २९ ।। स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् । किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ।। ३० ।। सप्तायुध समायुक्तं सर्वाभरणभूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। ३१ ।। धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् । मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ।। ३२ ।। पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् । पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ।। ३३ ।। शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् । दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ।। ३४ ।। घण्टां खेटं कपालं च शत्रुसंक्षय संमुखम् । अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ।। ३५ ।। अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः । ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिंदमम् ।। ३६ ।। प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।। ३७ ।। सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ।। ३८ ।। नृत्यमानं महाकायं नागाभरणभूषितम् । देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३९ ।। प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् । घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ।। ४० ।। ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः । चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ।। ४१ ।। ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् । घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ।। ४२ ।। प्रान्ते स्यादूहुंफडित्येवं चतुर्थ्यन्तं हृदादिकम् । नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ।। ४३ ।। परचक्रप्रथमने महाव्याधि प्रकोपने । शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ।। ४४ ।। किमनेन बहूक्तेन भयकालेऽप्युपस्थिते । मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ।। ४५ ।। परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् । मन्त्राणि योगयुक्तानि पावके शलभा यथा ।। ४६ ।। तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् । अनेनैव प्रकारेण ध्यात्वा संपूजयेद् गुरुः ।। ४७ ।। अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् । दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ।। ४८ ।। विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् । चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ।। ४९ ।। अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् । एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ।। ५० ।। हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् । संग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ।। ५१ ।। एवमभ्यर्चयेद्वोऽसौ सोऽयंमत्सदृशोमतः । तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ।। ५२ ।। सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः । पालनीयोविशेषेण साधकाधिपतिस्सदा ।। ५३ ।। दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते । वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ।। ५४ ।। फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि । ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ।। ५५ ।। दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् । मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ।। ५६ ।। स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः । नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ।। ५७ ।। शुद्धस्फटिकसंकाशं प्रसन्नवदनान्वितम् । गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ।। ५८ ।। व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् । शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ।। ५९ ।। वामे पद्मं च वह्निं च वरदाभयदं तु वा । पुस्तकेन युतंवाथ दधानं नयनत्रयम् ।। ६० ।। महावृषभसंयुक्तमनिसंघैस्समावृतम् । ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ।। ६१ ।। यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् । चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। ६२ ।। अथवान्य प्रकारेण भैरवं विकृताननम् । ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ।। ६३ ।। संग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः । अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ।। ६४ ।। यत् किंचित् क्रियते कर्म त्रैलोक्ये येन केनचित् । रहितो मन्त्रराजेन नैव सिध्यति साधकः ।। ६५ ।। आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पधस्तम् वक्त्रैर्युक्तं चतुर्भिः परमरुण चतुश्शक्तिभिर्व्याप्तदिक्कम् । कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालं भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि खट्वाङ्ग हस्तम् ।। ६६ ।। ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् । विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ।। ६७ ।। भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः । नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ।। ६८ ।। दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः । तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ।। ६९ ।। कामाचररतो वापि भावयेद्भास्करं सदा । वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।। ७० ।। सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् । ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ।। ७१ ।। शत्रुकृत्यादि संभूतरोगानीक विनाशनम् । चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ।। ७२ ।। स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु । ओं ह्रींकारं समुद्धृत्य तदन्ते कृष्णवाससे ।। ७३ ।। ततश्च सिंहवदने महावदन इत्यपि । महाभैरविवर्णेच सर्वशत्रुपदं तथा ।। ७४ ।। कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ।। ७५ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ।। ७६ ।। सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ।। ७६१/२ ।। ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ।। ७७१/२ ।। प्रत्यंगिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः । तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यंगिरात्मकः ।। ७८१/२ ।। प्रत्यंगिरेयं विख्यात श्शतवर्ण स्वरूपिणी । आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ।। ७९१/२ ।। दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् । तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ।। ८०१/२ ।। त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः । नमस्वाहावषड्वौषट् हुंपट्युक्ता हृदादयः ।। ८११/२ ।। सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् । कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ।। ८२१/२ ।। वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ।। ८३१/२ ।। अट्टहासादि शब्दैस्तु गर्जितामुदितामपि । कृष्णांबर धरां सासृक् मांसास्यां नर्तनेरताम् ।। ८४१/२ ।। मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् । कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ।। ८५१/२ ।। देवींध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् । ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ।। ८६१/२ ।। विद्याधरत्वलाभाय कृष्णागरुयुतं परम् । अथवा नाभिकंजल्कं जुहुयात् साधकोत्तमः ।। ८७१/२ ।। कदंबकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् । प्रियंगु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ।। ८८१/२ ।। करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् । खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ।। ८९१/२ ।। सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् । पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ।। ९०१/२ ।। धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् । कृष्णनीलं घृतं चैव स्तंभयेदभिचारतः ।। ९११/२ ।। रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् । कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ।। ९२१/२ ।। होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् । महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ।। ९३१/२ ।। गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् । जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ।। ९४१/२ ।। कुंकुमारोचनाश्चैव कार्पास फल गुग्गुलुः । वेणुनाभेदनं सद्यो भवेदेव न संशयः ।। ९५१/२ ।। निम्बपुष्पं तथाब्रीहिं निंबतैलसमायुतम् । अर्कक्षीर समायुक्तं होमयेदपिपारतम् ।। ९६१/२ ।। राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः । घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ।। ९७१/२ ।। दुकूल चरुलाजांश्च मधुत्रय समन्वितान् । औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ।। ९८१/२ ।। जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् । अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ।। ९९१/२ ।। मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् । विषमज्वर नाशाय चूतपत्राणि होमयेत् ।। १००१/२ ।। घृतेन सहसार्द्राणि प्लुतमृत्युंजिता तथा यथा । सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ।। १०११/२ ।। वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये । पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ।। १०२१/२ ।। सहस्रमयुतं वाथ लक्षन्तत्रिगुणंन्तु वा !! ।। १०३ ।। इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः त्रयस्त्रिंशतितमः पटलः ।। रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टक समोपेतं उर्ध्वकेशं सुदंष्ट्रिणम् ।। स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् । किंकिणीमालया भ्राजात् पादनुपूरसंयुतम् ।। सप्तायुध समायुक्तं सर्वाभरण भूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम् मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम् पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम् शूलमूलं च वेतालं खङ्गं हमरुगं शुभम् दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् । घण्टां खेटं कपालं च शत्रुसक्षय संमुखम् अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रं अर्चयेत् ।। तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् । व्यालबद्धजटाचूटः कपालदलमण्डितः ।। सुरपिंगेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः । चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ।। माकायो माहदंष्ट्री किंकिणीरवसंयुतः । महाशूलाग्रसंप्रोत महासुर विनाशनः ।। खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् । वराभयकपालाहि पाश प्रासगदाकरः ।। दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ।। अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ।। सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ।। व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः । त्रिशूलं चाभयं (डमरुं) चोर्ध्वे सुधाकलशमध्ययोः ।। दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे । आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् । वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ।। कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् । भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ।। ३४. चतुस्त्रिंशत्तमे पटले संप्रोक्षण विधिः । संप्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् । आवर्तंचेत्यनावर्तं पुनरावर्तनन्तथा ।। १ ।। ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् । मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ।। २ ।। तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते । पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ।। ३ ।। मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि । लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ।। ४ ।। मूलास्यात्समादाय स्थाप्य बालालये पुनः । तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ।। ५ ।। प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः । स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ।। ६ ।। चर्मच्छेदेऽहीने च भूषणादि विहीनके । अम्बुजासनहीने च स्थलकर्मविहीनके ।। ७ ।। विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते । यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ।। ८ ।। आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् । लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ।। ९ ।। न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः । कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ।। १० ।। आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् । लक्षणोद्धारणं तोयाधिवासः शयनं तथा ।। ११ ।। अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह । सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ।। १२ ।। ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम् । रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ।। १३ ।। शययाधिवासनं विप्रा विना व बेरकर्मणि । नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ।। १४ ।। प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् । स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ।। १५ ।। एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे संप्रोक्षण विधिः चतुर्स्त्रिंशतिमः पटलः ।। ३५. पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ।। १ ।। विष्ण्वंश समतुङ्गं च छाया दोष विवर्जितम्) । पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ।। २ ।। ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः । लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ।। ३ ।। सप्तविंशतिमानानि षड्विंशत्यंश मानकम् । लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ।। ४ ।। तदन्तरे तथा भक्ते सप्तविंशति मानकम् । लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ।। ५ ।। तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः । षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ।। ६ ।। हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः । लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ।। ७ ।। अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते । षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ।। ८ ।। एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् । विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ।। ९ ।। चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् । तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ।। १० ।। नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः । मानुषे पीठमानं स्यात्स्वयंभूतादिकेऽपि च ।। ११ ।। चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते । लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ।। १२ ।। विस्तारमध्यसप्तांशे मानं सप्तदशैव हि । मूलं प्रोक्त प्रमाणां च संग्राह्यं द्विजसत्तमाः ।। १३ ।। विस्तारार्धसमंतुङ्गं समं वाधाधिकं तु वा । प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ।। १४ ।। स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः । पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ।। १५ ।। वेदाश्रमं वर्तुलं वाथ संमतं पीठ रूपकम् । लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ।। १६ ।। बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा । कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ।। १७ ।। मानं सप्तदशाख्यातं समाश्रं वायतं तु वा । द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ।। १८ ।। पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते । विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ।। १९ ।। विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः । पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ।। २० ।। वसुधाभाजितेमध्ये नवमानमिति स्मृतम् । बिंबोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ।। २१ ।। बेरायामाष्टभागैकमपरं परिकीर्तितम् । अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ।। २२ ।। स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः । द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ।। २३ ।। आसने पद्मविस्तारस्त्रयोविंशति मात्रतः । अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ।। २४ ।। त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते । द्वादशांश विहीनेऽथ मध्ये षोडशधाकृते ।। २५ ।। विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः । विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ।। २६ ।। वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् । त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ।। २७ ।। एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् । शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ।। २८ ।। चतुरष्टदलोपेतं विकारार्क दलं तु वा । विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ।। २९ ।। अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् । त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ।। ३० ।। विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा । संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ।। ३१ ।। सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् । एकपीठमनेकेषां यदि शोभावशान्नयेत् ।। ३२ ।। वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा । पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ।। ३३ ।। अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने । षोडशांशे तु मानेन पादुकं परिकीर्तितम् ।। ३४ ।। वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् । वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ।। ३५ ।। षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ।। ३६ ।। वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ।। ३७ ।। एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। ३८ ।। कर्णस्त्वेकेनकंपः स्याद् भूतांशैरूर्ध्वपङ्कजम् । द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ।। ३९ ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४० ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४१ ।। व्योमांश मूर्ध्वकंपं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ।। ४२ ।। द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका । शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ।। ४३ ।। पञ्चविंशति भागेतु व्योमांश पादुकं भवेत् । पद्ममेकेन भागे तु व्योमांश पादुकं भवेत् ।। ४४ ।। जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः । गलमर्धंत्रिभागेन पद्मं द्वयंशेन वृत्तकम् ।। ४५ ।। कुमुदं पद्मभागेन वाजनं व्योम भागतः । भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ।। ४६ ।। कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् । एकेनकंपमर्धेन घृतवार्यभिधीयते ।। ४७ ।। पीठं शांभवमाख्यातमन्यथान्यद्विधीयते । एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ।। ४८ ।। भागेन पादुकं वेद भागेन जगतीमता । एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ।। ४९ ।। कुमुदं पद्मंशेन वाजननत्वेक भागतः । कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ।। ५० ।। द्विभागानु महापट्टी पद्मंशेन भागतः । कंपस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ।। ५१ ।। अष्टादश विभागेतु व्योमांशं पादुकं भवेत् । अद्ध्यर्धं पद्ममित्युक्तं कंपमेकांशतो भवेत् ।। ५२ ।। जगतीवेद भागेन गुणांशः कुमुदं भवेत् । कंपमेकेन कर्णस्यात् द्विभागं कंपमेकतः ।। ५३ ।। महापट्टी द्विभागेन वाजनञ्चैक भागतः । अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ।। ५४ ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंश मिमंबंध भागेन जगती भवेत् ।। ५५ ।। भागाभ्यां पंकजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पंकजम् । कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ।। ५६ ।। कंपंकर्णस्तु चार्द्धेनार्धेनकंपञ्चवारिजम् । भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ।। ५७ ।। घृतवारिसमाख्यातं संपत्करमिहोदितम् । रुद्रभागेतु तत्तुंगे व्योमांशं पादुकं भवेत् ।। ५८ ।। गुणांशं जगतीकंप मेकं कर्णोद्विभागतः । एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ।। ५९ ।। घृतवार्येकभागेन नन्दिकावृत्तमीरितम् । तिथ्यशं विभजेत्तुंग मद्ध्यर्धं पादुकं भवेत् ।। ६० ।। अर्द्धेन कंपपद्मं स्यात् गुणांशं गलमर्द्धतः । पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ।। ६१ ।। अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका । अर्द्धांश घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ।। ६२ ।। तुंगाष्टदशभागेतु द्विपादं पादुकं भवेत् । पंकजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। ६३ ।। षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ।। ६४ ।। घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् । कलांशं विभजेत्तुंगं व्योभागेन पादुका ।। ६५ ।। द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् । भागेन कंपं स्यात् द्विभागेन द्विभागतः ।। ६६ ।। महापट्यंश मानैक घृतवायूर्ध्वतो भवेत् । स्थंण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ।। ६७ ।। त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् । व्योमांशं कंपमित्युक्तं द्विभागं पद्ममुच्यते ।। ६८ ।। भागेन कंपमित्युक्तं शेषं पूर्ववदेवहि । एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ।। ६९ ।। कंपमंशेन भागेन पुनः कंपं द्विभागतः । पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ।। ७० ।। स्वायंभुवमिदं प्रोक्तमधिष्ठानानियानि च । उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ।। ७१ ।। घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः । द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ।। ७२ ।। महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् । घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ।। ७३ ।। अधिष्टानेक तोपेत मथवा परिकल्पयेत् । कर्णमानञ्च संग्राह्य कंपादौ विनियोजयेत् ।। ७४ ।। तन्मान मथकर्णेतु यावदेक यवेन च । वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ।। ७५ ।। सर्वेष्वंगेषु पीठानां सकले निष्कलेपि च । चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ।। ७६ ।। शलेदारुमये वापि मृण्मयेन्य मयेपिवा । निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ।। ७७ ।। पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः । तदर्द्धेणाग्र विस्तार स्सर्वलिंगेषु योग्यकः ।। ७८ ।। पीठार्द्धमानः पादोवा मध्यमे षोडशांशके । मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ।। ७९ ।। तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे । तथा विभक्ते संग्राह्य मानं सप्तदशैव च ।। ८० ।। प्रणालमूलदेशेतु गदग्रं तेन मानतः । त्रिपाद मर्द्ध पादोनं पञ्चत्रित्यत्रंश मेववा ।। ८१ ।। सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् । वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ।। ८२ ।। मूलकंपं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि । तदूर्ध्वेकंपमेकद्वि व्योमभागैस्तथा क्रमात् ।। ८३ ।। प्रणालघनमानेतु तन्मान मधुनोच्यते । कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ।। ८४ ।। त्रिसप्तमानं वेदांशा देकभागविवृद्धितः । दशभागावसानन्तु पीठनाल घनं तुवा ।। ८५ ।। समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् । अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ।। ८६ ।। तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् । अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ।। ८७ ।। खण्डंत्वंगावसानं स्यादूर्ध्व खण्डमखण्डजम् । प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ।। ८८ ।। नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः । सकलानामनालं स्यात् सनालमथपीठकम् ।। ८९ ।। घृतवारिविहीनं वा सहितं वा प्रकल्प्यते । बाणलिंगादि लिंगानां चतुरश्राय ताश्रकम् ।। ९० ।। कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् । पीठलग्नां प्रभां कुर्यात् भिन्नां वा भिन्नयोगिकाम् ।। ९१ ।। नाना वाजन पीठं संयुक्तां मुक्तादामावलि क्रियाम् । नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ।। ९२ ।। सर्वालंकारसंयुक्तामिष्टास्य घन संयुताम् । सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ।। ९३ ।। बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् । एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ।। ९४ ।। पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः । तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ।। ९५ ।। योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति । आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ।। ९६ ।। द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः । तथैव च पुनः कुर्यादन्यथा दोषकारकम् ।। ९७ ।। मानवे पीठ संकल्पपिधानं परिकीर्तितम् । चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ।। ९८ ।। दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा । वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ।। ९९ ।। पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् । लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ।। १०० ।। कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् । अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ।। १०१ ।। हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् । प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ।। १०२ ।। तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना । कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।। १०३ ।। योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च । तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ।। १०४ ।। एवं निष्पाद्य सर्वंतु पश्चात् कर्मसमारभेत् । विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ।। १०५ ।। शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् । लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुंभस्यवर्धनीम् ।। १०६ ।। मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा । ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ।। १०७ ।। गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् । पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ।। १०८ ।। आवाह्यलिङ्गं लिङ्गस्य शिवकुंभगतं न्यसेत् । पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ।। १०९ ।। विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् । नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ।। ११० ।। सहस्रसंख्यं मूलेन समिदाज्यन्नलाजकैः । तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ।। १११ ।। प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् । अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ।। ११२ ।। नित्यपूजा प्रकर्तव्या लिङ्गे कुंभे च नित्यशः । टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ।। ११३ ।। अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् । शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ।। ११४ ।। ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते । शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ।। ११५ ।। कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे । प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ।। ११६ ।। वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे । स्थण्डिलंकल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ।। ११७ ।। गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् । मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ।। ११८ ।। ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते । सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ।। ११९ ।। धान्यराशिंसवत्सांगांकन्यां हृदय मन्त्रतः । प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ।। १२० ।। प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् । प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ।। १२१ ।। स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् । कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ।। १२२ ।। देवीञ्चकलशानिष्ट्वा लंबकूर्च समन्विताम् । नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ।। १२३ ।। स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् । पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ।। १२४ ।। पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् । सवितानध्वजं दर्भमुक्ता पुष्पजमालया ।। १२५ ।। सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् । सर्वलक्षणसंपन्नं सुविसर्जित तक्षकम् ।। १२६ ।। ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् । पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ।। १२७ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् । प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ।। १२८ ।। मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु । गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ।। १२९ ।। कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः । कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ।। १३० ।। आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् । मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ।। १३१ ।। कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् । आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ।। १३२ ।। कृत्वा कौतुकबन्धंतु तन्नाले तद्गलेऽपि वा । शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ।। १३३ ।। तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् । दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ।। १३४ ।। ततश्शययां च संक्ल्प्य तदलाभेऽम्बरैर्नयेत् । आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद् धृदा ।। १३५ ।। आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् । सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ।। १३६ ।। सहैमपंकजं कूर्चफलपल्लव वस्त्रकम् । तन्मध्ये सासनां देवीमर्चयेद् गन्धसंमुखैः ।। १३७ ।। वर्धनीरष्ट संख्याताः कूर्चवस्त्रससूत्रकाः । सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ।। १३८ ।। वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् । गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ।। १३९ ।। तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् । कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ।। १४० ।। क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः । धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।। १४१ ।। धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु । पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ।। १४२ ।। लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् । चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ।। १४३ ।। समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः । पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ।। १४४ ।। शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः । पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ।। १४५ ।। सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा । देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ।। १४६ ।। शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् । तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ।। १४७ ।। प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् । भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ।। १४८ ।। अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः । ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ।। १४९ ।। कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः । द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ।। १५० ।। गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा । ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीमपि ।। १५१ ।। अग्नि होमैश्च संतर्प्य प्रायश्चित्तं विधाय च । दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ।। १५२ ।। सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् । धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ।। १५३ ।। लिङ्गसंस्ह्तापनप्रोक्तविधिना तांनिवेशयेत् । पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ।। १५४ ।। तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् । नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ।। १५५ ।। पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके । पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ।। १५६ ।। रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः । सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ।। १५७ ।। अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् । पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ।। १५८ ।। प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् । पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ।। १५९ ।। लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् । वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ।। १६० ।। देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे । संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतं ।। १६१ ।। वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् । जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ।। १६२ ।। लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः । स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ।। १६३ ।। केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।। १६४ ।। तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा । लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ।। १६५ ।। चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः । विशेषपूजा कर्तव्या होमेन च समन्विता ।। १६६ ।। पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् । चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ।। १६७ ।। बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् । पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ।। १६८ ।। समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ।। १६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः पटलः ।। अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके षोडशांशे तु मानेन पादुकं परिकीर्तितम् वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत् वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते । अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः घृतवार्यंशमानेन भद्रपीठमिदं मतम् । षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ।। वेदांशं ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम् एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् । द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ।। षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् । जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका । शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ।। पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत् पद्मं एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् कुमुदं पद्मं एकेन वाजनं व्योमभागतः भागाभ्यां कर्णं इति उक्तस्स्यात् एकेनैव वाजनम् कञ्चं एकेन भागाभ्यां महावाजनं ईरितम् एकेन कम्पमर्धेन घृतवार्यभिधीयते पीठं शाम्भवमाख्यातं अन्यथान्यद्विधीयते एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च भागेन पादुकं वेदभागेन जगती मता एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः कुमुदं पद्ममंशेन वाजनं एक भागतः कर्णो द्विभागो भागेन वाजनं पद्ममंशतः द्विभागा तु महापट्टी पद्ममंशेन भागतः कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् अष्टादश विभागे तु व्योमांशे पादुकं भवेत् । अध्यर्धं पद्मं इति उक्तं कम्पं एकांशतो भवेत् ।। जगती वेद भागेन गुणाशः कुमुदो भवेत् । कम्पं एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ।। महापट्टी द्विभागेन वाजनं च एक भागतः अर्धेन घृतवार्युक्तं उमा पीठमिदं मतम् ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंशमितं बन्धभागेन जगती भवेत् ।। भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् । कुमुदं स्यात् द्विभागेन पद्मं अर्धेन च अर्धतः कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम् भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि घृतवारि समाख्यातं सम्पत्करं इहोदितम् रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् । गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ।। एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः । घृतवार्येक भागेन नन्दिकावृत मीरितम् ।। तिथ्यंशं विभजेत्तुङ्गं अध्यर्धं पादुकं भवेत् । अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः पद्मं अंशेन भागाभ्यां कुमुदं पद्मं अंशतः अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् । पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनं इष्यते ।। घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ।। कलांशं विभजेत्तुगं व्योम भागेन पादुकम् । द्वाभ्यां पद्ममथैकेन कम्पंपड् भागतो गलम् ।। भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः । महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ।। त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् । योमांशं कम्पमित्युक्तं द्विभागं पद्मं उच्यते ।। भागेन कम्पं इत्युक्तं कम्पं षड् भागतो गलम् । भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।। महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् । कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।। पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् । स्वायंभुवं इदं प्रोक्तं अधिष्ठानानियानि च ।। उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः ३६. षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् । बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ।। १ ।। प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च । दत्तवाल्लिंगकोटीनां चतुर्दशाः महेश्वरः ।। २ ।। तानि संपूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् । लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ।। ३ ।। कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे । अन्यत्र च नदीमध्ये पर्वते च विशेषतः ।। ४ ।। माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् । पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ।। ५ ।। विस्तार नाहमानं तु बाणलिंगस्य नेष्यते । रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ।। ६ ।। सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते । स्नपने यजने धूपे गन्धपुष्प निवेदने ।। ७ ।। अन्य कर्मणि विप्रेन्द्राः स्वायंभूतादिके तथा । प्रासाद पीठिकादीनां नियमो न च नेष्यते ।। ८ ।। ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा । विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ।। ९ ।। शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् । एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ।। १० ।। लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा । विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ।। ११ ।। यथाभिमतमानं वा खामानमुदाहृतम् । सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ।। १२ ।। यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् । पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ।। १३ ।। उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा । स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ।। १४ ।। रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् । सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ।। १५ ।। रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् । सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ।। १६ ।। शैललिंग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः । चललिंग प्रतिष्ठायां प्रतिमादौ च मध्यमः ।। १७ ।। कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि । मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ।। १८ ।। तथैव बाणलिंगस्य किंतु कालोधमोथवा । विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ।। १९ ।। अंकुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् । रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ।। २० ।। पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् । लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ।। २१ ।। विधायलिंगशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः । जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ।। २२ ।। कुर्याल्लिंगाधि वासार्थं वेदिका सहितं यथा । वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ।। २३ ।। शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् । भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ।। २४ ।। स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् । जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ।। २५ ।। अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् । शययां मध्ये निवेश्याथ शिवकुंभं च वर्धनीम् ।। २६ ।। विद्येश कुंभ संयुक्तं ससूत्रं सापिधानक । सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ।। २७ ।। संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् । मूर्ति मूर्तिश्वरान्यस्त्वा संपाद्यैवं शिवानलम् ।। २८ ।। समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् । जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ।। २९ ।। मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः । तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ।। ३० ।। वस्त्रेणाच्छाद्य लिंगन्तु नैवेद्यं च निवेदयेत् । प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ।। ३१ ।। लिंगमग्नि मघोरेण जुहुयाच्चत संख्यया । संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ।। ३२ ।। मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् । एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ।। ३३ ।। संकल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् । तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ।। ३४ ।। स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् । यदनुक्तं भवेदत्र लिंग स्थापन वन्नयेत् ।। ३५ ।। चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते । प्रत्यहं पूजयेद्देवं अर्चनोक्त विद्यानतः ।। ३६ ।। शिष्टलिंगे गतिर्नास्ति समान्यस्य गतिं क्षणात् । जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ।। ३७ ।। सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् । कुंभे वा स्थण्डिले वापि मण्डले पीठकादिके ।। ३८ ।। पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके । संपूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ।। ३९ ।। अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः । पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ।। ४० ।। अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् । आदावन्ते च वा होमं प्रत्यहं होममेव वा ।। ४१ ।। तत्र संप्रोक्षणं नेष्टं तदर्धं होममेव वा । लिंगाग्रे स्थण्डिलं तत्र कुंभसंस्थापणं नुहि ।। ४२ ।। कुंभेत्वावाहनं तस्मात् कुंभमन्त्रान्निवेशयेत् । नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ।। ४३ ।। तत्कुंभोदैरपि स्नानं केवलं प्रोक्षणं तु वा । क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ।। ४४ ।। एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि । स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ।। ४५ ।। क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् । होमाद्यमपि नेष्टं स्यात् कर्तुं लिंगं समर्चयेत् ।। ४६ ।। गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् । मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ।। ४७ ।। पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः । तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ।। ४८ ।। शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् । अस्त्रांबु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ।। ४९ ।। बहु दैवसिकं स्नानं (भंगश्चेत्) स्नपनं महत् । महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ।। ५० ।। ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। ५१ ।। प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् । स्वायंभुवादि लिंगाना मेतत् सामान्यमीरितम् ।। ५२ ।। शिल्प्यपेक्षमिदं कर्म कुर्यात्संप्रोक्षणान्वितम् । अन्यत् सर्व समानं स्यात् कर्मसामान्यलिंगकः ।। ५३ ।। स्वायंभुवादि लिंगानां नेष्यतां मनु संकरः । अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ।। ५४ ।। स्वर्णादि लोहजेवापि तत् संभूतेति कीर्तितः । चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ।। ५५ ।। चलञ्च द्विविधं प्रोक्तं अङ्गं प्राधानिकं त्विति । चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ।। ५६ ।। पूजितं त्वंगमित्युक्त मन्यत् प्राधानिकम्मतम् । अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ।। ५७ ।। नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् । अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।। ५८ ।। त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ।। ५८१/२ ।। इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः षट्त्रि.शत्तमः पटलः ।। ३७. सप्तत्रिंशत्तमे पटले काम्यलिंग प्रतिष्ठा विधिः काम्यलिंग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् । काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ।। १ ।। कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ।। २ ।। फलं दृष्टमदृष्टं च द्विधं तत्परापरम् । कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ।। ३ ।। उत्तमं खेचरत्वं च श्रेष्ठं देव समानता । भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ।। ४ ।। विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् । इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ।। ५ ।। सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च । इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुंगवाः ।। ६ ।। गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् । अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ।। ७ ।। दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते । देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ।। ८ ।। मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् । अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ।। ९ ।। न सिद्धिर्न च मुक्तिश्च लिंगाश्रयणमन्तरा । शिवलिंग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ।। १० ।। एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् । भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ।। ११ ।। रत्नलिंग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः । तस्मालिंगाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ।। १२ ।। विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः । विधिवल्लिंगमाराध्य फलमिष्टतमं गताः ।। १३ ।। स्वायंभुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः । सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ।। १४ ।। स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् । यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ।। १५ ।। तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा । स्वयंन कर्तु मशक्तानां वृपतीनां हिताय च ।। १६ ।। देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च । स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ।। १७ ।। लिंगार्थमाकरं यायात् स्वस्य कृत्यानु सारतः । शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ।। १८ ।। तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः । रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ।। १९ ।। श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा । चतुर्णामपि वर्णानां शिला धात्री च संमता ।। २० ।। एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः । एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ।। २१ ।। तत्तद्भूजनिता एव मृदो लिंगार्थमीरिताः । फलं लिंगानूरूपेण शिलानां समुदाहृतम् ।। २२ ।। पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि । श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ।। २३ ।। आयसं मारणे लिंगमुन्मादे सांस्यजं भवेत् । उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ।। २४ ।। वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् । लोहलिंगं समाख्यातं रत्नलिंग मथोच्यते ।। २५ ।। वज्रलिंगं क्षितीशत्वे मौक्तमारोग्यदं भवेत् । इन्द्र नीलमयाल्लिंगात् सर्वान् कामान् समश्रुते ।। २६ ।। महान्नीलमयाल्लिंगात् वैणवं पदमाप्नुयात् । वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ।। २७ ।। आरोग्यतं मरकतं प्रवालं च वशीकरम् । राजावर्तमयाल्लिंगात् महाभोगं समश्रुते ।। २८ ।। नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् । शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ।। २९ ।। सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् । चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ।। ३० ।। स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये । वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ।। ३१ ।। क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् । गुणादष्टफल प्रोक्तं परासु मणिजातिषु ।। ३२ ।। इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना । सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ।। ३३ ।। साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् । रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ।। ३४ ।। सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे । यद्वा साधक नक्षत्र वशाल्लिंग तु दारुजम् ।। ३५ ।। कारस्करं चामलकंतथोदुम्बर जम्बुकौ । खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ।। ३६ ।। पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा । अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ।। ३७ ।। पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा । आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ।। ३८ ।। मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः । एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ।। ३९ ।। विधाय लिंगं कर्तव्यं साध्यर्क्षे मारणादिकम् । श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ।। ४० ।। चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् । सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ।। ४१ ।। साप्तपर्णं च सालोत्थं राजादन समुद्भवम् । विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ।। ४२ ।। उदुंबर मयं पुष्ट्यै शान्त्यै न्यग्रोध संभवम् । वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ।। ४३ ।। लिंगं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः । दारुजं लिंगमाख्यातं क्षणिकं लिङ्गमुच्यते ।। ४४ ।। संकेतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् । अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ।। ४५ ।। गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये । घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ।। ४६ ।। ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् । विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ।। ४७ ।। स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् । बिल्वादि पत्रजं लिंगं यत्तत्पुत्र विवर्धनम् ।। ४८ ।। तद्बीज जनितं लिंगं विशेषात् तृप्तिकारणम् । धान्य तण्डुलजं लिंगं तत्तद्द्रव्य फलप्रदम् ।। ४९ ।। कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् । रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ।। ५० ।। जलेन रचितं लिंगं प्राणिनां शान्तिपुष्टितम् । लिंगं यच्चित्रितं सद्यो विचित्रफल दायकम् ।। ५१ ।। कर्पूर चन्दनाद्यैस्तु लिंगं यत्तज्जरापहत् । द्रव्याणि कथितान्येवं लक्षणं च विधीयते ।। ५२ ।। प्रासाद गर्भमानेन लिंगं ज्येष्ठादि भेदतः । मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ।। ५३ ।। हस्तादि लिंगमानानि यानि तानि विमुक्तये । भुक्तये चानु षड्गेण भवन्ति विधियोगतः ।। ५४ ।। गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् । तदन्तरेऽष्टभागे तु नव लिंगानि सन्ति हि ।। ५५ ।। तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि । षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ।। ५६ ।। प्रासादे वा ततो वह्नि वेदग्रह विभाजिते । द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ।। ५७ ।। पूर्ववच्च प्रमाणानि लिंगानां विहितानि तु । एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ।। ५८ ।। अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः । एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ।। ५९ ।। नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् । हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ।। ६० ।। पादोनं दारुजं लोहमस्यार्धेनैव संमतम् । अङ्गुलादि वितस्त्यन्तं रत्नलिंगं द्विजोत्तमाः ।। ६१ ।। आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः । हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ।। ६२ ।। लिंगायामैक भागे तु वेद भागेन विस्तरः । खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ।। ६३ ।। चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् । अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ।। ६४ ।। पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिंगं वज्रशिरो यथा । वज्रकार्यं समायोज्य स्तंभादि परिकीर्तितम् ।। ६५ ।। लिंगोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् । वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ।। ६६ ।। आग्नेय पीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये । लिंगं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ।। ६७ ।। शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः । तापदाहं रिपोः कुर्याल्लिंगमाग्नेयकं द्विजाः ।। ६८ ।। नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः । प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ।। ६९ ।। याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके । लिंगं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ।। ७० ।। गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् । रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ।। ७१ ।। मारीं च भेदनं रोगं विधत्ते नात्र संशयः । दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ।। ७२ ।। अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः । स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ।। ७३ ।। खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् । अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ।। ७४ ।। तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् । कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ।। ७५ ।। उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् । चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ।। ७६ ।। वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् । पाशमस्तक युक्तं तत् पाशकाय विधानतः ।। ७७ ।। प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् । व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ।। ७८ ।। गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे । नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ।। ७९ ।। तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य माप्नुयात् ।। ८० ।। लिंगं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः । तेन लिंगेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ।। ८१ ।। भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः । पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ।। ८२ ।। यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् । गदा मस्तक लिंगं तु गदाङ्के स्थाप्य देशिकः ।। ८३ ।। जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् । जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ।। ८४ ।। लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् । दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ।। ८५ ।। एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् । अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ।। ८६ ।। कुक्कुटाण्ड शिरोयुक्तं लिंगमैशान्य पीठके । स्थापयित्वा स्वदिक् साम्यं लिंगं शूलशिरोयुतम् ।। ८७ ।। शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् । ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ।। ८८ ।। शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् । उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ।। ८९ ।। वस्वश्रं पूर्ववद्वृत्तं लिंगं छत्रशिरोयुतम् । ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ।। ९० ।। तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् । खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ।। ९१ ।। गायग्र्यंशे तु लिंगोच्चे शरांशैश्चतुरश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ।। ९२ ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् । चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ।। ९३ ।। व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् । लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ।। ९४ ।। तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते । सिद्धिलिंगमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ।। ९५ ।। आप्यादि देवलिंगेषु लोकपालार्चितेषु वा । सहस्र लिंगं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ।। ९६ ।। सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् । अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ।। ९७ ।। अष्टोत्तरशतं लिंगं सूत्रैर्विषययोजितैः । आढ्यादि लिंगान्युत्सेधैः समखण्डानि कल्पयेत् ।। ९८ ।। छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि । धारालिंगं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ।। ९९ ।। साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता । मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ।। १०० ।। आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् । मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ।। १०१ ।। आसुरं पौरुषं चैव सादेशैशान भैरवम् । देवत्वं देवराजत्वं सर्वकामफलं च यत् ।। १०२ ।। रुद्रत्वं च फलान्येषु लिंगेष्वेकाश्रकादिषु । एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ।। १०३ ।। लिंगानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च । अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ।। १०४ ।। भवन्ति पुण्डरीकादि शिरांसि फलभेदः । पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ।। १०५ ।। प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् । कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ।। १०६ ।। प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः । तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ।। १०७ ।। सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् । षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ।। १०८ ।। साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः । साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ।। १०९ ।। प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् । छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ।। ११० ।। अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् । त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ।। १११ ।। दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् । खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ।। ११२ ।। पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः । ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ।। ११३ ।। वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे । शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ।। ११४ ।। अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् । लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ।। ११५ ।। कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि । वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।। ११६ ।। गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् । ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ।। ११७ ।। तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः । लिंगाशे नवधा भक्ते नवांश कृत लक्ष्मकम् ।। ११८ ।। स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च । द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ।। ११९ ।। तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् । ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ।। १२० ।। पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः । षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ।। १२१ ।। हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् । नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ।। १२२ ।। अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् । कथितं हि तथापीह त्रिभागे रसभागके ।। १२३ ।। यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् । वेध दोष निवृत्यर्थं एवं लक्ष्म प्रकल्पयेत् ।। १२४ ।। गायत्र्यंशे तु लिंगोच्चे लक्ष्मविस्तृतिरंशतः । शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ।। १२५ ।। तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् । शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ।। १२६ ।। याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् । नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ।। १२७ ।। शूलाश्रमैश्वरं लिंगं वायव्यां ध्वजमस्तकम् । सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ।। १२८ ।। लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् । स्तंभनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ।। १२९ ।। अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् । मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ।। १३० ।। स्वतेजोलक्षणं लोहे बाणलिंगे तथैव च । लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ।। १३१ ।। शुभलक्षण लक्ष्मं चेत् लिंग सर्वार्थ सिद्धिदम् । पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ।। १३२ ।। लिंगायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् । ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ।। १३३ ।। वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च । प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ।। १३४ ।। ऐन्द्रयादि संज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः । वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ।। १३५ ।। पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् । वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ।। १३६ ।। निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् । सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ।। १३७ ।। ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् । योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ।। १३८ ।। पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् । पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ।। १३९ ।। तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः । पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ।। १४० ।। याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका । राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ।। १४१ ।। पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् । तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ।। १४२ ।। चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् । कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ।। १४३ ।। तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते । इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ।। १४४ ।। पाज्जगती कुंभवेत्रास्युः कण्ठश्चैकैक वेशतः । निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ।। १४५ ।। आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् । षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ।। १४६ ।। तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् । ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ।। १४७ ।। चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् । तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ।। १४८ ।। संस्थान वर्तनाकारैः वा राक्षसं मतम् । तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ।। १४९ ।। पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः । कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ।। १५० ।। तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः । आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ।। १५१ ।। याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला । षण्मेखला च वायव्या वारुणी पञ्चमेखला ।। १५२ ।। विष्ण्वंश षोडशोत्सेधः पुण्डिकापीठविस्तरः । शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ।। १५३ ।। वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका । पीठं सहस्रलिंगस्य सालङ्कारयुगाश्रयुक् ।। १५४ ।। आश्मेऽश्मसंभवा पिण्डी पार्थिवे पार्थिवी तथा । दारुजे दारुजा पिण्डी धातुजे धातु संभवा ।। १५५ ।। रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् । उच्छ्रयं चललिंगानां पूजांशाद् द्विगुणं भवेत् ।। १५६ ।। लिंगायामे भवेत्पिण्डी लिंगं च परितो यथा । कृशुषु वर्धयेद्द्रुद्रं स्थूललिंगेषु ह्रासयेत् ।। १५७ ।। ह्रासयेद्वर्धयेदंश मच्युतस्य हि न च्युतिः । पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ।। १५८ ।। चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् । मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ।। १५९ ।। पिण्डिका सहितोत्सेधं लिंगनाहसमं भवेत् । सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ।। १६० ।। समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् । मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ।। १६१ ।। साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा । गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ।। १६२ ।। मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् । अन्यद्वापि भवेल्लिंगं नदी प्रस्रवणोद्भवम् ।। १६३ ।। लिंगाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् । हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ।। १६४ ।। रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः । पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ।। १६५ ।। उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने । स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ।। १६६ ।। अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते । समलिंगे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ।। १६७ ।। कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। १६८ ।। पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् । द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ।। १६९ ।। चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ।। १७० ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा । भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ।। १७१ ।। भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् । व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ।। १७२ ।। बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् । पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ।। १७३ ।। वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् । देह पञ्चक संयुक्तं चरमद्वय संयुतम् ।। १७४ ।। तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् । जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ।। १७५ ।। दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् । दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ।। १७६ ।। व्यालबद्धजटाचूडं कपालदलमण्डितम् । तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ।। १७७ ।। उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् । भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ।। १७८ ।। दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् । बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ।। १७९ ।। वराभय करोपेतं ध्यानासक्तमिव स्थितम् । पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ।। १८० ।। ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ । इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ।। १८१ ।। कलावत्सरदेशीयं दिव्याभरणभूषितम् । सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ।। १८२ ।। ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् । भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ।। १८३ ।। संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् । कुर्यादीशान देहं तु दशतालोत्तमेन तु ।। १८४ ।। पुरुष प्रमुखान्देहानीश देहार्धमानतः । कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ।। १८५ ।। पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् । कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ।। १८६ ।। ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् । कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ।। १८७ ।। जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् । व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ।। १८८ ।। नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् । श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ।। १८९ ।। त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् । जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ।। १९० ।। नानावर्णांवरैर्युक्तं वेणिकादिभिरलंकृतम् । ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ।। १९१ ।। किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् । वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ।। १९२ ।। पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः । त्रिशूलं नागहस्तं च परशुः पाश एव च ।। १९३ ।। गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः । नागैराभरणैर्युक्तं कुण्डलाभ्यामलंकृतम् ।। १९४ ।। सर्वलक्षण संयुक्तं पादनूपुर संयुतम् । गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ।। १९५ ।। एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते । नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ।। १९६ ।। नाना विधायुधोपेत नवद्वय करोथवा । दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ।। १९७ ।। कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः । इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ।। १९८ ।। टङ्क विहाय शूलं वा डमरुं वापरे करे । अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल संज्ञितः ।। १९९ ।। त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः । वराभय करोपेता रुद्रोयं वाम संज्ञककः ।। २०० ।। एष एव हि खट्वाङ्ग रहित श्शूल संयुतः । अघोर रुद्रनामायं भीमो भव विनाशनः ।। २०१ ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः । अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ।। २०२ ।। धनुर्बाण समोपेता मृगटङ्क समायुतङ्क । भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ।। २०३ ।। अथवा पादुके पद्मे भक्तानां शेखरेषु वा । वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ।। २०४ ।। एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः । त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ।। २०५ ।। वरदाभय वामतः पार्वतीयुतः । आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ।। २०६ ।। देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही । तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ।। २०७ ।। तस्या कट्याश्रियो वापि देवोयं सर्वकामदः । गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ।। २०८ ।। कपालशूल संयुक्तौ वरदाभयसंयुतौ । त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ।। २०९ ।। प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ । एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ।। २१० ।। भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ । कालान्तकादि संयुक्तौ भक्तानामथवोपरि ।। २११ ।। एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः । देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ।। २१२ ।। द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ । मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ।। २१३ ।। विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा । अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ।। २१४ ।। चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः । शूल पङ्कज युक्तो वा वरदाभय संयुतः ।। २१५ ।। कपालशूल संयुक्तो बद्धपद्मासने स्थितः । नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ।। २१६ ।। चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः । पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ।। २१७ ।। मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा । वरदाभय हस्तो वा शान्तरूपः स्मिताननः ।। २१८ ।। जटामकुट संयुक्तः स्थानकादि समन्वितः । रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ।। २१९ ।। शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः । कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ।। २२० ।। मृगंशूल समायुक्तश्चतुर्भुज समन्वितः । पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ।। २२१ ।। वरदा संयुक्तः स्थितः पद्मासनोपरी । भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ।। २२२ ।। कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः । वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ।। २२३ ।। अथवा मृगटङ्कायां वराभय करान्विताः । उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ।। २२४ ।। कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः । उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ।। २२५ ।। तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः । किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ।। २२६ ।। यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः । एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ।। २२७ ।। एतन्नामादि वर्णेन बिन्दु नाद युतेन तु । त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ।। २२८ ।। उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः । रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ।। २२९ ।। अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः । कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ।। २३० ।। शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया । तत्रैव कुण्ड संकॢप्तिर्नव पञ्चैक सख्यया ।। २३१ ।। तक्षद्वासनं विप्र भोजनं वास्तु होमकम् । पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ।। २३२ ।। कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा । कुंभादीनां सपर्या च नैवेद्यादि निवेदनम् ।। २३३ ।। तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः । होमं पलाशसद्बिल्व वटोदुंबर पिप्पलैः ।। २३४ ।। अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः । प्रधाने तु पलाशेन घृतेन चरुणातिलैः ।। २३५ ।। द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च । मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ।। २३६ ।। उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् । कर्तव्य स्सर्व कर्मापि लिंग संस्थापनं यदि ।। २३७ ।। मुखलिंगस्य वा विप्राः तदध्यायोक्तमार्गतः । कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ।। २३८ ।। एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा । लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ।। २३९ ।। स्वायंभुवादिकं लिंगं समाश्रित्य कदाचन । कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् । इति उत्तरकामिकाखे महातन्त्रे काम्यलिंगप्रतिष्ठा विधिः सप्तत्रिंशत्तमः पटलः ।। लिङ्गायामैक भागे तु वेद भागेन विस्तरः खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम् अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम् वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना आग्नेयपीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः तापदाहं रिपो कुर्यात् लिङ्गं आग्नेयकं द्विजाः नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात् याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम् गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः मारीं च भेदनं रोगं विधत्ते नात्र संशयः दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम् अरतिक्षय विद्वेषं कील भेदेन मोहनम् तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम् कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम् उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम् चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् पाशमस्तक युक्तं तत् पाशकाय विधानतः प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम् व्याधिहानिञ्च सौभाग्यं आप्नुयान्नात्रसंशयाः पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम् यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात् गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः जाम्बूनदसुखप्राप्तिमतीव बलदं मतम् जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम् उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम् ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात् गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये । तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात् लिंगं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् । भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ।। दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् । एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात् अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत शूलाख्यायां तु संस्थाप्य पृथिवीशत्वं आप्नुयात् ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम् तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् । खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ।। गायत्र्यंशे तु लिंगोच्चे शरांशैश्चतुश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् । चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ।। त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः । वराभय करोपेतः रुद्रोऽयं वाम संज्ञकः ।। एष एव हि खड्वाङ्गरहितश्शूलसंयुतः । अघोररुद्र नामायं भीमो भयविनाशनः ।। शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः । कपालशूल संयुक्तो बद्धपद्मासनस्थितः ।। मृगशूल समायुक्त श्चतुर्भुजसमन्वितः । पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ।। वरदाभयसंयुक्तः स्थितः पद्मासनोपरि भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः धनुर्बाण समोपेतो मृगटङ्ग समायुतः भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तं अथोच्यते । समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ।। कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। चतुर्णां चैव वक्त्राणां उर्ध्वे कुर्यात्तुपञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा ३८. अष्टत्रिंशत्तमे पटले आर्षलिंग प्रासाद विधिः लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते । आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ।। १ ।। स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा । विकांशं वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ।। २ ।। मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते । पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ।। ३ ।। तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा । विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ।। ४ ।। अर्धाधिकं तु वा सप्तभागाधिक मथापि वा । लिंग विस्तारमानेन त्रिगुणं पीठ मुच्यते ।। ५ ।। गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् । प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ।। ६ ।। लिंग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् । पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ।। ७ ।। सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते । द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ।। ८ ।। नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् । सार्ध द्वयांश कैकांश समं वा भित्ति विस्तरः ।। ९ ।। उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते । लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ।। १० ।। त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा । द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ।। ११ ।। पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् । तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ।। १२ ।। एकांशस्य विस्तार मन्यथा च प्रकथ्यते । लिंग द्विगुण विस्तार कर्णपीठ विशालकम् ।। १३ ।। नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके । एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ।। १४ ।। परिणाहे विकारांशे तच्चतुर्दश कर्णकम् । पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ।। १५ ।। तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः । विस्तार द्विगुणे कर्ण दशांशेंश विहीनकम् ।। १६ ।। पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् । तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ।। १७ ।। हीना हीनान्तरेऽष्टांश पीठे नालीगृहे तथा । भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ।। १८ ।। लिंगे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् । एवमेकतले प्रोक्तं द्वितलादिषु धामसु ।। १९ ।। साधारे वा निराधारे त्वलिन्दं भित्तिरेव च । प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ।। २० ।। इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिंग प्रासाद विधिः अष्टत्रिंशत्तमः पटलः ।। ३९. एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते । पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ।। १ ।। पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे । लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ।। २ ।। लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः । त्रिभागंनालि गेहस्य त्रिचतुर्भाग भागतः ।। ३ ।। भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् । लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ।। ४ ।। सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् । तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ।। ५ ।। नालीगृह विशालं स्यात् पीठ विस्तार मानतः । समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ।। ६ ।। उदयं प्राग्देव स्यादन्यथापि चकथ्यते । पूजांशद्विगुणं पीठमुदयं तु विशालतः ।। ७ ।। चतुष्पञ्चगुणं नाली गेहमत्र विधीयते । ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ।। ८ ।। लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये । एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ।। ९ ।। त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् । पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ।। १० ।। तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् । अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ।। ११ ।। उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु । तथा तदपि तद्ग्राम मानं पौराणपौरुषे ।। १२ ।। पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् । उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ।। १३ ।। स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे । मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ।। १४ ।। पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् । यदि तद्वाह्य भागं च युग्ममेव विधीयते ।। १५ ।। युग्मंचेद्युग्ममेवस्यात् संमिश्रं तेषु नेष्यते । त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ।। १६ ।। इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन चत्वारिंशत्तमः पटलः ।। ४०. चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते । स्वायं बाणलिंगं दैवीकं चार्षकं त्विति ।। १ ।। सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः । तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ।। २ ।। पूजांश मानतो नाहात् विस्तारादुच्छ्रयादपि । एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ।। ३ ।। तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ।। ४ ।। अष्टौ वा देवमानानि नवमानानि सुव्रताः । तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ।। ५ ।। प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः । पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ।। ६ ।। पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः । अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ।। ७ ।। गर्भगेहविशाले तु द्विभागादेकभागतः । षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ।। ८ ।। एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता । भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ।। ९ ।। लिंगात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये । एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ।। १० ।। पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे । अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगवशात् प्रासाद विधिः चत्वारिंशत्तमः पटलः ४१. एकचत्वारिंशत्तमे पटले सार्व देशिक लिंग प्रासाद विधिः सार्वदेशिक लिंगादेस्स्थापनं सम्यगुच्यते । प्रासाद स्याथ लिंगस्य पीठस्याश्मन एव वा ।। १ ।। सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः । सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ।। २ ।। विशेषाद्राजसे देशे राज्ञां विजयकारणम् । धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ।। ३ ।। अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा । नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ।। ४ ।। द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे । वराटं चैव सालिंगं सर्वत्रापि च संमतम् ।। ५ ।। नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि । वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ।। ६ ।। सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते । स्वायंभुवं च बाणं च दैविकं चार्षकं तथा ।। ७ ।। यथा विशिष्टं विप्रेन्द्राः दाहृतम् । मानुषे त्वेव लिंगादौ फल वैशिष्य मिष्यते ।। ८ ।। तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् । तन्त्र संकर दोषोऽपि मन्त्र संकर एव वा ।। ९ ।। आचार्य संकरो वापि देशसंकर एव वा । काल संकर दोषश्च युगसंकर एव वा ।। १० ।। अन्येषां संकरो वापि यतो नातो विशिष्यते । सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ।। ११ ।। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् । पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ।। १२ ।। सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये । तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ।। १३ ।। अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः । एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ।। १४ ।। आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः । विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ।। १५ ।। विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् । प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ।। १६ ।। गुणयेदिष्टमानं तु नवनागरसैः क्रमात् । रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ।। १७ ।। गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः । गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ।। १८ ।। भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् । नृप कर्तृ दिना द्वास्तु लिंगाद्युक्त दिनान्तकम् ।। १९ ।। गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् । तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ।। २० ।। मैत्रं परममैत्रं कलहः प्रथमक्रमे । द्वितीये संपदाद्यास्तु पूर्ववत्समुदाहृदम् ।। २१ ।। शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् । वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ।। २२ ।। शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् । वियोगाद्यशुभं योगं गणं चासुर मानुषम् ।। २३ ।। वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया । सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ।। २४ ।। तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् । रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ।। २५ ।। ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः । पृथ्व्याद्याः पञ्च संख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ।। २६ ।। चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः । षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ।। २७ ।। निषादो धैवतस्सप्त योनयस्तासु शस्यते । षड्जऽऽच वृषभो मध्ये भूतेषु पृथिवी जलम् ।। २८ ।। गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते । पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ।। २९ ।। वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः । निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ।। ३० ।। प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा । लिंग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ।। ३१ ।। किं तु लिंगे च बेरे च तुड्गे नैव निरीक्षयेत् । धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यंश द्रिभागिकम् ।। ३२ ।। षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः । चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ।। ३३ ।। अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते । नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ।। ३४ ।। मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च । त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ।। ३५ ।। षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा । चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ।। ३६ ।। अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् । चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ।। ३७ ।। पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः । भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ।। ३८ ।। तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः । सार्व देशिक लिंगानि कथ्यन्ते गर्भमानतः ।। ३९ ।। प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् । नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ।। ४० ।। तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः । तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ।। ४१ ।। विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् । एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ।। ४२ ।। मध्यमेष्ट विभागे तु नव लिंगादयस्तु वा । गर्भन्तु नवधा कृत्वा नवलिंगोच्छ्रयस्तु वा ।। ४३ ।। अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् । मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ।। ४४ ।। त्रयस्त्रिंशत्प्रमाणानि लिंगानां कथितानि च । अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ।। ४५ ।। गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४६ ।। लिंगायामे विकारांशे चतुर्भूतरसैर्हितम् । एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ।। ४७ ।। नवहस्त प्रमाणान्तं मानं स्याल्लिंग दर्ध्यके । एक विंशति भागेन गर्भगेहे विभाजिते ।। ४८ ।। त्रयोदशांशकं श्रेष्ठं दशांश मधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४९ ।। लिंगायामे विकारांशे चतुर्भूत रसैर्हितम् । सत्रिभागैश्शरैर्लिंग विस्ताराः परिकीर्तितः ।। ५० ।। गायत्र्यंशे तु लिंगोच्चे पञ्चभिर्वाथ विस्तरः । अथवाष्ट दशांशे च लिंगोच्चे पञ्चभागिके ।। ५१ ।। चतुर्भागोथवा लिंगविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ।। ५२ ।। विस्तारः कथितश्शास्त्रे लिंगानां मुनिपुंगवाः । द्वार स्तम्भादिभिश्चैव मानं लिंगे समूह्यताम् ।। ५३ ।। भागेन वाथ लिंगानि विभजेत्तानि चाङ्गुलैः । आयादि शुभसिद्ध्यर्थं अंशैर्वा विभजेद्यथा ।। ५४ ।। षोडशांशं समारभ्य चतुर्विंशति संयुतम् । शतांशं विभजेत्तत्र त्वेकांश योजयेद्गुरुः ।। ५५ ।। तैर्वा निरीक्षये ल्लिंगं बेराद्यायादिकं गुरुः । समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ।। ५६ ।। स्वस्तिकं च सहस्रख्यं धारालिंगमिति द्विजाः । इयत्तया समुद्देश क्रमेणैष विधीयते ।। ५७ ।। त्रिधा विभज्य लिंगोच्चं कुर्याद्भागत्रयं क्रमात् । तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ।। ५८ ।। पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः । पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ।। ५९ ।। चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः । भाग भाग विवृद्ध्या स्यात् तस्मात्तस्माद्धरीशयोः ।। ६० ।। वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् । अथवान्यप्रकारेण वर्धमानं विधीयते ।। ६१ ।। एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् । चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ।। ६२ ।। नवाङ्गुलं तु विज्ञेयं लिंगयोर्वसरन्ध्रयोः । एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ।। ६३ ।। ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः । सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ।। ६४ ।। चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् । एवं शिवाधिकं लिंगं ब्राह्माद्यादिष्वनुक्रमात् ।। ६५ ।। लिंगोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः । षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ।। ६६ ।। त्रैरशिकमिदं लिंगंशुद्राणां तत् प्रशस्यते । नवधा लिंगमानेन त्रिचतुर्भिरजादयः ।। ६७ ।। स्वस्तिकं लिंगमाख्यातमन्यथा च निगद्यते । त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ।। ६८ ।। ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् । त्रयस्त्रिंशत्कृते लिंगे स्वस्थिकं शूद्रयोग्यकम् ।। ६९ ।। सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् । मुख लिंगं च पूर्वोक्त विधिनात्रापि भाव्यते ।। ७० ।। शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् । लिंगानामधिकं दद्याच्छिरसो वर्तनांशकम् ।। ७१ ।। समस्तमथवा त्र्यंशमधिकं वर्तनांशतः । शिवलिंगप्रतिष्ठोक्तविधिना लक्षणं नयेत् ।। ७२ ।। यावल्लिंगस्य विस्तार स्तावत् पीठस्य विस्तृतिः । लिंगविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ।। ७३ ।। चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः । पूजांश द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ।। ७४ ।। तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा । नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ।। ७५ ।। तत्तदन्तर मानानि पीठानां कथितानि च । गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ।। ७६ ।। गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः । विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ।। ७७ ।। ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् । पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ।। ७८ ।। पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् । लिंग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ।। ७९ ।। चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् । तत्तदन्तर मानानि नवधापरिकल्पयेत् ।। ८० ।। लिंगायाम समं वापि लिंगनाहसमं तु वा । पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ।। ८१ ।। तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा । तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ।। ८२ ।। तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् । लिंग विष्कंभ मानं तु विकारांश समं भवेत् ।। ८३ ।। भागादेक विवृद्ध्या तु चतुर्भागावसानकम् । ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ।। ८४ ।। एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् । कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजांश दैर्घ्यकम् ।। ८५ ।। तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः । छायादोषो यथा नस्यात् लिंगपीठिकयोर्द्विजाः ।। ८६ ।। देशस्य देशनाथस्य कर्तुः कारयितुस्तथा । आवहेदुत्तमां सिद्धिं सर्व लिंगेष्वयं विधिः ।। ८७ ।। तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् । अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ।। ८८ ।। कल्पितं पीठमेवं वा पीठलिंगं तु मुक्तिदम् । सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ।। ८९ ।। शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने । गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ।। ९० ।। तत्संग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके । स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ।। ९१ ।। लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा । तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ।। ९२ ।। ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः । त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ।। ९३ ।। यदाकार विशिष्टं तद्रूपं तस्य तदेव हि । प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ।। ९४ ।। सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः । प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ।। ९५ ।। जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् । परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ।। ९६ ।। स्वायम्भुवादि लिंगानां दृश्यभागादधः स्थितम् । दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ।। ९७ ।। दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् । तस्मादधः स्थितं लिंगं मूलेनैव परीक्षयेत् ।। ९८ ।। अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः । सार्वदेशिकलिंगानामित्थं लक्षण मीरितम् ।। ९९ ।। प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ।। ९९१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिंग प्रासाद विधिः एक चत्वारिंशत्तमः पटलः ।। ४२. द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः । प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ।। १ ।। मण्डपाः परिवारा वा प्राकारा गोपुरादयः । यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ।। २ ।। यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे । तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ।। ३ ।। शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च । पश्चिमोत्तरपूर्वाशाश्शुभाशास्संप्रकीर्तिताः ।। ४ ।। कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् । तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ।। ५ ।। प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः । परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ।। ६ ।। नित्योत्सवादिकं तत्र विरोधाय न कल्पते । अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ।। ७ ।। नैव पाशुपतेनापि न महाव्रतिना क्वचित् । न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ।। ८ ।। अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः । प्रमादत्तैः कृते तच्च शैवं संपादयेत् क्षणात् ।। ९ ।। एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् । अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ।। १० ।। पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् । स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ।। ११ ।। सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च । कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ।। १२ ।। आद्येष्टकादिकं कर्म तावदस्य समाचरेत् । एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ।। १३ ।। प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते । मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ।। १४ ।। पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा । क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ।। १५ ।। तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा । पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ।। १६ ।। एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः । आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ।। १७ ।। संलब्धकामो देहान्ते शिवेन सह मोदते । एकाद्येकैकवृद्ध्या तु रुद्रसंख्यावसानकम् ।। १८ ।। अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् । शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ।। १९ ।। एवं यः कारयेत् कर्ता स एवाहं न संशयः ।। १९१/२ ।। इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः पटलः ।। ४३. त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ।। १ ।। बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ।। २ ।। अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ।। ३ ।। बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् । बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ।। ४ ।। अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकॢप्तलोचनम् ।। ५ ।। ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ।। ६ ।। एवं सदाशिवः कार्यो मनोन्मना समन्वितम् । इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।। ७ ।। वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् । तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ।। ८ ।। बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् । जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ।। ९ ।। मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसंख्यया । तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ।। १० ।। पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा । पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ।। ११ ।। वेद्यूर्ध्वे स्थण्डिलं शययाकॢप्तिं पूर्ववदाचरेत् । प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ।। १२ ।। शययायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ।। १३ ।। सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् । वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ।। १४ ।। परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् । तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् । यवा/लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ।। १६ ।। अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ।। १७ ।। प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः । प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ।। १८ ।। उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् । देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।। १९ ।। ततो महूर्ते संप्राप्ते कुम्भाद्बीजं पुरो न्यसेत् । कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ।। २० ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २१ ।। अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् । तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २२ ।। स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् । देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ।। २३ ।। अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् । नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ।। २४ ।। सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः । इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ।। २५ ।। इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः त्रिचत्वारिंशत्तमः पटलः ।। ४४. चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ।। १ ।। ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके । गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ।। २ ।। त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् । तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ।। ३ ।। वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा । वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ।। ४ ।। दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः । एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ।। ५ ।। द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः । चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ।। ६ ।। गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते । पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ।। ७ ।। सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ।। ८ ।। षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः । आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ।। ९ ।। एवं विंशति भागान्तं विस्तारे परिकल्पिते । तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ।। १० ।। द्वितलादितलेऽलिन्दान् भित्तिं च बहुसंख्यया । पादेन वार्धभागेन त्रिपादेन समन्ततः ।। ११ ।। सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् । हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ।। १२ ।। अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् । शालाकारम् सभाकारं प्रासादाकारमेव च ।। १३ ।। मस्तकस्थूपिसंख्या स्यादेकादेकाद शान्तिका । दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ।। १४ ।। शिवायतनदेवा वा गणपः षण्मुखोऽपि वा । सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ।। १५ ।। शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् । पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ।। १६ ।। उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् । कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ।। १७ ।। आयामो वाथ संग्राह्याः प्रतिमालक्षणोक्तितः । धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ।। १८ ।। रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते । हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ।। १९ ।। प्रासादभित्तिदेवानामशेषाणामपि प्रभोः । प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ।। २० ।। रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता । प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ।। २१ ।। वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः । श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ।। २२ ।। सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः । प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ।। २३ ।। धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः । अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ।। २४ ।। देहली पेषणी चुल्की खण्डनोलूखली तथा । मुसली मुद्गरी देवी वर्धमानी च वा मताः ।। २५ ।। चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः । वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ।। २६ ।। वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि । नै -ऋते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ।। २७ ।। इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि । निर्माल्यधारिणीं देवीमशनीमीशगोचरे ।। २८ ।। पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः । महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ।। २९ ।। देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः । पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ।। ३० ।। चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् । अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ।। ३१ ।। पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च । भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ।। ३२ ।। लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके । प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ।। ३३ ।। मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् । ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ।। ३४ ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करन्डमकुटान्विता ।। ३५ ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ।। ३६ ।। पद्महस्ताति शान्ता च सादेवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ।। ३७ ।। यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ।। ३८ ।। देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ।। ३९ ।। प्रलम्बवामपादा वा लम्बितापरपादिका । देवेन सहिता वापि केवला वा प्रकीर्तिता ।। ४० ।। श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ।। ४१ ।। नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले । गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ।। ४२ ।। तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् । तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ।। ४३ ।। सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते । जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ।। ४४ ।। द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् । तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ।। ४५ ।। कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् । नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ।। ४६ ।। पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् । प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ।। ४८ ।। जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् । पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ।। ४९ ।। दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि । स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ।। ५० ।। मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः । उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ।। ५१ ।। लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा । अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ।। ५२ ।। एवं देवी प्रकर्तव्या तस्याः संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ।। ५३ ।। मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ।। ५४ ।। नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते । कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ।। ५५ ।। सान्तरेफ महामाया बिन्दुनाद समन्विता । मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ।। ५६ ।। गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ । वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ।। ५७ ।। अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् । बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ।। ५८ ।। ऐंकारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् । मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ।। ५९ ।। एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः । एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ।। ६० ।। हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ । आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ।। ६१ ।। एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते । कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ।। ६२ ।। मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् । तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ।। ६३ ।। वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च । पुष्परागं च गोमेदं तथा मरकतं द्विजाः ।। ६४ ।। हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् । अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ।। ६५ ।। तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् । गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ।। ६६ ।। आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् । ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।। ६७ ।। परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् । प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ।। ६८ ।। योन्याभवनपञ्चैक ऋक् संख्याकुण्डकल्पनम् । तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ।। ६९ ।। तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् । पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ।। ७० ।। होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् । जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ।। ७१ ।। गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा । शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ।। ७२ ।। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् । देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ।। ७३ ।। लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् । परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ।। ७४ ।। वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च संमतान् । आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।। ७५ ।। मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः । क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ।। ७६ ।। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा । धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ।। ७७ ।। पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः । गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ।। ७८ ।। मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् । गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ।। ७९ ।। पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः । वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ।। ८० ।। संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः । समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।। ८१ ।। पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ।। ८२ ।। पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८३ ।। गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् । मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।। ८४ ।। मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् । सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ।। ८५ ।। शान्त्यंभः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् । दर्भैस्संस्पर्शनंचैव प्रतिभागं समाचरेत् ।। ८६ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उत्थाप्य देवीं कुंभांश्च प्राग्वद्वह्निं च तर्पयेत् ।। ८७ ।। दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः । मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।। ८८ ।। कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् । प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ।। ८९ ।। सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् । चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ।। ९० ।। देव्यग्रे तु घटान्न्यस्य कुंभाद्बीजं तुतद्धृदि । विन्यसेदनुकुंभेभ्यः पीठस्य परितो मनून् ।। ९१ ।। तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः । तत्तत्कुंभोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। ९२ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः । स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ।। ९३ ।। यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी । तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ।। ९४ ।। संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः । उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ।। ९५ ।। ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः । देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ।। ९६ ।। कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता । इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ।। ९७ ।। एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः । भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवंपदम् ।। ९८ ।। पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् । शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ।। ९९ ।। शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे । प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ।। १०० ।। प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः । सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ।। १०१ ।। द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः । द्वारस्य पार्श्वयोश्चैव शंख पद्मनिधी तथा ।। १०२ ।। द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ । चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ।। १०३ ।। सर्वाभरण संपन्नौ सर्वरत्न विभूषितौ । ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ।। १०४ ।। गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् । अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ।। १०५ ।। समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् । सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ।। १०६ ।। अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः । खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ।। १०७ ।। देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् । कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ।। १०८ ।। वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः । शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ।। १०९ ।। सुधासंप्लावनं चात्मावाहनं चामृति कृतम् । करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ।। ११० ।। अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् । पञ्चमूर्धास्ययुग्देव्याः पूजायां संप्रकल्पयेत् ।। १११ ।। एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् । शशिन्यादय एवोक्ताः केवलास्तु कला इति ।। ११२ ।। अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् । देवी स्कन्द गणेशादीन् सर्वान् संपूजयेत्तु वा ।। ११३ ।। सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् । हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ।। ११४ ।। ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् । स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ।। ११५ ।। गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा । संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ११६ ।। बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि । गणाम्विकायै विद्महे महातपायै धीमहि ।। ११७ ।। इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् । इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ।। ११८ ।। देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः । देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ।। ११९ ।। बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि । सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ।। १२० ।। अथवा स्त्राणुनालब्ध तालवृन्तज वायुना । तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ।। १२१ ।। प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् । अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ।। १२२ ।। कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् । अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ।। १२३ ।। ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् । वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ।। १२४ ।। ततो देव्यासनायेति पूजयेदनुपूर्वशः । मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ।। १२५ ।। विद्यादेहं च संपाद्य पूजाबेर स्वरूपकम् । प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ।। १२६ ।। हृदयानुगतेनैव पुष्पपूरित सत्करः । आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ।। १२७ ।। सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् । हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ।। १२८ ।। अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् । वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ।। १२९ ।। पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् । गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ।। १३० ।। पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् । उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ।। १३१ ।। गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् । दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ।। १३२ ।। आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः । पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ।। १३३ ।। शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् । अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ।। १३४ ।। गणविद्येशलोकेशतदस्त्रान् परितो यजेत् । एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ।। १३५ ।। पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च । नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ।। १३६ ।। देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा । वरदाभयहस्ता च शंख चक्र करा परा ।। १३७ ।। पद्मासनस्था तस्यांतु यजेद्देवीं मनोन्मनीम् । पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ।। १३८ ।। पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् । पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।। १३९ ।। नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् । तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ।। १४० ।। एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् । षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ।। १४१ ।। नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः । उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ।। १४२ ।। पवित्रारोहं सम्यक् कृत्तिकादीपमेव च । संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ।। १४३ ।। मासोत्सवं तथा मासे नव नैवेद्यकं तथा । विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ।। १४४ ।। जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् । किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ।। १४५ ।। पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः । शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ।। १४६ ।। ध्वजहोमबलिं हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ।। १४७ ।। उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता । कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ।। १४८ ।। यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् । अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ।। १४९ ।। एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् । सर्व देवेषु सामान्यं विधानमिदमग्रजाः ।। १५० ।। धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् । दिग्देव मूर्तिसंयुक्तं मध्ये कुंभ समन्वितम् ।। १५१ ।। धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह । अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।। १५२ ।। देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् । तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ।। १५३ ।। एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ।। इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः पटलः ।। द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टममुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।। चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका । दुकूल वसनादेवी करण्ट मकुटान्विता ।। वरदा संयुक्ता पाशाङ्कुश करान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरावपि ।। दुकूलवसना देवी करण्डमकुटान्विता । वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ।। यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ।। दुकूल वसनादेवी करण्डमकुटान्विता वददाभयसंयुक्ता शुकोत्पल करावपि ।। यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ।। ४५. पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् । पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ।। १ ।। शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु । चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ।। २ ।। आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् । यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ।। ३ ।। अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः । एकादि नवभूम्यन्तभूमिभाग समन्वितम् ।। ४ ।। विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा । दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ।। ५ ।। गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः । पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ।। ६ ।। दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा । धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ।। ७ ।। प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः । मण्टपो वालयस्तस्य कूटाद्याकार एव वा ।। ८ ।। परितः परिवारोक्तः प्रसंगात् स च कथ्यते । विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ।। ९ ।। उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् । अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ।। १० ।। कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै । द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ।। ११ ।। कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् । आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ।। १२ ।। अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः । एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ।। १३ ।। हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः । विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ।। १४ ।। विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः । द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ।। १५ ।। हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ । उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ।। १६ ।। रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ । धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ।। १७ ।। तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः । कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ।। १८ ।। रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः । श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ।। १९ ।। पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः । परिवारा इति ख्याता गणेशाभिमुखस्थिताः ।। २० ।। परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः । बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ।। २१ ।। पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः । भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ।। २२ ।। लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ।। २३ ।। पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः । त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ।। २४ ।। स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् । प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ।। २५ ।। केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् । उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ।। २६ ।। अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः । ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ।। २७ ।। अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् । तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ।। २८ ।। जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् । केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते / मुच्यते ।। २९ ।। दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् । दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ।। ३० ।। दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् । मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ।। ३१ ।। नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते । कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ।। ३२ ।। कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् । कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ।। ३३ ।। मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् । हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ।। ३४ ।। नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् । अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ।। ३५ ।। जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते । जगवक्त्रो गणाधीशो भूतरूपो महोदरः ।। ३६ ।। नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः । नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ।। ३७ ।। अवामवामावर्तेभहस्तः पद्मासनस्थितः । स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।। ३८ ।। लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।। ३९ ।। पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् । शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ।। ४० ।। स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। ४१ ।। त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः । पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ।। ४२ ।। इष्टासनस्थितो वापि प्रभादिपरिमण्डितः । एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ।। ४३ ।। गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा । शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ।। ४४ ।। आसीनमासने रत्नमकुटादिविभूषिताम् । श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ।। ४५ ।। उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् । दिगम्बरां सुवदनां भुजद्वय समन्विताम् ।। ४६ ।। विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् । पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ।। ४७ ।। स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् । चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ।। ४८ ।। इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् । स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ।। ४९ ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः । द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ।। ५० ।। बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु । त्रयोदशान्तसंपन्नमथवा परिकल्पयेत् ।। ५१ ।। कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् । हृल्लेखासंपुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ।। ५२ ।। श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् । पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ।। ५३ ।। वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् । नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ।। ५४ ।। फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः । द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ।। ५५ ।। सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् । तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ।। ५६ ।। बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् । द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ।। ५७ ।। विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः । वरदं तु समुच्चार्य वरदद्वितयं वदेत् ।। ५८ ।। सर्वलोकवशं पश्चादानयेति पदं ततः । स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ।। ५९ ।। ओंकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः । हृल्लेखासंपुटो मन्त्रस्त्वथ कारणकार्ययुक् ।। ६० ।। गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः । इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ।। ६१ ।। सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने । दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ।। ६२ ।। कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी । अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ।। ६३ ।। अनामिकामथाकुञ्च तर्जनीमपि चानयेत् । अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसंज्ञिता ।। ६४ ।। अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ।। ६५ ।। पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा । पञ्च तत्संख्यहेम्नाथ हैमसूचि समन्वितम् ।। ६६ ।। पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् । कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् ।। ६७ ।। मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना । सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ।। ६८ ।। यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् । बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।। ६९ ।। तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा । परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ।। ७० ।। यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः । यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ।। ७१ ।। कुण्डानि नव पञ्चैक संख्यया कथितानि तु । तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ।। ७२ ।। प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् । मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ।। ७३ ।। उद्धास्य शिल्पिनं पश्चाद्द्विजान् संभोजयेत्ततः । पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।। ७४ ।। भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् । जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ।। ७५ ।। मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् । कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ।। ७६ ।। संकल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः । अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ।। ७७ ।। आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् । विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ।। ७८ ।। कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् । पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ।। ७९ ।। बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् । वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ।। ८० ।। सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् । कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ।। ८१ ।। परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् । आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ।। ८२ ।। देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् । सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ।। ८३ ।। शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च । न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ।। ८४ ।। गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् । उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ।। ८५ ।। मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः । इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ।। ८६ ।। पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः । मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ।। ८७ ।। विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् । पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ।। ८८ ।। गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् । वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ।। ८९ ।। संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः । दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ।। ९० ।। ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् । आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ।। ९१ ।। समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः । तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ।। ९२ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।। ९३ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ।। ९४ ।। प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् । दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ।। ९५ ।। मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् । कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ।। ९६ ।। अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् । प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ।। ९७ ।। सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् । चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ।। ९८ ।। द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि । विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ।। ९९ ।। तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् । तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ।। १०० ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् । गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ।। १०१ ।। तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः । विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ।। १०२ ।। विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् । तासां हृदि विशेषेण ततः स्थापनमाचरेत् ।। १०३ ।। विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् । आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ।। १०४ ।। विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् । पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभं ।। १०५ ।। लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु । तस्यार्चनं च संक्षोपाछृणुध्वं मुनिपुङ्गवाः ।। १०६ ।। उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च । सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ।। १०७ ।। कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयं । आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ।। १०८ ।। द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् । देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ।। १०९ ।। प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु । वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ।। ११० ।। संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः । तदुद्भूतामृतेनाद्रींकृतकाय समन्वितः ।। १११ ।। अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ । ईशास्यघोरवामाजान् करजेषु तले दृशाम् ।। ११२ ।। मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् । ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ।। ११३ ।। देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा । एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ।। ११४ ।। आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा । गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ।। ११५ ।। अथवा शिवमन्त्रैस्तु शैवींकृत्वा निजां तनुम् । इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ।। ११६ ।। स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् । गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ।। ११७ ।। पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा । संप्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ।। ११८ ।। हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् । मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ।। ११९ ।। इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे । इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ।। १२० ।। तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् । इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ।। १२१ ।। हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे । त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ।। १२२ ।। लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ।। १२३ ।। मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा । कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ।। १२४ ।। कल्पयेदासनं मध्ये प्रणवं धर्मसंमुखान् । अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ।। १२५ ।। प्रणवाम्भसि संभूतं पीतकर्णिकया युतम् । शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ।। १२६ ।। ततो गणासनायेति पूजयेदनुपूर्वशः । मूर्तिमावाह्य तां प्राग्वद्देहं संक्ल्प्य मन्त्रकैः ।। १२७ ।। प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः । हृदयानुगतेनैव पुष्पापूरितसत्करः ।। १२८ ।। निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ।। १२९ ।। हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् । अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ।। १३० ।। हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा । उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ।। १३१ ।। वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् । पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ।। १३२ ।। दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना । लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ।। १३३ ।। सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु । तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १३४ ।। तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना । नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ।। १३५ ।। गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चाद्धूपदानावसानके ।। १३६ ।। अग्नौ च रक्षोवायवीशदिक्षु दिक्षु हृदाद्यणून् । तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ।। १३७ ।। इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् । एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ।। १३८ ।। पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च । नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ।। १३९ ।। पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् । मूलेन शतपञ्चाशद्दशसंख्येन वा गुरुः ।। १४० ।। मूलाद्दशांशसंख्यैस्तैरङ्गैर्होमं समाचरेत् । नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ।। १४१ ।। पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् । पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ।। १४२ ।। नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा । पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।। १४३ ।। पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति । एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ।। १४४ ।। षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् । ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ।। १४५ ।। नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा । विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ।। १४६ ।। नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् । स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ।। १४७ ।। आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने । अष्टौ च नवसंख्ये स्युः पञ्चविंऽसतिसंख्यके ।। १४८ ।। लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके । लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ।। १४९ ।। पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् । एकोनपञ्चाशत्संख्यकलशे देवता मताः ।। १५० ।। गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके । अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ।। १५१ ।। अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः । वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ।। १५२ ।। शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् । अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ।। १५३ ।। उत्सवं दमनारोहं पवित्रारोहणक्रिया । दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ।। १५४ ।। नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः । जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।। १५५ ।। किंतु तस्य ध्वजे मूषं वा समालिखेत् । शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ।। १५६ ।। ध्वजहोमबलीन् हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ।। १५७ ।। उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता । उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ।। १५८ ।। अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः । वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ।। १५९ ।। शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् । सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ।। १६० ।। अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ।। १६१ ।। इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः पञ्चचत्वारिंशत्तमः पटलः ।। गजवक्त्रो गणाधीशो भूरूपो महोदरः । जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।। स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीट मकुटोज्ज्वलम् ।। शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् । स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ।। अवामावामवर्तेभ हस्तः पद्मासनस्थितः । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम् उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम् दिगम्बरां सुवदनां भुजद्वय समन्विताम् विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम् पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम् चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम् इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम् स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः गजवक्त्रो गणाधीशो भूतरूपो महोदरः नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम् स्थानकं वासनं वाथ गणेशं कारयेत्ततः गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा आसीनमासने रत्नमकुटादि विभूषितम् ४६. षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ।। १ ।। जटामकुटसंयुक्तो वक्रनागफणावृतः । पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ।। २ ।। त्रिंशत्संख्यावसानास्स्युः जटास्तास्सान्तरालकाः । धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ।। ३ ।। कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया । वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ।। ४ ।। युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः । व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ।। ५ ।। वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः । दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ।। ६ ।। कस्थ ब्रह्मकपालेन नानापुष्पैरलंकृतः । धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ।। ७ ।। शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः । स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ।। ८ ।। कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः । अम्बिकामुखबिंबाब्ज भ्रमरीकृतलोचनः ।। ९ ।। आबद्धकिंकिणीयुक्तः तद्वन्नूपुरशोभितः । वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ।। १० ।। दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च । वामापरकरस्थेन वह्निना दक्षकेन तु ।। ११ ।। डिन्डिमेन समायुक्त उपवीतेन संयुतः । गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ।। १२ ।। नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः । मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ।। १३ ।। नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् । ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ।। १४ ।। हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् । श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसंमतम् ।। १५ ।। सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् । सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ।। १६ ।। तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् । तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ।। १७ ।। सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः । सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ।। १८ ।। ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् । सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ।। १९ ।। सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः । सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ।। २० ।। सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् । अथवान्यप्रकारेण सूत्रपातोभिधीयते ।। २१ ।। कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः । नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ।। २२ ।। स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् । सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ।। २३ ।। बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् । मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ।। २४ ।। कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् । नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ।। २५ ।। सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् । बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ।। २६ ।। मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् । कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ।। २७ ।। पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् । स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ।। २८ ।। तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् । श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ।। २९ ।। तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् । तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ।। ३० ।। तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः । तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ।। ३१ ।। तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः । सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ।। ३२ ।। भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः । विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ।। ३३ ।। धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः । धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ।। ३४ ।। कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः । एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ।। ३५ ।। बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् । अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ।। ३६ ।। देवस्य वक्त्रमानेन स्यादपस्मारमानकम् । वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ।। ३७ ।। वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् । चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ।। ३८ ।। उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् । उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ।। ३९ ।। केशान्ताद्धनुपर्यन्तं अष्टभागमितिस्मृतम् । गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ।। ४० ।। षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः । तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ।। ४१ ।। तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते । ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ।। ४२ ।। जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः । द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ।। ४३ ।। व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे । आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ।। ४४ ।। देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते । द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ।। ४५ ।। सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता । ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ।। ४६ ।। गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः । प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ।। ४७ ।। सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः । एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ।। ४८ ।। द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा । तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ।। ४९ ।। कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा । भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ।। ५० ।। भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि । उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ।। ५१ ।। द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च । भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ।। ५२ ।। भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते । उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ।। ५३ ।। सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः । चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ।। ५४ ।। शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् । इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ।। ५५ ।। कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ।। ५६ ।। बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् । जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ।। ५७ ।। कुण्ठानि परितः पश्चान्नवपञ्चैक संख्यया । चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ।। ५८ ।। मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् । पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ।। ५९ ।। समरीचिपदे कुर्यात् वास्तुहोमं विधानतः । वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ।। ६० ।। पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् । शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ।। ६१ ।। कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि । शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ।। ६२ ।। वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् । लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ।। ६३ ।। ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां वेदहस्तान् धानां सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभां ।। अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् । अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ।। ६४ ।। तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् । होमं समारभेत् काले मूर्तिपैस्सह देशिकः ।। ६५ ।। कृत्वा कुण्डाग्निसंस्कारं अग्निकार्योक्तमाचरेत् । समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ।। ६६ ।। प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः । ऊदुंबरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ।। ६७ ।। शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः । प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ।। ६८ ।। ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् । गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ।। ६९ ।। रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् । समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ।। ७० ।। उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः । व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ।। ७१ ।। कुंभांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः । पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ।। ७२ ।। वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः । दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ।। ७३ ।। ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् । चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ।। ७४ ।। ततः कुंभान्समुद्धृत्य सर्वातोद्य समाकुलम् । हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ।। ७५ ।। कुंभाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् । वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ।। ७६ ।। विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् । देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ।। ७७ ।। तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः । उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ।। ७८ ।। अनुक्तमत्र सामान्यस्थापनोदित माचरेत् । एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ।। ७९ ।। स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ।। ७९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः षट्चत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः । जटामकुट संयुक्तो वक्रनाग फणावृतः ।। कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः स्थितो दक्षिणपादेन वामेनोपरि वर्तिना कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः दक्षाभयकरस्थेन वह्निना दक्षके न तु डिण्डिमेन समायुक्त उपवीतेन संयुतः गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक् नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः ४७. सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् । तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ।। १ ।। चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः ।। २ ।। कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ।। ३ ।। सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामेगौर्या च संयुतः ।। ४ ।। सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः । ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ।। ५ ।। श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् । मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ।। ६ ।। चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् । उष्णीषात्तुककुद्वंश कण्ठस्फिक् मध्यमाद्गतम् ।। ७ ।। पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् । हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ।। ८ ।। जानुः पक्षांगुलं वामे लम्बितस्य गुणाङ्गुलम् । सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ।। ९ ।। ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः । तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणांगुलम् ।। १० ।। सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् । कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ।। ११ ।। नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् । वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ।। १२ ।। वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया । ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ।। १३ ।। देवोच्चदशभागैक भागेनाभद्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। १४ ।। द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः । कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ।। १५ ।। दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः । द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ।। १६ ।। देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा । आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ।। १७ ।। स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः । सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।। १८ ।। प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका । रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ।। १९ ।। हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् । तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ।। २० ।। तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् । दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ।। २१ ।। जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् । दिगऽऽराण्याभवृत्तानि वेदाश्राणि च वानयेत् ।। २२ ।। कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्वहिः । शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ।। २३ ।। पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् । शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ।। २४ ।। कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः । वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ।। २५ ।। शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे । विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ।। २६ ।। स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः । लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ।। २७ ।। परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् । तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ।। २८ ।। कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः । तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ।। २९ ।। पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च । शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ।। ३० ।। प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् । षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ।। ३१ ।। एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् । द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ।। ३२ ।। संप्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः । वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ।। ३३ ।। कुम्भाद्बीजं महेशानहृदि न्यसेत् । वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ।। ३४ ।। सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् । गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ।। ३५ ।। अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् । एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।। ३६ ।। कल्याणकर्म कर्तव्यं यथाविधि विशेषतः । अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ।। ३७ ।। इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः । स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ।। ३८ ।। इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः सप्तचत्वारिंशत्तमः पटलः ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ।। वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया । स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । देवोच्चदशभागैक भगेनाथ द्विभागतः । त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः । कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ।। देव्यूरुसंस्थिता वापि निष्पंकजकरोऽथवा ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः सर्वाभरण संयुक्तो वरदाभयहस्तकः कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः सालम्बदक्षपादेन वामे गौर्या च संयुतः सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् देवोच्चदशभागैक भागेनाथद्विभागतः त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्याच संयुतः ।। देवोच्चदशभागैक भागेनाथ द्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ।। सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः । देवोच्चदशभागैक भागेनाथ द्विभागतः ।। त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ।। ४८. अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् । आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ।। १ ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः । वराभय समायुक्तः पूर्वस्थ कर पल्लवः ।। २ ।। वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे । वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ।। ३ ।। ऊरुस्पृष्ठकरो वापि कटको वा विधीयते । मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। ४ ।। मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता । पराङ्कुखौ संमुखौ चा मृगटङ्कौ समीरितौ ।। ५ ।। दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् । हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ।। ६ ।। मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् । श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ।। ७ ।। शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा । स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ।। ८ ।। नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् । स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ।। ९ ।। कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् । ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ।। १० ।। सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् । ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ।। ११ ।। एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् । अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ।। १२ ।। जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् । अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ।। १३ ।। भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् । तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ।। १४ ।। पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् । प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ।। १५ ।। ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे । सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ।। १६ ।। मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले । कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ।। १७ ।। मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् । एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ।। १८ ।। कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे । मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ।। १९ ।। देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः । उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ।। २० ।। पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् । मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ।। २१ ।। पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् । अग्रे दशांगुलं तस्य मूले तु मुखविस्तरम् ।। २२ ।। तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् । वामे महाफणिं तस्य सर्वालंकार भूषितम् ।। २३ ।। जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः । एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ।। २४ ।। जटामकुटमेतद्धि सर्वालङ्कार मीरितम् । रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ।। २५ ।। पद्म पत्रिकया वापि शोभितं वामकर्णकम् । सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ।। २६ ।। पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् । पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ।। २७ ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। २८ ।। सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः । मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ।। २९ ।। कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। ३० ।। समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः । संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ।। ३१ ।। चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा । सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ।। ३२ ।। तयालिङ्गित देवो वा अन्योन्या लिंगितस्तु वा । आलिंगन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ।। ३३ ।। एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते । कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ।। ३४ ।। रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् । जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ।। ३५ ।। कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया । तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ।। ३६ ।। विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः । समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ।। ३७ ।। पुण्याहं वाचयित्वा तु शययायाः कल्पनं नयेत् । स्नपनं कौतुकं शययारोहणं पृथगाचरेत् ।। ३८ ।। ततः कुंभं शिरोदेशे वर्धनी च तदुत्तरे । लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ।। ३९ ।। परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् । न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ।। ४० ।। कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः । लाजसस्येन्द्रकैश्चैव वटोदुंबर संज्ञकौ ।। ४१ ।। अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः । शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ।। ४२ ।। प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः । प्रभाते देवकुंभाग्नीन् अभ्यर्च्य गुरुरादरात् ।। ४३ ।। वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः । संप्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ।। ४४ ।। प्रतिमाग्रे घटान्न्यस्य कुंभाद्बीजं तु विन्यसेत् । देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ।। ४५ ।। सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् । अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ।। ४६ ।। विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् । कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ।। ४७ ।। कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः । अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ।। ४८ ।। चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः । बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ।। ४९ ।। इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः अष्टचत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्थ करुपल्लवः ।। ऊरुपृष्टकरो वापि कटको वा विधीयते । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ।। हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् । वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्य करपल्लवः ।। वरदं वाम हस्तस्यात् अभयं दक्षिणे करे । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।। चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः वराभय समायुक्तः पूर्वस्थकरपल्लवः मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम् वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः सुपत्रवलयोपेतः सर्वरत्नोपशोभितः छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः सापीहभिन्नपीठा वा देवेनालिङ्गताथवा ४९. एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै । चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ।। १ ।। समभागयुतस्सम्यक् स्थापकेन समन्वितः । सव्यकर्णस्थमकरकुण्डलेन समन्वितः ।। २ ।। कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः । धनुर्बाणयुतोपेत वामेतरकरान्वितः ।। ३ ।। दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः । नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ।। ४ ।। पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शरांगुलम् । दोर्मूलात्परहस्तान्तं षोडशांगुल ईरितः ।। ५ ।। परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः । शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ।। ६ ।। सूत्रन्तुलंबमयेद्वामे वामनासा पुटस्यतु । दक्षिणस्थितपादे च पुरस्तान्मुनि पुंगवाः ।। ७ ।। हृन्नाभिमेढ्रसव्यांघ्रि जानूनां सूत्रतोन्तरम् । सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ।। ८ ।। तत् पादांगुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् । कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।। ९ ।। एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः । सुमुहूर्ते सुलग्ने च कृत्त्वैवांकुर कर्म च ।। १० ।। रत्नन्यासं दृशांमोक्षं बेरशुद्धिं प्रदक्षिणम् । तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ।। ११ ।। मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया । कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।। १२ ।। संकल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् । देवेशस्य शिरोदेशे शिवकुंभं च वर्धनीम् ।। १३ ।। लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् । अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ।। १४ ।। गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः । तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः । पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। १६ ।। शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः । प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ।। १७ ।। प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च । ततो द्वितीय दिवसे देवकुंभाग्नितर्पणम् ।। १८ ।। पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् । सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ।। १९ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ।। २० ।। सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् । विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ।। २१ ।। कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् । उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ।। २२ ।। अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् । प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ।। २३ ।। इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् । सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ।। २४ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः एकोनपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः । सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ।। सव्यकर्णस्थमकर कुण्डलेन समन्वितः । किष्णापरशु संयुक्त परहस्त द्वयान्वितः ।। धनुर्बाणयुतोपेत वामेतर करान्वितः । देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ।। कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् । एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ।। ५०. पञ्चाशत्तमे पटले लिंगोद्भव विधिः लिंगोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते । गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् ।। १ ।। लिंगोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् । तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ।। २ ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिंगाधो शर्वजान्वन्त भागन्नेंद्रिय गोचरम् ।। ३ ।। लिंगोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् । बिंबस्यानन मानेन कारयेत् हंसमादरात् ।। ४ ।। बिंबाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् । तल्लिंगरसभागैक द्वित्रिवेदशरैर्नयेत् ।। ५ ।। व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ । तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ।। ६ ।। लिंगोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः । ब्रह्मविष्णूविहीनो वा हंस सूकर संयुतः ।। ७ ।। इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते । कालश्च पूर्ववत् ग्राह्यः तद्वदेवांकुरार्पणम् ।। ८ ।। पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् । कुण्दानि परितोश्राणि नव पञ्चैक संख्यया ।। ९ ।। दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि । नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ।। १० ।। प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् । भूषणं मण्डपस्यैव वास्तुहोममतः परम् ।। ११ ।। भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः । वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ।। १२ ।। जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः । कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ।। १३ ।। नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् । ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ।। १४ ।। वस्त्रैश्चैवतु संवेष्ट्य गंधाद्यैरर्चयेत्ततः । प्रधानकुंभं तेषां तु शिरो भागे तु विन्यसेत् ।। १५ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ।। १६ ।। लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः । रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ।। १७ ।। देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् । प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ।। १८ ।। ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः । समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ।। १९ ।। पलाशोदुंबराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च । शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ।। २० ।। प्रधानस्य पलाशस्तु स च सर्वत्रवामतः । द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ।। २१ ।। गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः । रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ।। २२ ।। देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् । बिंबानुद्धृत्य संपूज्य कुभान् कुण्डेषु पावकान् ।। २३ ।। देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः । मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् । वेद्याः कुंभान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ।। २४ ।। कुंभात् बीजं समादाय देवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ।। २५ ।। विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् । ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ।। २६ ।। स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् । बिंबान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ।। २७ ।। वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः । अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।। २८ ।। लिंगोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः । इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगोद्भवप्रतिष्ठा विधिः पञ्चाशत्तमः पटलः ।। गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् । लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ।। लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् । बिंबस्याननमानेन कारयेद्धंसमादरात् ।। बिंबद्विमुखमानेन भूकृष्टास्यंतु सूकरम् । ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ।। ५१. एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः । व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ।। १ ।। व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः । द्वाभ्यां विरहितो योगी स नानाकार भेदतः ।। २ ।। चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः । श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ।। ३ ।। व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा । उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ।। ४ ।। विकीर्ण मूर्धजोवापि जटामकुट एव वा । पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ।। ५ ।। धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः । पञ्चमुद्रासमोपेतो गंगा किंकिणि संयुतः ।। ६ ।। अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः । व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ।। ७ ।। लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् । वामांघ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ।। ८ ।। सन्दर्शसंज्ञयोपेता वामहस्तस्थ पुस्तकः । द्वात्रिंन्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ।। ९ ।। अथवा नागसंयुक्तो वामहस्तस्समीरितः । वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ।। १० ।। दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् । विकसत् पद्मसंकाशः अधस्ताद्विस्तृतांगुलिः ।। ११ ।। परहस्तद्वये चाक्ष माला ज्वाला समन्वितः । पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ।। १२ ।। कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः । नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ।। १३ ।। आभंगसहितं कुर्याद्देहमध्ये तु वामतः । सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ।। १४ ।। मात्रंकालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः । लंबपादस्थितं मध्य सूत्रादर्धांगुलान्तरे ।। १५ ।। अर्द्धार्धांगुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् । सदशांगुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ।। १६ ।। नयने मध्यमं विद्यात् अंगुष्ठस्तनयोस्ततः । नाभेस्तु मणिबन्धान्तः धृत्यंगुलमुदाहृतः ।। १७ ।। सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् । नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ।। १८ ।। दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसांगुलम् । परस्यमणिबन्धाच्च भुजमध्याद्भवांगुलम् ।। १९ ।। द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमांगुलात् । हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ।। २० ।। सजटामकुटादेव चूचुकास्य गलान्तकाः । ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ।। २१ ।। शुक्लाद्यंबर संयुक्ताः भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ।। २२ ।। रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ।। २३ ।। व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः । ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ।। २४ ।। वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः । दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ।। २५ ।। कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः । भागमग्रन्तदावामो भागाधिक चतुर्मुखः ।। २६ ।। विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् । कलावक्रास्य विस्तारा यामं वापि षडंगुलम् ।। २७ ।। तत्तुंगन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् । हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ।। २८ ।। त्रिंशदंगुलमित्युक्तमथान्यमणिबन्धतः । आनाभेरन्तरंनालं शेषं सर्वन्तु पूर्ववत् ।। २९ ।। व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् । तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ।। ३० ।। प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः । अथकुञ्चितवामांघ्रि युग्मस्फिग्गतपार्ष्णिकः ।। ३१ ।। उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् । संदर्शदृष्टिपातश्च आभंगञ्चैव पूर्ववत् ।। ३२ ।। नानामृगैस्तु संकीर्णं नाना व्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ।। ३३ ।। भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् । शैलंकुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ।। ३४ ।। फलशाखोप शाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ।। ३५ ।। रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ।। ३६ ।। शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः । आगमाहित चेतोभिः परमेशेन दीक्षितैः ।। ३७ ।। एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः । व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ।। ३८ ।। सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् । आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ।। ३९ ।। वटवृक्ष विहीनो वा भूताद्यावृत एव वा । भूतस्थलंब वा दक्षिणेशस्समीरितः ।। ४० ।। एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यं पूर्ववत् ग्राह्यमंकुरार्पणमेव च ।। ४१ ।। मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया । कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ।। ४२ ।। रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा । ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ।। ४३ ।। पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् । पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ।। ४४ ।। कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् । वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ।। ४५ ।। स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे । शययायां शाययेद्देवं कौशिकादि ऋषीनथ ।। ४६ ।। दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे । शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ।। ४७ ।। व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् । स्वांस्तुकुंभान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ।। ४८ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितोवसुकुंभांस्तु विद्येशाधिष्ठितान्न्यसेत् ।। ४९ ।। रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् । तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ।। ५० ।। तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् । कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ।। ५१ ।। समिदाज्यचरून् लाज तिलसर्षपवैणवान् । जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ।। ५२ ।। बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् । द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ।। ५३ ।। रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः । समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ।। ५४ ।। संपूज्योद्धृत्य बिंबांश्च कुंभान् कुण्डेषु पावकान् । देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ।। ५५ ।। मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् । कुंभान् बिंबपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ।। ५६ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ।। ५७ ।। विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् । तत्तत् कुंभ जलैश्चैव तत्तद्देशोभिषेचयेत् ।। ५८ ।। ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् । तत्तत् कुंभादकैश्चैव तेषां च स्नपनन्नयेत् ।। ५९ ।। श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् । विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ।। ६० ।। देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः । स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ।। ६१ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ।। ६२ ।। सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता । देहान्ते परमेशानं कर्ता यायादसंशयः ।। ६३ ।। इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन विधिरेकपञ्चाशत्तमः पटलः ।। व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक् तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयंमतः अथकुंचितवामांघ्रियुगस्फिग्गतपार्ष्णिकः उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् संदर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् । चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः विकीर्णमूर्धजो वाऽपि जटामकुट एव वा पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम् वामांघ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां संदर्श संज्ञयोपेतं वामहस्तस्थ पुस्तकः अथवा नागसंयुक्तो वामहस्तस्समीरितः परहतद्वये चाक्षमाला जालसमन्वितः व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ।। दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।। ५२. द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः भिक्षाटनस्य वक्ष्येहं कंकालस्यापि लक्षणम् । प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ।। १ ।। पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् । स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ।। २ ।। आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् । क्षौमांबरं सितं कुर्यात् सुन्दरं तं विभूषणम् ।। ३ ।। स शंख पत्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ।। ४ ।। समभंगयुतं वापि कान्तियुक्त निजांगकम् । प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ।। ५ ।। सव्यमध्यांगुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् । वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ।। ६ ।। उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ।। ७ ।। असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् । नानारूपधरैर्भूतैः अनेकैः परिवारितम् ।। ८ ।। भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ।। ९ ।। स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः । आशीर्वादान्विताः काश्चित् - काश्चिदालिंगनोन्मुखाः ।। १० ।। मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वांगुलं नयेत् । सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ।। ११ ।। दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् । नाभेर्मेढ्रात्तु वामे तु भागं सप्तांगुलं भवेत् ।। १२ ।। पादांगुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् । पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ।। १३ ।। सार्धविश्वांगुलैर्वाऽथ तयोरन्तर मिष्यते । प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ।। १४ ।। नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते । पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ।। १५ ।। हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् । ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ।। १६ ।। अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः । पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ।। १७ ।। कंकालपिंचधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् । भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशांगुलम् ।। १८ ।। अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः । तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ।। १९ ।। कंकालदण्डमानन्तु देवस्याधो गलान्तकम् । दंडाग्रेकारयेत् धीमान् कंकालं हि मुनीश्वराः ।। २० ।। योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः । भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ।। २१ ।। एषएवपरोदेवो नग्नः कंकाल वर्जितः । विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ।। २२ ।। कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ।। २३ ।। दिव्यढक्का समायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ।। २४ ।। व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः । सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ।। २५ ।। कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् । नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ।। २६ ।। डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् । कर्णान्तं षोडशैर्मात्रैः शेषं कंकालवद्भवेत् ।। २७ ।। भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा । स्थापनं च समासेन वक्ष्येऽहं मुनिपुंगवाः ।। २८ ।। कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्तांकुरक्रिया । रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ।। २९ ।। जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः । अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ।। ३० ।। नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् । जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ।। ३१ ।। यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् । तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ।। ३२ ।। उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये । पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ।। ३३ ।। स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् । मध्ये देवं च तद्दक्षे जाया भूतानि वामके ।। ३४ ।। यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् । पृथक् कंकाल दण्डश्चेत् शिरोदेशेतु शाययेत् ।। ३५ ।। शक्रशांकरयोर्मध्ये न्यसेत् कुंभञ्च वर्धनीम् । अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ।। ३६ ।। विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् । वीरेशाय नमश्चेति भूतकुंभे यजेत् गुरुः ।। ३७ ।। नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा । कंकालकुंभे कंकालं न्यस्त्वा तत्वादिकान्न्यसेत् ।। ३८ ।। तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते । मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ।। ३९ ।। प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः । विष्नूक्तवत् स्यात् कंकाले तथाहोमं समाचरेत् ।। ४० ।। कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः । तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ।। ४१ ।। पलाशखादिराश्वत्थोदुंबरो दिक्षु संमताः । शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ।। ४२ ।। प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः । देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ।। ४३ ।। ततो द्वितीयदिवसे देवकुंभाग्नि तर्पणम् । पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ।। ४४ ।। मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिंबपुरो घटान् । कुंभाम्मनुं समादाय देवस्य हृदि विन्यसेत् ।। ४५ ।। वर्धन्यामनुमादाय तस्य पीठांबुजे न्यसेत् । अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ।। ४६ ।। तत्तत् कुंभजलैः स्नाप्य स्नपनञ्चोत्सवं महत् । नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ।। ४७ ।। अनुक्तमत्रसंग्राह्यं सामान्यं स्थापनोक्तवत् । एवं यः कुरुतेमर्त्यः स पुण्यांगतिमाप्नुयात् ।। ४८ ।। मध्य सूत्रादि सूत्राणां द्व्यंगुल द्व्यंगुलञ्च यत् । अंगानामपि सर्वेषां तेषां वै सन्निवेशनम् ।। ४९ ।। हस्तानामपि संख्या च वस्त्राण्याभरणानि च । मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ।। ५० ।। आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया । भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ।। ५१ ।। एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । भिक्षाटने च कंकाले प्रतिष्ठैवं समीरिता ।। ५२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः द्विपञ्चाशत्तमः पटलः ।। पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम् समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् नानागण् समायुक्तं नानाभूतसमाकुलम् असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम् एष एव परोदेवः नग्नः कङ्कालवर्जितः विकीर्णोभय पार्श्वस्थ जटालकविभूषितः कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः सत्कपालं च वरदं वाम हस्तं तु कल्पयेत् दिव्यढक्का समायुक्तं वामस्थमपरंकरम् शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरंकरम् व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः सव्यं कोण समायुक्तं अथवा परिकल्पयेत् पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम् दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत् वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम् उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् नानागण समायुक्तं नानाभूतसमाकुलम् असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम् कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत् ५३. त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै । नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ।। १ ।। प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये । नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ।। २ ।। प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः । कालोंकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ।। ३ ।। शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः । पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ।। ४ ।। मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् । कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ।। ५ ।। कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः । पश्चात् शिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ।। ६ ।। पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् । जलादुत्तीर्य बिंबन्तु मृदाद्यैस्नपनं नयेत् ।। ७ ।। गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः । शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ।। ८ ।। शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् । पूर्ववत् स्हापयेत् कुंभान् परितश्शिवकुंभकम् ।। ९ ।। सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः । शिवंकुंभे यजेदस्त्रन्देवं पाशुपताह्वयम् ।। १० ।। तल्लक्षणोक्तरूपन्तु ध्यात्वागंधादिभिस्तदा । हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ।। ११ ।। दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि । मन्त्रेण वाथ संपूर्णन्देवं पाशुपताह्वयम् ।। १२ ।। अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः । ओंकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ।। १३ ।। मन्त्रेण विधिवत् भिन्ना ओंकाराद्याहृदादयः । हृदयादि समोपेता हुंफडन्ताः नमोन्तकाः ।। १४ ।। हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा । हुंकारकल्पितेनैव ह्रदासंपुरितेन च ।। १५ ।। वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः । तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ।। १६ ।। मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः । कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ।। १७ ।। समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् । पूर्वोक्तमूलब्रह्मांगैर्होमं पूर्वोक्तसंख्यया ।। १८ ।। तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः । पलाशोदुंबराश्वत्थ वटा इन्द्रापि दिक्षु च ।। १९ ।। शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः । प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ।। २० ।। संपूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः । प्रतिमाग्रेघटान्यस्वा तत् कुंभात्तुमनुं हृदि ।। २१ ।। न्यसेत् पीठांबुजेतस्य परिवारमनुन्यसेत् । स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।। २२ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ।। २३ ।। यात्त्येव च सुखं मोक्षमिहापि च परत्र च ।। २३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः त्रिपञ्चाशत्तमः पटलः ।। ५४. चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् । पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ।। १ ।। उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् । पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ।। २ ।। सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः । दिव्यलांगूलसंयुक्तं सुविकीर्ण जटान्वितम् ।। ३ ।। कन्धरोर्ध्वंनराकारं दिव्यमौकि समायुतम् । सिंहास्यं भीमदंष्ट्रंच भीमविक्रमसंयुतम् ।। ४ ।। हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् । कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ।। ५ ।। नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् । पादाभ्यामंबरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ।। ६ ।। गगनाभिमुखं देवं कारयेत् शरभेश्वरम् । एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ।। ७ ।। अष्टवर्गादिमंबीजं चतुर्दशविभूषितम् । षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ।। ८ ।। शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि । ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ।। ९ ।। आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् । योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ।। १० ।। कल्पयेदाद्यवर्णेन ब्रह्माण्यंगानि देशिकः । वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ।। ११ ।। मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः । बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ।। १२ ।। पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः । स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ।। १३ ।। कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् । प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ।। १४ ।। अंकुरार्पणकार्यन्तु तद्विधानेन कारयेत् । नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ।। १५ ।। मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् । जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ।। १६ ।। मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् । पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ।। १७ ।। स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् । विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ।। १८ ।। पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् । शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ।। १९ ।। पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् । उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ।। २० ।। भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो । रक्तवस्त्रेण संवेष्ट्य कुंभस्थापनमारभेत् ।। २१ ।। विन्यसेत् शिवकुंभं च विष्णुकुंभं च विन्यसेत् । स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ।। २२ ।। परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् । ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ।। २३ ।। प्रागुक्ताणु स्वरूपज्ञो गंधाद्यैरर्चयेत् गुरुः । हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ।। २४ ।। विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् । शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ।। २५ ।। मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि । मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ।। २६ ।। ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् । समिद्भिरपिपालाशैः घृतेन चरुणापि च ।। २७ ।। तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् । पूर्णांहुत्वा द्वितीयेह्नि वह्निकुंभामरार्चनम् ।। २८ ।। संप्राप्तदक्षिणस्तुष्टो गुरुस्संपूजितस्सह । मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ।। २९ ।। देवेशाग्रेघटान्यस्वा संकल्प्य स्थण्डिलं गुरुः । कुंभात् बीजं समादाय शरभेश हृदि न्यसेत् ।। ३० ।। विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् । अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।। ३१ ।। तत्तत् कुंभोदकैश्चैव स्नापयेत्परमेश्वरम् । स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ।। ३२ ।। एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् । अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ।। ३३ ।। स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् । देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ।। ३४ ।। सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् । वश्याकर्षण विद्वेषमनेन विधिना नयेत् ।। ३५ ।। अनुक्तमत्रसंग्राह्यं सामान्यस्थापनोक्तवत् । कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ।। ३६ ।। भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः । इयत्ता पुण्य संघस्य भोगान् भुक्त्वेह जन्मनि ।। ३७ ।। वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ।। इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः चतुष्पञ्चाशत्तमः पटलः ।। पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् । ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ।। पादैस्सिंह पदाकारैः चतुर्भुजश्च समन्वितम् । सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ।। दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् । कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ।। सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् । हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ।। कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् । नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।। पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु । गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।। ५५. पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः । प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ।। १ ।। उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। २ ।। एवं जानुरुनाभ्यन्त स्तनवक्षो गलास्यगम् । सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ।। ३ ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वांगसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। ४ ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। ५ ।। नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। ६ ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभंगसहितं कुर्यादागम शवणोन्मुखम् ।। ७ ।। नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः । नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ।। ८ ।। हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्जलि हस्तञ्च शंखाब्जापरहस्तकम् ।। ९ ।। कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः । कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ।। १० ।। इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यंमंकुरं रत्नविन्यासमुभयत्र च ।। ११ ।। नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् । तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ।। १२ ।। कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् । नवपञ्चैक संख्यानां लक्षणैः पूर्ववत् द्विजाः ।। १३ ।। तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् । वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ।। १४ ।। स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् । आरोहणं च शययायाः तस्याञ्च शयनं नयेत् ।। १५ ।। देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि । देवेश पादमूलेतु तेषां च शयनं नयेत् ।। १६ ।। देवोत्तमांगदेशेतु शिवकुंभञ्चवर्धनीम् । अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ।। १७ ।। तत्तदध्याय संसिद्धिं संग्राह्यं मुनि पुंगवाः । कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ।। १८ ।। समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् । सत् पलाशवटप्लक्षो दुंबराः पूर्वतो भवेत् ।। १९ ।। शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ।। २० ।। चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः । निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ।। २१ ।। द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः । संपूज्योद्धृत्य देवांस्तु कुंभान् कुण्डेषु पावकान् ।। २२ ।। सुमुहूर्तेऽठ संप्राप्ते सन्त्रन्यासं समाचरेत् । वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ।। २३ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । कृतस्थण्डिलका धारा बिंबाग्रेतु घटा न्यसेत् ।। २४ ।। कुंभान्मनुं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ।। २५ ।। देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् । अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।। २६ ।। चण्डेशादिषु देवेषु तत्तत् कुंभान् मनुं न्यसेत् । तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ।। २७ ।। स्नपनंञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा । देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ।। २८ ।। एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः पञ्चपञ्चाशत्तमः पटलः ।। उमया सहितस्याथ चन्द्रशेखरमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् । कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः उमया सहितस्याथ चन्द्रशेखमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ।। नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।। ५६. षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् । स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।। १ ।। सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः । त एवानुग्रपराः भक्तानुग्राहकामताः ।। २ ।। देवदानव गंधर्व मुनयो मनुजातयः । पिपीलिका गजाद्यन्ताः जंगमास्थावराश्चये ।। ३ ।। तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः । दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ।। ४ ।। शिवाधिष्टित देहस्तु मरणं याति यो नरः । सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ।। ५ ।। तस्मादुत्क्रान्तिकालेतु स्वेष्टलिंगन्तु संस्पृशन् । प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ।। ५ ।। सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् । आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ।। ६ ।। कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः । द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ।। ८ ।। तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः । भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ।। ९ ।। संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः । कालः प्राग्वत् समुद्दिष्ट स्तथैवांकुरकर्म च ।। १० ।। रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् । ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ।। ११ ।। प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् । कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ।। १२ ।। चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा । तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ।। १३ ।। स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् । शयनारोहणं कुंभस्थापनं पूर्ववन्नयेत् ।। १४ ।। तत्पादेभक्तकुंभन्तु तत्तद्ध्यान समन्वितम् । आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ।। १५ ।। तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् । अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ।। १६ ।। समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः । पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।। १७ ।। शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः । प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ।। १८ ।। ततो द्वितीयदिवसे कृतकुंभाग्नि पूजितः । पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ।। १९ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिंबपुरोघटान् ।। २० ।। कुंभान्मन्त्रं समादाय देवस्य हृदये न्यसेत् । देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ।। २१ ।। विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् । ततः कुंभाजलेनाथऽथ तौ च संस्नापयेत् सदा ।। २२ ।। भक्तकुंभस्य बीजन्तु तत भक्त हृदयेन्यसेत् । आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ।। २३ ।। तत् कुंभस्थ जलेनापि स्नापयेत् पीठमादरात् । स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ।। २४ ।। उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् । विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ।। २५ ।। तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः । एवं यः मर्त्यः स पुण्यांगतिमाप्नुयात् ।। २६ ।। पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् । देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। २७ ।। यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः । मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ।। २८ ।। जीवन्नेवाथवा कुर्यात् आत्मानं शिवसंज्ञितम् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः षठपञ्चाशत्तमः पटलः ।। सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् । आसीनां स्थितां वापि शयितां शुभलक्षणाम् ।। कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः । द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ।। ५७. सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।। १ ।। कुञ्चितासव्यपादस्तु व्याघ्र चर्मांबरान्वितः । ततोद्धृत सदक्षांघ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ।। २ ।। दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः । दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ।। ३ ।। कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः । शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ।। ४ ।। सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् । तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलांगुलम् ।। ५ ।। कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् । कर्णाग्रंतद्वितालं स्यात् दोस्समं परहस्तकम् ।। ६ ।। कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् । मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ।। ७ ।। नाभेस्सव्ये च वामांघ्रेरग्रे सूत्रं पुरो भवेत् । तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ।। ८ ।। स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् । अधोद्धृतांघ्रि जानूच्चं कट्यग्र सममेव हि ।। ९ ।। जंघमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् । दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ।। १० ।। परहस्तौ च कटकौ शूलहस्तस्थैव च । तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ।। ११ ।। सूत्रादन्वित जान्वन्तो गुणवह्ण्यंगुलो भवेत् । उद्धृतस्य तलस्याग्र जंघायास्मृति मात्रकम् ।। १२ ।। कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् । उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ।। १३ ।। शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् । दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ।। १४ ।। देवस्थन्नाभिमानेन नवतालेन कारयेत् । कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ।। १५ ।। अथवाथहराल्लिंगात् निर्गतात् पतितन्नयेत् । कालान्तलिंगमानाद्यं लिंगोद्भूतोक्तवन्नयेत् ।। १६ ।। त्रिभंगेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः । बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ।। १७ ।। कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु । मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ।। १८ ।। अपस्मारशरीरस्थ चरणेन युतो न वा । कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ।। १९ ।। अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् । कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ।। २० ।। भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् । मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ।। २१ ।। शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् । मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ।। २२ ।। देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः । लंभिनी तापिनी चैव वेदिनी द्राविणी तथा ।। २३ ।। मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे । मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ।। २४ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । वाराद्यं अंकुरं यागमण्टपं पूर्ववन्नयेत् ।। २५ ।। कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक संख्यया । दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ।। २६ ।। रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् । ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ।। २७ ।। देवे च काले कामे च कारयेत्तु पृथक् पृथक् । वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ।। २८ ।। देवस्य पाददेशेतु शययास्यात् काल कामयोः । कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ।। २९ ।। ईशकुंभं शिरोदेशे वर्धनीं तस्य चोत्तरे । कालकुंभं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ।। ३० ।। कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् । मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ।। ३१ ।। कामस्य पार्श्वयोः कॢप्त शययाशयितयोरपि । देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ।। ३२ ।। विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् । विद्येश्वरात्मकान्यस्य यजेत् गंधादिभिस्ततः ।। ३३ ।। तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् । तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ।। ३४ ।। कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् । आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ।। ३५ ।। शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि । मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ।। ३६ ।। प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः । कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ।। ३७ ।। अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् । पलाशो ढुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। ३८ ।। शमीखादिरमायूर श्रीवृक्षावह्निकोणतः । पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ।। ३९ ।। कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः । नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ।। ४० ।। देशिकस्सुविशुद्धात्मा संपूज्योद्धृत बिंबकः । कुंभान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ।। ४१ ।। वस्त्रहेमांगुलीयाद्यैः पूजितो मूर्तिपादिभिः । संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ।। ४२ ।। कुंभान् बिंबपुरो न्यस्य शिवकुंभमनुस्मरन् । शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ।। ४३ ।। वैद्येशकुंभबीजानि तत् पीठे परितो न्यसेत् । अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ।। ४४ ।। स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। ४५ ।। एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् । देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः सप्तपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः । कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ।। ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः । दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ।। दक्षहस्तस्थ परशुः नागपाश्ऽथवाम्गः । कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ।। शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा । शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ।। उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् । कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ।। देवस्यनाभिमानेन नवतालेनकारयेत् । कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ।। अथवाथ हराल्लिंगात् निर्गतान् पतितं नयेत् । कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ।। बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ।। कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु । मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ।। ५८. अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् । जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ।। १ ।। त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः । समभंगयुतो देव स्थानकस्थ प्रकीर्तितः ।। २ ।। सकुञ्चात् सव्यसत्पाद स्थितसव्येतरांघ्रिकः । इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ।। ३ ।। जल संग्रहणे योग्य वरवाम करान्विताः । स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ।। ४ ।। आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे । नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ।। ५ ।। एकैकमंगुलन्नीत्वा नाभिसूत्र समं भवेत् । वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ।। ६ ।। अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् । पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुंगवाः ।। ७ ।। मेद्रमूलसमन्दक्ष कटकस्यास्य लंबनम् । नाभेस्तं मणिबन्धान्तं स्मृत्यंगुलमितीरितम् ।। ८ ।। तद्बाहुमध्यात् पार्श्वान्तं शरांगुलमितिस्मतम् । पादांगुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ।। ९ ।। सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् । अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ।। १० ।। पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह । देवीदृगास्य चिबुक कक्ष चूचुकमानता ।। ११ ।। तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः । युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ।। १२ ।। श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् । पादांगुष्ठद्वयोर्मध्यं भवेदष्टदशांगुलम् ।। १३ ।। रसांगुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता । देवोच्चदशभागैक भागादेकादशावधि ।। १४ ।। भागमानयुतः श्यामः किरीटमकुटान्वितः । गृहीत शंख चक्रश्च हस्ताभ्यां धृतयापि च ।। १५ ।। तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः । नासाग्रात् स्थितपाद्यस्य चांगुष्ठान्तं विलंबयेत् ।। १६ ।। तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् । कुण्डिकोत्सेधविस्तारो तालसूत्रांगुलौ मतौ ।। १७ ।। तद्गलोत्सेधविस्तारो कलयाकोलकेन च । आस्यंपञ्चांगुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ।। १८ ।। तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् । एकांगुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ।। १९ ।। पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता । तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ।। २० ।। कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् । नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ।। २१ ।। तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् । वरदः कटकौ स्यातां वामेतर करावुभौ ।। २२ ।। हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् । चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ।। २३ ।। होमोन्मुख्ं प्रसन्नन्तं किंकुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ।। २४ ।। वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ । वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ।। २५ ।। स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ । सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ।। २६ ।। विलंबितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् । तत्पादांगुष्ठ मूलान्तान्नाभेर्वसुदशांगुलम् ।। २७ ।। अभय~चूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् । तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ।। २८ ।। ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् । ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ।। २९ ।। देवस्यांगुलमानेन द्विविंशत्यंगुलो भवेत् । अग्निकुण्डस्यविष्कंभस्त्रिमेखल युतस्य च ।। ३० ।। मेखलैकांगुलाप्रोक्ता प्रत्येकं मुनिपुंगवाः । द्वादशांगुलविस्तार दैर्घ्या सा सप्तजिह्वकः ।। ३१ ।। पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् । शिवादिहस्तसूत्राणां प्रमाणंद्व्यन्तरन्तु यत् ।। ३२ ।। उद्धृतिर्हस्त पादानामन्यांगाना मिहोच्यते । एषामेवनतिश्चापि संकोचो निर्गमोऽपि वा ।। ३३ ।। शरचापादि शास्त्राणां संग्रहे संस्थितिस्त्वियम् । अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ।। ३४ ।। दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः । भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ।। ३५ ।। दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः । देवीनामेवमेवस्यान्नरादीनां विशेषतः ।। ३६ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । संभाव्य पूर्ववत् कालं प्राग्वत् कृत्वांकुरार्पणम् ।। ३७ ।। देवस्यसव्ये ब्रह्माणं उत्तरे विष्णुमेव च । गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ।। ३८ ।। नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि । शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ।। ३९ ।। दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना । बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ।। ४० ।। तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः । ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरंबिकां श्रियम् ।। ४१ ।। यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् । पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ।। ४२ ।। अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः । योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ।। ४३ ।। स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः । देवस्यमण्डपे चापि कुण्डानि नव संख्यया ।। ४४ ।। पञ्चैक संख्ययावपि चतुरश्रनिभानि वा । दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ।। ४५ ।। उद्वास्यशिल्पिनं पश्चात् विप्रान् संभोजयेत्ततः । पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ।। ४६ ।। स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् । शयने शाययेद्देवन्तस्य वामे च दक्षिणे ।। ४७ ।। कृष्णञ्चैवाथभिन्न शययायां शाययेत् गुरुः । देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ।। ४८ ।। उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् । रक्तेन वासमा देवं देविं पीतेन केशवम् ।। ४९ ।। कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् । आचार्या स्संग्रहीतव्याः प्रतिमण्टपमुत्तमाः ।। ५० ।। गुरवः प्रतिदेवं वा संग्राह्यामुनिपुंगवाः । देवोत्तमांग देशेतु शिवकुंभञ्च वर्धनीम् ।। ५१ ।। ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् । परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ।। ५२ ।। देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् । वामाद्याधिष्ठितानष्ट कुंभाश्च परितो न्यसेत् ।। ५३ ।। तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् । यजेत् गंधादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ।। ५४ ।। तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः । अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ।। ५५ ।। ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् । समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ।। ५६ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च । शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ।। ५७ ।। प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः । प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।। ५८ ।। स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये । प्रभाते कृतनित्यन्तु कर्ता संपूजयेत् गुरुम् ।। ५९ ।। वस्त्रहेमांगुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् । तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ।। ६० ।। प्रतिमाग्रे घटन्न्यस्त्वा कुंभान् बीजन्तु विन्यसेत् । वर्धन्याबीजमादाय देवीहृदय मध्यमे ।। ६१ ।। सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे । भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ।। ६२ ।। अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् । संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ।। ६३ ।। दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् । कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ।। ६४ ।। सदाशिवादि देवानां देवीयस्य यथा मता । तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ।। ६५ ।। प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा । तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ।। ६६ ।। यथा वा लभते शोभा बलन्तेषां यथा भवेत् । तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ।। ६७ ।। सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु । दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ।। ६८ ।। प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा । एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ।। ६९ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः अष्टापञ्चाशत्तमः पटलः ।। जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः । त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।। समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः । कुञ्चितः सव्यपादस्तु स्थितसव्येतरांध्रिकः ।। इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः । जलसंग्रहणे योग्य वरवामकरान्वितः ।। स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह देवी दृगास्य चिबुक कक्षनूचुक मानका तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम् देवोच्च दशभागैक भागादेक दशावधि भागमानयुतः श्यामः किरीट मकुटान्वितः गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत् चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम् मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम् वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ स्रुवपात क्रियोपेतौन्योतु कटकामुखौ भूषणानां च सर्वेषां वामदक्षिण भेदतः दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ५९. एकोनषष्टितमे पटले कल्याण कर्म विधिः वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने । पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ।। १ ।। तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके । प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ।। २ ।। स्तण्डिलं तत्र संक्ल्प्य सितवस्त्रोत्तरच्छदम् । स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ।। ३ ।। गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः । अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ।। ४ ।। प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः । देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ।। ५ ।। तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् । विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ।। ६ ।। पाद्याचमनं सदशं चाम्बरद्वयम् । आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ।। ७ ।। स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् । सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ।। ८ ।। पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् । गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ।। ९ ।। पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः । देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ।। १० ।। आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् । अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ।। ११ ।। कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः । शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ।। १२ ।। सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः । अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ।। १३ ।। वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् । ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ।। १४ ।। शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि । पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ।। १५ ।। समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् । गुडदुग्धाज्य संमिश्रं मधुपर्कं हृदा प्रभोः ।। १६ ।। दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा । हुत्वा षोडश संख्यातं ततस्त्वाज्येन षोडश ।। १७ ।। नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा । ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ।।१८ ।। त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् । शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ।। १९ ।। तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः । ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ।। २० ।। पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् । संगृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ।। २१ ।। उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया । प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ।। २२ ।। शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् । तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ।। २३ ।। अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् । देशिकस्य तथान्यस्य सङ्गुलीय करेण च ।। २४ ।। प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा । अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ।। २५ ।। द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् । कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ।। २६ ।। शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु । विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ।। २७ ।। शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् । संपूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ।। २८ ।। ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् । तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ।। २९ ।। समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते । शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ।। ३० ।। अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना । शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ।। ३१ ।। वर्मणा तच्च संपूय नवखट्गोपरि स्थितम् । दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ।। ३२ ।। स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् । चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ।। ३३ ।। देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् । वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ।। ३४ ।। एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् । भिन्नपीठाम्बिकानां तु मूललिंगस्य च द्विजाः ।। ३५ ।। किंतु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् । गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ।। ३६ ।। मूललिंगस्य चोद्बाह्ये गर्भागारात्तु मण्डपे । विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ।। ३७ ।। प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः । स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ।। ३८ ।। आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः । इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ।। ३९ ।। गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् । यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ।। ४० ।। इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः पटलः ।। ६०. षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ।। १ ।। उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ।। २ ।। करमकुटं वाममलकेन समन्वितम् । ललाट दक्षिणे भागे नयनार्धेन संयुतम् ।। ३ ।। पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्र कुण्डलं तं विनावाथ कारयेत् ।। ४ ।। सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे । देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ।। ५ ।। दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः । तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ।। ६ ।। उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनांबरं सव्यपादं कुञ्चितमिष्यते ।। ७ ।। सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् । आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ।। ८ ।। वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् । नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ।। ९ ।। चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् । सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ।। १० ।। द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा । पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ।। ११ ।। अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् । चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ।। १२ ।। अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः । प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ।। १३ ।। भुजद्वययुतं शङ्ख कटकस्तत्र संमतः । पीतांबर समोपेतं सर्वाभरण संयुतम् ।। १४ ।। चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् । हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ।। १५ ।। बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः । तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ।। १६ ।। कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ।। १७ ।। प्रदक्षिणं पुरादीना मुदके चाधिवासनम् । सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ।। १८ ।। किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः । मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ।। १९ ।। प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् । शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ।। २० ।। पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् । शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ।। २१ ।। बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः । शयनारोहणं कृत्वा शाययेद्देवमादरात् ।। २२ ।। शिरः प्रदेशे देवस्य शिवकुंभं तु विन्यसेत् । उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ।। २३ ।। विष्णुश्चेत्तच्छिरोदेशे विष्णु कुंभं तु विन्यसेत् । तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ।। २४ ।। परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् । गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ।। २५ ।। तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् । क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ।। २६ ।। मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते । शर्वं च पशुपत्युग्ररुद्रांश्चेतांबलोत्कटान् ।। २७ ।। धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् । विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ।। २८ ।। पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् । पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ।। २९ ।। ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् । न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ।। ३० ।। जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ । न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ।। ३१ ।। शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् । ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ।। ३२ ।। तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् । एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ।। ३३ ।। संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् । अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ।। ३४ ।। समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि । होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ।। ३५ ।। पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ।। ३६ ।। प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते । विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ।। ३७ ।। ततो द्वितीये दिवसे देवान् कुंभाश्च पावकान् । यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ।। ३८ ।। मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः । शुभे महूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ।। ३९ ।। कुंभान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् । विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ।। ४० ।। कृष्णस्य कुंभात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् । अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।। ४१ ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं तद्देव स्थापनोदितम् ।। ४२ ।। विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ।। ४२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः षष्ठितमः पटलः ।। उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः करण्ट मकुटं वामं मलकेन समन्वितम् ललाट दक्षिणे भागे नयनार्धेन संयुतम् पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम् सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् संव्ये टंकाभयौ हस्ते उत्पलं वामगे करे उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम् व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि । भुजद्वयुतं शङ्खं कटकस्तत्र संमतः ।। पीताम्बर समोपेतं सर्वाभरण संयुतम् । चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ।। ६१. एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ।। १ ।। कृष्णा परशु संयुक्तो जटामकुटमण्डितः । ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।। २ ।। दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ।। ३ ।। स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् । कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ।। ४ ।। अथवा शिवलिंगस्य पार्श्वयोः नतगतौ तु तौ । अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ।। ५ ।। अथवा मध्यमे लिंगं पृथगालय संस्थितम् । तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ।। ६ ।। पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः । संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ।। ७ ।। पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः । भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ।। ८ ।। नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे । एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।। ९ ।। शिवलिंग प्रतिष्ठा च ब्रह्मणः केशवस्य च । तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ।। १० ।। इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते । पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ।। ११ ।। रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् । प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ।। १२ ।। कुण्डानि कारयेत्तत्र नवपञ्चैक संख्यया । दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ।। १३ ।। तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् । स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ।। १४ ।। ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् । शयनारोहं कुंभ स्थापनं पूर्वन्नयेत् ।। १५ ।। देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् । न्यस्त्वा तु शिवकुंभस्य उत्तरे वर्धनीं न्यसेत् ।। १६ ।। तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् । तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ।। १७ ।। अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् । तिलसर्षप मुद्गांश्च माषशिंबाद वैणवैः ।। १८ ।। पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः । शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ।। १९ ।। प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः । ततो द्वितीय दिवसे देव कुंभाग्नि तर्पणम् ।। २० ।। पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः । संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।। २१ ।। मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिंब पुरो घटान् । कुंभान्मनुं समादाय देवस्य हृदि विन्यसेत् ।। २२ ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ।। २३ ।। आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् । तत्तत् कुंभजलैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २४ ।। स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च । अनुक्त मत्र संग्राह्यं तत्त दध्याय चोदितम् ।। २५ ।। प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु । इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ।। २६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम एकष्टितमः पटलः ।। रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः । कृष्णापरशु संयुक्तः जटामकुटमण्डितः ।। ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ।। सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् । कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ।। ६२. द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।। १ ।। परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् । पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।। २ ।। अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके । स हस्तो हंस पक्षो वा पताकाधोमुखस्तु वा ।। ३ ।। तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् । तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ।। ४ ।। तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् । प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ।। ५ ।। हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् । एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ।। ६ ।। पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् । समभङ्गयुतो देवः स्थानकेनापि संयुतः ।। ७ ।। ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके । गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ।। ८ ।। सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् । सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ।। ९ ।। सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् । शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ।। १० ।। द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ।। ११ ।। अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ।। १२ ।। संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ।। १३ ।। मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् । एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ।। १५ ।। कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् । वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ।। १५ ।। जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् । कुण्डानि नवपञ्चैक संख्यया तत्र कारयेत् ।। १६ ।। चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा । पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ।। १७ ।। पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् । स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ।। १८ ।। आरोप्य शयने पश्चात् कुंभान् संस्थापयेत्तमः । शिवस्य च शिरोदेशे शिवकुंभं च वर्धनीम् ।। १९ ।। यदि भिन्नो वृषो देवपादमूले तु शाययेत् । दक्ष मस्तक संयुक्तां शययां संकल्प्य व पृथक् ।। २० ।। वृषमस्तकदेशे तु वृषकुंभं तु विन्यसेत् । परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ।। २१ ।। गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः । तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ।। २२ ।। अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् । समिदाज्यान्नलाजादि तिलसर्षप माषकैः ।। २३ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ।। २४ ।। प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् । ततो द्वितीये संतर्प्य देवान् कुंभांश्च पावकान् ।। २५ ।। समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः । संप्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ।। २६ ।। घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् । कुंभाद्बीजं समादाय देवस्य हृदि विन्यसेत् ।। २७ ।। वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २८ ।। वृष कुंभान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् । अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।। २९ ।। विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् । कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ।। ३० ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ।। ३१ ।। इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः । घनो वाप्य घनो वापि वृषभस्य च संमतः ।। ३२ ।। प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह । लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ।। ३३ ।। इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः द्विषष्ठितमः पटलः ।। वृषभारुधः चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः । परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ।। पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् । अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् समभङ्गयुतो देवण् स्थानकेनापि संयुतः तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत् पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ।। ६३. त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।। १ ।। दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः । तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ।। २ ।। संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः । जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ।। ३ ।। तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् । स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ।। ४ ।। सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः । हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ।। ५ ।। पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् । वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ।। ६ ।। इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः । देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ।। ७ ।। कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् । गलान्तं वाष्टतालेन विलंबितं जटान्वितम् ।। ८ ।। वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् । द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ।। ९ ।। कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् । रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ।। १० ।। तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः । प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ।। ११ ।। तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः । चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ।। १२ ।। मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् । पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ।। १३ ।। स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकं । भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ।। १४ ।। शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः । देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ।। १५ ।। देवेशस्य शिरः पार्श्वे शिवकुंभं च वर्धनीम् । भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ।। १६ ।। हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् । परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ।। १७ ।। पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः । गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ।। १८ ।। तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः । भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ।। १९ ।। पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना । मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ।। २० ।। बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् । चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ।। २१ ।। भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः । गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ।। २२ ।। कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः । तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ।। २३ ।। दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् । तत्तद्देव पुरस्तत्तत् कुंभान् न्यस्त्वा गुरूत्तमः ।। २४ ।। शिव कुंभमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् । वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।। २५ ।। अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् । गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ।। २६ ।। भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् । तत्तत् कुंभ जलेनैव स्नापयेत्तत् प्रदेशके ।। २७ ।। सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् । विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ।। २८ ।। कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः । कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ।। २९ ।। अनुक्तमत्र संग्राह्यं सामान्य स्थापनोक्तवत् । भगीरथ युतो वायं वियुक्तो वा महेश्वरः ।। ३० ।। जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः । इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ।। ३१ ।। यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ।। ३११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम त्रिषष्टितमः पटलः ।। ६४. चतुष्षष्ठितमे पटले गुह स्थापन विधिः गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ।। १ ।। नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् । अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ।। २ ।। अन्येदेवालयेऽप्येवमथवा पर्वतोपरि । पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ।। ३ ।। राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा । प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ।। ४ ।। कुमारालय इष्टस्यात् धाम लक्षण लक्षितः । अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ।। ५ ।। त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः । दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ।। ६ ।। रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् । गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ।। ७ ।। एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः । शिवोक्त मार्ग संकॢप्त गर्भाद्येष्ट कयान्वितः ।। ८ ।। तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः । दिङ्न्यस्त देव विन्यस्त मध्यकुंभ युतेन च ।। ९ ।। धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह । प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।। १० ।। पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा । परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।। ११ ।। यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् । गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ।। १२ ।। क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः । वरदाभय संयुक्ताः खड्ग खेट समन्विताः ।। १३ ।। खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः । भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ।। १४ ।। शकुनी पूतना चैव रेवती चार्धपूतना । वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ।। १५ ।। षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः । स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ।। १६ ।। एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः । वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ।। १७ ।। चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः । एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ।। १८ ।। इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् । विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।। १९ ।। बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् । बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ।। २० ।। द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् । दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ।। २१ ।। खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ । श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयंकरौ ।। २२ ।। जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ । ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ।। २३ ।। अभयं वज्रपद्मे च वरदं द्विभुजं तु वा । शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ।। २४ ।। लक्षणं तस्य संक्षेपाच्छ्रुणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ।। २५ ।। प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु । योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ।। २६ ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः । पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ।। २७ ।। बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ।। २८ ।। कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः । स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।। २९ ।। चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् । नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ।। ३० ।। वरदाभय संयुक्तः शक्तिद्वययुतो न वा । शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ।। ३१ ।। द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये । श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ।। ३२ ।। गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने । गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ।। ३३ ।। इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ।। ३४ ।। षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः । स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।। ३५ ।। सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके । रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ।। ३६ ।। करण्ड मकुटोपेतो नेत्रत्रय समन्वितः । शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ।। ३७ ।। दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा । समयूरध्वजं चैवमङ्कुशं वरदं वहन् ।। ३८ ।। सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः । ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ।। ३९ ।। एवं पञ्चविधस्कन्दो विभागस्थानभेदतः । द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ।। ४० ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः । शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ।। ४१ ।। चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् । सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।। ४२ ।। मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना । शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ।। ४३ ।। ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् । महासेनाय संयुक्तं विद्महे पद संयुतम् ।। ४४ ।। षडाननाय संयुक्तं धीमहीति पदं ततः । तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ।। ४५ ।। गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् । हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ।। ४६ ।। गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः । ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ।। ४७ ।। शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् । देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ।। ४८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ।। ४९ ।। हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् । कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ।। ५० ।। यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् । प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ।। ५१ ।। जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा । परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ।। ५२ ।। प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् । पद्माभनवपञ्चैक संख्या कुण्ड प्रकल्पनम् ।। ५३ ।। पूर्वोत्तरेशसंकॢप्त स्नान वेदिकयान्वितम् । तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ।। ५४ ।। पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे । स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ।। ५५ ।। जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् । गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ।। ५६ ।। आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा । वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्तिः संयुतम् ।। ५७ ।। सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् । शिरः प्रदेशे सूत्राढ्यं कुंभं वस्त्रादिभिर्युतम् ।। ५८ ।। न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् । देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ।। ५९ ।। परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् । सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ।। ६० ।। आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि । न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्यसेत् ।। ६१ ।। मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः । प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ।। ६२ ।। गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः । सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ।। ६३ ।। मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ।। ६४ ।। तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् । गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ।। ६५ ।। सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः । ब्रह्मांगानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ।। ६६ ।। मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् । तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ।। ६७ ।। समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः । पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ।। ६८ ।। शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः । पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ।। ६९ ।। वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् । शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ।। ७० ।। दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् । ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ।। ७१ ।। उद्धृत्य षण्मुखं तं च कुंभाग्नींश्च सु तर्पयेत् । प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ।। ७२ ।। दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः । मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ।। ७३ ।। कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् । विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ।। ७४ ।। सुलग्ने सुमूहूर्ते तु तथा द्वारस्य संमुखम् । अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ।। ७५ ।। देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् । कुंभाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ।। ७६ ।। यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् । पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ।। ७७ ।। तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् । तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ।। ७८ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले । गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ।। ७९ ।। इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् । सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ।। ८० ।। एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः । आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८१ ।। सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् । शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८२ ।। तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः । अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ।। ८३ ।। सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् । गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ।। ८४ ।। आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः । सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ।। ८५ ।। द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा । स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ।। ८६ ।। वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः । शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ।। ८७ ।। शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः । अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ।। ८८ ।। न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः । तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ।। ८९ ।। कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः । भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ।। ९० ।। देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा । सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ।। ९१ ।। आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् । इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ।। ९२ ।। शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् । अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ।। ९३ ।। विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा । अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ।। ९४ ।। अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् । हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ।। ९५ ।। इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् । दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ।। ९६ ।। त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना । लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।। ९७ ।। चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः । इत्थमात्मधाराद्रव्य मन्त्रबिंब विशोधनम् ।। ९८ ।। कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः । प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ।। ९९ ।। अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् । संक्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ।। १०० ।। ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् । विद्यादेहं च संक्ल्प्य तस्मिन्मूलेन षण्मुखम् ।। १०१ ।। हृदयानुगतेनैव पुष्पसंपूर्णसत्करः । आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ।। १०२ ।। निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ।। १०३ ।। महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् । पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ।। १०४ ।। नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु । गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ।। १०५ ।। विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् । वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ।। १०६ ।। चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् । पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ।। १०७ ।। कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः । लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ।। १०८ ।। सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु । तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १०९ ।। हृदा तैलाद्य संकॢप्तिं दद्यात् प्राग्वद् धृदाणुना । आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ।। ११० ।। गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चात् धूपदाना वसानके ।। १११ ।। वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् । तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ।। ११२ ।। ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् । द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ।। ११३ ।। गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् । नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ।। ११४ ।। आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् । मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ।। ११५ ।। जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् । दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ।। ११६ ।। तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह । एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ।। ११७ ।। ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् । तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ।। ११८ ।। अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् । ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ।। ११९ ।। शकुनी रेवती चैव पूतना मण्डपूतना । वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ।। १२० ।। शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः । षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ।। १२१ ।। सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः । सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ।। १२२ ।। कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके । वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ।। १२३ ।। द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् । तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ।। १२४ ।। शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ।। १२४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः पटलः ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ।। वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।। द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु । चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् । नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः वरदाभय संयुक्तः शक्तिद्वययुतो न वा षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः । पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ।। सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः । सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ।। रक्तांबर समायुक्तः बालचन्द्र समप्रभैः । करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।। शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् । दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।। समयूर ध्वजं चैवं अङ्कुशं वरदं वहन् । सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।। ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये । ६५. पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ।। १ ।। पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ।। २ ।। अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके । अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ।। ३ ।। धामलक्षण संसिद्धायामेनापि समन्वितः । एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ।। ४ ।। धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ।। ५ ।। प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः । मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ।। ६ ।। दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः । स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ।। ७ ।। दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च । धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ।। ८ ।। प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकार मण्डपोपेतः परितः परिवारः युक् ।। ९ ।। रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च । महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ।। १० ।। रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः । एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ।। ११ ।। सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ।। १२ ।। इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः । बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ।। १३ ।। द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ।। १४ ।। बलिपीठे बलिर्देयो यथादेशं बलिर्हितः । देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ।। १५ ।। द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ।। १६ ।। प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।। १७ ।। व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः । करालकज्जलाभासो जटिलश्चन्द्रशेखरः ।। १८ ।। चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। १९ ।। अथवा शंख वर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ।। २० ।। पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः । वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ।। २१ ।। अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। २२ ।। स्थानको वासनस्थो वा शयिता सव्यवात्तलः । सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ।। २३ ।। वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः । वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ।। २४ ।। शंकरेक्षण संपन्नश्शोकनम्र शिरास्तु वा । उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ।। २५ ।। एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः । अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ।। २६ ।। चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ।। २७ ।। कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ।। २८ ।। अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ।। २९ ।। सा देवी श्यामला हस्त द्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ।। ३० ।। एवमापाद्य बेरं मनुभिंस्थापनं नयेत् । चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ।। ३१ ।। चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च । चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ।। ३२ ।। ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च । मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ।। ३३ ।। ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः । ओं चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ।। ३४ ।। तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः । अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ।। ३५ ।। ज्ञानशक्ति पदैर्मन्त्रैः र्हुंट्कार समन्वितैः । चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ।। ३६ ।। विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ।। ३७ ।। कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् । सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ।। ३८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ।। ३९ ।। सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः । बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ।। ४० ।। तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् । यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ।। ४१ ।। याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् । नवपञ्चैक संख्यानि वृत्तान्यश्राणि वा द्विजाः ।। ४२ ।। मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह । उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ।। ४३ ।। पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् । जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ।। ४४ ।। कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् । कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ।। ४५ ।। पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु । वासोभ्यां वेष्टयित्वा तु कुंभन्यासं समाचरेत् ।। ४६ ।। चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् । सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ।। ४७ ।। तथा विधघटानष्टौ विन्यसेत् परितो बहिः । चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ।। ४८ ।। सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् । कुंभमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ।। ४९ ।। हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः । घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ।। ५० ।। लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा । गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ।। ५१ ।। आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् । क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ।। ५२ ।। प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा । सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ।। ५३ ।। मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् । संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ।। ५४ ।। कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् । प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ।। ५५ ।। लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः । प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ।। ५६ ।। शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः । तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ।। ५७ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ।। ५८ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य चण्ड बिंबं तु कुंभानग्नींश्च तर्पयेत् ।। ५९ ।। पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः । वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ।। ६० ।। अधमा निष्का तु द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ।। ६१ ।। प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः । सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ।। ६२ ।। देवाग्रस्थण्डिलस्तेभ्यः कुंभेभ्यो देशिकोत्तमः । तत्तत् कुंभगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ।। ६३ ।। स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि । कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ।। ६४ ।। चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा । चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ।। ६५ ।। आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च । विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ।। ६६ ।। लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः । चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ।। ६७ ।। चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते । स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ।। ६८ ।। चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना । द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ।। ६९ ।। आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च । सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ।। ७० ।। अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च । पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ।। ७१ ।। अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् । स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मंत्रशुद्धये ।। ७२ ।। पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे । इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ।। ७३ ।। तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् । दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ।। ७४ ।। संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च । चण्डासनं च मूर्तिं च संक्ल्प्येशाद्यणून् क्रमात् ।। ७५ ।। हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् । बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ।। ७६ ।। न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् । पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ।। ७७ ।। अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि । इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ।। ७८ ।। धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः । हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ।। ७९ ।। परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः । नैवेद्यः तद्विधानोक्तं दत्वा तांबूल संयुतम् ।। ८० ।। पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् । जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ।। ८१ ।। पलाशसमिदाज्यान्नैर्होमं च विभवे सति । मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ।। ८२ ।। नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् । पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ।। ८३ ।। प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा । पादुकाराधनोपेतं प्रविशेदालयं प्रति ।। ८४ ।। एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु । कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ।। ८५ ।। पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने । आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ।। ८६ ।। चण्डेशायेति संक्ल्प्य यच्छिवाय निवेदितम् । नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ।। ८७ ।। गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः । संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ।। ८८ ।। आत्मार्थे च परर्थे च सामान्यमिदमीरितम् । नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ।। ८९ ।। आयु.ः प्रज्ञां सौभाग्यमतुलां श्रियम् । अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ।। ९० ।। विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये । स्नपनं पूर्ववत् किंतु मध्ये चण्डेश्वरं घटे ।। ९१ ।। देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् । अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ।। ९२ ।। रुद्रभक्तादयोऽष्टौस्युर्नवकुंभाभिषेचने । इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ।। ९३ ।। पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् । शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ।। ९४ ।। उत्सवं दमनारोहं पवित्रारोहं नयेत् । दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ।। ९५ ।। नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् । किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ।। ९६ ।। शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह । धजहोम बलिं हित्वा केवलं यानमेव वा ।। ९७ ।। प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् । प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ।। ९८ ।। तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ।। १८१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः पञ्चषष्ठितमः पटलः ।। अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः शंकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ।। पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः । वराभय प्रदानभ्यां अन्यत्र परिमण्डितः ।। अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः । संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः । सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः) वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ।। संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। जटामकुट युक्तो वा धवलीकृत मूर्धजः । स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ।। संकरेक्षण संपन्नः शोकनम्र शिरो तु वा । अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ।। चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः । व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ।। करालकज्जका भासो जटिलश्चन्द्रशेखरः । चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ।। टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। ६६. षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ।। १ ।। स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा । शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ।। २ ।। तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् । शैवाः पाशुपताश्चैव महाव्रत धराश्रये ।। ३ ।। लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः । तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ।। ४ ।। शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् । स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ।। ५ ।। ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ।। ६ ।। स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ।। ७ ।। परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ।। ८ ।। परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते । त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ।। ९ ।। एक विंशति हस्तान्तो विमान व्यास इष्यते । आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ।। १० ।। सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् । आद्येष्टका विधानं च गर्भ संस्थापनं तथा ।। ११ ।। मूर्धेष्टका विधानं च प्राग्देव समीरितम् । तदर्थं शिवलिंगं वा प्रतिमा वा शिवस्य तु ।। १२ ।। स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ।। १३ ।। शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा । अर्ध चित्रमथा भासं पटादि परिकल्पितम् ।। १४ ।। लिंगं चेत् प्रतिमा चेद्वा लिंग बेरोक्त वर्त्मना । मानं तयोश्च संग्राह्या हर्म्याद् गर्भगृहादथ ।। १५ ।। द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु । षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ।। १६ ।। हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् । त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ।। १७ ।। मानमेतत्समाख्यातं जात्यायांश समन्वितम् । वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ।। १८ ।। आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् । नववेदहृदं सप्त नवसंख्याहृतं तु यत् ।। १९ ।। वारोह्यंशस्समाख्यातो यजमानानुकूलितम् । मृतनामाक्षरेणानुकूलितं च विधीयताम् ।। २० ।। लिंगं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ।। २१ ।। मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् । आसीनं स्नानकं वापि वाहनारूढमेव वा ।। २२ ।। आसने स्थानके वाथ पद्मसिंहासनं तु वा । अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ।। २३ ।। यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् । आसनोन्मान विस्तारायामं तद्वदलंकृतिम् ।। २४ ।। प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ।। २५ ।। अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ।। २६ ।। सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः । गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ।। २७ ।। स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।। २८ ।। मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः । ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ।। २९ ।। रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् । स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ।। ३० ।। संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् । हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ।। ३१ ।। ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् । नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ।। ३२ ।। तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया । मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ।। ३३ ।। सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् । धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ।। ३४ ।। दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् । सर्वालंकार संयुक्तं ग्रामादौ भ्रमणं नयेत् ।। ३५ ।। जलाधिवासयेद्बिबं लोकपाल घटान्वितम् । यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ।। ३६ ।। नव पञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् । उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ।। ३७ ।। वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः । प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ।। ३८ ।। जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् । शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ।। ३९ ।। आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् । संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ।। ४० ।। स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते । पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ।। ४१ ।। वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् । बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ।। ४२ ।। उपधानं न्यसेत्प्राच्यां तत्र बिंबं शिरो भवेत् । शिरसश्चोत्तरे भागे कुंभं प्राधानिकं न्यसेत् ।। ४३ ।। अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् । चन्दनोदक संपूर्णान् फा पल्लव संयुतान् ।। ४४ ।। तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते । सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ।। ४५ ।। आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः । सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ।। ४६ ।। विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः । ह्रींकारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ।। ४७ ।। स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते । प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ।। ४८ ।। पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् । वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ।। ४९ ।। स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः । पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ।। ५० ।। परिवार घटे पूज्या अष्टौ वा वसवो मताः । स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ।। ५१ ।। पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च । संपूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ।। ५२ ।। आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् । आत्मानमन्तरात्मानं परमात्मानमेव च ।। ५३ ।। तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् । स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ।। ५४ ।। अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि । इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ।। ५५ ।। तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् । अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ।। ५६ ।। जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् । संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ।। ५७ ।। ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् । प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ।। ५८ ।। तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् । समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ।। ५९ ।। पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् । शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ।। ६० ।। प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् । हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ।। ६१ ।। मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् । कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ।। ६२ ।। स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् । ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ।। ६३ ।। रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह । स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ।। ६४ ।। पञ्च गोचर संजात स्सोष्णीषस्सोत्तरीयकः । पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ।। ६५ ।। तद्वत् संपूजितैर्मूर्ति धारकैरणुजापिभिः । अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ।। ६६ ।। द्वारद्वाराधिपानिष्ट्वा कृतकुंभार्चनो गुरुः । संपूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ।। ६७ ।। उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः । प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ।। ६८ ।। रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् । आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ।। ६९ ।। मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् । संस्नाप्य कुंभपानीयैः परितः स्थापितैरपि ।। ७० ।। वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः । उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ।। ७१ ।। उत्सवं कारयेदन्ते यथा विभव विस्तरम् । ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ।। ७२ ।। आदिशैवकुलोद्भूतः पञ्चगोचर संभवः । आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ।। ७३ ।। कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः । पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ।। ७४ ।। प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् । वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ।। ७५ ।। कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च । परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ।। ७६ ।। प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः । प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ।। ७७ ।। अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये । षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ।। ७८ ।। तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् । तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ।। ७९ ।। जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् । पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ।। ८० ।। संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा । संमृज्य वाससा वस्त्रं गन्धं स धूमकम् ।। ८१ ।। दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् । ताम्बूलं च त्रिसन्ध्यासु दद्यात्संध्याद्वयेऽपि वा ।। ८२ ।। अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा । दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ।। ८३ ।। अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु । स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ।। ८४ ।। मध्य कुंभे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ । स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ।। ८५ ।। एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् । एकावरण संयुक्तमधमं त्विति कीर्तितम् ।। ८६ ।। प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति । भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ।। ८७ ।। संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् । नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ८८ ।। अथवैकदिनं वापि बलिहोम समन्वितम् । ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ।। ८९ ।। धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु । स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ।। ९० ।। भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् । इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ।। ९१ ।। यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके । यागशालां विधानेन कृत्वा वेदि समन्विताम् ।। ९२ ।। पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा । सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ।। ९३ ।। बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः । अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ।। ९४ ।। तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः । स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ।। ९५ ।। प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् । प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ।। ९६ ।। गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् । द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ।। ९७ ।। सायं प्रातर्बलि र्दद्यात् क्षुद्र बिंबसमन्वितम् । बल्यन्ते चोत्सवं कुर्यात् सर्वालंकार संयुतम् ।। ९८ ।। परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् । अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ।। ९९ ।। प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् । शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ।। १०० ।। धजोत्थान विहीनं वा बलिहोमोझितं तु वा । केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ।। १०१ ।। शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः । आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ।। १०२ ।। अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ।। १०२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः पटलः ।। ६७. सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः । सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ।। १ ।। प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके । भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ।। २ ।। अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः । पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ।। ३ ।। व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् । प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ।। ४ ।। भूर्जत्वक्कुलसंभूतं शीतालीदलमेव वा । तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ।। ५ ।। शैलदारुकृतं वापि लेखये दक्षरैः शुभः । मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ।। ६ ।। लिखेत् तूलिकया वापि देशिकः शिष्य एव वा । शुभवारर्क्षयोगादावारभेदनुकूलभे ।। ७ ।। पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः । न समीपे पशूनां तु कुर्यादध्ययनं बुधः ।। ८ ।। नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः । लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ।। ९ ।। गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् । वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ।। १० ।। गोमयालिप्त भूभागे रङ्गलेख समन्विते । प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ।। ११ ।। ज्वलद्दीपसमोपेते शुद्धशैव समावृते । लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ।। १२ ।। नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः । शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ।। १३ ।। ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः । प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ।। १४ ।। अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च । व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ।। १५ ।। पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः । छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ।। १६ ।। इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् । यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ।। १७ ।। शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः । अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ।। १८ ।। शिवविद्यानुसारेण विद्यादानं तदुच्यते । संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ।। १९ ।। प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि । अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ।। २० ।। देशभाषाद्युपायैश्च तथा भूतागमैरपि । प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ।। २१ ।। यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः । तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ।। २२ ।। शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् । इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ।। २३ ।। योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् । स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ।। २४ ।। शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् । प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ।। २५ ।। यावदक्षरं संख्यास्युः शिवज्ञानस्य पुस्तके । तावद्युतसहस्राणि दाता शिवपुरे नरः ।। २६ ।। दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् । मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ।। २७ ।। स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् । अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ।। २८ ।। वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा । श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ।। २९ ।। अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् । शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ।। ३० ।। आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् । मूल्येन कारयेद्वाथ तदेव फलमश्नुते ।। ३१ ।। यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः । स राजा वर्धते स राजाधिप ऊर्जितः ।। ३२ ।। राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ।। ३३ ।। शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः । यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ।। ३४ ।। तथा पाशुपतादीनि गारूडादीन्येनकधा । निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ।। ३५ ।। निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः । बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ।। ३६ ।। तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् । शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ।। ३७ ।। अन्येषामपि सर्वेषा माभिचारादिकम् तु वा । विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ।। ३८ ।। तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् । एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ।। ३९ ।। त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् । विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ।। ४० ।। एक शालादि भेदेन शाला वा लक्षणान्विताः । विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ।। ४१ ।। द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः । तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ।। ४२ ।। चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् । अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ।। ४३ ।। संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः । मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ।। ४४ ।। आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् । शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।। ४५ ।। मध्यमे शिव कुंभं तु पार्श्वयोर्वर्धनीद्वयम् । द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ।। ४६ ।। संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् । समिदाज्यतिलोपेतं हविषा च समन्वितम् ।। ४७ ।। यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् । संप्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ।। ४८ ।। मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ।। ४८१/२ ।। इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः पटलः ।। ६८. अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।। १ ।। गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ।। २ ।। कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ।। ३ ।। जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ।। ४ ।। स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः । तालाष्टांश विवृद्ध्या तु चतुस्तालावसनकम् ।। ५ ।। कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः । तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ।। ६ ।। हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ।। ७ ।। ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते । रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ।। ८ ।। तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा । गव्याभिषेचितं शस्त्र मलंकृत्य नयेत्ततः ।। ९ ।। ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे । प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ।। १० ।। एक वेदि समोपेतं पृथग्वेदियुतं तु वा । मण्डपं दशसंख्यातं प्रपा कुण्डसमन्वितम् ।। ११ ।। पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा । एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ।। १२ ।। इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे । वृत्त कुण्डं भवेदेवं कुण्डानि दश संख्यया ।। १३ ।। ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा । पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ।। १४ ।। शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा । आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ।। १५ ।। जलानीतं च सुस्नातं पूजितं कृतकौतुकम् । शयने शाययेद् बिंबं प्रदक्षिण शिरोन्वितम् ।। १६ ।। वस्त्रैराच्छादयेत्सर्वान् कुंभान् संस्थापयेद् गुरुः । परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ।। १७ ।। स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् । मध्य कुंभे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ।। १८ ।। विदिक्ष्वङ्गानि संपूज्य वाप्तिं पुरुष गोचरम् । स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ।। १९ ।। हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् । पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।। २० ।। शमीखादिर मायूर श्रीवृक्षास्संप्रकीर्तिताः । पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ।। २१ ।। प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् । संपूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ।। २२ ।। स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि । एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। २३ ।। इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः अष्टषष्टितमः पटलः ।। ६९. एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ।। १ ।। गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः । महतामेक भागं तु शूलानां मानमिष्यते ।। २ ।। प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ।। ३ ।। द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा । जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ।। ४ ।। यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् । भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ।। ५ ।। लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते । यजमाननृपग्रामानुकूलं लौकिकं मतम् ।। ६ ।। जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् । अंगुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ।। ७ ।। लौकिकं चान्यधामस्थ बेर साधारणं मतम् । युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ।। ८ ।। तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा । उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ।। ९ ।। तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् । पादमान युतं वाथ तन्मानं च पृथक् पृथक् ।। १० ।। तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः । रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ।। ११ ।। संग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् । पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ।। १२ ।। वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः । मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ।। १३ ।। चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते । मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ।। १४ ।। पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते । पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ।। १५ ।। अर्धपत्रं च पत्राग्रं तु कृशं भवेत् । पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ।। १६ ।। अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः । पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ।। १७ ।। तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि । पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ।। १८ ।। नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा । यवार्धं तु समारभ्य यवपाद विवर्धनात् ।। १९ ।। अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् । मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ।। २० ।। मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि । एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ।। २१ ।। पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः । पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ।। २२ ।। तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः । द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ।। २३ ।। पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् । तस्याधः पालिका कार्या पत्रायामार्ध भागतः ।। २४ ।। हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा । फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ।। २५ ।। पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् । एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ।। २६ ।। पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः । तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ।। २७ ।। पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् । घटवन्नाडिकामानं युघधा विभजेत्त तत् ।। २८ ।। एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका । हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ।। २९ ।। आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः । तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ।। ३० ।। दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा । तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ।। ३१ ।। विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा । पादं वान्तर मानं वा तदुच्चे दशधा कृते ।। ३२ ।। पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् । वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ।। ३३ ।। हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा । मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ।। ३४ ।। अथवा मध्य पत्रस्य मूले वृषभवाहनम् । पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ।। ३५ ।। देव्या समायुतं वाथ वृषभेण युतं न वा । देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ।। ३६ ।। अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् । माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ।। ३७ ।। टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् । पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ।। ३८ ।। शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते । मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ।। ३९ ।। पादेन मध्यमेऽष्टांश मानाद्वा दण्ड विस्तरः । विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ।। ४० ।। यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा । पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ।। ४१ ।। चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् । त्रिशूलापरभागे तु वृषभं वा समालिखेत् ।। ४२ ।। अथवा दण्डमानेन पुरुषं जटिलं तु वा । पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ।। ४३ ।। वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा । सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ।। ४४ ।। तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः । प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ।। ४५ ।। संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् । पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ।। ४६ ।। रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् । अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ।। ४७ ।। विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् । शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ।। ४८ ।। जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् । पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ।। ४९ ।। सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् । वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ।। ५० ।। शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना । ततो बिंबं समानीय स्नापयेत्पूर्ववर्त्मना ।। ५१ ।। कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु । बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ।। ५२ ।। शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् । आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ।। ५३ ।। त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् । शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ।। ५४ ।। चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् । स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ।। ५५ ।। विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् । द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ।। ५६ ।। यद्यस्ति प्रतिमा शर्वे शिवकुंभं च वर्धनीम् । वृषो यद्यस्ति तत्कुंभं तेषु तानर्चयेत्क्रमात् ।। ५७ ।। वज्रादीन् वसुकुंभेषु परितः संस्थितेषु च । तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ।। ५८ ।। पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः । दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ।। ५९ ।। शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः । न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ।। ६० ।। ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् । मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ।। ६१ ।। वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् । षण्मुखं कुंभदेशे तु कुंभस्यास्ये विनायकम् ।। ६२ ।। दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे । तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ।। ६३ ।। दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले । दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ।। ६४ ।। दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा । होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ।। ६५ ।। समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् । पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।। ६६ ।। पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः । प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ।। ६७ ।। पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे । सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ।। ६८ ।। विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् । ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ।। ६९ ।। ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि । तद्दिङ्मूर्त्यादि संयुक्तं पूर्व संख्या समन्वितम् ।। ७० ।। रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि । एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ।। ७१ ।। वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः । वज्रादीन् पंकजे सर्वान् देवान् प्राग्वन्निवेशयेत् ।। ७२ ।। तत्तत् कुंभजलैश्चैव स्नापयेच्छूलमादरात् । स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ।। ७३ ।। अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् । त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ।। ७४ ।। भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ।। ७४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन सप्ततितमः पटलः ।। ७०. सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ।। १ ।। देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः । चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ।। २ ।। तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते । चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ।। ३ ।। चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् । अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ।। ४ ।। नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः । पार्णेय प्रमुखास्तेषां आसनानि बहून्यपि ।। ५ ।। द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः । व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ।। ६ ।। द्वारोदयसमं वाष्ट नवभागोनमेव वा । नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ।। ७ ।। प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् । तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ।। ८ ।। पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु । उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ।। ९ ।। विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् । हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ।। १० ।। चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् । चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ।। ११ ।। अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् । सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ।। १२ ।। अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् । द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ।। १३ ।। पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् । अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ।। १४ ।। सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते । सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ।। १५ ।। पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदांश निर्गमात् । यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ।। १६ ।। एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः । दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ।। १७ ।। पादानामन्तरे पादा भवेयुरुपपीठके । पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ।। १८ ।। मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् । सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ।। १९ ।। एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः । उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ।। २० ।। स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् । मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ।। २१ ।। शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् । दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ।। २२ ।। राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते । त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ।। २३ ।। वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके । वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ।। २४ ।। वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका । सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ।। २५ ।। अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः । अर्धेनैकोनविंशांऽसं भद्रकं परिकीर्तितम् ।। २६ ।। त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके । सार्धार्द्धांश विभागार्धैरेकार्धाष्टांश सार्धकैः ।। २७ ।। अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः । पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ।। २८ ।। पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका । अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ।। २९ ।। आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः । एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ।। ३० ।। एत देव मुखे पृष्टे सौभद्रं संयुतम् । पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ।। ३१ ।। पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् । आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ।। ३२ ।। यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः । तद्विस्तार विभागेन मध्ये मकर तोरणम् ।। ३३ ।। पद्माभिषेक संपन्ना कार्या तोरण मध्यमे । तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ।। ३४ ।। मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता । कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ।। ३५ ।। मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् । अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ।। ३६ ।। स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् । कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ।। ३७ ।। नानारत्नसमोपेत मनन्तफण संयुतम् । विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ।। ३८ ।। वितोरणा विजिर्वाथ आसनं केवलं तु वा । पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ।। ३९ ।। पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् । उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ।। ४० ।। क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः । महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ।। ४१ ।। चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः । अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ।। ४२ ।। पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् । वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ।। ४३ ।। द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् । चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ।। ४४ ।। वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके । वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ।। ४५ ।। आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च । ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ।। ४६ ।। सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः । द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ।। ४७ ।। अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् । एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ।। ४८ ।। कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् । योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ।। ४९ ।। उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः । त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ।। ५० ।। पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् । वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ।। ५१ ।। वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् । श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ।। ५२ ।। नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः । पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ।। ५३ ।। पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते । अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ।। ५४ ।। प्रासाद लक्षणे पूर्वं कथितानि बहूनि च । अधिष्टानि सर्वाणि सोपपीठानि यानि च ।। ५५ ।। संग्राह्याणि च तानीह देशिकैर्नियमावृते । अवलम्बित पादस्याद् देवादीनां विशेषतः ।। ५६ ।। सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् । सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ।। ५७ ।। कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् । यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ।। ५८ ।। यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् । आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ।। ५९ ।। पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् । प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ।। ६० ।। आसनानां च सर्वेषामायादि विधिरुच्यते । परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ।। ६१ ।। बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् । सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद् गुरुः ।। ६२ ।। आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः । शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ।। ६३ ।। तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः । लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ।। ६४ ।। श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः । जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ।। ६५ ।। आसनार्थं च संग्राह्या द्रव्यग्रहणमार्गतः । एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ।। ६६ ।। कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः । शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ।। ६७ ।। पञ्च गव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् । अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ।। ६८ ।। शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् । पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ।। ६९ ।। स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः । गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ।। ७० ।। सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् । नमस्कार समोपेतं स्वबीजेन समन्वितम् ।। ७१ ।। मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः । तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ।। ७२ ।। समिदाज्यचरूंश्चैव तिललाज समन्वितम् । शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ।। ७३ ।। पूर्णाहुतिं ततः कृत्वा शान्तिकुंभांभसा गुरुः । सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ।। ७४ ।। स्नातं शुक्लांबरधरं मकुटेन विभूषितम् । सर्वाभरण संयुक्तं छत्र चामर संयुतम् ।। ७५ ।। सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् । नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ।। ७६ ।। मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् । तद्देव होम संयुक्तमासनाणुभिरन्वितम् ।। ७७ ।। आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः । अष्टदिक्वष्ट कुंभांश्च मध्यमे शक्रशर्वयोः ।। ७८ ।। प्रधान कुंभं संस्थाप्य स्वर्णवस्तादिभिर्युतम् । शिवासनाणु मध्ये च लोकपान् परितो यजेत् ।। ७९ ।। एवमादौ च संपूज्य ततो होमं समारभेत् । संतर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ।। ८० ।। सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः । शिवासनाणुं तन्मध्ये कुंभस्थं विनिवेशयेत् ।। ८१ ।। संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् । संपूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ।। ८२ ।। संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् । सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ।। ८३ ।। आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ।। ८४ ।। अन्येषामासनानां च प्रमाणमभिधीयते । सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ।। ८५ ।। मिश्रलोह शिलावृक्षमृत्सुधारत्न संभवम् । दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ।। ८६ ।। पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु । द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ।। ८७ ।। पञ्चाशनमानजातं तु विस्तारे मानमीरितम् । सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ।। ८८ ।। द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि । आयामे मानमुद्दिष्टं पादानं मानमुच्यते ।। ८९ ।। एकमात्रं समारभ्य व्योममात्र विवृद्धितः । पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ।। ९० ।। अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः । विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ।। ९१ ।। पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः । भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ।। ९२ ।। पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा । ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ।। ९३ ।। केवला वाथवा कार्या स्वशिरः पादसंयुताः । अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ।। ९४ ।। नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः । पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ।। ९५ ।। तदाननेलिकां वाथ फलकां वाथ योजयेत् । तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ।। ९६ ।। पादोर्ध्व फलका वाथ योजनीया यथेष्टतः । यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ।। ९७ ।। फलकासनमाख्यातं स्वर्णादीनां यथार्हकम् वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ।। ९८ ।। रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि । फलकां भूषयेद्वाथ केवला फलकाथवा ।। ९९ ।। तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् । नाना नाटक संयुक्तानयः कीलसमन्वितान् ।। १०० ।। नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा । चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ।। १०१ ।। अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् । आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ।। १०२ ।। त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः । चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ।। १०३ ।। तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् । स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ।। १०४ ।। सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् । फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ।। १०५ ।। तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् । एतेषामासनानां तु संस्कारः प्रागुदीरितः ।। १०६ ।। पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ।। १०६१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः पटलः ।। ७१. एकसप्ततितमे पटले रथादि स्थापन विधिः रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ।। १ ।। त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् । नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ।। २ ।। त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः । भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ।। ३ ।। अक्षोन्तरं समाख्यातं उपधानं द्विजोत्तमाः । पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ।। ४ ।। भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा । पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ।। ५ ।। इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः । यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ।। ६ ।। अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः । बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ।। ७ ।। तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः । स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ।। ८ ।। अक्षवधि विलंबिन्य स्त्वयः पट्टैर्दृढीकृताः । प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ।। ९ ।। शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् । अक्षोर्ध संप्रवेशार्थ मुपाधानन्तु वा नयेत् ।। १० ।। अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् । भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ।। ११ ।। तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् । पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ।। १२ ।। तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् । भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ।। १३ ।। समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते । तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ।। १४ ।। अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः । केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ।। १५ ।। ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् । भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ।। १६ ।। रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् । तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ।। १७ ।। त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः । द्वित्रिवेद महाभूत भाग विस्तार संयुताः ।। १८ ।। द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि । त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ।। १९ ।। योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् । भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ।। २० ।। प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् । चतुर्भागं समारभ्य भागस्याष्ट दशावधि ।। २१ ।। विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनां । चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ।। २२ ।। दशभागा वशानन्तु चक्रनेमि घनञ्चयत् । तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ।। २३ ।। एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः । वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ।। २४ ।। पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा । पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ।। २५ ।। यथाबलं विशालानि तथा विधधनानिच । चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ।। २६ ।। एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् । द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ।। २७ ।। एकद्वित्र्यङ्गुलांधिक्यन्नाभिदेशे भवेत् द्विजाः । तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ।। २८ ।। मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च । त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ।। २९ ।। सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा । ब्रह्मा रथांग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ।। ३० ।। भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते । एकभागा द्विकारान्त मेकभाग विवर्धनात् ।। ३१ ।। तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः । भारबाह्य विवृध्यातु रसभागावसानकाः ।। ३२ ।। एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः । गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ।। ३३ ।। त्रिभागे नैक भागेन मूलादारभ्य कारयेत् । उपान पद्मकंपानि कंपं कर्णञ्च कपकम् ।। ३४ ।। पद्मञ्च वाजनं कंपं दृष्टान्तार्थ मुदाहृतम् । पादोनार्धेन भागेन त्रिभागेन द्विभागतः ।। ३५ ।। त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् । एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ।। ३६ ।। धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् । चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ।। ३७ ।। गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् । उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ।। ३८ ।। उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् । फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ।। ३९ ।। फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् । सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ।। ४० ।। शतांऽसान्तं समुद्दिष्टं तन्मूलं वेद भागतः । वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ।। ४१ ।। षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् । कुंभ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ।। ४२ ।। पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् । तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ।। ४३ ।। वस्वं शांताय संयुक्तं तद्विस्तारोदरान्वितम् । तत्रिपाद विशालं वा तदन्तस्सममानकम् ।। ४४ ।। कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा । बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ।। ४५ ।। भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् । यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ।। ४६ ।। तद्विनिर्गमनोपेत मुपपीठं गलावधि । द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ।। ४७ ।। तत्संबन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः । पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ।। ४८ ।। यथेष्ट घन विस्तारे तत्संबन्धे परेपि वा । भरमूले तदग्रे च समभदे तथानयेत् ।। ४९ ।। अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि । तत्रपादा विधेयास्स्युः उपपीठावसानके ।। ५० ।। फलके द्वे विधातव्ये तत्पादोपरि संस्थिते । तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ।। ५१ ।। भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् । उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ।। ५२ ।। उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् । तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ।। ५३ ।। अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् । पंकित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ।। ५४ ।। पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने । सदन्त गलकंपौच महा वाजन माचरेत् ।। ५५ ।। उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् । प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ।। ५६ ।। एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा । अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ।। ५७ ।। अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः । तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ।। ५८ ।। गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः । सिंह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ।। ५९ ।। तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् । प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ।। ६० ।। त्रिभागन्तु समारभ्य भागभाग विवर्धनात् । नवभागावसानं स्यादलङ्गारश्च कथ्यते ।। ६१ ।। तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः । व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ।। ६२ ।। निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् । प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ।। ६३ ।। एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् । पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ।। ६४ ।। एकादि रसभागान्तं पार्श्वयोरुभयोरपि । प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ।। ६५ ।। रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा । षडादि त्रिंशदंशान्तं समं वा मूलपादतः ।। ६६ ।। प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः । अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ।। ६७ ।। छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः । एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ।। ६८ ।। भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु । न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ।। ६९ ।। पादानां कार्यः प्रस्तराणाञ्च मञ्चतः । प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ।। ७० ।। अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते । रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ।। ७१ ।। भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा । प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ।। ७२ ।। सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् । उपभद्र विहीनं वा भद्रं भारान्तमेव वा ।। ७३ ।। एतत् सर्वं विहायाथ केवलान्तूपपीठकम् । भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ।। ७४ ।। उपपीठं विहायास्मिन् केवलवामसूरकम् । बहिः करणमेवस्या दन्तरत्र निगद्यते ।। ७५ ।। पादवर्गेन्तरे क्षुद्रपादाः कंपोपरिस्थिताः । ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ।। ७६ ।। तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा । विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ।। ७७ ।। तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः । अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ।। ७८ ।। तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः । नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ।। ७९ ।। नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः । कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ।। ८० ।। एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा । पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ।। ८१ ।। वेदतालं समारभ्य तालार्धेन निवर्धयेत् । यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ।। ८२ ।। पाद पाद विवृध्यातु तत्वाङ्गुल समावधि । पाद विस्तार आखातो धाम पादा कृतिर्यथा ।। ८३ ।। अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः । बहुनीव्र समायुक्ताः फलकासु निवेशिताः ।। ८४ ।। तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् । तथैवायसनालैश्च धारस्सुदृधं यथा ।। ८५ ।। पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् । शिखाकरणमार्गेण लुपारोहण क्रियान्विता ।। ८६ ।। सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् । छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ।। ८७ ।। रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् । कथ्यते सचलेशेन विस्तारादायतोपिवा ।। ८८ ।। उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा । वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ।। ८९ ।। सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ । तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ।। ९० ।। शकटे शिबिकादौच शुभेशुभ मुदाहृतम् । रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ।। ९१ ।। उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढं । गोमूत्र गोमयांभोभिः कुशोदैस्तज्जलैरपि ।। ९२ ।। गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् । अस्त्रोदेनापि संप्रोक्षय गन्ध पुष्पादिभिः यजेत् ।। ९३ ।। कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु । वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ।। ९४ ।। मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ । दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ।। ९५ ।। हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् । उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ।। ९६ ।। धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः । अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ।। ९७ ।। फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् । कर्णिकान्नवशक्तींश्च शिवासनं अनुस्मरेत् ।। ९८ ।। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः । शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ।। ९९ ।। पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना । तदग्रे स्थंडिलं कृत्वा तस्मिन् सूत्रांबरान्वितान् ।। १०० ।। हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् । तत्र मध्ये शिवं पूर्वेभानुं इन्दुं तथानले ।। १०१ ।। दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे । वारुणे वृषभं वायावनन्तं विनिवेशयेत् ।। १०२ ।। धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे । गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ।। १०३ ।। संस्थापित घटानांवा समन्ता द्वारथस्यतु । नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ।। १०४ ।। आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् । शिवं साङ्गं प्रधानेतु तर्पयेच्छत संख्यया ।। १०५ ।। भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् । एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ।। १०६ ।। समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् । तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ।। १०७ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिङ्मताः । शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ।। १०८ ।। पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः । पूर्णान्दत्वा द्वितीयेह्नि कृत कुंभाग्नि पूजनः ।। १०९ ।। संप्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।। ११० ।। तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। १११ ।। एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः । इहैव धनवांच्छ्रीमान् वांछितं फलमाप्नुयात् ।। ११२ ।। रथमेवं सुसंकृत्य रथयात्रां समाचरेत् । पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ।। ११३ ।। तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः । षण्णवत्यंश कान्तस्तु शिबिका विस्तरोमतः ।। ११४ ।। त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः । एकोन् द्विशतं याव दायामं परिकल्पयेत् ।। ११५ ।। ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् । पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ।। ११६ ।। पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः । एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ।। ११७ ।। पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् । त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ।। ११८ ।। दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् । वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ।। ११९ ।। विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् । अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ।। १२० ।। वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् । त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ।। १२१ ।। आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ । विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ।। १२२ ।। योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् । विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ।। १२३ ।। त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् । हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ।। १२४ ।। त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः । त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ।। १२५ ।। व्योममात्रं समारभ्य पादमात्र विवृद्धितः । सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ।। १२६ ।। व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि । हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ।। १२७ ।। वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् । अष्टांशादंश वृध्यातु स्वन्न्यास द्विगुणावधि ।। १२८ ।। इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः । किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ।। १२९ ।। पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि । पट्टिका घन विस्तारो यथायोग्यं विधीयते ।। १३० ।। व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः । गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ।। १३१ ।। क्षुद्रकंपैश्च वल्लीभिर्नाराचैः कोणबन्धनैः । यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ।। १३२ ।। झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः । स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ।। १३३ ।। शिबिकालंकृतिं कुर्याद्यथा शोभं यथाबलम् । एषा पैठी समाख्याता शेखरी शिखरान्विता ।। १३४ ।। पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता । शूकः कालश्च तिमिरः पनसो निंबकार्जुनौ ।। १३५ ।। मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः । वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ।। १३६ ।। अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः । वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ।। १३७ ।। तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् । चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ।। १३८ ।। त्र्यंगुलादंगुलद्धर्यातु पञ्चाशत् करजावधि । पाद दैर्घ्यं समाख्यातं द्वयंगुलात् पादवृद्धितः ।। १३९ ।। तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः । अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ।। १४० ।। अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् । तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ।। १४१ ।। फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् । नानापट्ट समायुक्तन्नानावेत्र समायुतम् ।। १४२ ।। नाना नाराच संबन्धं पुलकाद्यैश्च शोभितम् । लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ।। १४३ ।। शिबिकायद्वदायाद्यैः संयुक्तं संपदेभवेत् । पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ।। १४४ ।। प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् । खट्वा पाद समायुक्तं पट्टिकां एक संयुतम् ।। १४५ ।। पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् । निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ।। १४६ ।। इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ।। ७२. द्विसप्ततितमे पटले करणलक्षण विधिः लक्षण करणानां च वक्ष्ये संक्षेपतः क्रमात् । याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ।। १ ।। सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः । त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ।। २ ।। वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः । तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ।। ३ ।। निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः । चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ।। ४ ।। दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः । षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ।। ५ ।। तत्संख्यामात्रदैर्घ्यं स्यात् किंचैकादशमात्रतः । ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ।। ६ ।। ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः । वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ।। ७ ।। ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः । ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ।। ८ ।। उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः । उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ।। ९ ।। अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके । द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ।। १० ।। पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् । अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ।। ११ ।। प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् । ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ।। १२ ।। करे संयोजनीयं स्यात् काले देवार्चनादिके । अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ।। १३ ।। त्रयोविंशतिसंख्यातदर्भैस्स्यान्निर्मितेन च । अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ।। १४ ।। यथेष्टान्तरयुक्तेन लम्बनेन समन्विता । दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ।। १५ ।। रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता । आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ।। १६ ।। तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् । सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ।। १७ ।। द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा । स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ।। १८ ।। पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् । याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ।। १९ ।। शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् । इष्टमानेन खातं स्याच्छिखामानं तथैव च ।। २० ।। विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा । सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ।। २१ ।। पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् । विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ।। २२ ।। यावत्तावद् घनं तेषामिष्टमानेन कारयेत् । एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ।। २३ ।। नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च । षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ।। २४ ।। पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् । अन्तरेष्टविभागे तु नवमानमुदाहृतम् ।। २५ ।। घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि । याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ।। २६ ।। दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् । श्रीवत्सं स्वस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ।। २७ ।। अन्येषामपि देवानां देवीनां चाष्टमङ्गले । वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ।। २८ ।। शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् । ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ।। २९ ।। विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते । पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।। ३० ।। पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् । विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ।। ३१ ।। पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् । तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ।। ३२ ।। स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः । तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ।। ३३ ।। पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् । श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ।। ३४ ।। शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् । श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ।। ३५ ।। स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः । दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ।। ३६ ।। चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् । शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ।। ३७ ।। लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः । पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ।। ३८ ।। एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् । हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ।। ३९ ।। वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् । ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ।। ४० ।। ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः । लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ।। ४१ ।। देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् । जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ।। ४२ ।। नवतालप्रमाणेन तेषां लक्षणमुच्यते । तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ।। ४३ ।। देहलब्धेन तेषां तु प्रमाणं प्रविधीयते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ४४ ।। तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् । मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ।। ४५ ।। लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु । इष्टमानेन चैतेषां विस्तार इह कथ्यते ।। ४६ ।। स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते । तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ।। ४७ ।। षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा । दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ।। ४८ ।। त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला । सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ।। ४९ ।। कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा । कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ।। ५० ।। यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि । नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ।। ५१ ।। शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् । कर्णपार्श्वैकमात्रोनशरावादामुखावधः ।। ५२ ।। कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् । अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ।। ५३ ।। तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् । आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ।। ५४ ।। कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता । तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ।। ५५ ।। दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः । मुष्ट्यष्.आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ।। ५६ ।। अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते । द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ।। ५७ ।। तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः । कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ।। ५८ ।। सप्ताऽऽगुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् । गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ।। ५९ ।। रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् । तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ।। ६० ।। पादं कलशमूले स्यादन्यथा वा निगद्यते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ६१ ।। विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् । विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ।। ६२ ।। त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् । कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ।। ६३ ।। वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् । त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ।। ६४ ।। दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् । अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ।। ६५ ।। त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः । स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ।। ६६ ।। एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् । षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ।। ६७ ।। तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् । गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ।। ६८ ।। पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः । नूतनं करणं श्रेष्ठं पुराणं तदभावतः ।। ६९ ।। पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः । तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ।। ७० ।। सहस्राघोररजापस्यात् पुराणकरणग्रहे । येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।। ७१ ।। तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः । अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ।। ७२ ।। अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् । श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ।। ७३ ।। तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः । तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।। ७४ ।। तेनैवोत्सवकर्माद्यं विहितं मुनिपुंगवाः । स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ।। ७५ ।। समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च । ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ।। ७६ ।। तोरणानि पयोवृक्षजातिलक्षणवन्ति च । पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ।। ७७ ।। वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् । तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ।। ७८ ।। शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् । शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ।। ७९ ।। एकादिवेदहस्तान्ततोरणे क्षुद्रमानके । उदयार्धप्रमाणं वा यादादौ परिपठ्यते ।। ८० ।। इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ।। ७३. त्रिसप्ततितमे पटले सौख्य कर्म विधिः प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च । सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ।। १ ।। सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् । ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ।। २ ।। तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् । अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ।। ३ ।। ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः । देवतारुवने पूर्व विनोदार्थं मया पुरा ।। ४ ।। कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः । तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ।। ५ ।। विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः । तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ।। ६ ।। मदालोकन मात्रेण दधते गर्भमक्षयम् । तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ।। ७ ।। तास्सर्वास्तत्र संपूज्य कानो वृत्तिर्भविष्यति । एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ।। ८ ।। मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि । तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ।। ९ ।। तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने । स्त्रीभिस्तद्वंश जाताभिः पञ्चाचार्य समन्वितम् ।। १० ।। इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले । मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ।। ११ ।। आहूय नन्दिनं चादाय करमध्यगम् । वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ।। १२ ।। ततः प्रभृति वर्तन्ते भुवि नन्दाव्य संज्ञया । यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ।। १३ ।। विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् । नर्तको मर्दकश्चैव गायको वांशिकस्तथा ।। १४ ।। तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः । चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ।। १५ ।। भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः । नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ।। १६ ।। तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् । नर्तने च स्वयं शक्तो मात्रागणन तत्परः ।। १७ ।। मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः । प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ।। १८ ।। गायको गान विद्याज्ञस्सप्तस्वर विशारदः । सप्त स्वर विभेदेन गायको गान नायकः ।। १९ ।। वांऽसिकस्तद्वदेव स्यात् किंतु वंशकृतश्रमः । सौख्ये तु वादयेद्वंश मुदात्तादि विभेदतः ।। २० ।। वादयेन्मुखं सौख्य काले मौर विको मतः । नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ।। २१ ।। गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ । अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ।। २२ ।। ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् । पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ।। २३ ।। अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः । पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ।। २४ ।। मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् । त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ।। २५ ।। देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् । प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ।। २६ ।। युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् । अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ।। २७ ।। पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन । सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ।। २८ ।। तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि । नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ।। २९ ।। आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा । पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ।। ३० ।। आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे । क्षालितं वेत्रमादाय हेतितो येन देशिकः ।। ३१ ।। संस्थाप्य वेत्रं पूर्वाग्रं उत्तराग्रमथापि वा । नन्दिनं तत्र संपूज्य गन्धपुष्पादिभ्र्गुरुः ।। ३२ ।। नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः । श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ।। ३३ ।। संप्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि । तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ।। ३४ ।। शिवायनम इत्येवं समस्तं शिरसि न्यसेत् । गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ।। ३५ ।। नामोक्त्वा नन्दपूर्वं तु संबुध्यन्तं यथा भवेत् । नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ।। ३६ ।। मदीयोत्सव कालादौ तव नृत्तानुकूलतः । एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ।। ३७ ।। तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् । पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ।। ३८ ।। ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् । शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ।। ३९ ।। एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते । देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ।। ४० ।। देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् । विन्यस्य तत्पुरः कुंभं स्वर्णवस्त्रादि संयुतम् ।। ४१ ।। पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् । पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ।। ४२ ।। तदम्भसा तु संप्रोक्ष्य शिरः कूर्चेन संस्पृशेत् । पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ।। ४३ ।। प्रवेशो रुद्रकन्यानामादौ संक्षिप्य कथ्यते । निर्दिष्ट दिवसात् पूर्वं मङ्गलांकुर माचरेत् ।। ४४ ।। प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् । विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ।। ४५ ।। सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः । निष्पाद्य देवदेवेशं पूर्वेद्युस्संप्रपूजयेत् ।। ४६ ।। गन्धाद्यैर्युग संख्याता रुद्रकन्या उपोषिताः । धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ।। ४७ ।। सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः । कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ।। ४८ ।। अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् । संस्थाप्य देव देवेशं सहस्रकलशादिभिः ।। ४९ ।। संपूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् । मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ।। ५० ।। पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः । मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ।। ५१ ।। नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् । साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ।। ५२ ।। नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् । स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ।। ५३ ।। तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् । पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ।। ५४ ।। प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् । सरस्वत्या समोपेतं लोकपालादि संयुतम् ।। ५५ ।। पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् । उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ।। ५६ ।। संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् । आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ।। ५७ ।। होमयेच्छत संख्यातामावृतिं दशसंख्यया । समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ।। ५८ ।। देवं संपूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् । प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ।। ५९ ।। तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् । नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ।। ६० ।। पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः । भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ।। ६१ ।। नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया । कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ।। ६२ ।। पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् । समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ।। ६३ ।। श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ।। ६४ ।। प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् । मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि- गीतयुक्तः । नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे कमलासनाय ।। ६५ ।। भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन । आमोद मत्तरलिभिर्रिकूजत् पुष्पांजलिस्यात् पुरुषोत्तमाय ।। ६६ ।। सान्तानिकादि शिव संस्कृत रुद्रकन्या । नानाविधाभिनयकै रभिवर्धमानः । नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै । पुष्पाञ्जलिर्भवतु मे परमेश्वराय ।। ६७ ।। स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए । उत्सवे स्नपने मासपूजायां होमकर्मणि ।। ६८ ।। धजारोहण कलादौ काम्यादौ च विशिष्यते ।। ६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ।। ७४. चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु । आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ।। १ ।। महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः । संस्कारेण विशेषोऽयंजात्या वैशि.य मुच्यते ।। २ ।। ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि । प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ।। ३ ।। वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा । योगेन क्रियया वाथ चर्ययापि विशिष्यते ।। ४ ।। आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः । तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ।। ५ ।। आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च । दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ।। ६ ।। पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् । मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ।। ७ ।। परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः । स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ।। ८ ।। पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः । क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ।। ९ ।। अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः । ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ।। १० ।। पूजयेद्देव कल्याणे पवित्रारोहणादिके । सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ।। ११ ।। देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः । देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ।। १२ ।। तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् । सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ।। १३ ।। सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः । दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ।। १४ ।। सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् । पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ।। १५ ।। पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ।। १६ ।। सहमार्गी शिवार्चाग्नि जपहोमं परायणः । प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ।। १७ ।। दासमार्गी शिवोद्यानलिंग बिम्बालयादि कृत् । शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ।। १८ ।। एवं बहु प्रकारेण शैवैस्सह विचार्य च । एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ।। १९ ।। इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः पटलः ।। ७५. पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः व्याधिनाश विधानं तु वक्ष्ये संक्षेप्तः क्रमात् । सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ।। १ ।। गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् । ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ।। २ ।। क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने । वात पित्तकफोद्रेके दाहमोह वणोकटे ।। ३ ।। महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे । एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ।। ४ ।। आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते । पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ।। ५ ।। तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे । पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ।। ६ ।। देवालये नदीतीरे पर्वते काननेऽपि वा । अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ।। ७ ।। गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते । लिंगे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ।। ८ ।। शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् । गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ।। ९ ।। स्नपनेन समोपेतं पञ्चगव्यामृतादिना । संपूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ।। १० ।। अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ११ ।। तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् । मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ।। १२ ।। पठित्वा देवदत्तस्य पदं चात्र विशेषतः । एवं जपं विधायैत दिष्टदेवे निवेदयेत् ।। १३ ।। गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् । स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ।। १४ ।। तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके । कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ।। १५ ।। तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् । गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ।। १६ ।। होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा । कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ।। १७ ।। देवं कुंभं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः । होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ।। १८ ।। तत्कुंभसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः । तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ।। १९ ।। रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः । होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ।। २० ।। कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः । गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ।। २१ ।। नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा । शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ।। २२ ।। प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः । चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ।। २३ ।। मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् । यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ।। २४ ।। तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः । एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ।। २५ ।। वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह । बलिरेष समाख्यातो धूपदीपसमन्वितः ।। २६ ।। पताकास्वादुपानीय युक्तसाधारणो मतः । अथवान्य प्रकारेण व्याधिमोचनमुच्यते ।। २७ ।। लिंगादौ देवमभ्यर्च्य जपहोमौ समाप्य च । सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ।। २८ ।। तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् । दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ।। २९ ।। तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा । कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ।। ३० ।। रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः । कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ।। ३१ ।। पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् । अनेन विधिना रोगी अरोगी स्यान्न संशयः ।। ३२ ।। केवलं बलिदानं वा चतुर्मासान्तमेव वा । पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ।। ३३ ।। अथवान्य प्रकारेण व्याधिनाशनमुच्यते । अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ।। ३४ ।। ग्रहणे विषुवे वापि द्वयोरयनयोरपि । स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ।। ३५ ।। गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा । स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ।। ३६ ।। पञ्चविंशति संखायतान् पञ्चसंख्यानथापि वा । एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ।। ३७ ।। ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् । सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ।। ३८ ।। सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् । गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ।। ३९ ।। अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः । तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ।। ४० ।। होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा । शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ।। ४१ ।। तस्मात्तद्भस्म संग्राह्य व्याधितं स्नापयेद् गुरुः । गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ।। ४२ ।। तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् । निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ।। ४३ ।। स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् । प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ।। ४४ ।। कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा । राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ।। ४५ ।। साधयेच्छत संख्यातान् कलशाष्टक संयुतान् । पञ्चाशत् संख्यया तेभ्यो न हीनान् साधयेत्गुरुः ।। ४६ ।। कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते । मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ।। ४७ ।। अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः । आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ।। ४८ ।। अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् । शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ।। ४९ ।। सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके । होमेन समसख्यां वा जप तुल्यं परं मतम् ।। ५० ।। शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् । अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ।। ५१ ।। सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके । कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ।। ५२ ।। पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् । विधाय जपमात्रं वा गोरोचनयुतं तु वा ।। ५३ ।। शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः । संपूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ।। ५४ ।। स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना । लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ।। ५५ ।। दुर्बलो बलवान्धीर स्सर्वैस्संपूज्यते भुवि । कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ।। ५६ ।। नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे । प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ।। ५७ ।। जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः । पूजां होमं च वा नित्यं जपतर्पण संयुतम् ।। ५८ ।। एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते । बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ।। ५९ ।। अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः । तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ।। ६० ।। विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः । सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ।। ६१ ।। गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते । मध्ये वा गजशालायां शूलस्थाने मनोरमे ।। ६२ ।। शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च । विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ।। ६३ ।। नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके । गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ।। ६४ ।। स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः । लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ।। ६५ ।। स कूर्चं सापिधानं च गन्धोदक समन्वितम् । एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ।। ६६ ।। दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् । तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ।। ६७ ।। पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् । सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ।। ६८ ।। कपालशूल संयुक्तं धनुर्बाण समन्वितम् । ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ।। ६९ ।। एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् । पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ।। ७० ।। गन्ध पुष्प समायुक्तं धूपदीप समायुतम् । नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ।। ७१ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ।। ७२ ।। तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके । कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ।। ७३ ।। समिदाज्य चरूपेतं तिलतण्डुल संयुतम् । क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ।। ७४ ।। समिधस्संप्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः । संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ७५ ।। प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् । तद्भस्म संग्रहं कृत्वा देवं कुंभे विसर्जयेत् ।। ७६ ।। तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः । ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ।। ७७ ।। अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च । स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ।। ७८ ।। रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा । बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ।। ७९ ।। गजशाला समीपे वा होमस्थानेऽथवा बैः । एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ।। ८० ।। किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः । गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ।। ८१ ।। सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा । तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ।। ८२ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् । एककालं द्विकालं वा त्रिकालं वा विशिष्यते ।। ८३ ।। नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् । साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ।। ८४ ।। हयानां च गजानां च रक्षणं चान्यथोच्यते । तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ।। ८५ ।। कुंभेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते । अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ।। ८६ ।। तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः । व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ।। ८७ ।। तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् । तन्मध्ये द्रोण संपूर्णं कुंभं विन्यस्य देशिकः ।। ८८ ।। सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् । पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ।। ८९ ।। तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् । चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ।। ९० ।। नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा । ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ।। ९१ ।। समिदाज्य चरूपेतं तिलसर्षप लाजकैः । क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ।। ९२ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । पञ्चाशत्संख्यया वाथ पञ्चविंशति संख्यया ।। ९३ ।। प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् । अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ।। ९४ ।। कुण्डद्वये वा होतव्यं एकस्मिन्स्थण्डिलेऽपि वा । पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ।। ९५ ।। पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् । साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ।। ९६ ।। अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः । कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ।। ९७ ।। अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः । पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ।। ९८ ।। रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः । स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ।। ९९ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् । महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ।। १०० ।। अन्नं मधुघृतोपेतं दधिलाज समन्वितम् । कदलीफल संयुक्त मपूपैश्च समन्वितम् ।। १०१ ।। नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् । दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ।। १०२ ।। विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः । अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ।। १०३ ।। क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् । तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ।। १०४ ।। अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् । तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ।। १०५ ।। दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः । गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ।। १०६ ।। तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् । आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ।। १०७ ।। शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् । कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ।। १०८ ।। व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले । केवलं तर्पणं वाथ पूजां हवन संयुताम् ।। १०९ ।। केवलं यजनं होमं बलिं नित्यं समाचरेत् । मर्त्यानामपि सर्वेषां एतत्सामान्यमुच्यते ।। ११० ।। होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् । केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ।। १११ ।। उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् । शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ।। ११२ ।। द्रोणपूर्णं समादाय कुम्भं बिंब समप्रभम् । तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ।। ११३ ।। तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते । तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ।। ११४ ।। तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् । विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ।। ११५ ।। फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् । एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ।। ११६ ।। छादयित्वा पिधानेन कल्पयेदासनं बुधः । आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ।। ११७ ।। अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् । तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ।। ११८ ।। कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः । मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ।। ११९ ।। तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् । अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ।। १२० ।। चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् । एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ।। १२१ ।। दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् । आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ।। १२२ ।। अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह । चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ।। १२३ ।। नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् । तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ।। १२४ ।। अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः । दत्वा स्वावरणोपेतं निरावरणमेव वा ।। १२५ ।। भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः । असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ।। १२६ ।। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः । तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ।। १२७ ।। अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् । गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ।। १२८ ।। नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् । अघोराय तदस्त्रय पानीयं च निवेदयेत् ।। १२९ ।। विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् । अघोराय तदस्त्राय संनिवेद्य जपं गुरुः ।। १३० ।। तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः । प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ।। १३१ ।। यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् । क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ।। १३२ ।। लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् । ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ।। १३३ ।। होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् । अघोरेण च तद्भस्म संग्राह्यास्त्रेण रक्षयेत् ।। १३४ ।। भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् । होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ।। १३५ ।। प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः । दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ।। १३६ ।। कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् । हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ।। १३७ ।। तस्मादुद्धृत्य कुंभं तु व्याधिस्थभिषेचयेत् । प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ।। १३८ ।। सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् । हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ।। १३९ ।। एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा । पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ।। १४० ।। प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् । यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ।। १४१ ।। पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा । तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ।। १४२ ।। एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये । महिषाज गवामेवं कारयेद्विजसत्तमाः ।। १४३ ।। अथोपयुक्तं यद् द्रव्यं आचार्याय प्रदापयेत् । प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ।। १४४ ।। तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः । एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ।। १४५ ।। होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् । गजानां वा हयानां वा शालायमङ्कणेऽपि वा ।। १४६ ।। तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् । शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ।। १४७ ।। संप्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् । वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ।। १४८ ।। गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् । वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ।। १४९ ।। हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् । अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ।। १५० ।। यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् । नोप सर्गभयं तत्र रोगपीडा न विद्यते ।। १५१ ।। उत्पन्नरोग नाशश्च भवत्येव न संशयः । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। १५२ ।। अघोरस्य तदस्त्रस्य यजनं होम संयुतम् । वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ।। १५३ ।। आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः । अनेन सदृशो योगो दुरिक्षयहेतुकः ।। १५४ ।। नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ।। १५४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः पञ्चसप्ततितमः पटलः ।। ७६. षट्सप्ततितमे पटले राज रक्षा विधिः राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः । भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ।। १ ।। ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः । ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ।। २ ।। ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः । मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ।। ३ ।। ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु । दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ।। ४ ।। ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः । स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ।। ५ ।। सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः । प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ।। ६ ।। स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् । वौषडंतं तु शूद्राणां तद्देव ध्यान सम्युतम् ।। ७ ।। स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् । दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ।। ८ ।। स्वानुकूलानु संजप्तमथवा विनिवेदयेत् । यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ।। ७७. सप्तसप्ततितमे पटले दुर्गा पूजा विधिः दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् । लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ।। १ ।। कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ।। २ ।। आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता । सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ।। ३ ।। अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ।। ४ ।। सन्तर्जयति हुंकारैः खड्गोपान्तकरान् परान् । तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ।। ५ ।। सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते । भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ।। ६ ।। तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः । पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ।। ७ ।। गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने । प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ।। ८ ।। मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः । मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ।। ९ ।। राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च । पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ।। १० ।। तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः । तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ।। ११ ।। समिदाज्येन हविषा पायसेन च होमयेत् । हुतशेषं तुरङ्गानां गजानामुपहारयेत् ।। १२ ।। बद्ध प्रतिसरान् पञ्च गजाश्वान् समलंकृतान् । भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ।। १३ ।। प्रत्यहं नृपतिः स्वाः स्वाः संपूज्य पितृदेवताः । पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ।। १४ ।। नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः । हुतशेषं प्रदातव्यमौपनायनिके गजे ।। १५ ।। तस्यापि हरणे राज्ञो विजयस्समुदाहृतः । पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ।। १६ ।। यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्य वृद्धये ।। इति १७ ।। ओं छं छत्राय नमः गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः । ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ।। १८ ।। ओं तुं तुरङ्गाय नमः प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। १९ ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ।। २० ।। यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा । मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २१ ।। सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ।। २२ ।। निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। २३ ।। अं अश्वाय नमः इत्यश्वमन्त्रः शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः । पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ।। २४ ।। ओं ध्वं ध्वजाय नमः काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः । अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ।। २५ ।। गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः । साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ।। २६ ।। कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ।। २७ ।। आं गं गजाय नमः । एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः । भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ।। २८ ।। वने वने प्रसूतास्ते वनयोनिर्महागजः । पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ।। २९ ।। भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ।। ३० ।। श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् । स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ।। ३१ ।। युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः । अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ।। ३२ ।। हस्तिमन्त्रः ओं हं हस्तिने नमः हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः । नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ।। ३३ ।। प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह । गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ३४ ।। व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु । श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ।। ३५ ।। पतन्तु परिशत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ।। ३६ ।। हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा । शोभितासि तथैवाद्य शोभया समयं स्मर ।। ३७ ।। नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ।। ३८ ।। सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः । पूतना रेवती नाम कालरात्रीति याः स्मृताः ।। ३९ ।। दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ।। ३९१/२ ।। पताका मन्त्रः ओं पं पताकाय नमः । असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ।। ४० ।। श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।। ४१ ।। ओं खं खड्गाय नमः नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।। ४२ ।। पिता पितामहो देवस्त्वं मां पालय सर्वदा । शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ।। ४३ ।। रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते । ओं वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।। ४४ ।। तव भूमि प्रधानानां तथा विजयवर्द्धनः । यथा जीमूतघोषेण हृष्यन्ति परवारणाः ।। ४५ ।। तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः । यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ।। ४६ ।। तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे । ओं दुं दुन्दुभये नमः सर्वायुध महामात्र सर्वायुध निषूदन ।। ४७ ।। चाप मां सर्वदा रक्ष साकं सायकसत्तमैः । ओं चं चापाय नमः पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ।। ४८ ।। विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव । ओं शं शङ्खाय नमः शशांकाकार संकाश हिमपिण्डित पाण्डर ।। ४९ ।। प्रोत्साधयाशु दुरितं चामरामर वल्लभ । ओं चं चामराय नमः सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ।। ५० ।। शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ।। ५१ ।। त्वया विस्तारिता चासि देवानां प्रतिपादिता । सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ।। ५२ ।। क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते । ओं क्षुं क्षुरिकाय नमः प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ।। ५३ ।। ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये । यशो देहि सुखं देहि देवो हि भव भूपतेः ।। ५४ ।। ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते । ओं कं कनकदण्डाय नमः विजयी भव देवोऽसि रिपुधाती प्रियंकरः ।। ५५ ।। दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः । एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ।। ५६ ।। तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे । त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ।। ५७ ।। त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः । नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ।। ५८ ।। त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते । ओं सिं सिंहासनाय नमः लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ।। ५९ ।। फलनैवेद्य कुसुमैः धूपदीप विलेपनैः । अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ।। ६० ।। रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् । प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ।। ६१ ।। पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् । राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ।। ६२ ।। स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः । कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ।। ६३ ।। कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः । नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ।। ६४ ।। द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् । अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ।। ६५ ।। तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् । धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ।। ६६ ।। शङ्ख चक्र समायुक्तां सर्वालंकार भूषिताम् । वराक्षमालाः मखरां महिषासुर संस्थिताम् ।। ६७ ।। सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् । चतुर्भुजां वा संपूज्य वरदाभय संयुताम् ।। ६८ ।। शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् । नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ।। ६९ ।। एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये । घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ।। ७० ।। शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया । ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ।। ७१ ।। भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् । कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ।। ७२ ।। भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् । दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ।। ७३ ।। बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा । मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ।। ७४ ।। असुरा यातुधानाश्च मातृसर्प पिशाचकाः । डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ।। ७५ ।। जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः । दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।। ७६ ।। जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः । मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ।। ७७ ।। सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः । इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् । नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ।। ७८ ।। इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ।। ७८. अष्टसप्ततितमे पटले वाजि नीराजन विधिः शान्ति नीराजनाख्यं तु संप्रवक्ष्यामि वाजिनाम् । कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ।। १ ।। नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा । द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ।। २ ।। नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके । अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ।। ३ ।। विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता । विंशद्धस्त समायामायागशालेय मीरिता ।। ४ ।। षट् संमितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् । तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ।। ५ ।। गंभीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् । हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ।। ६ ।। आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् । अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ।। ७ ।। प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् । कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ।। ८ ।। संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः । प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ।। ९ ।। ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च । ततश्चाचल देवाय सेनान्यै धनदाय च ।। १० ।। नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् । जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ।। ११ ।। नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा । स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ।। १२ ।। तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् । विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ।। १३ ।। वाहनागार मागम्य ब्रह्मचर्यसमन्वितः । बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ।। १४ ।। सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः । कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ।। १५ ।। समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् । आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ।। १६ ।। दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् । ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ।। १७ ।। सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् । तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ।। १८ ।। कालद्वये प्रधानस्य तुरगस्य विशेषतः । पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।। १९ ।। निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः । अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ।। उत्तराषाढतरस्य सन्धाने श्रवणस्य च । नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ।। २१ ।। दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ । प्रदक्षिणोदके सौम्ये विशाले द्रुमसंकटे ।। २२ ।। तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् । विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ।। २३ ।। तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् । सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ।। २४ ।। गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह । प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ।। २५ ।। माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् । वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन संज्ञिमम् ।। २६ ।। हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् । स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ।। २७ ।। सहदेवीं नागपुष्पं कपिकच्छुकमेव च । शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ।। २८ ।। कुंभेषु वाष्ट संख्येषु वस्त्रादि सहितेषु च । गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ।। २९ ।। नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् । जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ।। ३० ।। वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः । वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखं ।। ३१ ।। अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके । आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ।। ३२ ।। शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् । श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ।। ३३ ।। होमशेषं तदा पिण्डं पयोदधि समन्वितम् । कदली फल संयुक्तं दद्याद्वाजि वराय च ।। ३४ ।। यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति । केवलस्थैस्तदा तोयै श्शाखयो दुंबरो त्थया ।। ३५ ।। प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः । राजानं हस्तिनं पश्चाच्चमूं संप्रोक्ष्य त्तदा ।। ३६ ।। शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् । आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ।। ३७ ।। हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् । राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ।। ३८ ।। एवमेव गजादीनां तदा नीराजनं नयेत् । किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ।। ३९ ।। पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् । गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ।। ४० ।। वेदिका चतुरश्रा च गजभूमिरथोच्यते । शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ।। ४१ ।। पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ।। ४२ ।। इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः पटलः ।। ७९. एकोनाशीतितमे पटले राज नीराजन विधिः कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे । वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ।। १ ।। ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः । वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ।। २ ।। बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा । संपूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ।। ३ ।। तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् । विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ।। ४ ।। गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः । नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ।। ५ ।। त्रासयन्विघ्नजालं च घण्टानाद महारवैः । नीराजयेद्विशेषेण राजानं देशिकोत्तमः ।। ६ ।। तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः । सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ।। ७ ।। नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् । रूपयौवन संपन्न वेश्याभिर्वाथ कारयेत् ।। ८ ।। यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः । तेषां राजा सुखं याति सुभिक्षं जायते तथा ।। ९ ।। चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ।। ९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः पटलः ।। == अशीतितमे पटले पुष्याभिषेक विधिः == पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् । सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ।। १ ।। पुण्ये मनोरमे देशे रविहस्त प्रमाणतः । कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ।। २ ।। द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् । दर्पणोदरसंकाशं मण्डनैरुपशोभितम् ।। ३ ।। तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः । वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ।। ४ ।। चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् । पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ।। ५ ।। एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् । पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ।। ६ ।। उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः । कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ।। ७ ।। दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः । दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ।। ८ ।। आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ।। ९ ।। आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः । पूर्वं स्वपूजां संप्राप्य दत्वा शान्तिं महीपतेः ।। १० ।। एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् । शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ।। ११ ।। मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् । मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ।। १२ ।। यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः । पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ।। १३ ।। मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् । सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ।। १४ ।। तद्दक्षिणे विधातव्यं आसनं पाद संयुतम् । सोपान सहितं कुर्यादिष्टमान समन्वितम् ।। १५ ।। श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् । कुर्यात् प्रतिसरं रात्रौ सर्वालंकरा संयुतम् ।। १६ ।। प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् । चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ।। १७ ।। षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते । शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ।। १८ ।। नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः । भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ।। १९ ।। वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् । स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ।। २० ।। हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् । स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ।। २१ ।। पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः । उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ।। २२ ।। तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः । मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ।। २३ ।। हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् । श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ।। २४ ।। रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् । नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ।। २५ ।। अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः । पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ।। २६ ।। भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् । माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ।। २७ ।। पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् । द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ।। २८ ।। समन्तादेक भागेन वर्षकं स्यादिलावृतम् । एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ।। २९ ।। एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् । वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ।। ३० ।। तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् । श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ।। ३१ ।। पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् । अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ।। ३२ ।। जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः । जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ।। ३३ ।। शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः । बहिस्समुद्रा दीपाश्च सप्तसंख्याः प्रकीर्तिताः ।। ३४ ।। जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः । तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ।। ३५ ।। क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि । दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ।। ३६ ।। रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा । जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश संज्ञकः ।। ३७ ।। कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा । तस्माद् गोभेद संञश्च गोभेदात् पुष्कलं पुनः ।। ३८ ।। ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः । अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ।। ३९ ।। दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् । तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ।। ४० ।। सहस्रदश विस्तीर्णो देवानामाश्रमो मतः । हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ।। ४१ ।। ध्वजश्चण्डस्य कंलासः कदली बक एव च । वडवामुखो द्विपादः कारकः स्मृतः ।। ४२ ।। ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः । प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ।। ४३ ।। उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः । चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ।। ४४ ।। वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः । निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ।। ४५ ।। प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता । मांसेनान्नेन संपूज्य मद्यैः प्रतिसरादिभिः ।। ४६ ।। श्वेता चले दितसुता दानवाश्च समीरिताः । हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ।। ४७ ।। एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः । द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ।। ४८ ।। यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः । गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ।। ४९ ।। वामनश्च मरीचिश्च तथेक्षुप उदाहृतः । भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ।। ५० ।। दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः । मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ।। ५१ ।। देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः । वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ।। ५२ ।। स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः । चन्द्रतापन संज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ।। ५३ ।। स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः । आभिलोकः सुकेशश्च मलयो मलकस्तथा ।। ५४ ।। नयश्च नगमूर्धा च महोदर उदाहृतः । प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव संज्ञकः ।। ५५ ।। विरूपाक्षश्चरूपथो हरो राजा उदाहृतः । हिरण्य युक् शतमखश्शंबरश्शरभो मयः ।। ५६ ।। शरभयस्सूर्य संज्ञश्च चन्द्रमास्स उदाहृतः । चतुष्षष्टिश्च संज्ञानां पूजाश्चैषां च पूर्ववत् ।। ५७ ।। शृङ्गवत्यचले पूज्याः पितरसमुदाहृता । सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ।। ५८ ।। सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः । क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ।। ५९ ।। सप्तभिश्च गणैरेक विंशतिस्संख्यया मताः । अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ।। ६० ।। हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः । अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ।। ६१ ।। तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः । नीलाचले च ऋषयः संपूज्या काश्यपादयः ।। ६२ ।। काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ।। ६३ ।। पुलस्त्यः पुलहश्चैव क्रतुश्चैवांगिरा भृगुः । सनत्कुमारस्सनकः सनन्दश्च सनातनः ।। ६४ ।। दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च । द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ।। ६५ ।। कण्.वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः । शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ।। ६६ ।। च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः । यवक्रीतदेवरातौ देवराजोऽजकस्तथा ।। ६७ ।। चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः । ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ।। ६८ ।। निषधे पर्वते नाना अनन्ताद्या उदाहृतः । अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ।। ६९ ।। पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः । गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ।। ७० ।। सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् । देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ।। ७१ ।। धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ।। ७२ ।। अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ।। ७३ ।। सावित्रश्च जयन्तश्च पिनाकी चापराजितः । रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ।। ७४ ।। त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः । सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ।। ७५ ।। प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः । यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ।। ७६ ।। दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते । गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ।। ७७ ।। सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् । सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ।। ७८ ।। द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः । उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ।। ७९ ।। साधनश्चैव सन्धिश्च कुहरश्च करालकः । कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ।। ८० ।। हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः । अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ।। ८१ ।। ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः । स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ।। ८२ ।। रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश । मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ।। ८३ ।। घृतस्थला घृताची च विश्वाची पूर्वचित्तिका । प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ।। ८४ ।। रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः । दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ।। ८५ ।। अग्निभत्री च हेमा वै मेनका चोर्वशी ततः । चौर्विंशति संख्याताः सुगन्धैश्च् सुमाल्यकैः ।। ८६ ।। यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः । यक्षान्संपूज्येत्ते च महावैश्रवणस्तथा ।। ८७ ।। माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः । विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ।। ८८ ।। सर्ववर्णक बलिभिः पूज्य सूत्रादि कंददेत् । ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ।। ८९ ।। प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च । सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ।। ९० ।। एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः । दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ।। ९१ ।। नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह । ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ।। ९२ ।। सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् । संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ।। ९३ ।। दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै । आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ।। ९४ ।। बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ । एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ।। ९५ ।। पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे । धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ।। ९६ ।। उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ । भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ।। ९७ ।। वाराही वैष्णवी चैव कौमारी च ततो मताः । माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ।। ९८ ।। स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः । इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ।। ९९ ।। वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः । शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ।। १०० ।। पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि । आयता व्ययनी चैव प्रज्ञा मेना बला ततः ।। १०१ ।। एताः सुरस्त्रियः प्रोक्ता स्संख्यया च चतुर्दश । नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ।। १०२ ।। प्रतिसरं च वस्त्रं च पताका भूषणं तथा । यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ।। १०३ ।। सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः । ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ।। १०४ ।। ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् । अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ।। १०५ ।। संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश । सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ।। १०६ ।। ज्योतिष्टोमत्रयं पूर्वं अभया चापराजिता । जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ।। १०७ ।। सहा च सहदेवा च पूर्णकोशा शतावरी । अरिष्टा च शिवा भद्रा कुंभेष्वेतानि विन्यसेत् ।। १०८ ।। ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् । मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ।। १०९ ।। रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् । प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ।। ११० ।। आदावाडुहं चर्म जरया संभृतायुषः । प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ।। १११ ।। ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् । सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ।। ११२ ।। चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् । पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ।। ११३ ।। तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् । सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ।। ११४ ।। सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा । सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ।। ११५ ।। अनन्तरचितं मध्यमेवं वा परिकल्पयेत् । श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य संमतम् ।। ११६ ।। तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे । कृतस्नानं विलिप्ताङ्गं सर्वालंकार संयुक्तम् ।। ११७ ।। निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु । दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ।। ११८ ।। वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् । गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ।। ११९ ।। अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः । कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ।। १२० ।। आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् । आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ।। १२१ ।। भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् । सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ।। १२२ ।। उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः । विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ।। १२३ ।। अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः । सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।। १२४ ।। ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः । आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ।। १२५ ।। अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती । कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ।। १२६ ।। नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ।। १२७ ।। सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः । अदितिस्सुरसा चैव विनता कद्रुरेव च ।। १२८ ।। देव पत्न्यश्च याश्चोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ।। १२९ ।। वैमानिकास्सुरगणा मनवस्सागरैस्सह । सरितश्च महाभागाः किन्नराः पुरुषास्तथा ।। १३० ।। वैखानसा महाभागा द्विजा वैहायसाश्चये । सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ।। १३१ ।। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ।। १३२ ।। सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः । एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ।। १३३ ।। दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा । मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ।। १३४ ।। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः । द्वैपायनो यवक्रीतो देवरातस्सहानुजः ।। १३५ ।। एते वान्ये च बहवः पुण्यसंकीर्तनाशुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ।। १३६ ।। एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः । महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ।। १३७ ।। जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः । जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ।। १३८ ।। अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः । कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ।। १३९ ।। ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् । आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ।। १४० ।। ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् । अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ।। १४१ ।। परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् । सर्वालंकार संयुक्तं होमवेदीं प्रविश्य च ।। १४२ ।। वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च । सिंहस्य व्याघ्र संज्ञस्य चर्माण्यास्तीर्य तत्र च ।। १४३ ।। कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः । होमंकुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ।। १४४ ।। पलाश समिधो मृत्युजित्परमो मतः । होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ।। १४५ ।। यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ।। १४६ ।। तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् । नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ।। १४७ ।। ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः । प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ।। १४८ ।। दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः । ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ।। १४९ ।। सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये । सार्वभौम प्रसिद्ध्यर्थं आयुरारोग्यसिद्धये ।। १५० ।। सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु । पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ।। १५१ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः पटलः ।। == एकाशीतितमे पटले ग्रह यज्ञ विधिः == ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् । सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ।। १ ।। नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा । पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ।। २ ।। अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः । राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ।। ३ ।। प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः । तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ।। ४ ।। दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् । ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ।। ५ ।। भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ।। ६ ।। कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च । ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ।। ७ ।। सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा । दीपः प्रोक्ततस्तु नैवेद्यं शलि संभव मुच्यते ।। ८ ।। चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् । कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ।। ९ ।। होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् । अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ।। १० ।। अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् । पलाशः खदिरो वाथ स्वस्मित् कुश संभवे ।। ११ ।। क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ । स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ।।१२ ।। होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ।। १३ ।। इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ।। == द्वयशीतितमे पटले प्रतिसर विधिः == राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि । निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ।। १ ।। विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः । स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ।। २ ।। श्वेत तण्डुल संपूर्णं पुण्याह प्रोक्षणान्वितम् । यज्ञ सूत्रं च वलयं अङ्गुलीयकमेव च ।। ३ ।। कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् । प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ।। ४ ।। संपूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् । ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ।। ५ ।। वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् । बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ।। ६ ।। कौतुकं हृदयेनैव तेनैव भसितं तथा । चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ।। ७ ।। मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् । ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ।। ८ ।। दूर्वाग्रं केवलं निर्मितं राजतं तु वा । आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ।। ९ ।। पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः । सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ।। १० ।। मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः । पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ।। ११ ।। कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् । सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ।। १२ ।। सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् । पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ।। १३ ।। दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् । बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ।। १४ ।। सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः । ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ।। १५ ।। बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् । नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ।। १६ ।। समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः । देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ।। १७ ।। ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः । अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ।। १८ ।। अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् । इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः पटलः ।। == त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः == वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये । ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ।। १ ।। ग्रहणादिषुकालेषु शुभे देशे विशेषतः । हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ।। २ ।। कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् । नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ।। ३ ।। विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् । तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ।। ४ ।। चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् । दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ।। ५ ।। अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् । सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ।। ६ ।। बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये म्तः । पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ।। ७ ।। एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते । सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ।। ८ ।। उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् । अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ।। ९ ।। पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् । पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ।। १० ।। द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् । तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ।। ११ ।। अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् । षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ।। १२ ।। अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः । षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ।। १३ ।। अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् । तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ।। १४ ।। ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् । मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ।। १५ ।। जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् । उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ।। १६ ।। शङ्कुं सुषिर संपन्नं वलयेन समन्वितम् । सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ।। १७ ।। एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ । चतुष्कुण्डल संयुक्तौ हस्तप्रमाण संमितौ ।। १८ ।। प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि । यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ।। १९ ।। स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् । कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ।। २० ।। खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् । तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ।। २१ ।। एवं सर्वं समापाद्य शिल्पिमोक्षावसानके । पुण्याहं वाचयित्वा तु मण्डपे समलंकृते ।। २२ ।। मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते । मण्डलं कारयेद्धीमान् सर्वतोभद्र संज्ञंकम् ।। २३ ।। वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च । शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ।। २४ ।। मध्यमे देवदेवेशं वामे गौरी समायुतम् । संपूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ।। २५ ।। वाम् संपूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् । सूर्यं मध्येऽग्नि देशे तु भारकरंनै-ऋतेऽथवा ।। २६ ।। भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् । उषां प्रभां तथा प्रज्ञां संन्ध्यां सावित्रिमर्चयेत् ।। २७ ।। मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् । विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ।। २८ ।। प्रभूतं विमलं सारमारध्यं पूर्वदेशतः । उत्तरान्तं च संपूज्य सुखं मध्ये प्रजूजयेत् ।। २९ ।। बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् । रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ।। ३० ।। दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः । सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ।। ३१ ।। ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते । प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ।। ३२ ।। गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः । स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ।। ३३ ।। शिवाग्निं स्वस्व शास्त्रोक्तं संपाद्याग्नि मुखान्वितम् । लोकेश सहितं देवं समावाह्य समर्चयेत् ।। ३४ ।। नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् । समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ।। ३५ ।। शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः । शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ।। ३६ ।। क्षीराक्त दूर्वयाहोमं पञ्चविंशति संख्यया । मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ।। ३७ ।। बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् । मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ।। ३८ ।। पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् । सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ।। ३९ ।। महा पूजा च कर्तव्या प्रभूत हविषान्विता । पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।। ४० ।। ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् । आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ।। ४१ ।। सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् । कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ।। ४२ ।। आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् । पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ।। ४३ ।। सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् । रुद्रगायत्रि संज्ञंतु यजमानस्तदा जपेत ।। ४४ ।। घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् । पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ।। ४५ ।। आलोक्य काञ्चनंतत्स्थं कूर्च हस्तो हरंस्मरन् । वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ।। ४६ ।। जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि । स्वकायेन तदायेन तुलारोहः कृतोभवेत् ।। ४७ ।। शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् । देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ।। ४८ ।। देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः । होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ।। ४९ ।। शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु । ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ।। ५० ।। यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् । शिवार्चकस्य पूजा च प्राग्व देव समीरिता ।। ५१ ।। तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क संमिता । तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।। ५२ ।। मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् । देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ।। ५३ ।। तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् । यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ।। ५४ ।। एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ।। ५५ ।। इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः पटलः ।। == चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः == हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् । कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ।। १ ।। तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा । त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ।। २ ।। द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् । वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ।। ३ ।। तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् । एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ।। ४ ।। एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् । पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ।। ५ ।। विकारांशं तु तन्कृत्वा एकैकांश विवर्धनात् । अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ।। ६ ।। अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः । त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ।। ७ ।। पादुकोत्सेधमानं तु तदर्धं पादमेव वा । त्रिपादं वा समं वापि फलकाधनमिष्यते ।। ८ ।। पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः । मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ।। ९ ।। शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् । आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ।। १० ।। स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् । कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ।। ११ ।। तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् । नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ।। १२ ।। प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि । ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ।। १३ ।। गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् । पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ।। १४ ।। प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् । छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ।। १५ ।। तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः । कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ।। १६ ।। कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् । आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ।। १७ ।। भार्यादक्षपुटे दूर्वारससेचन माचरेत् । एकविंशति संख्यातानुदुम्बर फलान्वितान् ।। १८ ।। कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च । त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ।। १९ ।। भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् । भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ।। २० ।। हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् । अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ।। २१ ।। एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ।। २१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः पटलः ।। == पञ्चशीतितमे पटले तिलपर्वतदान विधिः == तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः । पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ।। १ ।। बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् । पञ्चगव्येन संप्रिक्ष्य मण्डलं मध्यकल्पितम् ।। २ ।। संछाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च । पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ।। ३ ।। वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः । तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ।। ४ ।। दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा । कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ।। ५ ।। दण्डमानसमं वाथ हीनं नैव समाचरेत् । वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ।। ६ ।। देशं संक्ल्पयित्वा तु पूयत्तु विशेषतः । निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ।। ७ ।। शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् । तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ।। ८ ।। अर्चयेच्च विधानज्ञो यजमानेन देशिकः । दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ।। ९ ।। अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः । अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ।। १० ।। अत्रानुक्तं तु यत् किंचिदर्चनं होममेव वा । स्नपनं देव देवस्य सहस्रकलशादिभिः ।। ११ ।। प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् । विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ।। १२ ।। दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् । अस्मात्परतरं दानं नास्तीह भुवनत्रये ।। १३ ।। अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् । सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ।। १४ ।। गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः । तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ।। १५ ।। कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् । दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ।। १६ ।। तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् । तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ।। १७ ।। अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु । अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ।। १८ ।। कृत्वा संपूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् । दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ।। १९ ।। ।। इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः पटलः ।। == षड्शीतितमे पटले सुवर्ण भूमिदान विधिः == सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः । काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ।। १ ।। एकहस्त प्रमाणेन सप्तद्वीपसमन्विता । समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ।। २ ।। मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा । अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ।। ३ ।। पूर्ववद्देवपूजां च होमं चैव विशेषतः । मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ।। ४ ।। सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् । पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ।। ५ ।। शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः पटलः ।। == सप्ताशीतितमे पटले कल्पपादपदान विधिः == कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः । पादपं शतनिष्केण सुवर्णे समाचरेत् ।। १ ।। बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् । नानाफलसमायुक्तं सर्वशोभासमन्वितम् ।। २ ।। शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् । छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ।। ३ ।। कारयेत् पल्लवानीह प्रवालैश्च विशेषतः । फलानि पद्मरागैश्च विविधानि समाचरेत् ।। ४ ।। नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् । वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ।। ५ ।। मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा । स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ।। ६ ।। इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु । वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।। ७ ।। शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा । स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ।। ८ ।। मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् । पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ।। ९ ।। लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः । ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ।। १० ।। अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः पटलः ।। == अष्टाशीतितमे पटले गणेश दान विधिः == गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् । पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ।। १ ।। तन्मध्यमे यजेद्देवं लोकपाल समावृतम् । तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ।। २ ।। सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् । तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ।। ३ ।। प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च । ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ।। ४ ।। उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः । तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ।। ५ ।। अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ।। ६ ।। इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः पटलः ।। == एकोननवतितमे पटले हेम धेनुदान विधिः == हेम धेनु प्रदानं तु वक्ष्ये संक्षेपतः क्रमात् । सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ।। १ ।। काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः । तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ।। २ ।। गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् । पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ।। ३ ।। भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके । पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ।। ४ ।। गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च । वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ।। ५ ।। वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् । सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ।। ६ ।। पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः । अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ।। ७ ।। अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् । क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ।। ८ ।। त्रिंऽसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने । अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः पटलः ।। == नवतितमे पटले लक्ष्मीदान विधिः == महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते । काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् । अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ।। २ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ।। ३ ।। श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् । विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ।। ४ ।। पूजयेच्छिव पूजां च होमं चैव विशेषतः । एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ।। ५ ।। स्नपनं देव देवस्य सहस्र कलशादिभिः । पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ।। ६ ।। इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ।। == एकनवतितमे पटले तिलधेनु दान विधिः === तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् । पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ।। १ ।। तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् । अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ।। २ ।। वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् । त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ।। ३ ।। पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् । तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र संख्यया ।। ४ ।। रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् । विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ।। ५ ।। दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् । षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ।। ६ ।। अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च । पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ।। ७ ।। प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः । तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ।। ८ ।। इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु । हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ।। ९ ।। प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। १० ।। तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च । केवलं रुद्रदानं वा सूर्यदान मथापि वा ।। ११ ।। मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् । पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ।। १२ ।। दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ।। १२१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः ।। == द्विनवतितमे पटले सहस्रगोदान विधिः == गवां सहस्र संख्यानां दानं वक्ष्यामि सिद्धये । सवत्सस्सगुणा एव संग्राह्या गुणवत्तराः ।। १ ।। अष्टौ संपूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः । शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ।। २ ।। कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः । मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।। ३ ।। पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् । स्नपनं च शिवस्याथ सहस्र कलशादिभिः ।। ४ ।। शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् । दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ।। ५ ।। दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते । गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ।। ६ ।। गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् । अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः ।। == त्रिनवतितमे पटले हिरण्याश्व दान विधिः == हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते । अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ।। १ ।। अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः । अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ।। २ ।। पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् । सर्वालंकार संयुक्तं कलाद्यैश्च समन्वितम् ।। ३ ।। मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ।। ४ ।। गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् । सुरेन्द्र बुद्ध्या संपूज्य पञ्च निष्कं प्रदाय च ।। ५ ।। दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः । मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ।। ६ ।। इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः ।। == चतुर्नवतितमे पटले कन्यादान विधिः == सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः । सर्व लक्षण संपन्नां दोष विवर्जिताम् ।। १ ।। विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् । दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ।। २ ।। उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः । संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ।। २३ ।। संभूष्य कन्यकां दद्याद्यागाय विधिनामुना । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। २४ ।। तत्र संपूज्य देवेशं कुर्यात् होमं च पूर्ववत् । नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ।। २५ ।। संपूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः । पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ।। ६ ।। ग्रहोपकरणोपेतं दासी दासमनुत्तमम् । दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ।। ७ ।। एवं यः कारयेद्दानं कन्यायास्सुखमेधते । कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ।। ८ ।। इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः ।। == पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः == हिरण्योक्ष प्रदानं तु संक्षेपेणाधुनोच्यते । काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः । वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ।। २ ।। स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् । कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ।। ३ ।। घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् । वृषाङ्गं कारयेद् विद्वान् किंकिणी मालयावृतम् ।। ४ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ।। ५ ।। गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् । पूर्ववच्छिवपूजा च होमं चैव विशेषतः ।। ६ ।। शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् । समिदाज्य चरूपेतं शान्ति होममथापि वा ।। ७ ।। चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ।। ८ ।। इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः पटलः ।। == षण्णवतितमे पटले गजदान विधिः == अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः । गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ।। १ ।। सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः । अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ।। २ ।। पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् । गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ।। ३ ।। पूर्ववच्छिव पूजा च होमयेच्च विशेषतः । शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ।। ४ ।। अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ।। ४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ।। == सप्तनवतितमे पटले लोकपालाष्टकदान विधिः == अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् । प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ।। १ ।। पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः । शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ।। २ ।। उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् । अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ।। ३ ।। एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् । दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ।। ४ ।। वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा । अत्रानुक्तं तु यत् किंचित् तुलाभारवदाचरेत् ।। ५ ।। लोकेशादनमेव स्यात् सर्वसंपत् समृद्धिदम् । परचक्रप्रमथनं गजवाजिविवर्धनम् ।। ६ ।। पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ।। इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः सप्तनवतितमः पटलः ।। == अष्टनवतितमे पटले स्दानोत्तम विधिः == सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् । मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ।। १ ।। प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् । मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ।। २ ।। गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः । ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ।। ३ ।। शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः । चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ।। ५ ।। तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् । शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ।। ६ ।। पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् । अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ।। ७ ।। इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ।। ev50j61x91tw6r7s6eal3nhmvcycc8s 418669 418668 2026-09-30T04:52:15Z ~2026-52344-15 10772 /* अष्टमे पटले कृत्तिकादीपावलिविधिः */ 418669 wikitext text/x-wiki {{header | title = कामिकागमः - उत्तरभागः | author = | translator = | section = | previous = | next = | year = | notes = }} == प्रथमः पटलः पश्चिमद्वारार्चनविधिः == पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा । मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ।। १ ।। राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् । प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ।। २ ।। सूर्यश्चेत्यादिभिर्मन्त्रैः संध्यासु तिसृषूदकम् । पीत्वा संमार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ।। ३ ।। ओं भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथांजलिम् । पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ।। ४ ।। एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये । श्रुति स्मृत्यादि संसिद्धिं अनुष्ठानन्तु यद्भवेत् ।। ५ ।। आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा । संध्यायां वन्दने वापि तर्पणे होमकर्मणि ।। ६ ।। गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् । कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ।। ७ ।। स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च । व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ।। ८ ।। समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः । त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ।। ९ ।। करन्यासं ततः कृत्वा सुषिरं देहमध्यमे । ध्यात्वा ज्वलन्तं हुंकारं प्राणान् संयम्य निश्चलम् ।। १० ।। फट्कारान्तं तु तेनैव रेचकेन समन्वितम् । पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ।। ११ ।। मूर्ति मन्त्रेण संगृह्य जीवं हुंकार मूर्धनि । कुंभकेन समोपेतं वायुमूर्ध्वगतं नयेत् ।। १२ ।। तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् । आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ।। १३ ।। निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् । व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ।। १४ ।। दहनं वाथ भूतानां परस्पर विशोधनम् । मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ।। १५ ।। शोध्यो परागरहितं कलामात्र व्यवस्थितम् । विचिन्त्य दिव्यदेहार्थ ममृताप्लावनं नयेत् ।। १६ ।। ध्यात्वा कुण्डलिनीं शक्तिं अमृतैक स्वरूपिणीम् । तदुद् भूतामृतस्त्रावैस्सिक्तां दिव्यां कलां स्मरेत् ।। १७ ।। ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् । पुनराप्लावनं कृत्वा करन्यासं समारभेत् ।। १८ ।। हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते । तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ।। १९ ।। शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् । कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ।। २० ।। करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते । मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ।। २१ ।। मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् । शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ।। २२ ।। नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् । महामुद्रां ततः कृत्वा शिवमन्त्रं अनुस्मरन् ।। २३ ।। महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शनरूपा अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली महामुद्रेय मुदिता परमीकरणे बुधैः महामुद्रेयमाख्याता न्यूनाधिकं समापनी प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ।। अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् । लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ।। २४ ।। श्रीकण्ठादि समोपेतं अक्षरन्यासमेव वा । केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ।। २५ ।। एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् । पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ।। २६ ।। आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् । हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ।। २७ ।। पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् । पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ।। २८ ।। चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् । उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुंकुमम् ।। २९ ।। चन्दनोशीर युक्तांभः पाद्यं कन्यसमुच्यते । वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ।। ३० ।। मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् । एलालवङ्ग कर्पूर मुर जातियुतं समम् ।। ३१ ।। एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् । आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ।। ३२ ।। शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् । तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ।। ३३ ।। अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते । सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ।। ३४ ।। एलालवङ्ग, कर्पूर वरालफलसंयुतम् । एतदाचमनीयं वा यजेत् यजनाङ्गके ।। ३५ ।। कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। ३६ ।। व्रीहि तण्डुलं संयुक्तं अक्षतं तत्प्रकीर्तितम् । पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ।। ३७ ।। कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः । द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत् ।। ३८ ।। हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया । तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ।। ३९ ।। द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् । मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ।। ४० ।। सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् । गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ।। ४१ ।। महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् । विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।। ४२ ।। प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् । वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ।। ४३ ।। अपनीय च तां लिंगात् चण्डेशाय निवेदयेत् । पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ।। ४४ ।। लिङ्गशुद्धि रियंख्याता शुद्धयः पञ्च चोदिताः । संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ।। ४५ ।। विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् । यजनं देवदेवस्य सर्व कामार्थ साधनम् ।। ४६ ।। विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते । गणेशं च गुरुं शक्तिमनन्तं धर्मसंमुखान् ।। ४७ ।। अधर्मप्रमुखानन्ते छदने पद्मकर्णिके । वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ।। ४८ ।। शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् । पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ।। ४९ ।। अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् । धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ।। ५० ।। सिंहासन मिदं प्रोक्तं, योगं मायाब्जमुच्यते । पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ।। ५१ ।। स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् । संकल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ।। ५२ ।। तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् । लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ।। ५३ ।। अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् । विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ।। ५४ ।। स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् । स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ।। ५५ ।। शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् । प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ।। ५६ ।। पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् । संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ।। ५७ ।। गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् । नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ।। ५८ ।। लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते । तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ।। ५९ ।। अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् । आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ।। ६० ।। भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् । तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ।। ६१ ।। नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् । आरात्रिकं ततो दद्यात् धूपदानावसानके ।। ६२ ।। भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः । भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ।। ६३ ।। दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् । रात्रौ नीराजनं कुर्यात् दीपदानावसानके ।। ६४ ।। महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् । आमन्त्रण हविः काले बलिं वा होममाचरेत् ।। ६५ ।। उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् । स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ।। ६६ ।। वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् । तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ।। ६७ ।। ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा । संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ।। ६८ ।। यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् । नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ।। ६९ ।। विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् । नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ।। ७० ।। रूपयौवनसंपन्ना योषितः कर्तृवांच्छया । मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ।। ७१ ।। तासां संख्या भवेद् ग्रामविन्यास जन संख्यया । उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ।। ७२ ।। वादकानष्ट संख्यातान् कल्पयेत् कल्पवित्तमः । तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ।। ७३ ।। विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् । साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिंगतः ।। ७४ ।। लिंगं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् । नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ।। ७५ ।। उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् । केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ।। ७६ ।। मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् । नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ।। ७७ ।। शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये । तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ।। ७८ ।। प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः । बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ।। ७९ ।। तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् । बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ।। ८० ।। एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके । कौबेरास्ये च लिंगे च सकले मिश्र लिंगके ।। ८१ ।। विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः । प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ।। ८२ ।। द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् । वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ।। ८३ ।। देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता । ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ।। ८४ ।। पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् । दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ।। ८५ ।। उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ।। ८६ ।। हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् । शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ।। ८७ ।। कवचं वायुदिग्भागे आग्नेययां वा प्रकल्पयेत् । पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ।। ८८ ।। पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् । गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ।। ८९ ।। लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः । देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ।। ९० ।। परिवारार्चनं पूर्वदेशादारभ्य कारयेत् । वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ।। ९१ ।। नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा । चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ।। ९२ ।। ९२१/२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु । इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम पटलः करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः । क्रन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुह्याय नमः ओं हं सद्योजात मूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे नमः ओं हूं शिखायै नमः ओं हैं कवचाय नमः ओं हः अस्त्राय नमः ओं हां कवचाय नमः ओं हां शिवाय वौषट् अङ्गन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुहचाय नमः ओं हं सद्योजातमूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे स्वाहा ओं हूं शिखायै वषट् ओं हैं कवचाय हुं ओं हः अस्त्राय फट् ओं हः अस्त्राय हुंफट् ओं हः अस्त्राय फट् ओं हां शिवाय वौषट् पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् । अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ।। सुप्रभेदागमेः उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् । चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ।। एलालवंग कर्पूर जम्बू जाती फलं मुरम् । षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ।। आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः । अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ।। बभमयरलसंज्ञैः अक्षरैः कॢप्तपत्रे । सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ।। अभयवरदहस्तं गण्डिकां चाक्षमाला । करयुगलमभयं चिन्तयेद्विश्वयोनिम् ।। वशषसदलयुक्ते सौम्यमाधारपद्मे तरुणमरुणगानं वारणास्यं गणेशम् । अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ।। डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिं । मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम् हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभं । श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ।। काद्यैष्ठान्तगतैः प्रकल्पितदले पंकेरुह पार्वती कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम् शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम् मूर्त्यंगेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम् मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत् हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया । तत्तद्योगतया स्वदेशिकतनुं भावेन दीपांकुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ।। महामुद्रा तावत् कराभ्यां संमुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शन रूपा अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली । महामुद्रेय मुदिता परमीकरणे बुधैः । महामुद्रेय माख्याता न्यूनाधिकं समापनी । प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि == द्वितीय पटले दक्षिणद्वारार्चन विधिः == वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता । लिंगे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ।। १ ।। प्रतिमा दक्षिणास्या चेदुत्तमोत्तम संज्ञका । मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ।। २ ।। प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः । नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ।। ३ ।। श्रेष्ठं पश्चान्मुखं लिंगं दक्षास्यं बेरमुच्यते । अव्यक्तं मोक्षदं लिंगं व्यक्तं भूतिप्रदायकम् ।। ४ ।। भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् । शौचमाचमनं स्नानं सन्ध्योपासन मेव च ।। ५ ।। कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् । द्वार मस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ।। ६ ।। गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् । यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ।। ७ ।। संप्रविश्यान्तरे वास्तु पतिं संपूज्य फूजकः । पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ।। ८ ।। लिंगार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे । अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ।। ९ ।। अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् । सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ।। १० ।। पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रपूजयेत् । ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ।। ११ ।। पितृवायवग्नि ईशेषु हृदयादि व्यवस्थितम् । अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ।। १२ ।। गणेशःपूर्व देशे वा प्राग्वद्वा संप्रकीर्तिताः । पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ।। १३ ।। उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् । प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ।। १४ ।। लिंगार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् । तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ।। १५ ।। लोहजे शैलजे वापि मृज्जे धतुज रत्नजे । चित्रहीने शिलाबिंबे मूललिंग वदाचरेत् ।। १६ ।। रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् । अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ।। १७ ।। वस्त्र संमार्जनं पुण्यदिवसे स्नपनं मतम् । कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ।। १८ ।। अथवा बाणलिंगे वा दर्पणादौ समर्चयेत् । आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ।। १९ ।। गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके । वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ।। २० ।। संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत् ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ।। २१ ।। अथापरं समानं स्यात् शिवलिंगार्चनेन तु । कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ।। २२ ।। प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् । हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ।। २३ ।। मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् । मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ।। २४ ।। न्यास मार्गेण संस्थाप्य सन्निधान निरोधने । विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ।। २५ ।। सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः । एलालवङ्ग कर्पूर वराल फल कल्पितम् ।। २६ ।। दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये । क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ।। २७ ।। कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। २८ ।। व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् । पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ।। २९ ।। संमिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे । पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ।। ३० ।। सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते । एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ।। ३१ ।। त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।। ३२ ।। तांबुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे । बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ।। ३३ ।। सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि संख्यार्ध नाड्योऽथवास्युः ।। ३४ ।। उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ।। ३५ ।। अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् । कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ।। ३६ ।। पवित्रारोहणं मासार्चन मङ्कुर वापनम् । नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ।। ३७ ।। समालोच्य विधेयं स्यात् सकले निष्कले शिवे । अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ।। ३८ ।। सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः । अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ।। ३९ ।। किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् । तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ।। ४० ।। तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ।। ४०१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः द्वितीयः पटलः सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि संख्यार्ध नोड्योऽथ-वास्युः ।। उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ।। अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ।। पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् षड्गुण - १. सर्वज्ञत्वम् २. परितृप्तत्वम् ३. अनादि बोधृत्वम् ४. स्वतन्त्रत्वम् ५. अलुप्तशक्तित्वम् ६. अनन्तशवक्तिस्वम् == तृतीय पटले सकलार्चनाविधिः == वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् । शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ।। १ ।। कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च । सम्यगाचभ्य संगृह्य भसितं वारिणा सह ।। २ ।। त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च । तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ।। ३ ।। भूतशुद्धिं सुधाप्लावं आत्मावाहनमेव च । करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ।। ४ ।। स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् । पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ।। ५ ।। अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् । अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ।। ६ ।। विशेषार्घ्यञ्च संकल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१/२ । ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् । कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ७१/२ ।। द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् । द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीं ।। ८१/२ ।। नन्दिनञ्च महाकालं गंगाह्वां यमुनामपि । संपूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ।। ९९/२ ।। दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ । शिवस्येशानमन्त्रेण मालाद्यमपनीय च ।। १०१/२ ।। शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा । आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ।। १११/२ ।। अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकं । वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ।। १२१/२ ।। तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् । सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ।। १३१/२ ।। शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते । या तस्य विमलाशक्तिश्शिवस्य समवायिनी ।। १४१/२ ।। तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् । हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ।। २०१/२ ।। कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते । सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ।। २११/२ ।। रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता । अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ।। २२१/२ ।। एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते । एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ।। २३१/२ ।। तत्रेशानेन वक्त्रेण ममुना सकलेन च । मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ।। २४१/२ ।। ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् । षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ।। २५१/२ ।। सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत् । बेरे सदाशिवेवापि लिंगेप्येवं समाचरेत् ।। २६१/२ ।। महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् । प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ।। २७१/२ ।। कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् । तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ।। २८१/२ ।। महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा । विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ।। २९१/२ ।। आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः । तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ।। ३०१/२ ।। स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे । गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ।। ३११/२ ।। ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् । पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ।। ३२१/२ ।। इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः । परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ।। ३३१/२ ।। होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् । शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ।। ३४१/२ ।। द्वारपालार्चनोपेतं बलिहोमसमन्वितम् । शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ।। ३५१/२ ।। प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् । उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ।। ३६१/२ ।। पवित्रारोहणं संम्यक् कृत्तिकादीपमेव च । संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ।। ३७१/२ ।। मासोत्सवं तथा मासेनवनैवेद्यकर्म च । प्रायश्चित्तञ्च जीर्णानां उद्धारञ्च गुरूत्तमाः ।। ३८१/२ ।। देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् । किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसंगमे ।। ३९१/२ ।। पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः । गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ।। ४०१/२ ।। मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् । गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ।। ४११/२ ।। आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ।। ४२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः तृतीयः पटलः इन्दु निभ पञ्च मुख हस्त दश युक्तं । शूल वर टङ्क मसि वज्र मभयं स्यात् ।। पाश वरदाङ्कुश मणिर्दहन वामे । श्वेत कमलासन सदाशिव स्वरूपम् ।। == चतुर्थे पटले स्नपनविधिः == अथातस्संप्रवाक्ष्यामि स्नपनं परमेष्ठिनः । अष्टम्यां वा चतुर्दश्यां विषुवायनसंक्रमे ।। १ ।। ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः । सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ।। २ ।। कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा । राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ।। ३ ।। भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने । प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ।। ४ ।। नित्ये नैमित्तिके काम्ये कारयेच्छंकरस्य च । स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ।। ५ ।। अंकुरार्पणमादौ स्यात् महास्नपन कर्मणि । प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ।। ६ ।। अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ।। ६१/२ ।। पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा । चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ।। ७१/२ ।। सर्वालंकारसंयुक्ततोरणैरन्वितेपि वा । नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ।। ८१/२ ।। अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् । सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ।। ९१/२ ।। द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १०१/२ ।। अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा । तदा द्वितालमानेन कर्णिकामानमीरितम् ।। १११/२ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।। १२१/२ ।। पञ्चविंशतिसंख्यान्तं तत्समन्तात्समावृतम् । एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३१/२ ।। आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् । पञ्चविंशतिसंख्यातान् कलशान् मध्यमस्थितम् ।। १४१/२ ।। परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् । अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ।। १५१/२ ।। मध्यमे तिथिसंख्यास्युः नवकोणे व्यवस्थिताः । मध्यमे तिथिसंख्येतु मध्यमत्रितयं त्यजेत् ।। १६१/२ ।। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् । चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ।। १७१/२ ।। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् । मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ।। १८१/२ ।। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् । अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।। १९१/२ ।। शिवव्यूहस्य परितः षोडशैव परित्यजेत् । सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ।। २०१/२ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः । मार्गबाह्ये तु कोणेस्यादेकविंशति संख्यकः ।। २११/२ ।। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते । सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ।। २२१/२ ।। सार्धहस्तान्तरं हस्तमानान्तरमथापि वा । स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च ।। २३१/२ ।। तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा । स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ।। २४१/२ ।। त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् । हीनहीनतरं प्रस्थमानमित्यभिधीयते ।। २५१/२ ।। शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् । अधश्चेधभिचारार्थं भवेदेव न संशयः ।। २६१/२ ।। आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि । मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ।। २७१/२ ।। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् । तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ।। २८१/२ ।। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् । हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ।। २९१/२ ।। शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् । शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ।। ३०१/२ ।। चतुस्त्रिद्वयेकसंख्यातप्रस्थमानप्रपूरितम् । कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ।। ३११/२ ।। अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् । वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ।। ३२१/२ ।। षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् । कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ।। ३३१/२ ।। मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् । मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ।। ३४१/२ ।। निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके । तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ।। ३५१/२ ।। तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च । माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ।। ३६१/२ ।। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् । कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ।। ३७१/२ ।। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा । द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ।। ३८१/२ ।। मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् । भूतिक्षुसार कदलीतिलसर्षपपानसाः ।। ३९१/२ ।। भसितंतिलसारञ्च कदलीतिलसर्षपान् । नालिकेरञ्च नारंङ्गद्वयंस्यान्मातुलंगकम् ।। ४०१/२ ।। डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके । पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ।। ४११/२ ।। तिलबिल्वे तदन्ते तु मातुलंगफलम्मतम् । नारंगद्वितयन्तस्माद्यवनीवारलाजकम् ।। ४२१/२ ।। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते । कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवंगकम् ।। ४३१/२ ।। तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् । सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ।। ४४१/२ ।। एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः । पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ।। ४५१/२ ।। एवं कृते भवन्त्यत्र कलशानान्तु षोडश । चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ।। ४६१/२ ।। अन्तरालेषु मध्यादि वसु संख्यकमीरितम् । ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ।। ४७१/२ ।। गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् । पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ।। ४८१/२ ।। शमीदूर्वा च शुक्लार्कबिल्वचम्पकशंखिनी । अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसंज्ञकम् ।। ४९१/२ ।। नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके । अथवान्यप्रकारेण तदेव पुनरुच्यते ।। ५०१/२ ।। पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै । क्षीरंदधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ।। ५११/२ ।। तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी । नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ।। ५२१/२ ।। पुन्नागशंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा । सिम्हधुर्तूरसंज्ञे च षोडशास्त्रविनिर्दिशेत् ।। ५३१/२ ।। सदुर्वासर्षपाम्राणि नारंगपनसेमते । कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ।। ५४१/२ ।। इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् । नीवारकुंकुमतिलमाञ्जीमुरजसत्तुकम् ।। ५५१/२ ।। मातुलंगं मलयजमलयजमगरूशीर रात्रिजम् । पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ।। ५६१/२ ।। विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि । अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया ।। ५७१/२ ।। अष्टौ गणेश्वरा बाह्ये चांगुष्ठप्रमुखास्तथा । क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा ।। ५८१/२ ।। एकोनेन तु पञ्चाशत् स्नपने देवतामताः । कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ।। ५९१/२ ।। द्वात्रिंशत्पदसंख्यास्यात् पाद्यदींस्तत्र विन्यसेत् । दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ।। ६०१/२ ।। अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ।। ६१ ।। अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते । चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ।। ६२ ।। कर्पूरं हरिबेरञ्च दान्तं मांसीमुरंतृणम् । तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ।। ६३ ।। चम्पकं सहदेवी च शतपत्री च रोचना । बिल्वं यवा शमी दूर्वा तक्कोलं मेघसम्ज्ञकम् ।। ६४ ।। धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् । रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ।। ६५ ।। धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः । प्लेक्षेभपिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ।। ६६ ।। अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् । तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ।। ६७ ।। बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् । श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ।। ६८ ।। सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् । दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ।। ६९ ।। गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका । वटशृंगेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ।। ७० ।। शंखिनी भृंगराजश्च नीवारं गैरिकं तथा । आम्रमोचरसं जातिः पाटली मार्जनं पुनः ।। ७१ ।। पञ्चमावरणं ह्येतदन्यथा च निगद्यते । शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ।। ७२ ।। अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च । नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ।। ७३ ।। पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ।। ७३१/२ ।। शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः । तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ।। ७४१/२ ।। गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः । महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ।। ७५१/२ ।। इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी । व्याघ्रनख्या च मंजिष्ठं सरलं भद्रकोष्ठकम् ।। ७६१/२ ।। नवनीतं द्राविडाह्वं सज्जं तक्कोलसंज्ञकम् । चञ्चलातिबलाचैव बलासिंहाप्रियंगुकम् ।। ७७१/२ ।। लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् । अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ।। ७८१/२ ।। सतिलं कुंकुमं मेघमगरुं कृष्णरोचना । श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ।। ७९१/२ ।। कृष्णागरुं चतगरं ततः प्रोक्तंमनश्शिलाम् । रक्तचन्दनसंज्ञञ्च लवंगं रात्रिचूर्णकम् ।। ८०१/२ ।। कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना । चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ।। ८११/२ ।। आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः । दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ।। ८२१/२ ।। अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ । पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ।। ८३१/२ ।। दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् । तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसंज्ञकम् ।। ८४१/२ ।। चम्पकं हरिबेरञ्च सर्षपन्नागकेसरं । तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ।। ८५१/२ ।। लवंगपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् । तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ।। ८६१/२ ।। भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च । धात्री च नालिकेरञ्च लिकुचं मातुलंगकम् ।। ८७१/२ ।। तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् । लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ।। ८८१/२ ।। रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् । गुञ्जादि निष्कपर्यन्तं पाद्याद्यंगं प्रमाणकम् ।। ८९१/२ ।। एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् । मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ।। ९०१/२ ।। आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् । कर्पूरकुंकुमादीनां मानमिष्टं प्रदीयताम् ।। ९११/२ ।। मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः । एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ।। ९२१/२ ।। नवसंख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः । अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ।। ९३१/२ ।। अष्टोत्तरसहस्राख्यं अधुनात्र निगद्यते । वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ।। ९४१/२ ।। एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमंत्रितम् । तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ।। ९५१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। ९६१/२ ।। क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा । सर्षपं नालिकेराख्यं रजनी मातुलंगकम् ।। ९७१/२ ।। लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् । पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ।। ९८१/२ ।। रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् । पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ।। ९९१/२ ।। मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् । दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ।। १००१/२ ।। कषायाढयोदकोपेतमुत्तरे पुनरुच्यते । कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ।। १०११/२ ।। माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् । पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ।। १०२१/२ ।। पञ्चरत्नमिति ज्ञेयं आद्या भावे द्वितीयकम् । रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ।। १०३१/२ ।। सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ।। १०४१/२ ।। सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला । गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ।। १०५१/२ ।। शालिकोद्रवनीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ।। १०६१/२ ।। नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ।। १०७१/२ ।। कुंकुमं हरिबेरञ्च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ।। १०८१/२ ।। पर्वते च नदीतीरे वल्मीके कर्कटावटे । वृषशृंगे च सत्क्षेत्रे समुद्रे गजदन्तके ।। १०९१/ २ ।। अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् । गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ।। ११०१/२ ।। शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते । दूर्वांकुरञ्च कुशाग्रं गौरसर्षपम् ।। ११११/२ ।। भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते । तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ।। ११२१/२ ।। अपामार्गसमायुक्तं पत्रतोयमिहेरितम् । पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ।। ११३१/२ ।। पुन्नागकुरवनारंगनन्द्यावर्तं च मल्लिका । श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ।। ११४१/२ ।। कुष्ठं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ।। ११५१/२ ।। शूलं कपालहरिणी पिनाकः परशुस्तथा । पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ।। ११६१/२ ।। पनसो नालिकेरश्च मातुलंगद्वयं ततः । नारंगद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ।। ११७१/२ ।। पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली । जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ।। ११८१/२ ।। अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः । गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ।। ११९१/२ ।। सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् । निकुन्तः पञ्चभिर्युक्तंकान्तोदकमिति स्मृतम् ।। १२०१/२ ।। उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। १२११/२ ।। गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ।। १२२१/२ ।। मयूरशिखिभूर्जत्वग्रोचनाभृंगराजकम् । कृतांजलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ।। १२३१/२ ।। अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् । चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ।। १२४१/२ ।। लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः । विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ।। १२५१/२ ।। रक्तोत्पलं शमीपश्चात् पद्मं सुरस संज्ञकम् । नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ।। १२६१/२ ।। यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका । जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ।। १२७१/२ ।। द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् । वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ।। १२८१/२ ।। तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् । माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ।। १२९१/२ ।। कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा । पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ।। १३०१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। १३११/२ ।। द्वितीयावरणे स्वर्णं पदे षोडशसंख्यके । चतुर्विंशति संख्याते नालिकेरफलं बहिः ।। १३२१/२ ।। द्वात्रिंशत्संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके । षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ।। १३३१/२ ।। चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् । द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ।। १३४१/२ ।। अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् । नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ।। १३५१/२ ।। दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् । चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ।। १३६१/२ ।। अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते । धातु लोहोदकं पश्चात् शतेषोडशसंयुते ।। १३७१/२ ।। शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् । सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ।। १३८१/२ ।। पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे । घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ।। १३९१/२ ।। वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् । प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ।। १४०१/२ ।। उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः । उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ।। १४११/२ ।। अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते । विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ।। १४२१/२ ।। स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः । पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ।। १४३१/२ ।। कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् । स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ।। १४४१/२ ।। अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः । तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ।। १४५१/२ ।। अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः । स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ।। १४६१/२ ।। तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः । अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ।। १४७१/२ ।। अष्टसंख्या समायुक्तो द्विशते मध्यमेष्टकम् । तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ।। १४८१/२ ।। बाह्ये षोडशसंख्यातान् गृहणीयाद्दिग्विदिग्गतम् । अष्टव्यूहन्तथात्वेतु उक्त संख्यान्वितं भवेत् ।। १४९१/२ ।। द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते । रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ।। १५०१/२ ।। दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् । लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ।। १५११/२ ।। निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् । तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ।। १५२१/२ ।। किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् । गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ।। १५३१/२ ।। फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः । तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ।। १५४१/२ ।। पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् । क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ।। १५५१/२ ।। फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ।। १५७ ।। घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् । अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ।। १५७ ।। ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् । तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ।। १५८ ।। शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते । मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ।। १५९ ।। वज्रं समस्तरत्नानां लोहानामग्निदैवतम् । यवो निखिल बीजानां धातूनां हरितालकम् ।। १६० ।। ओषधीनामभावे तु सहदेवी प्रशस्यते । फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ।। १६१ ।। नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते । चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ।। १६२ ।। त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् । सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ।। १६३ ।। फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ।। १६४ ।। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ।। १६५ ।। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः । गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ।। १६६ ।। दीपेन सहितो मन्त्री लिंगमुद्रां प्रदर्शयेत् । कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ।। १६७ ।। सहस्रकलशे पञ्चशतहोमं समाचरेत् । कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ।। १६८ ।। कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना । समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ।। १६९ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् । शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ।। १७० ।। अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् । पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ।। १७१ ।। चतुर्होमविधाने तु प्रधानेवाथ पूर्वके । शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ।। १७२ ।। मूलाद्दशांशतोंगानान्तथा ब्रह्म सुलोचने । कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ।। १७३ ।। प्रविश्य गर्भगेहे तु लिंगं संशोद्धय पूर्ववत् । संकल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ।। १७४ ।। ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ।। १७४१/२ ।। पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् । दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ।। १७५१/२ ।। नृत्तगेयसमायुक्तं शंखध्वनिसमन्वितम् । वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ।। १७६१/२ ।। जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् । उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ।। १७७१/२ ।। दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् । गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ।। १७८१/२ ।। अपनीय पिधानं तत् दक्षहस्तेन देशिकः । सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ।। १७९१/२ ।। संगृह्य तत्वचित्तस्तु लिंगमूर्ध्नि मनुं न्यसेत् । देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ।। १८०१/२ ।। शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् । पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ।। १८११/२ ।। दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु । ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ।। १८२१/२ ।। आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् । पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।। १८३१/२ ।। उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् । अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ।। १८४१/२ ।। नानाफलानि गव्यानि पञ्चामृतयुतानि च । विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ।। १८५१/२ ।। विरुक्ष्य गन्धतोयेन स्नापयेल्लिंगमादरात् । अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ।। १८६१/२ ।। सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् । आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ।। १८७१/२ ।। ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ।। १८८ ।। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् । स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ।। १८९ ।। गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च । प्रदर्श्य लिंगमुद्रान्तु कवचेनावकुण्ठयेत् ।। १९० ।। इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च । वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ।। १९१ ।। पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् । गत्वा सकलसामीप्यमासनं मूर्तिमेव च ।। १९२ ।। संकल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् । स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ।। १९३ ।। गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् । प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ।। १९४ ।। तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् । स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ।। १९५ ।। देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् । पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ।। १९६ ।। पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् । चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ।। १९७ ।। देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् । द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ।। १९८ ।। शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने । धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ।। १९९ ।। अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसंज्ञकाः । पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ।। २०० ।। ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिंगान्तास्समीरिताः । अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ।। २०१ ।। पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०२ ।। चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०३ ।। गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः । गंगादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ।। २०४ ।। स्नापयेत् परमेशानं सर्वदोषापनुत्तये । सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ।। २०५ ।। सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः । सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ।। २०६ ।। राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये । राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ।। २०७ ।। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये । तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ।। २०८ ।। युद्धोद्यते स्वसेनाया बलायामृति हेतवे । भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ।। २०९ ।। नरनारी गवादीनां रोगनाशार्थमेव । जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ।। २१० ।। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके । अयने विषुपे वापि ग्रहणस्थापनादिके ।। २११ ।। उत्सवे च पवित्रे च दमनारोपणेऽपिच । कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ।। २१२ ।। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः । मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ।। २१३ ।। प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि । जनकल्याणकाले च नराणां रक्षणार्थके ।। २१४ ।। विशेष पूजाकाले च भक्तानामुत्सवेपि च । देवभ्रमणकाले वा मृगयायां विशेषतः ।। २१५ ।। कुर्यात्प्रतिदिनं वापि त्रिसंध्यायां गुरूत्तमाः । सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ।। २१६ ।। प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते । कुम्भेनैकेन वा व्योमसंख्येन कलशेन वा ।। २१७ ।। प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा । पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ।। २१८ ।। एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा । इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ।। २१९ ।। एकद्रव्यंचतुर्दिक्षु भिन्नद्रव्यमथापि वा । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ।। २२० ।। नवकुम्भविधानेऽपि विधानं सदृशं मतम् । एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ।। २२१ ।। स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितं । प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ।। २२२ ।। पञ्चविंशतिसंख्यातमपि नित्ये प्रशंस्थितम् । उत्तमोत्तमपूजायामष्टोत्तरशतावधि ।। २२३ ।। स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् । नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ।। २२४ ।। पञ्चविंशतिसंख्यादि साष्टसाहस्रकावधौ । अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ।। २२५ ।। हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा । स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ।। २२६ ।। श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् । कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ।। २२७ ।। हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः । नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ।। २२८ ।। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया । काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ।। २२९ ।। कर्तव्यं वा न कर्तव्यमितिसन्देहसंगतौ । करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ।। २३० ।। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः । ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ।। २३१ ।। क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् । क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ।। २३२ ।। तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः । प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ।। २३३ ।। तद्विधानानुपन्ने तत्राप्येषो विधीयते । प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ।। २३४ ।। वर्तमाने तु शास्त्रार्थे तदंगं सृक्स्रुवादिकम् । स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ।। २३५ ।। एकमादिकमालोच्य कारयेद्यो नृपोत्तमः । सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ।। २३६ ।। तस्याप्यायुषमारोग्यम्मनस्संकल्पितञ्चयत् । सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ।। २३७ ।। विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स राजा क्षयमाप्नोति नात्रकार्या विचारणा ।। २३८ ।। तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञानपारगेण क्रियावता ।। २३९ ।। क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये । गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ।। २४० ।। तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः । विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ।। २४१ ।। पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् । संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ।। २४२ ।। गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् । चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ।। २४३ ।। गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् । कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ।। २४४ ।। पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा । नानोपदंशसंयुक्तं नानाफलसमन्वितम् ।। २४५ ।। दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् । एलालवंकेकर्पूरजातीतक्कोलचूर्णयुक् ।। २४६ ।। मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् । प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ।। २४७ ।। समिधाज्येन चरुणा तिलेनापि समन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ।। २४८ ।। तस्मात् भस्मसमादाय यजमानाय दापयेत् । संप्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ।। २४९ ।। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् । द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ।। २५० ।। षट्सप्तगुणसंख्यातं कर्मसिद्ध्यर्थमेव वा । पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ।। २५१ ।। नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः । नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ।। २५२ ।। समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् । सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ।। २५३ ।। नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः । सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ।। २५४ ।। तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् । धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ।। २५५ ।। विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् । नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ।। २५६ ।। एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च । सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ।। २५७ ।। नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् । लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ।। २५८ ।। नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः । अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ।। २५९ ।। ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् । ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ।। २६० ।। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे । विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ।। २६१ ।। कन्यायां मिधुने धनुष्यन्ते समाचरेत् । सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ।। २६२ ।। अर्धमेकं द्वयं वापि यामं वा घटिकामपि । आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ।। २६३ ।। आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ।। २६४ ।। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् । यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ।। २६५ ।। स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् । तोरणं स्रुक्स्रुवावष्टमंगलन्नवरत्नकम् ।। २६६ ।। तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च । वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ।। २६७ ।। आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने । निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ।। २६८ ।। निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् । नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ।। २६९ ।। नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ।। २६९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः स्नपनविधि पटलः पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा । चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ।। सूत्रन्यास मधोरेण तालमात्रान्तरं यथा कषायोदकं चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः । आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ।। मार्जनोदकं दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते । रत्नोदकम् माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् । पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ।। मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ।। पञ्चरत्नमिति ज्ञेयं आद्यभावे द्वितीयकम् ।। लोहोदकम् सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम् । आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ।। धातूदकम् सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला । गौरिकं रोचना चान्ते धातूदकमितं मतम् ।। बीजोदकम् शालिकोद्रव नीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ।। १०६ ।। गन्धोदकम् नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ।। १०७ ।। कुंकुमं हरिबेरं च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ।। १०८ ।। मृदोदकम् पर्वते च नदीतीरं वल्मीके कर्कटावटे । वृषशृंगे च सुक्षेत्रे समुद्रे गजदन्तके ।। अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम् ।। १०९ ।। मार्जनोदकम् गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली । शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ।। ११० ।। परिमाणोदकम् दूर्वांकुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् । भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ।। पत्रोदकम् तुलसी बिल्वपत्रं तमालश्च तपस्विनी । अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ।। पुष्पोदकम् पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः । पुन्नाग कुरव नारंग नद्यावर्तं च मल्लिका ।। श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ।। कुष्टं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ।। अस्त्रोदकम् शूलं कपाल हरिणी पिनाकः परशुस्तथा । पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ।। फलोदकम् पनसो नालिकेरश्च मातुलुंग द्वयं ततः । नारङ्गद्वयरंभाद्यैः उक्तमस्मिन् फलोदकम् कषायोदकम् पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली । जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम् आङ्योदकम् अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः । गन्धत्रय समायुक्तं आडयतोय मिति स्मृतम् ।। कान्तोदकम् सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् । निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ।। मूलोदकम् उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। वल्कलोदकम् मयूर शिखि भूर्जत्व ग्रोचना भ्रंगराजकम् । कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ।। त्वगोदकम् लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः । विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ।। चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२ विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। ४९ । १०९ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८ द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १० ।। अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् ।। ११ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११/२ । विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् शिवव्यूहस्य परितः षोडशैव परित्यजेत् सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः १४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम् १६ मध्यमे तिथिसंख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम् सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम् सार्धहस्तान्तरं हस्तमानान्तरमथापिवा स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा १० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। ११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् १११/२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्] विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः । १४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम् १६ मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम् अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः । एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।। मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् । स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् ।। अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् । शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।। सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ।। सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् । सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ।। स्याच्चतुर्दश संख्याता वीथि बाह्ये क्रमेण च । तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।। == पञ्चमे पटले नित्योत्सवविधिः == नित्योत्सवविधिं वक्ष्ये नित्यपूजांगमुत्तमम् । शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ।। १ ।। प्रासादमण्टपादौ वा गोमयेनोपलेपिते । प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ।। २ ।। सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा । तिथ्यंगुलं समारभ्य व्योमांगुलविवृद्धितः ।। ३ ।। द्वात्रिंशदंगुलान्तं तु पात्रमानमुदीरितम् । वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ।। ४ ।। तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते । एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ।। ५ ।। शेषेण दलमाख्यातं विकाराष्टदलम्मतम् । अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ।। ६ ।। तद्वदोष्टसमोपेतं केवलं पात्रमेव वा । कुडुपद्वयमारभ्य कुडुपादाढकावधि ।। ७ ।। तण्डुलं कल्पयेदन्नलिंगार्थं वाऽक्षतार्थकम् । मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ।। ८ ।। तेनान्नलिंगं कर्तव्यं भूतमात्रप्रमाणतः । एकांगुलं तु दैर्घ्यंस्याद्यावदष्टादशांगुलम् ।। ९ ।। अंगुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् । अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ।। १० ।। नैमित्तिकार्थन्नित्यार्थमन्नलिंगमुदाहृतम् । त्रिकालमन्नलिंगं वा प्रातर्मध्याह्नयोस्तु वा ।। ११ ।। मध्याह्ने वाथ पूर्वाह्ने पुष्पलिंगमुदाहृतम् । प्रदोषेऽक्षतलिंगंस्यात्तत्रपाशुपतं यजेत् ।। १२ ।। चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि । त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ।। १३ ।। सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ।। १३१/२ ।। विद्युन्मालानिभश्वेतः जटामकुटमण्डितः । दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ।। १४१/२ ।। वरदाभयपाणिर्वा सर्वलक्षणसंयुतः । हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ।। १५१/२ ।। योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते । शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ।। १६१/२ ।। रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् । त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ।। १७१/२ ।। एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् । दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ।। १८१/२ ।। त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् । दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ।। १९१/२ ।। पुष्पाक्षतान्नलिंगेषु पूजनीयस्स्वमन्त्रतः । अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ।। २०१/२ ।। सपीठे गोलकाकारे विपीठे वा तमर्चयेत् । अन्नलिंग प्रमाणे तु मूलाग्रसमविस्तरे ।। २११/२ ।। हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते । स्थलिकामानदण्डेन सहितं वा समर्चयेत् ।। २२१/२ ।। इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु । पादुके त्र्यंगुले तस्मादंगुलांगुलवर्धनात् ।। २३१/२ ।। तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् । दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ।। २४१/२ ।। अष्टांशावधिको मध्यमानेन नवमानकः । तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ।। २५१/२ ।। समन्ताल्लोकपाः पूज्याः पूजादाववसानके । नवान्नलिंगसंयुक्तमथ नित्योत्सवं नयेत् ।। २६१/२ ।। सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् । द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ।। २७१/२ ।। मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः । रंगे वा शिबिकायां वा परिचारकमूर्धसु ।। २८१/२ ।। आरोप्यलंकृतान्देवान्वितानेन समन्वितम् । छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ।। २९१/२ ।। गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् । धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ।। ३०१/२ ।। आद्यं प्रदक्षिणं कुर्यात् मंगिणी तालसंयुतम् । वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृंगिणी ।। ३११/२ ।। मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी । षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ।। ३२१/२ ।। तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् । ग्रामे वा नगरे वापि तथा प्राकार एव वा ।। ३३१/२ ।। द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् । एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ।। ३४१/२ ।। अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् । गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ।। ३५१/२ ।। पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् । गोपुरे वाद्यहीनं वा शंखध्वनिसमन्वितम् ।। ३६१/२ ।। इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् । बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ।। ३७१/२ ।। दक्षिणे भृंगिणी तालं कौशिकेन समन्वितम् । मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ।। ३८१/२ ।। पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् । वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ।। ३९१/२ ।। सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः । शाला पाणिसमायुक्तं शांकरे ढक्करी मता ।। ४०१/२ ।। एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् । पक्षालितांघ्रयस्सर्वे प्रविशेयुश्शिवालयम् ।। ४११/२ ।। अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु । पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।। ४२१/२ ।। लिंगाद्देवं समाहृत्य लिंगे दक्षे निवेशयेत् । शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ।। ४३१/२ ।। अन्येषामपि देवानां देवीनां मूलबिम्बवत् । रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ।। ४४१/२ ।। संपाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् । तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।। ४५१/२ ।। पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः == षष्ठे पटले महोत्सवविधिः == उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम् । ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ।। १ ।। ध्वजांकुरो ध्वजंगस्यात् ध्वजात् पूर्वन्तु तन्नयेत् । तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ।। २ ।। द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् । मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ।। ३ ।। राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा । माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ।। ४ ।। विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् । भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ।। ५ ।। त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके । अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ।। ६ ।। पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ।। ७ ।। तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि । भागं कृत्वैकभागेन पटविस्तार उच्यते ।। ८ ।। विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते । विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ।। ९ ।। वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ।। १० ।। श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् । रक्तशृंगसमायुक्तं तद्वत् खुरसमन्वितम् ।। ११ ।। ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् । विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ।। १२ ।। जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् । सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ।। १३ ।। मानं मात्रांगुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः । पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ।। १४ ।। चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् । पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ।। १५ ।। एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् । अस्त्र तोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ।। १६ ।। मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते । स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ।। १७ ।। ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् । सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ।। १८ ।। कलशैरष्टसंख्यातैस्सापिधानैस्सवस्त्रकैः । सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ।। १९ ।। आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् । वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ।। २० ।। प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि । वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ।। २१ ।। ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् । संकल्पितहृदादींश्च क्रमेण विनिवेशयेत् ।। २२ ।। तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् । आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ।। २३ ।। कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् । मध्यकुम्भेऽपि संपूज्य लोकपान् परितो यजेत् ।। २४ ।। वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ।। कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते । निरीक्षणादि संस्कारैश्शिवाग्निं संप्रकल्पयेत् ।। २५ ।। तन्मध्ये वृषमावाह्य सांगं सन्तर्पयेत्तदा । सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ।। २६ ।। तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् । पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् । पटस्थाय घटस्थाय वृषायासन रूपिणे ।। २८ ।। प्रातस्संपूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् । मुखवासनताम्बूलं वृषभाय निवेदयेत् ।। २९ ।। पुनः पूर्णाहुतिन्दत्वा सर्वमंगलसंयुतम् । सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ।। ३० ।। रंगे वा शिबिकायां वा समारोप्य वृषध्वजम् । त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ।। ३१ ।। ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति । दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ।। ३२ ।। ध्वजारोहणदिने वापि अधिवासदिनेपि वा । धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ।। ३३ ।। षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ।। ३३१/२ ।। एकादितलपर्यन्तं गोपुरान्तमथापि वा ।। ३४ ।। रुद्रद्विगुणमध्यस्थकरसंख्यामितन्तु वा । मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ।। ३५ ।। सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ।। ३५१/२ ।। पलाशखदिराश्वत्थवटचन्दन दारवः ।। ३६ ।। सालम्माधूकतालं वा साराम्रकमथापि वा ।। वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ।। ३७ ।। चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् । स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ।। ३८ ।। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते । द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ।। ३९ ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्य चांगुलात्षोडशांगुलम् ।। ४० ।। यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ।। ४१ ।। एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ।। ४२ ।। उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् । स्कन्धं द्वयं तन्मानद्वादशांगुलमानतः ।। ४३ ।। षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् । सप्तांगुलं समारभ्य गायत्र्यर्णांगुलावधि ।। ४४ ।। स्कन्धविस्तार उद्दिष्टो मूलांग्रे तु त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ।। ४५ ।। चतुस्त्रिद्वयंगुलं वापि मानमेषां प्रकीर्तितम् ।। ४५१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४६ ।। मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ।। ४६१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४७ ।। दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा । बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ।। ४८ ।। षडंगुलं समारभ्य षडंगुल विवृद्धितः । दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ।। ४९ ।। तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् । भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ।। ५० ।। कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् । दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ।। ५१ ।। पञ्चविंशतिमात्रादि त्रित्र्यंगुलविवर्धनात् । द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ।। ५२ ।। एकांगुलं समारभ्य पादमात्रविवृद्धितः । त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ।। ५३ ।। वलयाकाश एषो वा वलयस्याद्यथा बलम् । रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यंगुलनाहयुक् ।। ५४ ।। ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् । तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ।। ५५ ।। एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च । संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ।। ५६ ।। शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् । अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्वादिकन्यसेत् ।। ५७ ।। साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु । स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ।। ५८ ।। रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः । गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ।। ५९ ।। रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् । कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ।। ६० ।। हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ।। ६०१/२ ।। अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः । तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ।। ६११/२ ।। देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा । तथैव गोपुरस्यापि महापीठान्तिकेपि वा ।। ६२१/२ ।। अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः । नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ।। ६३१/२ ।। प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्संख्ययामताः । अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ।। ६४१/२ ।। दण्डाधिपास्समाख्याता पटेषु वृष एव हि । दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ।। ६५१/२ ।। हस्तमात्रं समारभ्य त्र्यंगुलादि विवृद्धितः । द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ।। ६६१/२ ।। समोत्तुंगा त्रिपादा वा अष्टांशात् सप्तपञ्च वा । चतुस्त्र्यंशार्धतुंगं वा वेदिका परिकीर्तिता ।। ६७१/२ ।। त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः । द्वित्र्यंगुलक्षयाद्वापि मेखला मानमीरितम् ।। ६८१/२ ।। मेखला रहिते पीठे मूलेस्यादुपवेदिका । द्वयंगुलात् पादवृद्धया तु षडंगुलसमाविधि ।। ६९१/२ ।। पादार्धार्धत्र्यंघ्रिसमा उत्सेधाः परिकीर्तिताः । वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरंगुलमानतः ।। ७०१/२ ।। व्योमांगुलविवृद्ध्याष्टादशांगुल समावधि । पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ।। ७११/२ ।। एकैकांगुल वेशात्तु रुद्रमात्रसमाविधि । पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ।। ७२१/२ ।। कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः । गुणांगुलावधिः कार्यः तदुत्सेधनमुच्यते ।। ७३१/२ ।। चतुरष्टदलं पद्मं विकारदलमेव वा । वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ।। ७४१/२ ।। तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् । एवं संपाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ।। ७५१/२ ।। पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् । दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ।। ७६१/२ ।। त्रिशूलेन समायुक्तं मंगलांकुरशोभितम् । धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ।। ७७१/२ ।। आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् । कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ।। ७८१/२ ।। दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् । दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ।। ७९१/२ ।। त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ।। ८० ।। बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः । क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ।। ८१ ।। कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः । वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ।। ८२ ।। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः । आदौ स्पृष्ट्वा स्वयञ्चान्यंप्रेरयेद्रोहणायवा ।। ८३ ।। अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः । पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ।। ८४ ।। आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् । क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ।। ८५ ।। तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् । वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ।। ८६ ।। आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः । दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ।। ८७ ।। शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् । वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ।। ८८ ।। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च । तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ।। ८९ ।। गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् । पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ।। ९० ।। सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् । चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ।। ९१ ।। अतः प्रभृतितीर्थान्तमवरोहावसानकम् । एककालंद्विकालं वा त्रिकालं पूजयेद्वृषम् ।। ९२ ।। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ९३ ।। नोपसर्गभयन्तत्र न परागमविभ्रमः । विपरीता न मतयो रोगिणामपिभूयसा ।। ९४ ।। स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः । शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ।। ९५ ।। कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् । प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ।। ९६ ।। भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि । स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ।। ९७ ।। षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः । एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ।। ९८ ।। पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् । पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ।। ९९ ।। मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके । वामे विष्णुं समावाह्य पालिकायां तु पार्वती ।। १०० ।। सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः । दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ।। १०१ ।। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके । मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ।। १०२ ।। कात्यायनी तु कौबेर्यां शूलमूले मता इमे । रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ।। १०३ ।। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् । भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ।। १०४ ।। ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् । वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ।। १०५ ।। सप्तकीलेषु मातृश्च नवकीले नवग्रहान् । रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ।। १०६ ।। प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः । गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ।। १०७ ।। भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् । एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ।। १०८ ।। तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः । सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ।। १०९ ।। वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् । तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ।। ११० ।। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा । भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ।। १११ ।। गन्धारादि स्वरोपेतं समतालादि तालकम् । गीतनृत्तसमायुक्तमन्नलिंगसमायुतम् ।। ११२ ।। प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा । संग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ।। ११३ ।। धूपदीपसमायुक्तं घण्टारवसमन्वितम् । प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ।। ११४ ।। इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः । बलिदानावसाने तु तालस्वरसमायुतम् ।। ११५ ।। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च । ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ।। ११६ ।। समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः । भृंगिणी कौशिकन्नट्ट भाषया मल्लतालकम् ।। ११७ ।। श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् । कोटिकन्तर्करागेण शालापाण्यातु डक्करी ।। ११८ ।। पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा । ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ।। ११९ ।। भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् । देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ।। १२० ।। न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् । तदग्रे वृषकुंभंस्यात् वृषविद्येश्वरान्वितम् ।। १२१ ।। तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् । क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।। १२२ ।। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा । प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ।। १२३ ।। त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना । भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम् ।। १२४ ।। अन्नलिंगसमायुक्तं सर्वातोद्यसमन्वितम् । ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ।। १२५ ।। बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च । ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ।। १२६ ।। रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् । ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ।। १२७ ।। देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् । ततोंकुरार्पणं रात्रौ यागारम्भदिने मतम् ।। १२८ ।। तदर्थमंकुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा । ग्रामप्रदक्षिणन्तीर्थांकुरस्यावश्यकम्मतम् ।। १२९ ।। अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा । अंकुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ।। १३० ।। संग्राह्य वापयेत् रात्रौ बीजान्यंकुरसिद्धये । तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ।। १३१ ।। अन्यत्सर्वं समुद्दिष्टमंकुरार्पण पूर्वके । तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ।। १३२ ।। केत्वंकुरो नवाहे स्यात् स्प्ताहे चोत्सवांकुरम् ।। १३२१/२ ।। एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् । यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ।। १३३१/२ ।। वामेऽवामे तथा पञ्चशालानामिष्टदेशके । मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ।। १३४१/२ ।। एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः । पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ।। १३५१/२ ।। समानपंक्तयोवास्युर्मात्रादेकांशवर्धनात् । नवांगुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ।। १३६१/२ ।। एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी । एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ।। १३७१/२ ।। शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् । एकाग्निसहितां वापि वितानध्वजसंयुताम् ।। १३८१/२ ।। दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् । नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ।। १३९१/२ ।। मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः । एकांगुलविवृद्धयाष्टाविंशत्यंगुलकावधि ।। १४०१/२ ।। वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः । अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ।। १४११/२ ।। मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् । युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ।। १४२१/२ ।। मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् । एवं सर्वञ्च संपाद्य शिल्पिमोचनमाचरेत् ।। १४३१/२ ।। पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् । भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ।। १४४१/२ ।। स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् । द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ।। १४५१/२ ।। तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् । तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ।। १४६१/२ ।। विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् । तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ।। १४७१/२ ।। पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसंख्यया । तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।। १४८१/२ ।। अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् । सर्वे ससूत्रवस्त्राढ्याहेमपंकजभूषिताः ।। १४९१/२ ।। सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः । स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ।। १५०१/२ ।। शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् । लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ।। १५११/२ ।। आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे । तोरणद्वारकुम्भांश्च लोकपालघटानपि ।। १५२१/२ ।। हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् । मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ।। १५३१/२ ।। एवं संपाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् । सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ।। १५४१/२ ।। सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः । स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ।। १५५१/२ ।। तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् । अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ।। १५६१/२ ।। सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् । ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ।। १५७१/२ ।। क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् । शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ।। १५८१/२ ।। नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः । षडंगमूर्तिपांगञ्चेत् पुत्रायुष्यफलप्रदम् ।। १५९१/२ ।। एकद्वित्र्यंगुलाधिक्यं योग्यनाहप्रमाणतः । संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ।। १६०१/२ ।। भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् । प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ।। १६११/२ ।। पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः । द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ।। १६२१/२ ।। तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् । अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ।। १६३१/२ ।। अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् । ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ।। १६४१/२ ।। पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु । स्थण्डिले पूजयेच्छक्तिं यंत्रिकायां त्रितत्वकम् ।। १६५१/२ ।। प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता । भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ।। १६६१/२ ।। अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् । पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ।। १६७१/२ ।। सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् । ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ।। १६८१/२ ।। कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः । अंगुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ।। १६९१/२ ।। आलभेत् भस्म संयुक्तं सूत्रन्दक्षांगुलद्वयात् । मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ।। १७०१/२ ।। देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् । सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ।। १७११/२ ।। जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा । ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ।। १७२१/२ ।। दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा । स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ।। १७३१/२ ।। देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः । उमा महेश्वरे वामे सुखासीने महेश्वरः ।। १७४१/२ ।। अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च । एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ।। १७५१/२ ।। कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् । यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ।। १७६१/२ ।। अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा । कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ।। १७७१/२ ।। रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः । त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ।। १७८१/२ ।। दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते । यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ।। १७९१/२ ।। तीर्थार्थमंकुरं कुर्यादनयोः पूर्वकालतः । देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ।। १८०१/२ ।। द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च । ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ।। १८११/२ ।। पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा । वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ।। १८२१/२ ।। कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् । पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ।। १८३१/२ ।। विद्यादेहञ्च संकल्प्य प्रणवं विन्यसेत् शिवम् । हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ।। १८४१/२ ।। एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् । विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ।। १८५१/२ ।। तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत् । तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ।। १८६१/२ ।। अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयं । तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ।। १८७१/२ ।। एवं क्रमेण संपूज्य यायात्कुण्डान्तिकं गुरुः । संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ।। १८८१/२ ।। नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् । न्यस्त्वाऽवाह्य शिवं सांगं सब्रह्मांगञ्च तर्पयेत् ।। १८९१/२ ।। चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै । स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ।। १९०१/२ ।। वेणुबिल्वयवा वापि सक्तुक्षीरं यवंगुलम् । तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ।। १९११/२ ।। ब्रह्मशालियवैर्वापि माषशालियवैस्सह । तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ।। १९२१/२ ।। चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः । समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ।। १९३१/२ ।। शतमष्टोत्तरं होमं शिवेनांगैर्दशांशतः । प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ।। १९४१/२ ।। द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे । तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ।। १९५१/२ ।। होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् । तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ।। १९६१/२ ।। नित्योत्सवविधानेन कृत्वा लिंगंहविर्मयम् । तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ।। १९७१/२ ।। दशायुधसमोपेतं धूपदीपसमन्वितम् । घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ।। १९८१/२ ।। नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् । प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ।। १९९१/२ ।। देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु । लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ।। २००१/२ ।। पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् । ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ।। २०११/२ ।। कृसरान्नं घृतोपेतं कदलीफलसंयुतम् । तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ।। २०२१/२ ।। रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् । चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ।। २०३१/२ ।। घृतं प्रियंगुसंयुक्तं इन्द्रवल्ली समन्वितम् । पञ्चमेहनि दातव्यं इन्द्रप्रियकरं भवेत् ।। २०४१/२ ।। वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् । षष्ठेहनि प्रदातव्यं ऋषीणां प्रीतिसिद्धये ।। २०५१/२ ।। गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् । सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ।। २०६१/२ ।। माषोदनं घृतोपेतं अजमांससमन्वितम् । अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ।। २०७१/२ ।। शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् । नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २०८१/२ ।। अथवान्यप्रकारेण देवताद्रव्यमुच्यते । शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ।। २०९१/२ ।। फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् । फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ।। २१०१/२ ।। भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ।। २११ ।। पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् । कदलीफलसंयुक्तं ऋषिभ्यो बलिमाचरेत् ।। २१२ ।। इन्द्रवल्ली हरिद्रा च प्रियंगुघृतसंयुतम् । चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ।। २१३ ।। पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् । पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ।। २१४ ।। गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् । षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ।। २१५ ।। कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् । सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २१६ ।। वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् । अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ।। २१७ ।। शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् । नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ।। २१८ ।। नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः । कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ।। २१९ ।। मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् । प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ।। २२० ।। रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् । घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ।। २२१ ।। द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् । पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ।। २२२ ।। तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् । कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ।। २२३ ।। चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् । इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ।। २२४ ।। पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् । गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ।। २२५ ।। षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् । कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ।। २२६ ।। सप्तमेहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् । क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ।। २२७ ।। अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् । दधिकान्नं गुलोपेतम्मातुलंगफलन्तथा ।। २२८ ।। नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् । गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ।। २२९ ।। दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् । रक्तान्नं मांससंयुक्तं अपूपं तिलचूर्णयुक् ।। २३० ।। एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् । शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।। २३१ ।। द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् । सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ।। २३२ ।। पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः । दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ।। २३३ ।। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् । दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ।। २३४ ।। दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः । वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ।। २३५ ।। बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् । ध्वजादि बलिपीठान्तं अथवा बलिरीरितः ।। २३६ ।। ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा । तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ।। २३७ ।। दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा । लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ।। २३८ ।। दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः । दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ।। २३९ ।। कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा । सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ।। २४० ।। बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते । प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ।। २४१ ।। डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् । सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ।। २४२ ।। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् । अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ।। २४३ ।। बेराण्यनेकरूपाणि तदन्ते कथितानि च । तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ।। २४४ ।। अन्नलिंगसमायुक्तं त्रिशूलेन समायुतम् । दशायुधसमायुक्तं गोलकालिंगसंयुतम् ।। २४५ ।। रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् । रथे वा शिबिकायां वा सर्वालंकारसंयुतम् ।। २४६ ।। एतैस्सर्वैविहीनोग्रे बल्यंगैश्च समन्वितः । तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरंगकम् ।। २४७ ।। तदन्ते देवदेवेशरथस्सर्वांगसुन्दरः । रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ।। २४८ ।। घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः । नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ।। २४९ ।। मदन्तिक गतेनैव शैवाचार्येण शोभितः । मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ।। २५० ।। परिचारक संज्ञेन मत्भक्तेनाप्रमादिना । पद्मकुड्मलसन्नद्धपाश संबन्धहस्तया ।। २५१ ।। पुरुषाकारधारिण्या शोभितो रुद्रकन्यया । मद्दास्यावाथ सर्वांगसुन्दर्यास्स्यन्दनस्य च ।। २५२ ।। तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः । तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ।। २५३ ।। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु । शिवभक्ताश्च ये ख्यातास्तेषां रंगान्यनेकधा ।। २५४ ।। तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः । एषामिष्टन्तु यत्ग्राह्यं बल्यंगं कौतुकं विना ।। २५५ ।। नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् । वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ।। २५६ ।। गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् । मंगुलांकुरसद्वीपवर्धनीकुम्भवारियुक् ।। २५७ ।। कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् । दर्भमाला समायुक्तं मुक्तादामविभूषितम् ।। २५८ ।। उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति । विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ।। २५९ ।। गृहालंकार उद्दिष्टो गृहहीनस्थलेपि च । नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ।। २६० ।। नानागानसमोपेतं नानानृत्तसमन्वितम् । नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ।। २६१ ।। तालवृन्तसमोपेतं धूपदीपसमन्वितम् । प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ।। २६२ ।। रथादौ शिबिकादौ वा परिचारकमूर्धसु । यानकाले तु ताम्बूलं देयं नानाफलानि च ।। २६३ ।। भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् । योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ।। २६४ ।। दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् । वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ।। २६५ ।। शंखध्वनिसमायुक्तं पाद्याचमनसंयुतम् । प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ।। २६६ ।। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु । आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ।। २६७ ।। प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे । दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ।। २६८ ।। कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये । चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ।। २६९ ।। आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः । शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ।। २७० ।। पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते । विधाय स्नपनं वाथ पञ्चखारिसमन्विते ।। २७१ ।। चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः । पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ।। २७२ ।। मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् । स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ।। २७३ ।। प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् । रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ।। २७४ ।। रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये । यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ।। २७५ ।। विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः । पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ।। २७६ ।। यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् । ततो धाम निवेशश्च देव्या सह निवेशनम् ।। २७७ ।। काले षोडशसंख्याते यामार्धपरिनिष्ठिते । कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ।। २७८ ।। स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः । पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ।। २७९ ।। तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् । स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ।। २८० ।। यानकाले बलेः काले पूर्वकालेऽथवामतः । परिवारोक्तमार्गेण बलिपीठे समाचरेत् ।। २८१ ।। मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् । यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ।। २८२ ।। तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् । उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ।। २८३ ।। रात्रौ नीराजनं कार्यं धूपदीपावसानके । प्रभूतन्तु हविर्दद्याद्यानकालावसानके ।। २८४ ।। एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते । ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ।। २८५ ।। नीत्वा देवं समाराध्य विनोदालोकनन्ततः । प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ।। २८६ ।। प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् । भविष्यद्वृष्टिशंकायान्धकारे महत्यपि ।। २८७ ।। शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे । यागारम्भदिने वाथ तीर्थदानदिनेपि च ।। २८८ ।। सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते । ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ।। २८९ ।। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च । बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ।। २९० ।। तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् । तैलाभ्यंगञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ।। २९१ ।। ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् । अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ।। २९२ ।। देवाग्रे स्थापयेत्तैलं स्थण्डिलेयंत्रिकोपरि । अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत् ।। २९३ ।। कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ।। २९३१/२ ।। शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः । सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ।। २९४१/२ ।। ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् । तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ।। २९५१/२ ।। तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् । नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ।। २९६१/२ ।। कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये । सर्वाभरणयुक्ताय पूजिताय विशेषतः ।। २९७१/२ ।। तस्मादन्यत्र कूटेवा रंगे वाऽस्थानमण्टपे । सर्वालंकारसंयुक्तं कृत्वा धामप्रदक्षिणम् ।। २९८१/२ ।। तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च । विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ।। २९९१/२ ।। प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः । नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ।। ३००१/२ ।। धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।। ३०१ ।। स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः । संप्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ।। ३०२ ।। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् । समिदाज्येन चरुणा तिललाजगुलैस्तु वा ।। ३०३ ।। मूलेन शतहोमस्स्यादस्त्रहोममतो न वा । पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ।। ३०४ ।। प्रायश्चित्तंत्वघोरेण कृत्वा पूर्णासमन्वितम् । सद्योजातेन संस्पृश्य गन्धंमूलेन दापयेत् ।। ३०५ ।। सवत्सांगां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् । तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ।। ३०६ ।। जलदानसमोपेतं यात्रादानमिदंमतम् । अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ।। ३०७ ।। ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् । शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ।। ३०८ ।। योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् । तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ।। ३०९ ।। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च । प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ।। ३१० ।। उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः । आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ।। ३११ ।। यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् । सर्वागमज्ञं शान्तञ्च शिवलिंगार्चनारतम् ।। ३१२ ।। नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् । ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ।। ३१३ ।। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा । तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ।। ३१४ ।। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि । तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ।। ३१५ ।। देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि । तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ।। ३१६ ।। तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः । यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ।। ३१७ ।। पूर्वान्ते भवेल्लिंगप्रतिष्ठादौ च सम्मतम् । अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ।। ३१८ ।। सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते । सर्वालंकारसंयुक्तं मुखेणसमन्वितम् ।। ३१९ ।। शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् । पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ।। ३२० ।। कृत्वा यानक्रमं प्रोक्तं सर्वमंगल संयुतम् । राजवेषधरैः पुंभिर्नानानृत्तसमन्वितैः ।। ३२१ ।। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः । अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ।। ३२२ ।। वर्जयेद्वाथ मुखं राजवेषधरान्वितम् । प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ।। ३२३ ।। कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् । तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ।। ३२४ ।। रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् । पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ।। ३२५ ।। कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् । अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ।। ३२६ ।। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः । युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ।। ३२७ ।। अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् । विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ।। ३२८ ।। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना । तीर्थार्थं साधयेद्रात्रौ कलशान्नवसंख्यया ।। ३२९ ।। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् । सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ।। ३३० ।। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा । प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ।। ३३१ ।। तीर्थस्थानञ्च संप्राप्य शुद्धिं कृत्वा महीतले । स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ।। ३३२ ।। पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् । पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ।। ३३३ ।। त्रिशूले सर्वतीर्थञ्च सर्वंदुर्गासमन्वितम् । मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ।। ३३४ ।। तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च । तीर्थसंग्रहणं कुर्यात् गंगाद्यावाहनेन च ।। ३३५ ।। हे देवि गंगे यमुने नर्मदे च सरस्वति । सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ।। ३३६ ।। सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् । खेरस्तमनं यावत् तीर्थानां पापशुद्धये ।। ३३७ ।। तीर्थसंग्रहणं तन्मध्ये प्राक्शिरान्वितम् । त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ।। ३३८ ।। जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् । तीर्थसंग्रहणं कृत्वा तीर्थं देवालयेपि वा ।। ३३९ ।। अवगाहनहीनन्तु नयेद्दूरजलाशये । सर्वालंकारसंयुक्तं प्रविशेदालयं प्रति ।। ३४० ।। होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना । चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ।। ३४१ ।। स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ । त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ।। ३४२ ।। तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये । वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ।। ३४३ ।। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् । संक्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ।। ३४४ ।। मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् । दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ।। ३४५ ।। सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् । तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ।। ३४६ ।। सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् । मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ।। ३४७ ।। शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा । दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ।। ३४८ ।। राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः । पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ।। ३४९ ।। मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ । नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ।। ३५० ।। दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च । दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ।। ३५१ ।। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे । तदादौ स्नानकालादौ कर्तव्यम्मंगलार्थकम् ।। ३५२ ।। तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् । दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ।। ३५३ ।। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् । नानाविधेषु पात्रेषु लिंगार्थकं प्रतिमार्थकम् ।। ३५४ ।। उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः । परिवारार्थमेकञ्च भागं संकल्पयेत् क्रमात् ।। ३५५ ।। अवशिष्टजनार्थञ्च संग्रहेत् कलशादिषु । केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ।। ३५६ ।। संप्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ।। ३५६१/२ ।। अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् । रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ।। ३५७१/२ ।। चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च । कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ।। ३५८१/२ ।। महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले । नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ।। ३५९१/२ ।। किं तु बेरसमोपेतं प्रपादि परिमण्डिते । कलशस्थापनोपेतं देवताह्वानसंयुतम् ।। ३६०१/२ ।। विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः । तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ।। ३६११/२ ।। तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत् । विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ।। ३६२१/२ ।। महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् । त्रिशूलसहितं वापि नानादेवालयागतैः ।। ३६३१/२ ।। त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् । अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ।। ३६४१/२ ।। महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् । अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ।। ३६५१/२ ।। पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् । हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ।। ३६६१/२ ।। तच्च (मोटि) समायुक्तं उत्तमोत्तममिष्यते । तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ।। ३६७१/२ ।। तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते । पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ।। ३६८१/२ ।। समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् । नक्षत्रमधिकं त्वह्निसंग्राह्यं तिथिरेव वा ।। ३६९१/२ ।। वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे । तीर्थर्क्षद्वयसंप्राप्तावेकमासे परं वरम् ।। ३७०१/२ ।। तत्रापि योगयुक्तञ्चेत् पूर्वं संग्राह्यमेव वा । यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ।। ३७११/२ ।। तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् । लिंगे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ।। ३७२१/२ ।। मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके । नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ।। ३७३१/२ ।। जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः । द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ।। ३७४१/२ ।। वियोगे तीरदेशे तु बेरस्नपनमेव वा । कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ।। ३७५१/२ ।। नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा । आरामादौ च देवेशं तोषयेत् सर्वमंगलैः ।। ३७६१/२ ।। ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् । सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ।। ३७७१/२ ।। पूर्णाहुतिं ततो हुत्वा सर्वमंगलसंयुतम् । धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ।। ३७८१/२ ।। ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् । गर्भगेहे सुसंस्थाप्य लिंगे पीठेह्यनुक्रमात् ।। ३७९१/२ ।। देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् । तत्तत् तोयैश्च संप्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ।। ३८०१/२ ।। ततस्संपूजयेद्देवं यथाविभवविस्तरम् । ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ।। ३८११/२ ।। तृतीये पञ्चमे वापि सप्तमे नवमेव वा । एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ।। ३८२१/२ ।। कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ।। ३८३ ।। मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः । ध्वजादि तीर्थपर्यन्तं दिनसंख्यास्थिता यदि ।। ३८४ ।। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् । ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ।। ३८५ ।। लिंगे बेरे शूले ध्वजे स्नपनमाचरेत् । अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ।। ३८६ ।। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः । कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ।। ३८७ ।। नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् । चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ।। ३८८ ।। ततो ग्रामबलिं दद्यात् अन्नलिंगसमन्वितम् । त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ।। ३८९ ।। भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् । श्रीखण्ट शंखसंयुक्तं बलिकाले तु घोषणम् ।। ३९० ।। कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः । ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ।। ३९१ ।। अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे । ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ।। ३९२ ।। आचार्यं पूजयेत्कर्ता वस्त्रहेमांगुलीयकैः । अंकुरार्पणकाले च ध्वजारोहणकालके ।। ३९३ ।। यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः । अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ।। ३९४ ।। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके । दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ।। ३९५ ।। अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ।। ३९६ ।। तदर्धसंख्यया प्रोक्ता दक्षिणाकन्यसक्रमे । श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ।। ३९७ ।। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता । भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ।। ३९८ ।। उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः । संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ।। ३९९ ।। बलि होमादिसंयुक्तो बेरयात्रादि संयुतः । वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ।। ४०० ।। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् । मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ।। ४०१ ।। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् । अंकुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ।। ४०२ ।। एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् । स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ।। ४०३ ।। तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः । अस्त्रं भेरीञ्च संपूज्य भेरीं सन्ताडयेत् क्रमात् ।। ४०४ ।। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् । धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।। ४०५ ।। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे । विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ।। ४०६ ।। समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ । पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।। ४०७ ।। हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् । उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ।। ४०८ ।। फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् । वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ।। ४०९ ।। द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा । स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमंगलैः ।। ४१० ।। संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा । कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ।। ४११ ।। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् । ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ।। ४१२ ।। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् । कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ।। ४१३ ।। आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः । ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ।। ४१४ ।। प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् । सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ।। ४१५ ।। चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् । आलये बलियाने च स्यातां तीर्थं विहाय वा ।। ४१६ ।। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके । तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ।। ४१७ ।। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते । बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ।। ४१८ ।। देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ।। ४१८१/२ ।। कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् । कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ।। ४१९१/२ ।। चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः । अयने विषुवे राहु दर्शनेदमनोत्सवे ।। ४२०१/२ ।। पवित्रेमासपूजायां कृत्तिकादीपरोहणे । संवत्सरादिलेखायान्नवतोयागतावपि ।। ४२११/२ ।। पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि । अन्यस्मिन् मंगले कार्ये कुर्यादेकोत्सवं बुधः ।। ४२२१/२ ।। एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये । वारपूजादि कर्तव्या रविवारादितः क्रमात् ।। ४२३१/२ ।। पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनांगकैः । पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ।। ४२४१/२ ।। स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा । गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ।। ४२५१/२ ।। अर्कवारादि वारेषु पत्राण्येतानि योजयेत् । माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ।। ४२६१/२ ।। प्रवालं गुजवारे तु बुधे मरकतं भवेत् । सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ।। ४२७१/२ ।। इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च । सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ।। ४२८१/२ ।। तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ।। ४२९ ।। तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् । वारपूजावसाने तु वारोत्सवमथाचरेत् ।। ४३० ।। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये । ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ।। ४३१ ।। जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च । तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ।। ४३२ ।। तत्तद्वारविभेदेन गन्धादिग्रहणेन वा । संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ।। ४३३ ।। वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते । पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ।। ४३४ ।। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके । ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ।। ४३५ ।। भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् । ब्राह्मणादि त्रयाणां वा शूद्रे वांकुरपूर्वकम् ।। ४३६ ।। नगरे ध्वजपूर्वं वा मंगले भेरिपूर्वकम् । पत्तनेंकुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ।। ४३७ ।। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे । पुरादौ संकरोनोक्तः उत्सवानां द्विजोत्तमाः ।। ४३८ ।। सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः । ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ।। ४३९ ।। ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः । उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ।। ४४० ।। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः । श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ।। ४४१ ।। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः । आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ।। ४४२ ।। ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा । गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ।। ४४३ ।। पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे । एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ।। ४४४ ।। ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा । ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ।। ४४५ ।। अथवा ध्वजमूले तु देवानां बलिरेव वा । नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ।। ४४६ ।। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् । प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ।। ४४७ ।। चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः । आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ।। ४४८ ।। उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा । केत्वंकुरन्नवाहे स्यात् सप्ताहेचोत्सवांकुरम् ।। ४४९ ।। तीर्थांकुरन्तु तत्संख्ये सर्वं सर्वत्र वामतम् । मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ।। ४५० ।। निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते । कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ।। ४५१ ।। मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः । सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ।। ४५२ ।। सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते । सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ।। ४५३ ।। उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् । विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ।। ४५४ ।। अथवान्यप्रकारेण उत्सवन्तु विधीयते । ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ।। ४५५ ।। तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे । श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ।। ४५६ ।। चण्डालेन सदारेण कुर्यात् घोषयुतेन च । तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ।। ४५७ ।। बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् । आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ।। ४५८ ।। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् । स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ।। ४५९ ।। एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् । नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ।। ४६० ।। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके । यागारम्भं पुनः कुर्यादंकुरार्पणपूर्वकम् ।। ४६१ ।। एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् । बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ।। ४६२ ।। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः । विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ।। ४६३ ।। अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् । तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ।। ४६४ ।। ध्वजानष्टौ समारोप्यांकितान् लोकेशवाहनैः । तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ।। ४६५ ।। ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः । तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ।। ४६६ ।। एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् । ध्वजानामष्टसंख्यानां तद्रात्राववरोहणम् ।। ४६७ ।। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् । नानागानसमायुक्तं नानानृत्तसमन्वितम् ।। ४६८ ।। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् । सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ।। ४६९ ।। स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः । एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।। ४७० ।। नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् । प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ।। ४७१ ।। स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् । चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ।। ४७२ ।। बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् । चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ।। ४७३ ।। तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् । ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ।। ४७४ ।। बेरयात्रा विहीनं वा विधिमेनां समाचरेत् । नवान्नलिंगं कृत्वा वा दिक्पालास्त्रार्थमेव वा ।। ४७५ ।। तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् । नित्योत्सवान्नलिंगानि दश वा परिकल्पयेत् ।। ४७६ ।। द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा । जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ।। ४७७ ।। इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ।। तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि । भागं कृत्वैक भागेन पट विस्तार उच्यते ।। विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते । विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ।। वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् । श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् । रक्तशृंग समायुक्तं तद्वत्खुर समन्वितम् ।। मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः । पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ।। चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् । पूर्णकुंभयुतं वापि त्रिशूलेन युतं न वा ।। एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ।। सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः । द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ।। यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ।। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ।। उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ।। == सप्तमे पटले निराजनविधिः == नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते । प्रदोषादौ विधेयो वा धूपदीपावसानके ।। १ ।। उत्सवादौ च कर्तव्यमन्यस्मिन् मंगलेपि च । तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ।। २ ।। गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके । महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ।। ३ ।। पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च । पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ।। ४ ।। दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः । पादांगुलविवृद्ध्यातु नवांगुलसमाविधि ।। ५ ।। विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते । वसुधा मध्यमे भक्ते नवधामानमीरितम् ।। ६ ।। ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः । पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ।। ७ ।। पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् । धुर्तूरकुसुमाकारं शरवाकारमेव वा ।। ८ ।। चतुरष्टदलोपेतं सर्वालंकारसंयुतम् । एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ।। ९ ।। नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा । पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ।। १० ।। देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः । एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ।। ११ ।। कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा । वर्णभक्त हविष्यं च वटाश्वदकानि ।। १२ ।। चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् । मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ।। १३ ।। गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः । सर्वत्र दीपान्वा कुर्यान्नवसंख्यान् समुज्वलान् ।। १४ ।। घृतार्द्रांस्तैलसंयुक्तान् ब्रह्मांगसहितान्यसेत् । लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ।। १५ ।। वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः । कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ।। १६ ।। पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः । प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ।। १७ ।। तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया । संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ।। १८ ।। वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् । सर्वातोद्यसमायुक्तं शंखध्वनि समन्वितम् ।। १९ ।। गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् । स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ।। २० ।। देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् । दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ।। २१ ।। गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना । त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ।। २२ ।। संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् । आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ।। २३ ।। सोपि संगृह्य तं दीपं सप्रणामन्निवेशयेत् । सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ।। २४ ।। गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि । त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ।। २५ ।। अंगुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके । ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ।। २६ ।। पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके । देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ।। २७ ।। कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् । बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ।। २८ ।। तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु । भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ।। २९ ।। ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् । सर्वालंकारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ।। ३० ।। सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् । पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ।। ३१ ।। वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् । द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ।। ३२ ।। तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् । राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ।। ३३ ।। राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे । देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ।। ३४ ।। तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ।। ३४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः == अष्टमे पटले कृत्तिकादीपावलिविधिः == दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः । मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ।। १ ।। पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये । रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ।। २ ।। कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् । वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ।। ३ ।। रवेरस्तमयात्पूर्वं यामपादावसानकम् । कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ।। ४ ।। एवन्निश्चित्य कालन्तु कारयेद्वांकुरार्पणम् । दीपाराधनपूवेद्युरधिवासनमारभेत् ।। ५ ।। देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा । अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ।। ६ ।। दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् । स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ।। ७ ।। ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुलविवृद्धितः ।। ८ ।। पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः । द्विमात्रात् पादवृद्ध्यातु षडंगुलसमावधि ।। ९ ।। विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ।। १० ।। नवकीलं समारभ्य व्योमकीलविवृद्धितः । सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ।। ११ ।। विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् । त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ।। १२ ।। तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः । दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ।। १३ ।। दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश । योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ।। १४ ।। छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् । एकहस्तविशालन्तु द्विगुणायतसंयुतम् ।। १५ ।। दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये । कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ।। १६ ।। हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः । योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ।। १७ ।। दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते । दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ।। १८ ।। प्रतिवेदन्तु कर्तव्या दीपिका बहुसंख्यया । स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ।। १९ ।। तोरणाकारतोपिवा वृत्ताकारेण वा बहून् । प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ।। २० ।। प्रासादे गोपुरे शाले परिवारालयादिषु । मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ।। २१ ।। वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु । बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ।। २२ ।। दीपावलिरियं कार्या अधिवासनपूर्वकम् । अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ।। २३ ।। षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् । स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ।। २४ ।। ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा । शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ।। २५ ।। दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् । बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ।। २६ ।। आलये मण्टपे वापि यागमण्टप एव वा । मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ।। २७ ।। स्थण्डिलन्तत्र संकल्प्य शस्त्रेण प्रोक्षयेत् गुरुः । नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ।। २८ ।। नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः । पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ।। २९ ।। कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् । शिवाग्निं तत्र संपाद्य शिवं सांगञ्च तर्पयेत् ।। ३० ।। समिधाज्येन चरुणा ततः कार्पासबीजतः । क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ।। ३१ ।। मूलेनांगैर्दशांशेन वह्निबीजमनुस्मरन् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ३२ ।। देवं सांगं विसृज्याथ दीपानारोपयेत् गुरुः । तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ।। ३३ ।। वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु । गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ।। ३४ ।। गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः । सर्वालंकारसंयुक्तं तरुणाख्यन्तु दीपकम् ।। ३५ ।। दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् । होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ।। ३६ ।। ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च । चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ।। ३७ ।। कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च । पूर्वस्यामथवाग्नेययां कूटमेकन्तु वा नयेत् ।। ३८ ।। तोरणानि यथायोग्यन्नयेदिच्छावशेन तु । सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ।। ३९ ।। सर्वालंकारसंयुक्तं कदलीपूगसंयुतम् । एवं संपाद्य सर्वन्तु मन्दीभूते दिवाकरे ।। ४० ।। पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् । वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ।। ४१ ।। स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् । कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ।। ४२ ।। कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा । अधिवासन होमेन समं होमं समाचरेत् ।। ४३ ।। वह्नावीशे तु कूटे वा देशिको होममाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ४४ ।। अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः । पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ।। ४५ ।। आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः । पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ।। ४६ ।। एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः । सर्वालंकारसंयुक्तं मंगलांकुर शोभितम् ।। ४७ ।। वितानध्वजसंयुक्तं छत्रचामरसंयुतम् । नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ।। ४८ ।। बेरेण च समायुक्तं बेरयात्रायुतन्नवा । ग्रहस्थे ब्रह्मचारी वा दीपं संग्राह्य पाणिना ।। ४९ ।। दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् । दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ।। ५० ।। विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् । मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ।। ५१ ।। दीपारोपणकर्तारं पूजयेत् परिचारकम् । वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ।। ५२ ।। ज्योतिलिंगमनुस्मृत्य दहेत् कूटचतुष्टयम् । अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ।। ५३ ।। तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् । कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ।। ५४ ।। हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् । प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ।। ५५ ।। प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् । स्नपनं कारयेन्नो वा बेरलिंगं तदुक्तितः ।। ५६ ।। प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् । पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ।। ५७ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् । अंकुरार्पणहीनं वा क्रियामेनां समाचरेत् ।। ५८ ।। गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् । अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ।। ५९ ।। तदंगमपरं चान्यद्देशिकाय प्रदापयेत् । इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ।। ६० ।। ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः । अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ।। ६१ ।। गोशालायां विशेषेण तेषां रोगनिवृत्तये । यान्तिथिं समनुप्राप्य उदयं याति भास्करः ।। ६२ ।। सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ।। ६२१/२ ।। यदृक्षं समनुप्राप्य अस्तं याति भास्करः । तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ।। ६३१/२ ।। एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ।। ६४ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः ८ ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुल विवृद्धितः ।। पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः । द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ।। विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ।। नव कीलं समारभ्य व्योमकील विवृद्धितः । शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ।। त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् । तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ।। दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ।। लोकः ३ कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् । विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ।। करणदोषः विष्टिः चतुर्थ्यां अपरे विष्टिः अष्टम्यां पूर्वभागतः एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः दशम्यां अपरे विष्टिः चतुर्दश्यां तु पूर्वतः वैनाशिकः द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम् == नवमे पटले == मार्गशीर्षे घृतस्नान डोलारोहण पुष्ये क्षौद्रपूजा विधिः मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् । घृतस्नानसमोपेतं प्रागुक्तविधिना सह ।। १ ।। केवलस्नपनं वापि कारयित्वा विशेषतः । गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ।। २ ।। ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् । अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ।। ३ ।। बेरप्रदक्षिणं कृत्वा सर्वालंकार संयुतम् । चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ।। ४ ।। डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ।। ४१/२ ।। सर्वालंकारसंयुक्तं कृत्वा स्तम्भद्वयं तथा । स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ।। ५१/२ ।। तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् । चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ।। ६१/२ ।। नानालंकारसंयुक्ता मथबाहुद्वयान्विताम् । एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ।। ७१/२ ।। अस्त्रतोयेन संप्रोक्ष्य कल्पयेदासनं यथा । फलकायां यजेद्धंसं हृदा हंसासने यजेत् ।। ८१/२ ।। ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् । विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ।। ९१/२ ।। वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् । गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ।। १०१/२ ।। नानागानसमायुक्तन्नाना नृत्तसमन्वितम् । नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ।। १११/२ ।। अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् । प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ।। १२१/२ ।। डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च । अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ।। १३१/२ ।। पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ।। १४ ।। पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ।। १५ ।। पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः नवमः पटलः ९ डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः । सर्वालङ्कार संयुक्तं कृत्वा स्तंभद्वयं तथा ।। स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् । तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ।। चतुर्बाहु समायुक्तां ऊर्ध्व प्रच्छादनान्विताम् । नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ।। एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् । == दशमे पटले माघमासे घृतकम्बलपूजाविधिः == माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् । कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ।। १ ।। नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः । शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ।। २ ।। तदाज्यं पिण्डवत् कृत्वा कुंकुमागरुसंस्कृतम् । हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ।। ३ ।। हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् । पञ्चब्रह्मषडंगैश्च शिवेन तदनन्तरम् ।। ४ ।। विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा । विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ।। ५ ।। गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् । तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ।। ६ ।। पलाशसमिदाज्यान्न तिललाजसमन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ७ ।। घृते संपातहोमञ्च पवित्रारोहवर्त्मना । कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ।। ८ ।। कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा । संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।। ९ ।। विशेषेणार्चयित्वा तु सर्वालंकारसंयुतम् । धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।। १० ।। लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् । गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।। ११ ।। दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ।। १११/२ ।। सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च । पूर्ववत् पूजयेद्देवं गुरुं संपूजयेत्तदा ।। १२१/२ ।। दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् । अंकुरार्पणपूर्वं वा रहितं वैतदाचरेत् ।। १३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः == एकादशे पटले माघे शिवरात्रिपूजाविधिः == अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः । श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ।। १ ।। अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् । मया सह मुदा सार्धं रमन्तीप्सितमाययुः ।। २ ।। न बाध्यन्ते यमादेशात् किंकरैः क्रूरदृष्टिभिः । यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ।। ३ ।। श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् । माघमास्यासिते पक्षे विद्यते या चतुर्दशी ।। ४ ।। तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा । तस्यामेव शिवपूजा शिवलिंगे शिवालये ।। ५ ।। कृतस्नानोपवासेन पूर्वेह्नि नियतेन च । साधकेनोपचारेण कर्तव्या श्रद्धया सह ।। ६ ।। पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः । शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ।। ७ ।। आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् । अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ।। ८ ।। पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् । गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ।। ९ ।। पवित्रैः पञ्चभिः कुर्यात् पञ्चांगैश्च क्रमेण तु । पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ।। १० ।। चूर्णेनापि सपिष्टेन रजन्या धूपितेन च । अस्त्रेण शोधितेनैव शोधयेदुदकेन च ।। ११ ।। नालिकेरोदकेनैव तं पश्चादभिषेचयेत् । गन्धोदकेन मूलांगब्रह्मभिश्चाभिषेचयेत् ।। १२ ।। कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् । लिंगमाच्छाद्य देवांगाद्येन शुद्धेन वाससा ।। १३ ।। यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् । चन्दनागरुकर्पूर कुंकुमाद्यैः क्रमेण तु ।। १४ ।। मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः । दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ।। १५ ।। गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् । दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ।। १६ ।। पायसं प्रथमे यामे द्वितीये कृसरं भवेत् । गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ।। १७ ।। निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् । सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ।। १८ ।। धूपमारात्रिकोपेतं शिवाय विनिवेद्य च । होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ।। १९ ।। कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् । शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ।। २० ।। संपूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले । समादाज्य हविर्लाज तिलैर्मूलांगब्रह्माभिः ।। २१ ।। शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् । दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ।। २२ ।। कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् । वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ।। २३ ।। पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः । स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ।। २४ ।। नीत्वा जागरणं रात्रौ प्रभाते विमले ततः । कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ।। २५ ।। देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् । दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ।। २६ ।। लिंगिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि । पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ।। २७ ।। गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः । पादौ हस्तौ च संक्षाल्य पारणन्तु समाचरेत् ।। २८ ।। इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः पटलः १२ द्वादशे पटले फाल्गुनमासगन्धपूजाविधिः उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् । विशेषस्नपनोपेतं विशेषयजनान्वितम् ।। १ ।। दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि । प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ।। २ ।। तत्पादं वा तदर्धं वा कुंकुमं स्यात्तदर्धतः । पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ।। ३ ।। कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् । वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ।। ४ ।। घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना । गन्धैरालिप्य लिंगन्तु सपीठं शिवमन्त्रतः ।। ५ ।। सुगन्धपुष्पमालाभिर्भूषयेल्लिंगपिण्डिके । कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ।। ६ ।। सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये । आभिचारकृते दोषे विधानमिदमाचरेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः द्वादशः पटलः १३ त्रयोदशे पटले चैत्रमास दमन पूजा विधिः दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् । हरकोपात् पुराजातः बैरवो दमनाह्वयः ।। १ ।। दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः । प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ।। २ ।। दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि । पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ।। ३ ।। ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः । ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ।। ४ ।। तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया । सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ।। ५ ।। शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः । अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ।। ६ ।। हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव । शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ।। ७ ।। एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् । यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ।। ८ ।। पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा । ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ।। ९ ।। सायाह्नसमये प्राप्ते विदध्यादधिवासनम् । आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ।। १० ।। यथा विधिसमभ्यर्च्य भानुशंकरपावकान् । पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ।। ११ ।। सद्योजातेन मनुना दीपितं हृदयेन वा । वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ।। १२ ।। दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा । पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ।। १३ ।। फलंमूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् । पञ्चांगमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ।। १४ ।। विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति । आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।। १५ ।। कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया । इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ।। १६ ।। संयोज्य शिवमन्त्रेण विदधीत जपादिकम् । शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ।। १७ ।। पवित्रकविधानेन कवचेनावकुण्ठयेत् । एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।। १८ ।। हविस्तदनु भुञ्जीत यदि वा पवनाशनः । शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ।। १९ ।। प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् । नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ।। २० ।। दमनैः पूजयेद्देवं पञ्चांगैरपि खण्डितैः । शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ।। २१ ।। ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् । आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ।। २२ ।। पवित्रक विधानेन क्रमेण शिवमर्चयेत् । पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ।। २३ ।। सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् । चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ।। २४ ।। मखेश्वराय च मखं पूरयेति च वीप्सितम् । शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ।। २५ ।। प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् । विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ।। २६ ।। भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् । सर्वन्तदस्तु संपूर्णंपर्व दामनकं मम ।। २७ ।। एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ।। २८ ।। ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् । पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः त्रयोदशःपटलः १४ चतुर्दशे पटले चैत्रमास वसन्तोत्सवविधिः तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः । पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ।। १ ।। नानामाला समाकीर्णे नानाफलविचित्रते । नानागानसमोपेते नानावाद्यसमन्विते ।। २ ।। नानानृत्तसमायुक्ते नानायन्त्रसमन्विते । प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ।। ३ ।। पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते । आस्थानमण्टपोपेते जलक्रिडासमन्विते ।। ४ ।। देवोद्यानेनयेद्देवं सर्वालंकारसंयुतम् । ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ।। ५ ।। परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः । पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ।। ६ ।। सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् । देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ।। ७ ।। कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः । स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ।। ८ ।। वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् । ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ।। ९ ।। नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च । एवं काले तु देवेशन्नयेद्देवालयं पुनः ।। १० ।। स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् । एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ।। ११ ।। एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ।। १११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः चतुर्दशः पटलः १५ पञ्चदशे पटले वेशाखमासशीतकुम्भविधिः ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् । विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ।। १ ।। सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये । प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ।। २ ।। चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे । शीतकुम्भविधिः कार्यस्तत्तंद्दोषापनुत्तये ।। ३ ।। यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिंगमूर्धनि । वस्त्वंगुलं समारभ्यांगुलवृद्ध्याकरान्तकम् ।। ४ ।। यथान्तरं तथा कृत्वा संप्रक्षालयाम्बुना गुरुः । वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ।। ५ ।। विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः । महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ।। ६ ।। एवं कृत्वा त्रिपादींश्च विन्यसेल्लिंगपूर्धनि । मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ।। ७ ।। तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् । चतुर्द्रोणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। ८ ।। मध्यमं खारिसंपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ।। ९ ।। कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ।। १० ।। एकद्वित्र्यंघ्रिसंयुक्तन्निष्कमानकृतेन तु । युगांगुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ।। ११ ।। पिधानेन समोपेतं पल्लवेन समन्वितम् । उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ।। १२ ।। पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् । आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ।। १३ ।। ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् । प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ।। १४ ।। प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् । गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ।। १५ ।। प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् । पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ।। १६ ।। गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् । अथवाचमनीयार्थं कल्पितो गन्ध एव वा ।। १७ ।। नीरोमजन्तुकं द्रव्यं उपकुम्भे विनिक्षिपेत् । हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ।। १८ ।। नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् । तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ।। १९ ।। समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः । आप्येनामृतबीजेन संपुटेन शिवेन च ।। २० ।। आप्याधारणयोपेतं सहस्रं वा तदर्थकम् । शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ।। २१ ।। आप्याणुसंपुटं मूलं जपेत्तत्संख्यकं यथा । जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ।। २२ ।। आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् । कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ।। २३ ।। अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः । शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकांक्षिभिः ।। २४ ।। सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् । तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ।। २५ ।। सहस्रसंख्यकावास्युः अर्धसंख्या समन्विताः । शतसंख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ।। २६ ।। एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः । पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ।। २७ ।। ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः । कुर्याच्छंखस्वनोपेतं प्रत्यहं चैवमाचरेत् ।। २८ ।। नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् । नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ।। २९ ।। नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः । संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ।। ३० ।। चन्दनागरुकर्पूरकुंकुमैः प्रचुरैर्गुरुः । गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ।। ३१ ।। कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ।। ३२ ।। नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः । पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ।। ३३ ।। ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः । मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ।। ३४ ।। नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि । जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ।। ३५ ।। पूजयेत् प्रत्यहं देवं यावत्स्यात् कांक्षितं फलम् । तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ।। ३६ ।। प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् । संग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ।। ३७ ।। आभ्यां कृत्वा सुधाम्नस्तु च सुवारके आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ।। ३८ ।। सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् । घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ।। ३९ ।। शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् । निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ।। ४० ।। तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति । सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ।। ४१ ।। द्विमासंन वा त्रिमासं वा विधिमेवंन समाचरेत् । आचार्यं पूजयेदादौ वस्त्रैः पञ्चांगभूषणैः ।। ४२ ।। दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः । अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ।। ४३ ।। अन्येषामपि सर्वेषां हेमवस्त्रांगुलीयकान् । निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ।। ४४ ।। प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् । ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ।। ४५ ।। नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि । दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ।। ४६ ।। स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ।। ४६१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः पञ्चदशः पटलः १५ यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि । वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ।। यथान्तरं तथा कृत्वा सप्रक्षाल्यांबुनागुरुः । वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ।। विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः । महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ।। एवं कृत्वा त्रिपादीं च विन्यसेल्लिंग मूर्धनि । चतुर्द्राणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बपलाकारं सवस्त्रंकूर्चसंयुतम् ।। कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ।। १६ षोडशे पटले ज्येष्ठमासफलपूजाविधिः ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः । विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ।। १ ।। विशेषपूजा संयुक्तं पायसेन समन्वितम् । विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ।। २ ।। नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च । पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ।। ३ ।। कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा । वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ।। ४ ।। सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् । क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ।। ५ ।। यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः षोडशः पटलः १७ सप्तदशे पटले आषाढ मास पूर्वफल्गुनी पूजा विधिः आषाढे मासि नक्षत्रे पूर्वफाल्गुन संज्ञके । आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ।। १ ।। कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना । देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ।। २ ।। वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् । ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ।। ३ ।। तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् । ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ।। ४ ।। आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् । रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ।। ५ ।। दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् । ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ।। ६ ।। हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् । त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ।। ७ ।। स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः । एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ।। ८ ।। संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः । सक्तुभिश्च फलोपेतैस्तान् संपूज्य ह्रदा गुरुः ।। ९ ।। तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् । तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ।। १० ।। तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि । आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ।। ११ ।। प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् । अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ।। १२ ।। बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् । नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ।। १३ ।। गुडखण्ड समोपेतं सक्तु संदापयेद् गुरुः । नानापूप समायुक्तं नानाफल समन्वितम् ।। १४ ।। जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् । विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ।। १५ ।। विधाय केवलं वापि त्रिशूलेन समन्वितम् । नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ।। १६ ।। प्रभूतहविषोपेतं मुखवासेन संयुतम् । ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ।। १७ ।। वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः । सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ।। १८ ।। सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये । विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ।। १९ ।। इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा विधिः सप्तदशः पटलः १८ अष्टादशे पटले श्रावणमासे पवित्रारोहण विधिः दुरितस्य विनाशार्थं संवत्सरकृतस्य तु । पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ।। १ ।। प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् । सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ।। २ ।। पुत्रको भुक्ति भांङ्नस्यात् जन्मनैकेन रोधनात् । समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ।। ३ ।। विधातव्यं प्रयत्नेन येन केन प्रकारतः । प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ।। ४ ।। पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् । आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ।। ५ ।। अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ । पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ।। ६ ।। इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः । चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ।। ७ ।। कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् । शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ।। ८ ।। कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् । क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ।। ९ ।। दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् । त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ।। १० ।। रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः । शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ।। ११ ।। शक्तयो नव वामाद्या नव सूत्राधिपा मताः । दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ।। १२ ।। शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् । द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ।। १३ ।। तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु । यवीयसां कलासंख्या मध्याना वर्ण लक्षिताः ।। १४ ।। ज्येष्ठानां पदसंख्याता स्तन्तवो मानुषे मताः । स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ।। १५ ।। स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च । संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ।। १६ ।। समा एव गृहस्थस्य परिवारामरादिषु । तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ।। १७ ।। एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः । ग्रन्थयस्तन्तु संख्याताः स्निग्ध गर्भा नवा मताः ।। १८ ।। यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः । एकादित्र्यंगुलं वापि ग्रन्थिमानमिहागमे ।। १९ ।। ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः । रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ।। २० ।। कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् । रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ।। २१ ।। त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् । पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ।। २२ ।। यज्ञसूत्राख्यमाला च बाहुमला ततः परम् । मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ।। २३ ।। आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् । यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ।। २४ ।। क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् । आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ।। २५ ।। पवित्रमेकं सर्वेषामावृतानां विधीयताम् । एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ।। २६ ।। क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् । यागधामवृषस्थान प्रासादालय संश्रयान् ।। २७ ।। कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् । एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ।। २८ ।। प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा । मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ।। २९ ।। षोडशस्तंभसंयुक्ते रविस्तंभ युतेऽपि वा । मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ।। ३० ।। त्रिभागायामयुक्ते वा विंशति स्तंभ संयुते । मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ।। ३१ ।। तत्समन्तात् सुसंकॢप्त नव पञ्चैक कुण्डके । तत्संख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ।। ३२ ।। पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् । कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ।। ३३ ।। कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः । अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ।। ३४ ।। परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् । लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ।। ३५ ।। इष्ट्वा संप्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् । संपूज्य विधिवद्देव समीपे स्वासनेस्थितः ।। ३६ ।। आसनार्चनमारभ्य कुर्यादावाहनान्तकम् । कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ।। ३७ ।। नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् । पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ।। ३८ ।। कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् । समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ।। ३९ ।। पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च । शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ।। ४० ।। प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु । शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ।। ४१ ।। तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु । स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ।। ४२ ।। शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् । कुर्यादात्मीय भागं तु केवलेन घृतेन च ।। ४३ ।। हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् । गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ।। ४४ ।। दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् । भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ।। ४५ ।। पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् । धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ।। ४६ ।। होमद्रव्याणि सर्वाणि सकुशान्यपरानने । दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ।। ४७ ।। रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् । दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ।। ४८ ।। तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् । तांबुलं भस्म संमिश्रं दद्यात्तत्पुरुषं स्मरन् ।। ४९ ।। ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् । स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ।। ५० ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् । धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ।। ५१ ।। ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः । स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ।। ५२ ।। तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् । तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ।। ५३ ।। मण्डले वेदिकोर्ध्वे चेदत्र कुंभान्तिकेऽपि वा । संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ।। ५४ ।। मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके । संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ।। ५५ ।। गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् । अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ।। ५६ ।। त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः । दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ।। ५७ ।। याग धामवृषस्थान प्रासादानल संश्रयान् । कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ।। ५८ ।। दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् । प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ।। ५९ ।। तदेतानि पवित्राणि भगवन् संस्कृतानि हि । अर्पयामि घटस्थाय शिवायाध्येषये दिति ।। ६० ।। समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् । आदौ वा कुंभवर्धन्योर्दत्वायायाच्छिवान्तिकम् ।। ६१ ।। स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् । एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ।। ६२ ।। धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः । आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ।। ६३ ।। शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना । आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ।। ६४ ।। समस्तविधिविच्छिद्र पूरणेशमखंप्रति । प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ।। ६५ ।। तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।। ६६ ।। जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् । दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ।। ६७ ।। दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः । आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ।। ६८ ।। इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम् । अन्येषां चैव मूर्तिना/ क्रमाद्दद्यात् बहिर्बलिम् ।। ६९ ।। वायव्यांक्षेत्रपालाय दत्वाचम्य बलिं पुनः । प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ।। ७० ।। भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् । अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ।। ७१ ।। स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः । मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ।। ७२ ।। नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् । सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ।। ७३ ।। निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः । पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ।। ७४ ।। आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् । अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ।। ७५ ।। अविसर्जित देवेशात् पवित्राण्यवरोपयेत् । तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ।। ७६ ।। दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् । समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ।। ७७ ।। कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः । द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुंभयोः ।। ७८ ।। दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् । स्वासने दीपसंकॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ।। ७९ ।। मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् । शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ।। ८० ।। विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् । पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ।। ८१ ।। जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः । कुण्डमस्त्रेण संप्रोक्ष्य मेखलापरिधिस्थितान् ।। ८२ ।। सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् । दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ।। ८३ ।। प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् । दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ।। ८४ ।। नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्संप्रविश्य च । ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ।। ८५ ।। गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च । कृत्वा विशेष पूजां च विभवस्यानुसारतः ।। ८६ ।। स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् । वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ।। ८७ ।। सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् । कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ।। ८८ ।। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः । प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ।। ८९ ।। कालात्मना त्वयादेव यद्दृष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ।। ९० ।। तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् । सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ।। ९१ ।। पूरयेति द्विरुच्चार्य मखव्रत फलं ततः । नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ।। ९२ ।। आत्मतत्त्वाधिपतये शिवाय नम इत्यपि । तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ।। ९३ ।। पवित्रकत्रयंमूर्ध्नि तद्भोगी शिवादिकम् । शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ।। ९४ ।। सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ।। ९५ ।। त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे । अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ।। ९६ ।। कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ।। ९७ ।। जपहोमार्चनाहीनं कृत्यं नित्यं मया तव । अकृतं वाक्यहीनं च तत्पूरय महेश्वर ।। ९८ ।। सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् । त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ।। ९९ ।। खण्डितं यन्मया देव व्रत वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञासूत्रगुंभितम् ।। १०० ।। जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् । गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ।। १०१ ।। अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा । अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ।। १०२ ।। एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् । व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ।। १०३ ।। सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते । शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ।। १०४ ।। वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्संप्रविश्य च । देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ।। १०५ ।। दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः । प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ।। १०६ ।। मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् । तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ।। १०७ ।। सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः । लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ।। १०८ ।। स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने । ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ।। १०९ ।। व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् । भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ।। ११० ।। मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् । भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ।। १११ ।। वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके । हृदये संनिवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ।। ११२ ।। परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः । शिवकुंभास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ।। ११३ ।। ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् । दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ।। ११४ ।। रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् । आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ।। ११५ ।। निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि । लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ।। ११६ ।। पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् । दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ।। ११७ ।। इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः अष्टादश पटलः १९ एकोनविंशत्तमे पटले नवनैवेद्यविधिः अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् । मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ।। १ ।। अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् । निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ।। २ ।। विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके । शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ।। ३ ।। नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् । मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ।। ४ ।। चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् । चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ।। ५ ।। हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् । पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ।। ६ ।। सलक्षणेन दात्रेण पूजितेनैव हेतिना । प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ।। ७ ।। शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् । तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ।। ८ ।। तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् । नालिकेरफलोपेतं नवपूगफलान्वितम् ।। ९ ।। मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् । नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ।। १० ।। पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः । आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ।। ११ ।। नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् । नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ।। १२ ।। ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति । पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ।। १३ ।। कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् । विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ।। १४ ।। वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा । गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ।। १५ ।। चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् । तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ।। १६ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् ।। १६१/२ ।। नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा । स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ।। १७१/२ ।। मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले । पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ।। १८१/२ ।। अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन् । तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ।। १९१/२ ।। कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद् गुरुः । धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ।। २०१/२ ।। नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् । तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ।। २११/२ ।। नवपूगफलोपेतं देव्यै च विनिवेदयेत् । सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ।। २२१/२ ।। अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् । वृषादिपरिवारेभ्यो होमकर्म समापयेत् ।। २३१/२ ।। नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् । बलिदानसमोपेतमतिथीनां समर्पणम् ।। २४१/२ ।। निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् । तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ।। २५१/२ ।। हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् । सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ।। २६१/२ ।। वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः । एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ।। २७१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः एकोनविंशतितमः पटलः २० विंशतितमे पटले समयविशेषदीक्षा विधिः अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् । आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः । सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ।। २ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत् । आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ।। ३ ।। पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् । वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ।। ४ ।। प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ।। ५ ।। प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् । तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ।। ६ ।। पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च । अस्त्रेण पार्ष्णिंघातस्य त्रयं कृत्वाथ भूगतान् ।। ७ ।। कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः । छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ।। ८ ।। दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् । अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ।। ९ ।। वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि । संपूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ।। १० ।। वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः । उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ।। ११ ।। सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः । विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ।। १२ ।। अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् । तदम्भसा तु संप्रोक्ष्य स्वशिरोद्रव्य संहितम् ।। १३ ।। अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् । हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ।। १४ ।। शिवहस्तं च संकल्प्य तदारोपितमस्तकः । ज्ञानासिं तत्वसंख्यातैश्चतुरूनैरथापि वा ।। १५ ।। दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् । कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ।। १६ ।। मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते । पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ।। १७ ।। शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः । सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ।। १८ ।। रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत् । गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ।। १९ ।। एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् । अमृतीकृत्य संपूज्य शिवेनैकत्वमाचरेत् ।। २० ।। मण्डपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत् । लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ।। २१ ।। हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः । नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ।। २२ ।। कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः । कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ।। २३ ।। विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् । वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ।। २४ ।। हेमाद्येकतमं कुम्भमानीय गलिताम्मसा । पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ।। २५ ।। संहृतौ विकिरास्त्राणामासनं तु चलाचलम् । संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ।। २६ ।। वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् । विन्यसेदस्त्रभूतांतां प्रत्यङ्गनालसमन्विताम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः । इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ।। २८ ।। वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः । विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ।। २९ ।। घटस्थं कलशस्थं वा कुंभस्थं वाजयेद्गुरुः । तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ।। ३० ।। भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ।। ३१ ।। सर्वेषां लोकपालानामनेन क्रमयोगतः । शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ।। ३२ ।। विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् । स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ।। ३३ ।। मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् । पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ।। ३४ ।। सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः । भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ।। ३५ ।। संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा । मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ।। ३६ ।। स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा । उमायै भगरूपिण्यै लिङ्ग रूपधराय च ।। ३७ ।। शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च । यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।। ३८ ।। एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ।। ३९ ।। रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि । यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ।। ४० ।। अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा । निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ।। ४१ ।। वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् । अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ।। ४२ ।। मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् । विशेषपूजयोपेतं पावके शिवमर्चयेत् ।। ४३ ।। भगवन् देहमाविश्य मदीयमनुकम्पया । कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनां ।। ४४ ।। संप्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः । मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ।। ४५ ।। उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् । सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ।। ४६ ।। यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः । होमाधि करणत्वेन पावकस्थस्सदाशिवः ।। ४७ ।। शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः । अनुग्रहकरो देवो मम देहे व्यवस्थितः ।। ४८ ।। पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः । अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ।। ४९ ।। ममापि हृदयादीनि साधनानि न संशयः । स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ।। ५० ।। यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः । त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ।। ५१ ।। अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः । भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ।। ५२ ।। विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः । सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ।। ५३ ।। तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर । प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ।। ५४ ।। कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् । उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ।। ५५ ।। द्वारस्य संमुखं बाह्ये प्रणवे कुशमण्डले । शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ।। ५६ ।। वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् । नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ।। ५७ ।। अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः । पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ।। ५८ ।। तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् । स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ।। ५९ ।। संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् । करोमि गुणसंपन्नं सतां मस्तकभूषणम् ।। ६० ।। ततस्संप्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना । दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ।। ६१ ।। उल्लिखेत् पाशसंतानं प्रवृत्तकरणोन्मुखम् । सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ।। ६२ ।। अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा । संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ।। ६३ ।। प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् । शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ।। ६४ ।। प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् । धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ।। ६५ ।। गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् । शासनेन सदेहेन शिवेन समधिष्ठितम् ।। ६६ ।। शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् । हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ।। ६७ ।। सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना । रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ।। ६८ ।। कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः । ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ।। ६९ ।। न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् । अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ।। ७० ।। सहसालोकितेशान शिववक्त्रसरोरुहम् । यात्तमङ्गमुञ्चेति प्रसूनं शिवसंमुखम् ।। ७१ ।। स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् । तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ।। ७२ ।। नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् । क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ।। ७३ ।। शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् । सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ।। ७४ ।। नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने । संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ।। ७५ ।। दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः । पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ।। ७६ ।। स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः । दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ।। ७७ ।। प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च । शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ।। ७८ ।। पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः । शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ।। ७९ ।। विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् । शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ।। ८० ।। हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति । आहारभावदोषाभ्यां योनि बीजशरीरतः ।। ८१ ।। शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर । रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ।। ८२ ।। अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः । इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ।। ८३ ।। प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः । विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ।। ८४ ।। मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके । समानीय ध्रुवेणैव संपूज्य शिशुमस्तकात् ।। ८५ ।। संहारमुद्रया स्वस्य हृदये पूरकेण तु । प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ।। ८६ ।। रेचकेन प्रयोगेण केशेशानसदाशिवान् । नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ।। ८७ ।। संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः । दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ।। ८८ ।। शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु । एवं समयसंस्कारयुक्तो यश्शिवपूजने ।। ८९ ।। होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च । योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ।। ९० ।। ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः । शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ।। ९१ ।। सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ।। ९११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः पटलः २१ एकविंशत्तमे पटले स्थालीपाकविधिः स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने । स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ।। १ ।। प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च । निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ।। २ ।। कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा । मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ।। ३ ।। वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके । षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ।। ४ ।। शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत् । पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ।। ५ ।। चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च । संमृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ।। ६ ।। दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् । आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ।। ७ ।। द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् । चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ।। ८ ।। चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् । विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ।। ९ ।। उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् । स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ।। १० ।। हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि । तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ।। ११ ।। प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् । सुशीतले भवेत्येवं वौषट्पल्लवया तथा ।। १२ ।। शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् । संमृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ।। १३ ।। अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले । पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ।। १४ ।। शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत् । एवं संपादितेनैव चरुणा होम-इष्यते ।। १५ ।। तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् । हविष्यचतुरंशेन होमकर्माथवा मतम् ।। १६ ।। होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः । पञ्चगोचर संस्थाय समस्तागमवेदिने ।। १७ ।। शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि । शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ।। १८ ।। हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि । आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ।। १९ ।। परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि । पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ।। २० ।। प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकांक्षिभिः । एतेषामन्यथाभावे सर्वं भवति चान्यथा ।। २१ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः एकविंशतितमः पटलः २२ द्वाविंशत्तमे पटले स्वप्नाध्याय विधिः अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः । दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ।। १ ।। तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति । लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ।। २ ।। संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि । षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ।। ३ ।। मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि । शीघ्रमेव फलं तस्य भविष्यति न संशयः ।। ४ ।। रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् । प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ।। ५ ।। मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् । यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ।। ६ ।। चन्द्रार्क तारग्रसनं परिमार्जनमेव च । भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ।। ७ ।। श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् । सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ।। ८ ।। गन्धर्व नगरं वापि देवगन्धर्व योषिताम् । दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ।। ९ ।। जातरूपमयं छत्रं श्वेतमाला विभूषितम् । चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ।। १० ।। तेषामारोहणं शस्तं तत्फलानां च संग्रहः । तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ।। ११ ।। गो सिंह वृषभाणां च वीक्षणारोहणे हिते । सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ।। १२ ।। सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् । तरणं निम्नगाम्भोधि काननानां जलस्य च ।। १३ ।। प्रशस्तं दोहनं कर्म महिषीणां गवामपि । सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ।। १४ ।। प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् । पयसः पाटलाया गोः पानं यद्वत्सलीलया ।। १५ ।। दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् । एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ।। १६ ।। सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् । एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ।। १७ ।। अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च । चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ।। १८ ।। पशुसिंह गजानां च लाभो युद्धे विशेषतः । अध्यापनं च शास्त्राणामन्नलेपनमेव च ।। १९ ।। तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च । बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ।। २० ।। सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः । श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ।। २१ ।। सरोजस्यातपत्रस्य मणीनां दर्पणस्य च । दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ।। २२ ।। विमलस्यांभसश्शस्तं दर्शनं हाटकस्य च । राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ।। २३ ।। देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि । सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ।। २४ ।। एतेषामपि पनेन राज्यं संप्राप्नुयान्नरः । शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ।। २५ ।। रूपयौवन संपन्नां श्रियंवा तादृशीमपि । उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ।। २६ ।। कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् । तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ।। २७ ।। दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा । भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ।। २८ ।। जयं विवादद्युतादौ संग्रामे विजयं तथा । कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ।। २९ ।। निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा । दृष्ट्वाग्निं संग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ।। ३० ।। नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् । तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ।। ३१ ।। परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च । निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ।। ३२ ।। निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् । स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ।। ३३ ।। हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः । पात्रे मणिमये वाथ राजते वाथ भोजनम् ।। ३४ ।। सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् । लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ।। ३५ ।। मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः । पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ।। ३६ ।। बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् । शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ।। ३७ ।। चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वंच पश्यति । ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ।। ३८ ।। छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः । पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ।। ३९ ।। छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् । लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ।। ४० ।। सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते । धनधान्यमवाप्नोति सर्वाभरण भूषितः ।। ४१ ।। आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ।। ४२ ।। चक्रं च पूर्ण कुंभं च श्रीवत्सं स्वस्तिकं तथा । सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ।। ४३ ।। शिवागमादि शब्दानां श्रवणं धनदं भवेत् । गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ।। ४४ ।। देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् । ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ।। ४५ ।। पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि । उद्यानारामकरणं शुभप्रदमिहोच्यते ।। ४६ ।। आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् । बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसंग्रहः ।। ४७ ।। स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् । गणानां विबुधानां च सुधापानं नभोगतिः ।। ४८ ।। इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् । भूवस्त्रलाभ पर्यङ्कशयया दाहोंबरस्य च ।। ४९ ।। आसनस्य च दाहो वा नावा रोहणमेव च । नवशुक्लांबरत्वं च तथा शुद्धोदनाशनम् ।। ५० ।। मधुनः पङ्कजस्येव जननं हननं स्वकम् । शंखपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ।। ५१ ।। दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन । अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ।। ५२ ।। लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः । पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ।। ५३ ।। बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् । हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ।। ५४ ।। विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् । उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ।। ५५ ।। सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः । चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ।। ५६ ।। अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः । रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ।। ५७ ।। भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च । नर्तनं ग्रसनं चैव विवाहो गीतमेव च ।। ५८ ।। तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् । स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ।। ५९ ।। पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः । चितायां रोहणं शक्रध्वजस्य पतनं तु वा ।। ६० ।। सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् । दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ।। ६१ ।। देव द्विजादि भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।। ६२ ।। हानिश्चैव स्वगात्राणां विरेकवमनक्रिये । दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ।। ६३ ।। गृहणाञ्चैव पातश्च गृह संमार्जनं तथा । पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ।। ६४ ।। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ।। ६५ ।। स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् । क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ।। ६६ ।। नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा । रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ।। ६७ ।। नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा । विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ।। ६८ ।। पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च । प्लवनं भग्नयानत्वमशुभाय भविष्यति ।। ६९ ।। सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः । द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ।। ७० ।। छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता । प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ।। ७१ ।। कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने । कार्पासतिल मूलादि लोहानि लभते च यः ।। ७२ ।। स्वस्थश्च लभते व्याधितो मृत्युमृच्छति । भग्न ध्वजाधिकं भग्नं छत्रंदृष्ट्वाऽशुभं लभेत् ।। ७३ ।। एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् । तथैवहसनं भुक्तिरोदनस्य तिलैः सह ।। ७४ ।। अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् । कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ।। ७५ ।। दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः । संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ।। ७६ ।। यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् । हीननृत्तसमजश्च नाभेरन्य प्रदेशके ।। ७७ ।। तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च । खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ।। ७८ ।। सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् । स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ।। ७९ ।। नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः । व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ।। ८० ।। आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः । सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ।। ८१ ।। परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि । अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ।। ८२ ।। शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् । पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ।। ८३ ।। शोषणं कथिताख्यं च तोयपानं प्रमेहिणः । हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ।। ८४ ।। रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति । भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ।। ८५ ।। आदित्यचन्द्रताराणां मलिनत्वमशोभितम् । पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ।। ८६ ।। ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् । दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ।। ८७ ।। काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा । पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ।। ८८ ।। पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा । गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ।। ८९ ।। निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् । म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ।। ९० ।। कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा । कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ।। ९१ ।। निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् । अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ।। ९२ ।। सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् । वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ।। ९३ ।। कृष्णकीटं च गांकृष्णां पश्येच्चेद्भयमाप्नुयात् । एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ।। ९४ ।। काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् । वह्नियान रथादीनां छत्रादीनां च भग्नता ।। ९५ ।। विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः । धूमायमानमात्मानं शिरोमुण्डनमेव च ।। ९६ ।। बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् । यवागू मारनालं वा पिपेद्धन विनाशनम् ।। ९७ ।। तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे । मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ।। ९८ ।। कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता । वर्तितैलतिलादीनामञ्जनालेपनं तथा ।। ९९ ।। अन्धकारनिवेशस्तु महामार्गगतिस्तुवा । संन्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ।। १०० ।। तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि । रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ।। १०१ ।। अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् । अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ।। १०२ ।। तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः । पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ।। १०३ ।। वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् । भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ।। १०४ ।। देवताश्च द्विजातिश्च पितरो योगिनो नृपः । यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ।। १०५ ।। एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च । लिंगं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ।। १०६ ।। यद्धातु प्रकृतिर्येन धातुना वापि दूषितः । तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ।। १०७ ।। यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् । तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ।। १०८ ।। तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे । दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ।। १०९ ।। समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् । प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ।। ११० ।। अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत् । द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ।। १११ ।। आचारेणाथ धर्मेण विद्यया वाथ यस्यतु । श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ।। ११२ ।। अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् । आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ।। ११३ ।। ब्राह्मण समयाख्येन संस्कारेण समन्वितः । निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ।। ११४ ।। नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् । आदौ समानदीक्षायां सत्यामपि च यत्र तु ।। ११५ ।। नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् । जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ।। ११६ ।। नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् । परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ।। ११७ ।। ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया । न संमान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ।। ११८ ।। एकदेशिक शिष्याणा माचारः परिकीर्तितः । किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ।। ११९ ।। तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकांक्षिभिः ।। १९९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः पटलः २३ त्रयोविंशत्तमे पटले निर्वाण दीक्षा विधिः निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् । आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः । सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ।। २ ।। पश्चिमद्वार मार्गेण संप्रविश्य मखालयम् । कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ।। ३ ।। भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् । कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ।। ४ ।। विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च । निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ।। ५ ।। कुंभं च वर्धनीं तत्र संपूज्य परितो गुरुः । लोकपालानथाभ्यर्च्य तेषां आज्ञां तु श्रावयेत् ।। ६ ।। भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च । मण्डले देव देवेशं इष्ट्वाऽग्नौ तर्पयेन्मनून् ।। ७ ।। भगवन् देहमाविश्य मदीयमनु कंपया । अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ।। ८ ।। इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् । सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ।। ९ ।। यज्ञस्य रक्षकः कुंभे पावके होम कारणम् । शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ।। १० ।। पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः । मन्त्राः कारणभूता ये शिवस्य हृदयादयः ।। ११ ।। ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि । संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ।। १२ ।। परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः । उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ।। १३ ।। तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम । पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृंहितः ।। १४ ।। आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसंमुखम् । आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ।। १५ ।। नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह । कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ।। १६ ।। अघोर संपुटं कृत्वा शिवं साङ्गं फटन्तकम् । कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ।। १७ ।। आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् । कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।। १८ ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः । संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ।। १९ ।। अंगुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् । सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ।। २० ।। सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत् । संपूज्यगंध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ।। २१ ।। संनिधानाय मूलेन चाहुति त्रयमाचरेत् । शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ।। २२ ।। संताड्य हृदयं तस्य रेचकेन प्रविश्य च । हुंकारं उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ।। २३ ।। हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा संगृह्यमूलतः । द्वादशान्ते न्यसेत् शिष्य जीवं हृदय संपुटम् ।। २४ ।। सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया । सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ।। २५ ।। हुत्वाहुतित्रयं तस्य संविधानाय मूलतः । मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ।। २६ ।। शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः । शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ।। २७ ।। पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम् । संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ।। २८ ।। शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् । उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ।। २९ ।। अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः । कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ।। ३० ।। गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् । व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ।। ३१ ।। मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च । व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ।। ३२ ।। व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः । तासांच संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ।। ३३ ।। स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि । शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ।। ३४ ।। तासांच दीपनं कार्यमोङ्कारादि फडन्तकम् । अघोरबीजं मूलं च शान्त्यतीतकलामपि ।। ३५ ।। चतुर्थ्यन्तं समुच्चार्य हुंकारं तु समुच्चरन् । त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ।। ३६ ।। आहुतीनांत्रयं हुत्वा पाशबन्धनमाचरेत् । शिरः संताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ।। ३७ ।। भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् । व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ।। ३८ ।। हुंफडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् । शिवं संपुटितं स्वस्वबीजं च भगवत् पदम् ।। ३९ ।। कलाचतुष्टयंपाशं मल तत्वादिव्यापकम् । बन्ध बन्ध पदंचोक्त्वा हुंफषन्त समन्वितम् ।। ४० ।। पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् । तत्सूत्रं च समादाय शरावयुग संपुटम् ।। ४१ ।। कृत्वासंपात होमंच तत्सूत्रं मण्डलाधिपे । निवेद्य तस्य रक्षार्थं शिवकुंभान्तिकं न्यसेत् ।। ४२ ।। प्रणतिं कारयित्वा च शिवेन शिवकुंभके । आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ।। ४३ ।। पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् । शुचौ सावरणे देशे विविक्ते लेपिते भुवः ।। ४४ ।। पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया । भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ।। ४५ ।। निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् । अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ।। ४६ ।। उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना । चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ।। ४७ ।। तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् । चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ।। ४८ ।। अष्टग्रासप्रमाणंतु पुटके ब्रह्मवृक्षके । मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ।। ४९ ।। अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः । शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ।। ५० ।। कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् । मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ।। ५१ ।। राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः । आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ।। ५२ ।। अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् । मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ।। ५३ ।। इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् । स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ।। ५४ ।। सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च । पूर्वयाम्योत्तमाङ्गासु शययासु कुशभस्मना ।। ५५ ।। परस्परमलग्नासु सोपधानासु पार्श्वतः । चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ।। ५६ ।। अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसंख्यया । हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ।। ५७ ।। वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः । अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः संकल्प्य बाह्यतः ।। ५८ ।। स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ । दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ।। ५९ ।। चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये । विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ।। ६० ।। प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् । प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ।। ६१ ।। निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके । शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ।। ६२ ।। चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् । पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ।। ६३ ।। अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः । शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ।। ६४ ।। घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः । शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ।। ६५ ।। आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे । अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ।। ६६ ।। करोम्यनुग्रहं देव शिशो रध्येषयेदिति । लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ।। ६७ ।। निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् । पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ।। ६८ ।। कालाग्निरथकुऽऽमाण्डं हाडकं ब्राह्मवैष्णवौ । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ।। ६९ ।। कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।। ७० ।। अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। ७१ ।। याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ।। ७२ ।। निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।। ७३ ।। बलो ह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। ७४ ।। मेघनादः सुनादश्च दशमः परिकीर्तितः । शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ।। ७५ ।। पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ।। ७६ ।। लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः । विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ।। ७७ ।। सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः । वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।। ७८ ।। ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ । शंभुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।। ७९ ।। संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः । वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ।। ८० ।। कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले । याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ।। ८१ ।। बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ।। ८२ ।। वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः । भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ।। ८३ ।। एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः । नमोद्वयं प्रणवं षडक्षरमतः परम् ।। ८४ ।। सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा । शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ।। ८५ ।। पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् । साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ।। ८६ ।। अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित । ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ।। ८७ ।। सर्वभूतसुखप्रद भवोद्भवपदं ततः । भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ।। ८८ ।। मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् । महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ।। ८९ ।। महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः । निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ।। ९० ।। ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् । इत्युच्चार्य निवृत्तिं तु सूत्रात्संग्राह्य पावले ।। ९१ ।। आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् । मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ।। ९२ ।। भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः । तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ।। ९३ ।। वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् । हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ।। ९४ ।। संनिधीभव देवेशि पश्वनुग्रहकर्मणि । प्रार्थैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ।। ९५ ।। अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च । स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ।। ९६ ।। अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया । आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ।। ९७ ।। तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् । सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ।। ९८ ।। पूरकेन हृदि स्वस्य संनिवेश्य च कुम्भकम् । कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ।। ९९ ।। आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया । सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ।। १०० ।। स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् । भगवन् देव देवेश शिशोस्सर्वासु योनिषु ।। १०१ ।। संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् । निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ।। १०२ ।। भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच । सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ।। १०३ ।। ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् । भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ।। १०४ ।। इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च । मूलहुतित्रयं दत्वा शिवंप्रतिवदेदिदम् ।। १०५ ।। भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति । कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ।। १०६ ।। भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ । कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ।। १०७ ।। प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु । देशतः कालतश्चैव देहेन विषयेण च ।। १०८ ।। संचितागामिभेदेन भोगन्नाना विधं स्मरन् । भोक्तृत्व लिंगितेपुंसि सुखदुःखात्मवेदनम् ।। १०९ ।। मूलाहुतित्रयं दत्वा शिवंसंप्रार्थयेदिति । भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ।। ११० ।। परमप्रीति रूपं च भोगेषु संस्मरन् । शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ।। १११ ।। लयंच कुरु कुर्वीति शिशोः निर्वाण कर्मणि । जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ।। ११२ ।। हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् । सर्वकर्मसु शुद्धिंच निष्कृत्या कुरु कुर्वणोः ।। ११३ ।। भगवन्निति विश्लेषम् भोगाभावादणोरिह । बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ।। ११४ ।। मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् । मलकार्यंच भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ।। ११५ ।। दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् । मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ।। ११६ ।। अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह । स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ।। ११७ ।। भगवन्नात्मनो मायाफल कर्मात्मकं त्विह । विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ।। ११८ ।। ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु । अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ।। ११९ ।। आहुतीनां त्रयं दत्वा निवृत्तिछेदननंत्विह । भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ।। १२० ।। अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः । संभाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ।। १२१ ।। ओंब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत् । शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ।। १२२ ।। आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः । कारणेशत्वयानास्य धातुः पदमनामयम् ।। १२३ ।। प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी । ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ।। १२४ ।। निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् । ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ।। १२५ ।। निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः । कुरुकुर्वीति संहारमुद्रया पूरकेन तु ।। १२६ ।। कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् । आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ।। १२७ ।। वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत् । आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ।। १२८ ।। अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् । त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ।। १२९ ।। गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च । पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ।। १३० ।। मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् । तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ।। १३१ ।। चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च । अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ।। १३२ ।। अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः । डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ।। १३३ ।। हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ । मध्यमेशो महाकालः केदारो भैरवस्तथा ।। १३४ ।। गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा । विमलेशोऽट्टहासश्च महेन्द्रो भीमसंज्ञकः ।। १३५ ।। वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः । गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।। १३६ ।। झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ।। १३७ ।। पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ।। १३८ ।। अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ । कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ।। १३९ ।। अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि । गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ।। १४० ।। झगलण्डाद्यहंकारे पैशाचाद्यं मनौस्थितम् । प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ।। १४१ ।। महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः । महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ।। १४२ ।। ततश्शर्वपदंचोक्तं शिवेति च ततः परम् । निधनोद्भवसंज्ञं च निधनाख्य पदं ततः ।। १४३ ।। अनिधनपदं चैवम् ओंस्वक्षःपदमतः परम् । ओंभुवश्चपदं चान्यदोंभूः पदमतः परम् ।। १४४ ।। चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः । अनादे तुपदं चान्यदभस्मेति पदं ततः ।। १४५ ।। अधूमपदमन्यच्च अनग्नीति पदं ततः । अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ।। १४६ ।। तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि । अरूपिन् पदयुग्मंच पदान्येकं च विंशतिः ।। १४७ ।। प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् । इत्युक्त संख्यत त्वार्णंपदमन्त्रैस्त्रिविष्टपैः ।। १४८ ।। गर्भितां तामनुस्मृत्य संतधीतोपभुक्त्या । शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ।। १४९ ।। वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् । सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ।। १५० ।। ओं ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् । नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ।। १५१ ।। कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् । निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ।। १५२ ।। हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् । कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ।। १५३ ।। रागो नियतिविद्ये च कलाकालौ च मोहिनी । ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ।। १५४ ।। मन्त्रश्शिखा पुराणीह सप्तविंशतिसंख्यया । वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ।। १५५ ।। प्रचण्डोमापती चाजोऽनन्तैकशिवसंज्ञकौ । क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ।। १५६ ।। पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः । वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ।। १५७ ।। एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः । षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ।। १५८ ।। अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि । पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ।। १५९ ।। व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् । परमेश्वर परायेति पदं चैव पुनर्भवेत् ।। १६० ।। ज्योतिरूपायसंज्ञं च सर्वयोगाद्यमेव च । पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ।। १६१ ।। गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः । पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ।। १६२ ।। शिवायेति पदं सर्वप्रभवेति ततः । शिवायेति पदं पश्चाद् ओं पदमन्ततः ।। १६३ ।। ध्यानाहारायसंज्ञं च कीर्तितानि पदानि च । संधानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ।। १६४ ।। निष्कृतिं शिखया दत्वा शतहोमं विधाय च । रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ।। १६५ ।। भवाख्यं पदमेतत्तु कलात्रितयगोचरम् । भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ।। १६६ ।। अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् । बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ।। १६७ ।। अनुकूलमसंकीर्णमनासक्तिनिबन्धनम् । विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ।। १६८ ।। तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः । वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ।। १६९ ।। वामा ज्येष्ठा च रौद्री च काली कलविकरणी । बलविकरणी चैव बलप्रमथनीत्यपि ।। १७० ।। सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् । पुराणि नव विद्यायामनन्तस्सूक्ष्मसंज्ञकः ।। १७१ ।। शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ।। १७२ ।। सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु । एकादशपदान्यासन्नित्यंयोगिन इत्यपि ।। १७३ ।। योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः । ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ।। १७४ ।। अनाथायपदं प्रोक्तमनन्तायपदं पुनः । शिवायेतिपदं सर्वव्यापिने च पदं ततः ।। १७५ ।। व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च । निष्कृतौ शतहोमं तु कवचेन समाचरेत् ।। १७६ ।। सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती । ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ।। १७७ ।। शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् । बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ।। १७८ ।। ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।। १७९ ।। पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् । इन्धिका दीपिका चैव रोचिका मोचिका तथा ।। १८० ।। तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु । व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ।। १८१ ।। अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता । भुवनानि तु शाक्तानि पञ्चैव कथितानि च ।। १८२ ।। एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् । ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ।। १८३ ।। संपूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् । कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।। १८४ ।। निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् । अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ।। १८५ ।। ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् । समयं समयाचारं शक्तो पाशात्मके न्यसेत् ।। १८६ ।। समयं समयाचारपाशशुद्धिं महेश्वर । शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ।। १८७ ।। शिवबीजं समुच्चार्य सदाशिवपदं पुनः । मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ।। १८८ ।। पूर्ववत्संविसृज्यात्म सूत्रं संगृह्य निर्मलम् । रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ।। १८९ ।। शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् । संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ।। १९० ।। पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् । शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ।। १९१ ।। आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः । आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ।। १९२ ।। नमः प्रणवसंयुक्तमुक्त्वा संपूज्य सन्निधौ । विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ।। १९३ ।। सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् । सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ।। १९४ ।। मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति । शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ।। १९५ ।। शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः । मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ।। १९६ ।। अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् । ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ।। १९७ ।। संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् । छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ।। १९८ ।। आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् । स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ।। १९९ ।। ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि । प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ।। २०० ।। अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः । यावत्वयं परं धाम भगवन् परमेश्वर ।। २०१ ।। शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् । एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ।। २०२ ।। समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसंमुखम् । शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ।। २०३ ।। अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् । सकलीकृतमन्त्राणामेकैकाहुतिदानतः ।। २०४ ।। सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे । विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ।। २०५ ।। इन्धिका दीपिका चैव रोचिका मोचिका तथा । तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ।। २०६ ।। बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः । आभिः कलाभिस्संकॢप्तदेहयुग्देशिकोत्तमः ।। २०७ ।। व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता । अनाथानाश्रिता चेति बहिः करणसंयुतः ।। २०८ ।। अन्तः करणसंयुक्तस्समनाकल्पितं च तत् । आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ।। २०९ ।। कृत्वा पूरककुम्भौ तु जिह्वासंबद्धतालयुक् । ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ।। २१० ।। सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि । नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ।। २११ ।। सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसंनिभम् । संभाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ।। २१२ ।। शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु । व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ।। २१३ ।। समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया । शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ।। २१४ ।। योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् । तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ।। २१५ ।। यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः । साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ।। २१६ ।। न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते । स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ।। २१७ ।। होमयेद् देशिको धीमान् प्रयोगेणामुना यथा । सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ।। २१८ ।। अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् । आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ।। २१९ ।। इत्येवं कथिता दीक्षा सर्वपापविमोचनी । चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ।। २२० ।। न्यायजा गूढजाता वा दीक्षायामधिकारिणः । जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकांक्षिणः ।। २२१ ।। दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया । अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ।। २२२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः पटलः २४ चतुर्विंशत्तमे पटले आचार्याभिषेक विधिः अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि । आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ।। १ ।। यत्र विप्राः सदाचाराः यतयश्च तपोधनाः । सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ।। २ ।। एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः । ककाराष्टक निर्मुक्तः प्रसंङ्गात् सोऽपि कथ्यते ।। ३ ।। कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः । कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ।। ४ ।। आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु । विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ।। ५ ।। दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे । स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ।। ६ ।। व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके । सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ।। ७ ।। विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च । ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ।। ८ ।। वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते । स्वार्थेष्टौ चल लिंगस्य प्रतिष्ठायां त्रयस्विमे ।। ९ ।। शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके । बाणलिंगेक्षणेवापि स्थापको यदि नैष्ठिकः ।। १० ।। आचार्यं गौलकं चैव दयित परिवर्तकम् । तथैव पारवेत्तारं देवलं च पुनर्भवत् ।। ११ ।। अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा । खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ।। १२ ।। अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा । असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ।। १३ ।। अथव्यसनिनं पारदारिकं वृषलीपतिम् । चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ।। १४ ।। परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् । परापवाद शीलं च तथा बहुकिणैर्वृतम् ।। १५ ।। सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् । बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ।। १६ ।। चपलं शठसञ्जारं वृद्ध्या जीवन मेव च । शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ।। १७ ।। सांख्ये विविधभेदे च मायावादेऽर्हतो मते । बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ।। १८ ।। अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके । सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ।। १९ ।। भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च । सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ।। २० ।। काव्य नाटकसक्तं च भरते तु निरन्तरम् । कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरं ।। २१ ।। ज्योतिज्ञानपरंवेद पुराणहित चेतसम् । तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ।। २२ ।। कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ।। २३ ।। शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च । चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ।। २४ ।। शैवार्थ देहिके हित्वा विचारं सन्ततं नरः । योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ।। २५ ।। अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् । अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ।। २६ ।। दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् । समान गोत्र संबन्धं कुसुमाक्षं च वर्जयेत् ।। २७ ।। इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि । अभिषेकं ततःकुर्यात् अंकुरार्पण पूर्वकम् ।। २८ ।। पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ । मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ।। २९ ।। अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् । चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ।। ३० ।। स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् । भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ।। ३१ ।। लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया । बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ।। ३२ ।। काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः । सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ।। ३३ ।। नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् । घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ।। ३४ ।। स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् । चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ।। ३५ ।। सदेशानेन विद्येशैः नवपञ्चपवित्रकैः । पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ।। ३६ ।। शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् । अथवा कलशानेकघटं वा शिव संयुतम् ।। ३७ ।। दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् । भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ।। ३८ ।। स्वासनेन तथा सम्यक् अर्चितं विभवेन वा । वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ।। ३९ ।। शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः । परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ।। ४० ।। सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च । आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ।। ४१ ।। पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् । आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ।। ४२ ।। ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः । करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ।। ४३ ।। दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः । पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ।। ४४ ।। राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः । आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ।। ४५ ।। दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ । तथैवं देव देवाय देशिकाय मयाकृतम् ।। ४६ ।। त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति । विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ।। ४७ ।। निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् । स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ।। ४८ ।। दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् । हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ।। ४९ ।। तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् । शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ।। ५० ।। अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः । तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ।। ५१ ।। अनेनैव प्रकारेण साधकं चाभिषेचयेत् । किंतु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ।। ५२ ।। दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः । सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ।। ५३ ।। जात्युद्धार विहीनो यस्सामान्य समयी भवेत् । तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ।। ५४ ।। दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः । न तु लिंगार्चने योग्याः किमु दीक्षादि कर्मणि ।। ५५ ।। शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् । शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ।। ५६ ।। शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते । मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ।। ५७ ।। शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् । बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ।। ५८ ।। भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ।। ५९ ।। भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते । सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ।। ६० ।। अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते । योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ।। ६१ ।। कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् । स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ।। ६२ ।। व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् । व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ।। ६३ ।। पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते । सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ।। ६४ ।। शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः । आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ।। ६५ ।। वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः । पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ।। ६६ ।। मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः । समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ।। ६७ ।। आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् । आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ।। ६८ ।। लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः । प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ।। ६९ ।। स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् । प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ।। ७० ।। स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च । यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ।। ७१ ।। स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते । आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ।। ७२ ।। तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया । स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ।। ७३ ।। अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति । आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ।। ७४ ।। साधकश्च तथा भूतस्सर्वकर्माणि शंसितः । महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ।। ७५ ।। नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् । लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ।। ७६ ।। मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् । संहिता पारगो वाथ लक्षाध्याययुपदेशतः ।। ७७ ।। संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका । शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ।। ७८ ।। सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् । चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ।। ७९ ।। पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ।। ८० ।। सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते । तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ।। ८१ ।। सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् । अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ।। ८२ ।। वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः । वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ।। ८३ ।। सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् । तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ।। ८४ ।। शब्दशास्त्रमलंकारो निरुक्तं छन्द एव च । कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ।। ८५ ।। आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च । लोकायतं तथा सांख्य मार्हतो मतमेव च ।। ८६ ।। मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् । वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ।। ८७ ।। तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् । धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ।। ८८ ।। रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् । न्याय वैशेषिकं सांख्यं सेश्वरं यत् प्रणीतवान् ।। ८९ ।। ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् । पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ।। ९० ।। सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् । ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ।। ९१ ।। पश्चिमं वाम संज्ञं तु वामाद्दक्षिणमुत्तमम् । दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ।। ९२ ।। पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः । सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ।। ९३ ।। अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः । सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ।। ९४ ।। सिद्धान्त विहिताचारो वैदिकाचार उच्यते । गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ।। ९५ ।। तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् । तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ।। ९६ ।। युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च । दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ।। ९७ ।। तथा पुंसवनादिश्च शैव आवश्यको मतः । तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ।। ९८ ।। क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये । वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ।। ९९ ।। भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः । वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ।। १०० ।। निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया । हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ।। १०१ ।। शैव कर्म समायुक्ता शैवे शैवी च केवला । श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ।। १०२ ।। आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च । सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ।। १०३ ।। गर्भाधानादिके वापि दहने श्राद्ध कर्मणि । अष्टका करणे वापि नित्यनैमित्तिकेपि वा ।। १०४ ।। वेदाध्ययन संस्कारे सोमयागादिकेपि वा । वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ।। १०५ ।। तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् । कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ।। १०६ ।। विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् । संग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ।। १०७ ।। शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा । वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ।। १०८ ।। तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि । सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ।। १०९ ।। शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः । तदापि वैदिकं वेदसार मित्यादि वाक्यतः ।। ११० ।। शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः । सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ।। १११ ।। स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते । कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ।। ११२ ।। कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् । अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ।। ११३ ।। अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् । सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रंदक्षिणाननम् ।। ११४ ।। अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् । विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ।। ११५ ।। स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत् । वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ।। ११६ ।। मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् । चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिंबमन्यतः ।। ११७ ।। प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् । जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ।। ११८ ।। जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् । किरणं तल मित्युक्तं वातुलं वामकं तलम् ।। ११९ ।। सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः । ऋषय ऊचुः पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ।। १२० ।। इत्यादि कथितं देव परस्परविरोधनं । ईश्वर उचाच बहुधा कथितं विप्राः भवद्भिरवधारितम् ।। १२१ ।। मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् । तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ।। १२२ ।। सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् । भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ।। १२३ ।। निराकारं भवेज्ज्ञानं संकरं तदुपास्यतः । परस्पर विरोधीति मतिहीनैः प्रबाध्यते ।। १२४ ।। ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः । न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ।। १२५ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा । न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ।। १२६ ।। उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः । कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ।। १२७ ।। दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः । विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ।। १२८ ।। रौरवान्मुख बिंबान्ता वामदेव मुखोद्भवाः । प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ।। १२९ ।। तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः । अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ।। १३० ।। स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः । अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ।। १३१ ।। विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता । हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ।। १३२ ।। विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् । विशिष्टे विद्यमाने च हठादज्ञेन कारिते ।। १३३ ।। साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता । तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ।। १३४ ।। कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् । लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ।। १३५ ।। द्रव्यं करोति सुमुखं सर्वलोकसमं यशः । ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ।। १३६ ।। तद्वित्तमाहृतं येन स पापी च स दुर्मतिः । नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ।। १३७ ।। इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः चतुर्विंशतितमः पटलः २४ ज्ञानदीक्षाविधिः ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः । सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ।। १ ।। एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे । सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ।। २ ।। शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे । शुद्धदेशे सुखासीनः पञ्चगोचरसंभवः ।। ३ ।। दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे । सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ।। ४ ।। स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि । गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ।। ५ ।। पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् । षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ।। ६ ।। ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।। ७ ।। दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसंनिधौ । सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ।। ८ ।। गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् । अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ।। ९ ।। तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् । प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ।। १० ।। तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् । पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ।। ११ ।। सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् । नवमं शिवयोगं च दशमं शिवभोगकम् ।। १२ ।। त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् । गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ।। १३ ।। इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ।। १३१/२ ।। २५ पञ्चविंशत्तमे पटले गोत्र निर्णय विधिः ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ।। १ ।। ऊनपञ्चाशदेवैषां संख्या स्यान्महतामिह । कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ।। २ ।। अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः । अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ।। ३ ।। शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः । शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ।। ४ ।। कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः । गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ।। ५ ।। क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा । नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ।। ६ ।। आदिशैवे यथा गोत्रमनुशैवे तथामतम् । किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ।। ७ ।। जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः । उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ।। ८ ।। प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः । कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ।। ९ ।। धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः । अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ।। १० ।। पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः । लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ।। ११ ।। भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः । ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ।। १२ ।। उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः । मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ।। १३ ।। पराशरस्ततोऽगस्त्यस्साम्बवाहनसंज्ञकाः । सोमवाहनसंज्ञाश्च यज्ञवाहास्ततो मताः ।। १४ ।। वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा । वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ।। १५ ।। हारिताः संकृतिश्चैव पश्चाद्रथीतरा मताः । मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ।। १६ ।। कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः । पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ।। १७ ।। तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः । कान्तका बाष्पका वाच्युकिता लोमका धनाः ।। १८ ।। साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् । यम दूता आनभिन्ना ततस्तारायणा मताः ।। १९ ।। चौलकायनसंज्ञाश्च जाबाल्युदुम्बरौ मतो । दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ।। २० ।। श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसंज्ञकाः । शालावतां मयूराश्च तथोदुत्सरित्यपि ।। २१ ।। चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसंज्ञकाः । ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ।। २२ ।। येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि । स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ।। २३ ।। पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ।। २४ ।। लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः । जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ।। २५ ।। कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः । विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ।। २६ ।। प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु संमताः । माणा उद्वहला एते रोक्षास्तु कुशिका मताः ।। २७ ।। प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः । माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ।। २८ ।। विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः । श्रौमितो देवतरसः कामकायनिकस्ततः ।। २९ ।। कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः । त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ।। ३० ।। देवश्रावस इत्यन्तो देवतरस इत्यमी । कठाः स्वैरन्ध्रिसंज्ञाश्चकरभाः सहिताः परे ।। ३१ ।। वाजायनाश्च कौकृत्यास्ततो जाणायना मताः । कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ।। ३२ ।। पिण्डिग्रीवास्ततो नारायणा नारद्य संज्ञकाः । एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ।। ३३ ।। विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः । आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ।। ३४ ।। तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः । त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ।। ३५ ।। विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः । आजायनस्ततः प्रोक्त एकवत्सश्च संमतः ।। ३६ ।। त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ।। ३७ ।। अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः । एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ।। ३८ ।। कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः । कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ।। ३९ ।। त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः । ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ।। ४० ।। पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च संमताः । ऋषी द्वौ संमतौ विश्वामित्रः पौरणः इत्यपि ।। ४१ ।। कौशिकाश्च दशाप्येवं न समन्वयगामिनः । काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ।। ४२ ।। ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः । आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ।। ४३ ।। धौमधौम्रायणा औधप्रचुराग्रायणा मताः । रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ।। ४४ ।। कायाताया अकापाया निकामौषनिकिस्तथा । काद्रायणा औज्वलयो रोहितायनसंज्ञकाः ।। ४५ ।। पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च । वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ।। ४६ ।। कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः । कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ।। ४७ ।। वैतम्बा देवयाताश्च महाचक्रेयसंज्ञकाः । पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ।। ४८ ।। वृषगणाश्च पानध्यो दाक्षपायण एव च । हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ।। ४९ ।। जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः । वैशम्पायनसंज्ञाक्ष ततः केशायताः स्मृताः ।। ५० ।। औकायनिस्ततो मार्जायनाः कांसायनाः परे । देवश्च होतसूच्यास्थूणा भागुरयस्तथा ।। ५१ ।। पाथिकार्याः खरेभा ये गोमयातास्ततः परम् । हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ।। ५२ ।। अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि । उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ।। ५३ ।। नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः । काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ।। ५४ ।। त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः । काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ।। ५५ ।। शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः । रभेरव्ययसौमानौ वनसंस्तु करेयुतः ।। ५६ ।। काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः । महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ।। ५७ ।। ततः कामशयः पश्चान्महौजक्य एव च । ततो मौञ्जायनाः प्रोक्तास्ततो गांगायना मताः ।। ५८ ।। वात्सभालय इत्युक्तास्ततो गोमिलसंज्ञकाः । वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ।। ५९ ।। बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः । हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ।। ६० ।। वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् । जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ।। ६१ ।। काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा । काश्यपक्षापवत्सारोऽसितं इत्यथवा त्रयः ।। ६२ ।। शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा । कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ।। ६३ ।। चैरन्घ्रिः पशवश्चिव पयणायनसंज्ञकाः । कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ।। ६४ ।। कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि । कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ।। ६५ ।। सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः । यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ।। ६६ ।। यौधवा याजपा एते लोगाक्षय इति स्मृताः । अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ।। ६७ ।। काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः । पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च संमताः ।। ६८ ।। भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः । देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ।। ६९ ।। ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः । आजा औमाश्च तौदेहाः परिणद्धेधसंज्ञकाः ।। ७० ।। शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः । वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ।। ७१ ।। श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः । ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसंज्ञकाः ।। ७२ ।। पैलाः सौज्ज्वलयः कारुणादयः शुगसंज्ञकाः । भारुण्डेया इषुमतास्तथा वौदोदमेघयः ।। ७३ ।। सौरभरास्तथा भाद्रपथयः परिकीर्तिताः । ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ।। ७४ ।। प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः । वाराहयोः देववेला वलभीगय इत्यपि ।। ७५ ।। भद्राङ्गगतसंज्ञाश्च शालाहलय इत्यपि । नृत्यायना महावेलास्ततः शालालयो मताः ।। ७६ ।। शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा । क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ।। ७७ ।। ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः । सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ।। ७८ ।। स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः । ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ।। ७९ ।। आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च । धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ।। ८० ।। मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः । काब्ल्याः कारुपथयः कारिषायणसंज्ञकाः ।। ८१ ।। भरद्वाजवनौ द्वौ तु ऋषयः पञ्च संमताः । भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ।। ८२ ।। अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः । एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ।। ८३ ।। भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः । स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ।। ८४ ।। सांभरायणसंज्ञाश्च तथा यौगन्धरायणः । सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ।। ८५ ।। ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः । भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ।। ८६ ।। सत्यापचय आख्याता जाणपक्वलसंज्ञकाः । पलाशशाखावन्तस्ते मर्कटायनसंज्ञकाः ।। ८७ ।। ततः संग्रहतुल्याश्च वैधूह्यः कारिरोतयः । त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ।। ८८ ।। पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः । अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ।। ८९ ।। गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः । ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ।। ९० ।। भारद्वाजास्त्रयश्चापि न समन्वयगामिनः । गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ।। ९१ ।। आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः । सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ।। ९२ ।। व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः । कठोरिः कारुणिः कीलालयः पार्थिवसंज्ञकाः ।। ९३ ।। काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः । एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ।। ९४ ।। प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः । शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ।। ९५ ।। ततः क्षीरकम्भाश्च ततः सौमुचयो मताः । सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ।। ९६ ।। राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः । एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ।। ९७ ।। अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः । कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ।। ९८ ।। पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः । ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ।। ९९ ।। पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः । कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ।। १०० ।। पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः । आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ।। १०१ ।। ततो दीर्घतमश्चेति पर्यायाः पञ्च संमताः । कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ।। १०२ ।। बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि । औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ।। १०३ ।। गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः । कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ।। १०४ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः । विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ।। १०५ ।। प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः । अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ।। १०६ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः । तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ।। १०७ ।। अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे । अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ।। १०८ ।। भोजश्चादितिसंज्ञश्च चान्द्रोशीः पार्व इत्यपि । कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ।। १०९ ।। ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः । ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ।। ११० ।। शाम्ब व्यसन संज्ञाश्च कार्मर्यायनयो मताः । ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ।। १११ ।। औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा । ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ।। ११२ ।। गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः । श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ।। ११३ ।। हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः । वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ।। ११४ ।। कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः । अनीलाययनसंज्ञाश्च अङ्गिराश्च ततो मताः ।। ११५ ।। गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः । शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ।। ११६ ।। भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः । त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ।। ११७ ।। अर्चनानस इत्येते ऋषयस्त्रय ईरिताः । तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ।। ११८ ।। अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः । ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ।। ११९ ।। अत्रिरर्चनानसेति गविष्ठिर इति त्रयः । मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ।। १२० ।। वैत भावय इत्येते ऋषयश्च ततो मताः । ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ।। १२१ ।। ततो गौरकयो वायुपूरकाः सायनास्ततः । इत्येते त्रियार्षेयाः स्युर्मुद्गलाः संप्रकीर्तिताः ।। १२२ ।। अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः । चतुर्विधा अप्यात्रेया न समन्वयगामिनः ।। १२३ ।। वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः । वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ।। १२४ ।। आश्वलायनसंज्ञाश्च गविष्ठास्त्वाश्वलयनाः । शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ।। १२५ ।। औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः । कोलायनाश्च को भोजिस्ततः पौलायना मताः ।। १२६ ।। सुन्दहरित इत्युक्तः काण्डेय विधिरेव च । सप्तवेलां इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ।। १२७ ।। एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः । प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ।। १२८ ।। ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः । आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ।। १२९ ।। पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः । सोमरङ्गलिनः कोकास्ततः कापटवा मताः ।। १३० ।। हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च । माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ।। १३१ ।। त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः । वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ।। १३२ ।। उपमन्युरौपगवा मण्डलेखय एव च । जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ।। १३३ ।। त्रैवर्ण वैवशागारिसारक्षा रक्षसंज्ञकाः । शैलालयो महाकर्णानया बालशिखा मताः ।। १३४ ।। औद्दाहमानयो बालानया भागास्ततो मताः । इत्युन्मायन संज्ञाश्च ततः कुण्डोदरायणाः ।। १३५ ।। लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः । अनृक्षर वसंज्ञाश्च कापिला वय एव च ।। १३६ ।। कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः । वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ।। १३७ ।। इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः । ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ।। १३८ ।। भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः । कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ।। १३९ ।। कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः । हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ।। १४० ।। खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः । श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ।। १४१ ।। पराशराः स्युररुणास्ततो भालुक्य संज्ञकाः । बादरिश्च तथा गार्गो वना वै कौकसादयः ।। १४२ ।। इत्येते कथिता पञ्च प्रनीलाश्च पराशराः । ततः सौधवसानाश्च आलंभायन संज्ञकाः ।। १४३ ।। स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः । चोलकायन संज्ञाश्च वार्णवल्कास्तथैव च ।। १४४ ।। पुनर्देवनगौख्याः श्रविष्टायन संज्ञकाः । ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ।। १४५ ।। आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च । कैमीयतय इत्येते पञ्च नीलाः पराशराः ।। १४६ ।। कृष्णाजिना काविशुभास्ततः श्यामायना मताः । ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ।। १४७ ।। श्वेताः पराशराः पञ्च वात्स्यायन एव च । श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ।। १४८ ।। श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः । वसिष्ठ शक्तिसंज्ञश्च पराशर इति त्रयः ।। १४९ ।। सर्वे पराशरास्त्वेते परस्परमयोगिनः । ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ।। १५० ।। शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः । तथौपदहनिश्चैव धावणिर्लावणिस्ततः ।। १५१ ।। लाव्योऽर्बुदोवैरणयो बुधादरय एव च । बोदरिः शैवरतयस्ततः श्यामातयो मताः ।। १५२ ।। ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा । गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ।। १५३ ।। दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे । सांभवाहन संज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५४ ।। दृढच्युतिरगस्त्यश्च सांभवाहस्त्रयस्त्विमे । सोमवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५५ ।। दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे । यज्ञवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ।। १५६ ।। दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे । अगस्तयस्तु चत्वारो नसमन्वियगामिनः ।। १५७ ।। जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः । मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ।। १५८ ।। आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः । शार्कराक्षास्ततो देवतायनाः शौनकायनाः ।। १५९ ।। माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः । पैङ्गलायन संज्ञाश्च पैला दाध्रेषयस्ततः ।। १६० ।। ततो बाह्यकयो वैश्वानरयश्च विलोहिताः । बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ।। १६१ ।। वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ । वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ।। १६२ ।। दधीचयश्च वापाणिस्ततः शैखावताः मताः । वाकायनाः सौकृतयस्ततो बालायना मताः ।। १६३ ।। सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः । ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ।। १६४ ।। जानायना औरक्षयाः काम्बरोदरयस्ततः । कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ।। १६५ ।। वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च । मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ।। १६६ ।। काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः । नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ।। १६७ ।। बाहुमित्रायणा आपिशलयो रोहितायनाः । ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ।। १६८ ।। ततो राजित वाहाश्च ततः शारद्वतायनाः । नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ।। १६९ ।। वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ।। १७० ।। ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि । विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ।। १७१ ।। प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः । ततस्त्वभयजाताः स्युः काण्डरथय एव च ।। १७२ ।। आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः । क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ।। १७३ ।। एते मताः विदा पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ।। १७४ ।। आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च । कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ।। १७५ ।। गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः । आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ।। १७६ ।। भार्गवश्च्यावनश्चाप्नुवानोरथानूपसंज्ञकाः । आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ।। १७७ ।। वत्सानमार्ष्टिषेणानां विदानां च परस्परम् । अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ।। १७८ ।। यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः । वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ।। १७९ ।। दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे । कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ।। १८० ।। सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः । भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ।। १८१ ।। ततः स्युर्भोग चितय एते यस्तका इति स्मृताः । त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ।। १८२ ।। भृगुश्चैव तथा यस्को दिवोदास इति त्रयः । मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ।। १८३ ।। सापिण्डिनो महावाल्या माल्या यावाल्यसंज्ञकाः । पुराभिनाय एजेयास्ततो राक्षायणा मताः ।। १८४ ।। कैतवायनयो माञ्जायना मादायवः स्मृताः । एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ।। १८५ ।। भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः । वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य संज्ञकाः ।। १८६ ।। त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः । भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ।। १८७ ।। शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति । गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ।। १८८ ।। श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः । एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ।। १८९ ।। एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः । यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ।। १९० ।। शुनकानां च संबन्धः कर्तव्य इति गम्यते । अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ।। १९१ ।। भद्रणा भद्रणाश्चैव शठमार्षण संज्ञकाः । शाबरायणसंज्ञाश्च सात्यकिः सात्यकायनाः ।। १९२ ।। बादरायणसंज्ञाश्च वात्स प्रायण संज्ञकाः । आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य संज्ञकाः ।। १९३ ।। देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः । एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ।। १९४ ।। अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा । वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ।। १९५ ।। कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे । मौञ्जिश्च माञ्जयश्चैव मर्कटायन संज्ञकाः ।। १९६ ।। मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः । मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ।। १९७ ।। अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः । हारिताश्च ततः कौत्साः सांख्या दार्भास्तथैव च ।। १९८ ।। शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ । नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ।। १९९ ।। कौतपाः कौलयः कारीषयः पौलय एव च । पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ।। २०० ।। इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः । आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ।। २०१ ।। ततः संकृतयस्तण्डिः शंभुश्च मलकास्ततः । पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ।। २०२ ।। हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः । चारायणाः पूतिभाषास्तत आग्रायणा मताः ।। २०३ ।। चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी । प्रोक्ता संकृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ।। २०४ ।। अङ्गिराः संकृतिश्चाम्बरीषश्च ऋषयस्त्रयः । रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ।। २०५ ।। शैलालयश्च लैभिश्च ततो लीभायना मताः । मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ।। २०६ ।। ततो हेमशता ह्येते त्रियार्षेया रथीतराः । अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ।। २०७ ।। अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् । मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ।। २०८ ।। ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः । ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ।। २०९ ।। त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः । हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ।। २१० ।। ऐतिशायन संज्ञाश्च तरस्विश्च पतञ्जलि । मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ।। २११ ।। ततः करशिखण्डश्च ततो मौषींतकिर्मतः । तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ।। २१२ ।। त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः । अङ्गिराश्च कपित्थाश्च अंबरीष इति त्रयम् ।। २१३ ।। विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् । राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ।। २१४ ।। क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः । वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ।। २१५ ।। आत्रेयश्चैव वाध्रेयो वाधूलश्चापि संकृतिः । वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ।। २१६ ।। नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह । अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ।। २१७ ।। समानगोत्रप्रवराञ्ज्ञात्वा संबन्धमाचरेत् । समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ।। २१८ ।। ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् । तस्याश्च रक्षणंकार्यमाहाराच्छादनादिभिः ।। २१९ ।। विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् । तयासह प्रमादेन संयोगाद्यं कृतं यदि ।। २२० ।। प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते । सकृदागमने कुर्यात् तेन चान्द्रायणेन च ।। २२१ ।। सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् । एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ।। २२२ ।। मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् । षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ।। २२३ ।। तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् । निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ।। २२४ ।। तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः । तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ।। २२५ ।। उपवासस्तदा स्नानं पञ्चगव्याशनं जपः । होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ।। २२६ ।। साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके । चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ।। २२७ ।। त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् । द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ।। २२८ ।। इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः पञ्चविंशतितमः पटलः २६ षड्विंशत्तमे पटले शताभिषेकविधिः शताभिषेकं वक्ष्येहं संक्षेपात् द्विजसत्तमाः । अकालमृत्यु मथनं आयुरारोग्यवर्धनम् ।। १ ।। वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् । दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ।। २ ।। उत्तरायण कालेतु शुक्लपक्षे विशेषतः । सुलग्ने च सुवारे च सुतिथौ शोभने दिने ।। ३ ।। स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः । मङ्गलाङ्कुर संयुक्ते मण्डपे समलंकृते ।। ४ ।। कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे । पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ।। ५ ।। मुखायामयुते वापि चतुर्द्वार समन्विते । एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ।। ६ ।। ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा । अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ।। ७ ।। राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ।। ८ ।। पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् । अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ।। ९ ।। कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः । तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ।। १० ।। प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् । तद्रात्रौ तु पयः पीत्वा शययायां कम्बलादिभिः ।। ११ ।। कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः । मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ।। १२ ।। विसृज्य शिल्पिनंपश्चात् पुण्याहं वाचयेद्गुरुः । पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ।। १३ ।। शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् । तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ।। १४ ।। परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम् । चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ।। १५ ।। अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः । तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ।। १६ ।। वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् । अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ।। १७ ।। त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः । आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ।। १८ ।। अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः । शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ।। १९ ।। तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् । अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ।। २० ।। मध्यमे शिवकुंभं तु द्वात्रिंशत्प्रस्थपूरितम् । वर्धनी च तदर्धेन पूरिता शिवपूरिताः ।। २१ ।। बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः । त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ।। २२ ।। अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् । पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ।। २३ ।। चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् । नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ।। २४ ।। नानागन्धसमायुक्तं नानाबीजसमन्वितम् । नानाधातुसमायुक्तं नानालोहसमन्वितम् ।। २५ ।। नानादिगौषधोपेतं नानाफलसमन्वितम् । नानापुष्पसमायुक्तं नानागव्यसमायुतम् ।। २६ ।। संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः । अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ।। २७ ।। पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः । वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ।। २८ ।। नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् । प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ।। २९ ।। हिरण्यं रजतं ताम्रमारकूटं च सीसकम् । आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ।। ३० ।। द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् । अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ।। ३१ ।। रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च । जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ।। ३२ ।। कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् । ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ।। ३३ ।। पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसंभवाः । बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसंभवाः ।। ३४ ।। औदुम्बरी च नारङ्गंमातुलुङ्गसमुद्भवाः । वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ।। ३५ ।। आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः । नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ।। ३६ ।। सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके । उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ।। ३७ ।। वकुलं करवीरं च पाटलं कुरवं तथा । मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ।। ३८ ।। चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः । चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ।। ३९ ।। तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् । नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ।। ४० ।। वैष्णवं माषनीवार गोधूमं यवमेव च । अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ।। ४१ ।। श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः । लक्ष्मीश्च शंखपुष्पी च विष्णुक्रान्तिश्च हंसिनी ।। ४२ ।। तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी । सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ।। ४३ ।। पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च । गोमयं नालिकेरं त मातुलुङ्गफलं तथा ।। ४४ ।। नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च । दाडिमीसंभवं चैव न्यस्तव्याः क्रमशस्ततः ।। ४५ ।। गन्धोदकमथैशान्यां कलशेषु नवस्वपि । एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ।। ४६ ।। आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः । वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ।। ४७ ।। पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकं एव च । मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ।। ४८ ।। पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् । मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ।। ४९ ।। बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् । दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ।। ५० ।। मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके । उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ।। ५१ ।। अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् । पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ।। ५२ ।। गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः । नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ।। ५३ ।। समिदाज्यचरू/ल्लाजतिलवैणव माषकान् । जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ।। ५४ ।। उदुम्बरवटाश्वत्थप्लक्षा इंद्रादिदिषु च । शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ।। ५५ ।। पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् । सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ।। ५६ ।। शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः । ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ।। ५७ ।। होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च । गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ।। ५८ ।। अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् । किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ।। ५९ ।। वर्धन्यां च यजेद् गौरीमशेषकलशेषु च । पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ।। ६० ।। दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् । कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ।। ६१ ।। सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् । प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ।। ६२ ।। सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् । पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ।। ६३ ।। आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणेवेन तु । पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ।। ६४ ।। कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते । कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ।। ६५ ।। भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे । पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ।। ६६ ।। सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् । अन्येषामपि सर्वेषां शतधारावटेन वा ।। ६७ ।। हैमेन राजनेतापि तथोरन्यतरेण वा । सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ।। ६८ ।। स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा । गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ।। ६९ ।। विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् । तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ।। ७० ।। स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् । सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ।। ७१ ।। स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् । आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ।। ७२ ।। गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् । पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ।। ७३ ।। स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् । स्थापयित्वा सवत्सांगां दर्शयेच्च पयस्विनीम् ।। ७४ ।। बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः । सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ।। ७५ ।। आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् । गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ।। ७६ ।। पूणकुम्भयुते दीपसंयुते फलकोपरि । स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ।। ७७ ।। कारयित्वा ततः स्त्रीभिः रजनीजलधारया । दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ।। ७८ ।। ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति । श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ।। ७९ ।। पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा । एकेनवाभिषेकं तु कारयेदभिषेचनम् ।। ८० ।। दक्षिणां च गुरोर्दद्दादुत्तमादिषु संभवाम् । दासीदासं भुवं गां च गृहोपकरणानि च ।। ८१ ।। मूर्तिपानां तदन्ते च तदन्ते जापिनामपि । स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ।। ८२ ।। पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च । एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ।। ८३ ।। इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् । आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ।। ८४ ।। यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ८५ ।। नोपसर्गभयं तत्र न परागमविप्लवः । स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ।। शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ।। ८६ ।। इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः षड्विंशतितमः पटलः २७ सप्तविंशत्तमे पटले अन्त्येष्टिविधिः अन्त्येष्टिं संप्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः । ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ।। १ ।। आचार्यसाधका वास्युः पुत्रका समयस्थिताः । गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ।। २ ।। आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता । अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ।। ३ ।। आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः । प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ।। ४ ।। तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् । परिहृत्य निषिद्धे च यैस्तेषां अप्रमादिनाम् ।। ५ ।। तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते । सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ।। ६ ।। यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् । यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ।। ७ ।। विधायस्नानमाग्नेयं मन्त्र संनद्ध विग्रहम् । मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ।। ८ ।। अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे । स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ।। ९ ।। संस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् । स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ।। १० ।। तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ । दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ।। ११ ।। नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् । एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ।। १२ ।। एकधा बहुधा वापि क्रियामेनां समाचरेत् । पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ।। १३ ।। विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा । एतत् सर्वं विधेयं तु देशिकेनतरेण वा ।। १४ ।। तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् । गत प्राणे नरे तस्य स्नानार्थं तीर्थ संभवम् ।। १५ ।। जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा । तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ।। १६ ।। विधायैवं घटान्वापि कलशान् स्नपनोक्तितः । संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ।। १७ ।। स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् । पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ।। १८ ।। स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् । अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ।। १९ ।। कृत्वा संहारमार्गेण कौपीनं वसनं तथा । परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ।। २० ।। दीक्षितानामथान्येषां शिवशासनधारिणाम् । अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ।। २१ ।। ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा । आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ।। २२ ।। पुरुषायतमानां च षडङ्गुलविवर्धनात् । त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ।। २३ ।। सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठराम्द । आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ।। २४ ।। रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् । इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ।। २५ ।। निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः । शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ।। २६ ।। स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना । संघेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ।। २७ ।। शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् । तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ।। २८ ।। निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः । दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ।। २९ ।। दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् । दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ।। ३० ।। जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् । वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ।। ३१ ।। वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् । सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ।। ३२ ।। व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् । विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ।। ३३ ।। गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च । ईप्सितं सुखमाप्नोति परत्रेह च भावितः ।। ३४ ।। नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः । अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ।। ३५ ।। असहायमनाथं च गतासुं शिवयोगिनम् । नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ।। ३६ ।। वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः । अथ स्थानमदूरस्थमुदकस्य समं शुचि ।। ३७ ।। प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे । षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ।। ३८ ।। कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले । संकल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ।। ३९ ।। हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् । कुण्डंदक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ।। ४० ।। गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् । शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ।। ४१ ।। प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः । विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ।। ४२ ।। कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् । तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनः ।। ४३ ।। आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना । ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ।। ४४ ।। संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् । विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ।। ४५ ।। समाहृत्य विधानेन चितावास्तु प्रपूजयेत् । पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ।। ४६ ।। पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते । वंशरज्ज्वादिसंपन्नै विन्यसेद्वास्तुदेवताः ।। ४७ ।। तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके । नैऋत्यां वारिणा संपन्ने विष्णुं कोष्ठचतुष्टये ।। ४८ ।। आग्नेययामग्निना सार्धं रुद्रं कोष्ठचतुष्टये । वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ।। ४९ ।। गगनेन सदेशानमैशकोष्ठचतुष्टये । पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ।। ५० ।। निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् । ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ।। ५१ ।। शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च । निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ।। ५२ ।। तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् । ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ।। ५३ ।। मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् । व्युत्क्रमासनमिष्ट्वैवं साङ्गं संपूज्य शङ्करम् ।। ५४ ।। संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च । क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ।। ५५ ।। संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे । शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ।। ५६ ।। साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः । अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ।। ५७ ।। संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः । चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ।। ५८ ।। रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः । तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ।। ५९ ।। आग्नेययादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् । ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ।। ६० ।। पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् । अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ।। ६१ ।। शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु । शवशययां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ।। ६२ ।। चन्दनागरुसंमिश्रैर्विपर्यस्तपटावृताम् । संपूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ।। ६३ ।। कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा । स्नापितं धूपितं तत्र भस्मना नववर्त्मना ।। ६४ ।। सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया । आग्नेययां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ।। ६५ ।। वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः । ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ।। ६६ ।। भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् । महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ।। ६७ ।। ओं हूं हामथ हं हां हूं महाजालमिदं मतम् । उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ।। ६८ ।। विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः । सषडंगंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ।। ६९ ।। चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् । निवृत्यादि समादाय युगपद्वा क्रमेण वा ।। ७० ।। कलास्तास्साधिपाः प्राग्वद्वह्नौ संपूजयेत्ततः । ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ।। ७१ ।। योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः । भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ।। ७२ ।। तिरोभावः पशुत्वस्य पाशविश्लेष भेदने । तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ।। ७३ ।। विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा । एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ।। ७४ ।। उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि । अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ।। ७५ ।। यदाक्तो न पुनर्जातु पराधीनो भवेदणुः । कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ।। ७६ ।। विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः । स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ।। ७७ ।। शवमभ्येत्य शययायामारोप्य प्रावृतं कुशैः । याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ।। ७८ ।। आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् । तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ।। ७९ ।। संछाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् । मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ।। ८० ।। सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् । गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ।। ८१ ।। पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् । त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ।। ८२ ।। गृहाण मन्त्रसंपूतां शाव्यामेनां महाहुतिम् । प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ।। ८३ ।। नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः । अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ।। ८४ ।। उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् । धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ।। ८५ ।। अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि । क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ।। ८६ ।। ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् । तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ।। ८७ ।। शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् । स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ।। ८८ ।। उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः । भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ।। ८९ ।। अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् । द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ।। ९० ।। शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् । विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। ९१ ।। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ।। ९२ ।। शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया । निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ।। ९३ ।। विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते । जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ।। ९४ ।। शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा । स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ।। ९५ ।। अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया । अविद्यमानदेहानां तथा विकलदेहिनाम् ।। ९६ ।। क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् । कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ।। ९७ ।। विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् । दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ।। ९८ ।। क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् । इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ।। ९९ ।। कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः । कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ।। १०० ।। प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः । अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ।। १०१ ।। किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् । भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ।। १०२ ।। दहनं मरणं येषां तत्कुलक्षयकारणम् । तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ।। १०३ ।। नृणामकृतचूडानां मृतानामवटक्रिया । न तेषां दहनं नैव बलिर्नैवोदकक्रिया ।। १०४ ।। नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया । ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ।। १०५ ।। यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया । लवणापूरणोपेता विना बल्युदकौदनैः ।। १०६ ।। कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् । प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ।। १०७ ।। दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः । कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ।। १०८ ।। सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् । आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ।। १०९ ।। बाहुमात्रं खनेद्भूमिं तच्छययायामविस्तराम् । न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ।। ११० ।। तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा । योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ।। १११ ।। लवणेनाथवापूर्य तत्समीपप्रदेशतः । तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ।। ११२ ।। बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् । तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ।। ११३ ।। अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् । भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ।। ११४ ।। अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् । समा वातीत्य भर्ता तु यदि देशान्तरं गतः ।। ११५ ।। द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् । मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ।। ११६ ।। वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः । पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ।। ११७ ।। मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् । होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ।। ११८ ।। श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना । नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ।। ११९ ।। तण्डुलं क्षीरसंमिश्रं वामदेवेन निक्षिपेत् । अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ।। १२० ।। स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह । वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ।। १२१ ।। दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् । त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ।। १२२ ।। तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् । स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ।। १२३ ।। यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः । तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ।। १२४ ।। इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया । अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ।। १२५ ।। प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः । पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ।। १२६ ।। प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् । पञ्चसप्ततिसंख्यातं तर्पणं प्रति भोजनम् ।। १२७ ।। कल्पयेद् द्विशतं पञ्चपञ्चसंख्यासमन्वितम् । ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ।। १२८ ।। नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने । दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ।। १२९ ।। तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा । नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ।। १३० ।। एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि । तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ।। १३१ ।। वीतशोकस्य सक्तानां नराणां मूढचेतसाम् । समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ।। १३२ ।। शिवव्रतधरा ये च शैवा ये हृहिणीसखाः । न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ।। १३३ ।। तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा । न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ।। १३४ ।। आत्मनो भोगहेतूनामभावादुपचर्यते । तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ।। १३५ ।। स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् । अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ।। १३६ ।। सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः । चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ।। १३७ ।। देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते । मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ।। १३८ ।। यः करोति स संमूढो जलबुद्बुदसंनिभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।। १३९ ।। कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।। १४० ।। फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ।। १४१ ।। अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः । द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ।। १४२ ।। घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः । तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् संचयनं चितेः ।। १४३ ।। हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा । पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ।। १४४ ।। अस्थिसंग्रहणं वाथ कुर्यात् संचयनं विना । एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ।। १४५ ।। अस्थिसंग्रहणं विप्रप्रमुखाणां क्रमेण वा । सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ।। १४६ ।। पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् । अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ।। १४७ ।। ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च । तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ।। १४८ ।। षण्मासे वाब्दसंपूर्तौ तदूर्ध्वे वाथ निक्षिपेत् । निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ।। १४९ ।। पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् । दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ।। १५० ।। शिष्यैकगुरुसंबन्धा गुरुसंबन्धिनश्च ये । त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ।। १५१ ।। तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा । दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ।। १५२ ।। गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् । आचारं दीक्षितास्तस्मात्कुर्वीर/ल्लोकसंवृतिम् ।। १५३ ।। शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् । पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ।। १५४ ।। पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया । अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ।। १५५ ।। क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते । विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ।। १५६ ।। दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका । उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ।। १५७ ।। क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् । सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ।। १५८ ।। पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका । माससंख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ।। १५९ ।। नाम्नः प्राग्दन्तजननात्तथोपनयनादपिं । स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ।। १६० ।। तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते । क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ।। १६१ ।। भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा । पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ।। १६२ ।। पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ । तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ।। १६३ ।। दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् । दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ।। १६४ ।। त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् । समानोदकवर्गाणामाशौचं विहितं विधौ ।। १६५ ।। ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् । आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ।। १६६ ।। आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् । पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ।। १६७ ।। यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः । वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ।। १६८ ।। एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः । भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ।। १६९ ।। तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् । शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।। १७० ।। शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी । सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ।। १७१ ।। प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा । सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ।। १७२ ।। तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।। १७३ ।। सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः । कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ।। १७४ ।। अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् । ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ।। १७५ ।। तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि । तथैव रुद्रकन्यानां पञ्चाचार्येऽपि संमतम् ।। १७६ ।। हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् । न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ।। १७७ ।। सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ।। १७८ ।। प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः । नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ।। १७९ ।। स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा । इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ।। १८० ।। ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः । शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ।। १८१ ।। दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता । आशौचं दासदासीनामधिष्ठातृकुलोचितम् ।। १८२ ।। प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः । कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ।। १८३ ।। तथैव देवदासीनां मातृजं कुलमीरितम् । राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ।। १८४ ।। समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा । गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ।। १८५ ।। निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् । हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ।। १८६ ।। काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते । स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ।। १८७ ।। स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् । परित्ययेत् परार्थं वा लोकसंवरणाय च ।। १८८ ।। भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः । ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ।। १८९ ।। आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः । तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ।। १९० ।। तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् । विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ।। १९१ ।। एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः । अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ।। १९२ ।। नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः । साधारणस्त्रियो याश्च पूता नैव कदाचन ।। १९३ ।। राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः । महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ।। १९४ ।। शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः । दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ।। १९५ ।। प्रेतसूतकसंबन्धि नित्यहानिं करोति यत् । तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ।। १९६ ।। प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् । त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ।। १९७ ।। विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् । योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ।। १९८ ।। भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा । यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ।। १९९ ।। मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् । अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ।। २०० ।। एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् । जपेदघोरं स्नानान्ते दशांशो होम एव वा ।। २०१ ।। यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च । अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ।। २०२ ।। निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च । नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ।। २०३ ।। शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता । एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ।। २०४ ।। अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ।। २०४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः सप्तविंशतितमः पटलः २८ अष्टाविंशत्तमे पटले पितृ यज्ञ विधिः पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः । आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ।। १ ।। अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् । पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ।। २ ।। तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः । गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ।। ३ ।। कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा । विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसंमितैः ।। ४ ।। दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् । प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ।। ५ ।। तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये । स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ।। ६ ।। तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् । पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ।। ७ ।। धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् । तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ।। ८ ।। गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् । आशौच रहितैः नवमद्भाण्ड एव हि ।। ९ ।। ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च । द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ।। १० ।। एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् । अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ।। ११ ।। पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा । कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ।। १२ ।। कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् । सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ।। १३ ।। तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् । मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ।। १४ ।। तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा । संग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ।। १५ ।। अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे । एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ।। १६ ।। विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते । ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ।। १७ ।। वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः । आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ।। १८ ।। पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा । तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ।। १९ ।। दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति । पिण्डमेकं तदा देय माशौचं चाप्रदानतः ।। २० ।। इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः अष्टविंशतितमः पटलः २९ एकोनत्रिंशत्तमे पटले शैव श्राद्ध विधिः ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् । नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ।। १ ।। प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् । नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ।। २ ।। कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते । वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ।। ३ ।। तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते । तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ।। ४ ।। एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् । श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ।। ५ ।। नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् । चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ।। ६ ।। मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् । नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ।। ७ ।। अनूदकमधूपं च गन्धमाल्य विवर्जितम् । आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ।। ८ ।। एकादशे त्रिपक्षे च तथा च प्रतिमासके । वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ।। ९ ।। षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् । एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ।। १० ।। यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश । पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ।। ११ ।। द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् । त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ।। १२ ।। सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति । मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ।। १३ ।। भोजनं सोदकुंभं च प्रदद्याद् देशिकात्मने । विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ।। १४ ।। सोदकुंभयुतं पश्चात् सपिण्डीकरणं समे । विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ।। १५ ।। षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् । एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ।। १६ ।। अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्याद्संवत्सद्गुरुः ।। १७ ।। पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् । सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ।। १८ ।। समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने । शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ।। १९ ।। एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशांमतम् । पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ।। २० ।। अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् । घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ।। २१ ।। चतुर्थी सप्तमी चैव नवमी च त्रयोदशी । अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ।। २२ ।। अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् । व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ।। २३ ।। विष्वोरपि गजच्छायासंक्रान्त्यादिषु कारयेत् । शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ।। २४ ।। एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये । अन्यदा वापि कर्तव्यं संभवे वसुपात्रयोः ।। २५ ।। रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि । रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ।। २६ ।। गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् । मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।। २७ ।। नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु । यदि कुर्यान्नवश्राद्धम्. कुलक्षयकरं भवेत् ।। २८ ।। शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः । एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ।। २९ ।। पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः । आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ।। ३० ।। * * * * * * * * * * * * * * * * ? । * * * * * * * * * * * * * * * * ? ।। ३१ ।। अमाद्वयस्तु वै मासो मलिनः पापसंभवः । गर्हितः पितृदेवेभ्यः सर्वकर्मसु संत्यजेत् ।। ३२ ।। नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे । वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ।। ३३ ।। नवमी स्यादमावास्या नभस्ये कृष्णपक्षके । तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ।। ३४ ।। तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च । कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ।। ३५ ।। अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः । कन्यां गते सवितरि पितरो यान्ति वै सुतान् ।। ३६ ।। ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ।। ३७ ।। अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति । उपात्तेषु सुसंतानं शकुना इव पिप्पले ।। ३८ ।। मधुमांसैश्च पाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ।। ३९ ।। पूर्वाहृणे दैविकं श्राद्धं अपराहृणे तु पैतृकम् । एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ।। ४० ।। शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके । आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ।। ४१ ।। आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ।। ४२ ।। द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध संपदि । स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ।। ४३ ।। आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः । न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ।। ४४ ।। पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः । उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ।। ४५ ।। शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः । दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ।। ४६ ।। शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ।। ४७ ।। संबन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः । फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ।। ४८ ।। शिवार्चनादिहीनाय शिवज्ञानापहारिणे । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ।। ४९ ।। सरोषमपसव्यं यैश्च युक्तमवज्ञया । सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ।। ५० ।। कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते । मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ।। ५१ ।। दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः । व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।। ५२ ।। अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् । श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ।। ५३ ।। पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।। ५४ ।। दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् । श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ।। ५५ ।। तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् । प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ।। ५६ ।। सोऽयं नरकमाप्नोति कुंभीपाकं न संशयः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ।। ५७ ।। श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः । सैन्धवं लवणं चैव तथा मानस सम्भवम् ।। ५८ ।। पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश । रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ।। ५९ ।। यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव । अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ।। ६० ।। कोद्रवं लवणं सर्वं तथा जम्बूफलानि च । कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ।। ६१ ।। बीजपूरक माषाणि मरीचिं पिप्पलीमपि । कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ।। ६२ ।। वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।। ६३ ।। कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् । पिण्याकं मथितं चापि तथातिलवणं च यत् ।। ६४ ।। हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ।। ६५ ।। निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् । बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ।। ६६ ।। दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ।। ६७ ।। अन्तर्जानु विशेषेण तथैवाचमनं भवेत् । दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ।। ६८ ।। विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमानि तावन्नरकमृच्छति ।। ६९ ।। यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ।। ७० ।। मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् । देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ।। ७१ ।। मृतसंपृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते । नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ।। ७२ ।। आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः । मित्राण्यारोग्यसंपश्च भवेच्छ्रद्धादनिन्दितात् ।। ७३ ।। नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः । कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ।। ७४ ।। भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि । शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ।। ७५ ।। नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् । चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।। ७६ ।। आचार्येण तु भुक्तेन कोटिर्भवति भोजिता । लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ।। ७७ ।। समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे । साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ।। ७८ ।। संभवे कथितं श्राद्धे सर्वे सर्वत्र वामताः । ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ।। ७९ ।। रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः । दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ।। ८० ।। स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः । तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ।। ८१ ।। तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि । पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ।। ८२ ।। बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् । एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ।। ८३ ।। एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् । षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ।। ८४ ।। इत्येवमभिसंधाय श्राद्धकर्म समाचरेत् । निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ।। ८५ ।। वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ । यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ।। ८६ ।। ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः । वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ।। ८७ ।। संयम्य चेन्द्रियग्राममनुगृहानुकम्पया । अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ।। ८८ ।। व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः । अभ्युत्थानासनाद्येन स्वागतेनागतानथ ।। ८९ ।। संभाव्य पादशौचाय कुर्यान्मण्डलकानि तु । सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ।। ९० ।। समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे । द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ।। ९१ ।। दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे । प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ।। ९२ ।। मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा । कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ।। ९३ ।। गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः । देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ।। ९४ ।। अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् । पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ।। ९५ ।। पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके । अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ।। ९६ ।। एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् । साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ।। ९७ ।। तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् । विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ।। ९८ ।। सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु । सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ।। ९९ ।। स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे । मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ।। १०० ।। पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् । दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ।। १०१ ।। सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः । तोयैराचमनं पश्चादाचान्तस्संप्रवेश्य तु ।। १०२ ।। उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते । आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ।। १०३ ।। ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ । कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ।। १०४ ।। न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः । उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ।। १०५ ।। आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः । आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ।। १०६ ।। स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् । अथ रक्षार्थमादाय यवानवकिरेत् परि ।। १०७ ।। प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ । रूपिणा संनिधानाय द्वितयस्य सकृत् सकृत् ।। १०८ ।। प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि । जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ।। १०९ ।। पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् । गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ।। ११० ।। वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा । दीपं च तेन संदद्यादीशानेन पवित्रकम् ।। १११ ।। वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् । तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ।। ११२ ।। कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् । कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ।। ११३ ।। आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् । स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ।। ११४ ।। रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः । त्रयाणां संनिधानार्थमघोरेणाञ्जलौ पृथक् ।। ११५ ।। पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् । भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ।। ११६ ।। तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् । गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ।। ११७ ।। ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् । पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ।। ११८ ।। ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ।। ११९ ।। सौवर्णं राजतं पात्रं ताम्रजं दलसंभवम् । भाजनं शुद्धमादाय भोजनायोपपादयेत् ।। १२० ।। हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् । पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ।। १२१ ।। सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः । शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ।। १२२ ।। कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् । सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ।। १२३ ।। ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः । उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ।। १२४ ।। हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् । पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ।। १२५ ।। अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः । दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ।। १२६ ।। संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् । पवित्रीकरणायेति ततस्सव्यमधोमुखम् ।। १२७ ।। तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च । गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ।। १२८ ।। अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् । आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ।। १२९ ।। शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः । अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ।। १३० ।। देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् । चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ।। १३१ ।। जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः । तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ।। १३२ ।। तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् । उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ।। १३३ ।। कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा । वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ।। १३४ ।। दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् । मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ।। १३५ ।। दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः । विधाय वारिणो धारां वामदेवमुदीरयन् ।। १३६ ।। क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् । संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ।। १३७ ।। क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् । पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ।। १३८ ।। प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये । सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ।। १३९ ।। गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये । वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ।। १४० ।। धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति । ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ।। १४१ ।। स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च । अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ।। १४२ ।। एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् । देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ।। १४३ ।। दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च । इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ।। १४४ ।। पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः । श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ।। १४५ ।। इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् । यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।। १४६ ।। पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् । सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ।। १४७ ।। अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा । इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ।। १४८ ।। पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ।। १४९ ।। ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः । धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ।। १५० ।। गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके । वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ।। १५१ ।। नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि । दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ।। १५२ ।। अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ।। १५३ ।। प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु । अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ।। १५४ ।। नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।। १५५ ।। आवाहनाग्निकरणरहितमपसव्यम् । उत्तिष्टतामित्यक्षययस्थाने तेषां विसर्जनम् ।। १५६ ।। अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे । एको वाथ नरो ग्राहो निमित्तस्य च संमतः ।। १५७ ।। स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् । गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ।। १५८ ।। वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च । आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ।। १५९ ।। उपधानयुतां शययां तदीयमपरं च यत् । दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ।। १६० ।। अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् । नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ।। १६१ ।। अनूदकमधूपं च गन्धमाल्यविवर्जितम् । पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ।। १६२ ।। जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः । प्रणामं न च कुर्वीत स्वधाकारं तथैव च ।। १६३ ।। नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति । अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ।। १६४ ।। हविष्यान्नेन ते मासं वत्सरं पायसेन तु । तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ।। १६५ ।। रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः । तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ।। १६६ ।। गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते । गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ।। १६७ ।। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ।। १६८ ।। ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् । पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ।। १६९ ।। सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप । कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ।। १७० ।। स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा । ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ।। १७१ ।। यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ।। १७२ ।। आयुष्कामो लभेदायुः धनकामो वसूनि च । विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ।। १७३ ।। पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् । एतानि लभते नित्यं श्राद्धदो नावसीदति ।। १७४ ।। प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः । ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ।। १७५ ।। पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः । योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ।। १७६ ।। कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ।। १७७ ।। एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । दानमाचमनं होमं भोजनं देवतार्चनम् ।। १७८ ।। प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् । आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ।। १७९ ।। परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ।। १८० ।। अटवी चाकृतारण्यं नदीतीराणि यानि च । सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ।। १८१ ।। चण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ।। १८२ ।। होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते । दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ।। १८३ ।। वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा । ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ।। १८४ ।। अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ।। १८५ ।। दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः । स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ।। १८६ ।। अथवान्यप्रकारेण कुतपस्त्विह कथ्यते । शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ।। १८७ ।। तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः । पिता पितामहश्चैव प्रपितामह एव च ।। १८८ ।। गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः । क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ।। १८९ ।। स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । पितामही तथा स्वेन तथैव प्रपितामही ।। १९० ।। पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति । मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ।। १९१ ।। मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् । अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ।। १९२ ।। एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता । सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ।। १९३ ।। न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते । अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।। १९४ ।। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ।। १९५ ।। स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः । स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ।। १९६ ।। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ।। १९७ ।। एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी । पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ।। १९८ ।। आसुरादि विवाहेषु विशेषः कश्चिदिष्यते । स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ।। १९९ ।। यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता । तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ।। २०० ।। जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् । पैतृकं तु भवेत् गोत्रं ऊर्ध्वं तु पितृ दैवतम् ।। २०१ ।। पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ।। २०११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम एकोन त्रिंशतितमः पटलः ३० त्रिंशत्तमे पटले प्रायश्चित्त विधिः प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । विधिर्निषेध इत्येवं चोदना द्विविधा मता ।। १ ।। अनुष्ठितायां तस्यांस्याद्यथावद्धर्म संग्रहः । वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ।। २ ।। तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् । यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ।। ३ ।। प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः । चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ।। ४ ।। सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः । तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ।। ५ ।। विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते । तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ।। ६ ।। आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया । कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ।। ७ ।। प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः । कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ।। ८ ।। ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् । स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ।। ९ ।। लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च । शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ।। १० ।। नमस्काराद्यमेतेषां शिवधामनिषेवणम् । शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ।। ११ ।। पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः । शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ।। १२ ।। उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् । शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ।। १३ ।। मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा । एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ।। १४ ।। एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् । विभज्य लक्षणं तेषां केषांचिदिह कथ्यते ।। १५ ।। पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः । सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ।। १६ ।। पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् । प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ।। १७ ।। दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम् । प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ।। १८ ।। मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् । तस्मान्मासावसानं तु हीनमित्यभिधीयते ।। १९ ।। मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् । लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ।। २० ।। आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः । प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ।। २१ ।। स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति । वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ।। २२ ।। पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः । नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ।। २३ ।। अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः । देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ।। २४ ।। सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः । राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ।। २५ ।। तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः । इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ।। २६ ।। अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना । मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ।। २७ ।। शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् । अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ।। २८ ।। मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः । जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ।। २९ ।। अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा । शाकयावकपिण्याककन्दमूलफलाशनः ।। ३० ।। स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् । जपं एव समाख्यातः प्रदक्षिण मथोच्यते ।। ३१ ।। नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः । लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ।। ३२ ।। अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् । गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ।। ३३ ।। गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः । सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ।। ३४ ।। परिहृत्य कृतं सर्वं यदि सर्वफलावहम् । अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।। ३५ ।। प्रासादार्ध प्रमाणं प्रासादसममेव वा । निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ।। ३६ ।। परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् । सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ।। ३७ ।। सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः । सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ।। ३८ ।। सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा । छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ।। ३९ ।। तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् । तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ।। ४० ।। प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ।। ४१ ।। अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् । अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ।। ४२ ।। क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् । एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ।। ४३ ।। कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते । सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ।। ४४ ।। शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् । शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ।। ४५ ।। ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसंज्ञकः । अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ।। ४६ ।। त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् । एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ।। ४७ ।। पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् । सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ।। ४८ ।। तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते । एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ।। ४९ ।। अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते । द्वादशाहनिर्राहारः पराक इति संस्मृतः ।। ५० ।। मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् । चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ।। ५१ ।। सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे । चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ।। ५२ ।। मध्यम द्वितयं वाथ तदर्थं दानमेव वा । उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ।। ५३ ।। मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना । तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ।। ५४ ।। शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् । देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ।। ५५ ।। गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् । संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ।। ५६ ।। अघोरामथवा शैवमस्त्रं पाशुपतं तु वा । अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ।। ५७ ।। कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ । समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ।। ५८ ।। तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् । सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ।। ५९ ।। प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् । स्वाहान्ते भगवन् सर्वक्षोपनाशंपदं ततः ।। ६० ।। कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् । पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ।। ६१ ।। पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् । मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ।। ६२ ।। कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् । तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः ।। ६३ ।। प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे । पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ।। ६४ ।। ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः । स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ।। ६५ ।। तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया । एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ।। ६६ ।। होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् । निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ।। ६७ ।। समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् । होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ।। ६८ ।। एवं शान्तिस्समादिष्टा नवधा सा समीरिता । एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ।। ६९ ।। पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः । कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ।। ७० ।। विसर्जनं तु वा देवे पावकस्य न सर्वथा । शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ।। ७१ ।। स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते । शुभाशास्वग्निदेशे वा मण्डपे समलंकृते ।। ७२ ।। स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेत्घटम् । ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ।। ७३ ।। सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् । परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ।। ७४ ।। विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् । प्रणवासनमारुढं दुराधर्षं महाबलम् ।। ७५ ।। पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ।। ७६ ।। कपालमालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामालानागाभरणलेलिहम् ।। ७७ ।। सूर्यकोट्ययुताभं च विघ्नसंघात मर्दकम् । भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ।। ७८ ।। खड्गचापमहाशूलाभयपाशांश्च दक्षिणे । खेटबाणा कपालांश्च वरप्रासौ च वामतः ।। ७९ ।। पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् । ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ।। ८० ।। ओं श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति । प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ।। ८१ ।। पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे । ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ।। ८२ ।। सर्वे पाशुपतोपेतहृदयादि समन्विताः । फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ।। ८३ ।। इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् । तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ।। ८४ ।। संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले । देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ।। ८५ ।। समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८६ ।। प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् । भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ।। ८७ ।। अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् । पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ।। ८८ ।। प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् । पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ।। ८९ ।। कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् । प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ।। ९० ।। अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः । समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ।। ९१ ।। कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् । ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ।। ९२ ।। होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना । कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसंख्यया ।। ९३ ।। दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः । प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ।। ९४ ।। लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा । मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ।। ९५ ।। यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु । दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ।। ९६ ।। वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा । स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ।। ९७ ।। सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् । एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ।। ९८ ।। मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च । अथैतद्यागशालायां कर्म सर्वं समापयेत् ।। ९९ ।। अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च । तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ।। १०० ।। शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके । तदग्रे संयजेदस्त्रंशिवाख्यंदेशिकोत्तमः ।। १०१ ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ।। १०२ ।। अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ।। १०३ ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् । दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ।। १०४ ।। सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते । ओं ह्रींङ्कारं ततः कृष्णवाससे चेति यत्पदम् ।। १०५ ।। ततश्च सिह्मवदने महावदन इत्यपि । महाभैरविवर्णे च सर्वशत्रुपदं ततः ।। १०६ ।। कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः । च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ।। १०७ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ।। १०८ ।। सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् । सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ।। १०९ ।। ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन । प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ।। ११० ।। ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः । प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ।। १११ ।। दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् । तथैव तस्मान्नेत्राणुश्चतुस्त्रिं/शद्भिरस्त्रकम् ।। ११२ ।। त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः । नमः स्वाहावषड्वौषड् ह्रुंफड् युक्ता हृदादयः ।। ११३ ।। सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ।। ११४ ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ।। ११५ ।। कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् । मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ।। ११६ ।। अट्टहासरवोपेतां कृष्णाजिन समन्विताम् । ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ।। ११७ ।। अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् । गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ।। ११८ ।। पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् । चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ।। ११९ ।। तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् । प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ।। १२० ।। इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् । कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ।। १२१ ।। स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह । तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ।। १२२ ।। कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् । प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ।। १२३ ।। प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।। १२४ ।। तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः । चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ।। १२५ ।। प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः । प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ।। १२६ ।। रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् । अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ।। १२७ ।। कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः । कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ।। १२८ ।। देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः । देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ।। १२९ ।। प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् । दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ।। १३० ।। दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते । प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ।। १३१ ।। समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः । होमश्च पुरुषाघोरवामाजैर्दिक्षु संमतः ।। १३२ ।। स्नपनादिषु होमेऽयं चतुर्दिक्षु च संमतः । वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ।। १३३ ।। शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे । उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ।। १३४ ।। सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते । तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ।। १३५ ।। पलाशसमिदाज्यान्नैश्शत संख्या शिवाणुना । शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ।। १३६ ।। ततोऽघोराणुना होमं पञ्चविंशतिसंख्यया । प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ।। १३७ ।। संहिताहोम एष स्यान्मूर्तिहोमो विधीयते । हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ।। १३८ ।। शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे । अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ।। १३९ ।। ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् । गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ।। १४० ।। मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् । यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ।। १४१ ।। वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः । दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ।। १४२ ।। दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि । ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। १४३ ।। प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ।। १४४ ।। सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ।। १४५ ।। नृत्यन्तं तं महाकायं नागाभरण भूषितम् । देवदानवदैत्यानां दर्पितानां विमर्दकम् ।। १४६ ।। वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् । पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ।। १४७ ।। तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे । स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ।। १४८ ।। संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना । तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले ।। १४९ ।। समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् । हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ।। १५० ।। प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले । कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ।। १५१ ।। पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च । पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ।। १५२ ।। अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् । स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ।। १५३ ।। लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् । तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ।। १५४ ।। प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि । अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।। १५५ ।। गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि । ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ।। १५६ ।। गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् । संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ।। १५७ ।। भस्मापि यजमानाय दातव्यं होमकर्मणि । अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ।। १५८ ।। मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः । अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ।। १५९ ।। यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् । संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ।। १६० ।। अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् । स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ।। १६१ ।। समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् । पञ्चाशत्संख्यकं वापि तदर्थं वा पृथक् पृथक् ।। १६२ ।। पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ । शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ।। १६३ ।। क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा । पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ।। १६४ ।। विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् । पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ।। १६५ ।। पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् । संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ।। १६६ ।। एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः । कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ।। १६७ ।। संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः । शान्त्युक्तदिन संख्याया वशेनैतत्समाचरेत् ।। १६८ ।। मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा । यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ।। १६९ ।। एकसन्ध्यादि भेदेन नित्यपूजा विलोपने । द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ।। १७० ।। लोपे चासनसंस्कारोपचाराणामथावृतेः । पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ।। १७१ ।। निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे । अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ।। १७२ ।। गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् । दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ।। १७३ ।। नीराजनस्य वा दीपमालास्थेनाहृतेन वा । मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ।। १७४ ।। लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः । लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ।। १७५ ।। दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके । हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ।। १७६ ।। कृमिकीटनराद्यस्थिनखरोमादिदर्शने । देवाय दत्तद्रव्येषु नखरोमादिदर्शने ।। १७७ ।। श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे । सामान्यप्राणिसंभूत मलयुक्तैरथापिवा ।। १७८ ।। नैवेद्याहरणे काले तोयसेके विलोपिते । तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ।। १७९ ।। प्रागेव निश्चित द्रव्यहीने तस्य वर्धने । लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ।। १८० ।। मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति । बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ।। १८१ ।। काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने । अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ।। १८२ ।। केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः । होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ।। १८३ ।। बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते । वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ।। १८४ ।। गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने । अतोद्य नृत्तकरणे वितानस्य विलोपने ।। १८५ ।। बलिप्रदान कालेतु वाद्यदीपविलोपने । पादुकाराधन हीने तद्याने वा विलोपिते ।। १८६ ।। अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये । उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ।। १८७ ।। बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके । सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ।। १८८ ।। सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा । तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ।। १८९ ।। अतोद्यनृत्तवैकल्ये नीराजनविलोपने । तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ।। १९० ।। अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः । कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ।। १९१ ।। सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते । निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ।। १९२ ।। बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः । दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ।। १९३ ।। विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा । आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ।। १९४ ।। अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे । एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ।। १९५ ।। अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते । एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ।। १९६ ।। स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् । मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ।। १९७ ।। विधाय पूजां त्रिगुणां द्विगुणां वा समामथ । उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ।। १९८ ।। नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः । कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ।। १९९ ।। प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः । त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ।। २०० ।। चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् । प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ।। २०१ ।। अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् । दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ।। २०२ ।। तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता । दिनानि यानि हीनानि पूजया नित्यसंज्ञया ।। २०३ ।। तदहस्संख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् । एक मासावधिं यावत्ततस्संप्रोक्षणं नयेत् ।। २०४ ।। नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः । द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ।। २०५ ।। तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् । पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ।। २०६ ।। आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते । शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ।। २०७ ।। अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः । पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ।। २०८ ।। विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् । शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ।। २०९ ।। नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके । तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ।। २१० ।। पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता । तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ।। २११ ।। शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् । दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ।। २१२ ।। अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः । पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ।। २१३ ।। तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः । गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ।। २१४ ।। तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः । धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ।। २१५ ।। घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः । पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ।। २१६ ।। दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता । आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ।। २१७ ।। नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् । ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ।। २१८ ।। अथ काण्डपटे हीने देवानां संनिधिक्षयः । भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २१९ ।। देवं संपूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे । शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ।। २२० ।। तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे । कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ।। २२१ ।। द्रव्याणामेव चैतेषामर्धे पादे तदर्धके । प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ।। २२२ ।। जप्त्वा देवाय तद्द्रव्यंद्विगुणं दापयेत्ततः । द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ।। २२३ ।। अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः । दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ।। २२४ ।। स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा । नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ।। २२५ ।। दद्योजातनरेशानाश्शतधावर्त्य देशिकः । याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ।। २२६ ।। दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः । प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ।। २२७ ।। हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः । संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ।। २२८ ।। नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते । विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ।। २२९ ।। अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् । पूर्वसंकल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ।। २३० ।। जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा । अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ।। २३१ ।। शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः । धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ।। २३२ ।। धूपारात्रिकयोर्दानकाले नीराजनस्य च । दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ।। २३३ ।। वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके । अणुना महता वापि राज्ञो रोगो भविष्यति ।। २३४ ।। संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् । पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ।। २३५ ।। संपूज्य देवदेवेशं मूर्तिहोमं समाचरेत् । अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ।। २३६ ।। लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना । निर्दग्धानि तदा कुर्यात् कर्म संप्रोक्षणादिकम् ।। २३७ ।। दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् । दहने सद्मनः कुर्यात् सद्म संप्रोक्षणात्मकम् ।। २३८ ।। देवाय स्नपनं कुर्यात् धामच्छेदादिसंभव । तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ।। २३९ ।। वह्निना लिङ्गबेरादावन्यवर्णमुपायते । मानुषं चेत् परित्याज्यं ग्राह्यं स्वायंभुवादिकम् ।। २४० ।। प्रतिक्रियानुकर्मोक्त्या कार्या संप्रोक्षणान्विता । पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ।। २४१ ।। सकले विकले कुर्याच्छिवस्य स्नपनं महत् । प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ।। २४२ ।। दीपानामथ वैकल्ये जपेदघोर शतत्रयम् । दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ।। २४३ ।। रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् । हविष्य दत्ते देवाय स्नपनं तु विधाय च ।। २४४ ।। द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि । अथ काण्डपटे हीने कवचं द्विशतं जपेत् ।। २४५ ।। गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् । कृमिकीटनराद्यस्थिनखरोमादि दर्शने ।। २४६ ।। त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् । शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ।। २४७ ।। पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् । श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ।। २४८ ।। स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया । सामान्यप्राणि संभूतमलयुक्ते तथाचरेत् ।। २४९ ।। नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् । हीनं लङ्घनं तत्र यदि जायेत दोषदम् ।। २५० ।। अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा । शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ।। २५१ ।। आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् । प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ।। २५२ ।। तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे । प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ।। २५३ ।। नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता । लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ।। २५४ ।। तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः । पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ।। २५५ ।। पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् । अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ।। २५६ ।। बलिदानविहीनं चेद्भवन्त्यखिलदेवताः । तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ।। २५७ ।। दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः । नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ।। २५८ ।। अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च । पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ।। २५९ ।। यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् । होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ।। २६० ।। तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः । प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ।। २६१ ।। शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् । कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ।। २६२ ।। तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा । अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ।। २६३ ।। होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः । अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ।। २६४ ।। शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे । वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ।। २६५ ।। पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् । इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ।। २६६ ।। शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् । अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ।। २६७ ।। कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा । नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ।। २६८ ।। किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः । रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ।। २६९ ।। तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे । सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ।। २७० ।। तत्संख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् । होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ।। २७१ ।। नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् । तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ।। २७२ ।। सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् । अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ।। २७३ ।। पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् । दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ।। २७४ ।। तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु । एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ।। २७५ ।। शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः । पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ।। २७६ ।। वर्धयेद्युग्म संख्यातं पक्षपक्षावसानकम् । नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ।। २७७ ।। निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा । बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ।। २७८ ।। तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा । वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ।। २७९ ।। गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् । तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ।। २८० ।। तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् । एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ।। २८१ ।। कृत्वा तु संहिताहोममघोर जपमेव वा । सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ।। २८२ ।। तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् । एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ।। २८३ ।। पादुकाराधने हीने याने वा पादरोगता । कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ।। २८४ ।। अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये । विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ।। २८५ ।। उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे । उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ।। २८६ ।। बेरादिपतने यानकाले संवत्सरोक्तवत् । तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ।। २८७ ।। बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् । पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ।। २८८ ।। ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे । पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ।। २८९ ।। विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् । भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ।। २९० ।। सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् । पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ।। २९१ ।। नवभिः कलशैर्वाथ गव्यस्नपनमेव वा । सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ।। २९२ ।। पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने । सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ।। २९३ ।। पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि । तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ।। २९४ ।। ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् । सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ।। २९५ ।। सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् । अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ।। २९६ ।। सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः । यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ।। २९७ ।। स्नपनं वा त्वघोरेण सहस्रजपमेववा । सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ।। २९८ ।। गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् । प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ।। २९९ ।। आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते । सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ।। ३०० ।। नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् । देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ।। ३०१ ।। द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च । शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ।। ३०२ ।। अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् । अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ।। ३०३ ।। अघोरजपसाहस्रमथ पञ्चशतं तु वा । कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ।। ३०४ ।। स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् । गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ।। ३०५ ।। स्थलशुद्धिं तदा कृत्वा देवं संपूज्य यत्नतः । अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ।। ३०६ ।। निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते । तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ।। ३०७ ।। क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः । अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ।। ३०८ ।। हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा । राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ।। ३०९ ।। सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः । तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ।। ३१० ।। पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः । षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ।। ३११ ।। स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः । अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ।। ३१२ ।। सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् । सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ।। ३१३ ।। बालातिबाला युवतिर्वृद्धाति श्रेयसी मता । अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ।। ३१४ ।। मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी । अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ।। ३१५ ।। सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः । तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ।। ३१६ ।। श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते । अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ।। ३१७ ।। आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता । सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ।। ३१८ ।। आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने । कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ।। ३१९ ।। आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने । पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ।। ३२० ।। द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः । षाण्मासोर्ध्वे विधातव्यं कर्मसंप्रोक्षणं द्विजाः ।। ३२१ ।। षाण्मासात्परतो यस्मादतो देवलकाह्वये । अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ।। ३२२ ।। मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता । चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ।। ३२३ ।। विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् । सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ।। ३२४ ।। अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् । कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ।। ३२५ ।। पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् । अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ।। ३२६ ।। एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः । अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ।। ३२७ ।। अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके । रिपुणा संगृहीतो वा देवी वा केवलाद्विजाः ।। ३२८ ।। देवीं विहाय देवो वा केवलो रिपुणा हृतः । तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ।। ३२९ ।। स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे । स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ।। ३३० ।। पिण्डिकापतने वाधः परिवारविलोपने । बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ।। ३३१ ।। तद्दाहपतनादौ च प्राकारे गोपुरे तथा । जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ।। ३३२ ।। कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः । उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ।। ३३३ ।। पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ । गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ।। ३३४ ।। गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः । चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।। ३३५ ।। हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः । शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ।। ३३६ ।। स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके । प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ।। ३३७ ।। परिवारालये वान्तर्मण्डपे वा द्वितीयके । महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ।। ३३८ ।। निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः । परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ।। ३३९ ।। अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे । उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ।। ३४० ।। गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके । विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ।। ३४१ ।। अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने । प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ।। ३४२ ।। साले वा मालिकायुक्ते केवले गोरुराङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ।। ३४३ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ।। ३४४ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिलीसंभवे वाथ मधुपञ्जर संभवे ।। ३४५ ।। बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ।। ३४६ ।। तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये । अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ।। ३४७ ।। दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि । मठे प्रपादिके वापि आरामादावथापि वा ।। ३४८ ।। लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ३४९ ।। वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके । कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ।। ३५० ।। स्थापिते शिवकुम्भे वा करके कलशेऽपिवा । भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ।। ३५१ ।। शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः । स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ।। ३५२ ।। स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके । विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ।। ३५३ ।। रत्नहेमाम्बरादीनां विलोपे च घटादिषु । गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ।। ३५४ ।। कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ३५५ ।। पवित्रारोहणे हीने दमनारोहणेऽपिवा । कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ।। ३५६ ।। बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते । पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ।। ३५७ ।। भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः । पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ।। ३५८ ।। एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते । अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ।। ३५९ ।। अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् । पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ।। ३६० ।। अघोरेण शतं होमं समिदाज्यतिलोदनैः । रिपुणा संगृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ।। ३६१ ।। तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते । सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ।। ३६२ ।। लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च । लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ।। ३६३ ।। सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् । मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ।। ३६४ ।। कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले । लक्षणोद्धारणं दृष्टि मोचनं जलवेशनं ।। ३६५ ।। विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः । अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ।। ३६६ ।। मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि । प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ।। ३६७ ।। तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् । तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।। ३६८ ।। संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना । कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ।। ३६९ ।। प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा । प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ।। ३७० ।। तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् । आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ।। ३७१ ।। संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः । संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ।। ३७२ ।। मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः । संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ।। ३७३ ।। अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः । तत्प्रासादानुरूपेण यजमानानुरूपतः ।। ३७४ ।। लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना । बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ।। ३७५ ।। बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् । देवीं विहाय देवो वा देवी वा केवला यदा ।। ३७६ ।। शत्रुभिस्संगृहीता चेत् स्थितस्यैवानुरूपतः । संपाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ।। ३७७ ।। कल्याणं कारयेदन्ते विधिना देशिकोत्तमः । स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ।। ३७८ ।। देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् । पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ।। ३७९ ।। प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् । आग्नेययामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ।। ३८० ।। नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् । वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ।। ३८१ ।। ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् । उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ।। ३८२ ।। शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् । प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ।। ३८३ ।। स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् । प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ।। ३८४ ।। कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् । प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ।। ३८५ ।। स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् । स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ।। ३८६ ।। तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते । शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ।। ३८७ ।। कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् । प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ।। ३८८ ।। पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले । ततस्संप्रोक्षणं कुर्यात् स्थलकर्मावसानके ।। ३८९ ।। पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः । पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ।। ३९० ।। सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् । नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ।। ३९१ ।। ततस्संप्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि । परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ।। ३९२ ।। परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः । बलिपीठे विहीने तु सर्वदोषावहं भवेत् ।। ३९३ ।। संकल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् । तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ।। ३९४ ।। शान्तिहोमं तदा कृत्वा संप्रोक्षणमथाचरेत् । प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ।। ३९५ ।। राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् । ततस्संप्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ।। ३९६ ।। कृत्वा गव्येन संप्रोक्ष्य शान्तिमेकाहमाचरेत् । कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ।। ३९७ ।। उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः । पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।। ३९८ ।। गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः । गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ।। ३९९ ।। चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः । हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।। ४०० ।। शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा । स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ।। ४०१ ।। राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते । मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ।। ४०२ ।। गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः । गव्येन स्नपनं कृत्वा संप्रोक्षनमथाचरेत् ।। ४०३ ।। ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति । शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ।। ४०४ ।। चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् । गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ।। ४०५ ।। संप्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः । ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ।। ४०६ ।। तदा संप्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् । चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ।। ४०७ ।। संप्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् । शान्तिकर्मदिशाहोमं क्रमात्संप्रोक्षणं नयेत् ।। ४०८ ।। त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने । प्रथमे च द्वितीये च चण्डालविहितं तु यत् ।। ४०९ ।। प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् । प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ।। ४१० ।। शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् । दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ।। ४११ ।। परिवारालयावेशेऽप्येतदेव समीरितम् । कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ।। ४१२ ।। चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् । कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ।। ४१३ ।। गोमयालोपनाद्यं च समानं सर्वकर्मसु । परिवारालयोक्तं प्रायश्चित्तं महानसे ।। ४१४ ।। महानससमा ज्ञेया बलिपीठेषु निष्कृतिः । निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ।। ४१५ ।। परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् । कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ।। ४१६ ।। अर्धमण्डपवेशादौ तस्य दोषो न विद्यते । अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ।। ४१७ ।। चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा । कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ।। ४१८ ।। उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् । गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ।। ४१९ ।। विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने । संप्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ।। ४२० ।। कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः । आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ।। ४२१ ।। दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः । ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ।। ४२२ ।। तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते । मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ।। ४२३ ।। दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः । दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ।। ४२४ ।। पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः । प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ।। ४२५ ।। साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ।। ४२६ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ।। ४२७ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ।। ४२८ ।। बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ।। ४२९ ।। पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः । रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ।। ४३० ।। पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् । मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ।। ४३१ ।। शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् । तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ।। ४३२ ।। सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः । राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ।। ४३३ ।। तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् । वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ।। ४३४ ।। वारुण्यां धनलाभस्यादादौ चोरभयं पुनः । वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ।। ४३५ ।। तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् । गृहनाशो भवेद्वारे शयनस्थानके मृतिः ।। ४३६ ।। तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् । द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ।। ४३७ ।। तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः । दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ।। ४३८ ।। तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु । सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ।। ४३९ ।। प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः । लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ।। ४४० ।। मधुनीडसमुत्पत्तावेवमेव फलं भवेत् । वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ।। ४४१ ।। खातयोग्यं खनित्वादावापूर्य लवणादिभिः । शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ।। ४४२ ।। पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः । संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ।। ४४३ ।। बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा । गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ।। ४४४ ।। जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् । कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ।। ४४५ ।। राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् । मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ।। ४४६ ।। संशोध्य गोमयाम्भोभिस्संप्रोक्ष्यास्रजवारिणा । देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ।। ४४७ ।। वल्मीकस्य पुरा प्रोक्तदिनसंख्यावशेन तु । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ४४८ ।। महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् । पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ।। ४४९ ।। वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् । अघोरं त्रिशतं जप्त्वा संपूर्णस्नपनं नयेत् ।। ४५० ।। विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते । हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ।। ४५१ ।। कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा । जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ।। ४५२ ।। पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः । इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ।। ४५३ ।। यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् । द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ।। ४५४ ।। क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धयस । स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ।। ४५५ ।। भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते । तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ।। ४५६ ।। तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् । जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ।। ४५७ ।। कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् । शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ।। ४५८ ।। संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् । सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ।। ४५९ ।। अघोरेणजपः पश्चात् कर्तव्यश्शतसंख्यया । तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ।। ४६० ।। पिधानलोपे घोरेण शतसंख्यं जपेद्गुरुः । कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ।। ४६१ ।। उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् । तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ।। ४६२ ।। रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् । तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ।। ४६३ ।। पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा । गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ।। ४६४ ।। तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे । पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ।। ४६५ ।। कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् । शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ।। ४६६ ।। जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ४६७ ।। पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः । तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ।। ४६८ ।। देवं संपूज्य विधिवत् दिशाहोमं तु कारयेत् । इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ।। ४६९ ।। दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः । दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ।। ४७० ।। मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके । राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ।। ४७१ ।। बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा । भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ।। ४७२ ।। संपूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते । कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ।। ४७३ ।। सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् । विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ।। ४७४ ।। तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः । शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ।। ४७५ ।। विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् । समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ।। ४७६ ।। कुम्भे च करके पीठे मृदादिपरिकल्पिते । इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ।। ४७७ ।। तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः । पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ।। ४७८ ।। तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् । एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ।। ४७९ ।। पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् । क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ।। ४८० ।। सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः । पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ।। ४८१ ।। कर्तारं बाधते नित्यं शक्तानपि च बाधते । तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ।। ४८२ ।। ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये । उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ।। ४८३ ।। एककालं द्विकालं वा त्रिकालं जपसंयुतम् । गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ।। ४८४ ।। सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा । सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ।। ४८५ ।। साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा । स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ।। ४८६ ।। जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् । वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ।। ४८७ ।। भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च । कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ।। ४८८ ।। पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि । ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ।। ४८९ ।। शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः । विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ।। ४९० ।। अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः । नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ।। ४९१ ।। तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च । व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ।। ४९२ ।। ततस्थानं देवदेवस्य शिवस्यामिततेजसः । योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ।। ४९३ ।। वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा । सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ।। ४९४ ।। निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा । पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ।। ४९५ ।। ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च । गणपस्कन्दनन्दीश वसूनां नागपस्य च ।। ४९६ ।। मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः । कल्पितं स्थानमीशस्य योग्यमेव न संशयः ।। ४९७ ।। सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् । साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ।। ४९८ ।। ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति । ते तु दुर्मतयः प्रोक्तास्सुचिरं संचरन्त्यलम् ।। ४९९ ।। रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः । मदैक शरणा ये तु तैः पूज्योहं न चापरैः ।। ५०० ।। अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ।। ५०१।। तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् । सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ।। ५०२ ।। देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ।। ५०३ ।। प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै । तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ।। ५०४ ।। बालाबलानां बद्धानामातुराणां च पादतः । प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ।। ५०५ ।। ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ।। ५०६ ।। अतो बालनरस्यास्य नापराधो न पातकम् । राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ।। ५०७ ।। देश आदिश्यते येन दिशिकस्त्विति कथ्यते । देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ।। ५०८ ।। भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च । हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ।। ५०९ ।। नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते । सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ।। ५१० ।। प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः । कामतस्तूपवासश्च लुप्ते देवार्चने यदा ।। ५११ ।। एककालार्चके वापि द्विकालाद्यर्चकेपि वा । एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ।। ५१२ ।। उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते । बहुकालार्चकस्यापि द्विकालादि विलोपने ।। ५१३ ।। लुप्तसंख्यावशेनैव प्रायश्चित्तं समाचरेत् । द्विदिनादि विलोपे तु बहुरूपसहस्रतः ।। ५१४ ।। प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने । अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ।। ५१५ ।। संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते । स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ।। ५१६ ।। नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः । लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ।। ५१७ ।। हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः । सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ।। ५१८ ।। साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् । द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ।। ५१९ ।। एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् । जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ।। ५२० ।। संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः । अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ।। ५२१ ।। द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः । संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र संमता ।। ५२२ ।। अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा । प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ।। ५२३ ।। ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः । क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ।। ५२४ ।। लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् । पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ।। ५२५ ।। श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः । त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ।। ५२६ ।। मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् । रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ।। ५२७ ।। तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् । विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ।। ५२८ ।। तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् । विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ।। ५२९ ।। स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् । प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ।। ५३० ।। वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् । चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ।। ५३१ ।। लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि । नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ।। ५३२ ।। अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि । विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ।। ५३३ ।। अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् । प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ।। ५३४ ।। अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् । व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ।। ५३५ ।। गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । अविधाय पवित्रं तदाषाढादिषु पञ्चसु ।। ५३६ ।। लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् । पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ।। ५३७ ।। अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते । जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ।। ५३८ ।। शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते । सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ।। ५३९ ।। स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः । नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ।। ५४० ।। शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् । अक्षमालां कराद्भ्रष्टां आलयेद्गन्धवारिणा ।। ५४१ ।। गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि । घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ।। ५४२ ।। पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा । शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। ५४३ ।। प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् । केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ।। ५४४ ।। अघोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ।। ५४५ ।। अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् । पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ।। ५४६ ।। द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् । महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ।। ५४७ ।। एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् । निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ।। ५४८ ।। भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने । अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ।। ५४९ ।। यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः । निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ।। ५५० ।। लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ।। ५५१ ।। चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् । ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ।। ५५२ ।। नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।। ५५३ ।। पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ।। लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् । स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ।। ५५५ ।। यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा । पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ।। ५५६ ।। भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा । देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ।। ५५७ ।। व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् । करोति यस्य संमूढा मद्धनस्तेयकृन्मतः ।। ५५८ ।। मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा । यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ।। ५५९ ।। त एवातीत दुष्टामद्भक्षितादपि सोषदाः । तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ।। ५६० ।। नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः । निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।। ५६१ ।। सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् । मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ।। ५६२ ।। स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते । भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ।। ५६३ ।। शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति । अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ।। ५६४ ।। भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः । मद्देहधारिणो लोके देशिका मत्परायणाः ।। ५६५ ।। मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु । तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ।। ५६६ ।। सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् । प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ।। ५६७ ।। मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् । अघोरायुत जापश्च गोमयालिप्तमण्डले ।। ५६८ ।। पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् । प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ।। ५६९ ।। अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् । एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ।। ५७० ।। उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् । महापातकिनां प्रोक्तं महाव्रतमिहागमे ।। ५७१ ।। अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५७२ ।। महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः । कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ।। ५७३ ।। ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते । तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ।। ५७४ ।। अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् । गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ।। ५७५ ।। दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् । अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ।। ५७६ ।। पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् । माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ।। ५७७ ।। सामान्यानि विजानीयाद् मद्यान्येकादशैव तु । द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ।। ५७८ ।। पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् । एकादशसुरापाने कुर्याद्व्रतदशांशकम् ।। ५७९ ।। सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः । गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ।। ५८० ।। द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते । सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ।। ५८१ ।। सुवर्णस्यापहारेण शतादभ्याधिके वधः । क्षत्रियादिषु संप्रोक्तो विप्रस्य न वधः क्वचित् ।। ५८२ ।। निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् । दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ।। ५८३ ।। शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु । शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ।। ५८४ ।। रजतस्यापहरणे धान्यस्य द्विगुणं मतम् । सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ।। ५८५ ।। दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि । गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ।। ५८६ ।। याजनं योनि संबन्धं स्वाध्यायं सहभोजनम् । पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ।। ५८७ ।। वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् । अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ।। ५८८ ।। मातृष्वसा च भगिनी स्वसुता च पितृष्वसा । आसां च गमनं विप्रास्त्वनुपातकमीरितम् ।। ५८९ ।। विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः । चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ।। ५९० ।। लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः । द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ।। ५९१ ।। तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु । दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ।। ५९२ ।। संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति । देवक्षेत्रापहरणं देवोपहरणाहृतिः ।। ५९३ ।। शिवागमापहारश्च शिवलिङ्गापहारणम् । शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ।। ५९४ ।। उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् । पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ।। ५९५ ।। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । सगोत्रा मातुलानीं च समान प्रवरा च या ।। ५९६ ।। तासां संगमनं चोपपातकं समुदाहृतम् । परिवित्तिः परिवेत्ता तयोर्याजनमेव च ।। ५९७ ।। तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् । गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त संग्रहः ।। ५९८ ।। पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने । उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ।। ५९९ ।। भूवेश्मरत्नवापीनां कुजानामपहर्तृता । वापीकूपतटाकादेर्हरणं तूपपातकम् ।। ६०० ।। गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः । उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ।। ६०१ ।। तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे । तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ।। ६०२ ।। तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् । तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ।। ६०३ ।। उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् । गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ।। ६०४ ।। गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति । गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ।। ६०५ ।। गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् । रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ।। ६०६ ।। पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । याजने पादहीनं स्याच्चरेत् सर्वं निपातने ।। ६०७ ।। औषधं लवणं चैव स्नेहपिण्याहभोजनम् । अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।। ६०८ ।। न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् । बलाभावाद्विपद्येत गौश्चरन्ती कथंचन ।। ६०९ ।। जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ।। ६१० ।। शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा । शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ।। ६११ ।। उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् । कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ।। ६१२ ।। नास्तिक्यमभिचारश्चायाज्य याजनमेव च । नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ।। ६१३ ।। मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् । तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ।। ६१४ ।। भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् । वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ।। ६१५ ।। नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् । वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ।। ६१६ ।। स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् । स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ।। ६१७ ।। पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् । शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ।। ६१८ ।। विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् । रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ।। ६१९ ।। रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् । विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ।। ६२० ।। चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् । व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ।। ६२१ ।। विप्रस्त्रीगमने चैवोपव्रतंतु समाचरेत् । पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ।। ६२२ ।। ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि । विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ।। ६२३ ।। उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् । महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ।। ६२४ ।। एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् । शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ।। ६२५ ।। शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये । कन्यासंगमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ।। ६२६ ।। वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? । तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ।। ६२७ ।। अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये । प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ।। ६२८ ।। अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु । रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ।। ६२९ ।। नदीशैलूषिकी वेणुजीवनी गमने व्रतम् । पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ।। ६३० ।। अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः । गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ।। ६३१ ।। न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् । न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ।। ६३२ ।। न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् । शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ।। ६३३ ।। उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः । उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ।। ६३४ ।। सहस्रमयुतं चैव जपो मध्यमहीनयोः । द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ।। ६३५ ।। जघन्योच्छिष्ट संपर्कादेवं शतगुणं भवेत् । जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ।। ६३६ ।। शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् । स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ।। ६३७ ।। सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् । स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ।। ६३८ ।। तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः । निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ।। ६३९ ।। कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः । सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ।। ६४० ।। यनश्ययासनानां च कांस्यरीतिशिलायसाम् । त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ।। ६४१ ।। व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् । वानरश्वमृगाणां च विष्ठाशनवराहयोः ।। ६४२ ।। दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते । शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ।। ६४३ ।। हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये । उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ।। ६४४ ।। कुक्कुटश्येन भासानामथ हंसमयूरयोः । पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ।। ६४५ ।। कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः । पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ।। ६४६ ।। मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः । नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ।। ६४७ ।। वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा । पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ।। ६४८ ।। भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः । तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ।। ६४९ ।। अनस्थिमत्सु चैतेषु शताघोरजपोमतः । अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ।। ६५० ।। हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा । पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ।। ६५१ ।। कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् । गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ।। ६५२ ।। योगंकृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् । प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ।। ६५३ ।। अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते । कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ।। ६५४ ।। अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् । गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ।। ६५५ ।। तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् । पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ।। ६५६ ।। पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः । मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ।। ६५७ ।। निषेधाभावतस्तस्य दोषस्तत्र न जायते । नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ।। ६५८ ।। गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् । गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ।। ६५९ ।। काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः । सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ।। ६६० ।। पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् । घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ।। ६६१ ।। कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् । रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ।। ६६२ ।। धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् । पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ।। ६६३ ।। अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् । क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ।। ६६४ ।। अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतंजपेत् । अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ।। ६६५ ।। उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः । दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ।। ६६६ ।। तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते । तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ।। ६६७ ।। स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति । आचम्यादीक्षितेनापि सजातीशशतं जपेत् ।। ६६८ ।। सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् । तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ।। ६६९ ।। इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु । शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ।। ६७० ।। भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु । स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ।। ६७१ ।। इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये । त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ।। ६७२ ।। पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः । कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ।। ६७३ ।। गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च । कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ।। ६७४ ।। ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् । रजकादि प्रवेशादावयुतार्धमजानतः ।। ६७५ ।। बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः । हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ।। ६७६ ।। शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा । भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ।। ६७७ ।। उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता । प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ।। ६७८ ।। तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् । दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ।। ६७९ ।। चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा । शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ।। ६८० ।। तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः । उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ।। ६८१ ।। विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् । तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ।। ६८२ ।। शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् । शरावपत्र पुटक प्रभृतीनां च भोजने ।। ६८३ ।। शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते । सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ।। ६८४ ।। गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः । बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ।। ६८५ ।। प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा । ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ।। ६८६ ।। विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा । श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ।। ६८७ ।। नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः । उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ।। ६८८ ।। जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना । अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ।। ६८९ ।। निर्माल्यसंकरे कामात् संपूज्यश्चण्डनायकः । तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ।। ६९० ।। अकामतोवा संपर्कात् केवलस्य शतं भवेत् । वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ।। ६९१ ।। जलजानां च सर्वेषां वैणवानां तथाम्भसा । स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ।। ६९२ ।। शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् । मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ।। ६९३ ।। फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् । क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ।। ६९४ ।। अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते । परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ।। ६९५ ।। प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा । समयानां प्रमादे तु शक्तिजापः प्रशस्यते ।। ६९६ ।। वस्त्रशययासनादीनां स्तेये गायत्रिकाशतम् । गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ।। ६९७ ।। शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः । म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ।। ६९८ ।। सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने । पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ।। ६९९ ।। अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ।। ७०० ।। देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ।। ७०१ ।। अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। ७०२ ।। आततायिनमायान्तमपि शस्त्रान्तगं रणे । जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ।। ७०३ ।। युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा विचारतः ।। ७०४ ।। असूर्या नाम ये लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ।। ७०५ ।। न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् । यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ।। ७०६ ।। ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् । शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ।। ७०७ ।। तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् । शैवं पाशुपतं कालामुखं कापालधारिणम् ।। ७०८ ।। यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना । ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ।। ७०९ ।। शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ । तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ।। ७१० ।। अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ।। ७११ ।। देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः । तथैवेह समुद्दिष्टमभिशापो महात्मनि ।। ७१२ ।। औषधं स्नेहमाहारं ददतो बन्धकस्य च । प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ।। ७१३ ।। प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् । निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ।। ७१४ ।। नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः । तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ।। ७१५ ।। तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् । तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ।। ७१६ ।। किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् । द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ।। ७१७ ।। क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः । ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ।। ७१८ ।। विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् । लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ।। ७१९ ।। मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा । मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ।। ७२० ।। उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा । राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ।। ७२१ ।। वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता । यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ।। ७२२ ।। दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः । सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ।। ७२३ ।। सर्वलोपेकृते तस्य महादोषः प्रजायते । शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ।। ७२४ ।। अनेन विधिना येन सर्वैनैमित्तिकादितः । विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ।। ७२५ ।। शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् । वृषाधिवासने हीने ध्वजे वारोपिते सति ।। ७२६ ।। गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् । वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ।। ७२७ ।। किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् । ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ।। ७२८ ।। शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् । ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ।। ७२९ ।। शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये । वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ।। ७३० ।। शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् । दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ।। ७३१ ।। मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा । स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ।। ७३२ ।। स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् । दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि संभवे ।। ७३३ ।। शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् । ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयंकरः ।। ७३४ ।। सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् । शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ।। ७३५ ।। एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् । ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ।। ७३६ ।। अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते । रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ।। ७३७ ।। आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् । पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ।। ७३८ ।। शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् । ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ।। ७३९ ।। पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः । पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ।। ७४० ।। मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा । केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ।। ७४१ ।। लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् । दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ।। ७४२ ।। दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः । रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ।। ७४३ ।। दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः । प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ।। ७४४ ।। उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् । ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ।। ७४५ ।। आवर्तयेदघोरेण त्रिशतं देशिकस्तदा । घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ।। ७४६ ।। आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा । ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ।। ७४७ ।। वृषकुम्भविभेदादिकारणात् केतुरोहणम् । कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ।। ७४८ ।। मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे । तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ।। ७४९ ।। एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् । आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ।। ७५० ।। एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः । ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ।। ७५१ ।। तदधो लम्बिते केतौ शान्तिहोमं विधाय च । आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ।। ७५२ ।। भेरीसंताडने हीने लोको मूकः प्रजायते । शान्तिहोमं तदा कृत्वा भेरीसंताडयेत्ततः ।। ७५३ ।। उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् । देवतावाहने हीने देवादीनामसन्निधिः ।। ७५४ ।। शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् । ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ।। ७५५ ।। अनाहूतास्तदा दोषो नान्यानाहूतिरापदि । पताकारोपणोपेते देवानावाहयेन्न वा ।। ७५६ ।। भेरीताडनकार्यं तु तद्वदेव समाचरेत् । भेरीचर्मादि भेदादौ कोणच्छेदादि संभवे ।। ७५७ ।। अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् । तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ।। ७५८ ।। कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् । तत्काले बलिकाले वा वादके पतिते भुवि ।। ७५९ ।। शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये । भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ।। ७६० ।। शान्तिहोमं तदा कृत्वा भेरीं संपूजयेद्धृदा । यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ।। ७६१ ।। विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् । कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ।। ७६२ ।। प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् । ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ।। ७६३ ।। शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये । विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ।। ७६४ ।। स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे । उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ।। ७६५ ।। नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् । यागोपकरणेऽप्येवं किं तु यागावसानके ।। ७६६ ।। शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च । प्रधानाधममध्यानां करणानां विलोपने ।। ७६७ ।। शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् । विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ।। ७६८ ।। पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये । शिवकुंभेषुवर्धन्यावृतेषु घटेषु वा ।। ७६९ ।। उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् । भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ।। ७७० ।। शान्तिहोममघोराणुजपं पञ्चशतं चतुः । शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ।। ७७१ ।। कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् । वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ।। ७७२ ।। स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः । कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ।। ७७३ ।। शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये । कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ।। ७७४ ।। जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः । पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ।। ७७५ ।। सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् । हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ।। ७७६ ।। स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये । शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ।। ७७७ ।। जपेद्घोरं त्रिशतं तदङ्गानां विलोपने । तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ।। ७७८ ।। पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् । आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ।। ७७९ ।। बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् । त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ।। ७८० ।। उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् । स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ।। ७८१ ।। वृषिकाले महावाते राष्ट्रक्षोभे महाभये । ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ।। ७८२ ।। स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः । एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ।। ७८३ ।। अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः । तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ।। ७८४ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ।। ७८५ ।। वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् । बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ।। ७८६ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ।। ७८७ ।। तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् । आलये बलियाने वा तस्यां देवालयावृतौ ।। ७८८ ।। देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः । तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ।। ७८९ ।। नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः । इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ।। ७९० ।। ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते । अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ।। ७९१ ।। अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो । तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ।। ७९२ ।। अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः । एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ।। ७९३ ।। अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् । अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ।। ७९४ ।। हीनेविताने घोरणोः शतसंख्यं जपं नयेत् । ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसंख्यया ।। ७९५ ।। ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः । बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ।। ७९६ ।। तद्दिनाधिपमन्त्रेण जपेतद्विशतसंख्यया । बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ।। ७९७ ।। बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् । मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ।। ७९८ ।। देवालये बलिर्हीनो यदाघोरं शतं जपेत् । यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ।। ७९९ ।। तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् । विधाय यानकाले वातदन्ते वा बलिं नयेत् ।। ८०० ।। अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि । शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ।। ८०१ ।। तच्छेदभेदपातादौ तथैव फलमादिशेत् । तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ।। ८०२ ।। विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् । नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ।। ८०३ ।। पतितं चेत्यजेदन्नं संपाद्यान्नं समाचरेत् । समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ।। ८०४ ।। बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् । भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ।। ८०५ ।। दशायुधानि वा भूमौ संभूतानि पतन्तिचेत् । निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ।। ८०६ ।। च्छेदभेदादियुक्तानि यदि दारुमयानि वा । तथान्यानि समापाद्य संभूतानीतराणि वा ।। ८०७ ।। संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् । लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ।। ८०८ ।। शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च । धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ।। ८०९ ।। च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् । उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ।। ८१० ।। समाप्योत्सवकार्यं तु तत्संधायानुकर्मवत् । संप्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ।। ८११ ।। यानकालेऽन्यकाले वा बेरादौ पतिते सति । राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ।। ८१२ ।। अव्यङ्गे पतिते बेरे पतिते वा करादधः । द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ।। ८१३ ।। संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती । स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ।। ८१४ ।। नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् । अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ।। ८१५ ।। अधिवासादिकं कर्म सद्य एव समाचरेत् । मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ।। ८१६ ।। पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् । उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ।। ८१७ ।। तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् । कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ।। ८१८ ।। धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः । गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ।। ८१९ ।। ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि । प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ।। ८२० ।। उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च । लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ।। ८२१ ।। उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः । बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ।। ८२२ ।। शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा । कुर्वाणश्चेत् क्रियांभूमौ पतितो देशिकस्तदा ।। ८२३ ।। ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् । जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ।। ८२४ ।। बलिदातरि तत्काले पतिते तं शतं जपेत् । आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ।। ८२५ ।। गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः । पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ।। ८२६ ।। पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः । अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ।। ८२७ ।। प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः । विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ।। ८२८ ।। निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् । रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ।। ८२९ ।। शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् । यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ।। ८३० ।। सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् । तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ।। ८३१ ।। सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् । आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ।। ८३२ ।। पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् । विनोद दर्शन काले जातश्चेत् कलहो महान् ।। ८३३ ।। शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् । विनोददर्शने हीने संहिताहोममाचरेत् ।। ८३४ ।। नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् । यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ।। ८३५ ।। देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया । स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ।। ८३६ ।। हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते । प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ।। ८३७ ।। तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह । शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ।। ८३८ ।। नृत्तमूर्त्युत्सवे हीने पूर्वसंकल्पिते नराः । भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ।। ८३९ ।। नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् । यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ।। ८४० ।। शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् । मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ।। ८४१ ।। शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् । हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ।। ८४२ ।। तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति । निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ।। ८४३ ।। एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति । अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ।। ८४४ ।। चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् । शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ।। ८४५ ।। विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः । चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ।। ८४६ ।। महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः । शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ।। ८४७ ।। पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा । कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ।। ८४८ ।। तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः । प्रासादे मनुजे जाते मृते राजो भयं महत् ।। ८४९ ।। मृतादि तत्प्रोदेशांत्तु विसृज्य च बहिस्ततः । प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ।। ८५० ।। तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै । मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ।। ८५१ ।। परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् । प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ।। ८५२ ।। पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् । शैव संभोजनं चान्ते जलसंप्रोक्षणं नयेत् ।। ८५३ ।। स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् । शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ।। ८५४ ।। प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना । अन्तस्सालान्तरे चेद्धि जलसंप्रोक्षणं नयेत् ।। ८५५ ।। अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् । गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ।। ८५६ ।। त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः । अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ।। ८५७ ।। पाकस्थानादि देशेषु मरणादौ च संभवे । पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ।। ८५८ ।। शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा । प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ।। ८५९ ।। धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि । परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ।। ८६० ।। कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् । सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ।। ८६१ ।। सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः । गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ।। ८६२ ।। स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् । केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ।। ८६३ ।। देवतामण्डपे तत्स्थदेवान् संप्रोक्ष्य गव्यतः । संपूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ।। ८६४ ।। एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च । उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ।। ८६५ ।। शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः । ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ।। ८६६ ।। गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् । एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ।। ८६७ ।। वस्त्रशययासनादीनां दाहच्छेदादि संभवे । दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ।। ८६८ ।। कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् । पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ।। ८६९ ।। प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः । वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ।। ८७० ।। महादोष समाख्यातो दोषो नान्यत्र कथ्यते । एवमेव नराणां च तदा स्नानं विधाय च ।। ८७१ ।। जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् । नराणां शिवभक्तानां दीक्षितानां शिवाय वा ।। ८७२ ।। वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये । कारयेत् संहिताहोमघोरं वा जपेत्तथा ।। ८७३ ।। अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे । संप्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ।। ८७४ ।। तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् । संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ।। ८७५ ।। गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् । गव्यसंप्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ।। ८७६ ।। सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् । गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।। ८७७ ।। मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् । श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ।। ८७८ ।। चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके । स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ।। ८७९ ।। तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् । यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ।। ८८० ।। व्यपोह्य पूर्वकुम्भादीन् संपूज्य वृषभध्वजम् । मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ।। ८८१ ।। कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् । कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ।। ८८२ ।। महानसेऽथवा स्थानमम्डपे गोपुरादिके । विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ।। ८८३ ।। प्रपायामग्निदग्धायां संहिताहोममाचरेत् । विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ।। ८८४ ।। अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् । स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ।। ८८५ ।। शान्तिश्च शान्तिहोमश्च संहिता होम एव च । दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ।। ८८६ ।। परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् । उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म संमतम् ।। ८८७ ।। ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् । महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ।। ८८८ ।। प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् । सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ।। ८८९ ।। अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः । अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ।। ८९० ।। आचार्य संकरो राष्ट्रं राजानं नाशयत्यथ । एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ।। ८९१ ।। कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसंकरः ।। ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि कल्पनम् ।। ८९२ ।। दीपनैवेद्य संकॢप्तिर्देवे नित्यार्चनं च यत् । सकलाराधनं यच्च परिवारार्चनादिकम् ।। ८९३ ।। नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् । उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ।। ८९४ ।। तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् । अनेक नरनिर्वत्य कथमेकः करोत्यहो ।। ८९५ ।। शिवः - साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् । नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ।। ८९६ ।। एकाचार्येण कर्तव्यमिति साधूदितं मवा । देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ।। ८९७ ।। तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः । आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ।। ८९८ ।। शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः । रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ।। ८९९ ।। तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् । यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ।। ९०० ।। यत्कृतं राजकार्यं स्यात्तथैवापि संमतम् । अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ।। ९०१ ।। तत्र संकरदोषोऽपि फलमेवं च निष्कृतिः । क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ।। ९०२ ।। सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् । अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः ।। ९०३ ।। शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये । शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ।। ९०४ ।। तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ।। ९०५ ।। इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ।। प्रणवासनमारूढं दुराधर्पं महाबलम् । पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् । कपाल मालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामाला नागाभरण लेलिहम् । सूर्यकोट्ययुताभं च विघ्नसंघातमर्दकम् । भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ।। खड्गचापमहाशूलाभय पाशांश्च दक्षिणे । खेट वाण कपालांश्च वरप्रासौ च वामतः ।। पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् । ध्यात्वैवं उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ।। सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् । वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ।। कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् । मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ।। अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ।। ध्यायेत् सूर्यसहस्राभं अघोरास्त्रं अरिन्दमम् । प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।। त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् । सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ।। चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् । नृत्यमानं महाकार्यं नागाभरणभूषितम् ।। देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३१. एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् । रजन्यां दर्शनं भानोः परराज भयं भवेत् ।। १ ।। विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् । दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ।। २ ।। पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा । संभवे भूमि कंपेतु नृप भङ्गो भवेद् ध्रुवम् ।। ३ ।। मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ संमितैः । तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ।। ४ ।। स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् । सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ।। ५ ।। प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् । नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ।। ६ ।। तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् । सांबं कुंभे च वर्धन्यां परितोष्ठ घटेषु च ।। ७ ।। स सूत्रांबरहैमेषु सप्ततीर्थं च कन्यया । पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ।। ८ ।। कुंभांभः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् । प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ।। ९ ।। सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् । कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ।। १० ।। शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् । तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ।। ११ ।। जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् । प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ।। १२ ।। गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् । पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ।। १३ ।। भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् । सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ।। १४ ।। मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् । मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ।। १५ ।। तद्द्रव्य स्नपनं कुर्यात् भूमिकंपोक्तमार्गतः । विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ।। १६ ।। शैवान् संभोजयेत् प्रश्चादेवं सप्ताहमाचरेत् । लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ।। १७ ।। लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे । संपूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ।। १८ ।। दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः । पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ।। १९ ।। लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा । वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ।। २० ।। शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् । अकस्मात्पतितं धाम मूलादामस्तकं यदि ।। २१ ।। नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् । स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ।। २२ ।। शान्त्युक्त दिन संख्यया वशेनैतत्समाचरेत् । प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ।। २३ ।। त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके । कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ।। २४ ।। प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः । स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ।। २५ ।। नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् । अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ।। २६ ।। निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् । धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ।। २७ ।। अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा । मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ।। २८ ।। धाम स्थानान्तरं प्राप्तं यदिलिंगादिसंयुतम् । नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ।। २९ ।। संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् । शैव संभोजनोपेतां विप्रभुक्ति समन्वितम् ।। ३० ।। लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा । बाणलिंगादिकं वाथ प्रासादेन समन्वितम् ।। ३१ ।। अथवा पूर्वलिंगं चेत् तत्प्रासाद समन्वितम् । अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ।। ३२ ।। हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् । स्थानानन्तर गतं लिंगं उदक् पूर्वत्र विन्यसेत् ।। ३३ ।। तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना । वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ।। ३४ ।। तद् वृक्ष जाति संभूत समिद्भिर्मूर्ति होमकम् । समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ।। ३५ ।। तत्समीपे स्थिते लिंगे स्वयं भूतादिके परम् । स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ।। ३६ ।। स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति संभवम् । तदन्य कुसुमे जाते तदन्य फल संभवे ।। ३७ ।। संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे । सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ।। ३८ ।। तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् । शिवलिङ्गे च बेरे वा पीठे वोष्णादि संभवे ।। ३९ ।। सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् । गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ।। ४० ।। स्नापयेत् परमेशानं पञ्चामृत समन्वितम् । अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ।। ४१ ।। सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः । चन्दनागरु कर्पूरोशीर कुंकुम संयुतम् ।। ४२ ।। गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् । दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ।। ४३ ।। शीतकुंभोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा । नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ।। ४४ ।। जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि । बहुशीर्षक हस्तांघ्रि नासादेहादि संयुतः ।। ४५ ।। स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः । स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ।। ४६ ।। तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् । शिवं संपूज्य विधिवत् दिशाहोमं समाचरेत् ।। ४७ ।। शैवान्संपूज्य विधिवत् शान्तिहोमं समाचरेत् । शिवान्संभोजये देवं नयेद्वा सप्तपञ्चमम् ।। ४८ ।। निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने । नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ।। ४९ ।। युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् । शिवं संपूज्य विधिवत् दिशा होमन्तु कारयेत् ।। ५० ।। स्नापयेत् परमेशानं नव सप्ताह माचरेत् । लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ।। ५१ ।। प्रक्षाल्यास्त्रांबुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् । लिंगे बेरे विमाने वा मण्डपे गोपुरादिषु ।। ५२ ।। परिवारालये साले देवेशास्थानमण्डपे ।। ५२१/२ ।। सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् । नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ।। ५३१/२ ।। तत्र लिंगे च पिठे च बेरे वायं विधिर्भवेत् । दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ।। ५४१/२ ।। अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् । पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ।। ५५१/२ ।। सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् । स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ।। ५६१/२ ।। एवं कृतेतु सप्ताहं अन्ते चोत्सव माचरेत् । प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ।। ५७१/२ ।। अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् । प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ।। ५८१/२ ।। शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् । प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ।। ५९१/२ ।। शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके । सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ।। ६०१/२ ।। प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः । तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ।। ६११/२ ।। ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् । करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ।। ६२१/२ ।। सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे । महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ।। ६३१/२ ।। पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् । धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ।। ६४१/२ ।। गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् । शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ।। ६५१/२ ।। पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् । शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ।। ६६१/२ ।। लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् । क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ।। ६७१/२ ।। तदर्धैवा तदर्धैवा शीत कुंभ स्तदन्तिके । लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ।। ६८१/२ ।। राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा । पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ।। ६९१/२ ।। शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः । चन्दनो शीर कर्पूर कुंकुमा गरु संयुतम् ।। ७०१/२ ।। पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् । संपूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ।। ७११/२ ।। शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि । भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ।। ७२१/२ ।। संप्रोक्ष्यस्त्रांबुना भेरी प्रमुखान् गन्धपुष्पकैः । अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ।। ७३१/२ ।। प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने । जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ।। ७४१/२ ।। नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् । रात्राविंद्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ।। ७५१/२ ।। शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने । अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ।। ७६१/२ ।। वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ।। ७७ ।। नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः । अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ।। ७८ ।। प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति । राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ।। ७९ ।। सप्ताहं वाथ पञ्चाहं तत् पात दिन संख्यकम् ! ।। ७९१/२ ।। स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये । क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे ।। ८०१/२ ।। चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते । तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ।। ८११/२ ।। शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् । वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ।। ८२१/२ ।। क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् । तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ।। ८३१/२ ।। लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके । सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ।। ८४१/२ ।। शिवं संपूज्य विधिवत् दिशाहोमन्तु कारयेत् । पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ।। ८५१/२ ।। अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिके । समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ।। ८६१/२ ।। शिवं संपूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् । तद्देशे शान्ति च यद्देशे पतितिस्तरुः ।। ८७१/२ ।। तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके । तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ।। ८८१/२ ।। शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् । तदेक शाखा पतने कलहो भुवि जायते ।। ८९१/२ ।। शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् । द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ।। ९०१/१ ।। शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः । एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ।। ९११/२ ।। शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि । मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ।। ९२१/२ ।। नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः । उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ।। ९३१/२ ।। कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे । अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ।। ९४१/२ ।। सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः । तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ।। ९५१/२ ।। अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः । आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ।। ९६१/२ ।। षड्वेद नेत्रमात्रं तु वेष्टयेत् लिंग पिण्डिके । बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ।। ९७१/२ ।। मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् । एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ९८१/२ ।। राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा । गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ।। ९९१/२ ।। संपूज्य देव देवेशं सप्ताहं शान्ति माचरेत् । पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ।। १००१/२ ।। मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु । तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ।। १०११/२ ।। शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये । प्रत्यहं होमरक्षां च देव देव प्रसादजम् ।। १०२१/२ ।। भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः । सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ।। १०३१/२ ।। गुरुं पुरोहितं वाथ महिषीं गजमेव च । वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ।। १०४१/२ ।। प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा । परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ।। १०५१/२ ।। ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् । मार्जार प्रमुखानां रोदनं यदि जायते ।। १०६१/२ ।। स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये । तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ।। १०७१/२ ।। शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च । शान्ति होमोऽथवा घोर जपो मार्जाररोदने ।। १०८१/२ ।। शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् । अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत् ।। १०९१/२ ।। लिंगे बेरे च पीठादौ खद्योतारोहणे सति । राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ।। ११०१/२ ।। तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् । तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ।। ११११/२ ।। स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा । नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ।। ११२१/२ ।। लिंगमूले च पीठे वा बेरे वा गर्भगेहके । परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ।। ११३१/२ ।। प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये । तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ।। ११४१/२ ।। पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् । कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ।। ११५१/२ ।। संजाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् । चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ।। ११६१/२ ।। सूर्येवास्तंगते तस्मिन् उदयात् पूर्वमेव वा । दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ।। ११७१/२ ।। दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् । शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ।। ११८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः पटलः ३२. द्वात्रिंशत्तमे पटले अनुकर्मविधिः अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् । प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ।। १ ।। हीने जात्यादि संस्थानेमानोन्मानादि हीनए । तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ।। २ ।। मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् । मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ।। ३ ।। तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते । स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ।। ४ ।। शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते । अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ।। ५ ।। मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः । अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ।। ६ ।। नागरे नागरं कुर्याद्वेसरे वेसरं मतम् । द्राविडे च तथा कार्यं वराटादौ तथा मतम् ।। ७ ।। घनेऽघने विमाने तु तथा भवनमिष्यते । भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ।। ८ ।। पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् । द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ।। ९ ।। नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि । नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ।। १० ।। अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् । सुस्थितंदुस्थितं वापि शिवलिङ्गं न चालयेत् ।। ११ ।। जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् । जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ।। १२ ।। जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते । जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ।। १३ ।। तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च । जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ।। १४ ।। भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते । लक्ष्मोज्झितंवज्रहतं संपुटं स्फुटितं तथा ।। १५ ।। आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् । त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ।। १६ ।। जीर्णाद्यैस्संयुतंत्याज्यं पीठं वा कशिला वृषः । अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ।। १७ ।। चलितं चालितं लिङ्गं पतितं पातितं तथा । अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ।। १८ ।। परित्यक्त शिलायोगमपि न स्थापितं भवेत् । तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ।। १९ ।। असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् । जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ।। २० ।। नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् । ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ।। २१ ।। न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः । स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ।। २२ ।। शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् । सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ।। २३ ।। बेरेऽप्येतत्समानं स्यांद्दुष्टे त्वन्यत्प्रयोजयेत् । बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ।। २४ ।। पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् । अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ।। २५ ।। लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः । कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ।। २६ ।। उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् । पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ।। २७ ।। उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् । अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ।। २८ ।। वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः । ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ।। २९ ।। शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् । ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ।। ३० ।। प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् । पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ।। ३१ ।। तमेव स्थापयेत्तत्र पुनरापादनं विना । भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ।। ३२ ।। शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् । रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ।। ३३ ।। वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले । लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ।। ३४ ।। तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् । अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ।। ३५ ।। तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा । सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ।। ३६ ।। ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः । शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ।। ३७ ।। अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् । पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ।। ३८ ।। चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकम्ज् । मण्डपे परिवारे च परिवारालयेऽप्यथा ।। ३९ ।। अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः । अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ।। ४० ।। ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ । सप्रमाणे यथा शास्त्रं विहितालंकृतान्विते ।। ४१ ।। अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते । प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ।। ४२ ।। दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते । तद्वास्तु परितोवृद्धिः समावाविषमापि वा ।। ४३ ।। गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् । ग्रामादीनां गृहादीनां शालानां च विशेषतः ।। ४४ ।। आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः । समं वा योजयेत्तस्मादधिकं वापि योजयेत् ।। ४५ ।। युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् । गृहमालिकयोर्भूमिं संख्ययापरिकल्पयेत् ।। ४६ ।। सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु । उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ।। ४७ ।। हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् । जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ।। ४८ ।। किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् । लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ।। ४९ ।। स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् । यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ।। ५० ।। सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते । तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ।। ५१ ।। पूर्वद्वारसमोपेत मेकतोरण संयुतम् । सर्वालंकार संयुक्तन्तर्भामालादि संयुतम् ।। ५२ ।। तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् । मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ।। ५३ ।। समिदाज्यतिलोपेतं हविषा च समन्वितम् । वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ।। ५४ ।। सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः । ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ।। ५५ ।। अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः । अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ।। ५६ ।। एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् । क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ।। ५७ ।। गत्वात दन्तिकं मंत्री हृदास्नाप्य प्रपूजयेत् । व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ।। ५८ ।। प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः । व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ।। ५९ ।। चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१/२ नमस्कारान्त संयुक्तं हृदयाद्यंग पञ्चकम् । न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ।। ६०१/२ ।। स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः । ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ।। ६११/२ ।। सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति । लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ।। ६२१/२ ।। विद्याविद्येश्वरैर्युक्तश्शंभुरत्रभविष्यति । एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ।। ६३१/२ ।। तस्माद्देवं समावाह्यकुंभे संस्थापयेत् गुरुः । अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ।। ६४१/२ ।। सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते । तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ।। ६५१/२ ।। संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् । प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ।। ६६१/२ ।। ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् । हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ।। ६७१/२ ।। विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् । तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ।। ६८१/२ ।। सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् । शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ।। ६९१/२ ।। भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् । प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ।। ७०१/२ ।। महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् । तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ।। ७११/२ ।। स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा । गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ।। ७२१/२ ।। एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः । मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ।। ७३१/२ ।। सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः । तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ।। ७४१/२ ।। तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके । संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ।। ७५१/२ ।। मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ । तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ।। ७६१/२ ।। मूललिंगन्नलब्धञ्चेद्देशकालानुरोधतः । षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ।। ७७१/२ ।। बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् । द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ।। ७८१/२ ।। कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः । षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ।। ७९१/२ ।। तत्र स्थं बाललिंगाद्यं त्यक्त्वामूलन्तुविन्यसेत् । सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ।। ८०१/२ ।। द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् । नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ।। ८११/२ ।। एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः । किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ।। ८२१/२ ।। परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः । शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ।। ८३१/२ ।। दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः । भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ।। ८४१/२ ।। शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः । तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ।। ८५१/२ ।। आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे । लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ।। ८६१/२ ।। वामदक्षिणसिद्धान्तभेदेन नव भेदिनः । शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ।। ८७१/२ ।। गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः । प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ।। ८८१/२ ।। तैरपि स्थापितं लिंगं मादिशैवस्समर्चयेत् । यामलत्व परंज्ञेयं तच्चमिश्रमिहोच्यते ।। ८९१/२ ।। वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् । वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ।। ९०१/२ ।। सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः । व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ।। ९११/२ ।। वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् । लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ।। ९२१/२ ।। तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् । गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ।। ९३१/२ ।। कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा । बृहस्पतिमतं सांख्यं योगंवैखानसन्तथा ।। ९४१/२ ।। वेदान्ताख्यञ्च मीमांस पुराणन्धर्म शास्त्रकम् । वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ।। ९५१/२ ।। तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् । सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ।। ९६१/२ ।। रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् । तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ।। ९७१/२ ।। लिंगाद्यमादिशैवेन स्थापितं पूजितन्तुवा । तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ।। ९८१/२ ।। तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः । तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ।। ९९१/२ ।। यदितैः पूजितं पश्चात् सेनानिं सेनया सह । अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ।। १००१/२ ।। शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति । तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ।। १०११/२ ।। तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् । राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ।। १०२१/२ ।। शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः । आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ।। १०३१/२ ।। तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः । तत् स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ।। १०४१/२ ।। शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः । कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ।। १०५१/२ ।। पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् । पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ।। १०६१/२ ।। अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् । कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ।। १०७१/२ ।। मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च । महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ।। १०८१/२ ।। ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः । तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ।। १०९१/२ ।। कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ।। ११० ।। पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् । लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ।। १११ ।। अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः । जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ।। ११२ ।। एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् । स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ।। ११३ ।। पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः । पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ।। ११४ ।। कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् । स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ।। ११५ ।। लिंगसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः । लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ।। ११६ ।। शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् । गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ।। ११७ ।। देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् । स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ।। ११८ ।। च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते । दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ।। ११९ ।। अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् । शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः।। १२० ।। ब्राह्मणान् भोजयेत् पश्चात् शैवान् संभोजयेत्ततः । प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ।। १२१ ।। मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा । मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ।। १२२ ।। सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये । आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ।। १२३ ।। तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् । सर्वेरंगैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ।। १२४ ।। लिङ्गे स्वायंभुवादौ तु जीर्णादौ शान्तिरीरितः । सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ।। १२५ ।। प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते । उत्सेधेरविमात्रान्तंक्षन्तव्यञ्चाङ्गुलादिकम् ।। १२६ ।। द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यंगेषुमात्रकम् । ग्रामखेटपुरादौतुदंडान्तं परिकीर्तितम् ।। १२७ ।। सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके । चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ।। १२८ ।। द्वाराद्यंगेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके । तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ।। १२९ ।। इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः ।। ३३. त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः काम्ययोग विधानंतु प्रवक्ष्यामि समासतः । काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ।। १ ।। सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः । तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ।। २ ।। व्यालबद्धजटाचूटः कपालदलमण्डितः । सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ।। ३ ।। चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् । महाकायो महादंष्ट्री किङ्किणीखसंयुतः ।। ४ ।। महाशूलाग्र संप्रोत महासुर विनाशनः । खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ।। ५ ।। वराभयकपालाहि पाशप्रासगदायकरः । दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ।। ६ ।। स्वसेना रक्षको नित्यं परसेनाभयंकरः । वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ।। ७ ।। सर्वदोष विनाशे तु समर्थो भक्तवत्सलः । असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ।। ८ ।। आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ।। ९ ।। चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः । त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ।। १० ।। सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः । ओं जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ।। ११ ।। एष एवामृतेशस्स्यादादौ कूटयुतो न वा । रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ।। १२ ।। हकारेण शरीरं तु रसमित्यादितः पठेत् । अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ।। १३ ।। आदौ स्याद्देवदेवेशेति (पदं) समुद्धरेत् । प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ।। १४ ।। पीठं जुंकारकॢप्तंस्यान्मूर्तिरों जुंसतो भवेत् । मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ।। १५ ।। कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् । अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ।। १६ ।। सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ।। १७ ।। व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः । त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ।। १८ ।। दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। १९ ।। अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो । न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ।। २० ।। भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् । तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ।। २१ ।। अमृतेशेन देवेन जलं संग्राह्य यत्नतः । शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ।। २२ ।। क्षीरेण सहसंपृक्तदूर्वाकाण्डमखण्डितम् । ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ।। २३ ।। देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् । नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ।। २४ ।। मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् । प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ।। २५ ।। कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम् । गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ।। २६ ।। स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान पुरादीनि न संशस्यः ।। २७ ।। किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा । अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ।। २८ ।। रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ।। २९ ।। स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् । किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ।। ३० ।। सप्तायुध समायुक्तं सर्वाभरणभूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। ३१ ।। धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् । मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ।। ३२ ।। पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् । पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ।। ३३ ।। शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् । दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ।। ३४ ।। घण्टां खेटं कपालं च शत्रुसंक्षय संमुखम् । अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ।। ३५ ।। अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः । ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिंदमम् ।। ३६ ।। प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।। ३७ ।। सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ।। ३८ ।। नृत्यमानं महाकायं नागाभरणभूषितम् । देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३९ ।। प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् । घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ।। ४० ।। ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः । चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ।। ४१ ।। ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् । घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ।। ४२ ।। प्रान्ते स्यादूहुंफडित्येवं चतुर्थ्यन्तं हृदादिकम् । नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ।। ४३ ।। परचक्रप्रथमने महाव्याधि प्रकोपने । शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ।। ४४ ।। किमनेन बहूक्तेन भयकालेऽप्युपस्थिते । मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ।। ४५ ।। परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् । मन्त्राणि योगयुक्तानि पावके शलभा यथा ।। ४६ ।। तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् । अनेनैव प्रकारेण ध्यात्वा संपूजयेद् गुरुः ।। ४७ ।। अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् । दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ।। ४८ ।। विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् । चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ।। ४९ ।। अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् । एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ।। ५० ।। हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् । संग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ।। ५१ ।। एवमभ्यर्चयेद्वोऽसौ सोऽयंमत्सदृशोमतः । तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ।। ५२ ।। सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः । पालनीयोविशेषेण साधकाधिपतिस्सदा ।। ५३ ।। दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते । वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ।। ५४ ।। फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि । ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ।। ५५ ।। दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् । मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ।। ५६ ।। स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः । नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ।। ५७ ।। शुद्धस्फटिकसंकाशं प्रसन्नवदनान्वितम् । गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ।। ५८ ।। व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् । शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ।। ५९ ।। वामे पद्मं च वह्निं च वरदाभयदं तु वा । पुस्तकेन युतंवाथ दधानं नयनत्रयम् ।। ६० ।। महावृषभसंयुक्तमनिसंघैस्समावृतम् । ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ।। ६१ ।। यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् । चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। ६२ ।। अथवान्य प्रकारेण भैरवं विकृताननम् । ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ।। ६३ ।। संग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः । अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ।। ६४ ।। यत् किंचित् क्रियते कर्म त्रैलोक्ये येन केनचित् । रहितो मन्त्रराजेन नैव सिध्यति साधकः ।। ६५ ।। आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पधस्तम् वक्त्रैर्युक्तं चतुर्भिः परमरुण चतुश्शक्तिभिर्व्याप्तदिक्कम् । कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालं भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि खट्वाङ्ग हस्तम् ।। ६६ ।। ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् । विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ।। ६७ ।। भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः । नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ।। ६८ ।। दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः । तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ।। ६९ ।। कामाचररतो वापि भावयेद्भास्करं सदा । वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।। ७० ।। सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् । ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ।। ७१ ।। शत्रुकृत्यादि संभूतरोगानीक विनाशनम् । चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ।। ७२ ।। स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु । ओं ह्रींकारं समुद्धृत्य तदन्ते कृष्णवाससे ।। ७३ ।। ततश्च सिंहवदने महावदन इत्यपि । महाभैरविवर्णेच सर्वशत्रुपदं तथा ।। ७४ ।। कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ।। ७५ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ।। ७६ ।। सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ।। ७६१/२ ।। ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ।। ७७१/२ ।। प्रत्यंगिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः । तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यंगिरात्मकः ।। ७८१/२ ।। प्रत्यंगिरेयं विख्यात श्शतवर्ण स्वरूपिणी । आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ।। ७९१/२ ।। दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् । तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ।। ८०१/२ ।। त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः । नमस्वाहावषड्वौषट् हुंपट्युक्ता हृदादयः ।। ८११/२ ।। सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् । कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ।। ८२१/२ ।। वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ।। ८३१/२ ।। अट्टहासादि शब्दैस्तु गर्जितामुदितामपि । कृष्णांबर धरां सासृक् मांसास्यां नर्तनेरताम् ।। ८४१/२ ।। मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् । कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ।। ८५१/२ ।। देवींध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् । ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ।। ८६१/२ ।। विद्याधरत्वलाभाय कृष्णागरुयुतं परम् । अथवा नाभिकंजल्कं जुहुयात् साधकोत्तमः ।। ८७१/२ ।। कदंबकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् । प्रियंगु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ।। ८८१/२ ।। करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् । खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ।। ८९१/२ ।। सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् । पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ।। ९०१/२ ।। धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् । कृष्णनीलं घृतं चैव स्तंभयेदभिचारतः ।। ९११/२ ।। रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् । कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ।। ९२१/२ ।। होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् । महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ।। ९३१/२ ।। गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् । जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ।। ९४१/२ ।। कुंकुमारोचनाश्चैव कार्पास फल गुग्गुलुः । वेणुनाभेदनं सद्यो भवेदेव न संशयः ।। ९५१/२ ।। निम्बपुष्पं तथाब्रीहिं निंबतैलसमायुतम् । अर्कक्षीर समायुक्तं होमयेदपिपारतम् ।। ९६१/२ ।। राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः । घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ।। ९७१/२ ।। दुकूल चरुलाजांश्च मधुत्रय समन्वितान् । औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ।। ९८१/२ ।। जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् । अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ।। ९९१/२ ।। मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् । विषमज्वर नाशाय चूतपत्राणि होमयेत् ।। १००१/२ ।। घृतेन सहसार्द्राणि प्लुतमृत्युंजिता तथा यथा । सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ।। १०११/२ ।। वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये । पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ।। १०२१/२ ।। सहस्रमयुतं वाथ लक्षन्तत्रिगुणंन्तु वा !! ।। १०३ ।। इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः त्रयस्त्रिंशतितमः पटलः ।। रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टक समोपेतं उर्ध्वकेशं सुदंष्ट्रिणम् ।। स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् । किंकिणीमालया भ्राजात् पादनुपूरसंयुतम् ।। सप्तायुध समायुक्तं सर्वाभरण भूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम् मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम् पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम् शूलमूलं च वेतालं खङ्गं हमरुगं शुभम् दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् । घण्टां खेटं कपालं च शत्रुसक्षय संमुखम् अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रं अर्चयेत् ।। तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् । व्यालबद्धजटाचूटः कपालदलमण्डितः ।। सुरपिंगेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः । चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ।। माकायो माहदंष्ट्री किंकिणीरवसंयुतः । महाशूलाग्रसंप्रोत महासुर विनाशनः ।। खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् । वराभयकपालाहि पाश प्रासगदाकरः ।। दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ।। अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ।। सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ।। व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः । त्रिशूलं चाभयं (डमरुं) चोर्ध्वे सुधाकलशमध्ययोः ।। दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे । आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् । वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ।। कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् । भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ।। ३४. चतुस्त्रिंशत्तमे पटले संप्रोक्षण विधिः । संप्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् । आवर्तंचेत्यनावर्तं पुनरावर्तनन्तथा ।। १ ।। ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् । मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ।। २ ।। तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते । पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ।। ३ ।। मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि । लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ।। ४ ।। मूलास्यात्समादाय स्थाप्य बालालये पुनः । तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ।। ५ ।। प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः । स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ।। ६ ।। चर्मच्छेदेऽहीने च भूषणादि विहीनके । अम्बुजासनहीने च स्थलकर्मविहीनके ।। ७ ।। विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते । यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ।। ८ ।। आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् । लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ।। ९ ।। न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः । कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ।। १० ।। आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् । लक्षणोद्धारणं तोयाधिवासः शयनं तथा ।। ११ ।। अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह । सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ।। १२ ।। ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम् । रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ।। १३ ।। शययाधिवासनं विप्रा विना व बेरकर्मणि । नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ।। १४ ।। प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् । स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ।। १५ ।। एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे संप्रोक्षण विधिः चतुर्स्त्रिंशतिमः पटलः ।। ३५. पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ।। १ ।। विष्ण्वंश समतुङ्गं च छाया दोष विवर्जितम्) । पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ।। २ ।। ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः । लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ।। ३ ।। सप्तविंशतिमानानि षड्विंशत्यंश मानकम् । लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ।। ४ ।। तदन्तरे तथा भक्ते सप्तविंशति मानकम् । लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ।। ५ ।। तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः । षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ।। ६ ।। हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः । लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ।। ७ ।। अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते । षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ।। ८ ।। एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् । विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ।। ९ ।। चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् । तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ।। १० ।। नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः । मानुषे पीठमानं स्यात्स्वयंभूतादिकेऽपि च ।। ११ ।। चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते । लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ।। १२ ।। विस्तारमध्यसप्तांशे मानं सप्तदशैव हि । मूलं प्रोक्त प्रमाणां च संग्राह्यं द्विजसत्तमाः ।। १३ ।। विस्तारार्धसमंतुङ्गं समं वाधाधिकं तु वा । प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ।। १४ ।। स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः । पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ।। १५ ।। वेदाश्रमं वर्तुलं वाथ संमतं पीठ रूपकम् । लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ।। १६ ।। बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा । कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ।। १७ ।। मानं सप्तदशाख्यातं समाश्रं वायतं तु वा । द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ।। १८ ।। पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते । विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ।। १९ ।। विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः । पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ।। २० ।। वसुधाभाजितेमध्ये नवमानमिति स्मृतम् । बिंबोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ।। २१ ।। बेरायामाष्टभागैकमपरं परिकीर्तितम् । अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ।। २२ ।। स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः । द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ।। २३ ।। आसने पद्मविस्तारस्त्रयोविंशति मात्रतः । अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ।। २४ ।। त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते । द्वादशांश विहीनेऽथ मध्ये षोडशधाकृते ।। २५ ।। विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः । विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ।। २६ ।। वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् । त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ।। २७ ।। एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् । शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ।। २८ ।। चतुरष्टदलोपेतं विकारार्क दलं तु वा । विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ।। २९ ।। अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् । त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ।। ३० ।। विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा । संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ।। ३१ ।। सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् । एकपीठमनेकेषां यदि शोभावशान्नयेत् ।। ३२ ।। वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा । पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ।। ३३ ।। अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने । षोडशांशे तु मानेन पादुकं परिकीर्तितम् ।। ३४ ।। वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् । वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ।। ३५ ।। षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ।। ३६ ।। वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ।। ३७ ।। एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। ३८ ।। कर्णस्त्वेकेनकंपः स्याद् भूतांशैरूर्ध्वपङ्कजम् । द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ।। ३९ ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४० ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४१ ।। व्योमांश मूर्ध्वकंपं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ।। ४२ ।। द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका । शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ।। ४३ ।। पञ्चविंशति भागेतु व्योमांश पादुकं भवेत् । पद्ममेकेन भागे तु व्योमांश पादुकं भवेत् ।। ४४ ।। जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः । गलमर्धंत्रिभागेन पद्मं द्वयंशेन वृत्तकम् ।। ४५ ।। कुमुदं पद्मभागेन वाजनं व्योम भागतः । भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ।। ४६ ।। कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् । एकेनकंपमर्धेन घृतवार्यभिधीयते ।। ४७ ।। पीठं शांभवमाख्यातमन्यथान्यद्विधीयते । एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ।। ४८ ।। भागेन पादुकं वेद भागेन जगतीमता । एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ।। ४९ ।। कुमुदं पद्मंशेन वाजननत्वेक भागतः । कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ।। ५० ।। द्विभागानु महापट्टी पद्मंशेन भागतः । कंपस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ।। ५१ ।। अष्टादश विभागेतु व्योमांशं पादुकं भवेत् । अद्ध्यर्धं पद्ममित्युक्तं कंपमेकांशतो भवेत् ।। ५२ ।। जगतीवेद भागेन गुणांशः कुमुदं भवेत् । कंपमेकेन कर्णस्यात् द्विभागं कंपमेकतः ।। ५३ ।। महापट्टी द्विभागेन वाजनञ्चैक भागतः । अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ।। ५४ ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंश मिमंबंध भागेन जगती भवेत् ।। ५५ ।। भागाभ्यां पंकजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पंकजम् । कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ।। ५६ ।। कंपंकर्णस्तु चार्द्धेनार्धेनकंपञ्चवारिजम् । भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ।। ५७ ।। घृतवारिसमाख्यातं संपत्करमिहोदितम् । रुद्रभागेतु तत्तुंगे व्योमांशं पादुकं भवेत् ।। ५८ ।। गुणांशं जगतीकंप मेकं कर्णोद्विभागतः । एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ।। ५९ ।। घृतवार्येकभागेन नन्दिकावृत्तमीरितम् । तिथ्यशं विभजेत्तुंग मद्ध्यर्धं पादुकं भवेत् ।। ६० ।। अर्द्धेन कंपपद्मं स्यात् गुणांशं गलमर्द्धतः । पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ।। ६१ ।। अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका । अर्द्धांश घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ।। ६२ ।। तुंगाष्टदशभागेतु द्विपादं पादुकं भवेत् । पंकजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। ६३ ।। षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ।। ६४ ।। घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् । कलांशं विभजेत्तुंगं व्योभागेन पादुका ।। ६५ ।। द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् । भागेन कंपं स्यात् द्विभागेन द्विभागतः ।। ६६ ।। महापट्यंश मानैक घृतवायूर्ध्वतो भवेत् । स्थंण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ।। ६७ ।। त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् । व्योमांशं कंपमित्युक्तं द्विभागं पद्ममुच्यते ।। ६८ ।। भागेन कंपमित्युक्तं शेषं पूर्ववदेवहि । एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ।। ६९ ।। कंपमंशेन भागेन पुनः कंपं द्विभागतः । पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ।। ७० ।। स्वायंभुवमिदं प्रोक्तमधिष्ठानानियानि च । उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ।। ७१ ।। घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः । द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ।। ७२ ।। महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् । घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ।। ७३ ।। अधिष्टानेक तोपेत मथवा परिकल्पयेत् । कर्णमानञ्च संग्राह्य कंपादौ विनियोजयेत् ।। ७४ ।। तन्मान मथकर्णेतु यावदेक यवेन च । वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ।। ७५ ।। सर्वेष्वंगेषु पीठानां सकले निष्कलेपि च । चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ।। ७६ ।। शलेदारुमये वापि मृण्मयेन्य मयेपिवा । निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ।। ७७ ।। पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः । तदर्द्धेणाग्र विस्तार स्सर्वलिंगेषु योग्यकः ।। ७८ ।। पीठार्द्धमानः पादोवा मध्यमे षोडशांशके । मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ।। ७९ ।। तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे । तथा विभक्ते संग्राह्य मानं सप्तदशैव च ।। ८० ।। प्रणालमूलदेशेतु गदग्रं तेन मानतः । त्रिपाद मर्द्ध पादोनं पञ्चत्रित्यत्रंश मेववा ।। ८१ ।। सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् । वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ।। ८२ ।। मूलकंपं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि । तदूर्ध्वेकंपमेकद्वि व्योमभागैस्तथा क्रमात् ।। ८३ ।। प्रणालघनमानेतु तन्मान मधुनोच्यते । कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ।। ८४ ।। त्रिसप्तमानं वेदांशा देकभागविवृद्धितः । दशभागावसानन्तु पीठनाल घनं तुवा ।। ८५ ।। समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् । अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ।। ८६ ।। तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् । अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ।। ८७ ।। खण्डंत्वंगावसानं स्यादूर्ध्व खण्डमखण्डजम् । प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ।। ८८ ।। नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः । सकलानामनालं स्यात् सनालमथपीठकम् ।। ८९ ।। घृतवारिविहीनं वा सहितं वा प्रकल्प्यते । बाणलिंगादि लिंगानां चतुरश्राय ताश्रकम् ।। ९० ।। कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् । पीठलग्नां प्रभां कुर्यात् भिन्नां वा भिन्नयोगिकाम् ।। ९१ ।। नाना वाजन पीठं संयुक्तां मुक्तादामावलि क्रियाम् । नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ।। ९२ ।। सर्वालंकारसंयुक्तामिष्टास्य घन संयुताम् । सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ।। ९३ ।। बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् । एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ।। ९४ ।। पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः । तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ।। ९५ ।। योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति । आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ।। ९६ ।। द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः । तथैव च पुनः कुर्यादन्यथा दोषकारकम् ।। ९७ ।। मानवे पीठ संकल्पपिधानं परिकीर्तितम् । चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ।। ९८ ।। दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा । वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ।। ९९ ।। पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् । लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ।। १०० ।। कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् । अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ।। १०१ ।। हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् । प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ।। १०२ ।। तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना । कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।। १०३ ।। योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च । तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ।। १०४ ।। एवं निष्पाद्य सर्वंतु पश्चात् कर्मसमारभेत् । विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ।। १०५ ।। शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् । लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुंभस्यवर्धनीम् ।। १०६ ।। मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा । ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ।। १०७ ।। गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् । पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ।। १०८ ।। आवाह्यलिङ्गं लिङ्गस्य शिवकुंभगतं न्यसेत् । पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ।। १०९ ।। विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् । नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ।। ११० ।। सहस्रसंख्यं मूलेन समिदाज्यन्नलाजकैः । तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ।। १११ ।। प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् । अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ।। ११२ ।। नित्यपूजा प्रकर्तव्या लिङ्गे कुंभे च नित्यशः । टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ।। ११३ ।। अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् । शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ।। ११४ ।। ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते । शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ।। ११५ ।। कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे । प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ।। ११६ ।। वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे । स्थण्डिलंकल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ।। ११७ ।। गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् । मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ।। ११८ ।। ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते । सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ।। ११९ ।। धान्यराशिंसवत्सांगांकन्यां हृदय मन्त्रतः । प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ।। १२० ।। प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् । प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ।। १२१ ।। स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् । कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ।। १२२ ।। देवीञ्चकलशानिष्ट्वा लंबकूर्च समन्विताम् । नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ।। १२३ ।। स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् । पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ।। १२४ ।। पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् । सवितानध्वजं दर्भमुक्ता पुष्पजमालया ।। १२५ ।। सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् । सर्वलक्षणसंपन्नं सुविसर्जित तक्षकम् ।। १२६ ।। ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् । पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ।। १२७ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् । प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ।। १२८ ।। मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु । गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ।। १२९ ।। कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः । कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ।। १३० ।। आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् । मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ।। १३१ ।। कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् । आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ।। १३२ ।। कृत्वा कौतुकबन्धंतु तन्नाले तद्गलेऽपि वा । शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ।। १३३ ।। तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् । दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ।। १३४ ।। ततश्शययां च संक्ल्प्य तदलाभेऽम्बरैर्नयेत् । आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद् धृदा ।। १३५ ।। आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् । सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ।। १३६ ।। सहैमपंकजं कूर्चफलपल्लव वस्त्रकम् । तन्मध्ये सासनां देवीमर्चयेद् गन्धसंमुखैः ।। १३७ ।। वर्धनीरष्ट संख्याताः कूर्चवस्त्रससूत्रकाः । सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ।। १३८ ।। वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् । गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ।। १३९ ।। तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् । कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ।। १४० ।। क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः । धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।। १४१ ।। धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु । पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ।। १४२ ।। लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् । चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ।। १४३ ।। समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः । पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ।। १४४ ।। शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः । पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ।। १४५ ।। सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा । देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ।। १४६ ।। शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् । तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ।। १४७ ।। प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् । भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ।। १४८ ।। अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः । ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ।। १४९ ।। कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः । द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ।। १५० ।। गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा । ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीमपि ।। १५१ ।। अग्नि होमैश्च संतर्प्य प्रायश्चित्तं विधाय च । दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ।। १५२ ।। सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् । धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ।। १५३ ।। लिङ्गसंस्ह्तापनप्रोक्तविधिना तांनिवेशयेत् । पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ।। १५४ ।। तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् । नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ।। १५५ ।। पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके । पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ।। १५६ ।। रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः । सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ।। १५७ ।। अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् । पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ।। १५८ ।। प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् । पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ।। १५९ ।। लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् । वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ।। १६० ।। देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे । संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतं ।। १६१ ।। वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् । जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ।। १६२ ।। लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः । स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ।। १६३ ।। केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।। १६४ ।। तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा । लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ।। १६५ ।। चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः । विशेषपूजा कर्तव्या होमेन च समन्विता ।। १६६ ।। पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् । चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ।। १६७ ।। बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् । पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ।। १६८ ।। समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ।। १६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः पटलः ।। अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके षोडशांशे तु मानेन पादुकं परिकीर्तितम् वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत् वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते । अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः घृतवार्यंशमानेन भद्रपीठमिदं मतम् । षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ।। वेदांशं ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम् एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् । द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ।। षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् । जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका । शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ।। पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत् पद्मं एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् कुमुदं पद्मं एकेन वाजनं व्योमभागतः भागाभ्यां कर्णं इति उक्तस्स्यात् एकेनैव वाजनम् कञ्चं एकेन भागाभ्यां महावाजनं ईरितम् एकेन कम्पमर्धेन घृतवार्यभिधीयते पीठं शाम्भवमाख्यातं अन्यथान्यद्विधीयते एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च भागेन पादुकं वेदभागेन जगती मता एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः कुमुदं पद्ममंशेन वाजनं एक भागतः कर्णो द्विभागो भागेन वाजनं पद्ममंशतः द्विभागा तु महापट्टी पद्ममंशेन भागतः कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् अष्टादश विभागे तु व्योमांशे पादुकं भवेत् । अध्यर्धं पद्मं इति उक्तं कम्पं एकांशतो भवेत् ।। जगती वेद भागेन गुणाशः कुमुदो भवेत् । कम्पं एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ।। महापट्टी द्विभागेन वाजनं च एक भागतः अर्धेन घृतवार्युक्तं उमा पीठमिदं मतम् ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंशमितं बन्धभागेन जगती भवेत् ।। भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् । कुमुदं स्यात् द्विभागेन पद्मं अर्धेन च अर्धतः कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम् भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि घृतवारि समाख्यातं सम्पत्करं इहोदितम् रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् । गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ।। एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः । घृतवार्येक भागेन नन्दिकावृत मीरितम् ।। तिथ्यंशं विभजेत्तुङ्गं अध्यर्धं पादुकं भवेत् । अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः पद्मं अंशेन भागाभ्यां कुमुदं पद्मं अंशतः अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् । पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनं इष्यते ।। घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ।। कलांशं विभजेत्तुगं व्योम भागेन पादुकम् । द्वाभ्यां पद्ममथैकेन कम्पंपड् भागतो गलम् ।। भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः । महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ।। त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् । योमांशं कम्पमित्युक्तं द्विभागं पद्मं उच्यते ।। भागेन कम्पं इत्युक्तं कम्पं षड् भागतो गलम् । भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।। महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् । कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।। पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् । स्वायंभुवं इदं प्रोक्तं अधिष्ठानानियानि च ।। उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः ३६. षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् । बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ।। १ ।। प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च । दत्तवाल्लिंगकोटीनां चतुर्दशाः महेश्वरः ।। २ ।। तानि संपूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् । लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ।। ३ ।। कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे । अन्यत्र च नदीमध्ये पर्वते च विशेषतः ।। ४ ।। माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् । पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ।। ५ ।। विस्तार नाहमानं तु बाणलिंगस्य नेष्यते । रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ।। ६ ।। सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते । स्नपने यजने धूपे गन्धपुष्प निवेदने ।। ७ ।। अन्य कर्मणि विप्रेन्द्राः स्वायंभूतादिके तथा । प्रासाद पीठिकादीनां नियमो न च नेष्यते ।। ८ ।। ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा । विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ।। ९ ।। शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् । एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ।। १० ।। लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा । विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ।। ११ ।। यथाभिमतमानं वा खामानमुदाहृतम् । सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ।। १२ ।। यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् । पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ।। १३ ।। उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा । स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ।। १४ ।। रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् । सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ।। १५ ।। रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् । सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ।। १६ ।। शैललिंग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः । चललिंग प्रतिष्ठायां प्रतिमादौ च मध्यमः ।। १७ ।। कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि । मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ।। १८ ।। तथैव बाणलिंगस्य किंतु कालोधमोथवा । विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ।। १९ ।। अंकुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् । रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ।। २० ।। पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् । लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ।। २१ ।। विधायलिंगशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः । जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ।। २२ ।। कुर्याल्लिंगाधि वासार्थं वेदिका सहितं यथा । वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ।। २३ ।। शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् । भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ।। २४ ।। स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् । जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ।। २५ ।। अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् । शययां मध्ये निवेश्याथ शिवकुंभं च वर्धनीम् ।। २६ ।। विद्येश कुंभ संयुक्तं ससूत्रं सापिधानक । सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ।। २७ ।। संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् । मूर्ति मूर्तिश्वरान्यस्त्वा संपाद्यैवं शिवानलम् ।। २८ ।। समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् । जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ।। २९ ।। मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः । तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ।। ३० ।। वस्त्रेणाच्छाद्य लिंगन्तु नैवेद्यं च निवेदयेत् । प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ।। ३१ ।। लिंगमग्नि मघोरेण जुहुयाच्चत संख्यया । संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ।। ३२ ।। मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् । एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ।। ३३ ।। संकल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् । तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ।। ३४ ।। स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् । यदनुक्तं भवेदत्र लिंग स्थापन वन्नयेत् ।। ३५ ।। चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते । प्रत्यहं पूजयेद्देवं अर्चनोक्त विद्यानतः ।। ३६ ।। शिष्टलिंगे गतिर्नास्ति समान्यस्य गतिं क्षणात् । जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ।। ३७ ।। सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् । कुंभे वा स्थण्डिले वापि मण्डले पीठकादिके ।। ३८ ।। पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके । संपूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ।। ३९ ।। अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः । पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ।। ४० ।। अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् । आदावन्ते च वा होमं प्रत्यहं होममेव वा ।। ४१ ।। तत्र संप्रोक्षणं नेष्टं तदर्धं होममेव वा । लिंगाग्रे स्थण्डिलं तत्र कुंभसंस्थापणं नुहि ।। ४२ ।। कुंभेत्वावाहनं तस्मात् कुंभमन्त्रान्निवेशयेत् । नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ।। ४३ ।। तत्कुंभोदैरपि स्नानं केवलं प्रोक्षणं तु वा । क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ।। ४४ ।। एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि । स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ।। ४५ ।। क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् । होमाद्यमपि नेष्टं स्यात् कर्तुं लिंगं समर्चयेत् ।। ४६ ।। गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् । मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ।। ४७ ।। पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः । तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ।। ४८ ।। शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् । अस्त्रांबु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ।। ४९ ।। बहु दैवसिकं स्नानं (भंगश्चेत्) स्नपनं महत् । महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ।। ५० ।। ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। ५१ ।। प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् । स्वायंभुवादि लिंगाना मेतत् सामान्यमीरितम् ।। ५२ ।। शिल्प्यपेक्षमिदं कर्म कुर्यात्संप्रोक्षणान्वितम् । अन्यत् सर्व समानं स्यात् कर्मसामान्यलिंगकः ।। ५३ ।। स्वायंभुवादि लिंगानां नेष्यतां मनु संकरः । अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ।। ५४ ।। स्वर्णादि लोहजेवापि तत् संभूतेति कीर्तितः । चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ।। ५५ ।। चलञ्च द्विविधं प्रोक्तं अङ्गं प्राधानिकं त्विति । चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ।। ५६ ।। पूजितं त्वंगमित्युक्त मन्यत् प्राधानिकम्मतम् । अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ।। ५७ ।। नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् । अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।। ५८ ।। त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ।। ५८१/२ ।। इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः षट्त्रि.शत्तमः पटलः ।। ३७. सप्तत्रिंशत्तमे पटले काम्यलिंग प्रतिष्ठा विधिः काम्यलिंग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् । काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ।। १ ।। कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ।। २ ।। फलं दृष्टमदृष्टं च द्विधं तत्परापरम् । कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ।। ३ ।। उत्तमं खेचरत्वं च श्रेष्ठं देव समानता । भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ।। ४ ।। विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् । इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ।। ५ ।। सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च । इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुंगवाः ।। ६ ।। गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् । अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ।। ७ ।। दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते । देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ।। ८ ।। मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् । अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ।। ९ ।। न सिद्धिर्न च मुक्तिश्च लिंगाश्रयणमन्तरा । शिवलिंग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ।। १० ।। एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् । भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ।। ११ ।। रत्नलिंग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः । तस्मालिंगाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ।। १२ ।। विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः । विधिवल्लिंगमाराध्य फलमिष्टतमं गताः ।। १३ ।। स्वायंभुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः । सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ।। १४ ।। स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् । यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ।। १५ ।। तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा । स्वयंन कर्तु मशक्तानां वृपतीनां हिताय च ।। १६ ।। देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च । स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ।। १७ ।। लिंगार्थमाकरं यायात् स्वस्य कृत्यानु सारतः । शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ।। १८ ।। तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः । रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ।। १९ ।। श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा । चतुर्णामपि वर्णानां शिला धात्री च संमता ।। २० ।। एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः । एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ।। २१ ।। तत्तद्भूजनिता एव मृदो लिंगार्थमीरिताः । फलं लिंगानूरूपेण शिलानां समुदाहृतम् ।। २२ ।। पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि । श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ।। २३ ।। आयसं मारणे लिंगमुन्मादे सांस्यजं भवेत् । उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ।। २४ ।। वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् । लोहलिंगं समाख्यातं रत्नलिंग मथोच्यते ।। २५ ।। वज्रलिंगं क्षितीशत्वे मौक्तमारोग्यदं भवेत् । इन्द्र नीलमयाल्लिंगात् सर्वान् कामान् समश्रुते ।। २६ ।। महान्नीलमयाल्लिंगात् वैणवं पदमाप्नुयात् । वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ।। २७ ।। आरोग्यतं मरकतं प्रवालं च वशीकरम् । राजावर्तमयाल्लिंगात् महाभोगं समश्रुते ।। २८ ।। नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् । शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ।। २९ ।। सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् । चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ।। ३० ।। स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये । वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ।। ३१ ।। क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् । गुणादष्टफल प्रोक्तं परासु मणिजातिषु ।। ३२ ।। इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना । सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ।। ३३ ।। साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् । रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ।। ३४ ।। सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे । यद्वा साधक नक्षत्र वशाल्लिंग तु दारुजम् ।। ३५ ।। कारस्करं चामलकंतथोदुम्बर जम्बुकौ । खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ।। ३६ ।। पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा । अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ।। ३७ ।। पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा । आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ।। ३८ ।। मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः । एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ।। ३९ ।। विधाय लिंगं कर्तव्यं साध्यर्क्षे मारणादिकम् । श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ।। ४० ।। चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् । सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ।। ४१ ।। साप्तपर्णं च सालोत्थं राजादन समुद्भवम् । विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ।। ४२ ।। उदुंबर मयं पुष्ट्यै शान्त्यै न्यग्रोध संभवम् । वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ।। ४३ ।। लिंगं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः । दारुजं लिंगमाख्यातं क्षणिकं लिङ्गमुच्यते ।। ४४ ।। संकेतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् । अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ।। ४५ ।। गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये । घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ।। ४६ ।। ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् । विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ।। ४७ ।। स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् । बिल्वादि पत्रजं लिंगं यत्तत्पुत्र विवर्धनम् ।। ४८ ।। तद्बीज जनितं लिंगं विशेषात् तृप्तिकारणम् । धान्य तण्डुलजं लिंगं तत्तद्द्रव्य फलप्रदम् ।। ४९ ।। कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् । रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ।। ५० ।। जलेन रचितं लिंगं प्राणिनां शान्तिपुष्टितम् । लिंगं यच्चित्रितं सद्यो विचित्रफल दायकम् ।। ५१ ।। कर्पूर चन्दनाद्यैस्तु लिंगं यत्तज्जरापहत् । द्रव्याणि कथितान्येवं लक्षणं च विधीयते ।। ५२ ।। प्रासाद गर्भमानेन लिंगं ज्येष्ठादि भेदतः । मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ।। ५३ ।। हस्तादि लिंगमानानि यानि तानि विमुक्तये । भुक्तये चानु षड्गेण भवन्ति विधियोगतः ।। ५४ ।। गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् । तदन्तरेऽष्टभागे तु नव लिंगानि सन्ति हि ।। ५५ ।। तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि । षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ।। ५६ ।। प्रासादे वा ततो वह्नि वेदग्रह विभाजिते । द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ।। ५७ ।। पूर्ववच्च प्रमाणानि लिंगानां विहितानि तु । एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ।। ५८ ।। अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः । एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ।। ५९ ।। नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् । हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ।। ६० ।। पादोनं दारुजं लोहमस्यार्धेनैव संमतम् । अङ्गुलादि वितस्त्यन्तं रत्नलिंगं द्विजोत्तमाः ।। ६१ ।। आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः । हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ।। ६२ ।। लिंगायामैक भागे तु वेद भागेन विस्तरः । खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ।। ६३ ।। चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् । अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ।। ६४ ।। पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिंगं वज्रशिरो यथा । वज्रकार्यं समायोज्य स्तंभादि परिकीर्तितम् ।। ६५ ।। लिंगोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् । वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ।। ६६ ।। आग्नेय पीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये । लिंगं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ।। ६७ ।। शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः । तापदाहं रिपोः कुर्याल्लिंगमाग्नेयकं द्विजाः ।। ६८ ।। नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः । प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ।। ६९ ।। याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके । लिंगं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ।। ७० ।। गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् । रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ।। ७१ ।। मारीं च भेदनं रोगं विधत्ते नात्र संशयः । दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ।। ७२ ।। अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः । स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ।। ७३ ।। खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् । अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ।। ७४ ।। तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् । कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ।। ७५ ।। उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् । चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ।। ७६ ।। वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् । पाशमस्तक युक्तं तत् पाशकाय विधानतः ।। ७७ ।। प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् । व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ।। ७८ ।। गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे । नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ।। ७९ ।। तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य माप्नुयात् ।। ८० ।। लिंगं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः । तेन लिंगेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ।। ८१ ।। भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः । पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ।। ८२ ।। यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् । गदा मस्तक लिंगं तु गदाङ्के स्थाप्य देशिकः ।। ८३ ।। जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् । जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ।। ८४ ।। लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् । दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ।। ८५ ।। एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् । अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ।। ८६ ।। कुक्कुटाण्ड शिरोयुक्तं लिंगमैशान्य पीठके । स्थापयित्वा स्वदिक् साम्यं लिंगं शूलशिरोयुतम् ।। ८७ ।। शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् । ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ।। ८८ ।। शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् । उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ।। ८९ ।। वस्वश्रं पूर्ववद्वृत्तं लिंगं छत्रशिरोयुतम् । ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ।। ९० ।। तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् । खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ।। ९१ ।। गायग्र्यंशे तु लिंगोच्चे शरांशैश्चतुरश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ।। ९२ ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् । चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ।। ९३ ।। व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् । लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ।। ९४ ।। तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते । सिद्धिलिंगमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ।। ९५ ।। आप्यादि देवलिंगेषु लोकपालार्चितेषु वा । सहस्र लिंगं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ।। ९६ ।। सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् । अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ।। ९७ ।। अष्टोत्तरशतं लिंगं सूत्रैर्विषययोजितैः । आढ्यादि लिंगान्युत्सेधैः समखण्डानि कल्पयेत् ।। ९८ ।। छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि । धारालिंगं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ।। ९९ ।। साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता । मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ।। १०० ।। आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् । मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ।। १०१ ।। आसुरं पौरुषं चैव सादेशैशान भैरवम् । देवत्वं देवराजत्वं सर्वकामफलं च यत् ।। १०२ ।। रुद्रत्वं च फलान्येषु लिंगेष्वेकाश्रकादिषु । एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ।। १०३ ।। लिंगानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च । अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ।। १०४ ।। भवन्ति पुण्डरीकादि शिरांसि फलभेदः । पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ।। १०५ ।। प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् । कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ।। १०६ ।। प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः । तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ।। १०७ ।। सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् । षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ।। १०८ ।। साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः । साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ।। १०९ ।। प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् । छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ।। ११० ।। अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् । त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ।। १११ ।। दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् । खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ।। ११२ ।। पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः । ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ।। ११३ ।। वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे । शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ।। ११४ ।। अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् । लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ।। ११५ ।। कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि । वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।। ११६ ।। गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् । ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ।। ११७ ।। तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः । लिंगाशे नवधा भक्ते नवांश कृत लक्ष्मकम् ।। ११८ ।। स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च । द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ।। ११९ ।। तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् । ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ।। १२० ।। पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः । षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ।। १२१ ।। हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् । नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ।। १२२ ।। अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् । कथितं हि तथापीह त्रिभागे रसभागके ।। १२३ ।। यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् । वेध दोष निवृत्यर्थं एवं लक्ष्म प्रकल्पयेत् ।। १२४ ।। गायत्र्यंशे तु लिंगोच्चे लक्ष्मविस्तृतिरंशतः । शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ।। १२५ ।। तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् । शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ।। १२६ ।। याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् । नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ।। १२७ ।। शूलाश्रमैश्वरं लिंगं वायव्यां ध्वजमस्तकम् । सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ।। १२८ ।। लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् । स्तंभनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ।। १२९ ।। अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् । मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ।। १३० ।। स्वतेजोलक्षणं लोहे बाणलिंगे तथैव च । लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ।। १३१ ।। शुभलक्षण लक्ष्मं चेत् लिंग सर्वार्थ सिद्धिदम् । पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ।। १३२ ।। लिंगायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् । ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ।। १३३ ।। वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च । प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ।। १३४ ।। ऐन्द्रयादि संज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः । वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ।। १३५ ।। पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् । वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ।। १३६ ।। निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् । सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ।। १३७ ।। ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् । योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ।। १३८ ।। पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् । पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ।। १३९ ।। तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः । पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ।। १४० ।। याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका । राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ।। १४१ ।। पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् । तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ।। १४२ ।। चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् । कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ।। १४३ ।। तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते । इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ।। १४४ ।। पाज्जगती कुंभवेत्रास्युः कण्ठश्चैकैक वेशतः । निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ।। १४५ ।। आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् । षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ।। १४६ ।। तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् । ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ।। १४७ ।। चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् । तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ।। १४८ ।। संस्थान वर्तनाकारैः वा राक्षसं मतम् । तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ।। १४९ ।। पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः । कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ।। १५० ।। तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः । आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ।। १५१ ।। याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला । षण्मेखला च वायव्या वारुणी पञ्चमेखला ।। १५२ ।। विष्ण्वंश षोडशोत्सेधः पुण्डिकापीठविस्तरः । शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ।। १५३ ।। वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका । पीठं सहस्रलिंगस्य सालङ्कारयुगाश्रयुक् ।। १५४ ।। आश्मेऽश्मसंभवा पिण्डी पार्थिवे पार्थिवी तथा । दारुजे दारुजा पिण्डी धातुजे धातु संभवा ।। १५५ ।। रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् । उच्छ्रयं चललिंगानां पूजांशाद् द्विगुणं भवेत् ।। १५६ ।। लिंगायामे भवेत्पिण्डी लिंगं च परितो यथा । कृशुषु वर्धयेद्द्रुद्रं स्थूललिंगेषु ह्रासयेत् ।। १५७ ।। ह्रासयेद्वर्धयेदंश मच्युतस्य हि न च्युतिः । पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ।। १५८ ।। चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् । मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ।। १५९ ।। पिण्डिका सहितोत्सेधं लिंगनाहसमं भवेत् । सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ।। १६० ।। समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् । मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ।। १६१ ।। साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा । गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ।। १६२ ।। मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् । अन्यद्वापि भवेल्लिंगं नदी प्रस्रवणोद्भवम् ।। १६३ ।। लिंगाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् । हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ।। १६४ ।। रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः । पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ।। १६५ ।। उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने । स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ।। १६६ ।। अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते । समलिंगे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ।। १६७ ।। कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। १६८ ।। पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् । द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ।। १६९ ।। चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ।। १७० ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा । भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ।। १७१ ।। भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् । व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ।। १७२ ।। बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् । पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ।। १७३ ।। वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् । देह पञ्चक संयुक्तं चरमद्वय संयुतम् ।। १७४ ।। तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् । जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ।। १७५ ।। दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् । दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ।। १७६ ।। व्यालबद्धजटाचूडं कपालदलमण्डितम् । तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ।। १७७ ।। उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् । भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ।। १७८ ।। दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् । बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ।। १७९ ।। वराभय करोपेतं ध्यानासक्तमिव स्थितम् । पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ।। १८० ।। ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ । इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ।। १८१ ।। कलावत्सरदेशीयं दिव्याभरणभूषितम् । सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ।। १८२ ।। ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् । भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ।। १८३ ।। संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् । कुर्यादीशान देहं तु दशतालोत्तमेन तु ।। १८४ ।। पुरुष प्रमुखान्देहानीश देहार्धमानतः । कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ।। १८५ ।। पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् । कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ।। १८६ ।। ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् । कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ।। १८७ ।। जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् । व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ।। १८८ ।। नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् । श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ।। १८९ ।। त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् । जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ।। १९० ।। नानावर्णांवरैर्युक्तं वेणिकादिभिरलंकृतम् । ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ।। १९१ ।। किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् । वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ।। १९२ ।। पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः । त्रिशूलं नागहस्तं च परशुः पाश एव च ।। १९३ ।। गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः । नागैराभरणैर्युक्तं कुण्डलाभ्यामलंकृतम् ।। १९४ ।। सर्वलक्षण संयुक्तं पादनूपुर संयुतम् । गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ।। १९५ ।। एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते । नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ।। १९६ ।। नाना विधायुधोपेत नवद्वय करोथवा । दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ।। १९७ ।। कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः । इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ।। १९८ ।। टङ्क विहाय शूलं वा डमरुं वापरे करे । अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल संज्ञितः ।। १९९ ।। त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः । वराभय करोपेता रुद्रोयं वाम संज्ञककः ।। २०० ।। एष एव हि खट्वाङ्ग रहित श्शूल संयुतः । अघोर रुद्रनामायं भीमो भव विनाशनः ।। २०१ ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः । अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ।। २०२ ।। धनुर्बाण समोपेता मृगटङ्क समायुतङ्क । भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ।। २०३ ।। अथवा पादुके पद्मे भक्तानां शेखरेषु वा । वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ।। २०४ ।। एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः । त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ।। २०५ ।। वरदाभय वामतः पार्वतीयुतः । आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ।। २०६ ।। देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही । तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ।। २०७ ।। तस्या कट्याश्रियो वापि देवोयं सर्वकामदः । गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ।। २०८ ।। कपालशूल संयुक्तौ वरदाभयसंयुतौ । त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ।। २०९ ।। प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ । एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ।। २१० ।। भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ । कालान्तकादि संयुक्तौ भक्तानामथवोपरि ।। २११ ।। एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः । देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ।। २१२ ।। द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ । मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ।। २१३ ।। विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा । अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ।। २१४ ।। चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः । शूल पङ्कज युक्तो वा वरदाभय संयुतः ।। २१५ ।। कपालशूल संयुक्तो बद्धपद्मासने स्थितः । नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ।। २१६ ।। चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः । पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ।। २१७ ।। मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा । वरदाभय हस्तो वा शान्तरूपः स्मिताननः ।। २१८ ।। जटामकुट संयुक्तः स्थानकादि समन्वितः । रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ।। २१९ ।। शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः । कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ।। २२० ।। मृगंशूल समायुक्तश्चतुर्भुज समन्वितः । पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ।। २२१ ।। वरदा संयुक्तः स्थितः पद्मासनोपरी । भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ।। २२२ ।। कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः । वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ।। २२३ ।। अथवा मृगटङ्कायां वराभय करान्विताः । उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ।। २२४ ।। कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः । उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ।। २२५ ।। तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः । किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ।। २२६ ।। यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः । एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ।। २२७ ।। एतन्नामादि वर्णेन बिन्दु नाद युतेन तु । त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ।। २२८ ।। उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः । रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ।। २२९ ।। अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः । कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ।। २३० ।। शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया । तत्रैव कुण्ड संकॢप्तिर्नव पञ्चैक सख्यया ।। २३१ ।। तक्षद्वासनं विप्र भोजनं वास्तु होमकम् । पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ।। २३२ ।। कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा । कुंभादीनां सपर्या च नैवेद्यादि निवेदनम् ।। २३३ ।। तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः । होमं पलाशसद्बिल्व वटोदुंबर पिप्पलैः ।। २३४ ।। अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः । प्रधाने तु पलाशेन घृतेन चरुणातिलैः ।। २३५ ।। द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च । मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ।। २३६ ।। उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् । कर्तव्य स्सर्व कर्मापि लिंग संस्थापनं यदि ।। २३७ ।। मुखलिंगस्य वा विप्राः तदध्यायोक्तमार्गतः । कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ।। २३८ ।। एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा । लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ।। २३९ ।। स्वायंभुवादिकं लिंगं समाश्रित्य कदाचन । कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् । इति उत्तरकामिकाखे महातन्त्रे काम्यलिंगप्रतिष्ठा विधिः सप्तत्रिंशत्तमः पटलः ।। लिङ्गायामैक भागे तु वेद भागेन विस्तरः खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम् अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम् वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना आग्नेयपीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः तापदाहं रिपो कुर्यात् लिङ्गं आग्नेयकं द्विजाः नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात् याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम् गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः मारीं च भेदनं रोगं विधत्ते नात्र संशयः दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम् अरतिक्षय विद्वेषं कील भेदेन मोहनम् तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम् कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम् उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम् चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् पाशमस्तक युक्तं तत् पाशकाय विधानतः प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम् व्याधिहानिञ्च सौभाग्यं आप्नुयान्नात्रसंशयाः पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम् यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात् गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः जाम्बूनदसुखप्राप्तिमतीव बलदं मतम् जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम् उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम् ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात् गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये । तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात् लिंगं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् । भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ।। दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् । एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात् अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत शूलाख्यायां तु संस्थाप्य पृथिवीशत्वं आप्नुयात् ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम् तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् । खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ।। गायत्र्यंशे तु लिंगोच्चे शरांशैश्चतुश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् । चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ।। त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः । वराभय करोपेतः रुद्रोऽयं वाम संज्ञकः ।। एष एव हि खड्वाङ्गरहितश्शूलसंयुतः । अघोररुद्र नामायं भीमो भयविनाशनः ।। शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः । कपालशूल संयुक्तो बद्धपद्मासनस्थितः ।। मृगशूल समायुक्त श्चतुर्भुजसमन्वितः । पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ।। वरदाभयसंयुक्तः स्थितः पद्मासनोपरि भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः धनुर्बाण समोपेतो मृगटङ्ग समायुतः भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तं अथोच्यते । समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ।। कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। चतुर्णां चैव वक्त्राणां उर्ध्वे कुर्यात्तुपञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा ३८. अष्टत्रिंशत्तमे पटले आर्षलिंग प्रासाद विधिः लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते । आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ।। १ ।। स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा । विकांशं वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ।। २ ।। मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते । पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ।। ३ ।। तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा । विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ।। ४ ।। अर्धाधिकं तु वा सप्तभागाधिक मथापि वा । लिंग विस्तारमानेन त्रिगुणं पीठ मुच्यते ।। ५ ।। गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् । प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ।। ६ ।। लिंग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् । पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ।। ७ ।। सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते । द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ।। ८ ।। नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् । सार्ध द्वयांश कैकांश समं वा भित्ति विस्तरः ।। ९ ।। उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते । लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ।। १० ।। त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा । द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ।। ११ ।। पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् । तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ।। १२ ।। एकांशस्य विस्तार मन्यथा च प्रकथ्यते । लिंग द्विगुण विस्तार कर्णपीठ विशालकम् ।। १३ ।। नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके । एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ।। १४ ।। परिणाहे विकारांशे तच्चतुर्दश कर्णकम् । पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ।। १५ ।। तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः । विस्तार द्विगुणे कर्ण दशांशेंश विहीनकम् ।। १६ ।। पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् । तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ।। १७ ।। हीना हीनान्तरेऽष्टांश पीठे नालीगृहे तथा । भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ।। १८ ।। लिंगे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् । एवमेकतले प्रोक्तं द्वितलादिषु धामसु ।। १९ ।। साधारे वा निराधारे त्वलिन्दं भित्तिरेव च । प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ।। २० ।। इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिंग प्रासाद विधिः अष्टत्रिंशत्तमः पटलः ।। ३९. एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते । पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ।। १ ।। पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे । लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ।। २ ।। लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः । त्रिभागंनालि गेहस्य त्रिचतुर्भाग भागतः ।। ३ ।। भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् । लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ।। ४ ।। सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् । तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ।। ५ ।। नालीगृह विशालं स्यात् पीठ विस्तार मानतः । समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ।। ६ ।। उदयं प्राग्देव स्यादन्यथापि चकथ्यते । पूजांशद्विगुणं पीठमुदयं तु विशालतः ।। ७ ।। चतुष्पञ्चगुणं नाली गेहमत्र विधीयते । ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ।। ८ ।। लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये । एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ।। ९ ।। त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् । पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ।। १० ।। तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् । अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ।। ११ ।। उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु । तथा तदपि तद्ग्राम मानं पौराणपौरुषे ।। १२ ।। पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् । उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ।। १३ ।। स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे । मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ।। १४ ।। पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् । यदि तद्वाह्य भागं च युग्ममेव विधीयते ।। १५ ।। युग्मंचेद्युग्ममेवस्यात् संमिश्रं तेषु नेष्यते । त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ।। १६ ।। इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन चत्वारिंशत्तमः पटलः ।। ४०. चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते । स्वायं बाणलिंगं दैवीकं चार्षकं त्विति ।। १ ।। सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः । तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ।। २ ।। पूजांश मानतो नाहात् विस्तारादुच्छ्रयादपि । एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ।। ३ ।। तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ।। ४ ।। अष्टौ वा देवमानानि नवमानानि सुव्रताः । तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ।। ५ ।। प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः । पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ।। ६ ।। पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः । अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ।। ७ ।। गर्भगेहविशाले तु द्विभागादेकभागतः । षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ।। ८ ।। एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता । भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ।। ९ ।। लिंगात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये । एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ।। १० ।। पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे । अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगवशात् प्रासाद विधिः चत्वारिंशत्तमः पटलः ४१. एकचत्वारिंशत्तमे पटले सार्व देशिक लिंग प्रासाद विधिः सार्वदेशिक लिंगादेस्स्थापनं सम्यगुच्यते । प्रासाद स्याथ लिंगस्य पीठस्याश्मन एव वा ।। १ ।। सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः । सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ।। २ ।। विशेषाद्राजसे देशे राज्ञां विजयकारणम् । धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ।। ३ ।। अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा । नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ।। ४ ।। द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे । वराटं चैव सालिंगं सर्वत्रापि च संमतम् ।। ५ ।। नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि । वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ।। ६ ।। सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते । स्वायंभुवं च बाणं च दैविकं चार्षकं तथा ।। ७ ।। यथा विशिष्टं विप्रेन्द्राः दाहृतम् । मानुषे त्वेव लिंगादौ फल वैशिष्य मिष्यते ।। ८ ।। तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् । तन्त्र संकर दोषोऽपि मन्त्र संकर एव वा ।। ९ ।। आचार्य संकरो वापि देशसंकर एव वा । काल संकर दोषश्च युगसंकर एव वा ।। १० ।। अन्येषां संकरो वापि यतो नातो विशिष्यते । सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ।। ११ ।। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् । पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ।। १२ ।। सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये । तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ।। १३ ।। अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः । एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ।। १४ ।। आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः । विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ।। १५ ।। विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् । प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ।। १६ ।। गुणयेदिष्टमानं तु नवनागरसैः क्रमात् । रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ।। १७ ।। गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः । गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ।। १८ ।। भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् । नृप कर्तृ दिना द्वास्तु लिंगाद्युक्त दिनान्तकम् ।। १९ ।। गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् । तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ।। २० ।। मैत्रं परममैत्रं कलहः प्रथमक्रमे । द्वितीये संपदाद्यास्तु पूर्ववत्समुदाहृदम् ।। २१ ।। शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् । वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ।। २२ ।। शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् । वियोगाद्यशुभं योगं गणं चासुर मानुषम् ।। २३ ।। वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया । सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ।। २४ ।। तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् । रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ।। २५ ।। ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः । पृथ्व्याद्याः पञ्च संख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ।। २६ ।। चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः । षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ।। २७ ।। निषादो धैवतस्सप्त योनयस्तासु शस्यते । षड्जऽऽच वृषभो मध्ये भूतेषु पृथिवी जलम् ।। २८ ।। गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते । पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ।। २९ ।। वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः । निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ।। ३० ।। प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा । लिंग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ।। ३१ ।। किं तु लिंगे च बेरे च तुड्गे नैव निरीक्षयेत् । धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यंश द्रिभागिकम् ।। ३२ ।। षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः । चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ।। ३३ ।। अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते । नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ।। ३४ ।। मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च । त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ।। ३५ ।। षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा । चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ।। ३६ ।। अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् । चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ।। ३७ ।। पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः । भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ।। ३८ ।। तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः । सार्व देशिक लिंगानि कथ्यन्ते गर्भमानतः ।। ३९ ।। प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् । नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ।। ४० ।। तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः । तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ।। ४१ ।। विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् । एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ।। ४२ ।। मध्यमेष्ट विभागे तु नव लिंगादयस्तु वा । गर्भन्तु नवधा कृत्वा नवलिंगोच्छ्रयस्तु वा ।। ४३ ।। अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् । मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ।। ४४ ।। त्रयस्त्रिंशत्प्रमाणानि लिंगानां कथितानि च । अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ।। ४५ ।। गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४६ ।। लिंगायामे विकारांशे चतुर्भूतरसैर्हितम् । एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ।। ४७ ।। नवहस्त प्रमाणान्तं मानं स्याल्लिंग दर्ध्यके । एक विंशति भागेन गर्भगेहे विभाजिते ।। ४८ ।। त्रयोदशांशकं श्रेष्ठं दशांश मधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४९ ।। लिंगायामे विकारांशे चतुर्भूत रसैर्हितम् । सत्रिभागैश्शरैर्लिंग विस्ताराः परिकीर्तितः ।। ५० ।। गायत्र्यंशे तु लिंगोच्चे पञ्चभिर्वाथ विस्तरः । अथवाष्ट दशांशे च लिंगोच्चे पञ्चभागिके ।। ५१ ।। चतुर्भागोथवा लिंगविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ।। ५२ ।। विस्तारः कथितश्शास्त्रे लिंगानां मुनिपुंगवाः । द्वार स्तम्भादिभिश्चैव मानं लिंगे समूह्यताम् ।। ५३ ।। भागेन वाथ लिंगानि विभजेत्तानि चाङ्गुलैः । आयादि शुभसिद्ध्यर्थं अंशैर्वा विभजेद्यथा ।। ५४ ।। षोडशांशं समारभ्य चतुर्विंशति संयुतम् । शतांशं विभजेत्तत्र त्वेकांश योजयेद्गुरुः ।। ५५ ।। तैर्वा निरीक्षये ल्लिंगं बेराद्यायादिकं गुरुः । समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ।। ५६ ।। स्वस्तिकं च सहस्रख्यं धारालिंगमिति द्विजाः । इयत्तया समुद्देश क्रमेणैष विधीयते ।। ५७ ।। त्रिधा विभज्य लिंगोच्चं कुर्याद्भागत्रयं क्रमात् । तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ।। ५८ ।। पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः । पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ।। ५९ ।। चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः । भाग भाग विवृद्ध्या स्यात् तस्मात्तस्माद्धरीशयोः ।। ६० ।। वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् । अथवान्यप्रकारेण वर्धमानं विधीयते ।। ६१ ।। एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् । चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ।। ६२ ।। नवाङ्गुलं तु विज्ञेयं लिंगयोर्वसरन्ध्रयोः । एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ।। ६३ ।। ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः । सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ।। ६४ ।। चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् । एवं शिवाधिकं लिंगं ब्राह्माद्यादिष्वनुक्रमात् ।। ६५ ।। लिंगोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः । षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ।। ६६ ।। त्रैरशिकमिदं लिंगंशुद्राणां तत् प्रशस्यते । नवधा लिंगमानेन त्रिचतुर्भिरजादयः ।। ६७ ।। स्वस्तिकं लिंगमाख्यातमन्यथा च निगद्यते । त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ।। ६८ ।। ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् । त्रयस्त्रिंशत्कृते लिंगे स्वस्थिकं शूद्रयोग्यकम् ।। ६९ ।। सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् । मुख लिंगं च पूर्वोक्त विधिनात्रापि भाव्यते ।। ७० ।। शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् । लिंगानामधिकं दद्याच्छिरसो वर्तनांशकम् ।। ७१ ।। समस्तमथवा त्र्यंशमधिकं वर्तनांशतः । शिवलिंगप्रतिष्ठोक्तविधिना लक्षणं नयेत् ।। ७२ ।। यावल्लिंगस्य विस्तार स्तावत् पीठस्य विस्तृतिः । लिंगविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ।। ७३ ।। चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः । पूजांश द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ।। ७४ ।। तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा । नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ।। ७५ ।। तत्तदन्तर मानानि पीठानां कथितानि च । गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ।। ७६ ।। गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः । विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ।। ७७ ।। ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् । पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ।। ७८ ।। पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् । लिंग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ।। ७९ ।। चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् । तत्तदन्तर मानानि नवधापरिकल्पयेत् ।। ८० ।। लिंगायाम समं वापि लिंगनाहसमं तु वा । पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ।। ८१ ।। तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा । तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ।। ८२ ।। तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् । लिंग विष्कंभ मानं तु विकारांश समं भवेत् ।। ८३ ।। भागादेक विवृद्ध्या तु चतुर्भागावसानकम् । ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ।। ८४ ।। एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् । कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजांश दैर्घ्यकम् ।। ८५ ।। तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः । छायादोषो यथा नस्यात् लिंगपीठिकयोर्द्विजाः ।। ८६ ।। देशस्य देशनाथस्य कर्तुः कारयितुस्तथा । आवहेदुत्तमां सिद्धिं सर्व लिंगेष्वयं विधिः ।। ८७ ।। तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् । अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ।। ८८ ।। कल्पितं पीठमेवं वा पीठलिंगं तु मुक्तिदम् । सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ।। ८९ ।। शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने । गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ।। ९० ।। तत्संग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके । स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ।। ९१ ।। लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा । तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ।। ९२ ।। ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः । त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ।। ९३ ।। यदाकार विशिष्टं तद्रूपं तस्य तदेव हि । प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ।। ९४ ।। सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः । प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ।। ९५ ।। जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् । परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ।। ९६ ।। स्वायम्भुवादि लिंगानां दृश्यभागादधः स्थितम् । दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ।। ९७ ।। दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् । तस्मादधः स्थितं लिंगं मूलेनैव परीक्षयेत् ।। ९८ ।। अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः । सार्वदेशिकलिंगानामित्थं लक्षण मीरितम् ।। ९९ ।। प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ।। ९९१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिंग प्रासाद विधिः एक चत्वारिंशत्तमः पटलः ।। ४२. द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः । प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ।। १ ।। मण्डपाः परिवारा वा प्राकारा गोपुरादयः । यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ।। २ ।। यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे । तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ।। ३ ।। शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च । पश्चिमोत्तरपूर्वाशाश्शुभाशास्संप्रकीर्तिताः ।। ४ ।। कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् । तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ।। ५ ।। प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः । परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ।। ६ ।। नित्योत्सवादिकं तत्र विरोधाय न कल्पते । अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ।। ७ ।। नैव पाशुपतेनापि न महाव्रतिना क्वचित् । न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ।। ८ ।। अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः । प्रमादत्तैः कृते तच्च शैवं संपादयेत् क्षणात् ।। ९ ।। एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् । अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ।। १० ।। पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् । स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ।। ११ ।। सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च । कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ।। १२ ।। आद्येष्टकादिकं कर्म तावदस्य समाचरेत् । एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ।। १३ ।। प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते । मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ।। १४ ।। पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा । क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ।। १५ ।। तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा । पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ।। १६ ।। एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः । आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ।। १७ ।। संलब्धकामो देहान्ते शिवेन सह मोदते । एकाद्येकैकवृद्ध्या तु रुद्रसंख्यावसानकम् ।। १८ ।। अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् । शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ।। १९ ।। एवं यः कारयेत् कर्ता स एवाहं न संशयः ।। १९१/२ ।। इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः पटलः ।। ४३. त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ।। १ ।। बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ।। २ ।। अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ।। ३ ।। बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् । बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ।। ४ ।। अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकॢप्तलोचनम् ।। ५ ।। ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ।। ६ ।। एवं सदाशिवः कार्यो मनोन्मना समन्वितम् । इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।। ७ ।। वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् । तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ।। ८ ।। बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् । जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ।। ९ ।। मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसंख्यया । तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ।। १० ।। पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा । पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ।। ११ ।। वेद्यूर्ध्वे स्थण्डिलं शययाकॢप्तिं पूर्ववदाचरेत् । प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ।। १२ ।। शययायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ।। १३ ।। सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् । वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ।। १४ ।। परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् । तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् । यवा/लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ।। १६ ।। अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ।। १७ ।। प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः । प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ।। १८ ।। उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् । देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।। १९ ।। ततो महूर्ते संप्राप्ते कुम्भाद्बीजं पुरो न्यसेत् । कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ।। २० ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २१ ।। अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् । तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २२ ।। स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् । देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ।। २३ ।। अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् । नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ।। २४ ।। सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः । इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ।। २५ ।। इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः त्रिचत्वारिंशत्तमः पटलः ।। ४४. चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ।। १ ।। ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके । गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ।। २ ।। त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् । तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ।। ३ ।। वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा । वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ।। ४ ।। दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः । एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ।। ५ ।। द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः । चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ।। ६ ।। गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते । पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ।। ७ ।। सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ।। ८ ।। षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः । आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ।। ९ ।। एवं विंशति भागान्तं विस्तारे परिकल्पिते । तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ।। १० ।। द्वितलादितलेऽलिन्दान् भित्तिं च बहुसंख्यया । पादेन वार्धभागेन त्रिपादेन समन्ततः ।। ११ ।। सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् । हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ।। १२ ।। अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् । शालाकारम् सभाकारं प्रासादाकारमेव च ।। १३ ।। मस्तकस्थूपिसंख्या स्यादेकादेकाद शान्तिका । दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ।। १४ ।। शिवायतनदेवा वा गणपः षण्मुखोऽपि वा । सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ।। १५ ।। शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् । पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ।। १६ ।। उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् । कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ।। १७ ।। आयामो वाथ संग्राह्याः प्रतिमालक्षणोक्तितः । धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ।। १८ ।। रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते । हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ।। १९ ।। प्रासादभित्तिदेवानामशेषाणामपि प्रभोः । प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ।। २० ।। रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता । प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ।। २१ ।। वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः । श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ।। २२ ।। सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः । प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ।। २३ ।। धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः । अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ।। २४ ।। देहली पेषणी चुल्की खण्डनोलूखली तथा । मुसली मुद्गरी देवी वर्धमानी च वा मताः ।। २५ ।। चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः । वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ।। २६ ।। वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि । नै -ऋते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ।। २७ ।। इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि । निर्माल्यधारिणीं देवीमशनीमीशगोचरे ।। २८ ।। पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः । महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ।। २९ ।। देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः । पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ।। ३० ।। चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् । अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ।। ३१ ।। पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च । भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ।। ३२ ।। लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके । प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ।। ३३ ।। मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् । ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ।। ३४ ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करन्डमकुटान्विता ।। ३५ ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ।। ३६ ।। पद्महस्ताति शान्ता च सादेवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ।। ३७ ।। यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ।। ३८ ।। देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ।। ३९ ।। प्रलम्बवामपादा वा लम्बितापरपादिका । देवेन सहिता वापि केवला वा प्रकीर्तिता ।। ४० ।। श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ।। ४१ ।। नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले । गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ।। ४२ ।। तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् । तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ।। ४३ ।। सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते । जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ।। ४४ ।। द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् । तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ।। ४५ ।। कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् । नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ।। ४६ ।। पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् । प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ।। ४८ ।। जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् । पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ।। ४९ ।। दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि । स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ।। ५० ।। मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः । उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ।। ५१ ।। लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा । अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ।। ५२ ।। एवं देवी प्रकर्तव्या तस्याः संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ।। ५३ ।। मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ।। ५४ ।। नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते । कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ।। ५५ ।। सान्तरेफ महामाया बिन्दुनाद समन्विता । मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ।। ५६ ।। गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ । वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ।। ५७ ।। अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् । बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ।। ५८ ।। ऐंकारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् । मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ।। ५९ ।। एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः । एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ।। ६० ।। हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ । आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ।। ६१ ।। एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते । कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ।। ६२ ।। मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् । तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ।। ६३ ।। वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च । पुष्परागं च गोमेदं तथा मरकतं द्विजाः ।। ६४ ।। हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् । अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ।। ६५ ।। तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् । गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ।। ६६ ।। आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् । ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।। ६७ ।। परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् । प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ।। ६८ ।। योन्याभवनपञ्चैक ऋक् संख्याकुण्डकल्पनम् । तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ।। ६९ ।। तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् । पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ।। ७० ।। होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् । जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ।। ७१ ।। गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा । शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ।। ७२ ।। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् । देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ।। ७३ ।। लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् । परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ।। ७४ ।। वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च संमतान् । आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।। ७५ ।। मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः । क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ।। ७६ ।। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा । धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ।। ७७ ।। पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः । गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ।। ७८ ।। मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् । गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ।। ७९ ।। पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः । वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ।। ८० ।। संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः । समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।। ८१ ।। पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ।। ८२ ।। पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८३ ।। गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् । मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।। ८४ ।। मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् । सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ।। ८५ ।। शान्त्यंभः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् । दर्भैस्संस्पर्शनंचैव प्रतिभागं समाचरेत् ।। ८६ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उत्थाप्य देवीं कुंभांश्च प्राग्वद्वह्निं च तर्पयेत् ।। ८७ ।। दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः । मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।। ८८ ।। कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् । प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ।। ८९ ।। सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् । चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ।। ९० ।। देव्यग्रे तु घटान्न्यस्य कुंभाद्बीजं तुतद्धृदि । विन्यसेदनुकुंभेभ्यः पीठस्य परितो मनून् ।। ९१ ।। तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः । तत्तत्कुंभोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। ९२ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः । स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ।। ९३ ।। यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी । तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ।। ९४ ।। संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः । उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ।। ९५ ।। ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः । देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ।। ९६ ।। कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता । इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ।। ९७ ।। एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः । भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवंपदम् ।। ९८ ।। पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् । शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ।। ९९ ।। शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे । प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ।। १०० ।। प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः । सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ।। १०१ ।। द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः । द्वारस्य पार्श्वयोश्चैव शंख पद्मनिधी तथा ।। १०२ ।। द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ । चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ।। १०३ ।। सर्वाभरण संपन्नौ सर्वरत्न विभूषितौ । ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ।। १०४ ।। गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् । अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ।। १०५ ।। समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् । सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ।। १०६ ।। अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः । खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ।। १०७ ।। देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् । कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ।। १०८ ।। वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः । शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ।। १०९ ।। सुधासंप्लावनं चात्मावाहनं चामृति कृतम् । करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ।। ११० ।। अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् । पञ्चमूर्धास्ययुग्देव्याः पूजायां संप्रकल्पयेत् ।। १११ ।। एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् । शशिन्यादय एवोक्ताः केवलास्तु कला इति ।। ११२ ।। अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् । देवी स्कन्द गणेशादीन् सर्वान् संपूजयेत्तु वा ।। ११३ ।। सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् । हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ।। ११४ ।। ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् । स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ।। ११५ ।। गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा । संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ११६ ।। बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि । गणाम्विकायै विद्महे महातपायै धीमहि ।। ११७ ।। इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् । इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ।। ११८ ।। देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः । देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ।। ११९ ।। बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि । सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ।। १२० ।। अथवा स्त्राणुनालब्ध तालवृन्तज वायुना । तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ।। १२१ ।। प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् । अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ।। १२२ ।। कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् । अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ।। १२३ ।। ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् । वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ।। १२४ ।। ततो देव्यासनायेति पूजयेदनुपूर्वशः । मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ।। १२५ ।। विद्यादेहं च संपाद्य पूजाबेर स्वरूपकम् । प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ।। १२६ ।। हृदयानुगतेनैव पुष्पपूरित सत्करः । आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ।। १२७ ।। सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् । हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ।। १२८ ।। अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् । वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ।। १२९ ।। पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् । गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ।। १३० ।। पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् । उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ।। १३१ ।। गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् । दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ।। १३२ ।। आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः । पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ।। १३३ ।। शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् । अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ।। १३४ ।। गणविद्येशलोकेशतदस्त्रान् परितो यजेत् । एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ।। १३५ ।। पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च । नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ।। १३६ ।। देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा । वरदाभयहस्ता च शंख चक्र करा परा ।। १३७ ।। पद्मासनस्था तस्यांतु यजेद्देवीं मनोन्मनीम् । पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ।। १३८ ।। पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् । पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।। १३९ ।। नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् । तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ।। १४० ।। एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् । षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ।। १४१ ।। नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः । उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ।। १४२ ।। पवित्रारोहं सम्यक् कृत्तिकादीपमेव च । संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ।। १४३ ।। मासोत्सवं तथा मासे नव नैवेद्यकं तथा । विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ।। १४४ ।। जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् । किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ।। १४५ ।। पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः । शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ।। १४६ ।। ध्वजहोमबलिं हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ।। १४७ ।। उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता । कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ।। १४८ ।। यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् । अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ।। १४९ ।। एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् । सर्व देवेषु सामान्यं विधानमिदमग्रजाः ।। १५० ।। धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् । दिग्देव मूर्तिसंयुक्तं मध्ये कुंभ समन्वितम् ।। १५१ ।। धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह । अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।। १५२ ।। देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् । तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ।। १५३ ।। एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ।। इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः पटलः ।। द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टममुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।। चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका । दुकूल वसनादेवी करण्ट मकुटान्विता ।। वरदा संयुक्ता पाशाङ्कुश करान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरावपि ।। दुकूलवसना देवी करण्डमकुटान्विता । वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ।। यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ।। दुकूल वसनादेवी करण्डमकुटान्विता वददाभयसंयुक्ता शुकोत्पल करावपि ।। यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ।। ४५. पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् । पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ।। १ ।। शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु । चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ।। २ ।। आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् । यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ।। ३ ।। अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः । एकादि नवभूम्यन्तभूमिभाग समन्वितम् ।। ४ ।। विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा । दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ।। ५ ।। गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः । पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ।। ६ ।। दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा । धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ।। ७ ।। प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः । मण्टपो वालयस्तस्य कूटाद्याकार एव वा ।। ८ ।। परितः परिवारोक्तः प्रसंगात् स च कथ्यते । विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ।। ९ ।। उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् । अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ।। १० ।। कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै । द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ।। ११ ।। कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् । आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ।। १२ ।। अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः । एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ।। १३ ।। हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः । विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ।। १४ ।। विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः । द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ।। १५ ।। हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ । उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ।। १६ ।। रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ । धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ।। १७ ।। तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः । कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ।। १८ ।। रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः । श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ।। १९ ।। पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः । परिवारा इति ख्याता गणेशाभिमुखस्थिताः ।। २० ।। परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः । बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ।। २१ ।। पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः । भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ।। २२ ।। लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ।। २३ ।। पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः । त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ।। २४ ।। स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् । प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ।। २५ ।। केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् । उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ।। २६ ।। अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः । ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ।। २७ ।। अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् । तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ।। २८ ।। जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् । केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते / मुच्यते ।। २९ ।। दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् । दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ।। ३० ।। दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् । मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ।। ३१ ।। नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते । कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ।। ३२ ।। कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् । कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ।। ३३ ।। मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् । हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ।। ३४ ।। नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् । अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ।। ३५ ।। जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते । जगवक्त्रो गणाधीशो भूतरूपो महोदरः ।। ३६ ।। नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः । नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ।। ३७ ।। अवामवामावर्तेभहस्तः पद्मासनस्थितः । स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।। ३८ ।। लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।। ३९ ।। पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् । शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ।। ४० ।। स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। ४१ ।। त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः । पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ।। ४२ ।। इष्टासनस्थितो वापि प्रभादिपरिमण्डितः । एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ।। ४३ ।। गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा । शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ।। ४४ ।। आसीनमासने रत्नमकुटादिविभूषिताम् । श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ।। ४५ ।। उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् । दिगम्बरां सुवदनां भुजद्वय समन्विताम् ।। ४६ ।। विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् । पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ।। ४७ ।। स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् । चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ।। ४८ ।। इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् । स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ।। ४९ ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः । द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ।। ५० ।। बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु । त्रयोदशान्तसंपन्नमथवा परिकल्पयेत् ।। ५१ ।। कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् । हृल्लेखासंपुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ।। ५२ ।। श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् । पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ।। ५३ ।। वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् । नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ।। ५४ ।। फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः । द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ।। ५५ ।। सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् । तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ।। ५६ ।। बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् । द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ।। ५७ ।। विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः । वरदं तु समुच्चार्य वरदद्वितयं वदेत् ।। ५८ ।। सर्वलोकवशं पश्चादानयेति पदं ततः । स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ।। ५९ ।। ओंकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः । हृल्लेखासंपुटो मन्त्रस्त्वथ कारणकार्ययुक् ।। ६० ।। गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः । इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ।। ६१ ।। सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने । दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ।। ६२ ।। कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी । अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ।। ६३ ।। अनामिकामथाकुञ्च तर्जनीमपि चानयेत् । अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसंज्ञिता ।। ६४ ।। अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ।। ६५ ।। पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा । पञ्च तत्संख्यहेम्नाथ हैमसूचि समन्वितम् ।। ६६ ।। पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् । कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् ।। ६७ ।। मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना । सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ।। ६८ ।। यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् । बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।। ६९ ।। तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा । परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ।। ७० ।। यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः । यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ।। ७१ ।। कुण्डानि नव पञ्चैक संख्यया कथितानि तु । तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ।। ७२ ।। प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् । मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ।। ७३ ।। उद्धास्य शिल्पिनं पश्चाद्द्विजान् संभोजयेत्ततः । पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।। ७४ ।। भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् । जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ।। ७५ ।। मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् । कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ।। ७६ ।। संकल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः । अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ।। ७७ ।। आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् । विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ।। ७८ ।। कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् । पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ।। ७९ ।। बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् । वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ।। ८० ।। सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् । कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ।। ८१ ।। परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् । आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ।। ८२ ।। देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् । सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ।। ८३ ।। शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च । न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ।। ८४ ।। गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् । उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ।। ८५ ।। मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः । इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ।। ८६ ।। पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः । मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ।। ८७ ।। विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् । पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ।। ८८ ।। गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् । वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ।। ८९ ।। संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः । दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ।। ९० ।। ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् । आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ।। ९१ ।। समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः । तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ।। ९२ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।। ९३ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ।। ९४ ।। प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् । दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ।। ९५ ।। मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् । कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ।। ९६ ।। अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् । प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ।। ९७ ।। सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् । चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ।। ९८ ।। द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि । विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ।। ९९ ।। तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् । तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ।। १०० ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् । गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ।। १०१ ।। तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः । विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ।। १०२ ।। विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् । तासां हृदि विशेषेण ततः स्थापनमाचरेत् ।। १०३ ।। विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् । आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ।। १०४ ।। विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् । पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभं ।। १०५ ।। लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु । तस्यार्चनं च संक्षोपाछृणुध्वं मुनिपुङ्गवाः ।। १०६ ।। उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च । सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ।। १०७ ।। कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयं । आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ।। १०८ ।। द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् । देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ।। १०९ ।। प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु । वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ।। ११० ।। संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः । तदुद्भूतामृतेनाद्रींकृतकाय समन्वितः ।। १११ ।। अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ । ईशास्यघोरवामाजान् करजेषु तले दृशाम् ।। ११२ ।। मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् । ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ।। ११३ ।। देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा । एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ।। ११४ ।। आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा । गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ।। ११५ ।। अथवा शिवमन्त्रैस्तु शैवींकृत्वा निजां तनुम् । इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ।। ११६ ।। स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् । गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ।। ११७ ।। पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा । संप्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ।। ११८ ।। हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् । मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ।। ११९ ।। इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे । इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ।। १२० ।। तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् । इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ।। १२१ ।। हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे । त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ।। १२२ ।। लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ।। १२३ ।। मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा । कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ।। १२४ ।। कल्पयेदासनं मध्ये प्रणवं धर्मसंमुखान् । अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ।। १२५ ।। प्रणवाम्भसि संभूतं पीतकर्णिकया युतम् । शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ।। १२६ ।। ततो गणासनायेति पूजयेदनुपूर्वशः । मूर्तिमावाह्य तां प्राग्वद्देहं संक्ल्प्य मन्त्रकैः ।। १२७ ।। प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः । हृदयानुगतेनैव पुष्पापूरितसत्करः ।। १२८ ।। निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ।। १२९ ।। हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् । अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ।। १३० ।। हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा । उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ।। १३१ ।। वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् । पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ।। १३२ ।। दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना । लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ।। १३३ ।। सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु । तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १३४ ।। तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना । नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ।। १३५ ।। गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चाद्धूपदानावसानके ।। १३६ ।। अग्नौ च रक्षोवायवीशदिक्षु दिक्षु हृदाद्यणून् । तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ।। १३७ ।। इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् । एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ।। १३८ ।। पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च । नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ।। १३९ ।। पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् । मूलेन शतपञ्चाशद्दशसंख्येन वा गुरुः ।। १४० ।। मूलाद्दशांशसंख्यैस्तैरङ्गैर्होमं समाचरेत् । नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ।। १४१ ।। पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् । पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ।। १४२ ।। नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा । पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।। १४३ ।। पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति । एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ।। १४४ ।। षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् । ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ।। १४५ ।। नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा । विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ।। १४६ ।। नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् । स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ।। १४७ ।। आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने । अष्टौ च नवसंख्ये स्युः पञ्चविंऽसतिसंख्यके ।। १४८ ।। लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके । लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ।। १४९ ।। पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् । एकोनपञ्चाशत्संख्यकलशे देवता मताः ।। १५० ।। गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके । अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ।। १५१ ।। अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः । वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ।। १५२ ।। शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् । अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ।। १५३ ।। उत्सवं दमनारोहं पवित्रारोहणक्रिया । दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ।। १५४ ।। नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः । जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।। १५५ ।। किंतु तस्य ध्वजे मूषं वा समालिखेत् । शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ।। १५६ ।। ध्वजहोमबलीन् हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ।। १५७ ।। उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता । उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ।। १५८ ।। अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः । वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ।। १५९ ।। शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् । सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ।। १६० ।। अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ।। १६१ ।। इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः पञ्चचत्वारिंशत्तमः पटलः ।। गजवक्त्रो गणाधीशो भूरूपो महोदरः । जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।। स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीट मकुटोज्ज्वलम् ।। शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् । स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ।। अवामावामवर्तेभ हस्तः पद्मासनस्थितः । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम् उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम् दिगम्बरां सुवदनां भुजद्वय समन्विताम् विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम् पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम् चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम् इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम् स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः गजवक्त्रो गणाधीशो भूतरूपो महोदरः नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम् स्थानकं वासनं वाथ गणेशं कारयेत्ततः गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा आसीनमासने रत्नमकुटादि विभूषितम् ४६. षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ।। १ ।। जटामकुटसंयुक्तो वक्रनागफणावृतः । पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ।। २ ।। त्रिंशत्संख्यावसानास्स्युः जटास्तास्सान्तरालकाः । धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ।। ३ ।। कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया । वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ।। ४ ।। युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः । व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ।। ५ ।। वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः । दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ।। ६ ।। कस्थ ब्रह्मकपालेन नानापुष्पैरलंकृतः । धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ।। ७ ।। शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः । स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ।। ८ ।। कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः । अम्बिकामुखबिंबाब्ज भ्रमरीकृतलोचनः ।। ९ ।। आबद्धकिंकिणीयुक्तः तद्वन्नूपुरशोभितः । वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ।। १० ।। दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च । वामापरकरस्थेन वह्निना दक्षकेन तु ।। ११ ।। डिन्डिमेन समायुक्त उपवीतेन संयुतः । गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ।। १२ ।। नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः । मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ।। १३ ।। नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् । ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ।। १४ ।। हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् । श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसंमतम् ।। १५ ।। सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् । सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ।। १६ ।। तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् । तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ।। १७ ।। सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः । सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ।। १८ ।। ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् । सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ।। १९ ।। सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः । सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ।। २० ।। सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् । अथवान्यप्रकारेण सूत्रपातोभिधीयते ।। २१ ।। कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः । नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ।। २२ ।। स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् । सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ।। २३ ।। बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् । मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ।। २४ ।। कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् । नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ।। २५ ।। सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् । बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ।। २६ ।। मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् । कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ।। २७ ।। पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् । स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ।। २८ ।। तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् । श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ।। २९ ।। तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् । तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ।। ३० ।। तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः । तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ।। ३१ ।। तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः । सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ।। ३२ ।। भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः । विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ।। ३३ ।। धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः । धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ।। ३४ ।। कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः । एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ।। ३५ ।। बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् । अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ।। ३६ ।। देवस्य वक्त्रमानेन स्यादपस्मारमानकम् । वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ।। ३७ ।। वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् । चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ।। ३८ ।। उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् । उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ।। ३९ ।। केशान्ताद्धनुपर्यन्तं अष्टभागमितिस्मृतम् । गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ।। ४० ।। षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः । तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ।। ४१ ।। तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते । ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ।। ४२ ।। जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः । द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ।। ४३ ।। व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे । आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ।। ४४ ।। देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते । द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ।। ४५ ।। सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता । ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ।। ४६ ।। गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः । प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ।। ४७ ।। सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः । एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ।। ४८ ।। द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा । तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ।। ४९ ।। कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा । भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ।। ५० ।। भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि । उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ।। ५१ ।। द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च । भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ।। ५२ ।। भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते । उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ।। ५३ ।। सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः । चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ।। ५४ ।। शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् । इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ।। ५५ ।। कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ।। ५६ ।। बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् । जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ।। ५७ ।। कुण्ठानि परितः पश्चान्नवपञ्चैक संख्यया । चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ।। ५८ ।। मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् । पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ।। ५९ ।। समरीचिपदे कुर्यात् वास्तुहोमं विधानतः । वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ।। ६० ।। पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् । शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ।। ६१ ।। कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि । शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ।। ६२ ।। वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् । लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ।। ६३ ।। ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां वेदहस्तान् धानां सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभां ।। अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् । अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ।। ६४ ।। तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् । होमं समारभेत् काले मूर्तिपैस्सह देशिकः ।। ६५ ।। कृत्वा कुण्डाग्निसंस्कारं अग्निकार्योक्तमाचरेत् । समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ।। ६६ ।। प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः । ऊदुंबरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ।। ६७ ।। शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः । प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ।। ६८ ।। ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् । गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ।। ६९ ।। रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् । समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ।। ७० ।। उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः । व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ।। ७१ ।। कुंभांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः । पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ।। ७२ ।। वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः । दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ।। ७३ ।। ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् । चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ।। ७४ ।। ततः कुंभान्समुद्धृत्य सर्वातोद्य समाकुलम् । हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ।। ७५ ।। कुंभाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् । वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ।। ७६ ।। विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् । देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ।। ७७ ।। तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः । उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ।। ७८ ।। अनुक्तमत्र सामान्यस्थापनोदित माचरेत् । एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ।। ७९ ।। स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ।। ७९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः षट्चत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः । जटामकुट संयुक्तो वक्रनाग फणावृतः ।। कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः स्थितो दक्षिणपादेन वामेनोपरि वर्तिना कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः दक्षाभयकरस्थेन वह्निना दक्षके न तु डिण्डिमेन समायुक्त उपवीतेन संयुतः गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक् नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः ४७. सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् । तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ।। १ ।। चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः ।। २ ।। कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ।। ३ ।। सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामेगौर्या च संयुतः ।। ४ ।। सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः । ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ।। ५ ।। श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् । मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ।। ६ ।। चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् । उष्णीषात्तुककुद्वंश कण्ठस्फिक् मध्यमाद्गतम् ।। ७ ।। पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् । हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ।। ८ ।। जानुः पक्षांगुलं वामे लम्बितस्य गुणाङ्गुलम् । सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ।। ९ ।। ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः । तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणांगुलम् ।। १० ।। सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् । कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ।। ११ ।। नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् । वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ।। १२ ।। वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया । ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ।। १३ ।। देवोच्चदशभागैक भागेनाभद्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। १४ ।। द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः । कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ।। १५ ।। दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः । द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ।। १६ ।। देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा । आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ।। १७ ।। स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः । सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।। १८ ।। प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका । रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ।। १९ ।। हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् । तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ।। २० ।। तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् । दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ।। २१ ।। जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् । दिगऽऽराण्याभवृत्तानि वेदाश्राणि च वानयेत् ।। २२ ।। कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्वहिः । शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ।। २३ ।। पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् । शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ।। २४ ।। कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः । वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ।। २५ ।। शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे । विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ।। २६ ।। स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः । लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ।। २७ ।। परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् । तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ।। २८ ।। कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः । तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ।। २९ ।। पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च । शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ।। ३० ।। प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् । षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ।। ३१ ।। एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् । द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ।। ३२ ।। संप्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः । वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ।। ३३ ।। कुम्भाद्बीजं महेशानहृदि न्यसेत् । वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ।। ३४ ।। सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् । गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ।। ३५ ।। अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् । एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।। ३६ ।। कल्याणकर्म कर्तव्यं यथाविधि विशेषतः । अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ।। ३७ ।। इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः । स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ।। ३८ ।। इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः सप्तचत्वारिंशत्तमः पटलः ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ।। वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया । स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । देवोच्चदशभागैक भगेनाथ द्विभागतः । त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः । कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ।। देव्यूरुसंस्थिता वापि निष्पंकजकरोऽथवा ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः सर्वाभरण संयुक्तो वरदाभयहस्तकः कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः सालम्बदक्षपादेन वामे गौर्या च संयुतः सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् देवोच्चदशभागैक भागेनाथद्विभागतः त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्याच संयुतः ।। देवोच्चदशभागैक भागेनाथ द्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ।। सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः । देवोच्चदशभागैक भागेनाथ द्विभागतः ।। त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ।। ४८. अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् । आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ।। १ ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः । वराभय समायुक्तः पूर्वस्थ कर पल्लवः ।। २ ।। वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे । वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ।। ३ ।। ऊरुस्पृष्ठकरो वापि कटको वा विधीयते । मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। ४ ।। मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता । पराङ्कुखौ संमुखौ चा मृगटङ्कौ समीरितौ ।। ५ ।। दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् । हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ।। ६ ।। मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् । श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ।। ७ ।। शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा । स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ।। ८ ।। नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् । स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ।। ९ ।। कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् । ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ।। १० ।। सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् । ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ।। ११ ।। एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् । अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ।। १२ ।। जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् । अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ।। १३ ।। भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् । तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ।। १४ ।। पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् । प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ।। १५ ।। ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे । सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ।। १६ ।। मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले । कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ।। १७ ।। मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् । एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ।। १८ ।। कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे । मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ।। १९ ।। देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः । उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ।। २० ।। पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् । मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ।। २१ ।। पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् । अग्रे दशांगुलं तस्य मूले तु मुखविस्तरम् ।। २२ ।। तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् । वामे महाफणिं तस्य सर्वालंकार भूषितम् ।। २३ ।। जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः । एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ।। २४ ।। जटामकुटमेतद्धि सर्वालङ्कार मीरितम् । रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ।। २५ ।। पद्म पत्रिकया वापि शोभितं वामकर्णकम् । सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ।। २६ ।। पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् । पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ।। २७ ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। २८ ।। सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः । मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ।। २९ ।। कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। ३० ।। समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः । संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ।। ३१ ।। चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा । सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ।। ३२ ।। तयालिङ्गित देवो वा अन्योन्या लिंगितस्तु वा । आलिंगन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ।। ३३ ।। एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते । कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ।। ३४ ।। रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् । जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ।। ३५ ।। कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया । तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ।। ३६ ।। विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः । समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ।। ३७ ।। पुण्याहं वाचयित्वा तु शययायाः कल्पनं नयेत् । स्नपनं कौतुकं शययारोहणं पृथगाचरेत् ।। ३८ ।। ततः कुंभं शिरोदेशे वर्धनी च तदुत्तरे । लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ।। ३९ ।। परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् । न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ।। ४० ।। कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः । लाजसस्येन्द्रकैश्चैव वटोदुंबर संज्ञकौ ।। ४१ ।। अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः । शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ।। ४२ ।। प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः । प्रभाते देवकुंभाग्नीन् अभ्यर्च्य गुरुरादरात् ।। ४३ ।। वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः । संप्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ।। ४४ ।। प्रतिमाग्रे घटान्न्यस्य कुंभाद्बीजं तु विन्यसेत् । देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ।। ४५ ।। सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् । अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ।। ४६ ।। विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् । कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ।। ४७ ।। कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः । अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ।। ४८ ।। चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः । बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ।। ४९ ।। इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः अष्टचत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्थ करुपल्लवः ।। ऊरुपृष्टकरो वापि कटको वा विधीयते । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ।। हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् । वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्य करपल्लवः ।। वरदं वाम हस्तस्यात् अभयं दक्षिणे करे । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।। चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः वराभय समायुक्तः पूर्वस्थकरपल्लवः मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम् वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः सुपत्रवलयोपेतः सर्वरत्नोपशोभितः छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः सापीहभिन्नपीठा वा देवेनालिङ्गताथवा ४९. एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै । चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ।। १ ।। समभागयुतस्सम्यक् स्थापकेन समन्वितः । सव्यकर्णस्थमकरकुण्डलेन समन्वितः ।। २ ।। कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः । धनुर्बाणयुतोपेत वामेतरकरान्वितः ।। ३ ।। दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः । नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ।। ४ ।। पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शरांगुलम् । दोर्मूलात्परहस्तान्तं षोडशांगुल ईरितः ।। ५ ।। परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः । शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ।। ६ ।। सूत्रन्तुलंबमयेद्वामे वामनासा पुटस्यतु । दक्षिणस्थितपादे च पुरस्तान्मुनि पुंगवाः ।। ७ ।। हृन्नाभिमेढ्रसव्यांघ्रि जानूनां सूत्रतोन्तरम् । सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ।। ८ ।। तत् पादांगुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् । कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।। ९ ।। एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः । सुमुहूर्ते सुलग्ने च कृत्त्वैवांकुर कर्म च ।। १० ।। रत्नन्यासं दृशांमोक्षं बेरशुद्धिं प्रदक्षिणम् । तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ।। ११ ।। मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया । कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।। १२ ।। संकल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् । देवेशस्य शिरोदेशे शिवकुंभं च वर्धनीम् ।। १३ ।। लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् । अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ।। १४ ।। गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः । तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः । पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। १६ ।। शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः । प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ।। १७ ।। प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च । ततो द्वितीय दिवसे देवकुंभाग्नितर्पणम् ।। १८ ।। पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् । सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ।। १९ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ।। २० ।। सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् । विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ।। २१ ।। कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् । उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ।। २२ ।। अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् । प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ।। २३ ।। इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् । सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ।। २४ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः एकोनपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः । सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ।। सव्यकर्णस्थमकर कुण्डलेन समन्वितः । किष्णापरशु संयुक्त परहस्त द्वयान्वितः ।। धनुर्बाणयुतोपेत वामेतर करान्वितः । देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ।। कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् । एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ।। ५०. पञ्चाशत्तमे पटले लिंगोद्भव विधिः लिंगोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते । गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् ।। १ ।। लिंगोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् । तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ।। २ ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिंगाधो शर्वजान्वन्त भागन्नेंद्रिय गोचरम् ।। ३ ।। लिंगोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् । बिंबस्यानन मानेन कारयेत् हंसमादरात् ।। ४ ।। बिंबाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् । तल्लिंगरसभागैक द्वित्रिवेदशरैर्नयेत् ।। ५ ।। व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ । तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ।। ६ ।। लिंगोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः । ब्रह्मविष्णूविहीनो वा हंस सूकर संयुतः ।। ७ ।। इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते । कालश्च पूर्ववत् ग्राह्यः तद्वदेवांकुरार्पणम् ।। ८ ।। पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् । कुण्दानि परितोश्राणि नव पञ्चैक संख्यया ।। ९ ।। दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि । नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ।। १० ।। प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् । भूषणं मण्डपस्यैव वास्तुहोममतः परम् ।। ११ ।। भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः । वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ।। १२ ।। जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः । कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ।। १३ ।। नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् । ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ।। १४ ।। वस्त्रैश्चैवतु संवेष्ट्य गंधाद्यैरर्चयेत्ततः । प्रधानकुंभं तेषां तु शिरो भागे तु विन्यसेत् ।। १५ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ।। १६ ।। लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः । रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ।। १७ ।। देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् । प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ।। १८ ।। ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः । समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ।। १९ ।। पलाशोदुंबराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च । शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ।। २० ।। प्रधानस्य पलाशस्तु स च सर्वत्रवामतः । द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ।। २१ ।। गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः । रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ।। २२ ।। देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् । बिंबानुद्धृत्य संपूज्य कुभान् कुण्डेषु पावकान् ।। २३ ।। देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः । मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् । वेद्याः कुंभान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ।। २४ ।। कुंभात् बीजं समादाय देवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ।। २५ ।। विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् । ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ।। २६ ।। स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् । बिंबान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ।। २७ ।। वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः । अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।। २८ ।। लिंगोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः । इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगोद्भवप्रतिष्ठा विधिः पञ्चाशत्तमः पटलः ।। गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् । लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ।। लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् । बिंबस्याननमानेन कारयेद्धंसमादरात् ।। बिंबद्विमुखमानेन भूकृष्टास्यंतु सूकरम् । ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ।। ५१. एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः । व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ।। १ ।। व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः । द्वाभ्यां विरहितो योगी स नानाकार भेदतः ।। २ ।। चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः । श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ।। ३ ।। व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा । उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ।। ४ ।। विकीर्ण मूर्धजोवापि जटामकुट एव वा । पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ।। ५ ।। धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः । पञ्चमुद्रासमोपेतो गंगा किंकिणि संयुतः ।। ६ ।। अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः । व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ।। ७ ।। लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् । वामांघ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ।। ८ ।। सन्दर्शसंज्ञयोपेता वामहस्तस्थ पुस्तकः । द्वात्रिंन्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ।। ९ ।। अथवा नागसंयुक्तो वामहस्तस्समीरितः । वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ।। १० ।। दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् । विकसत् पद्मसंकाशः अधस्ताद्विस्तृतांगुलिः ।। ११ ।। परहस्तद्वये चाक्ष माला ज्वाला समन्वितः । पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ।। १२ ।। कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः । नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ।। १३ ।। आभंगसहितं कुर्याद्देहमध्ये तु वामतः । सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ।। १४ ।। मात्रंकालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः । लंबपादस्थितं मध्य सूत्रादर्धांगुलान्तरे ।। १५ ।। अर्द्धार्धांगुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् । सदशांगुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ।। १६ ।। नयने मध्यमं विद्यात् अंगुष्ठस्तनयोस्ततः । नाभेस्तु मणिबन्धान्तः धृत्यंगुलमुदाहृतः ।। १७ ।। सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् । नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ।। १८ ।। दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसांगुलम् । परस्यमणिबन्धाच्च भुजमध्याद्भवांगुलम् ।। १९ ।। द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमांगुलात् । हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ।। २० ।। सजटामकुटादेव चूचुकास्य गलान्तकाः । ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ।। २१ ।। शुक्लाद्यंबर संयुक्ताः भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ।। २२ ।। रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ।। २३ ।। व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः । ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ।। २४ ।। वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः । दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ।। २५ ।। कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः । भागमग्रन्तदावामो भागाधिक चतुर्मुखः ।। २६ ।। विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् । कलावक्रास्य विस्तारा यामं वापि षडंगुलम् ।। २७ ।। तत्तुंगन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् । हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ।। २८ ।। त्रिंशदंगुलमित्युक्तमथान्यमणिबन्धतः । आनाभेरन्तरंनालं शेषं सर्वन्तु पूर्ववत् ।। २९ ।। व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् । तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ।। ३० ।। प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः । अथकुञ्चितवामांघ्रि युग्मस्फिग्गतपार्ष्णिकः ।। ३१ ।। उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् । संदर्शदृष्टिपातश्च आभंगञ्चैव पूर्ववत् ।। ३२ ।। नानामृगैस्तु संकीर्णं नाना व्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ।। ३३ ।। भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् । शैलंकुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ।। ३४ ।। फलशाखोप शाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ।। ३५ ।। रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ।। ३६ ।। शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः । आगमाहित चेतोभिः परमेशेन दीक्षितैः ।। ३७ ।। एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः । व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ।। ३८ ।। सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् । आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ।। ३९ ।। वटवृक्ष विहीनो वा भूताद्यावृत एव वा । भूतस्थलंब वा दक्षिणेशस्समीरितः ।। ४० ।। एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यं पूर्ववत् ग्राह्यमंकुरार्पणमेव च ।। ४१ ।। मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया । कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ।। ४२ ।। रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा । ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ।। ४३ ।। पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् । पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ।। ४४ ।। कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् । वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ।। ४५ ।। स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे । शययायां शाययेद्देवं कौशिकादि ऋषीनथ ।। ४६ ।। दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे । शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ।। ४७ ।। व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् । स्वांस्तुकुंभान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ।। ४८ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितोवसुकुंभांस्तु विद्येशाधिष्ठितान्न्यसेत् ।। ४९ ।। रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् । तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ।। ५० ।। तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् । कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ।। ५१ ।। समिदाज्यचरून् लाज तिलसर्षपवैणवान् । जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ।। ५२ ।। बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् । द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ।। ५३ ।। रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः । समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ।। ५४ ।। संपूज्योद्धृत्य बिंबांश्च कुंभान् कुण्डेषु पावकान् । देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ।। ५५ ।। मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् । कुंभान् बिंबपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ।। ५६ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ।। ५७ ।। विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् । तत्तत् कुंभ जलैश्चैव तत्तद्देशोभिषेचयेत् ।। ५८ ।। ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् । तत्तत् कुंभादकैश्चैव तेषां च स्नपनन्नयेत् ।। ५९ ।। श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् । विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ।। ६० ।। देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः । स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ।। ६१ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ।। ६२ ।। सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता । देहान्ते परमेशानं कर्ता यायादसंशयः ।। ६३ ।। इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन विधिरेकपञ्चाशत्तमः पटलः ।। व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक् तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयंमतः अथकुंचितवामांघ्रियुगस्फिग्गतपार्ष्णिकः उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् संदर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् । चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः विकीर्णमूर्धजो वाऽपि जटामकुट एव वा पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम् वामांघ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां संदर्श संज्ञयोपेतं वामहस्तस्थ पुस्तकः अथवा नागसंयुक्तो वामहस्तस्समीरितः परहतद्वये चाक्षमाला जालसमन्वितः व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ।। दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।। ५२. द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः भिक्षाटनस्य वक्ष्येहं कंकालस्यापि लक्षणम् । प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ।। १ ।। पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् । स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ।। २ ।। आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् । क्षौमांबरं सितं कुर्यात् सुन्दरं तं विभूषणम् ।। ३ ।। स शंख पत्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ।। ४ ।। समभंगयुतं वापि कान्तियुक्त निजांगकम् । प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ।। ५ ।। सव्यमध्यांगुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् । वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ।। ६ ।। उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ।। ७ ।। असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् । नानारूपधरैर्भूतैः अनेकैः परिवारितम् ।। ८ ।। भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ।। ९ ।। स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः । आशीर्वादान्विताः काश्चित् - काश्चिदालिंगनोन्मुखाः ।। १० ।। मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वांगुलं नयेत् । सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ।। ११ ।। दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् । नाभेर्मेढ्रात्तु वामे तु भागं सप्तांगुलं भवेत् ।। १२ ।। पादांगुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् । पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ।। १३ ।। सार्धविश्वांगुलैर्वाऽथ तयोरन्तर मिष्यते । प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ।। १४ ।। नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते । पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ।। १५ ।। हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् । ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ।। १६ ।। अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः । पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ।। १७ ।। कंकालपिंचधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् । भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशांगुलम् ।। १८ ।। अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः । तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ।। १९ ।। कंकालदण्डमानन्तु देवस्याधो गलान्तकम् । दंडाग्रेकारयेत् धीमान् कंकालं हि मुनीश्वराः ।। २० ।। योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः । भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ।। २१ ।। एषएवपरोदेवो नग्नः कंकाल वर्जितः । विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ।। २२ ।। कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ।। २३ ।। दिव्यढक्का समायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ।। २४ ।। व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः । सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ।। २५ ।। कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् । नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ।। २६ ।। डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् । कर्णान्तं षोडशैर्मात्रैः शेषं कंकालवद्भवेत् ।। २७ ।। भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा । स्थापनं च समासेन वक्ष्येऽहं मुनिपुंगवाः ।। २८ ।। कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्तांकुरक्रिया । रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ।। २९ ।। जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः । अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ।। ३० ।। नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् । जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ।। ३१ ।। यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् । तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ।। ३२ ।। उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये । पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ।। ३३ ।। स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् । मध्ये देवं च तद्दक्षे जाया भूतानि वामके ।। ३४ ।। यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् । पृथक् कंकाल दण्डश्चेत् शिरोदेशेतु शाययेत् ।। ३५ ।। शक्रशांकरयोर्मध्ये न्यसेत् कुंभञ्च वर्धनीम् । अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ।। ३६ ।। विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् । वीरेशाय नमश्चेति भूतकुंभे यजेत् गुरुः ।। ३७ ।। नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा । कंकालकुंभे कंकालं न्यस्त्वा तत्वादिकान्न्यसेत् ।। ३८ ।। तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते । मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ।। ३९ ।। प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः । विष्नूक्तवत् स्यात् कंकाले तथाहोमं समाचरेत् ।। ४० ।। कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः । तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ।। ४१ ।। पलाशखादिराश्वत्थोदुंबरो दिक्षु संमताः । शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ।। ४२ ।। प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः । देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ।। ४३ ।। ततो द्वितीयदिवसे देवकुंभाग्नि तर्पणम् । पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ।। ४४ ।। मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिंबपुरो घटान् । कुंभाम्मनुं समादाय देवस्य हृदि विन्यसेत् ।। ४५ ।। वर्धन्यामनुमादाय तस्य पीठांबुजे न्यसेत् । अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ।। ४६ ।। तत्तत् कुंभजलैः स्नाप्य स्नपनञ्चोत्सवं महत् । नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ।। ४७ ।। अनुक्तमत्रसंग्राह्यं सामान्यं स्थापनोक्तवत् । एवं यः कुरुतेमर्त्यः स पुण्यांगतिमाप्नुयात् ।। ४८ ।। मध्य सूत्रादि सूत्राणां द्व्यंगुल द्व्यंगुलञ्च यत् । अंगानामपि सर्वेषां तेषां वै सन्निवेशनम् ।। ४९ ।। हस्तानामपि संख्या च वस्त्राण्याभरणानि च । मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ।। ५० ।। आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया । भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ।। ५१ ।। एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । भिक्षाटने च कंकाले प्रतिष्ठैवं समीरिता ।। ५२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः द्विपञ्चाशत्तमः पटलः ।। पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम् समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् नानागण् समायुक्तं नानाभूतसमाकुलम् असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम् एष एव परोदेवः नग्नः कङ्कालवर्जितः विकीर्णोभय पार्श्वस्थ जटालकविभूषितः कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः सत्कपालं च वरदं वाम हस्तं तु कल्पयेत् दिव्यढक्का समायुक्तं वामस्थमपरंकरम् शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरंकरम् व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः सव्यं कोण समायुक्तं अथवा परिकल्पयेत् पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम् दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत् वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम् उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् नानागण समायुक्तं नानाभूतसमाकुलम् असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम् कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत् ५३. त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै । नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ।। १ ।। प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये । नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ।। २ ।। प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः । कालोंकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ।। ३ ।। शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः । पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ।। ४ ।। मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् । कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ।। ५ ।। कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः । पश्चात् शिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ।। ६ ।। पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् । जलादुत्तीर्य बिंबन्तु मृदाद्यैस्नपनं नयेत् ।। ७ ।। गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः । शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ।। ८ ।। शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् । पूर्ववत् स्हापयेत् कुंभान् परितश्शिवकुंभकम् ।। ९ ।। सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः । शिवंकुंभे यजेदस्त्रन्देवं पाशुपताह्वयम् ।। १० ।। तल्लक्षणोक्तरूपन्तु ध्यात्वागंधादिभिस्तदा । हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ।। ११ ।। दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि । मन्त्रेण वाथ संपूर्णन्देवं पाशुपताह्वयम् ।। १२ ।। अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः । ओंकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ।। १३ ।। मन्त्रेण विधिवत् भिन्ना ओंकाराद्याहृदादयः । हृदयादि समोपेता हुंफडन्ताः नमोन्तकाः ।। १४ ।। हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा । हुंकारकल्पितेनैव ह्रदासंपुरितेन च ।। १५ ।। वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः । तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ।। १६ ।। मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः । कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ।। १७ ।। समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् । पूर्वोक्तमूलब्रह्मांगैर्होमं पूर्वोक्तसंख्यया ।। १८ ।। तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः । पलाशोदुंबराश्वत्थ वटा इन्द्रापि दिक्षु च ।। १९ ।। शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः । प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ।। २० ।। संपूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः । प्रतिमाग्रेघटान्यस्वा तत् कुंभात्तुमनुं हृदि ।। २१ ।। न्यसेत् पीठांबुजेतस्य परिवारमनुन्यसेत् । स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।। २२ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ।। २३ ।। यात्त्येव च सुखं मोक्षमिहापि च परत्र च ।। २३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः त्रिपञ्चाशत्तमः पटलः ।। ५४. चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् । पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ।। १ ।। उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् । पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ।। २ ।। सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः । दिव्यलांगूलसंयुक्तं सुविकीर्ण जटान्वितम् ।। ३ ।। कन्धरोर्ध्वंनराकारं दिव्यमौकि समायुतम् । सिंहास्यं भीमदंष्ट्रंच भीमविक्रमसंयुतम् ।। ४ ।। हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् । कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ।। ५ ।। नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् । पादाभ्यामंबरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ।। ६ ।। गगनाभिमुखं देवं कारयेत् शरभेश्वरम् । एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ।। ७ ।। अष्टवर्गादिमंबीजं चतुर्दशविभूषितम् । षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ।। ८ ।। शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि । ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ।। ९ ।। आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् । योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ।। १० ।। कल्पयेदाद्यवर्णेन ब्रह्माण्यंगानि देशिकः । वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ।। ११ ।। मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः । बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ।। १२ ।। पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः । स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ।। १३ ।। कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् । प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ।। १४ ।। अंकुरार्पणकार्यन्तु तद्विधानेन कारयेत् । नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ।। १५ ।। मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् । जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ।। १६ ।। मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् । पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ।। १७ ।। स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् । विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ।। १८ ।। पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् । शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ।। १९ ।। पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् । उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ।। २० ।। भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो । रक्तवस्त्रेण संवेष्ट्य कुंभस्थापनमारभेत् ।। २१ ।। विन्यसेत् शिवकुंभं च विष्णुकुंभं च विन्यसेत् । स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ।। २२ ।। परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् । ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ।। २३ ।। प्रागुक्ताणु स्वरूपज्ञो गंधाद्यैरर्चयेत् गुरुः । हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ।। २४ ।। विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् । शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ।। २५ ।। मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि । मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ।। २६ ।। ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् । समिद्भिरपिपालाशैः घृतेन चरुणापि च ।। २७ ।। तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् । पूर्णांहुत्वा द्वितीयेह्नि वह्निकुंभामरार्चनम् ।। २८ ।। संप्राप्तदक्षिणस्तुष्टो गुरुस्संपूजितस्सह । मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ।। २९ ।। देवेशाग्रेघटान्यस्वा संकल्प्य स्थण्डिलं गुरुः । कुंभात् बीजं समादाय शरभेश हृदि न्यसेत् ।। ३० ।। विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् । अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।। ३१ ।। तत्तत् कुंभोदकैश्चैव स्नापयेत्परमेश्वरम् । स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ।। ३२ ।। एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् । अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ।। ३३ ।। स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् । देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ।। ३४ ।। सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् । वश्याकर्षण विद्वेषमनेन विधिना नयेत् ।। ३५ ।। अनुक्तमत्रसंग्राह्यं सामान्यस्थापनोक्तवत् । कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ।। ३६ ।। भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः । इयत्ता पुण्य संघस्य भोगान् भुक्त्वेह जन्मनि ।। ३७ ।। वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ।। इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः चतुष्पञ्चाशत्तमः पटलः ।। पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् । ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ।। पादैस्सिंह पदाकारैः चतुर्भुजश्च समन्वितम् । सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ।। दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् । कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ।। सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् । हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ।। कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् । नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।। पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु । गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।। ५५. पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः । प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ।। १ ।। उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। २ ।। एवं जानुरुनाभ्यन्त स्तनवक्षो गलास्यगम् । सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ।। ३ ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वांगसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। ४ ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। ५ ।। नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। ६ ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभंगसहितं कुर्यादागम शवणोन्मुखम् ।। ७ ।। नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः । नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ।। ८ ।। हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्जलि हस्तञ्च शंखाब्जापरहस्तकम् ।। ९ ।। कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः । कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ।। १० ।। इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यंमंकुरं रत्नविन्यासमुभयत्र च ।। ११ ।। नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् । तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ।। १२ ।। कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् । नवपञ्चैक संख्यानां लक्षणैः पूर्ववत् द्विजाः ।। १३ ।। तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् । वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ।। १४ ।। स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् । आरोहणं च शययायाः तस्याञ्च शयनं नयेत् ।। १५ ।। देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि । देवेश पादमूलेतु तेषां च शयनं नयेत् ।। १६ ।। देवोत्तमांगदेशेतु शिवकुंभञ्चवर्धनीम् । अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ।। १७ ।। तत्तदध्याय संसिद्धिं संग्राह्यं मुनि पुंगवाः । कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ।। १८ ।। समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् । सत् पलाशवटप्लक्षो दुंबराः पूर्वतो भवेत् ।। १९ ।। शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ।। २० ।। चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः । निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ।। २१ ।। द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः । संपूज्योद्धृत्य देवांस्तु कुंभान् कुण्डेषु पावकान् ।। २२ ।। सुमुहूर्तेऽठ संप्राप्ते सन्त्रन्यासं समाचरेत् । वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ।। २३ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । कृतस्थण्डिलका धारा बिंबाग्रेतु घटा न्यसेत् ।। २४ ।। कुंभान्मनुं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ।। २५ ।। देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् । अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।। २६ ।। चण्डेशादिषु देवेषु तत्तत् कुंभान् मनुं न्यसेत् । तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ।। २७ ।। स्नपनंञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा । देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ।। २८ ।। एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः पञ्चपञ्चाशत्तमः पटलः ।। उमया सहितस्याथ चन्द्रशेखरमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् । कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः उमया सहितस्याथ चन्द्रशेखमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ।। नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।। ५६. षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् । स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।। १ ।। सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः । त एवानुग्रपराः भक्तानुग्राहकामताः ।। २ ।। देवदानव गंधर्व मुनयो मनुजातयः । पिपीलिका गजाद्यन्ताः जंगमास्थावराश्चये ।। ३ ।। तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः । दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ।। ४ ।। शिवाधिष्टित देहस्तु मरणं याति यो नरः । सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ।। ५ ।। तस्मादुत्क्रान्तिकालेतु स्वेष्टलिंगन्तु संस्पृशन् । प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ।। ५ ।। सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् । आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ।। ६ ।। कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः । द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ।। ८ ।। तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः । भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ।। ९ ।। संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः । कालः प्राग्वत् समुद्दिष्ट स्तथैवांकुरकर्म च ।। १० ।। रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् । ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ।। ११ ।। प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् । कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ।। १२ ।। चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा । तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ।। १३ ।। स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् । शयनारोहणं कुंभस्थापनं पूर्ववन्नयेत् ।। १४ ।। तत्पादेभक्तकुंभन्तु तत्तद्ध्यान समन्वितम् । आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ।। १५ ।। तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् । अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ।। १६ ।। समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः । पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।। १७ ।। शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः । प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ।। १८ ।। ततो द्वितीयदिवसे कृतकुंभाग्नि पूजितः । पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ।। १९ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिंबपुरोघटान् ।। २० ।। कुंभान्मन्त्रं समादाय देवस्य हृदये न्यसेत् । देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ।। २१ ।। विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् । ततः कुंभाजलेनाथऽथ तौ च संस्नापयेत् सदा ।। २२ ।। भक्तकुंभस्य बीजन्तु तत भक्त हृदयेन्यसेत् । आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ।। २३ ।। तत् कुंभस्थ जलेनापि स्नापयेत् पीठमादरात् । स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ।। २४ ।। उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् । विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ।। २५ ।। तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः । एवं यः मर्त्यः स पुण्यांगतिमाप्नुयात् ।। २६ ।। पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् । देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। २७ ।। यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः । मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ।। २८ ।। जीवन्नेवाथवा कुर्यात् आत्मानं शिवसंज्ञितम् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः षठपञ्चाशत्तमः पटलः ।। सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् । आसीनां स्थितां वापि शयितां शुभलक्षणाम् ।। कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः । द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ।। ५७. सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।। १ ।। कुञ्चितासव्यपादस्तु व्याघ्र चर्मांबरान्वितः । ततोद्धृत सदक्षांघ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ।। २ ।। दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः । दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ।। ३ ।। कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः । शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ।। ४ ।। सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् । तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलांगुलम् ।। ५ ।। कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् । कर्णाग्रंतद्वितालं स्यात् दोस्समं परहस्तकम् ।। ६ ।। कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् । मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ।। ७ ।। नाभेस्सव्ये च वामांघ्रेरग्रे सूत्रं पुरो भवेत् । तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ।। ८ ।। स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् । अधोद्धृतांघ्रि जानूच्चं कट्यग्र सममेव हि ।। ९ ।। जंघमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् । दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ।। १० ।। परहस्तौ च कटकौ शूलहस्तस्थैव च । तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ।। ११ ।। सूत्रादन्वित जान्वन्तो गुणवह्ण्यंगुलो भवेत् । उद्धृतस्य तलस्याग्र जंघायास्मृति मात्रकम् ।। १२ ।। कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् । उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ।। १३ ।। शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् । दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ।। १४ ।। देवस्थन्नाभिमानेन नवतालेन कारयेत् । कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ।। १५ ।। अथवाथहराल्लिंगात् निर्गतात् पतितन्नयेत् । कालान्तलिंगमानाद्यं लिंगोद्भूतोक्तवन्नयेत् ।। १६ ।। त्रिभंगेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः । बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ।। १७ ।। कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु । मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ।। १८ ।। अपस्मारशरीरस्थ चरणेन युतो न वा । कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ।। १९ ।। अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् । कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ।। २० ।। भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् । मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ।। २१ ।। शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् । मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ।। २२ ।। देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः । लंभिनी तापिनी चैव वेदिनी द्राविणी तथा ।। २३ ।। मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे । मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ।। २४ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । वाराद्यं अंकुरं यागमण्टपं पूर्ववन्नयेत् ।। २५ ।। कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक संख्यया । दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ।। २६ ।। रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् । ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ।। २७ ।। देवे च काले कामे च कारयेत्तु पृथक् पृथक् । वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ।। २८ ।। देवस्य पाददेशेतु शययास्यात् काल कामयोः । कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ।। २९ ।। ईशकुंभं शिरोदेशे वर्धनीं तस्य चोत्तरे । कालकुंभं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ।। ३० ।। कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् । मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ।। ३१ ।। कामस्य पार्श्वयोः कॢप्त शययाशयितयोरपि । देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ।। ३२ ।। विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् । विद्येश्वरात्मकान्यस्य यजेत् गंधादिभिस्ततः ।। ३३ ।। तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् । तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ।। ३४ ।। कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् । आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ।। ३५ ।। शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि । मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ।। ३६ ।। प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः । कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ।। ३७ ।। अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् । पलाशो ढुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। ३८ ।। शमीखादिरमायूर श्रीवृक्षावह्निकोणतः । पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ।। ३९ ।। कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः । नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ।। ४० ।। देशिकस्सुविशुद्धात्मा संपूज्योद्धृत बिंबकः । कुंभान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ।। ४१ ।। वस्त्रहेमांगुलीयाद्यैः पूजितो मूर्तिपादिभिः । संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ।। ४२ ।। कुंभान् बिंबपुरो न्यस्य शिवकुंभमनुस्मरन् । शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ।। ४३ ।। वैद्येशकुंभबीजानि तत् पीठे परितो न्यसेत् । अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ।। ४४ ।। स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। ४५ ।। एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् । देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः सप्तपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः । कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ।। ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः । दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ।। दक्षहस्तस्थ परशुः नागपाश्ऽथवाम्गः । कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ।। शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा । शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ।। उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् । कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ।। देवस्यनाभिमानेन नवतालेनकारयेत् । कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ।। अथवाथ हराल्लिंगात् निर्गतान् पतितं नयेत् । कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ।। बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ।। कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु । मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ।। ५८. अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् । जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ।। १ ।। त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः । समभंगयुतो देव स्थानकस्थ प्रकीर्तितः ।। २ ।। सकुञ्चात् सव्यसत्पाद स्थितसव्येतरांघ्रिकः । इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ।। ३ ।। जल संग्रहणे योग्य वरवाम करान्विताः । स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ।। ४ ।। आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे । नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ।। ५ ।। एकैकमंगुलन्नीत्वा नाभिसूत्र समं भवेत् । वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ।। ६ ।। अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् । पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुंगवाः ।। ७ ।। मेद्रमूलसमन्दक्ष कटकस्यास्य लंबनम् । नाभेस्तं मणिबन्धान्तं स्मृत्यंगुलमितीरितम् ।। ८ ।। तद्बाहुमध्यात् पार्श्वान्तं शरांगुलमितिस्मतम् । पादांगुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ।। ९ ।। सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् । अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ।। १० ।। पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह । देवीदृगास्य चिबुक कक्ष चूचुकमानता ।। ११ ।। तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः । युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ।। १२ ।। श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् । पादांगुष्ठद्वयोर्मध्यं भवेदष्टदशांगुलम् ।। १३ ।। रसांगुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता । देवोच्चदशभागैक भागादेकादशावधि ।। १४ ।। भागमानयुतः श्यामः किरीटमकुटान्वितः । गृहीत शंख चक्रश्च हस्ताभ्यां धृतयापि च ।। १५ ।। तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः । नासाग्रात् स्थितपाद्यस्य चांगुष्ठान्तं विलंबयेत् ।। १६ ।। तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् । कुण्डिकोत्सेधविस्तारो तालसूत्रांगुलौ मतौ ।। १७ ।। तद्गलोत्सेधविस्तारो कलयाकोलकेन च । आस्यंपञ्चांगुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ।। १८ ।। तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् । एकांगुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ।। १९ ।। पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता । तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ।। २० ।। कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् । नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ।। २१ ।। तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् । वरदः कटकौ स्यातां वामेतर करावुभौ ।। २२ ।। हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् । चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ।। २३ ।। होमोन्मुख्ं प्रसन्नन्तं किंकुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ।। २४ ।। वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ । वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ।। २५ ।। स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ । सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ।। २६ ।। विलंबितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् । तत्पादांगुष्ठ मूलान्तान्नाभेर्वसुदशांगुलम् ।। २७ ।। अभय~चूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् । तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ।। २८ ।। ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् । ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ।। २९ ।। देवस्यांगुलमानेन द्विविंशत्यंगुलो भवेत् । अग्निकुण्डस्यविष्कंभस्त्रिमेखल युतस्य च ।। ३० ।। मेखलैकांगुलाप्रोक्ता प्रत्येकं मुनिपुंगवाः । द्वादशांगुलविस्तार दैर्घ्या सा सप्तजिह्वकः ।। ३१ ।। पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् । शिवादिहस्तसूत्राणां प्रमाणंद्व्यन्तरन्तु यत् ।। ३२ ।। उद्धृतिर्हस्त पादानामन्यांगाना मिहोच्यते । एषामेवनतिश्चापि संकोचो निर्गमोऽपि वा ।। ३३ ।। शरचापादि शास्त्राणां संग्रहे संस्थितिस्त्वियम् । अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ।। ३४ ।। दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः । भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ।। ३५ ।। दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः । देवीनामेवमेवस्यान्नरादीनां विशेषतः ।। ३६ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । संभाव्य पूर्ववत् कालं प्राग्वत् कृत्वांकुरार्पणम् ।। ३७ ।। देवस्यसव्ये ब्रह्माणं उत्तरे विष्णुमेव च । गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ।। ३८ ।। नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि । शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ।। ३९ ।। दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना । बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ।। ४० ।। तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः । ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरंबिकां श्रियम् ।। ४१ ।। यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् । पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ।। ४२ ।। अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः । योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ।। ४३ ।। स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः । देवस्यमण्डपे चापि कुण्डानि नव संख्यया ।। ४४ ।। पञ्चैक संख्ययावपि चतुरश्रनिभानि वा । दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ।। ४५ ।। उद्वास्यशिल्पिनं पश्चात् विप्रान् संभोजयेत्ततः । पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ।। ४६ ।। स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् । शयने शाययेद्देवन्तस्य वामे च दक्षिणे ।। ४७ ।। कृष्णञ्चैवाथभिन्न शययायां शाययेत् गुरुः । देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ।। ४८ ।। उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् । रक्तेन वासमा देवं देविं पीतेन केशवम् ।। ४९ ।। कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् । आचार्या स्संग्रहीतव्याः प्रतिमण्टपमुत्तमाः ।। ५० ।। गुरवः प्रतिदेवं वा संग्राह्यामुनिपुंगवाः । देवोत्तमांग देशेतु शिवकुंभञ्च वर्धनीम् ।। ५१ ।। ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् । परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ।। ५२ ।। देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् । वामाद्याधिष्ठितानष्ट कुंभाश्च परितो न्यसेत् ।। ५३ ।। तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् । यजेत् गंधादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ।। ५४ ।। तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः । अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ।। ५५ ।। ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् । समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ।। ५६ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च । शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ।। ५७ ।। प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः । प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।। ५८ ।। स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये । प्रभाते कृतनित्यन्तु कर्ता संपूजयेत् गुरुम् ।। ५९ ।। वस्त्रहेमांगुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् । तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ।। ६० ।। प्रतिमाग्रे घटन्न्यस्त्वा कुंभान् बीजन्तु विन्यसेत् । वर्धन्याबीजमादाय देवीहृदय मध्यमे ।। ६१ ।। सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे । भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ।। ६२ ।। अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् । संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ।। ६३ ।। दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् । कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ।। ६४ ।। सदाशिवादि देवानां देवीयस्य यथा मता । तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ।। ६५ ।। प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा । तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ।। ६६ ।। यथा वा लभते शोभा बलन्तेषां यथा भवेत् । तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ।। ६७ ।। सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु । दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ।। ६८ ।। प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा । एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ।। ६९ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः अष्टापञ्चाशत्तमः पटलः ।। जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः । त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।। समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः । कुञ्चितः सव्यपादस्तु स्थितसव्येतरांध्रिकः ।। इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः । जलसंग्रहणे योग्य वरवामकरान्वितः ।। स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह देवी दृगास्य चिबुक कक्षनूचुक मानका तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम् देवोच्च दशभागैक भागादेक दशावधि भागमानयुतः श्यामः किरीट मकुटान्वितः गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत् चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम् मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम् वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ स्रुवपात क्रियोपेतौन्योतु कटकामुखौ भूषणानां च सर्वेषां वामदक्षिण भेदतः दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ५९. एकोनषष्टितमे पटले कल्याण कर्म विधिः वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने । पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ।। १ ।। तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके । प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ।। २ ।। स्तण्डिलं तत्र संक्ल्प्य सितवस्त्रोत्तरच्छदम् । स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ।। ३ ।। गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः । अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ।। ४ ।। प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः । देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ।। ५ ।। तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् । विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ।। ६ ।। पाद्याचमनं सदशं चाम्बरद्वयम् । आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ।। ७ ।। स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् । सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ।। ८ ।। पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् । गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ।। ९ ।। पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः । देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ।। १० ।। आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् । अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ।। ११ ।। कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः । शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ।। १२ ।। सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः । अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ।। १३ ।। वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् । ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ।। १४ ।। शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि । पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ।। १५ ।। समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् । गुडदुग्धाज्य संमिश्रं मधुपर्कं हृदा प्रभोः ।। १६ ।। दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा । हुत्वा षोडश संख्यातं ततस्त्वाज्येन षोडश ।। १७ ।। नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा । ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ।।१८ ।। त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् । शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ।। १९ ।। तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः । ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ।। २० ।। पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् । संगृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ।। २१ ।। उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया । प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ।। २२ ।। शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् । तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ।। २३ ।। अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् । देशिकस्य तथान्यस्य सङ्गुलीय करेण च ।। २४ ।। प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा । अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ।। २५ ।। द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् । कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ।। २६ ।। शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु । विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ।। २७ ।। शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् । संपूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ।। २८ ।। ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् । तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ।। २९ ।। समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते । शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ।। ३० ।। अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना । शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ।। ३१ ।। वर्मणा तच्च संपूय नवखट्गोपरि स्थितम् । दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ।। ३२ ।। स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् । चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ।। ३३ ।। देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् । वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ।। ३४ ।। एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् । भिन्नपीठाम्बिकानां तु मूललिंगस्य च द्विजाः ।। ३५ ।। किंतु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् । गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ।। ३६ ।। मूललिंगस्य चोद्बाह्ये गर्भागारात्तु मण्डपे । विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ।। ३७ ।। प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः । स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ।। ३८ ।। आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः । इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ।। ३९ ।। गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् । यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ।। ४० ।। इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः पटलः ।। ६०. षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ।। १ ।। उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ।। २ ।। करमकुटं वाममलकेन समन्वितम् । ललाट दक्षिणे भागे नयनार्धेन संयुतम् ।। ३ ।। पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्र कुण्डलं तं विनावाथ कारयेत् ।। ४ ।। सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे । देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ।। ५ ।। दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः । तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ।। ६ ।। उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनांबरं सव्यपादं कुञ्चितमिष्यते ।। ७ ।। सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् । आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ।। ८ ।। वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् । नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ।। ९ ।। चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् । सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ।। १० ।। द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा । पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ।। ११ ।। अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् । चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ।। १२ ।। अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः । प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ।। १३ ।। भुजद्वययुतं शङ्ख कटकस्तत्र संमतः । पीतांबर समोपेतं सर्वाभरण संयुतम् ।। १४ ।। चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् । हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ।। १५ ।। बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः । तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ।। १६ ।। कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ।। १७ ।। प्रदक्षिणं पुरादीना मुदके चाधिवासनम् । सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ।। १८ ।। किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः । मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ।। १९ ।। प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् । शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ।। २० ।। पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् । शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ।। २१ ।। बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः । शयनारोहणं कृत्वा शाययेद्देवमादरात् ।। २२ ।। शिरः प्रदेशे देवस्य शिवकुंभं तु विन्यसेत् । उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ।। २३ ।। विष्णुश्चेत्तच्छिरोदेशे विष्णु कुंभं तु विन्यसेत् । तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ।। २४ ।। परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् । गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ।। २५ ।। तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् । क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ।। २६ ।। मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते । शर्वं च पशुपत्युग्ररुद्रांश्चेतांबलोत्कटान् ।। २७ ।। धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् । विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ।। २८ ।। पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् । पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ।। २९ ।। ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् । न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ।। ३० ।। जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ । न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ।। ३१ ।। शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् । ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ।। ३२ ।। तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् । एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ।। ३३ ।। संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् । अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ।। ३४ ।। समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि । होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ।। ३५ ।। पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ।। ३६ ।। प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते । विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ।। ३७ ।। ततो द्वितीये दिवसे देवान् कुंभाश्च पावकान् । यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ।। ३८ ।। मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः । शुभे महूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ।। ३९ ।। कुंभान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् । विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ।। ४० ।। कृष्णस्य कुंभात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् । अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।। ४१ ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं तद्देव स्थापनोदितम् ।। ४२ ।। विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ।। ४२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः षष्ठितमः पटलः ।। उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः करण्ट मकुटं वामं मलकेन समन्वितम् ललाट दक्षिणे भागे नयनार्धेन संयुतम् पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम् सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् संव्ये टंकाभयौ हस्ते उत्पलं वामगे करे उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम् व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि । भुजद्वयुतं शङ्खं कटकस्तत्र संमतः ।। पीताम्बर समोपेतं सर्वाभरण संयुतम् । चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ।। ६१. एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ।। १ ।। कृष्णा परशु संयुक्तो जटामकुटमण्डितः । ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।। २ ।। दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ।। ३ ।। स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् । कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ।। ४ ।। अथवा शिवलिंगस्य पार्श्वयोः नतगतौ तु तौ । अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ।। ५ ।। अथवा मध्यमे लिंगं पृथगालय संस्थितम् । तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ।। ६ ।। पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः । संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ।। ७ ।। पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः । भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ।। ८ ।। नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे । एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।। ९ ।। शिवलिंग प्रतिष्ठा च ब्रह्मणः केशवस्य च । तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ।। १० ।। इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते । पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ।। ११ ।। रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् । प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ।। १२ ।। कुण्डानि कारयेत्तत्र नवपञ्चैक संख्यया । दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ।। १३ ।। तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् । स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ।। १४ ।। ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् । शयनारोहं कुंभ स्थापनं पूर्वन्नयेत् ।। १५ ।। देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् । न्यस्त्वा तु शिवकुंभस्य उत्तरे वर्धनीं न्यसेत् ।। १६ ।। तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् । तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ।। १७ ।। अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् । तिलसर्षप मुद्गांश्च माषशिंबाद वैणवैः ।। १८ ।। पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः । शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ।। १९ ।। प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः । ततो द्वितीय दिवसे देव कुंभाग्नि तर्पणम् ।। २० ।। पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः । संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।। २१ ।। मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिंब पुरो घटान् । कुंभान्मनुं समादाय देवस्य हृदि विन्यसेत् ।। २२ ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ।। २३ ।। आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् । तत्तत् कुंभजलैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २४ ।। स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च । अनुक्त मत्र संग्राह्यं तत्त दध्याय चोदितम् ।। २५ ।। प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु । इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ।। २६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम एकष्टितमः पटलः ।। रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः । कृष्णापरशु संयुक्तः जटामकुटमण्डितः ।। ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ।। सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् । कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ।। ६२. द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।। १ ।। परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् । पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।। २ ।। अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके । स हस्तो हंस पक्षो वा पताकाधोमुखस्तु वा ।। ३ ।। तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् । तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ।। ४ ।। तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् । प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ।। ५ ।। हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् । एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ।। ६ ।। पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् । समभङ्गयुतो देवः स्थानकेनापि संयुतः ।। ७ ।। ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके । गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ।। ८ ।। सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् । सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ।। ९ ।। सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् । शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ।। १० ।। द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ।। ११ ।। अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ।। १२ ।। संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ।। १३ ।। मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् । एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ।। १५ ।। कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् । वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ।। १५ ।। जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् । कुण्डानि नवपञ्चैक संख्यया तत्र कारयेत् ।। १६ ।। चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा । पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ।। १७ ।। पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् । स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ।। १८ ।। आरोप्य शयने पश्चात् कुंभान् संस्थापयेत्तमः । शिवस्य च शिरोदेशे शिवकुंभं च वर्धनीम् ।। १९ ।। यदि भिन्नो वृषो देवपादमूले तु शाययेत् । दक्ष मस्तक संयुक्तां शययां संकल्प्य व पृथक् ।। २० ।। वृषमस्तकदेशे तु वृषकुंभं तु विन्यसेत् । परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ।। २१ ।। गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः । तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ।। २२ ।। अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् । समिदाज्यान्नलाजादि तिलसर्षप माषकैः ।। २३ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ।। २४ ।। प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् । ततो द्वितीये संतर्प्य देवान् कुंभांश्च पावकान् ।। २५ ।। समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः । संप्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ।। २६ ।। घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् । कुंभाद्बीजं समादाय देवस्य हृदि विन्यसेत् ।। २७ ।। वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २८ ।। वृष कुंभान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् । अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।। २९ ।। विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् । कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ।। ३० ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ।। ३१ ।। इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः । घनो वाप्य घनो वापि वृषभस्य च संमतः ।। ३२ ।। प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह । लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ।। ३३ ।। इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः द्विषष्ठितमः पटलः ।। वृषभारुधः चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः । परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ।। पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् । अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् समभङ्गयुतो देवण् स्थानकेनापि संयुतः तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत् पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ।। ६३. त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।। १ ।। दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः । तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ।। २ ।। संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः । जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ।। ३ ।। तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् । स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ।। ४ ।। सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः । हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ।। ५ ।। पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् । वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ।। ६ ।। इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः । देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ।। ७ ।। कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् । गलान्तं वाष्टतालेन विलंबितं जटान्वितम् ।। ८ ।। वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् । द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ।। ९ ।। कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् । रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ।। १० ।। तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः । प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ।। ११ ।। तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः । चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ।। १२ ।। मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् । पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ।। १३ ।। स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकं । भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ।। १४ ।। शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः । देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ।। १५ ।। देवेशस्य शिरः पार्श्वे शिवकुंभं च वर्धनीम् । भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ।। १६ ।। हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् । परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ।। १७ ।। पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः । गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ।। १८ ।। तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः । भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ।। १९ ।। पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना । मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ।। २० ।। बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् । चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ।। २१ ।। भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः । गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ।। २२ ।। कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः । तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ।। २३ ।। दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् । तत्तद्देव पुरस्तत्तत् कुंभान् न्यस्त्वा गुरूत्तमः ।। २४ ।। शिव कुंभमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् । वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।। २५ ।। अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् । गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ।। २६ ।। भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् । तत्तत् कुंभ जलेनैव स्नापयेत्तत् प्रदेशके ।। २७ ।। सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् । विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ।। २८ ।। कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः । कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ।। २९ ।। अनुक्तमत्र संग्राह्यं सामान्य स्थापनोक्तवत् । भगीरथ युतो वायं वियुक्तो वा महेश्वरः ।। ३० ।। जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः । इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ।। ३१ ।। यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ।। ३११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम त्रिषष्टितमः पटलः ।। ६४. चतुष्षष्ठितमे पटले गुह स्थापन विधिः गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ।। १ ।। नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् । अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ।। २ ।। अन्येदेवालयेऽप्येवमथवा पर्वतोपरि । पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ।। ३ ।। राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा । प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ।। ४ ।। कुमारालय इष्टस्यात् धाम लक्षण लक्षितः । अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ।। ५ ।। त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः । दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ।। ६ ।। रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् । गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ।। ७ ।। एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः । शिवोक्त मार्ग संकॢप्त गर्भाद्येष्ट कयान्वितः ।। ८ ।। तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः । दिङ्न्यस्त देव विन्यस्त मध्यकुंभ युतेन च ।। ९ ।। धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह । प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।। १० ।। पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा । परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।। ११ ।। यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् । गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ।। १२ ।। क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः । वरदाभय संयुक्ताः खड्ग खेट समन्विताः ।। १३ ।। खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः । भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ।। १४ ।। शकुनी पूतना चैव रेवती चार्धपूतना । वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ।। १५ ।। षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः । स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ।। १६ ।। एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः । वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ।। १७ ।। चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः । एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ।। १८ ।। इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् । विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।। १९ ।। बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् । बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ।। २० ।। द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् । दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ।। २१ ।। खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ । श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयंकरौ ।। २२ ।। जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ । ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ।। २३ ।। अभयं वज्रपद्मे च वरदं द्विभुजं तु वा । शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ।। २४ ।। लक्षणं तस्य संक्षेपाच्छ्रुणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ।। २५ ।। प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु । योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ।। २६ ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः । पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ।। २७ ।। बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ।। २८ ।। कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः । स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।। २९ ।। चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् । नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ।। ३० ।। वरदाभय संयुक्तः शक्तिद्वययुतो न वा । शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ।। ३१ ।। द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये । श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ।। ३२ ।। गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने । गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ।। ३३ ।। इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ।। ३४ ।। षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः । स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।। ३५ ।। सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके । रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ।। ३६ ।। करण्ड मकुटोपेतो नेत्रत्रय समन्वितः । शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ।। ३७ ।। दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा । समयूरध्वजं चैवमङ्कुशं वरदं वहन् ।। ३८ ।। सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः । ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ।। ३९ ।। एवं पञ्चविधस्कन्दो विभागस्थानभेदतः । द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ।। ४० ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः । शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ।। ४१ ।। चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् । सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।। ४२ ।। मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना । शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ।। ४३ ।। ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् । महासेनाय संयुक्तं विद्महे पद संयुतम् ।। ४४ ।। षडाननाय संयुक्तं धीमहीति पदं ततः । तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ।। ४५ ।। गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् । हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ।। ४६ ।। गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः । ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ।। ४७ ।। शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् । देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ।। ४८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ।। ४९ ।। हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् । कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ।। ५० ।। यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् । प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ।। ५१ ।। जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा । परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ।। ५२ ।। प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् । पद्माभनवपञ्चैक संख्या कुण्ड प्रकल्पनम् ।। ५३ ।। पूर्वोत्तरेशसंकॢप्त स्नान वेदिकयान्वितम् । तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ।। ५४ ।। पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे । स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ।। ५५ ।। जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् । गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ।। ५६ ।। आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा । वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्तिः संयुतम् ।। ५७ ।। सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् । शिरः प्रदेशे सूत्राढ्यं कुंभं वस्त्रादिभिर्युतम् ।। ५८ ।। न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् । देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ।। ५९ ।। परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् । सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ।। ६० ।। आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि । न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्यसेत् ।। ६१ ।। मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः । प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ।। ६२ ।। गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः । सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ।। ६३ ।। मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ।। ६४ ।। तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् । गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ।। ६५ ।। सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः । ब्रह्मांगानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ।। ६६ ।। मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् । तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ।। ६७ ।। समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः । पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ।। ६८ ।। शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः । पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ।। ६९ ।। वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् । शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ।। ७० ।। दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् । ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ।। ७१ ।। उद्धृत्य षण्मुखं तं च कुंभाग्नींश्च सु तर्पयेत् । प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ।। ७२ ।। दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः । मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ।। ७३ ।। कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् । विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ।। ७४ ।। सुलग्ने सुमूहूर्ते तु तथा द्वारस्य संमुखम् । अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ।। ७५ ।। देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् । कुंभाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ।। ७६ ।। यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् । पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ।। ७७ ।। तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् । तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ।। ७८ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले । गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ।। ७९ ।। इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् । सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ।। ८० ।। एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः । आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८१ ।। सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् । शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८२ ।। तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः । अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ।। ८३ ।। सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् । गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ।। ८४ ।। आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः । सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ।। ८५ ।। द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा । स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ।। ८६ ।। वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः । शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ।। ८७ ।। शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः । अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ।। ८८ ।। न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः । तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ।। ८९ ।। कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः । भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ।। ९० ।। देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा । सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ।। ९१ ।। आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् । इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ।। ९२ ।। शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् । अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ।। ९३ ।। विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा । अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ।। ९४ ।। अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् । हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ।। ९५ ।। इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् । दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ।। ९६ ।। त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना । लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।। ९७ ।। चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः । इत्थमात्मधाराद्रव्य मन्त्रबिंब विशोधनम् ।। ९८ ।। कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः । प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ।। ९९ ।। अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् । संक्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ।। १०० ।। ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् । विद्यादेहं च संक्ल्प्य तस्मिन्मूलेन षण्मुखम् ।। १०१ ।। हृदयानुगतेनैव पुष्पसंपूर्णसत्करः । आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ।। १०२ ।। निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ।। १०३ ।। महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् । पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ।। १०४ ।। नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु । गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ।। १०५ ।। विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् । वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ।। १०६ ।। चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् । पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ।। १०७ ।। कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः । लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ।। १०८ ।। सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु । तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १०९ ।। हृदा तैलाद्य संकॢप्तिं दद्यात् प्राग्वद् धृदाणुना । आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ।। ११० ।। गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चात् धूपदाना वसानके ।। १११ ।। वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् । तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ।। ११२ ।। ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् । द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ।। ११३ ।। गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् । नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ।। ११४ ।। आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् । मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ।। ११५ ।। जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् । दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ।। ११६ ।। तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह । एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ।। ११७ ।। ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् । तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ।। ११८ ।। अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् । ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ।। ११९ ।। शकुनी रेवती चैव पूतना मण्डपूतना । वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ।। १२० ।। शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः । षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ।। १२१ ।। सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः । सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ।। १२२ ।। कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके । वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ।। १२३ ।। द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् । तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ।। १२४ ।। शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ।। १२४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः पटलः ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ।। वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।। द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु । चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् । नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः वरदाभय संयुक्तः शक्तिद्वययुतो न वा षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः । पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ।। सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः । सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ।। रक्तांबर समायुक्तः बालचन्द्र समप्रभैः । करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।। शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् । दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।। समयूर ध्वजं चैवं अङ्कुशं वरदं वहन् । सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।। ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये । ६५. पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ।। १ ।। पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ।। २ ।। अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके । अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ।। ३ ।। धामलक्षण संसिद्धायामेनापि समन्वितः । एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ।। ४ ।। धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ।। ५ ।। प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः । मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ।। ६ ।। दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः । स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ।। ७ ।। दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च । धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ।। ८ ।। प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकार मण्डपोपेतः परितः परिवारः युक् ।। ९ ।। रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च । महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ।। १० ।। रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः । एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ।। ११ ।। सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ।। १२ ।। इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः । बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ।। १३ ।। द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ।। १४ ।। बलिपीठे बलिर्देयो यथादेशं बलिर्हितः । देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ।। १५ ।। द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ।। १६ ।। प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।। १७ ।। व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः । करालकज्जलाभासो जटिलश्चन्द्रशेखरः ।। १८ ।। चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। १९ ।। अथवा शंख वर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ।। २० ।। पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः । वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ।। २१ ।। अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। २२ ।। स्थानको वासनस्थो वा शयिता सव्यवात्तलः । सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ।। २३ ।। वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः । वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ।। २४ ।। शंकरेक्षण संपन्नश्शोकनम्र शिरास्तु वा । उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ।। २५ ।। एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः । अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ।। २६ ।। चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ।। २७ ।। कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ।। २८ ।। अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ।। २९ ।। सा देवी श्यामला हस्त द्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ।। ३० ।। एवमापाद्य बेरं मनुभिंस्थापनं नयेत् । चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ।। ३१ ।। चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च । चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ।। ३२ ।। ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च । मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ।। ३३ ।। ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः । ओं चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ।। ३४ ।। तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः । अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ।। ३५ ।। ज्ञानशक्ति पदैर्मन्त्रैः र्हुंट्कार समन्वितैः । चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ।। ३६ ।। विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ।। ३७ ।। कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् । सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ।। ३८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ।। ३९ ।। सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः । बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ।। ४० ।। तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् । यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ।। ४१ ।। याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् । नवपञ्चैक संख्यानि वृत्तान्यश्राणि वा द्विजाः ।। ४२ ।। मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह । उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ।। ४३ ।। पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् । जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ।। ४४ ।। कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् । कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ।। ४५ ।। पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु । वासोभ्यां वेष्टयित्वा तु कुंभन्यासं समाचरेत् ।। ४६ ।। चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् । सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ।। ४७ ।। तथा विधघटानष्टौ विन्यसेत् परितो बहिः । चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ।। ४८ ।। सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् । कुंभमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ।। ४९ ।। हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः । घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ।। ५० ।। लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा । गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ।। ५१ ।। आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् । क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ।। ५२ ।। प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा । सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ।। ५३ ।। मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् । संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ।। ५४ ।। कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् । प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ।। ५५ ।। लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः । प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ।। ५६ ।। शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः । तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ।। ५७ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ।। ५८ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य चण्ड बिंबं तु कुंभानग्नींश्च तर्पयेत् ।। ५९ ।। पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः । वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ।। ६० ।। अधमा निष्का तु द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ।। ६१ ।। प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः । सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ।। ६२ ।। देवाग्रस्थण्डिलस्तेभ्यः कुंभेभ्यो देशिकोत्तमः । तत्तत् कुंभगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ।। ६३ ।। स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि । कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ।। ६४ ।। चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा । चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ।। ६५ ।। आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च । विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ।। ६६ ।। लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः । चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ।। ६७ ।। चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते । स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ।। ६८ ।। चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना । द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ।। ६९ ।। आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च । सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ।। ७० ।। अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च । पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ।। ७१ ।। अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् । स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मंत्रशुद्धये ।। ७२ ।। पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे । इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ।। ७३ ।। तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् । दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ।। ७४ ।। संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च । चण्डासनं च मूर्तिं च संक्ल्प्येशाद्यणून् क्रमात् ।। ७५ ।। हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् । बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ।। ७६ ।। न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् । पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ।। ७७ ।। अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि । इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ।। ७८ ।। धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः । हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ।। ७९ ।। परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः । नैवेद्यः तद्विधानोक्तं दत्वा तांबूल संयुतम् ।। ८० ।। पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् । जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ।। ८१ ।। पलाशसमिदाज्यान्नैर्होमं च विभवे सति । मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ।। ८२ ।। नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् । पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ।। ८३ ।। प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा । पादुकाराधनोपेतं प्रविशेदालयं प्रति ।। ८४ ।। एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु । कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ।। ८५ ।। पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने । आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ।। ८६ ।। चण्डेशायेति संक्ल्प्य यच्छिवाय निवेदितम् । नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ।। ८७ ।। गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः । संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ।। ८८ ।। आत्मार्थे च परर्थे च सामान्यमिदमीरितम् । नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ।। ८९ ।। आयु.ः प्रज्ञां सौभाग्यमतुलां श्रियम् । अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ।। ९० ।। विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये । स्नपनं पूर्ववत् किंतु मध्ये चण्डेश्वरं घटे ।। ९१ ।। देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् । अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ।। ९२ ।। रुद्रभक्तादयोऽष्टौस्युर्नवकुंभाभिषेचने । इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ।। ९३ ।। पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् । शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ।। ९४ ।। उत्सवं दमनारोहं पवित्रारोहं नयेत् । दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ।। ९५ ।। नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् । किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ।। ९६ ।। शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह । धजहोम बलिं हित्वा केवलं यानमेव वा ।। ९७ ।। प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् । प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ।। ९८ ।। तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ।। १८१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः पञ्चषष्ठितमः पटलः ।। अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः शंकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ।। पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः । वराभय प्रदानभ्यां अन्यत्र परिमण्डितः ।। अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः । संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः । सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः) वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ।। संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। जटामकुट युक्तो वा धवलीकृत मूर्धजः । स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ।। संकरेक्षण संपन्नः शोकनम्र शिरो तु वा । अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ।। चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः । व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ।। करालकज्जका भासो जटिलश्चन्द्रशेखरः । चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ।। टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। ६६. षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ।। १ ।। स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा । शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ।। २ ।। तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् । शैवाः पाशुपताश्चैव महाव्रत धराश्रये ।। ३ ।। लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः । तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ।। ४ ।। शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् । स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ।। ५ ।। ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ।। ६ ।। स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ।। ७ ।। परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ।। ८ ।। परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते । त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ।। ९ ।। एक विंशति हस्तान्तो विमान व्यास इष्यते । आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ।। १० ।। सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् । आद्येष्टका विधानं च गर्भ संस्थापनं तथा ।। ११ ।। मूर्धेष्टका विधानं च प्राग्देव समीरितम् । तदर्थं शिवलिंगं वा प्रतिमा वा शिवस्य तु ।। १२ ।। स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ।। १३ ।। शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा । अर्ध चित्रमथा भासं पटादि परिकल्पितम् ।। १४ ।। लिंगं चेत् प्रतिमा चेद्वा लिंग बेरोक्त वर्त्मना । मानं तयोश्च संग्राह्या हर्म्याद् गर्भगृहादथ ।। १५ ।। द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु । षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ।। १६ ।। हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् । त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ।। १७ ।। मानमेतत्समाख्यातं जात्यायांश समन्वितम् । वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ।। १८ ।। आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् । नववेदहृदं सप्त नवसंख्याहृतं तु यत् ।। १९ ।। वारोह्यंशस्समाख्यातो यजमानानुकूलितम् । मृतनामाक्षरेणानुकूलितं च विधीयताम् ।। २० ।। लिंगं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ।। २१ ।। मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् । आसीनं स्नानकं वापि वाहनारूढमेव वा ।। २२ ।। आसने स्थानके वाथ पद्मसिंहासनं तु वा । अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ।। २३ ।। यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् । आसनोन्मान विस्तारायामं तद्वदलंकृतिम् ।। २४ ।। प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ।। २५ ।। अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ।। २६ ।। सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः । गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ।। २७ ।। स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।। २८ ।। मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः । ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ।। २९ ।। रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् । स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ।। ३० ।। संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् । हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ।। ३१ ।। ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् । नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ।। ३२ ।। तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया । मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ।। ३३ ।। सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् । धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ।। ३४ ।। दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् । सर्वालंकार संयुक्तं ग्रामादौ भ्रमणं नयेत् ।। ३५ ।। जलाधिवासयेद्बिबं लोकपाल घटान्वितम् । यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ।। ३६ ।। नव पञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् । उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ।। ३७ ।। वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः । प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ।। ३८ ।। जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् । शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ।। ३९ ।। आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् । संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ।। ४० ।। स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते । पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ।। ४१ ।। वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् । बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ।। ४२ ।। उपधानं न्यसेत्प्राच्यां तत्र बिंबं शिरो भवेत् । शिरसश्चोत्तरे भागे कुंभं प्राधानिकं न्यसेत् ।। ४३ ।। अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् । चन्दनोदक संपूर्णान् फा पल्लव संयुतान् ।। ४४ ।। तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते । सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ।। ४५ ।। आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः । सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ।। ४६ ।। विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः । ह्रींकारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ।। ४७ ।। स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते । प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ।। ४८ ।। पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् । वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ।। ४९ ।। स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः । पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ।। ५० ।। परिवार घटे पूज्या अष्टौ वा वसवो मताः । स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ।। ५१ ।। पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च । संपूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ।। ५२ ।। आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् । आत्मानमन्तरात्मानं परमात्मानमेव च ।। ५३ ।। तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् । स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ।। ५४ ।। अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि । इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ।। ५५ ।। तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् । अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ।। ५६ ।। जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् । संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ।। ५७ ।। ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् । प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ।। ५८ ।। तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् । समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ।। ५९ ।। पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् । शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ।। ६० ।। प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् । हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ।। ६१ ।। मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् । कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ।। ६२ ।। स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् । ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ।। ६३ ।। रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह । स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ।। ६४ ।। पञ्च गोचर संजात स्सोष्णीषस्सोत्तरीयकः । पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ।। ६५ ।। तद्वत् संपूजितैर्मूर्ति धारकैरणुजापिभिः । अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ।। ६६ ।। द्वारद्वाराधिपानिष्ट्वा कृतकुंभार्चनो गुरुः । संपूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ।। ६७ ।। उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः । प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ।। ६८ ।। रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् । आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ।। ६९ ।। मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् । संस्नाप्य कुंभपानीयैः परितः स्थापितैरपि ।। ७० ।। वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः । उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ।। ७१ ।। उत्सवं कारयेदन्ते यथा विभव विस्तरम् । ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ।। ७२ ।। आदिशैवकुलोद्भूतः पञ्चगोचर संभवः । आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ।। ७३ ।। कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः । पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ।। ७४ ।। प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् । वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ।। ७५ ।। कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च । परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ।। ७६ ।। प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः । प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ।। ७७ ।। अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये । षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ।। ७८ ।। तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् । तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ।। ७९ ।। जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् । पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ।। ८० ।। संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा । संमृज्य वाससा वस्त्रं गन्धं स धूमकम् ।। ८१ ।। दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् । ताम्बूलं च त्रिसन्ध्यासु दद्यात्संध्याद्वयेऽपि वा ।। ८२ ।। अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा । दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ।। ८३ ।। अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु । स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ।। ८४ ।। मध्य कुंभे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ । स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ।। ८५ ।। एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् । एकावरण संयुक्तमधमं त्विति कीर्तितम् ।। ८६ ।। प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति । भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ।। ८७ ।। संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् । नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ८८ ।। अथवैकदिनं वापि बलिहोम समन्वितम् । ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ।। ८९ ।। धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु । स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ।। ९० ।। भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् । इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ।। ९१ ।। यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके । यागशालां विधानेन कृत्वा वेदि समन्विताम् ।। ९२ ।। पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा । सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ।। ९३ ।। बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः । अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ।। ९४ ।। तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः । स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ।। ९५ ।। प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् । प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ।। ९६ ।। गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् । द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ।। ९७ ।। सायं प्रातर्बलि र्दद्यात् क्षुद्र बिंबसमन्वितम् । बल्यन्ते चोत्सवं कुर्यात् सर्वालंकार संयुतम् ।। ९८ ।। परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् । अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ।। ९९ ।। प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् । शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ।। १०० ।। धजोत्थान विहीनं वा बलिहोमोझितं तु वा । केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ।। १०१ ।। शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः । आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ।। १०२ ।। अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ।। १०२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः पटलः ।। ६७. सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः । सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ।। १ ।। प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके । भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ।। २ ।। अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः । पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ।। ३ ।। व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् । प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ।। ४ ।। भूर्जत्वक्कुलसंभूतं शीतालीदलमेव वा । तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ।। ५ ।। शैलदारुकृतं वापि लेखये दक्षरैः शुभः । मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ।। ६ ।। लिखेत् तूलिकया वापि देशिकः शिष्य एव वा । शुभवारर्क्षयोगादावारभेदनुकूलभे ।। ७ ।। पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः । न समीपे पशूनां तु कुर्यादध्ययनं बुधः ।। ८ ।। नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः । लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ।। ९ ।। गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् । वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ।। १० ।। गोमयालिप्त भूभागे रङ्गलेख समन्विते । प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ।। ११ ।। ज्वलद्दीपसमोपेते शुद्धशैव समावृते । लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ।। १२ ।। नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः । शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ।। १३ ।। ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः । प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ।। १४ ।। अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च । व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ।। १५ ।। पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः । छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ।। १६ ।। इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् । यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ।। १७ ।। शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः । अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ।। १८ ।। शिवविद्यानुसारेण विद्यादानं तदुच्यते । संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ।। १९ ।। प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि । अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ।। २० ।। देशभाषाद्युपायैश्च तथा भूतागमैरपि । प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ।। २१ ।। यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः । तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ।। २२ ।। शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् । इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ।। २३ ।। योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् । स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ।। २४ ।। शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् । प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ।। २५ ।। यावदक्षरं संख्यास्युः शिवज्ञानस्य पुस्तके । तावद्युतसहस्राणि दाता शिवपुरे नरः ।। २६ ।। दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् । मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ।। २७ ।। स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् । अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ।। २८ ।। वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा । श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ।। २९ ।। अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् । शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ।। ३० ।। आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् । मूल्येन कारयेद्वाथ तदेव फलमश्नुते ।। ३१ ।। यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः । स राजा वर्धते स राजाधिप ऊर्जितः ।। ३२ ।। राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ।। ३३ ।। शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः । यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ।। ३४ ।। तथा पाशुपतादीनि गारूडादीन्येनकधा । निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ।। ३५ ।। निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः । बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ।। ३६ ।। तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् । शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ।। ३७ ।। अन्येषामपि सर्वेषा माभिचारादिकम् तु वा । विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ।। ३८ ।। तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् । एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ।। ३९ ।। त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् । विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ।। ४० ।। एक शालादि भेदेन शाला वा लक्षणान्विताः । विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ।। ४१ ।। द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः । तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ।। ४२ ।। चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् । अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ।। ४३ ।। संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः । मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ।। ४४ ।। आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् । शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।। ४५ ।। मध्यमे शिव कुंभं तु पार्श्वयोर्वर्धनीद्वयम् । द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ।। ४६ ।। संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् । समिदाज्यतिलोपेतं हविषा च समन्वितम् ।। ४७ ।। यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् । संप्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ।। ४८ ।। मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ।। ४८१/२ ।। इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः पटलः ।। ६८. अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।। १ ।। गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ।। २ ।। कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ।। ३ ।। जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ।। ४ ।। स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः । तालाष्टांश विवृद्ध्या तु चतुस्तालावसनकम् ।। ५ ।। कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः । तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ।। ६ ।। हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ।। ७ ।। ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते । रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ।। ८ ।। तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा । गव्याभिषेचितं शस्त्र मलंकृत्य नयेत्ततः ।। ९ ।। ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे । प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ।। १० ।। एक वेदि समोपेतं पृथग्वेदियुतं तु वा । मण्डपं दशसंख्यातं प्रपा कुण्डसमन्वितम् ।। ११ ।। पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा । एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ।। १२ ।। इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे । वृत्त कुण्डं भवेदेवं कुण्डानि दश संख्यया ।। १३ ।। ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा । पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ।। १४ ।। शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा । आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ।। १५ ।। जलानीतं च सुस्नातं पूजितं कृतकौतुकम् । शयने शाययेद् बिंबं प्रदक्षिण शिरोन्वितम् ।। १६ ।। वस्त्रैराच्छादयेत्सर्वान् कुंभान् संस्थापयेद् गुरुः । परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ।। १७ ।। स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् । मध्य कुंभे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ।। १८ ।। विदिक्ष्वङ्गानि संपूज्य वाप्तिं पुरुष गोचरम् । स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ।। १९ ।। हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् । पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।। २० ।। शमीखादिर मायूर श्रीवृक्षास्संप्रकीर्तिताः । पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ।। २१ ।। प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् । संपूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ।। २२ ।। स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि । एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। २३ ।। इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः अष्टषष्टितमः पटलः ।। ६९. एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ।। १ ।। गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः । महतामेक भागं तु शूलानां मानमिष्यते ।। २ ।। प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ।। ३ ।। द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा । जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ।। ४ ।। यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् । भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ।। ५ ।। लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते । यजमाननृपग्रामानुकूलं लौकिकं मतम् ।। ६ ।। जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् । अंगुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ।। ७ ।। लौकिकं चान्यधामस्थ बेर साधारणं मतम् । युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ।। ८ ।। तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा । उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ।। ९ ।। तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् । पादमान युतं वाथ तन्मानं च पृथक् पृथक् ।। १० ।। तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः । रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ।। ११ ।। संग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् । पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ।। १२ ।। वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः । मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ।। १३ ।। चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते । मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ।। १४ ।। पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते । पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ।। १५ ।। अर्धपत्रं च पत्राग्रं तु कृशं भवेत् । पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ।। १६ ।। अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः । पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ।। १७ ।। तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि । पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ।। १८ ।। नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा । यवार्धं तु समारभ्य यवपाद विवर्धनात् ।। १९ ।। अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् । मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ।। २० ।। मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि । एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ।। २१ ।। पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः । पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ।। २२ ।। तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः । द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ।। २३ ।। पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् । तस्याधः पालिका कार्या पत्रायामार्ध भागतः ।। २४ ।। हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा । फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ।। २५ ।। पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् । एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ।। २६ ।। पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः । तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ।। २७ ।। पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् । घटवन्नाडिकामानं युघधा विभजेत्त तत् ।। २८ ।। एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका । हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ।। २९ ।। आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः । तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ।। ३० ।। दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा । तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ।। ३१ ।। विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा । पादं वान्तर मानं वा तदुच्चे दशधा कृते ।। ३२ ।। पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् । वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ।। ३३ ।। हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा । मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ।। ३४ ।। अथवा मध्य पत्रस्य मूले वृषभवाहनम् । पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ।। ३५ ।। देव्या समायुतं वाथ वृषभेण युतं न वा । देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ।। ३६ ।। अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् । माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ।। ३७ ।। टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् । पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ।। ३८ ।। शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते । मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ।। ३९ ।। पादेन मध्यमेऽष्टांश मानाद्वा दण्ड विस्तरः । विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ।। ४० ।। यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा । पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ।। ४१ ।। चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् । त्रिशूलापरभागे तु वृषभं वा समालिखेत् ।। ४२ ।। अथवा दण्डमानेन पुरुषं जटिलं तु वा । पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ।। ४३ ।। वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा । सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ।। ४४ ।। तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः । प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ।। ४५ ।। संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् । पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ।। ४६ ।। रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् । अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ।। ४७ ।। विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् । शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ।। ४८ ।। जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् । पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ।। ४९ ।। सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् । वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ।। ५० ।। शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना । ततो बिंबं समानीय स्नापयेत्पूर्ववर्त्मना ।। ५१ ।। कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु । बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ।। ५२ ।। शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् । आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ।। ५३ ।। त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् । शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ।। ५४ ।। चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् । स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ।। ५५ ।। विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् । द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ।। ५६ ।। यद्यस्ति प्रतिमा शर्वे शिवकुंभं च वर्धनीम् । वृषो यद्यस्ति तत्कुंभं तेषु तानर्चयेत्क्रमात् ।। ५७ ।। वज्रादीन् वसुकुंभेषु परितः संस्थितेषु च । तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ।। ५८ ।। पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः । दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ।। ५९ ।। शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः । न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ।। ६० ।। ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् । मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ।। ६१ ।। वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् । षण्मुखं कुंभदेशे तु कुंभस्यास्ये विनायकम् ।। ६२ ।। दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे । तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ।। ६३ ।। दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले । दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ।। ६४ ।। दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा । होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ।। ६५ ।। समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् । पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।। ६६ ।। पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः । प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ।। ६७ ।। पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे । सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ।। ६८ ।। विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् । ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ।। ६९ ।। ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि । तद्दिङ्मूर्त्यादि संयुक्तं पूर्व संख्या समन्वितम् ।। ७० ।। रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि । एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ।। ७१ ।। वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः । वज्रादीन् पंकजे सर्वान् देवान् प्राग्वन्निवेशयेत् ।। ७२ ।। तत्तत् कुंभजलैश्चैव स्नापयेच्छूलमादरात् । स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ।। ७३ ।। अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् । त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ।। ७४ ।। भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ।। ७४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन सप्ततितमः पटलः ।। ७०. सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ।। १ ।। देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः । चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ।। २ ।। तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते । चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ।। ३ ।। चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् । अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ।। ४ ।। नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः । पार्णेय प्रमुखास्तेषां आसनानि बहून्यपि ।। ५ ।। द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः । व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ।। ६ ।। द्वारोदयसमं वाष्ट नवभागोनमेव वा । नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ।। ७ ।। प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् । तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ।। ८ ।। पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु । उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ।। ९ ।। विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् । हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ।। १० ।। चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् । चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ।। ११ ।। अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् । सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ।। १२ ।। अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् । द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ।। १३ ।। पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् । अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ।। १४ ।। सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते । सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ।। १५ ।। पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदांश निर्गमात् । यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ।। १६ ।। एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः । दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ।। १७ ।। पादानामन्तरे पादा भवेयुरुपपीठके । पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ।। १८ ।। मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् । सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ।। १९ ।। एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः । उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ।। २० ।। स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् । मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ।। २१ ।। शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् । दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ।। २२ ।। राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते । त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ।। २३ ।। वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके । वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ।। २४ ।। वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका । सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ।। २५ ।। अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः । अर्धेनैकोनविंशांऽसं भद्रकं परिकीर्तितम् ।। २६ ।। त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके । सार्धार्द्धांश विभागार्धैरेकार्धाष्टांश सार्धकैः ।। २७ ।। अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः । पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ।। २८ ।। पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका । अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ।। २९ ।। आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः । एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ।। ३० ।। एत देव मुखे पृष्टे सौभद्रं संयुतम् । पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ।। ३१ ।। पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् । आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ।। ३२ ।। यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः । तद्विस्तार विभागेन मध्ये मकर तोरणम् ।। ३३ ।। पद्माभिषेक संपन्ना कार्या तोरण मध्यमे । तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ।। ३४ ।। मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता । कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ।। ३५ ।। मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् । अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ।। ३६ ।। स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् । कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ।। ३७ ।। नानारत्नसमोपेत मनन्तफण संयुतम् । विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ।। ३८ ।। वितोरणा विजिर्वाथ आसनं केवलं तु वा । पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ।। ३९ ।। पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् । उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ।। ४० ।। क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः । महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ।। ४१ ।। चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः । अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ।। ४२ ।। पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् । वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ।। ४३ ।। द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् । चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ।। ४४ ।। वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके । वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ।। ४५ ।। आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च । ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ।। ४६ ।। सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः । द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ।। ४७ ।। अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् । एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ।। ४८ ।। कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् । योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ।। ४९ ।। उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः । त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ।। ५० ।। पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् । वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ।। ५१ ।। वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् । श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ।। ५२ ।। नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः । पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ।। ५३ ।। पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते । अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ।। ५४ ।। प्रासाद लक्षणे पूर्वं कथितानि बहूनि च । अधिष्टानि सर्वाणि सोपपीठानि यानि च ।। ५५ ।। संग्राह्याणि च तानीह देशिकैर्नियमावृते । अवलम्बित पादस्याद् देवादीनां विशेषतः ।। ५६ ।। सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् । सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ।। ५७ ।। कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् । यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ।। ५८ ।। यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् । आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ।। ५९ ।। पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् । प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ।। ६० ।। आसनानां च सर्वेषामायादि विधिरुच्यते । परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ।। ६१ ।। बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् । सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद् गुरुः ।। ६२ ।। आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः । शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ।। ६३ ।। तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः । लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ।। ६४ ।। श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः । जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ।। ६५ ।। आसनार्थं च संग्राह्या द्रव्यग्रहणमार्गतः । एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ।। ६६ ।। कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः । शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ।। ६७ ।। पञ्च गव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् । अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ।। ६८ ।। शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् । पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ।। ६९ ।। स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः । गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ।। ७० ।। सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् । नमस्कार समोपेतं स्वबीजेन समन्वितम् ।। ७१ ।। मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः । तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ।। ७२ ।। समिदाज्यचरूंश्चैव तिललाज समन्वितम् । शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ।। ७३ ।। पूर्णाहुतिं ततः कृत्वा शान्तिकुंभांभसा गुरुः । सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ।। ७४ ।। स्नातं शुक्लांबरधरं मकुटेन विभूषितम् । सर्वाभरण संयुक्तं छत्र चामर संयुतम् ।। ७५ ।। सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् । नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ।। ७६ ।। मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् । तद्देव होम संयुक्तमासनाणुभिरन्वितम् ।। ७७ ।। आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः । अष्टदिक्वष्ट कुंभांश्च मध्यमे शक्रशर्वयोः ।। ७८ ।। प्रधान कुंभं संस्थाप्य स्वर्णवस्तादिभिर्युतम् । शिवासनाणु मध्ये च लोकपान् परितो यजेत् ।। ७९ ।। एवमादौ च संपूज्य ततो होमं समारभेत् । संतर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ।। ८० ।। सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः । शिवासनाणुं तन्मध्ये कुंभस्थं विनिवेशयेत् ।। ८१ ।। संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् । संपूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ।। ८२ ।। संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् । सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ।। ८३ ।। आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ।। ८४ ।। अन्येषामासनानां च प्रमाणमभिधीयते । सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ।। ८५ ।। मिश्रलोह शिलावृक्षमृत्सुधारत्न संभवम् । दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ।। ८६ ।। पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु । द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ।। ८७ ।। पञ्चाशनमानजातं तु विस्तारे मानमीरितम् । सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ।। ८८ ।। द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि । आयामे मानमुद्दिष्टं पादानं मानमुच्यते ।। ८९ ।। एकमात्रं समारभ्य व्योममात्र विवृद्धितः । पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ।। ९० ।। अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः । विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ।। ९१ ।। पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः । भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ।। ९२ ।। पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा । ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ।। ९३ ।। केवला वाथवा कार्या स्वशिरः पादसंयुताः । अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ।। ९४ ।। नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः । पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ।। ९५ ।। तदाननेलिकां वाथ फलकां वाथ योजयेत् । तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ।। ९६ ।। पादोर्ध्व फलका वाथ योजनीया यथेष्टतः । यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ।। ९७ ।। फलकासनमाख्यातं स्वर्णादीनां यथार्हकम् वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ।। ९८ ।। रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि । फलकां भूषयेद्वाथ केवला फलकाथवा ।। ९९ ।। तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् । नाना नाटक संयुक्तानयः कीलसमन्वितान् ।। १०० ।। नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा । चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ।। १०१ ।। अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् । आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ।। १०२ ।। त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः । चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ।। १०३ ।। तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् । स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ।। १०४ ।। सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् । फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ।। १०५ ।। तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् । एतेषामासनानां तु संस्कारः प्रागुदीरितः ।। १०६ ।। पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ।। १०६१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः पटलः ।। ७१. एकसप्ततितमे पटले रथादि स्थापन विधिः रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ।। १ ।। त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् । नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ।। २ ।। त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः । भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ।। ३ ।। अक्षोन्तरं समाख्यातं उपधानं द्विजोत्तमाः । पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ।। ४ ।। भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा । पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ।। ५ ।। इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः । यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ।। ६ ।। अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः । बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ।। ७ ।। तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः । स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ।। ८ ।। अक्षवधि विलंबिन्य स्त्वयः पट्टैर्दृढीकृताः । प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ।। ९ ।। शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् । अक्षोर्ध संप्रवेशार्थ मुपाधानन्तु वा नयेत् ।। १० ।। अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् । भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ।। ११ ।। तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् । पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ।। १२ ।। तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् । भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ।। १३ ।। समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते । तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ।। १४ ।। अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः । केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ।। १५ ।। ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् । भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ।। १६ ।। रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् । तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ।। १७ ।। त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः । द्वित्रिवेद महाभूत भाग विस्तार संयुताः ।। १८ ।। द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि । त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ।। १९ ।। योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् । भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ।। २० ।। प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् । चतुर्भागं समारभ्य भागस्याष्ट दशावधि ।। २१ ।। विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनां । चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ।। २२ ।। दशभागा वशानन्तु चक्रनेमि घनञ्चयत् । तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ।। २३ ।। एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः । वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ।। २४ ।। पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा । पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ।। २५ ।। यथाबलं विशालानि तथा विधधनानिच । चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ।। २६ ।। एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् । द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ।। २७ ।। एकद्वित्र्यङ्गुलांधिक्यन्नाभिदेशे भवेत् द्विजाः । तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ।। २८ ।। मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च । त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ।। २९ ।। सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा । ब्रह्मा रथांग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ।। ३० ।। भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते । एकभागा द्विकारान्त मेकभाग विवर्धनात् ।। ३१ ।। तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः । भारबाह्य विवृध्यातु रसभागावसानकाः ।। ३२ ।। एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः । गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ।। ३३ ।। त्रिभागे नैक भागेन मूलादारभ्य कारयेत् । उपान पद्मकंपानि कंपं कर्णञ्च कपकम् ।। ३४ ।। पद्मञ्च वाजनं कंपं दृष्टान्तार्थ मुदाहृतम् । पादोनार्धेन भागेन त्रिभागेन द्विभागतः ।। ३५ ।। त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् । एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ।। ३६ ।। धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् । चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ।। ३७ ।। गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् । उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ।। ३८ ।। उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् । फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ।। ३९ ।। फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् । सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ।। ४० ।। शतांऽसान्तं समुद्दिष्टं तन्मूलं वेद भागतः । वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ।। ४१ ।। षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् । कुंभ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ।। ४२ ।। पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् । तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ।। ४३ ।। वस्वं शांताय संयुक्तं तद्विस्तारोदरान्वितम् । तत्रिपाद विशालं वा तदन्तस्सममानकम् ।। ४४ ।। कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा । बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ।। ४५ ।। भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् । यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ।। ४६ ।। तद्विनिर्गमनोपेत मुपपीठं गलावधि । द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ।। ४७ ।। तत्संबन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः । पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ।। ४८ ।। यथेष्ट घन विस्तारे तत्संबन्धे परेपि वा । भरमूले तदग्रे च समभदे तथानयेत् ।। ४९ ।। अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि । तत्रपादा विधेयास्स्युः उपपीठावसानके ।। ५० ।। फलके द्वे विधातव्ये तत्पादोपरि संस्थिते । तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ।। ५१ ।। भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् । उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ।। ५२ ।। उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् । तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ।। ५३ ।। अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् । पंकित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ।। ५४ ।। पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने । सदन्त गलकंपौच महा वाजन माचरेत् ।। ५५ ।। उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् । प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ।। ५६ ।। एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा । अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ।। ५७ ।। अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः । तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ।। ५८ ।। गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः । सिंह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ।। ५९ ।। तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् । प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ।। ६० ।। त्रिभागन्तु समारभ्य भागभाग विवर्धनात् । नवभागावसानं स्यादलङ्गारश्च कथ्यते ।। ६१ ।। तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः । व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ।। ६२ ।। निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् । प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ।। ६३ ।। एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् । पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ।। ६४ ।। एकादि रसभागान्तं पार्श्वयोरुभयोरपि । प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ।। ६५ ।। रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा । षडादि त्रिंशदंशान्तं समं वा मूलपादतः ।। ६६ ।। प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः । अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ।। ६७ ।। छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः । एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ।। ६८ ।। भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु । न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ।। ६९ ।। पादानां कार्यः प्रस्तराणाञ्च मञ्चतः । प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ।। ७० ।। अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते । रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ।। ७१ ।। भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा । प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ।। ७२ ।। सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् । उपभद्र विहीनं वा भद्रं भारान्तमेव वा ।। ७३ ।। एतत् सर्वं विहायाथ केवलान्तूपपीठकम् । भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ।। ७४ ।। उपपीठं विहायास्मिन् केवलवामसूरकम् । बहिः करणमेवस्या दन्तरत्र निगद्यते ।। ७५ ।। पादवर्गेन्तरे क्षुद्रपादाः कंपोपरिस्थिताः । ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ।। ७६ ।। तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा । विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ।। ७७ ।। तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः । अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ।। ७८ ।। तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः । नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ।। ७९ ।। नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः । कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ।। ८० ।। एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा । पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ।। ८१ ।। वेदतालं समारभ्य तालार्धेन निवर्धयेत् । यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ।। ८२ ।। पाद पाद विवृध्यातु तत्वाङ्गुल समावधि । पाद विस्तार आखातो धाम पादा कृतिर्यथा ।। ८३ ।। अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः । बहुनीव्र समायुक्ताः फलकासु निवेशिताः ।। ८४ ।। तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् । तथैवायसनालैश्च धारस्सुदृधं यथा ।। ८५ ।। पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् । शिखाकरणमार्गेण लुपारोहण क्रियान्विता ।। ८६ ।। सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् । छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ।। ८७ ।। रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् । कथ्यते सचलेशेन विस्तारादायतोपिवा ।। ८८ ।। उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा । वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ।। ८९ ।। सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ । तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ।। ९० ।। शकटे शिबिकादौच शुभेशुभ मुदाहृतम् । रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ।। ९१ ।। उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढं । गोमूत्र गोमयांभोभिः कुशोदैस्तज्जलैरपि ।। ९२ ।। गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् । अस्त्रोदेनापि संप्रोक्षय गन्ध पुष्पादिभिः यजेत् ।। ९३ ।। कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु । वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ।। ९४ ।। मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ । दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ।। ९५ ।। हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् । उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ।। ९६ ।। धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः । अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ।। ९७ ।। फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् । कर्णिकान्नवशक्तींश्च शिवासनं अनुस्मरेत् ।। ९८ ।। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः । शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ।। ९९ ।। पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना । तदग्रे स्थंडिलं कृत्वा तस्मिन् सूत्रांबरान्वितान् ।। १०० ।। हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् । तत्र मध्ये शिवं पूर्वेभानुं इन्दुं तथानले ।। १०१ ।। दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे । वारुणे वृषभं वायावनन्तं विनिवेशयेत् ।। १०२ ।। धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे । गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ।। १०३ ।। संस्थापित घटानांवा समन्ता द्वारथस्यतु । नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ।। १०४ ।। आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् । शिवं साङ्गं प्रधानेतु तर्पयेच्छत संख्यया ।। १०५ ।। भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् । एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ।। १०६ ।। समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् । तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ।। १०७ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिङ्मताः । शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ।। १०८ ।। पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः । पूर्णान्दत्वा द्वितीयेह्नि कृत कुंभाग्नि पूजनः ।। १०९ ।। संप्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।। ११० ।। तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। १११ ।। एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः । इहैव धनवांच्छ्रीमान् वांछितं फलमाप्नुयात् ।। ११२ ।। रथमेवं सुसंकृत्य रथयात्रां समाचरेत् । पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ।। ११३ ।। तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः । षण्णवत्यंश कान्तस्तु शिबिका विस्तरोमतः ।। ११४ ।। त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः । एकोन् द्विशतं याव दायामं परिकल्पयेत् ।। ११५ ।। ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् । पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ।। ११६ ।। पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः । एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ।। ११७ ।। पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् । त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ।। ११८ ।। दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् । वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ।। ११९ ।। विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् । अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ।। १२० ।। वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् । त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ।। १२१ ।। आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ । विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ।। १२२ ।। योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् । विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ।। १२३ ।। त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् । हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ।। १२४ ।। त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः । त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ।। १२५ ।। व्योममात्रं समारभ्य पादमात्र विवृद्धितः । सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ।। १२६ ।। व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि । हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ।। १२७ ।। वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् । अष्टांशादंश वृध्यातु स्वन्न्यास द्विगुणावधि ।। १२८ ।। इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः । किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ।। १२९ ।। पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि । पट्टिका घन विस्तारो यथायोग्यं विधीयते ।। १३० ।। व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः । गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ।। १३१ ।। क्षुद्रकंपैश्च वल्लीभिर्नाराचैः कोणबन्धनैः । यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ।। १३२ ।। झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः । स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ।। १३३ ।। शिबिकालंकृतिं कुर्याद्यथा शोभं यथाबलम् । एषा पैठी समाख्याता शेखरी शिखरान्विता ।। १३४ ।। पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता । शूकः कालश्च तिमिरः पनसो निंबकार्जुनौ ।। १३५ ।। मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः । वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ।। १३६ ।। अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः । वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ।। १३७ ।। तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् । चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ।। १३८ ।। त्र्यंगुलादंगुलद्धर्यातु पञ्चाशत् करजावधि । पाद दैर्घ्यं समाख्यातं द्वयंगुलात् पादवृद्धितः ।। १३९ ।। तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः । अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ।। १४० ।। अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् । तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ।। १४१ ।। फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् । नानापट्ट समायुक्तन्नानावेत्र समायुतम् ।। १४२ ।। नाना नाराच संबन्धं पुलकाद्यैश्च शोभितम् । लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ।। १४३ ।। शिबिकायद्वदायाद्यैः संयुक्तं संपदेभवेत् । पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ।। १४४ ।। प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् । खट्वा पाद समायुक्तं पट्टिकां एक संयुतम् ।। १४५ ।। पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् । निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ।। १४६ ।। इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ।। ७२. द्विसप्ततितमे पटले करणलक्षण विधिः लक्षण करणानां च वक्ष्ये संक्षेपतः क्रमात् । याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ।। १ ।। सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः । त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ।। २ ।। वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः । तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ।। ३ ।। निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः । चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ।। ४ ।। दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः । षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ।। ५ ।। तत्संख्यामात्रदैर्घ्यं स्यात् किंचैकादशमात्रतः । ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ।। ६ ।। ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः । वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ।। ७ ।। ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः । ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ।। ८ ।। उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः । उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ।। ९ ।। अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके । द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ।। १० ।। पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् । अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ।। ११ ।। प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् । ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ।। १२ ।। करे संयोजनीयं स्यात् काले देवार्चनादिके । अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ।। १३ ।। त्रयोविंशतिसंख्यातदर्भैस्स्यान्निर्मितेन च । अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ।। १४ ।। यथेष्टान्तरयुक्तेन लम्बनेन समन्विता । दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ।। १५ ।। रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता । आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ।। १६ ।। तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् । सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ।। १७ ।। द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा । स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ।। १८ ।। पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् । याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ।। १९ ।। शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् । इष्टमानेन खातं स्याच्छिखामानं तथैव च ।। २० ।। विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा । सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ।। २१ ।। पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् । विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ।। २२ ।। यावत्तावद् घनं तेषामिष्टमानेन कारयेत् । एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ।। २३ ।। नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च । षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ।। २४ ।। पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् । अन्तरेष्टविभागे तु नवमानमुदाहृतम् ।। २५ ।। घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि । याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ।। २६ ।। दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् । श्रीवत्सं स्वस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ।। २७ ।। अन्येषामपि देवानां देवीनां चाष्टमङ्गले । वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ।। २८ ।। शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् । ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ।। २९ ।। विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते । पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।। ३० ।। पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् । विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ।। ३१ ।। पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् । तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ।। ३२ ।। स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः । तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ।। ३३ ।। पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् । श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ।। ३४ ।। शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् । श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ।। ३५ ।। स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः । दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ।। ३६ ।। चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् । शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ।। ३७ ।। लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः । पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ।। ३८ ।। एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् । हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ।। ३९ ।। वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् । ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ।। ४० ।। ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः । लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ।। ४१ ।। देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् । जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ।। ४२ ।। नवतालप्रमाणेन तेषां लक्षणमुच्यते । तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ।। ४३ ।। देहलब्धेन तेषां तु प्रमाणं प्रविधीयते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ४४ ।। तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् । मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ।। ४५ ।। लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु । इष्टमानेन चैतेषां विस्तार इह कथ्यते ।। ४६ ।। स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते । तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ।। ४७ ।। षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा । दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ।। ४८ ।। त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला । सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ।। ४९ ।। कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा । कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ।। ५० ।। यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि । नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ।। ५१ ।। शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् । कर्णपार्श्वैकमात्रोनशरावादामुखावधः ।। ५२ ।। कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् । अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ।। ५३ ।। तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् । आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ।। ५४ ।। कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता । तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ।। ५५ ।। दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः । मुष्ट्यष्.आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ।। ५६ ।। अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते । द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ।। ५७ ।। तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः । कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ।। ५८ ।। सप्ताऽऽगुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् । गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ।। ५९ ।। रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् । तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ।। ६० ।। पादं कलशमूले स्यादन्यथा वा निगद्यते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ६१ ।। विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् । विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ।। ६२ ।। त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् । कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ।। ६३ ।। वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् । त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ।। ६४ ।। दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् । अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ।। ६५ ।। त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः । स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ।। ६६ ।। एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् । षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ।। ६७ ।। तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् । गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ।। ६८ ।। पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः । नूतनं करणं श्रेष्ठं पुराणं तदभावतः ।। ६९ ।। पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः । तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ।। ७० ।। सहस्राघोररजापस्यात् पुराणकरणग्रहे । येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।। ७१ ।। तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः । अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ।। ७२ ।। अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् । श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ।। ७३ ।। तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः । तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।। ७४ ।। तेनैवोत्सवकर्माद्यं विहितं मुनिपुंगवाः । स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ।। ७५ ।। समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च । ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ।। ७६ ।। तोरणानि पयोवृक्षजातिलक्षणवन्ति च । पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ।। ७७ ।। वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् । तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ।। ७८ ।। शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् । शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ।। ७९ ।। एकादिवेदहस्तान्ततोरणे क्षुद्रमानके । उदयार्धप्रमाणं वा यादादौ परिपठ्यते ।। ८० ।। इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ।। ७३. त्रिसप्ततितमे पटले सौख्य कर्म विधिः प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च । सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ।। १ ।। सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् । ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ।। २ ।। तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् । अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ।। ३ ।। ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः । देवतारुवने पूर्व विनोदार्थं मया पुरा ।। ४ ।। कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः । तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ।। ५ ।। विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः । तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ।। ६ ।। मदालोकन मात्रेण दधते गर्भमक्षयम् । तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ।। ७ ।। तास्सर्वास्तत्र संपूज्य कानो वृत्तिर्भविष्यति । एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ।। ८ ।। मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि । तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ।। ९ ।। तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने । स्त्रीभिस्तद्वंश जाताभिः पञ्चाचार्य समन्वितम् ।। १० ।। इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले । मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ।। ११ ।। आहूय नन्दिनं चादाय करमध्यगम् । वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ।। १२ ।। ततः प्रभृति वर्तन्ते भुवि नन्दाव्य संज्ञया । यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ।। १३ ।। विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् । नर्तको मर्दकश्चैव गायको वांशिकस्तथा ।। १४ ।। तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः । चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ।। १५ ।। भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः । नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ।। १६ ।। तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् । नर्तने च स्वयं शक्तो मात्रागणन तत्परः ।। १७ ।। मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः । प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ।। १८ ।। गायको गान विद्याज्ञस्सप्तस्वर विशारदः । सप्त स्वर विभेदेन गायको गान नायकः ।। १९ ।। वांऽसिकस्तद्वदेव स्यात् किंतु वंशकृतश्रमः । सौख्ये तु वादयेद्वंश मुदात्तादि विभेदतः ।। २० ।। वादयेन्मुखं सौख्य काले मौर विको मतः । नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ।। २१ ।। गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ । अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ।। २२ ।। ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् । पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ।। २३ ।। अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः । पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ।। २४ ।। मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् । त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ।। २५ ।। देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् । प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ।। २६ ।। युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् । अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ।। २७ ।। पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन । सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ।। २८ ।। तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि । नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ।। २९ ।। आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा । पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ।। ३० ।। आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे । क्षालितं वेत्रमादाय हेतितो येन देशिकः ।। ३१ ।। संस्थाप्य वेत्रं पूर्वाग्रं उत्तराग्रमथापि वा । नन्दिनं तत्र संपूज्य गन्धपुष्पादिभ्र्गुरुः ।। ३२ ।। नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः । श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ।। ३३ ।। संप्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि । तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ।। ३४ ।। शिवायनम इत्येवं समस्तं शिरसि न्यसेत् । गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ।। ३५ ।। नामोक्त्वा नन्दपूर्वं तु संबुध्यन्तं यथा भवेत् । नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ।। ३६ ।। मदीयोत्सव कालादौ तव नृत्तानुकूलतः । एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ।। ३७ ।। तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् । पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ।। ३८ ।। ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् । शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ।। ३९ ।। एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते । देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ।। ४० ।। देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् । विन्यस्य तत्पुरः कुंभं स्वर्णवस्त्रादि संयुतम् ।। ४१ ।। पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् । पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ।। ४२ ।। तदम्भसा तु संप्रोक्ष्य शिरः कूर्चेन संस्पृशेत् । पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ।। ४३ ।। प्रवेशो रुद्रकन्यानामादौ संक्षिप्य कथ्यते । निर्दिष्ट दिवसात् पूर्वं मङ्गलांकुर माचरेत् ।। ४४ ।। प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् । विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ।। ४५ ।। सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः । निष्पाद्य देवदेवेशं पूर्वेद्युस्संप्रपूजयेत् ।। ४६ ।। गन्धाद्यैर्युग संख्याता रुद्रकन्या उपोषिताः । धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ।। ४७ ।। सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः । कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ।। ४८ ।। अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् । संस्थाप्य देव देवेशं सहस्रकलशादिभिः ।। ४९ ।। संपूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् । मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ।। ५० ।। पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः । मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ।। ५१ ।। नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् । साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ।। ५२ ।। नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् । स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ।। ५३ ।। तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् । पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ।। ५४ ।। प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् । सरस्वत्या समोपेतं लोकपालादि संयुतम् ।। ५५ ।। पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् । उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ।। ५६ ।। संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् । आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ।। ५७ ।। होमयेच्छत संख्यातामावृतिं दशसंख्यया । समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ।। ५८ ।। देवं संपूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् । प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ।। ५९ ।। तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् । नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ।। ६० ।। पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः । भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ।। ६१ ।। नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया । कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ।। ६२ ।। पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् । समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ।। ६३ ।। श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ।। ६४ ।। प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् । मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि- गीतयुक्तः । नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे कमलासनाय ।। ६५ ।। भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन । आमोद मत्तरलिभिर्रिकूजत् पुष्पांजलिस्यात् पुरुषोत्तमाय ।। ६६ ।। सान्तानिकादि शिव संस्कृत रुद्रकन्या । नानाविधाभिनयकै रभिवर्धमानः । नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै । पुष्पाञ्जलिर्भवतु मे परमेश्वराय ।। ६७ ।। स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए । उत्सवे स्नपने मासपूजायां होमकर्मणि ।। ६८ ।। धजारोहण कलादौ काम्यादौ च विशिष्यते ।। ६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ।। ७४. चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु । आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ।। १ ।। महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः । संस्कारेण विशेषोऽयंजात्या वैशि.य मुच्यते ।। २ ।। ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि । प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ।। ३ ।। वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा । योगेन क्रियया वाथ चर्ययापि विशिष्यते ।। ४ ।। आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः । तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ।। ५ ।। आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च । दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ।। ६ ।। पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् । मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ।। ७ ।। परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः । स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ।। ८ ।। पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः । क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ।। ९ ।। अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः । ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ।। १० ।। पूजयेद्देव कल्याणे पवित्रारोहणादिके । सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ।। ११ ।। देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः । देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ।। १२ ।। तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् । सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ।। १३ ।। सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः । दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ।। १४ ।। सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् । पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ।। १५ ।। पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ।। १६ ।। सहमार्गी शिवार्चाग्नि जपहोमं परायणः । प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ।। १७ ।। दासमार्गी शिवोद्यानलिंग बिम्बालयादि कृत् । शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ।। १८ ।। एवं बहु प्रकारेण शैवैस्सह विचार्य च । एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ।। १९ ।। इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः पटलः ।। ७५. पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः व्याधिनाश विधानं तु वक्ष्ये संक्षेप्तः क्रमात् । सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ।। १ ।। गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् । ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ।। २ ।। क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने । वात पित्तकफोद्रेके दाहमोह वणोकटे ।। ३ ।। महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे । एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ।। ४ ।। आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते । पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ।। ५ ।। तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे । पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ।। ६ ।। देवालये नदीतीरे पर्वते काननेऽपि वा । अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ।। ७ ।। गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते । लिंगे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ।। ८ ।। शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् । गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ।। ९ ।। स्नपनेन समोपेतं पञ्चगव्यामृतादिना । संपूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ।। १० ।। अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ११ ।। तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् । मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ।। १२ ।। पठित्वा देवदत्तस्य पदं चात्र विशेषतः । एवं जपं विधायैत दिष्टदेवे निवेदयेत् ।। १३ ।। गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् । स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ।। १४ ।। तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके । कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ।। १५ ।। तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् । गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ।। १६ ।। होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा । कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ।। १७ ।। देवं कुंभं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः । होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ।। १८ ।। तत्कुंभसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः । तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ।। १९ ।। रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः । होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ।। २० ।। कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः । गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ।। २१ ।। नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा । शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ।। २२ ।। प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः । चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ।। २३ ।। मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् । यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ।। २४ ।। तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः । एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ।। २५ ।। वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह । बलिरेष समाख्यातो धूपदीपसमन्वितः ।। २६ ।। पताकास्वादुपानीय युक्तसाधारणो मतः । अथवान्य प्रकारेण व्याधिमोचनमुच्यते ।। २७ ।। लिंगादौ देवमभ्यर्च्य जपहोमौ समाप्य च । सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ।। २८ ।। तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् । दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ।। २९ ।। तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा । कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ।। ३० ।। रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः । कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ।। ३१ ।। पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् । अनेन विधिना रोगी अरोगी स्यान्न संशयः ।। ३२ ।। केवलं बलिदानं वा चतुर्मासान्तमेव वा । पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ।। ३३ ।। अथवान्य प्रकारेण व्याधिनाशनमुच्यते । अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ।। ३४ ।। ग्रहणे विषुवे वापि द्वयोरयनयोरपि । स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ।। ३५ ।। गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा । स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ।। ३६ ।। पञ्चविंशति संखायतान् पञ्चसंख्यानथापि वा । एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ।। ३७ ।। ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् । सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ।। ३८ ।। सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् । गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ।। ३९ ।। अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः । तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ।। ४० ।। होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा । शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ।। ४१ ।। तस्मात्तद्भस्म संग्राह्य व्याधितं स्नापयेद् गुरुः । गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ।। ४२ ।। तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् । निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ।। ४३ ।। स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् । प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ।। ४४ ।। कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा । राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ।। ४५ ।। साधयेच्छत संख्यातान् कलशाष्टक संयुतान् । पञ्चाशत् संख्यया तेभ्यो न हीनान् साधयेत्गुरुः ।। ४६ ।। कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते । मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ।। ४७ ।। अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः । आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ।। ४८ ।। अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् । शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ।। ४९ ।। सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके । होमेन समसख्यां वा जप तुल्यं परं मतम् ।। ५० ।। शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् । अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ।। ५१ ।। सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके । कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ।। ५२ ।। पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् । विधाय जपमात्रं वा गोरोचनयुतं तु वा ।। ५३ ।। शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः । संपूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ।। ५४ ।। स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना । लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ।। ५५ ।। दुर्बलो बलवान्धीर स्सर्वैस्संपूज्यते भुवि । कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ।। ५६ ।। नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे । प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ।। ५७ ।। जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः । पूजां होमं च वा नित्यं जपतर्पण संयुतम् ।। ५८ ।। एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते । बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ।। ५९ ।। अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः । तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ।। ६० ।। विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः । सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ।। ६१ ।। गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते । मध्ये वा गजशालायां शूलस्थाने मनोरमे ।। ६२ ।। शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च । विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ।। ६३ ।। नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके । गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ।। ६४ ।। स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः । लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ।। ६५ ।। स कूर्चं सापिधानं च गन्धोदक समन्वितम् । एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ।। ६६ ।। दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् । तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ।। ६७ ।। पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् । सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ।। ६८ ।। कपालशूल संयुक्तं धनुर्बाण समन्वितम् । ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ।। ६९ ।। एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् । पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ।। ७० ।। गन्ध पुष्प समायुक्तं धूपदीप समायुतम् । नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ।। ७१ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ।। ७२ ।। तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके । कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ।। ७३ ।। समिदाज्य चरूपेतं तिलतण्डुल संयुतम् । क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ।। ७४ ।। समिधस्संप्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः । संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ७५ ।। प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् । तद्भस्म संग्रहं कृत्वा देवं कुंभे विसर्जयेत् ।। ७६ ।। तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः । ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ।। ७७ ।। अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च । स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ।। ७८ ।। रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा । बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ।। ७९ ।। गजशाला समीपे वा होमस्थानेऽथवा बैः । एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ।। ८० ।। किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः । गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ।। ८१ ।। सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा । तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ।। ८२ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् । एककालं द्विकालं वा त्रिकालं वा विशिष्यते ।। ८३ ।। नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् । साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ।। ८४ ।। हयानां च गजानां च रक्षणं चान्यथोच्यते । तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ।। ८५ ।। कुंभेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते । अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ।। ८६ ।। तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः । व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ।। ८७ ।। तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् । तन्मध्ये द्रोण संपूर्णं कुंभं विन्यस्य देशिकः ।। ८८ ।। सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् । पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ।। ८९ ।। तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् । चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ।। ९० ।। नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा । ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ।। ९१ ।। समिदाज्य चरूपेतं तिलसर्षप लाजकैः । क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ।। ९२ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । पञ्चाशत्संख्यया वाथ पञ्चविंशति संख्यया ।। ९३ ।। प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् । अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ।। ९४ ।। कुण्डद्वये वा होतव्यं एकस्मिन्स्थण्डिलेऽपि वा । पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ।। ९५ ।। पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् । साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ।। ९६ ।। अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः । कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ।। ९७ ।। अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः । पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ।। ९८ ।। रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः । स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ।। ९९ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् । महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ।। १०० ।। अन्नं मधुघृतोपेतं दधिलाज समन्वितम् । कदलीफल संयुक्त मपूपैश्च समन्वितम् ।। १०१ ।। नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् । दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ।। १०२ ।। विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः । अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ।। १०३ ।। क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् । तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ।। १०४ ।। अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् । तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ।। १०५ ।। दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः । गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ।। १०६ ।। तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् । आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ।। १०७ ।। शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् । कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ।। १०८ ।। व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले । केवलं तर्पणं वाथ पूजां हवन संयुताम् ।। १०९ ।। केवलं यजनं होमं बलिं नित्यं समाचरेत् । मर्त्यानामपि सर्वेषां एतत्सामान्यमुच्यते ।। ११० ।। होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् । केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ।। १११ ।। उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् । शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ।। ११२ ।। द्रोणपूर्णं समादाय कुम्भं बिंब समप्रभम् । तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ।। ११३ ।। तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते । तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ।। ११४ ।। तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् । विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ।। ११५ ।। फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् । एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ।। ११६ ।। छादयित्वा पिधानेन कल्पयेदासनं बुधः । आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ।। ११७ ।। अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् । तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ।। ११८ ।। कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः । मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ।। ११९ ।। तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् । अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ।। १२० ।। चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् । एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ।। १२१ ।। दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् । आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ।। १२२ ।। अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह । चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ।। १२३ ।। नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् । तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ।। १२४ ।। अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः । दत्वा स्वावरणोपेतं निरावरणमेव वा ।। १२५ ।। भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः । असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ।। १२६ ।। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः । तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ।। १२७ ।। अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् । गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ।। १२८ ।। नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् । अघोराय तदस्त्रय पानीयं च निवेदयेत् ।। १२९ ।। विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् । अघोराय तदस्त्राय संनिवेद्य जपं गुरुः ।। १३० ।। तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः । प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ।। १३१ ।। यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् । क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ।। १३२ ।। लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् । ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ।। १३३ ।। होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् । अघोरेण च तद्भस्म संग्राह्यास्त्रेण रक्षयेत् ।। १३४ ।। भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् । होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ।। १३५ ।। प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः । दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ।। १३६ ।। कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् । हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ।। १३७ ।। तस्मादुद्धृत्य कुंभं तु व्याधिस्थभिषेचयेत् । प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ।। १३८ ।। सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् । हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ।। १३९ ।। एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा । पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ।। १४० ।। प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् । यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ।। १४१ ।। पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा । तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ।। १४२ ।। एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये । महिषाज गवामेवं कारयेद्विजसत्तमाः ।। १४३ ।। अथोपयुक्तं यद् द्रव्यं आचार्याय प्रदापयेत् । प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ।। १४४ ।। तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः । एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ।। १४५ ।। होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् । गजानां वा हयानां वा शालायमङ्कणेऽपि वा ।। १४६ ।। तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् । शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ।। १४७ ।। संप्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् । वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ।। १४८ ।। गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् । वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ।। १४९ ।। हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् । अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ।। १५० ।। यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् । नोप सर्गभयं तत्र रोगपीडा न विद्यते ।। १५१ ।। उत्पन्नरोग नाशश्च भवत्येव न संशयः । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। १५२ ।। अघोरस्य तदस्त्रस्य यजनं होम संयुतम् । वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ।। १५३ ।। आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः । अनेन सदृशो योगो दुरिक्षयहेतुकः ।। १५४ ।। नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ।। १५४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः पञ्चसप्ततितमः पटलः ।। ७६. षट्सप्ततितमे पटले राज रक्षा विधिः राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः । भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ।। १ ।। ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः । ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ।। २ ।। ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः । मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ।। ३ ।। ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु । दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ।। ४ ।। ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः । स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ।। ५ ।। सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः । प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ।। ६ ।। स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् । वौषडंतं तु शूद्राणां तद्देव ध्यान सम्युतम् ।। ७ ।। स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् । दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ।। ८ ।। स्वानुकूलानु संजप्तमथवा विनिवेदयेत् । यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ।। ७७. सप्तसप्ततितमे पटले दुर्गा पूजा विधिः दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् । लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ।। १ ।। कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ।। २ ।। आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता । सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ।। ३ ।। अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ।। ४ ।। सन्तर्जयति हुंकारैः खड्गोपान्तकरान् परान् । तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ।। ५ ।। सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते । भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ।। ६ ।। तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः । पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ।। ७ ।। गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने । प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ।। ८ ।। मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः । मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ।। ९ ।। राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च । पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ।। १० ।। तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः । तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ।। ११ ।। समिदाज्येन हविषा पायसेन च होमयेत् । हुतशेषं तुरङ्गानां गजानामुपहारयेत् ।। १२ ।। बद्ध प्रतिसरान् पञ्च गजाश्वान् समलंकृतान् । भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ।। १३ ।। प्रत्यहं नृपतिः स्वाः स्वाः संपूज्य पितृदेवताः । पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ।। १४ ।। नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः । हुतशेषं प्रदातव्यमौपनायनिके गजे ।। १५ ।। तस्यापि हरणे राज्ञो विजयस्समुदाहृतः । पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ।। १६ ।। यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्य वृद्धये ।। इति १७ ।। ओं छं छत्राय नमः गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः । ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ।। १८ ।। ओं तुं तुरङ्गाय नमः प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। १९ ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ।। २० ।। यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा । मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २१ ।। सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ।। २२ ।। निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। २३ ।। अं अश्वाय नमः इत्यश्वमन्त्रः शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः । पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ।। २४ ।। ओं ध्वं ध्वजाय नमः काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः । अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ।। २५ ।। गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः । साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ।। २६ ।। कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ।। २७ ।। आं गं गजाय नमः । एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः । भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ।। २८ ।। वने वने प्रसूतास्ते वनयोनिर्महागजः । पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ।। २९ ।। भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ।। ३० ।। श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् । स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ।। ३१ ।। युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः । अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ।। ३२ ।। हस्तिमन्त्रः ओं हं हस्तिने नमः हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः । नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ।। ३३ ।। प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह । गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ३४ ।। व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु । श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ।। ३५ ।। पतन्तु परिशत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ।। ३६ ।। हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा । शोभितासि तथैवाद्य शोभया समयं स्मर ।। ३७ ।। नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ।। ३८ ।। सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः । पूतना रेवती नाम कालरात्रीति याः स्मृताः ।। ३९ ।। दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ।। ३९१/२ ।। पताका मन्त्रः ओं पं पताकाय नमः । असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ।। ४० ।। श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।। ४१ ।। ओं खं खड्गाय नमः नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।। ४२ ।। पिता पितामहो देवस्त्वं मां पालय सर्वदा । शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ।। ४३ ।। रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते । ओं वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।। ४४ ।। तव भूमि प्रधानानां तथा विजयवर्द्धनः । यथा जीमूतघोषेण हृष्यन्ति परवारणाः ।। ४५ ।। तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः । यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ।। ४६ ।। तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे । ओं दुं दुन्दुभये नमः सर्वायुध महामात्र सर्वायुध निषूदन ।। ४७ ।। चाप मां सर्वदा रक्ष साकं सायकसत्तमैः । ओं चं चापाय नमः पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ।। ४८ ।। विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव । ओं शं शङ्खाय नमः शशांकाकार संकाश हिमपिण्डित पाण्डर ।। ४९ ।। प्रोत्साधयाशु दुरितं चामरामर वल्लभ । ओं चं चामराय नमः सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ।। ५० ।। शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ।। ५१ ।। त्वया विस्तारिता चासि देवानां प्रतिपादिता । सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ।। ५२ ।। क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते । ओं क्षुं क्षुरिकाय नमः प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ।। ५३ ।। ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये । यशो देहि सुखं देहि देवो हि भव भूपतेः ।। ५४ ।। ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते । ओं कं कनकदण्डाय नमः विजयी भव देवोऽसि रिपुधाती प्रियंकरः ।। ५५ ।। दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः । एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ।। ५६ ।। तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे । त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ।। ५७ ।। त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः । नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ।। ५८ ।। त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते । ओं सिं सिंहासनाय नमः लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ।। ५९ ।। फलनैवेद्य कुसुमैः धूपदीप विलेपनैः । अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ।। ६० ।। रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् । प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ।। ६१ ।। पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् । राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ।। ६२ ।। स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः । कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ।। ६३ ।। कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः । नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ।। ६४ ।। द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् । अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ।। ६५ ।। तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् । धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ।। ६६ ।। शङ्ख चक्र समायुक्तां सर्वालंकार भूषिताम् । वराक्षमालाः मखरां महिषासुर संस्थिताम् ।। ६७ ।। सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् । चतुर्भुजां वा संपूज्य वरदाभय संयुताम् ।। ६८ ।। शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् । नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ।। ६९ ।। एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये । घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ।। ७० ।। शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया । ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ।। ७१ ।। भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् । कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ।। ७२ ।। भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् । दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ।। ७३ ।। बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा । मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ।। ७४ ।। असुरा यातुधानाश्च मातृसर्प पिशाचकाः । डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ।। ७५ ।। जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः । दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।। ७६ ।। जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः । मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ।। ७७ ।। सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः । इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् । नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ।। ७८ ।। इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ।। ७८. अष्टसप्ततितमे पटले वाजि नीराजन विधिः शान्ति नीराजनाख्यं तु संप्रवक्ष्यामि वाजिनाम् । कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ।। १ ।। नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा । द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ।। २ ।। नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके । अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ।। ३ ।। विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता । विंशद्धस्त समायामायागशालेय मीरिता ।। ४ ।। षट् संमितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् । तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ।। ५ ।। गंभीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् । हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ।। ६ ।। आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् । अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ।। ७ ।। प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् । कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ।। ८ ।। संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः । प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ।। ९ ।। ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च । ततश्चाचल देवाय सेनान्यै धनदाय च ।। १० ।। नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् । जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ।। ११ ।। नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा । स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ।। १२ ।। तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् । विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ।। १३ ।। वाहनागार मागम्य ब्रह्मचर्यसमन्वितः । बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ।। १४ ।। सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः । कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ।। १५ ।। समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् । आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ।। १६ ।। दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् । ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ।। १७ ।। सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् । तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ।। १८ ।। कालद्वये प्रधानस्य तुरगस्य विशेषतः । पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।। १९ ।। निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः । अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ।। उत्तराषाढतरस्य सन्धाने श्रवणस्य च । नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ।। २१ ।। दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ । प्रदक्षिणोदके सौम्ये विशाले द्रुमसंकटे ।। २२ ।। तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् । विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ।। २३ ।। तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् । सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ।। २४ ।। गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह । प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ।। २५ ।। माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् । वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन संज्ञिमम् ।। २६ ।। हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् । स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ।। २७ ।। सहदेवीं नागपुष्पं कपिकच्छुकमेव च । शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ।। २८ ।। कुंभेषु वाष्ट संख्येषु वस्त्रादि सहितेषु च । गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ।। २९ ।। नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् । जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ।। ३० ।। वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः । वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखं ।। ३१ ।। अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके । आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ।। ३२ ।। शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् । श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ।। ३३ ।। होमशेषं तदा पिण्डं पयोदधि समन्वितम् । कदली फल संयुक्तं दद्याद्वाजि वराय च ।। ३४ ।। यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति । केवलस्थैस्तदा तोयै श्शाखयो दुंबरो त्थया ।। ३५ ।। प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः । राजानं हस्तिनं पश्चाच्चमूं संप्रोक्ष्य त्तदा ।। ३६ ।। शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् । आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ।। ३७ ।। हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् । राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ।। ३८ ।। एवमेव गजादीनां तदा नीराजनं नयेत् । किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ।। ३९ ।। पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् । गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ।। ४० ।। वेदिका चतुरश्रा च गजभूमिरथोच्यते । शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ।। ४१ ।। पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ।। ४२ ।। इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः पटलः ।। ७९. एकोनाशीतितमे पटले राज नीराजन विधिः कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे । वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ।। १ ।। ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः । वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ।। २ ।। बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा । संपूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ।। ३ ।। तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् । विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ।। ४ ।। गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः । नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ।। ५ ।। त्रासयन्विघ्नजालं च घण्टानाद महारवैः । नीराजयेद्विशेषेण राजानं देशिकोत्तमः ।। ६ ।। तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः । सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ।। ७ ।। नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् । रूपयौवन संपन्न वेश्याभिर्वाथ कारयेत् ।। ८ ।। यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः । तेषां राजा सुखं याति सुभिक्षं जायते तथा ।। ९ ।। चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ।। ९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः पटलः ।। == अशीतितमे पटले पुष्याभिषेक विधिः == पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् । सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ।। १ ।। पुण्ये मनोरमे देशे रविहस्त प्रमाणतः । कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ।। २ ।। द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् । दर्पणोदरसंकाशं मण्डनैरुपशोभितम् ।। ३ ।। तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः । वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ।। ४ ।। चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् । पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ।। ५ ।। एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् । पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ।। ६ ।। उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः । कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ।। ७ ।। दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः । दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ।। ८ ।। आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ।। ९ ।। आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः । पूर्वं स्वपूजां संप्राप्य दत्वा शान्तिं महीपतेः ।। १० ।। एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् । शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ।। ११ ।। मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् । मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ।। १२ ।। यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः । पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ।। १३ ।। मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् । सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ।। १४ ।। तद्दक्षिणे विधातव्यं आसनं पाद संयुतम् । सोपान सहितं कुर्यादिष्टमान समन्वितम् ।। १५ ।। श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् । कुर्यात् प्रतिसरं रात्रौ सर्वालंकरा संयुतम् ।। १६ ।। प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् । चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ।। १७ ।। षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते । शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ।। १८ ।। नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः । भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ।। १९ ।। वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् । स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ।। २० ।। हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् । स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ।। २१ ।। पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः । उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ।। २२ ।। तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः । मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ।। २३ ।। हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् । श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ।। २४ ।। रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् । नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ।। २५ ।। अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः । पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ।। २६ ।। भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् । माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ।। २७ ।। पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् । द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ।। २८ ।। समन्तादेक भागेन वर्षकं स्यादिलावृतम् । एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ।। २९ ।। एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् । वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ।। ३० ।। तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् । श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ।। ३१ ।। पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् । अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ।। ३२ ।। जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः । जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ।। ३३ ।। शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः । बहिस्समुद्रा दीपाश्च सप्तसंख्याः प्रकीर्तिताः ।। ३४ ।। जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः । तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ।। ३५ ।। क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि । दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ।। ३६ ।। रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा । जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश संज्ञकः ।। ३७ ।। कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा । तस्माद् गोभेद संञश्च गोभेदात् पुष्कलं पुनः ।। ३८ ।। ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः । अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ।। ३९ ।। दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् । तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ।। ४० ।। सहस्रदश विस्तीर्णो देवानामाश्रमो मतः । हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ।। ४१ ।। ध्वजश्चण्डस्य कंलासः कदली बक एव च । वडवामुखो द्विपादः कारकः स्मृतः ।। ४२ ।। ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः । प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ।। ४३ ।। उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः । चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ।। ४४ ।। वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः । निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ।। ४५ ।। प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता । मांसेनान्नेन संपूज्य मद्यैः प्रतिसरादिभिः ।। ४६ ।। श्वेता चले दितसुता दानवाश्च समीरिताः । हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ।। ४७ ।। एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः । द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ।। ४८ ।। यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः । गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ।। ४९ ।। वामनश्च मरीचिश्च तथेक्षुप उदाहृतः । भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ।। ५० ।। दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः । मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ।। ५१ ।। देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः । वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ।। ५२ ।। स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः । चन्द्रतापन संज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ।। ५३ ।। स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः । आभिलोकः सुकेशश्च मलयो मलकस्तथा ।। ५४ ।। नयश्च नगमूर्धा च महोदर उदाहृतः । प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव संज्ञकः ।। ५५ ।। विरूपाक्षश्चरूपथो हरो राजा उदाहृतः । हिरण्य युक् शतमखश्शंबरश्शरभो मयः ।। ५६ ।। शरभयस्सूर्य संज्ञश्च चन्द्रमास्स उदाहृतः । चतुष्षष्टिश्च संज्ञानां पूजाश्चैषां च पूर्ववत् ।। ५७ ।। शृङ्गवत्यचले पूज्याः पितरसमुदाहृता । सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ।। ५८ ।। सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः । क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ।। ५९ ।। सप्तभिश्च गणैरेक विंशतिस्संख्यया मताः । अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ।। ६० ।। हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः । अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ।। ६१ ।। तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः । नीलाचले च ऋषयः संपूज्या काश्यपादयः ।। ६२ ।। काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ।। ६३ ।। पुलस्त्यः पुलहश्चैव क्रतुश्चैवांगिरा भृगुः । सनत्कुमारस्सनकः सनन्दश्च सनातनः ।। ६४ ।। दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च । द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ।। ६५ ।। कण्.वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः । शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ।। ६६ ।। च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः । यवक्रीतदेवरातौ देवराजोऽजकस्तथा ।। ६७ ।। चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः । ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ।। ६८ ।। निषधे पर्वते नाना अनन्ताद्या उदाहृतः । अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ।। ६९ ।। पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः । गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ।। ७० ।। सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् । देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ।। ७१ ।। धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ।। ७२ ।। अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ।। ७३ ।। सावित्रश्च जयन्तश्च पिनाकी चापराजितः । रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ।। ७४ ।। त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः । सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ।। ७५ ।। प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः । यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ।। ७६ ।। दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते । गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ।। ७७ ।। सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् । सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ।। ७८ ।। द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः । उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ।। ७९ ।। साधनश्चैव सन्धिश्च कुहरश्च करालकः । कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ।। ८० ।। हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः । अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ।। ८१ ।। ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः । स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ।। ८२ ।। रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश । मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ।। ८३ ।। घृतस्थला घृताची च विश्वाची पूर्वचित्तिका । प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ।। ८४ ।। रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः । दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ।। ८५ ।। अग्निभत्री च हेमा वै मेनका चोर्वशी ततः । चौर्विंशति संख्याताः सुगन्धैश्च् सुमाल्यकैः ।। ८६ ।। यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः । यक्षान्संपूज्येत्ते च महावैश्रवणस्तथा ।। ८७ ।। माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः । विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ।। ८८ ।। सर्ववर्णक बलिभिः पूज्य सूत्रादि कंददेत् । ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ।। ८९ ।। प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च । सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ।। ९० ।। एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः । दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ।। ९१ ।। नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह । ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ।। ९२ ।। सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् । संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ।। ९३ ।। दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै । आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ।। ९४ ।। बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ । एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ।। ९५ ।। पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे । धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ।। ९६ ।। उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ । भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ।। ९७ ।। वाराही वैष्णवी चैव कौमारी च ततो मताः । माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ।। ९८ ।। स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः । इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ।। ९९ ।। वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः । शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ।। १०० ।। पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि । आयता व्ययनी चैव प्रज्ञा मेना बला ततः ।। १०१ ।। एताः सुरस्त्रियः प्रोक्ता स्संख्यया च चतुर्दश । नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ।। १०२ ।। प्रतिसरं च वस्त्रं च पताका भूषणं तथा । यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ।। १०३ ।। सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः । ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ।। १०४ ।। ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् । अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ।। १०५ ।। संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश । सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ।। १०६ ।। ज्योतिष्टोमत्रयं पूर्वं अभया चापराजिता । जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ।। १०७ ।। सहा च सहदेवा च पूर्णकोशा शतावरी । अरिष्टा च शिवा भद्रा कुंभेष्वेतानि विन्यसेत् ।। १०८ ।। ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् । मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ।। १०९ ।। रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् । प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ।। ११० ।। आदावाडुहं चर्म जरया संभृतायुषः । प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ।। १११ ।। ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् । सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ।। ११२ ।। चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् । पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ।। ११३ ।। तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् । सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ।। ११४ ।। सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा । सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ।। ११५ ।। अनन्तरचितं मध्यमेवं वा परिकल्पयेत् । श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य संमतम् ।। ११६ ।। तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे । कृतस्नानं विलिप्ताङ्गं सर्वालंकार संयुक्तम् ।। ११७ ।। निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु । दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ।। ११८ ।। वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् । गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ।। ११९ ।। अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः । कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ।। १२० ।। आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् । आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ।। १२१ ।। भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् । सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ।। १२२ ।। उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः । विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ।। १२३ ।। अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः । सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।। १२४ ।। ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः । आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ।। १२५ ।। अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती । कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ।। १२६ ।। नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ।। १२७ ।। सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः । अदितिस्सुरसा चैव विनता कद्रुरेव च ।। १२८ ।। देव पत्न्यश्च याश्चोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ।। १२९ ।। वैमानिकास्सुरगणा मनवस्सागरैस्सह । सरितश्च महाभागाः किन्नराः पुरुषास्तथा ।। १३० ।। वैखानसा महाभागा द्विजा वैहायसाश्चये । सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ।। १३१ ।। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ।। १३२ ।। सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः । एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ।। १३३ ।। दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा । मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ।। १३४ ।। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः । द्वैपायनो यवक्रीतो देवरातस्सहानुजः ।। १३५ ।। एते वान्ये च बहवः पुण्यसंकीर्तनाशुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ।। १३६ ।। एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः । महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ।। १३७ ।। जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः । जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ।। १३८ ।। अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः । कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ।। १३९ ।। ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् । आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ।। १४० ।। ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् । अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ।। १४१ ।। परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् । सर्वालंकार संयुक्तं होमवेदीं प्रविश्य च ।। १४२ ।। वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च । सिंहस्य व्याघ्र संज्ञस्य चर्माण्यास्तीर्य तत्र च ।। १४३ ।। कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः । होमंकुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ।। १४४ ।। पलाश समिधो मृत्युजित्परमो मतः । होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ।। १४५ ।। यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ।। १४६ ।। तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् । नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ।। १४७ ।। ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः । प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ।। १४८ ।। दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः । ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ।। १४९ ।। सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये । सार्वभौम प्रसिद्ध्यर्थं आयुरारोग्यसिद्धये ।। १५० ।। सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु । पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ।। १५१ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः पटलः ।। == एकाशीतितमे पटले ग्रह यज्ञ विधिः == ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् । सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ।। १ ।। नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा । पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ।। २ ।। अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः । राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ।। ३ ।। प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः । तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ।। ४ ।। दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् । ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ।। ५ ।। भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ।। ६ ।। कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च । ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ।। ७ ।। सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा । दीपः प्रोक्ततस्तु नैवेद्यं शलि संभव मुच्यते ।। ८ ।। चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् । कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ।। ९ ।। होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् । अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ।। १० ।। अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् । पलाशः खदिरो वाथ स्वस्मित् कुश संभवे ।। ११ ।। क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ । स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ।।१२ ।। होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ।। १३ ।। इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ।। == द्वयशीतितमे पटले प्रतिसर विधिः == राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि । निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ।। १ ।। विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः । स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ।। २ ।। श्वेत तण्डुल संपूर्णं पुण्याह प्रोक्षणान्वितम् । यज्ञ सूत्रं च वलयं अङ्गुलीयकमेव च ।। ३ ।। कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् । प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ।। ४ ।। संपूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् । ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ।। ५ ।। वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् । बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ।। ६ ।। कौतुकं हृदयेनैव तेनैव भसितं तथा । चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ।। ७ ।। मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् । ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ।। ८ ।। दूर्वाग्रं केवलं निर्मितं राजतं तु वा । आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ।। ९ ।। पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः । सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ।। १० ।। मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः । पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ।। ११ ।। कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् । सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ।। १२ ।। सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् । पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ।। १३ ।। दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् । बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ।। १४ ।। सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः । ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ।। १५ ।। बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् । नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ।। १६ ।। समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः । देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ।। १७ ।। ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः । अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ।। १८ ।। अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् । इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः पटलः ।। == त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः == वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये । ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ।। १ ।। ग्रहणादिषुकालेषु शुभे देशे विशेषतः । हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ।। २ ।। कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् । नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ।। ३ ।। विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् । तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ।। ४ ।। चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् । दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ।। ५ ।। अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् । सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ।। ६ ।। बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये म्तः । पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ।। ७ ।। एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते । सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ।। ८ ।। उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् । अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ।। ९ ।। पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् । पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ।। १० ।। द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् । तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ।। ११ ।। अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् । षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ।। १२ ।। अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः । षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ।। १३ ।। अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् । तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ।। १४ ।। ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् । मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ।। १५ ।। जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् । उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ।। १६ ।। शङ्कुं सुषिर संपन्नं वलयेन समन्वितम् । सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ।। १७ ।। एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ । चतुष्कुण्डल संयुक्तौ हस्तप्रमाण संमितौ ।। १८ ।। प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि । यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ।। १९ ।। स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् । कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ।। २० ।। खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् । तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ।। २१ ।। एवं सर्वं समापाद्य शिल्पिमोक्षावसानके । पुण्याहं वाचयित्वा तु मण्डपे समलंकृते ।। २२ ।। मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते । मण्डलं कारयेद्धीमान् सर्वतोभद्र संज्ञंकम् ।। २३ ।। वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च । शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ।। २४ ।। मध्यमे देवदेवेशं वामे गौरी समायुतम् । संपूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ।। २५ ।। वाम् संपूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् । सूर्यं मध्येऽग्नि देशे तु भारकरंनै-ऋतेऽथवा ।। २६ ।। भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् । उषां प्रभां तथा प्रज्ञां संन्ध्यां सावित्रिमर्चयेत् ।। २७ ।। मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् । विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ।। २८ ।। प्रभूतं विमलं सारमारध्यं पूर्वदेशतः । उत्तरान्तं च संपूज्य सुखं मध्ये प्रजूजयेत् ।। २९ ।। बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् । रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ।। ३० ।। दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः । सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ।। ३१ ।। ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते । प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ।। ३२ ।। गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः । स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ।। ३३ ।। शिवाग्निं स्वस्व शास्त्रोक्तं संपाद्याग्नि मुखान्वितम् । लोकेश सहितं देवं समावाह्य समर्चयेत् ।। ३४ ।। नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् । समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ।। ३५ ।। शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः । शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ।। ३६ ।। क्षीराक्त दूर्वयाहोमं पञ्चविंशति संख्यया । मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ।। ३७ ।। बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् । मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ।। ३८ ।। पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् । सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ।। ३९ ।। महा पूजा च कर्तव्या प्रभूत हविषान्विता । पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।। ४० ।। ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् । आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ।। ४१ ।। सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् । कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ।। ४२ ।। आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् । पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ।। ४३ ।। सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् । रुद्रगायत्रि संज्ञंतु यजमानस्तदा जपेत ।। ४४ ।। घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् । पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ।। ४५ ।। आलोक्य काञ्चनंतत्स्थं कूर्च हस्तो हरंस्मरन् । वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ।। ४६ ।। जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि । स्वकायेन तदायेन तुलारोहः कृतोभवेत् ।। ४७ ।। शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् । देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ।। ४८ ।। देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः । होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ।। ४९ ।। शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु । ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ।। ५० ।। यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् । शिवार्चकस्य पूजा च प्राग्व देव समीरिता ।। ५१ ।। तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क संमिता । तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।। ५२ ।। मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् । देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ।। ५३ ।। तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् । यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ।। ५४ ।। एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ।। ५५ ।। इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः पटलः ।। == चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः == हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् । कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ।। १ ।। तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा । त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ।। २ ।। द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् । वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ।। ३ ।। तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् । एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ।। ४ ।। एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् । पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ।। ५ ।। विकारांशं तु तन्कृत्वा एकैकांश विवर्धनात् । अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ।। ६ ।। अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः । त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ।। ७ ।। पादुकोत्सेधमानं तु तदर्धं पादमेव वा । त्रिपादं वा समं वापि फलकाधनमिष्यते ।। ८ ।। पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः । मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ।। ९ ।। शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् । आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ।। १० ।। स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् । कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ।। ११ ।। तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् । नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ।। १२ ।। प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि । ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ।। १३ ।। गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् । पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ।। १४ ।। प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् । छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ।। १५ ।। तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः । कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ।। १६ ।। कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् । आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ।। १७ ।। भार्यादक्षपुटे दूर्वारससेचन माचरेत् । एकविंशति संख्यातानुदुम्बर फलान्वितान् ।। १८ ।। कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च । त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ।। १९ ।। भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् । भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ।। २० ।। हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् । अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ।। २१ ।। एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ।। २१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः पटलः ।। == पञ्चशीतितमे पटले तिलपर्वतदान विधिः == तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः । पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ।। १ ।। बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् । पञ्चगव्येन संप्रिक्ष्य मण्डलं मध्यकल्पितम् ।। २ ।। संछाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च । पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ।। ३ ।। वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः । तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ।। ४ ।। दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा । कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ।। ५ ।। दण्डमानसमं वाथ हीनं नैव समाचरेत् । वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ।। ६ ।। देशं संक्ल्पयित्वा तु पूयत्तु विशेषतः । निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ।। ७ ।। शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् । तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ।। ८ ।। अर्चयेच्च विधानज्ञो यजमानेन देशिकः । दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ।। ९ ।। अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः । अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ।। १० ।। अत्रानुक्तं तु यत् किंचिदर्चनं होममेव वा । स्नपनं देव देवस्य सहस्रकलशादिभिः ।। ११ ।। प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् । विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ।। १२ ।। दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् । अस्मात्परतरं दानं नास्तीह भुवनत्रये ।। १३ ।। अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् । सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ।। १४ ।। गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः । तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ।। १५ ।। कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् । दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ।। १६ ।। तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् । तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ।। १७ ।। अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु । अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ।। १८ ।। कृत्वा संपूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् । दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ।। १९ ।। ।। इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः पटलः ।। == षड्शीतितमे पटले सुवर्ण भूमिदान विधिः == सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः । काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ।। १ ।। एकहस्त प्रमाणेन सप्तद्वीपसमन्विता । समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ।। २ ।। मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा । अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ।। ३ ।। पूर्ववद्देवपूजां च होमं चैव विशेषतः । मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ।। ४ ।। सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् । पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ।। ५ ।। शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः पटलः ।। == सप्ताशीतितमे पटले कल्पपादपदान विधिः == कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः । पादपं शतनिष्केण सुवर्णे समाचरेत् ।। १ ।। बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् । नानाफलसमायुक्तं सर्वशोभासमन्वितम् ।। २ ।। शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् । छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ।। ३ ।। कारयेत् पल्लवानीह प्रवालैश्च विशेषतः । फलानि पद्मरागैश्च विविधानि समाचरेत् ।। ४ ।। नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् । वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ।। ५ ।। मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा । स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ।। ६ ।। इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु । वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।। ७ ।। शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा । स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ।। ८ ।। मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् । पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ।। ९ ।। लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः । ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ।। १० ।। अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः पटलः ।। == अष्टाशीतितमे पटले गणेश दान विधिः == गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् । पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ।। १ ।। तन्मध्यमे यजेद्देवं लोकपाल समावृतम् । तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ।। २ ।। सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् । तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ।। ३ ।। प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च । ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ।। ४ ।। उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः । तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ।। ५ ।। अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ।। ६ ।। इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः पटलः ।। == एकोननवतितमे पटले हेम धेनुदान विधिः == हेम धेनु प्रदानं तु वक्ष्ये संक्षेपतः क्रमात् । सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ।। १ ।। काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः । तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ।। २ ।। गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् । पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ।। ३ ।। भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके । पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ।। ४ ।। गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च । वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ।। ५ ।। वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् । सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ।। ६ ।। पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः । अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ।। ७ ।। अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् । क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ।। ८ ।। त्रिंऽसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने । अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः पटलः ।। == नवतितमे पटले लक्ष्मीदान विधिः == महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते । काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् । अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ।। २ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ।। ३ ।। श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् । विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ।। ४ ।। पूजयेच्छिव पूजां च होमं चैव विशेषतः । एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ।। ५ ।। स्नपनं देव देवस्य सहस्र कलशादिभिः । पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ।। ६ ।। इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ।। == एकनवतितमे पटले तिलधेनु दान विधिः === तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् । पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ।। १ ।। तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् । अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ।। २ ।। वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् । त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ।। ३ ।। पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् । तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र संख्यया ।। ४ ।। रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् । विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ।। ५ ।। दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् । षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ।। ६ ।। अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च । पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ।। ७ ।। प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः । तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ।। ८ ।। इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु । हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ।। ९ ।। प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। १० ।। तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च । केवलं रुद्रदानं वा सूर्यदान मथापि वा ।। ११ ।। मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् । पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ।। १२ ।। दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ।। १२१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः ।। == द्विनवतितमे पटले सहस्रगोदान विधिः == गवां सहस्र संख्यानां दानं वक्ष्यामि सिद्धये । सवत्सस्सगुणा एव संग्राह्या गुणवत्तराः ।। १ ।। अष्टौ संपूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः । शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ।। २ ।। कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः । मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।। ३ ।। पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् । स्नपनं च शिवस्याथ सहस्र कलशादिभिः ।। ४ ।। शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् । दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ।। ५ ।। दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते । गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ।। ६ ।। गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् । अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः ।। == त्रिनवतितमे पटले हिरण्याश्व दान विधिः == हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते । अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ।। १ ।। अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः । अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ।। २ ।। पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् । सर्वालंकार संयुक्तं कलाद्यैश्च समन्वितम् ।। ३ ।। मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ।। ४ ।। गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् । सुरेन्द्र बुद्ध्या संपूज्य पञ्च निष्कं प्रदाय च ।। ५ ।। दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः । मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ।। ६ ।। इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः ।। == चतुर्नवतितमे पटले कन्यादान विधिः == सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः । सर्व लक्षण संपन्नां दोष विवर्जिताम् ।। १ ।। विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् । दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ।। २ ।। उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः । संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ।। २३ ।। संभूष्य कन्यकां दद्याद्यागाय विधिनामुना । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। २४ ।। तत्र संपूज्य देवेशं कुर्यात् होमं च पूर्ववत् । नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ।। २५ ।। संपूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः । पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ।। ६ ।। ग्रहोपकरणोपेतं दासी दासमनुत्तमम् । दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ।। ७ ।। एवं यः कारयेद्दानं कन्यायास्सुखमेधते । कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ।। ८ ।। इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः ।। == पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः == हिरण्योक्ष प्रदानं तु संक्षेपेणाधुनोच्यते । काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः । वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ।। २ ।। स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् । कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ।। ३ ।। घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् । वृषाङ्गं कारयेद् विद्वान् किंकिणी मालयावृतम् ।। ४ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ।। ५ ।। गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् । पूर्ववच्छिवपूजा च होमं चैव विशेषतः ।। ६ ।। शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् । समिदाज्य चरूपेतं शान्ति होममथापि वा ।। ७ ।। चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ।। ८ ।। इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः पटलः ।। == षण्णवतितमे पटले गजदान विधिः == अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः । गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ।। १ ।। सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः । अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ।। २ ।। पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् । गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ।। ३ ।। पूर्ववच्छिव पूजा च होमयेच्च विशेषतः । शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ।। ४ ।। अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ।। ४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ।। == सप्तनवतितमे पटले लोकपालाष्टकदान विधिः == अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् । प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ।। १ ।। पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः । शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ।। २ ।। उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् । अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ।। ३ ।। एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् । दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ।। ४ ।। वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा । अत्रानुक्तं तु यत् किंचित् तुलाभारवदाचरेत् ।। ५ ।। लोकेशादनमेव स्यात् सर्वसंपत् समृद्धिदम् । परचक्रप्रमथनं गजवाजिविवर्धनम् ।। ६ ।। पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ।। इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः सप्तनवतितमः पटलः ।। == अष्टनवतितमे पटले स्दानोत्तम विधिः == सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् । मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ।। १ ।। प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् । मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ।। २ ।। गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः । ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ।। ३ ।। शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः । चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ।। ५ ।। तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् । शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ।। ६ ।। पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् । अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ।। ७ ।। इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ।। l2yio8fmy9kiasw9silzd3434pe68ul 418670 418669 2026-09-30T04:59:16Z ~2026-52344-15 10772 /* एकादशे पटले माघे शिवरात्रिपूजाविधिः */ 418670 wikitext text/x-wiki {{header | title = कामिकागमः - उत्तरभागः | author = | translator = | section = | previous = | next = | year = | notes = }} == प्रथमः पटलः पश्चिमद्वारार्चनविधिः == पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा । मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ।। १ ।। राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् । प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ।। २ ।। सूर्यश्चेत्यादिभिर्मन्त्रैः संध्यासु तिसृषूदकम् । पीत्वा संमार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ।। ३ ।। ओं भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथांजलिम् । पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ।। ४ ।। एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये । श्रुति स्मृत्यादि संसिद्धिं अनुष्ठानन्तु यद्भवेत् ।। ५ ।। आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा । संध्यायां वन्दने वापि तर्पणे होमकर्मणि ।। ६ ।। गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् । कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ।। ७ ।। स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च । व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ।। ८ ।। समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः । त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ।। ९ ।। करन्यासं ततः कृत्वा सुषिरं देहमध्यमे । ध्यात्वा ज्वलन्तं हुंकारं प्राणान् संयम्य निश्चलम् ।। १० ।। फट्कारान्तं तु तेनैव रेचकेन समन्वितम् । पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ।। ११ ।। मूर्ति मन्त्रेण संगृह्य जीवं हुंकार मूर्धनि । कुंभकेन समोपेतं वायुमूर्ध्वगतं नयेत् ।। १२ ।। तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् । आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ।। १३ ।। निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् । व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ।। १४ ।। दहनं वाथ भूतानां परस्पर विशोधनम् । मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ।। १५ ।। शोध्यो परागरहितं कलामात्र व्यवस्थितम् । विचिन्त्य दिव्यदेहार्थ ममृताप्लावनं नयेत् ।। १६ ।। ध्यात्वा कुण्डलिनीं शक्तिं अमृतैक स्वरूपिणीम् । तदुद् भूतामृतस्त्रावैस्सिक्तां दिव्यां कलां स्मरेत् ।। १७ ।। ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् । पुनराप्लावनं कृत्वा करन्यासं समारभेत् ।। १८ ।। हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते । तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ।। १९ ।। शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् । कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ।। २० ।। करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते । मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ।। २१ ।। मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् । शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ।। २२ ।। नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् । महामुद्रां ततः कृत्वा शिवमन्त्रं अनुस्मरन् ।। २३ ।। महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शनरूपा अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली महामुद्रेय मुदिता परमीकरणे बुधैः महामुद्रेयमाख्याता न्यूनाधिकं समापनी प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ।। अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् । लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ।। २४ ।। श्रीकण्ठादि समोपेतं अक्षरन्यासमेव वा । केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ।। २५ ।। एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् । पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ।। २६ ।। आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् । हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ।। २७ ।। पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् । पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ।। २८ ।। चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् । उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुंकुमम् ।। २९ ।। चन्दनोशीर युक्तांभः पाद्यं कन्यसमुच्यते । वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ।। ३० ।। मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् । एलालवङ्ग कर्पूर मुर जातियुतं समम् ।। ३१ ।। एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् । आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ।। ३२ ।। शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् । तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ।। ३३ ।। अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते । सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ।। ३४ ।। एलालवङ्ग, कर्पूर वरालफलसंयुतम् । एतदाचमनीयं वा यजेत् यजनाङ्गके ।। ३५ ।। कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। ३६ ।। व्रीहि तण्डुलं संयुक्तं अक्षतं तत्प्रकीर्तितम् । पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ।। ३७ ।। कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः । द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत् ।। ३८ ।। हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया । तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ।। ३९ ।। द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् । मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ।। ४० ।। सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् । गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ।। ४१ ।। महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् । विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।। ४२ ।। प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् । वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ।। ४३ ।। अपनीय च तां लिंगात् चण्डेशाय निवेदयेत् । पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ।। ४४ ।। लिङ्गशुद्धि रियंख्याता शुद्धयः पञ्च चोदिताः । संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ।। ४५ ।। विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् । यजनं देवदेवस्य सर्व कामार्थ साधनम् ।। ४६ ।। विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते । गणेशं च गुरुं शक्तिमनन्तं धर्मसंमुखान् ।। ४७ ।। अधर्मप्रमुखानन्ते छदने पद्मकर्णिके । वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ।। ४८ ।। शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् । पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ।। ४९ ।। अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् । धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ।। ५० ।। सिंहासन मिदं प्रोक्तं, योगं मायाब्जमुच्यते । पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ।। ५१ ।। स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् । संकल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ।। ५२ ।। तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् । लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ।। ५३ ।। अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् । विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ।। ५४ ।। स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् । स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ।। ५५ ।। शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् । प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ।। ५६ ।। पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् । संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ।। ५७ ।। गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् । नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ।। ५८ ।। लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते । तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ।। ५९ ।। अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् । आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ।। ६० ।। भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् । तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ।। ६१ ।। नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् । आरात्रिकं ततो दद्यात् धूपदानावसानके ।। ६२ ।। भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः । भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ।। ६३ ।। दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् । रात्रौ नीराजनं कुर्यात् दीपदानावसानके ।। ६४ ।। महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् । आमन्त्रण हविः काले बलिं वा होममाचरेत् ।। ६५ ।। उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् । स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ।। ६६ ।। वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् । तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ।। ६७ ।। ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा । संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ।। ६८ ।। यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् । नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ।। ६९ ।। विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् । नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ।। ७० ।। रूपयौवनसंपन्ना योषितः कर्तृवांच्छया । मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ।। ७१ ।। तासां संख्या भवेद् ग्रामविन्यास जन संख्यया । उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ।। ७२ ।। वादकानष्ट संख्यातान् कल्पयेत् कल्पवित्तमः । तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ।। ७३ ।। विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् । साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिंगतः ।। ७४ ।। लिंगं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् । नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ।। ७५ ।। उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् । केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ।। ७६ ।। मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् । नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ।। ७७ ।। शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये । तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ।। ७८ ।। प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः । बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ।। ७९ ।। तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् । बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ।। ८० ।। एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके । कौबेरास्ये च लिंगे च सकले मिश्र लिंगके ।। ८१ ।। विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः । प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ।। ८२ ।। द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् । वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ।। ८३ ।। देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता । ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ।। ८४ ।। पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् । दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ।। ८५ ।। उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ।। ८६ ।। हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् । शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ।। ८७ ।। कवचं वायुदिग्भागे आग्नेययां वा प्रकल्पयेत् । पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ।। ८८ ।। पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् । गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ।। ८९ ।। लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः । देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ।। ९० ।। परिवारार्चनं पूर्वदेशादारभ्य कारयेत् । वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ।। ९१ ।। नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा । चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ।। ९२ ।। ९२१/२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु । इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम पटलः करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः । क्रन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुह्याय नमः ओं हं सद्योजात मूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे नमः ओं हूं शिखायै नमः ओं हैं कवचाय नमः ओं हः अस्त्राय नमः ओं हां कवचाय नमः ओं हां शिवाय वौषट् अङ्गन्यासः ओं हां शिवासनाय नमः ओं हां शिवमूर्तये नमः ओं हों ईशानमूर्धाय नमः ओं हें तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः ओं हिं वामदेव गुहचाय नमः ओं हं सद्योजातमूर्तये नमः ओं हां हौं विद्यादेहाय नमः ओं हौं नेत्रेभ्यो नमः ओं हां हृदयाय नमः ओं हीं शिरेसे स्वाहा ओं हूं शिखायै वषट् ओं हैं कवचाय हुं ओं हः अस्त्राय फट् ओं हः अस्त्राय हुंफट् ओं हः अस्त्राय फट् ओं हां शिवाय वौषट् पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् । अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ।। सुप्रभेदागमेः उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् । चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ।। एलालवंग कर्पूर जम्बू जाती फलं मुरम् । षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ।। आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः । अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ।। बभमयरलसंज्ञैः अक्षरैः कॢप्तपत्रे । सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ।। अभयवरदहस्तं गण्डिकां चाक्षमाला । करयुगलमभयं चिन्तयेद्विश्वयोनिम् ।। वशषसदलयुक्ते सौम्यमाधारपद्मे तरुणमरुणगानं वारणास्यं गणेशम् । अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ।। डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिं । मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम् हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभं । श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ।। काद्यैष्ठान्तगतैः प्रकल्पितदले पंकेरुह पार्वती कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम् शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम् मूर्त्यंगेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम् मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत् हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया । तत्तद्योगतया स्वदेशिकतनुं भावेन दीपांकुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ।। महामुद्रा तावत् कराभ्यां संमुखाभ्यां पाद पङ्कजात् आमस्तक स्पर्शन रूपा अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली । महामुद्रेय मुदिता परमीकरणे बुधैः । महामुद्रेय माख्याता न्यूनाधिकं समापनी । प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि == द्वितीय पटले दक्षिणद्वारार्चन विधिः == वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता । लिंगे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ।। १ ।। प्रतिमा दक्षिणास्या चेदुत्तमोत्तम संज्ञका । मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ।। २ ।। प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः । नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ।। ३ ।। श्रेष्ठं पश्चान्मुखं लिंगं दक्षास्यं बेरमुच्यते । अव्यक्तं मोक्षदं लिंगं व्यक्तं भूतिप्रदायकम् ।। ४ ।। भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् । शौचमाचमनं स्नानं सन्ध्योपासन मेव च ।। ५ ।। कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् । द्वार मस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ।। ६ ।। गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् । यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ।। ७ ।। संप्रविश्यान्तरे वास्तु पतिं संपूज्य फूजकः । पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ।। ८ ।। लिंगार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे । अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ।। ९ ।। अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् । सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ।। १० ।। पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रपूजयेत् । ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ।। ११ ।। पितृवायवग्नि ईशेषु हृदयादि व्यवस्थितम् । अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ।। १२ ।। गणेशःपूर्व देशे वा प्राग्वद्वा संप्रकीर्तिताः । पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ।। १३ ।। उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् । प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ।। १४ ।। लिंगार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् । तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ।। १५ ।। लोहजे शैलजे वापि मृज्जे धतुज रत्नजे । चित्रहीने शिलाबिंबे मूललिंग वदाचरेत् ।। १६ ।। रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् । अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ।। १७ ।। वस्त्र संमार्जनं पुण्यदिवसे स्नपनं मतम् । कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ।। १८ ।। अथवा बाणलिंगे वा दर्पणादौ समर्चयेत् । आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ।। १९ ।। गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके । वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ।। २० ।। संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत् ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ।। २१ ।। अथापरं समानं स्यात् शिवलिंगार्चनेन तु । कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ।। २२ ।। प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् । हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ।। २३ ।। मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् । मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ।। २४ ।। न्यास मार्गेण संस्थाप्य सन्निधान निरोधने । विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ।। २५ ।। सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः । एलालवङ्ग कर्पूर वराल फल कल्पितम् ।। २६ ।। दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये । क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ।। २७ ।। कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि । यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ।। २८ ।। व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् । पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ।। २९ ।। संमिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे । पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ।। ३० ।। सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते । एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ।। ३१ ।। त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।। ३२ ।। तांबुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे । बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ।। ३३ ।। सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि संख्यार्ध नाड्योऽथवास्युः ।। ३४ ।। उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ।। ३५ ।। अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् । कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ।। ३६ ।। पवित्रारोहणं मासार्चन मङ्कुर वापनम् । नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ।। ३७ ।। समालोच्य विधेयं स्यात् सकले निष्कले शिवे । अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ।। ३८ ।। सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः । अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ।। ३९ ।। किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् । तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ।। ४० ।। तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ।। ४०१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः द्वितीयः पटलः सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यं- नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण । नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव- न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि संख्यार्ध नोड्योऽथ-वास्युः ।। उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु । मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ।। अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ।। पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् षड्गुण - १. सर्वज्ञत्वम् २. परितृप्तत्वम् ३. अनादि बोधृत्वम् ४. स्वतन्त्रत्वम् ५. अलुप्तशक्तित्वम् ६. अनन्तशवक्तिस्वम् == तृतीय पटले सकलार्चनाविधिः == वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् । शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ।। १ ।। कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च । सम्यगाचभ्य संगृह्य भसितं वारिणा सह ।। २ ।। त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च । तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ।। ३ ।। भूतशुद्धिं सुधाप्लावं आत्मावाहनमेव च । करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ।। ४ ।। स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् । पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ।। ५ ।। अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् । अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ।। ६ ।। विशेषार्घ्यञ्च संकल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१/२ । ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् । कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ७१/२ ।। द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् । द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीं ।। ८१/२ ।। नन्दिनञ्च महाकालं गंगाह्वां यमुनामपि । संपूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ।। ९९/२ ।। दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ । शिवस्येशानमन्त्रेण मालाद्यमपनीय च ।। १०१/२ ।। शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा । आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ।। १११/२ ।। अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकं । वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ।। १२१/२ ।। तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् । सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ।। १३१/२ ।। शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते । या तस्य विमलाशक्तिश्शिवस्य समवायिनी ।। १४१/२ ।। तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् । हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ।। २०१/२ ।। कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते । सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ।। २११/२ ।। रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता । अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ।। २२१/२ ।। एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते । एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ।। २३१/२ ।। तत्रेशानेन वक्त्रेण ममुना सकलेन च । मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ।। २४१/२ ।। ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् । षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ।। २५१/२ ।। सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत् । बेरे सदाशिवेवापि लिंगेप्येवं समाचरेत् ।। २६१/२ ।। महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् । प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ।। २७१/२ ।। कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् । तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ।। २८१/२ ।। महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा । विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ।। २९१/२ ।। आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः । तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ।। ३०१/२ ।। स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे । गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ।। ३११/२ ।। ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् । पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ।। ३२१/२ ।। इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः । परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ।। ३३१/२ ।। होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् । शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ।। ३४१/२ ।। द्वारपालार्चनोपेतं बलिहोमसमन्वितम् । शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ।। ३५१/२ ।। प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् । उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ।। ३६१/२ ।। पवित्रारोहणं संम्यक् कृत्तिकादीपमेव च । संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ।। ३७१/२ ।। मासोत्सवं तथा मासेनवनैवेद्यकर्म च । प्रायश्चित्तञ्च जीर्णानां उद्धारञ्च गुरूत्तमाः ।। ३८१/२ ।। देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् । किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसंगमे ।। ३९१/२ ।। पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः । गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ।। ४०१/२ ।। मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् । गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ।। ४११/२ ।। आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ।। ४२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः तृतीयः पटलः इन्दु निभ पञ्च मुख हस्त दश युक्तं । शूल वर टङ्क मसि वज्र मभयं स्यात् ।। पाश वरदाङ्कुश मणिर्दहन वामे । श्वेत कमलासन सदाशिव स्वरूपम् ।। == चतुर्थे पटले स्नपनविधिः == अथातस्संप्रवाक्ष्यामि स्नपनं परमेष्ठिनः । अष्टम्यां वा चतुर्दश्यां विषुवायनसंक्रमे ।। १ ।। ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः । सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ।। २ ।। कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा । राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ।। ३ ।। भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने । प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ।। ४ ।। नित्ये नैमित्तिके काम्ये कारयेच्छंकरस्य च । स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ।। ५ ।। अंकुरार्पणमादौ स्यात् महास्नपन कर्मणि । प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ।। ६ ।। अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ।। ६१/२ ।। पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा । चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ।। ७१/२ ।। सर्वालंकारसंयुक्ततोरणैरन्वितेपि वा । नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ।। ८१/२ ।। अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् । सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ।। ९१/२ ।। द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १०१/२ ।। अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा । तदा द्वितालमानेन कर्णिकामानमीरितम् ।। १११/२ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।। १२१/२ ।। पञ्चविंशतिसंख्यान्तं तत्समन्तात्समावृतम् । एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३१/२ ।। आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् । पञ्चविंशतिसंख्यातान् कलशान् मध्यमस्थितम् ।। १४१/२ ।। परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् । अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ।। १५१/२ ।। मध्यमे तिथिसंख्यास्युः नवकोणे व्यवस्थिताः । मध्यमे तिथिसंख्येतु मध्यमत्रितयं त्यजेत् ।। १६१/२ ।। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् । चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ।। १७१/२ ।। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् । मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ।। १८१/२ ।। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् । अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।। १९१/२ ।। शिवव्यूहस्य परितः षोडशैव परित्यजेत् । सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ।। २०१/२ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः । मार्गबाह्ये तु कोणेस्यादेकविंशति संख्यकः ।। २११/२ ।। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते । सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ।। २२१/२ ।। सार्धहस्तान्तरं हस्तमानान्तरमथापि वा । स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च ।। २३१/२ ।। तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा । स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ।। २४१/२ ।। त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् । हीनहीनतरं प्रस्थमानमित्यभिधीयते ।। २५१/२ ।। शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् । अधश्चेधभिचारार्थं भवेदेव न संशयः ।। २६१/२ ।। आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि । मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ।। २७१/२ ।। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् । तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ।। २८१/२ ।। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् । हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ।। २९१/२ ।। शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् । शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ।। ३०१/२ ।। चतुस्त्रिद्वयेकसंख्यातप्रस्थमानप्रपूरितम् । कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ।। ३११/२ ।। अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् । वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ।। ३२१/२ ।। षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् । कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ।। ३३१/२ ।। मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् । मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ।। ३४१/२ ।। निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके । तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ।। ३५१/२ ।। तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च । माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ।। ३६१/२ ।। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् । कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ।। ३७१/२ ।। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा । द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ।। ३८१/२ ।। मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् । भूतिक्षुसार कदलीतिलसर्षपपानसाः ।। ३९१/२ ।। भसितंतिलसारञ्च कदलीतिलसर्षपान् । नालिकेरञ्च नारंङ्गद्वयंस्यान्मातुलंगकम् ।। ४०१/२ ।। डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके । पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ।। ४११/२ ।। तिलबिल्वे तदन्ते तु मातुलंगफलम्मतम् । नारंगद्वितयन्तस्माद्यवनीवारलाजकम् ।। ४२१/२ ।। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते । कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवंगकम् ।। ४३१/२ ।। तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् । सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ।। ४४१/२ ।। एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः । पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ।। ४५१/२ ।। एवं कृते भवन्त्यत्र कलशानान्तु षोडश । चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ।। ४६१/२ ।। अन्तरालेषु मध्यादि वसु संख्यकमीरितम् । ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ।। ४७१/२ ।। गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् । पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ।। ४८१/२ ।। शमीदूर्वा च शुक्लार्कबिल्वचम्पकशंखिनी । अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसंज्ञकम् ।। ४९१/२ ।। नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके । अथवान्यप्रकारेण तदेव पुनरुच्यते ।। ५०१/२ ।। पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै । क्षीरंदधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ।। ५११/२ ।। तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी । नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ।। ५२१/२ ।। पुन्नागशंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा । सिम्हधुर्तूरसंज्ञे च षोडशास्त्रविनिर्दिशेत् ।। ५३१/२ ।। सदुर्वासर्षपाम्राणि नारंगपनसेमते । कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ।। ५४१/२ ।। इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् । नीवारकुंकुमतिलमाञ्जीमुरजसत्तुकम् ।। ५५१/२ ।। मातुलंगं मलयजमलयजमगरूशीर रात्रिजम् । पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ।। ५६१/२ ।। विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि । अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया ।। ५७१/२ ।। अष्टौ गणेश्वरा बाह्ये चांगुष्ठप्रमुखास्तथा । क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा ।। ५८१/२ ।। एकोनेन तु पञ्चाशत् स्नपने देवतामताः । कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ।। ५९१/२ ।। द्वात्रिंशत्पदसंख्यास्यात् पाद्यदींस्तत्र विन्यसेत् । दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ।। ६०१/२ ।। अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ।। ६१ ।। अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते । चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ।। ६२ ।। कर्पूरं हरिबेरञ्च दान्तं मांसीमुरंतृणम् । तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ।। ६३ ।। चम्पकं सहदेवी च शतपत्री च रोचना । बिल्वं यवा शमी दूर्वा तक्कोलं मेघसम्ज्ञकम् ।। ६४ ।। धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् । रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ।। ६५ ।। धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः । प्लेक्षेभपिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ।। ६६ ।। अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् । तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ।। ६७ ।। बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् । श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ।। ६८ ।। सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् । दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ।। ६९ ।। गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका । वटशृंगेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ।। ७० ।। शंखिनी भृंगराजश्च नीवारं गैरिकं तथा । आम्रमोचरसं जातिः पाटली मार्जनं पुनः ।। ७१ ।। पञ्चमावरणं ह्येतदन्यथा च निगद्यते । शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ।। ७२ ।। अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च । नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ।। ७३ ।। पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ।। ७३१/२ ।। शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः । तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ।। ७४१/२ ।। गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः । महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ।। ७५१/२ ।। इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी । व्याघ्रनख्या च मंजिष्ठं सरलं भद्रकोष्ठकम् ।। ७६१/२ ।। नवनीतं द्राविडाह्वं सज्जं तक्कोलसंज्ञकम् । चञ्चलातिबलाचैव बलासिंहाप्रियंगुकम् ।। ७७१/२ ।। लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् । अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ।। ७८१/२ ।। सतिलं कुंकुमं मेघमगरुं कृष्णरोचना । श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ।। ७९१/२ ।। कृष्णागरुं चतगरं ततः प्रोक्तंमनश्शिलाम् । रक्तचन्दनसंज्ञञ्च लवंगं रात्रिचूर्णकम् ।। ८०१/२ ।। कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना । चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ।। ८११/२ ।। आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः । दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ।। ८२१/२ ।। अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ । पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ।। ८३१/२ ।। दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् । तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसंज्ञकम् ।। ८४१/२ ।। चम्पकं हरिबेरञ्च सर्षपन्नागकेसरं । तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ।। ८५१/२ ।। लवंगपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् । तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ।। ८६१/२ ।। भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च । धात्री च नालिकेरञ्च लिकुचं मातुलंगकम् ।। ८७१/२ ।। तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् । लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ।। ८८१/२ ।। रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् । गुञ्जादि निष्कपर्यन्तं पाद्याद्यंगं प्रमाणकम् ।। ८९१/२ ।। एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् । मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ।। ९०१/२ ।। आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् । कर्पूरकुंकुमादीनां मानमिष्टं प्रदीयताम् ।। ९११/२ ।। मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः । एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ।। ९२१/२ ।। नवसंख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः । अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ।। ९३१/२ ।। अष्टोत्तरसहस्राख्यं अधुनात्र निगद्यते । वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ।। ९४१/२ ।। एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमंत्रितम् । तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ।। ९५१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। ९६१/२ ।। क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा । सर्षपं नालिकेराख्यं रजनी मातुलंगकम् ।। ९७१/२ ।। लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् । पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ।। ९८१/२ ।। रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् । पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ।। ९९१/२ ।। मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् । दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ।। १००१/२ ।। कषायाढयोदकोपेतमुत्तरे पुनरुच्यते । कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ।। १०११/२ ।। माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् । पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ।। १०२१/२ ।। पञ्चरत्नमिति ज्ञेयं आद्या भावे द्वितीयकम् । रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ।। १०३१/२ ।। सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ।। १०४१/२ ।। सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला । गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ।। १०५१/२ ।। शालिकोद्रवनीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ।। १०६१/२ ।। नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ।। १०७१/२ ।। कुंकुमं हरिबेरञ्च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ।। १०८१/२ ।। पर्वते च नदीतीरे वल्मीके कर्कटावटे । वृषशृंगे च सत्क्षेत्रे समुद्रे गजदन्तके ।। १०९१/ २ ।। अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् । गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ।। ११०१/२ ।। शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते । दूर्वांकुरञ्च कुशाग्रं गौरसर्षपम् ।। ११११/२ ।। भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते । तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ।। ११२१/२ ।। अपामार्गसमायुक्तं पत्रतोयमिहेरितम् । पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ।। ११३१/२ ।। पुन्नागकुरवनारंगनन्द्यावर्तं च मल्लिका । श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ।। ११४१/२ ।। कुष्ठं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ।। ११५१/२ ।। शूलं कपालहरिणी पिनाकः परशुस्तथा । पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ।। ११६१/२ ।। पनसो नालिकेरश्च मातुलंगद्वयं ततः । नारंगद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ।। ११७१/२ ।। पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली । जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ।। ११८१/२ ।। अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः । गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ।। ११९१/२ ।। सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् । निकुन्तः पञ्चभिर्युक्तंकान्तोदकमिति स्मृतम् ।। १२०१/२ ।। उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। १२११/२ ।। गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ।। १२२१/२ ।। मयूरशिखिभूर्जत्वग्रोचनाभृंगराजकम् । कृतांजलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ।। १२३१/२ ।। अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् । चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ।। १२४१/२ ।। लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः । विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ।। १२५१/२ ।। रक्तोत्पलं शमीपश्चात् पद्मं सुरस संज्ञकम् । नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ।। १२६१/२ ।। यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका । जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ।। १२७१/२ ।। द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् । वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ।। १२८१/२ ।। तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् । माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ।। १२९१/२ ।। कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा । पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ।। १३०१/२ ।। पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् । क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ।। १३११/२ ।। द्वितीयावरणे स्वर्णं पदे षोडशसंख्यके । चतुर्विंशति संख्याते नालिकेरफलं बहिः ।। १३२१/२ ।। द्वात्रिंशत्संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके । षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ।। १३३१/२ ।। चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् । द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ।। १३४१/२ ।। अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् । नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ।। १३५१/२ ।। दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् । चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ।। १३६१/२ ।। अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते । धातु लोहोदकं पश्चात् शतेषोडशसंयुते ।। १३७१/२ ।। शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् । सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ।। १३८१/२ ।। पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे । घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ।। १३९१/२ ।। वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् । प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ।। १४०१/२ ।। उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः । उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ।। १४११/२ ।। अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते । विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ।। १४२१/२ ।। स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः । पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ।। १४३१/२ ।। कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् । स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ।। १४४१/२ ।। अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः । तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ।। १४५१/२ ।। अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः । स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ।। १४६१/२ ।। तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः । अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ।। १४७१/२ ।। अष्टसंख्या समायुक्तो द्विशते मध्यमेष्टकम् । तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ।। १४८१/२ ।। बाह्ये षोडशसंख्यातान् गृहणीयाद्दिग्विदिग्गतम् । अष्टव्यूहन्तथात्वेतु उक्त संख्यान्वितं भवेत् ।। १४९१/२ ।। द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते । रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ।। १५०१/२ ।। दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् । लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ।। १५११/२ ।। निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् । तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ।। १५२१/२ ।। किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् । गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ।। १५३१/२ ।। फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः । तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ।। १५४१/२ ।। पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् । क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ।। १५५१/२ ।। फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ।। १५७ ।। घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् । अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ।। १५७ ।। ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् । तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ।। १५८ ।। शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते । मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ।। १५९ ।। वज्रं समस्तरत्नानां लोहानामग्निदैवतम् । यवो निखिल बीजानां धातूनां हरितालकम् ।। १६० ।। ओषधीनामभावे तु सहदेवी प्रशस्यते । फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ।। १६१ ।। नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते । चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ।। १६२ ।। त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् । सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ।। १६३ ।। फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ।। १६४ ।। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ।। १६५ ।। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः । गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ।। १६६ ।। दीपेन सहितो मन्त्री लिंगमुद्रां प्रदर्शयेत् । कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ।। १६७ ।। सहस्रकलशे पञ्चशतहोमं समाचरेत् । कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ।। १६८ ।। कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना । समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ।। १६९ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् । शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ।। १७० ।। अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् । पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ।। १७१ ।। चतुर्होमविधाने तु प्रधानेवाथ पूर्वके । शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ।। १७२ ।। मूलाद्दशांशतोंगानान्तथा ब्रह्म सुलोचने । कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ।। १७३ ।। प्रविश्य गर्भगेहे तु लिंगं संशोद्धय पूर्ववत् । संकल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ।। १७४ ।। ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ।। १७४१/२ ।। पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् । दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ।। १७५१/२ ।। नृत्तगेयसमायुक्तं शंखध्वनिसमन्वितम् । वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ।। १७६१/२ ।। जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् । उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ।। १७७१/२ ।। दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् । गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ।। १७८१/२ ।। अपनीय पिधानं तत् दक्षहस्तेन देशिकः । सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ।। १७९१/२ ।। संगृह्य तत्वचित्तस्तु लिंगमूर्ध्नि मनुं न्यसेत् । देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ।। १८०१/२ ।। शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् । पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ।। १८११/२ ।। दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु । ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ।। १८२१/२ ।। आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् । पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।। १८३१/२ ।। उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् । अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ।। १८४१/२ ।। नानाफलानि गव्यानि पञ्चामृतयुतानि च । विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ।। १८५१/२ ।। विरुक्ष्य गन्धतोयेन स्नापयेल्लिंगमादरात् । अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ।। १८६१/२ ।। सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् । आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ।। १८७१/२ ।। ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ।। १८८ ।। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् । स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ।। १८९ ।। गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च । प्रदर्श्य लिंगमुद्रान्तु कवचेनावकुण्ठयेत् ।। १९० ।। इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च । वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ।। १९१ ।। पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् । गत्वा सकलसामीप्यमासनं मूर्तिमेव च ।। १९२ ।। संकल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् । स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ।। १९३ ।। गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् । प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ।। १९४ ।। तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् । स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ।। १९५ ।। देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् । पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ।। १९६ ।। पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् । चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ।। १९७ ।। देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् । द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ।। १९८ ।। शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने । धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ।। १९९ ।। अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसंज्ञकाः । पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ।। २०० ।। ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिंगान्तास्समीरिताः । अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ।। २०१ ।। पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०२ ।। चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः । सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ।। २०३ ।। गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः । गंगादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ।। २०४ ।। स्नापयेत् परमेशानं सर्वदोषापनुत्तये । सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ।। २०५ ।। सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः । सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ।। २०६ ।। राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये । राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ।। २०७ ।। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये । तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ।। २०८ ।। युद्धोद्यते स्वसेनाया बलायामृति हेतवे । भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ।। २०९ ।। नरनारी गवादीनां रोगनाशार्थमेव । जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ।। २१० ।। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके । अयने विषुपे वापि ग्रहणस्थापनादिके ।। २११ ।। उत्सवे च पवित्रे च दमनारोपणेऽपिच । कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ।। २१२ ।। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः । मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ।। २१३ ।। प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि । जनकल्याणकाले च नराणां रक्षणार्थके ।। २१४ ।। विशेष पूजाकाले च भक्तानामुत्सवेपि च । देवभ्रमणकाले वा मृगयायां विशेषतः ।। २१५ ।। कुर्यात्प्रतिदिनं वापि त्रिसंध्यायां गुरूत्तमाः । सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ।। २१६ ।। प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते । कुम्भेनैकेन वा व्योमसंख्येन कलशेन वा ।। २१७ ।। प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा । पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ।। २१८ ।। एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा । इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ।। २१९ ।। एकद्रव्यंचतुर्दिक्षु भिन्नद्रव्यमथापि वा । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ।। २२० ।। नवकुम्भविधानेऽपि विधानं सदृशं मतम् । एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ।। २२१ ।। स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितं । प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ।। २२२ ।। पञ्चविंशतिसंख्यातमपि नित्ये प्रशंस्थितम् । उत्तमोत्तमपूजायामष्टोत्तरशतावधि ।। २२३ ।। स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् । नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ।। २२४ ।। पञ्चविंशतिसंख्यादि साष्टसाहस्रकावधौ । अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ।। २२५ ।। हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा । स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ।। २२६ ।। श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् । कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ।। २२७ ।। हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः । नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ।। २२८ ।। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया । काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ।। २२९ ।। कर्तव्यं वा न कर्तव्यमितिसन्देहसंगतौ । करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ।। २३० ।। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः । ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ।। २३१ ।। क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् । क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ।। २३२ ।। तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः । प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ।। २३३ ।। तद्विधानानुपन्ने तत्राप्येषो विधीयते । प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ।। २३४ ।। वर्तमाने तु शास्त्रार्थे तदंगं सृक्स्रुवादिकम् । स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ।। २३५ ।। एकमादिकमालोच्य कारयेद्यो नृपोत्तमः । सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ।। २३६ ।। तस्याप्यायुषमारोग्यम्मनस्संकल्पितञ्चयत् । सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ।। २३७ ।। विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स राजा क्षयमाप्नोति नात्रकार्या विचारणा ।। २३८ ।। तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञानपारगेण क्रियावता ।। २३९ ।। क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये । गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ।। २४० ।। तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः । विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ।। २४१ ।। पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् । संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ।। २४२ ।। गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् । चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ।। २४३ ।। गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् । कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ।। २४४ ।। पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा । नानोपदंशसंयुक्तं नानाफलसमन्वितम् ।। २४५ ।। दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् । एलालवंकेकर्पूरजातीतक्कोलचूर्णयुक् ।। २४६ ।। मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् । प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ।। २४७ ।। समिधाज्येन चरुणा तिलेनापि समन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ।। २४८ ।। तस्मात् भस्मसमादाय यजमानाय दापयेत् । संप्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ।। २४९ ।। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् । द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ।। २५० ।। षट्सप्तगुणसंख्यातं कर्मसिद्ध्यर्थमेव वा । पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ।। २५१ ।। नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः । नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ।। २५२ ।। समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् । सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ।। २५३ ।। नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः । सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ।। २५४ ।। तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् । धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ।। २५५ ।। विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् । नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ।। २५६ ।। एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च । सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ।। २५७ ।। नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् । लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ।। २५८ ।। नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः । अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ।। २५९ ।। ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् । ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ।। २६० ।। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे । विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ।। २६१ ।। कन्यायां मिधुने धनुष्यन्ते समाचरेत् । सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ।। २६२ ।। अर्धमेकं द्वयं वापि यामं वा घटिकामपि । आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ।। २६३ ।। आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ।। २६४ ।। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् । यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ।। २६५ ।। स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् । तोरणं स्रुक्स्रुवावष्टमंगलन्नवरत्नकम् ।। २६६ ।। तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च । वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ।। २६७ ।। आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने । निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ।। २६८ ।। निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् । नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ।। २६९ ।। नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ।। २६९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः स्नपनविधि पटलः पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा । चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ।। सूत्रन्यास मधोरेण तालमात्रान्तरं यथा कषायोदकं चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः । आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ।। मार्जनोदकं दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते । रत्नोदकम् माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् । पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ।। मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ।। पञ्चरत्नमिति ज्ञेयं आद्यभावे द्वितीयकम् ।। लोहोदकम् सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम् । आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ।। धातूदकम् सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला । गौरिकं रोचना चान्ते धातूदकमितं मतम् ।। बीजोदकम् शालिकोद्रव नीवार प्रियंगुतिल सर्षपाः । श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ।। १०६ ।। गन्धोदकम् नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् । चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ।। १०७ ।। कुंकुमं हरिबेरं च कच्चोलं जातिरेव च । एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ।। १०८ ।। मृदोदकम् पर्वते च नदीतीरं वल्मीके कर्कटावटे । वृषशृंगे च सुक्षेत्रे समुद्रे गजदन्तके ।। अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम् ।। १०९ ।। मार्जनोदकम् गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली । शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ।। ११० ।। परिमाणोदकम् दूर्वांकुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् । भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ।। पत्रोदकम् तुलसी बिल्वपत्रं तमालश्च तपस्विनी । अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ।। पुष्पोदकम् पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः । पुन्नाग कुरव नारंग नद्यावर्तं च मल्लिका ।। श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ।। कुष्टं कुटन्नटं लोहञ्चन्दनं कुंकुमन्तथा । कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ।। अस्त्रोदकम् शूलं कपाल हरिणी पिनाकः परशुस्तथा । पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ।। फलोदकम् पनसो नालिकेरश्च मातुलुंग द्वयं ततः । नारङ्गद्वयरंभाद्यैः उक्तमस्मिन् फलोदकम् कषायोदकम् पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली । जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम् आङ्योदकम् अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः । गन्धत्रय समायुक्तं आडयतोय मिति स्मृतम् ।। कान्तोदकम् सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् । निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ।। मूलोदकम् उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा । श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ।। वल्कलोदकम् मयूर शिखि भूर्जत्व ग्रोचना भ्रंगराजकम् । कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ।। त्वगोदकम् लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः । विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ।। चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२ विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। ४९ । १०९ ।। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८ द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। १० ।। अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् ।। ११ ।। चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११/२ । विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् शिवव्यूहस्य परितः षोडशैव परित्यजेत् सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः १४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम् १६ मध्यमे तिथिसंख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम् सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम् सार्धहस्तान्तरं हस्तमानान्तरमथापिवा स्याच्चतुर्दशसंख्याता वीथिबाह्ये क्रमेण च तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा १० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य । त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।। ११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा । तथा द्वितालमानेन कर्णिकामानमीरितम् १११/२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि । विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्] विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् ।। विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् । पञ्चविंशति संख्यान्तं तत्समन्तात्समावृतम् एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः ।। १३ एकोनपञ्चाशत्संख्यामष्टोत्तरशतं द्विजाः । १४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत् पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान् १५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम् १६ मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः मध्यमे तिथिसंख्ये तु मध्यमं तत्रयं त्यजेत् १७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम् अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः मार्गबाह्ये तु कोणे स्यादेकविंशति संख्यकः शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः । एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।। मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् । स्व स्व संख्या समव्यूहे होमार्थं परिकल्पयेत् ।। अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् । शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।। सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ।। सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् । सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ।। स्याच्चतुर्दश संख्याता वीथि बाह्ये क्रमेण च । तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।। == पञ्चमे पटले नित्योत्सवविधिः == नित्योत्सवविधिं वक्ष्ये नित्यपूजांगमुत्तमम् । शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ।। १ ।। प्रासादमण्टपादौ वा गोमयेनोपलेपिते । प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ।। २ ।। सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा । तिथ्यंगुलं समारभ्य व्योमांगुलविवृद्धितः ।। ३ ।। द्वात्रिंशदंगुलान्तं तु पात्रमानमुदीरितम् । वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ।। ४ ।। तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते । एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ।। ५ ।। शेषेण दलमाख्यातं विकाराष्टदलम्मतम् । अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ।। ६ ।। तद्वदोष्टसमोपेतं केवलं पात्रमेव वा । कुडुपद्वयमारभ्य कुडुपादाढकावधि ।। ७ ।। तण्डुलं कल्पयेदन्नलिंगार्थं वाऽक्षतार्थकम् । मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ।। ८ ।। तेनान्नलिंगं कर्तव्यं भूतमात्रप्रमाणतः । एकांगुलं तु दैर्घ्यंस्याद्यावदष्टादशांगुलम् ।। ९ ।। अंगुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् । अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ।। १० ।। नैमित्तिकार्थन्नित्यार्थमन्नलिंगमुदाहृतम् । त्रिकालमन्नलिंगं वा प्रातर्मध्याह्नयोस्तु वा ।। ११ ।। मध्याह्ने वाथ पूर्वाह्ने पुष्पलिंगमुदाहृतम् । प्रदोषेऽक्षतलिंगंस्यात्तत्रपाशुपतं यजेत् ।। १२ ।। चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि । त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ।। १३ ।। सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ।। १३१/२ ।। विद्युन्मालानिभश्वेतः जटामकुटमण्डितः । दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ।। १४१/२ ।। वरदाभयपाणिर्वा सर्वलक्षणसंयुतः । हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ।। १५१/२ ।। योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते । शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ।। १६१/२ ।। रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् । त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ।। १७१/२ ।। एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् । दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ।। १८१/२ ।। त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् । दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ।। १९१/२ ।। पुष्पाक्षतान्नलिंगेषु पूजनीयस्स्वमन्त्रतः । अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ।। २०१/२ ।। सपीठे गोलकाकारे विपीठे वा तमर्चयेत् । अन्नलिंग प्रमाणे तु मूलाग्रसमविस्तरे ।। २११/२ ।। हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते । स्थलिकामानदण्डेन सहितं वा समर्चयेत् ।। २२१/२ ।। इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु । पादुके त्र्यंगुले तस्मादंगुलांगुलवर्धनात् ।। २३१/२ ।। तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् । दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ।। २४१/२ ।। अष्टांशावधिको मध्यमानेन नवमानकः । तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ।। २५१/२ ।। समन्ताल्लोकपाः पूज्याः पूजादाववसानके । नवान्नलिंगसंयुक्तमथ नित्योत्सवं नयेत् ।। २६१/२ ।। सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् । द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ।। २७१/२ ।। मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः । रंगे वा शिबिकायां वा परिचारकमूर्धसु ।। २८१/२ ।। आरोप्यलंकृतान्देवान्वितानेन समन्वितम् । छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ।। २९१/२ ।। गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् । धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ।। ३०१/२ ।। आद्यं प्रदक्षिणं कुर्यात् मंगिणी तालसंयुतम् । वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृंगिणी ।। ३११/२ ।। मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी । षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ।। ३२१/२ ।। तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् । ग्रामे वा नगरे वापि तथा प्राकार एव वा ।। ३३१/२ ।। द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् । एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ।। ३४१/२ ।। अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् । गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ।। ३५१/२ ।। पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् । गोपुरे वाद्यहीनं वा शंखध्वनिसमन्वितम् ।। ३६१/२ ।। इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् । बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ।। ३७१/२ ।। दक्षिणे भृंगिणी तालं कौशिकेन समन्वितम् । मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ।। ३८१/२ ।। पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् । वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ।। ३९१/२ ।। सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः । शाला पाणिसमायुक्तं शांकरे ढक्करी मता ।। ४०१/२ ।। एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् । पक्षालितांघ्रयस्सर्वे प्रविशेयुश्शिवालयम् ।। ४११/२ ।। अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु । पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।। ४२१/२ ।। लिंगाद्देवं समाहृत्य लिंगे दक्षे निवेशयेत् । शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ।। ४३१/२ ।। अन्येषामपि देवानां देवीनां मूलबिम्बवत् । रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ।। ४४१/२ ।। संपाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् । तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।। ४५१/२ ।। पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः == षष्ठे पटले महोत्सवविधिः == उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम् । ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ।। १ ।। ध्वजांकुरो ध्वजंगस्यात् ध्वजात् पूर्वन्तु तन्नयेत् । तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ।। २ ।। द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् । मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ।। ३ ।। राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा । माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ।। ४ ।। विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् । भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ।। ५ ।। त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके । अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ।। ६ ।। पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ।। ७ ।। तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि । भागं कृत्वैकभागेन पटविस्तार उच्यते ।। ८ ।। विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते । विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ।। ९ ।। वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ।। १० ।। श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् । रक्तशृंगसमायुक्तं तद्वत् खुरसमन्वितम् ।। ११ ।। ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् । विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ।। १२ ।। जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् । सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ।। १३ ।। मानं मात्रांगुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः । पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ।। १४ ।। चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् । पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ।। १५ ।। एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् । अस्त्र तोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ।। १६ ।। मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते । स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ।। १७ ।। ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् । सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ।। १८ ।। कलशैरष्टसंख्यातैस्सापिधानैस्सवस्त्रकैः । सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ।। १९ ।। आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् । वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ।। २० ।। प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि । वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ।। २१ ।। ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् । संकल्पितहृदादींश्च क्रमेण विनिवेशयेत् ।। २२ ।। तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् । आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ।। २३ ।। कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् । मध्यकुम्भेऽपि संपूज्य लोकपान् परितो यजेत् ।। २४ ।। वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ।। कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते । निरीक्षणादि संस्कारैश्शिवाग्निं संप्रकल्पयेत् ।। २५ ।। तन्मध्ये वृषमावाह्य सांगं सन्तर्पयेत्तदा । सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ।। २६ ।। तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् । पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् । पटस्थाय घटस्थाय वृषायासन रूपिणे ।। २८ ।। प्रातस्संपूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् । मुखवासनताम्बूलं वृषभाय निवेदयेत् ।। २९ ।। पुनः पूर्णाहुतिन्दत्वा सर्वमंगलसंयुतम् । सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ।। ३० ।। रंगे वा शिबिकायां वा समारोप्य वृषध्वजम् । त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ।। ३१ ।। ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति । दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ।। ३२ ।। ध्वजारोहणदिने वापि अधिवासदिनेपि वा । धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ।। ३३ ।। षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ।। ३३१/२ ।। एकादितलपर्यन्तं गोपुरान्तमथापि वा ।। ३४ ।। रुद्रद्विगुणमध्यस्थकरसंख्यामितन्तु वा । मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ।। ३५ ।। सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ।। ३५१/२ ।। पलाशखदिराश्वत्थवटचन्दन दारवः ।। ३६ ।। सालम्माधूकतालं वा साराम्रकमथापि वा ।। वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ।। ३७ ।। चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् । स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ।। ३८ ।। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते । द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ।। ३९ ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्य चांगुलात्षोडशांगुलम् ।। ४० ।। यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ।। ४१ ।। एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ।। ४२ ।। उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् । स्कन्धं द्वयं तन्मानद्वादशांगुलमानतः ।। ४३ ।। षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् । सप्तांगुलं समारभ्य गायत्र्यर्णांगुलावधि ।। ४४ ।। स्कन्धविस्तार उद्दिष्टो मूलांग्रे तु त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ।। ४५ ।। चतुस्त्रिद्वयंगुलं वापि मानमेषां प्रकीर्तितम् ।। ४५१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४६ ।। मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ।। ४६१/२ ।। अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ।। ४७ ।। दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा । बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ।। ४८ ।। षडंगुलं समारभ्य षडंगुल विवृद्धितः । दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ।। ४९ ।। तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् । भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ।। ५० ।। कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् । दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ।। ५१ ।। पञ्चविंशतिमात्रादि त्रित्र्यंगुलविवर्धनात् । द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ।। ५२ ।। एकांगुलं समारभ्य पादमात्रविवृद्धितः । त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ।। ५३ ।। वलयाकाश एषो वा वलयस्याद्यथा बलम् । रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यंगुलनाहयुक् ।। ५४ ।। ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् । तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ।। ५५ ।। एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च । संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ।। ५६ ।। शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् । अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्वादिकन्यसेत् ।। ५७ ।। साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु । स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ।। ५८ ।। रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः । गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ।। ५९ ।। रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् । कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ।। ६० ।। हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ।। ६०१/२ ।। अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः । तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ।। ६११/२ ।। देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा । तथैव गोपुरस्यापि महापीठान्तिकेपि वा ।। ६२१/२ ।। अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः । नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ।। ६३१/२ ।। प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्संख्ययामताः । अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ।। ६४१/२ ।। दण्डाधिपास्समाख्याता पटेषु वृष एव हि । दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ।। ६५१/२ ।। हस्तमात्रं समारभ्य त्र्यंगुलादि विवृद्धितः । द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ।। ६६१/२ ।। समोत्तुंगा त्रिपादा वा अष्टांशात् सप्तपञ्च वा । चतुस्त्र्यंशार्धतुंगं वा वेदिका परिकीर्तिता ।। ६७१/२ ।। त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः । द्वित्र्यंगुलक्षयाद्वापि मेखला मानमीरितम् ।। ६८१/२ ।। मेखला रहिते पीठे मूलेस्यादुपवेदिका । द्वयंगुलात् पादवृद्धया तु षडंगुलसमाविधि ।। ६९१/२ ।। पादार्धार्धत्र्यंघ्रिसमा उत्सेधाः परिकीर्तिताः । वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरंगुलमानतः ।। ७०१/२ ।। व्योमांगुलविवृद्ध्याष्टादशांगुल समावधि । पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ।। ७११/२ ।। एकैकांगुल वेशात्तु रुद्रमात्रसमाविधि । पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ।। ७२१/२ ।। कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः । गुणांगुलावधिः कार्यः तदुत्सेधनमुच्यते ।। ७३१/२ ।। चतुरष्टदलं पद्मं विकारदलमेव वा । वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ।। ७४१/२ ।। तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् । एवं संपाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ।। ७५१/२ ।। पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् । दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ।। ७६१/२ ।। त्रिशूलेन समायुक्तं मंगलांकुरशोभितम् । धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ।। ७७१/२ ।। आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् । कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ।। ७८१/२ ।। दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् । दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ।। ७९१/२ ।। त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ।। ८० ।। बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः । क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ।। ८१ ।। कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः । वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ।। ८२ ।। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः । आदौ स्पृष्ट्वा स्वयञ्चान्यंप्रेरयेद्रोहणायवा ।। ८३ ।। अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः । पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ।। ८४ ।। आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् । क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ।। ८५ ।। तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् । वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ।। ८६ ।। आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः । दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ।। ८७ ।। शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् । वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ।। ८८ ।। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च । तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ।। ८९ ।। गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् । पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ।। ९० ।। सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् । चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ।। ९१ ।। अतः प्रभृतितीर्थान्तमवरोहावसानकम् । एककालंद्विकालं वा त्रिकालं पूजयेद्वृषम् ।। ९२ ।। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ९३ ।। नोपसर्गभयन्तत्र न परागमविभ्रमः । विपरीता न मतयो रोगिणामपिभूयसा ।। ९४ ।। स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः । शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ।। ९५ ।। कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् । प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ।। ९६ ।। भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि । स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ।। ९७ ।। षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः । एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ।। ९८ ।। पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् । पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ।। ९९ ।। मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके । वामे विष्णुं समावाह्य पालिकायां तु पार्वती ।। १०० ।। सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः । दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ।। १०१ ।। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके । मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ।। १०२ ।। कात्यायनी तु कौबेर्यां शूलमूले मता इमे । रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ।। १०३ ।। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् । भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ।। १०४ ।। ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् । वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ।। १०५ ।। सप्तकीलेषु मातृश्च नवकीले नवग्रहान् । रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ।। १०६ ।। प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः । गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ।। १०७ ।। भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् । एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ।। १०८ ।। तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः । सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ।। १०९ ।। वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् । तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ।। ११० ।। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा । भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ।। १११ ।। गन्धारादि स्वरोपेतं समतालादि तालकम् । गीतनृत्तसमायुक्तमन्नलिंगसमायुतम् ।। ११२ ।। प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा । संग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ।। ११३ ।। धूपदीपसमायुक्तं घण्टारवसमन्वितम् । प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ।। ११४ ।। इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः । बलिदानावसाने तु तालस्वरसमायुतम् ।। ११५ ।। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च । ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ।। ११६ ।। समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः । भृंगिणी कौशिकन्नट्ट भाषया मल्लतालकम् ।। ११७ ।। श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् । कोटिकन्तर्करागेण शालापाण्यातु डक्करी ।। ११८ ।। पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा । ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ।। ११९ ।। भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् । देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ।। १२० ।। न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् । तदग्रे वृषकुंभंस्यात् वृषविद्येश्वरान्वितम् ।। १२१ ।। तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् । क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।। १२२ ।। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा । प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ।। १२३ ।। त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना । भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम् ।। १२४ ।। अन्नलिंगसमायुक्तं सर्वातोद्यसमन्वितम् । ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ।। १२५ ।। बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च । ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ।। १२६ ।। रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् । ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ।। १२७ ।। देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् । ततोंकुरार्पणं रात्रौ यागारम्भदिने मतम् ।। १२८ ।। तदर्थमंकुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा । ग्रामप्रदक्षिणन्तीर्थांकुरस्यावश्यकम्मतम् ।। १२९ ।। अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा । अंकुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ।। १३० ।। संग्राह्य वापयेत् रात्रौ बीजान्यंकुरसिद्धये । तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ।। १३१ ।। अन्यत्सर्वं समुद्दिष्टमंकुरार्पण पूर्वके । तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ।। १३२ ।। केत्वंकुरो नवाहे स्यात् स्प्ताहे चोत्सवांकुरम् ।। १३२१/२ ।। एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् । यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ।। १३३१/२ ।। वामेऽवामे तथा पञ्चशालानामिष्टदेशके । मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ।। १३४१/२ ।। एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः । पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ।। १३५१/२ ।। समानपंक्तयोवास्युर्मात्रादेकांशवर्धनात् । नवांगुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ।। १३६१/२ ।। एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी । एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ।। १३७१/२ ।। शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् । एकाग्निसहितां वापि वितानध्वजसंयुताम् ।। १३८१/२ ।। दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् । नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ।। १३९१/२ ।। मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः । एकांगुलविवृद्धयाष्टाविंशत्यंगुलकावधि ।। १४०१/२ ।। वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः । अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ।। १४११/२ ।। मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् । युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ।। १४२१/२ ।। मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् । एवं सर्वञ्च संपाद्य शिल्पिमोचनमाचरेत् ।। १४३१/२ ।। पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् । भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ।। १४४१/२ ।। स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् । द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ।। १४५१/२ ।। तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् । तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ।। १४६१/२ ।। विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् । तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ।। १४७१/२ ।। पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसंख्यया । तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।। १४८१/२ ।। अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् । सर्वे ससूत्रवस्त्राढ्याहेमपंकजभूषिताः ।। १४९१/२ ।। सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः । स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ।। १५०१/२ ।। शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् । लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ।। १५११/२ ।। आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे । तोरणद्वारकुम्भांश्च लोकपालघटानपि ।। १५२१/२ ।। हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् । मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ।। १५३१/२ ।। एवं संपाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् । सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ।। १५४१/२ ।। सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः । स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ।। १५५१/२ ।। तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् । अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ।। १५६१/२ ।। सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् । ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ।। १५७१/२ ।। क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् । शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ।। १५८१/२ ।। नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः । षडंगमूर्तिपांगञ्चेत् पुत्रायुष्यफलप्रदम् ।। १५९१/२ ।। एकद्वित्र्यंगुलाधिक्यं योग्यनाहप्रमाणतः । संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ।। १६०१/२ ।। भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् । प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ।। १६११/२ ।। पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः । द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ।। १६२१/२ ।। तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् । अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ।। १६३१/२ ।। अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् । ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ।। १६४१/२ ।। पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु । स्थण्डिले पूजयेच्छक्तिं यंत्रिकायां त्रितत्वकम् ।। १६५१/२ ।। प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता । भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ।। १६६१/२ ।। अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् । पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ।। १६७१/२ ।। सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् । ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ।। १६८१/२ ।। कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः । अंगुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ।। १६९१/२ ।। आलभेत् भस्म संयुक्तं सूत्रन्दक्षांगुलद्वयात् । मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ।। १७०१/२ ।। देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् । सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ।। १७११/२ ।। जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा । ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ।। १७२१/२ ।। दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा । स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ।। १७३१/२ ।। देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः । उमा महेश्वरे वामे सुखासीने महेश्वरः ।। १७४१/२ ।। अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च । एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ।। १७५१/२ ।। कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् । यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ।। १७६१/२ ।। अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा । कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ।। १७७१/२ ।। रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः । त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ।। १७८१/२ ।। दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते । यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ।। १७९१/२ ।। तीर्थार्थमंकुरं कुर्यादनयोः पूर्वकालतः । देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ।। १८०१/२ ।। द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च । ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ।। १८११/२ ।। पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा । वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ।। १८२१/२ ।। कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् । पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ।। १८३१/२ ।। विद्यादेहञ्च संकल्प्य प्रणवं विन्यसेत् शिवम् । हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ।। १८४१/२ ।। एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् । विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ।। १८५१/२ ।। तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत् । तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ।। १८६१/२ ।। अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयं । तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ।। १८७१/२ ।। एवं क्रमेण संपूज्य यायात्कुण्डान्तिकं गुरुः । संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ।। १८८१/२ ।। नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् । न्यस्त्वाऽवाह्य शिवं सांगं सब्रह्मांगञ्च तर्पयेत् ।। १८९१/२ ।। चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै । स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ।। १९०१/२ ।। वेणुबिल्वयवा वापि सक्तुक्षीरं यवंगुलम् । तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ।। १९११/२ ।। ब्रह्मशालियवैर्वापि माषशालियवैस्सह । तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ।। १९२१/२ ।। चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः । समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ।। १९३१/२ ।। शतमष्टोत्तरं होमं शिवेनांगैर्दशांशतः । प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ।। १९४१/२ ।। द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे । तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ।। १९५१/२ ।। होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् । तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ।। १९६१/२ ।। नित्योत्सवविधानेन कृत्वा लिंगंहविर्मयम् । तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ।। १९७१/२ ।। दशायुधसमोपेतं धूपदीपसमन्वितम् । घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ।। १९८१/२ ।। नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् । प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ।। १९९१/२ ।। देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु । लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ।। २००१/२ ।। पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् । ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ।। २०११/२ ।। कृसरान्नं घृतोपेतं कदलीफलसंयुतम् । तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ।। २०२१/२ ।। रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् । चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ।। २०३१/२ ।। घृतं प्रियंगुसंयुक्तं इन्द्रवल्ली समन्वितम् । पञ्चमेहनि दातव्यं इन्द्रप्रियकरं भवेत् ।। २०४१/२ ।। वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् । षष्ठेहनि प्रदातव्यं ऋषीणां प्रीतिसिद्धये ।। २०५१/२ ।। गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् । सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ।। २०६१/२ ।। माषोदनं घृतोपेतं अजमांससमन्वितम् । अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ।। २०७१/२ ।। शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् । नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २०८१/२ ।। अथवान्यप्रकारेण देवताद्रव्यमुच्यते । शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ।। २०९१/२ ।। फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् । फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ।। २१०१/२ ।। भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ।। २११ ।। पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् । कदलीफलसंयुक्तं ऋषिभ्यो बलिमाचरेत् ।। २१२ ।। इन्द्रवल्ली हरिद्रा च प्रियंगुघृतसंयुतम् । चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ।। २१३ ।। पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् । पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ।। २१४ ।। गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् । षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ।। २१५ ।। कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् । सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ।। २१६ ।। वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् । अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ।। २१७ ।। शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् । नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ।। २१८ ।। नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः । कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ।। २१९ ।। मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् । प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ।। २२० ।। रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् । घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ।। २२१ ।। द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् । पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ।। २२२ ।। तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् । कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ।। २२३ ।। चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् । इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ।। २२४ ।। पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् । गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ।। २२५ ।। षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् । कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ।। २२६ ।। सप्तमेहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् । क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ।। २२७ ।। अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् । दधिकान्नं गुलोपेतम्मातुलंगफलन्तथा ।। २२८ ।। नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् । गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ।। २२९ ।। दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् । रक्तान्नं मांससंयुक्तं अपूपं तिलचूर्णयुक् ।। २३० ।। एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् । शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।। २३१ ।। द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् । सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ।। २३२ ।। पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः । दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ।। २३३ ।। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् । दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ।। २३४ ।। दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः । वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ।। २३५ ।। बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् । ध्वजादि बलिपीठान्तं अथवा बलिरीरितः ।। २३६ ।। ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा । तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ।। २३७ ।। दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा । लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ।। २३८ ।। दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः । दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ।। २३९ ।। कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा । सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ।। २४० ।। बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते । प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ।। २४१ ।। डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् । सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ।। २४२ ।। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् । अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ।। २४३ ।। बेराण्यनेकरूपाणि तदन्ते कथितानि च । तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ।। २४४ ।। अन्नलिंगसमायुक्तं त्रिशूलेन समायुतम् । दशायुधसमायुक्तं गोलकालिंगसंयुतम् ।। २४५ ।। रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् । रथे वा शिबिकायां वा सर्वालंकारसंयुतम् ।। २४६ ।। एतैस्सर्वैविहीनोग्रे बल्यंगैश्च समन्वितः । तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरंगकम् ।। २४७ ।। तदन्ते देवदेवेशरथस्सर्वांगसुन्दरः । रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ।। २४८ ।। घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः । नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ।। २४९ ।। मदन्तिक गतेनैव शैवाचार्येण शोभितः । मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ।। २५० ।। परिचारक संज्ञेन मत्भक्तेनाप्रमादिना । पद्मकुड्मलसन्नद्धपाश संबन्धहस्तया ।। २५१ ।। पुरुषाकारधारिण्या शोभितो रुद्रकन्यया । मद्दास्यावाथ सर्वांगसुन्दर्यास्स्यन्दनस्य च ।। २५२ ।। तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः । तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ।। २५३ ।। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु । शिवभक्ताश्च ये ख्यातास्तेषां रंगान्यनेकधा ।। २५४ ।। तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः । एषामिष्टन्तु यत्ग्राह्यं बल्यंगं कौतुकं विना ।। २५५ ।। नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् । वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ।। २५६ ।। गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् । मंगुलांकुरसद्वीपवर्धनीकुम्भवारियुक् ।। २५७ ।। कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् । दर्भमाला समायुक्तं मुक्तादामविभूषितम् ।। २५८ ।। उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति । विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ।। २५९ ।। गृहालंकार उद्दिष्टो गृहहीनस्थलेपि च । नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ।। २६० ।। नानागानसमोपेतं नानानृत्तसमन्वितम् । नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ।। २६१ ।। तालवृन्तसमोपेतं धूपदीपसमन्वितम् । प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ।। २६२ ।। रथादौ शिबिकादौ वा परिचारकमूर्धसु । यानकाले तु ताम्बूलं देयं नानाफलानि च ।। २६३ ।। भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् । योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ।। २६४ ।। दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् । वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ।। २६५ ।। शंखध्वनिसमायुक्तं पाद्याचमनसंयुतम् । प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ।। २६६ ।। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु । आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ।। २६७ ।। प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे । दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ।। २६८ ।। कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये । चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ।। २६९ ।। आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः । शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ।। २७० ।। पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते । विधाय स्नपनं वाथ पञ्चखारिसमन्विते ।। २७१ ।। चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः । पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ।। २७२ ।। मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् । स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ।। २७३ ।। प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् । रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ।। २७४ ।। रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये । यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ।। २७५ ।। विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः । पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ।। २७६ ।। यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् । ततो धाम निवेशश्च देव्या सह निवेशनम् ।। २७७ ।। काले षोडशसंख्याते यामार्धपरिनिष्ठिते । कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ।। २७८ ।। स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः । पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ।। २७९ ।। तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् । स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ।। २८० ।। यानकाले बलेः काले पूर्वकालेऽथवामतः । परिवारोक्तमार्गेण बलिपीठे समाचरेत् ।। २८१ ।। मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् । यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ।। २८२ ।। तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् । उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ।। २८३ ।। रात्रौ नीराजनं कार्यं धूपदीपावसानके । प्रभूतन्तु हविर्दद्याद्यानकालावसानके ।। २८४ ।। एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते । ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ।। २८५ ।। नीत्वा देवं समाराध्य विनोदालोकनन्ततः । प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ।। २८६ ।। प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् । भविष्यद्वृष्टिशंकायान्धकारे महत्यपि ।। २८७ ।। शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे । यागारम्भदिने वाथ तीर्थदानदिनेपि च ।। २८८ ।। सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते । ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ।। २८९ ।। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च । बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ।। २९० ।। तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् । तैलाभ्यंगञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ।। २९१ ।। ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् । अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ।। २९२ ।। देवाग्रे स्थापयेत्तैलं स्थण्डिलेयंत्रिकोपरि । अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत् ।। २९३ ।। कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ।। २९३१/२ ।। शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः । सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ।। २९४१/२ ।। ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् । तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ।। २९५१/२ ।। तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् । नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ।। २९६१/२ ।। कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये । सर्वाभरणयुक्ताय पूजिताय विशेषतः ।। २९७१/२ ।। तस्मादन्यत्र कूटेवा रंगे वाऽस्थानमण्टपे । सर्वालंकारसंयुक्तं कृत्वा धामप्रदक्षिणम् ।। २९८१/२ ।। तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च । विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ।। २९९१/२ ।। प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः । नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ।। ३००१/२ ।। धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।। ३०१ ।। स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः । संप्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ।। ३०२ ।। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् । समिदाज्येन चरुणा तिललाजगुलैस्तु वा ।। ३०३ ।। मूलेन शतहोमस्स्यादस्त्रहोममतो न वा । पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ।। ३०४ ।। प्रायश्चित्तंत्वघोरेण कृत्वा पूर्णासमन्वितम् । सद्योजातेन संस्पृश्य गन्धंमूलेन दापयेत् ।। ३०५ ।। सवत्सांगां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् । तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ।। ३०६ ।। जलदानसमोपेतं यात्रादानमिदंमतम् । अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ।। ३०७ ।। ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् । शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ।। ३०८ ।। योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् । तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ।। ३०९ ।। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च । प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ।। ३१० ।। उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः । आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ।। ३११ ।। यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् । सर्वागमज्ञं शान्तञ्च शिवलिंगार्चनारतम् ।। ३१२ ।। नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् । ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ।। ३१३ ।। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा । तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ।। ३१४ ।। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि । तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ।। ३१५ ।। देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि । तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ।। ३१६ ।। तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः । यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ।। ३१७ ।। पूर्वान्ते भवेल्लिंगप्रतिष्ठादौ च सम्मतम् । अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ।। ३१८ ।। सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते । सर्वालंकारसंयुक्तं मुखेणसमन्वितम् ।। ३१९ ।। शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् । पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ।। ३२० ।। कृत्वा यानक्रमं प्रोक्तं सर्वमंगल संयुतम् । राजवेषधरैः पुंभिर्नानानृत्तसमन्वितैः ।। ३२१ ।। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः । अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ।। ३२२ ।। वर्जयेद्वाथ मुखं राजवेषधरान्वितम् । प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ।। ३२३ ।। कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् । तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ।। ३२४ ।। रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् । पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ।। ३२५ ।। कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् । अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ।। ३२६ ।। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः । युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ।। ३२७ ।। अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् । विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ।। ३२८ ।। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना । तीर्थार्थं साधयेद्रात्रौ कलशान्नवसंख्यया ।। ३२९ ।। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् । सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ।। ३३० ।। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा । प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ।। ३३१ ।। तीर्थस्थानञ्च संप्राप्य शुद्धिं कृत्वा महीतले । स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ।। ३३२ ।। पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् । पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ।। ३३३ ।। त्रिशूले सर्वतीर्थञ्च सर्वंदुर्गासमन्वितम् । मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ।। ३३४ ।। तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च । तीर्थसंग्रहणं कुर्यात् गंगाद्यावाहनेन च ।। ३३५ ।। हे देवि गंगे यमुने नर्मदे च सरस्वति । सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ।। ३३६ ।। सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् । खेरस्तमनं यावत् तीर्थानां पापशुद्धये ।। ३३७ ।। तीर्थसंग्रहणं तन्मध्ये प्राक्शिरान्वितम् । त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ।। ३३८ ।। जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् । तीर्थसंग्रहणं कृत्वा तीर्थं देवालयेपि वा ।। ३३९ ।। अवगाहनहीनन्तु नयेद्दूरजलाशये । सर्वालंकारसंयुक्तं प्रविशेदालयं प्रति ।। ३४० ।। होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना । चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ।। ३४१ ।। स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ । त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ।। ३४२ ।। तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये । वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ।। ३४३ ।। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् । संक्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ।। ३४४ ।। मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् । दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ।। ३४५ ।। सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् । तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ।। ३४६ ।। सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् । मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ।। ३४७ ।। शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा । दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ।। ३४८ ।। राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः । पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ।। ३४९ ।। मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ । नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ।। ३५० ।। दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च । दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ।। ३५१ ।। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे । तदादौ स्नानकालादौ कर्तव्यम्मंगलार्थकम् ।। ३५२ ।। तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् । दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ।। ३५३ ।। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् । नानाविधेषु पात्रेषु लिंगार्थकं प्रतिमार्थकम् ।। ३५४ ।। उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः । परिवारार्थमेकञ्च भागं संकल्पयेत् क्रमात् ।। ३५५ ।। अवशिष्टजनार्थञ्च संग्रहेत् कलशादिषु । केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ।। ३५६ ।। संप्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ।। ३५६१/२ ।। अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् । रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ।। ३५७१/२ ।। चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च । कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ।। ३५८१/२ ।। महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले । नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ।। ३५९१/२ ।। किं तु बेरसमोपेतं प्रपादि परिमण्डिते । कलशस्थापनोपेतं देवताह्वानसंयुतम् ।। ३६०१/२ ।। विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः । तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ।। ३६११/२ ।। तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत् । विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ।। ३६२१/२ ।। महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् । त्रिशूलसहितं वापि नानादेवालयागतैः ।। ३६३१/२ ।। त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् । अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ।। ३६४१/२ ।। महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् । अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ।। ३६५१/२ ।। पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् । हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ।। ३६६१/२ ।। तच्च (मोटि) समायुक्तं उत्तमोत्तममिष्यते । तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ।। ३६७१/२ ।। तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते । पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ।। ३६८१/२ ।। समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् । नक्षत्रमधिकं त्वह्निसंग्राह्यं तिथिरेव वा ।। ३६९१/२ ।। वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे । तीर्थर्क्षद्वयसंप्राप्तावेकमासे परं वरम् ।। ३७०१/२ ।। तत्रापि योगयुक्तञ्चेत् पूर्वं संग्राह्यमेव वा । यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ।। ३७११/२ ।। तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् । लिंगे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ।। ३७२१/२ ।। मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके । नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ।। ३७३१/२ ।। जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः । द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ।। ३७४१/२ ।। वियोगे तीरदेशे तु बेरस्नपनमेव वा । कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ।। ३७५१/२ ।। नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा । आरामादौ च देवेशं तोषयेत् सर्वमंगलैः ।। ३७६१/२ ।। ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् । सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ।। ३७७१/२ ।। पूर्णाहुतिं ततो हुत्वा सर्वमंगलसंयुतम् । धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ।। ३७८१/२ ।। ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् । गर्भगेहे सुसंस्थाप्य लिंगे पीठेह्यनुक्रमात् ।। ३७९१/२ ।। देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् । तत्तत् तोयैश्च संप्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ।। ३८०१/२ ।। ततस्संपूजयेद्देवं यथाविभवविस्तरम् । ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ।। ३८११/२ ।। तृतीये पञ्चमे वापि सप्तमे नवमेव वा । एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ।। ३८२१/२ ।। कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ।। ३८३ ।। मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः । ध्वजादि तीर्थपर्यन्तं दिनसंख्यास्थिता यदि ।। ३८४ ।। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् । ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ।। ३८५ ।। लिंगे बेरे शूले ध्वजे स्नपनमाचरेत् । अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ।। ३८६ ।। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः । कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ।। ३८७ ।। नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् । चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ।। ३८८ ।। ततो ग्रामबलिं दद्यात् अन्नलिंगसमन्वितम् । त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ।। ३८९ ।। भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् । श्रीखण्ट शंखसंयुक्तं बलिकाले तु घोषणम् ।। ३९० ।। कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः । ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ।। ३९१ ।। अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे । ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ।। ३९२ ।। आचार्यं पूजयेत्कर्ता वस्त्रहेमांगुलीयकैः । अंकुरार्पणकाले च ध्वजारोहणकालके ।। ३९३ ।। यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः । अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ।। ३९४ ।। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके । दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ।। ३९५ ।। अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ।। ३९६ ।। तदर्धसंख्यया प्रोक्ता दक्षिणाकन्यसक्रमे । श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ।। ३९७ ।। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता । भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ।। ३९८ ।। उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः । संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ।। ३९९ ।। बलि होमादिसंयुक्तो बेरयात्रादि संयुतः । वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ।। ४०० ।। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् । मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ।। ४०१ ।। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् । अंकुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ।। ४०२ ।। एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् । स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ।। ४०३ ।। तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः । अस्त्रं भेरीञ्च संपूज्य भेरीं सन्ताडयेत् क्रमात् ।। ४०४ ।। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् । धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।। ४०५ ।। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे । विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ।। ४०६ ।। समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ । पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।। ४०७ ।। हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् । उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ।। ४०८ ।। फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् । वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ।। ४०९ ।। द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा । स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमंगलैः ।। ४१० ।। संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा । कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ।। ४११ ।। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् । ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ।। ४१२ ।। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् । कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ।। ४१३ ।। आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः । ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ।। ४१४ ।। प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् । सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ।। ४१५ ।। चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् । आलये बलियाने च स्यातां तीर्थं विहाय वा ।। ४१६ ।। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके । तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ।। ४१७ ।। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते । बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ।। ४१८ ।। देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ।। ४१८१/२ ।। कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् । कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ।। ४१९१/२ ।। चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः । अयने विषुवे राहु दर्शनेदमनोत्सवे ।। ४२०१/२ ।। पवित्रेमासपूजायां कृत्तिकादीपरोहणे । संवत्सरादिलेखायान्नवतोयागतावपि ।। ४२११/२ ।। पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि । अन्यस्मिन् मंगले कार्ये कुर्यादेकोत्सवं बुधः ।। ४२२१/२ ।। एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये । वारपूजादि कर्तव्या रविवारादितः क्रमात् ।। ४२३१/२ ।। पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनांगकैः । पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ।। ४२४१/२ ।। स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा । गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ।। ४२५१/२ ।। अर्कवारादि वारेषु पत्राण्येतानि योजयेत् । माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ।। ४२६१/२ ।। प्रवालं गुजवारे तु बुधे मरकतं भवेत् । सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ।। ४२७१/२ ।। इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च । सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ।। ४२८१/२ ।। तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ।। ४२९ ।। तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् । वारपूजावसाने तु वारोत्सवमथाचरेत् ।। ४३० ।। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये । ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ।। ४३१ ।। जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च । तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ।। ४३२ ।। तत्तद्वारविभेदेन गन्धादिग्रहणेन वा । संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ।। ४३३ ।। वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते । पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ।। ४३४ ।। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके । ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ।। ४३५ ।। भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् । ब्राह्मणादि त्रयाणां वा शूद्रे वांकुरपूर्वकम् ।। ४३६ ।। नगरे ध्वजपूर्वं वा मंगले भेरिपूर्वकम् । पत्तनेंकुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ।। ४३७ ।। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे । पुरादौ संकरोनोक्तः उत्सवानां द्विजोत्तमाः ।। ४३८ ।। सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः । ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ।। ४३९ ।। ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः । उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ।। ४४० ।। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः । श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ।। ४४१ ।। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः । आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ।। ४४२ ।। ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा । गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ।। ४४३ ।। पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे । एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ।। ४४४ ।। ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा । ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ।। ४४५ ।। अथवा ध्वजमूले तु देवानां बलिरेव वा । नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ।। ४४६ ।। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् । प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ।। ४४७ ।। चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः । आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ।। ४४८ ।। उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा । केत्वंकुरन्नवाहे स्यात् सप्ताहेचोत्सवांकुरम् ।। ४४९ ।। तीर्थांकुरन्तु तत्संख्ये सर्वं सर्वत्र वामतम् । मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ।। ४५० ।। निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते । कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ।। ४५१ ।। मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः । सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ।। ४५२ ।। सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते । सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ।। ४५३ ।। उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् । विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ।। ४५४ ।। अथवान्यप्रकारेण उत्सवन्तु विधीयते । ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ।। ४५५ ।। तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे । श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ।। ४५६ ।। चण्डालेन सदारेण कुर्यात् घोषयुतेन च । तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ।। ४५७ ।। बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् । आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ।। ४५८ ।। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् । स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ।। ४५९ ।। एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् । नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ।। ४६० ।। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके । यागारम्भं पुनः कुर्यादंकुरार्पणपूर्वकम् ।। ४६१ ।। एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् । बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ।। ४६२ ।। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः । विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ।। ४६३ ।। अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् । तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ।। ४६४ ।। ध्वजानष्टौ समारोप्यांकितान् लोकेशवाहनैः । तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ।। ४६५ ।। ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः । तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ।। ४६६ ।। एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् । ध्वजानामष्टसंख्यानां तद्रात्राववरोहणम् ।। ४६७ ।। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् । नानागानसमायुक्तं नानानृत्तसमन्वितम् ।। ४६८ ।। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् । सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ।। ४६९ ।। स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः । एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।। ४७० ।। नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् । प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ।। ४७१ ।। स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् । चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ।। ४७२ ।। बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् । चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ।। ४७३ ।। तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् । ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ।। ४७४ ।। बेरयात्रा विहीनं वा विधिमेनां समाचरेत् । नवान्नलिंगं कृत्वा वा दिक्पालास्त्रार्थमेव वा ।। ४७५ ।। तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् । नित्योत्सवान्नलिंगानि दश वा परिकल्पयेत् ।। ४७६ ।। द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा । जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ।। ४७७ ।। इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् । मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ।। तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि । भागं कृत्वैक भागेन पट विस्तार उच्यते ।। विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते । विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ।। वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् । आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् । श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् । रक्तशृंग समायुक्तं तद्वत्खुर समन्वितम् ।। मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः । पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ।। चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् । पूर्णकुंभयुतं वापि त्रिशूलेन युतं न वा ।। एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ।। सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः । द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ।। एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः । पञ्चांगुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ।। यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् । पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ।। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते । दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ।। उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ।। == सप्तमे पटले निराजनविधिः == नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते । प्रदोषादौ विधेयो वा धूपदीपावसानके ।। १ ।। उत्सवादौ च कर्तव्यमन्यस्मिन् मंगलेपि च । तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ।। २ ।। गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके । महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ।। ३ ।। पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च । पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ।। ४ ।। दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः । पादांगुलविवृद्ध्यातु नवांगुलसमाविधि ।। ५ ।। विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते । वसुधा मध्यमे भक्ते नवधामानमीरितम् ।। ६ ।। ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः । पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ।। ७ ।। पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् । धुर्तूरकुसुमाकारं शरवाकारमेव वा ।। ८ ।। चतुरष्टदलोपेतं सर्वालंकारसंयुतम् । एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ।। ९ ।। नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा । पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ।। १० ।। देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः । एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ।। ११ ।। कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा । वर्णभक्त हविष्यं च वटाश्वदकानि ।। १२ ।। चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् । मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ।। १३ ।। गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः । सर्वत्र दीपान्वा कुर्यान्नवसंख्यान् समुज्वलान् ।। १४ ।। घृतार्द्रांस्तैलसंयुक्तान् ब्रह्मांगसहितान्यसेत् । लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ।। १५ ।। वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः । कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ।। १६ ।। पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः । प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ।। १७ ।। तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया । संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ।। १८ ।। वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् । सर्वातोद्यसमायुक्तं शंखध्वनि समन्वितम् ।। १९ ।। गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् । स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ।। २० ।। देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् । दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ।। २१ ।। गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना । त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ।। २२ ।। संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् । आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ।। २३ ।। सोपि संगृह्य तं दीपं सप्रणामन्निवेशयेत् । सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ।। २४ ।। गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि । त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ।। २५ ।। अंगुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके । ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ।। २६ ।। पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके । देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ।। २७ ।। कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् । बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ।। २८ ।। तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु । भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ।। २९ ।। ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् । सर्वालंकारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ।। ३० ।। सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् । पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ।। ३१ ।। वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् । द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ।। ३२ ।। तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् । राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ।। ३३ ।। राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे । देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ।। ३४ ।। तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ।। ३४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः == अष्टमे पटले कृत्तिकादीपावलिविधिः == दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः । मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ।। १ ।। पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये । रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ।। २ ।। कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् । वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ।। ३ ।। रवेरस्तमयात्पूर्वं यामपादावसानकम् । कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ।। ४ ।। एवन्निश्चित्य कालन्तु कारयेद्वांकुरार्पणम् । दीपाराधनपूवेद्युरधिवासनमारभेत् ।। ५ ।। देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा । अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ।। ६ ।। दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् । स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ।। ७ ।। ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुलविवृद्धितः ।। ८ ।। पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः । द्विमात्रात् पादवृद्ध्यातु षडंगुलसमावधि ।। ९ ।। विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ।। १० ।। नवकीलं समारभ्य व्योमकीलविवृद्धितः । सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ।। ११ ।। विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् । त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ।। १२ ।। तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः । दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ।। १३ ।। दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश । योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ।। १४ ।। छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् । एकहस्तविशालन्तु द्विगुणायतसंयुतम् ।। १५ ।। दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये । कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ।। १६ ।। हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः । योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ।। १७ ।। दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते । दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ।। १८ ।। प्रतिवेदन्तु कर्तव्या दीपिका बहुसंख्यया । स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ।। १९ ।। तोरणाकारतोपिवा वृत्ताकारेण वा बहून् । प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ।। २० ।। प्रासादे गोपुरे शाले परिवारालयादिषु । मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ।। २१ ।। वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु । बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ।। २२ ।। दीपावलिरियं कार्या अधिवासनपूर्वकम् । अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ।। २३ ।। षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् । स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ।। २४ ।। ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा । शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ।। २५ ।। दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् । बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ।। २६ ।। आलये मण्टपे वापि यागमण्टप एव वा । मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ।। २७ ।। स्थण्डिलन्तत्र संकल्प्य शस्त्रेण प्रोक्षयेत् गुरुः । नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ।। २८ ।। नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः । पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ।। २९ ।। कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् । शिवाग्निं तत्र संपाद्य शिवं सांगञ्च तर्पयेत् ।। ३० ।। समिधाज्येन चरुणा ततः कार्पासबीजतः । क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ।। ३१ ।। मूलेनांगैर्दशांशेन वह्निबीजमनुस्मरन् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ३२ ।। देवं सांगं विसृज्याथ दीपानारोपयेत् गुरुः । तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ।। ३३ ।। वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु । गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ।। ३४ ।। गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः । सर्वालंकारसंयुक्तं तरुणाख्यन्तु दीपकम् ।। ३५ ।। दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् । होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ।। ३६ ।। ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च । चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ।। ३७ ।। कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च । पूर्वस्यामथवाग्नेययां कूटमेकन्तु वा नयेत् ।। ३८ ।। तोरणानि यथायोग्यन्नयेदिच्छावशेन तु । सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ।। ३९ ।। सर्वालंकारसंयुक्तं कदलीपूगसंयुतम् । एवं संपाद्य सर्वन्तु मन्दीभूते दिवाकरे ।। ४० ।। पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् । वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ।। ४१ ।। स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् । कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ।। ४२ ।। कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा । अधिवासन होमेन समं होमं समाचरेत् ।। ४३ ।। वह्नावीशे तु कूटे वा देशिको होममाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ४४ ।। अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः । पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ।। ४५ ।। आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः । पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ।। ४६ ।। एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः । सर्वालंकारसंयुक्तं मंगलांकुर शोभितम् ।। ४७ ।। वितानध्वजसंयुक्तं छत्रचामरसंयुतम् । नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ।। ४८ ।। बेरेण च समायुक्तं बेरयात्रायुतन्नवा । ग्रहस्थे ब्रह्मचारी वा दीपं संग्राह्य पाणिना ।। ४९ ।। दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् । दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ।। ५० ।। विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् । मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ।। ५१ ।। दीपारोपणकर्तारं पूजयेत् परिचारकम् । वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ।। ५२ ।। ज्योतिलिंगमनुस्मृत्य दहेत् कूटचतुष्टयम् । अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ।। ५३ ।। तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् । कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ।। ५४ ।। हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् । प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ।। ५५ ।। प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् । स्नपनं कारयेन्नो वा बेरलिंगं तदुक्तितः ।। ५६ ।। प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् । पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ।। ५७ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् । अंकुरार्पणहीनं वा क्रियामेनां समाचरेत् ।। ५८ ।। गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् । अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ।। ५९ ।। तदंगमपरं चान्यद्देशिकाय प्रदापयेत् । इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ।। ६० ।। ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः । अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ।। ६१ ।। गोशालायां विशेषेण तेषां रोगनिवृत्तये । यान्तिथिं समनुप्राप्य उदयं याति भास्करः ।। ६२ ।। सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ।। ६२१/२ ।। यदृक्षं समनुप्राप्य अस्तं याति भास्करः । तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ।। ६३१/२ ।। एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ।। ६४ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः ८ ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् । द्वादशांगुलमारभ्य व्योमांगुल विवृद्धितः ।। पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः । द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ।। विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् । दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ।। नव कीलं समारभ्य व्योमकील विवृद्धितः । शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ।। त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् । तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ।। दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ।। लोकः ३ कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् । विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ।। करणदोषः विष्टिः चतुर्थ्यां अपरे विष्टिः अष्टम्यां पूर्वभागतः एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः दशम्यां अपरे विष्टिः चतुर्दश्यां तु पूर्वतः वैनाशिकः द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम् == नवमे पटले == मार्गशीर्षे घृतस्नान डोलारोहण पुष्ये क्षौद्रपूजा विधिः मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् । घृतस्नानसमोपेतं प्रागुक्तविधिना सह ।। १ ।। केवलस्नपनं वापि कारयित्वा विशेषतः । गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ।। २ ।। ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् । अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ।। ३ ।। बेरप्रदक्षिणं कृत्वा सर्वालंकार संयुतम् । चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ।। ४ ।। डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ।। ४१/२ ।। सर्वालंकारसंयुक्तं कृत्वा स्तम्भद्वयं तथा । स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ।। ५१/२ ।। तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् । चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ।। ६१/२ ।। नानालंकारसंयुक्ता मथबाहुद्वयान्विताम् । एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ।। ७१/२ ।। अस्त्रतोयेन संप्रोक्ष्य कल्पयेदासनं यथा । फलकायां यजेद्धंसं हृदा हंसासने यजेत् ।। ८१/२ ।। ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् । विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ।। ९१/२ ।। वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् । गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ।। १०१/२ ।। नानागानसमायुक्तन्नाना नृत्तसमन्वितम् । नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ।। १११/२ ।। अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् । प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ।। १२१/२ ।। डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च । अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ।। १३१/२ ।। पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ।। १४ ।। पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ।। १५ ।। पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः नवमः पटलः ९ डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः । सर्वालङ्कार संयुक्तं कृत्वा स्तंभद्वयं तथा ।। स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् । तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ।। चतुर्बाहु समायुक्तां ऊर्ध्व प्रच्छादनान्विताम् । नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ।। एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् । == दशमे पटले माघमासे घृतकम्बलपूजाविधिः == माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् । कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ।। १ ।। नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः । शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ।। २ ।। तदाज्यं पिण्डवत् कृत्वा कुंकुमागरुसंस्कृतम् । हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ।। ३ ।। हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् । पञ्चब्रह्मषडंगैश्च शिवेन तदनन्तरम् ।। ४ ।। विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा । विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ।। ५ ।। गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् । तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ।। ६ ।। पलाशसमिदाज्यान्न तिललाजसमन्वितम् । शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ।। ७ ।। घृते संपातहोमञ्च पवित्रारोहवर्त्मना । कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ।। ८ ।। कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा । संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।। ९ ।। विशेषेणार्चयित्वा तु सर्वालंकारसंयुतम् । धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।। १० ।। लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् । गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।। ११ ।। दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ।। १११/२ ।। सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च । पूर्ववत् पूजयेद्देवं गुरुं संपूजयेत्तदा ।। १२१/२ ।। दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् । अंकुरार्पणपूर्वं वा रहितं वैतदाचरेत् ।। १३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः == एकादशे पटले माघे शिवरात्रिपूजाविधिः == अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः । श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ।। १ ।। अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् । मया सह मुदा सार्धं रमन्तीप्सितमाययुः ।। २ ।। न बाध्यन्ते यमादेशात् किंकरैः क्रूरदृष्टिभिः । यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ।। ३ ।। श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् । माघमास्यासिते पक्षे विद्यते या चतुर्दशी ।। ४ ।। तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा । तस्यामेव शिवपूजा शिवलिंगे शिवालये ।। ५ ।। कृतस्नानोपवासेन पूर्वेह्नि नियतेन च । साधकेनोपचारेण कर्तव्या श्रद्धया सह ।। ६ ।। पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः । शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ।। ७ ।। आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् । अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ।। ८ ।। पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् । गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ।। ९ ।। पवित्रैः पञ्चभिः कुर्यात् पञ्चांगैश्च क्रमेण तु । पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ।। १० ।। चूर्णेनापि सपिष्टेन रजन्या धूपितेन च । अस्त्रेण शोधितेनैव शोधयेदुदकेन च ।। ११ ।। नालिकेरोदकेनैव तं पश्चादभिषेचयेत् । गन्धोदकेन मूलांगब्रह्मभिश्चाभिषेचयेत् ।। १२ ।। कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् । लिंगमाच्छाद्य देवांगाद्येन शुद्धेन वाससा ।। १३ ।। यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् । चन्दनागरुकर्पूर कुंकुमाद्यैः क्रमेण तु ।। १४ ।। मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः । दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ।। १५ ।। गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् । दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ।। १६ ।। पायसं प्रथमे यामे द्वितीये कृसरं भवेत् । गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ।। १७ ।। निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् । सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ।। १८ ।। धूपमारात्रिकोपेतं शिवाय विनिवेद्य च । होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ।। १९ ।। कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् । शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ।। २० ।। संपूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले । समादाज्य हविर्लाज तिलैर्मूलांगब्रह्माभिः ।। २१ ।। शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् । दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ।। २२ ।। कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् । वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ।। २३ ।। पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः । स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ।। २४ ।। नीत्वा जागरणं रात्रौ प्रभाते विमले ततः । कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ।। २५ ।। देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् । दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ।। २६ ।। लिंगिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि । पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ।। २७ ।। गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः । पादौ हस्तौ च संक्षाल्य पारणन्तु समाचरेत् ।। २८ ।। इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः पटलः == द्वादशे पटले फाल्गुनमासगन्धपूजाविधिः == उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् । विशेषस्नपनोपेतं विशेषयजनान्वितम् ।। १ ।। दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि । प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ।। २ ।। तत्पादं वा तदर्धं वा कुंकुमं स्यात्तदर्धतः । पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ।। ३ ।। कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् । वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ।। ४ ।। घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना । गन्धैरालिप्य लिंगन्तु सपीठं शिवमन्त्रतः ।। ५ ।। सुगन्धपुष्पमालाभिर्भूषयेल्लिंगपिण्डिके । कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ।। ६ ।। सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये । आभिचारकृते दोषे विधानमिदमाचरेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः द्वादशः पटलः == त्रयोदशे पटले चैत्रमास दमन पूजा विधिः == दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् । हरकोपात् पुराजातः बैरवो दमनाह्वयः ।। १ ।। दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः । प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ।। २ ।। दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि । पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ।। ३ ।। ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः । ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ।। ४ ।। तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया । सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ।। ५ ।। शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः । अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ।। ६ ।। हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव । शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ।। ७ ।। एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् । यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ।। ८ ।। पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा । ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ।। ९ ।। सायाह्नसमये प्राप्ते विदध्यादधिवासनम् । आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ।। १० ।। यथा विधिसमभ्यर्च्य भानुशंकरपावकान् । पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ।। ११ ।। सद्योजातेन मनुना दीपितं हृदयेन वा । वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ।। १२ ।। दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा । पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ।। १३ ।। फलंमूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् । पञ्चांगमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ।। १४ ।। विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति । आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।। १५ ।। कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया । इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ।। १६ ।। संयोज्य शिवमन्त्रेण विदधीत जपादिकम् । शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ।। १७ ।। पवित्रकविधानेन कवचेनावकुण्ठयेत् । एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।। १८ ।। हविस्तदनु भुञ्जीत यदि वा पवनाशनः । शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ।। १९ ।। प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् । नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ।। २० ।। दमनैः पूजयेद्देवं पञ्चांगैरपि खण्डितैः । शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ।। २१ ।। ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् । आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ।। २२ ।। पवित्रक विधानेन क्रमेण शिवमर्चयेत् । पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ।। २३ ।। सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् । चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ।। २४ ।। मखेश्वराय च मखं पूरयेति च वीप्सितम् । शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ।। २५ ।। प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् । विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ।। २६ ।। भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् । सर्वन्तदस्तु संपूर्णंपर्व दामनकं मम ।। २७ ।। एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ।। २८ ।। ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् । पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः त्रयोदशःपटलः == चतुर्दशे पटले चैत्रमास वसन्तोत्सवविधिः == तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः । पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ।। १ ।। नानामाला समाकीर्णे नानाफलविचित्रते । नानागानसमोपेते नानावाद्यसमन्विते ।। २ ।। नानानृत्तसमायुक्ते नानायन्त्रसमन्विते । प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ।। ३ ।। पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते । आस्थानमण्टपोपेते जलक्रिडासमन्विते ।। ४ ।। देवोद्यानेनयेद्देवं सर्वालंकारसंयुतम् । ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ।। ५ ।। परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः । पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ।। ६ ।। सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् । देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ।। ७ ।। कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः । स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ।। ८ ।। वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् । ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ।। ९ ।। नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च । एवं काले तु देवेशन्नयेद्देवालयं पुनः ।। १० ।। स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् । एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ।। ११ ।। एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ।। १११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः चतुर्दशः पटलः == पञ्चदशे पटले वेशाखमासशीतकुम्भविधिः == ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् । विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ।। १ ।। सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये । प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ।। २ ।। चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे । शीतकुम्भविधिः कार्यस्तत्तंद्दोषापनुत्तये ।। ३ ।। यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिंगमूर्धनि । वस्त्वंगुलं समारभ्यांगुलवृद्ध्याकरान्तकम् ।। ४ ।। यथान्तरं तथा कृत्वा संप्रक्षालयाम्बुना गुरुः । वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ।। ५ ।। विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः । महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ।। ६ ।। एवं कृत्वा त्रिपादींश्च विन्यसेल्लिंगपूर्धनि । मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ।। ७ ।। तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् । चतुर्द्रोणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। ८ ।। मध्यमं खारिसंपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ।। ९ ।। कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ।। १० ।। एकद्वित्र्यंघ्रिसंयुक्तन्निष्कमानकृतेन तु । युगांगुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ।। ११ ।। पिधानेन समोपेतं पल्लवेन समन्वितम् । उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ।। १२ ।। पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् । आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ।। १३ ।। ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् । प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ।। १४ ।। प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् । गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ।। १५ ।। प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् । पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ।। १६ ।। गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् । अथवाचमनीयार्थं कल्पितो गन्ध एव वा ।। १७ ।। नीरोमजन्तुकं द्रव्यं उपकुम्भे विनिक्षिपेत् । हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ।। १८ ।। नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् । तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ।। १९ ।। समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः । आप्येनामृतबीजेन संपुटेन शिवेन च ।। २० ।। आप्याधारणयोपेतं सहस्रं वा तदर्थकम् । शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ।। २१ ।। आप्याणुसंपुटं मूलं जपेत्तत्संख्यकं यथा । जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ।। २२ ।। आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् । कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ।। २३ ।। अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः । शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकांक्षिभिः ।। २४ ।। सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् । तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ।। २५ ।। सहस्रसंख्यकावास्युः अर्धसंख्या समन्विताः । शतसंख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ।। २६ ।। एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः । पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ।। २७ ।। ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः । कुर्याच्छंखस्वनोपेतं प्रत्यहं चैवमाचरेत् ।। २८ ।। नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् । नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ।। २९ ।। नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः । संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ।। ३० ।। चन्दनागरुकर्पूरकुंकुमैः प्रचुरैर्गुरुः । गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ।। ३१ ।। कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ।। ३२ ।। नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः । पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ।। ३३ ।। ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः । मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ।। ३४ ।। नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि । जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ।। ३५ ।। पूजयेत् प्रत्यहं देवं यावत्स्यात् कांक्षितं फलम् । तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ।। ३६ ।। प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् । संग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ।। ३७ ।। आभ्यां कृत्वा सुधाम्नस्तु च सुवारके आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ।। ३८ ।। सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् । घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ।। ३९ ।। शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् । निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ।। ४० ।। तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति । सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ।। ४१ ।। द्विमासंन वा त्रिमासं वा विधिमेवंन समाचरेत् । आचार्यं पूजयेदादौ वस्त्रैः पञ्चांगभूषणैः ।। ४२ ।। दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः । अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ।। ४३ ।। अन्येषामपि सर्वेषां हेमवस्त्रांगुलीयकान् । निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ।। ४४ ।। प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् । ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ।। ४५ ।। नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि । दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ।। ४६ ।। स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ।। ४६१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः पञ्चदशः पटलः १५ यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि । वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ।। यथान्तरं तथा कृत्वा सप्रक्षाल्यांबुनागुरुः । वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ।। विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः । महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ।। एवं कृत्वा त्रिपादीं च विन्यसेल्लिंग मूर्धनि । चतुर्द्राणेन संपूर्णं श्रेष्ठं द्रोणत्रयेण तु ।। मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम् । पक्वबिम्बपलाकारं सवस्त्रंकूर्चसंयुतम् ।। कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् । पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ।। == षोडशे पटले ज्येष्ठमासफलपूजाविधिः == ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः । विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ।। १ ।। विशेषपूजा संयुक्तं पायसेन समन्वितम् । विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ।। २ ।। नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च । पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ।। ३ ।। कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा । वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ।। ४ ।। सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् । क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ।। ५ ।। यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः षोडशः पटलः == सप्तदशे पटले == आषाढ मास पूर्वफल्गुनी पूजा विधिः आषाढे मासि नक्षत्रे पूर्वफाल्गुन संज्ञके । आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ।। १ ।। कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना । देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ।। २ ।। वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् । ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ।। ३ ।। तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् । ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ।। ४ ।। आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् । रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ।। ५ ।। दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् । ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ।। ६ ।। हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् । त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ।। ७ ।। स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः । एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ।। ८ ।। संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः । सक्तुभिश्च फलोपेतैस्तान् संपूज्य ह्रदा गुरुः ।। ९ ।। तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् । तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ।। १० ।। तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि । आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ।। ११ ।। प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् । अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ।। १२ ।। बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् । नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ।। १३ ।। गुडखण्ड समोपेतं सक्तु संदापयेद् गुरुः । नानापूप समायुक्तं नानाफल समन्वितम् ।। १४ ।। जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् । विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ।। १५ ।। विधाय केवलं वापि त्रिशूलेन समन्वितम् । नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ।। १६ ।। प्रभूतहविषोपेतं मुखवासेन संयुतम् । ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ।। १७ ।। वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः । सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ।। १८ ।। सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये । विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ।। १९ ।। इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा विधिः सप्तदशः पटलः == अष्टादशे पटले श्रावणमासे पवित्रारोहण विधिः == दुरितस्य विनाशार्थं संवत्सरकृतस्य तु । पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ।। १ ।। प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् । सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ।। २ ।। पुत्रको भुक्ति भांङ्नस्यात् जन्मनैकेन रोधनात् । समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ।। ३ ।। विधातव्यं प्रयत्नेन येन केन प्रकारतः । प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ।। ४ ।। पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् । आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ।। ५ ।। अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ । पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ।। ६ ।। इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः । चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ।। ७ ।। कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् । शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ।। ८ ।। कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् । क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ।। ९ ।। दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् । त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ।। १० ।। रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः । शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ।। ११ ।। शक्तयो नव वामाद्या नव सूत्राधिपा मताः । दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ।। १२ ।। शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् । द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ।। १३ ।। तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु । यवीयसां कलासंख्या मध्याना वर्ण लक्षिताः ।। १४ ।। ज्येष्ठानां पदसंख्याता स्तन्तवो मानुषे मताः । स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ।। १५ ।। स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च । संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ।। १६ ।। समा एव गृहस्थस्य परिवारामरादिषु । तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ।। १७ ।। एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः । ग्रन्थयस्तन्तु संख्याताः स्निग्ध गर्भा नवा मताः ।। १८ ।। यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः । एकादित्र्यंगुलं वापि ग्रन्थिमानमिहागमे ।। १९ ।। ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः । रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ।। २० ।। कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् । रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ।। २१ ।। त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् । पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ।। २२ ।। यज्ञसूत्राख्यमाला च बाहुमला ततः परम् । मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ।। २३ ।। आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् । यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ।। २४ ।। क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् । आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ।। २५ ।। पवित्रमेकं सर्वेषामावृतानां विधीयताम् । एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ।। २६ ।। क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् । यागधामवृषस्थान प्रासादालय संश्रयान् ।। २७ ।। कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् । एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ।। २८ ।। प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा । मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ।। २९ ।। षोडशस्तंभसंयुक्ते रविस्तंभ युतेऽपि वा । मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ।। ३० ।। त्रिभागायामयुक्ते वा विंशति स्तंभ संयुते । मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ।। ३१ ।। तत्समन्तात् सुसंकॢप्त नव पञ्चैक कुण्डके । तत्संख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ।। ३२ ।। पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् । कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ।। ३३ ।। कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः । अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ।। ३४ ।। परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् । लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ।। ३५ ।। इष्ट्वा संप्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् । संपूज्य विधिवद्देव समीपे स्वासनेस्थितः ।। ३६ ।। आसनार्चनमारभ्य कुर्यादावाहनान्तकम् । कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ।। ३७ ।। नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् । पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ।। ३८ ।। कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् । समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ।। ३९ ।। पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च । शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ।। ४० ।। प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु । शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ।। ४१ ।। तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु । स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ।। ४२ ।। शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् । कुर्यादात्मीय भागं तु केवलेन घृतेन च ।। ४३ ।। हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् । गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ।। ४४ ।। दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् । भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ।। ४५ ।। पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् । धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ।। ४६ ।। होमद्रव्याणि सर्वाणि सकुशान्यपरानने । दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ।। ४७ ।। रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् । दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ।। ४८ ।। तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् । तांबुलं भस्म संमिश्रं दद्यात्तत्पुरुषं स्मरन् ।। ४९ ।। ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् । स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ।। ५० ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् । धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ।। ५१ ।। ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः । स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ।। ५२ ।। तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् । तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ।। ५३ ।। मण्डले वेदिकोर्ध्वे चेदत्र कुंभान्तिकेऽपि वा । संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ।। ५४ ।। मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके । संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ।। ५५ ।। गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् । अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ।। ५६ ।। त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः । दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ।। ५७ ।। याग धामवृषस्थान प्रासादानल संश्रयान् । कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ।। ५८ ।। दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् । प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ।। ५९ ।। तदेतानि पवित्राणि भगवन् संस्कृतानि हि । अर्पयामि घटस्थाय शिवायाध्येषये दिति ।। ६० ।। समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् । आदौ वा कुंभवर्धन्योर्दत्वायायाच्छिवान्तिकम् ।। ६१ ।। स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् । एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ।। ६२ ।। धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः । आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ।। ६३ ।। शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना । आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ।। ६४ ।। समस्तविधिविच्छिद्र पूरणेशमखंप्रति । प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ।। ६५ ।। तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।। ६६ ।। जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् । दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ।। ६७ ।। दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः । आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ।। ६८ ।। इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम् । अन्येषां चैव मूर्तिना/ क्रमाद्दद्यात् बहिर्बलिम् ।। ६९ ।। वायव्यांक्षेत्रपालाय दत्वाचम्य बलिं पुनः । प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ।। ७० ।। भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् । अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ।। ७१ ।। स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः । मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ।। ७२ ।। नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् । सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ।। ७३ ।। निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः । पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ।। ७४ ।। आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् । अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ।। ७५ ।। अविसर्जित देवेशात् पवित्राण्यवरोपयेत् । तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ।। ७६ ।। दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् । समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ।। ७७ ।। कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः । द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुंभयोः ।। ७८ ।। दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् । स्वासने दीपसंकॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ।। ७९ ।। मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् । शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ।। ८० ।। विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् । पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ।। ८१ ।। जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः । कुण्डमस्त्रेण संप्रोक्ष्य मेखलापरिधिस्थितान् ।। ८२ ।। सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् । दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ।। ८३ ।। प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् । दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ।। ८४ ।। नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्संप्रविश्य च । ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ।। ८५ ।। गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च । कृत्वा विशेष पूजां च विभवस्यानुसारतः ।। ८६ ।। स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् । वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ।। ८७ ।। सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् । कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ।। ८८ ।। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः । प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ।। ८९ ।। कालात्मना त्वयादेव यद्दृष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ।। ९० ।। तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् । सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ।। ९१ ।। पूरयेति द्विरुच्चार्य मखव्रत फलं ततः । नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ।। ९२ ।। आत्मतत्त्वाधिपतये शिवाय नम इत्यपि । तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ।। ९३ ।। पवित्रकत्रयंमूर्ध्नि तद्भोगी शिवादिकम् । शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ।। ९४ ।। सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ।। ९५ ।। त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे । अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ।। ९६ ।। कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ।। ९७ ।। जपहोमार्चनाहीनं कृत्यं नित्यं मया तव । अकृतं वाक्यहीनं च तत्पूरय महेश्वर ।। ९८ ।। सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् । त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ।। ९९ ।। खण्डितं यन्मया देव व्रत वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञासूत्रगुंभितम् ।। १०० ।। जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् । गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ।। १०१ ।। अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा । अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ।। १०२ ।। एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् । व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ।। १०३ ।। सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते । शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ।। १०४ ।। वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्संप्रविश्य च । देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ।। १०५ ।। दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः । प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ।। १०६ ।। मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् । तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ।। १०७ ।। सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः । लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ।। १०८ ।। स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने । ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ।। १०९ ।। व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् । भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ।। ११० ।। मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् । भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ।। १११ ।। वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके । हृदये संनिवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ।। ११२ ।। परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः । शिवकुंभास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ।। ११३ ।। ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् । दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ।। ११४ ।। रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् । आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ।। ११५ ।। निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि । लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ।। ११६ ।। पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् । दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ।। ११७ ।। इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः अष्टादश पटलः == एकोनविंशत्तमे पटले नवनैवेद्यविधिः == अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् । मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ।। १ ।। अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् । निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ।। २ ।। विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके । शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ।। ३ ।। नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् । मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ।। ४ ।। चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् । चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ।। ५ ।। हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् । पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ।। ६ ।। सलक्षणेन दात्रेण पूजितेनैव हेतिना । प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ।। ७ ।। शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् । तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ।। ८ ।। तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् । नालिकेरफलोपेतं नवपूगफलान्वितम् ।। ९ ।। मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् । नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ।। १० ।। पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः । आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ।। ११ ।। नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् । नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ।। १२ ।। ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति । पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ।। १३ ।। कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् । विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ।। १४ ।। वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा । गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ।। १५ ।। चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् । तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ।। १६ ।। मरीचजीरकोपेतं गुलसारसमन्वितम् ।। १६१/२ ।। नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा । स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ।। १७१/२ ।। मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले । पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ।। १८१/२ ।। अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन् । तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ।। १९१/२ ।। कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद् गुरुः । धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ।। २०१/२ ।। नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् । तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ।। २११/२ ।। नवपूगफलोपेतं देव्यै च विनिवेदयेत् । सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ।। २२१/२ ।। अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् । वृषादिपरिवारेभ्यो होमकर्म समापयेत् ।। २३१/२ ।। नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् । बलिदानसमोपेतमतिथीनां समर्पणम् ।। २४१/२ ।। निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् । तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ।। २५१/२ ।। हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् । सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ।। २६१/२ ।। वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः । एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ।। २७१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः एकोनविंशतितमः पटलः == विंशतितमे पटले समयविशेषदीक्षा विधिः == अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् । आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः । सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ।। २ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत् । आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ।। ३ ।। पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् । वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ।। ४ ।। प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ।। ५ ।। प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् । तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ।। ६ ।। पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च । अस्त्रेण पार्ष्णिंघातस्य त्रयं कृत्वाथ भूगतान् ।। ७ ।। कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः । छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ।। ८ ।। दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् । अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ।। ९ ।। वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि । संपूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ।। १० ।। वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः । उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ।। ११ ।। सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः । विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ।। १२ ।। अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् । तदम्भसा तु संप्रोक्ष्य स्वशिरोद्रव्य संहितम् ।। १३ ।। अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् । हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ।। १४ ।। शिवहस्तं च संकल्प्य तदारोपितमस्तकः । ज्ञानासिं तत्वसंख्यातैश्चतुरूनैरथापि वा ।। १५ ।। दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् । कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ।। १६ ।। मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते । पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ।। १७ ।। शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः । सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ।। १८ ।। रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत् । गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ।। १९ ।। एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् । अमृतीकृत्य संपूज्य शिवेनैकत्वमाचरेत् ।। २० ।। मण्डपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत् । लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ।। २१ ।। हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः । नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ।। २२ ।। कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः । कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ।। २३ ।। विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् । वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ।। २४ ।। हेमाद्येकतमं कुम्भमानीय गलिताम्मसा । पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ।। २५ ।। संहृतौ विकिरास्त्राणामासनं तु चलाचलम् । संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ।। २६ ।। वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् । विन्यसेदस्त्रभूतांतां प्रत्यङ्गनालसमन्विताम् ।। २७ ।। संपूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः । इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ।। २८ ।। वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः । विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ।। २९ ।। घटस्थं कलशस्थं वा कुंभस्थं वाजयेद्गुरुः । तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ।। ३० ।। भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ।। ३१ ।। सर्वेषां लोकपालानामनेन क्रमयोगतः । शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ।। ३२ ।। विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् । स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ।। ३३ ।। मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् । पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ।। ३४ ।। सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः । भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ।। ३५ ।। संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा । मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ।। ३६ ।। स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा । उमायै भगरूपिण्यै लिङ्ग रूपधराय च ।। ३७ ।। शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च । यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।। ३८ ।। एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ।। ३९ ।। रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि । यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ।। ४० ।। अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा । निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ।। ४१ ।। वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् । अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ।। ४२ ।। मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् । विशेषपूजयोपेतं पावके शिवमर्चयेत् ।। ४३ ।। भगवन् देहमाविश्य मदीयमनुकम्पया । कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनां ।। ४४ ।। संप्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः । मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ।। ४५ ।। उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् । सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ।। ४६ ।। यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः । होमाधि करणत्वेन पावकस्थस्सदाशिवः ।। ४७ ।। शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः । अनुग्रहकरो देवो मम देहे व्यवस्थितः ।। ४८ ।। पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः । अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ।। ४९ ।। ममापि हृदयादीनि साधनानि न संशयः । स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ।। ५० ।। यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः । त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ।। ५१ ।। अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः । भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ।। ५२ ।। विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः । सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ।। ५३ ।। तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर । प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ।। ५४ ।। कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् । उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ।। ५५ ।। द्वारस्य संमुखं बाह्ये प्रणवे कुशमण्डले । शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ।। ५६ ।। वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् । नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ।। ५७ ।। अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः । पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ।। ५८ ।। तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् । स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ।। ५९ ।। संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् । करोमि गुणसंपन्नं सतां मस्तकभूषणम् ।। ६० ।। ततस्संप्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना । दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ।। ६१ ।। उल्लिखेत् पाशसंतानं प्रवृत्तकरणोन्मुखम् । सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ।। ६२ ।। अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा । संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ।। ६३ ।। प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् । शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ।। ६४ ।। प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् । धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ।। ६५ ।। गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् । शासनेन सदेहेन शिवेन समधिष्ठितम् ।। ६६ ।। शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् । हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ।। ६७ ।। सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना । रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ।। ६८ ।। कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः । ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ।। ६९ ।। न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् । अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ।। ७० ।। सहसालोकितेशान शिववक्त्रसरोरुहम् । यात्तमङ्गमुञ्चेति प्रसूनं शिवसंमुखम् ।। ७१ ।। स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् । तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ।। ७२ ।। नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् । क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ।। ७३ ।। शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् । सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ।। ७४ ।। नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने । संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ।। ७५ ।। दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः । पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ।। ७६ ।। स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः । दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ।। ७७ ।। प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च । शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ।। ७८ ।। पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः । शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ।। ७९ ।। विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् । शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ।। ८० ।। हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति । आहारभावदोषाभ्यां योनि बीजशरीरतः ।। ८१ ।। शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर । रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ।। ८२ ।। अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः । इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ।। ८३ ।। प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः । विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ।। ८४ ।। मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके । समानीय ध्रुवेणैव संपूज्य शिशुमस्तकात् ।। ८५ ।। संहारमुद्रया स्वस्य हृदये पूरकेण तु । प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ।। ८६ ।। रेचकेन प्रयोगेण केशेशानसदाशिवान् । नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ।। ८७ ।। संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः । दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ।। ८८ ।। शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु । एवं समयसंस्कारयुक्तो यश्शिवपूजने ।। ८९ ।। होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च । योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ।। ९० ।। ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः । शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ।। ९१ ।। सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ।। ९११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः पटलः == एकविंशत्तमे पटले स्थालीपाकविधिः == स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने । स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ।। १ ।। प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च । निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ।। २ ।। कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा । मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ।। ३ ।। वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके । षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ।। ४ ।। शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत् । पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ।। ५ ।। चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च । संमृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ।। ६ ।। दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् । आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ।। ७ ।। द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् । चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ।। ८ ।। चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् । विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ।। ९ ।। उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् । स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ।। १० ।। हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि । तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ।। ११ ।। प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् । सुशीतले भवेत्येवं वौषट्पल्लवया तथा ।। १२ ।। शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् । संमृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ।। १३ ।। अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले । पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ।। १४ ।। शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत् । एवं संपादितेनैव चरुणा होम-इष्यते ।। १५ ।। तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् । हविष्यचतुरंशेन होमकर्माथवा मतम् ।। १६ ।। होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः । पञ्चगोचर संस्थाय समस्तागमवेदिने ।। १७ ।। शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि । शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ।। १८ ।। हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि । आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ।। १९ ।। परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि । पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ।। २० ।। प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकांक्षिभिः । एतेषामन्यथाभावे सर्वं भवति चान्यथा ।। २१ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः एकविंशतितमः पटलः २२ द्वाविंशत्तमे पटले स्वप्नाध्याय विधिः अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः । दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ।। १ ।। तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति । लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ।। २ ।। संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि । षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ।। ३ ।। मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि । शीघ्रमेव फलं तस्य भविष्यति न संशयः ।। ४ ।। रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् । प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ।। ५ ।। मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् । यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ।। ६ ।। चन्द्रार्क तारग्रसनं परिमार्जनमेव च । भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ।। ७ ।। श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् । सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ।। ८ ।। गन्धर्व नगरं वापि देवगन्धर्व योषिताम् । दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ।। ९ ।। जातरूपमयं छत्रं श्वेतमाला विभूषितम् । चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ।। १० ।। तेषामारोहणं शस्तं तत्फलानां च संग्रहः । तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ।। ११ ।। गो सिंह वृषभाणां च वीक्षणारोहणे हिते । सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ।। १२ ।। सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् । तरणं निम्नगाम्भोधि काननानां जलस्य च ।। १३ ।। प्रशस्तं दोहनं कर्म महिषीणां गवामपि । सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ।। १४ ।। प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् । पयसः पाटलाया गोः पानं यद्वत्सलीलया ।। १५ ।। दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् । एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ।। १६ ।। सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् । एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ।। १७ ।। अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च । चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ।। १८ ।। पशुसिंह गजानां च लाभो युद्धे विशेषतः । अध्यापनं च शास्त्राणामन्नलेपनमेव च ।। १९ ।। तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च । बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ।। २० ।। सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः । श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ।। २१ ।। सरोजस्यातपत्रस्य मणीनां दर्पणस्य च । दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ।। २२ ।। विमलस्यांभसश्शस्तं दर्शनं हाटकस्य च । राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ।। २३ ।। देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि । सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ।। २४ ।। एतेषामपि पनेन राज्यं संप्राप्नुयान्नरः । शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ।। २५ ।। रूपयौवन संपन्नां श्रियंवा तादृशीमपि । उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ।। २६ ।। कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् । तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ।। २७ ।। दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा । भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ।। २८ ।। जयं विवादद्युतादौ संग्रामे विजयं तथा । कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ।। २९ ।। निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा । दृष्ट्वाग्निं संग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ।। ३० ।। नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् । तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ।। ३१ ।। परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च । निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ।। ३२ ।। निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् । स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ।। ३३ ।। हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः । पात्रे मणिमये वाथ राजते वाथ भोजनम् ।। ३४ ।। सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् । लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ।। ३५ ।। मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः । पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ।। ३६ ।। बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् । शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ।। ३७ ।। चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वंच पश्यति । ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ।। ३८ ।। छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः । पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ।। ३९ ।। छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् । लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ।। ४० ।। सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते । धनधान्यमवाप्नोति सर्वाभरण भूषितः ।। ४१ ।। आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ।। ४२ ।। चक्रं च पूर्ण कुंभं च श्रीवत्सं स्वस्तिकं तथा । सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ।। ४३ ।। शिवागमादि शब्दानां श्रवणं धनदं भवेत् । गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ।। ४४ ।। देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् । ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ।। ४५ ।। पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि । उद्यानारामकरणं शुभप्रदमिहोच्यते ।। ४६ ।। आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् । बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसंग्रहः ।। ४७ ।। स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् । गणानां विबुधानां च सुधापानं नभोगतिः ।। ४८ ।। इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् । भूवस्त्रलाभ पर्यङ्कशयया दाहोंबरस्य च ।। ४९ ।। आसनस्य च दाहो वा नावा रोहणमेव च । नवशुक्लांबरत्वं च तथा शुद्धोदनाशनम् ।। ५० ।। मधुनः पङ्कजस्येव जननं हननं स्वकम् । शंखपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ।। ५१ ।। दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन । अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ।। ५२ ।। लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः । पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ।। ५३ ।। बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् । हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ।। ५४ ।। विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् । उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ।। ५५ ।। सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः । चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ।। ५६ ।। अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः । रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ।। ५७ ।। भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च । नर्तनं ग्रसनं चैव विवाहो गीतमेव च ।। ५८ ।। तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् । स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ।। ५९ ।। पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः । चितायां रोहणं शक्रध्वजस्य पतनं तु वा ।। ६० ।। सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् । दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ।। ६१ ।। देव द्विजादि भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।। ६२ ।। हानिश्चैव स्वगात्राणां विरेकवमनक्रिये । दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ।। ६३ ।। गृहणाञ्चैव पातश्च गृह संमार्जनं तथा । पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ।। ६४ ।। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः । काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ।। ६५ ।। स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् । क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ।। ६६ ।। नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा । रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ।। ६७ ।। नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा । विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ।। ६८ ।। पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च । प्लवनं भग्नयानत्वमशुभाय भविष्यति ।। ६९ ।। सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः । द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ।। ७० ।। छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता । प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ।। ७१ ।। कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने । कार्पासतिल मूलादि लोहानि लभते च यः ।। ७२ ।। स्वस्थश्च लभते व्याधितो मृत्युमृच्छति । भग्न ध्वजाधिकं भग्नं छत्रंदृष्ट्वाऽशुभं लभेत् ।। ७३ ।। एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् । तथैवहसनं भुक्तिरोदनस्य तिलैः सह ।। ७४ ।। अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् । कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ।। ७५ ।। दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः । संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ।। ७६ ।। यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् । हीननृत्तसमजश्च नाभेरन्य प्रदेशके ।। ७७ ।। तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च । खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ।। ७८ ।। सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् । स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ।। ७९ ।। नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः । व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ।। ८० ।। आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः । सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ।। ८१ ।। परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि । अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ।। ८२ ।। शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् । पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ।। ८३ ।। शोषणं कथिताख्यं च तोयपानं प्रमेहिणः । हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ।। ८४ ।। रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति । भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ।। ८५ ।। आदित्यचन्द्रताराणां मलिनत्वमशोभितम् । पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ।। ८६ ।। ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् । दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ।। ८७ ।। काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा । पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ।। ८८ ।। पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा । गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ।। ८९ ।। निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् । म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ।। ९० ।। कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा । कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ।। ९१ ।। निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् । अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ।। ९२ ।। सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् । वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ।। ९३ ।। कृष्णकीटं च गांकृष्णां पश्येच्चेद्भयमाप्नुयात् । एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ।। ९४ ।। काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् । वह्नियान रथादीनां छत्रादीनां च भग्नता ।। ९५ ।। विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः । धूमायमानमात्मानं शिरोमुण्डनमेव च ।। ९६ ।। बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् । यवागू मारनालं वा पिपेद्धन विनाशनम् ।। ९७ ।। तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे । मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ।। ९८ ।। कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता । वर्तितैलतिलादीनामञ्जनालेपनं तथा ।। ९९ ।। अन्धकारनिवेशस्तु महामार्गगतिस्तुवा । संन्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ।। १०० ।। तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि । रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ।। १०१ ।। अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् । अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ।। १०२ ।। तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः । पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ।। १०३ ।। वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् । भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ।। १०४ ।। देवताश्च द्विजातिश्च पितरो योगिनो नृपः । यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ।। १०५ ।। एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च । लिंगं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ।। १०६ ।। यद्धातु प्रकृतिर्येन धातुना वापि दूषितः । तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ।। १०७ ।। यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् । तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ।। १०८ ।। तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे । दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ।। १०९ ।। समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् । प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ।। ११० ।। अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत् । द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ।। १११ ।। आचारेणाथ धर्मेण विद्यया वाथ यस्यतु । श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ।। ११२ ।। अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् । आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ।। ११३ ।। ब्राह्मण समयाख्येन संस्कारेण समन्वितः । निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ।। ११४ ।। नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् । आदौ समानदीक्षायां सत्यामपि च यत्र तु ।। ११५ ।। नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् । जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ।। ११६ ।। नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् । परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ।। ११७ ।। ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया । न संमान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ।। ११८ ।। एकदेशिक शिष्याणा माचारः परिकीर्तितः । किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ।। ११९ ।। तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकांक्षिभिः ।। १९९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः पटलः २३ त्रयोविंशत्तमे पटले निर्वाण दीक्षा विधिः निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् । आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ।। १ ।। कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः । सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ।। २ ।। पश्चिमद्वार मार्गेण संप्रविश्य मखालयम् । कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ।। ३ ।। भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् । कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ।। ४ ।। विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च । निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ।। ५ ।। कुंभं च वर्धनीं तत्र संपूज्य परितो गुरुः । लोकपालानथाभ्यर्च्य तेषां आज्ञां तु श्रावयेत् ।। ६ ।। भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च । मण्डले देव देवेशं इष्ट्वाऽग्नौ तर्पयेन्मनून् ।। ७ ।। भगवन् देहमाविश्य मदीयमनु कंपया । अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ।। ८ ।। इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् । सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ।। ९ ।। यज्ञस्य रक्षकः कुंभे पावके होम कारणम् । शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ।। १० ।। पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः । मन्त्राः कारणभूता ये शिवस्य हृदयादयः ।। ११ ।। ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि । संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ।। १२ ।। परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः । उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ।। १३ ।। तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम । पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृंहितः ।। १४ ।। आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसंमुखम् । आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ।। १५ ।। नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह । कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ।। १६ ।। अघोर संपुटं कृत्वा शिवं साङ्गं फटन्तकम् । कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ।। १७ ।। आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् । कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।। १८ ।। अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः । संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ।। १९ ।। अंगुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् । सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ।। २० ।। सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत् । संपूज्यगंध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ।। २१ ।। संनिधानाय मूलेन चाहुति त्रयमाचरेत् । शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ।। २२ ।। संताड्य हृदयं तस्य रेचकेन प्रविश्य च । हुंकारं उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ।। २३ ।। हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा संगृह्यमूलतः । द्वादशान्ते न्यसेत् शिष्य जीवं हृदय संपुटम् ।। २४ ।। सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया । सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ।। २५ ।। हुत्वाहुतित्रयं तस्य संविधानाय मूलतः । मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ।। २६ ।। शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः । शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ।। २७ ।। पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम् । संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ।। २८ ।। शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् । उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ।। २९ ।। अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः । कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ।। ३० ।। गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् । व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ।। ३१ ।। मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च । व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ।। ३२ ।। व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः । तासांच संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ।। ३३ ।। स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि । शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ।। ३४ ।। तासांच दीपनं कार्यमोङ्कारादि फडन्तकम् । अघोरबीजं मूलं च शान्त्यतीतकलामपि ।। ३५ ।। चतुर्थ्यन्तं समुच्चार्य हुंकारं तु समुच्चरन् । त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ।। ३६ ।। आहुतीनांत्रयं हुत्वा पाशबन्धनमाचरेत् । शिरः संताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ।। ३७ ।। भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् । व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ।। ३८ ।। हुंफडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् । शिवं संपुटितं स्वस्वबीजं च भगवत् पदम् ।। ३९ ।। कलाचतुष्टयंपाशं मल तत्वादिव्यापकम् । बन्ध बन्ध पदंचोक्त्वा हुंफषन्त समन्वितम् ।। ४० ।। पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् । तत्सूत्रं च समादाय शरावयुग संपुटम् ।। ४१ ।। कृत्वासंपात होमंच तत्सूत्रं मण्डलाधिपे । निवेद्य तस्य रक्षार्थं शिवकुंभान्तिकं न्यसेत् ।। ४२ ।। प्रणतिं कारयित्वा च शिवेन शिवकुंभके । आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ।। ४३ ।। पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् । शुचौ सावरणे देशे विविक्ते लेपिते भुवः ।। ४४ ।। पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया । भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ।। ४५ ।। निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् । अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ।। ४६ ।। उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना । चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ।। ४७ ।। तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् । चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ।। ४८ ।। अष्टग्रासप्रमाणंतु पुटके ब्रह्मवृक्षके । मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ।। ४९ ।। अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः । शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ।। ५० ।। कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् । मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ।। ५१ ।। राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः । आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ।। ५२ ।। अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् । मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ।। ५३ ।। इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् । स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ।। ५४ ।। सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च । पूर्वयाम्योत्तमाङ्गासु शययासु कुशभस्मना ।। ५५ ।। परस्परमलग्नासु सोपधानासु पार्श्वतः । चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ।। ५६ ।। अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसंख्यया । हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ।। ५७ ।। वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः । अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः संकल्प्य बाह्यतः ।। ५८ ।। स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ । दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ।। ५९ ।। चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये । विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ।। ६० ।। प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् । प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ।। ६१ ।। निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके । शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ।। ६२ ।। चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् । पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ।। ६३ ।। अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः । शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ।। ६४ ।। घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः । शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ।। ६५ ।। आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे । अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ।। ६६ ।। करोम्यनुग्रहं देव शिशो रध्येषयेदिति । लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ।। ६७ ।। निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् । पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ।। ६८ ।। कालाग्निरथकुऽऽमाण्डं हाडकं ब्राह्मवैष्णवौ । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ।। ६९ ।। कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।। ७० ।। अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। ७१ ।। याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ।। ७२ ।। निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।। ७३ ।। बलो ह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। ७४ ।। मेघनादः सुनादश्च दशमः परिकीर्तितः । शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ।। ७५ ।। पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ।। ७६ ।। लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः । विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ।। ७७ ।। सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः । वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।। ७८ ।। ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ । शंभुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।। ७९ ।। संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः । वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ।। ८० ।। कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले । याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ।। ८१ ।। बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ।। ८२ ।। वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः । भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ।। ८३ ।। एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः । नमोद्वयं प्रणवं षडक्षरमतः परम् ।। ८४ ।। सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा । शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ।। ८५ ।। पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् । साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ।। ८६ ।। अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित । ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ।। ८७ ।। सर्वभूतसुखप्रद भवोद्भवपदं ततः । भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ।। ८८ ।। मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् । महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ।। ८९ ।। महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः । निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ।। ९० ।। ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् । इत्युच्चार्य निवृत्तिं तु सूत्रात्संग्राह्य पावले ।। ९१ ।। आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् । मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ।। ९२ ।। भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः । तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ।। ९३ ।। वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् । हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ।। ९४ ।। संनिधीभव देवेशि पश्वनुग्रहकर्मणि । प्रार्थैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ।। ९५ ।। अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च । स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ।। ९६ ।। अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया । आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ।। ९७ ।। तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् । सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ।। ९८ ।। पूरकेन हृदि स्वस्य संनिवेश्य च कुम्भकम् । कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ।। ९९ ।। आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया । सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ।। १०० ।। स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् । भगवन् देव देवेश शिशोस्सर्वासु योनिषु ।। १०१ ।। संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् । निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ।। १०२ ।। भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच । सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ।। १०३ ।। ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् । भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ।। १०४ ।। इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च । मूलहुतित्रयं दत्वा शिवंप्रतिवदेदिदम् ।। १०५ ।। भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति । कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ।। १०६ ।। भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ । कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ।। १०७ ।। प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु । देशतः कालतश्चैव देहेन विषयेण च ।। १०८ ।। संचितागामिभेदेन भोगन्नाना विधं स्मरन् । भोक्तृत्व लिंगितेपुंसि सुखदुःखात्मवेदनम् ।। १०९ ।। मूलाहुतित्रयं दत्वा शिवंसंप्रार्थयेदिति । भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ।। ११० ।। परमप्रीति रूपं च भोगेषु संस्मरन् । शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ।। १११ ।। लयंच कुरु कुर्वीति शिशोः निर्वाण कर्मणि । जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ।। ११२ ।। हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् । सर्वकर्मसु शुद्धिंच निष्कृत्या कुरु कुर्वणोः ।। ११३ ।। भगवन्निति विश्लेषम् भोगाभावादणोरिह । बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ।। ११४ ।। मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् । मलकार्यंच भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ।। ११५ ।। दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् । मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ।। ११६ ।। अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह । स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ।। ११७ ।। भगवन्नात्मनो मायाफल कर्मात्मकं त्विह । विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ।। ११८ ।। ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु । अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ।। ११९ ।। आहुतीनां त्रयं दत्वा निवृत्तिछेदननंत्विह । भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ।। १२० ।। अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः । संभाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ।। १२१ ।। ओंब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत् । शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ।। १२२ ।। आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः । कारणेशत्वयानास्य धातुः पदमनामयम् ।। १२३ ।। प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी । ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ।। १२४ ।। निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् । ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ।। १२५ ।। निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः । कुरुकुर्वीति संहारमुद्रया पूरकेन तु ।। १२६ ।। कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् । आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ।। १२७ ।। वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत् । आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ।। १२८ ।। अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् । त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ।। १२९ ।। गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च । पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ।। १३० ।। मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् । तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ।। १३१ ।। चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च । अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ।। १३२ ।। अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः । डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ।। १३३ ।। हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ । मध्यमेशो महाकालः केदारो भैरवस्तथा ।। १३४ ।। गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा । विमलेशोऽट्टहासश्च महेन्द्रो भीमसंज्ञकः ।। १३५ ।। वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः । गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।। १३६ ।। झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ।। १३७ ।। पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ।। १३८ ।। अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ । कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ।। १३९ ।। अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि । गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ।। १४० ।। झगलण्डाद्यहंकारे पैशाचाद्यं मनौस्थितम् । प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ।। १४१ ।। महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः । महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ।। १४२ ।। ततश्शर्वपदंचोक्तं शिवेति च ततः परम् । निधनोद्भवसंज्ञं च निधनाख्य पदं ततः ।। १४३ ।। अनिधनपदं चैवम् ओंस्वक्षःपदमतः परम् । ओंभुवश्चपदं चान्यदोंभूः पदमतः परम् ।। १४४ ।। चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः । अनादे तुपदं चान्यदभस्मेति पदं ततः ।। १४५ ।। अधूमपदमन्यच्च अनग्नीति पदं ततः । अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ।। १४६ ।। तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि । अरूपिन् पदयुग्मंच पदान्येकं च विंशतिः ।। १४७ ।। प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् । इत्युक्त संख्यत त्वार्णंपदमन्त्रैस्त्रिविष्टपैः ।। १४८ ।। गर्भितां तामनुस्मृत्य संतधीतोपभुक्त्या । शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ।। १४९ ।। वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् । सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ।। १५० ।। ओं ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् । नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ।। १५१ ।। कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् । निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ।। १५२ ।। हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् । कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ।। १५३ ।। रागो नियतिविद्ये च कलाकालौ च मोहिनी । ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ।। १५४ ।। मन्त्रश्शिखा पुराणीह सप्तविंशतिसंख्यया । वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ।। १५५ ।। प्रचण्डोमापती चाजोऽनन्तैकशिवसंज्ञकौ । क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ।। १५६ ।। पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः । वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ।। १५७ ।। एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः । षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ।। १५८ ।। अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि । पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ।। १५९ ।। व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् । परमेश्वर परायेति पदं चैव पुनर्भवेत् ।। १६० ।। ज्योतिरूपायसंज्ञं च सर्वयोगाद्यमेव च । पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ।। १६१ ।। गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः । पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ।। १६२ ।। शिवायेति पदं सर्वप्रभवेति ततः । शिवायेति पदं पश्चाद् ओं पदमन्ततः ।। १६३ ।। ध्यानाहारायसंज्ञं च कीर्तितानि पदानि च । संधानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ।। १६४ ।। निष्कृतिं शिखया दत्वा शतहोमं विधाय च । रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ।। १६५ ।। भवाख्यं पदमेतत्तु कलात्रितयगोचरम् । भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ।। १६६ ।। अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् । बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ।। १६७ ।। अनुकूलमसंकीर्णमनासक्तिनिबन्धनम् । विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ।। १६८ ।। तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः । वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ।। १६९ ।। वामा ज्येष्ठा च रौद्री च काली कलविकरणी । बलविकरणी चैव बलप्रमथनीत्यपि ।। १७० ।। सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् । पुराणि नव विद्यायामनन्तस्सूक्ष्मसंज्ञकः ।। १७१ ।। शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ।। १७२ ।। सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु । एकादशपदान्यासन्नित्यंयोगिन इत्यपि ।। १७३ ।। योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः । ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ।। १७४ ।। अनाथायपदं प्रोक्तमनन्तायपदं पुनः । शिवायेतिपदं सर्वव्यापिने च पदं ततः ।। १७५ ।। व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च । निष्कृतौ शतहोमं तु कवचेन समाचरेत् ।। १७६ ।। सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती । ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ।। १७७ ।। शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् । बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ।। १७८ ।। ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।। १७९ ।। पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् । इन्धिका दीपिका चैव रोचिका मोचिका तथा ।। १८० ।। तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु । व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ।। १८१ ।। अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता । भुवनानि तु शाक्तानि पञ्चैव कथितानि च ।। १८२ ।। एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् । ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ।। १८३ ।। संपूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् । कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।। १८४ ।। निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् । अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ।। १८५ ।। ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् । समयं समयाचारं शक्तो पाशात्मके न्यसेत् ।। १८६ ।। समयं समयाचारपाशशुद्धिं महेश्वर । शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ।। १८७ ।। शिवबीजं समुच्चार्य सदाशिवपदं पुनः । मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ।। १८८ ।। पूर्ववत्संविसृज्यात्म सूत्रं संगृह्य निर्मलम् । रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ।। १८९ ।। शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् । संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ।। १९० ।। पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् । शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ।। १९१ ।। आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः । आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ।। १९२ ।। नमः प्रणवसंयुक्तमुक्त्वा संपूज्य सन्निधौ । विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ।। १९३ ।। सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् । सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ।। १९४ ।। मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति । शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ।। १९५ ।। शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः । मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ।। १९६ ।। अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् । ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ।। १९७ ।। संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् । छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ।। १९८ ।। आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् । स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ।। १९९ ।। ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि । प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ।। २०० ।। अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः । यावत्वयं परं धाम भगवन् परमेश्वर ।। २०१ ।। शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् । एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ।। २०२ ।। समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसंमुखम् । शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ।। २०३ ।। अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् । सकलीकृतमन्त्राणामेकैकाहुतिदानतः ।। २०४ ।। सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे । विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ।। २०५ ।। इन्धिका दीपिका चैव रोचिका मोचिका तथा । तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ।। २०६ ।। बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः । आभिः कलाभिस्संकॢप्तदेहयुग्देशिकोत्तमः ।। २०७ ।। व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता । अनाथानाश्रिता चेति बहिः करणसंयुतः ।। २०८ ।। अन्तः करणसंयुक्तस्समनाकल्पितं च तत् । आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ।। २०९ ।। कृत्वा पूरककुम्भौ तु जिह्वासंबद्धतालयुक् । ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ।। २१० ।। सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि । नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ।। २११ ।। सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसंनिभम् । संभाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ।। २१२ ।। शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु । व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ।। २१३ ।। समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया । शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ।। २१४ ।। योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् । तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ।। २१५ ।। यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः । साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ।। २१६ ।। न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते । स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ।। २१७ ।। होमयेद् देशिको धीमान् प्रयोगेणामुना यथा । सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ।। २१८ ।। अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् । आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ।। २१९ ।। इत्येवं कथिता दीक्षा सर्वपापविमोचनी । चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ।। २२० ।। न्यायजा गूढजाता वा दीक्षायामधिकारिणः । जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकांक्षिणः ।। २२१ ।। दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया । अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ।। २२२ ।। इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः पटलः २४ चतुर्विंशत्तमे पटले आचार्याभिषेक विधिः अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि । आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ।। १ ।। यत्र विप्राः सदाचाराः यतयश्च तपोधनाः । सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ।। २ ।। एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः । ककाराष्टक निर्मुक्तः प्रसंङ्गात् सोऽपि कथ्यते ।। ३ ।। कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः । कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ।। ४ ।। आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु । विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ।। ५ ।। दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे । स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ।। ६ ।। व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके । सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ।। ७ ।। विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च । ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ।। ८ ।। वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते । स्वार्थेष्टौ चल लिंगस्य प्रतिष्ठायां त्रयस्विमे ।। ९ ।। शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके । बाणलिंगेक्षणेवापि स्थापको यदि नैष्ठिकः ।। १० ।। आचार्यं गौलकं चैव दयित परिवर्तकम् । तथैव पारवेत्तारं देवलं च पुनर्भवत् ।। ११ ।। अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा । खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ।। १२ ।। अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा । असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ।। १३ ।। अथव्यसनिनं पारदारिकं वृषलीपतिम् । चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ।। १४ ।। परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् । परापवाद शीलं च तथा बहुकिणैर्वृतम् ।। १५ ।। सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् । बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ।। १६ ।। चपलं शठसञ्जारं वृद्ध्या जीवन मेव च । शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ।। १७ ।। सांख्ये विविधभेदे च मायावादेऽर्हतो मते । बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ।। १८ ।। अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके । सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ।। १९ ।। भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च । सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ।। २० ।। काव्य नाटकसक्तं च भरते तु निरन्तरम् । कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरं ।। २१ ।। ज्योतिज्ञानपरंवेद पुराणहित चेतसम् । तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ।। २२ ।। कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ।। २३ ।। शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च । चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ।। २४ ।। शैवार्थ देहिके हित्वा विचारं सन्ततं नरः । योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ।। २५ ।। अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् । अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ।। २६ ।। दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् । समान गोत्र संबन्धं कुसुमाक्षं च वर्जयेत् ।। २७ ।। इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि । अभिषेकं ततःकुर्यात् अंकुरार्पण पूर्वकम् ।। २८ ।। पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ । मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ।। २९ ।। अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् । चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ।। ३० ।। स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् । भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ।। ३१ ।। लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया । बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ।। ३२ ।। काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः । सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ।। ३३ ।। नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् । घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ।। ३४ ।। स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् । चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ।। ३५ ।। सदेशानेन विद्येशैः नवपञ्चपवित्रकैः । पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ।। ३६ ।। शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् । अथवा कलशानेकघटं वा शिव संयुतम् ।। ३७ ।। दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् । भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ।। ३८ ।। स्वासनेन तथा सम्यक् अर्चितं विभवेन वा । वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ।। ३९ ।। शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः । परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ।। ४० ।। सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च । आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ।। ४१ ।। पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् । आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ।। ४२ ।। ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः । करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ।। ४३ ।। दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः । पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ।। ४४ ।। राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः । आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ।। ४५ ।। दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ । तथैवं देव देवाय देशिकाय मयाकृतम् ।। ४६ ।। त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति । विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ।। ४७ ।। निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् । स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ।। ४८ ।। दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् । हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ।। ४९ ।। तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् । शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ।। ५० ।। अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः । तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ।। ५१ ।। अनेनैव प्रकारेण साधकं चाभिषेचयेत् । किंतु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ।। ५२ ।। दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः । सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ।। ५३ ।। जात्युद्धार विहीनो यस्सामान्य समयी भवेत् । तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ।। ५४ ।। दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः । न तु लिंगार्चने योग्याः किमु दीक्षादि कर्मणि ।। ५५ ।। शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् । शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ।। ५६ ।। शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते । मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ।। ५७ ।। शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् । बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ।। ५८ ।। भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ।। ५९ ।। भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते । सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ।। ६० ।। अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते । योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ।। ६१ ।। कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् । स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ।। ६२ ।। व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् । व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ।। ६३ ।। पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते । सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ।। ६४ ।। शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः । आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ।। ६५ ।। वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः । पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ।। ६६ ।। मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः । समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ।। ६७ ।। आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् । आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ।। ६८ ।। लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः । प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ।। ६९ ।। स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् । प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ।। ७० ।। स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च । यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ।। ७१ ।। स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते । आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ।। ७२ ।। तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया । स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ।। ७३ ।। अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति । आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ।। ७४ ।। साधकश्च तथा भूतस्सर्वकर्माणि शंसितः । महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ।। ७५ ।। नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् । लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ।। ७६ ।। मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् । संहिता पारगो वाथ लक्षाध्याययुपदेशतः ।। ७७ ।। संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका । शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ।। ७८ ।। सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् । चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ।। ७९ ।। पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ।। ८० ।। सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते । तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ।। ८१ ।। सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् । अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ।। ८२ ।। वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः । वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ।। ८३ ।। सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् । तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ।। ८४ ।। शब्दशास्त्रमलंकारो निरुक्तं छन्द एव च । कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ।। ८५ ।। आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च । लोकायतं तथा सांख्य मार्हतो मतमेव च ।। ८६ ।। मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् । वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ।। ८७ ।। तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् । धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ।। ८८ ।। रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् । न्याय वैशेषिकं सांख्यं सेश्वरं यत् प्रणीतवान् ।। ८९ ।। ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् । पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ।। ९० ।। सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् । ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ।। ९१ ।। पश्चिमं वाम संज्ञं तु वामाद्दक्षिणमुत्तमम् । दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ।। ९२ ।। पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः । सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ।। ९३ ।। अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः । सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ।। ९४ ।। सिद्धान्त विहिताचारो वैदिकाचार उच्यते । गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ।। ९५ ।। तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् । तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ।। ९६ ।। युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च । दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ।। ९७ ।। तथा पुंसवनादिश्च शैव आवश्यको मतः । तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ।। ९८ ।। क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये । वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ।। ९९ ।। भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः । वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ।। १०० ।। निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया । हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ।। १०१ ।। शैव कर्म समायुक्ता शैवे शैवी च केवला । श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ।। १०२ ।। आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च । सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ।। १०३ ।। गर्भाधानादिके वापि दहने श्राद्ध कर्मणि । अष्टका करणे वापि नित्यनैमित्तिकेपि वा ।। १०४ ।। वेदाध्ययन संस्कारे सोमयागादिकेपि वा । वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ।। १०५ ।। तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् । कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ।। १०६ ।। विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् । संग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ।। १०७ ।। शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा । वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ।। १०८ ।। तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि । सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ।। १०९ ।। शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः । तदापि वैदिकं वेदसार मित्यादि वाक्यतः ।। ११० ।। शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः । सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ।। १११ ।। स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते । कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ।। ११२ ।। कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् । अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ।। ११३ ।। अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् । सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रंदक्षिणाननम् ।। ११४ ।। अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् । विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ।। ११५ ।। स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत् । वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ।। ११६ ।। मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् । चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिंबमन्यतः ।। ११७ ।। प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् । जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ।। ११८ ।। जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् । किरणं तल मित्युक्तं वातुलं वामकं तलम् ।। ११९ ।। सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः । ऋषय ऊचुः पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ।। १२० ।। इत्यादि कथितं देव परस्परविरोधनं । ईश्वर उचाच बहुधा कथितं विप्राः भवद्भिरवधारितम् ।। १२१ ।। मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् । तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ।। १२२ ।। सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् । भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ।। १२३ ।। निराकारं भवेज्ज्ञानं संकरं तदुपास्यतः । परस्पर विरोधीति मतिहीनैः प्रबाध्यते ।। १२४ ।। ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः । न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ।। १२५ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा । न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ।। १२६ ।। उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः । कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ।। १२७ ।। दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः । विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ।। १२८ ।। रौरवान्मुख बिंबान्ता वामदेव मुखोद्भवाः । प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ।। १२९ ।। तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः । अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ।। १३० ।। स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः । अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ।। १३१ ।। विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता । हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ।। १३२ ।। विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् । विशिष्टे विद्यमाने च हठादज्ञेन कारिते ।। १३३ ।। साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता । तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ।। १३४ ।। कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् । लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ।। १३५ ।। द्रव्यं करोति सुमुखं सर्वलोकसमं यशः । ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ।। १३६ ।। तद्वित्तमाहृतं येन स पापी च स दुर्मतिः । नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ।। १३७ ।। इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः चतुर्विंशतितमः पटलः २४ ज्ञानदीक्षाविधिः ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः । सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ।। १ ।। एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे । सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ।। २ ।। शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे । शुद्धदेशे सुखासीनः पञ्चगोचरसंभवः ।। ३ ।। दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे । सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ।। ४ ।। स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि । गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ।। ५ ।। पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् । षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ।। ६ ।। ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।। ७ ।। दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसंनिधौ । सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ।। ८ ।। गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् । अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ।। ९ ।। तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् । प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ।। १० ।। तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् । पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ।। ११ ।। सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् । नवमं शिवयोगं च दशमं शिवभोगकम् ।। १२ ।। त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् । गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ।। १३ ।। इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ।। १३१/२ ।। २५ पञ्चविंशत्तमे पटले गोत्र निर्णय विधिः ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ।। १ ।। ऊनपञ्चाशदेवैषां संख्या स्यान्महतामिह । कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ।। २ ।। अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः । अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ।। ३ ।। शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः । शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ।। ४ ।। कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः । गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ।। ५ ।। क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा । नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ।। ६ ।। आदिशैवे यथा गोत्रमनुशैवे तथामतम् । किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ।। ७ ।। जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः । उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ।। ८ ।। प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः । कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ।। ९ ।। धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः । अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ।। १० ।। पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः । लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ।। ११ ।। भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः । ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ।। १२ ।। उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः । मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ।। १३ ।। पराशरस्ततोऽगस्त्यस्साम्बवाहनसंज्ञकाः । सोमवाहनसंज्ञाश्च यज्ञवाहास्ततो मताः ।। १४ ।। वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा । वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ।। १५ ।। हारिताः संकृतिश्चैव पश्चाद्रथीतरा मताः । मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ।। १६ ।। कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः । पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ।। १७ ।। तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः । कान्तका बाष्पका वाच्युकिता लोमका धनाः ।। १८ ।। साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् । यम दूता आनभिन्ना ततस्तारायणा मताः ।। १९ ।। चौलकायनसंज्ञाश्च जाबाल्युदुम्बरौ मतो । दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ।। २० ।। श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसंज्ञकाः । शालावतां मयूराश्च तथोदुत्सरित्यपि ।। २१ ।। चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसंज्ञकाः । ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ।। २२ ।। येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि । स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ।। २३ ।। पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ।। २४ ।। लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः । जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ।। २५ ।। कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः । विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ।। २६ ।। प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु संमताः । माणा उद्वहला एते रोक्षास्तु कुशिका मताः ।। २७ ।। प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः । माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ।। २८ ।। विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः । श्रौमितो देवतरसः कामकायनिकस्ततः ।। २९ ।। कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः । त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ।। ३० ।। देवश्रावस इत्यन्तो देवतरस इत्यमी । कठाः स्वैरन्ध्रिसंज्ञाश्चकरभाः सहिताः परे ।। ३१ ।। वाजायनाश्च कौकृत्यास्ततो जाणायना मताः । कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ।। ३२ ।। पिण्डिग्रीवास्ततो नारायणा नारद्य संज्ञकाः । एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ।। ३३ ।। विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः । आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ।। ३४ ।। तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः । त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ।। ३५ ।। विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः । आजायनस्ततः प्रोक्त एकवत्सश्च संमतः ।। ३६ ।। त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च । स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ।। ३७ ।। अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः । एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ।। ३८ ।। कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः । कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ।। ३९ ।। त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः । ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ।। ४० ।। पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च संमताः । ऋषी द्वौ संमतौ विश्वामित्रः पौरणः इत्यपि ।। ४१ ।। कौशिकाश्च दशाप्येवं न समन्वयगामिनः । काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ।। ४२ ।। ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः । आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ।। ४३ ।। धौमधौम्रायणा औधप्रचुराग्रायणा मताः । रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ।। ४४ ।। कायाताया अकापाया निकामौषनिकिस्तथा । काद्रायणा औज्वलयो रोहितायनसंज्ञकाः ।। ४५ ।। पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च । वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ।। ४६ ।। कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः । कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ।। ४७ ।। वैतम्बा देवयाताश्च महाचक्रेयसंज्ञकाः । पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ।। ४८ ।। वृषगणाश्च पानध्यो दाक्षपायण एव च । हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ।। ४९ ।। जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः । वैशम्पायनसंज्ञाक्ष ततः केशायताः स्मृताः ।। ५० ।। औकायनिस्ततो मार्जायनाः कांसायनाः परे । देवश्च होतसूच्यास्थूणा भागुरयस्तथा ।। ५१ ।। पाथिकार्याः खरेभा ये गोमयातास्ततः परम् । हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ।। ५२ ।। अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि । उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ।। ५३ ।। नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः । काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ।। ५४ ।। त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः । काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ।। ५५ ।। शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः । रभेरव्ययसौमानौ वनसंस्तु करेयुतः ।। ५६ ।। काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः । महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ।। ५७ ।। ततः कामशयः पश्चान्महौजक्य एव च । ततो मौञ्जायनाः प्रोक्तास्ततो गांगायना मताः ।। ५८ ।। वात्सभालय इत्युक्तास्ततो गोमिलसंज्ञकाः । वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ।। ५९ ।। बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः । हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ।। ६० ।। वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् । जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ।। ६१ ।। काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा । काश्यपक्षापवत्सारोऽसितं इत्यथवा त्रयः ।। ६२ ।। शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा । कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ।। ६३ ।। चैरन्घ्रिः पशवश्चिव पयणायनसंज्ञकाः । कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ।। ६४ ।। कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि । कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ।। ६५ ।। सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः । यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ।। ६६ ।। यौधवा याजपा एते लोगाक्षय इति स्मृताः । अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ।। ६७ ।। काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः । पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च संमताः ।। ६८ ।। भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः । देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ।। ६९ ।। ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः । आजा औमाश्च तौदेहाः परिणद्धेधसंज्ञकाः ।। ७० ।। शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः । वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ।। ७१ ।। श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः । ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसंज्ञकाः ।। ७२ ।। पैलाः सौज्ज्वलयः कारुणादयः शुगसंज्ञकाः । भारुण्डेया इषुमतास्तथा वौदोदमेघयः ।। ७३ ।। सौरभरास्तथा भाद्रपथयः परिकीर्तिताः । ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ।। ७४ ।। प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः । वाराहयोः देववेला वलभीगय इत्यपि ।। ७५ ।। भद्राङ्गगतसंज्ञाश्च शालाहलय इत्यपि । नृत्यायना महावेलास्ततः शालालयो मताः ।। ७६ ।। शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा । क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ।। ७७ ।। ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः । सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ।। ७८ ।। स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः । ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ।। ७९ ।। आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च । धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ।। ८० ।। मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः । काब्ल्याः कारुपथयः कारिषायणसंज्ञकाः ।। ८१ ।। भरद्वाजवनौ द्वौ तु ऋषयः पञ्च संमताः । भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ।। ८२ ।। अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः । एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ।। ८३ ।। भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः । स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ।। ८४ ।। सांभरायणसंज्ञाश्च तथा यौगन्धरायणः । सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ।। ८५ ।। ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः । भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ।। ८६ ।। सत्यापचय आख्याता जाणपक्वलसंज्ञकाः । पलाशशाखावन्तस्ते मर्कटायनसंज्ञकाः ।। ८७ ।। ततः संग्रहतुल्याश्च वैधूह्यः कारिरोतयः । त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ।। ८८ ।। पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः । अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ।। ८९ ।। गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः । ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ।। ९० ।। भारद्वाजास्त्रयश्चापि न समन्वयगामिनः । गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ।। ९१ ।। आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः । सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ।। ९२ ।। व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः । कठोरिः कारुणिः कीलालयः पार्थिवसंज्ञकाः ।। ९३ ।। काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः । एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ।। ९४ ।। प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः । शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ।। ९५ ।। ततः क्षीरकम्भाश्च ततः सौमुचयो मताः । सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ।। ९६ ।। राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः । एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ।। ९७ ।। अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः । कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ।। ९८ ।। पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः । ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ।। ९९ ।। पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः । कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ।। १०० ।। पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः । आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ।। १०१ ।। ततो दीर्घतमश्चेति पर्यायाः पञ्च संमताः । कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ।। १०२ ।। बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि । औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ।। १०३ ।। गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः । कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ।। १०४ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः । विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ।। १०५ ।। प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः । अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ।। १०६ ।। सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः । तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ।। १०७ ।। अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे । अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ।। १०८ ।। भोजश्चादितिसंज्ञश्च चान्द्रोशीः पार्व इत्यपि । कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ।। १०९ ।। ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः । ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ।। ११० ।। शाम्ब व्यसन संज्ञाश्च कार्मर्यायनयो मताः । ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ।। १११ ।। औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा । ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ।। ११२ ।। गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः । श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ।। ११३ ।। हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः । वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ।। ११४ ।। कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः । अनीलाययनसंज्ञाश्च अङ्गिराश्च ततो मताः ।। ११५ ।। गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः । शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ।। ११६ ।। भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः । त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ।। ११७ ।। अर्चनानस इत्येते ऋषयस्त्रय ईरिताः । तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ।। ११८ ।। अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः । ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ।। ११९ ।। अत्रिरर्चनानसेति गविष्ठिर इति त्रयः । मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ।। १२० ।। वैत भावय इत्येते ऋषयश्च ततो मताः । ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ।। १२१ ।। ततो गौरकयो वायुपूरकाः सायनास्ततः । इत्येते त्रियार्षेयाः स्युर्मुद्गलाः संप्रकीर्तिताः ।। १२२ ।। अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः । चतुर्विधा अप्यात्रेया न समन्वयगामिनः ।। १२३ ।। वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः । वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ।। १२४ ।। आश्वलायनसंज्ञाश्च गविष्ठास्त्वाश्वलयनाः । शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ।। १२५ ।। औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः । कोलायनाश्च को भोजिस्ततः पौलायना मताः ।। १२६ ।। सुन्दहरित इत्युक्तः काण्डेय विधिरेव च । सप्तवेलां इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ।। १२७ ।। एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः । प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ।। १२८ ।। ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः । आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ।। १२९ ।। पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः । सोमरङ्गलिनः कोकास्ततः कापटवा मताः ।। १३० ।। हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च । माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ।। १३१ ।। त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः । वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ।। १३२ ।। उपमन्युरौपगवा मण्डलेखय एव च । जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ।। १३३ ।। त्रैवर्ण वैवशागारिसारक्षा रक्षसंज्ञकाः । शैलालयो महाकर्णानया बालशिखा मताः ।। १३४ ।। औद्दाहमानयो बालानया भागास्ततो मताः । इत्युन्मायन संज्ञाश्च ततः कुण्डोदरायणाः ।। १३५ ।। लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः । अनृक्षर वसंज्ञाश्च कापिला वय एव च ।। १३६ ।। कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः । वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ।। १३७ ।। इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः । ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ।। १३८ ।। भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः । कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ।। १३९ ।। कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः । हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ।। १४० ।। खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः । श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ।। १४१ ।। पराशराः स्युररुणास्ततो भालुक्य संज्ञकाः । बादरिश्च तथा गार्गो वना वै कौकसादयः ।। १४२ ।। इत्येते कथिता पञ्च प्रनीलाश्च पराशराः । ततः सौधवसानाश्च आलंभायन संज्ञकाः ।। १४३ ।। स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः । चोलकायन संज्ञाश्च वार्णवल्कास्तथैव च ।। १४४ ।। पुनर्देवनगौख्याः श्रविष्टायन संज्ञकाः । ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ।। १४५ ।। आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च । कैमीयतय इत्येते पञ्च नीलाः पराशराः ।। १४६ ।। कृष्णाजिना काविशुभास्ततः श्यामायना मताः । ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ।। १४७ ।। श्वेताः पराशराः पञ्च वात्स्यायन एव च । श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ।। १४८ ।। श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः । वसिष्ठ शक्तिसंज्ञश्च पराशर इति त्रयः ।। १४९ ।। सर्वे पराशरास्त्वेते परस्परमयोगिनः । ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ।। १५० ।। शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः । तथौपदहनिश्चैव धावणिर्लावणिस्ततः ।। १५१ ।। लाव्योऽर्बुदोवैरणयो बुधादरय एव च । बोदरिः शैवरतयस्ततः श्यामातयो मताः ।। १५२ ।। ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा । गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ।। १५३ ।। दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे । सांभवाहन संज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५४ ।। दृढच्युतिरगस्त्यश्च सांभवाहस्त्रयस्त्विमे । सोमवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्तयः ।। १५५ ।। दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे । यज्ञवाहनसंज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ।। १५६ ।। दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे । अगस्तयस्तु चत्वारो नसमन्वियगामिनः ।। १५७ ।। जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः । मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ।। १५८ ।। आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः । शार्कराक्षास्ततो देवतायनाः शौनकायनाः ।। १५९ ।। माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः । पैङ्गलायन संज्ञाश्च पैला दाध्रेषयस्ततः ।। १६० ।। ततो बाह्यकयो वैश्वानरयश्च विलोहिताः । बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ।। १६१ ।। वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ । वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ।। १६२ ।। दधीचयश्च वापाणिस्ततः शैखावताः मताः । वाकायनाः सौकृतयस्ततो बालायना मताः ।। १६३ ।। सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः । ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ।। १६४ ।। जानायना औरक्षयाः काम्बरोदरयस्ततः । कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ।। १६५ ।। वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च । मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ।। १६६ ।। काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः । नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ।। १६७ ।। बाहुमित्रायणा आपिशलयो रोहितायनाः । ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ।। १६८ ।। ततो राजित वाहाश्च ततः शारद्वतायनाः । नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ।। १६९ ।। वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ।। १७० ।। ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि । विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ।। १७१ ।। प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः । ततस्त्वभयजाताः स्युः काण्डरथय एव च ।। १७२ ।। आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः । क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ।। १७३ ।। एते मताः विदा पञ्च आर्षेया जामदग्नयः । भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ।। १७४ ।। आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च । कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ।। १७५ ।। गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः । आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ।। १७६ ।। भार्गवश्च्यावनश्चाप्नुवानोरथानूपसंज्ञकाः । आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ।। १७७ ।। वत्सानमार्ष्टिषेणानां विदानां च परस्परम् । अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ।। १७८ ।। यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः । वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ।। १७९ ।। दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे । कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ।। १८० ।। सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः । भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ।। १८१ ।। ततः स्युर्भोग चितय एते यस्तका इति स्मृताः । त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ।। १८२ ।। भृगुश्चैव तथा यस्को दिवोदास इति त्रयः । मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ।। १८३ ।। सापिण्डिनो महावाल्या माल्या यावाल्यसंज्ञकाः । पुराभिनाय एजेयास्ततो राक्षायणा मताः ।। १८४ ।। कैतवायनयो माञ्जायना मादायवः स्मृताः । एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ।। १८५ ।। भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः । वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य संज्ञकाः ।। १८६ ।। त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः । भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ।। १८७ ।। शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति । गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ।। १८८ ।। श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः । एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ।। १८९ ।। एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः । यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ।। १९० ।। शुनकानां च संबन्धः कर्तव्य इति गम्यते । अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ।। १९१ ।। भद्रणा भद्रणाश्चैव शठमार्षण संज्ञकाः । शाबरायणसंज्ञाश्च सात्यकिः सात्यकायनाः ।। १९२ ।। बादरायणसंज्ञाश्च वात्स प्रायण संज्ञकाः । आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य संज्ञकाः ।। १९३ ।। देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः । एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ।। १९४ ।। अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा । वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ।। १९५ ।। कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे । मौञ्जिश्च माञ्जयश्चैव मर्कटायन संज्ञकाः ।। १९६ ।। मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः । मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ।। १९७ ।। अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः । हारिताश्च ततः कौत्साः सांख्या दार्भास्तथैव च ।। १९८ ।। शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ । नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ।। १९९ ।। कौतपाः कौलयः कारीषयः पौलय एव च । पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ।। २०० ।। इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः । आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ।। २०१ ।। ततः संकृतयस्तण्डिः शंभुश्च मलकास्ततः । पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ।। २०२ ।। हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः । चारायणाः पूतिभाषास्तत आग्रायणा मताः ।। २०३ ।। चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी । प्रोक्ता संकृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ।। २०४ ।। अङ्गिराः संकृतिश्चाम्बरीषश्च ऋषयस्त्रयः । रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ।। २०५ ।। शैलालयश्च लैभिश्च ततो लीभायना मताः । मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ।। २०६ ।। ततो हेमशता ह्येते त्रियार्षेया रथीतराः । अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ।। २०७ ।। अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् । मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ।। २०८ ।। ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः । ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ।। २०९ ।। त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः । हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ।। २१० ।। ऐतिशायन संज्ञाश्च तरस्विश्च पतञ्जलि । मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ।। २११ ।। ततः करशिखण्डश्च ततो मौषींतकिर्मतः । तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ।। २१२ ।। त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः । अङ्गिराश्च कपित्थाश्च अंबरीष इति त्रयम् ।। २१३ ।। विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् । राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ।। २१४ ।। क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः । वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ।। २१५ ।। आत्रेयश्चैव वाध्रेयो वाधूलश्चापि संकृतिः । वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ।। २१६ ।। नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह । अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ।। २१७ ।। समानगोत्रप्रवराञ्ज्ञात्वा संबन्धमाचरेत् । समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ।। २१८ ।। ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् । तस्याश्च रक्षणंकार्यमाहाराच्छादनादिभिः ।। २१९ ।। विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् । तयासह प्रमादेन संयोगाद्यं कृतं यदि ।। २२० ।। प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते । सकृदागमने कुर्यात् तेन चान्द्रायणेन च ।। २२१ ।। सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् । एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ।। २२२ ।। मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् । षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ।। २२३ ।। तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् । निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ।। २२४ ।। तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः । तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ।। २२५ ।। उपवासस्तदा स्नानं पञ्चगव्याशनं जपः । होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ।। २२६ ।। साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके । चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ।। २२७ ।। त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् । द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ।। २२८ ।। इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः पञ्चविंशतितमः पटलः २६ षड्विंशत्तमे पटले शताभिषेकविधिः शताभिषेकं वक्ष्येहं संक्षेपात् द्विजसत्तमाः । अकालमृत्यु मथनं आयुरारोग्यवर्धनम् ।। १ ।। वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् । दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ।। २ ।। उत्तरायण कालेतु शुक्लपक्षे विशेषतः । सुलग्ने च सुवारे च सुतिथौ शोभने दिने ।। ३ ।। स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः । मङ्गलाङ्कुर संयुक्ते मण्डपे समलंकृते ।। ४ ।। कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे । पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ।। ५ ।। मुखायामयुते वापि चतुर्द्वार समन्विते । एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ।। ६ ।। ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा । अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ।। ७ ।। राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ।। ८ ।। पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् । अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ।। ९ ।। कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः । तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ।। १० ।। प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् । तद्रात्रौ तु पयः पीत्वा शययायां कम्बलादिभिः ।। ११ ।। कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः । मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ।। १२ ।। विसृज्य शिल्पिनंपश्चात् पुण्याहं वाचयेद्गुरुः । पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ।। १३ ।। शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् । तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ।। १४ ।। परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम् । चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ।। १५ ।। अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः । तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ।। १६ ।। वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् । अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ।। १७ ।। त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः । आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ।। १८ ।। अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः । शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ।। १९ ।। तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् । अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ।। २० ।। मध्यमे शिवकुंभं तु द्वात्रिंशत्प्रस्थपूरितम् । वर्धनी च तदर्धेन पूरिता शिवपूरिताः ।। २१ ।। बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः । त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ।। २२ ।। अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् । पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ।। २३ ।। चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् । नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ।। २४ ।। नानागन्धसमायुक्तं नानाबीजसमन्वितम् । नानाधातुसमायुक्तं नानालोहसमन्वितम् ।। २५ ।। नानादिगौषधोपेतं नानाफलसमन्वितम् । नानापुष्पसमायुक्तं नानागव्यसमायुतम् ।। २६ ।। संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः । अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ।। २७ ।। पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः । वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ।। २८ ।। नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् । प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ।। २९ ।। हिरण्यं रजतं ताम्रमारकूटं च सीसकम् । आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ।। ३० ।। द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् । अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ।। ३१ ।। रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च । जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ।। ३२ ।। कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् । ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ।। ३३ ।। पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसंभवाः । बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसंभवाः ।। ३४ ।। औदुम्बरी च नारङ्गंमातुलुङ्गसमुद्भवाः । वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ।। ३५ ।। आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः । नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ।। ३६ ।। सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके । उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ।। ३७ ।। वकुलं करवीरं च पाटलं कुरवं तथा । मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ।। ३८ ।। चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः । चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ।। ३९ ।। तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् । नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ।। ४० ।। वैष्णवं माषनीवार गोधूमं यवमेव च । अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ।। ४१ ।। श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः । लक्ष्मीश्च शंखपुष्पी च विष्णुक्रान्तिश्च हंसिनी ।। ४२ ।। तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी । सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ।। ४३ ।। पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च । गोमयं नालिकेरं त मातुलुङ्गफलं तथा ।। ४४ ।। नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च । दाडिमीसंभवं चैव न्यस्तव्याः क्रमशस्ततः ।। ४५ ।। गन्धोदकमथैशान्यां कलशेषु नवस्वपि । एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ।। ४६ ।। आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः । वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ।। ४७ ।। पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकं एव च । मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ।। ४८ ।। पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् । मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ।। ४९ ।। बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् । दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ।। ५० ।। मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके । उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ।। ५१ ।। अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् । पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ।। ५२ ।। गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः । नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ।। ५३ ।। समिदाज्यचरू/ल्लाजतिलवैणव माषकान् । जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ।। ५४ ।। उदुम्बरवटाश्वत्थप्लक्षा इंद्रादिदिषु च । शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ।। ५५ ।। पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् । सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ।। ५६ ।। शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः । ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ।। ५७ ।। होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च । गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ।। ५८ ।। अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् । किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ।। ५९ ।। वर्धन्यां च यजेद् गौरीमशेषकलशेषु च । पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ।। ६० ।। दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् । कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ।। ६१ ।। सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् । प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ।। ६२ ।। सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् । पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ।। ६३ ।। आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणेवेन तु । पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ।। ६४ ।। कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते । कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ।। ६५ ।। भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे । पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ।। ६६ ।। सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् । अन्येषामपि सर्वेषां शतधारावटेन वा ।। ६७ ।। हैमेन राजनेतापि तथोरन्यतरेण वा । सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ।। ६८ ।। स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा । गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ।। ६९ ।। विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् । तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ।। ७० ।। स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् । सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ।। ७१ ।। स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् । आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ।। ७२ ।। गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् । पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ।। ७३ ।। स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् । स्थापयित्वा सवत्सांगां दर्शयेच्च पयस्विनीम् ।। ७४ ।। बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः । सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ।। ७५ ।। आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् । गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ।। ७६ ।। पूणकुम्भयुते दीपसंयुते फलकोपरि । स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ।। ७७ ।। कारयित्वा ततः स्त्रीभिः रजनीजलधारया । दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ।। ७८ ।। ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति । श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ।। ७९ ।। पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा । एकेनवाभिषेकं तु कारयेदभिषेचनम् ।। ८० ।। दक्षिणां च गुरोर्दद्दादुत्तमादिषु संभवाम् । दासीदासं भुवं गां च गृहोपकरणानि च ।। ८१ ।। मूर्तिपानां तदन्ते च तदन्ते जापिनामपि । स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ।। ८२ ।। पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च । एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ।। ८३ ।। इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् । आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ।। ८४ ।। यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः । नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ।। ८५ ।। नोपसर्गभयं तत्र न परागमविप्लवः । स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ।। शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ।। ८६ ।। इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः षड्विंशतितमः पटलः २७ सप्तविंशत्तमे पटले अन्त्येष्टिविधिः अन्त्येष्टिं संप्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः । ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ।। १ ।। आचार्यसाधका वास्युः पुत्रका समयस्थिताः । गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ।। २ ।। आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता । अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ।। ३ ।। आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः । प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ।। ४ ।। तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् । परिहृत्य निषिद्धे च यैस्तेषां अप्रमादिनाम् ।। ५ ।। तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते । सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ।। ६ ।। यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् । यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ।। ७ ।। विधायस्नानमाग्नेयं मन्त्र संनद्ध विग्रहम् । मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ।। ८ ।। अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे । स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ।। ९ ।। संस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् । स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ।। १० ।। तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ । दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ।। ११ ।। नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् । एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ।। १२ ।। एकधा बहुधा वापि क्रियामेनां समाचरेत् । पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ।। १३ ।। विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा । एतत् सर्वं विधेयं तु देशिकेनतरेण वा ।। १४ ।। तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् । गत प्राणे नरे तस्य स्नानार्थं तीर्थ संभवम् ।। १५ ।। जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा । तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ।। १६ ।। विधायैवं घटान्वापि कलशान् स्नपनोक्तितः । संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ।। १७ ।। स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् । पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ।। १८ ।। स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् । अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ।। १९ ।। कृत्वा संहारमार्गेण कौपीनं वसनं तथा । परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ।। २० ।। दीक्षितानामथान्येषां शिवशासनधारिणाम् । अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ।। २१ ।। ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा । आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ।। २२ ।। पुरुषायतमानां च षडङ्गुलविवर्धनात् । त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ।। २३ ।। सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठराम्द । आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ।। २४ ।। रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् । इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ।। २५ ।। निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः । शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ।। २६ ।। स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना । संघेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ।। २७ ।। शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् । तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ।। २८ ।। निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः । दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ।। २९ ।। दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् । दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ।। ३० ।। जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् । वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ।। ३१ ।। वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् । सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ।। ३२ ।। व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् । विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ।। ३३ ।। गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च । ईप्सितं सुखमाप्नोति परत्रेह च भावितः ।। ३४ ।। नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः । अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ।। ३५ ।। असहायमनाथं च गतासुं शिवयोगिनम् । नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ।। ३६ ।। वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः । अथ स्थानमदूरस्थमुदकस्य समं शुचि ।। ३७ ।। प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे । षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ।। ३८ ।। कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले । संकल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ।। ३९ ।। हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् । कुण्डंदक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ।। ४० ।। गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् । शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ।। ४१ ।। प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः । विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ।। ४२ ।। कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् । तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनः ।। ४३ ।। आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना । ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ।। ४४ ।। संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् । विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ।। ४५ ।। समाहृत्य विधानेन चितावास्तु प्रपूजयेत् । पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ।। ४६ ।। पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते । वंशरज्ज्वादिसंपन्नै विन्यसेद्वास्तुदेवताः ।। ४७ ।। तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके । नैऋत्यां वारिणा संपन्ने विष्णुं कोष्ठचतुष्टये ।। ४८ ।। आग्नेययामग्निना सार्धं रुद्रं कोष्ठचतुष्टये । वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ।। ४९ ।। गगनेन सदेशानमैशकोष्ठचतुष्टये । पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ।। ५० ।। निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् । ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ।। ५१ ।। शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च । निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ।। ५२ ।। तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् । ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ।। ५३ ।। मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् । व्युत्क्रमासनमिष्ट्वैवं साङ्गं संपूज्य शङ्करम् ।। ५४ ।। संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च । क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ।। ५५ ।। संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे । शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ।। ५६ ।। साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः । अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ।। ५७ ।। संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः । चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ।। ५८ ।। रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः । तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ।। ५९ ।। आग्नेययादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् । ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ।। ६० ।। पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् । अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ।। ६१ ।। शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु । शवशययां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ।। ६२ ।। चन्दनागरुसंमिश्रैर्विपर्यस्तपटावृताम् । संपूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ।। ६३ ।। कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा । स्नापितं धूपितं तत्र भस्मना नववर्त्मना ।। ६४ ।। सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया । आग्नेययां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ।। ६५ ।। वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः । ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ।। ६६ ।। भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् । महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ।। ६७ ।। ओं हूं हामथ हं हां हूं महाजालमिदं मतम् । उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ।। ६८ ।। विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः । सषडंगंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ।। ६९ ।। चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् । निवृत्यादि समादाय युगपद्वा क्रमेण वा ।। ७० ।। कलास्तास्साधिपाः प्राग्वद्वह्नौ संपूजयेत्ततः । ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ।। ७१ ।। योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः । भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ।। ७२ ।। तिरोभावः पशुत्वस्य पाशविश्लेष भेदने । तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ।। ७३ ।। विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा । एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ।। ७४ ।। उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि । अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ।। ७५ ।। यदाक्तो न पुनर्जातु पराधीनो भवेदणुः । कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ।। ७६ ।। विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः । स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ।। ७७ ।। शवमभ्येत्य शययायामारोप्य प्रावृतं कुशैः । याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ।। ७८ ।। आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् । तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ।। ७९ ।। संछाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् । मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ।। ८० ।। सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् । गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ।। ८१ ।। पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् । त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ।। ८२ ।। गृहाण मन्त्रसंपूतां शाव्यामेनां महाहुतिम् । प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ।। ८३ ।। नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः । अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ।। ८४ ।। उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् । धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ।। ८५ ।। अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि । क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ।। ८६ ।। ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् । तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ।। ८७ ।। शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् । स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ।। ८८ ।। उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः । भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ।। ८९ ।। अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् । द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ।। ९० ।। शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् । विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। ९१ ।। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ।। ९२ ।। शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया । निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ।। ९३ ।। विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते । जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ।। ९४ ।। शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा । स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ।। ९५ ।। अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया । अविद्यमानदेहानां तथा विकलदेहिनाम् ।। ९६ ।। क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् । कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ।। ९७ ।। विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् । दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ।। ९८ ।। क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् । इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ।। ९९ ।। कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः । कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ।। १०० ।। प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः । अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ।। १०१ ।। किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् । भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ।। १०२ ।। दहनं मरणं येषां तत्कुलक्षयकारणम् । तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ।। १०३ ।। नृणामकृतचूडानां मृतानामवटक्रिया । न तेषां दहनं नैव बलिर्नैवोदकक्रिया ।। १०४ ।। नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया । ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ।। १०५ ।। यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया । लवणापूरणोपेता विना बल्युदकौदनैः ।। १०६ ।। कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् । प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ।। १०७ ।। दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः । कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ।। १०८ ।। सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् । आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ।। १०९ ।। बाहुमात्रं खनेद्भूमिं तच्छययायामविस्तराम् । न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ।। ११० ।। तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा । योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ।। १११ ।। लवणेनाथवापूर्य तत्समीपप्रदेशतः । तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ।। ११२ ।। बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् । तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ।। ११३ ।। अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् । भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ।। ११४ ।। अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् । समा वातीत्य भर्ता तु यदि देशान्तरं गतः ।। ११५ ।। द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् । मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ।। ११६ ।। वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः । पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ।। ११७ ।। मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् । होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ।। ११८ ।। श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना । नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ।। ११९ ।। तण्डुलं क्षीरसंमिश्रं वामदेवेन निक्षिपेत् । अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ।। १२० ।। स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह । वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ।। १२१ ।। दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् । त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ।। १२२ ।। तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् । स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ।। १२३ ।। यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः । तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ।। १२४ ।। इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया । अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ।। १२५ ।। प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः । पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ।। १२६ ।। प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् । पञ्चसप्ततिसंख्यातं तर्पणं प्रति भोजनम् ।। १२७ ।। कल्पयेद् द्विशतं पञ्चपञ्चसंख्यासमन्वितम् । ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ।। १२८ ।। नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने । दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ।। १२९ ।। तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा । नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ।। १३० ।। एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि । तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ।। १३१ ।। वीतशोकस्य सक्तानां नराणां मूढचेतसाम् । समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ।। १३२ ।। शिवव्रतधरा ये च शैवा ये हृहिणीसखाः । न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ।। १३३ ।। तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा । न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ।। १३४ ।। आत्मनो भोगहेतूनामभावादुपचर्यते । तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ।। १३५ ।। स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् । अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ।। १३६ ।। सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः । चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ।। १३७ ।। देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते । मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ।। १३८ ।। यः करोति स संमूढो जलबुद्बुदसंनिभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।। १३९ ।। कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।। १४० ।। फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ।। १४१ ।। अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः । द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ।। १४२ ।। घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः । तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् संचयनं चितेः ।। १४३ ।। हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा । पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ।। १४४ ।। अस्थिसंग्रहणं वाथ कुर्यात् संचयनं विना । एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ।। १४५ ।। अस्थिसंग्रहणं विप्रप्रमुखाणां क्रमेण वा । सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ।। १४६ ।। पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् । अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ।। १४७ ।। ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च । तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ।। १४८ ।। षण्मासे वाब्दसंपूर्तौ तदूर्ध्वे वाथ निक्षिपेत् । निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ।। १४९ ।। पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् । दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ।। १५० ।। शिष्यैकगुरुसंबन्धा गुरुसंबन्धिनश्च ये । त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ।। १५१ ।। तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा । दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ।। १५२ ।। गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् । आचारं दीक्षितास्तस्मात्कुर्वीर/ल्लोकसंवृतिम् ।। १५३ ।। शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् । पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ।। १५४ ।। पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया । अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ।। १५५ ।। क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते । विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ।। १५६ ।। दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका । उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ।। १५७ ।। क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् । सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ।। १५८ ।। पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका । माससंख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ।। १५९ ।। नाम्नः प्राग्दन्तजननात्तथोपनयनादपिं । स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ।। १६० ।। तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते । क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ।। १६१ ।। भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा । पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ।। १६२ ।। पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ । तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ।। १६३ ।। दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् । दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ।। १६४ ।। त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् । समानोदकवर्गाणामाशौचं विहितं विधौ ।। १६५ ।। ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् । आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ।। १६६ ।। आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् । पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ।। १६७ ।। यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः । वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ।। १६८ ।। एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः । भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ।। १६९ ।। तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् । शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।। १७० ।। शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी । सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ।। १७१ ।। प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा । सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ।। १७२ ।। तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।। १७३ ।। सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः । कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ।। १७४ ।। अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् । ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ।। १७५ ।। तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि । तथैव रुद्रकन्यानां पञ्चाचार्येऽपि संमतम् ।। १७६ ।। हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् । न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ।। १७७ ।। सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ।। १७८ ।। प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः । नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ।। १७९ ।। स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा । इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ।। १८० ।। ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः । शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ।। १८१ ।। दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता । आशौचं दासदासीनामधिष्ठातृकुलोचितम् ।। १८२ ।। प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः । कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ।। १८३ ।। तथैव देवदासीनां मातृजं कुलमीरितम् । राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ।। १८४ ।। समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा । गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ।। १८५ ।। निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् । हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ।। १८६ ।। काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते । स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ।। १८७ ।। स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् । परित्ययेत् परार्थं वा लोकसंवरणाय च ।। १८८ ।। भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः । ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ।। १८९ ।। आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः । तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ।। १९० ।। तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् । विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ।। १९१ ।। एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः । अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ।। १९२ ।। नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः । साधारणस्त्रियो याश्च पूता नैव कदाचन ।। १९३ ।। राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः । महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ।। १९४ ।। शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः । दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ।। १९५ ।। प्रेतसूतकसंबन्धि नित्यहानिं करोति यत् । तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ।। १९६ ।। प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् । त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ।। १९७ ।। विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् । योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ।। १९८ ।। भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा । यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ।। १९९ ।। मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् । अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ।। २०० ।। एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् । जपेदघोरं स्नानान्ते दशांशो होम एव वा ।। २०१ ।। यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च । अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ।। २०२ ।। निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च । नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ।। २०३ ।। शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता । एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ।। २०४ ।। अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ।। २०४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः सप्तविंशतितमः पटलः २८ अष्टाविंशत्तमे पटले पितृ यज्ञ विधिः पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः । आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ।। १ ।। अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् । पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ।। २ ।। तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः । गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ।। ३ ।। कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा । विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसंमितैः ।। ४ ।। दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् । प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ।। ५ ।। तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये । स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ।। ६ ।। तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् । पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ।। ७ ।। धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् । तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ।। ८ ।। गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् । आशौच रहितैः नवमद्भाण्ड एव हि ।। ९ ।। ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च । द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ।। १० ।। एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् । अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ।। ११ ।। पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा । कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ।। १२ ।। कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् । सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ।। १३ ।। तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् । मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ।। १४ ।। तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा । संग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ।। १५ ।। अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे । एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ।। १६ ।। विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते । ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ।। १७ ।। वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः । आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ।। १८ ।। पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा । तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ।। १९ ।। दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति । पिण्डमेकं तदा देय माशौचं चाप्रदानतः ।। २० ।। इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः अष्टविंशतितमः पटलः २९ एकोनत्रिंशत्तमे पटले शैव श्राद्ध विधिः ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् । नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ।। १ ।। प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् । नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ।। २ ।। कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते । वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ।। ३ ।। तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते । तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ।। ४ ।। एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् । श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ।। ५ ।। नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् । चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ।। ६ ।। मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् । नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ।। ७ ।। अनूदकमधूपं च गन्धमाल्य विवर्जितम् । आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ।। ८ ।। एकादशे त्रिपक्षे च तथा च प्रतिमासके । वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ।। ९ ।। षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् । एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ।। १० ।। यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश । पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ।। ११ ।। द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् । त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ।। १२ ।। सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति । मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ।। १३ ।। भोजनं सोदकुंभं च प्रदद्याद् देशिकात्मने । विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ।। १४ ।। सोदकुंभयुतं पश्चात् सपिण्डीकरणं समे । विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ।। १५ ।। षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् । एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ।। १६ ।। अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्याद्संवत्सद्गुरुः ।। १७ ।। पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् । सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ।। १८ ।। समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने । शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ।। १९ ।। एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशांमतम् । पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ।। २० ।। अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् । घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ।। २१ ।। चतुर्थी सप्तमी चैव नवमी च त्रयोदशी । अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ।। २२ ।। अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् । व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ।। २३ ।। विष्वोरपि गजच्छायासंक्रान्त्यादिषु कारयेत् । शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ।। २४ ।। एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये । अन्यदा वापि कर्तव्यं संभवे वसुपात्रयोः ।। २५ ।। रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि । रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ।। २६ ।। गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् । मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।। २७ ।। नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु । यदि कुर्यान्नवश्राद्धम्. कुलक्षयकरं भवेत् ।। २८ ।। शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः । एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ।। २९ ।। पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः । आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ।। ३० ।। * * * * * * * * * * * * * * * * ? । * * * * * * * * * * * * * * * * ? ।। ३१ ।। अमाद्वयस्तु वै मासो मलिनः पापसंभवः । गर्हितः पितृदेवेभ्यः सर्वकर्मसु संत्यजेत् ।। ३२ ।। नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे । वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ।। ३३ ।। नवमी स्यादमावास्या नभस्ये कृष्णपक्षके । तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ।। ३४ ।। तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च । कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ।। ३५ ।। अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः । कन्यां गते सवितरि पितरो यान्ति वै सुतान् ।। ३६ ।। ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ।। ३७ ।। अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति । उपात्तेषु सुसंतानं शकुना इव पिप्पले ।। ३८ ।। मधुमांसैश्च पाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ।। ३९ ।। पूर्वाहृणे दैविकं श्राद्धं अपराहृणे तु पैतृकम् । एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ।। ४० ।। शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके । आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ।। ४१ ।। आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ।। ४२ ।। द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध संपदि । स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ।। ४३ ।। आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः । न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ।। ४४ ।। पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः । उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ।। ४५ ।। शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः । दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ।। ४६ ।। शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ।। ४७ ।। संबन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः । फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ।। ४८ ।। शिवार्चनादिहीनाय शिवज्ञानापहारिणे । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ।। ४९ ।। सरोषमपसव्यं यैश्च युक्तमवज्ञया । सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ।। ५० ।। कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते । मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ।। ५१ ।। दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः । व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।। ५२ ।। अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् । श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ।। ५३ ।। पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।। ५४ ।। दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् । श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ।। ५५ ।। तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् । प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ।। ५६ ।। सोऽयं नरकमाप्नोति कुंभीपाकं न संशयः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ।। ५७ ।। श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः । सैन्धवं लवणं चैव तथा मानस सम्भवम् ।। ५८ ।। पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश । रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ।। ५९ ।। यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव । अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ।। ६० ।। कोद्रवं लवणं सर्वं तथा जम्बूफलानि च । कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ।। ६१ ।। बीजपूरक माषाणि मरीचिं पिप्पलीमपि । कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ।। ६२ ।। वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।। ६३ ।। कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् । पिण्याकं मथितं चापि तथातिलवणं च यत् ।। ६४ ।। हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ।। ६५ ।। निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् । बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ।। ६६ ।। दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ।। ६७ ।। अन्तर्जानु विशेषेण तथैवाचमनं भवेत् । दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ।। ६८ ।। विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमानि तावन्नरकमृच्छति ।। ६९ ।। यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ।। ७० ।। मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् । देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ।। ७१ ।। मृतसंपृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते । नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ।। ७२ ।। आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः । मित्राण्यारोग्यसंपश्च भवेच्छ्रद्धादनिन्दितात् ।। ७३ ।। नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः । कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ।। ७४ ।। भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि । शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ।। ७५ ।। नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् । चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।। ७६ ।। आचार्येण तु भुक्तेन कोटिर्भवति भोजिता । लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ।। ७७ ।। समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे । साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ।। ७८ ।। संभवे कथितं श्राद्धे सर्वे सर्वत्र वामताः । ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ।। ७९ ।। रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः । दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ।। ८० ।। स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः । तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ।। ८१ ।। तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि । पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ।। ८२ ।। बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् । एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ।। ८३ ।। एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् । षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ।। ८४ ।। इत्येवमभिसंधाय श्राद्धकर्म समाचरेत् । निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ।। ८५ ।। वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ । यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ।। ८६ ।। ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः । वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ।। ८७ ।। संयम्य चेन्द्रियग्राममनुगृहानुकम्पया । अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ।। ८८ ।। व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः । अभ्युत्थानासनाद्येन स्वागतेनागतानथ ।। ८९ ।। संभाव्य पादशौचाय कुर्यान्मण्डलकानि तु । सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ।। ९० ।। समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे । द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ।। ९१ ।। दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे । प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ।। ९२ ।। मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा । कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ।। ९३ ।। गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः । देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ।। ९४ ।। अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् । पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ।। ९५ ।। पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके । अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ।। ९६ ।। एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् । साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ।। ९७ ।। तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् । विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ।। ९८ ।। सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु । सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ।। ९९ ।। स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे । मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ।। १०० ।। पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् । दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ।। १०१ ।। सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः । तोयैराचमनं पश्चादाचान्तस्संप्रवेश्य तु ।। १०२ ।। उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते । आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ।। १०३ ।। ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ । कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ।। १०४ ।। न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः । उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ।। १०५ ।। आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः । आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ।। १०६ ।। स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् । अथ रक्षार्थमादाय यवानवकिरेत् परि ।। १०७ ।। प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ । रूपिणा संनिधानाय द्वितयस्य सकृत् सकृत् ।। १०८ ।। प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि । जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ।। १०९ ।। पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् । गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ।। ११० ।। वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा । दीपं च तेन संदद्यादीशानेन पवित्रकम् ।। १११ ।। वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् । तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ।। ११२ ।। कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् । कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ।। ११३ ।। आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् । स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ।। ११४ ।। रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः । त्रयाणां संनिधानार्थमघोरेणाञ्जलौ पृथक् ।। ११५ ।। पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् । भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ।। ११६ ।। तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् । गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ।। ११७ ।। ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् । पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ।। ११८ ।। ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ।। ११९ ।। सौवर्णं राजतं पात्रं ताम्रजं दलसंभवम् । भाजनं शुद्धमादाय भोजनायोपपादयेत् ।। १२० ।। हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् । पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ।। १२१ ।। सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः । शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ।। १२२ ।। कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् । सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ।। १२३ ।। ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः । उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ।। १२४ ।। हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् । पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ।। १२५ ।। अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः । दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ।। १२६ ।। संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् । पवित्रीकरणायेति ततस्सव्यमधोमुखम् ।। १२७ ।। तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च । गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ।। १२८ ।। अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् । आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ।। १२९ ।। शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः । अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ।। १३० ।। देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् । चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ।। १३१ ।। जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः । तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ।। १३२ ।। तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् । उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ।। १३३ ।। कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा । वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ।। १३४ ।। दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् । मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ।। १३५ ।। दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः । विधाय वारिणो धारां वामदेवमुदीरयन् ।। १३६ ।। क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् । संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ।। १३७ ।। क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् । पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ।। १३८ ।। प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये । सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ।। १३९ ।। गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये । वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ।। १४० ।। धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति । ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ।। १४१ ।। स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च । अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ।। १४२ ।। एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् । देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ।। १४३ ।। दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च । इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ।। १४४ ।। पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः । श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ।। १४५ ।। इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् । यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।। १४६ ।। पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् । सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ।। १४७ ।। अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा । इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ।। १४८ ।। पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ।। १४९ ।। ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः । धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ।। १५० ।। गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके । वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ।। १५१ ।। नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि । दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ।। १५२ ।। अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ।। १५३ ।। प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु । अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ।। १५४ ।। नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।। १५५ ।। आवाहनाग्निकरणरहितमपसव्यम् । उत्तिष्टतामित्यक्षययस्थाने तेषां विसर्जनम् ।। १५६ ।। अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे । एको वाथ नरो ग्राहो निमित्तस्य च संमतः ।। १५७ ।। स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् । गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ।। १५८ ।। वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च । आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ।। १५९ ।। उपधानयुतां शययां तदीयमपरं च यत् । दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ।। १६० ।। अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् । नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ।। १६१ ।। अनूदकमधूपं च गन्धमाल्यविवर्जितम् । पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ।। १६२ ।। जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः । प्रणामं न च कुर्वीत स्वधाकारं तथैव च ।। १६३ ।। नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति । अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ।। १६४ ।। हविष्यान्नेन ते मासं वत्सरं पायसेन तु । तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ।। १६५ ।। रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः । तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ।। १६६ ।। गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते । गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ।। १६७ ।। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ।। १६८ ।। ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् । पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ।। १६९ ।। सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप । कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ।। १७० ।। स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा । ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ।। १७१ ।। यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ।। १७२ ।। आयुष्कामो लभेदायुः धनकामो वसूनि च । विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ।। १७३ ।। पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् । एतानि लभते नित्यं श्राद्धदो नावसीदति ।। १७४ ।। प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः । ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ।। १७५ ।। पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः । योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ।। १७६ ।। कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ।। १७७ ।। एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । दानमाचमनं होमं भोजनं देवतार्चनम् ।। १७८ ।। प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् । आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ।। १७९ ।। परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ।। १८० ।। अटवी चाकृतारण्यं नदीतीराणि यानि च । सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ।। १८१ ।। चण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ।। १८२ ।। होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते । दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ।। १८३ ।। वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा । ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ।। १८४ ।। अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ।। १८५ ।। दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः । स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ।। १८६ ।। अथवान्यप्रकारेण कुतपस्त्विह कथ्यते । शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ।। १८७ ।। तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः । पिता पितामहश्चैव प्रपितामह एव च ।। १८८ ।। गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः । क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ।। १८९ ।। स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । पितामही तथा स्वेन तथैव प्रपितामही ।। १९० ।। पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति । मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ।। १९१ ।। मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् । अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ।। १९२ ।। एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता । सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ।। १९३ ।। न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते । अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।। १९४ ।। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ।। १९५ ।। स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः । स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ।। १९६ ।। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ।। १९७ ।। एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी । पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ।। १९८ ।। आसुरादि विवाहेषु विशेषः कश्चिदिष्यते । स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ।। १९९ ।। यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता । तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ।। २०० ।। जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् । पैतृकं तु भवेत् गोत्रं ऊर्ध्वं तु पितृ दैवतम् ।। २०१ ।। पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ।। २०११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम एकोन त्रिंशतितमः पटलः ३० त्रिंशत्तमे पटले प्रायश्चित्त विधिः प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । विधिर्निषेध इत्येवं चोदना द्विविधा मता ।। १ ।। अनुष्ठितायां तस्यांस्याद्यथावद्धर्म संग्रहः । वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ।। २ ।। तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् । यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ।। ३ ।। प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः । चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ।। ४ ।। सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः । तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ।। ५ ।। विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते । तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ।। ६ ।। आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया । कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ।। ७ ।। प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः । कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ।। ८ ।। ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् । स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ।। ९ ।। लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च । शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ।। १० ।। नमस्काराद्यमेतेषां शिवधामनिषेवणम् । शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ।। ११ ।। पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः । शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ।। १२ ।। उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् । शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ।। १३ ।। मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा । एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ।। १४ ।। एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् । विभज्य लक्षणं तेषां केषांचिदिह कथ्यते ।। १५ ।। पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः । सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ।। १६ ।। पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् । प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ।। १७ ।। दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम् । प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ।। १८ ।। मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् । तस्मान्मासावसानं तु हीनमित्यभिधीयते ।। १९ ।। मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् । लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ।। २० ।। आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः । प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ।। २१ ।। स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति । वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ।। २२ ।। पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः । नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ।। २३ ।। अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः । देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ।। २४ ।। सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः । राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ।। २५ ।। तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः । इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ।। २६ ।। अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना । मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ।। २७ ।। शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् । अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ।। २८ ।। मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः । जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ।। २९ ।। अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा । शाकयावकपिण्याककन्दमूलफलाशनः ।। ३० ।। स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् । जपं एव समाख्यातः प्रदक्षिण मथोच्यते ।। ३१ ।। नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः । लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ।। ३२ ।। अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् । गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ।। ३३ ।। गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः । सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ।। ३४ ।। परिहृत्य कृतं सर्वं यदि सर्वफलावहम् । अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।। ३५ ।। प्रासादार्ध प्रमाणं प्रासादसममेव वा । निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ।। ३६ ।। परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् । सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ।। ३७ ।। सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः । सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ।। ३८ ।। सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा । छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ।। ३९ ।। तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् । तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ।। ४० ।। प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ।। ४१ ।। अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् । अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ।। ४२ ।। क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् । एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ।। ४३ ।। कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते । सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ।। ४४ ।। शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् । शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ।। ४५ ।। ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसंज्ञकः । अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ।। ४६ ।। त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् । एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ।। ४७ ।। पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् । सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ।। ४८ ।। तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते । एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ।। ४९ ।। अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते । द्वादशाहनिर्राहारः पराक इति संस्मृतः ।। ५० ।। मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् । चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ।। ५१ ।। सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे । चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ।। ५२ ।। मध्यम द्वितयं वाथ तदर्थं दानमेव वा । उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ।। ५३ ।। मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना । तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ।। ५४ ।। शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् । देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ।। ५५ ।। गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् । संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ।। ५६ ।। अघोरामथवा शैवमस्त्रं पाशुपतं तु वा । अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ।। ५७ ।। कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ । समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ।। ५८ ।। तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् । सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ।। ५९ ।। प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् । स्वाहान्ते भगवन् सर्वक्षोपनाशंपदं ततः ।। ६० ।। कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् । पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ।। ६१ ।। पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् । मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ।। ६२ ।। कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् । तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः ।। ६३ ।। प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे । पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ।। ६४ ।। ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः । स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ।। ६५ ।। तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया । एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ।। ६६ ।। होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् । निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ।। ६७ ।। समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् । होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ।। ६८ ।। एवं शान्तिस्समादिष्टा नवधा सा समीरिता । एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ।। ६९ ।। पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः । कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ।। ७० ।। विसर्जनं तु वा देवे पावकस्य न सर्वथा । शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ।। ७१ ।। स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते । शुभाशास्वग्निदेशे वा मण्डपे समलंकृते ।। ७२ ।। स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेत्घटम् । ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ।। ७३ ।। सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् । परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ।। ७४ ।। विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् । प्रणवासनमारुढं दुराधर्षं महाबलम् ।। ७५ ।। पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ।। ७६ ।। कपालमालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामालानागाभरणलेलिहम् ।। ७७ ।। सूर्यकोट्ययुताभं च विघ्नसंघात मर्दकम् । भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ।। ७८ ।। खड्गचापमहाशूलाभयपाशांश्च दक्षिणे । खेटबाणा कपालांश्च वरप्रासौ च वामतः ।। ७९ ।। पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् । ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ।। ८० ।। ओं श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति । प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ।। ८१ ।। पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे । ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ।। ८२ ।। सर्वे पाशुपतोपेतहृदयादि समन्विताः । फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ।। ८३ ।। इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् । तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ।। ८४ ।। संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले । देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ।। ८५ ।। समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८६ ।। प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् । भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ।। ८७ ।। अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् । पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ।। ८८ ।। प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् । पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ।। ८९ ।। कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् । प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ।। ९० ।। अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः । समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ।। ९१ ।। कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् । ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ।। ९२ ।। होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना । कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसंख्यया ।। ९३ ।। दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः । प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ।। ९४ ।। लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा । मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ।। ९५ ।। यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु । दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ।। ९६ ।। वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा । स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ।। ९७ ।। सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् । एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ।। ९८ ।। मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च । अथैतद्यागशालायां कर्म सर्वं समापयेत् ।। ९९ ।। अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च । तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ।। १०० ।। शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके । तदग्रे संयजेदस्त्रंशिवाख्यंदेशिकोत्तमः ।। १०१ ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ।। १०२ ।। अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ।। १०३ ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् । दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ।। १०४ ।। सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते । ओं ह्रींङ्कारं ततः कृष्णवाससे चेति यत्पदम् ।। १०५ ।। ततश्च सिह्मवदने महावदन इत्यपि । महाभैरविवर्णे च सर्वशत्रुपदं ततः ।। १०६ ।। कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः । च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ।। १०७ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ।। १०८ ।। सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् । सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ।। १०९ ।। ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन । प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ।। ११० ।। ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः । प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ।। १११ ।। दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् । तथैव तस्मान्नेत्राणुश्चतुस्त्रिं/शद्भिरस्त्रकम् ।। ११२ ।। त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः । नमः स्वाहावषड्वौषड् ह्रुंफड् युक्ता हृदादयः ।। ११३ ।। सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ।। ११४ ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ।। ११५ ।। कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् । मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ।। ११६ ।। अट्टहासरवोपेतां कृष्णाजिन समन्विताम् । ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ।। ११७ ।। अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् । गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ।। ११८ ।। पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् । चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ।। ११९ ।। तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् । प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ।। १२० ।। इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् । कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ।। १२१ ।। स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह । तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ।। १२२ ।। कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् । प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ।। १२३ ।। प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।। १२४ ।। तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः । चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ।। १२५ ।। प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः । प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ।। १२६ ।। रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् । अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ।। १२७ ।। कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः । कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ।। १२८ ।। देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः । देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ।। १२९ ।। प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् । दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ।। १३० ।। दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते । प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ।। १३१ ।। समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः । होमश्च पुरुषाघोरवामाजैर्दिक्षु संमतः ।। १३२ ।। स्नपनादिषु होमेऽयं चतुर्दिक्षु च संमतः । वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ।। १३३ ।। शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे । उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ।। १३४ ।। सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते । तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ।। १३५ ।। पलाशसमिदाज्यान्नैश्शत संख्या शिवाणुना । शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ।। १३६ ।। ततोऽघोराणुना होमं पञ्चविंशतिसंख्यया । प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ।। १३७ ।। संहिताहोम एष स्यान्मूर्तिहोमो विधीयते । हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ।। १३८ ।। शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे । अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ।। १३९ ।। ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् । गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ।। १४० ।। मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् । यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ।। १४१ ।। वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः । दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ।। १४२ ।। दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि । ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ।। १४३ ।। प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ।। १४४ ।। सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ।। १४५ ।। नृत्यन्तं तं महाकायं नागाभरण भूषितम् । देवदानवदैत्यानां दर्पितानां विमर्दकम् ।। १४६ ।। वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् । पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ।। १४७ ।। तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे । स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ।। १४८ ।। संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना । तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले ।। १४९ ।। समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् । हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ।। १५० ।। प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले । कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ।। १५१ ।। पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च । पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ।। १५२ ।। अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् । स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ।। १५३ ।। लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् । तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ।। १५४ ।। प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि । अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।। १५५ ।। गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि । ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ।। १५६ ।। गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् । संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ।। १५७ ।। भस्मापि यजमानाय दातव्यं होमकर्मणि । अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ।। १५८ ।। मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः । अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ।। १५९ ।। यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् । संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ।। १६० ।। अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् । स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ।। १६१ ।। समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् । पञ्चाशत्संख्यकं वापि तदर्थं वा पृथक् पृथक् ।। १६२ ।। पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ । शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ।। १६३ ।। क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा । पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ।। १६४ ।। विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् । पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ।। १६५ ।। पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् । संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ।। १६६ ।। एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः । कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ।। १६७ ।। संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः । शान्त्युक्तदिन संख्याया वशेनैतत्समाचरेत् ।। १६८ ।। मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा । यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ।। १६९ ।। एकसन्ध्यादि भेदेन नित्यपूजा विलोपने । द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ।। १७० ।। लोपे चासनसंस्कारोपचाराणामथावृतेः । पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ।। १७१ ।। निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे । अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ।। १७२ ।। गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् । दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ।। १७३ ।। नीराजनस्य वा दीपमालास्थेनाहृतेन वा । मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ।। १७४ ।। लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः । लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ।। १७५ ।। दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके । हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ।। १७६ ।। कृमिकीटनराद्यस्थिनखरोमादिदर्शने । देवाय दत्तद्रव्येषु नखरोमादिदर्शने ।। १७७ ।। श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे । सामान्यप्राणिसंभूत मलयुक्तैरथापिवा ।। १७८ ।। नैवेद्याहरणे काले तोयसेके विलोपिते । तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ।। १७९ ।। प्रागेव निश्चित द्रव्यहीने तस्य वर्धने । लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ।। १८० ।। मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति । बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ।। १८१ ।। काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने । अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ।। १८२ ।। केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः । होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ।। १८३ ।। बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते । वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ।। १८४ ।। गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने । अतोद्य नृत्तकरणे वितानस्य विलोपने ।। १८५ ।। बलिप्रदान कालेतु वाद्यदीपविलोपने । पादुकाराधन हीने तद्याने वा विलोपिते ।। १८६ ।। अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये । उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ।। १८७ ।। बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके । सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ।। १८८ ।। सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा । तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ।। १८९ ।। अतोद्यनृत्तवैकल्ये नीराजनविलोपने । तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ।। १९० ।। अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः । कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ।। १९१ ।। सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते । निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ।। १९२ ।। बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः । दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ।। १९३ ।। विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा । आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ।। १९४ ।। अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे । एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ।। १९५ ।। अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते । एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ।। १९६ ।। स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् । मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ।। १९७ ।। विधाय पूजां त्रिगुणां द्विगुणां वा समामथ । उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ।। १९८ ।। नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः । कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ।। १९९ ।। प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः । त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ।। २०० ।। चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् । प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ।। २०१ ।। अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् । दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ।। २०२ ।। तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता । दिनानि यानि हीनानि पूजया नित्यसंज्ञया ।। २०३ ।। तदहस्संख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् । एक मासावधिं यावत्ततस्संप्रोक्षणं नयेत् ।। २०४ ।। नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः । द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ।। २०५ ।। तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् । पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ।। २०६ ।। आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते । शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ।। २०७ ।। अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः । पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ।। २०८ ।। विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् । शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ।। २०९ ।। नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके । तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ।। २१० ।। पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता । तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ।। २११ ।। शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् । दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ।। २१२ ।। अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः । पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ।। २१३ ।। तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः । गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ।। २१४ ।। तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः । धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ।। २१५ ।। घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः । पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ।। २१६ ।। दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता । आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ।। २१७ ।। नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् । ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ।। २१८ ।। अथ काण्डपटे हीने देवानां संनिधिक्षयः । भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २१९ ।। देवं संपूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे । शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ।। २२० ।। तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे । कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ।। २२१ ।। द्रव्याणामेव चैतेषामर्धे पादे तदर्धके । प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ।। २२२ ।। जप्त्वा देवाय तद्द्रव्यंद्विगुणं दापयेत्ततः । द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ।। २२३ ।। अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः । दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ।। २२४ ।। स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा । नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ।। २२५ ।। दद्योजातनरेशानाश्शतधावर्त्य देशिकः । याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ।। २२६ ।। दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः । प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ।। २२७ ।। हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः । संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ।। २२८ ।। नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते । विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ।। २२९ ।। अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् । पूर्वसंकल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ।। २३० ।। जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा । अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ।। २३१ ।। शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः । धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ।। २३२ ।। धूपारात्रिकयोर्दानकाले नीराजनस्य च । दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ।। २३३ ।। वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके । अणुना महता वापि राज्ञो रोगो भविष्यति ।। २३४ ।। संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् । पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ।। २३५ ।। संपूज्य देवदेवेशं मूर्तिहोमं समाचरेत् । अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ।। २३६ ।। लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना । निर्दग्धानि तदा कुर्यात् कर्म संप्रोक्षणादिकम् ।। २३७ ।। दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् । दहने सद्मनः कुर्यात् सद्म संप्रोक्षणात्मकम् ।। २३८ ।। देवाय स्नपनं कुर्यात् धामच्छेदादिसंभव । तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ।। २३९ ।। वह्निना लिङ्गबेरादावन्यवर्णमुपायते । मानुषं चेत् परित्याज्यं ग्राह्यं स्वायंभुवादिकम् ।। २४० ।। प्रतिक्रियानुकर्मोक्त्या कार्या संप्रोक्षणान्विता । पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ।। २४१ ।। सकले विकले कुर्याच्छिवस्य स्नपनं महत् । प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ।। २४२ ।। दीपानामथ वैकल्ये जपेदघोर शतत्रयम् । दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ।। २४३ ।। रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् । हविष्य दत्ते देवाय स्नपनं तु विधाय च ।। २४४ ।। द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि । अथ काण्डपटे हीने कवचं द्विशतं जपेत् ।। २४५ ।। गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् । कृमिकीटनराद्यस्थिनखरोमादि दर्शने ।। २४६ ।। त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् । शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ।। २४७ ।। पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् । श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ।। २४८ ।। स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया । सामान्यप्राणि संभूतमलयुक्ते तथाचरेत् ।। २४९ ।। नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् । हीनं लङ्घनं तत्र यदि जायेत दोषदम् ।। २५० ।। अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा । शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ।। २५१ ।। आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् । प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ।। २५२ ।। तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे । प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ।। २५३ ।। नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता । लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ।। २५४ ।। तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः । पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ।। २५५ ।। पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् । अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ।। २५६ ।। बलिदानविहीनं चेद्भवन्त्यखिलदेवताः । तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ।। २५७ ।। दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः । नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ।। २५८ ।। अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च । पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ।। २५९ ।। यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् । होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ।। २६० ।। तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः । प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ।। २६१ ।। शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् । कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ।। २६२ ।। तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा । अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ।। २६३ ।। होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः । अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ।। २६४ ।। शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे । वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ।। २६५ ।। पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् । इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ।। २६६ ।। शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् । अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ।। २६७ ।। कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा । नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ।। २६८ ।। किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः । रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ।। २६९ ।। तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे । सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ।। २७० ।। तत्संख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् । होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ।। २७१ ।। नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् । तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ।। २७२ ।। सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् । अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ।। २७३ ।। पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् । दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ।। २७४ ।। तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु । एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ।। २७५ ।। शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः । पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ।। २७६ ।। वर्धयेद्युग्म संख्यातं पक्षपक्षावसानकम् । नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ।। २७७ ।। निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा । बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ।। २७८ ।। तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा । वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ।। २७९ ।। गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् । तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ।। २८० ।। तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् । एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ।। २८१ ।। कृत्वा तु संहिताहोममघोर जपमेव वा । सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ।। २८२ ।। तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् । एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ।। २८३ ।। पादुकाराधने हीने याने वा पादरोगता । कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ।। २८४ ।। अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये । विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ।। २८५ ।। उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे । उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ।। २८६ ।। बेरादिपतने यानकाले संवत्सरोक्तवत् । तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ।। २८७ ।। बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् । पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ।। २८८ ।। ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे । पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ।। २८९ ।। विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् । भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ।। २९० ।। सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् । पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ।। २९१ ।। नवभिः कलशैर्वाथ गव्यस्नपनमेव वा । सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ।। २९२ ।। पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने । सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ।। २९३ ।। पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि । तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ।। २९४ ।। ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् । सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ।। २९५ ।। सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् । अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ।। २९६ ।। सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः । यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ।। २९७ ।। स्नपनं वा त्वघोरेण सहस्रजपमेववा । सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ।। २९८ ।। गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् । प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ।। २९९ ।। आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते । सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ।। ३०० ।। नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् । देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ।। ३०१ ।। द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च । शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ।। ३०२ ।। अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् । अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ।। ३०३ ।। अघोरजपसाहस्रमथ पञ्चशतं तु वा । कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ।। ३०४ ।। स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् । गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ।। ३०५ ।। स्थलशुद्धिं तदा कृत्वा देवं संपूज्य यत्नतः । अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ।। ३०६ ।। निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते । तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ।। ३०७ ।। क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः । अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ।। ३०८ ।। हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा । राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ।। ३०९ ।। सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः । तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ।। ३१० ।। पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः । षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ।। ३११ ।। स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः । अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ।। ३१२ ।। सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् । सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ।। ३१३ ।। बालातिबाला युवतिर्वृद्धाति श्रेयसी मता । अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ।। ३१४ ।। मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी । अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ।। ३१५ ।। सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः । तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ।। ३१६ ।। श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते । अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ।। ३१७ ।। आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता । सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ।। ३१८ ।। आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने । कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ।। ३१९ ।। आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने । पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ।। ३२० ।। द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः । षाण्मासोर्ध्वे विधातव्यं कर्मसंप्रोक्षणं द्विजाः ।। ३२१ ।। षाण्मासात्परतो यस्मादतो देवलकाह्वये । अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ।। ३२२ ।। मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता । चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ।। ३२३ ।। विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् । सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ।। ३२४ ।। अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् । कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ।। ३२५ ।। पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् । अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ।। ३२६ ।। एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः । अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ।। ३२७ ।। अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके । रिपुणा संगृहीतो वा देवी वा केवलाद्विजाः ।। ३२८ ।। देवीं विहाय देवो वा केवलो रिपुणा हृतः । तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ।। ३२९ ।। स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे । स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ।। ३३० ।। पिण्डिकापतने वाधः परिवारविलोपने । बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ।। ३३१ ।। तद्दाहपतनादौ च प्राकारे गोपुरे तथा । जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ।। ३३२ ।। कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः । उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ।। ३३३ ।। पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ । गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ।। ३३४ ।। गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः । चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।। ३३५ ।। हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः । शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ।। ३३६ ।। स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके । प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ।। ३३७ ।। परिवारालये वान्तर्मण्डपे वा द्वितीयके । महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ।। ३३८ ।। निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः । परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ।। ३३९ ।। अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे । उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ।। ३४० ।। गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके । विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ।। ३४१ ।। अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने । प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ।। ३४२ ।। साले वा मालिकायुक्ते केवले गोरुराङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ।। ३४३ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ।। ३४४ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिलीसंभवे वाथ मधुपञ्जर संभवे ।। ३४५ ।। बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ।। ३४६ ।। तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये । अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ।। ३४७ ।। दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि । मठे प्रपादिके वापि आरामादावथापि वा ।। ३४८ ।। लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ३४९ ।। वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके । कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ।। ३५० ।। स्थापिते शिवकुम्भे वा करके कलशेऽपिवा । भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ।। ३५१ ।। शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः । स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ।। ३५२ ।। स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके । विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ।। ३५३ ।। रत्नहेमाम्बरादीनां विलोपे च घटादिषु । गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ।। ३५४ ।। कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ३५५ ।। पवित्रारोहणे हीने दमनारोहणेऽपिवा । कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ।। ३५६ ।। बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते । पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ।। ३५७ ।। भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः । पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ।। ३५८ ।। एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते । अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ।। ३५९ ।। अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् । पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ।। ३६० ।। अघोरेण शतं होमं समिदाज्यतिलोदनैः । रिपुणा संगृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ।। ३६१ ।। तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते । सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ।। ३६२ ।। लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च । लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ।। ३६३ ।। सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् । मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ।। ३६४ ।। कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले । लक्षणोद्धारणं दृष्टि मोचनं जलवेशनं ।। ३६५ ।। विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः । अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ।। ३६६ ।। मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि । प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ।। ३६७ ।। तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् । तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।। ३६८ ।। संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना । कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ।। ३६९ ।। प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा । प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ।। ३७० ।। तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् । आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ।। ३७१ ।। संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः । संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ।। ३७२ ।। मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः । संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ।। ३७३ ।। अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः । तत्प्रासादानुरूपेण यजमानानुरूपतः ।। ३७४ ।। लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना । बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ।। ३७५ ।। बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् । देवीं विहाय देवो वा देवी वा केवला यदा ।। ३७६ ।। शत्रुभिस्संगृहीता चेत् स्थितस्यैवानुरूपतः । संपाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ।। ३७७ ।। कल्याणं कारयेदन्ते विधिना देशिकोत्तमः । स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ।। ३७८ ।। देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् । पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ।। ३७९ ।। प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् । आग्नेययामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ।। ३८० ।। नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् । वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ।। ३८१ ।। ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् । उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ।। ३८२ ।। शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् । प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ।। ३८३ ।। स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् । प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ।। ३८४ ।। कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् । प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ।। ३८५ ।। स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् । स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ।। ३८६ ।। तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते । शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ।। ३८७ ।। कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् । प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ।। ३८८ ।। पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले । ततस्संप्रोक्षणं कुर्यात् स्थलकर्मावसानके ।। ३८९ ।। पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः । पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ।। ३९० ।। सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् । नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ।। ३९१ ।। ततस्संप्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि । परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ।। ३९२ ।। परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः । बलिपीठे विहीने तु सर्वदोषावहं भवेत् ।। ३९३ ।। संकल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् । तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ।। ३९४ ।। शान्तिहोमं तदा कृत्वा संप्रोक्षणमथाचरेत् । प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ।। ३९५ ।। राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् । ततस्संप्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ।। ३९६ ।। कृत्वा गव्येन संप्रोक्ष्य शान्तिमेकाहमाचरेत् । कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ।। ३९७ ।। उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः । पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।। ३९८ ।। गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः । गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ।। ३९९ ।। चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः । हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।। ४०० ।। शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा । स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ।। ४०१ ।। राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते । मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ।। ४०२ ।। गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः । गव्येन स्नपनं कृत्वा संप्रोक्षनमथाचरेत् ।। ४०३ ।। ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति । शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ।। ४०४ ।। चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् । गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ।। ४०५ ।। संप्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः । ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ।। ४०६ ।। तदा संप्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् । चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ।। ४०७ ।। संप्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् । शान्तिकर्मदिशाहोमं क्रमात्संप्रोक्षणं नयेत् ।। ४०८ ।। त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने । प्रथमे च द्वितीये च चण्डालविहितं तु यत् ।। ४०९ ।। प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् । प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ।। ४१० ।। शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् । दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ।। ४११ ।। परिवारालयावेशेऽप्येतदेव समीरितम् । कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ।। ४१२ ।। चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् । कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ।। ४१३ ।। गोमयालोपनाद्यं च समानं सर्वकर्मसु । परिवारालयोक्तं प्रायश्चित्तं महानसे ।। ४१४ ।। महानससमा ज्ञेया बलिपीठेषु निष्कृतिः । निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ।। ४१५ ।। परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् । कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ।। ४१६ ।। अर्धमण्डपवेशादौ तस्य दोषो न विद्यते । अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ।। ४१७ ।। चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा । कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ।। ४१८ ।। उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् । गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ।। ४१९ ।। विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने । संप्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ।। ४२० ।। कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः । आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ।। ४२१ ।। दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः । ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ।। ४२२ ।। तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते । मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ।। ४२३ ।। दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः । दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ।। ४२४ ।। पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः । प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ।। ४२५ ।। साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे । बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ।। ४२६ ।। परिवारालये कूपे पचनालय एव वा । आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ।। ४२७ ।। सभायां चूलिकायां वा वाल्मीके समुपस्थिते । शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ।। ४२८ ।। बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः । समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ।। ४२९ ।। पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः । रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ।। ४३० ।। पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् । मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ।। ४३१ ।। शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् । तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ।। ४३२ ।। सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः । राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ।। ४३३ ।। तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् । वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ।। ४३४ ।। वारुण्यां धनलाभस्यादादौ चोरभयं पुनः । वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ।। ४३५ ।। तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् । गृहनाशो भवेद्वारे शयनस्थानके मृतिः ।। ४३६ ।। तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् । द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ।। ४३७ ।। तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः । दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ।। ४३८ ।। तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु । सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ।। ४३९ ।। प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः । लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ।। ४४० ।। मधुनीडसमुत्पत्तावेवमेव फलं भवेत् । वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ।। ४४१ ।। खातयोग्यं खनित्वादावापूर्य लवणादिभिः । शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ।। ४४२ ।। पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः । संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ।। ४४३ ।। बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा । गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ।। ४४४ ।। जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् । कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ।। ४४५ ।। राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् । मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ।। ४४६ ।। संशोध्य गोमयाम्भोभिस्संप्रोक्ष्यास्रजवारिणा । देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ।। ४४७ ।। वल्मीकस्य पुरा प्रोक्तदिनसंख्यावशेन तु । नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ।। ४४८ ।। महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् । पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ।। ४४९ ।। वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् । अघोरं त्रिशतं जप्त्वा संपूर्णस्नपनं नयेत् ।। ४५० ।। विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते । हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ।। ४५१ ।। कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा । जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ।। ४५२ ।। पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः । इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ।। ४५३ ।। यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् । द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ।। ४५४ ।। क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धयस । स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ।। ४५५ ।। भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते । तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ।। ४५६ ।। तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् । जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ।। ४५७ ।। कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् । शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ।। ४५८ ।। संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् । सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ।। ४५९ ।। अघोरेणजपः पश्चात् कर्तव्यश्शतसंख्यया । तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ।। ४६० ।। पिधानलोपे घोरेण शतसंख्यं जपेद्गुरुः । कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ।। ४६१ ।। उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् । तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ।। ४६२ ।। रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् । तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ।। ४६३ ।। पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा । गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ।। ४६४ ।। तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे । पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ।। ४६५ ।। कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् । शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ।। ४६६ ।। जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे । आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ।। ४६७ ।। पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः । तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ।। ४६८ ।। देवं संपूज्य विधिवत् दिशाहोमं तु कारयेत् । इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ।। ४६९ ।। दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः । दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ।। ४७० ।। मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके । राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ।। ४७१ ।। बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा । भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ।। ४७२ ।। संपूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते । कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ।। ४७३ ।। सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् । विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ।। ४७४ ।। तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः । शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ।। ४७५ ।। विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् । समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ।। ४७६ ।। कुम्भे च करके पीठे मृदादिपरिकल्पिते । इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ।। ४७७ ।। तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः । पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ।। ४७८ ।। तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् । एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ।। ४७९ ।। पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् । क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ।। ४८० ।। सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः । पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ।। ४८१ ।। कर्तारं बाधते नित्यं शक्तानपि च बाधते । तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ।। ४८२ ।। ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये । उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ।। ४८३ ।। एककालं द्विकालं वा त्रिकालं जपसंयुतम् । गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ।। ४८४ ।। सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा । सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ।। ४८५ ।। साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा । स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ।। ४८६ ।। जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् । वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ।। ४८७ ।। भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च । कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ।। ४८८ ।। पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि । ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ।। ४८९ ।। शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः । विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ।। ४९० ।। अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः । नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ।। ४९१ ।। तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च । व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ।। ४९२ ।। ततस्थानं देवदेवस्य शिवस्यामिततेजसः । योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ।। ४९३ ।। वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा । सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ।। ४९४ ।। निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा । पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ।। ४९५ ।। ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च । गणपस्कन्दनन्दीश वसूनां नागपस्य च ।। ४९६ ।। मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः । कल्पितं स्थानमीशस्य योग्यमेव न संशयः ।। ४९७ ।। सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् । साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ।। ४९८ ।। ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति । ते तु दुर्मतयः प्रोक्तास्सुचिरं संचरन्त्यलम् ।। ४९९ ।। रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः । मदैक शरणा ये तु तैः पूज्योहं न चापरैः ।। ५०० ।। अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ।। ५०१।। तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् । सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ।। ५०२ ।। देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ।। ५०३ ।। प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै । तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ।। ५०४ ।। बालाबलानां बद्धानामातुराणां च पादतः । प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ।। ५०५ ।। ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ।। ५०६ ।। अतो बालनरस्यास्य नापराधो न पातकम् । राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ।। ५०७ ।। देश आदिश्यते येन दिशिकस्त्विति कथ्यते । देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ।। ५०८ ।। भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च । हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ।। ५०९ ।। नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते । सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ।। ५१० ।। प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः । कामतस्तूपवासश्च लुप्ते देवार्चने यदा ।। ५११ ।। एककालार्चके वापि द्विकालाद्यर्चकेपि वा । एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ।। ५१२ ।। उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते । बहुकालार्चकस्यापि द्विकालादि विलोपने ।। ५१३ ।। लुप्तसंख्यावशेनैव प्रायश्चित्तं समाचरेत् । द्विदिनादि विलोपे तु बहुरूपसहस्रतः ।। ५१४ ।। प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने । अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ।। ५१५ ।। संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते । स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ।। ५१६ ।। नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः । लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ।। ५१७ ।। हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः । सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ।। ५१८ ।। साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् । द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ।। ५१९ ।। एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् । जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ।। ५२० ।। संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः । अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ।। ५२१ ।। द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः । संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र संमता ।। ५२२ ।। अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा । प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ।। ५२३ ।। ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः । क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ।। ५२४ ।। लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् । पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ।। ५२५ ।। श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः । त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ।। ५२६ ।। मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् । रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ।। ५२७ ।। तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् । विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ।। ५२८ ।। तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् । विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ।। ५२९ ।। स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् । प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ।। ५३० ।। वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् । चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ।। ५३१ ।। लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि । नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ।। ५३२ ।। अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि । विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ।। ५३३ ।। अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् । प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ।। ५३४ ।। अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् । व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ।। ५३५ ।। गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । अविधाय पवित्रं तदाषाढादिषु पञ्चसु ।। ५३६ ।। लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् । पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ।। ५३७ ।। अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते । जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ।। ५३८ ।। शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते । सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ।। ५३९ ।। स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः । नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ।। ५४० ।। शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् । अक्षमालां कराद्भ्रष्टां आलयेद्गन्धवारिणा ।। ५४१ ।। गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि । घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ।। ५४२ ।। पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा । शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। ५४३ ।। प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् । केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ।। ५४४ ।। अघोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ।। ५४५ ।। अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् । पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ।। ५४६ ।। द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् । महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ।। ५४७ ।। एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् । निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ।। ५४८ ।। भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने । अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ।। ५४९ ।। यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः । निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ।। ५५० ।। लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ।। ५५१ ।। चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् । ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ।। ५५२ ।। नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।। ५५३ ।। पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ।। लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् । स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ।। ५५५ ।। यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा । पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ।। ५५६ ।। भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा । देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ।। ५५७ ।। व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् । करोति यस्य संमूढा मद्धनस्तेयकृन्मतः ।। ५५८ ।। मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा । यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ।। ५५९ ।। त एवातीत दुष्टामद्भक्षितादपि सोषदाः । तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ।। ५६० ।। नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः । निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।। ५६१ ।। सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् । मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ।। ५६२ ।। स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते । भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ।। ५६३ ।। शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति । अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ।। ५६४ ।। भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः । मद्देहधारिणो लोके देशिका मत्परायणाः ।। ५६५ ।। मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु । तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ।। ५६६ ।। सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् । प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ।। ५६७ ।। मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् । अघोरायुत जापश्च गोमयालिप्तमण्डले ।। ५६८ ।। पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् । प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ।। ५६९ ।। अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् । एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ।। ५७० ।। उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् । महापातकिनां प्रोक्तं महाव्रतमिहागमे ।। ५७१ ।। अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५७२ ।। महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः । कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ।। ५७३ ।। ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते । तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ।। ५७४ ।। अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् । गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ।। ५७५ ।। दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् । अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ।। ५७६ ।। पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् । माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ।। ५७७ ।। सामान्यानि विजानीयाद् मद्यान्येकादशैव तु । द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ।। ५७८ ।। पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् । एकादशसुरापाने कुर्याद्व्रतदशांशकम् ।। ५७९ ।। सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः । गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ।। ५८० ।। द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते । सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ।। ५८१ ।। सुवर्णस्यापहारेण शतादभ्याधिके वधः । क्षत्रियादिषु संप्रोक्तो विप्रस्य न वधः क्वचित् ।। ५८२ ।। निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् । दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ।। ५८३ ।। शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु । शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ।। ५८४ ।। रजतस्यापहरणे धान्यस्य द्विगुणं मतम् । सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ।। ५८५ ।। दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि । गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ।। ५८६ ।। याजनं योनि संबन्धं स्वाध्यायं सहभोजनम् । पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ।। ५८७ ।। वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् । अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ।। ५८८ ।। मातृष्वसा च भगिनी स्वसुता च पितृष्वसा । आसां च गमनं विप्रास्त्वनुपातकमीरितम् ।। ५८९ ।। विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः । चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ।। ५९० ।। लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः । द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ।। ५९१ ।। तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु । दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ।। ५९२ ।। संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति । देवक्षेत्रापहरणं देवोपहरणाहृतिः ।। ५९३ ।। शिवागमापहारश्च शिवलिङ्गापहारणम् । शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ।। ५९४ ।। उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् । पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ।। ५९५ ।। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । सगोत्रा मातुलानीं च समान प्रवरा च या ।। ५९६ ।। तासां संगमनं चोपपातकं समुदाहृतम् । परिवित्तिः परिवेत्ता तयोर्याजनमेव च ।। ५९७ ।। तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् । गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त संग्रहः ।। ५९८ ।। पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने । उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ।। ५९९ ।। भूवेश्मरत्नवापीनां कुजानामपहर्तृता । वापीकूपतटाकादेर्हरणं तूपपातकम् ।। ६०० ।। गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः । उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ।। ६०१ ।। तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे । तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ।। ६०२ ।। तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् । तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ।। ६०३ ।। उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् । गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ।। ६०४ ।। गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति । गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ।। ६०५ ।। गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् । रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ।। ६०६ ।। पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । याजने पादहीनं स्याच्चरेत् सर्वं निपातने ।। ६०७ ।। औषधं लवणं चैव स्नेहपिण्याहभोजनम् । अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।। ६०८ ।। न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् । बलाभावाद्विपद्येत गौश्चरन्ती कथंचन ।। ६०९ ।। जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ।। ६१० ।। शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा । शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ।। ६११ ।। उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् । कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ।। ६१२ ।। नास्तिक्यमभिचारश्चायाज्य याजनमेव च । नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ।। ६१३ ।। मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् । तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ।। ६१४ ।। भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् । वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ।। ६१५ ।। नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् । वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ।। ६१६ ।। स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् । स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ।। ६१७ ।। पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् । शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ।। ६१८ ।। विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् । रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ।। ६१९ ।। रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् । विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ।। ६२० ।। चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् । व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ।। ६२१ ।। विप्रस्त्रीगमने चैवोपव्रतंतु समाचरेत् । पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ।। ६२२ ।। ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि । विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ।। ६२३ ।। उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् । महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ।। ६२४ ।। एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् । शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ।। ६२५ ।। शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये । कन्यासंगमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ।। ६२६ ।। वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? । तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ।। ६२७ ।। अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये । प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ।। ६२८ ।। अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु । रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ।। ६२९ ।। नदीशैलूषिकी वेणुजीवनी गमने व्रतम् । पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ।। ६३० ।। अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः । गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ।। ६३१ ।। न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् । न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ।। ६३२ ।। न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् । शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ।। ६३३ ।। उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः । उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ।। ६३४ ।। सहस्रमयुतं चैव जपो मध्यमहीनयोः । द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ।। ६३५ ।। जघन्योच्छिष्ट संपर्कादेवं शतगुणं भवेत् । जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ।। ६३६ ।। शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् । स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ।। ६३७ ।। सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् । स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ।। ६३८ ।। तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः । निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ।। ६३९ ।। कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः । सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ।। ६४० ।। यनश्ययासनानां च कांस्यरीतिशिलायसाम् । त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ।। ६४१ ।। व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् । वानरश्वमृगाणां च विष्ठाशनवराहयोः ।। ६४२ ।। दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते । शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ।। ६४३ ।। हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये । उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ।। ६४४ ।। कुक्कुटश्येन भासानामथ हंसमयूरयोः । पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ।। ६४५ ।। कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः । पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ।। ६४६ ।। मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः । नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ।। ६४७ ।। वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा । पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ।। ६४८ ।। भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः । तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ।। ६४९ ।। अनस्थिमत्सु चैतेषु शताघोरजपोमतः । अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ।। ६५० ।। हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा । पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ।। ६५१ ।। कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् । गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ।। ६५२ ।। योगंकृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् । प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ।। ६५३ ।। अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते । कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ।। ६५४ ।। अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् । गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ।। ६५५ ।। तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् । पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ।। ६५६ ।। पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः । मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ।। ६५७ ।। निषेधाभावतस्तस्य दोषस्तत्र न जायते । नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ।। ६५८ ।। गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् । गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ।। ६५९ ।। काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः । सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ।। ६६० ।। पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् । घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ।। ६६१ ।। कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् । रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ।। ६६२ ।। धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् । पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ।। ६६३ ।। अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् । क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ।। ६६४ ।। अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतंजपेत् । अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ।। ६६५ ।। उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः । दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ।। ६६६ ।। तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते । तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ।। ६६७ ।। स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति । आचम्यादीक्षितेनापि सजातीशशतं जपेत् ।। ६६८ ।। सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् । तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ।। ६६९ ।। इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु । शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ।। ६७० ।। भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु । स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ।। ६७१ ।। इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये । त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ।। ६७२ ।। पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः । कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ।। ६७३ ।। गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च । कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ।। ६७४ ।। ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् । रजकादि प्रवेशादावयुतार्धमजानतः ।। ६७५ ।। बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः । हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ।। ६७६ ।। शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा । भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ।। ६७७ ।। उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता । प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ।। ६७८ ।। तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् । दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ।। ६७९ ।। चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा । शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ।। ६८० ।। तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः । उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ।। ६८१ ।। विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् । तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ।। ६८२ ।। शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् । शरावपत्र पुटक प्रभृतीनां च भोजने ।। ६८३ ।। शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते । सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ।। ६८४ ।। गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः । बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ।। ६८५ ।। प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा । ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ।। ६८६ ।। विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा । श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ।। ६८७ ।। नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः । उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ।। ६८८ ।। जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना । अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ।। ६८९ ।। निर्माल्यसंकरे कामात् संपूज्यश्चण्डनायकः । तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ।। ६९० ।। अकामतोवा संपर्कात् केवलस्य शतं भवेत् । वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ।। ६९१ ।। जलजानां च सर्वेषां वैणवानां तथाम्भसा । स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ।। ६९२ ।। शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् । मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ।। ६९३ ।। फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् । क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ।। ६९४ ।। अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते । परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ।। ६९५ ।। प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा । समयानां प्रमादे तु शक्तिजापः प्रशस्यते ।। ६९६ ।। वस्त्रशययासनादीनां स्तेये गायत्रिकाशतम् । गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ।। ६९७ ।। शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः । म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ।। ६९८ ।। सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने । पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ।। ६९९ ।। अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ।। ७०० ।। देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः । यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ।। ७०१ ।। अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। ७०२ ।। आततायिनमायान्तमपि शस्त्रान्तगं रणे । जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ।। ७०३ ।। युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा विचारतः ।। ७०४ ।। असूर्या नाम ये लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ।। ७०५ ।। न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् । यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ।। ७०६ ।। ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् । शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ।। ७०७ ।। तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् । शैवं पाशुपतं कालामुखं कापालधारिणम् ।। ७०८ ।। यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना । ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ।। ७०९ ।। शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ । तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ।। ७१० ।। अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ।। ७११ ।। देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः । तथैवेह समुद्दिष्टमभिशापो महात्मनि ।। ७१२ ।। औषधं स्नेहमाहारं ददतो बन्धकस्य च । प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ।। ७१३ ।। प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् । निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ।। ७१४ ।। नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः । तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ।। ७१५ ।। तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् । तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ।। ७१६ ।। किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् । द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ।। ७१७ ।। क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः । ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ।। ७१८ ।। विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् । लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ।। ७१९ ।। मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा । मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ।। ७२० ।। उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा । राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ।। ७२१ ।। वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता । यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ।। ७२२ ।। दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः । सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ।। ७२३ ।। सर्वलोपेकृते तस्य महादोषः प्रजायते । शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ।। ७२४ ।। अनेन विधिना येन सर्वैनैमित्तिकादितः । विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ।। ७२५ ।। शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् । वृषाधिवासने हीने ध्वजे वारोपिते सति ।। ७२६ ।। गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् । वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ।। ७२७ ।। किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् । ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ।। ७२८ ।। शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् । ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ।। ७२९ ।। शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये । वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ।। ७३० ।। शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् । दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ।। ७३१ ।। मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा । स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ।। ७३२ ।। स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् । दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि संभवे ।। ७३३ ।। शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् । ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयंकरः ।। ७३४ ।। सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् । शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ।। ७३५ ।। एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् । ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ।। ७३६ ।। अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते । रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ।। ७३७ ।। आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् । पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ।। ७३८ ।। शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् । ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ।। ७३९ ।। पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः । पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ।। ७४० ।। मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा । केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ।। ७४१ ।। लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् । दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ।। ७४२ ।। दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः । रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ।। ७४३ ।। दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः । प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ।। ७४४ ।। उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् । ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ।। ७४५ ।। आवर्तयेदघोरेण त्रिशतं देशिकस्तदा । घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ।। ७४६ ।। आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा । ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ।। ७४७ ।। वृषकुम्भविभेदादिकारणात् केतुरोहणम् । कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ।। ७४८ ।। मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे । तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ।। ७४९ ।। एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् । आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ।। ७५० ।। एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः । ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ।। ७५१ ।। तदधो लम्बिते केतौ शान्तिहोमं विधाय च । आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ।। ७५२ ।। भेरीसंताडने हीने लोको मूकः प्रजायते । शान्तिहोमं तदा कृत्वा भेरीसंताडयेत्ततः ।। ७५३ ।। उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् । देवतावाहने हीने देवादीनामसन्निधिः ।। ७५४ ।। शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् । ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ।। ७५५ ।। अनाहूतास्तदा दोषो नान्यानाहूतिरापदि । पताकारोपणोपेते देवानावाहयेन्न वा ।। ७५६ ।। भेरीताडनकार्यं तु तद्वदेव समाचरेत् । भेरीचर्मादि भेदादौ कोणच्छेदादि संभवे ।। ७५७ ।। अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् । तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ।। ७५८ ।। कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् । तत्काले बलिकाले वा वादके पतिते भुवि ।। ७५९ ।। शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये । भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ।। ७६० ।। शान्तिहोमं तदा कृत्वा भेरीं संपूजयेद्धृदा । यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ।। ७६१ ।। विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् । कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ।। ७६२ ।। प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् । ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ।। ७६३ ।। शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये । विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ।। ७६४ ।। स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे । उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ।। ७६५ ।। नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् । यागोपकरणेऽप्येवं किं तु यागावसानके ।। ७६६ ।। शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च । प्रधानाधममध्यानां करणानां विलोपने ।। ७६७ ।। शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् । विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ।। ७६८ ।। पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये । शिवकुंभेषुवर्धन्यावृतेषु घटेषु वा ।। ७६९ ।। उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् । भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ।। ७७० ।। शान्तिहोममघोराणुजपं पञ्चशतं चतुः । शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ।। ७७१ ।। कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् । वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ।। ७७२ ।। स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः । कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ।। ७७३ ।। शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये । कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ।। ७७४ ।। जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः । पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ।। ७७५ ।। सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् । हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ।। ७७६ ।। स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये । शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ।। ७७७ ।। जपेद्घोरं त्रिशतं तदङ्गानां विलोपने । तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ।। ७७८ ।। पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् । आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ।। ७७९ ।। बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् । त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ।। ७८० ।। उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् । स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ।। ७८१ ।। वृषिकाले महावाते राष्ट्रक्षोभे महाभये । ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ।। ७८२ ।। स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः । एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ।। ७८३ ।। अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः । तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ।। ७८४ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ।। ७८५ ।। वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् । बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ।। ७८६ ।। तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् । शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ।। ७८७ ।। तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् । आलये बलियाने वा तस्यां देवालयावृतौ ।। ७८८ ।। देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः । तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ।। ७८९ ।। नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः । इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ।। ७९० ।। ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते । अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ।। ७९१ ।। अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो । तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ।। ७९२ ।। अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः । एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ।। ७९३ ।। अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् । अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ।। ७९४ ।। हीनेविताने घोरणोः शतसंख्यं जपं नयेत् । ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसंख्यया ।। ७९५ ।। ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः । बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ।। ७९६ ।। तद्दिनाधिपमन्त्रेण जपेतद्विशतसंख्यया । बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ।। ७९७ ।। बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् । मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ।। ७९८ ।। देवालये बलिर्हीनो यदाघोरं शतं जपेत् । यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ।। ७९९ ।। तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् । विधाय यानकाले वातदन्ते वा बलिं नयेत् ।। ८०० ।। अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि । शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ।। ८०१ ।। तच्छेदभेदपातादौ तथैव फलमादिशेत् । तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ।। ८०२ ।। विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् । नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ।। ८०३ ।। पतितं चेत्यजेदन्नं संपाद्यान्नं समाचरेत् । समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ।। ८०४ ।। बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् । भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ।। ८०५ ।। दशायुधानि वा भूमौ संभूतानि पतन्तिचेत् । निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ।। ८०६ ।। च्छेदभेदादियुक्तानि यदि दारुमयानि वा । तथान्यानि समापाद्य संभूतानीतराणि वा ।। ८०७ ।। संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् । लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ।। ८०८ ।। शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च । धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ।। ८०९ ।। च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् । उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ।। ८१० ।। समाप्योत्सवकार्यं तु तत्संधायानुकर्मवत् । संप्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ।। ८११ ।। यानकालेऽन्यकाले वा बेरादौ पतिते सति । राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ।। ८१२ ।। अव्यङ्गे पतिते बेरे पतिते वा करादधः । द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ।। ८१३ ।। संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती । स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ।। ८१४ ।। नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् । अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ।। ८१५ ।। अधिवासादिकं कर्म सद्य एव समाचरेत् । मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ।। ८१६ ।। पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् । उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ।। ८१७ ।। तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् । कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ।। ८१८ ।। धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः । गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ।। ८१९ ।। ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि । प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ।। ८२० ।। उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च । लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ।। ८२१ ।। उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः । बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ।। ८२२ ।। शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा । कुर्वाणश्चेत् क्रियांभूमौ पतितो देशिकस्तदा ।। ८२३ ।। ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् । जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ।। ८२४ ।। बलिदातरि तत्काले पतिते तं शतं जपेत् । आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ।। ८२५ ।। गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः । पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ।। ८२६ ।। पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः । अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ।। ८२७ ।। प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः । विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ।। ८२८ ।। निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् । रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ।। ८२९ ।। शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् । यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ।। ८३० ।। सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् । तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ।। ८३१ ।। सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् । आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ।। ८३२ ।। पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् । विनोद दर्शन काले जातश्चेत् कलहो महान् ।। ८३३ ।। शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् । विनोददर्शने हीने संहिताहोममाचरेत् ।। ८३४ ।। नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् । यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ।। ८३५ ।। देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया । स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ।। ८३६ ।। हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते । प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ।। ८३७ ।। तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह । शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ।। ८३८ ।। नृत्तमूर्त्युत्सवे हीने पूर्वसंकल्पिते नराः । भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ।। ८३९ ।। नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् । यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ।। ८४० ।। शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् । मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ।। ८४१ ।। शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् । हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ।। ८४२ ।। तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति । निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ।। ८४३ ।। एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति । अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ।। ८४४ ।। चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् । शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ।। ८४५ ।। विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः । चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ।। ८४६ ।। महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः । शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ।। ८४७ ।। पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा । कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ।। ८४८ ।। तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः । प्रासादे मनुजे जाते मृते राजो भयं महत् ।। ८४९ ।। मृतादि तत्प्रोदेशांत्तु विसृज्य च बहिस्ततः । प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ।। ८५० ।। तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै । मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ।। ८५१ ।। परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् । प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ।। ८५२ ।। पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् । शैव संभोजनं चान्ते जलसंप्रोक्षणं नयेत् ।। ८५३ ।। स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् । शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ।। ८५४ ।। प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना । अन्तस्सालान्तरे चेद्धि जलसंप्रोक्षणं नयेत् ।। ८५५ ।। अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् । गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ।। ८५६ ।। त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः । अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ।। ८५७ ।। पाकस्थानादि देशेषु मरणादौ च संभवे । पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ।। ८५८ ।। शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा । प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ।। ८५९ ।। धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि । परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ।। ८६० ।। कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् । सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ।। ८६१ ।। सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः । गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ।। ८६२ ।। स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् । केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ।। ८६३ ।। देवतामण्डपे तत्स्थदेवान् संप्रोक्ष्य गव्यतः । संपूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ।। ८६४ ।। एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च । उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ।। ८६५ ।। शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः । ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ।। ८६६ ।। गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् । एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ।। ८६७ ।। वस्त्रशययासनादीनां दाहच्छेदादि संभवे । दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ।। ८६८ ।। कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् । पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ।। ८६९ ।। प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः । वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ।। ८७० ।। महादोष समाख्यातो दोषो नान्यत्र कथ्यते । एवमेव नराणां च तदा स्नानं विधाय च ।। ८७१ ।। जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् । नराणां शिवभक्तानां दीक्षितानां शिवाय वा ।। ८७२ ।। वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये । कारयेत् संहिताहोमघोरं वा जपेत्तथा ।। ८७३ ।। अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे । संप्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ।। ८७४ ।। तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् । संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ।। ८७५ ।। गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् । गव्यसंप्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ।। ८७६ ।। सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् । गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।। ८७७ ।। मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् । श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ।। ८७८ ।। चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके । स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ।। ८७९ ।। तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् । यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ।। ८८० ।। व्यपोह्य पूर्वकुम्भादीन् संपूज्य वृषभध्वजम् । मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ।। ८८१ ।। कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् । कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ।। ८८२ ।। महानसेऽथवा स्थानमम्डपे गोपुरादिके । विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ।। ८८३ ।। प्रपायामग्निदग्धायां संहिताहोममाचरेत् । विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ।। ८८४ ।। अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् । स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ।। ८८५ ।। शान्तिश्च शान्तिहोमश्च संहिता होम एव च । दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ।। ८८६ ।। परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् । उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म संमतम् ।। ८८७ ।। ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् । महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ।। ८८८ ।। प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् । सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ।। ८८९ ।। अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः । अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ।। ८९० ।। आचार्य संकरो राष्ट्रं राजानं नाशयत्यथ । एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ।। ८९१ ।। कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसंकरः ।। ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि कल्पनम् ।। ८९२ ।। दीपनैवेद्य संकॢप्तिर्देवे नित्यार्चनं च यत् । सकलाराधनं यच्च परिवारार्चनादिकम् ।। ८९३ ।। नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् । उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ।। ८९४ ।। तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् । अनेक नरनिर्वत्य कथमेकः करोत्यहो ।। ८९५ ।। शिवः - साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् । नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ।। ८९६ ।। एकाचार्येण कर्तव्यमिति साधूदितं मवा । देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ।। ८९७ ।। तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः । आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ।। ८९८ ।। शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः । रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ।। ८९९ ।। तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् । यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ।। ९०० ।। यत्कृतं राजकार्यं स्यात्तथैवापि संमतम् । अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ।। ९०१ ।। तत्र संकरदोषोऽपि फलमेवं च निष्कृतिः । क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ।। ९०२ ।। सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् । अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः ।। ९०३ ।। शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये । शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ।। ९०४ ।। तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ।। ९०५ ।। इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ।। प्रणवासनमारूढं दुराधर्पं महाबलम् । पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् । दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् । कपाल मालाभरणं चन्द्रार्धकृतशेखरम् । केकराक्षं महामाला नागाभरण लेलिहम् । सूर्यकोट्ययुताभं च विघ्नसंघातमर्दकम् । भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ।। खड्गचापमहाशूलाभय पाशांश्च दक्षिणे । खेट वाण कपालांश्च वरप्रासौ च वामतः ।। पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् । ध्यात्वैवं उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ।। सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् । कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ।। वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् । वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ।। कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् । मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ।। अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ।। ध्यायेत् सूर्यसहस्राभं अघोरास्त्रं अरिन्दमम् । प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।। त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् । सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ।। चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् । नृत्यमानं महाकार्यं नागाभरणभूषितम् ।। देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३१. एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् । रजन्यां दर्शनं भानोः परराज भयं भवेत् ।। १ ।। विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् । दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ।। २ ।। पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा । संभवे भूमि कंपेतु नृप भङ्गो भवेद् ध्रुवम् ।। ३ ।। मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ संमितैः । तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ।। ४ ।। स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् । सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ।। ५ ।। प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् । नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ।। ६ ।। तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् । सांबं कुंभे च वर्धन्यां परितोष्ठ घटेषु च ।। ७ ।। स सूत्रांबरहैमेषु सप्ततीर्थं च कन्यया । पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ।। ८ ।। कुंभांभः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् । प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ।। ९ ।। सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् । कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ।। १० ।। शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् । तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ।। ११ ।। जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् । प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ।। १२ ।। गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् । पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ।। १३ ।। भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् । सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ।। १४ ।। मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् । मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ।। १५ ।। तद्द्रव्य स्नपनं कुर्यात् भूमिकंपोक्तमार्गतः । विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ।। १६ ।। शैवान् संभोजयेत् प्रश्चादेवं सप्ताहमाचरेत् । लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ।। १७ ।। लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे । संपूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ।। १८ ।। दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः । पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ।। १९ ।। लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा । वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ।। २० ।। शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् । अकस्मात्पतितं धाम मूलादामस्तकं यदि ।। २१ ।। नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् । स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ।। २२ ।। शान्त्युक्त दिन संख्यया वशेनैतत्समाचरेत् । प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ।। २३ ।। त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके । कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ।। २४ ।। प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः । स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ।। २५ ।। नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् । अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ।। २६ ।। निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् । धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ।। २७ ।। अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा । मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ।। २८ ।। धाम स्थानान्तरं प्राप्तं यदिलिंगादिसंयुतम् । नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ।। २९ ।। संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् । शैव संभोजनोपेतां विप्रभुक्ति समन्वितम् ।। ३० ।। लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा । बाणलिंगादिकं वाथ प्रासादेन समन्वितम् ।। ३१ ।। अथवा पूर्वलिंगं चेत् तत्प्रासाद समन्वितम् । अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ।। ३२ ।। हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् । स्थानानन्तर गतं लिंगं उदक् पूर्वत्र विन्यसेत् ।। ३३ ।। तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना । वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ।। ३४ ।। तद् वृक्ष जाति संभूत समिद्भिर्मूर्ति होमकम् । समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ।। ३५ ।। तत्समीपे स्थिते लिंगे स्वयं भूतादिके परम् । स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ।। ३६ ।। स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति संभवम् । तदन्य कुसुमे जाते तदन्य फल संभवे ।। ३७ ।। संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे । सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ।। ३८ ।। तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् । शिवलिङ्गे च बेरे वा पीठे वोष्णादि संभवे ।। ३९ ।। सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् । गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ।। ४० ।। स्नापयेत् परमेशानं पञ्चामृत समन्वितम् । अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ।। ४१ ।। सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः । चन्दनागरु कर्पूरोशीर कुंकुम संयुतम् ।। ४२ ।। गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् । दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ।। ४३ ।। शीतकुंभोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा । नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ।। ४४ ।। जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि । बहुशीर्षक हस्तांघ्रि नासादेहादि संयुतः ।। ४५ ।। स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः । स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ।। ४६ ।। तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् । शिवं संपूज्य विधिवत् दिशाहोमं समाचरेत् ।। ४७ ।। शैवान्संपूज्य विधिवत् शान्तिहोमं समाचरेत् । शिवान्संभोजये देवं नयेद्वा सप्तपञ्चमम् ।। ४८ ।। निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने । नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ।। ४९ ।। युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् । शिवं संपूज्य विधिवत् दिशा होमन्तु कारयेत् ।। ५० ।। स्नापयेत् परमेशानं नव सप्ताह माचरेत् । लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ।। ५१ ।। प्रक्षाल्यास्त्रांबुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् । लिंगे बेरे विमाने वा मण्डपे गोपुरादिषु ।। ५२ ।। परिवारालये साले देवेशास्थानमण्डपे ।। ५२१/२ ।। सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् । नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ।। ५३१/२ ।। तत्र लिंगे च पिठे च बेरे वायं विधिर्भवेत् । दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ।। ५४१/२ ।। अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् । पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ।। ५५१/२ ।। सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् । स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ।। ५६१/२ ।। एवं कृतेतु सप्ताहं अन्ते चोत्सव माचरेत् । प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ।। ५७१/२ ।। अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् । प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ।। ५८१/२ ।। शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् । प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ।। ५९१/२ ।। शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके । सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ।। ६०१/२ ।। प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः । तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ।। ६११/२ ।। ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् । करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ।। ६२१/२ ।। सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे । महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ।। ६३१/२ ।। पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् । धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ।। ६४१/२ ।। गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् । शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ।। ६५१/२ ।। पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् । शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ।। ६६१/२ ।। लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् । क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ।। ६७१/२ ।। तदर्धैवा तदर्धैवा शीत कुंभ स्तदन्तिके । लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ।। ६८१/२ ।। राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा । पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ।। ६९१/२ ।। शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः । चन्दनो शीर कर्पूर कुंकुमा गरु संयुतम् ।। ७०१/२ ।। पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् । संपूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ।। ७११/२ ।। शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि । भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ।। ७२१/२ ।। संप्रोक्ष्यस्त्रांबुना भेरी प्रमुखान् गन्धपुष्पकैः । अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ।। ७३१/२ ।। प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने । जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ।। ७४१/२ ।। नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् । रात्राविंद्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ।। ७५१/२ ।। शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने । अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ।। ७६१/२ ।। वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ।। ७७ ।। नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः । अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ।। ७८ ।। प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति । राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ।। ७९ ।। सप्ताहं वाथ पञ्चाहं तत् पात दिन संख्यकम् ! ।। ७९१/२ ।। स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये । क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे ।। ८०१/२ ।। चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते । तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ।। ८११/२ ।। शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् । वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ।। ८२१/२ ।। क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् । तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ।। ८३१/२ ।। लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके । सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ।। ८४१/२ ।। शिवं संपूज्य विधिवत् दिशाहोमन्तु कारयेत् । पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ।। ८५१/२ ।। अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिके । समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ।। ८६१/२ ।। शिवं संपूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् । तद्देशे शान्ति च यद्देशे पतितिस्तरुः ।। ८७१/२ ।। तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके । तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ।। ८८१/२ ।। शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् । तदेक शाखा पतने कलहो भुवि जायते ।। ८९१/२ ।। शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् । द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ।। ९०१/१ ।। शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः । एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ।। ९११/२ ।। शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि । मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ।। ९२१/२ ।। नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः । उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ।। ९३१/२ ।। कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे । अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ।। ९४१/२ ।। सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः । तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ।। ९५१/२ ।। अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः । आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ।। ९६१/२ ।। षड्वेद नेत्रमात्रं तु वेष्टयेत् लिंग पिण्डिके । बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ।। ९७१/२ ।। मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् । एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ९८१/२ ।। राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा । गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ।। ९९१/२ ।। संपूज्य देव देवेशं सप्ताहं शान्ति माचरेत् । पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ।। १००१/२ ।। मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु । तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ।। १०११/२ ।। शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये । प्रत्यहं होमरक्षां च देव देव प्रसादजम् ।। १०२१/२ ।। भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः । सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ।। १०३१/२ ।। गुरुं पुरोहितं वाथ महिषीं गजमेव च । वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ।। १०४१/२ ।। प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा । परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ।। १०५१/२ ।। ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् । मार्जार प्रमुखानां रोदनं यदि जायते ।। १०६१/२ ।। स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये । तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ।। १०७१/२ ।। शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च । शान्ति होमोऽथवा घोर जपो मार्जाररोदने ।। १०८१/२ ।। शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् । अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत् ।। १०९१/२ ।। लिंगे बेरे च पीठादौ खद्योतारोहणे सति । राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ।। ११०१/२ ।। तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् । तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ।। ११११/२ ।। स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा । नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ।। ११२१/२ ।। लिंगमूले च पीठे वा बेरे वा गर्भगेहके । परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ।। ११३१/२ ।। प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये । तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ।। ११४१/२ ।। पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् । कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ।। ११५१/२ ।। संजाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् । चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ।। ११६१/२ ।। सूर्येवास्तंगते तस्मिन् उदयात् पूर्वमेव वा । दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ।। ११७१/२ ।। दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् । शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ।। ११८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः पटलः ३२. द्वात्रिंशत्तमे पटले अनुकर्मविधिः अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् । प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ।। १ ।। हीने जात्यादि संस्थानेमानोन्मानादि हीनए । तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ।। २ ।। मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् । मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ।। ३ ।। तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते । स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ।। ४ ।। शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते । अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ।। ५ ।। मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः । अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ।। ६ ।। नागरे नागरं कुर्याद्वेसरे वेसरं मतम् । द्राविडे च तथा कार्यं वराटादौ तथा मतम् ।। ७ ।। घनेऽघने विमाने तु तथा भवनमिष्यते । भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ।। ८ ।। पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् । द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ।। ९ ।। नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि । नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ।। १० ।। अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् । सुस्थितंदुस्थितं वापि शिवलिङ्गं न चालयेत् ।। ११ ।। जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् । जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ।। १२ ।। जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते । जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ।। १३ ।। तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च । जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ।। १४ ।। भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते । लक्ष्मोज्झितंवज्रहतं संपुटं स्फुटितं तथा ।। १५ ।। आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् । त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ।। १६ ।। जीर्णाद्यैस्संयुतंत्याज्यं पीठं वा कशिला वृषः । अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ।। १७ ।। चलितं चालितं लिङ्गं पतितं पातितं तथा । अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ।। १८ ।। परित्यक्त शिलायोगमपि न स्थापितं भवेत् । तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ।। १९ ।। असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् । जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ।। २० ।। नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् । ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ।। २१ ।। न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः । स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ।। २२ ।। शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् । सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ।। २३ ।। बेरेऽप्येतत्समानं स्यांद्दुष्टे त्वन्यत्प्रयोजयेत् । बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ।। २४ ।। पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् । अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ।। २५ ।। लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः । कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ।। २६ ।। उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् । पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ।। २७ ।। उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् । अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ।। २८ ।। वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः । ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ।। २९ ।। शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् । ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ।। ३० ।। प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् । पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ।। ३१ ।। तमेव स्थापयेत्तत्र पुनरापादनं विना । भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ।। ३२ ।। शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् । रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ।। ३३ ।। वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले । लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ।। ३४ ।। तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् । अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ।। ३५ ।। तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा । सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ।। ३६ ।। ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः । शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ।। ३७ ।। अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् । पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ।। ३८ ।। चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकम्ज् । मण्डपे परिवारे च परिवारालयेऽप्यथा ।। ३९ ।। अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः । अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ।। ४० ।। ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ । सप्रमाणे यथा शास्त्रं विहितालंकृतान्विते ।। ४१ ।। अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते । प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ।। ४२ ।। दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते । तद्वास्तु परितोवृद्धिः समावाविषमापि वा ।। ४३ ।। गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् । ग्रामादीनां गृहादीनां शालानां च विशेषतः ।। ४४ ।। आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः । समं वा योजयेत्तस्मादधिकं वापि योजयेत् ।। ४५ ।। युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् । गृहमालिकयोर्भूमिं संख्ययापरिकल्पयेत् ।। ४६ ।। सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु । उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ।। ४७ ।। हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् । जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ।। ४८ ।। किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् । लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ।। ४९ ।। स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् । यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ।। ५० ।। सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते । तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ।। ५१ ।। पूर्वद्वारसमोपेत मेकतोरण संयुतम् । सर्वालंकार संयुक्तन्तर्भामालादि संयुतम् ।। ५२ ।। तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् । मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ।। ५३ ।। समिदाज्यतिलोपेतं हविषा च समन्वितम् । वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ।। ५४ ।। सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः । ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ।। ५५ ।। अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः । अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ।। ५६ ।। एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् । क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ।। ५७ ।। गत्वात दन्तिकं मंत्री हृदास्नाप्य प्रपूजयेत् । व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ।। ५८ ।। प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः । व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ।। ५९ ।। चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१/२ नमस्कारान्त संयुक्तं हृदयाद्यंग पञ्चकम् । न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ।। ६०१/२ ।। स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः । ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ।। ६११/२ ।। सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति । लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ।। ६२१/२ ।। विद्याविद्येश्वरैर्युक्तश्शंभुरत्रभविष्यति । एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ।। ६३१/२ ।। तस्माद्देवं समावाह्यकुंभे संस्थापयेत् गुरुः । अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ।। ६४१/२ ।। सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते । तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ।। ६५१/२ ।। संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् । प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ।। ६६१/२ ।। ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् । हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ।। ६७१/२ ।। विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् । तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ।। ६८१/२ ।। सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् । शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ।। ६९१/२ ।। भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् । प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ।। ७०१/२ ।। महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् । तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ।। ७११/२ ।। स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा । गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ।। ७२१/२ ।। एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः । मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ।। ७३१/२ ।। सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः । तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ।। ७४१/२ ।। तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके । संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ।। ७५१/२ ।। मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ । तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ।। ७६१/२ ।। मूललिंगन्नलब्धञ्चेद्देशकालानुरोधतः । षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ।। ७७१/२ ।। बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् । द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ।। ७८१/२ ।। कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः । षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ।। ७९१/२ ।। तत्र स्थं बाललिंगाद्यं त्यक्त्वामूलन्तुविन्यसेत् । सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ।। ८०१/२ ।। द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् । नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ।। ८११/२ ।। एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः । किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ।। ८२१/२ ।। परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः । शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ।। ८३१/२ ।। दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः । भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ।। ८४१/२ ।। शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः । तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ।। ८५१/२ ।। आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे । लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ।। ८६१/२ ।। वामदक्षिणसिद्धान्तभेदेन नव भेदिनः । शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ।। ८७१/२ ।। गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः । प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ।। ८८१/२ ।। तैरपि स्थापितं लिंगं मादिशैवस्समर्चयेत् । यामलत्व परंज्ञेयं तच्चमिश्रमिहोच्यते ।। ८९१/२ ।। वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् । वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ।। ९०१/२ ।। सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः । व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ।। ९११/२ ।। वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् । लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ।। ९२१/२ ।। तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् । गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ।। ९३१/२ ।। कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा । बृहस्पतिमतं सांख्यं योगंवैखानसन्तथा ।। ९४१/२ ।। वेदान्ताख्यञ्च मीमांस पुराणन्धर्म शास्त्रकम् । वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ।। ९५१/२ ।। तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् । सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ।। ९६१/२ ।। रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् । तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ।। ९७१/२ ।। लिंगाद्यमादिशैवेन स्थापितं पूजितन्तुवा । तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ।। ९८१/२ ।। तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः । तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ।। ९९१/२ ।। यदितैः पूजितं पश्चात् सेनानिं सेनया सह । अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ।। १००१/२ ।। शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति । तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ।। १०११/२ ।। तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् । राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ।। १०२१/२ ।। शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः । आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ।। १०३१/२ ।। तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः । तत् स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ।। १०४१/२ ।। शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः । कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ।। १०५१/२ ।। पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् । पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ।। १०६१/२ ।। अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् । कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ।। १०७१/२ ।। मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च । महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ।। १०८१/२ ।। ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः । तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ।। १०९१/२ ।। कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ।। ११० ।। पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् । लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ।। १११ ।। अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः । जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ।। ११२ ।। एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् । स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ।। ११३ ।। पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः । पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ।। ११४ ।। कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् । स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ।। ११५ ।। लिंगसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः । लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ।। ११६ ।। शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् । गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ।। ११७ ।। देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् । स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ।। ११८ ।। च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते । दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ।। ११९ ।। अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् । शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः।। १२० ।। ब्राह्मणान् भोजयेत् पश्चात् शैवान् संभोजयेत्ततः । प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ।। १२१ ।। मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा । मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ।। १२२ ।। सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये । आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ।। १२३ ।। तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् । सर्वेरंगैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ।। १२४ ।। लिङ्गे स्वायंभुवादौ तु जीर्णादौ शान्तिरीरितः । सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ।। १२५ ।। प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते । उत्सेधेरविमात्रान्तंक्षन्तव्यञ्चाङ्गुलादिकम् ।। १२६ ।। द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यंगेषुमात्रकम् । ग्रामखेटपुरादौतुदंडान्तं परिकीर्तितम् ।। १२७ ।। सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके । चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ।। १२८ ।। द्वाराद्यंगेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके । तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ।। १२९ ।। इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः ।। ३३. त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः काम्ययोग विधानंतु प्रवक्ष्यामि समासतः । काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ।। १ ।। सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः । तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ।। २ ।। व्यालबद्धजटाचूटः कपालदलमण्डितः । सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ।। ३ ।। चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् । महाकायो महादंष्ट्री किङ्किणीखसंयुतः ।। ४ ।। महाशूलाग्र संप्रोत महासुर विनाशनः । खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ।। ५ ।। वराभयकपालाहि पाशप्रासगदायकरः । दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ।। ६ ।। स्वसेना रक्षको नित्यं परसेनाभयंकरः । वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ।। ७ ।। सर्वदोष विनाशे तु समर्थो भक्तवत्सलः । असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ।। ८ ।। आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ।। ९ ।। चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः । त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ।। १० ।। सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः । ओं जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ।। ११ ।। एष एवामृतेशस्स्यादादौ कूटयुतो न वा । रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ।। १२ ।। हकारेण शरीरं तु रसमित्यादितः पठेत् । अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ।। १३ ।। आदौ स्याद्देवदेवेशेति (पदं) समुद्धरेत् । प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ।। १४ ।। पीठं जुंकारकॢप्तंस्यान्मूर्तिरों जुंसतो भवेत् । मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ।। १५ ।। कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् । अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ।। १६ ।। सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ।। १७ ।। व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः । त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ।। १८ ।। दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। १९ ।। अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो । न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ।। २० ।। भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् । तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ।। २१ ।। अमृतेशेन देवेन जलं संग्राह्य यत्नतः । शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ।। २२ ।। क्षीरेण सहसंपृक्तदूर्वाकाण्डमखण्डितम् । ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ।। २३ ।। देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् । नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ।। २४ ।। मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् । प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ।। २५ ।। कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम् । गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ।। २६ ।। स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान पुरादीनि न संशस्यः ।। २७ ।। किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा । अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ।। २८ ।। रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ।। २९ ।। स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् । किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ।। ३० ।। सप्तायुध समायुक्तं सर्वाभरणभूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। ३१ ।। धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् । मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ।। ३२ ।। पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् । पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ।। ३३ ।। शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् । दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ।। ३४ ।। घण्टां खेटं कपालं च शत्रुसंक्षय संमुखम् । अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ।। ३५ ।। अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः । ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिंदमम् ।। ३६ ।। प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् । त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।। ३७ ।। सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् । चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ।। ३८ ।। नृत्यमानं महाकायं नागाभरणभूषितम् । देवदानव दैत्यानां दर्पितानां विमर्दकम् ।। ३९ ।। प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् । घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ।। ४० ।। ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः । चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ।। ४१ ।। ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् । घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ।। ४२ ।। प्रान्ते स्यादूहुंफडित्येवं चतुर्थ्यन्तं हृदादिकम् । नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ।। ४३ ।। परचक्रप्रथमने महाव्याधि प्रकोपने । शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ।। ४४ ।। किमनेन बहूक्तेन भयकालेऽप्युपस्थिते । मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ।। ४५ ।। परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् । मन्त्राणि योगयुक्तानि पावके शलभा यथा ।। ४६ ।। तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् । अनेनैव प्रकारेण ध्यात्वा संपूजयेद् गुरुः ।। ४७ ।। अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् । दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ।। ४८ ।। विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् । चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ।। ४९ ।। अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् । एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ।। ५० ।। हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् । संग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ।। ५१ ।। एवमभ्यर्चयेद्वोऽसौ सोऽयंमत्सदृशोमतः । तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ।। ५२ ।। सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः । पालनीयोविशेषेण साधकाधिपतिस्सदा ।। ५३ ।। दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते । वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ।। ५४ ।। फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि । ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ।। ५५ ।। दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् । मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ।। ५६ ।। स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः । नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ।। ५७ ।। शुद्धस्फटिकसंकाशं प्रसन्नवदनान्वितम् । गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ।। ५८ ।। व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् । शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ।। ५९ ।। वामे पद्मं च वह्निं च वरदाभयदं तु वा । पुस्तकेन युतंवाथ दधानं नयनत्रयम् ।। ६० ।। महावृषभसंयुक्तमनिसंघैस्समावृतम् । ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ।। ६१ ।। यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् । चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। ६२ ।। अथवान्य प्रकारेण भैरवं विकृताननम् । ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ।। ६३ ।। संग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः । अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ।। ६४ ।। यत् किंचित् क्रियते कर्म त्रैलोक्ये येन केनचित् । रहितो मन्त्रराजेन नैव सिध्यति साधकः ।। ६५ ।। आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पधस्तम् वक्त्रैर्युक्तं चतुर्भिः परमरुण चतुश्शक्तिभिर्व्याप्तदिक्कम् । कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालं भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि खट्वाङ्ग हस्तम् ।। ६६ ।। ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् । विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ।। ६७ ।। भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः । नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ।। ६८ ।। दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः । तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ।। ६९ ।। कामाचररतो वापि भावयेद्भास्करं सदा । वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।। ७० ।। सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् । ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ।। ७१ ।। शत्रुकृत्यादि संभूतरोगानीक विनाशनम् । चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ।। ७२ ।। स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु । ओं ह्रींकारं समुद्धृत्य तदन्ते कृष्णवाससे ।। ७३ ।। ततश्च सिंहवदने महावदन इत्यपि । महाभैरविवर्णेच सर्वशत्रुपदं तथा ।। ७४ ।। कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ।। ७५ ।। सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् । सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ।। ७६ ।। सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ।। ७६१/२ ।। ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ।। ७७१/२ ।। प्रत्यंगिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः । तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यंगिरात्मकः ।। ७८१/२ ।। प्रत्यंगिरेयं विख्यात श्शतवर्ण स्वरूपिणी । आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ।। ७९१/२ ।। दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् । तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ।। ८०१/२ ।। त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः । नमस्वाहावषड्वौषट् हुंपट्युक्ता हृदादयः ।। ८११/२ ।। सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् । कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ।। ८२१/२ ।। वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् । वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ।। ८३१/२ ।। अट्टहासादि शब्दैस्तु गर्जितामुदितामपि । कृष्णांबर धरां सासृक् मांसास्यां नर्तनेरताम् ।। ८४१/२ ।। मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् । कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ।। ८५१/२ ।। देवींध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् । ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ।। ८६१/२ ।। विद्याधरत्वलाभाय कृष्णागरुयुतं परम् । अथवा नाभिकंजल्कं जुहुयात् साधकोत्तमः ।। ८७१/२ ।। कदंबकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् । प्रियंगु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ।। ८८१/२ ।। करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् । खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ।। ८९१/२ ।। सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् । पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ।। ९०१/२ ।। धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् । कृष्णनीलं घृतं चैव स्तंभयेदभिचारतः ।। ९११/२ ।। रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् । कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ।। ९२१/२ ।। होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् । महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ।। ९३१/२ ।। गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् । जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ।। ९४१/२ ।। कुंकुमारोचनाश्चैव कार्पास फल गुग्गुलुः । वेणुनाभेदनं सद्यो भवेदेव न संशयः ।। ९५१/२ ।। निम्बपुष्पं तथाब्रीहिं निंबतैलसमायुतम् । अर्कक्षीर समायुक्तं होमयेदपिपारतम् ।। ९६१/२ ।। राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः । घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ।। ९७१/२ ।। दुकूल चरुलाजांश्च मधुत्रय समन्वितान् । औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ।। ९८१/२ ।। जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् । अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ।। ९९१/२ ।। मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् । विषमज्वर नाशाय चूतपत्राणि होमयेत् ।। १००१/२ ।। घृतेन सहसार्द्राणि प्लुतमृत्युंजिता तथा यथा । सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ।। १०११/२ ।। वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये । पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ।। १०२१/२ ।। सहस्रमयुतं वाथ लक्षन्तत्रिगुणंन्तु वा !! ।। १०३ ।। इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः त्रयस्त्रिंशतितमः पटलः ।। रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् । भुजाष्टक समोपेतं उर्ध्वकेशं सुदंष्ट्रिणम् ।। स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् । किंकिणीमालया भ्राजात् पादनुपूरसंयुतम् ।। सप्तायुध समायुक्तं सर्वाभरण भूषितम् । शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ।। धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम् मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम् पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम् शूलमूलं च वेतालं खङ्गं हमरुगं शुभम् दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् । घण्टां खेटं कपालं च शत्रुसक्षय संमुखम् अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रं अर्चयेत् ।। तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् । व्यालबद्धजटाचूटः कपालदलमण्डितः ।। सुरपिंगेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः । चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ।। माकायो माहदंष्ट्री किंकिणीरवसंयुतः । महाशूलाग्रसंप्रोत महासुर विनाशनः ।। खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् । वराभयकपालाहि पाश प्रासगदाकरः ।। दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ।। चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् । चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ।। अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् । द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ।। ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ।। सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः । चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ।। व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः । त्रिशूलं चाभयं (डमरुं) चोर्ध्वे सुधाकलशमध्ययोः ।। दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् । कपालं कुण्डिकां वामे योगमुद्रां करद्वये ।। अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे । आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् । वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ।। कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् । भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ।। ३४. चतुस्त्रिंशत्तमे पटले संप्रोक्षण विधिः । संप्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् । आवर्तंचेत्यनावर्तं पुनरावर्तनन्तथा ।। १ ।। ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् । मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ।। २ ।। तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते । पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ।। ३ ।। मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि । लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ।। ४ ।। मूलास्यात्समादाय स्थाप्य बालालये पुनः । तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ।। ५ ।। प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः । स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ।। ६ ।। चर्मच्छेदेऽहीने च भूषणादि विहीनके । अम्बुजासनहीने च स्थलकर्मविहीनके ।। ७ ।। विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते । यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ।। ८ ।। आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् । लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ।। ९ ।। न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः । कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ।। १० ।। आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् । लक्षणोद्धारणं तोयाधिवासः शयनं तथा ।। ११ ।। अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह । सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ।। १२ ।। ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम् । रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ।। १३ ।। शययाधिवासनं विप्रा विना व बेरकर्मणि । नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ।। १४ ।। प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् । स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ।। १५ ।। एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ।। १५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे संप्रोक्षण विधिः चतुर्स्त्रिंशतिमः पटलः ।। ३५. पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ।। १ ।। विष्ण्वंश समतुङ्गं च छाया दोष विवर्जितम्) । पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ।। २ ।। ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः । लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ।। ३ ।। सप्तविंशतिमानानि षड्विंशत्यंश मानकम् । लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ।। ४ ।। तदन्तरे तथा भक्ते सप्तविंशति मानकम् । लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ।। ५ ।। तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः । षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ।। ६ ।। हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः । लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ।। ७ ।। अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते । षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ।। ८ ।। एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् । विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ।। ९ ।। चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् । तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ।। १० ।। नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः । मानुषे पीठमानं स्यात्स्वयंभूतादिकेऽपि च ।। ११ ।। चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते । लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ।। १२ ।। विस्तारमध्यसप्तांशे मानं सप्तदशैव हि । मूलं प्रोक्त प्रमाणां च संग्राह्यं द्विजसत्तमाः ।। १३ ।। विस्तारार्धसमंतुङ्गं समं वाधाधिकं तु वा । प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ।। १४ ।। स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः । पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ।। १५ ।। वेदाश्रमं वर्तुलं वाथ संमतं पीठ रूपकम् । लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ।। १६ ।। बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा । कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ।। १७ ।। मानं सप्तदशाख्यातं समाश्रं वायतं तु वा । द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ।। १८ ।। पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते । विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ।। १९ ।। विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः । पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ।। २० ।। वसुधाभाजितेमध्ये नवमानमिति स्मृतम् । बिंबोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ।। २१ ।। बेरायामाष्टभागैकमपरं परिकीर्तितम् । अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ।। २२ ।। स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः । द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ।। २३ ।। आसने पद्मविस्तारस्त्रयोविंशति मात्रतः । अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ।। २४ ।। त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते । द्वादशांश विहीनेऽथ मध्ये षोडशधाकृते ।। २५ ।। विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः । विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ।। २६ ।। वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् । त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ।। २७ ।। एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् । शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ।। २८ ।। चतुरष्टदलोपेतं विकारार्क दलं तु वा । विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ।। २९ ।। अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् । त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ।। ३० ।। विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा । संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ।। ३१ ।। सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् । एकपीठमनेकेषां यदि शोभावशान्नयेत् ।। ३२ ।। वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा । पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ।। ३३ ।। अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने । षोडशांशे तु मानेन पादुकं परिकीर्तितम् ।। ३४ ।। वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् । वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ।। ३५ ।। षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ।। ३६ ।। वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ।। ३७ ।। एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। ३८ ।। कर्णस्त्वेकेनकंपः स्याद् भूतांशैरूर्ध्वपङ्कजम् । द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ।। ३९ ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४० ।। षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् । जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। ४१ ।। व्योमांश मूर्ध्वकंपं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ।। ४२ ।। द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका । शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ।। ४३ ।। पञ्चविंशति भागेतु व्योमांश पादुकं भवेत् । पद्ममेकेन भागे तु व्योमांश पादुकं भवेत् ।। ४४ ।। जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः । गलमर्धंत्रिभागेन पद्मं द्वयंशेन वृत्तकम् ।। ४५ ।। कुमुदं पद्मभागेन वाजनं व्योम भागतः । भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ।। ४६ ।। कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् । एकेनकंपमर्धेन घृतवार्यभिधीयते ।। ४७ ।। पीठं शांभवमाख्यातमन्यथान्यद्विधीयते । एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ।। ४८ ।। भागेन पादुकं वेद भागेन जगतीमता । एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ।। ४९ ।। कुमुदं पद्मंशेन वाजननत्वेक भागतः । कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ।। ५० ।। द्विभागानु महापट्टी पद्मंशेन भागतः । कंपस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ।। ५१ ।। अष्टादश विभागेतु व्योमांशं पादुकं भवेत् । अद्ध्यर्धं पद्ममित्युक्तं कंपमेकांशतो भवेत् ।। ५२ ।। जगतीवेद भागेन गुणांशः कुमुदं भवेत् । कंपमेकेन कर्णस्यात् द्विभागं कंपमेकतः ।। ५३ ।। महापट्टी द्विभागेन वाजनञ्चैक भागतः । अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ।। ५४ ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंश मिमंबंध भागेन जगती भवेत् ।। ५५ ।। भागाभ्यां पंकजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पंकजम् । कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ।। ५६ ।। कंपंकर्णस्तु चार्द्धेनार्धेनकंपञ्चवारिजम् । भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ।। ५७ ।। घृतवारिसमाख्यातं संपत्करमिहोदितम् । रुद्रभागेतु तत्तुंगे व्योमांशं पादुकं भवेत् ।। ५८ ।। गुणांशं जगतीकंप मेकं कर्णोद्विभागतः । एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ।। ५९ ।। घृतवार्येकभागेन नन्दिकावृत्तमीरितम् । तिथ्यशं विभजेत्तुंग मद्ध्यर्धं पादुकं भवेत् ।। ६० ।। अर्द्धेन कंपपद्मं स्यात् गुणांशं गलमर्द्धतः । पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ।। ६१ ।। अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका । अर्द्धांश घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ।। ६२ ।। तुंगाष्टदशभागेतु द्विपादं पादुकं भवेत् । पंकजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। ६३ ।। षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ।। ६४ ।। घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् । कलांशं विभजेत्तुंगं व्योभागेन पादुका ।। ६५ ।। द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् । भागेन कंपं स्यात् द्विभागेन द्विभागतः ।। ६६ ।। महापट्यंश मानैक घृतवायूर्ध्वतो भवेत् । स्थंण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ।। ६७ ।। त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् । व्योमांशं कंपमित्युक्तं द्विभागं पद्ममुच्यते ।। ६८ ।। भागेन कंपमित्युक्तं शेषं पूर्ववदेवहि । एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ।। ६९ ।। कंपमंशेन भागेन पुनः कंपं द्विभागतः । पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ।। ७० ।। स्वायंभुवमिदं प्रोक्तमधिष्ठानानियानि च । उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ।। ७१ ।। घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः । द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ।। ७२ ।। महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् । घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ।। ७३ ।। अधिष्टानेक तोपेत मथवा परिकल्पयेत् । कर्णमानञ्च संग्राह्य कंपादौ विनियोजयेत् ।। ७४ ।। तन्मान मथकर्णेतु यावदेक यवेन च । वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ।। ७५ ।। सर्वेष्वंगेषु पीठानां सकले निष्कलेपि च । चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ।। ७६ ।। शलेदारुमये वापि मृण्मयेन्य मयेपिवा । निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ।। ७७ ।। पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः । तदर्द्धेणाग्र विस्तार स्सर्वलिंगेषु योग्यकः ।। ७८ ।। पीठार्द्धमानः पादोवा मध्यमे षोडशांशके । मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ।। ७९ ।। तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे । तथा विभक्ते संग्राह्य मानं सप्तदशैव च ।। ८० ।। प्रणालमूलदेशेतु गदग्रं तेन मानतः । त्रिपाद मर्द्ध पादोनं पञ्चत्रित्यत्रंश मेववा ।। ८१ ।। सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् । वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ।। ८२ ।। मूलकंपं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि । तदूर्ध्वेकंपमेकद्वि व्योमभागैस्तथा क्रमात् ।। ८३ ।। प्रणालघनमानेतु तन्मान मधुनोच्यते । कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ।। ८४ ।। त्रिसप्तमानं वेदांशा देकभागविवृद्धितः । दशभागावसानन्तु पीठनाल घनं तुवा ।। ८५ ।। समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् । अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ।। ८६ ।। तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् । अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ।। ८७ ।। खण्डंत्वंगावसानं स्यादूर्ध्व खण्डमखण्डजम् । प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ।। ८८ ।। नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः । सकलानामनालं स्यात् सनालमथपीठकम् ।। ८९ ।। घृतवारिविहीनं वा सहितं वा प्रकल्प्यते । बाणलिंगादि लिंगानां चतुरश्राय ताश्रकम् ।। ९० ।। कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् । पीठलग्नां प्रभां कुर्यात् भिन्नां वा भिन्नयोगिकाम् ।। ९१ ।। नाना वाजन पीठं संयुक्तां मुक्तादामावलि क्रियाम् । नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ।। ९२ ।। सर्वालंकारसंयुक्तामिष्टास्य घन संयुताम् । सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ।। ९३ ।। बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् । एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ।। ९४ ।। पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः । तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ।। ९५ ।। योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति । आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ।। ९६ ।। द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः । तथैव च पुनः कुर्यादन्यथा दोषकारकम् ।। ९७ ।। मानवे पीठ संकल्पपिधानं परिकीर्तितम् । चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ।। ९८ ।। दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा । वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ।। ९९ ।। पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् । लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ।। १०० ।। कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् । अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ।। १०१ ।। हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् । प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ।। १०२ ।। तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना । कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।। १०३ ।। योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च । तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ।। १०४ ।। एवं निष्पाद्य सर्वंतु पश्चात् कर्मसमारभेत् । विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ।। १०५ ।। शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् । लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुंभस्यवर्धनीम् ।। १०६ ।। मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा । ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ।। १०७ ।। गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् । पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ।। १०८ ।। आवाह्यलिङ्गं लिङ्गस्य शिवकुंभगतं न्यसेत् । पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ।। १०९ ।। विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् । नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ।। ११० ।। सहस्रसंख्यं मूलेन समिदाज्यन्नलाजकैः । तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ।। १११ ।। प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् । अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ।। ११२ ।। नित्यपूजा प्रकर्तव्या लिङ्गे कुंभे च नित्यशः । टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ।। ११३ ।। अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् । शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ।। ११४ ।। ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते । शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ।। ११५ ।। कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे । प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ।। ११६ ।। वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे । स्थण्डिलंकल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ।। ११७ ।। गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् । मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ।। ११८ ।। ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते । सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ।। ११९ ।। धान्यराशिंसवत्सांगांकन्यां हृदय मन्त्रतः । प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ।। १२० ।। प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् । प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ।। १२१ ।। स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् । कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ।। १२२ ।। देवीञ्चकलशानिष्ट्वा लंबकूर्च समन्विताम् । नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ।। १२३ ।। स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् । पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ।। १२४ ।। पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् । सवितानध्वजं दर्भमुक्ता पुष्पजमालया ।। १२५ ।। सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् । सर्वलक्षणसंपन्नं सुविसर्जित तक्षकम् ।। १२६ ।। ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् । पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ।। १२७ ।। द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् । प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ।। १२८ ।। मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु । गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ।। १२९ ।। कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः । कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ।। १३० ।। आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् । मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ।। १३१ ।। कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् । आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ।। १३२ ।। कृत्वा कौतुकबन्धंतु तन्नाले तद्गलेऽपि वा । शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ।। १३३ ।। तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् । दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ।। १३४ ।। ततश्शययां च संक्ल्प्य तदलाभेऽम्बरैर्नयेत् । आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद् धृदा ।। १३५ ।। आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् । सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ।। १३६ ।। सहैमपंकजं कूर्चफलपल्लव वस्त्रकम् । तन्मध्ये सासनां देवीमर्चयेद् गन्धसंमुखैः ।। १३७ ।। वर्धनीरष्ट संख्याताः कूर्चवस्त्रससूत्रकाः । सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ।। १३८ ।। वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् । गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ।। १३९ ।। तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् । कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ।। १४० ।। क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः । धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।। १४१ ।। धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु । पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ।। १४२ ।। लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् । चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ।। १४३ ।। समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः । पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ।। १४४ ।। शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः । पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ।। १४५ ।। सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा । देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ।। १४६ ।। शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् । तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ।। १४७ ।। प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् । भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ।। १४८ ।। अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः । ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ।। १४९ ।। कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः । द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ।। १५० ।। गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा । ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीमपि ।। १५१ ।। अग्नि होमैश्च संतर्प्य प्रायश्चित्तं विधाय च । दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ।। १५२ ।। सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् । धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ।। १५३ ।। लिङ्गसंस्ह्तापनप्रोक्तविधिना तांनिवेशयेत् । पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ।। १५४ ।। तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् । नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ।। १५५ ।। पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके । पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ।। १५६ ।। रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः । सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ।। १५७ ।। अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् । पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ।। १५८ ।। प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् । पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ।। १५९ ।। लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् । वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ।। १६० ।। देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे । संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतं ।। १६१ ।। वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् । जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ।। १६२ ।। लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः । स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ।। १६३ ।। केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।। १६४ ।। तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा । लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ।। १६५ ।। चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः । विशेषपूजा कर्तव्या होमेन च समन्विता ।। १६६ ।। पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् । चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ।। १६७ ।। बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् । पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ।। १६८ ।। समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ।। १६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः पटलः ।। अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके षोडशांशे तु मानेन पादुकं परिकीर्तितम् वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत् वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते । अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः घृतवार्यंशमानेन भद्रपीठमिदं मतम् । षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् । शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ।। वेदांशं ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका । घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम् एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः । पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ।। कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् । द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ।। षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् । जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ।। व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते । वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका । शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ।। पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत् पद्मं एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् कुमुदं पद्मं एकेन वाजनं व्योमभागतः भागाभ्यां कर्णं इति उक्तस्स्यात् एकेनैव वाजनम् कञ्चं एकेन भागाभ्यां महावाजनं ईरितम् एकेन कम्पमर्धेन घृतवार्यभिधीयते पीठं शाम्भवमाख्यातं अन्यथान्यद्विधीयते एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च भागेन पादुकं वेदभागेन जगती मता एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः कुमुदं पद्ममंशेन वाजनं एक भागतः कर्णो द्विभागो भागेन वाजनं पद्ममंशतः द्विभागा तु महापट्टी पद्ममंशेन भागतः कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् अष्टादश विभागे तु व्योमांशे पादुकं भवेत् । अध्यर्धं पद्मं इति उक्तं कम्पं एकांशतो भवेत् ।। जगती वेद भागेन गुणाशः कुमुदो भवेत् । कम्पं एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ।। महापट्टी द्विभागेन वाजनं च एक भागतः अर्धेन घृतवार्युक्तं उमा पीठमिदं मतम् ।। विकारांशे तदुत्सेधे पादुकं भागमानकम् । पद्ममंशमितं बन्धभागेन जगती भवेत् ।। भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् । कुमुदं स्यात् द्विभागेन पद्मं अर्धेन च अर्धतः कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम् भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि घृतवारि समाख्यातं सम्पत्करं इहोदितम् रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् । गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ।। एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः । घृतवार्येक भागेन नन्दिकावृत मीरितम् ।। तिथ्यंशं विभजेत्तुङ्गं अध्यर्धं पादुकं भवेत् । अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः पद्मं अंशेन भागाभ्यां कुमुदं पद्मं अंशतः अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् । पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ।। षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः । अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनं इष्यते ।। घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ।। कलांशं विभजेत्तुगं व्योम भागेन पादुकम् । द्वाभ्यां पद्ममथैकेन कम्पंपड् भागतो गलम् ।। भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः । महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ।। त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् । योमांशं कम्पमित्युक्तं द्विभागं पद्मं उच्यते ।। भागेन कम्पं इत्युक्तं कम्पं षड् भागतो गलम् । भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।। महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ।। एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् । कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।। पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् । स्वायंभुवं इदं प्रोक्तं अधिष्ठानानियानि च ।। उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः ३६. षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् । बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ।। १ ।। प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च । दत्तवाल्लिंगकोटीनां चतुर्दशाः महेश्वरः ।। २ ।। तानि संपूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् । लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ।। ३ ।। कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे । अन्यत्र च नदीमध्ये पर्वते च विशेषतः ।। ४ ।। माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् । पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ।। ५ ।। विस्तार नाहमानं तु बाणलिंगस्य नेष्यते । रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ।। ६ ।। सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते । स्नपने यजने धूपे गन्धपुष्प निवेदने ।। ७ ।। अन्य कर्मणि विप्रेन्द्राः स्वायंभूतादिके तथा । प्रासाद पीठिकादीनां नियमो न च नेष्यते ।। ८ ।। ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा । विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ।। ९ ।। शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् । एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ।। १० ।। लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा । विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ।। ११ ।। यथाभिमतमानं वा खामानमुदाहृतम् । सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ।। १२ ।। यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् । पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ।। १३ ।। उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा । स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ।। १४ ।। रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् । सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ।। १५ ।। रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् । सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ।। १६ ।। शैललिंग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः । चललिंग प्रतिष्ठायां प्रतिमादौ च मध्यमः ।। १७ ।। कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि । मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ।। १८ ।। तथैव बाणलिंगस्य किंतु कालोधमोथवा । विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ।। १९ ।। अंकुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् । रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ।। २० ।। पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् । लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ।। २१ ।। विधायलिंगशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः । जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ।। २२ ।। कुर्याल्लिंगाधि वासार्थं वेदिका सहितं यथा । वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ।। २३ ।। शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् । भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ।। २४ ।। स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् । जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ।। २५ ।। अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् । शययां मध्ये निवेश्याथ शिवकुंभं च वर्धनीम् ।। २६ ।। विद्येश कुंभ संयुक्तं ससूत्रं सापिधानक । सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ।। २७ ।। संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् । मूर्ति मूर्तिश्वरान्यस्त्वा संपाद्यैवं शिवानलम् ।। २८ ।। समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् । जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ।। २९ ।। मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः । तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ।। ३० ।। वस्त्रेणाच्छाद्य लिंगन्तु नैवेद्यं च निवेदयेत् । प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ।। ३१ ।। लिंगमग्नि मघोरेण जुहुयाच्चत संख्यया । संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ।। ३२ ।। मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् । एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ।। ३३ ।। संकल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् । तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ।। ३४ ।। स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् । यदनुक्तं भवेदत्र लिंग स्थापन वन्नयेत् ।। ३५ ।। चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते । प्रत्यहं पूजयेद्देवं अर्चनोक्त विद्यानतः ।। ३६ ।। शिष्टलिंगे गतिर्नास्ति समान्यस्य गतिं क्षणात् । जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ।। ३७ ।। सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् । कुंभे वा स्थण्डिले वापि मण्डले पीठकादिके ।। ३८ ।। पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके । संपूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ।। ३९ ।। अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः । पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ।। ४० ।। अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् । आदावन्ते च वा होमं प्रत्यहं होममेव वा ।। ४१ ।। तत्र संप्रोक्षणं नेष्टं तदर्धं होममेव वा । लिंगाग्रे स्थण्डिलं तत्र कुंभसंस्थापणं नुहि ।। ४२ ।। कुंभेत्वावाहनं तस्मात् कुंभमन्त्रान्निवेशयेत् । नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ।। ४३ ।। तत्कुंभोदैरपि स्नानं केवलं प्रोक्षणं तु वा । क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ।। ४४ ।। एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि । स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ।। ४५ ।। क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् । होमाद्यमपि नेष्टं स्यात् कर्तुं लिंगं समर्चयेत् ।। ४६ ।। गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् । मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ।। ४७ ।। पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः । तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ।। ४८ ।। शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् । अस्त्रांबु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ।। ४९ ।। बहु दैवसिकं स्नानं (भंगश्चेत्) स्नपनं महत् । महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ।। ५० ।। ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। ५१ ।। प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् । स्वायंभुवादि लिंगाना मेतत् सामान्यमीरितम् ।। ५२ ।। शिल्प्यपेक्षमिदं कर्म कुर्यात्संप्रोक्षणान्वितम् । अन्यत् सर्व समानं स्यात् कर्मसामान्यलिंगकः ।। ५३ ।। स्वायंभुवादि लिंगानां नेष्यतां मनु संकरः । अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ।। ५४ ।। स्वर्णादि लोहजेवापि तत् संभूतेति कीर्तितः । चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ।। ५५ ।। चलञ्च द्विविधं प्रोक्तं अङ्गं प्राधानिकं त्विति । चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ।। ५६ ।। पूजितं त्वंगमित्युक्त मन्यत् प्राधानिकम्मतम् । अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ।। ५७ ।। नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् । अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।। ५८ ।। त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ।। ५८१/२ ।। इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः षट्त्रि.शत्तमः पटलः ।। ३७. सप्तत्रिंशत्तमे पटले काम्यलिंग प्रतिष्ठा विधिः काम्यलिंग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् । काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ।। १ ।। कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् । प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ।। २ ।। फलं दृष्टमदृष्टं च द्विधं तत्परापरम् । कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ।। ३ ।। उत्तमं खेचरत्वं च श्रेष्ठं देव समानता । भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ।। ४ ।। विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् । इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ।। ५ ।। सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च । इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुंगवाः ।। ६ ।। गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् । अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ।। ७ ।। दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते । देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ।। ८ ।। मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् । अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ।। ९ ।। न सिद्धिर्न च मुक्तिश्च लिंगाश्रयणमन्तरा । शिवलिंग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ।। १० ।। एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् । भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ।। ११ ।। रत्नलिंग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः । तस्मालिंगाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ।। १२ ।। विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः । विधिवल्लिंगमाराध्य फलमिष्टतमं गताः ।। १३ ।। स्वायंभुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः । सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ।। १४ ।। स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् । यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ।। १५ ।। तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा । स्वयंन कर्तु मशक्तानां वृपतीनां हिताय च ।। १६ ।। देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च । स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ।। १७ ।। लिंगार्थमाकरं यायात् स्वस्य कृत्यानु सारतः । शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ।। १८ ।। तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः । रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ।। १९ ।। श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा । चतुर्णामपि वर्णानां शिला धात्री च संमता ।। २० ।। एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः । एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ।। २१ ।। तत्तद्भूजनिता एव मृदो लिंगार्थमीरिताः । फलं लिंगानूरूपेण शिलानां समुदाहृतम् ।। २२ ।। पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि । श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ।। २३ ।। आयसं मारणे लिंगमुन्मादे सांस्यजं भवेत् । उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ।। २४ ।। वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् । लोहलिंगं समाख्यातं रत्नलिंग मथोच्यते ।। २५ ।। वज्रलिंगं क्षितीशत्वे मौक्तमारोग्यदं भवेत् । इन्द्र नीलमयाल्लिंगात् सर्वान् कामान् समश्रुते ।। २६ ।। महान्नीलमयाल्लिंगात् वैणवं पदमाप्नुयात् । वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ।। २७ ।। आरोग्यतं मरकतं प्रवालं च वशीकरम् । राजावर्तमयाल्लिंगात् महाभोगं समश्रुते ।। २८ ।। नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् । शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ।। २९ ।। सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् । चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ।। ३० ।। स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये । वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ।। ३१ ।। क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् । गुणादष्टफल प्रोक्तं परासु मणिजातिषु ।। ३२ ।। इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना । सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ।। ३३ ।। साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् । रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ।। ३४ ।। सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे । यद्वा साधक नक्षत्र वशाल्लिंग तु दारुजम् ।। ३५ ।। कारस्करं चामलकंतथोदुम्बर जम्बुकौ । खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ।। ३६ ।। पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा । अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ।। ३७ ।। पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा । आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ।। ३८ ।। मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः । एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ।। ३९ ।। विधाय लिंगं कर्तव्यं साध्यर्क्षे मारणादिकम् । श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ।। ४० ।। चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् । सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ।। ४१ ।। साप्तपर्णं च सालोत्थं राजादन समुद्भवम् । विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ।। ४२ ।। उदुंबर मयं पुष्ट्यै शान्त्यै न्यग्रोध संभवम् । वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ।। ४३ ।। लिंगं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः । दारुजं लिंगमाख्यातं क्षणिकं लिङ्गमुच्यते ।। ४४ ।। संकेतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् । अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ।। ४५ ।। गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये । घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ।। ४६ ।। ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् । विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ।। ४७ ।। स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् । बिल्वादि पत्रजं लिंगं यत्तत्पुत्र विवर्धनम् ।। ४८ ।। तद्बीज जनितं लिंगं विशेषात् तृप्तिकारणम् । धान्य तण्डुलजं लिंगं तत्तद्द्रव्य फलप्रदम् ।। ४९ ।। कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् । रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ।। ५० ।। जलेन रचितं लिंगं प्राणिनां शान्तिपुष्टितम् । लिंगं यच्चित्रितं सद्यो विचित्रफल दायकम् ।। ५१ ।। कर्पूर चन्दनाद्यैस्तु लिंगं यत्तज्जरापहत् । द्रव्याणि कथितान्येवं लक्षणं च विधीयते ।। ५२ ।। प्रासाद गर्भमानेन लिंगं ज्येष्ठादि भेदतः । मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ।। ५३ ।। हस्तादि लिंगमानानि यानि तानि विमुक्तये । भुक्तये चानु षड्गेण भवन्ति विधियोगतः ।। ५४ ।। गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् । तदन्तरेऽष्टभागे तु नव लिंगानि सन्ति हि ।। ५५ ।। तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि । षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ।। ५६ ।। प्रासादे वा ततो वह्नि वेदग्रह विभाजिते । द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ।। ५७ ।। पूर्ववच्च प्रमाणानि लिंगानां विहितानि तु । एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ।। ५८ ।। अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः । एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ।। ५९ ।। नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् । हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ।। ६० ।। पादोनं दारुजं लोहमस्यार्धेनैव संमतम् । अङ्गुलादि वितस्त्यन्तं रत्नलिंगं द्विजोत्तमाः ।। ६१ ।। आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः । हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ।। ६२ ।। लिंगायामैक भागे तु वेद भागेन विस्तरः । खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ।। ६३ ।। चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् । अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ।। ६४ ।। पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिंगं वज्रशिरो यथा । वज्रकार्यं समायोज्य स्तंभादि परिकीर्तितम् ।। ६५ ।। लिंगोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् । वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ।। ६६ ।। आग्नेय पीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये । लिंगं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ।। ६७ ।। शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः । तापदाहं रिपोः कुर्याल्लिंगमाग्नेयकं द्विजाः ।। ६८ ।। नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः । प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ।। ६९ ।। याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके । लिंगं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ।। ७० ।। गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् । रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ।। ७१ ।। मारीं च भेदनं रोगं विधत्ते नात्र संशयः । दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ।। ७२ ।। अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः । स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ।। ७३ ।। खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् । अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ।। ७४ ।। तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् । कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ।। ७५ ।। उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् । चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ।। ७६ ।। वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् । पाशमस्तक युक्तं तत् पाशकाय विधानतः ।। ७७ ।। प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् । व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ।। ७८ ।। गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे । नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ।। ७९ ।। तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य माप्नुयात् ।। ८० ।। लिंगं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः । तेन लिंगेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ।। ८१ ।। भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः । पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ।। ८२ ।। यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् । गदा मस्तक लिंगं तु गदाङ्के स्थाप्य देशिकः ।। ८३ ।। जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् । जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ।। ८४ ।। लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् । दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ।। ८५ ।। एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् । अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ।। ८६ ।। कुक्कुटाण्ड शिरोयुक्तं लिंगमैशान्य पीठके । स्थापयित्वा स्वदिक् साम्यं लिंगं शूलशिरोयुतम् ।। ८७ ।। शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् । ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ।। ८८ ।। शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् । उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ।। ८९ ।। वस्वश्रं पूर्ववद्वृत्तं लिंगं छत्रशिरोयुतम् । ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ।। ९० ।। तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् । खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ।। ९१ ।। गायग्र्यंशे तु लिंगोच्चे शरांशैश्चतुरश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ।। ९२ ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् । चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ।। ९३ ।। व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् । लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ।। ९४ ।। तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते । सिद्धिलिंगमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ।। ९५ ।। आप्यादि देवलिंगेषु लोकपालार्चितेषु वा । सहस्र लिंगं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ।। ९६ ।। सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् । अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ।। ९७ ।। अष्टोत्तरशतं लिंगं सूत्रैर्विषययोजितैः । आढ्यादि लिंगान्युत्सेधैः समखण्डानि कल्पयेत् ।। ९८ ।। छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि । धारालिंगं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ।। ९९ ।। साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता । मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ।। १०० ।। आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् । मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ।। १०१ ।। आसुरं पौरुषं चैव सादेशैशान भैरवम् । देवत्वं देवराजत्वं सर्वकामफलं च यत् ।। १०२ ।। रुद्रत्वं च फलान्येषु लिंगेष्वेकाश्रकादिषु । एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ।। १०३ ।। लिंगानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च । अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ।। १०४ ।। भवन्ति पुण्डरीकादि शिरांसि फलभेदः । पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ।। १०५ ।। प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् । कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ।। १०६ ।। प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः । तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ।। १०७ ।। सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् । षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ।। १०८ ।। साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः । साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ।। १०९ ।। प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् । छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ।। ११० ।। अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् । त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ।। १११ ।। दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् । खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ।। ११२ ।। पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः । ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ।। ११३ ।। वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे । शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ।। ११४ ।। अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् । लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ।। ११५ ।। कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि । वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।। ११६ ।। गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् । ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ।। ११७ ।। तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः । लिंगाशे नवधा भक्ते नवांश कृत लक्ष्मकम् ।। ११८ ।। स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च । द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ।। ११९ ।। तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् । ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ।। १२० ।। पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः । षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ।। १२१ ।। हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् । नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ।। १२२ ।। अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् । कथितं हि तथापीह त्रिभागे रसभागके ।। १२३ ।। यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् । वेध दोष निवृत्यर्थं एवं लक्ष्म प्रकल्पयेत् ।। १२४ ।। गायत्र्यंशे तु लिंगोच्चे लक्ष्मविस्तृतिरंशतः । शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ।। १२५ ।। तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् । शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ।। १२६ ।। याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् । नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ।। १२७ ।। शूलाश्रमैश्वरं लिंगं वायव्यां ध्वजमस्तकम् । सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ।। १२८ ।। लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् । स्तंभनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ।। १२९ ।। अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् । मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ।। १३० ।। स्वतेजोलक्षणं लोहे बाणलिंगे तथैव च । लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ।। १३१ ।। शुभलक्षण लक्ष्मं चेत् लिंग सर्वार्थ सिद्धिदम् । पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ।। १३२ ।। लिंगायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् । ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ।। १३३ ।। वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च । प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ।। १३४ ।। ऐन्द्रयादि संज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः । वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ।। १३५ ।। पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् । वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ।। १३६ ।। निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् । सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ।। १३७ ।। ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् । योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ।। १३८ ।। पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् । पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ।। १३९ ।। तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः । पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ।। १४० ।। याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका । राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ।। १४१ ।। पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् । तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ।। १४२ ।। चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् । कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ।। १४३ ।। तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते । इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ।। १४४ ।। पाज्जगती कुंभवेत्रास्युः कण्ठश्चैकैक वेशतः । निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ।। १४५ ।। आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् । षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ।। १४६ ।। तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् । ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ।। १४७ ।। चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् । तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ।। १४८ ।। संस्थान वर्तनाकारैः वा राक्षसं मतम् । तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ।। १४९ ।। पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः । कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ।। १५० ।। तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः । आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ।। १५१ ।। याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला । षण्मेखला च वायव्या वारुणी पञ्चमेखला ।। १५२ ।। विष्ण्वंश षोडशोत्सेधः पुण्डिकापीठविस्तरः । शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ।। १५३ ।। वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका । पीठं सहस्रलिंगस्य सालङ्कारयुगाश्रयुक् ।। १५४ ।। आश्मेऽश्मसंभवा पिण्डी पार्थिवे पार्थिवी तथा । दारुजे दारुजा पिण्डी धातुजे धातु संभवा ।। १५५ ।। रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् । उच्छ्रयं चललिंगानां पूजांशाद् द्विगुणं भवेत् ।। १५६ ।। लिंगायामे भवेत्पिण्डी लिंगं च परितो यथा । कृशुषु वर्धयेद्द्रुद्रं स्थूललिंगेषु ह्रासयेत् ।। १५७ ।। ह्रासयेद्वर्धयेदंश मच्युतस्य हि न च्युतिः । पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ।। १५८ ।। चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् । मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ।। १५९ ।। पिण्डिका सहितोत्सेधं लिंगनाहसमं भवेत् । सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ।। १६० ।। समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् । मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ।। १६१ ।। साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा । गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ।। १६२ ।। मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् । अन्यद्वापि भवेल्लिंगं नदी प्रस्रवणोद्भवम् ।। १६३ ।। लिंगाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् । हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ।। १६४ ।। रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः । पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ।। १६५ ।। उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने । स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ।। १६६ ।। अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते । समलिंगे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ।। १६७ ।। कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। १६८ ।। पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् । द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ।। १६९ ।। चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ।। १७० ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा । भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ।। १७१ ।। भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् । व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ।। १७२ ।। बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् । पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ।। १७३ ।। वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् । देह पञ्चक संयुक्तं चरमद्वय संयुतम् ।। १७४ ।। तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् । जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ।। १७५ ।। दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् । दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ।। १७६ ।। व्यालबद्धजटाचूडं कपालदलमण्डितम् । तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ।। १७७ ।। उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् । भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ।। १७८ ।। दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् । बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ।। १७९ ।। वराभय करोपेतं ध्यानासक्तमिव स्थितम् । पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ।। १८० ।। ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ । इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ।। १८१ ।। कलावत्सरदेशीयं दिव्याभरणभूषितम् । सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ।। १८२ ।। ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् । भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ।। १८३ ।। संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् । कुर्यादीशान देहं तु दशतालोत्तमेन तु ।। १८४ ।। पुरुष प्रमुखान्देहानीश देहार्धमानतः । कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ।। १८५ ।। पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् । कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ।। १८६ ।। ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् । कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ।। १८७ ।। जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् । व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ।। १८८ ।। नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् । श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ।। १८९ ।। त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् । जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ।। १९० ।। नानावर्णांवरैर्युक्तं वेणिकादिभिरलंकृतम् । ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ।। १९१ ।। किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् । वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ।। १९२ ।। पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः । त्रिशूलं नागहस्तं च परशुः पाश एव च ।। १९३ ।। गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः । नागैराभरणैर्युक्तं कुण्डलाभ्यामलंकृतम् ।। १९४ ।। सर्वलक्षण संयुक्तं पादनूपुर संयुतम् । गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ।। १९५ ।। एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते । नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ।। १९६ ।। नाना विधायुधोपेत नवद्वय करोथवा । दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ।। १९७ ।। कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः । इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ।। १९८ ।। टङ्क विहाय शूलं वा डमरुं वापरे करे । अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल संज्ञितः ।। १९९ ।। त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः । वराभय करोपेता रुद्रोयं वाम संज्ञककः ।। २०० ।। एष एव हि खट्वाङ्ग रहित श्शूल संयुतः । अघोर रुद्रनामायं भीमो भव विनाशनः ।। २०१ ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः । अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ।। २०२ ।। धनुर्बाण समोपेता मृगटङ्क समायुतङ्क । भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ।। २०३ ।। अथवा पादुके पद्मे भक्तानां शेखरेषु वा । वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ।। २०४ ।। एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः । त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ।। २०५ ।। वरदाभय वामतः पार्वतीयुतः । आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ।। २०६ ।। देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही । तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ।। २०७ ।। तस्या कट्याश्रियो वापि देवोयं सर्वकामदः । गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ।। २०८ ।। कपालशूल संयुक्तौ वरदाभयसंयुतौ । त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ।। २०९ ।। प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ । एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ।। २१० ।। भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ । कालान्तकादि संयुक्तौ भक्तानामथवोपरि ।। २११ ।। एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः । देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ।। २१२ ।। द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ । मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ।। २१३ ।। विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा । अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ।। २१४ ।। चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः । शूल पङ्कज युक्तो वा वरदाभय संयुतः ।। २१५ ।। कपालशूल संयुक्तो बद्धपद्मासने स्थितः । नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ।। २१६ ।। चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः । पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ।। २१७ ।। मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा । वरदाभय हस्तो वा शान्तरूपः स्मिताननः ।। २१८ ।। जटामकुट संयुक्तः स्थानकादि समन्वितः । रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ।। २१९ ।। शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः । कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ।। २२० ।। मृगंशूल समायुक्तश्चतुर्भुज समन्वितः । पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ।। २२१ ।। वरदा संयुक्तः स्थितः पद्मासनोपरी । भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ।। २२२ ।। कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः । वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ।। २२३ ।। अथवा मृगटङ्कायां वराभय करान्विताः । उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ।। २२४ ।। कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः । उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ।। २२५ ।। तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः । किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ।। २२६ ।। यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः । एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ।। २२७ ।। एतन्नामादि वर्णेन बिन्दु नाद युतेन तु । त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ।। २२८ ।। उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः । रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ।। २२९ ।। अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः । कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ।। २३० ।। शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया । तत्रैव कुण्ड संकॢप्तिर्नव पञ्चैक सख्यया ।। २३१ ।। तक्षद्वासनं विप्र भोजनं वास्तु होमकम् । पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ।। २३२ ।। कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा । कुंभादीनां सपर्या च नैवेद्यादि निवेदनम् ।। २३३ ।। तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः । होमं पलाशसद्बिल्व वटोदुंबर पिप्पलैः ।। २३४ ।। अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः । प्रधाने तु पलाशेन घृतेन चरुणातिलैः ।। २३५ ।। द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च । मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ।। २३६ ।। उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् । कर्तव्य स्सर्व कर्मापि लिंग संस्थापनं यदि ।। २३७ ।। मुखलिंगस्य वा विप्राः तदध्यायोक्तमार्गतः । कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ।। २३८ ।। एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा । लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ।। २३९ ।। स्वायंभुवादिकं लिंगं समाश्रित्य कदाचन । कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् । इति उत्तरकामिकाखे महातन्त्रे काम्यलिंगप्रतिष्ठा विधिः सप्तत्रिंशत्तमः पटलः ।। लिङ्गायामैक भागे तु वेद भागेन विस्तरः खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम् अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम् वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना आग्नेयपीठे तल्लिंगं वह्निदिक् स्वाम्यसिद्धये लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः तापदाहं रिपो कुर्यात् लिङ्गं आग्नेयकं द्विजाः नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात् याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम् गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः मारीं च भेदनं रोगं विधत्ते नात्र संशयः दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम् अरतिक्षय विद्वेषं कील भेदेन मोहनम् तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम् कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम् उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम् चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् पाशमस्तक युक्तं तत् पाशकाय विधानतः प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम् व्याधिहानिञ्च सौभाग्यं आप्नुयान्नात्रसंशयाः पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम् यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात् गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः जाम्बूनदसुखप्राप्तिमतीव बलदं मतम् जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम् उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम् ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात् गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये । तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः । वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात् लिंगं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् । भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ।। दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् । एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात् अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत शूलाख्यायां तु संस्थाप्य पृथिवीशत्वं आप्नुयात् ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम् तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् । खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ।। गायत्र्यंशे तु लिंगोच्चे शरांशैश्चतुश्रकम् । पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ।। संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् । चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ।। त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः । वराभय करोपेतः रुद्रोऽयं वाम संज्ञकः ।। एष एव हि खड्वाङ्गरहितश्शूलसंयुतः । अघोररुद्र नामायं भीमो भयविनाशनः ।। शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः । कपालशूल संयुक्तो बद्धपद्मासनस्थितः ।। मृगशूल समायुक्त श्चतुर्भुजसमन्वितः । पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ।। वरदाभयसंयुक्तः स्थितः पद्मासनोपरि भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ।। त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः धनुर्बाण समोपेतो मृगटङ्ग समायुतः भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तं अथोच्यते । समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ।। कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् । पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ।। चतुर्णां चैव वक्त्राणां उर्ध्वे कुर्यात्तुपञ्चमम् । प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ।। प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा ३८. अष्टत्रिंशत्तमे पटले आर्षलिंग प्रासाद विधिः लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते । आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ।। १ ।। स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा । विकांशं वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ।। २ ।। मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते । पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ।। ३ ।। तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा । विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ।। ४ ।। अर्धाधिकं तु वा सप्तभागाधिक मथापि वा । लिंग विस्तारमानेन त्रिगुणं पीठ मुच्यते ।। ५ ।। गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् । प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ।। ६ ।। लिंग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् । पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ।। ७ ।। सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते । द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ।। ८ ।। नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् । सार्ध द्वयांश कैकांश समं वा भित्ति विस्तरः ।। ९ ।। उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते । लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ।। १० ।। त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा । द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ।। ११ ।। पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् । तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ।। १२ ।। एकांशस्य विस्तार मन्यथा च प्रकथ्यते । लिंग द्विगुण विस्तार कर्णपीठ विशालकम् ।। १३ ।। नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके । एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ।। १४ ।। परिणाहे विकारांशे तच्चतुर्दश कर्णकम् । पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ।। १५ ।। तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः । विस्तार द्विगुणे कर्ण दशांशेंश विहीनकम् ।। १६ ।। पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् । तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ।। १७ ।। हीना हीनान्तरेऽष्टांश पीठे नालीगृहे तथा । भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ।। १८ ।। लिंगे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् । एवमेकतले प्रोक्तं द्वितलादिषु धामसु ।। १९ ।। साधारे वा निराधारे त्वलिन्दं भित्तिरेव च । प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ।। २० ।। इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिंग प्रासाद विधिः अष्टत्रिंशत्तमः पटलः ।। ३९. एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते । पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ।। १ ।। पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे । लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ।। २ ।। लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः । त्रिभागंनालि गेहस्य त्रिचतुर्भाग भागतः ।। ३ ।। भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् । लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ।। ४ ।। सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् । तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ।। ५ ।। नालीगृह विशालं स्यात् पीठ विस्तार मानतः । समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ।। ६ ।। उदयं प्राग्देव स्यादन्यथापि चकथ्यते । पूजांशद्विगुणं पीठमुदयं तु विशालतः ।। ७ ।। चतुष्पञ्चगुणं नाली गेहमत्र विधीयते । ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ।। ८ ।। लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये । एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ।। ९ ।। त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् । पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ।। १० ।। तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् । अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ।। ११ ।। उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु । तथा तदपि तद्ग्राम मानं पौराणपौरुषे ।। १२ ।। पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् । उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ।। १३ ।। स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे । मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ।। १४ ।। पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् । यदि तद्वाह्य भागं च युग्ममेव विधीयते ।। १५ ।। युग्मंचेद्युग्ममेवस्यात् संमिश्रं तेषु नेष्यते । त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ।। १६ ।। इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन चत्वारिंशत्तमः पटलः ।। ४०. चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते । स्वायं बाणलिंगं दैवीकं चार्षकं त्विति ।। १ ।। सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः । तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ।। २ ।। पूजांश मानतो नाहात् विस्तारादुच्छ्रयादपि । एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ।। ३ ।। तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ।। ४ ।। अष्टौ वा देवमानानि नवमानानि सुव्रताः । तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ।। ५ ।। प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः । पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ।। ६ ।। पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः । अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ।। ७ ।। गर्भगेहविशाले तु द्विभागादेकभागतः । षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ।। ८ ।। एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता । भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ।। ९ ।। लिंगात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये । एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ।। १० ।। पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे । अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगवशात् प्रासाद विधिः चत्वारिंशत्तमः पटलः ४१. एकचत्वारिंशत्तमे पटले सार्व देशिक लिंग प्रासाद विधिः सार्वदेशिक लिंगादेस्स्थापनं सम्यगुच्यते । प्रासाद स्याथ लिंगस्य पीठस्याश्मन एव वा ।। १ ।। सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः । सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ।। २ ।। विशेषाद्राजसे देशे राज्ञां विजयकारणम् । धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ।। ३ ।। अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा । नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ।। ४ ।। द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे । वराटं चैव सालिंगं सर्वत्रापि च संमतम् ।। ५ ।। नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि । वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ।। ६ ।। सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते । स्वायंभुवं च बाणं च दैविकं चार्षकं तथा ।। ७ ।। यथा विशिष्टं विप्रेन्द्राः दाहृतम् । मानुषे त्वेव लिंगादौ फल वैशिष्य मिष्यते ।। ८ ।। तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् । तन्त्र संकर दोषोऽपि मन्त्र संकर एव वा ।। ९ ।। आचार्य संकरो वापि देशसंकर एव वा । काल संकर दोषश्च युगसंकर एव वा ।। १० ।। अन्येषां संकरो वापि यतो नातो विशिष्यते । सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ।। ११ ।। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् । पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ।। १२ ।। सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये । तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ।। १३ ।। अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः । एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ।। १४ ।। आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः । विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ।। १५ ।। विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् । प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ।। १६ ।। गुणयेदिष्टमानं तु नवनागरसैः क्रमात् । रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ।। १७ ।। गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः । गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ।। १८ ।। भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् । नृप कर्तृ दिना द्वास्तु लिंगाद्युक्त दिनान्तकम् ।। १९ ।। गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् । तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ।। २० ।। मैत्रं परममैत्रं कलहः प्रथमक्रमे । द्वितीये संपदाद्यास्तु पूर्ववत्समुदाहृदम् ।। २१ ।। शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् । वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ।। २२ ।। शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् । वियोगाद्यशुभं योगं गणं चासुर मानुषम् ।। २३ ।। वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया । सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ।। २४ ।। तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् । रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ।। २५ ।। ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः । पृथ्व्याद्याः पञ्च संख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ।। २६ ।। चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः । षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ।। २७ ।। निषादो धैवतस्सप्त योनयस्तासु शस्यते । षड्जऽऽच वृषभो मध्ये भूतेषु पृथिवी जलम् ।। २८ ।। गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते । पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ।। २९ ।। वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः । निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ।। ३० ।। प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा । लिंग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ।। ३१ ।। किं तु लिंगे च बेरे च तुड्गे नैव निरीक्षयेत् । धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यंश द्रिभागिकम् ।। ३२ ।। षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः । चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ।। ३३ ।। अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते । नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ।। ३४ ।। मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च । त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ।। ३५ ।। षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा । चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ।। ३६ ।। अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् । चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ।। ३७ ।। पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः । भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ।। ३८ ।। तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः । सार्व देशिक लिंगानि कथ्यन्ते गर्भमानतः ।। ३९ ।। प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् । नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ।। ४० ।। तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः । तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ।। ४१ ।। विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् । एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ।। ४२ ।। मध्यमेष्ट विभागे तु नव लिंगादयस्तु वा । गर्भन्तु नवधा कृत्वा नवलिंगोच्छ्रयस्तु वा ।। ४३ ।। अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् । मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ।। ४४ ।। त्रयस्त्रिंशत्प्रमाणानि लिंगानां कथितानि च । अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ।। ४५ ।। गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४६ ।। लिंगायामे विकारांशे चतुर्भूतरसैर्हितम् । एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ।। ४७ ।। नवहस्त प्रमाणान्तं मानं स्याल्लिंग दर्ध्यके । एक विंशति भागेन गर्भगेहे विभाजिते ।। ४८ ।। त्रयोदशांशकं श्रेष्ठं दशांश मधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।। ४९ ।। लिंगायामे विकारांशे चतुर्भूत रसैर्हितम् । सत्रिभागैश्शरैर्लिंग विस्ताराः परिकीर्तितः ।। ५० ।। गायत्र्यंशे तु लिंगोच्चे पञ्चभिर्वाथ विस्तरः । अथवाष्ट दशांशे च लिंगोच्चे पञ्चभागिके ।। ५१ ।। चतुर्भागोथवा लिंगविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ।। ५२ ।। विस्तारः कथितश्शास्त्रे लिंगानां मुनिपुंगवाः । द्वार स्तम्भादिभिश्चैव मानं लिंगे समूह्यताम् ।। ५३ ।। भागेन वाथ लिंगानि विभजेत्तानि चाङ्गुलैः । आयादि शुभसिद्ध्यर्थं अंशैर्वा विभजेद्यथा ।। ५४ ।। षोडशांशं समारभ्य चतुर्विंशति संयुतम् । शतांशं विभजेत्तत्र त्वेकांश योजयेद्गुरुः ।। ५५ ।। तैर्वा निरीक्षये ल्लिंगं बेराद्यायादिकं गुरुः । समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ।। ५६ ।। स्वस्तिकं च सहस्रख्यं धारालिंगमिति द्विजाः । इयत्तया समुद्देश क्रमेणैष विधीयते ।। ५७ ।। त्रिधा विभज्य लिंगोच्चं कुर्याद्भागत्रयं क्रमात् । तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ।। ५८ ।। पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः । पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ।। ५९ ।। चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः । भाग भाग विवृद्ध्या स्यात् तस्मात्तस्माद्धरीशयोः ।। ६० ।। वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् । अथवान्यप्रकारेण वर्धमानं विधीयते ।। ६१ ।। एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् । चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ।। ६२ ।। नवाङ्गुलं तु विज्ञेयं लिंगयोर्वसरन्ध्रयोः । एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ।। ६३ ।। ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः । सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ।। ६४ ।। चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् । एवं शिवाधिकं लिंगं ब्राह्माद्यादिष्वनुक्रमात् ।। ६५ ।। लिंगोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः । षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ।। ६६ ।। त्रैरशिकमिदं लिंगंशुद्राणां तत् प्रशस्यते । नवधा लिंगमानेन त्रिचतुर्भिरजादयः ।। ६७ ।। स्वस्तिकं लिंगमाख्यातमन्यथा च निगद्यते । त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ।। ६८ ।। ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् । त्रयस्त्रिंशत्कृते लिंगे स्वस्थिकं शूद्रयोग्यकम् ।। ६९ ।। सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् । मुख लिंगं च पूर्वोक्त विधिनात्रापि भाव्यते ।। ७० ।। शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् । लिंगानामधिकं दद्याच्छिरसो वर्तनांशकम् ।। ७१ ।। समस्तमथवा त्र्यंशमधिकं वर्तनांशतः । शिवलिंगप्रतिष्ठोक्तविधिना लक्षणं नयेत् ।। ७२ ।। यावल्लिंगस्य विस्तार स्तावत् पीठस्य विस्तृतिः । लिंगविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ।। ७३ ।। चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः । पूजांश द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ।। ७४ ।। तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा । नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ।। ७५ ।। तत्तदन्तर मानानि पीठानां कथितानि च । गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ।। ७६ ।। गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः । विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ।। ७७ ।। ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् । पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ।। ७८ ।। पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् । लिंग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ।। ७९ ।। चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् । तत्तदन्तर मानानि नवधापरिकल्पयेत् ।। ८० ।। लिंगायाम समं वापि लिंगनाहसमं तु वा । पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ।। ८१ ।। तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा । तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ।। ८२ ।। तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् । लिंग विष्कंभ मानं तु विकारांश समं भवेत् ।। ८३ ।। भागादेक विवृद्ध्या तु चतुर्भागावसानकम् । ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ।। ८४ ।। एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् । कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजांश दैर्घ्यकम् ।। ८५ ।। तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः । छायादोषो यथा नस्यात् लिंगपीठिकयोर्द्विजाः ।। ८६ ।। देशस्य देशनाथस्य कर्तुः कारयितुस्तथा । आवहेदुत्तमां सिद्धिं सर्व लिंगेष्वयं विधिः ।। ८७ ।। तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् । अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ।। ८८ ।। कल्पितं पीठमेवं वा पीठलिंगं तु मुक्तिदम् । सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ।। ८९ ।। शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने । गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ।। ९० ।। तत्संग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके । स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ।। ९१ ।। लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा । तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ।। ९२ ।। ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः । त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ।। ९३ ।। यदाकार विशिष्टं तद्रूपं तस्य तदेव हि । प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ।। ९४ ।। सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः । प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ।। ९५ ।। जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् । परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ।। ९६ ।। स्वायम्भुवादि लिंगानां दृश्यभागादधः स्थितम् । दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ।। ९७ ।। दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् । तस्मादधः स्थितं लिंगं मूलेनैव परीक्षयेत् ।। ९८ ।। अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः । सार्वदेशिकलिंगानामित्थं लक्षण मीरितम् ।। ९९ ।। प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ।। ९९१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिंग प्रासाद विधिः एक चत्वारिंशत्तमः पटलः ।। ४२. द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः । प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ।। १ ।। मण्डपाः परिवारा वा प्राकारा गोपुरादयः । यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ।। २ ।। यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे । तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ।। ३ ।। शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च । पश्चिमोत्तरपूर्वाशाश्शुभाशास्संप्रकीर्तिताः ।। ४ ।। कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् । तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ।। ५ ।। प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः । परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ।। ६ ।। नित्योत्सवादिकं तत्र विरोधाय न कल्पते । अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ।। ७ ।। नैव पाशुपतेनापि न महाव्रतिना क्वचित् । न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ।। ८ ।। अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः । प्रमादत्तैः कृते तच्च शैवं संपादयेत् क्षणात् ।। ९ ।। एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् । अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ।। १० ।। पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् । स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ।। ११ ।। सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च । कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ।। १२ ।। आद्येष्टकादिकं कर्म तावदस्य समाचरेत् । एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ।। १३ ।। प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते । मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ।। १४ ।। पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा । क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ।। १५ ।। तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा । पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ।। १६ ।। एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः । आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ।। १७ ।। संलब्धकामो देहान्ते शिवेन सह मोदते । एकाद्येकैकवृद्ध्या तु रुद्रसंख्यावसानकम् ।। १८ ।। अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् । शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ।। १९ ।। एवं यः कारयेत् कर्ता स एवाहं न संशयः ।। १९१/२ ।। इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः पटलः ।। ४३. त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ।। १ ।। बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ।। २ ।। अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ।। ३ ।। बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् । बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ।। ४ ।। अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकॢप्तलोचनम् ।। ५ ।। ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ।। ६ ।। एवं सदाशिवः कार्यो मनोन्मना समन्वितम् । इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।। ७ ।। वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् । तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ।। ८ ।। बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् । जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ।। ९ ।। मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसंख्यया । तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ।। १० ।। पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा । पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ।। ११ ।। वेद्यूर्ध्वे स्थण्डिलं शययाकॢप्तिं पूर्ववदाचरेत् । प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ।। १२ ।। शययायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ।। १३ ।। सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् । वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ।। १४ ।। परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् । तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् । यवा/लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ।। १६ ।। अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ।। १७ ।। प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः । प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ।। १८ ।। उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् । देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।। १९ ।। ततो महूर्ते संप्राप्ते कुम्भाद्बीजं पुरो न्यसेत् । कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ।। २० ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २१ ।। अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् । तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २२ ।। स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् । देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ।। २३ ।। अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् । नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ।। २४ ।। सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः । इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ।। २५ ।। इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः त्रिचत्वारिंशत्तमः पटलः ।। ४४. चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ।। १ ।। ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके । गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ।। २ ।। त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् । तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ।। ३ ।। वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा । वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ।। ४ ।। दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः । एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ।। ५ ।। द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः । चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ।। ६ ।। गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते । पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ।। ७ ।। सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ।। ८ ।। षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः । आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ।। ९ ।। एवं विंशति भागान्तं विस्तारे परिकल्पिते । तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ।। १० ।। द्वितलादितलेऽलिन्दान् भित्तिं च बहुसंख्यया । पादेन वार्धभागेन त्रिपादेन समन्ततः ।। ११ ।। सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् । हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ।। १२ ।। अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् । शालाकारम् सभाकारं प्रासादाकारमेव च ।। १३ ।। मस्तकस्थूपिसंख्या स्यादेकादेकाद शान्तिका । दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ।। १४ ।। शिवायतनदेवा वा गणपः षण्मुखोऽपि वा । सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ।। १५ ।। शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् । पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ।। १६ ।। उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् । कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ।। १७ ।। आयामो वाथ संग्राह्याः प्रतिमालक्षणोक्तितः । धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ।। १८ ।। रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते । हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ।। १९ ।। प्रासादभित्तिदेवानामशेषाणामपि प्रभोः । प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ।। २० ।। रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता । प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ।। २१ ।। वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः । श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ।। २२ ।। सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः । प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ।। २३ ।। धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः । अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ।। २४ ।। देहली पेषणी चुल्की खण्डनोलूखली तथा । मुसली मुद्गरी देवी वर्धमानी च वा मताः ।। २५ ।। चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः । वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ।। २६ ।। वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि । नै -ऋते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ।। २७ ।। इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि । निर्माल्यधारिणीं देवीमशनीमीशगोचरे ।। २८ ।। पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः । महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ।। २९ ।। देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः । पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ।। ३० ।। चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् । अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ।। ३१ ।। पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च । भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ।। ३२ ।। लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके । प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ।। ३३ ।। मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् । ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ।। ३४ ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करन्डमकुटान्विता ।। ३५ ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ।। ३६ ।। पद्महस्ताति शान्ता च सादेवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ।। ३७ ।। यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ।। ३८ ।। देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ।। ३९ ।। प्रलम्बवामपादा वा लम्बितापरपादिका । देवेन सहिता वापि केवला वा प्रकीर्तिता ।। ४० ।। श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ।। ४१ ।। नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले । गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ।। ४२ ।। तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् । तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ।। ४३ ।। सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते । जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ।। ४४ ।। द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् । तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ।। ४५ ।। कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् । नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ।। ४६ ।। पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् । प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ।। ४८ ।। जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् । पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ।। ४९ ।। दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि । स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ।। ५० ।। मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः । उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ।। ५१ ।। लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा । अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ।। ५२ ।। एवं देवी प्रकर्तव्या तस्याः संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ।। ५३ ।। मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ।। ५४ ।। नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते । कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ।। ५५ ।। सान्तरेफ महामाया बिन्दुनाद समन्विता । मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ।। ५६ ।। गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ । वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ।। ५७ ।। अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् । बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ।। ५८ ।। ऐंकारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् । मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ।। ५९ ।। एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः । एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ।। ६० ।। हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ । आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ।। ६१ ।। एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते । कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ।। ६२ ।। मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् । तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ।। ६३ ।। वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च । पुष्परागं च गोमेदं तथा मरकतं द्विजाः ।। ६४ ।। हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् । अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ।। ६५ ।। तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् । गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ।। ६६ ।। आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् । ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।। ६७ ।। परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् । प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ।। ६८ ।। योन्याभवनपञ्चैक ऋक् संख्याकुण्डकल्पनम् । तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ।। ६९ ।। तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् । पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ।। ७० ।। होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् । जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ।। ७१ ।। गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा । शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ।। ७२ ।। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् । देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ।। ७३ ।। लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् । परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ।। ७४ ।। वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च संमतान् । आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।। ७५ ।। मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः । क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ।। ७६ ।। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा । धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ।। ७७ ।। पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः । गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ।। ७८ ।। मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् । गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ।। ७९ ।। पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः । वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ।। ८० ।। संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः । समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।। ८१ ।। पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च । शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ।। ८२ ।। पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ८३ ।। गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् । मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।। ८४ ।। मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् । सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ।। ८५ ।। शान्त्यंभः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् । दर्भैस्संस्पर्शनंचैव प्रतिभागं समाचरेत् ।। ८६ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उत्थाप्य देवीं कुंभांश्च प्राग्वद्वह्निं च तर्पयेत् ।। ८७ ।। दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः । मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।। ८८ ।। कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् । प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ।। ८९ ।। सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् । चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ।। ९० ।। देव्यग्रे तु घटान्न्यस्य कुंभाद्बीजं तुतद्धृदि । विन्यसेदनुकुंभेभ्यः पीठस्य परितो मनून् ।। ९१ ।। तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः । तत्तत्कुंभोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।। ९२ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः । स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ।। ९३ ।। यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी । तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ।। ९४ ।। संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः । उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ।। ९५ ।। ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः । देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ।। ९६ ।। कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता । इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ।। ९७ ।। एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः । भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवंपदम् ।। ९८ ।। पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् । शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ।। ९९ ।। शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे । प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ।। १०० ।। प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः । सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ।। १०१ ।। द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः । द्वारस्य पार्श्वयोश्चैव शंख पद्मनिधी तथा ।। १०२ ।। द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ । चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ।। १०३ ।। सर्वाभरण संपन्नौ सर्वरत्न विभूषितौ । ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ।। १०४ ।। गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् । अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ।। १०५ ।। समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् । सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ।। १०६ ।। अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः । खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ।। १०७ ।। देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् । कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ।। १०८ ।। वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः । शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ।। १०९ ।। सुधासंप्लावनं चात्मावाहनं चामृति कृतम् । करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ।। ११० ।। अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् । पञ्चमूर्धास्ययुग्देव्याः पूजायां संप्रकल्पयेत् ।। १११ ।। एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् । शशिन्यादय एवोक्ताः केवलास्तु कला इति ।। ११२ ।। अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् । देवी स्कन्द गणेशादीन् सर्वान् संपूजयेत्तु वा ।। ११३ ।। सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् । हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ।। ११४ ।। ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् । स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ।। ११५ ।। गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा । संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ।। ११६ ।। बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि । गणाम्विकायै विद्महे महातपायै धीमहि ।। ११७ ।। इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् । इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ।। ११८ ।। देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः । देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ।। ११९ ।। बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि । सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ।। १२० ।। अथवा स्त्राणुनालब्ध तालवृन्तज वायुना । तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ।। १२१ ।। प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् । अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ।। १२२ ।। कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् । अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ।। १२३ ।। ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् । वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ।। १२४ ।। ततो देव्यासनायेति पूजयेदनुपूर्वशः । मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ।। १२५ ।। विद्यादेहं च संपाद्य पूजाबेर स्वरूपकम् । प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ।। १२६ ।। हृदयानुगतेनैव पुष्पपूरित सत्करः । आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ।। १२७ ।। सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् । हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ।। १२८ ।। अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् । वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ।। १२९ ।। पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् । गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ।। १३० ।। पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् । उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ।। १३१ ।। गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् । दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ।। १३२ ।। आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः । पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ।। १३३ ।। शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् । अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ।। १३४ ।। गणविद्येशलोकेशतदस्त्रान् परितो यजेत् । एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ।। १३५ ।। पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च । नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ।। १३६ ।। देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा । वरदाभयहस्ता च शंख चक्र करा परा ।। १३७ ।। पद्मासनस्था तस्यांतु यजेद्देवीं मनोन्मनीम् । पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ।। १३८ ।। पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् । पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।। १३९ ।। नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् । तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ।। १४० ।। एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् । षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ।। १४१ ।। नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः । उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ।। १४२ ।। पवित्रारोहं सम्यक् कृत्तिकादीपमेव च । संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ।। १४३ ।। मासोत्सवं तथा मासे नव नैवेद्यकं तथा । विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ।। १४४ ।। जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् । किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ।। १४५ ।। पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः । शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ।। १४६ ।। ध्वजहोमबलिं हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ।। १४७ ।। उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता । कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ।। १४८ ।। यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् । अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ।। १४९ ।। एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् । सर्व देवेषु सामान्यं विधानमिदमग्रजाः ।। १५० ।। धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् । दिग्देव मूर्तिसंयुक्तं मध्ये कुंभ समन्वितम् ।। १५१ ।। धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह । अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।। १५२ ।। देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् । तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ।। १५३ ।। एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ।। इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः पटलः ।। द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टममुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।। चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका । दुकूल वसनादेवी करण्ट मकुटान्विता ।। वरदा संयुक्ता पाशाङ्कुश करान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसनो देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरान्विता ।। चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका । दुकूल वसना देवी करण्टमकुटान्विता ।। वरदाभय संयुक्ता शूलपाशकरावपि ।। दुकूलवसना देवी करण्डमकुटान्विता । वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ।। यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ।। दुकूल वसनादेवी करण्डमकुटान्विता वददाभयसंयुक्ता शुकोत्पल करावपि ।। यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ।। ४५. पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् । पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ।। १ ।। शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु । चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ।। २ ।। आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् । यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ।। ३ ।। अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः । एकादि नवभूम्यन्तभूमिभाग समन्वितम् ।। ४ ।। विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा । दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ।। ५ ।। गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः । पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ।। ६ ।। दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा । धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ।। ७ ।। प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः । मण्टपो वालयस्तस्य कूटाद्याकार एव वा ।। ८ ।। परितः परिवारोक्तः प्रसंगात् स च कथ्यते । विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ।। ९ ।। उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् । अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ।। १० ।। कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै । द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ।। ११ ।। कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् । आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ।। १२ ।। अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः । एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ।। १३ ।। हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः । विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ।। १४ ।। विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः । द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ।। १५ ।। हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ । उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ।। १६ ।। रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ । धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ।। १७ ।। तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः । कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ।। १८ ।। रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः । श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ।। १९ ।। पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः । परिवारा इति ख्याता गणेशाभिमुखस्थिताः ।। २० ।। परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः । बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ।। २१ ।। पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः । भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ।। २२ ।। लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ।। २३ ।। पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः । त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ।। २४ ।। स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् । प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ।। २५ ।। केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् । उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ।। २६ ।। अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः । ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ।। २७ ।। अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् । तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ।। २८ ।। जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् । केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते / मुच्यते ।। २९ ।। दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् । दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ।। ३० ।। दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् । मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ।। ३१ ।। नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते । कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ।। ३२ ।। कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् । कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ।। ३३ ।। मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् । हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ।। ३४ ।। नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् । अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ।। ३५ ।। जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते । जगवक्त्रो गणाधीशो भूतरूपो महोदरः ।। ३६ ।। नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः । नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ।। ३७ ।। अवामवामावर्तेभहस्तः पद्मासनस्थितः । स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।। ३८ ।। लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।। ३९ ।। पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् । शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ।। ४० ।। स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। ४१ ।। त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः । पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ।। ४२ ।। इष्टासनस्थितो वापि प्रभादिपरिमण्डितः । एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ।। ४३ ।। गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा । शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ।। ४४ ।। आसीनमासने रत्नमकुटादिविभूषिताम् । श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ।। ४५ ।। उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् । दिगम्बरां सुवदनां भुजद्वय समन्विताम् ।। ४६ ।। विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् । पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ।। ४७ ।। स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् । चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ।। ४८ ।। इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् । स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ।। ४९ ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः । द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ।। ५० ।। बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु । त्रयोदशान्तसंपन्नमथवा परिकल्पयेत् ।। ५१ ।। कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् । हृल्लेखासंपुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ।। ५२ ।। श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् । पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ।। ५३ ।। वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् । नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ।। ५४ ।। फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः । द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ।। ५५ ।। सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् । तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ।। ५६ ।। बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् । द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ।। ५७ ।। विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः । वरदं तु समुच्चार्य वरदद्वितयं वदेत् ।। ५८ ।। सर्वलोकवशं पश्चादानयेति पदं ततः । स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ।। ५९ ।। ओंकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः । हृल्लेखासंपुटो मन्त्रस्त्वथ कारणकार्ययुक् ।। ६० ।। गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः । इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ।। ६१ ।। सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने । दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ।। ६२ ।। कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी । अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ।। ६३ ।। अनामिकामथाकुञ्च तर्जनीमपि चानयेत् । अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसंज्ञिता ।। ६४ ।। अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ।। ६५ ।। पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा । पञ्च तत्संख्यहेम्नाथ हैमसूचि समन्वितम् ।। ६६ ।। पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् । कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् ।। ६७ ।। मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना । सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ।। ६८ ।। यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् । बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।। ६९ ।। तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा । परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ।। ७० ।। यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः । यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ।। ७१ ।। कुण्डानि नव पञ्चैक संख्यया कथितानि तु । तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ।। ७२ ।। प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् । मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ।। ७३ ।। उद्धास्य शिल्पिनं पश्चाद्द्विजान् संभोजयेत्ततः । पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।। ७४ ।। भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् । जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ।। ७५ ।। मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् । कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ।। ७६ ।। संकल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः । अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ।। ७७ ।। आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् । विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ।। ७८ ।। कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् । पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ।। ७९ ।। बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् । वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ।। ८० ।। सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् । कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ।। ८१ ।। परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् । आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ।। ८२ ।। देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् । सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ।। ८३ ।। शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च । न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ।। ८४ ।। गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् । उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ।। ८५ ।। मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः । इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ।। ८६ ।। पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः । मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ।। ८७ ।। विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् । पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ।। ८८ ।। गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् । वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ।। ८९ ।। संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः । दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ।। ९० ।। ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् । आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ।। ९१ ।। समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः । तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ।। ९२ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।। ९३ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ।। ९४ ।। प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् । दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ।। ९५ ।। मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् । कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ।। ९६ ।। अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् । प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ।। ९७ ।। सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् । चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ।। ९८ ।। द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि । विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ।। ९९ ।। तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् । तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ।। १०० ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् । गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ।। १०१ ।। तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः । विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ।। १०२ ।। विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् । तासां हृदि विशेषेण ततः स्थापनमाचरेत् ।। १०३ ।। विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् । आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ।। १०४ ।। विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् । पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभं ।। १०५ ।। लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु । तस्यार्चनं च संक्षोपाछृणुध्वं मुनिपुङ्गवाः ।। १०६ ।। उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च । सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ।। १०७ ।। कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयं । आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ।। १०८ ।। द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् । देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ।। १०९ ।। प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु । वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ।। ११० ।। संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः । तदुद्भूतामृतेनाद्रींकृतकाय समन्वितः ।। १११ ।। अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ । ईशास्यघोरवामाजान् करजेषु तले दृशाम् ।। ११२ ।। मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् । ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ।। ११३ ।। देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा । एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ।। ११४ ।। आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा । गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ।। ११५ ।। अथवा शिवमन्त्रैस्तु शैवींकृत्वा निजां तनुम् । इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ।। ११६ ।। स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् । गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ।। ११७ ।। पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा । संप्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ।। ११८ ।। हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् । मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ।। ११९ ।। इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे । इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ।। १२० ।। तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् । इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ।। १२१ ।। हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे । त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ।। १२२ ।। लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ।। १२३ ।। मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा । कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ।। १२४ ।। कल्पयेदासनं मध्ये प्रणवं धर्मसंमुखान् । अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ।। १२५ ।। प्रणवाम्भसि संभूतं पीतकर्णिकया युतम् । शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ।। १२६ ।। ततो गणासनायेति पूजयेदनुपूर्वशः । मूर्तिमावाह्य तां प्राग्वद्देहं संक्ल्प्य मन्त्रकैः ।। १२७ ।। प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः । हृदयानुगतेनैव पुष्पापूरितसत्करः ।। १२८ ।। निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ।। १२९ ।। हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् । अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ।। १३० ।। हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा । उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ।। १३१ ।। वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् । पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ।। १३२ ।। दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना । लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ।। १३३ ।। सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु । तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १३४ ।। तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना । नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ।। १३५ ।। गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चाद्धूपदानावसानके ।। १३६ ।। अग्नौ च रक्षोवायवीशदिक्षु दिक्षु हृदाद्यणून् । तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ।। १३७ ।। इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् । एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ।। १३८ ।। पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च । नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ।। १३९ ।। पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् । मूलेन शतपञ्चाशद्दशसंख्येन वा गुरुः ।। १४० ।। मूलाद्दशांशसंख्यैस्तैरङ्गैर्होमं समाचरेत् । नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ।। १४१ ।। पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् । पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ।। १४२ ।। नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा । पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।। १४३ ।। पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति । एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ।। १४४ ।। षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् । ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ।। १४५ ।। नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा । विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ।। १४६ ।। नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् । स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ।। १४७ ।। आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने । अष्टौ च नवसंख्ये स्युः पञ्चविंऽसतिसंख्यके ।। १४८ ।। लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके । लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ।। १४९ ।। पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् । एकोनपञ्चाशत्संख्यकलशे देवता मताः ।। १५० ।। गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके । अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ।। १५१ ।। अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः । वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ।। १५२ ।। शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् । अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ।। १५३ ।। उत्सवं दमनारोहं पवित्रारोहणक्रिया । दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ।। १५४ ।। नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः । जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।। १५५ ।। किंतु तस्य ध्वजे मूषं वा समालिखेत् । शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ।। १५६ ।। ध्वजहोमबलीन् हित्वा केवलं यानमेव च । चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ।। १५७ ।। उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता । उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ।। १५८ ।। अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः । वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ।। १५९ ।। शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् । सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ।। १६० ।। अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ।। १६१ ।। इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः पञ्चचत्वारिंशत्तमः पटलः ।। गजवक्त्रो गणाधीशो भूरूपो महोदरः । जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।। स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीट मकुटोज्ज्वलम् ।। शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् । स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ।। अवामावामवर्तेभ हस्तः पद्मासनस्थितः । स्थानकं वासनं वाथ गणेशं कारयेत्ततः ।। श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम् उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम् दिगम्बरां सुवदनां भुजद्वय समन्विताम् विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम् पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम् चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम् इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम् स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः गजवक्त्रो गणाधीशो भूतरूपो महोदरः नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः अवामावामवर्तेभ हस्तः पद्मासनस्थितः स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम् स्थानकं वासनं वाथ गणेशं कारयेत्ततः गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा आसीनमासने रत्नमकुटादि विभूषितम् ४६. षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ।। १ ।। जटामकुटसंयुक्तो वक्रनागफणावृतः । पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ।। २ ।। त्रिंशत्संख्यावसानास्स्युः जटास्तास्सान्तरालकाः । धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ।। ३ ।। कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया । वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ।। ४ ।। युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः । व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ।। ५ ।। वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः । दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ।। ६ ।। कस्थ ब्रह्मकपालेन नानापुष्पैरलंकृतः । धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ।। ७ ।। शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः । स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ।। ८ ।। कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः । अम्बिकामुखबिंबाब्ज भ्रमरीकृतलोचनः ।। ९ ।। आबद्धकिंकिणीयुक्तः तद्वन्नूपुरशोभितः । वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ।। १० ।। दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च । वामापरकरस्थेन वह्निना दक्षकेन तु ।। ११ ।। डिन्डिमेन समायुक्त उपवीतेन संयुतः । गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ।। १२ ।। नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः । मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ।। १३ ।। नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् । ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ।। १४ ।। हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् । श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसंमतम् ।। १५ ।। सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् । सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ।। १६ ।। तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् । तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ।। १७ ।। सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः । सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ।। १८ ।। ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् । सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ।। १९ ।। सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः । सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ।। २० ।। सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् । अथवान्यप्रकारेण सूत्रपातोभिधीयते ।। २१ ।। कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः । नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ।। २२ ।। स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् । सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ।। २३ ।। बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् । मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ।। २४ ।। कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् । नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ।। २५ ।। सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् । बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ।। २६ ।। मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् । कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ।। २७ ।। पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् । स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ।। २८ ।। तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् । श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ।। २९ ।। तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् । तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ।। ३० ।। तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः । तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ।। ३१ ।। तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः । सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ।। ३२ ।। भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः । विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ।। ३३ ।। धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः । धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ।। ३४ ।। कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः । एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ।। ३५ ।। बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् । अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ।। ३६ ।। देवस्य वक्त्रमानेन स्यादपस्मारमानकम् । वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ।। ३७ ।। वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् । चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ।। ३८ ।। उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् । उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ।। ३९ ।। केशान्ताद्धनुपर्यन्तं अष्टभागमितिस्मृतम् । गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ।। ४० ।। षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः । तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ।। ४१ ।। तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते । ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ।। ४२ ।। जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः । द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ।। ४३ ।। व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे । आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ।। ४४ ।। देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते । द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ।। ४५ ।। सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता । ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ।। ४६ ।। गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः । प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ।। ४७ ।। सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः । एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ।। ४८ ।। द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा । तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ।। ४९ ।। कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा । भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ।। ५० ।। भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि । उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ।। ५१ ।। द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च । भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ।। ५२ ।। भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते । उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ।। ५३ ।। सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः । चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ।। ५४ ।। शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् । इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ।। ५५ ।। कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ।। ५६ ।। बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् । जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ।। ५७ ।। कुण्ठानि परितः पश्चान्नवपञ्चैक संख्यया । चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ।। ५८ ।। मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् । पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ।। ५९ ।। समरीचिपदे कुर्यात् वास्तुहोमं विधानतः । वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ।। ६० ।। पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् । शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ।। ६१ ।। कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि । शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ।। ६२ ।। वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् । लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ।। ६३ ।। ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां वेदहस्तान् धानां सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभां ।। अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् । अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ।। ६४ ।। तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् । होमं समारभेत् काले मूर्तिपैस्सह देशिकः ।। ६५ ।। कृत्वा कुण्डाग्निसंस्कारं अग्निकार्योक्तमाचरेत् । समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ।। ६६ ।। प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः । ऊदुंबरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ।। ६७ ।। शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः । प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ।। ६८ ।। ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् । गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ।। ६९ ।। रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् । समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ।। ७० ।। उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः । व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ।। ७१ ।। कुंभांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः । पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ।। ७२ ।। वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः । दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ।। ७३ ।। ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् । चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ।। ७४ ।। ततः कुंभान्समुद्धृत्य सर्वातोद्य समाकुलम् । हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ।। ७५ ।। कुंभाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् । वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ।। ७६ ।। विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् । देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ।। ७७ ।। तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः । उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ।। ७८ ।। अनुक्तमत्र सामान्यस्थापनोदित माचरेत् । एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ।। ७९ ।। स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ।। ७९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः षट्चत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः । जटामकुट संयुक्तो वक्रनाग फणावृतः ।। कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः स्थितो दक्षिणपादेन वामेनोपरि वर्तिना कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः दक्षाभयकरस्थेन वह्निना दक्षके न तु डिण्डिमेन समायुक्त उपवीतेन संयुतः गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक् नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः ४७. सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् । तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ।। १ ।। चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः ।। २ ।। कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ।। ३ ।। सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामेगौर्या च संयुतः ।। ४ ।। सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः । ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ।। ५ ।। श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् । मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ।। ६ ।। चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् । उष्णीषात्तुककुद्वंश कण्ठस्फिक् मध्यमाद्गतम् ।। ७ ।। पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् । हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ।। ८ ।। जानुः पक्षांगुलं वामे लम्बितस्य गुणाङ्गुलम् । सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ।। ९ ।। ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः । तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणांगुलम् ।। १० ।। सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् । कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ।। ११ ।। नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् । वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ।। १२ ।। वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया । ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ।। १३ ।। देवोच्चदशभागैक भागेनाभद्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। १४ ।। द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः । कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ।। १५ ।। दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः । द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ।। १६ ।। देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा । आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ।। १७ ।। स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः । सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।। १८ ।। प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका । रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ।। १९ ।। हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् । तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ।। २० ।। तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् । दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ।। २१ ।। जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् । दिगऽऽराण्याभवृत्तानि वेदाश्राणि च वानयेत् ।। २२ ।। कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्वहिः । शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ।। २३ ।। पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् । शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ।। २४ ।। कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः । वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ।। २५ ।। शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे । विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ।। २६ ।। स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः । लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ।। २७ ।। परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् । तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ।। २८ ।। कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः । तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ।। २९ ।। पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च । शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ।। ३० ।। प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् । षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ।। ३१ ।। एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् । द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ।। ३२ ।। संप्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः । वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ।। ३३ ।। कुम्भाद्बीजं महेशानहृदि न्यसेत् । वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ।। ३४ ।। सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् । गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ।। ३५ ।। अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् । एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।। ३६ ।। कल्याणकर्म कर्तव्यं यथाविधि विशेषतः । अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ।। ३७ ।। इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः । स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ।। ३८ ।। इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः सप्तचत्वारिंशत्तमः पटलः ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ।। वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया । स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः । सर्वाभरण संयुक्तो वरदाभयहस्तकः । कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।। असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः । सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।। सालम्ब दक्षपादेन वामे गौर्या च संयुतः । देवोच्चदशभागैक भगेनाथ द्विभागतः । त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।। द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः । कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ।। देव्यूरुसंस्थिता वापि निष्पंकजकरोऽथवा ।। चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः सर्वाभरण संयुक्तो वरदाभयहस्तकः कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः सालम्बदक्षपादेन वामे गौर्या च संयुतः सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् देवोच्चदशभागैक भागेनाथद्विभागतः त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्याच संयुतः ।। देवोच्चदशभागैक भागेनाथ द्विभागतः । त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ।। चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तः वरदाभयहस्तकः ।। कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः । असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ।। सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ।। सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः । देवोच्चदशभागैक भागेनाथ द्विभागतः ।। त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः । द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ।। कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः । दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ।। ४८. अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् । आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ।। १ ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः । वराभय समायुक्तः पूर्वस्थ कर पल्लवः ।। २ ।। वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे । वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ।। ३ ।। ऊरुस्पृष्ठकरो वापि कटको वा विधीयते । मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। ४ ।। मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता । पराङ्कुखौ संमुखौ चा मृगटङ्कौ समीरितौ ।। ५ ।। दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् । हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ।। ६ ।। मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् । श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ।। ७ ।। शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा । स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ।। ८ ।। नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् । स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ।। ९ ।। कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् । ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ।। १० ।। सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् । ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ।। ११ ।। एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् । अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ।। १२ ।। जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् । अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ।। १३ ।। भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् । तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ।। १४ ।। पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् । प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ।। १५ ।। ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे । सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ।। १६ ।। मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले । कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ।। १७ ।। मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् । एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ।। १८ ।। कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे । मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ।। १९ ।। देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः । उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ।। २० ।। पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् । मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ।। २१ ।। पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् । अग्रे दशांगुलं तस्य मूले तु मुखविस्तरम् ।। २२ ।। तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् । वामे महाफणिं तस्य सर्वालंकार भूषितम् ।। २३ ।। जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः । एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ।। २४ ।। जटामकुटमेतद्धि सर्वालङ्कार मीरितम् । रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ।। २५ ।। पद्म पत्रिकया वापि शोभितं वामकर्णकम् । सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ।। २६ ।। पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् । पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ।। २७ ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। २८ ।। सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः । मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ।। २९ ।। कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। ३० ।। समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः । संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ।। ३१ ।। चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा । सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ।। ३२ ।। तयालिङ्गित देवो वा अन्योन्या लिंगितस्तु वा । आलिंगन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ।। ३३ ।। एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते । कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ।। ३४ ।। रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् । जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ।। ३५ ।। कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया । तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ।। ३६ ।। विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः । समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ।। ३७ ।। पुण्याहं वाचयित्वा तु शययायाः कल्पनं नयेत् । स्नपनं कौतुकं शययारोहणं पृथगाचरेत् ।। ३८ ।। ततः कुंभं शिरोदेशे वर्धनी च तदुत्तरे । लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ।। ३९ ।। परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् । न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ।। ४० ।। कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः । लाजसस्येन्द्रकैश्चैव वटोदुंबर संज्ञकौ ।। ४१ ।। अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः । शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ।। ४२ ।। प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः । प्रभाते देवकुंभाग्नीन् अभ्यर्च्य गुरुरादरात् ।। ४३ ।। वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः । संप्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ।। ४४ ।। प्रतिमाग्रे घटान्न्यस्य कुंभाद्बीजं तु विन्यसेत् । देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ।। ४५ ।। सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् । अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ।। ४६ ।। विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् । कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ।। ४७ ।। कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः । अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ।। ४८ ।। चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः । बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ।। ४९ ।। इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः अष्टचत्वारिंशत्तमः पटलः ।। चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्थ करुपल्लवः ।। ऊरुपृष्टकरो वापि कटको वा विधीयते । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ।। हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् । वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः । वराभय समायुक्तः पूर्वस्य करपल्लवः ।। वरदं वाम हस्तस्यात् अभयं दक्षिणे करे । मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ।। मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ । पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ ।। तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् । रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ।। हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् । वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ।। सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः । छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ।। चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।। चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः वराभय समायुक्तः पूर्वस्थकरपल्लवः मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ पराङ्मुखौ संमुखौ वा मृगटंकौ समीरितौ तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम् वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः सुपत्रवलयोपेतः सर्वरत्नोपशोभितः छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः सापीहभिन्नपीठा वा देवेनालिङ्गताथवा ४९. एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै । चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ।। १ ।। समभागयुतस्सम्यक् स्थापकेन समन्वितः । सव्यकर्णस्थमकरकुण्डलेन समन्वितः ।। २ ।। कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः । धनुर्बाणयुतोपेत वामेतरकरान्वितः ।। ३ ।। दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः । नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ।। ४ ।। पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शरांगुलम् । दोर्मूलात्परहस्तान्तं षोडशांगुल ईरितः ।। ५ ।। परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः । शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ।। ६ ।। सूत्रन्तुलंबमयेद्वामे वामनासा पुटस्यतु । दक्षिणस्थितपादे च पुरस्तान्मुनि पुंगवाः ।। ७ ।। हृन्नाभिमेढ्रसव्यांघ्रि जानूनां सूत्रतोन्तरम् । सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ।। ८ ।। तत् पादांगुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् । कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।। ९ ।। एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः । सुमुहूर्ते सुलग्ने च कृत्त्वैवांकुर कर्म च ।। १० ।। रत्नन्यासं दृशांमोक्षं बेरशुद्धिं प्रदक्षिणम् । तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ।। ११ ।। मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया । कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।। १२ ।। संकल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् । देवेशस्य शिरोदेशे शिवकुंभं च वर्धनीम् ।। १३ ।। लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् । अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ।। १४ ।। गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः । तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ।। १५ ।। संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः । पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। १६ ।। शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः । प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ।। १७ ।। प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च । ततो द्वितीय दिवसे देवकुंभाग्नितर्पणम् ।। १८ ।। पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् । सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ।। १९ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ।। २० ।। सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् । विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ।। २१ ।। कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् । उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ।। २२ ।। अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् । प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ।। २३ ।। इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् । सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ।। २४ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः एकोनपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः । सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ।। सव्यकर्णस्थमकर कुण्डलेन समन्वितः । किष्णापरशु संयुक्त परहस्त द्वयान्वितः ।। धनुर्बाणयुतोपेत वामेतर करान्वितः । देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ।। कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् । एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ।। ५०. पञ्चाशत्तमे पटले लिंगोद्भव विधिः लिंगोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते । गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् ।। १ ।। लिंगोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् । तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ।। २ ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिंगाधो शर्वजान्वन्त भागन्नेंद्रिय गोचरम् ।। ३ ।। लिंगोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् । बिंबस्यानन मानेन कारयेत् हंसमादरात् ।। ४ ।। बिंबाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् । तल्लिंगरसभागैक द्वित्रिवेदशरैर्नयेत् ।। ५ ।। व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ । तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ।। ६ ।। लिंगोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः । ब्रह्मविष्णूविहीनो वा हंस सूकर संयुतः ।। ७ ।। इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते । कालश्च पूर्ववत् ग्राह्यः तद्वदेवांकुरार्पणम् ।। ८ ।। पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् । कुण्दानि परितोश्राणि नव पञ्चैक संख्यया ।। ९ ।। दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि । नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ।। १० ।। प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् । भूषणं मण्डपस्यैव वास्तुहोममतः परम् ।। ११ ।। भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः । वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ।। १२ ।। जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः । कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ।। १३ ।। नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् । ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ।। १४ ।। वस्त्रैश्चैवतु संवेष्ट्य गंधाद्यैरर्चयेत्ततः । प्रधानकुंभं तेषां तु शिरो भागे तु विन्यसेत् ।। १५ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ।। १६ ।। लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः । रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ।। १७ ।। देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् । प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ।। १८ ।। ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः । समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ।। १९ ।। पलाशोदुंबराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च । शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ।। २० ।। प्रधानस्य पलाशस्तु स च सर्वत्रवामतः । द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ।। २१ ।। गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः । रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ।। २२ ।। देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् । बिंबानुद्धृत्य संपूज्य कुभान् कुण्डेषु पावकान् ।। २३ ।। देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः । मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् । वेद्याः कुंभान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ।। २४ ।। कुंभात् बीजं समादाय देवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ।। २५ ।। विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् । ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ।। २६ ।। स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् । बिंबान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ।। २७ ।। वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः । अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।। २८ ।। लिंगोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः । इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ।। २९ ।। इति उत्तरकामिकाख्ये महातन्त्रे लिंगोद्भवप्रतिष्ठा विधिः पञ्चाशत्तमः पटलः ।। गर्भमानवशाल्लिंगं प्राग्वत् सम्यक् प्रकल्पयेत् । लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ।। पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् । लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ।। लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् । बिंबस्याननमानेन कारयेद्धंसमादरात् ।। बिंबद्विमुखमानेन भूकृष्टास्यंतु सूकरम् । ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ।। ५१. एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः । व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ।। १ ।। व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः । द्वाभ्यां विरहितो योगी स नानाकार भेदतः ।। २ ।। चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः । श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ।। ३ ।। व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा । उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ।। ४ ।। विकीर्ण मूर्धजोवापि जटामकुट एव वा । पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ।। ५ ।। धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः । पञ्चमुद्रासमोपेतो गंगा किंकिणि संयुतः ।। ६ ।। अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः । व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ।। ७ ।। लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् । वामांघ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ।। ८ ।। सन्दर्शसंज्ञयोपेता वामहस्तस्थ पुस्तकः । द्वात्रिंन्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ।। ९ ।। अथवा नागसंयुक्तो वामहस्तस्समीरितः । वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ।। १० ।। दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् । विकसत् पद्मसंकाशः अधस्ताद्विस्तृतांगुलिः ।। ११ ।। परहस्तद्वये चाक्ष माला ज्वाला समन्वितः । पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ।। १२ ।। कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः । नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ।। १३ ।। आभंगसहितं कुर्याद्देहमध्ये तु वामतः । सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ।। १४ ।। मात्रंकालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः । लंबपादस्थितं मध्य सूत्रादर्धांगुलान्तरे ।। १५ ।। अर्द्धार्धांगुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् । सदशांगुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ।। १६ ।। नयने मध्यमं विद्यात् अंगुष्ठस्तनयोस्ततः । नाभेस्तु मणिबन्धान्तः धृत्यंगुलमुदाहृतः ।। १७ ।। सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् । नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ।। १८ ।। दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसांगुलम् । परस्यमणिबन्धाच्च भुजमध्याद्भवांगुलम् ।। १९ ।। द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमांगुलात् । हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ।। २० ।। सजटामकुटादेव चूचुकास्य गलान्तकाः । ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ।। २१ ।। शुक्लाद्यंबर संयुक्ताः भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ।। २२ ।। रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ।। २३ ।। व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः । ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ।। २४ ।। वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः । दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ।। २५ ।। कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः । भागमग्रन्तदावामो भागाधिक चतुर्मुखः ।। २६ ।। विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् । कलावक्रास्य विस्तारा यामं वापि षडंगुलम् ।। २७ ।। तत्तुंगन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् । हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ।। २८ ।। त्रिंशदंगुलमित्युक्तमथान्यमणिबन्धतः । आनाभेरन्तरंनालं शेषं सर्वन्तु पूर्ववत् ।। २९ ।। व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् । तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ।। ३० ।। प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः । अथकुञ्चितवामांघ्रि युग्मस्फिग्गतपार्ष्णिकः ।। ३१ ।। उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् । संदर्शदृष्टिपातश्च आभंगञ्चैव पूर्ववत् ।। ३२ ।। नानामृगैस्तु संकीर्णं नाना व्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ।। ३३ ।। भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् । शैलंकुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ।। ३४ ।। फलशाखोप शाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ।। ३५ ।। रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ।। ३६ ।। शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः । आगमाहित चेतोभिः परमेशेन दीक्षितैः ।। ३७ ।। एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः । व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ।। ३८ ।। सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् । आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ।। ३९ ।। वटवृक्ष विहीनो वा भूताद्यावृत एव वा । भूतस्थलंब वा दक्षिणेशस्समीरितः ।। ४० ।। एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यं पूर्ववत् ग्राह्यमंकुरार्पणमेव च ।। ४१ ।। मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया । कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ।। ४२ ।। रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा । ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ।। ४३ ।। पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् । पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ।। ४४ ।। कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् । वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ।। ४५ ।। स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे । शययायां शाययेद्देवं कौशिकादि ऋषीनथ ।। ४६ ।। दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे । शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ।। ४७ ।। व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् । स्वांस्तुकुंभान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ।। ४८ ।। वर्धनीं विन्यसेत् धीमान् शिवकुंभस्य चोत्तरे । अभितोवसुकुंभांस्तु विद्येशाधिष्ठितान्न्यसेत् ।। ४९ ।। रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् । तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ।। ५० ।। तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् । कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ।। ५१ ।। समिदाज्यचरून् लाज तिलसर्षपवैणवान् । जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ।। ५२ ।। बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् । द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ।। ५३ ।। रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः । समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ।। ५४ ।। संपूज्योद्धृत्य बिंबांश्च कुंभान् कुण्डेषु पावकान् । देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ।। ५५ ।। मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् । कुंभान् बिंबपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ।। ५६ ।। कुंभात् बीजं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ।। ५७ ।। विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् । तत्तत् कुंभ जलैश्चैव तत्तद्देशोभिषेचयेत् ।। ५८ ।। ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् । तत्तत् कुंभादकैश्चैव तेषां च स्नपनन्नयेत् ।। ५९ ।। श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् । विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ।। ६० ।। देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः । स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ।। ६१ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ।। ६२ ।। सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता । देहान्ते परमेशानं कर्ता यायादसंशयः ।। ६३ ।। इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन विधिरेकपञ्चाशत्तमः पटलः ।। व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक् तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयंमतः अथकुंचितवामांघ्रियुगस्फिग्गतपार्ष्णिकः उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् संदर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् । चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः विकीर्णमूर्धजो वाऽपि जटामकुट एव वा पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम् वामांघ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां संदर्श संज्ञयोपेतं वामहस्तस्थ पुस्तकः अथवा नागसंयुक्तो वामहस्तस्समीरितः परहतद्वये चाक्षमाला जालसमन्वितः व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ।। दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।। ५२. द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः भिक्षाटनस्य वक्ष्येहं कंकालस्यापि लक्षणम् । प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ।। १ ।। पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् । स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ।। २ ।। आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् । क्षौमांबरं सितं कुर्यात् सुन्दरं तं विभूषणम् ।। ३ ।। स शंख पत्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ।। ४ ।। समभंगयुतं वापि कान्तियुक्त निजांगकम् । प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ।। ५ ।। सव्यमध्यांगुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् । वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ।। ६ ।। उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ।। ७ ।। असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् । नानारूपधरैर्भूतैः अनेकैः परिवारितम् ।। ८ ।। भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ।। ९ ।। स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः । आशीर्वादान्विताः काश्चित् - काश्चिदालिंगनोन्मुखाः ।। १० ।। मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वांगुलं नयेत् । सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ।। ११ ।। दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् । नाभेर्मेढ्रात्तु वामे तु भागं सप्तांगुलं भवेत् ।। १२ ।। पादांगुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् । पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ।। १३ ।। सार्धविश्वांगुलैर्वाऽथ तयोरन्तर मिष्यते । प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ।। १४ ।। नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते । पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ।। १५ ।। हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् । ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ।। १६ ।। अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः । पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ।। १७ ।। कंकालपिंचधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् । भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशांगुलम् ।। १८ ।। अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः । तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ।। १९ ।। कंकालदण्डमानन्तु देवस्याधो गलान्तकम् । दंडाग्रेकारयेत् धीमान् कंकालं हि मुनीश्वराः ।। २० ।। योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः । भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ।। २१ ।। एषएवपरोदेवो नग्नः कंकाल वर्जितः । विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ।। २२ ।। कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ।। २३ ।। दिव्यढक्का समायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ।। २४ ।। व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः । सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ।। २५ ।। कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् । नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ।। २६ ।। डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् । कर्णान्तं षोडशैर्मात्रैः शेषं कंकालवद्भवेत् ।। २७ ।। भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा । स्थापनं च समासेन वक्ष्येऽहं मुनिपुंगवाः ।। २८ ।। कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्तांकुरक्रिया । रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ।। २९ ।। जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः । अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ।। ३० ।। नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् । जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ।। ३१ ।। यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् । तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ।। ३२ ।। उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये । पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ।। ३३ ।। स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् । मध्ये देवं च तद्दक्षे जाया भूतानि वामके ।। ३४ ।। यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् । पृथक् कंकाल दण्डश्चेत् शिरोदेशेतु शाययेत् ।। ३५ ।। शक्रशांकरयोर्मध्ये न्यसेत् कुंभञ्च वर्धनीम् । अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ।। ३६ ।। विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् । वीरेशाय नमश्चेति भूतकुंभे यजेत् गुरुः ।। ३७ ।। नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा । कंकालकुंभे कंकालं न्यस्त्वा तत्वादिकान्न्यसेत् ।। ३८ ।। तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते । मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ।। ३९ ।। प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः । विष्नूक्तवत् स्यात् कंकाले तथाहोमं समाचरेत् ।। ४० ।। कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः । तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ।। ४१ ।। पलाशखादिराश्वत्थोदुंबरो दिक्षु संमताः । शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ।। ४२ ।। प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः । देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ।। ४३ ।। ततो द्वितीयदिवसे देवकुंभाग्नि तर्पणम् । पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ।। ४४ ।। मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिंबपुरो घटान् । कुंभाम्मनुं समादाय देवस्य हृदि विन्यसेत् ।। ४५ ।। वर्धन्यामनुमादाय तस्य पीठांबुजे न्यसेत् । अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ।। ४६ ।। तत्तत् कुंभजलैः स्नाप्य स्नपनञ्चोत्सवं महत् । नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ।। ४७ ।। अनुक्तमत्रसंग्राह्यं सामान्यं स्थापनोक्तवत् । एवं यः कुरुतेमर्त्यः स पुण्यांगतिमाप्नुयात् ।। ४८ ।। मध्य सूत्रादि सूत्राणां द्व्यंगुल द्व्यंगुलञ्च यत् । अंगानामपि सर्वेषां तेषां वै सन्निवेशनम् ।। ४९ ।। हस्तानामपि संख्या च वस्त्राण्याभरणानि च । मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ।। ५० ।। आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया । भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ।। ५१ ।। एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा । भिक्षाटने च कंकाले प्रतिष्ठैवं समीरिता ।। ५२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः द्विपञ्चाशत्तमः पटलः ।। पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम् समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् नानागण् समायुक्तं नानाभूतसमाकुलम् असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम् एष एव परोदेवः नग्नः कङ्कालवर्जितः विकीर्णोभय पार्श्वस्थ जटालकविभूषितः कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः सत्कपालं च वरदं वाम हस्तं तु कल्पयेत् दिव्यढक्का समायुक्तं वामस्थमपरंकरम् शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरंकरम् व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः सव्यं कोण समायुक्तं अथवा परिकल्पयेत् पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम् सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम् आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम् दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत् वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम् उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् नानागण समायुक्तं नानाभूतसमाकुलम् असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम् कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत् ५३. त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै । नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ।। १ ।। प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये । नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ।। २ ।। प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः । कालोंकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ।। ३ ।। शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः । पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ।। ४ ।। मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् । कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ।। ५ ।। कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः । पश्चात् शिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ।। ६ ।। पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् । जलादुत्तीर्य बिंबन्तु मृदाद्यैस्नपनं नयेत् ।। ७ ।। गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः । शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ।। ८ ।। शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् । पूर्ववत् स्हापयेत् कुंभान् परितश्शिवकुंभकम् ।। ९ ।। सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः । शिवंकुंभे यजेदस्त्रन्देवं पाशुपताह्वयम् ।। १० ।। तल्लक्षणोक्तरूपन्तु ध्यात्वागंधादिभिस्तदा । हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ।। ११ ।। दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि । मन्त्रेण वाथ संपूर्णन्देवं पाशुपताह्वयम् ।। १२ ।। अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः । ओंकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ।। १३ ।। मन्त्रेण विधिवत् भिन्ना ओंकाराद्याहृदादयः । हृदयादि समोपेता हुंफडन्ताः नमोन्तकाः ।। १४ ।। हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा । हुंकारकल्पितेनैव ह्रदासंपुरितेन च ।। १५ ।। वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः । तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ।। १६ ।। मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः । कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ।। १७ ।। समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् । पूर्वोक्तमूलब्रह्मांगैर्होमं पूर्वोक्तसंख्यया ।। १८ ।। तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः । पलाशोदुंबराश्वत्थ वटा इन्द्रापि दिक्षु च ।। १९ ।। शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः । प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ।। २० ।। संपूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः । प्रतिमाग्रेघटान्यस्वा तत् कुंभात्तुमनुं हृदि ।। २१ ।। न्यसेत् पीठांबुजेतस्य परिवारमनुन्यसेत् । स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।। २२ ।। अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् । एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ।। २३ ।। यात्त्येव च सुखं मोक्षमिहापि च परत्र च ।। २३१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः त्रिपञ्चाशत्तमः पटलः ।। ५४. चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् । पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ।। १ ।। उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् । पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ।। २ ।। सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः । दिव्यलांगूलसंयुक्तं सुविकीर्ण जटान्वितम् ।। ३ ।। कन्धरोर्ध्वंनराकारं दिव्यमौकि समायुतम् । सिंहास्यं भीमदंष्ट्रंच भीमविक्रमसंयुतम् ।। ४ ।। हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् । कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ।। ५ ।। नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् । पादाभ्यामंबरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ।। ६ ।। गगनाभिमुखं देवं कारयेत् शरभेश्वरम् । एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ।। ७ ।। अष्टवर्गादिमंबीजं चतुर्दशविभूषितम् । षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ।। ८ ।। शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि । ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ।। ९ ।। आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् । योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ।। १० ।। कल्पयेदाद्यवर्णेन ब्रह्माण्यंगानि देशिकः । वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ।। ११ ।। मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः । बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ।। १२ ।। पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः । स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ।। १३ ।। कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् । प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ।। १४ ।। अंकुरार्पणकार्यन्तु तद्विधानेन कारयेत् । नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ।। १५ ।। मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् । जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ।। १६ ।। मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् । पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ।। १७ ।। स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् । विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ।। १८ ।। पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् । शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ।। १९ ।। पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् । उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ।। २० ।। भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो । रक्तवस्त्रेण संवेष्ट्य कुंभस्थापनमारभेत् ।। २१ ।। विन्यसेत् शिवकुंभं च विष्णुकुंभं च विन्यसेत् । स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ।। २२ ।। परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् । ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ।। २३ ।। प्रागुक्ताणु स्वरूपज्ञो गंधाद्यैरर्चयेत् गुरुः । हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ।। २४ ।। विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् । शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ।। २५ ।। मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि । मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ।। २६ ।। ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् । समिद्भिरपिपालाशैः घृतेन चरुणापि च ।। २७ ।। तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् । पूर्णांहुत्वा द्वितीयेह्नि वह्निकुंभामरार्चनम् ।। २८ ।। संप्राप्तदक्षिणस्तुष्टो गुरुस्संपूजितस्सह । मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ।। २९ ।। देवेशाग्रेघटान्यस्वा संकल्प्य स्थण्डिलं गुरुः । कुंभात् बीजं समादाय शरभेश हृदि न्यसेत् ।। ३० ।। विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् । अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।। ३१ ।। तत्तत् कुंभोदकैश्चैव स्नापयेत्परमेश्वरम् । स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ।। ३२ ।। एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् । अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ।। ३३ ।। स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् । देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ।। ३४ ।। सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् । वश्याकर्षण विद्वेषमनेन विधिना नयेत् ।। ३५ ।। अनुक्तमत्रसंग्राह्यं सामान्यस्थापनोक्तवत् । कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ।। ३६ ।। भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः । इयत्ता पुण्य संघस्य भोगान् भुक्त्वेह जन्मनि ।। ३७ ।। वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ।। इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः चतुष्पञ्चाशत्तमः पटलः ।। पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् । ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ।। पादैस्सिंह पदाकारैः चतुर्भुजश्च समन्वितम् । सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ।। दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् । कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ।। सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् । हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ।। कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् । नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।। पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु । गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।। ५५. पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः । प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ।। १ ।। उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। २ ।। एवं जानुरुनाभ्यन्त स्तनवक्षो गलास्यगम् । सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ।। ३ ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वांगसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। ४ ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। ५ ।। नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। ६ ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभंगसहितं कुर्यादागम शवणोन्मुखम् ।। ७ ।। नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः । नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ।। ८ ।। हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्जलि हस्तञ्च शंखाब्जापरहस्तकम् ।। ९ ।। कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः । कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ।। १० ।। इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते । वाराद्यंमंकुरं रत्नविन्यासमुभयत्र च ।। ११ ।। नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् । तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ।। १२ ।। कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् । नवपञ्चैक संख्यानां लक्षणैः पूर्ववत् द्विजाः ।। १३ ।। तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् । वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ।। १४ ।। स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् । आरोहणं च शययायाः तस्याञ्च शयनं नयेत् ।। १५ ।। देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि । देवेश पादमूलेतु तेषां च शयनं नयेत् ।। १६ ।। देवोत्तमांगदेशेतु शिवकुंभञ्चवर्धनीम् । अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ।। १७ ।। तत्तदध्याय संसिद्धिं संग्राह्यं मुनि पुंगवाः । कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ।। १८ ।। समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् । सत् पलाशवटप्लक्षो दुंबराः पूर्वतो भवेत् ।। १९ ।। शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः । प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ।। २० ।। चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः । निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ।। २१ ।। द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः । संपूज्योद्धृत्य देवांस्तु कुंभान् कुण्डेषु पावकान् ।। २२ ।। सुमुहूर्तेऽठ संप्राप्ते सन्त्रन्यासं समाचरेत् । वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ।। २३ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । कृतस्थण्डिलका धारा बिंबाग्रेतु घटा न्यसेत् ।। २४ ।। कुंभान्मनुं समादाय शिवस्य हृदि विन्यसेत् । वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ।। २५ ।। देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् । अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।। २६ ।। चण्डेशादिषु देवेषु तत्तत् कुंभान् मनुं न्यसेत् । तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ।। २७ ।। स्नपनंञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा । देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ।। २८ ।। एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः पञ्चपञ्चाशत्तमः पटलः ।। उमया सहितस्याथ चन्द्रशेखरमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् । सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् । कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः उमया सहितस्याथ चन्द्रशेखमूर्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ।। एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् । सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ।। देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ।। मालाग्रं देववरदे कटकेनेतरेण तु । देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ।। नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ।। सुविकीर्ण जटोपेतं जटामकुटकान्वितम् । आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ।। नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।। ५६. षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् । स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।। १ ।। सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः । त एवानुग्रपराः भक्तानुग्राहकामताः ।। २ ।। देवदानव गंधर्व मुनयो मनुजातयः । पिपीलिका गजाद्यन्ताः जंगमास्थावराश्चये ।। ३ ।। तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः । दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ।। ४ ।। शिवाधिष्टित देहस्तु मरणं याति यो नरः । सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ।। ५ ।। तस्मादुत्क्रान्तिकालेतु स्वेष्टलिंगन्तु संस्पृशन् । प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ।। ५ ।। सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् । आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ।। ६ ।। कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः । द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ।। ८ ।। तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः । भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ।। ९ ।। संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः । कालः प्राग्वत् समुद्दिष्ट स्तथैवांकुरकर्म च ।। १० ।। रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् । ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ।। ११ ।। प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् । कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ।। १२ ।। चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा । तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ।। १३ ।। स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् । शयनारोहणं कुंभस्थापनं पूर्ववन्नयेत् ।। १४ ।। तत्पादेभक्तकुंभन्तु तत्तद्ध्यान समन्वितम् । आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ।। १५ ।। तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् । अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ।। १६ ।। समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः । पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।। १७ ।। शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः । प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ।। १८ ।। ततो द्वितीयदिवसे कृतकुंभाग्नि पूजितः । पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ।। १९ ।। संप्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः । मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिंबपुरोघटान् ।। २० ।। कुंभान्मन्त्रं समादाय देवस्य हृदये न्यसेत् । देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ।। २१ ।। विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् । ततः कुंभाजलेनाथऽथ तौ च संस्नापयेत् सदा ।। २२ ।। भक्तकुंभस्य बीजन्तु तत भक्त हृदयेन्यसेत् । आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ।। २३ ।। तत् कुंभस्थ जलेनापि स्नापयेत् पीठमादरात् । स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ।। २४ ।। उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् । विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ।। २५ ।। तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः । एवं यः मर्त्यः स पुण्यांगतिमाप्नुयात् ।। २६ ।। पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् । देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। २७ ।। यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः । मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ।। २८ ।। जीवन्नेवाथवा कुर्यात् आत्मानं शिवसंज्ञितम् ।। २८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः षठपञ्चाशत्तमः पटलः ।। सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् । आसीनां स्थितां वापि शयितां शुभलक्षणाम् ।। कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः । द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ।। ५७. सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।। १ ।। कुञ्चितासव्यपादस्तु व्याघ्र चर्मांबरान्वितः । ततोद्धृत सदक्षांघ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ।। २ ।। दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः । दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ।। ३ ।। कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः । शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ।। ४ ।। सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् । तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलांगुलम् ।। ५ ।। कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् । कर्णाग्रंतद्वितालं स्यात् दोस्समं परहस्तकम् ।। ६ ।। कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् । मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ।। ७ ।। नाभेस्सव्ये च वामांघ्रेरग्रे सूत्रं पुरो भवेत् । तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ।। ८ ।। स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् । अधोद्धृतांघ्रि जानूच्चं कट्यग्र सममेव हि ।। ९ ।। जंघमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् । दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ।। १० ।। परहस्तौ च कटकौ शूलहस्तस्थैव च । तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ।। ११ ।। सूत्रादन्वित जान्वन्तो गुणवह्ण्यंगुलो भवेत् । उद्धृतस्य तलस्याग्र जंघायास्मृति मात्रकम् ।। १२ ।। कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् । उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ।। १३ ।। शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् । दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ।। १४ ।। देवस्थन्नाभिमानेन नवतालेन कारयेत् । कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ।। १५ ।। अथवाथहराल्लिंगात् निर्गतात् पतितन्नयेत् । कालान्तलिंगमानाद्यं लिंगोद्भूतोक्तवन्नयेत् ।। १६ ।। त्रिभंगेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः । बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ।। १७ ।। कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु । मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ।। १८ ।। अपस्मारशरीरस्थ चरणेन युतो न वा । कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ।। १९ ।। अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् । कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ।। २० ।। भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् । मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ।। २१ ।। शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् । मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ।। २२ ।। देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः । लंभिनी तापिनी चैव वेदिनी द्राविणी तथा ।। २३ ।। मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे । मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ।। २४ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । वाराद्यं अंकुरं यागमण्टपं पूर्ववन्नयेत् ।। २५ ।। कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक संख्यया । दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ।। २६ ।। रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् । ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ।। २७ ।। देवे च काले कामे च कारयेत्तु पृथक् पृथक् । वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ।। २८ ।। देवस्य पाददेशेतु शययास्यात् काल कामयोः । कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ।। २९ ।। ईशकुंभं शिरोदेशे वर्धनीं तस्य चोत्तरे । कालकुंभं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ।। ३० ।। कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् । मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ।। ३१ ।। कामस्य पार्श्वयोः कॢप्त शययाशयितयोरपि । देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ।। ३२ ।। विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् । विद्येश्वरात्मकान्यस्य यजेत् गंधादिभिस्ततः ।। ३३ ।। तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् । तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ।। ३४ ।। कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् । आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ।। ३५ ।। शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि । मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ।। ३६ ।। प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः । कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ।। ३७ ।। अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् । पलाशो ढुंबराश्वत्थ वटाः प्रागादि दिक्षु च ।। ३८ ।। शमीखादिरमायूर श्रीवृक्षावह्निकोणतः । पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ।। ३९ ।। कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः । नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ।। ४० ।। देशिकस्सुविशुद्धात्मा संपूज्योद्धृत बिंबकः । कुंभान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ।। ४१ ।। वस्त्रहेमांगुलीयाद्यैः पूजितो मूर्तिपादिभिः । संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ।। ४२ ।। कुंभान् बिंबपुरो न्यस्य शिवकुंभमनुस्मरन् । शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ।। ४३ ।। वैद्येशकुंभबीजानि तत् पीठे परितो न्यसेत् । अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ।। ४४ ।। स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। ४५ ।। एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् । देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ।। ४६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः सप्तपञ्चाशत्तमः पटलः ।। चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः । कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ।। ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः । दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ।। दक्षहस्तस्थ परशुः नागपाश्ऽथवाम्गः । कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ।। शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा । शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ।। उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् । कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ।। देवस्यनाभिमानेन नवतालेनकारयेत् । कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ।। अथवाथ हराल्लिंगात् निर्गतान् पतितं नयेत् । कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ।। बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ।। कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु । मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ।। ५८. अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् । जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ।। १ ।। त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः । समभंगयुतो देव स्थानकस्थ प्रकीर्तितः ।। २ ।। सकुञ्चात् सव्यसत्पाद स्थितसव्येतरांघ्रिकः । इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ।। ३ ।। जल संग्रहणे योग्य वरवाम करान्विताः । स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ।। ४ ।। आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे । नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ।। ५ ।। एकैकमंगुलन्नीत्वा नाभिसूत्र समं भवेत् । वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ।। ६ ।। अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् । पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुंगवाः ।। ७ ।। मेद्रमूलसमन्दक्ष कटकस्यास्य लंबनम् । नाभेस्तं मणिबन्धान्तं स्मृत्यंगुलमितीरितम् ।। ८ ।। तद्बाहुमध्यात् पार्श्वान्तं शरांगुलमितिस्मतम् । पादांगुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ।। ९ ।। सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् । अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ।। १० ।। पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह । देवीदृगास्य चिबुक कक्ष चूचुकमानता ।। ११ ।। तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः । युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ।। १२ ।। श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् । पादांगुष्ठद्वयोर्मध्यं भवेदष्टदशांगुलम् ।। १३ ।। रसांगुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता । देवोच्चदशभागैक भागादेकादशावधि ।। १४ ।। भागमानयुतः श्यामः किरीटमकुटान्वितः । गृहीत शंख चक्रश्च हस्ताभ्यां धृतयापि च ।। १५ ।। तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः । नासाग्रात् स्थितपाद्यस्य चांगुष्ठान्तं विलंबयेत् ।। १६ ।। तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् । कुण्डिकोत्सेधविस्तारो तालसूत्रांगुलौ मतौ ।। १७ ।। तद्गलोत्सेधविस्तारो कलयाकोलकेन च । आस्यंपञ्चांगुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ।। १८ ।। तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् । एकांगुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ।। १९ ।। पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता । तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ।। २० ।। कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् । नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ।। २१ ।। तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् । वरदः कटकौ स्यातां वामेतर करावुभौ ।। २२ ।। हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् । चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ।। २३ ।। होमोन्मुख्ं प्रसन्नन्तं किंकुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ।। २४ ।। वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ । वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ।। २५ ।। स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ । सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ।। २६ ।। विलंबितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् । तत्पादांगुष्ठ मूलान्तान्नाभेर्वसुदशांगुलम् ।। २७ ।। अभय~चूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् । तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ।। २८ ।। ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् । ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ।। २९ ।। देवस्यांगुलमानेन द्विविंशत्यंगुलो भवेत् । अग्निकुण्डस्यविष्कंभस्त्रिमेखल युतस्य च ।। ३० ।। मेखलैकांगुलाप्रोक्ता प्रत्येकं मुनिपुंगवाः । द्वादशांगुलविस्तार दैर्घ्या सा सप्तजिह्वकः ।। ३१ ।। पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् । शिवादिहस्तसूत्राणां प्रमाणंद्व्यन्तरन्तु यत् ।। ३२ ।। उद्धृतिर्हस्त पादानामन्यांगाना मिहोच्यते । एषामेवनतिश्चापि संकोचो निर्गमोऽपि वा ।। ३३ ।। शरचापादि शास्त्राणां संग्रहे संस्थितिस्त्वियम् । अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ।। ३४ ।। दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः । भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ।। ३५ ।। दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः । देवीनामेवमेवस्यान्नरादीनां विशेषतः ।। ३६ ।। इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते । संभाव्य पूर्ववत् कालं प्राग्वत् कृत्वांकुरार्पणम् ।। ३७ ।। देवस्यसव्ये ब्रह्माणं उत्तरे विष्णुमेव च । गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ।। ३८ ।। नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि । शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ।। ३९ ।। दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना । बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ।। ४० ।। तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः । ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरंबिकां श्रियम् ।। ४१ ।। यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् । पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ।। ४२ ।। अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः । योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ।। ४३ ।। स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः । देवस्यमण्डपे चापि कुण्डानि नव संख्यया ।। ४४ ।। पञ्चैक संख्ययावपि चतुरश्रनिभानि वा । दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ।। ४५ ।। उद्वास्यशिल्पिनं पश्चात् विप्रान् संभोजयेत्ततः । पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ।। ४६ ।। स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् । शयने शाययेद्देवन्तस्य वामे च दक्षिणे ।। ४७ ।। कृष्णञ्चैवाथभिन्न शययायां शाययेत् गुरुः । देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ।। ४८ ।। उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् । रक्तेन वासमा देवं देविं पीतेन केशवम् ।। ४९ ।। कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् । आचार्या स्संग्रहीतव्याः प्रतिमण्टपमुत्तमाः ।। ५० ।। गुरवः प्रतिदेवं वा संग्राह्यामुनिपुंगवाः । देवोत्तमांग देशेतु शिवकुंभञ्च वर्धनीम् ।। ५१ ।। ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् । परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ।। ५२ ।। देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् । वामाद्याधिष्ठितानष्ट कुंभाश्च परितो न्यसेत् ।। ५३ ।। तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् । यजेत् गंधादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ।। ५४ ।। तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः । अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ।। ५५ ।। ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् । समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ।। ५६ ।। पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च । शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ।। ५७ ।। प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः । प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।। ५८ ।। स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये । प्रभाते कृतनित्यन्तु कर्ता संपूजयेत् गुरुम् ।। ५९ ।। वस्त्रहेमांगुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् । तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ।। ६० ।। प्रतिमाग्रे घटन्न्यस्त्वा कुंभान् बीजन्तु विन्यसेत् । वर्धन्याबीजमादाय देवीहृदय मध्यमे ।। ६१ ।। सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे । भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ।। ६२ ।। अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् । संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ।। ६३ ।। दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् । कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ।। ६४ ।। सदाशिवादि देवानां देवीयस्य यथा मता । तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ।। ६५ ।। प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा । तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ।। ६६ ।। यथा वा लभते शोभा बलन्तेषां यथा भवेत् । तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ।। ६७ ।। सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु । दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ।। ६८ ।। प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा । एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ।। ६९ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः अष्टापञ्चाशत्तमः पटलः ।। जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः । त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।। समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः । कुञ्चितः सव्यपादस्तु स्थितसव्येतरांध्रिकः ।। इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः । जलसंग्रहणे योग्य वरवामकरान्वितः ।। स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह देवी दृगास्य चिबुक कक्षनूचुक मानका तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम् देवोच्च दशभागैक भागादेक दशावधि भागमानयुतः श्यामः किरीट मकुटान्वितः गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत् चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम् मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम् वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ स्रुवपात क्रियोपेतौन्योतु कटकामुखौ भूषणानां च सर्वेषां वामदक्षिण भेदतः दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ५९. एकोनषष्टितमे पटले कल्याण कर्म विधिः वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने । पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ।। १ ।। तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके । प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ।। २ ।। स्तण्डिलं तत्र संक्ल्प्य सितवस्त्रोत्तरच्छदम् । स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ।। ३ ।। गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः । अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ।। ४ ।। प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः । देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ।। ५ ।। तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् । विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ।। ६ ।। पाद्याचमनं सदशं चाम्बरद्वयम् । आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ।। ७ ।। स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् । सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ।। ८ ।। पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् । गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ।। ९ ।। पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः । देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ।। १० ।। आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् । अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ।। ११ ।। कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः । शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ।। १२ ।। सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः । अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ।। १३ ।। वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् । ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ।। १४ ।। शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि । पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ।। १५ ।। समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् । गुडदुग्धाज्य संमिश्रं मधुपर्कं हृदा प्रभोः ।। १६ ।। दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा । हुत्वा षोडश संख्यातं ततस्त्वाज्येन षोडश ।। १७ ।। नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा । ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ।।१८ ।। त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् । शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ।। १९ ।। तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः । ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ।। २० ।। पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् । संगृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ।। २१ ।। उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया । प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ।। २२ ।। शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् । तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ।। २३ ।। अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् । देशिकस्य तथान्यस्य सङ्गुलीय करेण च ।। २४ ।। प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा । अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ।। २५ ।। द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् । कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ।। २६ ।। शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु । विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ।। २७ ।। शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् । संपूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ।। २८ ।। ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् । तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ।। २९ ।। समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते । शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ।। ३० ।। अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना । शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ।। ३१ ।। वर्मणा तच्च संपूय नवखट्गोपरि स्थितम् । दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ।। ३२ ।। स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् । चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ।। ३३ ।। देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् । वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ।। ३४ ।। एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् । भिन्नपीठाम्बिकानां तु मूललिंगस्य च द्विजाः ।। ३५ ।। किंतु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् । गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ।। ३६ ।। मूललिंगस्य चोद्बाह्ये गर्भागारात्तु मण्डपे । विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ।। ३७ ।। प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः । स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ।। ३८ ।। आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः । इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ।। ३९ ।। गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् । यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ।। ४० ।। इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः पटलः ।। ६०. षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ।। १ ।। उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ।। २ ।। करमकुटं वाममलकेन समन्वितम् । ललाट दक्षिणे भागे नयनार्धेन संयुतम् ।। ३ ।। पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्र कुण्डलं तं विनावाथ कारयेत् ।। ४ ।। सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे । देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ।। ५ ।। दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः । तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ।। ६ ।। उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनांबरं सव्यपादं कुञ्चितमिष्यते ।। ७ ।। सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् । आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ।। ८ ।। वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् । नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ।। ९ ।। चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् । सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ।। १० ।। द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा । पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ।। ११ ।। अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् । चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ।। १२ ।। अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः । प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ।। १३ ।। भुजद्वययुतं शङ्ख कटकस्तत्र संमतः । पीतांबर समोपेतं सर्वाभरण संयुतम् ।। १४ ।। चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् । हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ।। १५ ।। बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः । तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ।। १६ ।। कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् । रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ।। १७ ।। प्रदक्षिणं पुरादीना मुदके चाधिवासनम् । सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ।। १८ ।। किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः । मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ।। १९ ।। प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् । शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ।। २० ।। पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् । शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ।। २१ ।। बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः । शयनारोहणं कृत्वा शाययेद्देवमादरात् ।। २२ ।। शिरः प्रदेशे देवस्य शिवकुंभं तु विन्यसेत् । उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ।। २३ ।। विष्णुश्चेत्तच्छिरोदेशे विष्णु कुंभं तु विन्यसेत् । तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ।। २४ ।। परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् । गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ।। २५ ।। तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् । क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ।। २६ ।। मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते । शर्वं च पशुपत्युग्ररुद्रांश्चेतांबलोत्कटान् ।। २७ ।। धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् । विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ।। २८ ।। पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् । पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ।। २९ ।। ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् । न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ।। ३० ।। जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ । न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ।। ३१ ।। शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् । ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ।। ३२ ।। तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् । एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ।। ३३ ।। संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् । अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ।। ३४ ।। समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि । होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ।। ३५ ।। पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ।। ३६ ।। प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते । विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ।। ३७ ।। ततो द्वितीये दिवसे देवान् कुंभाश्च पावकान् । यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ।। ३८ ।। मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः । शुभे महूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ।। ३९ ।। कुंभान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् । विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ।। ४० ।। कृष्णस्य कुंभात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् । अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।। ४१ ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं तद्देव स्थापनोदितम् ।। ४२ ।। विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ।। ४२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः षष्ठितमः पटलः ।। उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः करण्ट मकुटं वामं मलकेन समन्वितम् ललाट दक्षिणे भागे नयनार्धेन संयुतम् पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम् सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् संव्ये टंकाभयौ हस्ते उत्पलं वामगे करे उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम् व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते सुस्थितं वामचरणं नूपुरेणाप्यलंकृतम् आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि । भुजद्वयुतं शङ्खं कटकस्तत्र संमतः ।। पीताम्बर समोपेतं सर्वाभरण संयुतम् । चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ।। ६१. एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ।। १ ।। कृष्णा परशु संयुक्तो जटामकुटमण्डितः । ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।। २ ।। दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ।। ३ ।। स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् । कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ।। ४ ।। अथवा शिवलिंगस्य पार्श्वयोः नतगतौ तु तौ । अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ।। ५ ।। अथवा मध्यमे लिंगं पृथगालय संस्थितम् । तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ।। ६ ।। पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः । संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ।। ७ ।। पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः । भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ।। ८ ।। नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे । एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।। ९ ।। शिवलिंग प्रतिष्ठा च ब्रह्मणः केशवस्य च । तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ।। १० ।। इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते । पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ।। ११ ।। रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् । प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ।। १२ ।। कुण्डानि कारयेत्तत्र नवपञ्चैक संख्यया । दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ।। १३ ।। तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् । स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ।। १४ ।। ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् । शयनारोहं कुंभ स्थापनं पूर्वन्नयेत् ।। १५ ।। देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् । न्यस्त्वा तु शिवकुंभस्य उत्तरे वर्धनीं न्यसेत् ।। १६ ।। तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् । तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ।। १७ ।। अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् । तिलसर्षप मुद्गांश्च माषशिंबाद वैणवैः ।। १८ ।। पलाशोदुंबराश्वत्थ न्यग्रोधाः प्राग्दिगादितः । शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ।। १९ ।। प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः । ततो द्वितीय दिवसे देव कुंभाग्नि तर्पणम् ।। २० ।। पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः । संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।। २१ ।। मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिंब पुरो घटान् । कुंभान्मनुं समादाय देवस्य हृदि विन्यसेत् ।। २२ ।। वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् । ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ।। २३ ।। आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् । तत्तत् कुंभजलैश्चैव तत्तद्देशेऽभिषेचयेत् ।। २४ ।। स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च । अनुक्त मत्र संग्राह्यं तत्त दध्याय चोदितम् ।। २५ ।। प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु । इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ।। २६ ।। इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम एकष्टितमः पटलः ।। रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः । कृष्णापरशु संयुक्तः जटामकुटमण्डितः ।। ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि । कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ।। सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् । कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ।। ६२. द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।। १ ।। परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् । पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।। २ ।। अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके । स हस्तो हंस पक्षो वा पताकाधोमुखस्तु वा ।। ३ ।। तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् । तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ।। ४ ।। तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् । प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ।। ५ ।। हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् । एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ।। ६ ।। पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् । समभङ्गयुतो देवः स्थानकेनापि संयुतः ।। ७ ।। ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके । गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ।। ८ ।। सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् । सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ।। ९ ।। सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् । शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ।। १० ।। द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ।। ११ ।। अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ।। १२ ।। संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ।। १३ ।। मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् । एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ।। १५ ।। कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् । वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ।। १५ ।। जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् । कुण्डानि नवपञ्चैक संख्यया तत्र कारयेत् ।। १६ ।। चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा । पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ।। १७ ।। पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् । स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ।। १८ ।। आरोप्य शयने पश्चात् कुंभान् संस्थापयेत्तमः । शिवस्य च शिरोदेशे शिवकुंभं च वर्धनीम् ।। १९ ।। यदि भिन्नो वृषो देवपादमूले तु शाययेत् । दक्ष मस्तक संयुक्तां शययां संकल्प्य व पृथक् ।। २० ।। वृषमस्तकदेशे तु वृषकुंभं तु विन्यसेत् । परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ।। २१ ।। गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः । तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ।। २२ ।। अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् । समिदाज्यान्नलाजादि तिलसर्षप माषकैः ।। २३ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिक्षु च । शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ।। २४ ।। प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् । ततो द्वितीये संतर्प्य देवान् कुंभांश्च पावकान् ।। २५ ।। समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः । संप्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ।। २६ ।। घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् । कुंभाद्बीजं समादाय देवस्य हृदि विन्यसेत् ।। २७ ।। वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् । सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।। २८ ।। वृष कुंभान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् । अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।। २९ ।। विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् । कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ।। ३० ।। उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा । अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ।। ३१ ।। इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः । घनो वाप्य घनो वापि वृषभस्य च संमतः ।। ३२ ।। प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह । लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ।। ३३ ।। इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः द्विषष्ठितमः पटलः ।। वृषभारुधः चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः । परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ।। पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् । अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् समभङ्गयुतो देवण् स्थानकेनापि संयुतः तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत् पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ।। ६३. त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।। १ ।। दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः । तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ।। २ ।। संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः । जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ।। ३ ।। तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् । स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ।। ४ ।। सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः । हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ।। ५ ।। पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् । वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ।। ६ ।। इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः । देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ।। ७ ।। कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् । गलान्तं वाष्टतालेन विलंबितं जटान्वितम् ।। ८ ।। वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् । द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ।। ९ ।। कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् । रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ।। १० ।। तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः । प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ।। ११ ।। तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः । चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ।। १२ ।। मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् । पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ।। १३ ।। स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकं । भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ।। १४ ।। शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः । देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ।। १५ ।। देवेशस्य शिरः पार्श्वे शिवकुंभं च वर्धनीम् । भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ।। १६ ।। हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् । परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ।। १७ ।। पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः । गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ।। १८ ।। तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः । भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ।। १९ ।। पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना । मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ।। २० ।। बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् । चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ।। २१ ।। भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः । गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ।। २२ ।। कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः । तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ।। २३ ।। दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् । तत्तद्देव पुरस्तत्तत् कुंभान् न्यस्त्वा गुरूत्तमः ।। २४ ।। शिव कुंभमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् । वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।। २५ ।। अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् । गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ।। २६ ।। भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् । तत्तत् कुंभ जलेनैव स्नापयेत्तत् प्रदेशके ।। २७ ।। सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् । विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ।। २८ ।। कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः । कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ।। २९ ।। अनुक्तमत्र संग्राह्यं सामान्य स्थापनोक्तवत् । भगीरथ युतो वायं वियुक्तो वा महेश्वरः ।। ३० ।। जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः । इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ।। ३१ ।। यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ।। ३११/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम त्रिषष्टितमः पटलः ।। ६४. चतुष्षष्ठितमे पटले गुह स्थापन विधिः गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ।। १ ।। नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् । अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ।। २ ।। अन्येदेवालयेऽप्येवमथवा पर्वतोपरि । पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ।। ३ ।। राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा । प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ।। ४ ।। कुमारालय इष्टस्यात् धाम लक्षण लक्षितः । अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ।। ५ ।। त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः । दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ।। ६ ।। रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् । गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ।। ७ ।। एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः । शिवोक्त मार्ग संकॢप्त गर्भाद्येष्ट कयान्वितः ।। ८ ।। तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः । दिङ्न्यस्त देव विन्यस्त मध्यकुंभ युतेन च ।। ९ ।। धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह । प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।। १० ।। पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा । परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।। ११ ।। यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् । गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ।। १२ ।। क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः । वरदाभय संयुक्ताः खड्ग खेट समन्विताः ।। १३ ।। खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः । भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ।। १४ ।। शकुनी पूतना चैव रेवती चार्धपूतना । वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ।। १५ ।। षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः । स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ।। १६ ।। एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः । वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ।। १७ ।। चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः । एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ।। १८ ।। इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् । विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।। १९ ।। बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् । बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ।। २० ।। द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् । दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ।। २१ ।। खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ । श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयंकरौ ।। २२ ।। जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ । ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ।। २३ ।। अभयं वज्रपद्मे च वरदं द्विभुजं तु वा । शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ।। २४ ।। लक्षणं तस्य संक्षेपाच्छ्रुणुध्वं विप्रसत्तमाः । द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ।। २५ ।। प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु । योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ।। २६ ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः । पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ।। २७ ।। बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ।। २८ ।। कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः । स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।। २९ ।। चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् । नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ।। ३० ।। वरदाभय संयुक्तः शक्तिद्वययुतो न वा । शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ।। ३१ ।। द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये । श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ।। ३२ ।। गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने । गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ।। ३३ ।। इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ।। ३४ ।। षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः । स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।। ३५ ।। सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके । रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ।। ३६ ।। करण्ड मकुटोपेतो नेत्रत्रय समन्वितः । शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ।। ३७ ।। दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा । समयूरध्वजं चैवमङ्कुशं वरदं वहन् ।। ३८ ।। सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः । ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ।। ३९ ।। एवं पञ्चविधस्कन्दो विभागस्थानभेदतः । द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ।। ४० ।। एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः । शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ।। ४१ ।। चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् । सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।। ४२ ।। मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना । शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ।। ४३ ।। ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् । महासेनाय संयुक्तं विद्महे पद संयुतम् ।। ४४ ।। षडाननाय संयुक्तं धीमहीति पदं ततः । तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ।। ४५ ।। गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् । हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ।। ४६ ।। गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः । ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ।। ४७ ।। शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् । देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ।। ४८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ।। ४९ ।। हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् । कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ।। ५० ।। यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् । प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ।। ५१ ।। जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा । परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ।। ५२ ।। प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् । पद्माभनवपञ्चैक संख्या कुण्ड प्रकल्पनम् ।। ५३ ।। पूर्वोत्तरेशसंकॢप्त स्नान वेदिकयान्वितम् । तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ।। ५४ ।। पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे । स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ।। ५५ ।। जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् । गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ।। ५६ ।। आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा । वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्तिः संयुतम् ।। ५७ ।। सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् । शिरः प्रदेशे सूत्राढ्यं कुंभं वस्त्रादिभिर्युतम् ।। ५८ ।। न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् । देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ।। ५९ ।। परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् । सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ।। ६० ।। आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि । न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्यसेत् ।। ६१ ।। मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः । प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ।। ६२ ।। गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः । सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ।। ६३ ।। मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ।। ६४ ।। तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् । गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ।। ६५ ।। सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः । ब्रह्मांगानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ।। ६६ ।। मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् । तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ।। ६७ ।। समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः । पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ।। ६८ ।। शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः । पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ।। ६९ ।। वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् । शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ।। ७० ।। दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् । ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ।। ७१ ।। उद्धृत्य षण्मुखं तं च कुंभाग्नींश्च सु तर्पयेत् । प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ।। ७२ ।। दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः । मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ।। ७३ ।। कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् । विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ।। ७४ ।। सुलग्ने सुमूहूर्ते तु तथा द्वारस्य संमुखम् । अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ।। ७५ ।। देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् । कुंभाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ।। ७६ ।। यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् । पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ।। ७७ ।। तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् । तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ।। ७८ ।। स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले । गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ।। ७९ ।। इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् । सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ।। ८० ।। एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः । आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८१ ।। सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् । शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ।। ८२ ।। तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः । अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ।। ८३ ।। सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् । गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ।। ८४ ।। आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः । सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ।। ८५ ।। द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा । स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ।। ८६ ।। वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः । शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ।। ८७ ।। शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः । अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ।। ८८ ।। न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः । तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ।। ८९ ।। कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः । भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ।। ९० ।। देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा । सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ।। ९१ ।। आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् । इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ।। ९२ ।। शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् । अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ।। ९३ ।। विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा । अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ।। ९४ ।। अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् । हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ।। ९५ ।। इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् । दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ।। ९६ ।। त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना । लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।। ९७ ।। चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः । इत्थमात्मधाराद्रव्य मन्त्रबिंब विशोधनम् ।। ९८ ।। कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः । प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ।। ९९ ।। अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् । संक्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ।। १०० ।। ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् । विद्यादेहं च संक्ल्प्य तस्मिन्मूलेन षण्मुखम् ।। १०१ ।। हृदयानुगतेनैव पुष्पसंपूर्णसत्करः । आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ।। १०२ ।। निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् । हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ।। १०३ ।। महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् । पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ।। १०४ ।। नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु । गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ।। १०५ ।। विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् । वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ।। १०६ ।। चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् । पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ।। १०७ ।। कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः । लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ।। १०८ ।। सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु । तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ।। १०९ ।। हृदा तैलाद्य संकॢप्तिं दद्यात् प्राग्वद् धृदाणुना । आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ।। ११० ।। गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् । पूजयेदावृतिं पश्चात् धूपदाना वसानके ।। १११ ।। वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् । तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ।। ११२ ।। ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् । द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ।। ११३ ।। गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् । नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ।। ११४ ।। आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् । मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ।। ११५ ।। जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् । दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ।। ११६ ।। तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह । एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ।। ११७ ।। ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् । तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ।। ११८ ।। अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् । ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ।। ११९ ।। शकुनी रेवती चैव पूतना मण्डपूतना । वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ।। १२० ।। शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः । षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ।। १२१ ।। सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः । सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ।। १२२ ।। कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके । वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ।। १२३ ।। द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् । तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ।। १२४ ।। शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ।। १२४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः पटलः ।। द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ।। वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।। द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु । चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् । नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः वरदाभय संयुक्तः शक्तिद्वययुतो न वा षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः । पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ।। सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः । सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ।। रक्तांबर समायुक्तः बालचन्द्र समप्रभैः । करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।। शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् । दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।। समयूर ध्वजं चैवं अङ्कुशं वरदं वहन् । सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।। ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये । ६५. पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ।। १ ।। पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ।। २ ।। अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके । अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ।। ३ ।। धामलक्षण संसिद्धायामेनापि समन्वितः । एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ।। ४ ।। धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ।। ५ ।। प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः । मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ।। ६ ।। दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः । स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ।। ७ ।। दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च । धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ।। ८ ।। प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकार मण्डपोपेतः परितः परिवारः युक् ।। ९ ।। रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च । महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ।। १० ।। रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः । एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ।। ११ ।। सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ।। १२ ।। इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः । बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ।। १३ ।। द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ।। १४ ।। बलिपीठे बलिर्देयो यथादेशं बलिर्हितः । देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ।। १५ ।। द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ।। १६ ।। प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।। १७ ।। व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः । करालकज्जलाभासो जटिलश्चन्द्रशेखरः ।। १८ ।। चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। १९ ।। अथवा शंख वर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ।। २० ।। पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः । वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ।। २१ ।। अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। २२ ।। स्थानको वासनस्थो वा शयिता सव्यवात्तलः । सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ।। २३ ।। वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः । वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ।। २४ ।। शंकरेक्षण संपन्नश्शोकनम्र शिरास्तु वा । उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ।। २५ ।। एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः । अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ।। २६ ।। चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ।। २७ ।। कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ।। २८ ।। अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ।। २९ ।। सा देवी श्यामला हस्त द्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ।। ३० ।। एवमापाद्य बेरं मनुभिंस्थापनं नयेत् । चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ।। ३१ ।। चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च । चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ।। ३२ ।। ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च । मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ।। ३३ ।। ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः । ओं चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ।। ३४ ।। तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः । अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ।। ३५ ।। ज्ञानशक्ति पदैर्मन्त्रैः र्हुंट्कार समन्वितैः । चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ।। ३६ ।। विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः । ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ।। ३७ ।। कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् । सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ।। ३८ ।। कृत्वा पद्मस्य संघातं नेत्रमोक्षणमाचरेत् । मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ।। ३९ ।। सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः । बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ।। ४० ।। तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् । यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ।। ४१ ।। याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् । नवपञ्चैक संख्यानि वृत्तान्यश्राणि वा द्विजाः ।। ४२ ।। मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह । उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ।। ४३ ।। पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् । जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ।। ४४ ।। कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् । कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ।। ४५ ।। पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु । वासोभ्यां वेष्टयित्वा तु कुंभन्यासं समाचरेत् ।। ४६ ।। चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् । सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ।। ४७ ।। तथा विधघटानष्टौ विन्यसेत् परितो बहिः । चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ।। ४८ ।। सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् । कुंभमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ।। ४९ ।। हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः । घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ।। ५० ।। लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा । गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ।। ५१ ।। आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् । क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ।। ५२ ।। प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा । सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ।। ५३ ।। मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् । संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ।। ५४ ।। कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् । प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ।। ५५ ।। लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः । प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ।। ५६ ।। शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः । तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ।। ५७ ।। शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् । दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ।। ५८ ।। ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः । उद्धृत्य चण्ड बिंबं तु कुंभानग्नींश्च तर्पयेत् ।। ५९ ।। पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः । वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ।। ६० ।। अधमा निष्का तु द्विगुणा मध्यमा भवेत् । त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ।। ६१ ।। प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः । सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ।। ६२ ।। देवाग्रस्थण्डिलस्तेभ्यः कुंभेभ्यो देशिकोत्तमः । तत्तत् कुंभगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ।। ६३ ।। स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि । कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ।। ६४ ।। चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा । चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ।। ६५ ।। आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च । विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ।। ६६ ।। लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः । चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ।। ६७ ।। चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते । स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ।। ६८ ।। चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना । द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ।। ६९ ।। आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च । सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ।। ७० ।। अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च । पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ।। ७१ ।। अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् । स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मंत्रशुद्धये ।। ७२ ।। पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे । इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ।। ७३ ।। तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् । दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ।। ७४ ।। संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च । चण्डासनं च मूर्तिं च संक्ल्प्येशाद्यणून् क्रमात् ।। ७५ ।। हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् । बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ।। ७६ ।। न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् । पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ।। ७७ ।। अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि । इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ।। ७८ ।। धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः । हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ।। ७९ ।। परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः । नैवेद्यः तद्विधानोक्तं दत्वा तांबूल संयुतम् ।। ८० ।। पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् । जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ।। ८१ ।। पलाशसमिदाज्यान्नैर्होमं च विभवे सति । मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ।। ८२ ।। नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् । पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ।। ८३ ।। प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा । पादुकाराधनोपेतं प्रविशेदालयं प्रति ।। ८४ ।। एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु । कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ।। ८५ ।। पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने । आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ।। ८६ ।। चण्डेशायेति संक्ल्प्य यच्छिवाय निवेदितम् । नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ।। ८७ ।। गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः । संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ।। ८८ ।। आत्मार्थे च परर्थे च सामान्यमिदमीरितम् । नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ।। ८९ ।। आयु.ः प्रज्ञां सौभाग्यमतुलां श्रियम् । अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ।। ९० ।। विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये । स्नपनं पूर्ववत् किंतु मध्ये चण्डेश्वरं घटे ।। ९१ ।। देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् । अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ।। ९२ ।। रुद्रभक्तादयोऽष्टौस्युर्नवकुंभाभिषेचने । इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ।। ९३ ।। पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् । शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ।। ९४ ।। उत्सवं दमनारोहं पवित्रारोहं नयेत् । दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ।। ९५ ।। नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् । किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ।। ९६ ।। शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह । धजहोम बलिं हित्वा केवलं यानमेव वा ।। ९७ ।। प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् । प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ।। ९८ ।। तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ।। १८१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः पञ्चषष्ठितमः पटलः ।। अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः शंकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ।। पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः । वराभय प्रदानभ्यां अन्यत्र परिमण्डितः ।। अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः । जटामकुट युक्तो वा धवलीकृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।। सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ।। वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः । संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः । जटामकुट युक्तो वा धवली कृत मूर्धजः ।। स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः । सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः) वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ।। संकरेक्षण संपन्नः शोकनम्र शिरस्तु वा ।। जटामकुट युक्तो वा धवलीकृत मूर्धजः । स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ।। संकरेक्षण संपन्नः शोकनम्र शिरो तु वा । अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ।। चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः । बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः । व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ।। करालकज्जका भासो जटिलश्चन्द्रशेखरः । चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ।। टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ।। ६६. षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ।। १ ।। स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा । शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ।। २ ।। तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् । शैवाः पाशुपताश्चैव महाव्रत धराश्रये ।। ३ ।। लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः । तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ।। ४ ।। शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् । स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ।। ५ ।। ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ।। ६ ।। स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ।। ७ ।। परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ।। ८ ।। परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते । त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ।। ९ ।। एक विंशति हस्तान्तो विमान व्यास इष्यते । आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ।। १० ।। सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् । आद्येष्टका विधानं च गर्भ संस्थापनं तथा ।। ११ ।। मूर्धेष्टका विधानं च प्राग्देव समीरितम् । तदर्थं शिवलिंगं वा प्रतिमा वा शिवस्य तु ।। १२ ।। स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ।। १३ ।। शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा । अर्ध चित्रमथा भासं पटादि परिकल्पितम् ।। १४ ।। लिंगं चेत् प्रतिमा चेद्वा लिंग बेरोक्त वर्त्मना । मानं तयोश्च संग्राह्या हर्म्याद् गर्भगृहादथ ।। १५ ।। द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु । षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ।। १६ ।। हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् । त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ।। १७ ।। मानमेतत्समाख्यातं जात्यायांश समन्वितम् । वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ।। १८ ।। आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् । नववेदहृदं सप्त नवसंख्याहृतं तु यत् ।। १९ ।। वारोह्यंशस्समाख्यातो यजमानानुकूलितम् । मृतनामाक्षरेणानुकूलितं च विधीयताम् ।। २० ।। लिंगं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ।। २१ ।। मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् । आसीनं स्नानकं वापि वाहनारूढमेव वा ।। २२ ।। आसने स्थानके वाथ पद्मसिंहासनं तु वा । अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ।। २३ ।। यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् । आसनोन्मान विस्तारायामं तद्वदलंकृतिम् ।। २४ ।। प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ।। २५ ।। अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ।। २६ ।। सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः । गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ।। २७ ।। स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।। २८ ।। मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः । ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ।। २९ ।। रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् । स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ।। ३० ।। संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् । हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ।। ३१ ।। ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् । नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ।। ३२ ।। तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया । मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ।। ३३ ।। सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् । धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ।। ३४ ।। दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् । सर्वालंकार संयुक्तं ग्रामादौ भ्रमणं नयेत् ।। ३५ ।। जलाधिवासयेद्बिबं लोकपाल घटान्वितम् । यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ।। ३६ ।। नव पञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् । उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ।। ३७ ।। वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः । प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ।। ३८ ।। जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् । शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ।। ३९ ।। आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् । संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ।। ४० ।। स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते । पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ।। ४१ ।। वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् । बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ।। ४२ ।। उपधानं न्यसेत्प्राच्यां तत्र बिंबं शिरो भवेत् । शिरसश्चोत्तरे भागे कुंभं प्राधानिकं न्यसेत् ।। ४३ ।। अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् । चन्दनोदक संपूर्णान् फा पल्लव संयुतान् ।। ४४ ।। तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते । सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ।। ४५ ।। आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः । सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ।। ४६ ।। विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः । ह्रींकारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ।। ४७ ।। स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते । प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ।। ४८ ।। पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् । वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ।। ४९ ।। स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः । पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ।। ५० ।। परिवार घटे पूज्या अष्टौ वा वसवो मताः । स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ।। ५१ ।। पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च । संपूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ।। ५२ ।। आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् । आत्मानमन्तरात्मानं परमात्मानमेव च ।। ५३ ।। तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् । स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ।। ५४ ।। अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि । इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ।। ५५ ।। तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् । अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ।। ५६ ।। जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् । संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ।। ५७ ।। ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् । प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ।। ५८ ।। तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् । समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ।। ५९ ।। पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् । शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ।। ६० ।। प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् । हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ।। ६१ ।। मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् । कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ।। ६२ ।। स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् । ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ।। ६३ ।। रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह । स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ।। ६४ ।। पञ्च गोचर संजात स्सोष्णीषस्सोत्तरीयकः । पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ।। ६५ ।। तद्वत् संपूजितैर्मूर्ति धारकैरणुजापिभिः । अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ।। ६६ ।। द्वारद्वाराधिपानिष्ट्वा कृतकुंभार्चनो गुरुः । संपूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ।। ६७ ।। उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः । प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ।। ६८ ।। रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् । आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ।। ६९ ।। मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् । संस्नाप्य कुंभपानीयैः परितः स्थापितैरपि ।। ७० ।। वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः । उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ।। ७१ ।। उत्सवं कारयेदन्ते यथा विभव विस्तरम् । ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ।। ७२ ।। आदिशैवकुलोद्भूतः पञ्चगोचर संभवः । आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ।। ७३ ।। कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः । पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ।। ७४ ।। प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् । वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ।। ७५ ।। कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च । परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ।। ७६ ।। प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः । प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ।। ७७ ।। अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये । षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ।। ७८ ।। तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् । तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ।। ७९ ।। जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् । पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ।। ८० ।। संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा । संमृज्य वाससा वस्त्रं गन्धं स धूमकम् ।। ८१ ।। दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् । ताम्बूलं च त्रिसन्ध्यासु दद्यात्संध्याद्वयेऽपि वा ।। ८२ ।। अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा । दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ।। ८३ ।। अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु । स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ।। ८४ ।। मध्य कुंभे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ । स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ।। ८५ ।। एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् । एकावरण संयुक्तमधमं त्विति कीर्तितम् ।। ८६ ।। प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति । भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ।। ८७ ।। संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् । नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ।। ८८ ।। अथवैकदिनं वापि बलिहोम समन्वितम् । ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ।। ८९ ।। धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु । स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ।। ९० ।। भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् । इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ।। ९१ ।। यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके । यागशालां विधानेन कृत्वा वेदि समन्विताम् ।। ९२ ।। पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा । सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ।। ९३ ।। बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः । अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ।। ९४ ।। तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः । स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ।। ९५ ।। प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् । प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ।। ९६ ।। गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् । द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ।। ९७ ।। सायं प्रातर्बलि र्दद्यात् क्षुद्र बिंबसमन्वितम् । बल्यन्ते चोत्सवं कुर्यात् सर्वालंकार संयुतम् ।। ९८ ।। परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् । अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ।। ९९ ।। प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् । शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ।। १०० ।। धजोत्थान विहीनं वा बलिहोमोझितं तु वा । केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ।। १०१ ।। शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः । आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ।। १०२ ।। अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ।। १०२१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः पटलः ।। ६७. सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः । सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ।। १ ।। प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके । भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ।। २ ।। अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः । पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ।। ३ ।। व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् । प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ।। ४ ।। भूर्जत्वक्कुलसंभूतं शीतालीदलमेव वा । तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ।। ५ ।। शैलदारुकृतं वापि लेखये दक्षरैः शुभः । मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ।। ६ ।। लिखेत् तूलिकया वापि देशिकः शिष्य एव वा । शुभवारर्क्षयोगादावारभेदनुकूलभे ।। ७ ।। पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः । न समीपे पशूनां तु कुर्यादध्ययनं बुधः ।। ८ ।। नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः । लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ।। ९ ।। गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् । वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ।। १० ।। गोमयालिप्त भूभागे रङ्गलेख समन्विते । प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ।। ११ ।। ज्वलद्दीपसमोपेते शुद्धशैव समावृते । लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ।। १२ ।। नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः । शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ।। १३ ।। ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः । प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ।। १४ ।। अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च । व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ।। १५ ।। पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः । छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ।। १६ ।। इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् । यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ।। १७ ।। शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः । अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ।। १८ ।। शिवविद्यानुसारेण विद्यादानं तदुच्यते । संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ।। १९ ।। प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि । अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ।। २० ।। देशभाषाद्युपायैश्च तथा भूतागमैरपि । प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ।। २१ ।। यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः । तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ।। २२ ।। शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् । इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ।। २३ ।। योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् । स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ।। २४ ।। शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् । प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ।। २५ ।। यावदक्षरं संख्यास्युः शिवज्ञानस्य पुस्तके । तावद्युतसहस्राणि दाता शिवपुरे नरः ।। २६ ।। दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् । मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ।। २७ ।। स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् । अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ।। २८ ।। वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा । श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ।। २९ ।। अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् । शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ।। ३० ।। आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् । मूल्येन कारयेद्वाथ तदेव फलमश्नुते ।। ३१ ।। यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः । स राजा वर्धते स राजाधिप ऊर्जितः ।। ३२ ।। राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ।। ३३ ।। शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः । यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ।। ३४ ।। तथा पाशुपतादीनि गारूडादीन्येनकधा । निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ।। ३५ ।। निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः । बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ।। ३६ ।। तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् । शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ।। ३७ ।। अन्येषामपि सर्वेषा माभिचारादिकम् तु वा । विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ।। ३८ ।। तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् । एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ।। ३९ ।। त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् । विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ।। ४० ।। एक शालादि भेदेन शाला वा लक्षणान्विताः । विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ।। ४१ ।। द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः । तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ।। ४२ ।। चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् । अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ।। ४३ ।। संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः । मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ।। ४४ ।। आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् । शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।। ४५ ।। मध्यमे शिव कुंभं तु पार्श्वयोर्वर्धनीद्वयम् । द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ।। ४६ ।। संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् । समिदाज्यतिलोपेतं हविषा च समन्वितम् ।। ४७ ।। यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् । संप्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ।। ४८ ।। मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ।। ४८१/२ ।। इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः पटलः ।। ६८. अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।। १ ।। गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ।। २ ।। कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ।। ३ ।। जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ।। ४ ।। स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः । तालाष्टांश विवृद्ध्या तु चतुस्तालावसनकम् ।। ५ ।। कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः । तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ।। ६ ।। हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ।। ७ ।। ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते । रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ।। ८ ।। तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा । गव्याभिषेचितं शस्त्र मलंकृत्य नयेत्ततः ।। ९ ।। ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे । प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ।। १० ।। एक वेदि समोपेतं पृथग्वेदियुतं तु वा । मण्डपं दशसंख्यातं प्रपा कुण्डसमन्वितम् ।। ११ ।। पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा । एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ।। १२ ।। इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे । वृत्त कुण्डं भवेदेवं कुण्डानि दश संख्यया ।। १३ ।। ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा । पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ।। १४ ।। शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा । आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ।। १५ ।। जलानीतं च सुस्नातं पूजितं कृतकौतुकम् । शयने शाययेद् बिंबं प्रदक्षिण शिरोन्वितम् ।। १६ ।। वस्त्रैराच्छादयेत्सर्वान् कुंभान् संस्थापयेद् गुरुः । परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ।। १७ ।। स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् । मध्य कुंभे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ।। १८ ।। विदिक्ष्वङ्गानि संपूज्य वाप्तिं पुरुष गोचरम् । स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ।। १९ ।। हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् । पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।। २० ।। शमीखादिर मायूर श्रीवृक्षास्संप्रकीर्तिताः । पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ।। २१ ।। प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् । संपूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ।। २२ ।। स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि । एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। २३ ।। इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः अष्टषष्टितमः पटलः ।। ६९. एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ।। १ ।। गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः । महतामेक भागं तु शूलानां मानमिष्यते ।। २ ।। प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ।। ३ ।। द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा । जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ।। ४ ।। यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् । भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ।। ५ ।। लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते । यजमाननृपग्रामानुकूलं लौकिकं मतम् ।। ६ ।। जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् । अंगुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ।। ७ ।। लौकिकं चान्यधामस्थ बेर साधारणं मतम् । युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ।। ८ ।। तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा । उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ।। ९ ।। तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् । पादमान युतं वाथ तन्मानं च पृथक् पृथक् ।। १० ।। तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः । रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ।। ११ ।। संग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् । पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ।। १२ ।। वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः । मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ।। १३ ।। चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते । मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ।। १४ ।। पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते । पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ।। १५ ।। अर्धपत्रं च पत्राग्रं तु कृशं भवेत् । पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ।। १६ ।। अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः । पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ।। १७ ।। तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि । पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ।। १८ ।। नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा । यवार्धं तु समारभ्य यवपाद विवर्धनात् ।। १९ ।। अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् । मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ।। २० ।। मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि । एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ।। २१ ।। पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः । पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ।। २२ ।। तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः । द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ।। २३ ।। पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् । तस्याधः पालिका कार्या पत्रायामार्ध भागतः ।। २४ ।। हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा । फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ।। २५ ।। पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् । एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ।। २६ ।। पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः । तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ।। २७ ।। पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् । घटवन्नाडिकामानं युघधा विभजेत्त तत् ।। २८ ।। एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका । हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ।। २९ ।। आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः । तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ।। ३० ।। दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा । तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ।। ३१ ।। विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा । पादं वान्तर मानं वा तदुच्चे दशधा कृते ।। ३२ ।। पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् । वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ।। ३३ ।। हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा । मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ।। ३४ ।। अथवा मध्य पत्रस्य मूले वृषभवाहनम् । पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ।। ३५ ।। देव्या समायुतं वाथ वृषभेण युतं न वा । देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ।। ३६ ।। अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् । माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ।। ३७ ।। टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् । पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ।। ३८ ।। शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते । मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ।। ३९ ।। पादेन मध्यमेऽष्टांश मानाद्वा दण्ड विस्तरः । विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ।। ४० ।। यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा । पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ।। ४१ ।। चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् । त्रिशूलापरभागे तु वृषभं वा समालिखेत् ।। ४२ ।। अथवा दण्डमानेन पुरुषं जटिलं तु वा । पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ।। ४३ ।। वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा । सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ।। ४४ ।। तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः । प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ।। ४५ ।। संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् । पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ।। ४६ ।। रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् । अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ।। ४७ ।। विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् । शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ।। ४८ ।। जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् । पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ।। ४९ ।। सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् । वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ।। ५० ।। शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना । ततो बिंबं समानीय स्नापयेत्पूर्ववर्त्मना ।। ५१ ।। कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु । बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ।। ५२ ।। शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् । आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ।। ५३ ।। त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् । शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ।। ५४ ।। चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् । स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ।। ५५ ।। विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् । द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ।। ५६ ।। यद्यस्ति प्रतिमा शर्वे शिवकुंभं च वर्धनीम् । वृषो यद्यस्ति तत्कुंभं तेषु तानर्चयेत्क्रमात् ।। ५७ ।। वज्रादीन् वसुकुंभेषु परितः संस्थितेषु च । तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ।। ५८ ।। पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः । दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ।। ५९ ।। शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः । न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ।। ६० ।। ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् । मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ।। ६१ ।। वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् । षण्मुखं कुंभदेशे तु कुंभस्यास्ये विनायकम् ।। ६२ ।। दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे । तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ।। ६३ ।। दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले । दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ।। ६४ ।। दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा । होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ।। ६५ ।। समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् । पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।। ६६ ।। पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः । प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ।। ६७ ।। पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे । सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ।। ६८ ।। विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् । ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ।। ६९ ।। ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि । तद्दिङ्मूर्त्यादि संयुक्तं पूर्व संख्या समन्वितम् ।। ७० ।। रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि । एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ।। ७१ ।। वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः । वज्रादीन् पंकजे सर्वान् देवान् प्राग्वन्निवेशयेत् ।। ७२ ।। तत्तत् कुंभजलैश्चैव स्नापयेच्छूलमादरात् । स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ।। ७३ ।। अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् । त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ।। ७४ ।। भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ।। ७४१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन सप्ततितमः पटलः ।। ७०. सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः । देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ।। १ ।। देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः । चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ।। २ ।। तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते । चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ।। ३ ।। चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् । अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ।। ४ ।। नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः । पार्णेय प्रमुखास्तेषां आसनानि बहून्यपि ।। ५ ।। द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः । व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ।। ६ ।। द्वारोदयसमं वाष्ट नवभागोनमेव वा । नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ।। ७ ।। प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् । तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ।। ८ ।। पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु । उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ।। ९ ।। विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् । हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ।। १० ।। चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् । चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ।। ११ ।। अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् । सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ।। १२ ।। अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् । द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ।। १३ ।। पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् । अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ।। १४ ।। सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते । सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ।। १५ ।। पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदांश निर्गमात् । यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ।। १६ ।। एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः । दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ।। १७ ।। पादानामन्तरे पादा भवेयुरुपपीठके । पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ।। १८ ।। मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् । सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ।। १९ ।। एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः । उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ।। २० ।। स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् । मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ।। २१ ।। शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् । दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ।। २२ ।। राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते । त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ।। २३ ।। वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके । वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ।। २४ ।। वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका । सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ।। २५ ।। अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः । अर्धेनैकोनविंशांऽसं भद्रकं परिकीर्तितम् ।। २६ ।। त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके । सार्धार्द्धांश विभागार्धैरेकार्धाष्टांश सार्धकैः ।। २७ ।। अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः । पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ।। २८ ।। पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका । अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ।। २९ ।। आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः । एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ।। ३० ।। एत देव मुखे पृष्टे सौभद्रं संयुतम् । पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ।। ३१ ।। पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् । आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ।। ३२ ।। यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः । तद्विस्तार विभागेन मध्ये मकर तोरणम् ।। ३३ ।। पद्माभिषेक संपन्ना कार्या तोरण मध्यमे । तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ।। ३४ ।। मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता । कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ।। ३५ ।। मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् । अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ।। ३६ ।। स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् । कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ।। ३७ ।। नानारत्नसमोपेत मनन्तफण संयुतम् । विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ।। ३८ ।। वितोरणा विजिर्वाथ आसनं केवलं तु वा । पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ।। ३९ ।। पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् । उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ।। ४० ।। क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः । महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ।। ४१ ।। चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः । अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ।। ४२ ।। पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् । वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ।। ४३ ।। द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् । चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ।। ४४ ।। वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके । वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ।। ४५ ।। आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च । ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ।। ४६ ।। सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः । द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ।। ४७ ।। अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् । एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ।। ४८ ।। कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् । योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ।। ४९ ।। उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः । त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ।। ५० ।। पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् । वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ।। ५१ ।। वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् । श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ।। ५२ ।। नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः । पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ।। ५३ ।। पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते । अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ।। ५४ ।। प्रासाद लक्षणे पूर्वं कथितानि बहूनि च । अधिष्टानि सर्वाणि सोपपीठानि यानि च ।। ५५ ।। संग्राह्याणि च तानीह देशिकैर्नियमावृते । अवलम्बित पादस्याद् देवादीनां विशेषतः ।। ५६ ।। सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् । सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ।। ५७ ।। कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् । यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ।। ५८ ।। यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् । आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ।। ५९ ।। पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् । प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ।। ६० ।। आसनानां च सर्वेषामायादि विधिरुच्यते । परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ।। ६१ ।। बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् । सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद् गुरुः ।। ६२ ।। आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः । शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ।। ६३ ।। तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः । लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ।। ६४ ।। श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः । जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ।। ६५ ।। आसनार्थं च संग्राह्या द्रव्यग्रहणमार्गतः । एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ।। ६६ ।। कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः । शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ।। ६७ ।। पञ्च गव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् । अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ।। ६८ ।। शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् । पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ।। ६९ ।। स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः । गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ।। ७० ।। सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् । नमस्कार समोपेतं स्वबीजेन समन्वितम् ।। ७१ ।। मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः । तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ।। ७२ ।। समिदाज्यचरूंश्चैव तिललाज समन्वितम् । शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ।। ७३ ।। पूर्णाहुतिं ततः कृत्वा शान्तिकुंभांभसा गुरुः । सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ।। ७४ ।। स्नातं शुक्लांबरधरं मकुटेन विभूषितम् । सर्वाभरण संयुक्तं छत्र चामर संयुतम् ।। ७५ ।। सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् । नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ।। ७६ ।। मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् । तद्देव होम संयुक्तमासनाणुभिरन्वितम् ।। ७७ ।। आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः । अष्टदिक्वष्ट कुंभांश्च मध्यमे शक्रशर्वयोः ।। ७८ ।। प्रधान कुंभं संस्थाप्य स्वर्णवस्तादिभिर्युतम् । शिवासनाणु मध्ये च लोकपान् परितो यजेत् ।। ७९ ।। एवमादौ च संपूज्य ततो होमं समारभेत् । संतर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ।। ८० ।। सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः । शिवासनाणुं तन्मध्ये कुंभस्थं विनिवेशयेत् ।। ८१ ।। संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् । संपूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ।। ८२ ।। संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् । सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ।। ८३ ।। आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ।। ८४ ।। अन्येषामासनानां च प्रमाणमभिधीयते । सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ।। ८५ ।। मिश्रलोह शिलावृक्षमृत्सुधारत्न संभवम् । दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ।। ८६ ।। पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु । द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ।। ८७ ।। पञ्चाशनमानजातं तु विस्तारे मानमीरितम् । सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ।। ८८ ।। द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि । आयामे मानमुद्दिष्टं पादानं मानमुच्यते ।। ८९ ।। एकमात्रं समारभ्य व्योममात्र विवृद्धितः । पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ।। ९० ।। अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः । विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ।। ९१ ।। पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः । भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ।। ९२ ।। पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा । ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ।। ९३ ।। केवला वाथवा कार्या स्वशिरः पादसंयुताः । अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ।। ९४ ।। नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः । पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ।। ९५ ।। तदाननेलिकां वाथ फलकां वाथ योजयेत् । तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ।। ९६ ।। पादोर्ध्व फलका वाथ योजनीया यथेष्टतः । यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ।। ९७ ।। फलकासनमाख्यातं स्वर्णादीनां यथार्हकम् वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ।। ९८ ।। रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि । फलकां भूषयेद्वाथ केवला फलकाथवा ।। ९९ ।। तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् । नाना नाटक संयुक्तानयः कीलसमन्वितान् ।। १०० ।। नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा । चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ।। १०१ ।। अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् । आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ।। १०२ ।। त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः । चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ।। १०३ ।। तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् । स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ।। १०४ ।। सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् । फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ।। १०५ ।। तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् । एतेषामासनानां तु संस्कारः प्रागुदीरितः ।। १०६ ।। पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ।। १०६१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः पटलः ।। ७१. एकसप्ततितमे पटले रथादि स्थापन विधिः रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ।। १ ।। त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् । नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ।। २ ।। त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः । भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ।। ३ ।। अक्षोन्तरं समाख्यातं उपधानं द्विजोत्तमाः । पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ।। ४ ।। भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा । पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ।। ५ ।। इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः । यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ।। ६ ।। अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः । बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ।। ७ ।। तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः । स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ।। ८ ।। अक्षवधि विलंबिन्य स्त्वयः पट्टैर्दृढीकृताः । प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ।। ९ ।। शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् । अक्षोर्ध संप्रवेशार्थ मुपाधानन्तु वा नयेत् ।। १० ।। अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् । भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ।। ११ ।। तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् । पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ।। १२ ।। तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् । भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ।। १३ ।। समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते । तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ।। १४ ।। अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः । केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ।। १५ ।। ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् । भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ।। १६ ।। रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् । तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ।। १७ ।। त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः । द्वित्रिवेद महाभूत भाग विस्तार संयुताः ।। १८ ।। द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि । त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ।। १९ ।। योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् । भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ।। २० ।। प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् । चतुर्भागं समारभ्य भागस्याष्ट दशावधि ।। २१ ।। विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनां । चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ।। २२ ।। दशभागा वशानन्तु चक्रनेमि घनञ्चयत् । तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ।। २३ ।। एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः । वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ।। २४ ।। पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा । पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ।। २५ ।। यथाबलं विशालानि तथा विधधनानिच । चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ।। २६ ।। एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् । द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ।। २७ ।। एकद्वित्र्यङ्गुलांधिक्यन्नाभिदेशे भवेत् द्विजाः । तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ।। २८ ।। मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च । त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ।। २९ ।। सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा । ब्रह्मा रथांग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ।। ३० ।। भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते । एकभागा द्विकारान्त मेकभाग विवर्धनात् ।। ३१ ।। तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः । भारबाह्य विवृध्यातु रसभागावसानकाः ।। ३२ ।। एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः । गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ।। ३३ ।। त्रिभागे नैक भागेन मूलादारभ्य कारयेत् । उपान पद्मकंपानि कंपं कर्णञ्च कपकम् ।। ३४ ।। पद्मञ्च वाजनं कंपं दृष्टान्तार्थ मुदाहृतम् । पादोनार्धेन भागेन त्रिभागेन द्विभागतः ।। ३५ ।। त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् । एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ।। ३६ ।। धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् । चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ।। ३७ ।। गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् । उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ।। ३८ ।। उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् । फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ।। ३९ ।। फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् । सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ।। ४० ।। शतांऽसान्तं समुद्दिष्टं तन्मूलं वेद भागतः । वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ।। ४१ ।। षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् । कुंभ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ।। ४२ ।। पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् । तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ।। ४३ ।। वस्वं शांताय संयुक्तं तद्विस्तारोदरान्वितम् । तत्रिपाद विशालं वा तदन्तस्सममानकम् ।। ४४ ।। कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा । बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ।। ४५ ।। भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् । यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ।। ४६ ।। तद्विनिर्गमनोपेत मुपपीठं गलावधि । द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ।। ४७ ।। तत्संबन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः । पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ।। ४८ ।। यथेष्ट घन विस्तारे तत्संबन्धे परेपि वा । भरमूले तदग्रे च समभदे तथानयेत् ।। ४९ ।। अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि । तत्रपादा विधेयास्स्युः उपपीठावसानके ।। ५० ।। फलके द्वे विधातव्ये तत्पादोपरि संस्थिते । तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ।। ५१ ।। भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् । उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ।। ५२ ।। उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् । तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ।। ५३ ।। अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् । पंकित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ।। ५४ ।। पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने । सदन्त गलकंपौच महा वाजन माचरेत् ।। ५५ ।। उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् । प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ।। ५६ ।। एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा । अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ।। ५७ ।। अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः । तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ।। ५८ ।। गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः । सिंह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ।। ५९ ।। तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् । प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ।। ६० ।। त्रिभागन्तु समारभ्य भागभाग विवर्धनात् । नवभागावसानं स्यादलङ्गारश्च कथ्यते ।। ६१ ।। तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः । व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ।। ६२ ।। निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् । प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ।। ६३ ।। एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् । पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ।। ६४ ।। एकादि रसभागान्तं पार्श्वयोरुभयोरपि । प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ।। ६५ ।। रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा । षडादि त्रिंशदंशान्तं समं वा मूलपादतः ।। ६६ ।। प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः । अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ।। ६७ ।। छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः । एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ।। ६८ ।। भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु । न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ।। ६९ ।। पादानां कार्यः प्रस्तराणाञ्च मञ्चतः । प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ।। ७० ।। अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते । रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ।। ७१ ।। भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा । प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ।। ७२ ।। सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् । उपभद्र विहीनं वा भद्रं भारान्तमेव वा ।। ७३ ।। एतत् सर्वं विहायाथ केवलान्तूपपीठकम् । भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ।। ७४ ।। उपपीठं विहायास्मिन् केवलवामसूरकम् । बहिः करणमेवस्या दन्तरत्र निगद्यते ।। ७५ ।। पादवर्गेन्तरे क्षुद्रपादाः कंपोपरिस्थिताः । ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ।। ७६ ।। तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा । विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ।। ७७ ।। तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः । अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ।। ७८ ।। तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः । नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ।। ७९ ।। नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः । कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ।। ८० ।। एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा । पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ।। ८१ ।। वेदतालं समारभ्य तालार्धेन निवर्धयेत् । यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ।। ८२ ।। पाद पाद विवृध्यातु तत्वाङ्गुल समावधि । पाद विस्तार आखातो धाम पादा कृतिर्यथा ।। ८३ ।। अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः । बहुनीव्र समायुक्ताः फलकासु निवेशिताः ।। ८४ ।। तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् । तथैवायसनालैश्च धारस्सुदृधं यथा ।। ८५ ।। पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् । शिखाकरणमार्गेण लुपारोहण क्रियान्विता ।। ८६ ।। सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् । छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ।। ८७ ।। रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् । कथ्यते सचलेशेन विस्तारादायतोपिवा ।। ८८ ।। उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा । वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ।। ८९ ।। सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ । तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ।। ९० ।। शकटे शिबिकादौच शुभेशुभ मुदाहृतम् । रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ।। ९१ ।। उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढं । गोमूत्र गोमयांभोभिः कुशोदैस्तज्जलैरपि ।। ९२ ।। गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् । अस्त्रोदेनापि संप्रोक्षय गन्ध पुष्पादिभिः यजेत् ।। ९३ ।। कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु । वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ।। ९४ ।। मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ । दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ।। ९५ ।। हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् । उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ।। ९६ ।। धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः । अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ।। ९७ ।। फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् । कर्णिकान्नवशक्तींश्च शिवासनं अनुस्मरेत् ।। ९८ ।। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः । शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ।। ९९ ।। पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना । तदग्रे स्थंडिलं कृत्वा तस्मिन् सूत्रांबरान्वितान् ।। १०० ।। हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् । तत्र मध्ये शिवं पूर्वेभानुं इन्दुं तथानले ।। १०१ ।। दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे । वारुणे वृषभं वायावनन्तं विनिवेशयेत् ।। १०२ ।। धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे । गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ।। १०३ ।। संस्थापित घटानांवा समन्ता द्वारथस्यतु । नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ।। १०४ ।। आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् । शिवं साङ्गं प्रधानेतु तर्पयेच्छत संख्यया ।। १०५ ।। भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् । एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ।। १०६ ।। समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् । तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ।। १०७ ।। पलाशोदुंबराश्वत्थ वटाः प्रागादि दिङ्मताः । शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ।। १०८ ।। पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः । पूर्णान्दत्वा द्वितीयेह्नि कृत कुंभाग्नि पूजनः ।। १०९ ।। संप्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।। ११० ।। तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् । अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।। १११ ।। एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः । इहैव धनवांच्छ्रीमान् वांछितं फलमाप्नुयात् ।। ११२ ।। रथमेवं सुसंकृत्य रथयात्रां समाचरेत् । पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ।। ११३ ।। तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः । षण्णवत्यंश कान्तस्तु शिबिका विस्तरोमतः ।। ११४ ।। त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः । एकोन् द्विशतं याव दायामं परिकल्पयेत् ।। ११५ ।। ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् । पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ।। ११६ ।। पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः । एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ।। ११७ ।। पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् । त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ।। ११८ ।। दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् । वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ।। ११९ ।। विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् । अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ।। १२० ।। वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् । त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ।। १२१ ।। आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ । विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ।। १२२ ।। योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् । विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ।। १२३ ।। त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् । हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ।। १२४ ।। त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः । त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ।। १२५ ।। व्योममात्रं समारभ्य पादमात्र विवृद्धितः । सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ।। १२६ ।। व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि । हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ।। १२७ ।। वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् । अष्टांशादंश वृध्यातु स्वन्न्यास द्विगुणावधि ।। १२८ ।। इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः । किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ।। १२९ ।। पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि । पट्टिका घन विस्तारो यथायोग्यं विधीयते ।। १३० ।। व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः । गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ।। १३१ ।। क्षुद्रकंपैश्च वल्लीभिर्नाराचैः कोणबन्धनैः । यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ।। १३२ ।। झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः । स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ।। १३३ ।। शिबिकालंकृतिं कुर्याद्यथा शोभं यथाबलम् । एषा पैठी समाख्याता शेखरी शिखरान्विता ।। १३४ ।। पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता । शूकः कालश्च तिमिरः पनसो निंबकार्जुनौ ।। १३५ ।। मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः । वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ।। १३६ ।। अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः । वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ।। १३७ ।। तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् । चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ।। १३८ ।। त्र्यंगुलादंगुलद्धर्यातु पञ्चाशत् करजावधि । पाद दैर्घ्यं समाख्यातं द्वयंगुलात् पादवृद्धितः ।। १३९ ।। तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः । अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ।। १४० ।। अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् । तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ।। १४१ ।। फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् । नानापट्ट समायुक्तन्नानावेत्र समायुतम् ।। १४२ ।। नाना नाराच संबन्धं पुलकाद्यैश्च शोभितम् । लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ।। १४३ ।। शिबिकायद्वदायाद्यैः संयुक्तं संपदेभवेत् । पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ।। १४४ ।। प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् । खट्वा पाद समायुक्तं पट्टिकां एक संयुतम् ।। १४५ ।। पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् । निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ।। १४६ ।। इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ।। ७२. द्विसप्ततितमे पटले करणलक्षण विधिः लक्षण करणानां च वक्ष्ये संक्षेपतः क्रमात् । याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ।। १ ।। सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः । त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ।। २ ।। वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः । तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ।। ३ ।। निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः । चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ।। ४ ।। दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः । षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ।। ५ ।। तत्संख्यामात्रदैर्घ्यं स्यात् किंचैकादशमात्रतः । ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ।। ६ ।। ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः । वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ।। ७ ।। ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः । ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ।। ८ ।। उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः । उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ।। ९ ।। अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके । द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ।। १० ।। पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् । अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ।। ११ ।। प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् । ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ।। १२ ।। करे संयोजनीयं स्यात् काले देवार्चनादिके । अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ।। १३ ।। त्रयोविंशतिसंख्यातदर्भैस्स्यान्निर्मितेन च । अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ।। १४ ।। यथेष्टान्तरयुक्तेन लम्बनेन समन्विता । दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ।। १५ ।। रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता । आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ।। १६ ।। तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् । सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ।। १७ ।। द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा । स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ।। १८ ।। पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् । याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ।। १९ ।। शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् । इष्टमानेन खातं स्याच्छिखामानं तथैव च ।। २० ।। विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा । सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ।। २१ ।। पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् । विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ।। २२ ।। यावत्तावद् घनं तेषामिष्टमानेन कारयेत् । एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ।। २३ ।। नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च । षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ।। २४ ।। पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् । अन्तरेष्टविभागे तु नवमानमुदाहृतम् ।। २५ ।। घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि । याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ।। २६ ।। दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् । श्रीवत्सं स्वस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ।। २७ ।। अन्येषामपि देवानां देवीनां चाष्टमङ्गले । वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ।। २८ ।। शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् । ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ।। २९ ।। विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते । पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।। ३० ।। पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् । विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ।। ३१ ।। पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् । तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ।। ३२ ।। स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः । तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ।। ३३ ।। पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् । श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ।। ३४ ।। शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् । श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ।। ३५ ।। स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः । दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ।। ३६ ।। चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् । शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ।। ३७ ।। लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः । पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ।। ३८ ।। एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् । हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ।। ३९ ।। वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् । ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ।। ४० ।। ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः । लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ।। ४१ ।। देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् । जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ।। ४२ ।। नवतालप्रमाणेन तेषां लक्षणमुच्यते । तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ।। ४३ ।। देहलब्धेन तेषां तु प्रमाणं प्रविधीयते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ४४ ।। तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् । मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ।। ४५ ।। लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु । इष्टमानेन चैतेषां विस्तार इह कथ्यते ।। ४६ ।। स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते । तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ।। ४७ ।। षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा । दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ।। ४८ ।। त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला । सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ।। ४९ ।। कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा । कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ।। ५० ।। यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि । नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ।। ५१ ।। शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् । कर्णपार्श्वैकमात्रोनशरावादामुखावधः ।। ५२ ।। कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् । अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ।। ५३ ।। तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् । आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ।। ५४ ।। कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता । तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ।। ५५ ।। दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः । मुष्ट्यष्.आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ।। ५६ ।। अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते । द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ।। ५७ ।। तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः । कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ।। ५८ ।। सप्ताऽऽगुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् । गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ।। ५९ ।। रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् । तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ।। ६० ।। पादं कलशमूले स्यादन्यथा वा निगद्यते । षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ।। ६१ ।। विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् । विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ।। ६२ ।। त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् । कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ।। ६३ ।। वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् । त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ।। ६४ ।। दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् । अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ।। ६५ ।। त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः । स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ।। ६६ ।। एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् । षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ।। ६७ ।। तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् । गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ।। ६८ ।। पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः । नूतनं करणं श्रेष्ठं पुराणं तदभावतः ।। ६९ ।। पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः । तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ।। ७० ।। सहस्राघोररजापस्यात् पुराणकरणग्रहे । येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।। ७१ ।। तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः । अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ।। ७२ ।। अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् । श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ।। ७३ ।। तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः । तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।। ७४ ।। तेनैवोत्सवकर्माद्यं विहितं मुनिपुंगवाः । स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ।। ७५ ।। समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च । ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ।। ७६ ।। तोरणानि पयोवृक्षजातिलक्षणवन्ति च । पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ।। ७७ ।। वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् । तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ।। ७८ ।। शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् । शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ।। ७९ ।। एकादिवेदहस्तान्ततोरणे क्षुद्रमानके । उदयार्धप्रमाणं वा यादादौ परिपठ्यते ।। ८० ।। इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ।। ७३. त्रिसप्ततितमे पटले सौख्य कर्म विधिः प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च । सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ।। १ ।। सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् । ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ।। २ ।। तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् । अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ।। ३ ।। ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः । देवतारुवने पूर्व विनोदार्थं मया पुरा ।। ४ ।। कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः । तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ।। ५ ।। विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः । तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ।। ६ ।। मदालोकन मात्रेण दधते गर्भमक्षयम् । तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ।। ७ ।। तास्सर्वास्तत्र संपूज्य कानो वृत्तिर्भविष्यति । एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ।। ८ ।। मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि । तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ।। ९ ।। तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने । स्त्रीभिस्तद्वंश जाताभिः पञ्चाचार्य समन्वितम् ।। १० ।। इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले । मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ।। ११ ।। आहूय नन्दिनं चादाय करमध्यगम् । वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ।। १२ ।। ततः प्रभृति वर्तन्ते भुवि नन्दाव्य संज्ञया । यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ।। १३ ।। विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् । नर्तको मर्दकश्चैव गायको वांशिकस्तथा ।। १४ ।। तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः । चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ।। १५ ।। भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः । नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ।। १६ ।। तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् । नर्तने च स्वयं शक्तो मात्रागणन तत्परः ।। १७ ।। मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः । प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ।। १८ ।। गायको गान विद्याज्ञस्सप्तस्वर विशारदः । सप्त स्वर विभेदेन गायको गान नायकः ।। १९ ।। वांऽसिकस्तद्वदेव स्यात् किंतु वंशकृतश्रमः । सौख्ये तु वादयेद्वंश मुदात्तादि विभेदतः ।। २० ।। वादयेन्मुखं सौख्य काले मौर विको मतः । नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ।। २१ ।। गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ । अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ।। २२ ।। ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् । पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ।। २३ ।। अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः । पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ।। २४ ।। मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् । त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ।। २५ ।। देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् । प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ।। २६ ।। युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् । अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ।। २७ ।। पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन । सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ।। २८ ।। तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि । नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ।। २९ ।। आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा । पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ।। ३० ।। आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे । क्षालितं वेत्रमादाय हेतितो येन देशिकः ।। ३१ ।। संस्थाप्य वेत्रं पूर्वाग्रं उत्तराग्रमथापि वा । नन्दिनं तत्र संपूज्य गन्धपुष्पादिभ्र्गुरुः ।। ३२ ।। नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः । श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ।। ३३ ।। संप्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि । तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ।। ३४ ।। शिवायनम इत्येवं समस्तं शिरसि न्यसेत् । गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ।। ३५ ।। नामोक्त्वा नन्दपूर्वं तु संबुध्यन्तं यथा भवेत् । नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ।। ३६ ।। मदीयोत्सव कालादौ तव नृत्तानुकूलतः । एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ।। ३७ ।। तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् । पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ।। ३८ ।। ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् । शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ।। ३९ ।। एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते । देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ।। ४० ।। देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् । विन्यस्य तत्पुरः कुंभं स्वर्णवस्त्रादि संयुतम् ।। ४१ ।। पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् । पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ।। ४२ ।। तदम्भसा तु संप्रोक्ष्य शिरः कूर्चेन संस्पृशेत् । पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ।। ४३ ।। प्रवेशो रुद्रकन्यानामादौ संक्षिप्य कथ्यते । निर्दिष्ट दिवसात् पूर्वं मङ्गलांकुर माचरेत् ।। ४४ ।। प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् । विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ।। ४५ ।। सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः । निष्पाद्य देवदेवेशं पूर्वेद्युस्संप्रपूजयेत् ।। ४६ ।। गन्धाद्यैर्युग संख्याता रुद्रकन्या उपोषिताः । धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ।। ४७ ।। सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः । कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ।। ४८ ।। अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् । संस्थाप्य देव देवेशं सहस्रकलशादिभिः ।। ४९ ।। संपूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् । मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ।। ५० ।। पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः । मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ।। ५१ ।। नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् । साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ।। ५२ ।। नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् । स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ।। ५३ ।। तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् । पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ।। ५४ ।। प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् । सरस्वत्या समोपेतं लोकपालादि संयुतम् ।। ५५ ।। पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् । उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ।। ५६ ।। संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् । आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ।। ५७ ।। होमयेच्छत संख्यातामावृतिं दशसंख्यया । समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ।। ५८ ।। देवं संपूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् । प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ।। ५९ ।। तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् । नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ।। ६० ।। पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः । भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ।। ६१ ।। नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया । कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ।। ६२ ।। पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् । समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ।। ६३ ।। श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् । ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ।। ६४ ।। प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् । मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि- गीतयुक्तः । नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे कमलासनाय ।। ६५ ।। भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन । आमोद मत्तरलिभिर्रिकूजत् पुष्पांजलिस्यात् पुरुषोत्तमाय ।। ६६ ।। सान्तानिकादि शिव संस्कृत रुद्रकन्या । नानाविधाभिनयकै रभिवर्धमानः । नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै । पुष्पाञ्जलिर्भवतु मे परमेश्वराय ।। ६७ ।। स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए । उत्सवे स्नपने मासपूजायां होमकर्मणि ।। ६८ ।। धजारोहण कलादौ काम्यादौ च विशिष्यते ।। ६८१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ।। ७४. चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु । आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ।। १ ।। महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः । संस्कारेण विशेषोऽयंजात्या वैशि.य मुच्यते ।। २ ।। ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि । प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ।। ३ ।। वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा । योगेन क्रियया वाथ चर्ययापि विशिष्यते ।। ४ ।। आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः । तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ।। ५ ।। आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च । दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ।। ६ ।। पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् । मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ।। ७ ।। परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः । स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ।। ८ ।। पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः । क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ।। ९ ।। अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः । ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ।। १० ।। पूजयेद्देव कल्याणे पवित्रारोहणादिके । सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ।। ११ ।। देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः । देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ।। १२ ।। तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् । सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ।। १३ ।। सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः । दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ।। १४ ।। सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् । पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ।। १५ ।। पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ।। १६ ।। सहमार्गी शिवार्चाग्नि जपहोमं परायणः । प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ।। १७ ।। दासमार्गी शिवोद्यानलिंग बिम्बालयादि कृत् । शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ।। १८ ।। एवं बहु प्रकारेण शैवैस्सह विचार्य च । एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ।। १९ ।। इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः पटलः ।। ७५. पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः व्याधिनाश विधानं तु वक्ष्ये संक्षेप्तः क्रमात् । सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ।। १ ।। गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् । ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ।। २ ।। क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने । वात पित्तकफोद्रेके दाहमोह वणोकटे ।। ३ ।। महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे । एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ।। ४ ।। आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते । पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ।। ५ ।। तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे । पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ।। ६ ।। देवालये नदीतीरे पर्वते काननेऽपि वा । अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ।। ७ ।। गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते । लिंगे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ।। ८ ।। शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् । गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ।। ९ ।। स्नपनेन समोपेतं पञ्चगव्यामृतादिना । संपूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ।। १० ।। अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा । सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ११ ।। तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् । मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ।। १२ ।। पठित्वा देवदत्तस्य पदं चात्र विशेषतः । एवं जपं विधायैत दिष्टदेवे निवेदयेत् ।। १३ ।। गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् । स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ।। १४ ।। तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके । कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ।। १५ ।। तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् । गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ।। १६ ।। होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा । कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ।। १७ ।। देवं कुंभं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः । होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ।। १८ ।। तत्कुंभसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः । तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ।। १९ ।। रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः । होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ।। २० ।। कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः । गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ।। २१ ।। नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा । शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ।। २२ ।। प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः । चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ।। २३ ।। मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् । यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ।। २४ ।। तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः । एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ।। २५ ।। वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह । बलिरेष समाख्यातो धूपदीपसमन्वितः ।। २६ ।। पताकास्वादुपानीय युक्तसाधारणो मतः । अथवान्य प्रकारेण व्याधिमोचनमुच्यते ।। २७ ।। लिंगादौ देवमभ्यर्च्य जपहोमौ समाप्य च । सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ।। २८ ।। तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् । दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ।। २९ ।। तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा । कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ।। ३० ।। रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः । कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ।। ३१ ।। पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् । अनेन विधिना रोगी अरोगी स्यान्न संशयः ।। ३२ ।। केवलं बलिदानं वा चतुर्मासान्तमेव वा । पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ।। ३३ ।। अथवान्य प्रकारेण व्याधिनाशनमुच्यते । अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ।। ३४ ।। ग्रहणे विषुवे वापि द्वयोरयनयोरपि । स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ।। ३५ ।। गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा । स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ।। ३६ ।। पञ्चविंशति संखायतान् पञ्चसंख्यानथापि वा । एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ।। ३७ ।। ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् । सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ।। ३८ ।। सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् । गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ।। ३९ ।। अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः । तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ।। ४० ।। होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा । शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ।। ४१ ।। तस्मात्तद्भस्म संग्राह्य व्याधितं स्नापयेद् गुरुः । गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ।। ४२ ।। तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् । निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ।। ४३ ।। स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् । प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ।। ४४ ।। कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा । राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ।। ४५ ।। साधयेच्छत संख्यातान् कलशाष्टक संयुतान् । पञ्चाशत् संख्यया तेभ्यो न हीनान् साधयेत्गुरुः ।। ४६ ।। कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते । मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ।। ४७ ।। अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः । आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ।। ४८ ।। अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् । शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ।। ४९ ।। सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके । होमेन समसख्यां वा जप तुल्यं परं मतम् ।। ५० ।। शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् । अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ।। ५१ ।। सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके । कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ।। ५२ ।। पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् । विधाय जपमात्रं वा गोरोचनयुतं तु वा ।। ५३ ।। शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः । संपूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ।। ५४ ।। स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना । लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ।। ५५ ।। दुर्बलो बलवान्धीर स्सर्वैस्संपूज्यते भुवि । कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ।। ५६ ।। नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे । प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ।। ५७ ।। जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः । पूजां होमं च वा नित्यं जपतर्पण संयुतम् ।। ५८ ।। एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते । बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ।। ५९ ।। अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः । तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ।। ६० ।। विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः । सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ।। ६१ ।। गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते । मध्ये वा गजशालायां शूलस्थाने मनोरमे ।। ६२ ।। शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च । विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ।। ६३ ।। नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके । गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ।। ६४ ।। स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः । लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ।। ६५ ।। स कूर्चं सापिधानं च गन्धोदक समन्वितम् । एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ।। ६६ ।। दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् । तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ।। ६७ ।। पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् । सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ।। ६८ ।। कपालशूल संयुक्तं धनुर्बाण समन्वितम् । ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ।। ६९ ।। एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् । पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ।। ७० ।। गन्ध पुष्प समायुक्तं धूपदीप समायुतम् । नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ।। ७१ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ।। ७२ ।। तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके । कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ।। ७३ ।। समिदाज्य चरूपेतं तिलतण्डुल संयुतम् । क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ।। ७४ ।। समिधस्संप्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः । संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।। ७५ ।। प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् । तद्भस्म संग्रहं कृत्वा देवं कुंभे विसर्जयेत् ।। ७६ ।। तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः । ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ।। ७७ ।। अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च । स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ।। ७८ ।। रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा । बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ।। ७९ ।। गजशाला समीपे वा होमस्थानेऽथवा बैः । एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ।। ८० ।। किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः । गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ।। ८१ ।। सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा । तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ।। ८२ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् । एककालं द्विकालं वा त्रिकालं वा विशिष्यते ।। ८३ ।। नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् । साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ।। ८४ ।। हयानां च गजानां च रक्षणं चान्यथोच्यते । तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ।। ८५ ।। कुंभेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते । अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ।। ८६ ।। तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः । व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ।। ८७ ।। तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् । तन्मध्ये द्रोण संपूर्णं कुंभं विन्यस्य देशिकः ।। ८८ ।। सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् । पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ।। ८९ ।। तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् । चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ।। ९० ।। नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा । ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ।। ९१ ।। समिदाज्य चरूपेतं तिलसर्षप लाजकैः । क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ।। ९२ ।। सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा । पञ्चाशत्संख्यया वाथ पञ्चविंशति संख्यया ।। ९३ ।। प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् । अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ।। ९४ ।। कुण्डद्वये वा होतव्यं एकस्मिन्स्थण्डिलेऽपि वा । पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ।। ९५ ।। पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् । साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ।। ९६ ।। अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः । कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ।। ९७ ।। अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः । पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ।। ९८ ।। रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः । स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ।। ९९ ।। पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् । महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ।। १०० ।। अन्नं मधुघृतोपेतं दधिलाज समन्वितम् । कदलीफल संयुक्त मपूपैश्च समन्वितम् ।। १०१ ।। नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् । दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ।। १०२ ।। विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः । अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ।। १०३ ।। क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् । तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ।। १०४ ।। अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् । तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ।। १०५ ।। दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः । गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ।। १०६ ।। तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् । आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ।। १०७ ।। शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् । कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ।। १०८ ।। व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले । केवलं तर्पणं वाथ पूजां हवन संयुताम् ।। १०९ ।। केवलं यजनं होमं बलिं नित्यं समाचरेत् । मर्त्यानामपि सर्वेषां एतत्सामान्यमुच्यते ।। ११० ।। होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् । केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ।। १११ ।। उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् । शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ।। ११२ ।। द्रोणपूर्णं समादाय कुम्भं बिंब समप्रभम् । तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ।। ११३ ।। तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते । तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ।। ११४ ।। तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् । विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ।। ११५ ।। फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् । एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ।। ११६ ।। छादयित्वा पिधानेन कल्पयेदासनं बुधः । आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ।। ११७ ।। अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् । तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ।। ११८ ।। कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः । मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ।। ११९ ।। तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् । अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ।। १२० ।। चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् । एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ।। १२१ ।। दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् । आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ।। १२२ ।। अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह । चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ।। १२३ ।। नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् । तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ।। १२४ ।। अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः । दत्वा स्वावरणोपेतं निरावरणमेव वा ।। १२५ ।। भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः । असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ।। १२६ ।। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः । तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ।। १२७ ।। अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् । गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ।। १२८ ।। नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् । अघोराय तदस्त्रय पानीयं च निवेदयेत् ।। १२९ ।। विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् । अघोराय तदस्त्राय संनिवेद्य जपं गुरुः ।। १३० ।। तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः । प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ।। १३१ ।। यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् । क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ।। १३२ ।। लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् । ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ।। १३३ ।। होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् । अघोरेण च तद्भस्म संग्राह्यास्त्रेण रक्षयेत् ।। १३४ ।। भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् । होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ।। १३५ ।। प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः । दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ।। १३६ ।। कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् । हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ।। १३७ ।। तस्मादुद्धृत्य कुंभं तु व्याधिस्थभिषेचयेत् । प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ।। १३८ ।। सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् । हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ।। १३९ ।। एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा । पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ।। १४० ।। प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् । यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ।। १४१ ।। पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा । तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ।। १४२ ।। एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये । महिषाज गवामेवं कारयेद्विजसत्तमाः ।। १४३ ।। अथोपयुक्तं यद् द्रव्यं आचार्याय प्रदापयेत् । प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ।। १४४ ।। तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः । एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ।। १४५ ।। होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् । गजानां वा हयानां वा शालायमङ्कणेऽपि वा ।। १४६ ।। तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् । शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ।। १४७ ।। संप्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् । वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ।। १४८ ।। गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् । वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ।। १४९ ।। हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् । अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ।। १५० ।। यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् । नोप सर्गभयं तत्र रोगपीडा न विद्यते ।। १५१ ।। उत्पन्नरोग नाशश्च भवत्येव न संशयः । कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ।। १५२ ।। अघोरस्य तदस्त्रस्य यजनं होम संयुतम् । वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ।। १५३ ।। आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः । अनेन सदृशो योगो दुरिक्षयहेतुकः ।। १५४ ।। नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ।। १५४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः पञ्चसप्ततितमः पटलः ।। ७६. षट्सप्ततितमे पटले राज रक्षा विधिः राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः । भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ।। १ ।। ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः । ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ।। २ ।। ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः । मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ।। ३ ।। ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु । दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ।। ४ ।। ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः । स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ।। ५ ।। सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः । प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ।। ६ ।। स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् । वौषडंतं तु शूद्राणां तद्देव ध्यान सम्युतम् ।। ७ ।। स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् । दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ।। ८ ।। स्वानुकूलानु संजप्तमथवा विनिवेदयेत् । यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ।। ७७. सप्तसप्ततितमे पटले दुर्गा पूजा विधिः दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् । लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ।। १ ।। कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ।। २ ।। आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता । सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ।। ३ ।। अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ।। ४ ।। सन्तर्जयति हुंकारैः खड्गोपान्तकरान् परान् । तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ।। ५ ।। सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते । भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ।। ६ ।। तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः । पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ।। ७ ।। गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने । प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ।। ८ ।। मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः । मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ।। ९ ।। राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च । पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ।। १० ।। तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः । तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ।। ११ ।। समिदाज्येन हविषा पायसेन च होमयेत् । हुतशेषं तुरङ्गानां गजानामुपहारयेत् ।। १२ ।। बद्ध प्रतिसरान् पञ्च गजाश्वान् समलंकृतान् । भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ।। १३ ।। प्रत्यहं नृपतिः स्वाः स्वाः संपूज्य पितृदेवताः । पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ।। १४ ।। नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः । हुतशेषं प्रदातव्यमौपनायनिके गजे ।। १५ ।। तस्यापि हरणे राज्ञो विजयस्समुदाहृतः । पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ।। १६ ।। यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्य वृद्धये ।। इति १७ ।। ओं छं छत्राय नमः गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः । ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ।। १८ ।। ओं तुं तुरङ्गाय नमः प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। १९ ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ।। २० ।। यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा । मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २१ ।। सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ।। २२ ।। निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम । रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। २३ ।। अं अश्वाय नमः इत्यश्वमन्त्रः शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः । पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ।। २४ ।। ओं ध्वं ध्वजाय नमः काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः । अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ।। २५ ।। गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः । साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ।। २६ ।। कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ।। २७ ।। आं गं गजाय नमः । एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः । भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ।। २८ ।। वने वने प्रसूतास्ते वनयोनिर्महागजः । पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ।। २९ ।। भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ।। ३० ।। श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् । स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ।। ३१ ।। युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः । अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ।। ३२ ।। हस्तिमन्त्रः ओं हं हस्तिने नमः हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः । नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ।। ३३ ।। प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह । गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ३४ ।। व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु । श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ।। ३५ ।। पतन्तु परिशत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ।। ३६ ।। हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा । शोभितासि तथैवाद्य शोभया समयं स्मर ।। ३७ ।। नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ।। ३८ ।। सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः । पूतना रेवती नाम कालरात्रीति याः स्मृताः ।। ३९ ।। दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ।। ३९१/२ ।। पताका मन्त्रः ओं पं पताकाय नमः । असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ।। ४० ।। श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।। ४१ ।। ओं खं खड्गाय नमः नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।। ४२ ।। पिता पितामहो देवस्त्वं मां पालय सर्वदा । शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ।। ४३ ।। रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते । ओं वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।। ४४ ।। तव भूमि प्रधानानां तथा विजयवर्द्धनः । यथा जीमूतघोषेण हृष्यन्ति परवारणाः ।। ४५ ।। तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः । यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ।। ४६ ।। तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे । ओं दुं दुन्दुभये नमः सर्वायुध महामात्र सर्वायुध निषूदन ।। ४७ ।। चाप मां सर्वदा रक्ष साकं सायकसत्तमैः । ओं चं चापाय नमः पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ।। ४८ ।। विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव । ओं शं शङ्खाय नमः शशांकाकार संकाश हिमपिण्डित पाण्डर ।। ४९ ।। प्रोत्साधयाशु दुरितं चामरामर वल्लभ । ओं चं चामराय नमः सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ।। ५० ।। शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ।। ५१ ।। त्वया विस्तारिता चासि देवानां प्रतिपादिता । सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ।। ५२ ।। क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते । ओं क्षुं क्षुरिकाय नमः प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ।। ५३ ।। ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये । यशो देहि सुखं देहि देवो हि भव भूपतेः ।। ५४ ।। ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते । ओं कं कनकदण्डाय नमः विजयी भव देवोऽसि रिपुधाती प्रियंकरः ।। ५५ ।। दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः । एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ।। ५६ ।। तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे । त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ।। ५७ ।। त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः । नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ।। ५८ ।। त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते । ओं सिं सिंहासनाय नमः लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ।। ५९ ।। फलनैवेद्य कुसुमैः धूपदीप विलेपनैः । अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ।। ६० ।। रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् । प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ।। ६१ ।। पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् । राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ।। ६२ ।। स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः । कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ।। ६३ ।। कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः । नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ।। ६४ ।। द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् । अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ।। ६५ ।। तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् । धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ।। ६६ ।। शङ्ख चक्र समायुक्तां सर्वालंकार भूषिताम् । वराक्षमालाः मखरां महिषासुर संस्थिताम् ।। ६७ ।। सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् । चतुर्भुजां वा संपूज्य वरदाभय संयुताम् ।। ६८ ।। शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् । नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ।। ६९ ।। एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये । घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ।। ७० ।। शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया । ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ।। ७१ ।। भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् । कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ।। ७२ ।। भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् । दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ।। ७३ ।। बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा । मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ।। ७४ ।। असुरा यातुधानाश्च मातृसर्प पिशाचकाः । डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ।। ७५ ।। जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः । दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।। ७६ ।। जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः । मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ।। ७७ ।। सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः । इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् । नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ।। ७८ ।। इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ।। ७८. अष्टसप्ततितमे पटले वाजि नीराजन विधिः शान्ति नीराजनाख्यं तु संप्रवक्ष्यामि वाजिनाम् । कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ।। १ ।। नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा । द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ।। २ ।। नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके । अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ।। ३ ।। विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता । विंशद्धस्त समायामायागशालेय मीरिता ।। ४ ।। षट् संमितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् । तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ।। ५ ।। गंभीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् । हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ।। ६ ।। आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् । अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ।। ७ ।। प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् । कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ।। ८ ।। संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः । प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ।। ९ ।। ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च । ततश्चाचल देवाय सेनान्यै धनदाय च ।। १० ।। नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् । जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ।। ११ ।। नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा । स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ।। १२ ।। तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् । विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ।। १३ ।। वाहनागार मागम्य ब्रह्मचर्यसमन्वितः । बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ।। १४ ।। सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः । कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ।। १५ ।। समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् । आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ।। १६ ।। दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् । ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ।। १७ ।। सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् । तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ।। १८ ।। कालद्वये प्रधानस्य तुरगस्य विशेषतः । पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।। १९ ।। निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः । अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ।। उत्तराषाढतरस्य सन्धाने श्रवणस्य च । नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ।। २१ ।। दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ । प्रदक्षिणोदके सौम्ये विशाले द्रुमसंकटे ।। २२ ।। तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् । विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ।। २३ ।। तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् । सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ।। २४ ।। गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह । प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ।। २५ ।। माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् । वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन संज्ञिमम् ।। २६ ।। हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् । स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ।। २७ ।। सहदेवीं नागपुष्पं कपिकच्छुकमेव च । शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ।। २८ ।। कुंभेषु वाष्ट संख्येषु वस्त्रादि सहितेषु च । गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ।। २९ ।। नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् । जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ।। ३० ।। वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः । वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखं ।। ३१ ।। अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके । आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ।। ३२ ।। शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् । श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ।। ३३ ।। होमशेषं तदा पिण्डं पयोदधि समन्वितम् । कदली फल संयुक्तं दद्याद्वाजि वराय च ।। ३४ ।। यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति । केवलस्थैस्तदा तोयै श्शाखयो दुंबरो त्थया ।। ३५ ।। प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः । राजानं हस्तिनं पश्चाच्चमूं संप्रोक्ष्य त्तदा ।। ३६ ।। शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् । आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ।। ३७ ।। हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् । राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ।। ३८ ।। एवमेव गजादीनां तदा नीराजनं नयेत् । किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ।। ३९ ।। पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् । गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ।। ४० ।। वेदिका चतुरश्रा च गजभूमिरथोच्यते । शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ।। ४१ ।। पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ।। ४२ ।। इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः पटलः ।। ७९. एकोनाशीतितमे पटले राज नीराजन विधिः कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे । वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ।। १ ।। ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः । वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ।। २ ।। बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा । संपूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ।। ३ ।। तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् । विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ।। ४ ।। गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः । नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ।। ५ ।। त्रासयन्विघ्नजालं च घण्टानाद महारवैः । नीराजयेद्विशेषेण राजानं देशिकोत्तमः ।। ६ ।। तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः । सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ।। ७ ।। नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् । रूपयौवन संपन्न वेश्याभिर्वाथ कारयेत् ।। ८ ।। यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः । तेषां राजा सुखं याति सुभिक्षं जायते तथा ।। ९ ।। चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ।। ९१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः पटलः ।। == अशीतितमे पटले पुष्याभिषेक विधिः == पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् । सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ।। १ ।। पुण्ये मनोरमे देशे रविहस्त प्रमाणतः । कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ।। २ ।। द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् । दर्पणोदरसंकाशं मण्डनैरुपशोभितम् ।। ३ ।। तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः । वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ।। ४ ।। चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् । पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ।। ५ ।। एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् । पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ।। ६ ।। उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः । कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ।। ७ ।। दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः । दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ।। ८ ।। आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ।। ९ ।। आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः । पूर्वं स्वपूजां संप्राप्य दत्वा शान्तिं महीपतेः ।। १० ।। एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् । शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ।। ११ ।। मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् । मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ।। १२ ।। यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः । पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ।। १३ ।। मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् । सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ।। १४ ।। तद्दक्षिणे विधातव्यं आसनं पाद संयुतम् । सोपान सहितं कुर्यादिष्टमान समन्वितम् ।। १५ ।। श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् । कुर्यात् प्रतिसरं रात्रौ सर्वालंकरा संयुतम् ।। १६ ।। प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् । चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ।। १७ ।। षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते । शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ।। १८ ।। नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः । भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ।। १९ ।। वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् । स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ।। २० ।। हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् । स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ।। २१ ।। पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः । उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ।। २२ ।। तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः । मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ।। २३ ।। हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् । श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ।। २४ ।। रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् । नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ।। २५ ।। अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः । पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ।। २६ ।। भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् । माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ।। २७ ।। पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् । द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ।। २८ ।। समन्तादेक भागेन वर्षकं स्यादिलावृतम् । एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ।। २९ ।। एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् । वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ।। ३० ।। तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् । श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ।। ३१ ।। पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् । अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ।। ३२ ।। जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः । जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ।। ३३ ।। शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः । बहिस्समुद्रा दीपाश्च सप्तसंख्याः प्रकीर्तिताः ।। ३४ ।। जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः । तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ।। ३५ ।। क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि । दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ।। ३६ ।। रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा । जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश संज्ञकः ।। ३७ ।। कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा । तस्माद् गोभेद संञश्च गोभेदात् पुष्कलं पुनः ।। ३८ ।। ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः । अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ।। ३९ ।। दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् । तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ।। ४० ।। सहस्रदश विस्तीर्णो देवानामाश्रमो मतः । हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ।। ४१ ।। ध्वजश्चण्डस्य कंलासः कदली बक एव च । वडवामुखो द्विपादः कारकः स्मृतः ।। ४२ ।। ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः । प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ।। ४३ ।। उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः । चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ।। ४४ ।। वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः । निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ।। ४५ ।। प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता । मांसेनान्नेन संपूज्य मद्यैः प्रतिसरादिभिः ।। ४६ ।। श्वेता चले दितसुता दानवाश्च समीरिताः । हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ।। ४७ ।। एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः । द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ।। ४८ ।। यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः । गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ।। ४९ ।। वामनश्च मरीचिश्च तथेक्षुप उदाहृतः । भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ।। ५० ।। दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः । मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ।। ५१ ।। देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः । वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ।। ५२ ।। स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः । चन्द्रतापन संज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ।। ५३ ।। स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः । आभिलोकः सुकेशश्च मलयो मलकस्तथा ।। ५४ ।। नयश्च नगमूर्धा च महोदर उदाहृतः । प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव संज्ञकः ।। ५५ ।। विरूपाक्षश्चरूपथो हरो राजा उदाहृतः । हिरण्य युक् शतमखश्शंबरश्शरभो मयः ।। ५६ ।। शरभयस्सूर्य संज्ञश्च चन्द्रमास्स उदाहृतः । चतुष्षष्टिश्च संज्ञानां पूजाश्चैषां च पूर्ववत् ।। ५७ ।। शृङ्गवत्यचले पूज्याः पितरसमुदाहृता । सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ।। ५८ ।। सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः । क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ।। ५९ ।। सप्तभिश्च गणैरेक विंशतिस्संख्यया मताः । अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ।। ६० ।। हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः । अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ।। ६१ ।। तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः । नीलाचले च ऋषयः संपूज्या काश्यपादयः ।। ६२ ।। काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ।। ६३ ।। पुलस्त्यः पुलहश्चैव क्रतुश्चैवांगिरा भृगुः । सनत्कुमारस्सनकः सनन्दश्च सनातनः ।। ६४ ।। दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च । द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ।। ६५ ।। कण्.वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः । शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ।। ६६ ।। च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः । यवक्रीतदेवरातौ देवराजोऽजकस्तथा ।। ६७ ।। चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः । ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ।। ६८ ।। निषधे पर्वते नाना अनन्ताद्या उदाहृतः । अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ।। ६९ ।। पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः । गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ।। ७० ।। सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् । देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ।। ७१ ।। धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ।। ७२ ।। अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ।। ७३ ।। सावित्रश्च जयन्तश्च पिनाकी चापराजितः । रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ।। ७४ ।। त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः । सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ।। ७५ ।। प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः । यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ।। ७६ ।। दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते । गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ।। ७७ ।। सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् । सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ।। ७८ ।। द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः । उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ।। ७९ ।। साधनश्चैव सन्धिश्च कुहरश्च करालकः । कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ।। ८० ।। हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः । अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ।। ८१ ।। ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः । स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ।। ८२ ।। रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश । मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ।। ८३ ।। घृतस्थला घृताची च विश्वाची पूर्वचित्तिका । प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ।। ८४ ।। रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः । दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ।। ८५ ।। अग्निभत्री च हेमा वै मेनका चोर्वशी ततः । चौर्विंशति संख्याताः सुगन्धैश्च् सुमाल्यकैः ।। ८६ ।। यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः । यक्षान्संपूज्येत्ते च महावैश्रवणस्तथा ।। ८७ ।। माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः । विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ।। ८८ ।। सर्ववर्णक बलिभिः पूज्य सूत्रादि कंददेत् । ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ।। ८९ ।। प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च । सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ।। ९० ।। एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः । दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ।। ९१ ।। नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह । ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ।। ९२ ।। सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् । संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ।। ९३ ।। दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै । आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ।। ९४ ।। बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ । एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ।। ९५ ।। पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे । धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ।। ९६ ।। उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ । भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ।। ९७ ।। वाराही वैष्णवी चैव कौमारी च ततो मताः । माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ।। ९८ ।। स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः । इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ।। ९९ ।। वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः । शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ।। १०० ।। पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि । आयता व्ययनी चैव प्रज्ञा मेना बला ततः ।। १०१ ।। एताः सुरस्त्रियः प्रोक्ता स्संख्यया च चतुर्दश । नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ।। १०२ ।। प्रतिसरं च वस्त्रं च पताका भूषणं तथा । यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ।। १०३ ।। सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः । ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ।। १०४ ।। ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् । अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ।। १०५ ।। संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश । सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ।। १०६ ।। ज्योतिष्टोमत्रयं पूर्वं अभया चापराजिता । जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ।। १०७ ।। सहा च सहदेवा च पूर्णकोशा शतावरी । अरिष्टा च शिवा भद्रा कुंभेष्वेतानि विन्यसेत् ।। १०८ ।। ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् । मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ।। १०९ ।। रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् । प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ।। ११० ।। आदावाडुहं चर्म जरया संभृतायुषः । प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ।। १११ ।। ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् । सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ।। ११२ ।। चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् । पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ।। ११३ ।। तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् । सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ।। ११४ ।। सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा । सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ।। ११५ ।। अनन्तरचितं मध्यमेवं वा परिकल्पयेत् । श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य संमतम् ।। ११६ ।। तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे । कृतस्नानं विलिप्ताङ्गं सर्वालंकार संयुक्तम् ।। ११७ ।। निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु । दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ।। ११८ ।। वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् । गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ।। ११९ ।। अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः । कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ।। १२० ।। आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् । आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ।। १२१ ।। भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् । सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ।। १२२ ।। उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः । विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ।। १२३ ।। अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः । सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।। १२४ ।। ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः । आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ।। १२५ ।। अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती । कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ।। १२६ ।। नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ।। १२७ ।। सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः । अदितिस्सुरसा चैव विनता कद्रुरेव च ।। १२८ ।। देव पत्न्यश्च याश्चोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ।। १२९ ।। वैमानिकास्सुरगणा मनवस्सागरैस्सह । सरितश्च महाभागाः किन्नराः पुरुषास्तथा ।। १३० ।। वैखानसा महाभागा द्विजा वैहायसाश्चये । सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ।। १३१ ।। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ।। १३२ ।। सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः । एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ।। १३३ ।। दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा । मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ।। १३४ ।। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः । द्वैपायनो यवक्रीतो देवरातस्सहानुजः ।। १३५ ।। एते वान्ये च बहवः पुण्यसंकीर्तनाशुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ।। १३६ ।। एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः । महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ।। १३७ ।। जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः । जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ।। १३८ ।। अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः । कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ।। १३९ ।। ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् । आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ।। १४० ।। ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् । अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ।। १४१ ।। परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् । सर्वालंकार संयुक्तं होमवेदीं प्रविश्य च ।। १४२ ।। वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च । सिंहस्य व्याघ्र संज्ञस्य चर्माण्यास्तीर्य तत्र च ।। १४३ ।। कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः । होमंकुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ।। १४४ ।। पलाश समिधो मृत्युजित्परमो मतः । होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ।। १४५ ।। यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ।। १४६ ।। तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् । नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ।। १४७ ।। ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः । प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ।। १४८ ।। दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः । ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ।। १४९ ।। सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये । सार्वभौम प्रसिद्ध्यर्थं आयुरारोग्यसिद्धये ।। १५० ।। सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु । पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ।। १५१ ।। इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः पटलः ।। == एकाशीतितमे पटले ग्रह यज्ञ विधिः == ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् । सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ।। १ ।। नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा । पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ।। २ ।। अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः । राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ।। ३ ।। प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः । तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ।। ४ ।। दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् । ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ।। ५ ।। भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ।। ६ ।। कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च । ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ।। ७ ।। सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा । दीपः प्रोक्ततस्तु नैवेद्यं शलि संभव मुच्यते ।। ८ ।। चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् । कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ।। ९ ।। होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् । अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ।। १० ।। अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् । पलाशः खदिरो वाथ स्वस्मित् कुश संभवे ।। ११ ।। क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ । स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ।।१२ ।। होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ।। १३ ।। इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ।। == द्वयशीतितमे पटले प्रतिसर विधिः == राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि । निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ।। १ ।। विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः । स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ।। २ ।। श्वेत तण्डुल संपूर्णं पुण्याह प्रोक्षणान्वितम् । यज्ञ सूत्रं च वलयं अङ्गुलीयकमेव च ।। ३ ।। कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् । प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ।। ४ ।। संपूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् । ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ।। ५ ।। वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् । बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ।। ६ ।। कौतुकं हृदयेनैव तेनैव भसितं तथा । चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ।। ७ ।। मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् । ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ।। ८ ।। दूर्वाग्रं केवलं निर्मितं राजतं तु वा । आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ।। ९ ।। पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः । सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ।। १० ।। मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः । पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ।। ११ ।। कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् । सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ।। १२ ।। सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् । पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ।। १३ ।। दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् । बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ।। १४ ।। सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः । ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ।। १५ ।। बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् । नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ।। १६ ।। समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः । देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ।। १७ ।। ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः । अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ।। १८ ।। अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् । इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः पटलः ।। == त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः == वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये । ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ।। १ ।। ग्रहणादिषुकालेषु शुभे देशे विशेषतः । हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ।। २ ।। कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् । नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ।। ३ ।। विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् । तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ।। ४ ।। चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् । दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ।। ५ ।। अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् । सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ।। ६ ।। बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये म्तः । पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ।। ७ ।। एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते । सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ।। ८ ।। उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् । अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ।। ९ ।। पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् । पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ।। १० ।। द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् । तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ।। ११ ।। अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् । षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ।। १२ ।। अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः । षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ।। १३ ।। अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् । तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ।। १४ ।। ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् । मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ।। १५ ।। जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् । उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ।। १६ ।। शङ्कुं सुषिर संपन्नं वलयेन समन्वितम् । सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ।। १७ ।। एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ । चतुष्कुण्डल संयुक्तौ हस्तप्रमाण संमितौ ।। १८ ।। प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि । यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ।। १९ ।। स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् । कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ।। २० ।। खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् । तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ।। २१ ।। एवं सर्वं समापाद्य शिल्पिमोक्षावसानके । पुण्याहं वाचयित्वा तु मण्डपे समलंकृते ।। २२ ।। मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते । मण्डलं कारयेद्धीमान् सर्वतोभद्र संज्ञंकम् ।। २३ ।। वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च । शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ।। २४ ।। मध्यमे देवदेवेशं वामे गौरी समायुतम् । संपूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ।। २५ ।। वाम् संपूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् । सूर्यं मध्येऽग्नि देशे तु भारकरंनै-ऋतेऽथवा ।। २६ ।। भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् । उषां प्रभां तथा प्रज्ञां संन्ध्यां सावित्रिमर्चयेत् ।। २७ ।। मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् । विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ।। २८ ।। प्रभूतं विमलं सारमारध्यं पूर्वदेशतः । उत्तरान्तं च संपूज्य सुखं मध्ये प्रजूजयेत् ।। २९ ।। बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् । रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ।। ३० ।। दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः । सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ।। ३१ ।। ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते । प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ।। ३२ ।। गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः । स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ।। ३३ ।। शिवाग्निं स्वस्व शास्त्रोक्तं संपाद्याग्नि मुखान्वितम् । लोकेश सहितं देवं समावाह्य समर्चयेत् ।। ३४ ।। नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् । समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ।। ३५ ।। शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः । शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ।। ३६ ।। क्षीराक्त दूर्वयाहोमं पञ्चविंशति संख्यया । मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ।। ३७ ।। बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् । मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ।। ३८ ।। पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् । सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ।। ३९ ।। महा पूजा च कर्तव्या प्रभूत हविषान्विता । पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।। ४० ।। ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् । आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ।। ४१ ।। सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् । कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ।। ४२ ।। आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् । पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ।। ४३ ।। सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् । रुद्रगायत्रि संज्ञंतु यजमानस्तदा जपेत ।। ४४ ।। घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् । पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ।। ४५ ।। आलोक्य काञ्चनंतत्स्थं कूर्च हस्तो हरंस्मरन् । वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ।। ४६ ।। जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि । स्वकायेन तदायेन तुलारोहः कृतोभवेत् ।। ४७ ।। शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् । देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ।। ४८ ।। देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः । होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ।। ४९ ।। शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु । ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ।। ५० ।। यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् । शिवार्चकस्य पूजा च प्राग्व देव समीरिता ।। ५१ ।। तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क संमिता । तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।। ५२ ।। मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् । देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ।। ५३ ।। तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् । यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ।। ५४ ।। एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ।। ५५ ।। इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः पटलः ।। == चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः == हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् । कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ।। १ ।। तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा । त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ।। २ ।। द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् । वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ।। ३ ।। तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् । एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ।। ४ ।। एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् । पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ।। ५ ।। विकारांशं तु तन्कृत्वा एकैकांश विवर्धनात् । अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ।। ६ ।। अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः । त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ।। ७ ।। पादुकोत्सेधमानं तु तदर्धं पादमेव वा । त्रिपादं वा समं वापि फलकाधनमिष्यते ।। ८ ।। पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः । मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ।। ९ ।। शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् । आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ।। १० ।। स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् । कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ।। ११ ।। तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् । नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ।। १२ ।। प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि । ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ।। १३ ।। गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् । पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ।। १४ ।। प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् । छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ।। १५ ।। तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः । कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ।। १६ ।। कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् । आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ।। १७ ।। भार्यादक्षपुटे दूर्वारससेचन माचरेत् । एकविंशति संख्यातानुदुम्बर फलान्वितान् ।। १८ ।। कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च । त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ।। १९ ।। भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् । भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ।। २० ।। हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् । अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ।। २१ ।। एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ।। २१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः पटलः ।। == पञ्चशीतितमे पटले तिलपर्वतदान विधिः == तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः । पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ।। १ ।। बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् । पञ्चगव्येन संप्रिक्ष्य मण्डलं मध्यकल्पितम् ।। २ ।। संछाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च । पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ।। ३ ।। वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः । तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ।। ४ ।। दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा । कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ।। ५ ।। दण्डमानसमं वाथ हीनं नैव समाचरेत् । वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ।। ६ ।। देशं संक्ल्पयित्वा तु पूयत्तु विशेषतः । निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ।। ७ ।। शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् । तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ।। ८ ।। अर्चयेच्च विधानज्ञो यजमानेन देशिकः । दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ।। ९ ।। अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः । अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ।। १० ।। अत्रानुक्तं तु यत् किंचिदर्चनं होममेव वा । स्नपनं देव देवस्य सहस्रकलशादिभिः ।। ११ ।। प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् । विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ।। १२ ।। दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् । अस्मात्परतरं दानं नास्तीह भुवनत्रये ।। १३ ।। अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् । सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ।। १४ ।। गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः । तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ।। १५ ।। कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् । दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ।। १६ ।। तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् । तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ।। १७ ।। अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु । अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ।। १८ ।। कृत्वा संपूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् । दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ।। १९ ।। ।। इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः पटलः ।। == षड्शीतितमे पटले सुवर्ण भूमिदान विधिः == सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः । काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ।। १ ।। एकहस्त प्रमाणेन सप्तद्वीपसमन्विता । समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ।। २ ।। मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा । अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ।। ३ ।। पूर्ववद्देवपूजां च होमं चैव विशेषतः । मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ।। ४ ।। सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् । पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ।। ५ ।। शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ।। ५१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः पटलः ।। == सप्ताशीतितमे पटले कल्पपादपदान विधिः == कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः । पादपं शतनिष्केण सुवर्णे समाचरेत् ।। १ ।। बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् । नानाफलसमायुक्तं सर्वशोभासमन्वितम् ।। २ ।। शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् । छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ।। ३ ।। कारयेत् पल्लवानीह प्रवालैश्च विशेषतः । फलानि पद्मरागैश्च विविधानि समाचरेत् ।। ४ ।। नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् । वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ।। ५ ।। मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा । स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ।। ६ ।। इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु । वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।। ७ ।। शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा । स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ।। ८ ।। मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् । पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ।। ९ ।। लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः । ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ।। १० ।। अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ।। ११ ।। इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः पटलः ।। == अष्टाशीतितमे पटले गणेश दान विधिः == गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् । पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ।। १ ।। तन्मध्यमे यजेद्देवं लोकपाल समावृतम् । तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ।। २ ।। सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् । तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ।। ३ ।। प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च । ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ।। ४ ।। उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः । तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ।। ५ ।। अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ।। ६ ।। इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः पटलः ।। == एकोननवतितमे पटले हेम धेनुदान विधिः == हेम धेनु प्रदानं तु वक्ष्ये संक्षेपतः क्रमात् । सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ।। १ ।। काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः । तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ।। २ ।। गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् । पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ।। ३ ।। भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके । पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ।। ४ ।। गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च । वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ।। ५ ।। वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् । सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ।। ६ ।। पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः । अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ।। ७ ।। अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् । क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ।। ८ ।। त्रिंऽसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने । अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ।। ९ ।। इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः पटलः ।। == नवतितमे पटले लक्ष्मीदान विधिः == महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते । काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् । अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ।। २ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ।। ३ ।। श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् । विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ।। ४ ।। पूजयेच्छिव पूजां च होमं चैव विशेषतः । एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ।। ५ ।। स्नपनं देव देवस्य सहस्र कलशादिभिः । पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ।। ६ ।। इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ।। == एकनवतितमे पटले तिलधेनु दान विधिः === तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् । पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ।। १ ।। तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् । अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ।। २ ।। वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् । त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ।। ३ ।। पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् । तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र संख्यया ।। ४ ।। रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् । विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ।। ५ ।। दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् । षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ।। ६ ।। अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च । पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ।। ७ ।। प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः । तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ।। ८ ।। इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु । हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ।। ९ ।। प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। १० ।। तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च । केवलं रुद्रदानं वा सूर्यदान मथापि वा ।। ११ ।। मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् । पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ।। १२ ।। दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ।। १२१/२ ।। इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः ।। == द्विनवतितमे पटले सहस्रगोदान विधिः == गवां सहस्र संख्यानां दानं वक्ष्यामि सिद्धये । सवत्सस्सगुणा एव संग्राह्या गुणवत्तराः ।। १ ।। अष्टौ संपूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः । शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ।। २ ।। कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः । मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।। ३ ।। पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् । स्नपनं च शिवस्याथ सहस्र कलशादिभिः ।। ४ ।। शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् । दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ।। ५ ।। दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते । गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ।। ६ ।। गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् । अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ।। ७ ।। इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः ।। == त्रिनवतितमे पटले हिरण्याश्व दान विधिः == हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते । अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ।। १ ।। अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः । अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ।। २ ।। पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् । सर्वालंकार संयुक्तं कलाद्यैश्च समन्वितम् ।। ३ ।। मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ।। ४ ।। गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् । सुरेन्द्र बुद्ध्या संपूज्य पञ्च निष्कं प्रदाय च ।। ५ ।। दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः । मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ।। ६ ।। इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः ।। == चतुर्नवतितमे पटले कन्यादान विधिः == सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः । सर्व लक्षण संपन्नां दोष विवर्जिताम् ।। १ ।। विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् । दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ।। २ ।। उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः । संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ।। २३ ।। संभूष्य कन्यकां दद्याद्यागाय विधिनामुना । पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।। २४ ।। तत्र संपूज्य देवेशं कुर्यात् होमं च पूर्ववत् । नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ।। २५ ।। संपूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः । पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ।। ६ ।। ग्रहोपकरणोपेतं दासी दासमनुत्तमम् । दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ।। ७ ।। एवं यः कारयेद्दानं कन्यायास्सुखमेधते । कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ।। ८ ।। इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः ।। == पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः == हिरण्योक्ष प्रदानं तु संक्षेपेणाधुनोच्यते । काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ।। १ ।। तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः । वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ।। २ ।। स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् । कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ।। ३ ।। घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् । वृषाङ्गं कारयेद् विद्वान् किंकिणी मालयावृतम् ।। ४ ।। पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् । तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ।। ५ ।। गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् । पूर्ववच्छिवपूजा च होमं चैव विशेषतः ।। ६ ।। शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् । समिदाज्य चरूपेतं शान्ति होममथापि वा ।। ७ ।। चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ।। ८ ।। इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः पटलः ।। == षण्णवतितमे पटले गजदान विधिः == अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः । गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ।। १ ।। सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः । अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ।। २ ।। पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् । गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ।। ३ ।। पूर्ववच्छिव पूजा च होमयेच्च विशेषतः । शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ।। ४ ।। अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ।। ४१/२ ।। इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ।। == सप्तनवतितमे पटले लोकपालाष्टकदान विधिः == अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् । प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ।। १ ।। पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः । शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ।। २ ।। उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् । अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ।। ३ ।। एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् । दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ।। ४ ।। वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा । अत्रानुक्तं तु यत् किंचित् तुलाभारवदाचरेत् ।। ५ ।। लोकेशादनमेव स्यात् सर्वसंपत् समृद्धिदम् । परचक्रप्रमथनं गजवाजिविवर्धनम् ।। ६ ।। पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ।। इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः सप्तनवतितमः पटलः ।। == अष्टनवतितमे पटले स्दानोत्तम विधिः == सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् । मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ।। १ ।। प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् । मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ।। २ ।। गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः । ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ।। ३ ।। शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः । चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ।। ५ ।। तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् । शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ।। ६ ।। पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् । अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ।। ७ ।। इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ।। m5tkan9q3dnnlvmwvnmu7qmsf2r0g3x विक्रमोर्वशीयम्/द्वितीयोऽङ्कः 0 165950 418659 418651 2026-09-29T14:23:19Z शशाङ्कः सि जि 10187 418659 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = द्वितीयोऽङ्कः | previous = [[../प्रथमोऽङ्कः|प्रथमोऽङ्कः]] | next = [[../तृतीयोऽङ्कः|तृतीयोऽङ्कः]] | notes = }} {{center|{{bold|द्वितीयोऽङ्कः}}}}
(ततः प्रविशति विदूषकः)
{{bold|विदूषकः -}} अविद अविद भोः‍, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः ।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेऽकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]
(ततः प्रविशति चेटी ।)
{{bold|चेटी -}} आणत्तम्हि देवीए कासिराअदुहिदाए जधा - हञ्जे णिउणिए! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अज्जमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हबंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा — यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य! वन्दे ।
{{bold|विदूषकः -}} सत्थि भोदीए । (आत्मगतम्) एवं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् ।) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि?]
{{bold|चेटी -}} देवीए वअणेण अज्जं एव्व पेक्खिदुम् । [देव्या वचनेनार्यमेव प्रेक्षितुम् ।]
{{bold|विदूषकः -}} किं तत्तभोदी आणवेदी? [किं तत्रभवती आज्ञापयति?]
{{bold|चेटी -}} देवी भणादि जधा - अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [देवी भणति यथा - आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]
{{bold|विदूषकः -}} णिउणिए! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम्? [निपुणिके! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम्?]
{{bold|चेटी -}} जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता ।]
{{bold|विदूषकः -}} (स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्भेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम्) किं तत्तभोदा उव्वसीणामघेएण आमन्तिदा? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता?]
{{bold|चेटी -}} अज्ज! का सा उव्वसी? [आर्य! का सा उर्वशी?]
{{bold|विदूषकः -}} अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि बम्हणं असितव्यविमुखं दृढं पीडयति । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]
{{bold|चेटी -}} (स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एवं णिवेदेमि । [उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि ।] (इति प्रस्थिता)
{{bold|विदूषकः -}} णिउणिए! विण्णावेहि मम वअणेण कासिराअदुहिदरम् - परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [निपुणिके! विज्ञापय मम वचनेन काशिराजदुहितरम् - परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]
{{bold|चेटी -}} जं अज्जो आणवेदि । (इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।]
(नेपथ्ये वैतालिकः)
जयतु जयतु देवः -
{{bold|<poem>आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः । तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १ ॥</poem>}} {{bold|विदूषकः –}} (कर्णं दत्वा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि । [एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्त्ती भवामि ।]
(इति निष्क्रान्तः ।)
{{bold|प्रवेशकः ।}}
(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)
{{bold|राजा -}} {{bold|<poem>आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् । बाणेन मकरकेतोः कृतमार्गमबन्ध्यपातेन ॥ २ ॥</poem>}} {{bold|विदूषकः -}} सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा । [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]
{{bold|राजा -}} (निरीक्ष्य) रक्ष्यते भवता रहस्यनिक्षेपः?
{{bold|विदूषकः –}} (आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो । [वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः ।]
{{bold|राजा -}} किं भवांस्तूष्णीमास्ते ।
{{bold|विदूषकः -}} भो! एव्वं मए जीहा संजन्तिदा जेण भवदो वि णत्थि पडिवअणम् । [भोः! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]
{{bold|राजा -}} युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि?
{{bold|विदूषकः -}} भो! महाणसं गच्छम्ह । [भो! महानसं गच्छावः ।]
{{bold|राजा -}} किं तत्र?
{{bold|विदूषकः -}} तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]
{{bold|राजा -}} तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः? ।
{{bold|विदूषकः -}} णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः ।]
{{bold|राजा -}} ततः किम् ।
{{bold|विदूषकः -}} ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि ।]
{{bold|राजा -}} पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।
{{bold|विदूषकः -}} एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अहुदीआ रूएण; अहं विअ विरूवदाए? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया?]
{{bold|राजा -}} माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि । तेन हि समासतः श्रूयताम् ।
{{bold|विदूषकः -}} भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]
{{bold|राजा -}} {{bold|<poem>आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥</poem>}} {{bold|विदूषकः -}} अदो दाव तुए दिव्वरसाहिलासिणा जादुअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो? । [अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः?]
{{bold|राजा -}} विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।
{{bold|विदूषकः -}} (आत्मगतम्) का गई! [का गतिः!] (प्रकाशम्) इदो इदो भवम् । [इत इतो भवान् ।]
(इति परिक्रामतः ।)
{{bold|विदूषकः -}} एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्खिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]
{{bold|राजा -}} (विलोक्य) उपपन्नं विशेषणमस्य वायोः । अयं हि -
{{bold|<poem>निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् । स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥</poem>}} {{bold|विदूषकः -}} सरिसो एव्व से अहिणिवेसो [सदृश एवास्याभिनिवेशः] (इति परिक्रामन्) एदं पमदवणम् [इदं प्रमदवनम्] पविसदु भवम् । [प्रविशतु भवान् ।]
{{bold|राजा -}} वयस्य! प्रविशाग्रतः ।
(उभौ प्रवेशं नाटयतः ।)
{{bold|राजा -}} (त्रासं रूपयित्वा) वयस्य! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् । {{bold|<poem>विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये । स्रोतसेवोह्यमानस्य प्रतीपतरणं महत् ॥ ५ ॥</poem>}} {{bold|विदूषकः -}} कहं विअ? [कथमिव ?]
{{bold|राजा -}} {{bold|<poem>इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डुपत्रैः उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥</poem>}} {{bold|विदूषकः -}} अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्टसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]
{{bold|राजा -}} प्रतिगृहीतं ब्राह्मणवचनम् ।
(इति परिक्रामतः ।)
{{bold|विदूषकः —}} पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]
{{bold|राजा -}} नूनं प्रतिपदमेव तावदवलोकयामि । अत्र हि - {{bold|<poem>अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ७ ॥</poem>}} {{bold|विदूषकः –}} एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदामण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो । [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।
{{bold|राजा -}} यदभिरोचते भवते । (इत्युपविशतः ।)
{{bold|विदूषकः —}} दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उक्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान्!]
{{bold|राजा -}} (निःश्वस्य ) {{bold|<poem>बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु । चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥</poem>}} तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।
{{bold|विदूषकः -}} (विहस्य) भो! अहल्लाकामुअस्स इन्दस्स व सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुबे वि एत्थ उम्मत्ताअ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]
{{bold|राजा -}} न खलु चिन्तयति भवान् ।
{{bold|विदूषकः -}} (चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधिं भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो! अहं कज्जदंसी । [एष चिन्तयानि । मा पुनः परिदेवितैः समाधिं भङ्क्ष्यसि । अहो! अहं कार्यदर्शी ।]
{{bold|राजा -}} {{bold|<poem>असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥</poem>}} (इति मदनोत्सुकस्तिष्ठति ।)
(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च )
{{bold|चित्रलेखा -}} सहि उव्वसि! कहिं क्खु अणिदिट्टकालणं गच्छीअदि? [सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते?]
{{bold|उर्वशी -}} (मदनवेदनामभिनीय सलज्जम्) सहि! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति मए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]
{{bold|चित्रलेखा -}} किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि?]
{{bold|उर्वशी -}} एसो मे अवहत्थिदलज्जो व्यवसाओ । [एषो ममापहस्तितलज्जो व्यवसायः ।]
{{bold|चित्रलेखा -}} सहि! तधा वि संपधारीअदु दाब । को उण सहीए तहिं पढमं पेसिदो? [सखि! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषितः?]
{{bold|उर्वशी -}} णं हिअअम् । (ननु हृदयम् ।)
{{bold|चित्रलेखा -}} को णु तुमं णिओजेदि? [को नु त्वां नियोजयति?]
{{bold|उर्वशी -}} मअणो क्खु मं णिओजेदि । [मदनः खलु मां नियोजयति ।]
{{bold|चित्रलेखा -}} अदो अवरं णत्थि मे वअणम् । [ अतः अपरं नास्ति मे वचनम् ।]
{{bold|उर्वशी -}} तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]
{{bold|चित्रलेखा -}} सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहाबन्धणं विज्जं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [सखि विस्रब्धा भव! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनीं विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः ।]
{{bold|उर्वशी -}} (सलज्जम्) ताए पओअं सव्वं सुमरेसि? [तस्याः प्रयोगं सर्वं स्मरसि?]
{{bold|चित्रलेखा -}} सहि ! हिअअं एदं सव्वं जानादि । [सखि! हृदयं एतत् सर्वं जानाति ।]
(उभे भ्रमणं रूपयतः)
{{bold|चित्रलेखा -}} सहि! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उवगद म्ह । [सखि! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्य राजर्षेर्भवनमुपगते खः ।]
{{bold|उर्वशी -}} (सस्पृहमवलोक्य) । णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । (विचार्य) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे? [ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । (विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ?]
{{bold|चित्रलेखा -}} एदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो । [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]
(उभे अवतरतः)
{{bold|चित्रलेखा -}} (राजानं दृष्ट्वा सहर्षम्) सहि! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]
{{bold|उर्वशी -}} (विलोक्य) हला! दाणिं पढमसणादो वि सविसेसं पिअदंसणो मे महाराओ पडिभादि [हला! इदानीं प्रथमदर्शनादपि सविशेषं प्रियदर्शनों मे महाराजः प्रतिभाति ।]
{{bold|चित्रलेखा -}} जुज्जुदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः ।]
{{bold|उर्वशी -}} ण दाव उवसप्पिस्तम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ सुणिस्सं दाव पासवनिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये । तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने किम् मन्त्रयन् तिष्ठतीति ।]
{{bold|चित्रलेखा -}} जहा दे रोअदि । [यथा ते रोचते ।]
(उभे यथोक्तमनुतिष्ठतः)
{{bold|विदूषकः -}} भो! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ । [भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
(राजा तूष्णीमास्ते)
{{bold|उर्वशी -}} का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]
{{bold|चित्रलेखा -}} झाणस्स किं बिलम्बीअदि? [ध्यानाय किं विलम्ब्यते?]
{{bold|उर्वशी -}} सहि! भीआमि सहसा पहावादो विण्णादुम् । [सखि! बिभेमि सहसा प्रभावतो विज्ञातुम् ।]
{{bold|विदूषकः -}} भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोबाओ [भोः! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
{{bold|राजा -}} वयस्य! कथ्यताम् ।
{{bold|विदूषकः -}} सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्वसीए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नसमागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]
{{bold|उर्वशी -}} (सहर्षम्) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} तदुभयमप्यनुपपन्नम् । {{bold|<poem>हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥</poem>}} {{bold|चित्रलेखा -}} सहि, सुदं तुए वअणम्? [सखि! श्रुतं त्वया वचनम्?]
{{bold|उर्वशी -}} सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]
{{bold|विदूषकः -}} एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]
{{bold|राजा -}} (सनिःश्वासम्) {{bold|<poem>नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम् । अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥</poem>}} {{bold|चित्रलेखा -}} सुदं तुए? [श्रुतं त्वया?]
{{bold|उर्वशी -}} हद्धी हद्धी! मं वि एव्वं अवगच्छदि । सहि! अममत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम् । ता पहावणिम्मिदेण भुज्जवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]
{{bold|चित्रलेखा -}} अणुमदं मे । [अनुमतं मे ।]
(उर्वशी नाट्येनाभिलिख्य क्षिपति)
{{bold|विदूषकः -}} अविद अविद भो, किं णु एदम् । भुअङ्गणिम्मोओ किं मं खादिदुं णिवडिदो [अविदाविद भोः! किं न्वेतत्! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः?]
{{bold|राजा -}} (दृष्ट्वा) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः ।
{{bold|विदूषकः -}} णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं सुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआइं भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः ।]
{{bold|राजा -}} नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम्) सखे! प्रसन्नस्ते तर्कः ।
{{bold|विदूषकः -}} जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]
{{bold|उर्वशी -}} साहु साहु अज्ज! णाअरोसि । [साधु साधु आर्य! नागरोऽसि ।]
{{bold|राजा -}} श्रूयताम् —
(इति वाचयति) <poem>सामिअ संभावितआ जह अहं तए अमुणिआ तह अ अणुरत्तस्स सुहअ एअमेअ तुह । णवरि अ मे ललिअपारिआअसअणिज्जम्मि होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥ १२ ॥</poem> {{bold|<poem>[स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री तथा चानुरक्तस्य सुभग एवमेव तव । अनन्तरं च मे ललितपारिजातशयनीये भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥ १२ ॥]</poem>}} {{bold|उर्वशी -}} किं णु संपदं भणिस्सदि? [किं नु साम्प्रतं भणिष्यति?]
{{bold|चित्रलेखा -}} किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः ।]
{{bold|विदूषकः -}} दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]
{{bold|राजा -}} समाश्वासनमिति किमुच्यते । {{bold|<poem>तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः । उत्पक्ष्मलं मम सखे मदिरेक्षणायास्तस्याः समागतमिवाननमाननेन ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} एत्थ णो समभाआ मदी । [अत्रावयोः समभागा मतिः ।]
{{bold|राजा -}} वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः ।
{{bold|विदूषकः -}} (गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]
{{bold|उर्वशी -}} हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [सखि! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]
{{bold|चित्रलेखा -}} तहा । [तथा ।] (इति तिरस्करिणीमपनीय राजानमुपसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सम्भ्रमादरगर्भम्) स्वागतं भवत्यै (पार्श्वमवलोक्य) भद्रे! {{bold|<poem>न तथा नन्दयसि मां सख्या विरहिता तया । सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥</poem>}} {{bold|चित्रलेखा -}} णं पढमं मेहराई दीसदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते, पश्चाद्विद्युल्लता ।]
{{bold|विदूषकः -}} (अपवार्य) कहं ण एसा उव्वसी उवगदा! तत्तभोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [कथं नैषा उर्वश्युपगता! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]
{{bold|<poem>राजा -</poem>}} एतदासनमास्यताम् ।
{{bold|चित्रलेखा -}} उव्वसी महाराअं सिरसा पणमिअ विण्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]
{{bold|राजा -}} किमाज्ञापयति —
{{bold|चित्रलेखा -}} मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होम । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]
{{bold|राजा -}} अयि सखि! {{bold|<poem>पर्युत्सुकां कथयसि प्रियदर्शनां तामार्तिं न पश्यसि पुरूरवसतदर्थाम् । साधारणोऽयमुभयोः प्रणयो यतस्व तां कौमुदीमिव समागमयेन्दुबिम्वे ॥ १५ ॥</poem>}} {{bold|चित्रलेखा -}} (उर्वशीमुपेत्य) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवृत्ता । [सखि! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता ।]
{{bold|उर्वशी -}} (तिरस्करिणीमपनीय) अयि अणवत्थिदे! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते! लघु एव त्वया परित्यक्तास्मि ।]
{{bold|चित्रलेखा -}} (सस्मितम्) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]
{{bold|उर्वशी -}} (ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सहर्षम्) सुन्दरि! {{bold|<poem>मया नाम जितं यस्य त्वयायं समुदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥</poem>}} (हस्ते गृहीत्वा आसन उपवेशयति ।)
{{bold|विदूषकः -}} कीदिसी त्थिदी भोदीए रज्जे । पिअवअस्सो बम्हणो ण बन्दीअदि । [कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते ।]
(उर्वशी सस्मितं प्रणमति ।)
{{bold|विदूषकः -}} सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
{{bold|देवदूतः -}} चित्रलेखे! त्वरयोर्वशीम् — {{bold|<poem>मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥</poem>}} (सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)
{{bold|चित्रलेखा -}} सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि महाराअम् । [श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् ।]
{{bold|उर्वशी -}} (निःश्वस्य) णत्थि मे वाआविहवो । [नास्ति मे वाग्विभवः ।]
{{bold|चित्रलेखा -}} महाराअ! उव्वसी विण्णवेदि - परवसो अअं जणो । महाराएण अब्भणुण्णादा इच्छामि देअअस्स अणवरद्धं अत्ताणअं कादुम् । [महाराज! उर्वशी विज्ञापयति - परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् ।]
{{bold|राजा -}} (कथं कथमपि वचनं संस्थाप्य) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।
(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)
{{bold|राजा -}} (सनिःश्वासम्) वैयर्थ्यमिव चक्षुषः सम्प्रति ।
{{bold|विदूषकः -}} (पत्रं दर्शयितुकामः) णं भुज्ज - (इत्यर्धोक्तेनात्मगतम्) अविद अविद भो, उव्वसीदंसणविम्हिदेण मए तं भुज्जवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज - । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]
{{bold|राजा -}} किमसि वक्तुकामः ।
{{bold|विदूषकः -}} वअस्स! एदम्हि वत्तुकामो । मा भवं अंगाईं विमुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं अणुबंधं सिढिलीकरेदि । [वयस्य! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुबन्धं शिथिलीकरोति ।]
{{bold|राजा -}} ममाप्येतदेव मनसि वर्त्तते । तया खलु प्रस्थाने - {{bold|<poem>अनीशया शरीरस्य हृदयं स्ववशं मयि । स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १८ ॥</poem>}} {{bold|विदूषकः -}} (स्वगतम्) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुज्जवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति । [वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]
{{bold|राजा -}} वयस्य! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा) उपनय भूर्जपत्रम् ।
{{bold|विदूषकः -}} (सर्वतो दृष्ट्वा सविषादम्) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुज्जवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण ।]
{{bold|राजा -}} (सासूयम्) सर्वत्र प्रमादी वैधेयः ।
{{bold|विदूषकः -}} णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् ।]
(इति विचेतव्यं नाटयति ।)
(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः ।)
{{bold|औशीनरी -}} हञ्जे णिउणिए! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ? [हञ्जे निपुणिके! सत्यं किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः?]
{{bold|चेटी -}} अलीअं किं मए भट्टिणी विण्णविदपुव्वा? [अलीकं किं मया भट्टिणी विज्ञापितपूर्वा?]
{{bold|देवी -}} तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंति - दाई जं तुए कहिदं सच्चं ण वेत्ति । [तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]
{{bold|चेटी -}} जं देवीए रुच्चदि । [यद्देव्यै रोचते ।]
{{bold|देवी -}} (परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एवं वत्तं णवचीअरं विअ इदो दक्खिणमारुदेण आणीअदि? [निपुणिके! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते?]
{{bold|चेटी -}} (विभाव्य) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [भट्टिनि! परिवर्तनविभाविताक्षरं भूर्जपत्रं खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम्! कथं वाच्यतामेतत् ।]
{{bold|देवी -}} अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]
{{bold|चेटी -}} (तथा कृत्वा) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोर्हस्तमागतम् ।]
{{bold|देवी -}} णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]
(चेटी वाचयति)
{{bold|देवी -}} एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह । [एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्ष्यावहे ।]
{{bold|चेटी -}} जं देवी आणवेदि । [यदेव्याज्ञापयति ।]
(इति परिजनसहिते लतागृहं परिक्रामतः ।)
{{bold|विदूषकः -}} भो वअस्स! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी? [भो वयस्य! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते?]
{{bold|राजा -}} (उत्थाय) भगवन् वसन्तसख मलयानिल! {{bold|<poem>वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे । जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥</poem>}} {{bold|निपुणिका -}} भट्टिणि! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]
{{bold|देवी -}} पेक्खामि । [प्रेक्षे ।]
{{bold|विदूषकः -}} भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि ।]
{{bold|राजा -}} सर्वथा हतोऽस्मि मन्दभाग्यः ।
{{bold|देवी -}} (सहसोपसृत्य) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र! अलमावेगेन । एतदेव तद्भूर्जपत्रम् ।]
{{bold|राजा -}} (ससम्भ्रममात्मगतम्) अये! इयं देवी । (प्रकाशम्) स्वागतं देव्यै ।
{{bold|देवी -}} दुरागदं दाणिं संवुत्तम् । [दुरागतमिदानीं संवृत्तम् ।]
{{bold|राजा -}} (जनान्तिकम्) वयस्य! किमत्र प्रतिविधानम् ।
{{bold|विदूषकः‍ -}} (जनान्तिकम्) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम्? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम्?]
{{bold|राजा -}} (अपवार्य) मूढ! नायं परिहासकालः । (प्रकाशम्) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
{{bold|देवी -}} जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम्]
{{bold|विदूषकः -}} भोदि! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । [भवति! त्वरयस्वास्य भोजनम्, पित्तोपशमनेन स्वस्थो भवतु ।]
{{bold|देवी -}} णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो । [निपुणिके! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।]
{{bold|विदूषकः‍ -}} णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।]
{{bold|राजा -}} मूर्ख! बलादपराधिनं मामापादयसि ।
{{bold|देवी -}} णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]
(इति कोपं नाटयित्वा प्रस्थिता)
{{bold|राजा -}} {{bold|<poem>अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥</poem>}} (इति पादयोः पतति)
{{bold|देवी -}} (आत्मगतम्) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि ।]
(इति राजानमपहाय सपरिवारा निष्क्रान्ता)
{{bold|विदूषकः -}} पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ ।]
{{bold|राजा -}} (उत्थाय) वयस्य ! नेदमुपपन्नम् । पश्य- {{bold|<poem>प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते । प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥</poem>}} {{bold|विदूषकः -}} अणुऊलं एव्व एदं भवदो । ण हु अक्खिदुक्खिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते ।]
{{bold|राजा -}} मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।
{{bold|विदूषकः -}} चिट्ठदु दाव धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।]
{{bold|राजा -}} (ऊर्ध्वमवलोक्य) कथमर्धं गतं दिवसस्य । अतः खलु- {{bold|<poem>उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्यौपारे कर्णिकारमुकुलान्याशेरते षट्पदाः । तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥ २२ ॥</poem>}} (इति निष्क्रान्तौ ।)
{{center|{{bold|॥ द्वितीयोऽङ्कः ॥}}}}
{{bold|सन्दर्भजालपुटसङ्केतः -}} <ref>https://archive.org/details/in.ernet.dli.2015.326674/mode/2up</ref> kn04bvnaz5npum2kzlwxrllvqm6qrsw विक्रमोर्वशीयम्/द्वितीयः अङ्कः 0 165953 418655 418654 2026-09-29T13:23:14Z शशाङ्कः सि जि 10187 418655 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = द्वितीयोऽङ्कः | previous = [[../प्रथमोऽङ्कः|प्रथमोऽङ्कः]] | next = [[../तृतीयोऽङ्कः|तृतीयोऽङ्कः]] | notes = }} (ततः प्रविशति विदूषकः)
{{bold|विदूषकः -}} अविद अविद भोः‍, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः ।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेऽकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]
(ततः प्रविशति चेटी ।)
{{bold|चेटी -}} आणत्तम्हि देवीए कासिराअदुहिदाए जधा - हञ्जे णिउणिए! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अज्जमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हबंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा — यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य! वन्दे ।
{{bold|विदूषकः -}} सत्थि भोदीए । (आत्मगतम्) एवं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् ।) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि?]
{{bold|चेटी -}} देवीए वअणेण अज्जं एव्व पेक्खिदुम् । [देव्या वचनेनार्यमेव प्रेक्षितुम् ।]
{{bold|विदूषकः -}} किं तत्तभोदी आणवेदी? [किं तत्रभवती आज्ञापयति?]
{{bold|चेटी -}} देवी भणादि जधा - अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [देवी भणति यथा - आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]
{{bold|विदूषकः -}} णिउणिए! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम्? [निपुणिके! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम्?]
{{bold|चेटी -}} जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता ।]
{{bold|विदूषकः -}} (स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्भेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम्) किं तत्तभोदा उव्वसीणामघेएण आमन्तिदा? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता?]
{{bold|चेटी -}} अज्ज! का सा उव्वसी? [आर्य! का सा उर्वशी?]
{{bold|विदूषकः -}} अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि बम्हणं असितव्यविमुखं दृढं पीडयति । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]
{{bold|चेटी -}} (स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एवं णिवेदेमि । [उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि ।] (इति प्रस्थिता)
{{bold|विदूषकः -}} णिउणिए! विण्णावेहि मम वअणेण कासिराअदुहिदरम् - परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [निपुणिके! विज्ञापय मम वचनेन काशिराजदुहितरम् - परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]
{{bold|चेटी -}} जं अज्जो आणवेदि । (इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।]
(नेपथ्ये वैतालिकः)
जयतु जयतु देवः -
{{bold|<poem>आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः । तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १ ॥</poem>}} {{bold|विदूषकः –}} (कर्णं दत्वा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि । [एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्त्ती भवामि ।]
(इति निष्क्रान्तः ।)
{{bold|प्रवेशकः ।}}
(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)
{{bold|राजा -}} {{bold|<poem>आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् । बाणेन मकरकेतोः कृतमार्गमबन्ध्यपातेन ॥ २ ॥</poem>}} {{bold|विदूषकः -}} सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा । [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]
{{bold|राजा -}} (निरीक्ष्य) रक्ष्यते भवता रहस्यनिक्षेपः?
{{bold|विदूषकः –}} (आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो । [वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः ।]
{{bold|राजा -}} किं भवांस्तूष्णीमास्ते ।
{{bold|विदूषकः -}} भो! एव्वं मए जीहा संजन्तिदा जेण भवदो वि णत्थि पडिवअणम् । [भोः! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]
{{bold|राजा -}} युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि?
{{bold|विदूषकः -}} भो! महाणसं गच्छम्ह । [भो! महानसं गच्छावः ।]
{{bold|राजा -}} किं तत्र?
{{bold|विदूषकः -}} तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]
{{bold|राजा -}} तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः? ।
{{bold|विदूषकः -}} णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः ।]
{{bold|राजा -}} ततः किम् ।
{{bold|विदूषकः -}} ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि ।]
{{bold|राजा -}} पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।
{{bold|विदूषकः -}} एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अहुदीआ रूएण; अहं विअ विरूवदाए? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया?]
{{bold|राजा -}} माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि । तेन हि समासतः श्रूयताम् ।
{{bold|विदूषकः -}} भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]
{{bold|राजा -}} {{bold|<poem>आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥</poem>}} {{bold|विदूषकः -}} अदो दाव तुए दिव्वरसाहिलासिणा जादुअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो? । [अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः?]
{{bold|राजा -}} विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।
{{bold|विदूषकः -}} (आत्मगतम्) का गई! [का गतिः!] (प्रकाशम्) इदो इदो भवम् । [इत इतो भवान् ।]
(इति परिक्रामतः ।)
{{bold|विदूषकः -}} एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्खिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]
{{bold|राजा -}} (विलोक्य) उपपन्नं विशेषणमस्य वायोः । अयं हि -
{{bold|<poem>निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् । स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥</poem>}} {{bold|विदूषकः -}} सरिसो एव्व से अहिणिवेसो [सदृश एवास्याभिनिवेशः] (इति परिक्रामन्) एदं पमदवणम् [इदं प्रमदवनम्] पविसदु भवम् । [प्रविशतु भवान् ।]
{{bold|राजा -}} वयस्य! प्रविशाग्रतः ।
(उभौ प्रवेशं नाटयतः ।)
{{bold|राजा -}} (त्रासं रूपयित्वा) वयस्य! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् । {{bold|<poem>विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये । स्रोतसेवोह्यमानस्य प्रतीपतरणं महत् ॥ ५ ॥</poem>}} {{bold|विदूषकः -}} कहं विअ? [कथमिव ?]
{{bold|राजा -}} {{bold|<poem>इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डुपत्रैः उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥</poem>}} {{bold|विदूषकः -}} अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्टसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]
{{bold|राजा -}} प्रतिगृहीतं ब्राह्मणवचनम् ।
(इति परिक्रामतः ।)
{{bold|विदूषकः —}} पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]
{{bold|राजा -}} नूनं प्रतिपदमेव तावदवलोकयामि । अत्र हि - {{bold|<poem>अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ७ ॥</poem>}} {{bold|विदूषकः –}} एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदामण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो । [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।
{{bold|राजा -}} यदभिरोचते भवते । (इत्युपविशतः ।)
{{bold|विदूषकः —}} दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उक्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान्!]
{{bold|राजा -}} (निःश्वस्य ) {{bold|<poem>बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु । चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥</poem>}} तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।
{{bold|विदूषकः -}} (विहस्य) भो! अहल्लाकामुअस्स इन्दस्स व सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुबे वि एत्थ उम्मत्ताअ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]
{{bold|राजा -}} न खलु चिन्तयति भवान् ।
{{bold|विदूषकः -}} (चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधिं भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो! अहं कज्जदंसी । [एष चिन्तयानि । मा पुनः परिदेवितैः समाधिं भङ्क्ष्यसि । अहो! अहं कार्यदर्शी ।]
{{bold|राजा -}} {{bold|<poem>असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥</poem>}} (इति मदनोत्सुकस्तिष्ठति ।)
(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च )
{{bold|चित्रलेखा -}} सहि उव्वसि! कहिं क्खु अणिदिट्टकालणं गच्छीअदि? [सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते?]
{{bold|उर्वशी -}} (मदनवेदनामभिनीय सलज्जम्) सहि! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति मए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]
{{bold|चित्रलेखा -}} किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि?]
{{bold|उर्वशी -}} एसो मे अवहत्थिदलज्जो व्यवसाओ । [एषो ममापहस्तितलज्जो व्यवसायः ।]
{{bold|चित्रलेखा -}} सहि! तधा वि संपधारीअदु दाब । को उण सहीए तहिं पढमं पेसिदो? [सखि! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषितः?]
{{bold|उर्वशी -}} णं हिअअम् । (ननु हृदयम् ।)
{{bold|चित्रलेखा -}} को णु तुमं णिओजेदि? [को नु त्वां नियोजयति?]
{{bold|उर्वशी -}} मअणो क्खु मं णिओजेदि । [मदनः खलु मां नियोजयति ।]
{{bold|चित्रलेखा -}} अदो अवरं णत्थि मे वअणम् । [ अतः अपरं नास्ति मे वचनम् ।]
{{bold|उर्वशी -}} तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]
{{bold|चित्रलेखा -}} सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहाबन्धणं विज्जं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [सखि विस्रब्धा भव! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनीं विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः ।]
{{bold|उर्वशी -}} (सलज्जम्) ताए पओअं सव्वं सुमरेसि? [तस्याः प्रयोगं सर्वं स्मरसि?]
{{bold|चित्रलेखा -}} सहि ! हिअअं एदं सव्वं जानादि । [सखि! हृदयं एतत् सर्वं जानाति ।]
(उभे भ्रमणं रूपयतः)
{{bold|चित्रलेखा -}} सहि! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उवगद म्ह । [सखि! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्य राजर्षेर्भवनमुपगते खः ।]
{{bold|उर्वशी -}} (सस्पृहमवलोक्य) । णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । (विचार्य) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे? [ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । (विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ?]
{{bold|चित्रलेखा -}} एदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो । [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]
(उभे अवतरतः)
{{bold|चित्रलेखा -}} (राजानं दृष्ट्वा सहर्षम्) सहि! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]
{{bold|उर्वशी -}} (विलोक्य) हला! दाणिं पढमसणादो वि सविसेसं पिअदंसणो मे महाराओ पडिभादि [हला! इदानीं प्रथमदर्शनादपि सविशेषं प्रियदर्शनों मे महाराजः प्रतिभाति ।]
{{bold|चित्रलेखा -}} जुज्जुदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः ।]
{{bold|उर्वशी -}} ण दाव उवसप्पिस्तम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ सुणिस्सं दाव पासवनिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये । तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने किम् मन्त्रयन् तिष्ठतीति ।]
{{bold|चित्रलेखा -}} जहा दे रोअदि । [यथा ते रोचते ।]
(उभे यथोक्तमनुतिष्ठतः)
{{bold|विदूषकः -}} भो! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ । [भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
(राजा तूष्णीमास्ते)
{{bold|उर्वशी -}} का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]
{{bold|चित्रलेखा -}} झाणस्स किं बिलम्बीअदि? [ध्यानाय किं विलम्ब्यते?]
{{bold|उर्वशी -}} सहि! भीआमि सहसा पहावादो विण्णादुम् । [सखि! बिभेमि सहसा प्रभावतो विज्ञातुम् ।]
{{bold|विदूषकः -}} भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोबाओ [भोः! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
{{bold|राजा -}} वयस्य! कथ्यताम् ।
{{bold|विदूषकः -}} सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्वसीए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नसमागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]
{{bold|उर्वशी -}} (सहर्षम्) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} तदुभयमप्यनुपपन्नम् । {{bold|<poem>हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥</poem>}} {{bold|चित्रलेखा -}} सहि, सुदं तुए वअणम्? [सखि! श्रुतं त्वया वचनम्?]
{{bold|उर्वशी -}} सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]
{{bold|विदूषकः -}} एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]
{{bold|राजा -}} (सनिःश्वासम्) {{bold|<poem>नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम् । अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥</poem>}} {{bold|चित्रलेखा -}} सुदं तुए? [श्रुतं त्वया?]
{{bold|उर्वशी -}} हद्धी हद्धी! मं वि एव्वं अवगच्छदि । सहि! अममत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम् । ता पहावणिम्मिदेण भुज्जवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]
{{bold|चित्रलेखा -}} अणुमदं मे । [अनुमतं मे ।]
(उर्वशी नाट्येनाभिलिख्य क्षिपति)
{{bold|विदूषकः -}} अविद अविद भो, किं णु एदम् । भुअङ्गणिम्मोओ किं मं खादिदुं णिवडिदो [अविदाविद भोः! किं न्वेतत्! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः?]
{{bold|राजा -}} (दृष्ट्वा) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः ।
{{bold|विदूषकः -}} णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं सुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआइं भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः ।]
{{bold|राजा -}} नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम्) सखे! प्रसन्नस्ते तर्कः ।
{{bold|विदूषकः -}} जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]
{{bold|उर्वशी -}} साहु साहु अज्ज! णाअरोसि । [साधु साधु आर्य! नागरोऽसि ।]
{{bold|राजा -}} श्रूयताम् —
(इति वाचयति) <poem>सामिअ संभावितआ जह अहं तए अमुणिआ तह अ अणुरत्तस्स सुहअ एअमेअ तुह । णवरि अ मे ललिअपारिआअसअणिज्जम्मि होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥ १२ ॥</poem> {{bold|<poem>[स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री तथा चानुरक्तस्य सुभग एवमेव तव । अनन्तरं च मे ललितपारिजातशयनीये भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥ १२ ॥]</poem>}} {{bold|उर्वशी -}} किं णु संपदं भणिस्सदि? [किं नु साम्प्रतं भणिष्यति?]
{{bold|चित्रलेखा -}} किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः ।]
{{bold|विदूषकः -}} दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]
{{bold|राजा -}} समाश्वासनमिति किमुच्यते । {{bold|<poem>तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः । उत्पक्ष्मलं मम सखे मदिरेक्षणायास्तस्याः समागतमिवाननमाननेन ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} एत्थ णो समभाआ मदी । [अत्रावयोः समभागा मतिः ।]
{{bold|राजा -}} वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः ।
{{bold|विदूषकः -}} (गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]
{{bold|उर्वशी -}} हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [सखि! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]
{{bold|चित्रलेखा -}} तहा । [तथा ।] (इति तिरस्करिणीमपनीय राजानमुपसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सम्भ्रमादरगर्भम्) स्वागतं भवत्यै (पार्श्वमवलोक्य) भद्रे! {{bold|<poem>न तथा नन्दयसि मां सख्या विरहिता तया । सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥</poem>}} {{bold|चित्रलेखा -}} णं पढमं मेहराई दीसदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते, पश्चाद्विद्युल्लता ।]
{{bold|विदूषकः -}} (अपवार्य) कहं ण एसा उव्वसी उवगदा! तत्तभोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [कथं नैषा उर्वश्युपगता! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]
{{bold|<poem>राजा -</poem>}} एतदासनमास्यताम् ।
{{bold|चित्रलेखा -}} उव्वसी महाराअं सिरसा पणमिअ विण्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]
{{bold|राजा -}} किमाज्ञापयति —
{{bold|चित्रलेखा -}} मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होम । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]
{{bold|राजा -}} अयि सखि! {{bold|<poem>पर्युत्सुकां कथयसि प्रियदर्शनां तामार्तिं न पश्यसि पुरूरवसतदर्थाम् । साधारणोऽयमुभयोः प्रणयो यतस्व तां कौमुदीमिव समागमयेन्दुबिम्वे ॥ १५ ॥</poem>}} {{bold|चित्रलेखा -}} (उर्वशीमुपेत्य) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवृत्ता । [सखि! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता ।]
{{bold|उर्वशी -}} (तिरस्करिणीमपनीय) अयि अणवत्थिदे! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते! लघु एव त्वया परित्यक्तास्मि ।]
{{bold|चित्रलेखा -}} (सस्मितम्) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]
{{bold|उर्वशी -}} (ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सहर्षम्) सुन्दरि! {{bold|<poem>मया नाम जितं यस्य त्वयायं समुदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥</poem>}} (हस्ते गृहीत्वा आसन उपवेशयति ।)
{{bold|विदूषकः -}} कीदिसी त्थिदी भोदीए रज्जे । पिअवअस्सो बम्हणो ण बन्दीअदि । [कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते ।]
(उर्वशी सस्मितं प्रणमति ।)
{{bold|विदूषकः -}} सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
{{bold|देवदूतः -}} चित्रलेखे! त्वरयोर्वशीम् — {{bold|<poem>मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥</poem>}} (सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)
{{bold|चित्रलेखा -}} सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि महाराअम् । [श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् ।]
{{bold|उर्वशी -}} (निःश्वस्य) णत्थि मे वाआविहवो । [नास्ति मे वाग्विभवः ।]
{{bold|चित्रलेखा -}} महाराअ! उव्वसी विण्णवेदि - परवसो अअं जणो । महाराएण अब्भणुण्णादा इच्छामि देअअस्स अणवरद्धं अत्ताणअं कादुम् । [महाराज! उर्वशी विज्ञापयति - परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् ।]
{{bold|राजा -}} (कथं कथमपि वचनं संस्थाप्य) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।
(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)
{{bold|राजा -}} (सनिःश्वासम्) वैयर्थ्यमिव चक्षुषः सम्प्रति ।
{{bold|विदूषकः -}} (पत्रं दर्शयितुकामः) णं भुज्ज - (इत्यर्धोक्तेनात्मगतम्) अविद अविद भो, उव्वसीदंसणविम्हिदेण मए तं भुज्जवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज - । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]
{{bold|राजा -}} किमसि वक्तुकामः ।
{{bold|विदूषकः -}} वअस्स! एदम्हि वत्तुकामो । मा भवं अंगाईं विमुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं अणुबंधं सिढिलीकरेदि । [वयस्य! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुबन्धं शिथिलीकरोति ।]
{{bold|राजा -}} ममाप्येतदेव मनसि वर्त्तते । तया खलु प्रस्थाने - {{bold|<poem>अनीशया शरीरस्य हृदयं स्ववशं मयि । स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १८ ॥</poem>}} {{bold|विदूषकः -}} (स्वगतम्) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुज्जवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति । [वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]
{{bold|राजा -}} वयस्य! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा) उपनय भूर्जपत्रम् ।
{{bold|विदूषकः -}} (सर्वतो दृष्ट्वा सविषादम्) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुज्जवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण ।]
{{bold|राजा -}} (सासूयम्) सर्वत्र प्रमादी वैधेयः ।
{{bold|विदूषकः -}} णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् ।]
(इति विचेतव्यं नाटयति ।)
(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः ।)
{{bold|औशीनरी -}} हञ्जे णिउणिए! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ? [हञ्जे निपुणिके! सत्यं किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः?]
{{bold|चेटी -}} अलीअं किं मए भट्टिणी विण्णविदपुव्वा? [अलीकं किं मया भट्टिणी विज्ञापितपूर्वा?]
{{bold|देवी -}} तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंति - दाई जं तुए कहिदं सच्चं ण वेत्ति । [तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]
{{bold|चेटी -}} जं देवीए रुच्चदि । [यद्देव्यै रोचते ।]
{{bold|देवी -}} (परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एवं वत्तं णवचीअरं विअ इदो दक्खिणमारुदेण आणीअदि? [निपुणिके! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते?]
{{bold|चेटी -}} (विभाव्य) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [भट्टिनि! परिवर्तनविभाविताक्षरं भूर्जपत्रं खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम्! कथं वाच्यतामेतत् ।]
{{bold|देवी -}} अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]
{{bold|चेटी -}} (तथा कृत्वा) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोर्हस्तमागतम् ।]
{{bold|देवी -}} णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]
(चेटी वाचयति)
{{bold|देवी -}} एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह । [एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्ष्यावहे ।]
{{bold|चेटी -}} जं देवी आणवेदि । [यदेव्याज्ञापयति ।]
(इति परिजनसहिते लतागृहं परिक्रामतः ।)
{{bold|विदूषकः -}} भो वअस्स! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी? [भो वयस्य! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते?]
{{bold|राजा -}} (उत्थाय) भगवन् वसन्तसख मलयानिल! {{bold|<poem>वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे । जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥</poem>}} {{bold|निपुणिका -}} भट्टिणि! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]
{{bold|देवी -}} पेक्खामि । [प्रेक्षे ।]
{{bold|विदूषकः -}} भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि ।]
{{bold|राजा -}} सर्वथा हतोऽस्मि मन्दभाग्यः ।
{{bold|देवी -}} (सहसोपसृत्य) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र! अलमावेगेन । एतदेव तद्भूर्जपत्रम् ।]
{{bold|राजा -}} (ससम्भ्रममात्मगतम्) अये! इयं देवी । (प्रकाशम्) स्वागतं देव्यै ।
{{bold|देवी -}} दुरागदं दाणिं संवुत्तम् । [दुरागतमिदानीं संवृत्तम् ।]
{{bold|राजा -}} (जनान्तिकम्) वयस्य! किमत्र प्रतिविधानम् ।
{{bold|विदूषकः‍ -}} (जनान्तिकम्) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम्? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम्?]
{{bold|राजा -}} (अपवार्य) मूढ! नायं परिहासकालः । (प्रकाशम्) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
{{bold|देवी -}} जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम्]
{{bold|विदूषकः -}} भोदि! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । [भवति! त्वरयस्वास्य भोजनम्, पित्तोपशमनेन स्वस्थो भवतु ।]
{{bold|देवी -}} णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो । [निपुणिके! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।]
{{bold|विदूषकः‍ -}} णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।]
{{bold|राजा -}} मूर्ख! बलादपराधिनं मामापादयसि ।
{{bold|देवी -}} णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]
(इति कोपं नाटयित्वा प्रस्थिता)
{{bold|राजा -}} {{bold|<poem>अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥</poem>}} (इति पादयोः पतति)
{{bold|देवी -}} (आत्मगतम्) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि ।]
(इति राजानमपहाय सपरिवारा निष्क्रान्ता)
{{bold|विदूषकः -}} पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ ।]
{{bold|राजा -}} (उत्थाय) वयस्य ! नेदमुपपन्नम् । पश्य- {{bold|<poem>प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते । प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥</poem>}} {{bold|विदूषकः -}} अणुऊलं एव्व एदं भवदो । ण हु अक्खिदुक्खिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते ।]
{{bold|राजा -}} मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।
{{bold|विदूषकः -}} चिट्ठदु दाव धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।]
{{bold|राजा -}} (ऊर्ध्वमवलोक्य) कथमर्धं गतं दिवसस्य । अतः खलु- {{bold|<poem>उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्यौपारे कर्णिकारमुकुलान्याशेरते षट्पदाः । तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥ २२ ॥</poem>}} (इति निष्क्रान्तौ ।)
{{bold|॥ द्वितीयोऽङ्कः ॥}}
0u6p2wf7ex57yt5rh1t18izlii7aulm 418656 418655 2026-09-29T13:25:15Z शशाङ्कः सि जि 10187 418656 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = द्वितीयोऽङ्कः | previous = [[../प्रथमोऽङ्कः|प्रथमोऽङ्कः]] | next = [[../तृतीयोऽङ्कः|तृतीयोऽङ्कः]] | notes = }} (ततः प्रविशति विदूषकः)
{{bold|विदूषकः -}} अविद अविद भोः‍, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः ।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेऽकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]
(ततः प्रविशति चेटी ।)
{{bold|चेटी -}} आणत्तम्हि देवीए कासिराअदुहिदाए जधा - हञ्जे णिउणिए! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अज्जमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हबंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा — यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य! वन्दे ।
{{bold|विदूषकः -}} सत्थि भोदीए । (आत्मगतम्) एवं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् ।) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि?]
{{bold|चेटी -}} देवीए वअणेण अज्जं एव्व पेक्खिदुम् । [देव्या वचनेनार्यमेव प्रेक्षितुम् ।]
{{bold|विदूषकः -}} किं तत्तभोदी आणवेदी? [किं तत्रभवती आज्ञापयति?]
{{bold|चेटी -}} देवी भणादि जधा - अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [देवी भणति यथा - आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]
{{bold|विदूषकः -}} णिउणिए! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम्? [निपुणिके! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम्?]
{{bold|चेटी -}} जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता ।]
{{bold|विदूषकः -}} (स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्भेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम्) किं तत्तभोदा उव्वसीणामघेएण आमन्तिदा? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता?]
{{bold|चेटी -}} अज्ज! का सा उव्वसी? [आर्य! का सा उर्वशी?]
{{bold|विदूषकः -}} अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि बम्हणं असितव्यविमुखं दृढं पीडयति । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]
{{bold|चेटी -}} (स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एवं णिवेदेमि । [उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि ।] (इति प्रस्थिता)
{{bold|विदूषकः -}} णिउणिए! विण्णावेहि मम वअणेण कासिराअदुहिदरम् - परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [निपुणिके! विज्ञापय मम वचनेन काशिराजदुहितरम् - परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]
{{bold|चेटी -}} जं अज्जो आणवेदि । (इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।]
(नेपथ्ये वैतालिकः)
जयतु जयतु देवः -
{{bold|<poem>आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः । तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १ ॥</poem>}} {{bold|विदूषकः –}} (कर्णं दत्वा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि । [एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्त्ती भवामि ।]
(इति निष्क्रान्तः ।)
{{bold|प्रवेशकः ।}}
(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)
{{bold|राजा -}} {{bold|<poem>आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् । बाणेन मकरकेतोः कृतमार्गमबन्ध्यपातेन ॥ २ ॥</poem>}} {{bold|विदूषकः -}} सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा । [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]
{{bold|राजा -}} (निरीक्ष्य) रक्ष्यते भवता रहस्यनिक्षेपः?
{{bold|विदूषकः –}} (आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो । [वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः ।]
{{bold|राजा -}} किं भवांस्तूष्णीमास्ते ।
{{bold|विदूषकः -}} भो! एव्वं मए जीहा संजन्तिदा जेण भवदो वि णत्थि पडिवअणम् । [भोः! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]
{{bold|राजा -}} युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि?
{{bold|विदूषकः -}} भो! महाणसं गच्छम्ह । [भो! महानसं गच्छावः ।]
{{bold|राजा -}} किं तत्र?
{{bold|विदूषकः -}} तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]
{{bold|राजा -}} तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः? ।
{{bold|विदूषकः -}} णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः ।]
{{bold|राजा -}} ततः किम् ।
{{bold|विदूषकः -}} ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि ।]
{{bold|राजा -}} पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।
{{bold|विदूषकः -}} एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अहुदीआ रूएण; अहं विअ विरूवदाए? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया?]
{{bold|राजा -}} माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि । तेन हि समासतः श्रूयताम् ।
{{bold|विदूषकः -}} भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]
{{bold|राजा -}} {{bold|<poem>आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥</poem>}} {{bold|विदूषकः -}} अदो दाव तुए दिव्वरसाहिलासिणा जादुअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो? । [अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः?]
{{bold|राजा -}} विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।
{{bold|विदूषकः -}} (आत्मगतम्) का गई! [का गतिः!] (प्रकाशम्) इदो इदो भवम् । [इत इतो भवान् ।]
(इति परिक्रामतः ।)
{{bold|विदूषकः -}} एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्खिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]
{{bold|राजा -}} (विलोक्य) उपपन्नं विशेषणमस्य वायोः । अयं हि -
{{bold|<poem>निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् । स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥</poem>}} {{bold|विदूषकः -}} सरिसो एव्व से अहिणिवेसो [सदृश एवास्याभिनिवेशः] (इति परिक्रामन्) एदं पमदवणम् [इदं प्रमदवनम्] पविसदु भवम् । [प्रविशतु भवान् ।]
{{bold|राजा -}} वयस्य! प्रविशाग्रतः ।
(उभौ प्रवेशं नाटयतः ।)
{{bold|राजा -}} (त्रासं रूपयित्वा) वयस्य! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् । {{bold|<poem>विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये । स्रोतसेवोह्यमानस्य प्रतीपतरणं महत् ॥ ५ ॥</poem>}} {{bold|विदूषकः -}} कहं विअ? [कथमिव ?]
{{bold|राजा -}} {{bold|<poem>इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डुपत्रैः उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥</poem>}} {{bold|विदूषकः -}} अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्टसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]
{{bold|राजा -}} प्रतिगृहीतं ब्राह्मणवचनम् ।
(इति परिक्रामतः ।)
{{bold|विदूषकः —}} पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]
{{bold|राजा -}} नूनं प्रतिपदमेव तावदवलोकयामि । अत्र हि - {{bold|<poem>अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ७ ॥</poem>}} {{bold|विदूषकः –}} एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदामण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो । [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।
{{bold|राजा -}} यदभिरोचते भवते । (इत्युपविशतः ।)
{{bold|विदूषकः —}} दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उक्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान्!]
{{bold|राजा -}} (निःश्वस्य ) {{bold|<poem>बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु । चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥</poem>}} तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।
{{bold|विदूषकः -}} (विहस्य) भो! अहल्लाकामुअस्स इन्दस्स व सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुबे वि एत्थ उम्मत्ताअ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]
{{bold|राजा -}} न खलु चिन्तयति भवान् ।
{{bold|विदूषकः -}} (चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधिं भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो! अहं कज्जदंसी । [एष चिन्तयानि । मा पुनः परिदेवितैः समाधिं भङ्क्ष्यसि । अहो! अहं कार्यदर्शी ।]
{{bold|राजा -}} {{bold|<poem>असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥</poem>}} (इति मदनोत्सुकस्तिष्ठति ।)
(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च )
{{bold|चित्रलेखा -}} सहि उव्वसि! कहिं क्खु अणिदिट्टकालणं गच्छीअदि? [सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते?]
{{bold|उर्वशी -}} (मदनवेदनामभिनीय सलज्जम्) सहि! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति मए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]
{{bold|चित्रलेखा -}} किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि?]
{{bold|उर्वशी -}} एसो मे अवहत्थिदलज्जो व्यवसाओ । [एषो ममापहस्तितलज्जो व्यवसायः ।]
{{bold|चित्रलेखा -}} सहि! तधा वि संपधारीअदु दाब । को उण सहीए तहिं पढमं पेसिदो? [सखि! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषितः?]
{{bold|उर्वशी -}} णं हिअअम् । (ननु हृदयम् ।)
{{bold|चित्रलेखा -}} को णु तुमं णिओजेदि? [को नु त्वां नियोजयति?]
{{bold|उर्वशी -}} मअणो क्खु मं णिओजेदि । [मदनः खलु मां नियोजयति ।]
{{bold|चित्रलेखा -}} अदो अवरं णत्थि मे वअणम् । [ अतः अपरं नास्ति मे वचनम् ।]
{{bold|उर्वशी -}} तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]
{{bold|चित्रलेखा -}} सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहाबन्धणं विज्जं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [सखि विस्रब्धा भव! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनीं विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः ।]
{{bold|उर्वशी -}} (सलज्जम्) ताए पओअं सव्वं सुमरेसि? [तस्याः प्रयोगं सर्वं स्मरसि?]
{{bold|चित्रलेखा -}} सहि ! हिअअं एदं सव्वं जानादि । [सखि! हृदयं एतत् सर्वं जानाति ।]
(उभे भ्रमणं रूपयतः)
{{bold|चित्रलेखा -}} सहि! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उवगद म्ह । [सखि! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्य राजर्षेर्भवनमुपगते खः ।]
{{bold|उर्वशी -}} (सस्पृहमवलोक्य) । णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । (विचार्य) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे? [ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । (विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ?]
{{bold|चित्रलेखा -}} एदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो । [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]
(उभे अवतरतः)
{{bold|चित्रलेखा -}} (राजानं दृष्ट्वा सहर्षम्) सहि! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]
{{bold|उर्वशी -}} (विलोक्य) हला! दाणिं पढमसणादो वि सविसेसं पिअदंसणो मे महाराओ पडिभादि [हला! इदानीं प्रथमदर्शनादपि सविशेषं प्रियदर्शनों मे महाराजः प्रतिभाति ।]
{{bold|चित्रलेखा -}} जुज्जुदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः ।]
{{bold|उर्वशी -}} ण दाव उवसप्पिस्तम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ सुणिस्सं दाव पासवनिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये । तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने किम् मन्त्रयन् तिष्ठतीति ।]
{{bold|चित्रलेखा -}} जहा दे रोअदि । [यथा ते रोचते ।]
(उभे यथोक्तमनुतिष्ठतः)
{{bold|विदूषकः -}} भो! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ । [भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
(राजा तूष्णीमास्ते)
{{bold|उर्वशी -}} का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]
{{bold|चित्रलेखा -}} झाणस्स किं बिलम्बीअदि? [ध्यानाय किं विलम्ब्यते?]
{{bold|उर्वशी -}} सहि! भीआमि सहसा पहावादो विण्णादुम् । [सखि! बिभेमि सहसा प्रभावतो विज्ञातुम् ।]
{{bold|विदूषकः -}} भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोबाओ [भोः! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
{{bold|राजा -}} वयस्य! कथ्यताम् ।
{{bold|विदूषकः -}} सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्वसीए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नसमागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]
{{bold|उर्वशी -}} (सहर्षम्) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} तदुभयमप्यनुपपन्नम् । {{bold|<poem>हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥</poem>}} {{bold|चित्रलेखा -}} सहि, सुदं तुए वअणम्? [सखि! श्रुतं त्वया वचनम्?]
{{bold|उर्वशी -}} सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]
{{bold|विदूषकः -}} एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]
{{bold|राजा -}} (सनिःश्वासम्) {{bold|<poem>नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम् । अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥</poem>}} {{bold|चित्रलेखा -}} सुदं तुए? [श्रुतं त्वया?]
{{bold|उर्वशी -}} हद्धी हद्धी! मं वि एव्वं अवगच्छदि । सहि! अममत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम् । ता पहावणिम्मिदेण भुज्जवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]
{{bold|चित्रलेखा -}} अणुमदं मे । [अनुमतं मे ।]
(उर्वशी नाट्येनाभिलिख्य क्षिपति)
{{bold|विदूषकः -}} अविद अविद भो, किं णु एदम् । भुअङ्गणिम्मोओ किं मं खादिदुं णिवडिदो [अविदाविद भोः! किं न्वेतत्! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः?]
{{bold|राजा -}} (दृष्ट्वा) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः ।
{{bold|विदूषकः -}} णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं सुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआइं भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः ।]
{{bold|राजा -}} नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम्) सखे! प्रसन्नस्ते तर्कः ।
{{bold|विदूषकः -}} जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]
{{bold|उर्वशी -}} साहु साहु अज्ज! णाअरोसि । [साधु साधु आर्य! नागरोऽसि ।]
{{bold|राजा -}} श्रूयताम् —
(इति वाचयति) <poem>सामिअ संभावितआ जह अहं तए अमुणिआ तह अ अणुरत्तस्स सुहअ एअमेअ तुह । णवरि अ मे ललिअपारिआअसअणिज्जम्मि होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥ १२ ॥</poem> {{bold|<poem>[स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री तथा चानुरक्तस्य सुभग एवमेव तव । अनन्तरं च मे ललितपारिजातशयनीये भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥ १२ ॥]</poem>}} {{bold|उर्वशी -}} किं णु संपदं भणिस्सदि? [किं नु साम्प्रतं भणिष्यति?]
{{bold|चित्रलेखा -}} किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः ।]
{{bold|विदूषकः -}} दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]
{{bold|राजा -}} समाश्वासनमिति किमुच्यते । {{bold|<poem>तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः । उत्पक्ष्मलं मम सखे मदिरेक्षणायास्तस्याः समागतमिवाननमाननेन ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} एत्थ णो समभाआ मदी । [अत्रावयोः समभागा मतिः ।]
{{bold|राजा -}} वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः ।
{{bold|विदूषकः -}} (गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]
{{bold|उर्वशी -}} हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [सखि! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]
{{bold|चित्रलेखा -}} तहा । [तथा ।] (इति तिरस्करिणीमपनीय राजानमुपसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सम्भ्रमादरगर्भम्) स्वागतं भवत्यै (पार्श्वमवलोक्य) भद्रे! {{bold|<poem>न तथा नन्दयसि मां सख्या विरहिता तया । सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥</poem>}} {{bold|चित्रलेखा -}} णं पढमं मेहराई दीसदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते, पश्चाद्विद्युल्लता ।]
{{bold|विदूषकः -}} (अपवार्य) कहं ण एसा उव्वसी उवगदा! तत्तभोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [कथं नैषा उर्वश्युपगता! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]
{{bold|<poem>राजा -</poem>}} एतदासनमास्यताम् ।
{{bold|चित्रलेखा -}} उव्वसी महाराअं सिरसा पणमिअ विण्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]
{{bold|राजा -}} किमाज्ञापयति —
{{bold|चित्रलेखा -}} मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होम । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]
{{bold|राजा -}} अयि सखि! {{bold|<poem>पर्युत्सुकां कथयसि प्रियदर्शनां तामार्तिं न पश्यसि पुरूरवसतदर्थाम् । साधारणोऽयमुभयोः प्रणयो यतस्व तां कौमुदीमिव समागमयेन्दुबिम्वे ॥ १५ ॥</poem>}} {{bold|चित्रलेखा -}} (उर्वशीमुपेत्य) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवृत्ता । [सखि! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता ।]
{{bold|उर्वशी -}} (तिरस्करिणीमपनीय) अयि अणवत्थिदे! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते! लघु एव त्वया परित्यक्तास्मि ।]
{{bold|चित्रलेखा -}} (सस्मितम्) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]
{{bold|उर्वशी -}} (ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सहर्षम्) सुन्दरि! {{bold|<poem>मया नाम जितं यस्य त्वयायं समुदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥</poem>}} (हस्ते गृहीत्वा आसन उपवेशयति ।)
{{bold|विदूषकः -}} कीदिसी त्थिदी भोदीए रज्जे । पिअवअस्सो बम्हणो ण बन्दीअदि । [कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते ।]
(उर्वशी सस्मितं प्रणमति ।)
{{bold|विदूषकः -}} सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
{{bold|देवदूतः -}} चित्रलेखे! त्वरयोर्वशीम् — {{bold|<poem>मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥</poem>}} (सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)
{{bold|चित्रलेखा -}} सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि महाराअम् । [श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् ।]
{{bold|उर्वशी -}} (निःश्वस्य) णत्थि मे वाआविहवो । [नास्ति मे वाग्विभवः ।]
{{bold|चित्रलेखा -}} महाराअ! उव्वसी विण्णवेदि - परवसो अअं जणो । महाराएण अब्भणुण्णादा इच्छामि देअअस्स अणवरद्धं अत्ताणअं कादुम् । [महाराज! उर्वशी विज्ञापयति - परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् ।]
{{bold|राजा -}} (कथं कथमपि वचनं संस्थाप्य) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।
(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)
{{bold|राजा -}} (सनिःश्वासम्) वैयर्थ्यमिव चक्षुषः सम्प्रति ।
{{bold|विदूषकः -}} (पत्रं दर्शयितुकामः) णं भुज्ज - (इत्यर्धोक्तेनात्मगतम्) अविद अविद भो, उव्वसीदंसणविम्हिदेण मए तं भुज्जवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज - । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]
{{bold|राजा -}} किमसि वक्तुकामः ।
{{bold|विदूषकः -}} वअस्स! एदम्हि वत्तुकामो । मा भवं अंगाईं विमुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं अणुबंधं सिढिलीकरेदि । [वयस्य! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुबन्धं शिथिलीकरोति ।]
{{bold|राजा -}} ममाप्येतदेव मनसि वर्त्तते । तया खलु प्रस्थाने - {{bold|<poem>अनीशया शरीरस्य हृदयं स्ववशं मयि । स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १८ ॥</poem>}} {{bold|विदूषकः -}} (स्वगतम्) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुज्जवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति । [वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]
{{bold|राजा -}} वयस्य! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा) उपनय भूर्जपत्रम् ।
{{bold|विदूषकः -}} (सर्वतो दृष्ट्वा सविषादम्) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुज्जवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण ।]
{{bold|राजा -}} (सासूयम्) सर्वत्र प्रमादी वैधेयः ।
{{bold|विदूषकः -}} णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् ।]
(इति विचेतव्यं नाटयति ।)
(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः ।)
{{bold|औशीनरी -}} हञ्जे णिउणिए! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ? [हञ्जे निपुणिके! सत्यं किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः?]
{{bold|चेटी -}} अलीअं किं मए भट्टिणी विण्णविदपुव्वा? [अलीकं किं मया भट्टिणी विज्ञापितपूर्वा?]
{{bold|देवी -}} तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंति - दाई जं तुए कहिदं सच्चं ण वेत्ति । [तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]
{{bold|चेटी -}} जं देवीए रुच्चदि । [यद्देव्यै रोचते ।]
{{bold|देवी -}} (परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एवं वत्तं णवचीअरं विअ इदो दक्खिणमारुदेण आणीअदि? [निपुणिके! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते?]
{{bold|चेटी -}} (विभाव्य) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [भट्टिनि! परिवर्तनविभाविताक्षरं भूर्जपत्रं खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम्! कथं वाच्यतामेतत् ।]
{{bold|देवी -}} अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]
{{bold|चेटी -}} (तथा कृत्वा) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोर्हस्तमागतम् ।]
{{bold|देवी -}} णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]
(चेटी वाचयति)
{{bold|देवी -}} एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह । [एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्ष्यावहे ।]
{{bold|चेटी -}} जं देवी आणवेदि । [यदेव्याज्ञापयति ।]
(इति परिजनसहिते लतागृहं परिक्रामतः ।)
{{bold|विदूषकः -}} भो वअस्स! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी? [भो वयस्य! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते?]
{{bold|राजा -}} (उत्थाय) भगवन् वसन्तसख मलयानिल! {{bold|<poem>वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे । जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥</poem>}} {{bold|निपुणिका -}} भट्टिणि! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]
{{bold|देवी -}} पेक्खामि । [प्रेक्षे ।]
{{bold|विदूषकः -}} भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि ।]
{{bold|राजा -}} सर्वथा हतोऽस्मि मन्दभाग्यः ।
{{bold|देवी -}} (सहसोपसृत्य) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र! अलमावेगेन । एतदेव तद्भूर्जपत्रम् ।]
{{bold|राजा -}} (ससम्भ्रममात्मगतम्) अये! इयं देवी । (प्रकाशम्) स्वागतं देव्यै ।
{{bold|देवी -}} दुरागदं दाणिं संवुत्तम् । [दुरागतमिदानीं संवृत्तम् ।]
{{bold|राजा -}} (जनान्तिकम्) वयस्य! किमत्र प्रतिविधानम् ।
{{bold|विदूषकः‍ -}} (जनान्तिकम्) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम्? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम्?]
{{bold|राजा -}} (अपवार्य) मूढ! नायं परिहासकालः । (प्रकाशम्) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
{{bold|देवी -}} जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम्]
{{bold|विदूषकः -}} भोदि! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । [भवति! त्वरयस्वास्य भोजनम्, पित्तोपशमनेन स्वस्थो भवतु ।]
{{bold|देवी -}} णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो । [निपुणिके! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।]
{{bold|विदूषकः‍ -}} णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।]
{{bold|राजा -}} मूर्ख! बलादपराधिनं मामापादयसि ।
{{bold|देवी -}} णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]
(इति कोपं नाटयित्वा प्रस्थिता)
{{bold|राजा -}} {{bold|<poem>अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥</poem>}} (इति पादयोः पतति)
{{bold|देवी -}} (आत्मगतम्) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि ।]
(इति राजानमपहाय सपरिवारा निष्क्रान्ता)
{{bold|विदूषकः -}} पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ ।]
{{bold|राजा -}} (उत्थाय) वयस्य ! नेदमुपपन्नम् । पश्य- {{bold|<poem>प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते । प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥</poem>}} {{bold|विदूषकः -}} अणुऊलं एव्व एदं भवदो । ण हु अक्खिदुक्खिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते ।]
{{bold|राजा -}} मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।
{{bold|विदूषकः -}} चिट्ठदु दाव धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।]
{{bold|राजा -}} (ऊर्ध्वमवलोक्य) कथमर्धं गतं दिवसस्य । अतः खलु- {{bold|<poem>उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्यौपारे कर्णिकारमुकुलान्याशेरते षट्पदाः । तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥ २२ ॥</poem>}} (इति निष्क्रान्तौ ।)
{{bold|॥ द्वितीयोऽङ्कः ॥}}
{{bold|सन्दर्भजालपुटसङ्केतः -}} <ref>https://archive.org/details/in.ernet.dli.2015.326674/mode/2up</ref> 4600c3je82nunxs4p2zisnteix09aq8 418657 418656 2026-09-29T13:27:43Z शशाङ्कः सि जि 10187 418657 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = द्वितीयोऽङ्कः | previous = [[../प्रथमोऽङ्कः|प्रथमोऽङ्कः]] | next = [[../तृतीयोऽङ्कः|तृतीयोऽङ्कः]] | notes = }} {{bold|द्वितीयोऽङ्कः}} (ततः प्रविशति विदूषकः)
{{bold|विदूषकः -}} अविद अविद भोः‍, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः ।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेऽकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]
(ततः प्रविशति चेटी ।)
{{bold|चेटी -}} आणत्तम्हि देवीए कासिराअदुहिदाए जधा - हञ्जे णिउणिए! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अज्जमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हबंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा — यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य! वन्दे ।
{{bold|विदूषकः -}} सत्थि भोदीए । (आत्मगतम्) एवं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् ।) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि?]
{{bold|चेटी -}} देवीए वअणेण अज्जं एव्व पेक्खिदुम् । [देव्या वचनेनार्यमेव प्रेक्षितुम् ।]
{{bold|विदूषकः -}} किं तत्तभोदी आणवेदी? [किं तत्रभवती आज्ञापयति?]
{{bold|चेटी -}} देवी भणादि जधा - अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [देवी भणति यथा - आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]
{{bold|विदूषकः -}} णिउणिए! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम्? [निपुणिके! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम्?]
{{bold|चेटी -}} जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता ।]
{{bold|विदूषकः -}} (स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्भेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम्) किं तत्तभोदा उव्वसीणामघेएण आमन्तिदा? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता?]
{{bold|चेटी -}} अज्ज! का सा उव्वसी? [आर्य! का सा उर्वशी?]
{{bold|विदूषकः -}} अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि बम्हणं असितव्यविमुखं दृढं पीडयति । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]
{{bold|चेटी -}} (स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एवं णिवेदेमि । [उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि ।] (इति प्रस्थिता)
{{bold|विदूषकः -}} णिउणिए! विण्णावेहि मम वअणेण कासिराअदुहिदरम् - परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [निपुणिके! विज्ञापय मम वचनेन काशिराजदुहितरम् - परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]
{{bold|चेटी -}} जं अज्जो आणवेदि । (इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।]
(नेपथ्ये वैतालिकः)
जयतु जयतु देवः -
{{bold|<poem>आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः । तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १ ॥</poem>}} {{bold|विदूषकः –}} (कर्णं दत्वा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि । [एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्त्ती भवामि ।]
(इति निष्क्रान्तः ।)
{{bold|प्रवेशकः ।}}
(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)
{{bold|राजा -}} {{bold|<poem>आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् । बाणेन मकरकेतोः कृतमार्गमबन्ध्यपातेन ॥ २ ॥</poem>}} {{bold|विदूषकः -}} सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा । [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]
{{bold|राजा -}} (निरीक्ष्य) रक्ष्यते भवता रहस्यनिक्षेपः?
{{bold|विदूषकः –}} (आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो । [वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः ।]
{{bold|राजा -}} किं भवांस्तूष्णीमास्ते ।
{{bold|विदूषकः -}} भो! एव्वं मए जीहा संजन्तिदा जेण भवदो वि णत्थि पडिवअणम् । [भोः! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]
{{bold|राजा -}} युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि?
{{bold|विदूषकः -}} भो! महाणसं गच्छम्ह । [भो! महानसं गच्छावः ।]
{{bold|राजा -}} किं तत्र?
{{bold|विदूषकः -}} तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]
{{bold|राजा -}} तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः? ।
{{bold|विदूषकः -}} णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः ।]
{{bold|राजा -}} ततः किम् ।
{{bold|विदूषकः -}} ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि ।]
{{bold|राजा -}} पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।
{{bold|विदूषकः -}} एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अहुदीआ रूएण; अहं विअ विरूवदाए? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया?]
{{bold|राजा -}} माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि । तेन हि समासतः श्रूयताम् ।
{{bold|विदूषकः -}} भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]
{{bold|राजा -}} {{bold|<poem>आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥</poem>}} {{bold|विदूषकः -}} अदो दाव तुए दिव्वरसाहिलासिणा जादुअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो? । [अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः?]
{{bold|राजा -}} विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।
{{bold|विदूषकः -}} (आत्मगतम्) का गई! [का गतिः!] (प्रकाशम्) इदो इदो भवम् । [इत इतो भवान् ।]
(इति परिक्रामतः ।)
{{bold|विदूषकः -}} एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्खिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]
{{bold|राजा -}} (विलोक्य) उपपन्नं विशेषणमस्य वायोः । अयं हि -
{{bold|<poem>निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् । स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥</poem>}} {{bold|विदूषकः -}} सरिसो एव्व से अहिणिवेसो [सदृश एवास्याभिनिवेशः] (इति परिक्रामन्) एदं पमदवणम् [इदं प्रमदवनम्] पविसदु भवम् । [प्रविशतु भवान् ।]
{{bold|राजा -}} वयस्य! प्रविशाग्रतः ।
(उभौ प्रवेशं नाटयतः ।)
{{bold|राजा -}} (त्रासं रूपयित्वा) वयस्य! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् । {{bold|<poem>विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये । स्रोतसेवोह्यमानस्य प्रतीपतरणं महत् ॥ ५ ॥</poem>}} {{bold|विदूषकः -}} कहं विअ? [कथमिव ?]
{{bold|राजा -}} {{bold|<poem>इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डुपत्रैः उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥</poem>}} {{bold|विदूषकः -}} अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्टसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]
{{bold|राजा -}} प्रतिगृहीतं ब्राह्मणवचनम् ।
(इति परिक्रामतः ।)
{{bold|विदूषकः —}} पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]
{{bold|राजा -}} नूनं प्रतिपदमेव तावदवलोकयामि । अत्र हि - {{bold|<poem>अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ७ ॥</poem>}} {{bold|विदूषकः –}} एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदामण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो । [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।
{{bold|राजा -}} यदभिरोचते भवते । (इत्युपविशतः ।)
{{bold|विदूषकः —}} दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उक्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान्!]
{{bold|राजा -}} (निःश्वस्य ) {{bold|<poem>बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु । चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥</poem>}} तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।
{{bold|विदूषकः -}} (विहस्य) भो! अहल्लाकामुअस्स इन्दस्स व सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुबे वि एत्थ उम्मत्ताअ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]
{{bold|राजा -}} न खलु चिन्तयति भवान् ।
{{bold|विदूषकः -}} (चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधिं भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो! अहं कज्जदंसी । [एष चिन्तयानि । मा पुनः परिदेवितैः समाधिं भङ्क्ष्यसि । अहो! अहं कार्यदर्शी ।]
{{bold|राजा -}} {{bold|<poem>असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥</poem>}} (इति मदनोत्सुकस्तिष्ठति ।)
(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च )
{{bold|चित्रलेखा -}} सहि उव्वसि! कहिं क्खु अणिदिट्टकालणं गच्छीअदि? [सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते?]
{{bold|उर्वशी -}} (मदनवेदनामभिनीय सलज्जम्) सहि! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति मए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]
{{bold|चित्रलेखा -}} किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि?]
{{bold|उर्वशी -}} एसो मे अवहत्थिदलज्जो व्यवसाओ । [एषो ममापहस्तितलज्जो व्यवसायः ।]
{{bold|चित्रलेखा -}} सहि! तधा वि संपधारीअदु दाब । को उण सहीए तहिं पढमं पेसिदो? [सखि! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषितः?]
{{bold|उर्वशी -}} णं हिअअम् । (ननु हृदयम् ।)
{{bold|चित्रलेखा -}} को णु तुमं णिओजेदि? [को नु त्वां नियोजयति?]
{{bold|उर्वशी -}} मअणो क्खु मं णिओजेदि । [मदनः खलु मां नियोजयति ।]
{{bold|चित्रलेखा -}} अदो अवरं णत्थि मे वअणम् । [ अतः अपरं नास्ति मे वचनम् ।]
{{bold|उर्वशी -}} तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]
{{bold|चित्रलेखा -}} सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहाबन्धणं विज्जं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [सखि विस्रब्धा भव! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनीं विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः ।]
{{bold|उर्वशी -}} (सलज्जम्) ताए पओअं सव्वं सुमरेसि? [तस्याः प्रयोगं सर्वं स्मरसि?]
{{bold|चित्रलेखा -}} सहि ! हिअअं एदं सव्वं जानादि । [सखि! हृदयं एतत् सर्वं जानाति ।]
(उभे भ्रमणं रूपयतः)
{{bold|चित्रलेखा -}} सहि! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उवगद म्ह । [सखि! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्य राजर्षेर्भवनमुपगते खः ।]
{{bold|उर्वशी -}} (सस्पृहमवलोक्य) । णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । (विचार्य) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे? [ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । (विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ?]
{{bold|चित्रलेखा -}} एदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो । [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]
(उभे अवतरतः)
{{bold|चित्रलेखा -}} (राजानं दृष्ट्वा सहर्षम्) सहि! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]
{{bold|उर्वशी -}} (विलोक्य) हला! दाणिं पढमसणादो वि सविसेसं पिअदंसणो मे महाराओ पडिभादि [हला! इदानीं प्रथमदर्शनादपि सविशेषं प्रियदर्शनों मे महाराजः प्रतिभाति ।]
{{bold|चित्रलेखा -}} जुज्जुदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः ।]
{{bold|उर्वशी -}} ण दाव उवसप्पिस्तम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ सुणिस्सं दाव पासवनिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये । तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने किम् मन्त्रयन् तिष्ठतीति ।]
{{bold|चित्रलेखा -}} जहा दे रोअदि । [यथा ते रोचते ।]
(उभे यथोक्तमनुतिष्ठतः)
{{bold|विदूषकः -}} भो! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ । [भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
(राजा तूष्णीमास्ते)
{{bold|उर्वशी -}} का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]
{{bold|चित्रलेखा -}} झाणस्स किं बिलम्बीअदि? [ध्यानाय किं विलम्ब्यते?]
{{bold|उर्वशी -}} सहि! भीआमि सहसा पहावादो विण्णादुम् । [सखि! बिभेमि सहसा प्रभावतो विज्ञातुम् ।]
{{bold|विदूषकः -}} भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोबाओ [भोः! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
{{bold|राजा -}} वयस्य! कथ्यताम् ।
{{bold|विदूषकः -}} सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्वसीए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नसमागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]
{{bold|उर्वशी -}} (सहर्षम्) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} तदुभयमप्यनुपपन्नम् । {{bold|<poem>हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥</poem>}} {{bold|चित्रलेखा -}} सहि, सुदं तुए वअणम्? [सखि! श्रुतं त्वया वचनम्?]
{{bold|उर्वशी -}} सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]
{{bold|विदूषकः -}} एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]
{{bold|राजा -}} (सनिःश्वासम्) {{bold|<poem>नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम् । अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥</poem>}} {{bold|चित्रलेखा -}} सुदं तुए? [श्रुतं त्वया?]
{{bold|उर्वशी -}} हद्धी हद्धी! मं वि एव्वं अवगच्छदि । सहि! अममत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम् । ता पहावणिम्मिदेण भुज्जवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]
{{bold|चित्रलेखा -}} अणुमदं मे । [अनुमतं मे ।]
(उर्वशी नाट्येनाभिलिख्य क्षिपति)
{{bold|विदूषकः -}} अविद अविद भो, किं णु एदम् । भुअङ्गणिम्मोओ किं मं खादिदुं णिवडिदो [अविदाविद भोः! किं न्वेतत्! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः?]
{{bold|राजा -}} (दृष्ट्वा) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः ।
{{bold|विदूषकः -}} णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं सुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआइं भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः ।]
{{bold|राजा -}} नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम्) सखे! प्रसन्नस्ते तर्कः ।
{{bold|विदूषकः -}} जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]
{{bold|उर्वशी -}} साहु साहु अज्ज! णाअरोसि । [साधु साधु आर्य! नागरोऽसि ।]
{{bold|राजा -}} श्रूयताम् —
(इति वाचयति) <poem>सामिअ संभावितआ जह अहं तए अमुणिआ तह अ अणुरत्तस्स सुहअ एअमेअ तुह । णवरि अ मे ललिअपारिआअसअणिज्जम्मि होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥ १२ ॥</poem> {{bold|<poem>[स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री तथा चानुरक्तस्य सुभग एवमेव तव । अनन्तरं च मे ललितपारिजातशयनीये भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥ १२ ॥]</poem>}} {{bold|उर्वशी -}} किं णु संपदं भणिस्सदि? [किं नु साम्प्रतं भणिष्यति?]
{{bold|चित्रलेखा -}} किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः ।]
{{bold|विदूषकः -}} दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]
{{bold|राजा -}} समाश्वासनमिति किमुच्यते । {{bold|<poem>तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः । उत्पक्ष्मलं मम सखे मदिरेक्षणायास्तस्याः समागतमिवाननमाननेन ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} एत्थ णो समभाआ मदी । [अत्रावयोः समभागा मतिः ।]
{{bold|राजा -}} वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः ।
{{bold|विदूषकः -}} (गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]
{{bold|उर्वशी -}} हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [सखि! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]
{{bold|चित्रलेखा -}} तहा । [तथा ।] (इति तिरस्करिणीमपनीय राजानमुपसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सम्भ्रमादरगर्भम्) स्वागतं भवत्यै (पार्श्वमवलोक्य) भद्रे! {{bold|<poem>न तथा नन्दयसि मां सख्या विरहिता तया । सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥</poem>}} {{bold|चित्रलेखा -}} णं पढमं मेहराई दीसदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते, पश्चाद्विद्युल्लता ।]
{{bold|विदूषकः -}} (अपवार्य) कहं ण एसा उव्वसी उवगदा! तत्तभोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [कथं नैषा उर्वश्युपगता! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]
{{bold|<poem>राजा -</poem>}} एतदासनमास्यताम् ।
{{bold|चित्रलेखा -}} उव्वसी महाराअं सिरसा पणमिअ विण्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]
{{bold|राजा -}} किमाज्ञापयति —
{{bold|चित्रलेखा -}} मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होम । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]
{{bold|राजा -}} अयि सखि! {{bold|<poem>पर्युत्सुकां कथयसि प्रियदर्शनां तामार्तिं न पश्यसि पुरूरवसतदर्थाम् । साधारणोऽयमुभयोः प्रणयो यतस्व तां कौमुदीमिव समागमयेन्दुबिम्वे ॥ १५ ॥</poem>}} {{bold|चित्रलेखा -}} (उर्वशीमुपेत्य) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवृत्ता । [सखि! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता ।]
{{bold|उर्वशी -}} (तिरस्करिणीमपनीय) अयि अणवत्थिदे! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते! लघु एव त्वया परित्यक्तास्मि ।]
{{bold|चित्रलेखा -}} (सस्मितम्) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]
{{bold|उर्वशी -}} (ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सहर्षम्) सुन्दरि! {{bold|<poem>मया नाम जितं यस्य त्वयायं समुदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥</poem>}} (हस्ते गृहीत्वा आसन उपवेशयति ।)
{{bold|विदूषकः -}} कीदिसी त्थिदी भोदीए रज्जे । पिअवअस्सो बम्हणो ण बन्दीअदि । [कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते ।]
(उर्वशी सस्मितं प्रणमति ।)
{{bold|विदूषकः -}} सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
{{bold|देवदूतः -}} चित्रलेखे! त्वरयोर्वशीम् — {{bold|<poem>मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥</poem>}} (सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)
{{bold|चित्रलेखा -}} सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि महाराअम् । [श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् ।]
{{bold|उर्वशी -}} (निःश्वस्य) णत्थि मे वाआविहवो । [नास्ति मे वाग्विभवः ।]
{{bold|चित्रलेखा -}} महाराअ! उव्वसी विण्णवेदि - परवसो अअं जणो । महाराएण अब्भणुण्णादा इच्छामि देअअस्स अणवरद्धं अत्ताणअं कादुम् । [महाराज! उर्वशी विज्ञापयति - परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् ।]
{{bold|राजा -}} (कथं कथमपि वचनं संस्थाप्य) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।
(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)
{{bold|राजा -}} (सनिःश्वासम्) वैयर्थ्यमिव चक्षुषः सम्प्रति ।
{{bold|विदूषकः -}} (पत्रं दर्शयितुकामः) णं भुज्ज - (इत्यर्धोक्तेनात्मगतम्) अविद अविद भो, उव्वसीदंसणविम्हिदेण मए तं भुज्जवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज - । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]
{{bold|राजा -}} किमसि वक्तुकामः ।
{{bold|विदूषकः -}} वअस्स! एदम्हि वत्तुकामो । मा भवं अंगाईं विमुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं अणुबंधं सिढिलीकरेदि । [वयस्य! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुबन्धं शिथिलीकरोति ।]
{{bold|राजा -}} ममाप्येतदेव मनसि वर्त्तते । तया खलु प्रस्थाने - {{bold|<poem>अनीशया शरीरस्य हृदयं स्ववशं मयि । स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १८ ॥</poem>}} {{bold|विदूषकः -}} (स्वगतम्) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुज्जवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति । [वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]
{{bold|राजा -}} वयस्य! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा) उपनय भूर्जपत्रम् ।
{{bold|विदूषकः -}} (सर्वतो दृष्ट्वा सविषादम्) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुज्जवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण ।]
{{bold|राजा -}} (सासूयम्) सर्वत्र प्रमादी वैधेयः ।
{{bold|विदूषकः -}} णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् ।]
(इति विचेतव्यं नाटयति ।)
(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः ।)
{{bold|औशीनरी -}} हञ्जे णिउणिए! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ? [हञ्जे निपुणिके! सत्यं किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः?]
{{bold|चेटी -}} अलीअं किं मए भट्टिणी विण्णविदपुव्वा? [अलीकं किं मया भट्टिणी विज्ञापितपूर्वा?]
{{bold|देवी -}} तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंति - दाई जं तुए कहिदं सच्चं ण वेत्ति । [तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]
{{bold|चेटी -}} जं देवीए रुच्चदि । [यद्देव्यै रोचते ।]
{{bold|देवी -}} (परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एवं वत्तं णवचीअरं विअ इदो दक्खिणमारुदेण आणीअदि? [निपुणिके! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते?]
{{bold|चेटी -}} (विभाव्य) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [भट्टिनि! परिवर्तनविभाविताक्षरं भूर्जपत्रं खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम्! कथं वाच्यतामेतत् ।]
{{bold|देवी -}} अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]
{{bold|चेटी -}} (तथा कृत्वा) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोर्हस्तमागतम् ।]
{{bold|देवी -}} णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]
(चेटी वाचयति)
{{bold|देवी -}} एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह । [एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्ष्यावहे ।]
{{bold|चेटी -}} जं देवी आणवेदि । [यदेव्याज्ञापयति ।]
(इति परिजनसहिते लतागृहं परिक्रामतः ।)
{{bold|विदूषकः -}} भो वअस्स! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी? [भो वयस्य! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते?]
{{bold|राजा -}} (उत्थाय) भगवन् वसन्तसख मलयानिल! {{bold|<poem>वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे । जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥</poem>}} {{bold|निपुणिका -}} भट्टिणि! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]
{{bold|देवी -}} पेक्खामि । [प्रेक्षे ।]
{{bold|विदूषकः -}} भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि ।]
{{bold|राजा -}} सर्वथा हतोऽस्मि मन्दभाग्यः ।
{{bold|देवी -}} (सहसोपसृत्य) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र! अलमावेगेन । एतदेव तद्भूर्जपत्रम् ।]
{{bold|राजा -}} (ससम्भ्रममात्मगतम्) अये! इयं देवी । (प्रकाशम्) स्वागतं देव्यै ।
{{bold|देवी -}} दुरागदं दाणिं संवुत्तम् । [दुरागतमिदानीं संवृत्तम् ।]
{{bold|राजा -}} (जनान्तिकम्) वयस्य! किमत्र प्रतिविधानम् ।
{{bold|विदूषकः‍ -}} (जनान्तिकम्) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम्? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम्?]
{{bold|राजा -}} (अपवार्य) मूढ! नायं परिहासकालः । (प्रकाशम्) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
{{bold|देवी -}} जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम्]
{{bold|विदूषकः -}} भोदि! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । [भवति! त्वरयस्वास्य भोजनम्, पित्तोपशमनेन स्वस्थो भवतु ।]
{{bold|देवी -}} णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो । [निपुणिके! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।]
{{bold|विदूषकः‍ -}} णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।]
{{bold|राजा -}} मूर्ख! बलादपराधिनं मामापादयसि ।
{{bold|देवी -}} णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]
(इति कोपं नाटयित्वा प्रस्थिता)
{{bold|राजा -}} {{bold|<poem>अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥</poem>}} (इति पादयोः पतति)
{{bold|देवी -}} (आत्मगतम्) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि ।]
(इति राजानमपहाय सपरिवारा निष्क्रान्ता)
{{bold|विदूषकः -}} पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ ।]
{{bold|राजा -}} (उत्थाय) वयस्य ! नेदमुपपन्नम् । पश्य- {{bold|<poem>प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते । प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥</poem>}} {{bold|विदूषकः -}} अणुऊलं एव्व एदं भवदो । ण हु अक्खिदुक्खिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते ।]
{{bold|राजा -}} मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।
{{bold|विदूषकः -}} चिट्ठदु दाव धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।]
{{bold|राजा -}} (ऊर्ध्वमवलोक्य) कथमर्धं गतं दिवसस्य । अतः खलु- {{bold|<poem>उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्यौपारे कर्णिकारमुकुलान्याशेरते षट्पदाः । तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥ २२ ॥</poem>}} (इति निष्क्रान्तौ ।)
{{bold|॥ द्वितीयोऽङ्कः ॥}}
{{bold|सन्दर्भजालपुटसङ्केतः -}} <ref>https://archive.org/details/in.ernet.dli.2015.326674/mode/2up</ref> d5769bok9pv807p0uh4ydbwt1xesrpj 418658 418657 2026-09-29T13:28:20Z शशाङ्कः सि जि 10187 418658 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = द्वितीयोऽङ्कः | previous = [[../प्रथमोऽङ्कः|प्रथमोऽङ्कः]] | next = [[../तृतीयोऽङ्कः|तृतीयोऽङ्कः]] | notes = }} {{center|{{bold|द्वितीयोऽङ्कः}}}}
(ततः प्रविशति विदूषकः)
{{bold|विदूषकः -}} अविद अविद भोः‍, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः ।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेऽकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]
(ततः प्रविशति चेटी ।)
{{bold|चेटी -}} आणत्तम्हि देवीए कासिराअदुहिदाए जधा - हञ्जे णिउणिए! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अज्जमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हबंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा — यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य! वन्दे ।
{{bold|विदूषकः -}} सत्थि भोदीए । (आत्मगतम्) एवं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् ।) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि?]
{{bold|चेटी -}} देवीए वअणेण अज्जं एव्व पेक्खिदुम् । [देव्या वचनेनार्यमेव प्रेक्षितुम् ।]
{{bold|विदूषकः -}} किं तत्तभोदी आणवेदी? [किं तत्रभवती आज्ञापयति?]
{{bold|चेटी -}} देवी भणादि जधा - अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [देवी भणति यथा - आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]
{{bold|विदूषकः -}} णिउणिए! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम्? [निपुणिके! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम्?]
{{bold|चेटी -}} जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता ।]
{{bold|विदूषकः -}} (स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्भेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम्) किं तत्तभोदा उव्वसीणामघेएण आमन्तिदा? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता?]
{{bold|चेटी -}} अज्ज! का सा उव्वसी? [आर्य! का सा उर्वशी?]
{{bold|विदूषकः -}} अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि बम्हणं असितव्यविमुखं दृढं पीडयति । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]
{{bold|चेटी -}} (स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एवं णिवेदेमि । [उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि ।] (इति प्रस्थिता)
{{bold|विदूषकः -}} णिउणिए! विण्णावेहि मम वअणेण कासिराअदुहिदरम् - परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [निपुणिके! विज्ञापय मम वचनेन काशिराजदुहितरम् - परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]
{{bold|चेटी -}} जं अज्जो आणवेदि । (इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।]
(नेपथ्ये वैतालिकः)
जयतु जयतु देवः -
{{bold|<poem>आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः । तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १ ॥</poem>}} {{bold|विदूषकः –}} (कर्णं दत्वा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि । [एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्त्ती भवामि ।]
(इति निष्क्रान्तः ।)
{{bold|प्रवेशकः ।}}
(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)
{{bold|राजा -}} {{bold|<poem>आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् । बाणेन मकरकेतोः कृतमार्गमबन्ध्यपातेन ॥ २ ॥</poem>}} {{bold|विदूषकः -}} सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा । [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]
{{bold|राजा -}} (निरीक्ष्य) रक्ष्यते भवता रहस्यनिक्षेपः?
{{bold|विदूषकः –}} (आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो । [वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः ।]
{{bold|राजा -}} किं भवांस्तूष्णीमास्ते ।
{{bold|विदूषकः -}} भो! एव्वं मए जीहा संजन्तिदा जेण भवदो वि णत्थि पडिवअणम् । [भोः! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]
{{bold|राजा -}} युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि?
{{bold|विदूषकः -}} भो! महाणसं गच्छम्ह । [भो! महानसं गच्छावः ।]
{{bold|राजा -}} किं तत्र?
{{bold|विदूषकः -}} तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]
{{bold|राजा -}} तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः? ।
{{bold|विदूषकः -}} णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः ।]
{{bold|राजा -}} ततः किम् ।
{{bold|विदूषकः -}} ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि ।]
{{bold|राजा -}} पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।
{{bold|विदूषकः -}} एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अहुदीआ रूएण; अहं विअ विरूवदाए? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया?]
{{bold|राजा -}} माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि । तेन हि समासतः श्रूयताम् ।
{{bold|विदूषकः -}} भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]
{{bold|राजा -}} {{bold|<poem>आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥</poem>}} {{bold|विदूषकः -}} अदो दाव तुए दिव्वरसाहिलासिणा जादुअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो? । [अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः?]
{{bold|राजा -}} विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।
{{bold|विदूषकः -}} (आत्मगतम्) का गई! [का गतिः!] (प्रकाशम्) इदो इदो भवम् । [इत इतो भवान् ।]
(इति परिक्रामतः ।)
{{bold|विदूषकः -}} एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्खिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]
{{bold|राजा -}} (विलोक्य) उपपन्नं विशेषणमस्य वायोः । अयं हि -
{{bold|<poem>निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् । स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥</poem>}} {{bold|विदूषकः -}} सरिसो एव्व से अहिणिवेसो [सदृश एवास्याभिनिवेशः] (इति परिक्रामन्) एदं पमदवणम् [इदं प्रमदवनम्] पविसदु भवम् । [प्रविशतु भवान् ।]
{{bold|राजा -}} वयस्य! प्रविशाग्रतः ।
(उभौ प्रवेशं नाटयतः ।)
{{bold|राजा -}} (त्रासं रूपयित्वा) वयस्य! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् । {{bold|<poem>विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये । स्रोतसेवोह्यमानस्य प्रतीपतरणं महत् ॥ ५ ॥</poem>}} {{bold|विदूषकः -}} कहं विअ? [कथमिव ?]
{{bold|राजा -}} {{bold|<poem>इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डुपत्रैः उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥</poem>}} {{bold|विदूषकः -}} अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्टसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]
{{bold|राजा -}} प्रतिगृहीतं ब्राह्मणवचनम् ।
(इति परिक्रामतः ।)
{{bold|विदूषकः —}} पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]
{{bold|राजा -}} नूनं प्रतिपदमेव तावदवलोकयामि । अत्र हि - {{bold|<poem>अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ७ ॥</poem>}} {{bold|विदूषकः –}} एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदामण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो । [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।
{{bold|राजा -}} यदभिरोचते भवते । (इत्युपविशतः ।)
{{bold|विदूषकः —}} दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उक्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान्!]
{{bold|राजा -}} (निःश्वस्य ) {{bold|<poem>बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु । चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥</poem>}} तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।
{{bold|विदूषकः -}} (विहस्य) भो! अहल्लाकामुअस्स इन्दस्स व सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुबे वि एत्थ उम्मत्ताअ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]
{{bold|राजा -}} न खलु चिन्तयति भवान् ।
{{bold|विदूषकः -}} (चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधिं भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो! अहं कज्जदंसी । [एष चिन्तयानि । मा पुनः परिदेवितैः समाधिं भङ्क्ष्यसि । अहो! अहं कार्यदर्शी ।]
{{bold|राजा -}} {{bold|<poem>असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥</poem>}} (इति मदनोत्सुकस्तिष्ठति ।)
(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च )
{{bold|चित्रलेखा -}} सहि उव्वसि! कहिं क्खु अणिदिट्टकालणं गच्छीअदि? [सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते?]
{{bold|उर्वशी -}} (मदनवेदनामभिनीय सलज्जम्) सहि! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति मए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]
{{bold|चित्रलेखा -}} किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि?]
{{bold|उर्वशी -}} एसो मे अवहत्थिदलज्जो व्यवसाओ । [एषो ममापहस्तितलज्जो व्यवसायः ।]
{{bold|चित्रलेखा -}} सहि! तधा वि संपधारीअदु दाब । को उण सहीए तहिं पढमं पेसिदो? [सखि! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषितः?]
{{bold|उर्वशी -}} णं हिअअम् । (ननु हृदयम् ।)
{{bold|चित्रलेखा -}} को णु तुमं णिओजेदि? [को नु त्वां नियोजयति?]
{{bold|उर्वशी -}} मअणो क्खु मं णिओजेदि । [मदनः खलु मां नियोजयति ।]
{{bold|चित्रलेखा -}} अदो अवरं णत्थि मे वअणम् । [ अतः अपरं नास्ति मे वचनम् ।]
{{bold|उर्वशी -}} तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]
{{bold|चित्रलेखा -}} सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहाबन्धणं विज्जं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [सखि विस्रब्धा भव! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनीं विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः ।]
{{bold|उर्वशी -}} (सलज्जम्) ताए पओअं सव्वं सुमरेसि? [तस्याः प्रयोगं सर्वं स्मरसि?]
{{bold|चित्रलेखा -}} सहि ! हिअअं एदं सव्वं जानादि । [सखि! हृदयं एतत् सर्वं जानाति ।]
(उभे भ्रमणं रूपयतः)
{{bold|चित्रलेखा -}} सहि! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उवगद म्ह । [सखि! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्य राजर्षेर्भवनमुपगते खः ।]
{{bold|उर्वशी -}} (सस्पृहमवलोक्य) । णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । (विचार्य) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे? [ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । (विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ?]
{{bold|चित्रलेखा -}} एदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो । [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]
(उभे अवतरतः)
{{bold|चित्रलेखा -}} (राजानं दृष्ट्वा सहर्षम्) सहि! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]
{{bold|उर्वशी -}} (विलोक्य) हला! दाणिं पढमसणादो वि सविसेसं पिअदंसणो मे महाराओ पडिभादि [हला! इदानीं प्रथमदर्शनादपि सविशेषं प्रियदर्शनों मे महाराजः प्रतिभाति ।]
{{bold|चित्रलेखा -}} जुज्जुदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः ।]
{{bold|उर्वशी -}} ण दाव उवसप्पिस्तम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ सुणिस्सं दाव पासवनिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये । तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने किम् मन्त्रयन् तिष्ठतीति ।]
{{bold|चित्रलेखा -}} जहा दे रोअदि । [यथा ते रोचते ।]
(उभे यथोक्तमनुतिष्ठतः)
{{bold|विदूषकः -}} भो! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ । [भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
(राजा तूष्णीमास्ते)
{{bold|उर्वशी -}} का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]
{{bold|चित्रलेखा -}} झाणस्स किं बिलम्बीअदि? [ध्यानाय किं विलम्ब्यते?]
{{bold|उर्वशी -}} सहि! भीआमि सहसा पहावादो विण्णादुम् । [सखि! बिभेमि सहसा प्रभावतो विज्ञातुम् ।]
{{bold|विदूषकः -}} भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोबाओ [भोः! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः ।]
{{bold|राजा -}} वयस्य! कथ्यताम् ।
{{bold|विदूषकः -}} सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्वसीए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नसमागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]
{{bold|उर्वशी -}} (सहर्षम्) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} तदुभयमप्यनुपपन्नम् । {{bold|<poem>हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥</poem>}} {{bold|चित्रलेखा -}} सहि, सुदं तुए वअणम्? [सखि! श्रुतं त्वया वचनम्?]
{{bold|उर्वशी -}} सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]
{{bold|विदूषकः -}} एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]
{{bold|राजा -}} (सनिःश्वासम्) {{bold|<poem>नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम् । अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥</poem>}} {{bold|चित्रलेखा -}} सुदं तुए? [श्रुतं त्वया?]
{{bold|उर्वशी -}} हद्धी हद्धी! मं वि एव्वं अवगच्छदि । सहि! अममत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम् । ता पहावणिम्मिदेण भुज्जवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]
{{bold|चित्रलेखा -}} अणुमदं मे । [अनुमतं मे ।]
(उर्वशी नाट्येनाभिलिख्य क्षिपति)
{{bold|विदूषकः -}} अविद अविद भो, किं णु एदम् । भुअङ्गणिम्मोओ किं मं खादिदुं णिवडिदो [अविदाविद भोः! किं न्वेतत्! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः?]
{{bold|राजा -}} (दृष्ट्वा) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः ।
{{bold|विदूषकः -}} णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं सुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआइं भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः ।]
{{bold|राजा -}} नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम्) सखे! प्रसन्नस्ते तर्कः ।
{{bold|विदूषकः -}} जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]
{{bold|उर्वशी -}} साहु साहु अज्ज! णाअरोसि । [साधु साधु आर्य! नागरोऽसि ।]
{{bold|राजा -}} श्रूयताम् —
(इति वाचयति) <poem>सामिअ संभावितआ जह अहं तए अमुणिआ तह अ अणुरत्तस्स सुहअ एअमेअ तुह । णवरि अ मे ललिअपारिआअसअणिज्जम्मि होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥ १२ ॥</poem> {{bold|<poem>[स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री तथा चानुरक्तस्य सुभग एवमेव तव । अनन्तरं च मे ललितपारिजातशयनीये भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥ १२ ॥]</poem>}} {{bold|उर्वशी -}} किं णु संपदं भणिस्सदि? [किं नु साम्प्रतं भणिष्यति?]
{{bold|चित्रलेखा -}} किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः ।]
{{bold|विदूषकः -}} दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]
{{bold|राजा -}} समाश्वासनमिति किमुच्यते । {{bold|<poem>तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः । उत्पक्ष्मलं मम सखे मदिरेक्षणायास्तस्याः समागतमिवाननमाननेन ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} एत्थ णो समभाआ मदी । [अत्रावयोः समभागा मतिः ।]
{{bold|राजा -}} वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः ।
{{bold|विदूषकः -}} (गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]
{{bold|उर्वशी -}} हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [सखि! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]
{{bold|चित्रलेखा -}} तहा । [तथा ।] (इति तिरस्करिणीमपनीय राजानमुपसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सम्भ्रमादरगर्भम्) स्वागतं भवत्यै (पार्श्वमवलोक्य) भद्रे! {{bold|<poem>न तथा नन्दयसि मां सख्या विरहिता तया । सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥</poem>}} {{bold|चित्रलेखा -}} णं पढमं मेहराई दीसदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते, पश्चाद्विद्युल्लता ।]
{{bold|विदूषकः -}} (अपवार्य) कहं ण एसा उव्वसी उवगदा! तत्तभोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [कथं नैषा उर्वश्युपगता! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]
{{bold|<poem>राजा -</poem>}} एतदासनमास्यताम् ।
{{bold|चित्रलेखा -}} उव्वसी महाराअं सिरसा पणमिअ विण्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]
{{bold|राजा -}} किमाज्ञापयति —
{{bold|चित्रलेखा -}} मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होम । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]
{{bold|राजा -}} अयि सखि! {{bold|<poem>पर्युत्सुकां कथयसि प्रियदर्शनां तामार्तिं न पश्यसि पुरूरवसतदर्थाम् । साधारणोऽयमुभयोः प्रणयो यतस्व तां कौमुदीमिव समागमयेन्दुबिम्वे ॥ १५ ॥</poem>}} {{bold|चित्रलेखा -}} (उर्वशीमुपेत्य) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवृत्ता । [सखि! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता ।]
{{bold|उर्वशी -}} (तिरस्करिणीमपनीय) अयि अणवत्थिदे! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते! लघु एव त्वया परित्यक्तास्मि ।]
{{bold|चित्रलेखा -}} (सस्मितम्) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]
{{bold|उर्वशी -}} (ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
{{bold|राजा -}} (सहर्षम्) सुन्दरि! {{bold|<poem>मया नाम जितं यस्य त्वयायं समुदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥</poem>}} (हस्ते गृहीत्वा आसन उपवेशयति ।)
{{bold|विदूषकः -}} कीदिसी त्थिदी भोदीए रज्जे । पिअवअस्सो बम्हणो ण बन्दीअदि । [कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते ।]
(उर्वशी सस्मितं प्रणमति ।)
{{bold|विदूषकः -}} सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
{{bold|देवदूतः -}} चित्रलेखे! त्वरयोर्वशीम् — {{bold|<poem>मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥</poem>}} (सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)
{{bold|चित्रलेखा -}} सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि महाराअम् । [श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् ।]
{{bold|उर्वशी -}} (निःश्वस्य) णत्थि मे वाआविहवो । [नास्ति मे वाग्विभवः ।]
{{bold|चित्रलेखा -}} महाराअ! उव्वसी विण्णवेदि - परवसो अअं जणो । महाराएण अब्भणुण्णादा इच्छामि देअअस्स अणवरद्धं अत्ताणअं कादुम् । [महाराज! उर्वशी विज्ञापयति - परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् ।]
{{bold|राजा -}} (कथं कथमपि वचनं संस्थाप्य) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।
(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)
{{bold|राजा -}} (सनिःश्वासम्) वैयर्थ्यमिव चक्षुषः सम्प्रति ।
{{bold|विदूषकः -}} (पत्रं दर्शयितुकामः) णं भुज्ज - (इत्यर्धोक्तेनात्मगतम्) अविद अविद भो, उव्वसीदंसणविम्हिदेण मए तं भुज्जवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज - । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]
{{bold|राजा -}} किमसि वक्तुकामः ।
{{bold|विदूषकः -}} वअस्स! एदम्हि वत्तुकामो । मा भवं अंगाईं विमुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं अणुबंधं सिढिलीकरेदि । [वयस्य! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुबन्धं शिथिलीकरोति ।]
{{bold|राजा -}} ममाप्येतदेव मनसि वर्त्तते । तया खलु प्रस्थाने - {{bold|<poem>अनीशया शरीरस्य हृदयं स्ववशं मयि । स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १८ ॥</poem>}} {{bold|विदूषकः -}} (स्वगतम्) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुज्जवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति । [वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]
{{bold|राजा -}} वयस्य! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा) उपनय भूर्जपत्रम् ।
{{bold|विदूषकः -}} (सर्वतो दृष्ट्वा सविषादम्) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुज्जवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण ।]
{{bold|राजा -}} (सासूयम्) सर्वत्र प्रमादी वैधेयः ।
{{bold|विदूषकः -}} णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् ।]
(इति विचेतव्यं नाटयति ।)
(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः ।)
{{bold|औशीनरी -}} हञ्जे णिउणिए! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ? [हञ्जे निपुणिके! सत्यं किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः?]
{{bold|चेटी -}} अलीअं किं मए भट्टिणी विण्णविदपुव्वा? [अलीकं किं मया भट्टिणी विज्ञापितपूर्वा?]
{{bold|देवी -}} तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंति - दाई जं तुए कहिदं सच्चं ण वेत्ति । [तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]
{{bold|चेटी -}} जं देवीए रुच्चदि । [यद्देव्यै रोचते ।]
{{bold|देवी -}} (परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एवं वत्तं णवचीअरं विअ इदो दक्खिणमारुदेण आणीअदि? [निपुणिके! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते?]
{{bold|चेटी -}} (विभाव्य) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [भट्टिनि! परिवर्तनविभाविताक्षरं भूर्जपत्रं खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम्! कथं वाच्यतामेतत् ।]
{{bold|देवी -}} अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]
{{bold|चेटी -}} (तथा कृत्वा) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोर्हस्तमागतम् ।]
{{bold|देवी -}} णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]
(चेटी वाचयति)
{{bold|देवी -}} एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह । [एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्ष्यावहे ।]
{{bold|चेटी -}} जं देवी आणवेदि । [यदेव्याज्ञापयति ।]
(इति परिजनसहिते लतागृहं परिक्रामतः ।)
{{bold|विदूषकः -}} भो वअस्स! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी? [भो वयस्य! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते?]
{{bold|राजा -}} (उत्थाय) भगवन् वसन्तसख मलयानिल! {{bold|<poem>वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे । जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥</poem>}} {{bold|निपुणिका -}} भट्टिणि! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]
{{bold|देवी -}} पेक्खामि । [प्रेक्षे ।]
{{bold|विदूषकः -}} भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि ।]
{{bold|राजा -}} सर्वथा हतोऽस्मि मन्दभाग्यः ।
{{bold|देवी -}} (सहसोपसृत्य) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र! अलमावेगेन । एतदेव तद्भूर्जपत्रम् ।]
{{bold|राजा -}} (ससम्भ्रममात्मगतम्) अये! इयं देवी । (प्रकाशम्) स्वागतं देव्यै ।
{{bold|देवी -}} दुरागदं दाणिं संवुत्तम् । [दुरागतमिदानीं संवृत्तम् ।]
{{bold|राजा -}} (जनान्तिकम्) वयस्य! किमत्र प्रतिविधानम् ।
{{bold|विदूषकः‍ -}} (जनान्तिकम्) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम्? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम्?]
{{bold|राजा -}} (अपवार्य) मूढ! नायं परिहासकालः । (प्रकाशम्) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
{{bold|देवी -}} जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम्]
{{bold|विदूषकः -}} भोदि! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । [भवति! त्वरयस्वास्य भोजनम्, पित्तोपशमनेन स्वस्थो भवतु ।]
{{bold|देवी -}} णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो । [निपुणिके! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।]
{{bold|विदूषकः‍ -}} णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।]
{{bold|राजा -}} मूर्ख! बलादपराधिनं मामापादयसि ।
{{bold|देवी -}} णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]
(इति कोपं नाटयित्वा प्रस्थिता)
{{bold|राजा -}} {{bold|<poem>अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥</poem>}} (इति पादयोः पतति)
{{bold|देवी -}} (आत्मगतम्) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि ।]
(इति राजानमपहाय सपरिवारा निष्क्रान्ता)
{{bold|विदूषकः -}} पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ ।]
{{bold|राजा -}} (उत्थाय) वयस्य ! नेदमुपपन्नम् । पश्य- {{bold|<poem>प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते । प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥</poem>}} {{bold|विदूषकः -}} अणुऊलं एव्व एदं भवदो । ण हु अक्खिदुक्खिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते ।]
{{bold|राजा -}} मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।
{{bold|विदूषकः -}} चिट्ठदु दाव धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।]
{{bold|राजा -}} (ऊर्ध्वमवलोक्य) कथमर्धं गतं दिवसस्य । अतः खलु- {{bold|<poem>उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्यौपारे कर्णिकारमुकुलान्याशेरते षट्पदाः । तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥ २२ ॥</poem>}} (इति निष्क्रान्तौ ।)
{{bold|॥ द्वितीयोऽङ्कः ॥}}
{{bold|सन्दर्भजालपुटसङ्केतः -}} <ref>https://archive.org/details/in.ernet.dli.2015.326674/mode/2up</ref> qxf68owcinhnqqfn5z1zeby5xjgp3yi विक्रमोर्वशीयम्/प्रथमोऽङ्कः 0 165956 418660 418648 2026-09-29T14:25:32Z शशाङ्कः सि जि 10187 418660 wikitext text/x-wiki {{header | title = [[../]] | author = कालिदासः | translator = | section = प्रथमोऽङ्कः | previous = | next = [[../द्वितीयोऽङ्कः|द्वितीयोऽङ्कः]] | notes = }} {{center|{{bold|प्रथमोऽङ्कः}}}}
{{bold|<poem>वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते सः स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः ॥ १ ॥</poem>}} (नान्द्यन्ते)
{{bold|सूत्रधारः -}} अलमतिविस्तरेण ।
{{bold|सूत्रधारः -}} (नेपथ्याभिमुखमवलोक्य,) मारिष ! इतस्तावत् ।
{{bold|पारिपार्श्वकः -}} भाव ! अयमस्मि ।
{{bold|सूत्रधारः -}} मारिष ! परिषदेषा पूर्वेषां कवीनां दृष्टरसप्रबन्धा अहमस्यां कालिदासग्रथितवस्तुना नवेन त्रोटकेन उपस्थास्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु पाठेषु अवहितं भवितव्यमिति ॥
{{bold|पारिपार्श्वकः -}} यथाज्ञापयति भावः । (इति निष्कान्तः ।)
{{bold|सूत्रधारः -}} (प्रणिपत्य,) यावदिदानीमार्यविदग्धमिश्रान् विज्ञापयामि ।
{{bold|<poem>प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् । शृणुत जना अवधानात् क्रियामिमां कालिदासस्य ॥ २ ॥</poem>}} (नेपथ्ये) अज्जा, परित्ताअध पस्य मुअथ । जो सुरपक्खवादी, जस्स वा अम्बरअले गईअत्थि । [आर्याः परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्य वाऽम्बरतले गतिरस्ति]
{{bold|सूत्रधारः -}} (कर्णं दत्त्वा ।) अये ! किं नु खलु मद्विज्ञापनान्तरमार्तानां कुररीणामिवाकाशे शब्दः ।
{{bold|<poem>मत्तानां कुसुमरसेन षट्पदानां शब्दोऽयं परभृतनाद एष धीरः । आकाशे सुरगणसेविते समन्तात् किं नार्यः कलमधुराक्षरं प्रगीताः ॥ ३ ॥</poem>}} {{bold|सूत्रधारः -}} (विचिन्त्य,) भवतु । ज्ञातम् ।
{{bold|<poem>ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री कैलासनाथमनुसृत्य निवर्तमाना । बन्दीकृता विबुधशत्रुभिरर्धमार्गे क्रन्दत्यतः करुणमप्सरसां गणोऽयम् ॥ ४ ॥</poem>}} (इति निष्क्रान्तः ।)
{{bold|प्रस्तावना ।}}
(ततः प्रविशन्त्यप्सरसः ।)
{{bold|अप्सरसः -}} अज्जा परित्ताअध परित्ताअध । जो सुरपक्खपादि जस्स अम्वरअले गईअस्थि । [आर्याः ! परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्याम्बरतले गतिरस्ति ।]
(ततः प्रविशति अपटीक्षेपेण राजा रथेन सूतश्च ।)
{{bold|राजा -}} अलमाक्रन्दितेन । सूर्योपस्थाननिवृत्तं पुरूरवसं मामेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति ।
{{bold|रम्भा -}} असुरावलेपादो । [असुरावलेपतः ।]
{{bold|राजा -}} किं पुनरसुरावलेपेन भवतीनामपराद्धम् ।
{{bold|रम्भा -}} सुणादु महाराओ । जा तवोविसेससङ्किदस्स सुउमारं पहअणं महेन्दस्स, पञ्चादेसो रूवगव्विदाए सिरिगोरिए, अलंकारो सग्गस्स, सा णो पिअसही उव्वसी कुवेरभवणादो वित्तमाणा केणावि दाणवेण चित्तलेहादुदीआ अद्धपथं ज्जेव बन्दिग्गाहं गिहिदा [शृणोतु महाराजः । या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य प्रत्यादेशो रूपगर्वितायाः श्रीगौर्याः, अलङ्कारः सर्गस्य सा नः प्रियसखी उर्वशी कुबेरभवनान्निवर्तमाना केनापि दानवेन चित्रलेखाद्वितीया अर्धपथ एव बन्दिग्राहं गृहीता ।]
{{bold|राजा -}} अपि ज्ञायते कतमेन दिग्विभागेन गतः स जाल्मः ?
{{bold|अप्सरसः -}} इसाणीए दिसाए । [ऐशान्या दिशा ।]
{{bold|राजा -}} तेन हि मुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय ।
{{bold|अप्सरसः -}} सरिसं एवं सोमवंससंभवस्स । [सदृशमेतत्सोमवंशसम्भवस्य ।]
{{bold|राजा -}} क्व पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।
{{bold|अप्सरसः –}} एदस्सिं हेमकूडसिहरे । [एतस्मिन् हेमकूटशिखरे ।]
{{bold|राजा -}} सूत ! ऐशानीं दिशं चोदयाश्वानाशुगमनाय ।
{{bold|सूतः -}} यदाज्ञापयत्यायुष्मान् । ( इति यथोक्तं करोति ।)
{{bold|राजा -}} (रथवेगं रूपयित्वा) साधु साधु । अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमपि आसादयेयम्, किंपुनस्तमपकारिणं मघोनः । मम -
{{bold|<poem>अग्रे यान्ति रथस्य रेणुपदवीं चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारावलीम् । चित्रारम्भविनिश्चलं हरिशिरस्यायामवच्चामरं यन्मध्ये समवस्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥५॥</poem>}} (निष्क्रान्तो रथेन राजा सूतश्च)
{{bold|सहजन्या -}} हला ! गदो राएसी । ता अम्हे वि जधासंदिट्टं पदेसं गच्छम्ह । [हला ! गतो राजर्षिः, तद्वयमपि यथासन्दिष्टं प्रदेशं गच्छामः ।]
{{bold|मेनका -}} सहि ! एव्वं करेम्ह । [सखि ! एवं कुर्मः ।]
(इति हेमकूटशिखरे नाट्येनाधिरोहन्ति ।)
{{bold|रम्भा -}} अवि णाम सो राएसी उद्धरदि णो हिअअसल्लम् ? [अपि नाम स राजर्षिः उद्धरिष्यति नो हृदयशल्यम् ?]
{{bold|मेनका -}} सहि, मा दे संसओ भोदु । [सखि ! मा ते संशयो भवतु ।]
{{bold|रम्भा -}} णं दुज्जआ दाणवा । [ननु दुर्जया दानवाः ।]
{{bold|मेनका -}} उवट्ठिदसम्पराओ महिन्दो वि मज्झमलोआदो सवहुमाणं आणाविअ तं एव्व विबुधविजआअ सेणामुहे णिओजेदि । [उपस्थितसम्परायो महेन्द्रोऽपि मध्यमलोकतः सबहुमानमानाय्य तमेव विबुधविजयाय सेनामुखे नियुङ्क्ते ।]
{{bold|रम्भा -}} सव्वा विअई भोदु । [सर्वथा विजयी भवतु ।]
{{bold|मेनका -}} (क्षणमात्रं स्थित्वा) हला ! समस्सस समस्सस [हला ! समाश्वसिहि समाश्वसिहि ।] एस उल्लसिदहरिणकेदणो तस्स राएसिणो सोमदत्तो रहो दीसदी; ण एसो अकिदत्थो पडिणिउत्तिस्सदि त्ति तक्केमि । [एष उल्लसितहरिणकेतनस्तस्य राजर्षेः सोमदत्तो रथो दृश्यते; नैषोऽकृतार्थः प्रतिनिवर्तिष्यत इति तर्कयामि ।]
(निमित्तं सूचयित्वा अवलोकयन्त्यः स्थिताः ।)
(ततः प्रविशति रथारूढो राजा सूतश्च । भयनिमीलिताक्षी चित्रलेखा दक्षिणहस्तावलम्बिता उर्वशी च ।)
{{bold|चित्रलेखा -}} सहि ! समस्सस समस्सस । [सखि ! समाश्वसिहि समाश्वसिहि ।]
{{bold|राजा -}} सुन्दरि ! समाश्वसिहि—
{{bold|<poem>गतं भयं भीरु सुरारिसम्भवं त्रिलोकरक्षी महिमा हि वज्रिणः । तदेतदुन्मीलय चक्षुरायतं निशावसाने नलिनीव पङ्कजम् ॥ ६ ॥</poem>}} {{bold|चित्रलेखा —}} अम्महे ! कहं उस्ससिदमेत्तसंभाविदजीविदा अज्ज वि एसा सण्णं ण पडिवज्जदि ? [कथमुच्छ्वसितमात्रसम्भावितजीविता अद्यापि एषा संज्ञां न प्रतिपद्यते ?]
{{bold|राजा -}} बलवदत्र ते सखी त्रस्ता । तथाहि-
{{bold|<poem>मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यते हृदयकम्पः । मुहरुच्छ्वसता मध्ये परिणाहवतोः पयोधरयोः ॥ ७ ॥</poem>}} {{bold|चित्रलेखा -}} (सकरुणम्) हला उव्वसि ! पज्जवत्थावेहि अत्ताणम् अणच्छरा विअ पडिभासि । [हला उर्वशि ! पर्यवस्थापयात्मानम्, अनप्सरेव प्रतिभासि ।]
{{bold|राजा -}} {{bold|<poem>मुञ्चति न तावदस्या भयकम्पः कुसुमकोमलं हृदयम् । सिचयान्तेन कथञ्चित्स्तनमध्योच्छ्वासिना कथितः ॥ ८ ॥</poem>}} (उर्वशी प्रत्यागच्छति ।) {{bold|राजा -}} (सहर्षम्) चित्रलेखे ! दिष्ट्या वर्धसे । प्रकृतिमापन्ना ते प्रियसखी । पश्य —
{{bold|<poem>आविर्भूते शशिनि तमसा रिच्यमानेव रात्रिः नैस्याचितभुज व च्छिन्नभूष्टिमा । मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना गङ्गा रोधःपतनकलुपा गच्छतीव प्रसादम् ॥ ९ ॥</poem>}} {{bold|चित्रलेखा -}} सहि उवसि ! वीसद्धा भव । आवण्णाणुकम्पिणा महाराण पडिहदा क्खु दे तिसपरिवन्थिणो हवासा दाणवा । [सखि उर्वशि ! विश्रब्धा भव । आपन्नानुकम्पिना महाराजेन प्रतिहताः खलु ते त्रिदशपरिपन्थिनो हताशा दानवाः ।]
{{bold|उर्वशी -}} (चक्षुषी उन्मील्य) किं पहावदंसिणा नहिन्देण अम्भुवपहम्हि । [किं प्रभावदर्शिना महेन्द्रेणाभ्युपपन्नास्मि ?]
{{bold|चित्रलेखा -}} ण महिन्द्रेण, महिन्दसरिसाणुभावेण राएसिणा पुरूरवसेण । [न महेन्द्रेण, महेन्द्रसदृशानुभावेन राजर्षिणा पुरूरवसा ।]
{{bold|उर्वशी -}} (राजानमवलोक्यात्मगतम्) उवकिदं क्खु दाणवेन्दसंरम्भेण । [उपकृतं खलु दानवेन्द्रसंरम्भेण ।]
{{bold|राजा -}} (उर्वशीमवलोक्यात्मगतम्) स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसम्भवामिमां विलोक्य त्रीडिताः सर्वा अप्सरस इति । अथवा नेयं तपस्विनः सृष्टिरित्यवैमि । कुतः — {{bold|<poem>अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विपयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १० ॥</poem>}} {{bold|उर्वशी –}} हला चित्तलेहे ! सहीअणो कहिं क्खु भवे ? [हला चित्रलेखे ! सखीजनः कुत्र खलु भवेत् ?]
{{bold|चित्रलेखा -}} सहि ! अभअप्पदाई महाराओ जाणादि । [सखि ! अभयप्रदायी महाराजो जानाति ।]
{{bold|राजा -}} (उर्वशीं विलोक्य) महति विपादे वर्तते सखीजनः । पश्यतु भवती - {{bold|<poem>यदृच्छया त्वं सकृदप्यवन्ध्ययोः पथि स्थिता सुन्दरि ! यस्य नेत्रयोः । त्वया विना सोऽपि समुत्सुको भवेत्सखीजनस्ते किमुतार्द्रसौहृदः ॥ ११ ॥</poem>}} {{bold|उर्वशी -}} (आत्मगतम्) अमिअं क्खु दे वअणम् [अमृतं खलु ते वचनम्] अहवा चन्द्रादो अमिति किं अच्चरिअम् [अथवा चन्द्रादमृतमिति किमाश्वर्यम्] (प्रकाशम्) अदो एव मे पेक्खिदुं तुवरदि हिअअम् । [अतएव मे प्रेक्षितुं त्वरते हृदयम् ।]
{{bold|राजा -}} (हस्तेन दर्शयन्) {{bold|<poem>एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः । उत्सुकनयना लोकाश्चन्द्रमिवोपप्लवान्मुक्तम् ॥ १२ ॥</poem>}} (उर्वशी साभिलाषं पश्यति ।)
{{bold|चित्रलेखा -}} हला ! किं पेक्खसि ? [हला ! किं प्रेक्षसे ?]
{{bold|उर्वशी -}} णं समदुक्खगदो पीवीअदि लोअणेहिं । [ननु समदुःखगतः पीयते लोचनाभ्याम् ।]
{{bold|चित्रलेखा -}} (सस्मितम्) अई को ? [अयि कः ?]
{{bold|उर्वशी -}} णं पणईअणो । [ननु प्रणयिजनः ।]
{{bold|रम्भा -}} (सहर्षमवलोक्य) हला ! चित्तलेहादुदीअं पिअसहीं उव्वसीं गेव्हिअ विसाहासहिदो विअ भअवं सोमो समुवट्टिदो राएसी दीसदी । [हला ! चित्रलेखाद्वितीयां प्रियसखीमुर्वशीं गृहीत्वा विशाखासहित इव भगवान् सोमः समुपस्थितो राजर्षिर्दृश्यते ।]
{{bold|मेनका –}} (निर्वर्ण्य) हला ! दुवे वि णो एत्थ पिआ उवगदा । इअं पच्चाणीदा पिअसही, अअं च अपरिक्खदुसरीरो राएसी दीसदी । [हला ! द्वे अपि नोऽत्र प्रिये उपनते, इयं प्रत्यानीता प्रियसखी, अयञ्चापरिक्षतशरीरो राजर्षिर्दृश्यते ।]
{{bold|सहजन्या -}} सहि ! जुत्तं भणासि दुज्जओ दाणओ त्ति । [सखि ! युक्तं भणसि दुर्जयो दानवः इति ।]
{{bold|राजा -}} सूत, इदं तच्छैलशिखरम् । अवतारय रथम् ।
{{bold|सूतः -}} यदाज्ञापयत्यायुष्मान् । (इति तथा करोति ।)
(उर्वशी रथावतारक्षोभं नवन्ती नत्रानं राजानमवलम्बते)
{{bold|राजा -}} (स्वगतम्) हन्त ! सफलो मे विपयावतारः - {{bold|<poem>यदिदं रथसंक्षोभादङ्गेनाङ्गं ममायतेक्षणया । स्पृष्टं सरोमकण्टकमङ्कुरितं मनसिजेनेव ॥ १३ ॥</poem>}} {{bold|उर्वशी -}} हला ! किं वि परदो ओसर । [हला ! किमपि परतः अपसर ।]
{{bold|चित्रलेखा -}} णाहं सक्केमि । [नाहं शक्नोमि ।]
{{bold|रम्भा -}} एत्थ पिअआरिणं संभावेन्ह राएसिं । [अत्र प्रियकारिणं सम्भावयामो राजर्षिम् ।] (सर्वा उपसर्पन्ति ।)
{{bold|राजा -}} सूत ! उपश्लेषय रथम् - {{bold|<poem>यावत्पुनरियं सुश्रूरुत्सुकाभिः समुत्सुका । सखीभिर्याति सम्पर्क लताभिः श्रीरिवार्तवी ॥ १४ ॥</poem>}} (सूतो रथं स्थापयति ।)
{{bold|अप्सरसः -}} दिट्ठि महाराओ विजएण वहृदि । [दिष्ट्या महाराजो विजयेन वर्धते ।]
{{bold|राजा -}} भवत्यश्च सखीसमागमेन ।
{{bold|उर्वशी -}} (चित्रलेखादत्तहस्तावलम्बा रथादवतीर्य) हला ! अधिअं परि- सजह । ण क्खु मे आसी आसासो जहा पुणो वि सहीअणं पेक्खिरसं त्ति । [हला ! अधिकं परिष्वजथ, न खलु मे आसीदा- वास यथा पुनरपि सखीजनं प्रेक्षिष्ये इति ।]
(सख्यः परिष्वजन्ते ।)
{{bold|मेनका -}} (साशंसम्) सव्वहा कप्पसदं महाराओ पुहविं पालअन्तो होदु । [सर्वथा कल्पशतं महाराजः पृथ्वीं पालयन् भवतु ।]
{{bold|सूतः -}} आयुष्मन् ! पूर्वस्यां दिशि महता रथवेगेन् उपदर्शितः शब्दः ।
{{bold|<poem>अयञ्च गगनात्कोऽपि तप्तचामीकराङ्गदः । अधिरोहति शैलानं तडित्वानिव तोयदः ॥ १५ ॥</poem>}} {{bold|अप्सरसः -}} (पश्यन्त्यः) अम्मो, चित्तरहो । [अहो चित्ररथः ।]
(ततः प्रविशति चित्ररथः ।) {{bold|चित्ररथः -}} (राजानं दृष्ट्वा सबहुमानम्) दिष्ट्या महेन्द्रोपकारपर्या न विक्रममहिम्ना वर्धते भवान् ।
{{bold|राजा -}} अये गन्धर्वराजः ! (रथादवतीर्य) स्वागतं प्रियसुहृदे । (परस्परं हस्तौ स्पृशतः ।)
{{bold|चित्ररथः -}} वयस्य ! केशिना हृतामुर्वशीं नारदादुपश्रुत्य प्रत्या- हरणार्थमस्याः शतक्रतुना गन्धर्वसेना समादिष्टा । ततो वयमन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमुपागताः । स भवान् इमां पुरस्कृत्य सहास्माभिः मघवन्तं द्रष्टुमर्हति । महत्खलु तत्रभवतो मघोनः प्रियमनुष्ठितं भवता । पश्य— {{bold|<poem>पुरा नारायणेनेयमतिसृष्टा मरुत्वते । दैत्यहस्तादपाच्छिद्य सुहृदा सम्प्रति त्वया ॥ १६ ॥</poem>}} {{bold|राजा -}} सखे ! मैवम्- {{bold|<poem>ननु वज्रिण एव वीर्यमेतद्, विजयन्ते द्विषतो यदस्य पक्ष्याः । वसुधाधरकन्दराविसर्पी, प्रतिशब्दो हि हरेर्हिनस्ति नागान् ॥ १७ ॥</poem>}} {{bold|चित्ररथः -}} युक्तमेतत् । अनुत्सेकः खलु विक्रमालङ्कारः ।
{{bold|राजा -}} सखे ! नायमवसरो मम शतक्रतुं द्रष्टुम् । अतस्त्वमेवात्रभवतीं प्रभोरन्तिकं प्रापय ।
{{bold|चित्ररथः -}} यथा भवान्मन्यते । इत इतो भवत्यः ।
(सर्वाः प्रस्थिताः ।)
{{bold|उर्वशी -}} (जनान्तिकम्) हला चित्तलेहे, उवआरिणं राएसिं ण सक्कणोमि आमन्तेदुम् । ता तुमं एव मे मुहं होहि । [हला चित्रलेखे ! उपकारिणं राजपिं न शक्नोनि आमन्त्रयितुम्, तत् त्वमेव मे मुखं भव ।]
{{bold|चित्रलेखा -}} (राजानमुपेत्य) महाराज ! उव्वसी विष्णवेदि महाराएण अभणुण्णादा इच्छामि पिअसहिं विअ महाराअस्स किन्ति सुरलोअं णेदुम् । [महाराज ! उर्वशी विज्ञापयति महाराजेनाभ्यनुज्ञातेच्छामि प्रियसखीमित्र महाराजस्य कीर्ति सुरलोकं नेतुम् ।]
{{bold|राजा -}} गम्यतां पुनर्दर्शनाय ।
(सर्वाः सगन्धर्वाः आकाशोत्पतनं रूपयन्ति ।)
{{bold|उर्वशी -}} (उत्पतनभङ्गं रूपयित्वा) अम्मो, लदाविडवे एसा एआवली वैअअन्तिआ मे लग्गा [अहो, लताविटपे एषा एकावली वैजयन्तिका मे लग्ना] (सव्याजमुपसृत्य राजानं पश्यन्ती) सहि चित्तलेहे, मोआवेहि दाव णम् । [सखि चित्रलेखे ! मोचय तावदेनाम् ।]
{{bold|चित्रलेखा -}} (विलोक्य बिहस्य च) आम्, दिढं क्खु लग्गा सा असक्का मोआविदुम् । [आम्, दृढं खलु लग्ना सा, अशक्या मोचयितुम् ।]
{{bold|उर्वशी -}} अलं पडिहासेण । मोआवेहि दात्र णम् । [अलं परिहासेन । मोचय तावदेनाम् ।]
{{bold|चित्रलेखा -}} आम्, दुम्मोआ विअ मे पडिहादी । तहा वि मोआविस्सं दाव । [आम्, दुम्र्म्मोच्येव प्रतिभाति, तथापि मोचयिष्यामि तावत् ।]
{{bold|उर्वशी -}} (स्मितं कृत्वा) पिअसहि, सुमरेहि क्लु एवं अत्तणो वअणम् । [प्रियसखि ! स्मर खल्वेतदात्मनो वचनम् ।]
{{bold|राजा -}} (स्वगतम्) {{bold|<poem>प्रियमाचरितं ते त्वया मे गमनेऽस्याः क्षणविन्नमाचरन्त्या । यदियं पुनरप्यपाङ्गनेत्रा परिवृत्तार्धमुखी मया हि दृष्टा ॥ १८ ॥</poem>}} (चित्रलेखा मोचयति । उर्वशी राजानमालोकयन्ती सनिःश्वासं सखीजनमुत्पतन्तं पश्यति ।)
{{bold|सूतः -}} आयुष्मन् ! {{bold|<poem>अदः सुरेन्द्रस्य कृतापराधान् प्रक्षिप्य दैत्यांल्लवणाम्बुराशौ । वायव्यमस्त्रं शरधिं पुनस्ते महोरगः श्वभ्रमिव प्रविष्टम् ॥ १९ ॥</poem>}} {{bold|राजा -}} तेन पश्लेषय रथम्, यावदारोहामि ।
(सूतस्तथा करोति । राजा नाय्येन रथमारोहति ।)
{{bold|उर्वशी -}} (सस्पृहं राजानमवलोकयन्ती) अवि णाम पुणो विउअआरिणं एवं पेक्खिस्सम् । [अपि नाम पुनरपि उपकारिणमेतं प्रेक्षिष्ये ।]
(इति सगन्धर्वा सह सखीभिर्निष्कान्ता ।)
{{bold|राजा -}} (उबेशीबत्मन्मुखः) अहो ! दुर्लभाभिलाषी मदनः । {{bold|<poem>एपा मनो मे प्रसभं शरीरान् पितुः पदं मध्यममुत्पतन्ती । मुराङ्गना कर्पति खण्डितामात् सूत्रं मृणालादिव राजहंसी ॥ २० ॥</poem>}} (निष्क्रान्तौ)
{{center|{{bold|॥ इति प्रथमोऽङ्कः ॥}}}}
{{bold|सन्दर्भजालपुटसङ्केतः -}} <ref>https://archive.org/details/in.ernet.dli.2015.326674/mode/2up</ref> 6eunvvq46zihl9t2ijtb6iaa0gby529 आलोकः 0 165959 418662 2026-09-29T17:11:28Z अनुनाद सिंह 1115 ;॥ तर्कसङ्ग्रहः ॥ ;॥ आलोकः ॥ ;मङ्गलाचरणम् :निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। :बालानां सुखबोधाय क्रियते तर्कसंग्रहः॥ ; आलोकः - कारणसम्भावना तर्कसङ्ग्रहः –... नवीन पृष्ठं निर्मीत अस्ती 418662 wikitext text/x-wiki ;॥ तर्कसङ्ग्रहः ॥ ;॥ आलोकः ॥ ;मङ्गलाचरणम् :निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। :बालानां सुखबोधाय क्रियते तर्कसंग्रहः॥ ; आलोकः - कारणसम्भावना तर्कसङ्ग्रहः – आलोकव्याख्या ॥ श्रीः॥ श्रीमदन्नंभट्टविरचितः तर्कसंग्रहः नव्यमङ्गलाभिजन-वरदाचार्य विरचिताभ्यां 'आलोक' व्याख्या-टिप्पणीभ्यां संवलितः निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। बालानां सुखबोधाय क्रियते तर्कसंग्रहः। ; आलोकः - नमस्कारः ; आलोक-व्याख्या श्रीहयास्यं हृदि ध्यात्वा गुरूणां चरणौ तथा। ; आलोकेन तु बालेभ्यो योज्यते तर्कसंग्रहः। ; आलोकः - मङ्गलकारणत्वम् चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारादिगर्भं *मङ्गलमाचरति-निधायेत्यादि। टिप्पणी *मङ्गलवादः - मणिग्रन्थादारभ्य मुक्तावलीपर्यन्तेषु प्रायस्सर्वेषु ग्रन्थारम्भे मङ्गलस्य अवश्यकर्तव्यता तस्य समाप्तिं प्रति कारणत्वविचारश्च विस्तरेण दृश्यते। मङ्गलसमाप्त्योः कार्यकारणभावश्च अन्वयव्यतिरेकसहचाराभ्यां समर्थ्यते। यत्सत्त्वे यत्सत्त्वं अन्वयसहचारः, यदभावे यदभावः व्यतिरेकसहचारः। आभ्यां कार्यकारणभावः सिद्ध्यति। यथा मृद्दण्डादिसत्त्वे घटो भवति, मृद्दण्डाभावे घटो न भवेदिति दृष्टान्तः। प्रकृते मङ्गलसत्त्वे समाप्तिसत्त्वं, मङ्गलाभावे समाप्त्यभावश्च बहुलं दर्शनात् तयोः कार्यकारणभावः सिद्ध्यतीति वक्तव्यम्। परन्तु बाणभट्टविरचितायां कादम्बर्यां मङ्गलं 'दृश्यते, समाप्तिस्तु न दृश्यते इत्यन्वयव्यभिचारः। प्राचीनन्यायसूत्रभाष्यादिग्रन्थेषु बहुषु मङ्गलाभावेऽपि समाप्तेर्दर्शनात् व्यतिरेकव्यभिचारश्च स्पष्टः। एवं द्विविधव्यभिचारसत्त्वे कथं तयोः कार्यकारणभावः, कथं वास्तिकैर्मङ्गलाचरणम् ? इति पूर्वपक्ष्याशयः। कारणाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वं कार्यस्य अथवा स्वाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिकार्यकत्वं कारणस्य अन्वयसहचारस्य लक्षणम्। स्वं कारणं दण्डचक्रकुलालादि, तदधिकरणं देशः। तत्र वर्तते यः अभावः इति चेत्, घटाभावः न भवति, तत्र घटस्य जननात्। अतः पटाद्यभाव एव ग्राह्यः। तत् प्रतियोगी पटः, घटोऽप्रतियोगी भवतीति तादृशकार्यकत्वम् अन्वयसहचारः। अत एव स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगिकार्यकत्वम् अन्वयव्यभिचारः। एवम् कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वं कारणस्य व्यतिरेकव्यभिचारः। यथा घटाधिकरणदेशे नियमेन दण्डादेरावश्यकत्वात्, तत्र वर्तमानोऽभावो रासभादेरेव भवति। तत्प्रतियोगि रासभादि। अप्रतियोगित्वं दण्डादेर्भवतीति दण्डादेर्घटकारणत्वं, रासभादेस्तदकारणत्वं च सिद्ध्यति॥ प्रकृते मङ्गलसमाप्त्योः कार्यकारणभावे वक्तव्ये, कादम्बर्यादौ मङ्गलसत्वेऽपि समाप्तेरदर्शनात् अन्वयव्यभिचारः। स्वं मङ्गलं तदधिकरणं कादम्बरी। तत्र वर्तते समाप्त्यभावः। तत् प्रतियोगि समाप्तिरूपं कार्यम्। तद्विशिष्टत्वरूपं तत्कत्वं मङ्गले वर्तत इति अन्वयव्यभिचारः। तथा कार्यं समाप्तिः। तदधिकरणं नास्तिकग्रन्थः। तत्र मङ्गलाभावो वर्तते। तत् प्रतियोगि मङ्गलमिति व्यतिरेकव्यभिचारः। अतश्च समाप्तिं प्रति मङ्गलं कथं कारणं भवेत् ? न च कादम्बर्यादौ अदृष्टादिकारणवैकल्यात् न समाप्तिः। एवं नास्तिकग्रन्थादौ जन्मान्तरीयादृष्टवशादेव समाप्तिरिति न दोष इति वाच्यम्; मङ्गलसमाप्त्योः कार्यकारणभावविनिश्चये सिद्ध एव तथा वक्तुं शक्यम्। पूर्वोक्तव्यभिचाराभ्यां कार्यकारणभावस्य असिद्धत्वात् तथा वक्तुमशक्यत्वात्, अन्योन्याश्रय एव विश्रान्तेरिति चेत्; मैवम्, कार्यकारणभावस्य प्रत्यक्षेणैव निर्णेयत्व एव स्यादयं दोषः। प्रत्यक्षेण तदसंभवेऽपि अनुमानेनैव साध्यते। न चान्वयव्यतिरेकव्यभिचारयोः सत्त्वे कथमनुमानेन तत्साधनसंभव इति शङ्क्यम्। मङ्गले कृतेऽपि समाप्त्यभावस्य अदृष्टविशेषप्रयुक्तत्वात् अन्वयव्यभिचारस्य कारणताग्रहं प्रति न हि प्रतिबन्धकत्वसंभवः। नास्तिकग्रन्थादौ तथैव अदृष्टविशेषवशादेव समाप्तेस्संभवात् नानुमानप्रतिबन्धकत्वसंभवः। किञ्च ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि' इति मङ्गलत्रैविध्यस्य च सत्त्वेन मङ्गलाभावस्य निश्चेतुमशक्यत्वेन अन्ततः संशये पर्यवसानात्, संशयस्य च पक्षतारूपत्वेन अनुमितिं प्रति अप्रतिबन्धकत्वेन अनुमानेनैव मङ्गलसमाप्त्योः कार्यकारणभावः साध्यते॥ 'मङ्गलं समाप्तिफलकं, समाप्त्यन्याफलकत्वे सति सफलत्वात्' इति परिशेषानुमानेन तयोः कार्यकारणभावसिद्धिः। 'मङ्गलं सफलम्, बलवदनिष्टाननुबन्धित्वे सति शिष्टा(प्रामाणिकजना) चारविषयत्वात्, दर्शश्राद्धादिवत्' इत्यनुमानेन उक्तानुमाने विशेष्यासिद्धिपरिहारः। श्येनादियागादेरपि शिष्टाचारविषयत्वात् तस्य च नरकादि हेतुत्वात्, तावन्मात्रेण प्रवृत्तेरसंभवेन सफलत्वसाधनस्यायुक्तत्वात्, तद्वारणाय बलवदनिष्टाननुबन्धित्वविशेषणम्। एवं 'मङ्गलं समाप्तिफलकम्, समाप्त्युद्देशेनैवानुष्ठीयमानत्वात्, यत् यदुद्देशेन अनुष्ठीयते तत् तत्फलकम्, यथा धान्योद्देशेन क्रियमाणं कृष्यादि' इत्यनुमानेन समाप्त्यन्याफलकत्वसिद्ध्या, उक्तपरिशेषानुमानेन मङ्गलसमाप्त्योः कार्यकारणभावस्य सिद्ध्या, कादम्बर्यादौ कारणान्तरेणापि समाप्त्यभावस्य संभवेन नान्वयव्यभिचाररूपदोषः। नास्तिकग्रन्थादौ च सुकृतविशेषवशादेव तत्संभवेन न व्यतिरेकव्यभिचारदोषः। तस्मात् उक्तानुमानेन कार्यकारणभावसिद्धेर्निष्प्रत्यूहत्वात् न दोषः॥ नव्यास्तु- मङ्गलस्य विघ्नध्वंसं प्रत्येव कारणत्वम्, न तु समाप्तिं प्रति। समाप्तिं प्रति तु आयुःप्रभृतीनामेव कारणत्वम्। एवञ्च नास्तिकग्रन्थादौ स्वत एव विघ्नाप्रसक्त्या विघ्नध्वंससंभवेऽपि न समाप्तेर्विरोधः। विघ्नध्वंसवत् विघ्नात्यन्ताभावस्य, विघ्नप्रागभावस्य च कारणत्वात्, नास्तिकग्रन्थे विघ्नात्यन्ताभावप्रागभावान्यतरसंभवेन समाप्तेः, जन्मान्तरीयमङ्गलकल्पनादिक्लेशो नास्तीति वदन्ति। परन्तु, प्राचीनमते मङ्गलस्य विघ्नध्वंसद्वारैव समाप्तिजनकत्वात्, द्वारेण द्वारिणोऽन्यथासिद्धौ यागादेरपि स्वर्गादिसाधनत्वं दुर्वचं स्यादिति वेदप्रामाण्यस्यैव तिलाञ्जलिप्रसङ्गः। अतो मङ्गलं समाप्तिं प्रत्येव कारणम्। दोषस्तु पूर्वोक्तरीत्यैव परिहार्यः॥ ; आलोकः - मङ्गलवादः ; आलोक-व्याख्या विश्वेशः = काशीक्षेत्राधिनाथो विश्वनाथः। देवं विश्वनाथं हृदि निधाय = ध्यात्वेत्यर्थः। 'निधानं = निक्षेप' इत्यर्थमादाय, हृदये विश्वनाथस्य निधानासंभवात् निधानं नाम वृत्तित्वप्रकारकाहार्यज्ञानमिति केचन वदन्ति। आहार्यज्ञानं नाम बलात्कारेण संपाद्यमानं ज्ञानम्, आरोपात्मकम्। बहिर्देवालये विद्यमानाया विश्वनाथार्चामूर्तेः हृदये निधानासंभवाभिप्रायेण तथाभिप्रयन्ति ते। अर्चामूर्तिर्नाम, बाह्यपूजाया आलम्बनीभूता स्थूला मूर्तिः। परन्त्वस्य अतिस्थूलदृष्टित्वात्, निधाय = ध्यात्वा इत्येव वरम्। हृदयम् चित्तं, मनो वा। परमात्मनो ध्यानस्य हृदयमुत्तमं स्थानमिति ध्यानरहस्यविदः। अतः 'विश्वनाथं हृदि ध्यात्वा' इत्येव स्वरसम्। विश्वेशमित्यत्र द्वितीयाया विषयत्वमर्थः। प्रकृत्यर्थस्याधेयता(वृत्तिता) संबन्धेनान्वयः। विषयताया निरूपकतासंबन्धेन 'ल्यप्' प्रत्ययस्य प्रकृतिभूतधाधात्वर्थध्यानेऽन्वयः। निधायेति ‘ल्यप्’ प्रत्ययस्य उत्तरकालिकत्वमर्थः। तस्य चाश्रयतासंबन्धेन कृधात्वर्थकृतावन्वयः। हृदि इत्यत्र सप्तम्या अधिकरणत्वमर्थः। तस्य च निरूपकतासंबन्धेन ध्यानेऽन्वयः। तथा च विश्वनाथनिष्ठविषयतानिरूपकहृदधिकरणक(हृन्निष्ठाधिकरणतानिरूपक) ध्यानोत्तरकालिकी कृतिः इति विश्वेशं हृदि निधाय इति वाक्याद् बोधः। अथ विद्यागुरूणां वन्दनमाह- विधायेत्यादिना। गुरोः वन्दनं= गुरुवन्दनमिति षष्ठीतत्पुरुषः। गुरोरित्यत्र कर्मणि षष्ठी। तस्या विषयत्वमर्थः। विषयत्वस्य च निरूपकतासंबन्धेन वन्दनक्रियायामन्वयः। वन्दनं नाम स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापार इति संप्रदायः। 'स्वस्मात् उत्कृष्टो गुरुः' इति ज्ञानात्किल शिष्यो गुरुं वन्दते। उत्कृष्टः उत्कर्षस्याश्रयः। अत्रोत्कर्षस्य पूर्वावधिः स्वात्मा, उत्तरावधिर्गुरुः। अतः स्वावधिकोत्कृष्टत्वप्रकारकज्ञाने उत्कृष्टत्वं प्रकारः, गुरुः विशेष्यः। यदा शिष्यो गुरुं वन्दते, तदा पार्श्वस्थाः मन्यन्ते, अस्य नन्तुः, नम्ये गुरावुत्कृष्टत्वज्ञानं वर्तते, अतो वन्दत इति। अतः परेषामयं शिष्यः, स्वावधिकोत्कृष्टत्वप्रकारकं ज्ञानं जनयति। अतश्च परेषां तादृशज्ञानप्रयोजकं भवति शिष्यस्य वन्दनम्। एतेन ‘गुरुं प्रकाशयेद्धीमान्' इति शास्त्रार्थः सूचितः। वस्तुतः स्वावधिकोत्कृष्टत्वप्रकारकज्ञानं स्वपदार्थनिष्ठं सत् नमनक्रियां जनयति। अतः ‘स्वावधिकोत्कृष्टत्वप्रकारकस्य ज्ञानस्यानुकूलः प्रयोजको वन्दनरूपव्यापारः' इत्यर्थापेक्षया, स्वावधिकोत्कृष्टत्वप्रकारकज्ञानम् अनुकूलम् (प्रयोजकं) यत्र (नमनादिरूपव्यापारे) इति समासेन, तादृशज्ञानस्य वन्दनप्रयोजकत्वं वाच्यम्। एवं शिष्यस्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानमेव वन्दनरूपव्यापारस्य प्रयोजकं भवति। अथवा ‘तादृशज्ञानानुकूलिव्यापारः' इत्यर्थो वाच्यः। अनुकूलम् (प्रयोजकम्) अस्यास्तीति अनुकूली, प्रयोज्य इत्यर्थः। ज्ञानस्यानुकूली = ज्ञानानुकूली, ज्ञानप्रयोज्यो व्यापारः। ज्ञानमित्यत्र षष्ठ्या निरूपितत्वमर्थः। अनुकूलित्वं प्रयोज्यत्वम्। तथा च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानप्रयोज्यव्यापारो वन्दनमिति स्वरसम्। ‘वन्दनं विधाय' इत्यत्रापि, ल्यप उत्तरकालिकत्वमर्थः। तथा च 'गुरुविषयकवन्दनोत्तरकालिकी कृति:' इति गुरुवन्दनं विधाय इति वाक्यस्यार्थः। ग्रन्थरचनोद्देशं प्रकटयति- बालानामित्यादि। सुखं बोधः, सुखेन वा बोधः-सुखबोध इति समासः। सुखं नाम आयासाभावः, न तु आनन्दविशेषः, तात्पर्यानुसारात्। एतद्ग्रन्थाध्ययनकाले अध्येतुरायासाभावो विवक्षितः। बालानामित्यत्र षष्ठ्याः समवेतत्वम् अर्थः। तस्य चाश्रयतासंबन्धेन सुखेऽन्वयः। बोधायेत्यत्र चतुर्थ्याः प्रयोजकत्वमर्थः। तस्याप्याश्रयतासंबन्धेन कृतावन्वयः॥ 'तर्क्यन्ते = प्रतिपाद्यन्ते इति तर्काः = द्रव्यादिपदार्थाः' इति संप्रदायः। वस्तुतस्तु तर्कः- तर्कशास्त्रम्, न्यायवैशेषिकशास्त्रयोः अनुगतं नाम। एतयोः समानतन्त्रत्वं सर्वसम्मतम्। न्यायशास्त्रं प्रमाणविचारप्रधानम्। वैशेषिकशास्त्रं च प्रमेयविचारप्रधानम्। उभयोः परस्परसापेक्षत्वं च स्पष्टम्। उभयमपि तर्कप्रधानम्। अतः तर्कसंग्रहः- तर्कशास्त्रसंग्रह इति स्वरसम्। 'मया' इत्यध्याहार्यं कर्तृवाचकं पदम्। अस्मच्छब्दस्य कर्ता अन्नंभट्ट इत्यर्थः। तृतीयायाः समवेतत्वमर्थः। तस्य चाश्रयतासंबन्धेन कृतावन्वयः। तथा चाहत्य संपूर्णवाक्यबोधः विश्वनाथनिष्ठविषयतानिरूपकहृदयाधिकरणकध्यानोत्तरकालिकी गुरुविषयकस्वावधिकोत्कृष्टत्वप्रकारकज्ञानप्रयोज्यवन्दनोत्तरकालिकी, बालसमवेतानायाससमानाधिकरणबोधप्रयोजिका, अन्नंभट्टसमवेता या कृति:, तद्विषयस्तर्कशास्त्रसंग्रहो ग्रन्थ इति॥ सप्तपदार्थाः द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः॥ १॥ ; आलोकः - पदार्थविभागः द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः। अथ यथाप्रतिज्ञं ग्रन्थमारभते- द्रव्येत्यादि। अत्र ‘पदार्थाः' इत्यत्र पदानामर्थाः पदार्था इति विग्रहः। लोके विद्यमानानां सर्वेषामपि पदार्थानाम् एषु सप्तस्वेवान्तर्भावः। पदानि किलद्रव्यवाचीनि, गुणवाचीनि, कर्मवाचीनि, सामान्यवाचीनि इति चतुर्विधानीति महाभाष्यादिषु अभिहितम्। घटादिपदानि द्रव्यवाचीनि नीलादिपदानि गुणवाचीनि, पाचकादिपदानि क्रियावाचीनि, गवादिपदानि जातिवाचीनि। एवञ्च द्रव्यम् गुणः, कर्म, सामान्यम् इत्यसङ्कीर्णप्रवृत्तिनिमित्तमूलकानि पदानि चतुर्विधानि। द्रव्यवाचिपदान्येव संज्ञापदानि, यदृच्छापदानि, केवलरूढपदानीति चोच्यन्ते। एवं पदानां चतुर्विधत्वात् पदार्था अपि चत्वारः प्रथमं सिद्धाः। एवमपि पदार्थानां भेदस्य अन्ते विशेषाधीनत्वात्, भेदसिद्ध्यर्थो विशेषः, भिन्नानां गुणगुण्यादीनां संबन्धरूपतया समवायश्चेति द्वौ शास्त्रव्यवहारसिद्धौ मिलित्वा पदार्थाः षट् संपन्नाः। अनन्तरं निषेधव्यवहारविषयतया अभावाख्यः सप्तमः पदार्थश्चेति पदार्थाः सप्त इति सिद्धम्। लोके पदार्थश्चेत् कश्चित् प्रामाणिकः, स एषु सप्तस्वन्तर्भवेत्, इति नियमार्थं 'सप्त' इति कीर्तनम्। तथा च ‘यत्र यत्र पदार्थत्वम्, तत्र द्रव्यादिसप्तान्यतमत्वम्' इति व्याप्तिर्ज्ञेया॥ यथाप्रतिज्ञं प्रमाणप्रमेयस्वरूपं प्रतिपादयितुमुपक्रममाणः प्रथमं प्रमेयपदवाच्यान् पदार्थान् विभजते- द्रव्येत्यादि। द्रव्यादिपदं च तत्तत्संज्ञापरम्। सप्तत्वं न संख्यारूपम्, संख्याया गुणत्वेन द्रव्यमात्रे तत्संभवात्; गुणकर्मादिष्वसंभवात्। किन्तु बुद्धिविशेषविषयत्वरूपम्। एवमेव 'चतुर्विंशतिर्गुणाः' इत्यादौ। तथा च पदार्था:- पदजन्योपस्थितिविषया अर्था द्रव्यगुणकर्मसामान्यविशेषसमवायाभावरूपसप्तसंज्ञान्यतमसंज्ञावन्त इति बोधः। तर्कशास्त्रं प्रविविक्षूणां लक्षणवाक्यव्यतिरिक्तवाक्यानां शाब्दबोधप्रदर्शने वृथायासः, अनतिप्रयोजनञ्चेत्यत्रैवोपरम्यते। एवं पदानां चतुर्विधत्वात् पदार्था अपि द्रव्यगुणकर्मसामान्यानि चत्वारः। एवं भेदसाधकतया विशेषः, संबन्धरूपतया समवाय इति षडेव भावपदार्थाः। भावानां निषेधस्य चतुर्विधत्वात्, अभावश्चतुर्विधोऽपि अभावत्वेनैक एव। अत एव कुत्रचित् 'पदार्थो द्विविध: भावोऽभावश्चेति। भावष्षड्विधः, अभावस्तु चतुर्विध:' इत्येवमपि विभागो दृश्यते। आहत्य तु पदार्थास्सप्तैव, एतदतिरिक्तस्यासंभवादेव। एतेष्वपि आद्यानि चत्वारि लोकव्यवहारसिद्धानि, एतेषां निषेधस्यापि लोकव्यवहारसिद्धत्वादभावोऽपि लोकव्यवहारेणैव सिद्धः। विशेषसमवायौ तु शास्त्रव्यवहारसिद्धाविति ज्ञेयम्। एवं पदार्थविभागस्य व्यवस्थितत्वादेव शक्तिसादृश्यादीनामतिरिक्तपदार्थत्वाशङ्कनं समाधानञ्च वृथैव श्रमः। 'निशितः खड्गश्छेदने शक्तः, अनिशितो न शक्तः' इति खलु दृश्यते। तेन ज्ञायते कारणस्य सामीचीन्यमेव शक्तिपदस्यार्थ इति। एवं बद्धपादः पुरुषो गन्तुं न शक्नोति। किं तत्रातिरिक्ता शक्तिर्दृश्यते ? गमनप्रतिबन्धको बन्धः। प्रतिबन्धकेऽसति गच्छत्येव। किं बहुना ? अबद्धपादोऽपि उपविष्टः पुरुषो न गच्छति। तस्य किं गमने शक्तिरस्ति, उत न ? अबद्धपादो गमने शक्तोऽपि, यदि नेच्छति तदा शक्तस्सन्नपि न गच्छति। तथैव निशितोऽपि खड्गः पुरुषानधिष्ठितो न किञ्चिच्छिनत्ति। किं स खड्गश्छेदने शक्तः, उत न ? क्रियावेशाभावान्न छिनत्तीति चेत्, तर्हि शक्तिपदार्थः कः ? न हि शक्तिश्चक्षुषा दृश्यते। दण्डचक्रादिकं हि पुरुषाधिष्ठितं चेत् घटोत्पादने शक्तं भवति। अन्यदा तु न शक्तम्। दण्डः खलु पुरुषाधिष्ठितोऽपि कदाचित् घटं जनयति, कदाचित्तु घटं नाशयति च। किं दण्डो घटजनने शक्तः, उत घटनाशने ? परस्परविरुद्धा शक्तिः कथमेकत्र समवेयात् ? अतस्साधनानां समीचीनतैव शक्तिः। सैव स्वरूपयोग्यतेत्युच्यते। फलोपधानं तु तत्तत्पुरुषकालेश्वरादृष्टाद्यधीनमिति शक्तिर्नातिरिक्तः पदार्थः। ननु सादृश्यस्य का गतिरिति चेत्, सद्गतिरेव। तत्तु 'इव' इत्यव्ययद्योत्यम्। अत एव नातिरिक्तपदार्थः। किं तर्हि ? 'सदृश' इति पदमेव ज्ञापयति बुद्धिविशेषविषयत्वरूपं तदिति। द्वे वस्तुनी यन्मूलतया तोलयति जनः, तदेव किल सादृश्यम्। एवञ्च तद्द्रष्टृपुरुषबुद्ध्यपेक्षाधीनम्, न हि सर्वः सर्वं सदृशतया पश्यति। यां चन्द्रमुखीं पश्यति कश्चित्, तामेवान्यो वानरमुखीं पश्यतीति प्रसिद्धं किल लोके। अतस्सादृश्यमपेक्षावुद्धिविशेषविषयत्वरूपमेव। अतस्तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वमित्यादिव्यर्थचर्चाया नावकाशः। एतदधिकं तु न न्यायशास्त्रस्य विषय इत्युपरन्तव्यम्। विशिष्य चायं प्रकरणग्रन्थः, न वादग्रन्थः। अथापि निदर्शनार्थमयं विचारः प्रदर्शितः प्रमेयस्वरूपपरिशीलनेन। न्यायवैशेषिके किल तर्कपदवाच्ये। वैशेषिकं पदार्थनिरूपणप्रधानम्। न्यायस्तु प्रमाणनिरूपणप्रधानमिति, न सांकर्यं तयोः शास्त्रयोः। द्रव्याणि तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशाकालदिगात्ममनांसि नवैव॥ २॥ ; आलोकः - द्रव्यविभागः तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव। प्रथमोद्दिष्टं द्रव्यं विभजते - तत्रेत्यादिना। पृथिव्यादिपञ्चभूतानि संप्रतिपन्नानि। एतानि शरीरेन्द्रियविषयभेदात् जीवोपकारकाणि। षष्ठ आत्मा। तेषामात्मोपकारकत्वं कालदेशाधीनमिति कार्यसामान्यकारणतया दिक्कालौ द्वौ। आत्मनां सुखदुःखादिव्यवस्थासिद्ध्यर्थं मन इति नवैव द्रव्याणि। सूर्येऽस्तंगते भूच्छायैव तम इत्यालोकाभाव एव तमः, नातिरिक्तं द्रव्यम्। अतो नवैव द्रव्याणि। रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः। गुणान् विभजते - रूपेत्यादि। गुणः - गुणनम्, वर्धनम् अथवा पोषणम्। एकमेव द्रव्यं नील इति, महानिति, सुगन्धीति बहुधा व्यवह्रियते। अत एते गुणा इत्युच्यन्ते। अत एव सूत्रकारेण सप्तदशैवोक्ता अपि, औचित्यादितरे योजिता भाष्यकारेण। अस्तु सप्तदशैव, किं अधिकैरिति तु न मन्तव्यम्। प्रधानभूतः शब्दाख्यो गुणः सूत्रे न पठितः। अतस्सन्त्यन्येऽपि गुणा इत्येव सूत्रकाराशयः। परन्त्वत्र कति गुणा इति निष्कृष्य विचारो वा किमर्थमेतावन्त इत्याक्षेपो वा नाधिकोपयोगी। पदार्थविभागः परमत्यन्तं साधीयान्। एवं द्रव्यविभागोऽपि। इतरविभागस्त्वौचित्यात्। अत एवोत्तरत्र कर्मविभागे नैर्भर्याभावः प्रादर्शि। उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि। कर्म विभजते - उत्क्षेपेत्यादि। कर्मणां पञ्चत्वे, आधिक्ये वा न नैर्भयम्। गमनवदेव आगमनादिक्रियाणां हसनताडनतर्जनादिबहुविधानां क्रियाणां वक्तव्यत्वप्रसङ्गात्। यथाकथञ्चिन्निर्वाहे- चलनात्मकं कर्मैकमेव। इतरत्सर्वं निदर्शनमात्रमित्यवगन्तव्यम्। एवमत्रासंकीर्णविभागे न तात्पर्यमित्येतत् सामान्यविभागे स्पष्टम्। परमपरं चेति द्विविधं सामान्यम्। *सामान्यं विभजते - परमित्यादि। परत्वापरत्वे परस्परसापेक्षे, न नियते। पृथिवीत्वं हि घटत्वापेक्षया परम्, द्रव्यत्वापेक्षयाऽपरम्। अथाप्येवं विभागप्रदर्शनं- सामान्यं व्याप्यव्यापकभावापन्नमपि भवति, अनुगतप्रतीतेरपि व्याप्यव्यापकभावापन्नत्वात्। 'प्राणी' इत्यनुगता प्रतीतिः। गौः, अश्व, मनुष्य इत्यननुगता। प्राणित्वं त्रयानुगतम्। गोत्वाश्वत्वादिकं त्वननुगतम्। सामान्ये विद्यमानं व्याप्यव्यापकभावं प्रदर्शयितुमेवोक्तं मूले परमपरं चेति। एतदपि 'जातिसाङ्कर्यं न दोषः, प्राणित्वाश्वत्वयोरेकत्र मेलनात्' इति वदतां वेदबाह्यानां बौद्धादीनामुत्तरदानाय। जातिसांकर्यं तु प्रकृतिर्नानुमनुत इति विज्ञानिनः। अश्वगर्दभयोः साङ्कर्येण जाताश्वतरी न प्रसूत इति स्थितिः। एवमाम्रवृक्षादिष्वपि जातिद्वयसाङ्कर्यं नानुमनुत प्रकृतिरिति स्पष्टम्। अतश्च दोष एव सांकर्यं व्याप्यव्यापकभावानापन्नयोर्जात्योः। व्याप्यव्यापकभावापन्नयोस्त्वेकत्र मेलनं न दोषाय, पृथिवीत्वघटत्वादिवदिति प्रदर्शनाय 'परमपरं चेति द्विविधं सामान्यमित्युक्तम्, न त्वसंकीर्णविभागपरमिदमित्यवगन्तव्यम्। टिप्पणी *जातिबाधकसंग्रहः गुणाः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः॥ ३॥ कर्माणि उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि॥ ४॥ सामान्यम् परमपरं चेति द्विविधं सामान्यम्॥ ५॥ ; आलोकः - [No title] पृथिव्यप्तेजोवायुषु पृथिवीत्वम्, अप्त्वम्, तेजस्त्वम्, वायुत्वं च तत्तदसाधारणगुणकारणतावच्छेदकतया सिद्ध्यति। गन्धसमवायिकारणं पृथिवी इति सिद्धान्तः। एवञ्च पृथिवीनिष्ठा गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्, या या कारणता, सा किञ्चिद्धर्मावच्छिन्ना, यथा दण्डनिष्ठा घटकारणता दण्डत्वावच्छिन्ना इति सामान्यमुखव्याप्त्या पृथिवीत्वादितत्तद्धर्माणां सिद्धौ, सिद्ध्यतो धर्मस्य नित्यत्वे एकत्वे च लाघवम् इति लाघवतर्कवशात् पृथिवीत्वादीनां नित्यत्वम्, एकत्वं च सिद्ध्यति। ततश्च पृथिवीत्वादेः नित्यत्वे सति, एकत्वे सति, अनेकानुगतत्वरूपजातिलक्षणाक्रान्तत्वात् पृथिवीत्वादीनां जातित्वं सिद्ध्यति। एवमेव अप्त्व-तेजस्त्व-वायुत्वानामपि जातित्वसिद्धिर्ज्ञेया। परन्तु शब्दसमवायिकारणतावच्छेदकतया सिद्धस्य आकाशत्वस्य जातित्वं नाङ्गीक्रियते। कुतः? इति प्रश्ने, आकाशस्यैकत्वेन जातिलक्षणान्तर्गतानेकानुगतत्वरूपविशेषणाभावात्। अनेकानामनुगतव्यवहारार्थं खलु जातिरङ्गीकृता, आकाशस्य एकत्वेन तादृशव्यवहाराभावात्, तन्न जातिरिति भावः, किन्तु शब्दसमवायिकारणत्वम्। अथवा अखण्डोपाधिः। तथा च एकव्यक्तिवृत्तिधर्मो न जातिरित्युक्तं भवति। तेन एकव्यक्तिवृत्तित्वम् आकाशत्वादीनां जातित्वे बाधकमिति सिद्धम्। एवं जातित्वबाधकानि कानि ? इति जिज्ञासायां न्यायाचार्यैरुदयनैः किरणावल्यां जातिबाधककारणानि संगृहीतानि। व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः। रूपहानिरसंबन्धो जातिबाधकसंग्रहः। इति॥ (१) व्यक्तेरभेदः (२) तुल्यत्वम् (३) संकरः (४) अनवस्थितिः (५) रूपहानिः (६)असम्बन्धः इत्येतानि जातिबाधकानि इति यथाश्रुतार्थः। जाति इति पदं जातित्वजातिमत्त्वान्यतरपरं विषयानुरोधेन। आद्यत्रयं जातित्वबाधकम्, अनन्तत्रयं जातिमत्त्वबाधकम् इति विवेकः। तथा हि- (१) व्यक्तेरभेदः - स्वाश्रयव्यक्तेः अभेदः - एकत्वम्, स्वस्य जातित्वे बाधकम्। यथा-आकाशत्वम्। स्वम् - आकाशत्वम्, तस्य आश्रयः आकाशः। स चैक एव। अत आकाशत्वं न जातिः। एवमेव कालत्वम्, दिक्त्वं च न जातिः। (२) तुल्यत्वम्- समानव्यक्तिवृत्तित्वम्, समनियतत्वम् इत्यर्थः। यथा घटत्वं यदा जातिः, तदा कुम्भत्वम्, कलशत्वं वा जातिर्न वा इति प्रश्ने, यावत्सु घटत्वं वर्तते तावत्स्वपि कलशत्वं कुम्भत्वं च वर्तत एव। अतश्च समनियतानां भेदे प्रमाणाभावात् कलशत्वादिकं घटत्वापेक्षयातिरिक्ता जातिर्न भवति॥ (३) संकरः- सांकर्यम्। परस्परासमानधिकरणयोरेकत्र समावेशः। यथा भूतत्वमूर्तत्वे। भूतत्वं हि पृथिव्यप्तेजोवायुषु वर्तते। मूर्तत्वञ्च पृथिव्यप्तेजोवायुमनस्सु वर्तते। मनसि भूतत्वं नास्ति, भूतत्वं हि बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्। मनसि न कोऽपि विशेषगुणोऽस्ति। आकाशे मूर्तत्वं नास्ति, मूर्तत्वं हि परिच्छिन्नपरिणामवत्त्वम्। तच्चापरिच्छिन्ने विभावाकाशे कथं स्यात्? एवञ्च तावुभौ परस्परासमानाधिकरणधर्मौ। तौ च पृथिव्यादिचतुष्टये वर्तेते। अतस्तौ जाती न भवत इति प्राचीनाः। नवीनास्तु साङ्कर्यस्य जातित्वबाधकत्वे प्रमाणाभावात् उभावपि जाती भवत एवेति वदन्ति। वस्तुतस्तु वर्णाश्रमनाशनार्थमेव सदा यतमानानां नव्यबौद्धानामेवायं वादः। एकस्मिन्नेव वृक्षत्वशिंशपात्वयोः, तथा प्राणित्वगर्दभत्वादेश्च समावेशदर्शनात्, वर्णाश्रमसाङ्कर्यमपि न दोष इति मन्यन्ते ते। परन्तु वृक्षत्वशिंशपात्वादीनां व्याप्यव्यापकभावापन्नत्वेन, द्रव्यत्वपृथिवीत्वघटत्वादीनामिवैकत्र समावेशो न दुष्यति। व्याप्यव्यापकभावानापन्नानां तु एकत्र समावेशे साङ्कर्यं दोष एव। यथा अश्वत्वगर्दभत्वयोः समावेशे, अश्वगर्दभाभ्यां जाते प्राणिनि का जातिः स्यादिति वक्तव्यम्। तस्य तु अश्वतरः, अश्वतरीत्येव व्यवहारः। तयोस्तु संततिर्न भवतीति प्रसिद्धम्। स्वगर्भोऽश्वतरीमिव इति श्रीरामायणम्। किं बहुना ! आम्रादिवृक्षसस्यादिजातयः साङ्कर्यं नानुमन्यन्त इति नवीनाः सस्यविज्ञानिनोऽपि वदन्ति। एवमेव गर्दभयोन्यामश्वाज्जाता अश्वतरी यदि गर्भिणी भवति, तदा सा म्रियत एव न सूते। अतो जातिसांकर्यं महान् दोष एवेति नवीनविज्ञानसिद्धमित्यवधार्यम्। भगवद्गीतायां प्रथमाध्याये सङ्करो नरकायैव इत्यादिना साङ्कर्यस्य महादोषत्वं विस्तरेण वर्णितम्। अतो नवीनानामदोषत्ववर्णनं परमसाहसमेवेत्यलम्। (४) अनवस्थिति: - अनवस्थेत्यर्थः। गवि गोत्ववत्, गोत्वे गोत्वत्वं जातिरङ्गीक्रियते यदि, तर्हि गोत्वत्वेऽपि गोत्वत्वत्वं जातिः स्यात्। अतोऽप्रामाणिकानन्तातिरिक्तकल्पनापरम्परारूपानवस्थाप्रसङ्गात्, गोत्वत्वं न जातिः, किन्तु गवेतरासमवेतत्वे सति निखिलगोसमवेतत्वमेव। अननुगततद्व्यक्तित्वादावतिव्याप्तिवारणाय निखिलगोसमवेतत्वम् इति। प्राणित्वादावतिव्याप्तिवारणाय गवेतरासमवेतत्वमिति। (५) रूपहानिः - स्वरूपहानिः, विशेषत्वस्य जातित्वे बाधिका। विशेषा हि स्वतो व्यावृत्ताः, अन्यथाऽनवस्थापत्तिः। एवञ्च तत्र व्यावर्तकधर्मान्तरापेक्षा नास्त्येवेति विशेषत्वं न जातिः। किन्तु विशेष एव तत् अथवा अखण्डोपाधिः। अत एव निर्विशेषो विशेषः इति गाथा प्रवृत्ता। न तावता निर्विशेषवस्तुसिद्धिः। प्रमेयत्वपदार्थत्वादिधर्माणामनिवारणात्॥ (६) असंबन्ध: - समवायाभावः। स च समवायत्वस्य जातित्वे बाधकः। समवायत्वस्य जातित्वे, तस्य समवायेन कः संबन्ध: ? न तावत् संयोगः, संयोगस्य गुणत्वेन द्रव्यभिन्ने असंभवात्। न चापि समवायः, तस्य स्वरूपत्वेनातिरिक्तत्वासंभवात्। न च स्वरूपमेव, तस्य समवायरूपाधिकरणानतिरेकात्। किं तर्हि ? समवाय एव सः, नातिरिक्तः। तर्हि समवायत्वं समवायश्चेति पर्यायौ भवेताम्। तर्हि किं रूपं तदिति चेत्, नित्यसंबन्धत्वमेव तत्। अतश्च सखण्डोपाधिविशेषः, तत्पदप्रवृत्तिनिमित्ततया सिद्धस्सः। अतः समवायत्वं न जातिः। एवम् अभावत्वमपि समवायाभावात् न जातिरिति वदन्ति। किन्तु अभावो न पदार्थः, अपि तु वाक्यार्थः। न हि प्रतियोगिनमन्तरा अभावो व्यवहर्तुं शक्यः। अभावपदे श्रुते हि कस्य ? इति प्रश्नोऽनिवार्यः। घटस्य इत्युक्ते घटाभावः खलु सः। अतश्च पदार्थद्वयरूपत्वात्, अर्थसमाजरूप एव सः, नीलघटादिवत्। अतोऽभावस्यैव तादृशत्वे अभावत्वमपि नाखण्डः पदार्थः कश्चित्, किन्तु अर्थसमाज एव॥ विशेषाः नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॥ ६॥ ; आलोकः - विशेषाभावसमवायव्यविधानम् नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव। विशेषं वर्णयति - नित्येत्यादि। नित्यद्रव्याणि पृथिव्यादिचतुष्टयपरमाणवः, आकाशकालदिगात्ममनांसि च। एतेषां परस्परं भेदो विशेषादेव सिद्ध्यतीति तन्निरूपणे वक्ष्यामः। परमाणूनां जीवात्मनां मनसां चानन्तत्वात् तद्वृत्तयो विशेषा अप्यनन्ता एव। यद्यपि पृथिवीव्यतिरिक्तजलादिपरमाणूनां रूपरसस्पर्शा नित्याः, एकत्वसंख्यापि नित्या, सामान्यमपि नित्यम्, अथापि विशेषस्तु नित्यद्रव्यमात्रवृत्तिः, न गुणादिवृत्तिरित्येतत् विशेषनिरूपणे प्रदर्शयिष्यते*। टिप्पणी *ननु ‘नित्यद्रव्यवृत्तयः' इत्यत्र द्रव्यपदं किमर्थं? परमाणुवदेव नित्यगुणा अपि निरवयवाः किल! तर्हि नित्यानां परमाणुगतगुणानां कथं भेदसिद्धिरिति चेत्; विशेषवशात् परमाणूनां परस्परभेदसिद्धौ तत्तद्गतगुणानामाश्रयभेदादेव सिद्ध्यति। शुक्लनीलादिगुणा हि भिन्ना तथैव प्रत्यक्षसिद्धाः। भिन्नयोः शुक्लपटयोर्वर्तमानयोः शुक्लरूपयोः तदाश्रयपटभेदादेव भेदः। निरवयवे द्रव्ये कारणाभावात् भेदः कथं सिद्धः? इति प्रश्न इत्यतः विशेषाः नित्यद्रव्यवृत्तयः, न तु नित्यगुणादिवृत्तय इति ज्ञेयम्। समवायस्त्वेक एव। समवायस्वरूपं वक्ति- समवाय इति। अयुतसिद्धानां संबन्धस्समवायः। अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्तौ, विशेषनित्यद्रव्ये चायुतसिद्धाः, परस्परं पृथक्कर्तुं न शक्यन्ते। अवयविनः पटात् यदि तन्तवः पृथक् क्रियेरन्, तर्हि पटो न शिष्येत। अतस्तन्तुपटौ अयुतसिद्धौ। एवमेव गुणिनो द्रव्यात् गुणा रूपादयो न पृथक्कर्तुं शक्याः। तावता न तयोरभेदः, ‘गुणः, गुणी' इत्यादिभिन्नपदव्यवहारात्। उभयोरभेदे हि 'गुणी' इति मतुबर्थकप्रत्ययो न स्यात्। नह्यविद्यमानस्यार्थस्य कृते भगवान् पाणिनिः प्रत्ययं विदध्यात्। अतस्तयोर्भेद आवश्यकः। भेदे सति संबन्ध आवश्यकः, मतुप्प्रत्ययस्य संबन्धार्थकत्वात्। भिन्नयोर्हि संबन्धमन्तरा विशिष्टप्रतीतिर्न स्यात्। अतः पृथक् कर्तुमशक्यत्वेऽपि तयोस्संबन्ध आवश्यकः। स एव समवाय इत्युच्यते। स तु नित्यः, एकश्च। कुत एतदिति समवायनिरूपणे वक्ष्यते। अभावश्चतुर्विधः। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति। *अभावं विभजते- अभाव इति। न भावः = अभाव इति विग्रहः। अभावः ‘नञ्’पदजन्यप्रतीतिविषयः। ‘अस्ति' इति प्रतीतेः यथा कश्चन विषय आवश्यकः तथा 'नास्ति' इति प्रतीतेरपि कश्चन विषय आवश्यकः। स एवाभाव इत्युच्यते। अभावव्यवहारस्य चतुर्धा दर्शनात् तदर्थभूतोऽभावोऽपि चतुर्विधः। 'भूतले घटो न' इत्येका प्रतीतिः, 'घटः पटो न’ इत्यपरा। आद्यप्रतीत्या सिद्धोऽभावोऽत्यन्ताभाव इत्युच्यते। द्वितीयप्रतीत्या सिद्धस्तु अन्योन्याभाव इत्युच्यते। एवमेव घटोत्पत्तेः प्राक् 'घटो नास्ति' इति प्रतीत्या घटोत्पत्तेः पूर्वं प्रागभावसिद्धिः। एवं घटस्य नाशानन्तरमपि 'घटो नास्ति इति प्रतीतेस्सत्त्वात् प्रध्वंसाभावः सिद्ध्यति। अतोऽभावश्चतुर्विधः। टिप्पणी *ननु पदानि चतुर्विधानि, अतः पदार्थोऽपि चतुर्विध एवेत्युक्तमुपक्रमे। नञा अभावो बोध्यते लोके। नञ् च न पदम्, किन्त्वव्ययम्। अव्ययानां सूचकत्वमेव, न वाचकत्वमित्यभिज्ञाः। ‘भूतले घटोऽस्ति किम्?' इति प्रश्ने, 'न' इत्येव प्रत्युत्तरदानेऽपि, तस्य 'भूतले घटो नास्ति' इत्येवार्थः। अतः नञः केवलस्य अर्थधीजनकत्वं नास्तीत्येवाभिज्ञाः। अभावः न पदार्थः, किन्तु वाक्यार्थः, अर्थसमाजरूप एव। अत एव 'द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां' (वै.सू.१-१-४) इत्येव निर्देशः कृतः। एषु च द्रव्यगुणकर्मसामान्यानि सर्वव्यवहारविषयाः, समवायविशेषौ तु शास्त्रीयव्यवहारविषयौ। ननु उपरि अभावनिरूपणदर्शनात् सोऽपि संमत इति कुतो न स्यादिति चेत्; वाक्यार्थत्वेनैव तस्य निरूपणात्। अभाव एव नास्तीति न ह्युच्यते, किन्तु स न पदार्थः, किन्तु वाक्यार्थ इत्येवोच्यते। अत एव समवायानन्तरं स न निरूपितः, मध्ये प्रसङ्गादेव। अभावस्य चतुर्विधत्वेऽपि, नञः नियतः प्रयोगः अत्यन्ताभावे, अन्योन्याभाव एव। प्रागभावस्तु भविष्यतीति प्रतीतिसिद्धः, प्रध्वंसाभावस्तु नष्ट इति प्रतीतिसिद्धः। 'पश्चाच्छब्दो नास्तिपर्यायः' इति न्यायेन तयोः नास्तीति व्यवहारः अनन्तरकालिकः, आर्थिकः। अत एव प्रागभावप्रध्वंसाभावौ तत्तत्समवायकारणवर्तिनौ इत्यभिप्रयन्ति। केवलभूतलादौ ‘भविष्यति’ ‘नष्टः' इति व्यवहारौ न भवतः। उपादानभूततन्तुकपालादेर्दर्शन एव तथा प्रतीतेरवकाशः। ‘चैत्रोऽत्रेदानीं भविष्यति' इत्यादिव्यवहारस्तु तदागमनविषयकः न चैत्रविषयकः। अत एव प्रागभावानङ्गीकारे; पटादेरुत्पत्त्यनन्तरं सामग्र्याः तत्र सत्त्वात् उत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः इति भिया प्रागभावसिद्धिरित्यपि न क्षोदक्षमम्, तत्र तत्पटप्रागभावनाशादिति यथोच्यते, तदपेक्षया, तत्र तदुपादानकारणस्याभावादित्येव समीचीनमुत्तरम्। सन्त्येव खलु तत्र तन्तव इति चेत्, तन्तवः पटाधिकरणत्वेन सन्ति, न तु पृथक्। अतश्च तत्रस्थः पट एव पुनः स्वोत्पत्तौ प्रतिबन्धक इत्यपि सुवचम्। एवञ्च प्रागभावः पूर्वावस्थारूपः। प्रध्वंसाभावश्चोत्तरावस्थारूपः इति प्राचीनाः। अन्योन्याभावस्तु परस्परव्यावृत्तिरूपः। अत्यन्ताभाव एव लोके सर्वत्रेदानीमभावव्यवहारे वर्तते। अधिकं तु शास्त्रान्तरकथेत्यलं विस्तरेण। अभावाभावस्तु प्रथमाभावप्रतियोगिस्वरूपः। अतो घटाभावाभावः घट एव। एवं भेदाभावः भेदप्रतियोगितावच्छेदकरूपः। यथा गोभेदः गोभिन्ने महिषादौ वर्तते। गोभेदाभावश्च गोमात्रे वर्तते। अत एव सः गोत्वरूपः, गोत्वं हि गव्येव वर्तते। अतो गोभेदाभावः न गोत्वातिरिक्तः इत्याद्यपि ज्ञेयम्। अत एव ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतम्। तन्न - तथा सति पञ्चरक्तस्थले (रक्तम्, श्यामम्, रक्तम्, श्यामम्, रक्तम् इत्येवं क्रमेण क्वचिद्धटे रूपपरावृत्तिः, तत्र) मध्ये रक्ततादशायां भाविरक्तप्रागभावस्य प्रथमरक्तध्वंसस्यापि सत्त्वात् रक्तं नास्तीति प्रतीत्यापत्तिः ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावाङ्गीकारे तु, अत्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वेन, मध्ये रक्ततादशायां प्रतियोगिनःसत्त्वेन, एकघटसत्त्वेऽपि घटात्यन्ताभावप्रतीत्यसंभववदुपपद्यते इत्यादिनवीनमतं न साधीयः। प्रागभावस्य ‘भविष्यति' इति प्रतीतिमात्रविषयत्त्वात्, नास्तीति प्रतीत्यविषयत्वात्। कथञ्चिदङ्गीकारेऽपि तस्य भाविरक्तमात्रविषयत्वेन निर्वाहसंभवात्। प्रागभावस्या- नादित्वप्रवादोऽपि उपादानपरंपराया आपरमाण्वनुवर्तमानतया संगच्छते। एवं प्रध्वंसाभावेऽपि उक्तं सर्वं समानम्। टिप्पणी समवायः समवायस्त्वेक एव॥ ७॥ अभावाः अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति॥ ८॥ पृथिवी तत्र गन्धवती पृथिवी। सा द्विविधा नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति। विषयो मृत्पाषाणादिः॥ ९॥ ; आलोकः - पृथिवीत्वम् ; तर्कसंग्रहः तत्र गन्धवती पृथिवी। सा द्विविधा नित्या अनित्या चेति। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणम्। तच्च नासाग्रवर्ति। विषयो मृत्पाषाणादिः। ; आलोक-व्याख्या एवं पदार्थान् विभज्य, विभक्तानां यथाक्रमं लक्षणं परीक्षां च प्रदर्शयति। तत्र आद्ये द्रव्ये आद्यां पृथिवीं लक्षयति गन्धवतीति। गुणवत्त्वं क्रियावत्त्वं वा द्रव्यसामान्यलक्षणमित्युच्यते। परन्तु क्रियायास्सार्वत्रिकत्वाभावात् आकाशादिविभुषु क्रियाया असंभवात्, तदपेक्षया गुणवत्त्वं लक्षणं वरम्, द्रव्येषु नियमेन कस्यचिद्गुणस्य सत्त्वात्। संख्यापरिमाणपृथक्त्वसंयोगविभागानां नवद्रव्यसामान्यगुणत्वात्। ननु उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रियं च तिष्ठति इति नियमेनाद्यक्षणावच्छिन्ने घटे रूपादेरभावेन जातिघटितपरिष्कारस्यावश्यकत्वे, क्रियावत्त्वलक्षणस्यापि जातिघटितपरिष्कारान्न दोष इति चेत्, सत्यम्, कालदिगात्मादिकं द्रव्यं तु सर्वथा क्रियाशून्यं भवति। गुणशून्यं तु आद्यक्षणावच्छिन्नघटादिमात्रम्, न त्वन्यत्। तदपि न प्रत्यक्षसिद्धम्, द्रव्यगुणयोः, द्रव्यक्रिययोश्च कार्यकारणभावव्यवस्थार्थं युक्तिमात्रेण सिद्धमिति विशेषः। अतः क्रियावत्त्वापेक्षया गुणवत्त्वमेव द्रव्यलक्षणमुचितम्। द्रव्येषु प्रथमोद्दिष्टायाः पृथिव्या लक्षणमाह गन्धवतीत्यादि। गन्धोऽस्याम् अस्तीति गन्धवती। 'अस्याम्' इत्यत्रेदम्शब्दस्य पृथिवीरूपोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य पृथिव्याः सप्तम्यर्थाधिकरणतायामाधेयता(निष्ठत्व)संबन्धेनान्वयः। तथा च पृथिवीनिष्ठाधिकरणता। ‘अस्ति’ इत्यत्र ‘अस्’धातोराधेयत्वमर्थः। ‘ति’इत्याख्यातस्य आश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया 'अस्' धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः। आश्रयतायाश्च गन्धे अन्वयः। तथा च पृथिवीनिष्ठाधिकरणतानिरूपिताधेयताश्रयो गन्धः इति विग्रहवाक्यार्थबोध:। 'अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात् यादृश- विशेषणविशेष्यभावापन्नो बोघो जायते, समासादिवृत्तिवाक्यात् तद्विपरीतविशेषणविशेष्यभावापन्नो बोघो जायते' इति नियमानुरोधेन पूर्वं विशेष्यभूतो गन्धः, गन्धवतीति तद्धितवृत्तौ विशेषणं भवति। पूर्वं विशेषणीभूता पृथिवी चेदानीं विशेष्या भवति। तथा च गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयः पृथिवी इति शाब्दबोधः। गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्याः लक्षणम्। अस्य लक्षणस्य सुरभिकुसुमादिरूपपृथिव्यां समन्वयः। गन्धनिष्ठाधेयता का इति चेत् सौरभ्यनिष्ठाधेयता। तन्निरूपिताधिकरणता कुसुमरूपपृथिव्यां वर्तते इति लक्षणसमन्वयः। अव्याप्तिः, अतिव्याप्तिः, असंभवश्चेति लक्षणस्य त्रयो दोषा भवन्ति। तत्र (१) लक्ष्यैकदेशावृत्तित्वमव्याप्तिः। यथा गोः कपिलरूपवत्त्वं यदि लक्षणमुच्यते, तदा लक्ष्यैकदेशे श्वेतगवि कपिलरूपाभावादव्याप्तिः। (२) लक्ष्यवृत्तित्वे सति अलक्ष्येऽपि लक्षणस्य सत्त्वमतिव्याप्तिः। यथा गोः श्रृङ्गित्वं यदि लक्षणमुच्यते। तदा लक्ष्येषु गोषु सर्वेषु शृङ्गित्वसत्त्वेऽपि, अलक्ष्ये महिष्यादावपि शृङ्गित्वसत्त्वादतिव्याप्तिः। (३) असंभवो नाम लक्ष्येषु कुत्राप्यसत्त्वम्। यथा गोः एकशफवत्त्वं लक्षणमुच्यते चेत्, लक्ष्यभूतेषु गोषु कुत्रापि एकशफवत्त्वाभावादसंभवः। एतादृशदूषणत्रयरहितधर्म एव लक्षणमित्युच्यते। यथा गोः सास्नादिमत्त्वम्। अत्रोक्तदोषत्रयरहितत्त्वमस्ति। असाधारणधर्मो लक्षणम्। अथवा लक्ष्यतावच्छेदकसमनियतधर्मो लक्षणम्। यथा यत्र यत्र गोत्वम्, तत्र सास्नादिमत्त्वम्, यत्र यत्र सास्नादिमत्त्वम् तत्र गोत्वमिति लक्ष्यतावच्छेदकगोत्वसमनियतत्त्वं सास्त्रादिमत्त्वे वर्तत इति तत् गोर्लक्षणम्। एवमत्रापि गन्धवत्त्वं पृथिव्या लक्षणम्। ननूक्तपृथिवीलक्षणस्य कालेऽतिव्याप्तिर्दुर्वारा। तथाहि- सर्वाधारत्वात् ‘इदानीं गन्धः' इति प्रतीतेः प्रामाणिकत्वात् गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते इति कालेऽतिव्याप्तिः। एवं जलादावप्यतिव्याप्तिर्दुष्परिहरा। तथाहि - 'सुरभि जलम्' इति प्रतीतेः प्रसिद्धत्वात् गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं जलेऽपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। गन्धनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि- गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं यद्यपि काले वर्तते, किन्तु गन्धनिष्ठाधेयता तत्र कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। गुणगुणिनोः समवायात्; गन्धस्य च पृथिवीगुणत्वात्। गन्धो न कालस्य गुणः। कालस्य सर्वाधारताप्रयोजकसंबन्धः कालिक एव। अतः समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामेव वर्तते। न तु काल इति काले नातिव्याप्तिः। एवं जलेऽपि नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामेव वर्तते, न तु जले। जले दृश्यमाना गन्धनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना। अपि तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। स्वम्- गन्धः। तत्समवायिनी कुसुमादिरूपा पृथिवी। तत्संयोगो जले वर्तत इति तादृशगन्धविशिष्टपृथिवीभागस्य संबन्धादेव जले गन्धोपलब्धिः। अतः स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वं जले वर्तते, न तु समवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वम्। अतोऽलक्ष्ये जलादौ लक्षणासमन्वयात् नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः जलादावतिव्याप्तिर्दुष्परिहरा। तथाहि- गन्धः कश्चन गुणः। अतस्तत्र गुणत्वरूपो धर्मोऽपि वर्तते। तथा च गन्धनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति। सा त्वाधेयता चतुर्विंशतिगुणसाधारणी एका। अतस्तादृशसमवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयता केति चेत् चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। अतः समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नगन्धनिष्ठाधेयता यथा गन्धे, तथा रसेऽपि वर्तते। तादृशाधेयतानिरूपिताधिकरणत्वं तु जलेऽपि वर्तते। जले रसस्य गुणस्य सत्वादिति पुनः जलेऽतिव्याप्तिरिति चेत्, न। गन्धनिष्ठाधेयतायां गन्धत्वावच्छिन्नत्वस्यापि निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता केति चेत्, गन्धे आधेयता द्वयं वर्तते। एका चतुर्विंशतिगुणसाधारणी गुणत्वावच्छिन्ना गन्धनिष्ठाधेयता। एवं गन्धत्वावच्छिन्नगन्धनिष्ठाधेयताऽपि चान्या वर्तते। तत्र गुणत्वावच्छिन्नगन्धनिष्ठाधेयतायाः स्वीकारे तु 'गुणवती' इति प्रतीतिसिद्धाधेयता भवति। लक्षणे तू 'गन्धवती' इति प्रतीतिसिद्धा गन्धत्वावच्छिन्ना गन्धमात्रनिष्ठाधेयता निविष्टा। तादृशसमवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता केति चेत् 'गन्धवती' इति प्रतीतिसिद्धाधेयता, न तु 'गुणवती' इति प्रतीतिसिद्धा। तादृशाधेयतानिरूपिताधिकरणत्वं तु पृथिव्यामेव वर्तते, न तु जलादाविति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्याद्यक्षणावच्छेदेन घटेऽव्याप्तिर्दुष्परिहरा। यद्यपि घटः पृथिवी। तथाऽपि तत्राद्यक्षणावच्छेदेन गन्धाभावो वर्तते। 'उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति' इति नियमात् उत्पत्तिकालावच्छेदेन घटे गन्धो नास्तीति समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वमाद्यक्षणावच्छिन्ने घटे नास्तीत्यव्याप्तिरिति चेत्, न। जातिघटिततया लक्षणस्य परिष्कारात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि यत्र घटे गन्धोऽस्माभिर्गृह्यते, तादृशघटस्य स्वीकारात् समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीयादिक्षणाद्यवच्छिन्नो घटः। तद्वृत्तिर्या जातिरिति चेत् पृथिवीत्वजातिः। तादृशजातिमत्त्वमाद्यक्षणावच्छिन्ने घटेऽपि वर्तते, पृथिवीत्वजातेस्तु नित्यत्वात् इत्याद्यक्षणावच्छिन्नेऽपि घटे लक्षणसमन्वयात् नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः जलादावतिव्याप्तिर्दुष्परिहरा। तथाहि- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीयादिक्षणावच्छिन्नो घटः। तद्वृत्तिर्या जातिरिति चेत्, यथा पृथिवीत्वजातिस्तथा द्रव्यत्वजातिरपि भवति। द्रव्यत्वजातेः स्वीकारे तादृशजातिमत्त्वं जलेऽपि वर्तते, 'जलं द्रव्यम्' इति प्रतीतेः सत्त्वात्। अत अतिव्याप्तिरिति चेत्, न। लक्षणे द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षणात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न- गन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या जातिः केति चेत् ? द्रव्यत्वजातिर्न भवति। व्याप्यत्वं हि न्यूनदेशवृत्तित्त्वम्। अतः स्वस्य स्वव्याप्यत्वाभावात्, तादृशद्रव्यत्वव्याप्याजातिः केति चेत् ? पृथिवीत्वजातिरेव। तादृशजातिमत्त्वं घटादावेव वर्तते, न तु जलादाविति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पटादावव्याप्तिः दुस्त्यजा। तथाहि- समवायसंबन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्द्रव्यत्वव्याप्या का जातिरिति चेत्, यथा पृथिवीत्वं भवति, तद्वत् घटत्वमपि भवति, तस्यापि द्रव्यत्वन्यूनदेशवृत्तित्वात्। तादृशजातिमत्त्वं तु घट एव वर्तते, न तु पटादावित्यव्याप्तिरिति चेत्, न। लक्षणे द्रव्यत्वव्याप्येत्यत्र ‘द्रव्यत्वसाक्षाद्व्याप्य' इति निवेशनात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्' इति। द्रव्यत्वसाक्षाद्व्याप्यत्वं नाम द्रव्यत्वव्याप्यत्वे सति द्रव्यत्वव्याप्याव्याप्यत्वम्। एवञ्च नाव्याप्तिः। तथाहि-- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् पृथिवीत्वजातिरेव भवति, न तु घटत्वजातिः। सा जातिस्तु द्रव्यत्वव्याप्यपृथिवीत्वापेक्षयापि व्याप्या। अतो द्रव्यत्वसाक्षाद्व्याप्यजातिपदेन घटत्वं स्वीकर्तुं न शक्यते। तस्य द्रव्यत्वव्याप्यपृथिवीत्वव्याप्यत्वात् द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात्, साक्षाद्व्याप्यजातिस्तु पृथिवीत्वजातिरेव। तादृशजातिमत्त्वं पटादावपि वर्तते इति नाव्याप्तिः। तथा च समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति निष्कृष्टलक्षणमिति दिक्। नन्वेवं सति पृथिवीत्वजातिमत्त्वं पृथिव्या लक्षणमित्येवोच्यताम्। किमर्थमेतावान् श्रम इति चेत् ? पृथिवीत्वजातेः परिचयार्थमेव तथा कथनात्। एवं ज्ञानवैशद्यर्थं च तथोक्तम्। इदमुत्तरलक्षणेष्वपि समानम्॥ ननु गन्धवत्त्वं पृथिव्या लक्षणं चेत् पृथिवी नाम गन्धवती भवत्येव। तथा च पृथिवीपदस्य गन्धवद्वाचकत्वात्, 'गन्धवती गन्धवती' इत्युक्तं भवतीति कथं शाब्दबोध इति चेत्, न, पृथिवीपदं हि जातिवाचकम्। न हि गन्धवत्पदपृथिवीपदे समानार्थके। गन्धवत्पदं हि गुणपुरस्कारेण पृथिवीमभिधत्ते, पृथिवीपदं हि पृथिवीत्वजातिपुरस्कारेण पृथिवीमभिधत्ते। पृथिवीपदप्रवृत्तिनिमित्तं पृथिवीत्वजातिः*। गन्धवत्पदप्रवृत्तिनिमित्तं गन्धो गुण इति ते पदे न पर्याय इति न कश्चन दोषः। टिप्पणी *पृथिवीत्वजातिः - पृथिवीत्वजातिर्नाम का ? तत्तत्पदेषु त्वपदयोजनया, सा जातिर्भवतीति प्रायो मन्यन्ते, तदा हि भूतत्वमूर्तत्वादिकमपि जातिः स्यात्। महर्षिस्तु 'समानप्रसवात्मिका जातिः' (न्या. सू. २-२-७०) इत्युक्तवान्। अश्वादश्व एव जायते, न त्वन्यः। गजात् गज एव। एवं यस्मात् स्वजातीयमेव स्वमुत्पादयति, तस्य कारणभूतं तत्त्वमेव जातिरित्युच्यते। आम्रबीजात् आम्रवृक्ष एव जायते, न तु अश्वत्थवृक्षः। एवमश्वादश्व एव जायते, न तु गर्दभः। तथैव मनुष्यात् मनुष्य एव जायते, न त्वन्यः। अतः सुष्ठुक्तम् समानप्रसवात्मिका जातिः इति। यद्यपि भाष्ये 'समानबुद्धिप्रसवात्मिका' इति विवरणं दृश्यते। तत्त्वानुषङ्गिकम् अनुगतबुद्धिहेतुत्वं वदति। अनुगतबुद्धिस्तु उपाधिभिरपि भवितुमर्हति। तदपेक्षया समानजातीयप्रसवहेतुरेव जातिरित्येव स्वरसम्। छान्दोग्ये(६-१२) वटबीजदृष्टान्तेनेदं प्रदर्शितं द्रष्टव्यम्। जातिसाङ्कर्यस्य दोषत्वं चैतादृशजातीनां साङ्कर्य एवाभिमतम्, न तूपाधीनाम्। अत एव भूतत्वमूर्तत्वयोर्जातित्वं निराकृतम्, पृथिव्यादिचतुष्टय उभयसमावेशात्। एवं सांकर्यं प्रकृतिरेव न सहत इत्ययमप्यंशोऽवधेयः। अत एव 'स्वगर्भोऽश्वतरीमिव' इति श्रीमद्रामायणोक्तिरपि सांकर्यं प्रतिषेधति। वडवायां गर्दभाज्जाता अश्वतरीत्युच्यते। सा यदा गर्भिणी भवति, तदा तेन गर्भेण हता भवति। अतः सांकर्यं प्रकृतिरेव (Nature) नानुमनुते। एतत्तत्त्वमितोऽपि बहुविचारार्हम्। ग्रन्थबाहुल्यभीत्या विरम्यते। अत एव सांकर्यस्य जातिबाधकत्वे प्रमाणं नास्तीत्यादि नवीनानां साहसमपि धर्मविरुद्धमित्याद्यन्यत्र विस्तरः। प्रकृतमनुसरामः। पृथिवीत्वं कथं जातिर्भवति ? 'समानप्रसवात्मिका' इत्यस्यात्र कोऽर्थ इति चेत्, वस्तुतः पृथिवीत्वजातिः न प्रत्यक्षसिद्धा। 'आकृतिर्जातिलिङ्गाख्या' (न्या. सू. २-२-६९) इति हि पारमर्ष सूत्रम्। लोकेऽपि हि कुशला जना अवयवसन्निवेशविशेषं सूक्ष्मं ज्ञात्वैव जातिं निश्चिन्वन्ति। जगति दृश्यमानाया विशालायाः पृथिव्याः, पार्थिवानां घटपटादीनां वा न ह्याकारसाम्यादिकं वक्तुं शक्यम्। अत एव गन्धसमवायिकारणतावच्छेदकतयैव पृथिवीत्वं साधयन्ति कुशलाः। गन्धस्य हि पृथिव्येव समवायिकारणम्। अतश्च पृथिवीनिष्ठा गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्, या या कारणता, सा किञ्चिद्धर्मावच्छिन्ना' इति ह्यनुमानं द्रष्टव्यम्। एवमनुमानात् पृथिवीत्वसिद्धौ ‘सिद्ध्यतो धर्मस्य नित्यत्वे एकत्वे जातित्वे च लाघवम्' इति लाघवतर्कवशादेव पृथिवीत्वजातिसिद्धिः। एवमप्त्वादावपि ज्ञेयम्। ; आलोक- व्याख्या सा - पृथिवी, द्विविधा - द्विप्रकारा। परमाणुरूपा - परमाणुस्वरूपा*। टिप्पणी *जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः। तस्य षष्ठस्तु यो भागः परमाणुः स कीर्तितः। इत्युक्तं परमाणुस्वरूपम्। नन्वेतादृशपरमाणुसत्त्वे किं प्रमाणम् ? न हि तत्प्रत्यक्षेणैव सिद्धम्, तथानङ्गीकारात्। कुतोऽनङ्गीकार इति चेत्, अत्यन्तसूक्ष्माणां क्रिमिकीटादीनां चक्षुषाऽग्रहणेन प्रत्यक्षे महत्त्वस्य कारणत्वमावश्यकम्। परमाणोर्महत्त्वे, ततोऽपि सूक्ष्मा रजःकणा अप्यङ्गीकार्याः। अस्तु तर्हि तादृशा रजःकणाः, अत एव षष्ठतमो भागः परमाणुः इत्यपि न साधीय इति चेत् ? न तस्याणुद्वयजन्यत्वे, तत् दीर्घाकारं दृश्येत, वर्तुलं च न स्यात्। अतस्तस्य वर्तुलत्वान्यथानुपपत्या द्वणुकत्रयजन्यत्वमावश्यकम्। तथा च जालसूर्यमरीचिस्थं रजः महत्, चाक्षुषत्वात् इत्यनुमानेन, तस्य सावयवत्वसिद्धौ तदपि सावयवम्, महदारम्भकत्वात् इत्यनुमानेन तस्याप्यवयवसिद्धिः। तस्याणुद्वयजन्यत्वेऽचतुरस्रत्वं स्यात् चक्षुर्ग्राह्यस्यावयविनः। अतो महत्परिमाणकं त्र्यणुकं परमाणुषट्कजन्यमिति निश्चीयते। अत एव अणु, महत्, ह्रस्वम्, दीर्घम् इति परिमाणं चतुर्धा विभक्तम्। महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् इति बादरायणसूत्रेऽस्यानुवादोऽपि दृश्यते। अतश्च परमाणुद्वयेन द्वणुकोत्पत्तिः। द्व्यणुकद्वयेन त्र्यणुकोत्पत्तौ, तच्चतुरस्रं स्यादिति द्वणुकत्रयेण जातमवयवि त्र्यणुकमिति युज्यते। ततश्च चाक्षुषत्वात् त्र्यणुकस्य महत्त्वावश्यकत्वे, चक्षुषा दृश्येषु स एवात्यन्तं सूक्ष्मः स्यादिति व्यवहारे त्र्यणुकमेवाणुरुच्यते। एवं परिमाणस्य तारतम्यदर्शनात् अणु, अणुतरम्, अणुतमम् इति त्र्यणुकद्व्यणुकपरमाणूनां सिद्धिः। परमाणोरपि सावयवत्वेऽनवस्थाप्रसङ्गः। न चेष्टापत्तिः, तर्हि सर्षपपर्वतयोरुभयोरप्यनन्तावयवघटितत्वात्, तयोस्तारतम्यं दुरुपपादं स्यात्। अवयवधारायाः कुत्रचिद्विश्रान्त सत्यां तु, सर्षपोऽल्पावयवजन्यः, पर्वतस्तु अधिकावयवजन्य इति तारतम्यं सूपपादम्। अतोऽवयवधाराया यत्र विश्रान्तिः स एव परमाणुरित्युच्यत इति परमाणुसिद्धिः, ततो द्वणुकम्, ततश्च त्र्यणुकम् इति परम्परासिद्धिः। एवम् अणुः, अणुतरः, अणुतमः इति अन्तिमावयवस्य परमाणुसंज्ञा। एतस्य निरवयवाच्च नित्यत्वसिद्धिः, अवयवजन्यत्वाभावात्। जन्यत्वस्यानित्यत्वव्याप्तत्वात् इदमनित्यम्, जन्यत्वात् इति हि प्रसिद्धम्। ननु तर्हि जन्यस्य ध्वंसस्यापि विनाशप्रसङ्गः। न चेष्टापत्तिः, घटध्वंसस्य नाशे घटस्य पुनरुद्भवप्रसङ्गात्। दुःखध्वंसरूपस्य मोक्षस्यापि नाशप्रसङ्गात्, मोक्षः परमपुरुषार्थो न स्यात्। ननु महाप्रलये सर्वनाशात्, परमाणूनामपि नाशावश्यकत्वे, कथं तेषां नित्यत्वमिति चेत्; कार्यवर्गस्यैव प्रलये नाशात् परमाणूनां नित्यत्वेन कार्यत्वाभावात् तदा परमाणूनामनाशात्। तर्हि प्रलये एकमेवाद्वितीयम् इति परमात्ममात्रस्य सत्त्वश्रुतेः कथं परमाणूनां तदा सत्त्वमिति चेत्, तर्हि प्रलये जीवात्मनामपि नाशापत्तिः। इष्टमेव तदिति चेत्; स्वनाशायैव स्वस्य प्रवृत्तिः स्यादिति को वा मतिमान् स्वनाशाय यतते इत्यलमनया शास्त्रान्तरकथया। अतः परमाणवो नित्या एवेत्येतच्छास्त्रमर्यादा ज्ञेया। परस्परं तु शास्त्राणां सांङ्कर्यं नैव भावयेत्। अर्धप्रज्ञैस्तथा सर्वं कृतं सीमातिलङ्घनात्॥ ; आलोक- व्याख्या कार्यरूपा- कार्यस्वरूपा (अवयविरूपा)*। पदार्थानां साधर्म्य-वैधर्म्यतत्त्वज्ञानस्य शरीरेन्द्रियाद्यतिरिक्तात्मज्ञानोपयोगित्वाभिप्रायेण तदनुगुणं पृथिवीं विभजते - पुनरित्यादि। एवमेव जलादिलक्षणेऽपि। विषयो नामोपभोगसाधनम्। उपभोगो नाम सुखदुःखानुभवः। टिप्पणी *अवयवातिरिक्तावयविसाधनम् – अवयवजन्यत्वात्, अवयविरूपा पृथिवी अनित्या=कार्यरूपा। ननु अवयवातिरिक्तावयविसत्त्वे किं मानम् ? न च तर्हि अवयवधारायाः परमाणौ विश्रान्त्या, तेषामतीन्द्रियत्वात्, तदतिरिक्तावयव्यनङ्गीकारे अवयविनोऽपि अतीन्द्रियत्वापत्त्या घटादेरप्रत्यक्षत्वं स्यादिति शङ्क्यम्, प्रत्येकं परमाणूनामप्रत्यक्षत्वेऽपि तत्सङ्घातरूपस्य घटादेः प्रत्यक्षत्वे विरोधाभावात्। एकस्य केशस्याप्रत्यक्षत्वेऽपि तत्समुदायस्य प्रत्यक्षत्ववदुपपत्तेरिति चेत्, न, केशस्यैकस्यापि नातीन्द्रियत्वम्। तस्याप्रत्यक्षत्वं दूरत्वादिदोषप्रयुक्तम्, न त्वतीन्द्रियत्वं केशस्य, समीपे तस्य प्रत्यक्षत्वात्। प्रकृते तु न तथा परमाणूनामतीन्द्रियत्वात्, तत्सङ्घातस्याप्यप्रत्यक्षत्वात्। ननु तर्हि भवतां मतेऽतीन्द्रियैरवयवैर्जन्योऽवयवी त्र्यणुकः कथमैन्द्रियको भवेदिति चेत्, न अवयवापेक्षयावयविनामत्यन्तभेदात्। एकत्र प्रत्यक्षत्वाप्रत्यक्षयोरभावात्। परमाणौ महत्त्वाभावान्न प्रत्यक्षत्वम्। त्र्यणुके तु महत्त्वात् प्रत्यक्षत्वम्। नन्वेवं सति चक्षुरिन्द्रियरूपतेजसि महत्त्वसत्त्वेऽपि कथमप्रत्यक्षत्वमिति चेत् ? तत्रत्यरूपस्यानुद्भूतत्वात्। द्रव्यप्रत्यक्षे उद्भूतरूपसमानाधिकरणमहत्त्वस्यैव कारणत्वात्। चक्षुरादौ महत्त्वे सत्यपि उद्भूतरूपाभावात्, न प्रत्यक्षत्वम्। परमाणौ तूद्भूतरूपसत्त्वेऽपि महत्त्वाभावान्न प्रत्यक्षत्वमिति विवेकः। परमाणुगतरूपस्योद्भूतत्वे किं प्रमाणमिति चत् ? तज्जन्ये त्र्यणुकादौ रूपस्योद्भूतत्वदर्शनमेव प्रमाणम्। उद्भूतत्वं च प्रत्यक्षत्वप्रयोजकधर्मविशेषः, न तु जातिविशेषः। उद्भूतत्वस्य जातित्वे, साङ्कर्यप्रसङ्गः। उद्भूतत्वं विहाय रूपत्वम् अनुद्भूतरूपे। रूपत्वं विहाय उद्भूतत्वमुद्भूतस्पर्शादौ। उद्भूतत्वरूपत्वयोः समावेश उद्भूतरूपे। ननु परमाणुगतरूपस्यानुद्भूतत्वे का हानिरिति चेत्, त्र्यणुकरूपस्यानुद्भूतत्वप्रसङ्ग एव हानिः। न च परमाणौ महत्त्वाभावेऽपि त्र्यणुके महत्त्ववद्, रूपेऽपि तथात्वमस्तु काममिति शङ्क्यम्, परमाणौ महत्त्वाभावमात्रेणैव तदप्रत्यक्षत्वोपपत्तौ परमाणुरूपस्यापि अनुद्भूतत्वे प्रमाणाभावात्। ननु राशि-सेना-वनादौ अतिरिक्तावयविनोऽनङ्गीकारेणैव एकत्वव्यवहारस्य निर्वाहात् किमर्थमतिरिक्तोऽवयव्यङ्गीक्रियत इति चेत्, न तत्स्थले एकत्वव्यवहारस्य गौणत्वात्। तथैव घटादावप्यस्तु इति चेत्, न यत्र कुत्रचित् मुख्यस्य एकत्वस्य सिद्धावेवान्यत्र गौणत्वसंभवात्। आकाशादावेकत्वं तु न प्रत्यक्षसिद्धम्। अन्यत्र कुत्र सिद्धमेकत्वम् ? कुत्रचित् सिद्धावेव अन्यत्रौपचारिकं तदुपपादयितुं शक्यम्। अतोऽतिरिक्तोऽवयवी अङ्गीकार्य एव॥ अपि च- पुरोवर्तिघटादिना सह चक्षुस्संयोगो घटैकदेशेन किल वर्तते। तर्हि प्रत्यक्षं घटैकदेशविषयकमेव स्यात्, न तु घटविषयकम् अतिरिक्तस्य घटाख्यस्यावयविनोऽभावात्। अतिरिक्तावयव्यङ्गीकारे तु चक्षुस्संयोगो घटेन सह जात एव। संयोगस्याव्याप्यवृत्तित्वस्वभावात् तस्य कार्त्स्न्येन ग्रहणं कदापि कथमपि केनापि कर्तुं न शक्यम्। बाल्यात्प्रभृत्यसकृत्तादृशपदार्थानामनुभवेन बुद्धौ तादृशावयविनो गृहीतत्वेन, तद्दृष्टान्तेनैव बुद्धिः कार्यं करोति। यथा मनुजेन स्वपृष्ठभागस्य कदाप्यदृष्टत्वेऽपि तद्विषयकानुभव एव तद्ज्ञानं सदापादयति, बुद्धौ मुद्रितत्वात्, तद्वदेव प्रकृतेऽपि। अतोऽतिरिक्तावयवी अवश्यमङ्गीकार्यः॥ ; आलोकः - पृथिवी ; तर्कसंग्रहः आपः शीतस्पर्शवत्यः आपः। ता द्विविधाः नित्या अनित्याश्च। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥ १०॥ ; आलोकः - आप्त्वम् शीतस्पर्शवत्य आपः। ताश्च द्विविधाः। नित्या अनित्याश्चेति। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनम्। तच्च जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः। ; आलोक-व्याख्या अपां लक्षणमाह शीतस्पर्शवत्य इति। अप्शब्दो नित्यं बहुवचनान्तः। शीतस्पर्श आसु अस्तीति शीतस्पर्शवत्यः। 'आसु' इत्यत्र 'इदं' शब्दस्य जलमर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य जलस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः। तथा च जलनिष्ठाधिकरणता। 'अस्ति' इत्यत्र अस् धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया निरूपितत्वसम्बन्धेन 'अस्' धात्वर्थाधेयतायामन्वयः। आश्रयत्वस्य शीतस्पर्शेऽन्वयः। तथा च जलनिष्ठाधिकरणता- निरूपिताधेयताश्रयः शीतस्पर्श इति विग्रहवाक्यबोधः। 'अन्यपदार्थप्रधानसमासादिवृत्तिस्थले' इत्यादिपूर्वोक्तनियमानुरोधेन शीतस्पर्शवत्य इति तद्धितवृत्तौ पूर्वं विशेषणभूतं जलम् इदानीं विशेष्यं भवति। पूर्वं विशेष्यभूतः शीतस्पर्श इदानीं विशेषणं भवति। तथा च- शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयो जलमिति बोधः। शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जलस्य लक्षणम्। अस्य लक्षणस्य कासारादिजले समन्वयः। शीतस्पर्शनिष्ठाधेयता केति चेत्, 'शीतं कासारजलम्' इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं कासारादिजले वर्तत इति लक्षणसमन्वयः।। नन्वेवं सति एतल्लक्षणस्य कालादावतिव्याप्तिः। कालस्य सर्वाधारत्वात् 'इदानीं शीतं जलम्' इति प्रतीतेः प्रामाणिकत्वात् शीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वं कालेऽपि वर्तत इत्यतिव्याप्तिः। एवं पृथिव्यामप्यतिव्याप्तिः। कथमिति चेत् - ‘शीतं शिलातलम्' इति प्रतीतेः हेमन्तादावनुभवसिद्धत्वात् शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं शिलातलरूपपृथिव्यां वर्तत इत्यलक्ष्ये लक्षणस्य सत्त्वात् अतिव्याप्तिरिति चेत्, न। शीतस्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम् – 'समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्' इति। एवञ्च नातिव्याप्तिः। तथाहि- शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं यद्यपि काले वर्तते। किन्तु तत्र शीतस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोः समवायात्, शीतस्पर्शो जलस्य गुणः, न तु कालस्य। कालस्य सर्वाधारताप्रयोजकसम्बन्धः कालिकसम्बन्धः। अतस्तत्र शीतस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना। न तु समवायसम्बन्धावच्छिन्ना। समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तु जल एव वर्तते, न तु काल इति काले नातिव्याप्तिः। एवं पृथिव्यामपि नातिव्याप्तिः। कथमिति चेत् ? समवायसम्बन्धावच्छिन्ना शीतस्पर्शनिष्ठाधेयता का ? इत्युक्तौ 'शीतं जलम्' इति प्रतीतिसिद्धाधेयतैव। न तु 'शीतं शिलातलम्' इति प्रतीतिसिद्धाधेयता। समवायसंबन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जल एव वर्तते। न तु शिलातलरूपपृथिव्याम्। शिलातलरूपपृथिवीनिरूपिता शीतस्पर्शनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना, किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। स्वः शीतस्पर्शः। स्वसमवायि जलम्। तत्संयोगः शिलातलरूपपृथिव्यां वर्तते। शीतस्पर्शविशिष्ट- हिमादिसम्बन्धादेव पृथिव्यां शीतस्पर्शोपलब्धिः। अतः स्वसमवायिसंयुक्तत्व- सम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यां वर्तते। न तु समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्। समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तु जल एव वर्तत इति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यामतिव्याप्तिः। तथाहि— शीतस्पर्शः कश्चन गुणः। अतस्तत्र गुणत्वरूपा जातिरपि वर्तते। तथा च शीतस्पर्शनिष्ठाधेयता गुणत्वावच्छिन्नापि भवति। साऽऽधेयता तु चतुर्विंशतिगुणसाधारणी एकाऽखण्डा समवायसम्बन्धावच्छिन्ना। अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठगुणत्वावच्छिन्नाधेयता केति चेत् चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयतापि। तादृशाधेयता यथा शीतस्पर्शे वर्तते तथा गन्धेऽपि वर्तते। तादृशाधेयतानिरूपिताधिकरणत्वं तु पृथिव्यामपि वर्तत इति पृथिव्यां पुनरतिव्याप्तिरिति चेत् न। शीतस्पर्शनिष्ठाधेयतायां शीतस्पर्शत्त्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि- समवाय- सम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता केति चेत् ? 'शीतं जलम्' इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयतैव भवति। कुतः ? इति चेत्, शीतस्पर्शे आधेयताद्वयं वर्तते। एका चतुर्विंशतिगुणसाधारणी 'गुणवत् जलम्' इति प्रतीतिसिद्धा गुणत्वावच्छिन्ना शीतस्पर्शनिष्ठाधेयता। एवं शीतस्पर्शत्वावच्छिन्ना 'शीतं जलम्' इति प्रतीतिसिद्धा शीतस्पर्शमात्रनिष्ठान्याऽप्याधेयता वर्तते। तत्र गुणत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतायाः स्वीकारे तु 'गुणवदिति प्रतीतिसिद्धाधेयता भवतीत्यतिव्याप्तिः। लक्षणे तु 'शीतं जलम्' इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता निविष्टा। अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता केति चेत् ? ‘शीतं जलम्' इति प्रतीतिसिद्धैवाधेयता भवति, न तु 'गुणवती' इति प्रतीतिसिद्धाधेयता। अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जल एव वर्तते, नान्यत्र कुत्राऽपीति पृथिव्यां नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्योत्पत्तिकालावच्छेदेन जलेऽव्याप्तिः दुष्परिहरा। 'उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति नियमात् उत्पत्तिकालावच्छेदेन जले शीतस्पर्शाभावात् समवायसम्बन्धाव- च्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तत्र नास्तीति लक्षणस्यासमन्वयात् अव्याप्तिरिति चेत्, न। जातिघटितलक्षणस्य विवक्षणात्। तथा च लक्षणम् - समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्श-निष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्' इति। एवञ्च नाव्याप्तिः। तथाहि - यत्रास्माभिः शीतस्पर्श उपलभ्यते, तादृशद्वितीयादिक्षणावच्छिन्नजलस्य स्वीकारात्, तद्वृत्तिर्जातिः जलत्वजातिः। तादृशजातिमत्त्वमाद्यक्षणावच्छिन्ने जलेऽपि वर्तते। जलत्वजातेर्नित्यत्वात्। अतो लक्षणसमन्वयान्नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यामेवातिव्याप्तिर्दुष्परिहरा। तथाहि- समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावत् कासारजलम्। तद्वृत्तिः का जातिरिति चेत् ? यथा जलत्वजातिस्तथा द्रव्यत्वजातिरपि भवति। तादृशजातिमत्त्वं पृथिव्यामपि वर्तत इति तत्रातिव्याप्तिरिति चेत् न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम्--‘समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्' इति। एवञ्च नातिव्याप्तिः। समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या का जातिरिति चेत् ? द्रव्यत्वजातिर्न भवति, स्वस्य स्वव्याप्यत्वाभावात्। अतो द्रव्यत्वव्याप्या जातिस्तु जलत्वजातिरेव। तादृशजातिमत्त्वं तु कासारादिजल एव वर्तते, न तु पृथिव्यामिति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनरव्याप्तिर्दुष्परिहरा। तथाहि समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् कासारादिः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? यथा जलत्वजातिस्तथा कासारत्वजातिरपि। तादृशजातिमत्त्वं कासारजल एव वर्तते, न तु समुद्रजल इति लक्ष्यैकदेशे समुद्रजले लक्षणस्यासमन्वयात् अव्याप्तिरिति चेत् न। द्रव्यत्वव्याप्येत्यत्र 'साक्षात्’ पदस्य विशेषणात्। तथा च लक्षणम् - 'समवायसम्बन्धावच्छिन्न- शीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्' इति। एवञ्च नाव्याप्तिः। साक्षात्त्वं नाम स्वव्याप्यत्वे सति स्वव्याप्याव्याप्यत्वम्। एवं च नाव्याप्तिः। तथा हि - समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठा- धेयतानिरूपिताधिकरणतावान् कासारः। तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् ? कासारत्वजातिर्न भवति। सा जातिस्तु द्रव्यत्वव्याप्यव्याप्या। द्रव्यत्वव्याप्या जलत्वजातिः। तद्वयाप्या कासारत्वजातिः। द्रव्यत्वसाक्षाद्व्याप्या जातिस्तु जलत्वजातिरेव भवति। न तु कासारत्वजातिः। तस्या द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात्। अतः समवायसम्बन्धावच्छिन्न- शीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्या जातिः जलत्वजातिरेव। तादृशजातिमत्त्वं समुद्रजलेऽपि वर्तत इति नाव्याप्तिः। तथा च समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् अपां लक्षणम्।। एवं सति जलत्वजातिमत्त्वमेव अपां लक्षणं कुतो नोक्तम् ? इत्यादिकं पृथिवीलक्षण इव ज्ञेयम्। सा द्विविधेत्यादिकं पूर्ववत्। जिह्वाग्रं नाम जिह्वाया उपरिभागः।। ; तर्कसंग्रहः उष्णस्पर्शवत्तेजः। तद्द्विविधम्। नित्यमनित्यं चेति। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधम्। शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः। तच्च कृष्णताराग्रवर्ति। विषयश्चतुर्विधः। भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादि। दिव्यमबिन्धनं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि। ; आलोक व्याख्या तेजसो लक्षणमाह - उष्णस्पर्शवदिति। उष्णस्पर्शोऽस्मिन् अस्तीति उष्णस्पर्शवत् इति विग्रहः। अस्मिन् इत्यत्र 'इदं' शब्दस्य तेजोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः। तथा च तेजोनिष्ठाधिकरणता। 'अस्ति ' इत्यत्र अस् धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया अस् धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः। आश्रयत्वस्य चोष्णस्पर्शे अन्वयः। तथा च - तेजोनिष्ठाधिकरणतानिरूपिताधेयताश्रय उष्णस्पर्श इति शाब्दबोधः। 'अन्यपदार्थप्रधानसमासादिवृत्तिस्थले' इत्यादिनियमानुरोधेन पूर्वं विशेष्यभूत उष्णस्पर्शः, उष्णस्पर्शवत् इति तद्धितवृत्तौ विशेषणं भवति। पूर्वं विशेषणभूतं तेज इदानीं विशेष्यं भवति। तथा च उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयस्तेजः इति उष्णस्पर्शवत् इति वाक्याद् बोधः। उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तेजसो लक्षणम्। उष्णस्पर्शनिष्ठाधेयता केति चेत् ? 'उष्णो वह्निः' इति प्रतीतिसिद्धाधेयता। तन्निरूपिताधिकरणत्वं वह्निरूपतेजसि वर्तत इति लक्षणसमन्वयः॥ नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुष्परिहरा। 'कालस्य सर्वाधारत्वात्’ ‘इदानीमुष्णस्पर्शः' इति प्रतीतेः प्रामाणिकत्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम् कालेऽपि वर्तत इति कालेऽतिव्याप्तिः। एवं जलेऽप्यतिव्याप्तिः। तथाहि- 'उष्णं जलम्' इत्यनुभवस्य विद्यमानत्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जलेऽपि वर्तत इति जलादावतिव्याप्तिरिति चेत्, न। उष्णस्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य विशेषणात्। तथा च लक्षणम् समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्' इति। एवञ्च नातिव्याप्तिः। तथाहि यद्यपि काले 'इदानीं उष्णस्पर्श:' इति प्रतीतिसत्त्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वर्तते। किन्तु सा उष्णस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोः समवायात्, उष्णस्पर्शस्य तेजोगुणत्वात्। उष्णस्पर्शो न कालस्य गुणः। सर्वाधारत्वप्रयोजकः कालिकसम्बन्धः। अतस्तत्र उष्णस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयता तु 'उष्णो वह्निः' इति प्रतीतिसिद्धैवाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं तु तेजस्येव वर्तते, नान्यत्र कुत्रापीति कालादौ नातिव्याप्तिः। एवं जलेऽपि नातिव्याप्तिः। कथमिति चेत् ? जले विद्यमानोष्णस्पर्शनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना, किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। कुत इति चेत् ? उष्णस्पर्शविशिष्टतेजोभागसम्बन्धादेव जले उष्णस्पर्शस्योपलब्धिः। तथा च स्वम् उष्णस्पर्शः, स्वसमवायि तेजः, तत्संयोगो जले वर्तत इति तादृशसम्बन्धाव-च्छिन्नाधेयतानिरूपिताधिकरणत्वं जले वर्तते, न तु समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वा-वच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वमित्यतो जले नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि उष्णस्पर्शः कश्चन गुणः। तथा च उष्णस्पर्शनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति। एषाधेयता तु चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। तादृशाधेयता यथा उष्णस्पर्शे वर्तते, तथैव गन्धेऽपि वर्तते। अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामपि वर्तत इति पुनः पृथिव्यामतिव्याप्तिरिति चेत्, न। उष्णस्पर्शनिष्ठाधेयतायामुष्णस्पर्शत्वावच्छिन्नत्वस्यापि विशेषणात्। तथा च लक्षणम् – समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि - उष्णस्पर्शे आधेयताद्वयं वर्तते। एका गुणत्वावच्छिन्नोष्णस्पर्शनिष्ठा चतुर्विंशतिगुणसाधारणी आधेयता। अपरा च उष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शमात्रनिष्ठाधेयता। तत्र गुणत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतायाः स्वीकारे तु 'गुणवत्' इति प्रतीतिसिद्धाधेयता भवति। लक्षणे तु 'उष्णस्पर्शवत्' इति प्रतीतिसिद्धोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शमात्रनिष्ठाधेयता निविष्टा। अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता केति चेत् ? 'उष्णस्पर्शवत्' इति प्रतीतिसिद्धाधेयतैव, न तु 'गुणवत्' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं तु तेजस्येव, न तु पृथिव्यादाविति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्योत्पत्तिकालावच्छेदेन दीपादावव्याप्तिर्दुष्परिहरा। ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति' इति नियमानुरोधेनाद्यक्षणावच्छिन्ने दीपादौ तेजस्युष्णस्पर्शाभावात् समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वम् उत्पत्तिकालिकदीपादौ नास्तीत्यव्याप्तिरिति चेत् - न। जातिघटिततया लक्षणपरिष्कारात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीयादिक्षणावच्छिन्नो दीपादिः। तद्वृत्तिर्या जातिरिति चेत्, तेजस्त्वजातिः। तादृशजातिमत्त्वम् आद्यक्षणावच्छिन्ने दीपेऽपि वर्तते, 'तेजस्त्वजातेर्नित्यत्वात्’ इति नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वह्निः। तद्वृत्तिर्या जातिरिति चेत् ? यथा तेजस्त्वं तथा द्रव्यत्वमपि। तादृशजातिमत्त्वं पृथिव्यामपि वर्तत इति चेत्, न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम् 'समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्' इति। एवञ्च नातिव्याप्तिः। तथाहि - समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वह्निः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? द्रव्यत्वजातिर्न भवति। 'स्वस्य स्वव्याप्यत्वाभावात्'। तादृशजातिमत्त्वं तेजस्येव वर्तते, न तु पृथिव्यादाविति तत्र नातिव्याप्तिः।। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः सुवर्णादौ तेजस्यव्याप्तिर्दुष्परिहरा। तथाहि – समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिता-धिकरणतावान् दीपः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? यथा तेजस्त्वजातिर्भवति, तद्वत् दीपत्वजातिरपि भवति। तादृशजातिमत्त्वं सूर्यादिरूपतेजसि नास्तीति अव्याप्तिरिति चेत्, न। द्रव्यत्वव्याप्ये 'साक्षात्' पदस्य विशेषणात्। तथा च लक्षणम्- 'समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्' इति॥ एवञ्च नाव्याप्तिः। तथाहि - साक्षात्त्वं नाम - स्वव्याप्यत्वे सति स्वव्याप्याव्याप्यत्वम्। स्वम् - द्रव्यत्वम्, तद्व्याप्यत्वं तेजस्त्वे वर्तते। तद्व्याप्यत्वं दीपत्वे इति। अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावत् तेजः। तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत्, तेजस्त्वजातिरेव भवति। दीपत्वजातिस्तु न द्रव्यत्वसाक्षाद्व्याप्या। किन्तु द्रव्यत्वव्याप्यव्याप्या। अतस्तादृशाधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिश्चेत् तेजस्त्वजातिः। तादृशजातिमत्त्वं सुवर्णादावपि वर्तत इति नाव्याप्तिः। तथा च संपूर्णतेजोलक्षणम् 'समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्' इति। तर्हि तेजस्त्वजातिमत्त्वमेव लक्षणमस्तु इत्येतत्तु पूर्ववदेव समाधेयम्॥ भौमम्- दार्वादीन्धनप्रभवम्। दिव्यम्- आकाशावच्छिन्ने मेघमण्डले जातम्, अत एव - अबिन्धनम्, न त्वप्राकृतम्। अप्राकृतम् तु दिव्यं शुद्धम् आत्मादिकमेव। उदरे भवम् - औदर्यम् - जठराग्निः। आकरः खनिः। तत्र जातम्। भास्वररूपस्य तेजोगुणत्वात् सुवर्णे लेशतो भास्वररूपदर्शनेन तैजसत्वम्। ; तर्कसंग्रहः तेजः उष्णस्पर्शवत्तेजः। तच्च द्विविधं नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि॥ ११॥ वायुः रूपरहितः स्पर्शवान्वायुः। स द्विविधो नित्योऽनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः॥ १२॥ ; आलोकः - वायुः रूपरहितस्पर्शवान् वायुः। सद्विविधः। नित्योऽनित्यश्चेति। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः। शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्। तच्च सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुर्वायुः, शरीरान्तस्संचारी वायुः प्राणश्च। स चैकोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते। ; आलोक व्याख्या वायोर्लक्षणमाह - रूपरहितेत्यादि। 'रूपरहितस्पर्शवान्' इति कर्मधारयः, व्यस्तं पदं वा। स्पर्शोऽस्मिन् अस्तीति स्पर्शवान् इति विग्रहः। 'अस्मिन्' इत्यत्र इदंशब्दस्य वायुरर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च वायुनिष्ठाधिकरणता इत्यासीत्। 'अस्ती' त्यत्र 'अस्' धातोराधेयत्वमर्थः। सप्तम्यर्थाधिकरणताया अस् धात्वर्थाधेतायां निरूपितत्वसम्बन्धेनान्वयः। आख्यातस्याश्रयत्वमर्थः। आश्रयत्वस्य स्पर्शेऽन्वयः। तथा च 'वायुनिष्ठाधिकरणतानिरूपिताधेयताश्रयः स्पर्श:' इति विग्रहवाक्यबोधः। 'अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात्' इत्यादिपूर्वोक्तनियमेन पूर्वं विशेषणभूतो वायुः, स्पर्शवान् इति तद्धितवृत्तिस्थले विशेष्यो भवति। पूर्वं विशेष्यभूतः स्पर्श इदानीं विशेषणं भवति। तथा च ' स्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयो वायुः' इति स्पर्शवान् इति वाक्याद् बोधः॥ 'रूपरहितः' इत्यत्र 'रूपेण रहित:' इति तृतीयातत्पुरुषः। 'रूपेण' इत्यत्र प्रकृते रूपमर्थः। तृतीयायाः प्रतियोगित्वमर्थः। प्रकृत्यर्थस्य तृतीयार्थप्रतियोगितायामाधेयतासम्बन्धेनान्वयः। तथा च 'रूपनिष्ठा प्रतियोगिता’ इत्यासीत्। ‘रहितः’ इत्यत्र रहधातोरत्यन्ताभावोऽर्थः। तदुत्तरवर्ति 'क्त'प्रत्ययस्याश्रयत्वमर्थः। तृतीयार्थप्रतियोगिताया रहधात्वर्थात्यन्ताभावे निरूपकतासम्बन्धेनान्वयः। तथा च रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रय इति 'रूपेण रहितः' इति व्यस्तप्रयोगाद् बोधः। 'रूपरहितः ' इति तत्पुरुषसमासे तु 'रूप' इति पूर्वपदस्य रूपनिष्ठप्रतियोगितानिरूपके लक्षणा। अभावेन सहाभेदसंबन्धेनान्वय इति विशेषः। एवञ्चाहत्य 'रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयता- निरूपिताधिकरणताश्रयो वायुः' इति अखण्डबोधः। 'रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वायोर्लक्षणम्। लक्षणस्यास्य लक्ष्ये वायौ समन्वयः। तथाहि स्पर्शनिष्ठाधेयता का ? इति चेत् 'स्पर्शवान् वायुः' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं वायौ वर्तते। एवं वायौ रूपाभावात् रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वमपि वर्तत इति लक्षणसमन्वयः। तत्र स्पर्शवत्त्वमात्रोक्तौ पृथिव्यादौ स्पर्शस्य सत्त्वादतिव्याप्तिः। अतो रूपरहितत्वमुक्तम्। पृथिव्यां रूपस्य सत्त्वेन रूपरहितत्त्वस्याभावान्नातिव्याप्तिः। रूपरहितत्वमात्रोक्तावाकाशादौ रूपाभावात् अतिव्याप्तिः। अतः स्पर्शवत्त्वमुक्तम्। आकाशादौ स्पर्शस्याभावात् नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुर्वारा। तथाहि कालस्य सर्वाधारत्वात् 'इदानीं स्पर्शः' इति प्रतीतेः प्रामाणिकत्वात्। स्पर्शनिष्ठाधेयता का ? इति चेत् 'इदानीं स्पर्शः' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते, एवं रूपरहितत्वमपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। स्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- 'रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्'। एवञ्च नातिव्याप्तिः। तथाहि यद्यपि काले रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति, स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वर्तते, तथापि तादृशाधेयता कालिकसम्बन्धावच्छिन्ना। न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोः समवायात्, स्पर्शस्य वायोर्गुणत्वात्। स्पर्शो न कालस्य गुणः। कालनिष्ठाधिकरणतानिरूपितस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। अतश्च समवायसम्बन्धावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिता-धिकरणत्वं तु वायावेव वर्तते, न तु काल इति नातिव्याप्तिः।। नन्वेवं सत्यपि पुनरस्य लक्षणस्य कालादावतिव्याप्तिर्दुरुद्धरा। तथाहि स्पर्शः कश्चन गुणः। तत्र वर्तमाना समवायसम्बन्धावच्छिन्नाधेयता केति चेत् ? ‘गुणवान्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्नाधेयताऽपि भवति। तादृशाधेयता यथा स्पर्शे वर्तते तथा संख्यादावपि वर्तते, चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता इत्युक्तत्वात्। समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते। 'एकः कालः' इति कालस्य एकत्वसंख्याधारत्वात्। तत्र रूपरहितत्वस्यापि सत्त्वात् कालेऽतिव्याप्तिरिति चेत्, न। स्पर्शनिष्ठाधेयतायां स्पर्शत्वावच्छिन्नत्वस्यापि निवेशनात्। तथा च लक्षणम् 'रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्' इति।। एवञ्च नातिव्याप्तिः। तथाहि - रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वं यद्यपि कालेऽस्ति। परन्तु समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयता केति चेत् ? स्पर्शे किलाधेयताद्वयं वर्तते। एका 'गुणवान्' इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी स्पर्शनिष्ठाधेयता। एवं 'स्पर्शवान्' इति प्रतीतिसिद्धा स्पर्शत्वावच्छिन्नस्पर्शमात्रनिष्ठाधेयताप्यन्या वर्तते। तत्र गुणत्वावच्छिन्न- स्पर्शनिष्ठाधेयतायाः स्वीकारे तु 'गुणवान्' इति प्रतीतिसिद्धाधेयता भवति। लक्षणे तु स्पर्शत्वावच्छिन्नत्वस्य निवेशनात् समवायसम्बन्धावच्छिन्नस्पर्श- त्वावच्छिन्नस्पर्शनिष्ठाधेयता केति चेत् ? 'स्पर्शवान्' इति प्रतीतिसिद्धस्पर्शमात्र- निष्ठाधेयतैव भवति, न तु 'गुणवान्' इति प्रतीतिसिद्धाधेयता। तादृशाधेयता- निरूपिताधिकरणत्वं तु वायावेव वर्तते, न तु काल इति नातिव्याप्तिः।। नन्वेवमपि 'उत्पन्नं द्रव्यम्' इत्यादिन्यायात् उत्पत्तिक्षणावच्छिन्ने वायौ स्पर्शस्याभावात् समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठा- धेयतानिरूपिताधिकरणत्वस्याभावादव्याप्तिरिति चेत्, न। 'रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्वस्यैव लक्षणत्वात्। तथा च समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधे- यतानिरूपिताधिकरणतावान् वायुः, तद्वृत्तिर्जातिः- वायुत्वरूपा जातिः, तादृशजातिमत्त्वमुत्पत्तिक्षणावच्छिन्ने वायावपि वर्तते, जातेर्नित्यत्वात्। अतो नाव्याप्तिः। अथैवमपि आकाशादावतिव्याप्तिः, समवायसम्बन्धावच्छिन्न- स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वायुः, तद्वृत्तिर्जातिः केति चेत् ? द्रव्यत्वजातिरपि वायौ द्रव्यत्वसत्त्वात्। तद्वत्त्वमाकाशादौ वर्तते, रूपाभावोऽपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम्- 'रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं पर्यवसन्नम्। एवं सति समवायसंबन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या जातिर्वायुत्वजातिरेव, न तु द्रव्यत्वजातिः। स्वस्य स्वव्याप्यत्वाभावात्। वायुत्वजातेराकाशादावभावान्नातिव्याप्तिः। नन्वेवमपि तादृशद्रव्यत्वव्याप्यजातिपदेन प्राणत्वजातेः स्वीकारे, तादृशजातिमत्त्वमितरवायुषु नास्तीत्यव्याप्तिरिति चेन्न, द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वविवक्षणात्। तथा च लक्षणम्-'रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति। तथा च प्राणत्वं तु द्रव्यत्वव्याप्यव्याप्यजातिः, न तु द्रव्यत्वसाक्षाद्व्याप्या जातिः। तादृशी तु वायुत्वजातिरेवेति नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुर्वारा। तथाहि-यद्यपि पृथिव्यां समवायसम्बन्धेन रूपस्य विद्यमानत्वेऽपि संयोगसम्बन्धेन रूपस्याभावात् रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वमपि वर्तत इति लक्षणस्य पृथिव्यामतिव्याप्तिरिति चेत्, न। रूपनिष्ठप्रतियोगितायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियेगिता केति चेत् ? 'वायौ रूपं नास्ति' इति प्रतीतिसिद्धा प्रतियोगिता। पृथिव्यां समवायसम्बन्धावच्छिन्नरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वं नास्ति। समवायेन तत्र रूपस्य विद्यमानत्वात्। किन्तु तत्र विद्यमाना प्रतियोगिता संयोगसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। पृथिव्याम् 'संयोगेन रूपं नास्ति' इति प्रतीतेः संभवेऽपि 'रूपं नास्ति' इति प्रतीतेरसंभवात्। अतः समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वं तु वायावेव वर्तत इति पृथिव्यां नातिव्याप्तिः। नन्वेवं सत्यपि पुनः पृथिव्यामतिव्याप्तिर्दुष्परिहरा। तथाहि- पृथिव्यां सप्तविधरूपं वर्तते। नीलरूपं पीतरूपं रक्तरूपमित्यादि। अतस्तादृशनीलरूपविशिष्टस्य घटस्य स्वीकारे तत्र पीतरूपात्यन्ताभावो वर्तते। पीतघटे नीलात्यन्ताभावो वर्तते। समवायसम्बन्धेनैव पीतघटे नीलात्यन्ताभावो वर्तते। अतः समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगिता केति चेत् ? पीतघटे नीलरूपं नास्तीति प्रतीतिसिद्धा प्रतियोगिता। तादृशप्रतियोगितानिरूपकाभावाश्रयत्वं पीतघटरूपपृथिव्यामपि वर्तते। एवं च समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरण-तावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वमपि पीतघटे वर्तत इति अतिव्याप्तिरिति चेत्, न। रूपनिष्ठप्रतियोगितायां रूपत्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति, समवायसंबन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि - समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा प्रतियोगिता केति चेत् ? 'वायौ रूपं नास्ति' इति प्रतीतिसिद्धरूपसामान्यनिष्ठा प्रतियोगिता। पीतघटे 'रूपं नास्ति' इति प्रतीतेरसंभवेन समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा प्रतियोगिता तत्र न भवति। पीतघटे नीलरूपं नास्तीति प्रतीतिसिद्धाभावीया नीलरूपनिष्ठा प्रतियोगिता तु नीलरूपत्वावच्छिन्ना, न तु रूपत्वावच्छिन्ना। अतः पीतघटे यद्यपि नीलरूपत्वावच्छिन्ननीलरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वं वर्तते। अथापि तत्र पीतरूपस्य सत्त्वात् रूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वं नास्ति, पीतरूपस्य सत्त्वात्। अतः समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठप्रतियोगिता केति चेत् ? रूपं नास्तीति प्रतीतिसिद्धा रूपसामान्यनिष्ठा प्रतियोगिता। तादृशप्रतियोगितानिरूपकाभावाश्रयत्वम् एवं समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं च (वायुत्वजातिमत्त्वम्) वायावेव वर्तते, न तु पृथिव्यामिति नातिव्याप्तिः। नन्वेवमपि रूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावः कः ? इति चेत्, ‘रूपघटोभयं नास्ति' इति प्रतीतिसिद्धो रूपघटोभयाभावोऽपि तत्र प्रतियोगितावच्छेदकता रूपत्वे, घटत्वे, उभयत्वे च वर्तते। अतः प्रतियोगिता रूपत्वावच्छिन्ना भवत्येव। तादृशप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वस्यापि घटादौ सत्त्वात् घटादौ रूपसत्त्वेऽपि घटे घटाभावात्, एकसत्त्वेऽपि द्वयं नास्तीति नियमेन 'रूपघटोभयं नास्ति' इति प्रतीतेः प्रामाणिकत्वाद्घटादावुक्तलक्षणस्यातिव्याप्तिर्दुष्परिहरेति चेत्, न। प्रतियोगितावच्छेदकतायां पर्याप्तेर्निवेशनात्। तथा च रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति स्पर्शत्वा- वच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वायोर्लक्षणम्। एवञ्च 'रूपघटोभयं नास्ति' इति प्रतीतिसिद्धाभावीयप्रतियोगितावच्छेदकताया रूपत्वघटत्वोभयत्वेषु त्रिषु पर्याप्तत्वात् रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो रूपाभाव एव भवति, न तु रूपघटोभयाभाव इति नातिव्याप्तिः। अथैवमपि प्रत्येकापर्याप्तस्य समुदायपर्याप्तत्वासंभवात् उक्तोभयाभावीयप्रतियोगितावच्छेदकतायाः प्रत्येकं पर्याप्तत्वेन रूपत्वेऽपि सा पर्याप्तैवेति, रूपघटोभयाभावोऽपि रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो भवत्येवेति अतिव्याप्तिस्तदवस्थैवेति चेत्, न। रूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वनिवेशनात्। एतादृशस्त्वभावः 'रूपं नास्ति' इति प्रतीतिसिद्धाभाव एव, न तूभयाभावः। उभयाभावीयप्रतियोगितायास्त्रिषु पर्याप्तत्वेन रूपत्वमात्रपर्याप्तत्वाभावान्नोभायाभाव: स्वीकर्तुं शक्यत इति नातिव्याप्तिः। अधिकमन्यत्र। तथा च - समवायसंबन्धावच्छिन्नरूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वायोर्लक्षणम् इत्याद्यूह्यम्। नन्वेवं सत्यप्यस्य लक्षणस्य पुनरुत्पत्तिकालावच्छिन्ने घटेऽतिव्याप्तिर्दुर्वारा। ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति' इति नियमात् उत्पत्तिकालावच्छिन्ने घटे रूपसामान्याभावात् समवायसम्बन्धावच्छिन्न- रूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति समवाय- सम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वर्तते। अतस्तत्र उत्पत्तिकालावच्छिन्नघटरूपपृथिव्यामतिव्याप्तिर्दुर्वारेति चेत्, न। 'रूपरहितः' इत्यस्य दलस्य जातिघटितपरिष्कारात्। केवलरूपशून्यत्वं न लक्षणं, किन्तु रूपसमानाधिकरणजातिशून्यत्वमिति लक्षणम्। रूपसमानाधिकरणजातिशून्यत्वं नाम रूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिशून्यत्वम्। तथा च लक्षणम् समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिशून्यत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम्। तथा च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् कः? इति चेत्, द्वितीयादिक्षणावच्छिन्नो घटोऽपि भवति। तद्वृत्तिर्या जातिरिति चेत् ? पृथिवीत्वजातिरेव। तादृशजातिमत्त्वमेव वर्तत उत्पत्तिकालावच्छिन्ने घटे। तत्र रूपसमानाधिकरणजातिशून्यत्वाभावात्। रूपसमानाधिकरणजातिशून्यत्वं (पृथिवीत्वादिजातिशून्यत्वं ) तु वायावेव वर्तत इति पृथिव्यां लक्षणासमन्वयान्नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः असंभवरूपदोषो दुर्निवारः। तथाहि-समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्या जातिरिति चेत्, यथा पृथिवीत्वजाति; तथा द्रव्यत्वजातिः सत्ताजातिश्च। तादृशजातेः स्वीकारे तादृशजातिमत्त्वमेव वायौ वर्तते, जातिशून्यत्वं नास्तीति लक्षणस्यासमन्वयात् असंभवो दोष इति चेत्, न। जातौ द्रव्यत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिशून्यत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नासंभवः। तथाहि- समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? सत्ताजातिर्न भवति, तस्या द्रव्यत्वव्यापकत्वेन द्रव्यत्वव्याप्यत्वाभावात्। एवं द्रव्यत्वजातिरपि न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो द्रव्यत्वव्याप्या जातिरिति चेत् पृथिवीत्वादिजातिः स्वीकर्तव्या। तादृशजातिशून्यत्वं वायौ वर्तत एव। एवं समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्या (वायुत्व) जातिरपि वर्तत इति लक्षणसमन्वयात् नासंभवः। अथैवमपि समवायसंबन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयता-निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यपटत्वजातिशून्यत्वस्य समवायसंबन्धा- वच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वस्य च घटादौ सत्त्वात्पुनः घटादावतिव्याप्तिरिति चेत्, न। द्रव्यत्वसाक्षाद्व्याप्यजातिशून्यत्वस्य विवक्षणात्। पटत्वं तु, न द्रव्यत्वसाक्षाद्व्याप्यजातिः, तस्या द्रव्यत्वव्याप्यव्याप्यत्वात्। किन्तु पृथिवीत्वादिरेव। तच्छून्यत्वं घटादौ नास्तीति नातिव्याप्तिः। वायौ तु तच्छून्यत्वं वर्तत एवेति लक्षणसमन्वय इति दिक्। तथा च वायोर्निष्कृष्टं लक्षणम् समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिशून्यत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति। अत्र रूपसमानाधिकरणजातिशून्यत्वं वा रूपानधिकरणवृत्तिजातिमत्त्वं वा, किं विवक्षितम् ? इत्यादिकं तु कुशाग्रमतिभिः स्वयमूह्यम्। उपाधिभेदात्- हृदयादिशरीरावयवभेदात्। 'हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः। उदानः कण्ठदेशस्थो व्यानस्सर्वशरीरगः।' इत्याद्यत्र द्रष्टव्यम्। प्राणशब्दः पञ्चवायुसाधारणः 'पञ्च प्राणाः' इत्यादि प्रसिद्धेः। एवं वायुविशेषवाची च 'प्राणापान' इत्यादावपि प्राणस्य पाठात्। ; तर्कसंग्रहः शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यं च। प्राणवायुः शरीरान्तःसंचारी वयुः प्राणः। स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते॥ १३॥ आकाशम् शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यं च॥ १४॥ ; आलोकः - आकाशलक्षणम् ; आलोक- व्याख्या आकाशं लक्षयति- शब्दगुणकमिति। शब्दो गुणो यस्मिन्, तत् इति शब्दगुणकम्। 'यस्मिन्' इत्यत्र यच्छब्दस्याकाशमर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याकाशस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः। तथा च आकाशनिष्ठाधिकरणता। सप्तम्यर्थाधिकरणताया निरूपकतासम्बन्धेन शब्देऽन्वयः। शब्दस्य च गुणेऽभेदसम्बन्धेनान्वयः। तथा च आकाशनिष्ठाधिकरणतानिरूपकः शब्दभिन्नो गुण इति अखण्डबोधः। ‘विग्रहवाक्यात् यादृशविशेष्यविशेषणभावापन्नो बोधो जायते समासादिवृत्तिवाक्यात् तद्विपरीतविशेष्यविशेषणभावापन्नो बोधो जायते' इति नियमात् पूर्वं विशेषणभूत आकाश इदानीं विशेष्यो भवति। पूर्वं विशेष्यभूतो गुण इदानीं विशेषणं भवति। तथा च शब्दभिन्नगुणनिरूपिताधिकरणताश्रय आकाशः इति समस्तवाक्याद् बोधः। अथवा - ‘यस्मिन्' इत्यत्र यच्छब्दस्य आकाशोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च आकाशनिष्ठाधिकरणता। सप्तम्यर्थाधिकरणतायाः स्वनिरूपिताधेयताश्रयत्वसम्बन्धेन शब्देऽन्वयः। तथा च - यच्छब्दार्थाकाशनिष्ठाधिकरणतानिरूपिताधेयताश्रयो गुणः शब्दभिन्न इति बोधः। 'विग्रहवाक्यात्' इत्यादिपूर्वोक्तनियमेन शब्दभिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणताश्रय आकाश इति बोधः। अथवा यस्मिन्नित्यत्र सप्तम्या आधेयत्वमर्थः। प्रकृत्यर्थस्य निरूपितत्वसंबन्धेनाधेयतायामन्वयः। आधेयताया आश्रयतासंबन्धेन शब्देऽन्वयः। तथा च आकाशनिरूपिताधेयताश्रयः शब्दाभिन्नो गुण इति विग्रहवाक्यबोधः। समासात्तु शब्दनिष्ठाधेयतानिरूपकमाकाशमिति बोधः। फलतः सर्वं समानार्थकम्। लक्षणे तु गुणपदनिवेशनस्य प्रयोजनाभावात्, शब्दनिष्ठाधेयतानिरूपिताधिकरणत्वम् इत्येव लक्षणम्। शब्दनिष्ठाधेयता केति चेत् ? 'आकाशे शब्दो वर्तते' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वमाकाशे वर्तत इति लक्षणसमन्वयः। नन्वेवं सत्यप्यस्य लक्षणस्य पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि ‘अयं भेरीशब्दः’ ‘वीणानादः' इत्यादिप्रतीतेः प्रमाणिकत्वात्, 'भूतले घटः’ इत्यादाविव ‘भेर्याम्' इत्यत्र सप्तम्या अधिकरणत्वार्थकत्वेन शब्दस्य भेर्यादिपृथिवीधर्मत्वसिद्ध्या शब्दनिष्ठाधेयता केति चेत् 'भेर्यां शब्दो जायते' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं भेरीरूपपृथिव्यामपि वर्तत इति पृथिव्यामतिव्याप्तिः। एवम् ' इदानीं शब्द:' इति प्रतीत्या कालस्य सर्वाधारत्वेन पूर्ववत् कालेऽप्यतिव्याप्तिरिति चेत्, न। शब्दनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति। तथा च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयता का ? इत्युक्तौ 'शब्दवदाकाशम्' इति प्रतीतिसिद्धाधेयता। 'भेर्यां शब्दो वर्तते' इति प्रतीतिसिद्धाधेयता, न समवायसम्बन्धावच्छिन्ना। किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। स्वम् - शब्दः। स्वसमवायि आकाशम्। तत्संयोगो भेर्यां वर्तत इति शब्दविशिष्टाकाशसंयोगात् 'भेर्यां शब्दः' इति व्यवहारः, जले गन्धः' इत्यादिव्यवहारवत्। अतस्तत्र विद्यमानाधेयता स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोरेव समवायात्। शब्दस्य आकाशगुणत्वात्। अतः तादृशसमवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वं तु आकाशे वर्तते, न तु भेरीरूपपृथिव्यामिति तत्र नातिव्याप्तिः। एवं काले कालिकसंबन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वमेव, न तु समवायसंबन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वमिति काले नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनर्जलादावतिव्याप्तिर्दुष्परिहरा। तथाहि शब्दः कश्चन गुणः। तथा च शब्दनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति। एतादृशगुणत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत् ? 'गुणवत्’ इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। तादृशाधेयता यथा शब्दे वर्तते तथा स्पर्शादावपि वर्तते। अतः स्पर्शदिनिष्ठाधेयतानिरूपिताधिकरणत्वं जलादिष्वपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न। शब्दनिष्ठाधेयतायां शब्दत्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम् समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि - समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत्, तत्र आधेयताद्वयं वर्तते। एका गुणत्वावच्छिन्नशब्दनिष्ठा चतुर्विंशतिगुणसाधारणी 'गुणवत्' इति प्रतीतिसिद्धाधेयता। एवं शब्दत्वावच्छिन्नशब्दमात्रनिष्ठाधेयता 'शब्दवत्' इति प्रतीतिसिद्धाधेयता चापरा। लक्षणे तु 'शब्दवत्' इति प्रतीतिसिद्धा शब्दमात्रनिष्ठा शब्दत्वावच्छिन्नाधेयता निविष्टा। अतः तादृशसमवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत् 'शब्दवत्' इति प्रतीतिसिद्धाधेयता, न तु 'गुणवत्' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं तु आकाश एव वर्तते, नान्यत्र कुत्राऽपीति जले नातिव्याप्तिः। आकाशादेर्नित्यत्वादेकत्वाच्चात्र लक्षणे जातिघटितपरिष्कारावश्यकता नास्ति॥ न चात्र मध्ये गुणपदं निवेश्य लक्षणं वक्तव्यम्। किन्तु शब्दनिष्ठाधेयतानिरूपिताधिकरणत्वमात्रोक्तौ पर्याप्तम्। आकाशे शब्द एक एव विशेषगुण इति द्योतनार्थम्, गुणपदस्य विशेषगुणपरत्वाभिप्रायेण उक्तत्वात्। तेन शब्दाश्रयतया आकाशसिद्धिरित्यादिकमन्यत्र द्रष्टव्यम्। अथवा ये मीमांसकाः शब्दस्य द्रव्यत्वमङ्गीकुर्वन्ति तन्मतनिराकरणार्थम्। शब्दो न द्रव्यं, किन्तु गुण एव इति ज्ञापनार्थं गुणपदम्। अतो लक्षणे गुणपदं नावश्यकम्। एकम् - एकत्वसंख्याविशिष्टम्। अत एव - विभु, जगति सर्वत्रापि शब्दोत्पत्तिदर्शनात्, अपरिच्छिन्नपरिमाणवत्। अत एव नित्यं च - मध्यमपरिमाणवत एव लोके नाशदर्शनात्। आकाशस्यैकत्वेऽपि घटाद्युपाधिभेदादेव घटाकाशम् मठाकाशम् इत्यादिभेदव्यवहारः। एवं कर्णविवरावच्छिन्नमाकाशं श्रोत्रेन्द्रियमित्युच्यते। तच्च शब्दग्राहकम्। एवं पञ्चेन्द्रियाणि पाञ्चभौतिकानि। 'नीलं नभः' इति प्रतीतिर्भ्रान्तिरेव समीपे पुरतस्तथादर्शनात्। कालः अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च॥ १५॥ ; आलोकः - कालः ; तर्कसंग्रहः अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च। ; आलोक- व्याख्या कालं लक्षयति- अतीतादीति। अतीतादीनां व्यवहारः अतीतादिव्यवहारः। अतीतादिव्यवहारस्य हेतुः अतीतादिव्यवहारहेतुरित्युभयत्र षष्ठीतत्पुरुषसमासः। आदिपदेन भविष्यद्वर्तमानयोरपि ग्रहणं कर्तव्यम्। अतीतादीनामित्यत्र षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्यातीतादेः षष्ठ्यर्थविषयतायामाधेयतासम्बन्धेनान्वयः। तथा च अतीतादिनिष्ठविषयता इति बोधः। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकतासम्बन्धेन अथवा स्वनिरूपितविषयितावत्त्वसम्बन्धेनान्वयः। तथा च अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः अथवा अतीतादिनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्दप्रयोग इति बोधः। अतीतादिव्यवहारस्य हेतुरित्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य ज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इत्यासीत्। हेतुर्नाम कारणतावान्। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च- अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपित कारणतावानित्यासीत्। आहत्य चाखण्डबोध: - 'अतीतादिनिष्ठविषयता(निरूपित-विषयिताश्रय) निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः (कारणतावदभिन्नः) काल:' इति। अतीतादिनिष्ठविषयतानिरूपक (विषयतानिरूपितविषयिताश्रय) ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं कालस्य लक्षणम्। अस्य लक्षणस्य 'अतीतो घटः' इत्यत्र समन्वयः। 'अतीतः' इत्यत्र 'व्यवहारे व्यवहर्तव्यस्य कारणत्वम्' इति नियमानुरोधेन अतीतादिविषयकव्यवहारे 'अतीतः' इति अतीतत्वरूपकालज्ञानमावश्यकम्। अतस्तादृशातीतादिनिष्ठविषयतानिरूपकम् किं ज्ञानमिति चेत् ? 'अतीत' इत्याकारकज्ञानम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? अतीतादिव्यवहारनिष्ठकार्यता। तादृशकार्यतानिरूपितकारणत्वं काले वर्तत इति लक्षणसमन्वयः। नन्वेवं सत्यप्यस्य लक्षणस्येश्वरादावतिव्याप्तिर्दुष्परिहरा। तथा हि 'कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वम्' इति नियमानुसारेण अतीतादिनिष्ठविषयतानिरूपितज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वमीश्वरादावप्यस्तीति ईश्वरादावतिव्याप्तिरिति चेत्, न। कार्यतानिरूपितकारणतायाम् 'असाधारण' दलस्य विशेषणात्। तथा च लक्षणम्- अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि कारणं हि साधारणकारणम्, असाधारणकारणमिति द्विविधम्। कालेश्वरादृष्टादयः साधारणकारणानि। इतराणि दण्डचक्रसलिलादीनि घटादौ असाधारणकारणानि। अतीतादिव्यवहारे अतीतादिविषयकातीतत्वरूपकालोऽसाधारणकारणम्। ईश्वरादीनां तु तत्र साधारणकारणत्वेन असाधारणकारणत्वाभावात् नेश्वरादावतिव्याप्तिः। ननु कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वं यदि, तर्हि अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वं कथं कालस्य लक्षणमुच्यते, साधारणकारणस्यासाधारणकारणत्वस्य च विरुद्धत्वेनासंभवप्रसङ्गादिति चेत्, न। काले साधारणकारणत्वं तु कार्यसामान्यापेक्षया, असाधारणकारणत्वं तु कालव्यवहारं प्रति कालज्ञानस्यावश्यकत्वात् विशेषापेक्षयेति विरोधाभावात्। यथा हि दण्डादिकं घटादिकं प्रति निमित्तकारणं सदपि स्वगतरूपं प्रति समवायिकारणमपि भवति। निरूपकभेदेन तद्यथा न विरुद्धं, तथैवात्राप्यदोषात्। कार्यत्वावच्छिन्नकार्यतानिरूपिताकारणता अन्या, अन्या च व्यवहारत्वा- वच्छिन्नकार्यतानिरूपिता कारणतेति ज्ञेयम्। यद्यप्यत्र ‘अतीत’पदस्यातीतकालवृत्तिवस्तुपरत्वात् तादृशव्यवहारकारणत्वं घटादेरपि वर्तत इति घटादावतिव्याप्तिः। न चातीतपदम् ‘कालोऽतीतः’ इति व्यवहारात् कालबोधकमेवेति शक्यम्, कालस्य नित्यत्वेन तस्यातीतत्वाभावात्, तादृशव्यवहारस्य घटाद्यौपाधिकत्वात्। तथापि 'अतीत'पदस्यातीतत्वपरत्वात्, अतीतत्वादिनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणताश्रयत्वस्य लक्षणत्वेनातिव्याप्त्यभावात्। कालस्यैकत्वेऽपि उपाधिभेदादेवातीतवर्तमानभविष्यत्कालभेदः। 'अस्ति' इति व्यवहारप्रयोजकः कालो वर्तमानः। 'बभूव' इति व्यवहारप्रयोजको भूतः। ‘भविष्यति' इति व्यवहारप्रयोजको भावी। भूते भविष्यति च कालेऽद्यतनानद्यतनत्वादिकमौपाधिकभेदापेक्षम्। वर्तमानस्त्वेक एव। यद्यपि कालोऽतीन्द्रियः, तथाप्युपाधीनां सूर्योदयादीनां प्रत्यक्षत्वात् कालोऽपि प्रत्यक्ष इव भवति। अत एव 'जन्यानां कालोपाधित्वम्' इत्येव नियमः, नित्यानां भूतभविष्यद्व्यवहारासंभवात्। जन्यानां कालोपाधित्वादेव तेषां खण्डकालरूपत्वम्, उपाध्युपहितयोरभेदोपचारात्, 'अशोककालः' इत्यादिव्यवहारः,‘अयो दहति’ इतिवत्। अयसः पार्थिवत्वात् स्वतो नहि दाहकत्वम्, किन्तु वह्निनोपहितस्य तप्तायस एव। एवञ्च खण्डकालत्वाज्जन्यानां क्वचित्कालः प्रत्यक्ष इव। अयं न्यायो दिश्यपि समानः। अत एव 'मूर्तानां दिगुपाधित्वम्' इत्यपि न्यायः। ; तर्कसंग्रहः प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च। ; आलोक- व्याख्या दिशं लक्षयति - प्राच्यादीति। प्राच्यादीनां व्यवहार इति प्राच्यादिव्यवहारः। प्राच्यादिव्यवहारस्य हेतुः प्राच्यादिव्यवहारहेतुः। आदिपदेन प्रतीची - उदिची- अवाचीनां ग्रहणं कर्तव्यम्। 'प्राच्यादीनाम् इत्यत्र षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयत्वसम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च प्राच्यादिनिष्ठविषयतेति बोधः। 'व्यवहारो' नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः। तथा च प्राच्यादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः इति खण्डबोधः। 'व्यवहारस्य हेतु:' इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इति बोधः। हेतुर्नाम कारणतावतीत्यर्थः। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन 'कारणतावतीत्यत्रैकदेशे कारणतायामन्वयः। तथा च ज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितकारणतावती (कारणताश्रयः) इति बोधः। 'प्राच्यादिनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावदभिन्ना (कारणताश्रयः) दिक्' इति अखण्डशाब्दबोधः। लक्षणं तु 'प्राच्यादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वम्' इति। अस्य लक्षणस्य 'प्राच्यां घटः' इत्यादौ समन्वयः। 'प्राच्यां घटः' इत्यस्मिन् व्यवहारे व्यवहर्तव्याया दिशः कारणत्वात् प्राच्यादिविषयकव्यवहारे प्राच्यादिरूपदिग्ज्ञानमावश्यकम्। तादृशप्राच्यादिनिष्ठविषयतानिरूपकं किं ज्ञानमिति चेत् ? 'प्राची' इत्याद्याकारकं ज्ञानम्। तज्जनकः ‘इयं प्राची' 'इयमवाची' 'इयं प्रतीची' 'इयमुदीची ' इत्याद्याकारकशब्दप्रयोगः। तादृशशब्दप्रयोगरूपव्यवहारनिष्ठकार्यता केति चेत् ? 'इयं प्राची' इत्याद्याकारकप्रतीतिसिद्धा व्यवहारनिष्ठकार्यता। तादृशकार्यतानिरूपितकारणत्वं दिशि वर्तत इति लक्षणसमन्वयः। नन्वेवं सत्यपि लक्षणस्यास्येश्वरादावतिव्याप्तिर्दुर्वारा। तथाहि- कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वात् प्राच्यादिनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितसामान्यकारणत्वमीश्वरादावप्यस्तीति अतिव्याप्तिरिति चेत्, न। कार्यतानिरूपितकारणतायाम् ‘असाधारण’ पदस्य विशेषणात्। तथा च लक्षणम्- 'प्राच्यादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्' इति। तथा च नातिव्याप्तिः। तथाहि दिशि निष्ठं कारणत्वं द्विविधं वर्तते। एकं कार्यसामान्यं प्रति कारणत्वम्। अन्यश्च विषयविधया विशेष (असाधारण) कारणत्वमपि। यद्यपि ईश्वरादीनां कार्यसामान्यं प्रति कारणत्वं वर्तते। किन्तु लक्षणेऽसाधारणकारणत्वस्य निवेशनात् प्राच्यादिव्यवहारं प्रति विषयविधया प्राच्यादिरूपदिश एवासाधारणकारणत्वात्, ईश्वरादीनां सामान्यकारणत्वात्, तत्रातिव्याप्तिः परिहृता भवति। साधारणासाधारणकारणत्वयोरविरोधादिकं काललक्षणवदेव ज्ञेयम्। सूर्योदयाचलसन्निहिता दिक् प्राची। अत्र 'अचल' पदं पुराणानुसारात्। वस्तुतस्तु सूर्योदयप्रदेशावच्छिन्ना दिक् प्राची। अस्तप्रदेशावच्छिन्ना दिक् प्रतीची। ‘सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः' इति वचनात्। मेरुपर्वतदेशावच्छिन्ना दिगुदीची। वर्षः देशः। भूम्या गोलरूपत्वात्। उपरि मध्ये वर्तमानो भागः सर्वेषां देशानामुत्तरभागः, तत्रैव मेरुरपि। मेरोर्व्यवहिता दिगवाची = दक्षिणा। अत्रापि दिगुपाधीनां सूर्योदयादीनां प्रत्यक्षत्वात्, दिशोऽपि प्रत्यक्षत्वभ्रमः। अत एव नूतनदेशगमने दिग्भ्रमोऽपि कदाचित् भवति। औपाधिकभेदविषयकविचारः काल इव दिश्यपि समानः। दिगुपाधिरेव देशः। अतश्च 'प्राच्यादिदेशव्यवहारासाधारणकारणं दिक्' इत्येव दिशो निष्कृष्टं लक्षणम्। अत्रेदं तत्त्वम् - ‘कालेश्वरादृष्टादीनां कार्यसामान्यकारणत्वम्' इत्यत्र ‘आदि’पदेन किं ग्राह्यम् ? दिगेकैव। तथा च कालेश्वरादृष्टदिशश्चत्वारः पदार्थाः कार्यसामान्यकारणानि। 'Space, (स्पैच्) Time (टाइम्) संज्ञकौ दिक्कालावेव कार्यसामान्यकारणान्तर्गताविति सर्वविज्ञानिसंमतम्, दैवज्ञसंमतञ्च। ‘एतस्मिन् काले, एतस्मिन् देशे, एतस्य एतादृशं फलं भवतु' इत्याकारकः सृष्ट्यधीशस्य संकल्प एव कार्यसामान्यं प्रति कारणम्। ‘एतस्मिन् काले' इति कालः ‘एतस्मिन् देशे' इति दिक् च विवक्षिता। दिगुपाधिरेव 'देशः' इत्युच्यते। ‘एतस्य' इति चेतनविशेषवाची। तेन चादृष्टविशेषस्यापि कारणत्वं सिद्धम्। ‘सृष्ट्यधीशः’ इत्यनेनेश्वरः कथ्यते। 'तेन विना तृणाग्रमपि न चलति' इति न्यायः केनोपनिषत्प्रतिपाद्येन 'ब्रह्म ह देवेभ्यो विजिग्ये' (केन.२-१-१) इत्याख्यानेन सिद्ध इति कालदिगीश्वरादृष्टानि सर्वकार्यकारणानि। अत एव ‘पृथिव्यप्तेजोवाय्वाकाशात्मकपञ्चभूतानि जीवानां भोगोपकरणभूतानि निर्दिष्टानि प्रथमम्। अनन्तरं कालदिशौ निर्दिष्टे। अनन्तरं भोक्ता आत्मा। अन्ते च 'मन एव मनुष्याणां कारणं वन्धमोक्षयोः' इत्युक्तं सर्वभोगापवर्गव्यवस्थापकं मनो निर्दिष्टमिति वैज्ञानिकोऽयं विभागः। अत एव दशमद्रव्यस्यापि न प्रसक्तिरिति 'सप्तपदार्था:' इति पदार्थविभागः, 'नव द्रव्याणि' इति द्रव्यविभागश्चाविचाल्य एव। गुणक्रियादिविभागास्तु यथासंभवं व्यवस्थाप्याः। दिक् प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च॥ १६॥ आत्मा ज्ञानाधिकरणमात्मा। स द्विविधः परमात्मा जीवात्मा च। तत्रेश्वरः सर्वज्ञः परमात्मैक एव। जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च॥ १७॥ ; आलोकः - ईश्वरसिद्धिः नित्येन विभुनेश्वरेणैव तत्तदुपाध्यवच्छिन्नेन सर्वनिर्वाह आकाशकालदिशो मा सन्त्वित्यादिकं तु विनिगमनाविरहात् ईश्वरनिराकरण एव पर्यवस्येत्। अतस्तत्तद्व्यवहारस्यासाधारणत्वात्तत्कारणतया सिद्धधर्मिग्राहकप्रमाणसिद्धत्वेन दिक्कालयोर्नान्यथासिद्धिः। आकाशस्तु शब्दसमवायिकारणतया सिद्धः। ; तर्कसंग्रहः ज्ञानाधिकरणमात्मा। स द्विविधः। जीवात्मा परमात्मा चेति। तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव। जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च। ; आलोक-व्याख्या आत्मनो लक्षणमाह - ज्ञानाधिकरणम् इति। ज्ञानस्याधिकरणम् ज्ञानाधिकरणम् इति विग्रहः। ' ज्ञानस्य' इत्यत्र षष्ठ्या आधेयत्वमर्थः। प्रकृत्यर्थस्य ज्ञानस्य षष्ठ्यर्थाधेयतायां निष्ठत्वसम्बन्धेनान्वयः। तथा च ज्ञाननिष्ठाधेयता। अधिकरणं नाम अधिकरणतावान्। षष्ठ्यर्थाधेयताया अधिकरणतावान् इत्यत्रैकदेशेऽधिकरणतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च - ज्ञाननिष्ठाधेयतानिरूपिताधिकरणताश्रयः (अधिकरणतावदभिन्नः) आत्मा। अथवा षष्ठ्या निरूपितत्वमर्थः। निरूपितत्वस्य चाश्रयतासम्बन्धेनाधिकरणतायामन्वयः। तथा च ज्ञाननिरूपिताधिकरणता(श्रयः)वदभिन्न आत्मेति बोधः। लक्षणं तु - ज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वम्। लक्षणसमन्वयः- ज्ञाननिष्ठाधेयता केति चेत् ? ‘अहं जानामि’ ‘ज्ञानवान् अहम्' इति प्रतीतिसिद्धाधेयता। तादृशाधेयता- निरूपिताधिकरणत्वमहंपदार्थे आत्मनि वर्तत इति लक्षणसमन्वयः। नन्वेवं सत्यपि लक्षणस्यास्य कालादावतिव्याप्तिर्दुष्परिहरा। ज्ञाननिष्ठाधेयता केति चेत् 'इदानीं घटज्ञानवानहम्' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं कालेऽपि, कालस्य सर्वाधारत्वात् इति तत्राऽतिव्याप्तिरिति चेत्, न। ज्ञाननिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य विशेषणात्। तथा च लक्षणम् 'समवायसम्बन्धावच्छिन्न- ज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वम्'। तथा च नातिव्याप्तिः। तथाहि यद्यपि ज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वं काले वर्तते। किन्तु तत्र ज्ञाननिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुतः ? इति चेत्, गुणगुणिनोः समवायात्। ज्ञानस्यात्मगुणत्वात्। ज्ञानं न कालस्य गुणः। अतः समवायसम्बन्धावच्छिन्नज्ञाननिष्ठाधेयता केति चेत् ? 'ज्ञानवानहम्' इति प्रतीतिसिद्धा आधेयता। तादृशाधेयतानिरूपिताधिकरणत्वमात्मन्येव वर्तते, न तु कालादाविति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनर्घटरूपपृथिव्यामतिव्याप्तिर्दुर्वारा। तथाहि - ज्ञानं कश्चन गुणः। तथा च ज्ञाननिष्ठाधेयता गुणत्वावच्छिन्नापि भवति। गुणत्वावच्छिन्नज्ञाननिष्ठाधेयता केति चेत् ? 'गुणवान्' इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। सा समवायसम्बन्धावच्छिन्नापि। अतः समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नज्ञाननिष्ठाधेयता यथा ज्ञाने वर्तते तद्वत् गन्धादावपि वर्तते। तादृशाधेयतानिरूपिताधिकरणत्वं घटरूपपृथिव्यामपि वर्तत इति पृथिव्यादावतिव्याप्तिरिति चेत् - न। ज्ञाननिष्ठाधेयतायां ज्ञानत्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयता- निरूपिताधिकरणत्वम्'। एवञ्च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयता केति चेत् ? तत्राधेयताद्वयं वर्तते। एका चतुर्विंशतिगुणसाधारणी 'गुणवान्' इति प्रतीतिसिद्धा गुणत्वावच्छिन्ना ज्ञाननिष्ठाधेयता। एवं ज्ञानत्वावच्छिन्ना 'ज्ञानवान्' इति प्रतीतिसिद्धा ज्ञानमात्रनिष्ठाधेयतान्या। तत्र गुणत्वावच्छिन्नज्ञाननिष्ठाधेयतायाः स्वीकारे तु ‘गुणवान्' इति प्रतीतिसिद्धाधेयता भवति। लक्षणेऽस्माभिस्तावत् ‘ज्ञानवान्’ इति प्रतीतिसिद्धा ज्ञाननिष्ठाधेयता ज्ञानत्वावच्छिन्ना निविष्टा, न तु 'गुणवान्' इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं त्वात्मन्येव वर्तते, न तु घटादिरूपपृथिव्यामिति तत्र नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य सुषुप्तिकालावच्छेदेनात्मन्यव्याप्तिर्दुष्परिहरा। तथाहि आत्मनो नित्यत्वाङ्गीकारेऽपि ज्ञानस्यानित्यत्वात् सुषुप्तौ ज्ञाननाशात्, समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वं सुषुप्तिकालिकात्मनि नास्तीत्यव्याप्तिरिति चेत् न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम्- 'समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्'। एवञ्च नातिव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्न- ज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावान्, यत्रास्माकं ज्ञानमुपलभ्यते तादृशजाग्रदावस्थाविशिष्टात्मा स्वीकार्यः। तद्वृत्तिर्या जातिरिति चेत्, आत्मत्वजातिः। तादृशजातिमत्त्वं सुषुप्तिकालावच्छेदेनात्मन्यपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि-समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावान् आत्मा। तद्वृत्तिर्या जातिरिति चेत् ? आत्मत्वजातिर्यथा, तद्वत् द्रव्यत्वजातिरपि भवति। तादृशजातिमत्त्वं पृथिव्यादावपि वर्तत इत्यतिव्याप्तिरिति चेत् - न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम्- 'समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्वम्'। एवञ्च नातिव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावान् आत्मा। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? आत्मत्वजातिरेव भवति, न तु द्रव्यत्वजातिः। स्वस्य स्वव्याप्यत्वाभावात्। एवं सत्ताऽपि तद्व्याप्यजातिर्न भवति, तस्या द्रव्यत्वव्यापकत्वात्। अतस्तादृशद्रव्यत्वव्याप्या जातिः केति चेत् ? आत्मत्वजातिरेव भवति। तादृशजातिमत्त्वमात्मन्येव वर्तत इति पृथिव्यादौ नातिव्याप्तिः। आत्मपदस्य परमात्मन्यपि प्रयोगात्, तत्पदं जीवपरमात्मसाधारणम्। अत आत्मा द्विविधः - जीवात्मा परमात्मा चेति। परमात्मा त्वेक एव। 'तु' शब्दो जीववैलक्षण्यसूचकः। स एव सर्वजगन्नियन्ता यतः, तत 'ईश्वरः' अत एव सर्वज्ञश्च। अत एव एक एव, ईश्वरद्वये परस्परवैमत्यावश्यम्भावात् 'राजद्वयं राज्यविनाशहेतुः' इति न्यायात्। सर्वांशेऽप्युभयोरैकमत्यान्न विरोधप्रसङ्ग इति यदि तर्हि द्वितीयवैयर्थ्यम्, एकेनैव सर्वजगन्नियमनादिनिर्वाहात्। अतस्स एक एव। ईश्वरभिन्नत्वे सति चेतनत्वं जीवलक्षणम्। चेतनत्वमात्रोक्तौ ईश्वरे, चेतनत्वानुपादाने घटादौ चातिव्याप्तिः। टिप्पणी ईश्वरानुमानम्- ननु ईश्वरसद्भावे किं प्रमाणमिति चेत्, जीवसद्भावे वा किं प्रमाणम्? 'अयमहमस्मि' इति सर्वेषां स्वविषयकानुभवस्य सत्त्वात्, परमात्मनः अप्रत्यक्षत्वेऽपि स्वात्मनो मानसप्रत्यक्षसिद्धत्वमस्त्येवेति शक्यं वक्तुम्। मन्यन्ते बहवस्तथा, परन्तु देहादेरेव तथा निर्देशात्, तदतिरिक्तात्मनः केनाप्यननुभवात्। योगिनामेव तत्संभवात्। अत एव सूत्रकारोऽपि 'इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लिङ्गम्' (न्या.सू-१-१-१०) इत्यात्मनोऽनुमेयत्वमेवाह। स्वात्मनः प्रत्यक्षत्वेऽपि परात्मनोऽप्रत्यक्षत्वात्तथोक्तमिति समादधते केचित्। तर्हि सर्वेऽपि आत्मज्ञानिनो भवेयुः। लेशतो भवेच्चेत्तत्परिणामः कीदृशो भवेदित्यपरिचयादेव तथा वदन्ति ते। वस्तुतः, इदानीन्तनपण्डितानां शरीरातिरिक्तात्मज्ञानमनुमितिरूपम्, शब्दरूपं वा न प्रत्यक्षरूपम्। एवं स्वस्वरूपज्ञानस्यैवाभावे, ईश्वरसिद्धिः सुतरामनुमानेनैव वक्तव्या। यद्यप्ययं विषयः न्यायशास्त्रसीमातीत एव। अत एव न्यायसूत्रेषु, भाष्ये वा नेश्वरसाधनं दृश्यते। ‘इन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षम्' (न्या.सू.१-१-४.)। इत्यादिसूत्रेणैवेदं स्पष्टीकृतम्, ईश्वरीयप्रत्यक्षस्यालक्ष्यत्वाभिप्रायात्। तथापि, ईश्वरनिराकरणव्यग्राणां मुखपिधानस्य वेदैकशरणैर्वेदान्तिभिः कर्तुमशक्यत्वात्, स भारः तार्किकाणामुपरि अवशात्पतितः। तद्भारं स्वीकुर्वद्भिः न्यायाचार्यैरुदयनैः, तदर्थमेव व्यरचि न्यायकुसुमाञ्जलिनामकः प्रौढो ग्रन्थः। तदनुसारेणेश्वरानुमानं संग्रहेण प्रदर्श्यते 'क्षित्यङ्कुरादिकम् अस्मद्विलक्षणपुरुषकर्तृकम्, अस्मदाद्यकर्तृकत्वे सति सकर्तृकत्वात' इति परिशेषानुमानमेव ईश्वरे प्रमाणम्। क्षितिपदं विविधविचित्ररचनविश्वस्योपलक्षकम्। तत्र निदर्शनतया अङ्कुरमुच्यते। भूमौ प्रतिक्षणमुत्पद्यमानान्यङ्कुराणि सर्वेऽपि पश्यन्ति। अत्र तादृशः को वा चेतनो दृश्यते। न चैतत् स्वभावादेव भवतीति वक्तुं शक्यम्। तथा कथनं तु पलायनवादायते। पराजयमङ्गीकर्तुमशक्नुवताम् अहंकारिणामयं वाद इत्यर्थः। ‘स्वभावः' इत्यत्र 'स्व' शब्दार्थः कः ? तत्तद्वस्त्वेव 'स्व' शब्दार्थ इति यथा - अङ्कुरकारणभूतं बीजमेव स्वशब्दार्थ इति चेत्, बीजं कथमङ्कुरमुत्पादयतीत्येव प्रश्नः। बीजस्यायं स्वभाव इति चेत्, तत्र ‘स्व’शब्दस्यार्थः कः? बीजमेवेति चेत्, तत् कथमङ्कुरमुत्पादयतीत्येव प्रश्नः। बीजस्यायं स्वभाव इति कथनेऽन्योन्याश्रयः, आत्माश्रयो वानिवार्यः। एतावता कालेनादृष्टमङ्कुरमिदानीं दृश्यते चेत्, तत् कार्यमेव भवति। कार्यं च लोके कस्यचित्पुरुषस्य प्रयत्नेनैव भवेदिति घटपटादौ दृष्टम्। अत्र स कः ? इत्येव प्रश्नः। मृत्सलिलादि तत्तत्सामग्रीसंमेलनादेव तद्भवतीति चेत्, मृदादयः किल न चेतनाः। ते कथं चेतनाधिष्ठानमन्तरा कार्यं कुर्युः ? तेषामयं स्वभाव इति चेत्, तत्र स्वपदार्थः कः? अतो बहुदूरं गत्वापि कश्चन चेतनस्सर्वं सुव्यवस्थितं चालयिता वर्तत एवेत्यङ्गीकार्यम्। ननु भोः! किमियं बिभीषिका। अद्यतना महाविज्ञानिनोऽपि स्वभाववादमेवाङ्गीकुर्वन्ति। किमधिकं वक्तव्यमिति चेत्- सत्यम्। जानीम एव भवतां कूटस्थम्। तेष्वपि प्राचीना महाविज्ञानिनो नैवमवदन्। आगच्छता कालेनैवायं नास्तिकवादो वर्धमानः परिदृश्यते। अत एव ज्ञायते जगदिदं महते परिवर्तनाय सज्जीभवदस्तीति 'Nature' इत्युच्यमानमेव देववाण्यां स्वभाव इत्युच्यते। स एव प्रकृतिरित्युच्यते। तत्तद्वस्तूनां स्वभावाः खलु परस्परविलक्षणा प्रश्नानर्हा विचित्राश्च दृश्यन्ते। तत्र सर्वत्र स्वभावपदे वर्तमानः स्वपदार्थः यत्रान्ते पर्यवस्येत्, तत्र वर्तमानः पदार्थो न जडः। किन्तु स सर्वघटकः सर्वज्ञः सर्वशक्त ईश्वर इत्युच्यते। अत एव स जीवादत्यन्तविलक्षणश्च। न हि न्यायदर्शने ईश्वरतुल्यः कश्चिदन्यस्सर्वज्ञः अङ्गीक्रियते। न्यायदर्शनस्यावधिरप्ययमेव। ईश्वरानङ्गीकारस्तु अहङ्कारात्, अज्ञानाद्वा भवेदित्येव परमं रहस्यम्। अहंकारः खलु वक्तुरात्मानं स्वेतरेभ्यस्सर्वेभ्यो व्यावर्त्यमानं स्वमात्रविषयकं करोतीति सर्वेषामनुभवसिद्धम्। एतत् कियदत्यल्पम् ? इति गाढमालोचयतां सुज्ञं भवेत्। एवमत्यल्पस्यास्य जीवस्य ज्ञानं वा कियद् बृहद्भवेत्। एतादृशाहङ्काराज्ञानयोर्नाश एवेश्वरो ज्ञातुं शक्येत क्रमेणेत्येव त्रिकालसत्यम्॥ अतश्च अस्मिन् ब्रह्माण्डे वर्तमानास्सर्वे अणवो वा विभवो वा पदार्थाः, सर्वे स्वस्वकक्ष्यायां स्थित्वा परस्पराविरोधेन यदधीनास्सदा चलन्ति, स एवान्तिम Nature ईश्वर इति ज्ञातव्यम्। अतश्च विलक्षणात् बीजादारभ्य सूर्यचन्द्रादयोऽपि तदधीना एव चलन्तीत्युच्यते। 'एतस्य वा अक्षरस्य प्रशासने गार्गि’(बृ.५-८-९) इत्यारभ्य 'यो वा एतदक्षरमविदित्वास्माल्लोकात्प्रति स कृपणः, अथ य एतदक्षरं विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मण:' इत्युपसंहरति भगवती श्रुतिः। एवं विज्ञानस्यान्तिमभूमौ वर्तमानमेवोच्यते 'विज्ञानेनात्मानं वेदयते' (म.ना.) इत्यत्र। अतश्चास्मदाद्यकर्तृकत्वे सति संकर्तृकत्वादित्युक्तानुमानेनेश्वरसिद्धिः। अधिकमन्यत्र द्रष्टव्यम्। इदं सर्वेषां कथं सुसाध्यमिति चेत्, केनोक्तं सुसाध्यमिति। तर्हि किमुत्तरमिति चेत्, श्रद्धैवेति गृह्यताम्। अन्ततः क्रियतां सत्सङ्गः।। ; आलोक-व्याख्या तथा च सर्वज्ञत्वमीश्वरलक्षणम्। जीवस्त्वित्यादि। अत्रापि 'तु' शब्दो परमात्मवैलक्षण्यसूचकः। तच्च असर्वज्ञत्वरूपम्, अनेकत्वरूपञ्च। जीवानामनेकत्वे कारणं प्रतिशरीरं भिन्न इति। शरीराणि प्रत्यक्षत एव परस्परं भिन्नान्यनन्तानि च। अतस्तत्तच्छरीरावच्छिन्नात्मानोऽप्यनन्ताः। शरीरं हि सुखदुःखादिभोगकारणम्। सुखदुःखादिकं च प्रतिजीवं विलक्षणं दृष्टम्, प्रतिजीवं पुण्यपापकर्मणां विलक्षणत्वात्। अतश्शरीराण्यपि भिन्नानि, आत्मानोऽपि भिन्नाः। तथा च ‘भिन्नाः' इत्यत्र भेदो न शरीरमात्रप्रतियोगिकः, अपितु इतरशरीरावच्छिन्नजीवप्रतियोगिकः। शरीराज्जीवस्य भेदस्तु, शरीरस्य पाञ्चभौतिकस्य जडत्वात्, आत्मनश्चाजडत्वस्य 'ज्ञानाधिकरणमात्मा' इति लक्षणकरणेनैव सिद्धत्वात् पृथङ्न वक्तव्यमित्यभिप्रायः। ‘प्रतिशरीरं भिन्नः' इत्यनेन, यद्यच्छरीरं तत्सर्वं तदवच्छिन्नचेतनाधिष्ठितम्, तच्छरीरभिन्नशरीराधिष्ठितचेतनानधिष्ठितं च। एवञ्च भिन्नभिन्नशरीराणामधिष्ठातृतया भिन्नभिन्नजीवानां सिद्धिः। शरीराणामानन्त्याच्च जीवानन्त्यसिद्धिः। तथा च शरीरभेद एव जीवभेदे प्रमाणम्। शरीरभेदश्च सुखदुःखवैलक्षण्यादित्युक्तमेव। 'प्रतिग्रामं देवालयोऽस्ति' इति कथने, ग्रामश्चेद्देवालयः स्यादेवेत्यर्थलाभात्, ‘यत्र यत्र ग्रामत्वम्, तत्र सर्वत्र देवालयवत्त्वम्' इति व्याप्तिलाभः। तद्वदत्रापि 'प्रतिशरीरं भिन्नः' इत्यत्रापि शरीराणां भेदन, ग्रामभेदेन देवालयभेदवत् तदवच्छिन्नजीवानामपि भेदः सिद्धः। विभुरिति। युगपदेव पादे शिरसि च वेदनानुभवात् जीवानामणुत्वं न युज्यते। मध्यमपरिमाणत्वे चानित्यत्वप्रसङ्गः। जीवानामनित्यत्वे च मोक्षार्थप्रयत्नाद्यनुपपत्तिरिति अर्थात् विभुत्वसिद्धिः। विभुत्वादेव नित्यत्वसिद्धिश्च मध्यमपरिमाणस्यैवानित्यत्वेन व्याप्तेः। ; तर्कसंग्रहः मनः सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च॥ १८॥ ; आलोकः - मनः सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च। ; आलोक- व्याख्या मनसो लक्षणमाह - सुखादीति। सुखादीनामुपलब्धिः सुखाद्युलब्धिः। उपलब्धेः साधनम्- उपलब्धिसाधनम्। 'सुखादीनाम्' इत्यत्र षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च सुखादिनिष्ठविषयता। उपलब्धिर्नाम साक्षात्कारः। षष्ठ्यर्थविषयताया उपलब्ध्यर्थसाक्षात्कारे निरूपकतासम्बन्धेनान्वयः। तथा च सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारः। उपलब्धेरित्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य साक्षात्कारस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च साक्षात्कारनिष्ठकार्यता। साधनं नाम - कारणतावत्। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन साधनपदार्थैकदेशकारणतायामन्वयः। अथवा षष्ठ्या निरूपितत्वमर्थः। तस्याश्रयतासंबन्धेन कारणतायामन्वयः। तथा च साक्षात्कारनिरूपितकारणताश्रय इति बोधः। तथा च सुखादिसाक्षात्कारनिष्ठकार्यतानिरूपितकारणताश्रयः (कारणतावदभिन्नम्) इन्द्रियत्वाश्रयाभिन्नं मनः इति बोधः। तथा चाखण्डबोधः 'सुखादिनिष्ठविषयतानिरूपक (विषयतानिरूपितविषयिताश्रय) साक्षात्कारनिष्ठकार्यतानिरूपितकारणतावदभिन्नम् इन्द्रियत्वाश्रयाभिन्नं मनः'। लक्षणम् तु सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारनिष्ठकार्यतानिरूपितकारणत्वे सति इन्द्रियत्वम्। अस्य लक्षणस्य मनसि समन्वयः। तथाहि सुखादिनिष्ठविषयता केति चेत् ? ' अहम् सुखी' इति प्रतीतिसिद्धा विषयता। तादृशविषयतानिरूपकसाक्षात्कारः कः ? इति चेत्, 'अहम् सुखी' इत्याकारकसाक्षात्कारः। तादृशसाक्षात्कारनिष्ठकार्यतानिरूपितकारणत्वे सति इन्द्रियत्वं मनसि वर्तत इति लक्षणसमन्वयः। इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः। अतः 'सुखाद्युपलब्धिसाधनत्वम्' इति विशेषणम्। चक्षुरादीनां बाह्यप्रत्यक्षत्वं प्रत्येव साधनत्वात् सुखाद्युपलब्धिसाधनत्वाभावात् तत्र नातिव्याप्तिः। सुखाद्युपलब्धिसाधनत्वमात्रोक्तौ, आत्मनि अतिव्याप्तिः। सुखादिकं प्रति आत्मनः समवायिकारणत्वात् सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारनिष्ठकार्यतानिरूपिता कारणताात्मन्यपि वर्तत इति अतिव्याप्तिः। अत इन्द्रियत्वं निवेशनीयम्। आत्मन इन्द्रियत्वाभावान्नातिव्याप्तिः। तच्चेत्यादि। आत्मनां भेदस्योक्तत्वात्, तत्तदात्मनां सुखादेर्व्यवस्थितत्वात्, सुखाद्युपलब्धिसाधनानां मनसामपि व्यवस्थितत्वावश्यम्भावेन मनसामप्यात्मभेदेन भिन्नत्वमावश्यकमित्यर्थः। प्रतिशरीरं भिन्न इतिवत् ‘प्रत्यात्मं भिन्नम्' इति वक्तुं शक्यत्वेऽपि 'प्रत्यात्मनियतत्वात्' इति कथनं कुत इति चेत् ? शरीरभेदे सत्यप्यात्मभेदः कैश्चिद्वेदान्तिभिर्नाङ्गीक्रियते। एतत्पक्षे मनोभेदोऽपि नावश्यकः, आत्मन एवैकत्वात्। ततश्च मनोभेदस्यात्मभेदाधीनत्वात्, आत्मनां च सुखदुःखादिवैलक्षण्येन भेद आवश्यके प्रत्यात्मं मनोव्यवस्थाया अनिवार्यत्वेन मनोभेदसिद्धिरिति सूचनाय प्रत्यात्मनियतत्वं मनोभेदे हेतुरुक्तः। अत एव मनांस्यप्यनन्तानि। आत्मनो विभुत्वावश्यकताया अनुपदमुक्तत्वात्, मनसोऽपि विभुत्वे विभुद्वयसंयोगासंभवात् मनसो ज्ञानकारणत्वं न स्यात्। विभुद्वयसंयोगाङ्गीकारे आत्ममनस्संयोगस्य ज्ञानकरणस्य सदातनत्वप्रसक्त्या ज्ञानमपि जीवानां सदातनं स्यात्। ततश्च सुषुप्त्यनुपपत्तिः। मध्यमपरिमाणत्वे तु नाशावश्यम्भावात् कदाचिद्ज्ञानाभावोऽपि प्रसज्येत। अतो मनसोऽणुत्वमुक्तम्। न च मनसोऽणुत्वेऽपि आत्मनो विभुत्वेन मनस्संयोग अनिवार्य एवेति कथं सुषुप्त्युपपत्तिरिति वाच्यम्; मनसो विभुत्वे तस्य चलनमप्यसंभवि। अणुत्वे तु शरीरान्तस्सञ्चारस्य सुवचत्वात्, देशविशेषावच्छेदेनात्मसंयोग एव ज्ञानकारणम्, न तु यत्रकुत्रचिदवस्थितमनस्संयोगो ज्ञानकारणम् इति व्यवस्थायास्सुवचत्वेनात्मविभुत्वमात्रेण न सुषुप्त्यनुपपत्तिः। स च देशविशेषः पुरीतत्संज्ञकनाडीविशेषो वा अन्यो वेति नास्माकमाग्रह इति भावः। एवं परमाणुरूपत्वादेव नित्यम्। ननु तमसोऽतिरिक्तद्रव्यस्य सत्त्वात् कथमेतावन्त्येव द्रव्याणि। 'नीलं तमः', 'गतं तमः', 'आगतं तमः' इत्याद्यनुभवाद्धि तस्य गुणवत्त्वं क्रियावत्त्वं च दृष्टम्। गुणवत्त्वं क्रियावत्त्वं च हि द्रव्यसामान्यलक्षणम्। अतः कथं नवैव द्रव्याणीति चेत्; न। रूपवतः पार्थिवद्रव्यस्य स्पर्शवत्त्वनियमात्। प्रभायां व्यभिचारान्नायं नियम इति चेत्, पार्थिवस्येत्युक्तं नावहितमायुष्मता। अपि च रूपवद्द्रव्यसाक्षात्कारं प्रत्यालोकस्य कारणत्वनियमात् तमसो रूपिद्रव्यत्वे आलोकमन्तरा कथं चाक्षुषत्वम् ? अपि च छायाया एव तमस्त्वं प्रत्यक्षसिद्धम्। रात्रिरपि भूमिच्छायैवेति तत्तत्त्वविदः। अतश्च तेजोऽभावतमसोस्समनियतत्वदर्शनात् अन्यतरेणैवोपपत्तेर्नातिरिक्तं तमः। न च तमोऽभाव एव तेजः किं न स्यादिति शङ्क्यम्, उष्णस्पर्शस्याभावपदार्थेऽसंभवात्। नीलरूपं तु भ्रान्तिरेव 'नीलं नभः' इतिन्यायात्। क्रियाऽपि दीपगतैव। अतो नातिरिक्तं तमः। यच्च वेदान्तिभिस्तमसोऽतिरिक्तत्वसाधनम्, तत् त्रिगुणान्तर्गततमश्शब्दसमानत्वबुद्धिकृतम्। वस्तुतस्तु गुणान्तर्गतं तमोऽन्यशास्त्रविषयं अतीन्द्रियं च। 'नीलं तमः' इति प्रतीतिविषयस्त्वन्यदेव। रूपम् चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि॥ १९॥ ; आलोकः - रूपम् ; तर्कसंग्रहः चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुकं तेजसि। ; आलोक-व्याख्या एवं नवद्रव्याणां निरूपणेन द्रव्यनिरूपणस्य समाप्त्या, अनन्तरं यथाक्रमं गुणनिरूपणे कर्तव्ये सति, प्रथमनिर्दिष्टं रूपं लक्षयति- चक्षुरित्यादि। चक्षुरेव चक्षुर्मात्रम्। चक्षुर्मात्रेण ग्राह्यः चक्षुर्मात्रग्राह्यः। चक्षुर्मात्रेण ग्राह्य इत्यस्य लोके 'चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयः' इति बोधोऽनुभवसिद्धः। शाब्दबोधोऽप्येतदनुगुण एव वर्णनीयः। तथा हि एवकारस्य भेदवान्, अभावश्चार्थः। चक्षुः पदस्य चक्षुरिन्द्रियमर्थः। तृतीयाया जन्यत्वमर्थः। चक्षुश्शब्दार्थस्य तृतीयार्थजन्यत्वे स्वनिष्ठजनकतानिरूपितत्वसंबन्धेनान्वयः। जन्यताया आश्रयतासंबन्धेन ग्रहधात्वर्थे प्रत्यक्षेऽन्वयः। ण्यत्प्रत्ययस्य विषयतावान् अर्थः। धात्वर्थस्य प्रत्यक्षस्य निरूपितत्वसंबन्धेन विषयत्वेऽन्वयः। विषयतावतोऽभेदसंबन्धेन विशेष्ये रूपेऽन्वयः। तथा च चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावदभिन्नम् इति बोधः। मात्रपदेन च चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयताभाववदभिन्नमिति बोध्यते। अथवा एतद्दृष्ट्या तु व्युत्पत्तिवैचित्र्याच्छाब्दबोधो वर्णनीयः। चक्षुः पदस्य स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेन मात्रपदार्थैकदेशे भेदेऽन्वयः। तथा च चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवानर्थः। भेदवतः स्वनिष्ठजनकता- निरूपितत्वसंबन्धेन तृतीयार्थे जन्यत्वेऽन्वयः। तथा च चक्षुरिन्द्रियनिष्ठ- प्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपितजन्यता इत्यासीत्। जन्यताया आश्रयतासंबन्धेन ग्रहधात्वर्थप्रत्यक्षे, धात्वर्थस्य च निरूपितत्वसंबन्धेन ण्यत्प्रत्ययार्थैकदेशविषयतायाञ्चान्वयः। ण्यत्प्रत्ययार्थविषयतायाः स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेन मात्रपदार्थैकदेशेऽभावेऽन्वयः। विषयत्वाभाववतोऽभेदसंबन्धेन रूपेऽन्वयः। तथा च मात्रपदसमभिव्याहारेण चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवदिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वाभाववदभिन्नमिति बोधः। एवञ्च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयो गुणो रूपमिति संग्रहेण निष्कृष्टः शाब्दबोधः। सर्वमिदं लोकानुभवस्वारस्यानुरोधेन व्युत्पत्तिवैचित्र्यान्निर्वाह्यम्। चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वं रूपस्य लक्षणम्। चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम्, ‘अयं नीलः' इत्यादिप्रत्यक्षम्। तद्विषयत्वं नैल्यादौ रूपे वर्तते। एवं चक्षुर्भिन्नं यदिन्द्रियं त्वगादीन्द्रियम्। तज्जन्यं प्रत्यक्षम् - 'अयं शीतः ' इत्यादिप्रत्यक्षम्। तदविषयत्वं च रूपे वर्तते, गुणत्वं च वर्तत इति लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रसादावतिव्याप्तिः। तदर्थं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं विशेषणम्। रसे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वा- भावान्नातिव्याप्तिः। एतावन्मात्रोक्तौ घटादावतिव्याप्तिः, तस्य चक्षुरिन्द्रिय- जन्यप्रत्यक्षविषयत्वात्। अतो गुणपदम्। घटादेर्द्रव्यत्वेन गुणत्वाभावान्नातिव्याप्तिः। चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमात्रोक्तौ संख्यादौ चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य गुणत्वस्य च सत्त्वादतिव्याप्तिः। अतश्चक्षु- र्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वमुक्तम्। संख्यादौ चक्षुर्भिन्नत्वगिन्द्रियजन्यप्रत्यक्ष- विषयत्वस्यैव सत्त्वेनाविषयत्वाभावान्नातिव्याप्तिः। चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्तौ, गुरुत्वस्यातीन्द्रियत्वेन केनापीन्द्रियेणाग्राह्यत्वात्, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च सत्त्वेन गुरुत्वादावतिव्याप्तिः। अतश्चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वविशेषणम्। गुरुत्वस्यातीन्द्रियत्वेन चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य तत्राभावान्नातिव्याप्तिः। गुणत्वानुपादाने, 'येनेन्द्रियेण यद्वस्तु गृह्यते, तेनैवेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यते' इति न्यायात् रूपत्वजातौ, रूपाभावे च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वस्य च सत्त्वादतिव्याप्तिः। अतो गुणत्वम्। रूपत्वस्य जातित्वेन तत्र, रूपाभावे च गुणत्वाभावान्ना- तिव्याप्तिः। नन्वेवमपि प्रभाघटसंयोगेऽतिव्याप्तिः, तस्य घटद्वयसंयोगवत् त्वगिन्द्रियग्राह्यत्वाभावात्, चक्षुरिन्द्रियग्राह्यत्वात्, गुणत्वाच्चेति चेत्, न। गुणपदस्य विशेषगुणपरत्वेन, संयोगस्य सामान्यगुणत्वेनातिव्याप्त्यभावात्। न चैवं सति गुरुत्वस्य सामान्यगुणत्वेनानेनैव वारणे चक्षुरिन्द्रियग्राह्यत्वदलं विफलमिति शङ्क्यम्, अतीन्द्रियेऽदृष्टेऽतिव्याप्तिपरिहारेण सार्थक्यात्। अदृष्टस्य चक्षुर्भिन्नेन्द्रियाग्राह्यत्वात् विशेषगुणत्वाच्च। अथैवमपि परमाणुगतरूपस्यातीन्द्रियत्वेन चक्षुरिन्द्रियग्राह्यत्वाभावात् अव्याप्तिरिति चेत्, न। चक्षुरिन्द्रियग्राह्यगुणवृत्तिजातिमत्त्वस्य विवक्षणेन रूपत्वजातिमादायाव्याप्तेः परिहारात्। एवं गुणत्वजातिमादायादृष्टादावतिव्याप्तिपरिहाराय गुणत्वव्याप्यजातिमत्त्वमपि विवक्षणीयम्। गुणत्वव्याप्यशुक्लत्वादिजातिमादायाव्याप्तिपरिहाराय गुणत्वसाक्षाद्व्याप्यजातिमत्त्वमपि विवक्षणीयम्। नन्वेवं तर्हि रूपत्वरूपाभावयोस्तादृशजातिमत्त्वाभावादतिव्याप्त्यप्रसक्त्या गुणपदं व्यर्थमिति चेत्, न। सूर्यादिगतसंख्यादेश्चक्षुरिन्द्रियमात्रग्राह्यत्वात् तादृशगुणगतैकत्वत्वादिजातिमादायातिव्याप्तिपरिहारार्थं तस्यावश्यकत्वात्। एवमपि मनसो ज्ञानसामान्यं प्रति कारणत्वात् चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वमेव रूपे वर्तते, न त्वविषयत्वमित्यसंभवपरिहारायेन्द्रियपदं बहिरिन्द्रियपरं वक्तव्यमित्यादिकमूह्यम्। तथा च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति, चक्षुर्भिन्नबाह्येन्द्रिय-जन्यप्रत्यक्षाविषयत्वे सति विशेषगुणत्वं रूपस्य लक्षणमिति। एवमपि ‘सुरभि चन्दनम्' इत्यादिप्रत्यये चक्षुरिन्द्रियजन्ये सौरभ्यस्यापि ज्ञानलक्षणप्रत्यासत्या (अलौकिकसन्निकर्षेण) भानात्तत्रातिव्याप्तिवारणाय चक्षुरिन्द्रियजन्यप्रत्यक्षनिरूपितलौकिकविषयताश्रयत्वपर्यन्तं विवक्षणीयमित्यादिकमप्यूह्यम्। चित्ररूपं तु नानारूपैस्तन्तुभिरारब्धस्य पटादेः प्रत्यक्षत्वार्थम्। नानारूपाणि नानातन्तुनिष्ठानि। पटस्तु तन्तुजन्यस्तन्तुभ्योऽतिरिक्तोऽवयवीत्युच्यते। अवयवी चैकः। तत्र रूपाभावे पटप्रत्यक्षमेव न स्यात्। चाक्षुषप्रत्यक्षं प्रति रूपस्य कारणत्वात्। अतः पटेऽतिरिक्तं रूपमङ्गीकार्यमित्यतिरिक्तचित्ररूपसिद्धिः। यद्यपि इन्द्रधनुषि दृश्यमानानि रूपाण्येव वास्तवरूपाणि, न तु शुक्लादीनीति केचिद्वदन्ति। परन्तु सर्वव्यवहाराणामनुभवरूपम् ऐन्द्रियकं ज्ञानमेव मूलम्। अयमेव विषयोऽस्य शास्त्रस्य। ननु 'नीलं नभः' इति प्रतीत्याकाशस्यापि रूपं गुण इति पृथिवीजलतेजोमात्रवृत्तित्वं रूपस्य कथमिति चेत्, न। अतिदूरप्रदेशे चक्षुरिन्द्रियाप्रसरणौपाधिकस्तादृशः प्रत्ययः। अन्यथा सन्निहितेऽप्याकाशे तादृशप्रतीतिप्रसङ्गः। ग्रीष्मर्तौ हठाद्बहिः प्रदेशागृहं प्रविष्टानां किल गृहान्तः कृष्णरूपदर्शनं चक्षुरिन्द्रियप्रसरणाभावप्रयुक्तं दृष्टमिति यत्किञ्चिदेतत्। रसः रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात्षड्विधः। पृथिवीजलवृत्तिः। पृथिव्यां षड्विधः। जले मधुर एव॥ २०॥ ; आलोकः - रसः ; तर्कसंग्रहः रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः। पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले मधुर एव। ; आलोक- व्याख्या रसं लक्षयति - रसनेत्यादि। रसनेन ग्राह्यः = रसनग्राह्यः। 'रसनेन' इत्यत्र रसनपदस्य रसनेन्द्रियमर्थः। तृतीयाया जनकत्वमर्थः। प्रकृत्यर्थस्य रसनेन्द्रियस्य तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वयः। तथा च रसनेन्द्रियनिष्ठजनकता। 'ग्राह्यः' इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः। ‘ण्यत्' प्रत्ययस्य विषयतावानर्थः। प्रकृत्यर्थस्य प्रत्यक्षस्य निरूपितत्वसम्बन्धेन विषयतायामन्वयः। तृतीयार्थजनकताया ग्रहधात्वर्थैकदेशे प्रत्यक्षे निरूपकत्वसम्बन्धेनान्वयः। अथवा तृतीयाया जन्यत्वमर्थः। प्रकृत्यर्थस्य स्वनिष्ठजनकतानिरूपितत्वसंबन्धेन जन्यतायामन्वयः। जन्यतायाश्चाश्रयतासंबन्धेन प्रत्यक्षेऽन्वयः। तथा च रसनेन्द्रियनिष्ठजनकतानिरूपक(जनकतानिरूपितजन्यताश्रय) प्रत्यक्षनिरूपितविषयताश्रयाभिन्नो गुणत्ववदभिन्नो रस इति बोधः। लक्षणं तु- 'रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयताश्रयत्वे सति गुणत्वम्। लक्षणस्यास्य मधुरादिरसे समन्वयः। रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं किम् ? इति चेत् 'इदमाम्रफलं मधुरम्' इत्याकारकप्रत्यक्षम्। तादृशप्रत्यक्षनिरूपितविषयत्वं रसे वर्तते। एवं गुणत्वमपि तत्र वर्तत इति लक्षणसमन्वयः। रसनग्राह्यत्वमात्रोक्तौ रसत्वे (जातौ) अतिव्याप्तिः। 'येनेन्द्रियेण या व्यक्तिर्गृह्यते तन्निष्ठा जातिस्तदभावश्च तेनैवेन्द्रियेण गृह्यते' इति नियमेन रसनेन्द्रियेण रसत्वमपि गृह्यत इति तत्रातिव्याप्तिः। अतो गुणत्वपदोपादानम्। रसत्वं न गुणः, किन्तु जातिरिति नातिव्याप्तिः। नन्वेवं सत्यपि लक्षणस्यास्य जलपरमाणुगतरसेऽव्याप्तिर्दुष्परिहरा। तथाहि- जलपरमाणूनामतीन्द्रियत्वात् तद्गतो रसोऽप्यतीन्द्रियः। अतो रसनेन्द्रिय- निष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वं तत्र नास्तीति अव्याप्तिरिति चेत् - न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्वम्। एवञ्च नाव्याप्तिः। तथाहि- रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् आम्ररसः। तद्वृत्तिर्या जातिरिति चेत् ? रसत्वजातिः। तादृशजातिमत्त्वं जलपरमाणुगतरसादावपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः। नन्वेवं सत्यपि लक्षणस्यास्य पुना रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि - रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिर्या जातिरिति चेत् ? यथा रसत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि- रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् रसः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतस्तद्व्याप्या जातिः रसत्वजातिरेव भवति। तादृशजातिमत्त्वं रस एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। नन्वेवमप्यस्य लक्षणस्य पुनः मधुररसादावव्याप्तिर्दुष्परिहरा। तथाहि रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्ववान् आम्लादिरसः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत्, यथा रसत्वजातिर्भवति तथाम्लत्वजातिरपि। तादृशाम्लत्वजातिमत्वं मधुररसे नास्तीति अव्याप्तिरिति चेत् न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथा च लक्षणम् रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् रसः। तद्वृत्तिर्या गुणत्व- साक्षाद्व्याप्या जातिरिति चेत् ? अम्लत्वजातिर्न भवति। तस्य गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वसाक्षाद्व्याप्या रसत्वजातिः, तद्व्याप्या अम्लत्वजातिः। अत अम्लत्वस्य साक्षाद्व्याप्यत्वाभावात् सा जातिर्न स्वीकर्तुं शक्यते। किन्तु रसत्वमेव। तादृशजातिमत्वं मधुरादावपि वर्तत इति नाव्याप्तिः। ननु तर्हि गुणत्वं किमर्थम् ? तादृशजातिमत्त्वस्य रसत्वे रसाभावे चासंभवादिति चेत्, न, तात्पर्यग्राहकं तदिति भावनीयम्।। निर्मलकावेरीजलादौ विलक्षणं माधुर्यमनुभवसिद्धम्। न च तत् तिक्तलवणाद्यभावमात्ररूपम्, तर्हि गुडेऽपि माधुर्यं न स्यात्। दृश्यते वैलक्षण्यमिति चेदत्रापि समानम्। ; तर्कसंग्रहः घ्राणग्राह्यो गुणो गन्धः। स द्विविधः। सुरभिरसुरभिश्चेति। पृथिवीमात्रवृत्ति:। ; आलोक- व्याख्या गन्धं लक्षयति - घ्राणेति। घ्राणेन ग्राह्य इति घ्राणग्राह्यः। 'घ्राणेन' इत्यत्र घ्राणपदस्य घ्राणेन्द्रियमर्थः। तृतीयाया जनकत्वं जन्यत्वं वार्थः। प्रकृत्यर्थस्य घ्राणेन्द्रियस्य तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वय इत्यादिकं पूर्ववदेव। ‘ग्राह्यः' इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः। ण्यत्प्रत्ययस्य विषयत्वाश्रयोऽर्थः। प्रकृत्यर्थस्य ग्रहधातोः ण्यत्प्रत्ययार्थविषयतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च प्रत्यक्षनिरूपितविषयताश्रयः। तृतीयार्थजनकताया ग्रहधात्वर्थे प्रत्यक्षे निरूपकतासम्बन्धेन अथवा स्वनिरूपितजन्यताश्रयत्वसम्बन्धेनान्वयः। तथा चाखण्डबोधः घ्राणेन्द्रियनिष्ठजनकतानिरूपक(जनकतानिरूपितजन्यताश्रय)प्रत्यक्षनिरूपितविषयताश्रयो (विषयतावदभिन्नः) गुणाभिन्नो गन्ध इति। लक्षणं तु घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयताश्रयत्वे सति गुणत्वम्। घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं किम् ? इति चेत् 'अयं सुरभिगन्धः' इत्याकारकप्रत्यक्षम्। तादृशप्रत्यक्षनिरूपितविषयता केति चेत् ? 'सुरभिगन्धः' इति प्रतीतिसिद्धा प्रत्यक्षनिरूपिता विषयता। तादृशविषयत्वं सुरभिगन्धे वर्तत इति, एवं गुणत्वमपि वर्तत इति लक्षणसमन्वयः। ‘गुणत्व' मात्रोक्तौ रूपादावतिव्याप्तिः। अतो घ्राणेन्द्रियग्राह्यत्वमिति दलोपादानम्। तथा च रूपादीनां गुणत्वे सत्यपि घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयत्वं तत्र नास्ति, किन्तु चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं वर्तत इति तत्र लक्षणासमन्वयात् नातिव्याप्तिः। घ्राणेन्द्रियग्राह्यत्वमात्रोक्तौ गन्धत्वेऽतिव्याप्तिर्दुर्वारा। तत्र 'येनेन्द्रियेण या व्यक्तिर्गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यते' इति नियमेन घ्राणेन्द्रियग्राह्यत्वम् (घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षविषयत्वम्) गन्धत्वेऽपि वर्तत इति तत्रातिव्याप्तिः। तन्निवारणार्थं 'गुण' इतिपदमुपात्तम्। गन्धत्वं न गुणः किन्तु जातिरिति नातिव्याप्तिः। नन्वेवं सत्यपि पृथिवीपरमाणुगतगन्धेऽव्याप्तिर्दुष्परिहारा। कथमिति चेत् ? परमाणूनामतीन्द्रियत्वात् तद्गतो गन्धोऽप्यतीन्द्रियः। अतो घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयत्वं तत्र नास्तीति लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम्- ‘घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्त्वम्'। तथा च नाव्याप्तिः। घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गन्धः। तद्वृत्तिः का जातिरिति चेत् ? गन्धत्वजातिः। तादृशजातिमत्त्वं पृथिवीपरमाणुगतगन्धेऽपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः। नन्वेवं सत्यपि रूपादावतिव्याप्तिर्दुर्वारा। तथाहि - घ्राणेन्द्रियनिष्ठ- जनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गन्धः। तद्वृत्तिर्जातिः केति चेत् यथा गन्धत्वं तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इति रूपादावतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि- घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्ष-निरूपितविषयतावान् गन्धः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो गुणत्वव्याप्या जातिर्गन्धत्वजातिः। तादृशजातिमत्त्वं गन्ध एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। नन्वेवमपि लक्षणस्यास्य ‘असुरभिगन्धे' अव्याप्तिर्दुष्परिहरा। तथाहि घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् सुरभिगन्धः। तद्वृत्तिर्या गुणत्वव्याप्यजातिरिति चेत्, यथा गन्धत्वजातिः, तथा सुरभित्वजातिरपि भवति। तादृशजातिमत्त्वमसुरभिगन्धे नास्तीति पुनरव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये 'साक्षात् पदस्य निवेशनात्। तथा च लक्षणम् घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् गन्धः। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् सुरभित्वजातेर्ग्रहणं कर्तुं न शक्यते। तस्य गुणत्वव्याप्यव्याप्यत्वात्। किन्तु गुणत्वव्याप्या गन्धत्वजातिः। तद्व्याप्यत्वमसुरभित्वजातावपि वर्तते। तादृशजातेर्गुणत्वसाक्षाद्व्याप्यत्वं नास्ति। अतस्तन्न स्वीकर्तुं शक्यते। तादृशसाक्षाद्व्याप्यजातिर्गन्धत्वमेव। तादृशगन्धत्वजातिमत्त्वमसुरभिगन्धेऽपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः। अत्र गुणपदप्रयोजनादिकं पूर्ववत्। जलवाय्वादौ गन्धप्रतीतिः पार्थिवभागसंबन्धौपाधिकीति पूर्वमेवोक्तम्। ; तर्कसंग्रहः त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स त्रिविधः। शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः। ; आलोक-व्याख्या स्पर्शं लक्षयति - त्वगिन्द्रियमात्रेत्यादि। त्वक्शब्दस्य चर्मण्यपि प्रयोगबाहुल्यात् इन्द्रियपदम्। त्वगिन्द्रियमेव त्वगिन्द्रियमात्रम्, तेन ग्राह्य इति विग्रहः। त्वगिन्द्रियेण इत्यत्र प्रकृतेस्त्वगिन्द्रियमर्थः। तृतीयाया जन्यत्वमर्थः। रूपलक्षणवदेव व्युत्पत्तिवैचित्र्यात्, मात्रपदस्य भेदवान्, अभावश्चार्थः। त्वगिन्द्रियस्य तृतीयार्थजन्यत्वे, मात्रपदार्थैकदेशभेदे चान्वयः। प्रकृत्यर्थस्य, त्वग्भिन्नेन्द्रियस्य च मात्रपदार्थैकदेशे स्वनिष्ठजनकतानिरूपितत्व- संबन्धेन तृतीयार्थजन्यत्वेऽन्वयः। त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यता, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यता इत्यासीत्। जन्यत्वस्याश्रयतासंबन्धेन ग्रहधात्वर्थप्रत्यक्षेऽन्वयः। ण्यत्प्रत्ययस्य विषयतावानर्थः। ग्रहधात्वर्थप्रत्यक्षस्य निरूपितत्वसंबन्धेन ण्यत्प्रत्ययार्थैकदेशविषयतायामन्वयः। विषयतावतश्चाभेदसंबन्धेन प्रधानविशेष्ये स्पर्शेऽन्वयः। एवं त्वग्भिन्नेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वस्य मात्रपदार्थैकदेशान्तरेऽभावेऽन्वयः। तथा च त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपित- विषयताश्रयाभिन्नः, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय- प्रत्यक्षनिरूपितविषयत्वाभावाश्रयाभिन्नो गुणाभिन्न: स्पर्श: इति शाब्दबोधः। त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणम्। 'अयं शीतः' इत्यादिप्रत्यक्षविषये शीतस्पर्शे त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्य, त्वग्भिन्नचक्षुरादीन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च सत्त्वाल्लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः। तदर्थं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वम्। रूपस्य त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावान्नातिव्याप्तिः। तावन्मात्रोक्तौ चक्षुरिन्द्रयवत् त्वगिन्द्रियस्यापि द्रव्यग्राहकत्वात् घटादावतिव्याप्तिः। अतो गुणत्वमुक्तम्। घटस्य द्रव्यत्वेन तत्र गुणत्वस्याभावान्नातिव्याप्तिः। त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमात्रोक्तौ घटादावतिव्याप्त्यभावेऽपि संख्यादौ त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्य गुणत्वस्य च सत्त्वात् अतिव्याप्तिः। तदर्थं त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वमुक्तम्। संख्यादेस्त्वग्भिन्नचक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वात्, तादृशप्रत्यक्षाविषयत्वाभावात् नातिव्याप्तिः। त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्तौ गुरुत्वादेरतीन्द्रियत्वेन त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वसत्त्वादतिव्याप्तिः। अतस्त्व- गिन्द्रियजन्यप्रत्यक्षविषयत्वम्। गुरुत्वादेरतीन्द्रियत्वेन त्वगिन्द्रियजन्यप्रत्यक्ष- विषयत्वस्याभावान्नातिव्याप्तिः। गुणत्वानुपादाने 'येनेन्द्रियेण यद्गृह्यते' इत्यादिन्यायेन स्पर्शत्वस्पर्शाभावयोरतिव्याप्तिः। अतो गुणत्वम्। स्पर्शत्वे स्पर्शाभावे च गुणत्वाभावान्नातिव्याप्तिः। अथैवमप्यन्धकारे घटपटसंयोगस्य चक्षुषाऽग्रहणात् त्वगिन्द्रियेणैव ग्रहणात् त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वसत्त्वादतिव्याप्तिरिति चेत्; न। गुणपदस्य विशेषगुणपरत्वेन, संयोगस्य सामान्यगुणत्वेनातिव्याप्तेः परिहारात्। नन्वेवं सति गुरुत्वस्य सामान्यगुणत्वेन विशेषगुणत्वविशेषणेनैवातिव्याप्तिपरिहारात् त्वगिन्द्रियग्राह्यत्वविशेषणं व्यर्थमितिचेत्, न, अदृष्टस्यातीन्द्रियत्वेन त्वग्भिन्नेन्द्रियाग्राह्यत्वात् विशेषगुणत्वात्, तत्रातिव्याप्तिपरिहाराय तद्विशेषणस्यावश्यकत्वात्। अथैवं परमाणुगतस्पर्शस्यातीन्द्रियत्वेन त्वगिन्द्रियग्राह्यत्वाभावादव्याप्तिरिति चेत्, न, त्वगिन्द्रियग्राह्यवृत्तिजातिमत्त्वस्य विवक्षणेन परमाणुस्पर्शे त्वगिन्द्रिय- ग्राह्यस्पर्शादिवृत्तिस्पर्शत्वजातिमत्त्वस्य सत्त्वेनाव्याप्तेः परिहारात्। तादृशस्पर्शवृत्तिगुणत्वजातिमादाय पुना रूपादावतिव्याप्तिवारणाय, गुणत्वव्याप्यजातिमत्त्वम्; शीतत्वादिकमादायाव्याप्तिपरिहाराय गुणत्वसाक्षा- द्व्याप्यजातिमत्त्वमपि पूर्ववत् विवक्षणीयम्। गन्धः घ्राणग्राह्यो गुणो गन्धः। स च द्विविधः सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः॥ २१॥ स्पर्शः त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिवीजलतेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः॥ २२॥ ; आलोकः - स्पर्शलक्षणविशेषः नन्वेवं सति स्पर्शत्वस्पर्शाभावयोः तादृशजातिमत्त्वाभावेनातिव्याप्तिवारणात् गुणपदं व्यर्थमिति चेत्, न। त्वगिन्द्रियमात्रग्राह्ये उष्णजलगतोष्ण- स्पर्शवत्तेजस्संयोगगतसंयोगत्वजातिमादाय संयोगादावतिव्याप्तिपरिहाराय विशेषणगुणार्थकगुणपदस्यावश्यकत्वात्। एवमिन्द्रियपदं बाह्येन्द्रियपरं वक्तव्यम्। मनसो ज्ञानसामान्यकारणत्वात् स्पर्शप्रत्यक्षस्य त्वग्भिन्नमनोजन्यत्वेनाव्याप्त्यापत्तेः। तथा च त्वगिन्द्रियजन्यप्रत्यक्षविषयवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति त्वग्भिन्नबाह्येन्द्रियजन्यप्रत्यक्षाविषयत्वे सति, विशेषगुणत्वं स्पर्शस्य लक्षणमिति बोध्यम्। अनुष्णाशीतेति नामान्तरालाभादुक्तम्। नाप्युष्णं, नापि शीतमित्यर्थः। तथा च चित्ररूपतुल्यमिदम्। अत एव चित्रस्पर्श इत्यपि वक्तुं शक्यम्। चक्षुरिन्द्रियवत् त्वगिन्द्रियस्यापि द्रव्यग्राहकत्वात्, अवयविद्रव्ये चित्ररूपवत् चित्रस्पर्शोऽप्यावश्यकः। घ्राणश्रोत्ररसनानां द्रव्याग्राहकत्वान्न चित्रगन्धादीनामावश्यकता। ; तर्कसंग्रहः रूपादिचतुष्टयः रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्॥ २३॥ ; आलोकः - संख्या रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यम्। अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। रूपरसगन्धस्पर्शानां साधारणाकारानाह- रूपादिचतुष्टयमित्यादिना। पाकजमिति। पृथिव्यामेव विजातीयतेजस्संयोगाख्यः पाकः, न त्वन्यत्र। नित्यगतम् परमाणुवृत्ति। रूपादीति यथासंभवं ग्राह्यम्। जलादिपरमाणुरूपस्य नित्यत्वात् पृथिवीपरमाणुगतरूपादावेव नित्यानित्यविभागः। अनित्यपृथिव्यादिचतुष्टयवृत्तिरूपादीनां त्वनित्यत्वमेव।। ; तर्कसंग्रहः एकत्वादिव्यवहारहेतुः संख्या। नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्रानित्यमेव। ; आलोक- व्याख्या संख्यां निरूपयति- एकत्वादीति। 'एकम्, द्वे, त्रीणि' इत्यादिगणना- व्यवहारस्यासाधारणकारणं संख्येत्यर्थः। अतश्च लक्षणमपि गणनाव्यवहारा-साधारणकारणत्वं वक्तुमुचितम्। परार्धेति। चतुर्मुखस्यायुः 'परा' (संख्या) इत्युच्यते। तस्यार्धभागो गतः। द्वितीयो भागस्संप्रति चलतीति पौराणिकी प्रक्रिया। मनुष्यस्य गणनाशक्तेस्तदुपरिगन्तुमसंभवात् 'परार्धपर्यन्ता' इत्युक्तम्। अतश्च ‘एकपरार्धम्, द्विपरार्धम्, त्रिपरार्धम्' इति गणयितुं न शक्यते, ‘परार्ध’ पदस्यानन्तपर्यायत्वात्। ‘एकमनन्तम्' ‘द्वे अनन्ते' 'त्रीण्यनन्तानि’ इत्येवं न हि व्यवहर्तुं शक्यम्, अनन्तत्वविरोधादेव। एकत्वादीनां व्यवहार एकत्वादिव्यवहारः। एकत्वादिव्यवहारस्य हेतुः एकत्वादिव्यवहारहेतुरिति विग्रहः। एकत्वादीनामित्यत्र एकत्वपदस्यैकत्वमर्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च - एकत्वादिनिष्ठविषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः। तथा च एकत्वादिनिष्ठविषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगः। व्यवहारस्य हेतुरित्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य व्यवहारपदार्थज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इति। हेतुरित्यस्य कारणतावतीत्यर्थः। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशकारणतायां निरूपितत्वसम्बन्धेनान्वयः। कारणतावत्याश्चाभेदसम्बन्धेन संख्यायामन्वयः। तथा चाखण्डबोधः – एकत्वादिनिष्ठ-विषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावदभिन्ना संख्या। लक्षणं तु – एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितकारणत्वम्। अस्य लक्षणस्य एकत्वादिसंख्यायां समन्वयः। एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः कः ? इति चेत्, 'अयमेकः' इत्याकारकज्ञानजनकशब्दप्रयोगः। तादृशशब्दप्रयोगनिष्ठा कार्यता, संख्याव्यवहारे विषयभूतसंख्यायाः कारणत्वात्। तादृशकार्यतानिरूपितकारणत्वमेकत्वादिसंख्यायां वर्तत इति लक्षणसमन्वयः। नन्वेवं सत्यप्यस्य लक्षणस्य कालादावतिव्याप्तिर्दुष्परिहरा। 'कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वम्' इति नियमानुरोधात् एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? ‘अयमेकः’ इत्याकारकज्ञानजनकशब्दप्रयोगनिष्ठा कार्यता। तादृशकार्यतानिरूपितकारणत्वं संख्यायां यथा, तथा कालेऽपि वर्तत इत्यलक्ष्ये लक्षणप्रसरणात् अतिव्याप्तिरिति चेत्, न। कार्यतानिरूपितकारणतायाम् असाधारणपदनिवेशनात्। तथा च लक्षणम्- एकत्वादिनिष्ठ-विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि कारणत्वं द्विविधं वर्तते। साधारणकारणत्वमेकम्। अन्यच्च विशेष(असाधारण)कारणत्वम्। यद्यपि एकत्वादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितसामान्यकारणत्वं कालेश्वरादृष्टादीनां वर्तते, किन्तु सा कारणता साधारणकारणता। न तु विशेष(असाधारण)कारणता। 'अयमेकः' इत्याकारकैकत्वव्यवहारं प्रति विषयविधया संख्याया एवासाधारणकारणत्वं वर्तते। संख्यामन्तरा 'अयमेकः' इत्याकारकैकत्वव्यवहार एव न स्यात्। अतो विषयविधया तत्र संख्याया एवासाधारणकारणत्वात्, कालेश्वरादीनां विशेषकारणत्वाभावात् तत्र नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य यादृशसंख्यया 'अयमेकः' इत्यादिव्यवहार एव न जातः, तादृशपरमाण्वादिगतसंख्यायामेकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितकारणत्वं नास्तीति तत्र लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। लक्षणस्य जातिघटिततया परिष्कारात्। एकत्वादिव्यवहारजनकयोग्यताया एव लक्षणत्वात्। योग्यता नाम कारणतावच्छेदकधर्मोऽथवा जातिः। अयमंश उत्तरलक्षणेष्वपि समानः। तथा च लक्षणम् 'एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितासाधारणकारणतावद्वृत्ति(कारणतावच्छेदक)जातिमत्त्वम्'। तथा च नाव्याप्तिः। तथाहि एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता-निरूपितासाधारणकारणतावती यत्र अस्माकं परिचितवस्तुगतसंख्यायाः व्यवहारः दृश्यते तादृशवस्तुगतसंख्या। तद्वृत्तिः या जातिरिति चेत्, संख्यात्वरूपा जातिः। तादृशजातिमत्त्वं अपरिचितवस्तुगतसंख्यायामपि वर्तते इति लक्षणस्य समन्वयात् नाव्याप्तिः॥ नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि - एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वादिसंख्या। तद्वृत्तिर्या जातिरिति चेत्, यथा संख्यात्वं तथा गुणत्वमपि। तादृश-जातिमत्त्वं रूपादावपि वर्तत इत्यलक्ष्ये लक्षणसमन्वयात् अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम्- एकत्वादिनिष्ठविषयतानिरूपकज्ञान-जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्यप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि एकत्वनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वादिसंख्या। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत्, गुणत्वजातिर्न भवति, स्वस्य स्वव्याप्यत्वाभावात्। अतः सा जातिः स्वीकर्तुं न शक्यते। अतस्तद्व्याप्या जातिरिति चेत् ? संख्यात्वजातिरेव स्वीकार्या। तादृशजातिमत्त्वं तु संख्यायामेव वर्तते; न तु रूपादाविति तत्र नातिव्याप्तिः।। नन्वेवं सति लक्षणस्यास्य द्वित्वादिसंख्यायामव्याप्तिर्दुरुद्धरा। एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वरूपा संख्या। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? एकत्वत्वरूपा जातिरपि। तादृशजातिमत्त्वं द्वित्वरूपसंख्यायां नास्तीति अव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथा च लक्षणम्- एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वरूपा संख्या। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? एकत्वत्वजातिर्न स्वीकर्तुं शक्यते। एकत्वत्वस्य गुणत्वसाक्षाद्व्याप्यत्वाभावात्, गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वव्याप्या संख्यात्वजातिः, तद्व्याप्या एकत्वत्वजातिः। अत एकत्वत्वजातिः स्वीकर्तुं न शक्यते। गुणत्वसाक्षाद्व्याप्या जातिस्तु संख्यात्वजातिरेव। तादृशसंख्यात्वजातिमत्त्वं तु द्वित्वादिरूपसंख्यास्वपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः। संपूर्णं लक्षणम् एकत्वादिनिष्ठविषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति। ; तर्कसंग्रहः मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधम्। अणु महद्दीर्घं ह्रस्वं चेति। ; आलोक- व्याख्या परिमाणं निरूपयति - मानेति। मानस्य व्यवहारो मानव्यवहारः। असाधारणं च तत् कारणम् इत्यसाधारणकारणम्। मानव्यवहारस्यासाधारणकारणं मानव्यवहारासाधारणकारणम्। 'मानस्य' इत्यत्र मानपदस्य परिमाणमर्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च परिमाणनिष्ठविषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्व(स्वनिरूपितविषयिताश्रयत्व)सम्बन्धेनान्वयः। तथा च परिमाणनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोग इति खण्डबोधः। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। 'व्यवहारस्य' इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य व्यवहारस्य (ज्ञानजनकशब्दप्रयोगस्य) षष्ठ्यर्थकार्यतायाम् आधेयतासम्बन्धेनान्वयः। तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता। असाधारणकारणम् इत्यस्य असाधारणकारणतावत् अर्थः। षष्ठ्यर्थकार्यताया हेतुपदार्थैकदेशासाधारणकारणतायां निरूपितत्वसम्बन्धेनान्वयः। असाधारणकारणतावतश्चाभेदसम्बन्धेन परिमाणेऽन्वयः। तथा चाखण्डबोधः परिमाणनिष्ठविषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्नं परिमाणम्। लक्षणं तु – परिमाणनिष्ठविषयता-निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। अस्य लक्षणस्य महत्त्वाल्पत्वादिरूपपरिमाणेषु समन्वयः। तथा च माननिष्ठविषयतानिरूपकं ज्ञानं किमिति चेत् 'अयं महान्' इत्याकारकं ज्ञानम्। तादृशज्ञानजनकशब्दप्रयोगश्चेत् ‘अयं महान्' इत्याकारकशब्दप्रयोगः। तादृशशब्दप्रयोगनिष्ठा कार्यता। तादृशकार्यतानिरूपितासाधारणकारणत्वं महदादिपरिमाणे वर्तत इति लक्षणसमन्वयः। लक्षणे प्रथमत एवासाधारणदलनिवेशनात् कालादावतिव्याप्तिर्न भवति। कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वेन, असाधारणकारणत्वाभावात्।। नन्वेवं सत्यप्यस्य लक्षणस्य यत्रास्माकमत्यन्तापरिचितवस्तुगतपरिमाणस्य व्यवहार एव नाभूत्, तत्र परिमाणे 'महान् वृक्षः' इत्यादिव्यवहारस्याभावात्, परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वं नास्तीति लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। जातिघटिततया लक्षणपरिष्कारात्। तथा च लक्षणम् – परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता-निरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि- परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् यत्रास्माकं परिचितं 'महान्' इत्याकारकमहत्त्वपरिमाणविषयकस्थलं, तत् स्वीकर्तव्यम्। तद्वृत्तिर्या जातिरिति चेत् ? परिमाणत्वजातिः। तादृशजातिमत्त्वं त्वत्यन्तापरिचितपरिमाणेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः।। संख्या एकत्वादिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्राऽनित्यमेव॥ २४॥ परिमाणम् मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधमणु महद्दीर्घं हृस्वञ्चेति॥ २५॥ ; आलोकः - पृथक्त्वम् नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि परिमाणनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परिमाणम्, तद्वृत्तिर्या जातिरिति चेत् ? यथा परिमाणत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपेऽपि वर्तत इति अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - परिमाणनिष्ठविषयतानिरूपकज्ञान-जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितासाधारणकारणतावत् परिमाणम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो गुणत्वव्याप्या जातिः परिमाणत्वजातिरेव भवति। तादृशजातिमत्त्वं परिमाण एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य ह्रस्वत्वरूपपरिमाणेऽव्याप्तिर्दुरुद्धरा। तथाहि- परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् महत्त्वपरिमाणम्, तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् महत्त्वत्वजातिः। तादृशजातिमत्त्वं ह्रस्वत्वरूपपरिमाणे नास्तीति अव्याप्तिरिति चेत् - न। गुणत्वसाक्षाद्व्याप्येति निवेशनात्। तथा च लक्षणम् परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि- परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परिमाणम्, तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? महत्त्वत्त्वजातिर्न भवति। तस्या गुणत्वव्याप्यव्याप्यत्वात्। स्वम्- गुणत्वम्। स्वव्याप्या जातिः- परिमाणत्वरूपा जातिः। तद्व्याप्यत्वं महत्त्वे वर्तते। अतो महत्त्वत्त्वादीनां गुणत्वसाक्षाद्व्याप्यत्वाभावात् सा जातिः स्वीकर्तुं न शक्यते। अतो गुणत्वसाक्षाद्व्याप्या जातिस्तु परिमाणत्वमेव। तादृशजातिमत्त्वं ह्रस्वत्वादिपरिमाणेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः। मूलेऽण्वादिपदमणुत्वादिपरं ज्ञेयम्। अणुत्वमिति सूक्ष्मपरिमाणं परमाणौ विश्राम्यति। महत्त्वमिति स्थूलपरिमाणं गगनादौ विभौ विश्राम्यति। दीर्घत्वमिति दण्डादौ, ह्रस्वत्वमिति तद्विपरीते। द्व्यणुकं ह्रस्वतमम्। 'महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्' (ब्र.सू.२-२-१०) इत्यत्र वैशेषिकमतानुवादे परिमण्डलपदेन परमाणुः, ह्रस्वपदेन द्व्यणुकम्, महत्पदेन त्र्यणुकम्, दीर्घपदेन परमाण्वपेक्षया द्व्यणुकं चाभिहितं द्रष्टव्यम्। ; तर्कसंग्रहः पृथग्व्यहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति। पृथक्त्वं निरूपयति पृथगित्यादि। पृथगिति व्यवहारः पृथग्व्यवहारः। असाधारणं च तत् कारणम् असाधारणकारणम्। पृथग्व्यवहारस्यासाधारणकारणं पृथग्व्यवहारासाधारणकारणम्। 'पृथक्' इति शब्दो यदि प्रकारवाची, तदा पृथक्पदस्य पृथक्त्वमर्थः। पृथग् इति शब्देऽव्ययत्वेन लुप्तायाः षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च पृथक्त्वनिष्ठा विषयता इत्यासीत्। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। विषयताया निरूपकतासंबन्धेन व्यवहारपदार्थैकदेशज्ञानेऽन्वयः। तथा च पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग इति बोधः। 'व्यवहारस्य' इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इत्यासीत्। असाधारणकारणं नाम असाधारणकारणतावत् इत्यर्थः। षष्ठ्यर्थकार्यताया असाधारणकारणपदार्थैकदेशेऽसाधारणकारणतायां निरूपितत्वसम्बन्धेनान्वयः। असाधारणकारणतावतोऽभेदसम्बन्धेन पृथक्त्वेऽन्वयः। तथा चाखण्डबोधः पृथक्त्वनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्नं पृथक्त्वम् इति। लक्षणं तु- पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वम् इति। लक्षणस्यास्य ‘अयं घटः, तस्मात् पृथक्' इत्यत्र पृथक्त्वे समन्वयः। तथा हि - पृथक्त्वनिष्ठविषयता केति चेत् ? ‘अयं घटः, तस्मात् पृथक्' इत्याकारकव्यवहारविषयपृथक्त्वनिष्ठा विषयता। तादृशविषयतानिरूपकं ज्ञानं किमिति चेत् ? पृथगिति ज्ञानम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठा कार्यता केति चेत् ? 'अयं घटः, तस्मात् पृथक्' इति व्यवहारनिष्ठा कार्यता। तन्निरूपितासाधारणकारणता पृथक्त्वे वर्तत इति लक्षणसमन्वयः। लक्षणे कारणतायाम् 'असाधारणम्' इत्याकारकविशेषणस्य विद्यमानत्वात् कालादौ नातिव्याप्तिः। तेषां (कालादीनाम्) असाधारणकारणत्वाभावात्। नन्वेवं सत्यप्यस्य लक्षणस्य अपरिचितस्थले यत्रास्माकम् 'अयं, तस्मात् पृथक्' इत्याकारकव्यवहार एव न जातः, तत्र पृथक्त्वनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणत्वं नास्तीति अव्याप्तिरिति चेत् - न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् 'पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम्'। तथा च नाव्याप्तिः। तथाहि पृथक्त्वनिष्ठविषयता-निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदित्यनेन यत्रास्माकमत्यन्तपरिचितस्थले 'अयं घटः, तस्मात् पृथक्' इति पृथक्त्वव्यवहार उत्पन्नः, तादृशपरिचितपृथक्त्वस्थलं स्वीकर्तव्यम्। तद्वृत्तिर्या जातिरिति चेत् ? पृथक्त्वत्वजातिः। तादृशजातिमत्त्वमत्यन्तापरिचितपृथक्त्वेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुर्वारा। तथाहि पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् पृथक्त्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा पृथक्त्वत्वजातिः, तथा गुणत्वजातिरपि। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् पृथक्त्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। गुणत्वव्याप्या जातिस्तु पृथक्त्वत्वजातिरेव भवति। तादृशजातिमत्त्वस्य रूपादावभावान्नातिव्याप्तिः। अत्र प्रयोजनाभावात् साक्षाद्व्याप्यत्वं न निवेशनीयम्। पृथक्त्वम् अन्योन्याभावप्रयोजकम्, अतस्तेनास्य न चारितार्थ्यप्रश्नः। 'नीलो घटः ' 'नीलः पटः' इत्यादिप्रतीत्या रूपादिगुणानां भेदो हि घटपटाद्याश्रयभेदादेवेति सर्वानुभवसिद्धम्। घटपटभेदस्तु घटत्वपटत्वरूपजातिभेदादेवेति च सिद्धम्। घटयोर्द्वयोः, पटयोर्वा द्वयोः परिदृश्यमानो भेदः कथमभूदिति प्रश्ने, तत्तदवयवभेदादिति चानुभवसिद्धम्। 'अयं घटः, एतत्कपालद्वयजन्यत्वात्, तत्कपालद्वयजन्यतद्घटात् भिन्नोऽभूत्' इति खलूत्तरं वक्तव्यम्। ततञ्श्चावयविभेदोऽवयवभेदाधीन इति द्व्यणुकपर्यन्तं वक्तुं शक्यम् ‘इदं द्व्यणुकम्, तद्द्द्व्यणुकभिन्नम्, एतत्परमाणुद्वयजन्यत्वात्' इति। अयं परमाणुस्तत्परमाणुभिन्नः कुतोऽभूदिति प्रश्ने तु, परमाणूनां निरवयवत्वात् अवयवभेदान्न वक्तुं शक्यो भेदस्तयोः। रूपादिभेदाद्भेदकथनेऽन्योन्याश्रयः। परमाणुभेदे सिद्धे रूपादिभेदसिद्धिः, रूपादिभेदे सिद्धे परमाणुभेदसिद्धिरिति। अतः परमाणुभेदसाधको विशेष एव। एवञ्च विशेषवशात् परमाण्वोः प्रत्येकीभाव इति, विशेषः, पृथक्त्वम्, भेदः इति भेदव्यवहारविकासक्रमः। अतो विशेषोऽन्यः, पृथक्त्वमन्यत्, अन्योन्याभावश्चान्य एव। पृथक्त्वम् पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति॥ २६॥ संयोगः संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः॥ २७॥ ; आलोकः - संयोगः ; तर्कसंग्रहः संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः। ; आलोक- व्याख्या संयोगं निरूपयति - संयुक्तेति। संयुक्तस्य व्यवहारः संयुक्तव्यवहारः। संयुक्तव्यवहारस्य हेतुः संयुक्तव्यवहारहेतुः। संयुक्तपदस्य भावप्रधानत्वात् संयोगोऽर्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्य संयोगस्य षष्ठ्यर्थविषयतायामाधेयतासम्बन्धेनान्वयः। तथा च संयोगनिष्ठा विषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया ज्ञानजनकशब्दप्रयोगैकदेशे ज्ञाने निरूपकत्वसंबन्धेनान्वयः। तथा च संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः। 'व्यवहारस्य' इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च व्यवहार(ज्ञानजनकशब्दप्रयोग)निष्ठकार्यता। हेतुरित्यस्य कारणतावान् अर्थः। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। कारणतावतश्चाभेदसम्बन्धेन विशेष्ये संयोगेऽन्वयः। तथा च संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावदभिन्नः संयोग इति बोधः। लक्षणं तु संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वम्। संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः कः ? इति चेत् ‘इमौ संयुक्तौ' इत्याकारकज्ञानजनकशब्दप्रयोगः। तादृशशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं संयोगे वर्तत इति लक्षणसमन्वयः। नन्वेवं सत्यप्यस्य लक्षणस्य कालादावतिव्याप्तिर्दुष्परिहरा। तथाहि- कालेश्वरादृष्टादीनां कार्यसामान्यं प्रति कारणत्वात्, संयोगनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं कालादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। कारणतायामसाधारणदलनिवेशनात्। तथा च लक्षणम् - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। तथा च नातिव्याप्तिः। तथाहि कारणत्वं द्विविधं वर्तते। एकं साधारणकारणत्वम्, अन्यत् असाधारणकारणत्वम् इति। संयोगनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं यद्यपि कालेश्वरादृष्टादीनां वर्तते, किन्तु सा कारणता साधारणकारणता। न त्वसाधारणकारणता। 'इमौ घटौ संयुक्तौ' इत्याकारकसंयुक्तव्यवहारं प्रति तु विषयविधयाऽसाधारणकारणत्वं संयोगस्यैव वर्तते। संयोगमन्तरा 'इमौ द्वौ संयुक्तौ' इत्याकारकव्यवहार एव नोत्पद्यते। अतो विषयविधया तत्र संयोगस्यैव कारणत्वात्, कालेश्वरादीनां तथाविधकारणत्वाभावात् तत्र नातिव्याप्तिः। ननु यत्रात्यन्तापरिचितवस्तुनिष्ठसंयोगस्य व्यवहार एव कस्यापि नोत्पन्नः, तादृशस्थले संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वं नास्तीति अस्य लक्षणस्याव्याप्तिरिति चेत्, न। लक्षणस्यास्य जातिघटितत्वेन परिष्कारात्। तथा च लक्षणम्- संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् इत्यनेन, अस्माकं यत्रात्यन्तपरिचितसंयोगस्थले 'इमौ घटौ संयुक्तौ' इत्याकारको यो व्यवहार उत्पद्यते, तादृशस्थलीयसंयोगः स्वीकर्तव्यः। तद्वृत्तिर्या जातिरिति चेत् ? संयोगत्वजातिः। तादृशजातिमत्त्वं त्वत्यन्तापरिचितसंयोगेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् संयोगः, तद्वृत्तिर्या जातिरिति चेत् ? यथा संयोगत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् – संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्त्वव्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् संयोगः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवितुमर्हति। स्वस्य स्वव्याप्यत्वाभावात्। अतस्तादृशगुणत्वव्याप्या जातिः संयोगत्वजातिरेव भवति। तादृशजाते रूपादावभावात् नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य 'नोदनाख्य' संयोगेऽव्याप्तिर्दुष्परिहरा। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् अभिघाताख्यसंयोगः, तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? यथा संयोगत्वजातिः, तथा अभिघातत्वजातिरपि वर्तते। तादृशजातिमत्त्वं नोदनाख्यसंयोगे नास्तीत्यव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथा च लक्षणम् - संयोगनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् संयोगः, तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? अभिघातत्वजातिर्न स्वीकर्तुं शक्यते। तस्या गुणत्वसाक्षाद्व्याप्यत्वाभावात्। सा जातिर्गुणत्वव्याप्यव्याप्या। स्वम् – गुणत्वम्, तद्व्याप्या संयोगत्वजातिः, तद्व्याप्यत्वमभिघातत्वरूपजातौ वर्तत इत्यतः साक्षाद्व्याप्या संयोगत्वरूपा जातिः। तादृशजातिमत्त्वं नोदनाख्यसंयोगेऽपि वर्तत इति नाव्याप्तिः। संयोगः अभिघातः, नोदनम् इति द्विविधः। शब्दहेतुः संयोगः अभिघातः। शब्दाहेतुस्संयोगः नोदनम्। संयोगस्सर्वोऽप्यनित्य एव। संयोगस्य क्रियाजन्यत्वात् विभुषु क्रियाया असंभवात्, संयोगोऽपि न भवति। ननु विभूनां सर्वगतत्वात् आकाशकालदिगात्मनामेकदेशावच्छेदेनावस्थानस्यावर्जनीयत्वात्, अवयवावयविभावरहितद्रव्ययोस्संयोगस्यैव संभवात्, विभुद्वयसंयोगो दुर्वार इति चेन्न। संयोगस्य क्रियाजन्यत्वात् विभुद्वयस्य क्रियाया अभावेन संयोगासंभवात्। अन्ततः स्वरूपमेव तत्र संबन्धः। अत्र वक्तव्यमधिकं विभागनिरूपणान्ते द्रष्टव्यम्। ; तर्कसंग्रहः संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः। ; आलोक- व्याख्या विभागं निरूपयति - संयोगेत्यादि। संयोगस्य नाशकः संयोगनाशकः। नाशयतीति नाशकः। 'संयोगस्य' इत्यत्र संयोगपदस्य संयोगोऽर्थः। षष्ठ्याः प्रतियोगित्वमर्थः। प्रकृत्यर्थस्य संयोगस्याधेयतासम्बन्धेन षष्ठ्यर्थप्रतियोगितायामन्वयः। तथा च संयोगनिष्ठप्रतियोगिता। नाशक इत्यस्य नाशहेतुः- ध्वंसनिष्ठकार्यतानिरूपितकारणतावान् अर्थः। षष्ठ्यर्थ प्रतियोगिताया नाशक इत्यत्र एकदेशे नाशे(ध्वंसे) निरूपकतासम्बन्धेनान्वयः। तथा च संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् इति बोधः। कारणतावतोऽभेदसम्बन्धेन विभागेऽन्वयः। तथा च संयोगनिष्ठप्रतियोगिता-निरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावदभिन्नो गुणाभिन्नो विभाग इति अखण्डबोधः। लक्षणं तु - संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणत्वे सति गुणत्वम्। यत्र कुत्रचित् चलनात्मिका क्रिया यदा जायते, तदा क्रमेण क्रिया, विभागः, पूर्वसंयोगनाशः, उत्तरसंयोगोत्पत्तिश्चेति कार्याणि नियमेन भवन्ति। ततः पञ्चमक्षणे क्रियानाशः। यौ द्वौ घटौ संयुक्तौ तत्र तयोर्मध्येऽन्यतरस्मिन् चलनरूपक्रियायां जातायां, तया क्रियया प्रथमं घटद्वयविभागो भवति। ततः प्राक्तनघटद्वयसंयोगनाशो भवति। ततो विभक्तस्य घटस्याऽऽकाशदेशान्तरेण संयोगो जायते। तत्र प्राक्तनघटद्वयसंयोगनाशं प्रति तत्पूर्वं जातो विभाग एव कारणम्। अतो विभागः संयोगनाशं प्रति कारणमित्युच्यते। एवं च 'इमौ द्वौ घटौ विभक्तौ' इत्यत्र विभागे लक्षणसमन्वयः। संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यता का ? इति चेत् 'इमौ द्वौ विभक्तौ' इत्याकारकप्रतीतिसिद्धा द्वयोः संयोगध्वंसनिष्ठा कार्यता। तादृशसंयोगध्वंसनिष्ठकार्यतानिरूपितकारणत्वं विभागे वर्तते, तत्र गुणत्वञ्च वर्तत इति लक्षणसमन्वयः। 'गुणत्व' मात्रोक्तौ रूपादावतिव्याप्तिः। अतः ‘संयोगनाशक’ इति दलम्। ‘संयोगनाशकत्व' मात्रोक्तौ कालादावतिव्याप्तिः। अतो गुणपदम्। अथैवमपि कार्यसामान्यकारणेऽदृष्टेऽतिव्याप्तिः, धर्माधर्मरूपादृष्टस्य गुणत्वादिति चेत्, न गुणपदस्य सामान्यगुणपरत्वात्। अदृष्टस्य च विशेषगुणत्वात्। नन्वेवं सत्यप्यस्य लक्षणस्य 'हिमवद्विन्ध्यौ विभक्तौ' इत्याकारक- व्यवहारविषये विभागेऽव्याप्तिर्दुष्परिहरा। तत्र संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणत्वस्याभावात् लक्षणस्याव्याप्तिरिति चेत्, न। तत्र विभागव्यवहारस्यैवाप्रामाणिकत्वात्। यद्याग्रहः, तर्हि लक्षणस्य जातिघटितपरिष्कारात्। तथा च लक्षणम् संयोगनिष्ठप्रतियोगिता- निरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वम् इति। तथा च नाव्याप्तिः। तथाहि यत्रास्माकं विभागव्यवहार उपलभ्यते, तादृशपरिचितस्थलं स्वीकर्तव्यम्। तत्र संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः। तद्वृत्तिर्या जातिरिति चेत् ? विभागत्वजातिः। तादृशजातिमत्त्वमुक्तस्थलेऽपि वर्तत इति लक्षण- समन्वयान्नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः। तद्वृत्तिर्या जातिरिति चेत् ? यथा विभागत्वजातिः, तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि - संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। किन्तु विभागत्वजातिरेव भवति। तादृशजातिमत्त्वं विभाग एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। अत्र लक्षणे प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वनिवेशनावश्यकता नास्ति अथवा संयोगनिष्ठ-प्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतायामसाधारणपदविशेषणेऽदृष्टस्य साधारणकारणत्वान्नातिव्याप्तिः। तर्हि गुणपदं किमर्थमिति चेत् ? तत् स्वरूपकीर्तनम्, न लक्षणे निवेश्यम्। संयोगविभागौ परस्परसापेक्षौ। अत एवान्यतरेणान्यतरस्य चारितार्थ्यं न संभवति। प्रत्येकं घटपटौ यदा पश्यति, तदा 'इमौ संयुक्तौ' इति बुद्धिर्न भवति, उभयोर्मेलने तु भवति। पूर्वबुद्ध्यपेक्षयोत्तरबुद्धौ अधिको विषयः कः ? घटपटौ तूभयत्र समानौ। अत उत्तरज्ञाने विषयाधिक्यमावश्यकम्। स एव संयोग उच्यते। अन्तरालाभावमात्रं न संयोगः अभावमात्रेण बुद्धेर्विषयाधिक्यनिर्वाहासंभवात्। बुद्धिः किल सविषया नियमेन, निर्विषयाया बुद्धेः कुत्राप्यदर्शनात्। अभावालम्बना तु बुद्धिर्न विलक्षणव्यवहारनिर्वाहक्षमा, सुषुप्तावपि व्यवहारविजृम्भणप्रसङ्गात्। ननु कं भीषयसि ? निरन्तरालौ घटौ पश्यन् ‘इमौ संयुक्तौ' इति व्यवहरति। तत्र स्त एव घटपटा विषयौ। ततश्च सविषयैव बुद्धिः, न निर्विषया। अत एव न सुषुप्त्यविशेषप्रसङ्गः इति चेत्, न, पुनरपि बालिशतामेव प्रकटयसि त्वम्। संयोगाभाव एव विभागः कुतो न स्यात् ? अस्तु तथैव अन्यतर एवालमिति चेत्, उक्तमेवात्रोत्तरमपि विनिगमकाभावान्नान्यतरचारितार्थ्यमिति। किं बहुना ! औषधयोगादौ हि प्रत्येकमदृष्टा अतिशया विचित्रकार्यकरा दृष्टाः। हरिद्राचूर्णसंयोगाद्रक्तरूपोत्पत्तिर्दृश्यते। किण्वादिभ्यो मादकशक्तिस्तु प्रसिद्धैव। जगदेवेदं प्रकृतिपुरुषसंयोगमूलकमामनन्ति। इदं सर्वं केवलमभावमूलकमिति को वा स्वाधीनमतिर्वदेत् ? तर्ह्यस्तु संयोगोऽतिरिक्तः, मास्तु विभागोऽतिरिक्त इति चेत्, उपक्रान्तं संगीतकं पुनरपि। संश्लेषवत् विश्लेषोऽपि बहुविधकार्यकारी दृश्यते। किं बहुना प्रकृतिपुरुषसंयोगात् सृष्टिः, विश्लेषाच्चापवर्ग इति तत्त्वविदः। अतो विश्लेषरूपो विभागोऽप्यतिरिक्त आवश्यक एव। ननु प्रकृतिपुरुषयोरुभयोरपि विभुत्वात् कथं विश्लेषसंभवः ? हन्त ! शास्त्रान्तरकथेयम्। 'मन एव मनुष्याणां कारणं वन्धमोक्षयोः' इति न श्रुतम् ? प्रकृतिपुरुषसंयोगविभागौ तन्मूलकावित्याद्यन्यत्र विस्तरः। परस्पराभावरूपयोर्विनिगमकाभावे नान्यतरेणान्यतरस्य चारितार्थ्यमिति संयोगविभागावावश्यकौ। टिप्पणी संयोगः त्रिविध:- १. अन्यतरकर्मजः २. उभयकर्मजः ३. संयोगजश्चेति। १. आद्यस्तावत् यदा कश्चन पक्षी वृक्षादिषु तिष्ठति तदा पक्षिमात्रस्य क्रियया वृक्षपक्षिणोः संयोगो जायते। संयुक्तयोरुभयोर्मध्येऽन्यतरस्यैव क्रियया जायमानत्वात् अन्यतरकर्मजोऽयं संयोगः। २. द्वितीयस्तु यदा मल्लयोः मेषयोर्वा युद्धं भवति तदा युगपदेव मल्लद्वये मेषद्वये वा विद्यमानाभ्यां क्रियाभ्यां संयोगो जायते। अतोऽयं संयोगः उभयकर्मज इत्युच्यते। ३. तृतीयस्तु यदा अस्माकं शरीरावयवस्य हस्तादेः पुस्तकादिभिः सह संयोगो जायते, ततः पुनः अवयविनोऽखण्डस्य शरीरस्यापि पुस्तकादिभिः सह संयोगो जायते। अयं तु शरीराद्यवयविसंयोगः, हस्ताद्यवयवसंयोगात् भिन्न एव। कुतः ? इति चेत्, सिद्धान्ते अवयवावयविनोर्भेदस्वीकारात्। अत्र यः द्वितीयः शरीराद्यवयविपुस्तकसंयोगः, स प्राक्तनहस्ताद्यवयवपुस्तकसंयोगाज्जायते, न तु क्रियया। शरीरादौ अवयविनि क्रियाभावेऽपि शरीरपुस्तकसंयोगस्य दृष्टत्वात्। अतोऽयं संयोगः संयोगजसंयोग इत्युच्यते॥ एवमेव विभागोऽपि त्रिविध:- १. अन्यतरकर्मजः २. उभयकर्मजः ३. विभागजञ्श्चेति। १. अत्रापि वृक्षपक्षिणोः संयोगानन्तरं पक्षिमात्रस्य क्रियया जायमानो विभागः अन्यतरकर्मजः विभाग इत्युच्यते। २. यदा मल्लयोः मेषयोर्वा युगपद् संयोगानन्तरं युगपदेव विभागो जायते, तदा द्वयोः विद्यमानक्रियाभ्यां विभागस्य जातत्वात् उभयकर्मज इत्युच्यते। ३. तृतीयः विभागजः विभागस्तु द्विविधः। (क) कारणाकारणविभागजन्यः विभाग एकः। (ख) कारणमात्रविभागजन्यः विभागञ्चापरः। अनयोर्मध्ये (क) प्रथमः- हस्तपुस्तकसंयोगानन्तरं क्रियया यदा हस्तपुस्तकयोः विभागो जायते, तदा शरीरादपि पुस्तकस्य विभागो जायते। अयं शरीरपुस्तकयोः विभागः, हस्तपुस्तकविभागाद् भिन्न एव। अत्र अवयविभूतस्य शरीरस्य कारणम् अवयवः हस्तः, पुस्तकं तु शरीरस्य नावयवः, अत एव तद्दृष्ट्या अकारणं च। एवञ्चात्र शरीरकारणीभूतहस्तस्य तदकारणीभूतस्य पुस्तकस्य च विभागात् जातः विभाग एव कारणाकारणविभागजन्यः (कार्याकार्य) विभाग इत्युच्यते। (ख) द्वितीयस्तु कारणमात्रविभागजन्यः विभागः। यदा घटकारणीभूतयोः कपालयोः क्रिया जायते, तदा प्रथमं तादृशकारणमात्रविद्यमानक्रियया घटारम्भकसंयोगनाशकः कपालद्वयविभाग उत्पद्यते। तस्मात् विभागाद् घटारम्भकसंयोगनाशो भवति। ततः घटासमवायिकारणस्य कपालद्वयसंयोगस्य नाशात् घटनाशो भवति। तत्रादौ जातेन विभागेन कपालस्य प्राक्तनदेशावच्छिन्नाकाशादपि विभागो जायते। अयं च कपालाकाशविभागो घटकारणीभूतकपालद्वयमात्रविभागाद् जन्यः। अत एव कारणमात्रविभागजन्यः विभाग इत्युच्यते। अत्रायं प्रश्न:- प्रथमं तावत् कपालयोः क्रिया जायते, ततः कपालद्वयविभागः, ततः घटारम्भककपालद्वयसंयोगनाशः, ततः घटनाशः। अत्र कपालद्वयविभागात् कपालाकाशविभागः, ततः कपालाकाशसंयोगनाशः, ततः उत्तरदेशसंयोगः, तदनन्तरमेव क्रियानाश इति क्रमः। अत्र द्वितीयक्षणे जातेन कपालद्वयविभागेन कपालाकाशविभागो जायत इत्युक्तम्। तत् कुतः ? यया क्रियया प्रथमः कपालद्वयविभागो जायते तयैव कपालाकाशविभागोऽपि जायत इति वक्तुं न शक्यते वा ? लोकेऽस्माकम् अनुभवोऽपि कपालद्वयविभागकाले एव कपालाकाश- विभागोऽपि जात इव भवति। अस्याः समाधानम् – घटारम्भककपालद्वयसंयोगस्य नाशिका या क्रिया, सैव तदनारम्भककपालाकाशसंयोगस्य नाशिका न भवेत्। कुतः ? इति चेत्, या क्रिया घटारम्भककपालद्वयसंयोगनाशकं विभागं जनयति, सैव यदि घटानारम्भककपालाकाश- संयोगनाशकं विभागमपि जनयेत्, तर्हि एकैव क्रिया कार्यारम्भकसंयोगतदनार- म्भकसंयोगनाशकविभागस्य जनिकेति स्वीकारे विकसत्कमलकुड्मलभङ्गप्रसङ्गः। कथमिति चेत् ? कमलस्यावस्थाद्वयं वर्तते, एका कुड्मलावस्था, अन्या कुसुमावस्था। कुड्मलं विकसितं चेत्, कुसुमं भवति। कुड्मलस्य विकासो नाम कुड्मलदलानाम् अग्रदेशावच्छेदेन चलनम्। अनया हि चलनरूपक्रियया दलानामग्रदेशावच्छेदेन प्राक्तनदेशावच्छिन्नाकाशाद् विभागो जायते। तदैव कमलं विकसतीत्युच्यते। एवञ्च दलेऽग्रदेशावच्छेदेनोत्पन्नक्रियया केवलम् दलानाम् प्राक्तनदेशावच्छिन्नाकाशाद् कमलानारम्भकसंयोगनाशकविभागो जायते, यदि इयमेव कमलानारम्भकसंयोगनाशकविभागजनिका क्रिया कमलारम्भकसंयोगनाशकं विभागमपि जनयेत्, तर्हि तेन विभागेन कमलारम्भकसंयोगनाशो भवेत्, ततञ्च वृन्तदलसंयोगस्यासमवायिकारणस्य नाशेन कमलस्यापि नाशो भवेत्। एवं कमलसमवायिकारणदलवृन्तदलसंयोगस्य नाशे विकसत्कमलस्यापि नाशः स्यात्। तस्मात् सुष्ठुक्तम् - विकसत्कमलकुड्मलभङ्गप्रसङ्ग इति। वस्तुतस्तु - वृन्तदलसंयोगः कमलारम्भकसंयोगः। तत्रैव दलानामग्रदेशावच्छेदेन विद्यमानो दलाकाशसंयोगो दलाग्रे जायमानक्रियाजन्यविभागेन नश्यति। दलानां कमलावयवत्वेन समवायिकारणत्वेऽपि, आकाशस्य कारणत्वाभावात् कारणाकारणविभागः स भवति। क्रियायास्तत्तत्प्रदेशेनापि भेदस्यावश्यकत्वात्, दलानामग्रे जायमाना क्रिया, दलवृन्तसंयोगं न नाशयेत् इत्युपपादनं वरम्। ; तर्कसंग्रहः विभागः संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः॥ २८॥ परत्वापरत्वे परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे दिक्कृते कालकृते च। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्॥ २९॥ ; आलोकः - परत्वम् परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे। दिकृते कालकृते चेति। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्। ; आलोक- व्याख्या परत्वापरत्वे निरूपयति - परापरेत्यादि। परं चापरं चेति परापरे। परापरयोर्व्यवहारः परापरव्यवहारः। न साधारणे असाधारणे। असाधारणे च ते कारणे असाधारणकारणे। परापरव्यवहारयोरसाधारणकारणे परापरव्यवहारासाधारणकारणे। परापरयोरित्यत्र परापरपदयोः परत्वमपरत्वं चार्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च परत्वापरत्वनिष्ठविषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकता(स्वनिरूपितविषयिताश्रयत्व)सम्बन्धेनान्वयः। तथा च परत्वापरत्वनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रयत्व)ज्ञानजनकशब्दप्रयोग इति बोधः। ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य व्यवहारार्थस्य ज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता। असाधारणकारणे इत्यस्य असाधारणकारणतावती इत्यर्थः। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेना- साधारणकारणपदार्थैकदेशेऽसाधारणकारणतायामन्वयः। कारणतावतोश्चाभेदसम्बन्धेन परत्वापरत्वयोरन्वयः। तथा च परत्वापरत्वनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रयत्व) ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्ने परत्वापरत्वे इति बोधः। लक्षणं तु- परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वं परत्वम् इति। लक्षणस्यास्य 'अयम् अस्मात् परः' इत्यत्र समन्वयः। परत्वनिष्ठविषयता का ? इति चेत् ‘अयम् अस्मात् परः’ इत्याकारकपरत्वनिष्ठविषयता। व्यवहारे व्यवहर्तव्यस्य विषयत्वात्, 'अयम् अस्मात् पर इत्याकारकव्यवहारे परत्वं विषयः, परत्वं विना तादृशव्यवहारानुपपत्तेः। अतस्तादृशपरत्वनिष्ठविषयतानिरूपकं ज्ञानम् ‘अयम् अस्मात् पर इत्याकारकम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? 'अयम् अस्मात् पर इत्याकारकव्यवहारनिष्ठा कार्यता। तन्निरूपितासाधारणकारणत्वं व्यवहारे व्यवहर्तव्यस्य कारणत्वात् परत्वे वर्तत इति लक्षणसमन्वयः। अत्र परत्वापरत्वयोर्लक्षणे कारणत्वेऽसाधारणपदस्य प्रथममेव निवेशनात् कालादावतिव्याप्तिरूपदोषो नास्ति। कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वात्, असाधारणकारणत्वाभावात्। नन्वेवं सत्यप्यस्य लक्षणस्य यत्रास्माकमपरिचितवस्तुनि परत्वव्यवहार एव नोत्पन्नस्तादृशस्थले परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वस्याभावात् अव्याप्तिरिति चेत्, न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम्- परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि - यत्रास्माकम् 'अयम् अस्मात् पर इति व्यवहार उपलभ्यते, तादृशपरत्वं स्वीकार्यम्। तद्वृत्तिर्या जातिरिति चेत् ? परत्वत्वजातिः। तादृशजातिमत्त्वमपरिचितस्थलीयपरत्वेऽपि वर्तत इति नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिः। परत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा परत्वत्वजातिः, तद्वत् गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं तु रूपादावपि वर्तत इति अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि परत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परत्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो 'गुणत्वव्याप्या जातिश्चेत् ? परत्वत्वजातिरेव। तादृशजातिमत्त्वं तु रूपादौ नास्तीति नातिव्याप्तिः। अत्रापि प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वं न निवेशनीयम्। एवम् अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वम् इति अपरत्वस्य लक्षणम्। लक्षणस्यास्य ‘अयम् अस्मादपरः' इत्यत्र समन्वयः। अपरत्वनिष्ठविषयता का ? इति चेत् 'अयम् अस्मादपरः' इत्याकारकापरत्वनिष्ठविषयता। व्यवहारे व्यवहर्तव्यस्य विषयत्वात् 'अयम् अस्मात् अपर इत्याकारकव्यवहारे अपरत्वं विषयः। अपरत्वं विना तादृशव्यवहारानुपपत्तेः। अतस्तादृशापरत्वनिष्ठविषयतानिरूपकं ज्ञानम् 'अयम् अस्मात् अपर इत्याकारकम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? अयम् अस्मात् अपरः' इत्याकारकव्यवहारनिष्ठा कार्यता। तन्निरूपितासाधारणकारणत्वं व्यवहारे व्यवहर्तव्यस्य कारणत्वात् अपरत्वे वर्तत इति लक्षणसमन्वयः। अत्र परत्वापरत्वयोर्लक्षणे कारणत्वे साधारणपदस्य प्रथममेव निवेशनात् कालादावतिव्याप्तिरूपदोषो नास्ति। कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वात्, असाधारणकारणत्वाभावात्। नन्वेवं सति यत्रास्माकमपरिचितवस्तुनि अपरत्वव्यवहार एव नोत्पन्नस्तादृशस्थले अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठका- र्यतानिरूपितकारणत्वस्याभावात् अव्याप्तिरिति चेत्, न। अत्रापि जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् अपरत्वनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि - यत्रास्माकम् 'अयमस्मात् अपरः' इति व्यवहार उपलभ्यते, तादृशापरत्वं स्वीकार्यम्। तद्वृत्तिर्या जातिरिति चेत् ? अपरत्वत्वजातिः। तादृशजातिमत्त्वमपरिचितस्थलीयापरत्वेऽपि वर्तत इति नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिः। अपरत्वनिष्ठ- विषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अपरत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा अपरत्वत्वजातिः, तद्वत् गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं तु रूपादावपि वर्तत इति अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि - अपरत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अपरत्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो गुणत्वव्याप्या जातिश्चेत् ? अपरत्वत्वजातिरेव। तादृशजातिमत्त्वं तु रूपादौ नास्तीति नातिव्याप्तिः। अत्रापि प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वं न निवेशनीयम्। परत्वापरत्वयोर्नियमेन परस्परसापेक्षत्वादुभयोस्सहैव लक्षणमुक्तं मूलकारेण, अस्माभिस्तु छात्राणां व्युत्पत्त्यर्थं प्रत्येकं पृथक्कृत्योक्तम्।। यद्यपि परत्वापरत्व आपेक्षिके, तावता न बुद्धिविशेषविषयत्वरूपे ते। तथा सति सुखदुःखादीनामपि परस्परसापेक्षत्वादसिद्धिप्रसङ्गात्। ; तर्कसंग्रहः आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति। ; आलोक- व्याख्या गुरुत्वं निरूपयति - आद्येत्यादि। आद्यं च तत्पतनं चाद्यपतनम्। न समवायिकारणम् असमवायिकारणम्। आद्यपतनस्यासमवायिकारणम् आद्यपतनासमवायिकारणम्। आद्यत्वं नाम प्रथमत्वम्। पतनं नाम पतनरूपा क्रिया। प्रकृत्यर्थस्याद्यत्वस्य पतनरूपक्रियायामभेदसम्बन्धेनान्वयः। तथा च आद्याभिन्नपतनक्रिया। 'आद्यपतनस्य' इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्याद्यपतनरूपक्रियाया आधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च- आद्याभिन्नपतनक्रियानिष्ठकार्यता। असमवायिकारणं नाम असमवायिकारणतावत्। षष्ठ्यर्थकार्यताया असमवायिकारणपदार्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। तथा चाखण्डबोधः - आद्याभिन्न- पतनक्रियानिष्ठकार्यतानिरूपितासमवायिकारणतावदभिन्नं गुरुत्वम् इति। लक्षणम् तु - आद्याभिन्नपतनरूपक्रियानिष्ठकार्यतानिरूपितासमवायिकारणत्वम् इति। आद्यपतननिष्ठकार्यता केति चेत् ? ' इदं फलं पतति' इत्याकारकपतनक्रियानिष्ठकार्यता। तादृशकार्यतानिरूपितासमवायिकारणत्वं गुरुत्वे वर्तत इति लक्षणसमन्वयः। ‘पतनासमवायिकारणत्व’मात्रोक्तौ वेगेऽतिव्याप्तिः, द्वितीयादिपतने वेगस्याप्य- समवायिकारणत्वात्। अतः 'आद्ये'ति विशेषणम्। यद्यपि पतनरूपक्रियां प्रति वेगोऽप्यसमवायिकारणम्, अथाऽपि आद्यपतनरूपक्रियायां वेगस्या- भावेनासमवायिकारणत्वाभावात्, द्वितीयादिपतनरूपक्रियां प्रत्येवासमवायिकारणत्वम्। अत आद्यपतनं प्रति तु गुरुत्वमेवासमवायिकारणम् इति वेगे नातिव्याप्तिः। अत्र 'असमवायि' पदाभावे कालादावतिव्याप्तिः। आद्यपतन- निष्ठकार्यतानिरूपितकारणत्वं कालादावपि कार्यसामान्यकारणत्वात् वर्तत इत्यतिव्याप्तिस्स्यात्। असमवायिपदनिवेशे तु कालस्य कार्यसामान्यं प्रति निमित्तकारणत्वेनासमवायिकारणत्वाभावान्नातिव्याप्तिः। नन्वेवं सत्यपि यादृशेन गुरुत्वेन पतनरूपं कार्यं न जातम्, तत्राद्यपतननिष्ठकार्यतानिरूपिता- समवायिकारणत्वस्याभावादव्याप्तिरिति चेत्, न। आद्यपतननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिजातिमत्त्वस्य लक्षणत्वात्। आद्यपतन- निष्ठकार्यतानिरूपितासमवायिकारणतावत्, येन गुरुत्वेन पतनं जातम्, तादृशं गुरुत्वम्। तद्वृत्तिर्जातिः गुरुत्वत्वरूपा जातिः। तादृशजातिमत्त्वं, यस्मात् पतनरूपं कार्यं न जातम्, तत्रापि वर्तत इति नाव्याप्तिः। अथैवमपि रूपादावतिव्याप्तिः। आद्यपतननिष्ठकार्यतानिरूपितासम- वायिकारणतावत् गुरुत्वम्। तद्वृत्तिर्जातिः- गुणत्वजातिरपि भवति। तद्वत्त्वं रूपेऽपि वर्तत इति रूपेऽतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्यापि विशेषणात्। तथा च आद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति लक्षणम्। एवञ्चाद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणतावत् गुरुत्वम्। तद्वृत्तिर्गुणत्वव्याप्या जातिः- गुणत्वं न भवति, स्वस्य स्वव्याप्यत्वाभावात्। किन्तु गुरुत्वत्वजातिरेव। तद्वत्त्वं गुरुत्व एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। अत्रापि प्रयोजनाभावात् ‘साक्षात्’ ‘इति विशेषणं न देयम्। यद्यपि भूमेराकर्षणशक्तिरेव गुरुत्वमिति नव्यविज्ञानिनः, तथापि कार्यस्य सर्वत्र परस्परसापेक्षत्वावश्यम्भावात्, सर्वानपि पदार्थान् भूमिर्नाकर्षितुमलमिति व्यवस्थादर्शनात् आकर्षकयोग्यतावत् आकृष्ययोग्यताऽप्यावश्यकीति सैव गुरुत्वमुच्यत इति भाव्यम्। ; तर्कसंग्रहः गुरुत्वम् आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति॥ ३०॥ द्रवत्वम् आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिव्यप्तेजोवृत्ति। तद्द्विविधं सांसिद्धिकं नैमित्तिकं चेति। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ॥ ३१॥ ; आलोकः - द्रवत्वम् आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिवीजलतेजोवृत्ति। तद् द्विविधम्। सांसिद्धिकं नैमित्तिकं चेति। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ। ; आलोक- व्याख्या द्रवत्वं निरूपयति - आद्येत्यादि। द्रवति इति व्यवहारसिद्धं जलनिष्ठविलक्षणक्रियाहेतुभूतं द्रवत्वमित्यर्थः। आद्यं च तत् स्यन्दनं चेति आद्यस्यन्दनम्। न समवायिकारणम् असमवायिकारणम्। आद्यस्यन्दनस्यासमवायिकारणमिति आद्यस्यन्दनासमवायिकारणम्। आद्यं नाम प्रथमम्। स्यन्दनं नाम स्यन्दनरूपा क्रिया। आद्यार्थकस्य प्रथमस्य स्यन्दनरूपक्रियायामभेदसम्बन्धेनान्वयः। तथा च आद्याभिन्नस्यन्दनक्रिया। 'आद्यस्यन्दनस्य' इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य आद्यस्यन्दनक्रियाया आधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च - आद्यस्यन्दननिष्ठकार्यता। 'असमवायिकारणम्' इत्यस्यासमवायिकारणतावदित्यर्थः। षष्ठ्यर्थकार्यताया असमवायिकारणपदार्थैकदेशेऽसमवायिकारणतायां निरूपितत्वसम्बन्धेनान्वयः। कारणतावतश्चाभेदसम्बन्धेन द्रवत्वेऽन्वयः। तथा चाखण्डबोधः - आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावदभिन्नं द्रवत्वम् इति। लक्षणं तु आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणत्वम् इति। आद्यस्यन्दननिष्ठकार्यता केति चेत् ? 'आद्यजलं स्यन्दते' इति प्रतीतिसिद्धा स्यन्दनक्रियानिष्ठा कार्यता। तादृशकार्यतानिरूपितासमवायिकारणत्वं द्रवत्वे वर्तत इति लक्षणसमन्वयः। ‘स्यन्दनासमवायिकारणम्’ इत्येतावन्मात्रोक्तौ वेगेऽतिव्याप्तिः। अतः 'आद्य' इति विशेषणम्। द्वितीयादिस्यन्दनक्रियां प्रति वेगोऽप्यसमवायिकारणम्, आद्यस्यन्दनं प्रति तु नासमवायिकारणम्, तदानीं वेगस्यानुत्पन्नत्वात्। अत आद्यस्यन्दननिष्ठकार्यतानिरूपितकारणत्वाभावात् वेगे नातिव्याप्तिः। अत्र 'असमवायि' इति विशेषणाभावे, कालादावतिव्याप्तिर्दुर्वारा स्यात्। असमवायिपदनिवेशे तु कालेश्वरादृष्टादेः कार्यसामान्यं प्रति निमित्तकारणत्वेनासमवायिकारणत्वाभावान्नातिव्याप्तिः। नन्वेवं सत्यपि येन द्रवत्वेन स्यन्दनमेव कदाचिदपि न जातम्, तत्र आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणत्वस्याभावादव्याप्तिरिति चेत्, न। आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिजातिमत्त्वस्य लक्षणत्वात्। आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत्, येन द्रवत्वेन स्यन्दनं जातम्, तादृशद्रवत्वं भवति। तद्वृत्तिर्जातिर्द्रवत्वत्वरूपा जातिः। तादृशजातिमत्त्वं, येन द्रवत्वेन स्यन्दनमेव न जातम्, तादृशेऽपि द्रवत्वे वर्तत इति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य पुना रूपादावतिव्याप्तिर्दुर्वारा। तथाहि - आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा द्रवत्वत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम्। तद्वृत्तिर्गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। तादृशगुणत्वव्याप्या जातिस्तु द्रवत्वत्वमेव। तादृशजातिमत्त्वं द्रवत्व एव वर्तते नान्यत्र रूपादाविति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य नैमित्तिकद्रवत्वेऽव्याप्तिर्दुर्वारा। तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् सांसिद्धिकद्रवत्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? सांसिद्धिकत्वजातिरपि भवति। सांसिद्धकत्वस्य विलक्षणजातित्वात्। तादृशजातिमत्त्वं नैमित्तिकद्रवत्वे नास्तीति तत्र लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथाच लक्षणम् आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम्। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? इदानीं सांसिद्धिकत्वजातिर्न भवति। तस्या गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वसाक्षाद्व्याप्या जातिस्तु द्रवत्वत्वमेव। तादृशजातिमत्त्वं नैमित्तिकद्रवत्वेऽपि वर्तत इति नाव्याप्तिः। संपूर्णं लक्षणं तु आद्यस्यन्दननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति। ; तर्कसंग्रहः चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्ति:। ; आलोक-व्याख्या स्नेहं निरूपयति - चूर्णादीति। नायमान्तरप्रीतिविशेषरूपः, तस्य चेतनगुणत्वात्। किन्तु चूर्णादीनां पिण्डीभावहेतुर्जलनिष्ठोऽतिशयविशेषः। चूर्णादीनां पिण्डीभावः चूर्णादिपिण्डीभावः। चूर्णादिपिण्डीभावस्य हेतु:- चूर्णादिपिण्डीभावहेतुः। चूर्णादीनाम् इत्यत्र आदिपदेन सक्तूनां ग्रहणं कर्तव्यम्। षष्ठ्याः समवेतत्वमर्थः। तथा च चूर्णादिसमवेत इति। पिण्डीभावो नाम धारणाकर्षणहेतुभूतविलक्षणसंयोगः। पिण्डीभावस्येत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्यााधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च धारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता। हेतुरित्यस्य कारणतावान् अर्थः। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। गुण इत्यस्य गुणत्ववान् अर्थः। तस्य चाभेदसंबन्धेन गुणेऽन्वयः। तथा च चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता- निरूपितकारणतावदभिन्नो गुणाभिन्नः स्नेहः इति बोधः। लक्षणं तु - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणत्वे सति गुणत्वम् इति। तथाहि - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता केति चेत् ? 'एते रेणवः पिण्डीभूताः’ इत्याकारकप्रतीतिसिद्धा कार्यता। तादृशकार्यतानिरूपितकारणत्वं गुणत्वं च स्नेहे वर्तत इति समन्वयः। चूर्णादिपिण्डीभावहेतुत्वमात्रोक्तौ कालादावतिव्याप्तिः स्यात्। कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वात्। अतश्चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणत्वं कालादावपि वर्तत इत्यतिव्याप्तिः। तदर्थं गुणत्वम्। कालस्य द्रव्यत्वात् गुणत्वाभावात्, तत्र नातिव्याप्तिः। गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः। अतश्चूर्णादिपिण्डीभावहेतुत्वम्। यद्यपि लक्षणे कार्यतानिरूपितकारणतायामसाधारणत्वपदनिवेशनेनापि कालादावतिव्याप्तिर्वारयितुं शक्यते, तथापि असाधारणदलनिवेशनेऽपि स्नेहसमवायिकारणे चूर्णादावेवातिव्याप्तिः। तथाहि – चूर्णादिसमवेतधारणाकर्षण-हेतुभूतविलक्षणसंयोगनिष्ठकार्यता केति इति चेत् ? 'एते चूर्णाः पिण्डीभूताः' इत्याकारकप्रतीतिसिद्धा धारणाकर्षणसंयोगनिष्ठकार्यता। तादृशकार्यतानिरूपितासाधारणकारणत्वं यथा स्नेहे वर्तते तथा चूर्णादावपि वर्तते। चूर्णमपि तादृशपिण्डीभावेऽसाधारणहेतुरेव। चूर्णं विना पिण्डीभाव एव कथं घटेत। अतो लक्षणेऽसाधारणकारणत्वनिवेशेनापि, नातिव्याप्तेर्निस्तारो भवति। तदर्थं गुणपदं निवेशनीयमेव। प्रकृते चूर्णादीनां द्रव्यत्वात् गुणत्वाभावाच्च तत्र नातिव्याप्तिः। नन्वेवं सत्यपि येन स्नेहेन पिण्डीभाव एव न जातः, तत्र चूर्णादिसमवेतसंयोगस्य कार्यस्यैवाभावात् तादृशकार्यतानिरूपितकारणत्वं स्नेहे नास्तीत्यव्याप्तिरिति चेत्, न। जातिघटितपरिष्कारात्। तथा च लक्षणम् 'चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वे सति गुणत्वम्' इति। एवञ्च नाव्याप्तिः। तथाहि चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणतावान् येन स्नेहेन पिण्डीभावो जातः, तादृशः स्नेहः। तद्वृत्तिर्या जातिरिति चेत् ? स्नेहत्वजातिः। तादृशजातिमत्त्वं तु येन स्नेहेन पिण्डीभाव एव न जातः, तादृशस्त्रेहेऽपि वर्तत इति नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणतावान् स्नेहः। तद्वृत्तिर्यथा स्नेहत्वजातिः, तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितासाधारणकारणता- वद्वृत्तिगुणत्वव्याप्यजातिमत्त्वे सति गुणत्वम् इति। एवञ्च नाव्याप्तिः। तथाहि - चूर्णादिनिरूपितासाधारणकारणतावान् स्नेहः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। किन्तु स्नेहत्वजातिरेव। तादृशजातिमत्त्वं रूपादौ नास्तीति नातिव्याप्तिः। अत्र साक्षात्पदस्यावश्यकता नास्ति, स्नेहस्यानेकविधत्वाभावात्। तादृशजातिपदेन स्नेहत्वस्यैव ग्राह्यत्वात्, तद्वत्त्वं कालादौ नास्तीति गुणत्वनिवेशनाभावेऽपि न हानिः। ; तर्कसंग्रहः स्नेहः चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः॥ ३२॥ शब्दः श्रोत्रग्राह्यो गुणः शब्दः। आकाशमात्रवृत्तिः। स द्विविधः ध्वन्यात्मको वर्णात्मकश्चेति। ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥ ३३॥ ; आलोकः - शब्दः श्रोत्रग्राह्यो गुणः शब्दः। आकाशमात्रवृत्तिः। सद्विविधः। ध्वन्यात्मको वर्णात्मकश्चेति। ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः। ; आलोक-व्याख्या शब्दं लक्षयति - श्रोत्रेति। श्रोत्रेण ग्राह्यः श्रोत्रग्राह्यः। 'श्रोत्रेण' इत्यत्र तृतीयाया जनकत्वमर्थः। श्रोत्रपदस्य श्रोत्रेन्द्रियमर्थः। प्रकृत्यर्थस्य श्रोत्रेन्द्रियस्य तृतीयार्थजनकतायामाधेयतासम्बन्धेनान्वयः। तथा च श्रोत्रेन्द्रियनिष्ठजनकता। ग्राह्यं इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः। ण्यत्प्रत्ययस्य विषयतावानर्थः। प्रकृत्यर्थस्य ग्रहधात्वर्थप्रत्यक्षस्य निरूपितत्वसम्बन्धेन ण्यत्प्रत्ययार्थैकदेशे विषयत्वेऽन्वयः। तथा च प्रत्यक्षनिरूपितविषयता। तृतीयार्थजनकताया ग्रहधात्वर्थप्रत्यक्षे निरूपकत्व(अथवा स्वनिरूपितजन्यताश्रयत्वं)सम्बन्धेनान्वयः। अथवा श्रोत्रेणेत्यत्र तृतीयाया जन्यत्वमर्थः। प्रकृत्यर्थस्य स्वनिष्ठजनकतानिरूपितत्वसंबन्धेन जन्यतायामन्वयः। जन्यताया आश्रयतासंबन्धेन प्रत्यक्षेऽन्वयः। विषयतावतश्चाभेदसम्बन्धेन शब्देऽन्वयः तथा च श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावदभिन्नो गुणाभिन्नः शब्दः इति बोधः। लक्षणं तु श्रोत्रेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय)प्रत्यक्षनिरूपितविषयत्वे सति गुणत्वम् इति। श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं किमिति चेत् ? 'अयं शब्दः' इत्याकारकं प्रत्यक्षम्। तादृशप्रत्यक्षनिरूपिता विषयता शब्दनिष्ठा विषयता। तथा च श्रोत्रेन्द्रियजन्य- प्रत्यक्षनिरूपितविषयताश्रयत्वं शब्दे वर्तते। एवं गुणत्वमपि शब्दे वर्तत इति लक्षणसमन्वयः। ‘गुणत्व'मात्रोक्तौ रूपादावतिव्याप्तिः। अतः ‘श्रोत्रग्राह्यः’ इति दलम्। ‘श्रोत्रग्राह्यत्व'मात्रोक्तौ शब्दत्वे शब्दाभावे चातिव्याप्तिः, तदर्थं गुणपदम्। तथा च शब्दत्वस्य जातित्वात्, शब्दाभावस्य चाभावत्वादुभयत्र गुणत्वाभावात् तत्र नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य यत्किञ्चित्प्रदेशावच्छिन्न आकाशे जातः शब्दः केनापि यदा न श्रूयते, तत्र श्रोत्रग्राह्यत्वं शब्दे नास्तीत्यव्याप्तिरिति चेत्, न जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् श्रोत्रेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय)प्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्त्वे सति गुणत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि- श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् श्रोत्रेण गृहीतश्शब्दः। तद्वृत्तिर्या जातिरिति चेत् ? शब्दत्वजातिः। तादृशजातिमत्त्वं तु यः शब्दः केनापि न गृहीतः, तादृशशब्देऽपि वर्तत एवं गुणत्वमपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि ‘श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् शब्दः। तद्वृत्तिर्या जातिरिति चेत् ? यथा शब्दत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वे सति गुणत्वम् इति। एवञ्च नातिव्याप्तिः। श्रोत्रेन्द्रियनिष्ठ- जनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् शब्दः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वं न भवति, स्वस्य स्वव्याप्यत्वाभावात्। तादृशगुणत्वव्याप्या जातिस्तु शब्दत्वमेव भवति। तादृशजातिमत्त्वं शब्दमात्रे वर्तते रूपादौ नास्तीति नातिव्याप्तिः। नन्वेवं सत्यप्यस्य लक्षणस्य गकारादावव्याप्तिर्दुष्परिहरा। तथाहि ‘श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गककारः। तद्वृत्तिर्या गुणत्वव्याप्या जातिर्यथा शब्दत्वं, तथा कत्वादिकमपि। तादृशजातिमत्त्वं गकारादिरूपवर्णादौ नास्तीत्यव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। संपूर्णं लक्षणं तु श्रोत्रेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति गुणत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि श्रोत्रेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् ककारः। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? कत्वादिरूपा जातिर्न स्वीकर्तुं शक्यते। तस्या गुणत्वसाक्षाद्व्याप्यत्वाभावात्। अतस्तादृशगुणत्वसाक्षाद्व्याप्यजातिस्तु शब्दत्वमेव भवति। तादृशं शब्दत्वं गकारादिरूपवर्णादावपि वर्तत इति नाव्याप्तिः। नन्वेवं सति कालादौ तादृशशब्दत्वरूपजात्यभावादेव नातिव्याप्तिरिति गुणपदं व्यर्थमिति चेत्, निष्कृष्टलक्षणे मास्तु तत्पदम्, दोषाभावात्। यद्यपि स्पर्शानन्तरं शब्दो निरूपणीयः, विशेषगुणत्वात्, तथापि शब्द आकाशमात्रविशेषगुणः, आकाशसाधक इति विशेषसत्त्वात्, तादृशगुणसङ्घाते आद्यतयास्य निरूपणम्। बुद्ध्यादिकं हि जीवसाधकं लिङ्गम्, शब्दोऽप्याकाशस्येत्यत्र क्रमीकृता गुणा इति द्रष्टव्यम्। ; तर्कसंग्रहः सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः। सा द्विविधा। स्मृतिरनुभवश्चेति। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः। स द्विविधः। यथार्थोऽयथार्थश्च। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेत्युच्यते। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदं रजतमिति ज्ञानम्। सैवाप्रमेत्युच्यते। ; आलोक- व्याख्या क्रमप्राप्तां बुद्धिं निरूपयति- सर्वव्यवहार इत्यादि। सर्वे च ते व्यवहाराः सर्वव्यवहारा इति विग्रहः, न तु सर्व इति व्यवहार इति। व्यवहारसामान्यकारणत्वस्यैव विवक्षितत्वात्। सर्वव्यवहाराणां हेतुः सर्वव्यवहारहेतुः। सर्वव्यवहाराणामित्यत्र प्रकृतेः सर्वविधव्यवहारोऽर्थः। षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य सर्वविधव्यवहारार्थस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च सर्वविधव्यवहारनिष्ठकार्यता। हेतुरित्यस्य कारणतावान् अर्थः। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन हेत्वर्थैकदेशे कारणतायामन्वयः। कारणतावतश्चाभेदसम्बन्धेन ज्ञाने। अत्र कार्यतायां सर्वपदसमभिव्याहारवशात् कार्यता व्यवहारत्वावच्छिन्ना बोध्या। तथा च व्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणतावदभिन्नं ज्ञानं वुद्धिः इति बोधः। वस्तुतस्तु मुख्यो व्यवहारपदार्थो हानोपादानादिरेव। ज्ञानं तु तद्धेतुभूतम्। लक्षणं तु व्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणत्वम् इति। व्यवहारत्वावच्छिन्नकार्यता केति चेत् ? 'अयं घटः’ ‘अयं पटः’ इत्याकारकज्ञानजनकशब्दप्रयोगरूपव्यवहारनिष्ठाकार्यता। तादृशशब्दप्रयोगं प्रति घटादिज्ञानस्य कारणत्वात् तादृशकार्यतानिरूपितकारणत्वं घटादिज्ञाने वर्तत इति समन्वयः। सांख्यैर्ज्ञानमन्यत्, बुद्धिश्चान्येत्यङ्गीकारात् तन्निराकरणार्थमुभयोः पर्यायत्वसूचनाय 'ज्ञानं बुद्धि:' इति पदद्वयं प्रयुक्तम्। अतो न पुनरुक्तिः, न वा लक्षणे पदद्वयनिवेशः। नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुष्परिहारा। 'कार्यसामान्यं प्रति कालस्य कारणत्वात्' व्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणता केति चेत् ? कालनिष्ठा कारणतापि भवतीत्यतिव्याप्तिरिति चेत्, न। कारणतावान् इत्यत्र कारणतायामसाधारणपदनिवेशनात्। तथा च लक्षणम् ‘व्यवहारत्वावच्छिन्नकार्यतानिरूपितासाधारणकारणत्वम्' इति। एवञ्च नातिव्याप्तिः। तथाहि कालस्य कार्यसामान्यं प्रति साधारणकारणत्वे सत्यपि, असाधारणकारणत्वाभावात् ‘अयं घटः' ‘अयं पटः' इत्याकारकव्यवहारत्वावच्छिन्नकार्यतां प्रत्यसाधारणकारणत्वं ज्ञानस्यैव, न तु कालस्येति तत्र नातिव्याप्तिः। बुद्ध्यादयस्त्वात्मविशेषगुणा आत्मसद्भावलिङ्गरूपाः। यद्यप्यात्मा ‘अहम्’ प्रतीतिसिद्ध इति वदन्ति, अथापि 'अहं' प्रतीतेश्शरीरादावपि दर्शनाद्विप्रतिपत्तिसत्त्वेन, परकीयात्मनश्च स्वेन 'अहमिति' प्रतीतिं कर्तुमशक्यत्वात्, तादृशप्रतीतिविषयत्वासंभवात्, आत्मनोऽनुमेयत्वाभिधानम्। न्यायवैशेषिकयोस्समानतन्त्रत्वात् परस्परपूरकत्वं सिद्धम्। तत्र न्यायशास्त्रं प्रमाणप्रधानम्, वैशेषिकं तु प्रमेयप्रधानम्। अनयोरुभयोर्मध्ये व्यवहारे प्रमाणं प्रधानम्, स्वविषये तु प्रमेयं प्रधानम्। किञ्च प्रमाणस्यापि प्रमेयत्वमनिवार्यम्, प्रमेयत्वस्य केवलान्वयित्वात्। अतः सप्तपदार्थरूपप्रमेये गुणवर्गे बुद्धौ प्रमाणानामन्तर्भावात् बुद्धिनिरूपणे प्रमाणनिरूपणमतिसमञ्जसम्। अतो बुद्धिं विभजते द्विविधेति। अनुभवानामनुगतलक्षणापेक्षया स्मृतेरनुगतलक्षणं सुवचम्। स्मृतेर्लक्षणे ज्ञाते तद्भिन्नज्ञानत्वेनानुभवानां लक्षणं सुवचमिति प्रथमं स्मृतेर्लक्षणं उक्तम्। तत्र प्रथमोद्दिष्टायास्स्मृतेर्लक्षणमाह- संस्कारेत्यादि। संस्कार एव संस्कारमात्रम्। संस्कारमात्रेण जन्यम् संस्कारमात्रजन्यमिति विग्रहः। मात्रपदस्य भिन्नः, अभावश्चार्थः। तृतीयाया जनकत्वमर्थः। जन्यमित्यस्य जन्यतावदित्यर्थः। तृतीयार्थजनकताया आधेयतासंबन्धेन संस्कारपदार्थेऽन्वयः। एवं संस्कारपदार्थस्य मात्रपदार्थैकदेशे भेदेऽपि स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेनान्वयः। भिन्नपदार्थस्यापि तृतीयार्थजनकतायाम् आधेयतासंबन्धेनान्वयः। जनकतायाश्च निरूपितत्वसंबन्धेन जन्यतायामन्वयः। एवं जन्यताया मात्रपदार्थान्तरेऽभावे च स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेनान्वयः। तथा च संस्कारनिष्ठजनकतानिरूपितजन्यतावदभिन्नम्, संस्कारनिष्ठ- प्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपितजन्यत्वनिष्ठप्रतियोगितानिरूपकाभाववदभिन्नं ज्ञानं स्मृतिरिति बोधः। संस्कारजन्यत्वे सति, संस्कारेतराजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणम्। ज्ञानत्वमात्रोक्तावनुभवेऽतिव्याप्तिः। अतः संस्कारजन्यत्वम्। एतावन्मात्रोक्तौ सोऽयं घटः' इत्यादिप्रत्यभिज्ञाप्रत्यक्षे तत्तांशस्य (विशेषणांशस्य) संस्कार- जन्यत्वादतिव्याप्तिः। अतः संस्कारेतराजन्यत्वम्। प्रत्यभिज्ञाप्रत्यक्षस्य इदंत्वांशे (विशेष्यांशे) संस्कारेतरेन्द्रियजन्यत्वात् संस्कारेतराजन्यत्वं नास्तीति नातिव्याप्तिः। संस्कारेतराजन्यत्वे सति ज्ञानत्वमात्रोक्तौ यद्यपि पूर्वोक्तरीत्याऽनुभवे नातिव्याप्तिः, अनुभवस्य संस्कारेतरेन्द्रियादिजन्यत्वेन संस्कारेतराजन्यत्वस्याभावात्, अथापीश्वरप्रत्यक्षस्य नित्यत्वेन जन्यत्वस्यैवाभावेन, संस्कारेतराजन्यत्वं सुतरां वर्तत ज्ञानत्वं च वर्तत इत्यतिव्याप्तिः। अतः संस्कारजन्यत्वमावश्यकम्। ईश्वरज्ञानस्य नित्यत्वेन संस्कारजन्यत्वाभावान्नातिव्याप्तिः। 'ईश्वरस्य तु सर्वं प्रत्यक्षमेव तस्य स्मृतिर्नास्ति'। ज्ञानत्वानुपादाने संस्कारध्वंसेऽतिव्याप्तिः। अतो ज्ञानत्वम्। अथैवं मनसो ज्ञानसामान्यकारणत्वात् स्मृतिं प्रत्यपि कारणत्वेन संस्कारेतराजन्यत्वाभावादसंभव इति चेत्, न। तद्दलस्य बाह्येन्द्रियजन्यत्वाभावतात्पर्यकत्वेन दोषाभावान्न काप्यनुपपत्तिः। तथा च संस्कारजन्यत्वे सति, बाह्येन्द्रियाजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणम्। तद्भिन्नमिति। तत्पदस्य स्मृतिरर्थः। अनुभवस्य लक्षणमाह तस्याः(स्मृतेः) भिन्नम् तद्भिन्नमिति विग्रहः। 'तस्याः' इत्यत्र प्रकृत्याः स्मृतिरर्थः। पञ्चम्याः प्रतियोगित्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च स्मृतिनिष्ठप्रतियोगिता इति। भिन्नमित्यस्य भेदवत् (अन्योन्याभाववत्) अर्थः। पञ्चम्यर्थप्रतियोगिताया भेदवत् इत्यत्रैकदेशे भेदे (अन्योन्याभावे) निरूपकत्वसम्बन्धेनान्वयः। भेदवतश्चाभेदसम्बन्धेनानुभवेऽन्वयः। तथा च स्मृतिनिष्ठप्रतियोगितानिरूपकान्योन्याभावाश्रयाभिन्नो ज्ञानत्वाश्रयाभिन्नोऽनुभवः इति बोधः। लक्षणं तु स्मृतिनिष्ठप्रतियोगितानिरूपकाऽन्योन्याभावाश्रयत्वे सति ज्ञानत्वम् इति। स्मृतिनिष्ठप्रतियोगितानिरूपकः भेदः क इति चेत् ? 'अयं घटः' इत्याकारक- प्रत्यक्षात्मकज्ञाने ‘स्मृतिर्न' इति प्रतीतिसिद्धो भेदः। सः ‘अयं घटः’ इत्याकारकप्रत्यक्षात्मकानुभवे वर्तते, ज्ञानत्वमपि वर्तत इति लक्षणसमन्वयः। ज्ञानत्वम् इत्येतावन्मात्रोक्तौ स्मृतावतिव्याप्तिः स्मृतेरपि ज्ञानत्वात्। अतः 'स्मृतिभिन्नम्' इति पदमुपात्तम्। 'स्मृतिभिन्नम्' इत्येतावन्मात्रोक्तौ घटादावतिव्याप्तिः, तस्यापि स्मृतिभिन्नत्वात्। अतः ‘ज्ञानम्' इत्युपात्तम्। घटस्य ज्ञानरूपत्वाभावात्, तत्र नातिव्याप्तिः। यथार्थानुभवस्य लक्षणमाह - तद्वतीत्यादि। तत् अस्मिन् अस्तीति तद्वत्। तस्मिन् तद्वति। 'अस्मिन्' इत्यत्र इदंशब्दस्य विशेष्यभूतरजतादिकमर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य रजतादेः सप्तम्यर्थाधि- करणतायामाधेयतासम्बन्धेनान्वयः। तथा च रजतादिनिष्ठाधिकरणता इति बोधः। 'अस्ति' इत्यत्र अस् धातोराधेयत्वमर्थः। 'ति' इत्याख्यातस्याश्रयत्वमर्थः। ‘तत्’पदेन प्रकारीभूतो धर्मो रजतत्वादिर्ग्राह्यः। आख्यातार्थाश्रयतायास्तत्पदार्थभूतप्रकारीभूतधर्मे (रजतत्वादौ) अन्वयः। तथा च 'तद्वन्निष्ठा(रजतादिधर्मिनिष्ठा)धिकरणतानिरूपिताधेयताश्रयस्तद्धर्मः (रजतत्वादिधर्मः) इति बोधः। अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात् यादृशो विशेषणविशेष्यभावापन्नो बोधो जायते समासादिवृत्तिवाक्यात् तद्विपरीतविशेषणविशेष्यभावापन्नो बोधो जायते' इति नियमानुरोधेन पूर्वं विशेषणभूतं रजतादिकम् इदानीं विशेष्यं भवति। पूर्वं विशेष्यभूतं रजतत्वादिकम् इदानीं विशेषणं भवति। तथा चं 'तन्निष्ठा(रजतत्वादिनिष्ठा)धेयतानिरूपिताधिकरणतावत् (आश्रयो रजतादिकम्)’ इति ‘तद्वत्' इत्याकारकपदस्य बोधः। 'तद्वति' इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्य तद्वतः (रजतत्त्ववतः रजतस्य) सप्तम्यर्थ- विशेष्यतायामाधेयतासम्बन्धेनान्वयः। तथा च तद्वन्निष्ठा (रजतत्वावच्छिन्नरजतनिष्ठा) विशेष्यता इत्यासीत्। सप्तम्यर्थविशेष्यताया निरूपकत्वसम्बन्धेनानुभवेऽन्वयः। तथा च तन्निष्ठा(रजतत्वनिष्ठा)धेयतानिरूपिताधिकरणतावन्निष्ठ(रजतनिष्ठ)विशेष्यतानिरूपकोऽनुभवः इति 'तद्वति' इत्यस्य पदस्य बोधः। तत्प्रकारक इत्यत्र ‘स प्रकारो यस्मिन्, तत्प्रकारक इति विग्रहः। बहुव्रीहिसमासान्त 'क' प्रत्ययः कर्मधारयसमासभ्रान्तिवारणार्थः। 'यस्मिन्' इत्यत्र ‘यत्’ शब्दस्यानुभवोऽर्थः। सप्तम्या विषयित्त्वम् (प्रकारित्वम्) अर्थः। प्रकृत्यर्थस्यानुभवस्य सप्तम्यर्थप्रकारितायमाधेयतासम्बन्धेनान्वयः। तथा च अनुभवनिष्ठ(तन्निष्ठ)प्रकारिता (विषयिता) इति बोधः। 'प्रकारः' इत्यस्य प्रकारतावान् अर्थः। सप्तम्यर्थविषयितायाः (प्रकारितायाः) प्रकारशब्दार्थैकदेशे प्रकारतायां निरूपितत्वसम्बन्धेनान्वयः। 'तत्’पदेन प्रकारीभूतो धर्मो (रजतत्वादिः) ग्राह्यः। तथा च- अनुभवनिष्ठ- प्रकारितानिरूपितप्रकारतावान् (प्रकारताश्रयः) स (रजतत्त्वम्) इति विग्रहवाक्यबोधः। 'अन्यपदार्थप्रधानसमासादिस्थले' इत्यादिनियमेन समासे विशेषणविशेष्यभावः विपरिवर्तते। 'तन्निष्ठ(रजतत्वनिष्ठ)प्रकारतानिरूपितप्रकारिता(विषयिता)श्रयाभिन्नोऽनुभवः इति खण्डबोधः। अखण्डबोधस्तु तन्निष्ठा(रजतत्वादिनिष्ठा)धेयतानिरूपिता-धिकरणतावन्निष्ठ(रजतादिनिष्ठ)विशेष्यतानिरूपकः, तन्निष्ठ(रजतत्वादिनिष्ठ) प्रकारतानिरूपितप्रकारिता(विषयिता)श्रयाभिन्नोऽनुभवो यथार्थः इति। लक्षणं तु- तद्वन्निष्ठ (रजतत्वादिमन्निष्ठ)विशेष्यतानिरूपकत्वे सति, तन्निष्ठ(रजतत्वादिनिष्ठ)प्रकारता- निरूपकत्वे सति, अनुभवत्वम् इति। रजते 'इदं रजतम्' इत्यत्र प्रमायां विशेष्यता रजतनिष्ठा। प्रकारता रजतत्वनिष्ठा। 'तद्वन्निष्ठविशेष्यतानिरूपकत्वम्' इत्यत्र ‘तत्' पदेन रजतत्वं ग्राह्यम्। तद्वत् - रजतम्। तन्निष्ठा विशेष्यता। तादृशविशेष्यतानिरूपकत्वं रजते 'इदं रजतम्' इत्याकारकज्ञाने वर्तते। एवं तन्निष्ठप्रकारतानिरूपकत्वम् इत्यत्र 'तत्' पदेन रजतत्वस्य ग्रहणात् रजतत्वनिष्ठप्रकारतानिरूपकत्वमपि रजते 'इदं रजतम्' इति ज्ञाने वर्तत इत्यतस्तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति, अनुभवत्त्वम् रजते 'इदं रजतम्' इत्याकारकयथार्थानुभवे वर्तत इति लक्षणसमन्वयः। अस्मिन् लक्षणे ‘अनुभवत्वम्' इत्येतावन्मात्रोक्तावयथार्थानुभवेऽतिव्याप्तिः। तस्यापि स्मृतिभिन्नत्वेनानुभवत्वाविशेषात्। अतः ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वम्' इति दलं निवेशनीयम्। तथा च लक्षणम् -'तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति, अनुभवत्वम्। एवञ्च नातिव्याप्तिः। यद्यप्ययथार्थानुभवेऽनुभवत्वं वर्तते, अथापि तद्वन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। तथाहि शुक्तौ 'इदं रजतम्' इत्ययथार्थानुभवे 'तत्' पदेन प्रकारीभूतरजतत्वं ग्राह्यम्। तद्वत्- रजतत्ववद्रजतम्। तत्र रजतत्ववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। किन्तु रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वमेव वर्तत इति नातिव्याप्तिः। ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति, अनुभवत्वम्' इत्येतावन्मात्रोक्तौ शुक्तौ 'इदं रजतम् ' भ्रमेऽतिव्याप्तिस्तथैव स्यात्। 'तत्' पदस्य सर्वनामपदत्वेन, तेन शुक्तित्वस्य ग्रहणे तत् - शुक्तित्त्वम्। तद्वती - शुक्तित्ववती - शुक्तिः। तन्निष्ठा विशेष्यता। तन्निरूपकत्वं शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमात्मकज्ञाने वर्तते। एवमनुभवत्वमपि वर्तत इत्यतिव्याप्तिः। अतः ‘तन्निष्ठप्रकारतानिरूपकत्वम्। तथा च लक्षणम् - तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्। एवञ्च नातिव्याप्तिः। तथाहि - शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमस्थले 'तत्' पदेन शुक्तित्वस्य ग्रहणात् तद्वन्निष्ठविशेष्यतानिरूपकत्वम् उक्तभ्रमात्मकज्ञाने वर्तते, एवमनुभवत्वमपि वर्तते। किन्तु तत्र तन्निष्ठप्रकारतानिरूपकत्वं नास्ति। तथाहि 'तत्’पदेन शुक्तित्वस्यैव ग्रहणात् तत्- शुक्तित्वम्। तन्निष्ठा प्रकारता - शुक्तित्वनिष्ठा प्रकारता। तन्निरूपकत्वं शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमात्मकज्ञाने नास्ति। किन्तु रजतत्वनिष्ठप्रकारतानिरूपकत्वमेव वर्तत इति नातिव्याप्तिः। 'तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्' इत्येतावन्मात्रोक्तौ, पुनः शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमात्मकज्ञानेऽतिव्याप्तिः स्यात्। तथाहि प्रकृते 'तत्' पदेन रजतत्वस्य ग्रहणात्, तत्- रजतत्वम्। तन्निष्ठा प्रकारता- रजतत्वनिष्ठा प्रकारता। तादृशप्रकारतानिरूपकत्वे सति, अनुभवत्वं शुक्तौ ‘इदं रजतम्' इत्याकारकभ्रमात्मकज्ञाने वर्तत इत्यतिव्याप्तिः। अतः 'तद्वन्निष्ठविशेष्यतानिरूपकत्व' रूपदलमप्यावश्यकम्। तथा च लक्षणम् तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् इति। तथा च नातिव्याप्तिः। तथाहि - यद्यपि शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमे तत्पदेन रजतत्वग्रहणात् 'तन्निष्ठ(रजतत्वनिष्ठ)प्रकारतानिरूपकत्वे सति, अनुभवत्वम्' वर्तते। परन्तु तत्र तद्वन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। तथाहि 'तत्' पदेन रजतत्वस्य ग्रहणात्, तत् - रजतत्वम्। तद्वत्- रजतम्। रजतत्ववद्रजतनिष्ठविशेष्यतानिरूपकत्वं शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमस्थले नास्ति। किन्तु तत्र (तदभाववन्निष्ठ)रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वमेव वर्तत इति तत्र नातिव्याप्तिः। 'अनुभवत्वम्' इति दलाभावे केवलं 'तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वम्' यथार्थानुभवस्य लक्षणम् इत्येतावन्मात्रोक्तौ यथार्थानुभव-जन्यस्मृतावतिव्याप्तिः। तथाहि 'अयं घटः' इत्याकारकयथार्थानुभवजन्यायां स्मृतौ (घटविषयकस्मृतौ) 'तत्' पदेन घटत्वस्य ग्रहणात्, तत् - घटत्वम्। तद्वान् घटत्ववान् घटः। तन्निष्ठा विशेष्यता। तन्निरूपकत्वम् ‘अयं घटः' इत्याकारिकायां स्मृतौ वर्तते। एवं 'तत्' पदेन घटत्वस्य ग्रहणात्, तत् - घटत्वम्। तन्निष्ठा प्रकारता इति चेत् ? घटत्वनिष्ठाप्रकारता। तन्निरूपकत्वं च 'अयं घटः' इत्याकारकस्मृतिरूपज्ञाने वर्तत इति तत्रातिव्याप्तिः। अतोऽनुभवत्वदलम्। एवञ्च नातिव्याप्तिः। तथाहि यद्यपि ‘अयं घटः’ इत्याकारिकायां यथार्थस्मृतौ तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तते, तथापि स्मृतिभिन्नत्वस्यैवानुभवत्वात्, स्मृतावनुभवत्वं नास्तीति नातिव्याप्तिः। बुद्धिः सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम्। सा द्विविधा स्मृतिरनुभवश्च। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः। स द्विविधः यथार्थोऽयथार्थश्च। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा अयं घट इति ज्ञानम्। सैव प्रमेत्युच्यते। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। (यथा शुक्ताविदंरजतमिति ज्ञानम्। सैव अप्रमेत्युच्यते) ॥ ३४॥ ; आलोकः - अख्यातिलक्षणम् अथैवमपि शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमेऽतिव्याप्तिर्दुर्वारा। प्रथमतत्पदेन शुक्तित्वग्रहणे तद्वती शुक्तिः। तद्वन्निष्ठा- शुक्तित्ववन्निष्ठा विशेष्यता भवति। तादृशविशेष्यतानिरूपकत्वं ज्ञाने वर्तते। द्वितीयतत्पदेन रजतत्वग्रहणे रजतत्व-निष्ठप्रकारतानिरूपकत्वं च तद्ज्ञाने वर्तते। अनुभवत्वं च वर्तत इत्यतिव्याप्तिः। ननु 'स राजा आगच्छति, तं पश्य' इत्यादिप्रयोगात् 'एकत्रोच्चरितयोस्तच्छब्दयोरेकार्थबोधकत्वमिति नियमात्, तत्पदद्वयेनापि एक एव धर्मो ग्राह्यः। प्रथमतत्पदेन शुक्तित्वग्रहणेन शुक्तित्ववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वसत्त्वेऽपि द्वितीयतत्पदेनापि शुक्तित्वस्यैव ग्राह्यत्वात्- 'तन्निष्ठप्रकारता' इत्यनेन शुक्तित्वनिष्ठप्रकारतैव भवति। तत्र रजतत्वस्यैव प्रकारत्वात्, शुक्तित्वनिष्ठप्रकारतानिरूपकत्वं नास्तीति कथमतिव्याप्तिरिति चेत्; एवमपि रङ्गरजते दृष्ट्वा 'इमे रजतरङ्गे' इति समूहालम्बन- भ्रमेऽतिव्याप्तिर्दुर्वारा। नानाविशेषणविशेष्यकज्ञानं समूहालम्बनज्ञानमित्युच्यते। उक्तज्ञाने शुक्तिः रजतं चेति द्वयं विशेष्यम्। शुक्तित्वं रजतत्वं चेति द्वयमपि विशेषणम्। अतस्तत्र तत्पदेन रजतत्वग्रहणे रजतत्ववद्रजतनिष्ठा विशेष्यतापि वर्तते, रजतत्वनिष्ठप्रकारतापि वर्तते। एवं तत्पदेन रङ्गत्वग्रहणे रङ्गत्ववद्रङ्गनिष्ठापि विशेष्यता वर्तते, रङ्गत्वनिष्ठा प्रकारतापि वर्तत इति तद्वन्निष्ठविशेष्यतानिरूपकत्वं तन्निष्ठप्रकारतानिरूपकत्वमनुभवत्वं च वर्तत इत्यतिव्याप्तिः स्यादेवेति चेत्, न। एकज्ञानीययोर्विशेष्यत्वप्रकारत्वयोः परस्परं निरूप्यनिरूपकभावस्य भानात्, तद्वन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता, तन्निरूपकत्वस्य ज्ञाने निवेशान्नातिव्याप्तिः। पूर्वं तु विशेष्यतानिरूपकत्वं प्रकारतायां न निविष्टम्, किन्तु ज्ञाने निविष्टम्। इदानीं तु प्रकारतायां निविष्टमिति विशेषः। एवञ्चोक्तसमूहालम्बनभ्रमे रङ्गनिष्ठापि विशेष्यता, रजतनिष्ठापि विशेष्यता, रङ्गत्वनिष्ठापि प्रकारता रजतत्वनिष्ठापि प्रकारता भवति। अतस्तद्वन्निष्ठविशेष्यतानिरूपकत्वम्, तन्निष्ठप्रकारतानिरूपकत्वं च ज्ञाने प्रत्येकं वर्तत इत्यतिव्याप्तिरुक्ता। इदानीं तूक्तज्ञाने तत्पदेन रङ्गत्वस्य स्वीकारे, तद्वत् - रङ्गत्ववत् रङ्गम्। तन्निष्ठविशेष्यतानिरूपिता तु प्रकारता रजतत्वे वर्तते, न रङ्गत्वे। अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठ- प्रकारताशालित्वमुक्तसमूहालम्बने नास्ति। तत्पदेन रजतत्वस्वीकारेऽपि, तद्वत् रजतम्। तन्निष्ठविशेष्यतानिरूपिता प्रकारता रङ्गत्व एव वर्तते, न तु रजतत्वे। अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वमुक्तसमूहालम्बने नास्तीति नातिव्याप्तिः। तथा च तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्। अथैवमपि रङ्गरजते दृष्ट्वा 'इमे रजते' इति समूहालम्बन- भ्रमेऽतिव्याप्तिर्दुर्वारा। तत्र रङ्गे, रजते उभयत्रापि रजतत्वं रङ्गत्वं च प्रकारः। तत्पदेन रजतत्वस्वीकारे, तद्वत् रजतम्। तन्निष्ठविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता भवत्येव। अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वसत्त्वादुक्तभ्रमेऽतिव्याप्तिर्दुवरिति चेत्, न। तद्वन्निष्ठविशेष्यतानिरूपितत्वस्थाने तदभाववन्निष्ठविशेष्यत्वानिरूपितत्वस्य विवक्षणात्। तथा च तदभाववन्निष्ठविशेष्यत्वानिरूपिततन्निष्ठप्रकारताशालित्वे सत्यनुभवत्वं लक्षणम्। रजते 'इदं रजतम्' इति प्रमायां तत्पदेन रजतत्वग्रहणे। तदभावः रजतत्वाभावः। तद्वत् रङ्गम्। तन्निष्ठविशेष्यत्वानिरूपितत्वं रजतत्वनिष्ठप्रकारतायामस्तीति लक्षणसमन्वयः। एवञ्चोक्तसमूहालम्बनभ्रमे, रङ्गांशेऽपि रजतत्वस्य प्रकारतया भानात् तत्पदेन रजतत्वस्य स्वीकारे, तदभाववत्- रजतत्वाभाववत् रङ्गं भवति। तादृशरङ्गनिष्ठविशेष्यतानिरूपितैव रजतत्वनिष्ठप्रकारता भवति, रजत इव रङ्गेऽपि रजतत्वस्यैव प्रकारतया भानात्। तथा च तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वमेवोक्तभ्रमे वर्तते, न तु तदभाववन्निष्ठविशेष्यत्वानिरूपिततन्निष्ठप्रकारताशालित्वमिति नातिव्याप्तिः। एवञ्च तदभाववन्निष्ठविशेष्यत्वानिरूपित तन्निष्ठप्रकारताशालित्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्। अयथार्थानुभवस्य लक्षणमाह- तदभाववतीत्यादि। तस्याभावः तदभावः। तदभावोऽस्मिन् अस्तीति तदभाववत्। तस्मिन् तदभाववति। 'तस्य' इत्यत्र तच्छब्दस्य प्रकारतया भासमानो धर्मोऽर्थः। षष्ठ्याः प्रतियोगित्वमर्थः। तत्र प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च तन्निष्ठप्रतियोगिता। षष्ठ्यर्थप्रतियोगिताया अभावे निरूपकतासम्बन्धेनान्वयः। तथा च तन्निष्ठप्रतियोगितानिरूपकाभावः। 'अस्मिन्' इत्यत्र इदं शब्दस्य विशेष्यतया भासमानपदार्थोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्यविशेष्यतया भासमानपदार्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च विशेष्यतया भासमानपदार्थनिष्ठाधिकरणता। 'अस्ति' इत्यत्र अस् धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। आश्रयताया अभावेऽन्वयः। अधिकरणताया अस् धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च विशेष्यतया भासमानपदार्थनिष्ठाधिकरणतानिरूपिताधेयताश्रयः इति खण्डवाक्यबोधः। एवञ्च - विशेष्यतया भासमानपदार्थनिष्ठाधिकरणतानिरूपिताधेयताश्रयः प्रकारतया भासमानधर्मनिष्ठप्रतियोगितानिरूपकः अभावः इति तदभावोऽस्मिन् अस्तीति विग्रहवाक्याद् बोधः। 'अन्यपदार्थप्रधानसमासादिवृत्तिस्थले' इत्यादिपूर्वोक्तनियमेन पूर्वं विशेष्यभूतोऽभाव इदानीं विशेषणं भवति। एवं पूर्वं विशेषणभूतो विशेष्यतया भासमानः पदार्थ इदानीं विशेष्यो भवति। तथा च- तन्निष्ठप्रतियोगिता- निरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणताश्रयो विशेष्यतया भासमानः पदार्थः इति तदभाववान् इति समस्तवाक्याद् बोधः। ‘तदभाववति’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्य तदभाववतः सप्तम्यर्थविशेष्यतायामाधेयतासम्बन्धेनान्वयः। विशेष्यतायाः निरूपकत्वसम्बन्धेनानुभवेऽन्वयः। तथा च 'तदभाववति' इत्यस्य तन्निष्ठप्रतियोगितानिरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठविशेष्यतानिरूपकः' इति बोधः। 'तत्प्रकारकः' इत्यत्र स प्रकारो यस्मिन् स इति तत्प्रकारकः। ‘यस्मिन्’ इत्यत्र यच्छब्दस्यानुभवोऽर्थः। सप्तम्याः प्रकारित्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च अनुभवनिष्ठप्रकारिता। ‘प्रकार' इत्यस्य प्रकारतावान् अर्थः। सप्तम्यर्थप्रकारितायाः प्रकारतावान् इत्यस्यैकदेशे प्रकारतायां निरूपितत्वसम्बन्धेनान्वयः। 'तत्' शब्दस्य प्रकारीभूतो धर्मोऽर्थः। तथा च 'अनुभवनिष्ठ- प्रकारितानिरूपितप्रकारतावदभिन्नः सः प्रकारीभूतो धर्म इति विग्रहवाक्यबोधः। 'अन्यपदार्थप्रधानसमासादिवृत्तिस्थले' इति पूर्वोक्तनियमेन विशेषणविशेष्यभावव्यत्यासे कृते तन्निष्ठप्रकारतानिरूपितप्रकारिताश्रयाभिन्नोऽनुभव इति समस्तवाक्याद् बोधः। आहत्य संपूर्णवाक्यस्याखण्डबोधस्तु 'तन्निष्ठप्रतियोगितानिरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठविशेष्यतानिरूपकाभिन्नः तन्निष्ठप्रकारतानिरूपितप्रकारिताश्रयाभिन्नोऽनुभवः' इति। लक्षणं तु 'तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्' इति। प्रकारतानिरूपितप्रकारिताश्रयः, प्रकारतानिरूपक इति द्वयं समानम्। शुक्तौ 'इदं रजतम्' इति भ्रमे लक्षणसमन्वयः। अत्र तत्पदेन रजतत्वं ग्राह्यम्। तदभावः- रजतत्वाभावः। रजतत्वाभाववती- शुक्तिः। तन्निष्ठा विशेष्यता। तन्निरूपकत्वं शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमे वर्तते। एवं ‘तन्निष्ठप्रकारतानिरूपकत्वम्' इत्यत्र तत्पदेन रजतत्वस्य ग्रहणात् तन्निष्ठा प्रकारता- रजतत्वनिष्ठप्रकारता। तन्निरूपकत्वमपि शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमात्मकानुभवे वर्तते। एवं स्मृतिभिन्नत्वात् अनुभवत्वमपि वर्तत इति तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वं शुक्तौ ‘इदं रजतम्' इत्याकारकेऽयथार्थानुभवे वर्तत इति लक्षणसमन्वयः। केवलं 'अनुभवत्व’मात्रोक्तौ रजते 'इदं रजतम्' इत्याकारकयथा- र्थानुभवेऽतिव्याप्तिः। तस्याप्यनुभवत्वात् (स्मृतिभिन्नत्वात्)। अतः 'तदभाववन्निष्ठविशेष्यतानिरूपकत्वं' इति विशेषणम्। तथा च नातिव्याप्तिः। तथाहि - रजते ‘इदं रजतम्' इत्याकारकयथार्थानुभवे यद्यपि अनुभवत्वं वर्तते। तथाऽपि तत्र तदभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। प्रकृते चात्र तत् पदेन रजतत्वं ग्राह्यम्। तत् - रजतत्वम्। तद्वत्- रजतम्। तद्वन्निष्ठविशेष्यता रजतनिष्ठविशेष्यता। तादृशविशेष्यतानिरूपकत्वमेव वर्तते रजते 'इदं रजतम्' इत्याकारकज्ञाने, न तु तदभाववन्निष्ठविशेष्यतानिरूपकत्वमिति नातिव्याप्तिः। ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वम्' इत्येतावन्मात्रोक्तौ ‘तन्निष्ठप्रकारतानिरूपकत्वम्' इत्येतद्दलाभावे पुनः रजते 'इदं रजतम्' इत्याकारकयथार्थप्रमायामतिव्याप्तिर्दुष्परिहरा। तथाहि अत्र तत् पदेन (तत्पदस्य सर्वनामत्वात् बुद्धिस्थपरामर्शे) शुक्तित्वस्य ग्रहणे तत्- शुक्तित्वम्। तदभावः- शुक्तित्वाभावः। तदभाववत् शुक्तित्वाभाववत् रजतम्। तन्निष्ठविशेष्यता शुक्तित्वाभाववद्रजतनिष्ठविशेष्यता। तादृशविशेष्यतानिरूपकत्वे सति अनुभवत्वं रजते 'इदं रजतम्' इत्याकारकप्रमात्मकानुभवे वर्तत इति तत्रातिव्याप्तिः। अतः ‘तन्निष्ठप्रकारतानिरूपकत्वम्' इत्युक्तम्। तथा च लक्षणम्- तदभावव- न्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् इति। तथा च नातिव्याप्तिः। तथाहि - यद्यपि रजते 'इदं रजतम्' इत्यत्र तत्पदेन शुक्तित्वग्रहणे तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वं वर्तते। तथाऽपि 'एकत्रोच्चरितयोः सर्वनामशब्दयोरेकार्थबोधकत्वम्' इति नियमेन पूर्वं 'तत्' शब्देन शुक्तित्वस्य ग्रहणे इदानीमपि शुक्तित्वमेव ग्राह्यम्। तथा च तत्- शुक्तित्वम्। तन्निष्ठप्रकारता- निरूपकत्वं रजते ‘इदं रजतम्' इत्यत्र यथार्थज्ञाने नास्ति, किन्तु रजतत्वनिष्ठप्रकारतानिरूपकत्वमेवास्तीति तत्र नातिव्याप्तिः। ‘तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्' इत्येतावन्मात्रोक्तौ ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वम्' इत्येतद्दलाभावे पुनः रजते 'इदं रजतम्' इत्यत्र यथार्थप्रमायामेवातिव्याप्तिर्दुष्परिहरा। तथाहि- 'तत्' पदेन रजतत्वस्य ग्रहणे तत् रजतत्वम्। तन्निष्ठप्रकारतानिरूपकत्वं रजते 'इदं रजतम्' इत्याकारिकायां यथार्थप्रमायां वर्तते। एवमनुभवत्वमपि वर्तत इति तत्राऽतिव्याप्तिः। अतः तदभाववन्निष्ठविशेष्यतानिरूपकत्वमुक्तम्। तथा च नातिव्याप्तिः। यद्यपि रजते 'इदं रजतम्' इत्याकारकयथार्थानुभवे रजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् वर्तते, तथाऽपि तत्र तदभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। 'तत्' पदेन रजतत्वस्य ग्रहणात्, तदभाववत्- रजतत्वाभाववत् रजतं न भवति। रजतत्वस्य रजते विद्यमानत्वात्। अतः तत्र तद्वन्निष्ठविशेष्यतानिरूपकत्वमेव वर्तते, न तु तदभाववन्निष्ठविशेष्यतानिरूपकत्वम्। तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वं तु शुक्तौ 'इदं रजतम्' इत्याकारकभ्रमात्मके स्मृतिभिन्नेऽयथार्थानुभव एव वर्तत इति तत्र नातिव्याप्तिः। 'तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वम्' अयथार्थानुभवस्य लक्षणम् इत्येतावन्मात्रोक्तौ 'अनुभवत्व'रूपपदस्यानिवेशेऽयथार्थस्मृतौ अतिव्याप्तिः। तथाहि - शुक्तिं दृष्ट्वा 'इदं रजतम्' इत्यनुभवानन्तरं कदाचित् जायमाने तादृशस्मृतिरूपज्ञाने तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तत इति तत्रातिव्याप्तिः। अतः 'अनुभवत्व'रूपदलमपि उक्तम्। एवञ्च नातिव्याप्तिः- यद्यपि शुक्तौ 'इदं रजतम्' इत्याकारकायथार्थस्मृतौ तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तते, किन्तु अनुभवत्वं नास्ति। स्मृतेरनुभवभिन्नत्वात्। अतो नातिव्याप्तिः। नन्वेवं सत्यपि रङ्गरजते दृष्ट्वा 'इमे रङ्गरजते' इत्याकारकसमूहालम्बन-प्रमायामतिव्याप्तिर्दुर्वारा। अस्यां हि प्रमायां रङ्गम्, रजतं च विशेष्ये। रङ्गत्वम्, रजतत्वं च यथासंख्यं विशेषणे। अत्र तत्पदेन रङ्गत्वस्य ग्रहणे, तदभावः- रङ्गत्वाभावः। तद्वत् रजतम्। तन्निष्ठविशेष्यता- निरूपकत्वं ज्ञाने वर्तते। एवं रङ्गत्वनिष्ठप्रकारतानिरूपकत्वं च वर्तते। अनुभवत्वं च वर्तत इत्यतिव्याप्तिः। एवं तत्पदेन रजतत्वस्वीकारेऽपि, तदभावः-रजतत्वाभावः। तद्वत् रङ्गम्। तन्निष्ठविशेष्यतानिरूपकत्वं ज्ञाने वर्तते। रजतत्वनिष्ठप्रकारतानिरूपकत्वं च वर्तते। अनुभवत्वं च वर्तत एवेत्यतिव्याप्तिरिति चेत्, न। प्रकारतानिरूपकत्वं विशेष्यतानिरूपकत्वं च साक्षात् ज्ञानेऽनिवेश्य, तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठप्रकारता, तन्निरूपकत्वविवक्षणेनातिव्याप्तेः परिहारात्। तत्पदेन रङ्गत्वस्वीकारे, तदभाववत् रजतम्। तन्निष्ठविशेष्यतानिरूपिता प्रकारता रजतत्वनिष्ठैव भवति नतु रङ्गत्वनिष्ठा भवति। रजते रजतत्वस्यैव विशेषणतया भानात्। एवं तत्पदेन रजतत्वस्वीकारे, तदभाववत् रङ्गम्। तत्र रङ्गे रङ्गत्वस्यैव विशेषणतया भानात्। रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपिता प्रकारता रङ्गत्वनिष्ठा भवति, न तु रजतत्वनिष्ठा। अतः 'तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता' इत्यस्याभावात् तादृशप्रकारतानिरूपकत्वम् उक्तसमूहालम्बनप्रमायां नास्तीति नातिव्याप्तिः। अस्मिन्नपि लक्षणे यथार्थानुभवलक्षण इव तदभाववन्निष्ठविशेष्यत्वा- वच्छिन्नतन्निष्ठप्रकारताशालित्वमेव विवक्षणीयम् इत्यादिविचारः समानः। ; आलोकः - अख्यातिः एवमस्य भ्रमस्य तदभाववति तत्प्रकारकत्वादेव, भ्रमोऽयमन्यथा- ख्यातिरित्युच्यते। अनन्तरं 'शुक्तिरेव रजततया मया गृहीता' इत्युल्लेखात् अन्यथाख्यातिरेव स्वरसा। 'इदम्' इति पुरोवर्तिशुक्तिविषयकं ज्ञानं प्रत्यक्षम्। 'रजतम्' इति तु स्मृतिरूपमन्यत् ज्ञानमिति प्राचीनमीमांसकाः। एवं ज्ञानद्वयरूपं सदपीदं तथा न ज्ञायत इत्यस्या अख्यातिरिति नाम। परं तु उभयोर्भिन्नज्ञानत्वेन उभयोः परस्परं निरूप्यनिरूपकभावासंभवात्, विशेषणविशेष्यभावोऽपि न स्यात्। दृश्यते च ‘इदं रजतम्' इति ज्ञाने इदन्त्वावच्छिन्नविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता। अत इदमेकं विशिष्टं ज्ञानमित्यन्यथाख्यातिरेव साधीयसी।* टिप्पणी *ननु कथमन्यथाख्यातिरेव साधीयसी ? शुक्तिं दृष्ट्वा रजतमिति ज्ञानं हि प्रत्यक्षम्। तथैव ‘रजतं पश्यामि’ इत्येवाभिलपन्ति सर्वेऽपि। प्रत्यक्षं चेन्द्रियसन्निकर्षजन्यम्। सन्निकर्षश्च चक्षुस्संयुक्तसमवेतत्वरूपः। चक्षुस्संयुक्ते घटादौ समवेतं किल घटत्वादिकं चक्षुषा गृह्यत इति वस्तुस्थितिः। प्रकृते चक्षुस्संयोगः शुक्त्या सहैव वर्तते। तत्समवायस्तु शुक्तित्व एव स्यात्, न तु रजतत्वे। एवं सति कथं रजतत्वस्य भानम्। न च रजतत्वेन यदि सन्निकर्षः स्यात्तदा कथं स भ्रमो भवेत् ? अतोऽयं प्रश्नोऽसमञ्जस एवेति वाच्यम्। प्रश्नानभिज्ञो हि भवान्। पुरोवर्तिनि वस्तुनि विशेषणतया रजतत्वस्याभावेऽपि 'रजतं पश्यामि' इत्युल्लेखः कथं भवतीत्येव प्रश्नः। स उल्लेखः भ्रमरूप एवेति किलोच्यते। अतः को दोषः ? यदि रजतत्वेन सन्निकर्षः स्यात् तर्हि कथं भ्रमो भवेदिति चेत्, पुनरभिप्रायानभिज्ञो भवान्। प्रत्यक्षकारणस्य इन्द्रियसन्निकर्षस्याभावेऽपि कथं प्रत्यक्षं भवेदित्येव प्रश्नः। अयि भोः! मदाशयानभिज्ञस्त्वमेव देवानाम्प्रियः। यदि रजतत्वेन सन्निकर्षः स्यात्तर्हि कथं स भ्रमो भवेत्? सन्निकर्षाभावेऽपि जायमानत्वादेव हि स भ्रम इत्युच्यते। सन्निकर्षो यदि वक्तव्यः, तर्हि तत्र वस्तुना भवितव्यम्। वस्त्वेव तत्र स्याच्चेत्, स भ्रमः कथं भवेत्, अत एव तत्रासतो भानात्, असत्ख्यातिरेवेयमित्यपि हि केचिद्वदन्ति इति चेत्, असतः कथं ख्यातिरित्येव हि प्रश्नः। तथा संज्ञाकरणमात्रत्वात् कथं समस्यायाः परिहारः? इति चेत्, असुराणां प्रियस्त्वमेव मदाशयानभिज्ञः। 'सन्निकर्षाभावेऽपि' इत्युच्यते, ‘जायमानत्वेऽपि’ इत्यप्युच्यते। एवं वदता त्वया मेधाविना स्ववचनविरोधोऽपि नाज्ञायि। भ्रमोऽपि कार्यविशेष एव। कार्यं चेत् कारणं किञ्चित्स्यादेव। कारणाभावेऽपि कार्यं कथं स्यात् ? सैव खलु समस्या प्रकृतेति चेत्; सत्यम्। समस्यैव कथं परिहर्तव्या? सावधानं श्रूयताम्। एवं पण्डितानां परस्पराशयापरिज्ञानादेव दर्शनप्रभेदा अप्यजायन्तेत्येव वस्तुस्थितिः। अतिस्थूले बाह्ये लौकिक एव विषये समस्यापरिहारमजानताम् अत्यन्तमान्तरे ‘यस्यामतं तस्य मतम्, अविज्ञातं विजानताम् विज्ञातमविजानताम्' इति वर्ण्यमानमतिगहनमान्तरमात्मतत्त्वं कियद्वा विवादविषयो भवेदित्यालोच्यताम्। प्रकृते चानुभवमेव परिशीलयामः। रज्जुसर्पभ्रमो वा शुक्तिरजतभ्रमो वा कथं भवतीति विचिन्त्यताम्। पुरतो वर्तमानां रज्जुं, शुक्तिं वा प्रथमं पश्यति जनः। ततस्तत्रालोकक्षयवशाद्वा यतः कुतश्चित्कारणतः तत्रत्योऽसाधारणधर्मः रज्जुत्वरूपः, शुक्तित्वरूपो वा न ग्रहीतुं शक्योऽभूत्। तदैव दीर्घत्वभास्वरशुक्लरूपादिसाधारणधर्मज्ञानात्, पूर्वं कदाचिद् दृष्टं सर्प, रजतं वा स्मरतः पुरुषस्य एतदपि तदिति भ्रमो भवति। न ह्यज्ञातपूर्वसर्पस्य तादृशरजतस्य वा तादृशभ्रमसंभवः। अतो विशेषणांशस्य सर्पत्वस्य, रजतत्वस्य वोपस्थापकसामग्री न सन्निकर्षरूपा, किन्तु स्मृतिरेव। चक्षुस्संयुक्तसमवायस्तु पुरोवर्तिवस्तुगते दैर्घ्यादिरूपे, भास्वरशुक्लादिरूपे वा साधारणधर्मे विश्राम्यति। तदतिरिक्तं सर्पं, रजतं वा स्मर्तुं तदानीं कथं शक्यम् ? ननु यदि विशेषणांशः स्मृतिरूप एव चेत् ‘सर्पं पश्यामि’‘रजतं पश्यामि' इत्याकारकोऽनुभवः कथमिति चेत्, विशेष्येण साधारणधर्मेण च साकं चक्षुस्संन्निकर्षस्य सत्त्वात् तथानुभवो भवति। यथा च प्रत्यभिज्ञायामंशतः पूर्वानुभवपूर्वकत्वेऽपि न स्मृतित्वम्, किन्तु प्रत्यक्षत्वमेव। यथा वा 'सुरभि चन्दनम्' इत्यादौ युगपदिन्द्रियद्वयव्यापारासंभवात् विशेष्यांशस्य चाक्षुषत्वेन तत्प्रभाववशाद्विशिष्टं ज्ञानं प्रत्यक्षमेव, तथैवात्रापि। अत एवात्र भ्रमस्थले 'स्मृतिप्रमोषवादः' इत्यख्यातिवादिनः। स्मृतिप्रमोषो नाम स्मृतित्वाग्रहणम्। अनुभवस्याभावरूपत्वासंभवात्, न केवलं स्मृतित्वा- ग्रहणम्, किन्तु प्रत्यक्षत्वग्रहणमपीत्यन्यथाख्यातिवादिनः। अत एव 'स्वारस्य- मन्यथाख्यातौ' इत्यभियुक्ताः। 'सुरभि चन्दनम्' इत्यादौ तु सौरभं घ्राणेन्द्रियं गृह्णाति, चन्दनं चक्षुरिन्द्रियं गृह्णाति। क्षणभेदस्यातिसूक्ष्मत्वात् युगपद् ग्रहणमिति भाति। विशेषणविशेष्ययोरेके- न्द्रियग्राह्यत्वे न कश्चन क्लेशः। भ्रमस्थले तु अविद्यमानेन कथं चक्षुस्सन्निकर्षः ? तदभावे च कथं ‘रजतं पश्यामि' इत्युल्लेखः ? इति समस्या। वस्तुतः भास्वरशुक्लरूपस्यैव रजतत्वबुद्धिप्रयोजकत्वेन, तस्य च तत्र सत्त्वेन, चक्षुस्संयुक्तसमवायरूपसन्निकर्षस्य सत्त्वे, तथा व्यवहारात्। तस्मात् सुसूक्ष्ममीक्षणेऽन्यथाख्यातिरेव स्वरसा। अत्रेदं चिन्तनीयम्- विशेषणविशेष्योरेकेन्द्रियग्राह्यस्थले प्रमायां भ्रमे वा न कश्चन क्लेशः। भिन्नेन्द्रियग्राह्यत्वे 'सुरभि चन्दनम्' इत्यादौ तु सौरभ्यस्य घ्राणेन्द्रियग्राह्यत्वात्, चन्दनस्य च चक्षुरिन्द्रियग्राह्यत्वात् युगपदिन्द्रियद्वयप्रवृत्तेरसंभवात्, ज्ञानलक्षणप्रत्यासत्त्यैव विशेषणभानमुपपादनीयम्। एवं सति 'सोऽयम्' इत्यादिप्रत्यभिज्ञायामपि, अतीतस्य तत्तांशस्य ज्ञानलक्षणविधयैव भानसंभवात्, एतदेवात्यन्तं साधीयः। विरुद्धकालद्वयसंबन्ध एकस्य कथमिति तु; कालस्याखण्डत्वेनैक्यात्, अतीतादिभेदस्यौपाधिकत्वेन वस्तुस्थिरत्ववादिनां तावान् कालः घटादेरेक एव काल इति न विरोधगन्धोऽपि। 'अशोकचक्रवर्तिकाले' इत्यादिव्यवहारे, यावान् कालः अशोकेन राज्यं शासितं तावान् काल एव बोध्यत इत्यवश्याभ्युपगन्तव्यत्वेन, न विरोधः। ‘सः' इति भूततया निर्देशः, ‘अयम्' इति वर्तमाननिर्देशश्चेतरवस्तूपाधिकतयाऽपि संगच्छते। तत्तद्घटादिदृष्ट्या तु तावान् कालोऽखण्ड एक एवेति वस्तूनां स्थिरत्वसिद्धिः। प्रत्यभिज्ञायाः संस्कारसहकृतेन्द्रियजन्यत्वाङ्गीकारे, तस्या ग्रहणस्मरणात्मकत्वमेव वक्तव्यं भवेत्। तथा सति स्मरणस्य तद्धेतुभूतानुभवमुखनिरीक्षणेनैव प्रामाण्यस्योपपादनीयतया स्वतः प्रमाणत्वासंभवेन कालद्वयसंबन्धसिद्ध्या क्षणिकत्वसिद्धिदुराशाया अवकाशो भवेत्। अस्तु सत्यस्य तथात्वे कः प्रद्वेषः क्षणिकत्ववादिषु। तेन गृहधनकनकादिषु स्थिरत्वबुद्ध्या तेष्वभिमानस्य दुर्जयत्वमपि वारयितुं शक्यते। अन्ततः दीपज्वालायाम्, शरीरे च क्षणिकत्ववादस्यावर्जनीयत्वेन, तत्खण्डनं कथं कर्तुं शक्यमिति चेत्, सत्यम् - शरीरादिषु अभिमानादिनिवृत्त्यर्थं क्षणिकत्वोपदेशो वैदिकानामपीष्ट। 'जन्ममृत्युजराव्याधि- दुःखदोषानुदर्शनम्' (भ.गी.१३-८) इत्याद्युपदेशा विलसन्त्येव शतशः। परन्तु क्षणिकत्वस्य वस्तुतः दुर्निरूपत्वात्तैः प्रसाध्यमानं क्षणिकत्वमप्रामाणिकम्। अतो वैराग्योपदेशोऽपि यथा प्रामाणिको भवेत् तथा कर्तव्यः। केनापि कारणेनापि असत्यवादो न हितावह इति वस्तुस्थितिकथनमावश्यकम्। तत्रापि तत्त्वनिर्णयार्थमेव प्रवृत्ते शास्त्रेऽतिवादास्त्याज्या एव। लोके क्षणिकपदवत्, स्थिरपदस्यापि विषयो वक्तव्यः। एतद्दृष्ट्यैव वैदिकैः क्षणिकत्ववादो निरस्यत इति ज्ञेयम्॥ एवञ्च प्रकृते ‘सोऽयम्' इत्यादिप्रत्यभिज्ञायाः स्मृतिप्रत्यक्षसांकर्यरूपतायां, तस्या अप्रामाण्यनिराकरणमावश्यकमिति तन्निराक्रियते। तत्र तत्तांशस्य कथं भानमिति प्रश्ने, साक्षात् संस्कारात्तद्भानापेक्षया संस्कारमूलकस्मृत्या तद्भानं स्वरसम्। न च तथाभानस्यालौकिकसन्निकर्षमूलत्वापेक्षया, लौकिकोपायैरेव तत्समर्थनं युक्ततरमिति भावनीयम्, कार्यकारणभावनिश्चयस्य त्रैकालिकवस्तुप्रतीतिमूलकत्वं ह्यावश्यकम्। वह्नेर्धूमं प्रति कारणत्वं हि न वर्तमानकालमात्रविषयकम्। अतः सामान्यलक्षणप्रत्यासत्तिरावश्यकी। एवं ‘सुरभि चन्दनम्' इत्यादौ ज्ञानलक्षणाप्यावश्यकी। योगजधर्मस्तु जगत्प्रसिद्धः। अतोऽलौकिकसन्निकर्षोऽनिवार्यः। प्रसिद्धषड्विधसन्निकर्षविलक्षणमिति दृष्ट्यैवालौकिकपदप्रयोगः। प्रकृते ज्ञानलक्षणसन्निकर्षेणैव प्रत्यभिज्ञायां विशेषणभानसंभवान्न कश्चन क्लेश इत्येव युक्ततरम्॥ ; आलोकः - प्रामाण्यविचारः इत्येवं बुद्धिर्निरूपिता। प्रमात्वमप्रमात्वं वा किं स्वतोग्राह्यम्, उत परत: ? इति संशये प्रमात्वं स्वतः, अप्रमात्वं तु परत इति पूर्वोत्तरमीमांसकौ। उभयमपि स्वत इति सांख्याः। अप्रमात्वं स्वतः, प्रमात्वं तु परत इति बौद्धाः। उभयमपि परत इति सिद्धान्तिनः। तत्राप्रामाण्यमेव स्वत इत्यप्रामाणिकेभ्यो रोचेत। प्रामाण्यं स्वतश्चेदनन्तरम् ‘ममोत्पन्नं ज्ञानं प्रमा, न वा' ? इति संशयो न स्यात्। उभयोः स्वतस्त्वमनुभवविरुद्धम्, अप्रयोजकं च। अत उभयं परत इति सिद्धान्त एव शोभनः। ज्ञानं कथं गृह्यते ? इत्यत्रैव विवादे शोभमाने, ज्ञानस्यावान्तरविभागे प्रमायां प्रमात्वं कथं स्वयं गृह्येत ? ज्ञानं स्वप्रकाशम् इति उभौ मीमांसकौ। अनुव्यवसायगम्यमिति सिद्धान्तिनः, मीमांसकैकदेशी मिश्रश्च। नित्यानुमेयमिति भट्टः। एवं सति प्रमात्वं स्वत इति शपथः कथम् ? प्रथमं हि विषय एव गृह्यते, अनन्तरं तु ज्ञानम्, तदनन्तरं च प्रमात्वम्। न हि प्रमात्वं जातिः, येन सहैव गृह्यते। किन्तु तद्वति तत्प्रकारकत्वम्। तच्च प्रवृत्तिसार्थक्ये सति निश्चीयत इति सर्वेषामप्यनुभवः। 'ममोत्पन्नं ज्ञानम् प्रमा, सफलप्रवृत्तिजनकत्वात्' इत्यनुमानेन खलु प्रामाण्यम् = प्रमात्वं गृह्यते। अतश्च विषयग्राहकसामग्री ज्ञानम्, ज्ञानग्राहकसामग्री अनुव्यवसायः, प्रामाण्यग्राहकसामग्री तु उक्तानुमानम्। एवञ्च विषयग्रहणसमये विषयिणोऽग्रहणवत्, विषयिग्रहणसमये तद्गतप्रामाण्यमपि न गृह्येतेत्येव युक्तम्। युगपद्ग्रहणद्वयस्याननुभवात्। अनन्तरं संशयदर्शनाच्च प्रामाण्यमप्रामाण्यं च परत इत्येव स्वरसम्। टिप्पणी प्रामाण्यवादः ज्ञानानां प्रामाण्यं स्वतः ? उत परतः ? इत्यत्र बहु विप्रतिपद्यन्ते विपश्चितः। ननु भोः ! किमर्थमेवं क्लिश्यन्ति विपश्चित्तमाः ? यत् येन गृह्यते, तन्निष्ठा जातिरपि तेनैव गृह्यते इति प्रसिद्धो नियमः। ज्ञानं हि मनोजन्येनानुव्यवसायेन गृह्यते। ज्ञानत्ववत् प्रमात्वमपि गृह्येतेति कः क्लेश इति चेत्, ज्ञानत्वं ज्ञानपदशक्यतावच्छेदकतयैव सिद्ध्येत्। प्रमात्वं तु न तथा वक्तुं शक्यम्। ममोत्पन्नं ज्ञानं प्रमा, न वा ? इति संशयस्तु सर्वेषां कदाचित् दृश्यते। प्रमात्वं यदि गृहीतम् ? तर्हि कथं संशयः ? प्रमात्वं हि तद्वति तत्प्रकारत्वं, नाखण्डः कश्चित् धर्मः। तत्तु प्रथमं न गृह्येतैवेति युक्तो विचारः। तत्र - (१) प्रामाण्यं स्वतः, अप्रामाण्यं परत इति वैदिकाः। (२) अप्रामाण्यं स्वतः, प्रामाण्यं तु परत इति बौद्धाः। (३) उभयमपि परत इति नैयायिकाः। (४) उभयमपि स्वत इति सांख्याः। वैदिकानां वादस्तु वेदप्रामाण्यसंरक्षणसंभ्रमादिति स्पष्टम्। अत एव विचारक्षेत्रे नागच्छति। तर्काप्रतिष्ठानात् (ब्र. सू. २-१-११) इति हि वैदिकाः। मानवास्तु बुद्धिजीविन इति प्रसिद्धम्। बौद्धास्तु विकल्पानामप्रामाण्यम्, स्वलक्षणज्ञानमेव प्रमाणमिति मन्वानाः तथात्यभिनिविष्टाः। इदं च लोकानुभवविरुद्धत्वादेवौदासीन्यमर्हति। सांख्यैस्तु अन्तःकरणवृत्तिरेवार्थरूपेण परिणमत इत्यङ्गीकारात्, ज्ञानं स्वांशे प्रमाणमेव सर्वेषाम्। भ्रमस्थलेऽपि ‘मम ज्ञानमेव नोत्पन्नम्' इत्यनुभवति सर्वोऽपि। अतः स्वांशे तत् स्वतः प्रमाणमेव सर्वेषाम्। अत इदमपि न विचारार्हम्। एवं हि प्रमाभ्रमविभागोऽपि न स्यात्। एवं सति स्वपक्षपरपक्षविभागोऽपि न स्यात्। अतश्च परिशेषात् न्यायनय एव विचारार्हः। वस्तुतस्त्वयं विचारो वेदप्रामाण्यस्योदर्करूप इत्येवं मन्यन्ते। वेदा हि वैदिकानां परमं प्रमाणम्। न हि तत्प्रामाण्ये कश्चिद्वैदिकः कदापि संशेते। मातापितृसहस्रेभ्योऽपि हिततमा वेदा इति महात्मानोऽद्यापि घोषयन्त्येव। तदेतदसहमाना मध्यकालिकबौद्धा एव वेदप्रामाण्यापहारायैव ज्ञानानामप्रामाण्यमेवौत्सर्गिकमाशेरते। तदिदं 'स्वस्य नेत्रद्वयनाशेऽपि तवैकमेव वा नेत्रं नश्यतु' इत्याशंसातुल्यमेव। न ह्येतावतापि वेदा न हि नष्टाः, न वा क्षीणाः। न हि चक्षुषो निमीलनेन ललाटन्तपो जगच्चक्षुः नश्यति। अतोऽवैदिकानामिमं श्रद्धामूलकं वादमुपेक्ष्य वस्तुतत्त्वं विचारयामः। को वा मतिमान् स्वस्योत्पन्नं ज्ञानमप्रमेति जानन् कुत्रचित्प्रवर्तेत। अतश्च ज्ञानानामप्रामाण्यं स्वतश्चेत् जगत्सर्वं निष्क्रियं संपद्येत। एवमेव प्रामाण्यस्य स्वतस्त्वे उत्तरकाले संशयविचारादिकमर्थहीनं स्यात्। दार्ढ्याय तथेति चेत् स्वतः प्रामाण्यं सङ्केतमात्रं स्यात्। वस्तुतस्तु स्वतः प्रामाण्यवादो वेददृष्ट्यैव, वेदप्रामाण्यस्य प्रश्नानर्हत्वा- द्वैदिकानाम्। ननु स्वतः प्रामाण्यस्योत्सर्गत्वाभावे मानवानां प्रतिदिनं दृश्यमाना असंख्याकाः प्रयत्नाः 'कथं स्युरिति चेत्, न, अप्रामाण्यज्ञानाभावमात्रादेव तदुपपत्तेः, तथैव दर्शनाच्च। व्यवहारे तु वक्तृपुरुषे आप्तत्वज्ञानादेव प्रवर्तन्ते सर्वेऽपीति सर्वानुभवसिद्धम्। अतश्च ममोत्पन्नं ज्ञानं प्रमा, सफलप्रवृत्तिजनकत्वात् इत्यनुमानादेव प्रामाण्यं गृह्यत इत्येव स्वरसम्। वेदस्य नित्यसर्वज्ञेश्वरोपदिष्टत्वादेव निर्दुष्टत्वम्। पुरुषबुद्धिमूलकत्वाभावादेवापौरुषेयत्वम्। अत एव भ्रमप्रमादविप्रलंभाद्यसंभवोऽपि सिद्धः। एवञ्च 'व्यवहारे न्यायनयः' इत्येव प्रामाणिकम्। एतदर्थमेवायमवतीर्णो विद्यास्थानेषु परिगणित इत्यादिकं न्यायमञ्जर्यां विस्तरेण द्रष्टव्यम्। अत एव 'व्यवहारे भट्टनयः' इति सङ्केतमात्रं ज्ञेयम्। भट्टोऽपि हि तार्किकमीमांसकः, न तु शुद्धमीमांसकः। ज्ञानानां प्रामाण्यं स्वतो वा परतो वेति विचार्यते। 'स्वतः' इत्यस्यार्थः कः ? ‘परतः’ इत्यस्यार्थः कः ? अत्रापि विभागो वर्तते - प्रामाण्यं स्वत एवोत्पद्यते वा, परत एवोत्पद्यते वा? इति प्रामाण्योत्पत्तौ विकल्पः। प्रामाण्यज्ञप्तिः- प्रामाण्यनिश्चयः स्वतो वा ? परतो वा ? इति ज्ञप्तौ विकल्पः। घटादयः खलु बाह्याः पदार्थाः चक्षुरादिभिः गृह्यन्ते। अत्र ग्रहधातोः ज्ञानमर्थः। इदं च ज्ञानं व्यवसाय इत्युच्यते। एवम् उत्पन्नं ज्ञानम् अनन्तरं मनसा गृह्यते। अस्य 'अनुव्यवसायः' इत्यर्थः। व्यवसायमनुजातः- अनुव्यवसायः। तेन ज्ञाने गृह्यमाणे तद्गतं प्रामाण्यम् अप्रामाण्यं वा केन गृह्यते? स्वत एव गृह्यते इति केचन। यदि स्वतः, तर्हि अनन्तरं 'ममोत्पन्नं ज्ञानं प्रमा, न वा?' इति संशयो न स्यात्। संशयदर्शनात् प्रामाण्यं न स्वतः; किन्तु परत इति नैयायिकाः। पदार्थाः खलु सामान्यविशेषस्वरूपाः। अतस्तेषां सामग्र्यामपि सामान्यसामग्र्यः, विशेषसामग्र्य इति भिद्यन्ते। यथा पटसामान्यसामग्री तन्तवः। पटविशेषस्य पीतपटस्य तु पीततन्तवः। एवं ज्ञानसामान्यसामग्री आत्ममनस्संयोगादिरूपा। ज्ञानविशेषस्य प्रत्यक्षादेः इन्द्रियादिरूपा सामग्री भिद्यते। एवं ज्ञानविशेषरूपः प्रमा, भ्रमश्च। अतश्च ज्ञानसामान्यसामग्र्यतिरिक्ता प्रमाभ्रमसामग्री का ? इति विचार एव उत्पत्तिविचारः कथ्यते। उत्पन्नस्य प्रमात्मकज्ञानस्य प्रमात्वम् प्रामाण्यं कथं गृह्यत इति विचारो ज्ञप्तिविचार इति कथ्यते। अत्र ‘स्वतः’ ‘परतः’ इत्यस्य कोऽर्थः ? अत्रापि प्रामाण्यं ज्ञाने कथमुत्पद्यते ? किं स्वतः? उत परतः? एवं प्रामाण्यस्योत्पत्तौ प्रमाण्यस्य ग्रहणे च विकल्पः। एवं ज्ञाने प्रामाण्यं स्वत एवोत्पद्यते स्वत एव गृह्यते च इति स्वतस्त्ववादः। परत एवोत्पद्यते इति, परत एव = अनुमानादेव गृह्यत च इति परतस्त्ववादः। अतश्च प्रामाण्यं ज्ञानग्राहकसामग्रीजन्यमिति उत्पत्तौ स्वतस्त्वम्, ज्ञानग्राहकसामग्रीग्राह्यत्वमेव ज्ञप्तौ स्वतस्त्वम्। ननु! यदि ज्ञानग्राहकसामग्रीग्राह्यत्वमेव प्रामाण्ये स्वतस्त्वम्, प्राभाकरमतेऽपि अप्रामाण्यस्य परत एव ग्रहणाङ्गीकारात्, 'इदं ज्ञानम् अप्रमा, विफलप्रवृत्तिजनकत्वात्' इत्यप्रामाण्यग्राहकानुमितिसामग्र्या पक्षभूते ज्ञाने अप्रामाण्यस्यैव ग्रहणात् कथं प्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यम्? इति चेत्, 'तदप्रामाण्याग्राहक' इति ज्ञानग्राहकसामग्र्यां विशेषणेन व्यभिचाराभावात्। उक्तानुमितिसामग्र्या अनुमितौ प्रामाण्यग्रहणेऽपि पक्षभूते ज्ञानेऽप्रमाण्यग्रहणेन व्यावृत्तेः। तच्छब्दस्य यस्मिन् विषयिणि अनुमित्यात्मिके प्रामाण्यं स्वतो गृह्यते, सोऽर्थः। पक्षभूतज्ञान एव तत्सामग्र्या अप्रामाण्यं गृह्यते, अनुमितौ तु प्रामाण्यमेव गृह्यते। ननु नैयायिकमते 'इदं ज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात्' इत्याकारानुमिति- सामग्र्या (पक्षविधया) ज्ञानग्राहकत्वात्, प्रामाण्यग्राहकत्वाच्च, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं वर्तत इति अपसिद्धान्त इति चेत् न, ज्ञानग्राहकसामग्र्यां यावत्त्वस्य विशेषणेनादोषात्। यावत्त्वं च साकल्यरूपम्। तादृशसकलसामग्रीग्राह्यत्वमर्थः। उक्तप्रामाण्यग्राहकसामग्र्या, पक्षविधया ज्ञानग्राहकत्वेऽपि, ज्ञानग्राहकसकलसामग्र्यन्तर्गतया ‘अहं घटज्ञानवान्' इत्याद्यनुव्यवसायसामग्र्या प्रामाण्याग्रहणान्न काप्यनुपपत्तिः। तथा च तदप्रामाण्याग्राहकज्ञानग्राहकयावत्सामग्रीग्राह्यत्वं स्वतस्त्वम्, तदभाव एव परस्त्वम्। ज्ञानग्राहिका च सामग्री प्राभाकरमते, ज्ञानोत्पत्तिहेतुभूता स्वप्रकाशसामग्री। तयैव प्रामाण्यस्य ग्रहणात्, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं सङ्गच्छते। भाट्टमते च ज्ञानं न स्वप्रकाशम्, किन्तु ज्ञाततालिङ्गकानुमानगम्यम् 'अहं घटज्ञानवान्, घटविषयज्ञाततायाः' इत्यनुमानमेव ज्ञाने प्रमाणम्। तथा तदप्रामाण्या- ग्राहिकया ज्ञानग्राहिकया च तादृशानुमितिसामग्र्या प्रामाण्यस्यापि ग्रहणात्, प्रामाण्यस्य स्वतस्त्वं सङ्गच्छते।। मिश्रमते च - नैयायिकमतवदेव ज्ञानं न स्वप्रकाशम्, न वा भाट्टवत् अनुमित्या ग्राह्यम्, हेतुज्ञानादीनामुपपादयितुमशक्यत्वात्। किन्तु, ज्ञानम् अनुव्यवसायेनैव गृह्यते। परं तु प्रामाण्यस्याप्यनुव्यवसायेनैव ग्रहणात्, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं सिद्धम्।। सिद्धान्ते- ज्ञानसामग्री अन्या, ज्ञानग्राहकसामग्री अन्या, प्रामाण्यग्राहकसामग्री चान्येति परतस्त्वसिद्धिः॥ यदा चक्षुस्संयोगादिना 'अयं घटः' इत्यादिज्ञानं जायते, तदा घटमात्रमेव तेन ज्ञानेन गृह्यते, न तु घटज्ञानम्। ज्ञानं ह्यान्तरम्, घटस्तु बाह्यः। उभयविषये व्यापारद्वयस्य युगपदसंभवात्, प्रथमं जायमानं ज्ञानं घटमात्रविषकम्, विषयस्य च बाह्यत्वात्, विषयाभिमुखत्वमेव ज्ञानस्य स्वरसम्। ज्ञानं त्वान्तरमनन्तरम् अनुव्यवसायेनैव गृह्यते। अनेनैव, युगपद्विषयस्य विषयिणश्चाग्रहणात्, ज्ञानानां स्वप्रकाशत्वमपि गतम्, किन्तु अनुव्यवसायेनैव ज्ञानं गृह्यते। विषयस्य घटादेः ग्रहणम्, विषयिणो ज्ञानस्य ग्रहणम् इति ग्रहणद्वयासंभवात् अननुभवाच्च, उभयोः प्रत्येकमेव ग्रहणम्। एवं विषयविषयिणोर्युगपदग्रहणादेव, प्रामाण्यस्यापि प्रत्येकमेव ग्रहणम्। स्वतोग्रहणेऽनन्तरं प्रामाण्यसंशयतद्विचारादेरसंभवात्। अतः सफलप्रवृत्तिजनकत्वानुमानेनैव प्रामाण्य- ग्रहणम्।। प्रमाणानि यथार्थनुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दाभेदात्॥३५॥ ; आलोकः - प्रमाणवर्गः यथार्थानुभवश्चतुर्विधः। प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधम् - प्रत्यक्षानुमानोपमानशब्दभेदात्। ; आलोक- व्याख्या यथार्थानुभवं विभजते - यथार्थेत्यादि। तत्करणम् यथार्थानुभवकरणम्। करणवर्गे पठितस्य प्रत्यक्षपदस्य इन्द्रियमर्थः। कार्यवर्गे पठितस्य प्रत्यक्षस्य प्रत्यक्षज्ञानमर्थः। प्रत्यक्षात्मकानुभवे करणम् इन्द्रियम्, अनुमितौ करणम् अनुमानम्, उपमितौ करणम् उपमानम्, शाब्दबोधे करणं शब्द इति यथासंख्यमन्वयः। ; तर्कसंग्रहः असाधारणकारणं करणम्। ; आलोक- व्याख्या करणस्य लक्षणमाह असाधारणेत्यादि। न साधारणम् असाधारणम्। असाधारणं च तत् कारणम् असाधारणकारणमिति प्राचीनप्रक्रियानुरोधेन। कालेश्वरादीनि साधारणकारणानि। तानि हि मध्ये व्यापारमन्तरा साक्षात्कारणानि। एवञ्चासाधारणकारणं नाम व्यापारद्वारा कारणमिति प्राचीनाशयः। न चैवं तर्हि चक्रभ्रमणमपि साधारणकारणं स्यात्, तेषां व्यापारान्तराभावादिति वाच्यम्; दण्डादीनां कारणत्वनिर्वाहार्थं किल मध्ये चक्रभ्रमणकल्पनम्। अतस्तस्य तेनैव सिद्धमसाधारणत्वम्। नैवं कालादाविति। साधारणं च तत् कारणं साधारणकारणम्। न साधारणकारणं असाधारणकारणमिति नवीनमतानुरोधेन। प्राचीनप्रक्रियानुसारेण बोध:- असाधारणत्वं नाम व्यापारवत्त्वम्। व्यापारवत्कारणं करणमित्यर्थः। कारणं नाम कारणतावत्। व्यापारोऽस्मिन्नस्तीति व्यापारवत्। अस्येत्यत्र इदंशब्दस्य कारणमर्थः। सप्तम्या अधिकरणत्मर्थः। प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। अस्धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया निरूपितत्वसंबन्धेनाधेयतायामन्वयः। तथा च कारणनिष्ठाधिकरणतानिरूपिताधेयताश्रयो व्यापार इति विग्रहवाक्यबोधः। व्यापारनिष्ठाधेयतानिरूपिताधिकरणतावत् कारणम् इति समासवाक्यबोधः। तथा च व्यापारविशिष्टमिति व्यापारवत्पदस्यार्थः। वैशिष्ट्यं च जनकत्वरूपम्। आधाराधेयभावोऽपि जनकतासंबन्धेन। व्यापारजनकं कारणं करणमित्यर्थः। तज्जन्यत्वे सति तज्जन्यजनको व्यापारः। यथा दण्डश्चक्रभ्रमणद्वारा घटं जनयति। अतो द्वारभूतं चक्रभ्रमणं व्यापार इत्युच्यते। दण्डजन्यत्वमात्रोक्तौ फले घटेऽतिव्याप्तिः। अतस्तज्जन्यजनकत्वम्। दण्डजन्यघटजनकत्वस्य घटेऽभावान्नातिव्याप्तिः। तज्जन्यजनकत्वमात्रोक्तौ करण एवातिव्याप्तिः। दण्डजन्यघटजनकत्वस्य दण्ड एव सत्त्वात् दण्डो व्यापारो भवेत्। अतस्तज्जन्यत्वम्। दण्डस्य दण्डजन्यत्वाभावान्नातिव्याप्तिः। व्यापारवत्त्वे सति कारणत्वं करणस्य लक्षणम्। अस्य चक्रभ्रमणरूपव्यापारलक्षणस्य दण्डरूपकरणे समन्वयः। तथा हि चक्रभ्रमणरूपव्यापारनिरूपितहेतुत्वं दण्डे वर्तत इति व्यापारवत्त्वं तत्र वर्तते। एवं घटं प्रति कारणत्वमपि वर्तत इति लक्षणसमन्वयः। केवलं 'कारणत्व' मात्रोक्तौ साधारणकारणे कालादावतिव्याप्तिः। अतः 'व्यापारवत्त्वम्' इत्युक्तम्। कालेश्वरादीनां कार्यसामान्यं प्रति साक्षात्कारणत्वम्, न तु सद्वारककारणत्वम्, तेन च तानि व्यापारवत्कारणानि न भवितुमर्हन्तीति नातिव्याप्तिः। केवलं ‘व्यापारवत्त्वम्' इत्येतावन्मात्रोक्तौ फले (घटरूपफले) करणलक्षणस्यातिव्याप्तिः। घटरूपकार्येऽपि व्यापारजन्यत्वरूपस्य सम्बन्धस्य विद्यमानत्वात् व्यापारवत्त्वं फले (घटरूपकार्येऽपि ) वर्तते इत्यतः 'कारणत्वम्' इति दलम् दत्तम्। तथा च नातिव्याप्तिः। घटरूपफलं न कारणं, किन्तु कार्यम्। अतो न कापि हानिः। एतत् प्राचीनप्रक्रियानुसारेण बोध्यम्। नवीनप्रक्रियानुसारेण तु साधारणकारणत्वं नाम कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्। असाधारणत्वं नाम कार्यत्व- व्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्। आश्रयत्वस्य चाभेदसम्बन्धेन करणे अन्वयः। तथा च कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयाभिन्नं करणम् इति शाब्दबोधः। लक्षणं तु - कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम्। अस्य लक्षणस्य दण्डादौ समन्वयः। तथाहि - कार्यत्वव्याप्यधर्मावच्छिन्ना कार्यता केति चेत् ? घटत्वावच्छिन्ना कार्यता। तादृशकार्यतानिरूपितकारणत्वं दण्डरूपकरणे वर्तत इति समन्वयः। ननु केवलं कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वम् इति साधारण- कारणत्वमुच्यते चेत्, कालेश्वरादावतिव्याप्तिर्भवेत्, तेषामपि कार्यसामान्यं प्रति कारणत्वात्। तथाहि कार्यत्वावच्छिन्ना कार्यता इति चेत् ? घटपटकुड्यादिनिष्ठकार्यता। सा कार्यता सर्वसाधारण कार्य। तन्निरूपितकारणत्वं तु कालादवपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। अत्र घटनिष्ठकार्यता न कार्यत्वावच्छिन्ना किन्तु कार्यत्वव्याप्यघटत्वादिधर्मावच्छिन्ना। तथा च नातिव्याप्तिः। तथाहि - घटे कार्यताद्वयं वर्तते। एका कार्यत्वावच्छिन्ना सर्वसाधारणी कार्यनिष्ठकार्यता। अन्या तु कार्यत्वव्याप्यघटत्वधर्मावच्छिन्ना विशेषकार्यता। अस्मिन् लक्षणे कार्यत्वव्याप्यघटत्वधर्मावच्छिन्नकार्यताया विवक्षितत्वात् कार्यत्वव्याप्यघटत्वादिधर्मावच्छिन्नकार्यता केति चेत् ? घटत्वावच्छिन्नघटनिष्ठा कार्यता। तादृशकार्यतानिरूपितकारणत्वं दण्डे एव वर्तते न तु कालादौ। कुत इति चेत् ? नवीनानां मते घटत्वावच्छिन्नघटकार्यं प्रति कालादीनां कारणत्वानङ्गीकारात्, कार्यत्वावच्छिन्नघटनिष्ठकार्यं प्रत्येव कालेश्वरादृष्टादीनां कारणत्वात् इति तत्र लक्षणासमन्वयान्नातिव्याप्तिरिति। अर्वाचीनास्तु- फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमित्याहुः। एतद्दृष्ट्या करणकारणपदार्थो विपरीतौ भवतः। 'लिङ्गपरामर्शोऽनुमानम्' इत्येतदेतन्मतानुसारेण। इदं तु पाणिनिसूत्रादिविरुद्धम्। किन्तु व्यापारवत्कारणं करणमित्येव समीचीनम्। ; तर्कसंग्रहः कार्यनियतपूर्ववृत्ति कारणम्। कारणलक्षणमाह - कार्येत्यादि। नियतं च तत् पूर्ववृत्ति च नियतपूर्ववृत्ति। कार्यस्य नियतपूर्ववृत्ति कार्यनियतपूर्ववृत्तीति विग्रहः। कार्यस्य नियतं कार्यस्य पूर्ववृत्ति चेत्यर्थः। 'कार्यस्य' इत्यत्र षष्ठ्या निरूपितत्वमर्थः। नियतत्वं नाम व्यापकत्वम्। व्यापकत्वं नाम तदधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वम्। षष्ठ्यर्थनिरूपितत्वस्याश्रयतासम्बन्धेन अधिकरणतावदेकदेशेऽधिकरणतायामन्वयः। तथा च कार्यनिरूपिताधिकरणता- वद्वृत्त्यत्यन्ताभावाप्रतियोगित्वाश्रयः। आश्रयत्वस्याभेदसम्बन्धेन कारणेऽन्वयः। तथा च कार्यनिरूपिताधिकरणतावद्वृत्त्यत्यन्ताभावाप्रतियोगित्वाश्रयाभिन्नं कारणम्। एवं कार्यस्य पूर्ववृत्ति इत्यत्र षष्ठ्या निरूपितत्वमर्थः। पूर्ववृत्तित्वस्याश्रयतासम्बन्धेन कारणेऽन्वयः। तथा च कार्यनिरूपितपूर्ववृत्तित्वाश्रयाभिन्नं कारणम्। तथा च आहत्य बोधः- 'कार्यनिरूपितत्वाश्रयाधिकरणतावद्वृत्त्य(कार्याधिकरणवृत्त्य)त्यन्ताभावाप्रतियोग्यभिन्नं कार्यनिरूपितपूर्ववृत्त्यभिन्नं कारणम् इति। लक्षणं तु- कार्याधिकरण- वृत्त्यत्यन्ताभावाप्रतियोगित्वे सति कार्यपूर्ववृत्तित्वं कारणत्वम्। 'घटं प्रति दण्डः कारणम्' इत्यत्र दण्डरूपकारणे समन्वयः। कार्याधिकरणम् (घटाधिकरणम्) घटोत्पत्तिदेशः। तद्वृत्तिर्योऽत्यन्ताभाव इति चेत् ? न हि दण्डाभावो भवितुमर्हति। किन्तु - पटाद्यभावः। तत्प्रतियोगि पटादिवस्तु। अप्रतियोगी दण्ड इति दण्डे घटाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वं वर्तते, एवं घटपूर्ववृत्तित्वमपि वर्तते। ‘कार्यपूर्ववृत्तित्वम्' कारणत्वम् इत्येतावन्मात्रोक्तौ रासभादावतिव्याप्तिः। तस्याऽपि घटपूर्ववृत्तित्वमाकस्मिकता वर्तते। अतः ‘कार्यनियतत्वम्’ इति विशेषणम्। यद्यपि रासभादौ कार्य पूर्ववृत्तित्वमस्ति, परन्तु कार्यनियतत्वं नास्ति। कुत इति चेत् ? अन्यत्र कुत्रचित् रासभाभावेऽपि घटोत्पत्तेर्दर्शनात् तदधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमेव भवति रासभादौ, अप्रतियोगित्वं न भवतीति तत्र नातिव्याप्तिः। केवलं कार्यनियतत्वमात्रोक्तौ घटे(कार्ये) अतिव्याप्तिः। कार्याधिकरणवृत्त्यत्यन्ताभाव इति चेत्, कार्याधिकरणे न हि घटात्यन्ताभावो भवितुमर्हति। घटाधिकरणे घटाभावः कथं स्यात् ? अतः पटाद्यभावः स्वीकार्यः। तत्प्रतियोगी पटः। अप्रतियोगी घटो भवत्येवेति घटरूपकार्य एव कारणलक्षणस्यातिव्याप्तिः। अतः कार्यपूर्ववृत्तित्वविशेषणम्। स्वस्य स्वपूर्ववृत्तित्वस्य विरुद्धत्वात् घटपूर्ववृत्तित्वं घटे नास्तीति नातिव्याप्तिः।* व्यापारवत्कारणं करणमिति प्राचीनाः। असाधारणं कारणं करणमिति नव्याः। फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमित्यर्वाचीनाः। परन्तु 'साधकतमं करणम्' इति भगवान् पाणिनिः। अतिशयेन साधकं साधकतममिति संप्रतिपन्नम्। अतिशयः कः ? अस्योत्तरदानेऽत्यन्तं क्लिश्यन्ति मेधाविनोऽपि। सप्तविधकारकेषु अन्यतमं तु करणकारकम्। तच्च तृतीयान्तपदवाच्यम्। ‘असिना छिनत्ति' 'चक्षुषा पश्यति' 'पद्भ्यां गच्छति' इत्यादिव्यापाराविष्टं कारकं करणमिति प्राचीनमतमेव साधीयः। कारकाणां मध्ये तृतीयाप्रकृत्यर्थभूतमेव अस्यादिकमुद्यमनादिरूपकर्तृक्रिययाऽविष्टं भवतीति तदेव करणम्, नान्यत्काष्ठादिकम्। काष्ठादिकं तु कर्तृक्रियाजन्यफलशालित्वात् कर्म भवति। चैत्रः असिना काष्ठानि छिनत्ति इति खलु प्रयोगः। अतः त्रिविधकारणेषु यत् क्रियाविष्टम्, तदेव करणम्। अधिकमन्यत्र। टिप्पणी *अन्यथासिद्धिः- कार्यनियतपूर्ववृत्तिकारणमिति कारणलक्षणमुक्तम्। कार्यनियतत्वं च कार्यकारणयोरन्वयव्यतिरेकसहचारदर्शनादवसीयते। यत्सत्त्वे यत्सत्त्वम् -- अन्वयसहचारः। यदभावे यदभाव इति व्यतिरेकसहचारः। यथा दण्डसत्त्वे घटसत्त्वम्, दण्डाभावे घटाभाव इति। परन्तु दण्डे सति तेन साकमेव दण्डगतरूप-दण्डत्वयोरपि सत्त्वेन अन्वयव्यतिरेकसहचारदर्शनस्य तयोरपि समानत्वात् घटकारणत्वापत्तिरित्याक्षेप इष्टापत्तिरिति न कोऽपि वदति। तत् कुतः ? इति विमर्शनीयम्। एवं सति दण्डरूपसत्त्वे घटसत्त्वम्, दण्डरूपाभावे घटाभाव इति वा दण्डत्वसत्त्वे घटसत्त्वम्, दण्डत्वाभावे घटाभाव इति वा नियमं न कोऽपि हि वक्ति। तत् कुत इति प्रष्टव्यम्। कारणेन सहाविनाभूतानां बहूनां पदार्थानामन्वयव्यतिरेकयोस्समानत्वेऽपि, कारणत्वं को वा जानाति अनुभवे वर्तमानो जनः ? अनुभवदूराणां केवलवाचाटानामेवेयमाशङ्का। स्तनन्धयोऽपि बुभुक्षाशमनं मात्रधीनं जानाति, तामुपसर्पति च। कार्यकारणभावमयो हि लोकस्सर्वं स्वयं ज्ञात्वा सदा प्रयतमानो दृश्यत एवेत्यन्यथासिद्धिशङ्का पुस्तकपण्डितानामेव। किञ्चान्ते अवश्यक्लृप्तनियतपूर्ववृत्तिभिरेव कार्यसंभवे तद्भिन्नं सर्वमन्यथासिद्धम् इत्येव पर्यवसानस्य प्रदर्शनेन तस्मिन् कारणत्वनिर्णायकस्य नियतपूर्ववृत्तित्वस्यैव प्रवेशनेऽन्योन्याश्रयादिश्च। अतः क्षोदक्षमविचारेण ज्ञायते शब्दवर्धनपराणामनुभवरहितानामेवायमाडम्बरः। ; तर्कसंग्रहः कार्यं प्रागभावप्रतियोगि। ; आलोक- व्याख्या कार्यस्य लक्षणमाह कार्यमित्यादि। प्रागभावस्य प्रतियोगि प्रागभावप्रतियोगि। ‘प्रागभावस्य' इत्यत्र प्रकृतेः प्रागभावोऽर्थः। षष्ठ्या निरूपितत्वमर्थः। ‘प्रतियोगि' इत्यस्य प्रतियोगितावत् अर्थः। षष्ठ्यर्थनिरूपितत्वस्याश्रयतासम्बन्धेन प्रतियोगितावदेकदेशे प्रतियोगितायामन्वयः। तथा च प्रागभावनिरूपितत्वाश्रयप्रतियोगितावत् (प्रतियोगिताश्रयः) इत्यासीत्। आश्रयस्य चाभेदसम्बन्धेन कार्येऽन्वयः। तथा च प्रागभावनिरूपितप्रतियोगितावदभिन्नं कार्यम् इति बोधः। लक्षणं तु प्रागभावप्रतियोगित्वम्। लक्षणस्यास्य घटरूपकार्ये समन्वयः। यस्मिन् कार्ये समन्वयः कर्तव्यः, तस्य प्रागभावो ग्राह्यः। प्रकृते घटरूपकार्ये समन्वयस्य कर्तव्यत्वात् घटप्रागभावः स्वीकर्तव्यः। प्रागभावः घटप्रागभावः। तन्निरूपितप्रतियोगित्वं घटे वर्तत इति लक्षणसमन्वयः। केवलं 'अभावप्रतियोगित्वम्' इत्येतावन्मात्रोक्तौ नित्येऽप्याकाशे अतिव्याप्तिर्दुष्परिहरा। तथाहि प्रकृते ‘अभावः’ इत्यनेन अन्योऽन्याभावस्वीकारे 'घटः आकाशो न' इत्याकारकान्योऽन्याभावप्रतीतेः प्रामाणिकत्वात्, तत्प्रतियोगित्वमाकाशे भवति। किन्तु आकाशस्तु नित्यः। तस्य कार्यत्वापत्तिः। अतस्तत्राऽतिव्याप्तिः। अतः प्रागभावेत्युक्तम्। तेन चान्योन्याभावस्य स्वीकर्तुमशक्यत्वात् नातिव्याप्तिः। आकाशस्य नित्यत्वात्, तस्य प्रागभावाभावात् नातिव्याप्तिः। कारणलक्षणस्य प्रदर्शितत्वात् कारणतानिरूपकं कार्यमिति वस्तुस्थितिः। पूर्वमसत् कारकव्यापारैर्निष्पाद्यते इति सिद्धान्तात्। असत्कार्यवादिनो ह्येते। तद्दृष्ट्या प्रागभावप्रतियोगित्वं लक्षणमुक्तम्। नन्वसतः शशशृङ्गादेः उत्पत्त्यभावात्, कथं कार्यम-सदित्युच्यत इति चेत्, सतो वात्मादेरुत्पत्त्यभावात् सत्कार्यवादो वा कथम् ? वस्तुतस्तु - शशशृङ्गमिति न कश्चन पदार्थः। अतः सर्वथासतः शशशृङ्गादेरपि नोत्पत्तिः। सदा सत आत्मादेरपि उत्पत्तिर्नास्ति। किन्तु, कदाचिदसतः कदाचित्सत्त्वमेव ज्ञापयति असत्कार्यवादस्य प्रामाणिकताम्। वस्तुतस्त्वारम्भवादिन एते। 'कटं कर्तुमारभते' 'घटं कर्तुमारभते' 'पटं कर्तुमारभते' इत्येव व्यवहारात् 'आरम्भवादः' इत्येवास्य नाम। इयमेवैतच्छास्त्रमर्यादा।* टिप्पणी *कार्यकारणभावस्थलं चतुर्विधं दृश्यते (१) असत्कार्यवादः अथवा आरम्भवादः नैयायिकानाम्। (२) सत्कार्यवादः अथवा परिणामवादः सांख्यानाम्। (३) संघातवादः बौद्धानां - वैभाषिकाणां सौत्रान्तिकानाञ्च। (४) विवर्तवादः कार्यमिथ्यात्ववादः बौद्धानाम्, निर्विशेषाद्वैतवादिनां शाङ्कराणां, शब्दविवर्तवादिनां वैयाकरणानां च। बौद्धेष्वपि योगाचाराः विज्ञानविर्तवादिनः, माध्यमिकास्तु शून्यविवर्तवादिनः। कार्यकारणभाव एव नास्ति, अन्वयतो व्यतिरेकतश्च व्यभिचारात् इति सर्वापलापवादिनः, तदनुयायिनञ्च। अतश्च असत्कार्यवादो द्विविधः— पूर्वमसत्, अनन्तरं सदित्येकः। पूर्वमप्यसत्, अनन्तरमप्यसदिति द्वितीयः। आद्यो वैदिकानाम्,द्वितीयः सर्वापलापवादिनां बौद्धानाम्। वैदिकास्तु सर्वास्तित्ववादिनः। अत एव सत्कार्यवादिनः। न्यायशास्त्रस्य लोकाश्रयत्वात्, पुरुषप्रयत्नस्यास्ति लोके स्थानम्। जानाति, इच्छति, यतत इति खलु लौकिकक्रमः। अत एवैते आरम्भवादिनः। आरम्भः प्रयत्नः। कटं कर्तुमारभते, घटं कर्तुमारभते इति खलु व्यवहरन्ति लोके। एतावदेव क्षेत्रं न्यायशास्त्रस्य। बीजं वृक्षरूपेण परिणमते इति तत्र परिणामवाद एव। अलौकिकस्स विषय इति न तत् क्षेत्रं न्यायशास्त्रस्य। इतरवादास्तु तत्त्वमुक्ताकलापव्याख्यायां द्रष्टव्याः। अन्वयव्यतिरेकव्यभिचारपरिहारादिकं मङ्गलवादोक्तन्यायेन ज्ञेयम्॥ सारतस्तु मनुष्याणामशक्त्या दुर्निरूपत्वविचारोऽन्यः, वस्तुस्थिति- वादोऽन्यः। तावता कार्यकारणभाव एव नास्तीत्यादिकम् अहङ्कारादज्ञानाद्वा भवेत्। अन्यथा भोजनादावपि प्रवृत्तिर्न स्यात्। क्षुन्निवृत्तिसाधनत्वं ज्ञात्वा तु प्रतिदिनं भुङ्क्ते नरः। अत एवोक्तमभियुक्तैः कार्यकारणभावापलापे चार्वाका निराहारा प्रियेरन् इति त्रिकालसत्यम्। विवर्तपरिणामवादयोः स्वरूपादिकं तत्त्वमुक्ताकलापव्याख्यायां सर्वङ्कषायां विस्तरेण प्रदर्शितम्। अधिकं सत्यसिद्धौ द्रष्टव्यम्। कारणं त्रिविधम्- समवाय्यसमवायिनिमित्तभेदात्। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः। ; आलोक- व्याख्या समवायिकारणं लक्षयति- यत्समवेतमित्यादि। पटादिकं स्वावयवेषु तन्तुषु समवायसंबन्धेनोत्पद्यते, अवयवावयविनोस्समवायात्। अतोऽत्र कार्यतावच्छेदकसंबन्धः समवायः। तन्त्वादीनां कारणतावच्छेदकसंबन्धस्तु तादात्म्यम्। कार्यकारणयोरेकाधिकरणवृत्तित्वम्- सामानाधिकरण्यम् आवश्यकम्। अत एव व्यधिकरणयोः कार्यकारणभावः कुत्रापि न भवति। एवं पटगतरूपं प्रति पटः समवायिकारणम्। अत्र रूपं पटे समवायसम्बन्धेन जायते। पटश्च तादात्म्यसंबन्धेन कारणम्। अतश्च समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणत्वं समवायिकारणस्य लक्षणम्। प्रथमदलमात्रोक्तौ वक्ष्यमाणेऽसमवायिकारणेऽतिव्याप्तिः। अतो द्वितीयदलम्। द्वितीयदलमात्रोक्तौ प्रत्यक्षज्ञानस्य निमित्तकारणभूते विषयेऽतिव्याप्तिः। विषयतासंबन्धेन घटप्रत्यक्षं प्रति तादात्म्यसंबन्धेन विषयीभूतघटस्य कारणत्वात्। अतः प्रथमदलम्। ; तर्कसंग्रहः कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत्कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटगतरूपस्य च। ; आलोक-व्याख्या असमवायिकारणं लक्षयति - कार्येणेत्यादि। कार्येण सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणमित्येकविधम्। कारणेन सहैकस्मिन्नर्थे समवेतं सत् कारणं द्वितीयमसमवायिकारणम्। आद्यं तन्तुसंयोगः पटस्य। द्वितीयं तन्तुरूपं पटरूपस्य। पटो हि तन्तुषु समवायसंबन्धेन जायते। तन्तुसंयोगोऽपि तन्तुषु समवायसंबन्धेन वर्तते, गुणगुणिनोस्समवायात्। तथा च समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवायसंबन्धाव- च्छिन्नकारणत्वं प्रथमासमवायिकारणस्य लक्षणम्। प्रथमदलमात्रोक्तौ समवायिकारणेऽतिव्याप्तिः स्पष्टा। एवं द्वितीयासमवायिकारणेऽप्यतिव्याप्तिः स्पष्टा। अतो द्वितीयदलम्। द्वितीयदलमात्रोक्तौ घटादिप्रत्यक्षनिमित्तकारणे रूपादावतिव्याप्तिः। विषयतासंबन्धेन घटप्रत्यक्षं प्रति समवायसंबन्धेन रूपस्य कारणत्वात्। तदर्थं प्रथमदलम्। कारणेन सहेत्यादि। द्वितीयासमवायिकारणम्। कारणेन स्वकार्य- समवायिकारणेनेत्यर्थः। यथा तन्तुरूपं पटरूपं प्रत्यसमवायिकारणम्। पटरूपं हि पटे समवायसंबन्धेनोत्पद्यते। तन्तुरूपं च तत्र स्वसमवायिसमवेतत्वसंबन्धेन वर्तते। स्वं तन्तुरूपम्। स्वसमवायिनस्तन्तवः, गुणगुणिनोस्समवायात्। तन्तुषु पटः समवायसंबन्धेन वर्तते, अवयवावयविनोः समवायात्। अतश्च समवायसंबन्धावच्छिन्नकार्यतानिरूपित- स्वसमवायिसमवेतत्वसंबन्धावच्छिन्नकारणत्वं द्वितीयासमवायिकारणत्वम्। प्रथमदलमात्रोक्तौ समवायिकारणेऽतिव्याप्तिः स्पष्टा। अतो द्वितीयदलम्। द्वितीयदलमात्रोक्तौ विषयतासंबन्धेन घटत्वादिप्रत्यक्षं प्रति निमित्तकारणभूते रूपादावतिव्याप्तिः। स्वं रूपम्। स्वसमवायि घटः। तत्समवेतं घटत्वम्। अतो रूपं स्वसमवायिसमवेतत्त्वसंबन्धेन घटत्वप्रत्यक्षं प्रति कारणमित्यतिव्याप्तिः। अतः प्रथमदलम्॥ नन्वत्र स्वसमवायिसमवेतत्वसंबन्धावच्छिन्नकार्यतानिरूपितसमवाय- संबन्धावच्छिन्नं कारणं द्वितीयासमवायिकारणमित्येव कथने का हानिः। स्वं पटरूपम्, स्वसमवायी पटः। तत्समवेताः तन्तवः। अत्रैव तन्तुरूपमपि समवायसंबन्धेन वर्तत इति कारणं भवति। अतः संबन्धयोः वैपरीत्ये का हानिरिति चेत् - न। चित्रपटस्थले पटरूपं प्रति तन्तुरूपस्य कारणत्वानुपपत्तेः। नानारूपैस्तन्तुभिः चित्रपटो निर्मीयते। स्वं चित्रपटरूपम्। स्वसमवायी पटः। तत्समवेतत्वं नीलतन्तुषु वर्तते। तत्र रक्ततन्तुरूपस्य समवायसंबन्धेनासत्त्वात् व्यभिचारापत्तिः। चित्रपटरूपं प्रति हि नीलतन्तवोऽपि कारणम्, रक्ततन्तवोऽपि कारणम्। अतः स्वसमवायिसमवेतत्वपदेन नीलतन्तुस्वीकारे, वा रक्ततन्तुस्वीकारे वा कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वात् रूपान्तरस्य व्यभिचारो दुष्परिहरः। अतः समवायसंबन्धावच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसंबन्धावच्छिन्नं कारणत्वमेव वक्तव्यम्। एवं सति तु समवायसंबन्धेन चित्रपटरूपं चित्रपटे वर्तते। चित्रपटे तु नीलतन्तुरूपं रक्ततन्तुरूपमित्यादिरूपं सर्वं स्वसमवायिसमवेतत्वसंबन्धेन वर्तते। स्वं नीलरूपं रक्तरूपमित्यादि। तत्समवेतास्तु नीलतन्तवः, रक्ततन्तव इत्यादयस्सर्वे तन्तवः। तत्समवेतश्चित्रपटः, तत्रैव चित्ररूपं समवायसंबन्धेनोत्पद्यत इति कारणत्वनिर्वाहात् संबन्धविपर्यासो न कर्तुं शक्यः। तर्कसंग्रह: तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य। ; आलोक-व्याख्या निमित्तकारणं लक्षयति- तदुभयेत्यादि। समवायिकारणभिन्नम् असमवायिकारणभिन्नं कारणं निमित्तकारणमित्यर्थः। तुर्यां किल पटः संयोगसंबन्धेनोत्पद्यते। अतः संयोगसंबन्धावच्छिन्नपटत्वावच्छिन्न- कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्ना कारणता तुर्यां वर्तते। अत्र कार्यतायाः संयोगसंबन्धावच्छिन्नत्वात् तुर्याः समवाय्यसमवायिकारणत्वव्यावृत्तिः, उभयत्रापि कार्यतायाः समवायसंबन्धावच्छिन्नत्वात्। अतः समवाय्यसमवायिकारणभिन्नं कारणमिति लक्षणसमन्वयः। अत्र यद्यपि घटनिमित्तकारणभूतदण्डादेः स्वगतरूपं प्रति समवायिकारणत्वात्, दण्डः समवायिकारणमपि भवतीति समवायिकारणभिन्नत्वाभावादसंभवः। अथापि कार्यभेदात् कारणतापि भिद्यते। रूपनिरूपितसमवायिकारणता भिन्ना, घटनिरूपितनिमित्तकारणता च भिन्ना, निरूपकभेदात् निरूप्यभेदस्यावश्यकत्वात्। परस्परविरुद्धयोः पुत्रत्वपितृत्व- योर्निरूपकभेदेनैकत्र सत्त्वे विरोधाभावात्। अतश्च समवायिकारणताभिन्नत्वे सति असमवायिकारणताभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणम्। दलप्रयोजनं तु स्पष्टमेव। तर्कसंग्रह: तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्। ; आलोक-व्याख्या एवं कारणानां लक्षणेऽभिहिते, करणमेतदनन्तर्भूतमिति शङ्का मा भूदित्यर्थं करणस्वरूपं प्रदर्शयति- तदेतदित्यादि। असाधारणमिति। कालेश्वरादृष्टादिकं मध्ये द्वारमन्तरा साक्षादेव सर्वकार्यकारणम्। अतोऽसाधारणत्वं व्यापारवत्त्वमेव, न तु प्राधान्यादिरूपम्, इत्यादिकमनुपदमेवोक्तम्। तर्कसंग्रह तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद् द्विविधम्- निर्विकल्पकं सविकल्पकं चेति। निष्प्रकारकं ज्ञानं निर्विकल्पकम्। सप्रकारकं ज्ञानं सविकल्पकम्। यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति। ; आलोक-व्याख्या निष्प्रकारकमिति। अत एवातीन्द्रियम्, शब्दानभिलप्यं च। विशिष्टबुद्धिं प्रति विशेषणस्य कारणत्वमनुभवसिद्धम्। कारणत्वं च नियतपूर्ववृत्तित्वरूपम्। एवञ्च घटत्वविशिष्टघटज्ञानं प्रति पूर्वं घटत्वज्ञानमावश्यकम्। तदपि विशिष्टविषयकं भवेच्छेदनवस्था। अतो घटत्वमात्रविषयकं निर्विशेषणकम्, अत एव निष्प्रकारकं च तद्ज्ञानम्। अत एवातीन्द्रियञ्च। सप्रकारकमित्यादि स्पष्टम्। डित्थ इति संज्ञा। ब्राह्मण इति जातिविशेषणकम्। श्याम इति गुणविशेषणकम्। पाचक इति क्रियाविशेषणकम्। चत्वारिपदजातानि, संज्ञावाचीनि गुणवाचीनि, क्रियावाचीनि, जातिवाचीनि च। संज्ञापदान्येव द्रव्यवाचीनि, रूढानि, यदृच्छाशब्दानीति च कथ्यन्ते। ; तर्कसंग्रहः प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्ष: षड्विधः। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः। घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपं समवेतम्। तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः। कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात्। शब्दस्याकाशगुणत्वात् गुणगुणिनोः समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः, भूतलं घटाभाववत् इत्यत्र चक्षुः संयुक्तभूतले घटाभावस्य विशेषणत्वात्। एवं संनिकर्षजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥ इति तर्कसंग्रहे प्रत्यक्षपरिच्छेदः समाप्तः॥ ; आलोक- व्याख्या प्रत्यक्षज्ञानहेतुः - लौकिकप्रत्यक्षज्ञानहेतुरित्यर्थः। सन्निकर्षः- द्विविधः, लौकिकालौकिकभेदात्। प्रथमस्तु ग्रन्थकारेणैव उच्यते। द्वितीयस्तु अलौकिकसन्निकर्षः अनुपदमुच्यतेऽत्र व्याख्यायाम्। संयोगस्सन्निकर्ष इति। इन्द्रियाणि हि भौतिकानि, अत एव द्रव्याणि। द्रव्ययोस्संयोगः। अतो घटादिद्रव्यप्रत्यक्षे संयोगस्सन्निकर्षः। इतरत् स्पष्टम्। ननु श्रोत्रेन्द्रियेण दूर उत्पन्नश्शब्दः कथं गृह्यते। शब्दो हि गुणः। न हि तस्य गमनागमनसंभवः। नापि श्रोत्रेन्द्रियं शब्दोत्पत्तिदेशं गच्छेत्, तस्याकाशत्वेन क्रियाभावादिति चेत्, न। दूर उत्पन्नः शब्दो वीचितरङ्गन्यायेन, अन्यं शब्दमुत्पाद्य नश्यति। सोऽप्यन्यमिति तरङ्गात्तरङ्गान्तरक्रमेण श्रोत्रप्रदेशे उत्पन्नः शब्दः श्रोत्रेण गृह्यते॥ अभावेत्यादि। विशेषणभाव:, विशेष्यभाव इति सन्निकर्षद्वयमिति केचित्। ‘भूतले घटाभावः' इत्यत्र चक्षुस्संयुक्ते भूतले घटाभावस्य विशेष्यत्वात् विशेष्यत्वं सन्निकर्षः। ‘घटाभाववद् भूतलम्' इत्यत्र चक्षुस्संयुक्तभूतलविशेषणत्वं सन्निकर्ष इति वदन्ति। परन्तु अभावप्रत्यक्षं प्रति सन्निकर्षत्वादस्य, शाब्दबोधस्य शब्दप्रयोगाधीनत्वेन विशेषणविशेष्यभावपरिवर्तनेऽपि प्रत्यक्षे विशेषणविशेष्यभावो न कदापि व्यत्यस्तो भवति। प्रत्यक्षस्य वस्तुजन्यत्वात्। अतो विशेषणविशेष्यभाव एक एव सन्निकर्षः, आधाराधेयभाववत् इत्यपरे। चक्षुस्संयुक्ते भूतले विशेषणमभाव इति चक्षुस्संयुक्त विशेषणतासन्निकर्ष एव विशेषणविशेष्यभाव इत्युच्यते। एवं घटे पटत्वाभावोऽपि चक्षुस्संयुक्तविशेषणता सन्निकर्षेण गृह्यते। घटत्वे पटत्वाभावस्तु चक्षुस्संयुक्तसमवेतविशेषणतया, नीलत्वे पीताभावः चक्षुस्संयुक्तसमवेत- समवेतविशेषणतया च गृह्यत इत्याद्यप्यूह्यम्। एवमभावप्रत्यक्षस्य तत्तदिन्द्रियग्राह्यत्वप्रतिपादनेनानुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। अभावप्रत्यक्षं प्रत्यनुपलब्धिरेव प्रमाणमिति भाट्टाः। परन्तु अधिकरणप्रत्यक्षं प्रति इन्द्रियस्यात्यन्तमावश्यकत्वेनानुपलब्धि- सहकृतेनेन्द्रियेणैवोक्तसन्निकर्षैरभावप्रत्यक्षे संभवति, अतिरिक्तप्रमाणाङ्गीकारे गौरवम्।। समवायोऽपि विशेषणविशेष्यभावसन्निकर्षेण गृह्यत इति नवीनाः। परन्त्वेवं सति अनुमानेन समवायसाधन एवं लाघवतर्कावतारात् समवायस्य प्रत्यक्षत्वे तस्यैकत्वं नित्यत्वं च न स्यात्। सत्तया कार्यकारित्वमेव संबन्धत्वमिति समवायो न प्रत्यक्षः, अनुमेय एवेति प्राचीनाः। *इदं सर्वं लौकिकसन्निकर्षरूपम्। अलौकिकस्तु सन्निकर्षः सामान्यलक्षणः, ज्ञानलक्षणः, योगजलक्षणश्चेति त्रिविधः। धूमत्वेन निखिलधूमानां वह्नित्वेन निखिलवह्नीनां च ज्ञानमन्तरा यत्र यत्र धूमस्तत्र वह्निरिति व्याप्तिग्रहणं न संभवेत्। धूमत्वेन निखिलधूमज्ञानं च सामान्यमुखेनैव, देशान्तरधूमानां चक्षुस्संयोगसन्निकर्षाभावात्। अत इयं सामान्यलक्षणाप्रत्यासत्तिरित्युच्यते। एवं 'सुरभि चन्दनम्' इत्यादिप्रतीतौ विशेष्यविशेषणयोर्भिन्नेन्द्रिग्राह्यत्वेन, युगपदिन्द्रियद्वयस्य प्रवृत्तेरसंभवात् विशेषणज्ञानं घ्राणेन्द्रियजन्यं प्रथमं भवति। ततश्चन्दनखण्डस्य चक्षुरिन्द्रियसंयोगे जाते, तत्र पूर्वगृहीतगन्धः स्मृतस्सन् विशेषणतया भासते। अत्र विशेषणभानं ज्ञानलक्षणासन्निकर्षवशाद्भवति। योगजलक्षणा तु योगजसिद्धिरूपा, धर्म(पुण्य)विशेषरूपा। सा च योगिनां दूरवर्तिपदार्थप्रत्यक्षं प्रति अतीतानागतविषयकप्रत्यक्षं प्रति च हेतुः। एवमलौकिकसन्निकर्षजन्यं ज्ञानमलौकिकप्रत्यक्षमित्युच्यते। ज्ञानलक्षणस्योपनीतभानपदेनाप्यस्ति व्यवहारः। ; आलोकः - प्रामण्यवादः ननूत्पन्ने ज्ञाने प्रामाण्यनिश्चयाभावे, कथं प्रवृत्तिर्भवेत् ? प्रवर्तन्ते च पुरुषास्सर्वे। अतः प्रामाण्यनिश्चयः प्रथममावश्यकः। अत एव प्रामाण्यं स्वत इत्येव वक्तव्यमिति चेत्, प्रवृत्तेः साफल्ये सत्येव प्रामाण्यनिश्चयसंभवात् पूर्वं तदसंभवात् प्रामाण्यनिश्चयः प्रवृत्तिं प्रति न हेतुः। किन्तु अप्रामाण्यनिश्चयाभाव एव। प्रामाण्यसंशये सत्यपि 'पश्यामः' इति धैर्येणापि कदाचित् प्रवृत्तिर्भवति। परन्तु, साध्यस्य फलस्य, प्रवृत्त्या जायमानस्य क्लेशस्य च तुलनं कृत्वा विवेकिनः प्रवर्तन्ते। अत एवाविचार्यप्रवर्तनं बाल्यमित्युच्यते। गुरुलाघवमर्थानाम्, आरंभं कर्मणाम्, फलम्। दोषं वा यो न जानाति स बाल इति होच्यते'।। इति बाललक्षणमुच्यते वाल्मीकिना (वा.रा.अयो.६३-७)। बहुवित्तव्यवसायसाध्ये महायज्ञादौ तु वेदप्रामाण्ये दृढनिश्चयादेव प्रवृत्तिः। अतो वेदानां स्वतः प्रामाण्यमनिवार्यमिति मीमांसकाः। परन्तु वेदस्य शब्दरूपत्वात्, शब्दप्रामाण्यस्य वक्तृपुरुषे आप्तत्वज्ञानाधीनत्वात्, वेद ईश्वरप्रोक्त इति नैय्यायिकाः। ‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्' (न्या.सू.२-१-६९) इत्यक्षपादः। ईश्वरस्य कुत्रापि स्खलनं न स्यादित्यर्थः। तर्हि तत्पक्षं कथं खण्डयन्तीतर इति चेत्, 'न हि निन्दां निन्द्यं निन्दितुं प्रवृत्ता, किन्तु प्रकृतं प्रशंसितुम्' इति न्यायादेवेदं स्वमतप्रशंसार्थमिति ग्राह्यम्। कथमन्यथा अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश।। (म.भा.) इति व्यासवचनं, पुराणतर्कमीमांसा धर्मशास्त्राङ्गमिश्रिताः। वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश।। (या. शि.) इति याज्ञवल्क्यवचनं वा ? अतश्च प्रामाण्यं ज्ञप्तौ सफलप्रवृत्तिजनकत्वेन हेतुना, अप्रामाण्यं ज्ञप्तौ च विफलप्रवृत्तिजनकत्वेन हेतुनेति परत एवोभयमपि। एवमेव प्रामाण्यस्योत्पत्तावपि स्वतस्त्वपरतस्त्वविचारो वर्तते। ज्ञानोत्पत्तिसामग्र्यैव प्रामाण्यमपि सहैवोत्पद्यते इति स्वतस्त्ववादिनः। किन्तु एवं सति अप्रमात्वस्यापि स्वतस्त्वप्रसङ्गात्, गुणकृता प्रमात्वोत्पत्तिः,दोषकृता चाप्रमात्वोत्पत्तिरित्येव सुवचम्। अस्य विस्तरो न्यायकुसुमाञ्जलौ द्वितीयस्तबके। कार्यकारणभावः असाधारणं कारणं करणम्। कार्यनियतपूर्ववृत्ति कारणम्। कार्यं प्रागभावप्रतियोगि॥ ३६॥ कारणत्रैविध्यम् कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः। कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य। तन्तुरूपं पटरूपस्य। तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य। तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्॥ ३७॥ प्रत्यक्षम् तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् (यथेदं किञ्चित्)। सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयंमिति॥ ३८॥ संनिकर्षः प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवर्त्याकाशस्यश्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्। एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥ ३९॥ ; आलोकः - अलौकिकसन्निकर्षः ।। इति प्रत्यक्षखण्डः।। टिप्पणी *सन्निकर्षो द्विविधः- लौकिकः, अलौकिकश्च। उक्तः षड्विधः सन्निकर्षः लौकिक उच्यते। एतद्विलक्षणसन्निकर्षः अलौकिक उच्यते। 'यत्र यत्र वह्निः, तत्र तत्र धूम:' इति वह्निधूमयोः कार्यकारणभावे, 'यत्र यत्र धूमः तत्र वह्निः' इति व्याप्यव्यापकभावग्रहणं च त्रैकालिकं दृष्टम्। षड्विधसन्निकर्षस्तु वर्तमानवस्तुष्वेव भवेत्। प्रत्यक्षं हि वर्तमानमात्रविषयकम्। कार्यकारणभावादिस्तु त्रैकालिकः। स कथं पुरोवर्तिवस्तुमात्रविषयको भवेत्। अतः पुरोवर्तिवस्तुगतसामान्यधर्ममादायैव सहचारादिदर्शनमुपपादयितव्यम्। एवं सामान्यमूलकं दर्शनम्, न पुरोऽवस्थितवस्तुमात्रे परिसमाप्तम्। धूमो हि सर्वदैव सर्वत्रैव वह्निजन्य एव। अतश्चास्य सामान्यमूलकत्वात् सामान्यलक्षणा प्रत्त्यासत्तिरिति संज्ञा। एवं 'सुरभि कुसुमम्' 'शीतं शिलातलम् "मधुरा शर्करा' इत्याद्यनुभवनिर्वाहार्थं ज्ञानलक्षणसन्निकर्ष आवश्यकः। उक्तानुभवेषु हि विशेष्यं कुसुमम्, शिलातलं च चक्षुरिन्द्रियजन्यम्। विशेषणं सौरभं घ्राणेन्द्रियजन्यम्, शैत्यं त्वगिन्द्रियजन्यम्, माधुर्यं च रसनेन्द्रियजन्यम्। युगपत् इन्द्रियद्वयप्रवृत्तेरसंभवात्, विशेष्यग्रहणविशेषणग्रहणयोः सूक्ष्मः कालभेद आवश्यकः। युगपदिन्द्रियद्वयप्रवृत्तौ त्वगिन्द्रियस्य सर्वशरीरव्यापित्वेन, भूतलादिना संयोगस्य सदा वर्तमानत्वेन, चक्षुरादिना रूपादिग्रहणकाले स्पर्शरूपोभयग्रहणमावश्यकं स्यात्। न हि तथानुभूयते। तत्र च कारणं मन एव। मनो यत्रावहितम्, तद्विषयकमेव ज्ञानं भवति। अत एव 'युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' (न्या. सू. १-१-१६) इत्याह महर्षिः। एवञ्च 'सुरभि कुसुमम्' इत्यादौ कुसुमस्य परोक्षत्वे, घ्राणेन गन्धस्य ग्रहणं प्रथमम्। तेनाश्रयस्य कुसुमस्यानुमित्या गृहीतस्य तत्र विशेष्यतया भानम्। कुसुमस्य पुरत एव सत्त्वे, कुसुमस्य चक्षुषा ग्रहणं प्रथमम्। घ्राणेन्द्रियेण गृहीतस्य गन्धस्य कुसुमे विशेषणतया भानम्। ग्रहणं नाम घ्राणेन्द्रियजन्यं ज्ञानमित्यर्थः। सौरभस्य कुसुमे विशेषणत्वं तादृशज्ञानेन भवति। अस्य ज्ञानलक्षणाप्रत्त्यासत्तिरिति संज्ञा। प्रत्त्यासत्तिः सन्निकर्ष:। 'नीलो घटः' इति ज्ञानं हि संयोगसंयुक्तसमवाय-संयुक्तसमवेतसमवायसन्निकर्षैर्जायते। एवमनेकसन्निकर्षैरेकज्ञानं यथा जायते, तथैव 'सुरभिकुसुमम्' इति ज्ञानमपि लौकिकालौकिकसन्निकर्षद्वयजन्यम्। एवम् अष्टाङ्गयोगाभ्यासवशात् जायमानोऽलौकिकः शक्तिविशेषः अतीन्द्रियाणां विषये ज्ञानं जनयति। स एव योगजसन्निकर्ष इत्युच्यते। ।। इति प्रत्यक्षखण्डः।। अनुमानम् अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः। यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता॥ ४०॥ ; आलोकः - अनुमानम् ; तर्कसंग्रहः ॥ अथ अनुमानखण्डः॥ अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा 'वह्निव्याप्यधूमवानयं पर्वत:' इति ज्ञानं परामर्श:। तज्जन्यं 'पर्वतो वह्निमान्' इति ज्ञानमनुमिति:। ; आलोक-व्याख्या क्रमप्राप्तमनुमानं निरूपयति- अनुमितीत्यादि। अनुमितेः करणम् अनुमितिकरणम्। करणम् - करणतावत् - असाधारणकारणतावदित्यर्थः। अनुमितेरित्यत्र षष्ठ्याः कार्यत्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। कार्यताया निरूपितत्वसंबन्धेन असाधारणकारणतायामन्वयः। तथा च अनुमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अनुमानम् इति शाब्दबोधः। लक्षणं तु अनुमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत्त्वम् इति। अनुमितिनिष्ठा का कार्यतेति चेत् ? ‘पर्वतो वह्निमान्' इत्याद्यनुमितिनिष्ठा कार्यता। तन्निरूपितासाधारणकारणता व्याप्तिज्ञाननिष्ठा कारणता। तादृशकारणतावत् व्याप्तिज्ञानं भवतीति व्याप्तिज्ञानमेवानुमानपदवाच्यमित्यर्थः। नव्यमते तु परामर्श एवानुमितिकरणम्। कार्यसामान्यं प्रति कालेश्वरादृष्टादेः कारणत्वात्, अनुमितिनिष्ठकार्यतानिरूपितकारणत्वं कालेश्वरादावस्तीत्यतिव्याप्तिः स्यादिति असाधारणेति विशेषणम्। तेषां साधारणकारणत्वान्नातिव्याप्तिः। व्यापारवत् कारणं करणमिति लक्षणे व्याप्तिज्ञानं परामर्शद्वारानुमितिं जनयतीति परमर्शो व्यापारः, तद्वत्करणं व्याप्तिज्ञानमिति समन्वयः। अनुमितिर्नाम का ? अनुमानजन्यं ज्ञानमनुमितिकथन अन्योन्याश्रय इत्यतः- परामर्शजन्यं ज्ञानमनुमितिरित्युक्तम्। वस्तुतस्तु 'अनुमिनोमि' इत्यनुव्यवसायसिद्धो ज्ञानविशेषोऽनुमितिः। तत्करणं व्याप्तिज्ञानमनुमानम्। परामर्शो नाम कः ? इत्यत्राह- व्याप्तीत्यादि। व्याप्त्या विशिष्टम् व्याप्तिविशिष्टम्। व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानम् - पक्षवृत्तित्वज्ञानम् व्याप्तिविशिष्टपक्षधर्मताज्ञानम्। 'पर्वतो वह्निमान्' इत्यनुमितिं प्रति 'वह्निव्याप्यधूमवान् पर्वतः' इति ज्ञानं कारणम्। वह्निव्याप्यः वह्निनिरूपितव्याप्तिविशिष्टः = धूमः। तस्य पक्षवृत्तित्वज्ञानम् वह्निव्याप्यधूमवान् पर्वत इति ज्ञानम्। तदेव परामर्शः। अनुमितेः क्रम एवम् - प्रथमं पर्वते धूमं दूरात्पश्यति। तदा 'पर्वतो धूमवान्' इति ज्ञानं जायते। इदमेव पक्षधर्मताज्ञानमित्युच्यते। एतस्मिन् ज्ञाने जाते, अनन्तरं, महानसादौ गृहीतां 'यत्र धूमस्तत्र वह्निः' इति व्याप्तिं स्मरति। ततः वह्निव्याप्यधूमवानिति परामर्शः। ततः ‘पर्वतो वह्निमान्’ इत्यनुमितिः। ततश्च प्रथमं पक्षधर्मताज्ञानम्। ततः व्याप्तिस्मरणम्। ततः परामर्शः। ततः अनुमितिरिति क्रमः। अत्र व्याप्तिविशिष्टस्य हेतोः पक्षे वैशिष्ट्यावगाहित्वात् परामर्शो विशिष्टवैशिष्ट्यावगाहिज्ञानरूपो भवति। ; तर्कसंग्रहः यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः। ; आलोक- व्याख्या व्याप्तिर्नाम केत्यत्राह - यत्रेत्यादि। 'साहचर्यनियमः' इति व्याप्तेर्लक्षणम्। तदभिलापकं वाक्यम् 'यत्र धूमस्तत्राग्निः' इति। साहचर्यं सामानाधिकरण्यम्। तस्य नियमः - अव्यभिचारः। कादाचित्कं साहचर्यं न व्याप्तिः। सार्वकालिकसाहचर्यं ययोर्वर्तते, तत्र तयोस्साहचर्यनियमः नियतं साहचर्यं वा स्यात्। यथा वह्निधूमयोः। यत्र यत्र धूमः स्यात्, तत्र सर्वत्रापि वह्निरपि स्यात्। एतादृशं वह्निसाहचर्यं धूमे वर्तत इति वह्निव्याप्तिर्धूमे वर्तते। तेन च वह्निव्याप्यो धूमश्च भवति। एवमव्यभिचरितः संबन्धो ययोर्वर्तते, तत्र तयोर्व्याप्तिर्वर्तत एव। यत्र तु कादाचित्कं साहचर्यम्, तत्र तु न व्याप्तिः। यथा धनसुखयोः। लोके कश्चित् धनवान् सुखी दृष्ट इति 'अयं सुखी, धनवत्त्वात्' इति यदि ब्रूयात्, तदा व्यभिचारः स्यात्। धनमात्रं न हि सुखसाधनम्, धनवतो रोगपीडायां सुखाभावात्। किन्तु विवेक एव सुखसाधनम्। अतो 'यत्र धनम्, तत्र सुखम्' इति न व्याप्तिः। दुःखवत्यपि धनसत्त्वात्। अतोऽयं व्यभिचरितो हेतुः। तथा च साहचर्यनियमो नाम अव्यभिचरितं साहचर्यम्। ततश्चाव्यभिचरितत्वमेव व्याप्तिः। अव्यभिचरितत्वं च व्यभिचाराभावः। व्यभिचारो नाम तदभाववत्यपि सत्त्वम्। यथा 'धूमवान् वह्नेः' इत्युक्ते, धूमवति महानसादौ यद्यपि वह्निर्वर्तते। अथापि धूमाभाववति तप्तायःपिण्डेऽपि वर्तते। अतस्साहचर्यस्य नियमो नास्ति, धूमाभाववद्वृत्तित्वाद्वह्नेः। अयमेव व्यभिचार इत्युच्यते। ततश्च साध्याभाववद्वृत्तित्वं व्यभिचारः। साध्याभाववदवृत्तित्वमव्यभिचारः। इयमेव व्याप्तिरित्युच्यते। ‘वह्निमान् धूमात्’ इत्यादौ लक्षणसमन्वयः। अत्र साध्यो वह्निः। साध्याभावः वह्न्यभावः। तद्वान् ह्रदादिः। तदवृत्तित्वं धूमे वर्तत इति। ‘धूमवान् वह्नेः' इत्यादिव्यभिचारिणि - साध्यो धूमः। साध्याभावो धूमाभावः। तद्वत् अयोगोलकमपि। तद्वृत्तित्वमेव हेतौ वह्नौ वर्तते, न त्ववृत्तित्वमिति नातिव्याप्तिः। अत्र साध्याभावो नाम साध्यनिष्ठप्रतियोगितानिरूपकोऽभावः। तत्र प्रतियोगितायां साध्यतावच्छेदकसंबन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा 'पर्वतो वह्निमान् धूमात्' इत्यादिसद्धेतावव्याप्तिः। अत्र साध्यो वह्निः। तन्निष्ठप्रतियोगितानिरूपकोऽभावः 'वह्निर्नास्ति' इति प्रतीतिसिद्धोऽभावः। स च यद्यपि पर्वते न संभवति। परन्तु वह्नेः संयोगसंबन्धेनैव पर्वतादौ सत्त्वात्, ‘समवायसम्बन्धेन पर्वते वह्निर्नास्ति' इति प्रतीतेः प्रामाणिकत्वात् समवायसम्बन्धावच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपको वह्न्यभावः पर्वते वर्तते। ततश्च साध्याभाववान्=वह्न्यभाववान् पर्वतः। तद्वृत्तित्वमेव हेतौ धूमे वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरित्यतः, प्रतियोगितायां साध्यतावच्छेदकसंबन्धावच्छिन्नत्वस्य निवेशनेनाव्याप्तेः परिहारात्। येन संबन्धेन यत् साध्यते, स संबन्धः साध्यतावच्छेदकसंबन्धः। तथा च साध्यतावच्छेदक- संबन्धावच्छिन्नसाध्यनिष्ठप्रतियोगितानिरूपकाभाववदवृत्तित्वं व्याप्तिः इति लक्षणम्। पर्वते च वह्निः संयोगसंबन्धेन साध्यत इति संयोगसंबन्ध एव साध्यतावच्छेदकसंबन्धः। संयोगसंबन्धावच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपकाभावस्तु ‘संयोगेन वह्निर्नास्ति' इति प्रतीतिसिद्धाभाव एव। स तु पर्वते न स्यात्, संयोगेन वह्नेः पर्वते सत्त्वात्। किन्तु हृदादिरेव तादृशाभाववान्। तदवृत्तित्वं च हेतौ धूमे वर्तत इति नाव्याप्तिः। अथैवमपि पर्वते वह्नेः सत्त्वेऽपि 'पर्वते संयोगसंबन्धेन महानसीयवह्निर्नास्ति' इति प्रतीतेः प्रामाणिकत्वात् संयोगसंबन्धावच्छिन्नवह्नि- निष्ठप्रतियोगितानिरूपकोऽभावः महानसीयवह्न्यभावोऽपि। महानसीयवह्नेरपि वह्नित्वेन महानसीयवह्न्यभावोऽपि वह्न्यभाव एव। स तु पर्वते वर्तत एव। महानसीयवह्नेर्महानस एव सत्त्वात्, पर्वतेऽसंभवात्। तथा च संयोगसंबन्धा- वच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपकाभाववान् पर्वतः। तद्वृत्तित्त्वमेव हेतौ धूमे वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरिति चेत्, न। प्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वस्यापि निवेशनात्। येन धर्मेण यः साध्यः, स धर्मः साध्यतावच्छेदकधर्मः। प्रकृते च वह्निर्वह्नित्वरूपधर्मेणैव साध्यः, न तु महानसीयवह्नित्वेन रूपेण, महानसीयवह्नेः पर्वतेऽसंभवात्। साध्यतावच्छेदकीभूतवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभावः 'वह्निर्नास्ति' इति प्रतीतिसिद्धाभाव एव। न तु महानसीयवह्न्यभावः। अस्य महानसीय- वह्नित्वावच्छिन्नत्वेन केवलवह्नित्वावच्छिन्नत्वाभावात्। वह्नित्वावच्छिन्नाभावस्तु पर्वते न संभवति, पर्वते वह्नेः संयोगसंबन्धेन सत्त्वात्। अतः संयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभाववान् ह्रदादिरेव। तदवृत्तित्त्वं धूमे वर्तत इति नाव्याप्तिः। तथा च लक्षणम् साध्यतावच्छेदकसंबन्धावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगितानिरूपकाभाववदवृत्तित्वं व्याप्तिरिति संपन्नम्। नन्वेवमपि महानसीयवह्न्यभावीयप्रतियोगितायां महानसीयत्वस्य वह्नित्वस्य चावच्छेदकतया भानात् सा प्रतियोगिता वह्नित्वावच्छिन्नापि भवतीति महानसीयवह्न्यभावस्य वारणं न भवतीति तादृशाभाववान् पर्वतः। तद्वृत्तित्वमेव हेतौ धूमे वर्तत इत्यव्याप्तिस्तदवस्थैवेति चेत्, न। साध्याभावीयप्रतियोगितायां वैशिष्ट्यानवच्छिन्नत्वस्यापि विशेषणात्। तथा च साध्यतावच्छेदकसंबन्धावच्छिन्न-वैशिष्ट्यानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिः। एवञ्च महानसीयवह्न्यभावप्रतियोगिताया महानसीयत्वविशिष्टवह्नित्वावच्छिन्नत्वेन वैशिष्ट्यावच्छिन्नत्वात्, वैशिष्ट्यानवच्छिन्नप्रतियोगिताकाभावो महानसीयवह्न्यभावो न भवति, किन्तु शुद्धवह्न्यभाव एव। तद्वांश्च ह्रदादिरेव। न तु पर्वतः। तदवृत्तित्वं धूमे वर्तत इति नाव्याप्तिः। अथैवमपि पर्वतो वह्निमान् धूमात् इत्यत्र अव्याप्तिर्दुर्वारैव। तथाहि घटवत्यपि भूतले पटस्यासत्त्वे 'घटोपटोभयमस्ति वा?' इति प्रश्ने 'घटपटोभयं नास्ति' इत्येवोत्तरं वक्तव्यम्। एवं पर्वते वह्नेः सत्त्वेऽपि घटस्याभावेन एकसत्त्वेऽपि द्वयं नास्तीति प्रतीतेः प्रामाणिकत्वेन वह्निघटोभयं नास्तीति प्रतीत्या साध्यतावच्छेदकसंबन्धावच्छिन्न-वैशिष्ट्यानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावो वह्निघटोभयाभावोऽपि भवति। तद्वान् पर्वतोऽपि तद्वृत्तित्वमेव धूमे हेतौ वर्तते। अवृत्तित्वं नास्तीत्यव्याप्तिः। न च वह्निघटोभयाभावीयप्रतियोगिताया वह्नित्वघटत्वोभय- धर्मावच्छिन्नत्वेन केवलवह्नित्वावच्छिन्नाभावपदेनोभयाभावः स्वीकर्तुं न शक्य इति कथमव्याप्तिरिति वाच्यम्; उभयस्य प्रत्येकानतिरिक्तत्वेन वह्नित्वघटत्वोभयावच्छिन्नत्वे वह्नित्वावच्छिन्नत्वस्यानपायात्, तादृशवह्नित्वावच्छिन्नाभाव इत्यनेन वह्निघटोभयाभावः स्वीकर्तुं शक्य एवेति अव्याप्तिर्दुर्वारैव। न च घटपटोभयाभावीया प्रतियोगिता वह्निघटोभयनिष्ठा। प्रतियोगितावच्छेदकता तु न केवलं वह्नित्वे घटत्वे च वर्तते, किन्तूभयत्वेऽपि। 'वह्निघटोभयं नास्ति' इत्येव प्रतीतेः। 'वह्निघटौ न स्तः' इति प्रतीतिरपि उभयविषयिण्येव, द्विवचनेनोभयोरपि क्रोडीकारात्। यथोभयाभावीयप्रतियोगितावच्छेदकता घटत्वे पटत्व उभयत्वे चेति त्रिष्वपि वर्तते, उभयत्वस्य व्यासज्यवृत्तिधर्मत्वात्। लक्षणे व्यासज्यवृत्तिधर्मानवच्छिन्नत्वमपि निवेश्यते। एवञ्च साध्यतावच्छेदकसंबन्धावच्छिन्नवैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिः। एवञ्च प्रकृते वह्निघटोभयाभावो न स्वीकर्तुं शक्यः। तदभावीयप्रतियोगिताया वह्नित्वघटत्वोभयावच्छिन्नत्वेन व्यासज्यवृत्ति- धर्मावच्छिन्नत्वेन, व्यासज्यवृत्तिधर्मानवच्छिन्नत्वाभावात्। किन्तु शुद्धवह्न्यभाव एव स्वीकार्यः। तादृशाभाववांस्तु ह्रद एव। तदवृत्तित्वं हेतौ धूमे वर्तत इति नाव्याप्तिरिति वाच्यम्, एवं सत्युभयसाध्यकसद्धेतावव्याप्तिर्दुर्वा। तथाहि नव द्रव्येषु रूपरसौ पृथिवीजलमात्रे वर्तेते। अतः 'इदं रूपरसोभयवत्, पृथीवीजलान्यतरत्वात्' इति वक्तुं शक्यते। यत्र यत्र पृथिवीजलान्यतरत्वम्, तत्र रूपरसोभयम्, यथा पृथिवी जलं चेत्यन्वयव्याप्तिः। एवं यत्र रूपरसोभयं नास्ति तेज आदौ, तत्र पृथिवीजलान्यतरत्वं नास्तीति व्यतिरेकव्याप्तिः। तथा चायमन्वयव्यतिरेकी सद्धेतुः। अत्र साध्यतावच्छेदक- संबन्धः समवायः। समवायसंबन्धावच्छिन्नवैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्न- साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाव इत्यनेन रूपरसोभयाभावो न स्वीकर्तुं शक्यते। अस्योभयत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नत्वेन व्यासज्यवृत्ति- धर्मानवच्छिन्नप्रतियोगिताकत्वाभावात्। तथा च तत्र लक्षणसमन्वयासंभवादव्याप्तिः। अतश्च व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं साध्याभावीयप्रतियोगितायां निवेशयितुं न शक्यम्। अनिवेशे च 'पर्वतो वह्निमान् धूमात्' इत्यादौ वह्निघटोभयाभावमादायाव्याप्तिर्दुर्वारेति सेयमुभयतः पाशा रज्जुरिति चेत् - अत्रोच्यते। साध्याभावनिरूपितप्रतियोगिता-वच्छेदकतायाः पर्याप्तेर्निवेशेन सर्वदोषपरिहारः। तथा च लक्षणम्- साध्यतावच्छेदक-संबन्धावच्छिन्नसाध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वमिति। 'वह्निमान् धूमात्' इत्यादौ तादृशाभावो वह्नित्वावच्छिन्नाभाव एव। न तु महानसीयवह्नित्वावच्छिन्नाभावः। महानसीयवह्न्यभावप्रतियोगितावच्छेदकताया महानसीयत्वे वह्नित्वे चेत्युभयत्र पर्याप्तत्वेन केवलवह्नित्वेऽपर्याप्तत्वेन साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव इत्यनेन महानसीयवह्न्यभावमादाय नाव्याप्तिः। न वा वह्निघटोभयाभावमादायाव्याप्तिः। वह्निघटोभयाभावीयप्रतियोगितावच्छेदकताया वह्नित्वे, घटत्वे, उभयत्वे चेति त्रिषु पर्याप्तत्वेन केवलवह्नित्वेपर्याप्तत्वाभावेन, साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्न- प्रतियोगिताकाभावो वह्निघटोभयाभावो न भवति, किन्तु 'वह्निर्नास्ति' इति प्रतीतिसिद्धाभाव एव। स च ह्रदादावेव संभवति। तत्र च धूमस्यावृत्तेर्नाव्याप्तिः। नन्वेवमप्युभयस्य प्रत्येकानतिरिक्तत्वेन, प्रत्येकापर्याप्तस्य समुदायपर्याप्तत्वायोगात्, वह्निघटोभयाभावीयप्रतियोगितावच्छेदकता यदि वह्निवे, घटत्वे, उभयत्वे च पर्याप्ता, तर्हि वह्नित्वेऽपि पर्याप्तैवेति साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मो वह्नित्वमपि। तदवच्छिन्नप्रतियोगिताकाभावो वह्निघटोभयाभावोऽपीति तद्व्यावृत्तेः कर्तुमशक्यत्वेन कथमव्याप्तेः परिहार इति चेत्, न। साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिकाभावविवक्षणेनोभयाभावव्यावृत्तेः। तथाहि घटवत्यपि भूतले, पटस्यासत्त्वे 'घटपटोभयं नास्ति' इति प्रतीतिः प्रामाणिकी, 'घटो नास्ति' इति प्रतीतिस्तु न प्रामाणिकीति सर्वसंमतम्। अनयोः प्रतीत्योः किं वैलक्षण्यम् ? घटाभावीयप्रतियोगितावच्छेदकता घटत्वमात्रे पर्याप्ता। घटपटोभयाभावीया प्रतियोगितावच्छेदकता च घटत्वे, पटत्वे, उभयत्वे चेति त्रिषु पर्याप्ता। उभयस्य प्रत्येकानतिरेकेण, त्रिषु पर्याप्तेति चेत्, प्रत्येकमपि पर्याप्तेत्यप्यावश्यकमेव। अथापि घटत्वावच्छिन्नाभावस्य घटत्वपटत्वोभयत्वावच्छिन्नाभावस्य वैलक्षण्यमावश्यकम्। अत एवं वक्तव्यम्। घटाभावीयप्रतियोगितावच्छेदकता घटत्वत्वावच्छिन्ने घटत्वे, तद्व्यक्तित्वावच्छिन्ने घटत्वे वा पर्याप्ता। घटपटोभयाभावीयप्रतियोगितावच्छेदकता तु घटत्वपटत्वोभयत्वरूपेषु त्रिष्वपि समं पर्याप्ता। अतोऽवच्छेदकतापर्याप्त्यनुयोगि त्रयम्। पर्याप्त्यनुयोगितावच्छेदकता तु एतत्रितयानुगतं त्रित्वम्, त्रित्वावच्छिन्ने त्रयेऽवच्छेदकताया अविशेषेण वर्तमानत्वात्। अतञ्चोभयाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मो घटत्वपटत्वोभयत्वानुगतं त्रित्वम्, न तु घटत्वत्वम्, पटत्वत्वम्, उभयत्वत्वं वा, प्रतियोगितावच्छेदकतया अपि त्रिषु व्यासज्यवर्तमानत्वात्। ततश्च घटपटोभयाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्रित्वावच्छिन्ने त्रयेऽवच्छेदकतायाः पर्याप्तिः। घटाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं तु घटत्वत्वमात्रम्, घटत्वगततद्व्यक्तित्वं वेति उभयोरभावयोर्वैलक्षण्यम्। एवञ्च प्रकृतेऽपि वह्न्यभाववह्निघटोभयाभावयोरपि वैलक्षण्यमिति, साध्याभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभाव इत्यनेनोभयाभावो न स्वीकर्तुं शक्यः, किन्तु केवलवह्न्यभाव एवेति, तद्वान् ह्रदः, तदवृत्तित्वं धूमे वर्तत इति नाव्याप्तिः। तथा च साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिरिति दिक्। नन्वेवमपि ‘वह्निमान् धूमात्' इत्यत्राव्याप्तिः। साध्यतावच्छेदकसंयोग- संबन्धावच्छिन्नसाध्यतावच्छेदकवह्नित्वधर्मावच्छिन्नप्रतियोगितानिरूपकाभावः - 'संयोगेन वह्निर्नास्ति' इति प्रतीतिसिद्धाभावः। तद्वान् ह्रदादिरिव धूमावयवा अपि। धूमावयवेषु वह्नेरसत्त्वात्। अतः साध्याभाववान् धूमावयवः। तद्वृत्तित्वमेव धूमे हेतौ वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरिति चेत्, न अवृत्तित्वप्रतियोगिभूतवृत्तितायां हेतुतावच्छेदकसंबन्धावच्छिन्नत्वस्यापि निवेशनीयत्वात्। तथा च संयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभाववन्तो धूमावयवाः। तादृशधूमावयवनिरूपितहेतुतावच्छेदकसंयोगसंबन्धावच्छिन्नवृत्तित्वाभावो धूमे वर्तत एव। धूमावयवेषु हि धूमः समवायसंबन्धेनैव वर्तते, अवयवावयविनोः समवायात्। संयोगसंबन्धेन तु न वर्तत एवेति संयोगसंबन्धावच्छिन्नवृत्तित्वाभावो धूमे वर्तत इति नाव्याप्तिरिति। नन्वेवमपि ‘द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वात्' इत्यादौ अव्याप्तिर्भवेदेव। तथाहि। सत्ताजातिर्द्रव्यगुणकर्मसु त्रिष्वेव वर्तते। गुणकर्मान्यत्वविशिष्टसत्ता तु द्रव्य एव स्यात्। गुणे कर्मणि च गुणकर्मान्यत्वरूपविशेषणस्यासंभवेन गुणकर्मान्यत्वविशिष्टसत्ता गुणे कर्मणि च न स्यात्, किन्तु द्रव्य एव। तथा च यत्र गुणकर्मान्यत्वविशिष्टसत्ता तत्र द्रव्यत्वम्, यत्र च द्रव्यत्वं तत्र गुणकर्मान्यत्वविशिष्टसत्तेति समव्याप्तस्सद्धेतुरयम्। अत्र साध्यतावच्छेदकं द्रव्यत्वम्, साध्यतावच्छेदकसंबन्धश्च समवायः। समवायसंबन्धावच्छिन्न द्रव्यत्वत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो द्रव्यत्वाभावः। तद्वान् गुणः कर्म वा। तत्र गुणकर्मान्यत्वविशिष्टसत्ताया असंभवात् तदवृत्तित्त्वं गुणकर्मान्यत्वविशिष्टसत्तायां हेतौ वर्तत इति समन्वयः कर्तव्यः। परन्तु विशिष्टशुद्धयोरनतिरेकात्, गुणकर्मान्यत्वविशिष्टसत्तायाः शुद्धसत्तायाश्चैकत्वेन साध्याभाववति गुणे सत्तायास्सत्त्वेन, यदि सत्तायां साध्याभाववद्वृत्तित्वमेव स्यात्, न तु साध्याभाववदवृत्तित्वमित्यव्याप्तिरिति चेत्, न। अत्र केचित् - विशिष्टशुद्धयोरनतिरेके द्रव्यत्वाभाववति गुणे हेतोस्सत्त्वेन हेतोर्व्यभिचारित्वेन तस्यालक्ष्यत्वात्तत्र लक्षणासमन्वयस्य गुणत्वात्। अतिरेके चाव्याप्तेरेवाप्रसक्तेर्यत्किञ्चिदेतदित्याहुः। द्रव्यगुणकर्मसु विद्यमानायाः सत्ताया एकत्वेनाखण्डत्वात् किञ्चिद्विशेषणयोजनमात्रेण सखण्डत्वासंभवात् विशिष्टरूपेण भेदेऽपि स्वरूपत ऐक्यमप्यनिवार्यमिति। लक्षणमपि साध्याभाववन्निरूपितहेतु- तावच्छेदकसंबन्धावच्छिन्नवृत्तितानवच्छेदकधर्मवत्त्वं व्याप्तिरिति परिष्करणान्नाव्याप्तिः। एवञ्च प्रकृते साध्यतावच्छेदकेत्याद्यभाववान् गुणः। तन्निरूपितसमवायसंबन्धावच्छिन्नवृत्तितायामवच्छेदकं सत्तात्वम्। अनवच्छेदकं तु गुणकर्मान्यत्वविशिष्टसत्तात्त्वम्, गुणे गुणान्यत्वरूपविशषणाभावेन 'गुणः गुणकर्मान्यत्वविशिष्टसत्तावान्' इति प्रतीतेरसंभवात्।* टिप्पणी *नन्वेवमपि ‘एतद्वृक्षः कपिसंयोगी, एतद्वृक्षत्वात्' इत्यादौ एतद् वृक्षत्वाधिकरणे एतद्वृक्षे मूले कपिसंयोगाभावस्य सत्त्वात्, हेतोः एतद्वृक्षत्वस्य साध्याभाववद्वृत्तित्वात् व्यभिचारित्वापत्तिः। अतः व्यभिचारिलक्षणे साध्याभावे प्रतियोगि वैयधिकरण्यं विशेषणं देयम्। अत एव व्याप्तिलक्षणेऽपि व्यभिचाराभावरूपत्वाद् व्याप्तेः प्रतियोगिव्यधिकरणसाध्याभाववदवृत्तित्वमेव लक्षणं वक्तव्यमिति चेत् -- अत्रेदं चिन्त्यताम् - कपेः प्रायो वृक्षाग्रेवर्तमानत्वेऽपि, 'वृक्षे कपिरस्ति न वा?' इति प्रश्ने ‘कपिरस्ति' इत्येवोत्तरं वक्तव्यम्। कपेस्सत्त्वेऽपि, कपिसंयोगस्याव्याप्यवृत्तित्वात्, 'मूले कपिसंयोगो नास्ति' इत्येव प्रामाणिकं किलेति चेत्, 'वृक्षेऽस्ति न वा' इति प्रश्ने 'मूले' इत्यादि संयोज्योत्तरमपृष्टोत्तरमेव। भेदस्य व्याप्यवृत्तित्वम्, अभावस्त्वव्याप्यवृत्तिः इत्यादिकं तु कुकल्पनामात्रम्। प्रत्युत अत्यन्ताभावस्तु प्रतियोगिमत्यपि वर्तत इत्येव तत्त्वम्। अत एव ‘घटवत्यपि देशे घटात्यन्ताभावबुद्धिः कुतो नोत्पद्यते?' इत्याशङ्क्य, ‘घटाभावकालीनभूतलस्वरूपस्यैव संबन्धत्वान्न घटात्यन्ताभावबुद्धिः' इत्याद्युत्तरं संगच्छते। एवञ्च संयोगस्याव्याप्यवृत्तित्वेऽपि वृक्षे कपिसंयोगोऽस्ति, न वा ? इति प्रश्ने 'अस्ति' इत्येवोत्तरं प्रमाणिकम्। अन्यथा गृहे चैत्र वर्तमाने सति 'चैत्रो गृहे न वर्तते, किन्तु गृहैकदेशे क्वचित्कोणे वर्तते' इत्येवोत्तरं वक्तव्यं भवेत्। न हि चैत्रेण गृहे सर्वत्र व्याप्य स्थातुं शक्यम्। अतो 'गृहे वर्तते, न वा' इति प्रश्ने 'वर्तते' इत्येव प्रामाणिकम् ऋजूत्तरं वक्तव्यम्। अतश्च प्रतियोगिवैयधिकरण्यनिवेशादिकम् ऋजुमतीनां दृष्ट्या न देयमेव। अत एव च भ्रमलक्षणे 'तदभाववति' इत्यत्र 'प्रतियोगिव्यधिकरणतदभाववति' इत्यादिपरिष्करणमपि दत्तोत्तरम्। वस्तुतस्तु अभावपदप्रयोगोऽपि शास्त्र एव, न तु लोके। लोके तु ‘नास्ति’ इत्येव प्रयोगः। अधिकमभावविचारे द्रष्टव्यम्॥ ; आलोक- व्याख्या तथा च निष्कृष्टं लक्षणम्- साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छे-दकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभावव-न्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तितानवच्छेदकधर्मवत्त्वं व्याप्तिः। अधिकं त्वत्रोत्तरग्रन्थेभ्योऽवगन्तव्यम्। ननु ‘इदं वाच्यम्, ज्ञेयत्वात्' इत्यादिकेवलान्वयिस्थले साध्यस्य वाच्यत्वस्य सर्वत्र वर्तमानत्वात् तदभावाप्रसिद्ध्या अव्याप्तिरिति चेत्, न। साध्यादिभेदेन व्याप्तेर्भेदात्, तत्स्थलानुसारेण लक्षणान्तरकरणात् अस्य लक्षणस्य केवलान्वयिव्यतिरिक्तस्थले निर्दुष्टत्वान्न परित्यागावश्यकतेति प्राचीनाः। इदानीमेव व्याप्तेरव्यभिचरितत्वं च संगच्छते। अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। सर्वानुगता व्याप्तिस्तु हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगि- साध्यसामानाधिकरण्यम्। 'वह्निमान् धूमात्' इत्यादौ - हेतुः धूमः। तदधिकरणं पर्वतादिः। तद्वृत्तिरत्यन्ताभावः घटाद्यभावः। तत्प्रतियोगी घटः। अप्रतियोगी साध्यो वह्निः। तत्सामानाधिकरण्यं हेतौ धूमे वर्तत इति लक्षणसमन्वयः। ‘धूमवान् वह्नेः' इत्यादौ व्यभिचारिणि, हेतुर्वह्निः। तदधिकरणम् अयोगोलकमपि। तद्वृत्तिर्धूमाभावोऽपि। तत्प्रतियोगी साध्यो धूमः, न त्वप्रतियोगीति नातिव्याप्तिः। ' इदं वाच्यम् ज्ञेयत्वादित्यादौ। हेतुः ज्ञेयत्वम्। तदधिकरणं घटादिः। तद्वृत्तिर्वाच्यत्वाभावो न भवति, वाच्यत्वस्य सत्त्वात्, किन्तु पटत्वाद्यभावः। तत्प्रतियोगी पटत्वादिः। अप्रतियोगि साध्यं वाच्यत्वम्। तत्सामानाधिकरण्यं हेतौ ज्ञेयत्वे वर्तत इति लक्षणसमन्वयः। परिष्कारादिकं कुशलमतिभिरभ्यूह्यम्। ; तर्कसंग्रहः व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। परामर्शघटकस्य व्याप्तेः स्वरूपमभिधाय तद्घटकस्य पक्षधर्मत्वस्य स्वरूपमाह व्याप्यस्येत्यादि। व्याप्यः = व्याप्त्याश्रयो हेतुः। तस्य पक्षे वर्तमानत्वमेव पक्षधर्मतापदार्थः। हेतो: पक्षवृत्तित्वज्ञानं पक्षधर्मताज्ञानमित्युच्यते। पक्षनिरूपितं वृत्तित्त्वम् = पक्षवृत्तित्त्वम्। तच्च हेतुनिष्ठम्। 'पर्वतो धूमवान्' इति ज्ञानं पक्षधर्मताज्ञानम्। अत्र हि पर्वतो विशेष्यः, धूमो विशेषणम्। विशेषणम् = धर्मः। विशेष्यो = धर्मी। धूमपर्वतयोर्विशेषणविशेष्यभावे पर्वतनिरूपितं धर्मत्वम् = वृत्तित्वम् विशेषणत्वं धूमे वर्तते। 'यत्र धूमः, तत्र वह्निः' इति व्याप्तिः। तत्र धूमो व्याप्यः, व्यापको वह्निः। वह्निनिरूपिता व्याप्तिर्धूमे वर्तते। अतो व्याप्यो धूमः। तस्य पर्वतवृत्तित्वज्ञानं पक्षधर्मताज्ञानमित्युच्यते। एवञ्च व्याप्तिविशिष्टस्य हेतोः पक्षधर्मताज्ञानं परामर्श इति परामर्शस्वरूपमुक्तं भवति। ; तर्कसंग्रहः अनुमानं द्विविधम्। स्वार्थं परार्थं चेति। स्वार्थं स्वानुमितिहेतुः। तथा हि- स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ धूमे व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहान: पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात् पर्वतो वह्निमान् इति अनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम्। ; आलोक- व्याख्या अनुमानं विभजते - अनुमानं द्विविधमिति। स्वार्थम्, परार्थमिति संज्ञा। सैव तयोर्वैलक्षण्यं वक्तीत्यभिप्रायः। एतदुपपादयति - तथाहीत्यादिना। प्रथमं महानसादौ वह्निधूमयोर्व्याप्तिग्रहणम्। अनन्तरं कदाचिद्यदा पर्वतादौ धूमं पश्यति, तदा 'धूमवान् पर्वतः' इति ज्ञानं जायते। इदमेव पक्षधर्मताज्ञानमित्युच्यते। ततः पूर्वं महानसादौ गृहीतां व्याप्तिं स्मरति। इदं व्याप्तिस्मरणमेवानुमानमिति प्राचीनाः। ततस्तादृशव्याप्तिविशिष्टस्य धूमादेः पर्वतवृत्तित्वज्ञानात् 'वह्निव्याप्यधूमवान् पर्वतः' इत्याकारकं ज्ञानं जायते। अयमेव ‘परामर्शः’ अथवा 'लिङ्गपरामर्शः' इत्युच्यते। इदमेव अनुमानपदवाच्यमिति नवीनाः। ततो व्याप्येन धूमेन व्यापकस्य वह्न्यादेर्निश्चयः पर्वते जायते 'पर्वतो वह्निमान्' इति। इयमेवानुमितिरित्युच्यते। इदमेव ‘स्वार्थानुमानम्' इत्युच्यते। ‘अनुमीयत अनेनेत्यनुमानम्' इति करणार्थकप्रत्यये तु ज्ञानकरणमर्थः। अस्यानुमानस्य स्वानुभवरूपत्वात् 'स्वार्थानुमानम्' इति व्यवहारः। ; तर्कसंग्रहः यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्तत्तत्परार्थानुमानम्। यथा पर्वतो वह्निमान् धूमवत्त्वात्, यो यो धूमवान् सोऽग्निमान् यथा महानसः, तथा चायम्, तस्मात्तथा इति। अनेन वाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यते। प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः। पर्वतो वह्निमान् इति प्रतिज्ञा। धूमवत्त्वात् इति हेतुः। यो यो धूमवान् सोऽग्निमान् यथा महानस इत्युदाहरणम्। तथा चायं इत्युपनयः। तस्मात्तथेति निगमनम्। स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्। ; आलोक- व्याख्या परार्थानुमानं निरूपयति - यत्त्वित्यादिना। कश्चित् स्वानुभवक्रमेण परस्य पुरुषस्यापि तादृशानुमित्युत्पिपादयिषया वाक्यानि प्रयुङ्क्ते। तानि वाक्यानि श्रृण्वन् परोऽपि तत्फलतया पदार्थनिर्णयं करोति। अत्र तादृशवाक्यप्रयोग एव मूलम्। अतस्तानि वाक्यानि 'परार्थानुमानम्' इत्युच्यन्ते। अत्रानुमानपदं करणार्थकम्। तानि च वाक्यानि 'न्यायः' इत्युच्यन्ते। तानि च पञ्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनसंज्ञकानि 'न्यायावयवाः' इत्यप्युच्यन्ते। 'पर्वतो वह्निमान्' इति प्रतिज्ञा। 'धूमात्' इति हेतुः। 'यो धूमवान् स वह्निमान्, यथा महानसम्' इति व्याप्तिप्रतिपादकं वाक्यम् उदाहरणम्। ‘तथा चायम्’ (‘वह्निव्याप्यधूमवांश्चायम्') इति परामर्शानुकरणवाक्यम् उपनयः। ‘तस्मात्तथा' इति चेत् ‘पर्वतस्य वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान्' इत्युपसंहाररूपं वाक्यं निगमनम्। एतत्पञ्चावयववाक्यसमुदाय एव न्यायः इत्युच्यते। प्रतिज्ञादयः प्रत्येकम् 'अवयवाः' अथवा 'न्यायावयवाः' इत्युच्यन्ते। एतत्पञ्चावयववाक्यश्रवणात् श्रोतुर्मानसः 'वह्निव्याप्यधूमवान् पर्वतः' इति परामर्शो जायते। ततः ‘पर्वतो वह्निमान्' इति निश्चयऽनुमितिरूपो जायते। परस्यानुमितिं प्रति हेतुत्वात् एतानि पञ्चवाक्यानि 'परार्थानुमानम्' इत्युच्यन्ते। विशिष्य वादिप्रतिवादिनोः परस्परमभिमतार्थस्य प्रतिपादनाय वादरूपे जल्परूपे वा वाक्यार्थेऽस्य परमार्थानुमानस्य प्रधानोपयोगः। स्वार्थानुमितीति। स्वार्थं संपन्ना अनुमितिः स्वार्थानुमितिः। परार्थं संपन्ना अनुमितिः परार्थानुमितिः। उभयोरपि लिङ्गपरामर्श एवानुमित्यव्यवहितपूर्वक्षणे वर्तत इति लिङ्गपरामर्श एवानुमितिकरणमनुमानपदवाच्यमिति नवीनाः। पञ्चावयववाक्यानां परार्थानुमानपदवाच्यत्वं तु अनुमितिहेतुभूतमानसलिङ्गपरामर्शजनकत्वात्पारिभाषिकम्। पूर्वमेव करणलक्षणेऽयमर्थो विचारितो द्रष्टव्यः। ; तर्कसंग्रहः लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निः यथा महानसम् इत्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् इति। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति। सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत्। यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति। पृथिवीमात्रस्य पक्षत्वात्। ; आलोक- व्याख्या अन्वयव्याप्तिः ‘साध्याभाववदवृत्तित्वम्' इति पूर्वमेवोक्तम्। व्यतिरेकव्याप्तिस्तु ‘साध्याभावव्यापकीभूताभावप्रतियोगित्वम्'। 'वह्निमान् धूमात्’ इत्यादौ साध्यः वह्निः। तदभावः = वह्न्यभावः। तद्व्यापकीभूतोऽभावः धूमाभावः। तत्प्रतियोगित्वं धूमे वर्तत इति लक्षणसमन्वयः। ‘यत्र साध्याभावः = वह्न्यभावः, तत्र हेत्वभावः धूमाभावः, यथा ह्रद:' इति व्यतिरेकव्याप्त्यभिलापकः शब्दः। तथा च हेतुसाध्ययोः व्याप्तिरन्वयव्याप्तिः, साध्याभावहेत्वभावयोर्व्याप्तिः व्यतिरेकव्याप्तिरिति निष्कर्षः।। लिङ्गम् गमको हेतुः। तत् लिङ्गम् त्रिविधम्। व्याप्तिविशिष्टं हि धूमादिकं वह्न्यादिगमकम्, न केवलं धूमादीति सूचनाय हेतुपदं विहाय लिङ्गपदमुक्तम्। हेतुविशेषणस्य व्याप्तेः त्रिविधत्वात् लिङ्गं त्रिविधमित्युक्तम्। कुत्रचित् हेतावन्वयव्याप्तिः, व्यतिरेकव्याप्तिश्चेति द्वयमपि विशेषणतया भासते। अतस्तादृशं लिङ्गमन्वयव्यतिरेकीत्युच्यते। यत्र हेतावन्वयव्याप्तिमात्रं वर्तते तल्लिङ्गं केवलान्वयीत्युच्यते। यत्र हेतौ व्यतिरेकव्याप्तिमात्रं विशेषणतया भासते तत् लिङ्गं केवलव्यतिरेकि। दृष्टान्तः - 'पर्वतो वह्निमान् धूमात्' इत्यत्र 'यत्र धूमः, तत्र वह्निः यथा महानसम्' इत्यन्वयव्याप्तिः। 'यत्र वह्निर्नास्ति, तत्र धूमोऽपि नास्ति, यथा महाह्रद' इति व्यतिरेकव्याप्तिः। एवं धूमे लिङ्गे द्वयमप्यस्तीति धूमोऽन्वयव्यतिरेकिलिङ्गम्। इदं स्वार्थानुमाने। परार्थानुमाने त्वन्वयव्याप्तिक्रमः 'पर्वतो वह्निमान्' इति प्रतिज्ञा। 'धूमात्' इति हेतुः। 'यत्र धूमस्तत्र वह्निः, यथा महानसम्' इत्युदाहरणम्। ‘वह्निव्याप्यधूमवांश्चायम्’ इत्युपनयः। 'वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान्' इति निगमनम्। परार्थानुमाने व्यतिरेकव्याप्तिक्रमः 'पर्वतो वह्निमान्' इति प्रतिज्ञा। 'धूमात्' इति हेतुः। यो न वह्निमान् स न धूमवान्, यथा महाह्रदः' इत्युदाहरणम्। ‘वह्न्यभावव्यापकीभूतस्य धूमाभावस्याभाववानयम्' इति वा, 'वह्न्यभावव्याप- कधूमाभाववान्नायम्' इति वोपनयः। 'वह्न्यभावव्यापकधूमाभावस्याभावात्, न वह्न्यभाववानयम्' इति निगमनम्। 'न वह्न्यभाववानयम्' इति चेत् वह्निमत्त्व एव पर्यवसानम्, वह्न्यभावाभावस्य वह्निरूपत्वात्। एवमेव सर्वत्र अन्वयव्यतिरेकव्याप्त्युपपादनं द्रष्टव्यम्। 'घटोऽभिधेयः, प्रमेयत्वात्' इत्यत्र 'यत्र यत्र प्रमेयत्वम्, तत्र तत्राभिधेयत्वम्' इति स्वार्थानुमानेऽन्वयव्याप्तिः। अभिधेयत्वप्रमेयत्वयोः केवलान्वयित्वेनाभावाप्रसिद्ध्या व्यतिरेकव्याप्तिर्नास्ति। परार्थानुमाने 'घटः अभिधेयः' इति प्रतिज्ञा ‘प्रमेयत्वात्' इति हेतुः। प्रमेयत्वं यत्र तत्राभिधेयत्वम्, यथा पटे’ इत्युदाहरणम्। ‘अभिधेयत्वव्याप्यप्रमेयत्ववांश्चायं घटः' इत्युपनयः। ‘अभिधेयत्वव्याप्यप्रमेयत्ववत्त्वात् अभिधेयत्ववांश्चायं घटः' इति निगमनम्। केवलव्यतिरेकिणं दर्शयति- यथा पृथिवीत्यादि। पृथिव्या गन्धवत्त्वं लक्षणमुक्तम्। लक्षणं चेतरवैलक्षण्यसाधकम्। पृथिवी इतरेभ्यः = जलादिभ्यो भिद्यते। अतः सा इतरेभ्यो भिन्ना विलक्षणा भवति। अत्र यद्गन्धवत्तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्। कुतः ? गन्धवत्त्वात् इति हेतुः। तथा च 'पृथिवी जलादिभिन्ना, गन्धवत्त्वात्' इति प्रयोगः कर्तव्यः। अत्र 'यत्र यत्र गन्धवत्त्वम्, तत्र जलादिभेदः' इत्यन्वयव्याप्तिर्न संभवति। गन्धवत्याः पृथिव्याः पक्षत्वात्। अन्यत्र कुत्रापि गन्धाभावात् हेतुसाध्ययोर्व्याप्तिः = अन्वयव्याप्तिर्न संभवति। किन्तु 'यत्र साध्याभावः, तत्र हेत्वभावः' इति व्यतिरेकव्याप्तिरेव भवति। अत्र साध्यो जलादिभेदः। साध्याभावः = जलादिभेदाभावः। हेतुः = गन्धवत्त्वम्। हेत्वभावः = गन्धवत्त्वाभावः। यत्र जलादिभेदाभावः, जलादौ वर्तते, तत्र गन्धवत्त्वाभावोऽपि वर्तत इति व्यतिरेकव्याप्तिः।। व्यतिरेकव्याप्त्यनुगुणान् पञ्चावयवान् प्रदर्शयति - यथेत्यादि। ‘पृथिवी जलादिभिन्ना’ इति प्रतिज्ञा। 'गन्धवत्त्वात्' इति हेतुः। 'यत्र जलादिभेदाभावः, तत्र गन्धवत्त्वाभावः, यथा जलादिकम्' इत्युदाहरणम्' न चेयं पृथिवी जलादिभेदाभाव-व्यापकगन्धाभाववती, अपि तु गन्धवती' इत्युपनयः। 'जलादिभेदाभावव्यापकगन्धाभाव-स्याभावात् जलादिभेदाभाववती न, किन्तु जलादिभेदवत्येव' इति निगमनम्। ननु कुतोऽन्वयव्याप्तिर्नास्ति ? यत्र गन्धवत्त्वम्, तत्र पृथिव्यां जलादिभेदो वर्तत एव किलेत्यत्राह- अत्रेत्यादि। पृथिवीमात्रस्य - सर्वपृथिव्याः। तथा च कृत्स्नपृथिव्याः पक्षत्वात्, सपक्षस्याभावात् अन्वयदृष्टान्तो नास्ति, ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ महानसादिवत्। अतोऽन्वयव्याप्तेरभावात् केवलव्यतिरेकि। ; तर्कसंग्रहः सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान् सपक्षः। यथा तत्रैव महानसः। निश्चितसाध्याभाववान् विपक्षः। यथा तत्रैव महाह्रदः। ; आलोक-व्याख्या 'पक्षधर्मता' इत्यत्र पक्षो नाम कः? इति प्रश्ने, पक्षस्य वक्तव्यत्वात्, तत्प्रसङ्गादन्वयव्याप्तिव्यतिरेकव्याप्त्युपयोगितया सपक्षविपक्षयोरप्यवश्यं ज्ञेयत्वात्तेषां लक्षणान्याह- सन्दिग्धेत्यादि। सन्दिग्धं च तत् साध्यं च सन्दिग्धसाध्यम्। सन्दिग्धसाध्यम् अस्मिन्नस्तीति सन्दिग्धसाध्यवान् इति विग्रहः। सन्दिग्धमित्यत्र संपूर्वक दिहधातोः संशयोऽर्थः। क्तप्रत्ययस्य विषयतावानर्थः। प्रकृते प्रकारतावान् इत्यर्थः। प्रकारतावतश्चाभेदसंबन्धेन साध्येऽन्वयः। तथा च संशयनिरूपितप्रकारतावदभिन्नसाध्य- निष्ठाधेयतानिरूपिताधिकरणतावान् पक्ष इत्यर्थः। साध्यनिष्ठाधेयतानिरूपिताधिकरणत्वं प्रकृते संदेहविशेष्यत्वे पर्यवस्यति। तथा च साध्यनिष्ठप्रकारतानिरूपकसंशयनिरूपितविशेष्यताश्रयः पक्ष इति शाब्दबोधः। साध्यप्रकारकसंदेहविशेष्यत्वं पक्षत्वमिति लक्षणम्। वह्निमपेक्षमाण आरण्यकः कश्चित् ‘पार्श्वस्थः पर्वतो वह्निमान् न वा' इति संदेग्धि। यदा तत्र धूमं पश्यति, तदा 'पर्वतो धूमवान्' इति पक्षधर्मताज्ञानं जायते। अनन्तरं व्याप्तिं स्मरति। अनन्तरं 'वह्निव्याप्यधूमवानयं पर्वतः' इति परामर्शः। ततः पर्वतो वह्निमान्' इत्यनुमितिः। अत्र प्रथमं 'पर्वतो वह्निमान्, न वा' इति संशयस्य जननात्, तत्र संशये साध्यस्य वह्नेः प्रकारत्वात्, पर्वतस्य च विशेष्यत्वात् साध्यप्रकारकसंदेहविशेष्यत्वादुक्तानुमितौ पर्वतः पक्ष इत्युच्यते।। नव्यास्तु अपवरके स्थितस्य घनगर्जनश्रवणे सति 'गगनं मेघवत्, घनशब्दवत्त्वात्' इत्यनुमानं हठाज्जायते। अत्र पूर्वं 'गगनं मेघवन्न वा ?' इति संशयस्याभावात् अनुमितिर्न स्यात्। अतः साध्यनिश्चयाभावमात्रं पक्षता। ‘साध्यसंशयः पक्षता' इति तूत्सर्गमात्रम्। पूर्वं निश्चये सति अनुमितेरप्रसरात्, साध्यनिश्चस्यानुमितिं प्रति प्रतिबन्धकत्वात्, प्रतिबन्धकाभावस्य कार्यसामान्यं प्रति कारणत्वात् साध्यनिश्चयाभाव एव पक्षता। यत्र पूर्वं साध्यनिश्चयो नास्ति, स पक्ष इत्युच्यते। साध्यनिश्चय एव साध्यसिद्धिरित्युच्यत इति। साध्यनिश्चयाभाव एव - 'सिद्ध्यभावः पक्षता' इति संक्षेपेणोच्यते। परन्त्वत्राप्यस्ति क्लेशः। उत्कटेच्छेतरसर्वकार्यं प्रति प्रतिबन्धिकेति सर्वसंमतम्। सर्वकार्यं प्रतीति चेत् प्रतिबन्धकं प्रत्यपीच्छा प्रतिबन्धिका। एवञ्च सिद्धिरूपप्रतिबन्धकसत्त्वेऽपि 'पर्वते वह्निमनुमिनुयाम् = अनुमानेन साधयेयम्' इतीच्छायां सत्यां तु पर्वते वह्न्यनुमितिर्भवत्येव। तदा सिद्ध्यभावरूपपक्षताया अभावेऽप्यनुमितिः। कथमिति चेत्, इच्छाविरहकाल एव सिद्धिः सिषाधयिषाविरहविशिष्टसिद्धिरेव प्रतिबन्धिका। साधयितुमिच्छा सिषाधयिषा प्रकृते अनुमितीच्छा। सिषाधयिषाविरहविशिष्टसिद्धेः प्रतिबन्धकत्वे, प्रतिबन्धकाभावस्य कार्यसामान्यकारणत्वात् सिषाधयिषाविरहविशिष्टसिद्ध्यभावोऽनुमितिं प्रति कारणम्। स एव पक्षतेत्युच्यते। घनगर्जितेन मेघानुमानस्थलेऽपि एतादृशसिद्ध्यभावरूपपक्षताऽस्त्येव। यत्र साध्यसंशयानन्तरमनुमितिः, तत्रापि पूर्वं साध्यसंशयस्यैव सत्त्वेन, सिद्धेरभावात् उक्तसिद्ध्यभावरूपपक्षताऽक्षतैवेति कुत्रापि नानुपपत्तिः।* टिप्पणी *साध्यनिश्चयः अनुमितिं प्रति प्रतिबन्धक इत्युक्तम्। साध्यनिश्चयो द्विविधः सामानाधिकरण्येन, अवच्छेदकावच्छेदेन च। पुरोवृत्तिपर्वतमात्रे वह्निसाधने सामानाधिकरण्येन साध्यनिश्चयो भवति। धूमवान् पर्वतः सर्वोऽपि वह्निमान् भवेदेवेति साधने पर्वतत्वावच्छेदेन वह्निसाधनात्, इयमवच्छेदकावच्छेदेनानुमितिरित्युच्यते। ‘कुसुमं पृथिवी, गन्धवत्त्वात्’ इत्यादिरप्यवच्छेदकावच्छेदेनानुमितिः। एवं सिद्धिरपि अवच्छेदकावच्छेदेन सिद्धिः, सामानाधिकरण्येन सिद्धिरिति द्विविधा। पक्षतावच्छेदकावच्छेदेन सिद्धिरेव अवच्छेदकावच्छेदेन सिद्धिरित्युच्यते। पक्षतावच्छेदकविशिष्टे यत्र कुत्रचित् सिद्धिः पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धावपि पक्षतावच्छेदकावच्छेदेनानुमितेरविरोधात्, सामानाधिकरण्येन साध्यसिद्धिः = 'पुरोवर्तिपर्वतो वह्निमान्' इति सिद्धिः ‘पुरोवर्तिपर्वतो वह्निमान्' इत्यनुमितिं प्रत्येव प्रतिबन्धिका। ततश्चोभयविधसिद्धिः सामानाधिकरण्येनानुमितिं प्रति प्रतिबन्धिका। अवच्छेदकावच्छेदेनानुमितिं प्रति, अवच्छेदकावच्छेदेन साध्यसिद्धिरेव प्रतिबन्धिका। एवं ‘पर्वतो धूमवान्' इति पक्षधर्मताज्ञानानन्तरमेव व्याप्तिस्मरणादिक्रमेणानुमितिर्जायते। तदा पर्वतप्रत्यक्षहेतोः पर्वतचक्षुस्संयोगस्यापि सत्त्वेन, पर्वतप्रत्यक्षं जायेत वा, वह्न्यनुमितिर्जायेत वा ? इति प्रश्ने वह्न्यनुमितिरेव जायते, न तु पर्वत प्रत्यक्षमित्येवानुभवः। अतः भिन्ने विषये अनुमितिसामग्र्येव प्रबला, न तु प्रत्यक्षसामग्री। समाने विषये तु प्रत्यक्षसामग्र्येव प्रबला। एवमनङ्गीकारे कुत्राप्यनुमितिरेव न स्यात्। सर्वत्र चक्षुस्सन्निकर्षरूपसामग्र्यास्सत्त्वेन अन्ततः त्वक्संयोगरूपसामग्र्याः भूप्रदेशादिप्रत्यक्षसामग्र्यास्सत्त्वेन, कुत्रापि अन्यज्ञानमेव न स्यात्। कुत्रापि ज्ञानद्वयं युगपन्न संभवति। 'युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' इति हि सूत्रम्। बाह्येन्द्रियापेक्षया मनसः प्रबलत्वात्, येनेन्द्रियेण मनस्संयुक्तं भवति तदिन्द्रियप्रत्यक्षमेव जायेत। इदमेव मनसोऽवधानमित्युच्यते। ‘अवहितमना नासम्, अतो न ज्ञातम्' इत्याद्यनुभवदर्शनात्। अत एव पुण्याहादिकर्मप्रयोगकाले “स्वामिनोऽवहितमनसो भवत” “अवहितमनसः स्मः” इति प्रश्नप्रतिवचनादिकं दृश्यते। अतस्समाने विषये प्रत्यक्षसामग्री प्रबला, भिन्ने विषये तु परोक्षसामग्री प्रबला इति नियम आवश्यकः। अयं नियमः शाब्दबोधस्थलेऽपि समानः। अत एव 'परोक्ष' पदम्। परं तु इच्छायाः सर्वकार्यं प्रति उत्तेजकत्वात्, तत्तदिच्छायाः इतरसर्वकार्यं प्रति प्रतिबन्धकत्वात् इतरेच्छाविरहः सर्वत्रावश्यकः। एतत्प्रतिबन्धकत्वमेव ‘कामिनीजिज्ञासादिवत्' स्वातन्त्र्येण प्रतिबन्धकत्वमुच्यते। अत एव तद्वत्ताबुद्धिं प्रति तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयः, ज्ञानविशिष्टज्ञानत्वावच्छिन्ना स्वातन्त्र्येणान्यविषयिणी इच्छा च इति ज्ञानस्थले प्रतिबन्धकत्वं चतुर्विधम्; मणिमन्त्रौषधादीनां तु वस्तूत्पत्तिस्थले प्रतिबन्धकत्वमिति विशेषोऽवगन्तव्यः। ज्ञानमपि हि किञ्चिद्वस्तु, अतो ज्ञानोत्पत्तिं प्रत्यपि एषां प्रतिबन्धकत्वमावश्यकमित्येतत्तु उत्सर्गरूपो वर्तेतैव। अत एव प्राचीने काले जल्परूपकथासु जयपराजयप्रधानासु मन्त्रबलेन वाग्बन्धादिकथाः श्रूयन्ते स्म। अयमंशः मुकुन्दमालास्तोत्रेऽति प्राचीने 'भक्तापायभुजङ्गगारुडमणिः' 'जिह्वे! श्रीकृष्णमन्त्रम्' 'व्यामोहप्रशमौषधम्- श्रीकृष्णादिव्यौषधम्' इत्यादि दृश्यते। जैनबौद्धादयः मन्त्रादिसिद्धिबलात् वैदिकान् वादे जित्वा स्वमतप्रचारं कुर्वन्त आसन्; आल्वार् (विष्णुभक्ताः) शिवभक्ताश्चावतीर्य तान् दैवबलात् जित्वा पुनः वैदिकमतं स्थापयामासुः इत्यादिकं (क्रैस्त पञ्चमशताब्देरारभ्याष्टमशताब्दि पर्यन्तकाले) चरित्रं दृश्यत इत्यादिकं ‘सत्यसिद्धौ' विस्तरेण प्रतिपादितम्॥ ; आलोक- व्याख्या पक्षलक्षणानन्तरं सुगमं सपक्षादिलक्षणमिति, तदाह - निश्चितेत्यादि। निश्चितसाध्यवानित्यादिकं पूर्ववदेव ज्ञेयम्। तथा च साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वम्। एवमेव साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षस्य लक्षणमिति स्पष्टम्। 'वह्निमान् धूमात्' इत्यत्र पर्वतः पक्षः, महानसादिः सपक्षः, महाह्रदादिर्विपक्षः। ; तर्कसंग्रहः सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः। एवं अनुमितिः साङ्गा निरूपिता। अनुमितिर्यथार्थानुभवविशेषः। तस्या हेतुः व्याप्तिज्ञानम्, व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपपरामर्शो वा। तत्र व्याप्तिर्नाम का ? पक्षत्वं नाम किम् ? सपक्षत्वम्, विपक्षत्वम् च किम् ? इत्यादिकं सर्वं निरूपितम्। प्रत्यक्षे प्रमाभ्रमविभागो यथा तथानुमितावपि प्रमाभ्रमविभागो वर्तते। प्रत्यक्षे तत्कारणानामिन्द्रियादीनां दोषाद् भ्रमो भवति। तथैवानुमितौ तद्धेतुभूतव्याप्तिपक्षधर्मतादिवैकल्यरूपदोषाद् भ्रमो भवति। व्याप्तिपक्षधर्मतादिविशिष्टत्वं सद्धेतूनां लक्षणं चेत्, व्याप्तिपक्षधर्मताद्यन्यतमशून्यत्वं दुष्टहेतूनां स्वरूपम्। यथा 'पर्वतो वह्निमान् धूमात्' इत्यत्र धूमः सद्धेतुः, तथा 'पर्वतो धूमवान् वह्नेः' इत्यत्र वह्निर्दुष्टो हेतुः। 'यत्र धूमस्तत्र वह्निः' इति वह्निधूमयोर्नियतं साहचर्यं वर्तते। धूमवह्नयोस्तु न तथा साहचर्यं नियतम्, तप्तायोगोलके वह्नेस्सत्त्वेऽपि धूमस्यादर्शनात्। एवमन्येऽपि हेतुदोषास्सन्ति। अतस्सद्धेतुनिरूपणानन्तरमसद्धेतवोऽप्यवश्यं निरूपयितव्याः। असद्धेतव एव हेत्वाभासा इत्युच्यन्ते॥ तान् संकलय्य विभज्य प्रदर्शयति - सव्यभिचारेत्यादि। हेतुवदाभासन्त इति हेत्वाभासा इति हेत्वाभासपदमत्र दुष्टहेतुपरम्, यतः सव्यभिचारादिपदं दोषविशिष्टपरम्। ‘हेतोराभासाः' इति व्युत्पत्त्या तु हेत्वाभासपदं हेतुदोषपरम्। व्याप्तिपक्षधर्मताद्यन्यतमशून्यत्वं दुष्टहेतूनां लक्षणम्। निष्कृष्टं लक्षणं तु- अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्। 'ह्रदो वह्निमान्' इति बाधस्थले अनुमितितत्करणान्यतरप्रतिबन्धकं यत् यथार्थज्ञानमिति चेत् ? ‘वह्न्यभाववान् ह्रदः' इत्याकारकं ज्ञानम्। तद्वत्तावुद्धिं प्रति तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वात् 'ह्रदो वह्निमान्' इत्यनुमितिं प्रति ‘ह्रदः वह्न्यभाववान्’ इति निश्चयस्य प्रतिबन्धकत्वम्। तच्च यथार्थज्ञानम्। तद्विषयत्वं वह्न्यभाववद्ध्रदे वर्तत इति वह्न्यभाववद्ध्रदो बाधः। तादृशबाधितार्थसाधकतया 'धूमात्' इति हेतोः प्रयोगात् हेतुस्तत्र बाधित इत्युच्यते। 'धूमवान् वह्नेः' इत्यत्र तु साध्यो धूमः। तदभाववान् तप्तायःपिण्डः, तद्वृत्तित्वं हेतौ वह्नौ वर्तत इत्ययं हेतुर्व्यभिचारीत्युच्यते, एतज्ज्ञानं च, व्याप्तिज्ञानं प्रत्येव प्रतिबन्धकम्। 'साध्याभाववदवृत्तिर्हेतुः' इति व्याप्तिज्ञानं प्रति प्रतिबन्धकम्, न तु अनुमितिं प्रति प्रतिबन्धकम्। तदर्थं लक्षणे तत्करणप्रतिबन्धकत्वनिवेशः। 'पर्वतो वह्निमान् धूमात्' इत्यादावपि ‘वह्न्यभाववद्वृत्तिर्धूमः' इत्याकारकभ्रमात्मकज्ञाने जाते, व्याप्तेः प्रतिबन्धात्, अनुमितिकरणप्रतिबन्धकत्वं जातमिति, भ्रमात्मकज्ञानमादाय हेतोर्दुष्टत्वा- पत्तिरित्यतो यथार्थपदं ज्ञाने विशेषणम्। 'वह्न्यभाववद्वृत्तिर्धूमः' इति ज्ञानस्य भ्रमत्वात् तदादाय धूमस्य न दुष्टत्वसंभवः। बहु विजृम्भितं नव्यतर्कपण्डितैरत्र। तत्त्वन्यत्र। ; तर्कसंग्रहः सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्। तत्र साध्याभाववद्वृत्तिः साधारणः। यथा पर्वतो वह्निमान् प्रमेयत्वात्। अत्र प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः। यथा शब्दो नित्यः शब्दत्वात्। अत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वात्। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति। ; आलोक- व्याख्या पञ्चधाविभक्तेषु दुष्टहेतुष्वाद्यं लक्षयति- सव्यभिचारोऽनैकान्तिक इति। 'धूमवान् वह्नेः' इति प्रयोगे कृते हि, हेतुर्वह्निः धूमवति महानसादौ वर्तते, धूमाभाववति तप्तायः पिण्डेऽपि वर्तते। अतोऽयं हेतुर्धूमधूमाभावसाधारणः। तेनान्यतरकोटिनिर्णयो न संभवति। अतोऽयं दोषोऽनैकान्तिक इति साधारणादीनां त्रयाणामनुगतं सामान्यलक्षणम्। एकान्तिकः अन्यतरकोटिनिर्णयावसानः। तद्विपरीतोऽनैकान्तिकः। विचारस्यान्तो हि निश्चयः। निश्चये जाते न हि विचारो वर्धेत। साध्याभाववद्वृत्तित्वं प्रथमस्य साधारणस्य लक्षणम्। 'पर्वतो वह्निमान्, प्रमेयत्वात्' इत्यत्र, साध्यो वह्निः। तदभावः वह्न्यभावः। तद्वान् ह्रदादिः। तद्वृत्तित्वं प्रमेयत्वे हेतौ वर्तते। अतः प्रमेयत्वहेतुः साधारणः। सव्यभिचारपदस्य साधारणादित्रयसाधारणत्वेऽप्ययमेव व्यभिचारी इति बहुलं व्यपदिश्यते। द्वितीयमसाधारणं लक्षयति - सर्वेत्यादि। सर्वेभ्यस्सपक्षेभ्यः, सर्वेभ्यो विपक्षेभ्यश्च व्यावृत्तः- सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारण इत्युच्यते। हेतोस्सपक्षवृत्तित्वे एवान्वयव्याप्तिर्गृहीतुं शक्यते। विपक्षव्यावृत्तत्वं तु सद्धेतोर्गुणः। अथापि पक्षमात्रवृत्तित्वबोधनार्थम्, तेनासाधारण्यसंज्ञाया औचित्यार्थं च तदुक्तम्। अतश्च सर्वसपक्षव्यावृत्तत्वमात्रं लक्षणं बोध्यम्। अनुपसंहारी- अन्वयेत्यादि। अन्वयदृष्टान्तोऽपि नास्ति, व्यतिरेक- दृष्टान्तोऽपि नास्ति यत्र, सोऽनुपसंहारी। यथा 'सर्वम् अनित्यम्, प्रमेयत्वात्' इत्यत्र सर्वस्यापि पक्षत्वात्, सपक्षविपक्षौ कथं स्याताम्। असाधारणे सपक्षविपक्षौ स्तः, परन्तु हेतुस्तेभ्यो व्यावृत्तः। अत्र तु सपक्षविपक्षावेव न स्तः। एतत्सूचनाय वा पूर्वं विपक्षोऽपि कोडीकृतः। अतश्च व्याप्तिग्रहणस्थलमेव नास्ति। ; तर्कसंग्रहः साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कार्यत्वात् (कृतकत्वात्) घटवत्। अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्। ; आलोक-व्याख्या विरुद्धः- साध्याभावव्याप्तः। वस्तुतः साध्यव्याप्यो हेतुः स्यात्। एतद्विरुद्धतयात्र हेतुः साध्याभावव्याप्तः प्रकृते इति विरुद्धो हेतुरिति संज्ञा। 'शब्दः नित्यः, कार्यत्वात्' इत्यत्र कार्यत्वं हि साध्यस्य नित्यत्वस्याभावेनानित्यत्वेन व्याप्तम्- यत्र यत्र कार्यत्वम्, तत्र सर्वत्रानित्यत्वमिति व्याप्तिः। यद्यप्यत्र साध्याभाववद्वृत्तित्वं हेतोर्वर्तत इति व्यभिचारदोषोऽप्यस्ति, अथापि 'दुष्टसंकरेऽपि दोषासंकरः' इति न्यायात् दोषौ एकत्र भवतः। लोके मूर्खः कश्चित् चौर्यं कृत्वा तदाच्छादानार्थम् असत्यं वक्ति। तत्र एकस्मिन् पुरुषे चौर्यमेको दोषः, असत्यवदनमपरो दोष इति एकस्मिन्नेव दोषद्वयप्रसक्तावपि दोषयोर्भेदो वर्तत एव। पुरुषैक्यमात्रात् दोषैक्यम्, पापैक्यं वा न भवति। तद्वत् एकस्मिन्नेव हेतौ दोषद्वयसंभवेऽपि दोषैक्यं कदापि न भवतीत्युक्तन्यायस्यार्थः। विरुद्धहेतुप्रयोगे साध्याभावसाधके हेतु:, भ्रान्त्या साध्यसाधकतयोपन्यस्त इति वादिनोऽज्ञानातिशयो ज्ञाप्यते। ; तर्कसंग्रहः यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात् घटवत्। ; आलोक-व्याख्या यस्येत्यादि। प्रतिपक्षः- प्रतिपक्षसाधको हेतुः। तेन सहितो यः, स सप्रतिपक्षः, सत्प्रतिपक्ष इति वा कथ्यते। सन् प्रतिपक्षो यत्रेति बहुव्रीहिः। वादिप्रतिवादिनोश्चर्चायाः 'कथा' इति संज्ञा। तत्र वादी स्वपक्षसाधनाय ‘शब्दो नित्यः, श्रावणत्वात्, शब्दत्ववत्' इति प्रयुङ्क्ते। श्रावणत्वं नाम श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वम्। यत्र श्रावणत्वं वर्तते, तत्र नित्यत्वं वर्तते, यथा शब्दत्वे। 'येनेन्द्रियेण' इत्यादिन्यायेन शब्दः श्रोत्रेन्द्रियेण गृह्यते चेत्, शब्दत्वमपि श्रोत्रेण गृह्यत इति व्याप्तिरस्ति। एवं वादिना परार्थानुमाने प्रदर्शिते, प्रतिवादिना उक्तहेतोरप्रयोजकत्वं प्रदर्शनीयम्। अथवा प्रतिप्रयोगो वा कर्तव्यः। नो चेत् वादिनो जयः स्यात्। प्रतिप्रयोगश्चैवम् 'शब्दोऽनित्यः, कार्यत्वात्, घटवत्' इति। यत्र यत्र कार्यत्वम्, तत्र सर्वत्रानित्यत्वमिति व्याप्तिरस्ति। एवं पञ्चावयववाक्ये प्रयुक्ते परस्याप्यनुमितिर्भवति 'शब्दोऽनित्यः' इति। अत्र हेतावप्रयोजक- त्वेऽप्रदर्शितेऽनुमानद्वयमपि परस्परं प्रतिहतं सत्साध्यसाधकं न भवति। वादिनोः कस्यापि जयो न भवति। अत्र प्रथमो हेतुः सत्प्रतिपक्षदोषयुक्तः ‘सप्रतिपक्षितः' इत्युच्यते। एतादृशकथायां परार्थानुमानस्य प्रयोगः सार्थकः। ; तर्कसंग्रहः असिद्धस्त्रिविधः - आश्रयासिद्ध: स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः। स च नास्त्येव। स्वरूपासिद्धो यथा - शब्दो गुणः चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। (यथा) पर्वतो धूमवान् वह्नेः इत्यत्र आर्द्रेन्धनसंयोग उपाधिः। यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता। यत्र वह्निः तत्रार्द्रेन्धनसंयोग नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावात्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्। ; आलोक-व्याख्या असिद्ध इति। पक्षहेत्वादीनां स्वरूपस्यैवासिद्ध्या व्याप्तेरप्यसंभवादेषामसिद्ध इति नाम। आश्रयः पक्षः। स एव यत्राप्रसिद्धः, स आश्रयासिद्धः। गगनवृत्तित्वविशिष्टं ह्यरविन्दमप्रसिद्धम्। अप्रसिद्धपक्षकत्वाद्धेतुरप्यसिद्ध इत्युच्यते। एवमेव 'काञ्चनमयपर्वतो वह्निमान्, धूमात्’ इत्युक्ते पर्वते काञ्चनमयत्वाप्रसिद्ध्याऽऽश्रयासिद्धो हेतुः। तथा च पक्षतावच्छेदकाभाववत्पक्ष आश्रयासिद्ध इति लक्षणम्। पक्षे यत् विशेषणम्, तत् पक्षतावच्छेदकमित्युच्यते। गगनसंबन्धः काञ्चनमयत्वं चोक्तस्थले पक्षतावच्छेदकम्। यद्यप्यरविन्दत्वम्, पर्वतत्वञ्च धर्मितावच्छेदकविधया पक्षे विशेषणत्वात् पक्षतावच्छेदकमेव। तच्च विशेष्येऽरविन्दे, पर्वते च वर्तते, अथापि विशेषणान्तरस्य गगनसंबन्धस्य, काञ्चनमयत्वस्य च विशेष्येऽभावात्, विशिष्टस्यैव पक्षत्वादप्रसिद्धिर्भवत्येवेति दोष एव। यद्यपि चाक्षुषत्वं गगनारविन्दवन्नाप्रसिद्धम्, दृष्टान्ते रूप एव प्रसिद्धत्वात्, परन्तु हेतोः पक्षवृत्तित्वं प्रधानं स्वरूपम्। तच्च चाक्षुषत्वे नास्ति। अतो हेतुस्वरूपस्यासिद्ध्या स्वरूपासिद्धिरित्युच्यते। 'पर्वतो वह्निमान्, काञ्चनमयधूमात्' इत्यादिप्रयोगे तु हेत्वसिद्धिर्दोषः। हेतुतावच्छेदकाभावावान् हेतुः हेत्वसिद्धः। हेत्वसिद्धिस्तु स्वरूपासिद्धेरन्यो दोषः। एवम् 'पर्वतः काञ्चनमयवह्निमान् धूमात्' इति प्रयोगे ‘साध्यतावच्छेदकाभाववत्साध्यम्' साध्याप्रसिद्धिरिति दोषोऽपि ज्ञेयः। अनयोस्सुज्ञत्वात्पृथगनुक्तिः॥ सोपाधिकः उपाधिसहितः। तादृशो हेतुः व्याप्यत्वासिद्धः इत्युच्यते। व्याप्यः = व्याप्त्याश्रयः। व्याप्यत्वं व्याप्तिः। व्याप्तेरसिद्धिरित्यर्थः। उपाधेर्लक्षणम् - साध्येत्यादि। साध्याधिकरणवृत्त्यत्त्यन्ताभावाप्रतियोगित्वम् साध्यव्यापकत्वम्। साधनाधिकरणवृत्त्यत्त्यन्ताभावप्रतियोगित्वम् साधनाव्यापकत्वम्। यथा ‘पर्वतो धूमवान् वह्नेः' इति प्रयोगे आर्द्रेन्धनसंयोगः संयोगसंबन्धेनार्द्रेन्धनम् उपाधिः। अत्र साध्यः धूमः। तदधिकरणं महानसादिः। तत्र वर्तते योऽत्यन्ताभाव इति चेत्, आर्द्रेन्धनसंयोगाभावो न भवति। महानसे नियमेनार्द्रेन्धनसंयोगस्य सत्त्वात्। वह्नेरार्द्रेन्धनसंयोगे सत्येव धूमस्योत्पत्तेः। किन्तु जलाद्यभाव एव। तत्प्रतियोगि जलादिकम्, अप्रतियोगी आर्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। एवम् साधनं वह्निः। तदधिकरणं तप्तायःपिण्डोऽपि। तत्र वर्तते योऽत्यन्ताभाव इति चेत्, तप्तायः पिण्डे धूमासंभवात् वह्नेरार्द्रेन्धनसंयोगे सत्येव धूमोत्पत्तेः। अतस्तप्तायःपिण्डे वर्तमानोऽभावः = आर्द्रेन्धनसंयोगाभावः। तत्प्रतियोगी =आर्द्रेन्धनसंयोग इति साधनाव्यापकत्वमपि वर्तते। अतो वह्निना धूमसाधने आर्द्रेन्धनसंयोग उपाधिः। महानसे आर्द्रेन्धनसंयोगस्य प्रत्यक्षप्रतिपन्नत्वात् वह्निसंयोगरहितस्य तस्य धूमहेतुत्वाभावात् आर्द्रेन्धनसंयोग उपाधिरित्युक्तः। एवञ्च धूमेन यथा वह्निस्साध्यते, तथा वह्निनापि धूमस्साधयितुं शक्य इति भ्रान्त्या ‘धूमवान् वह्नेः’ इति प्रयोगे कृते, आर्द्रेन्धनसंयुक्तवह्नेरेव धूमजनकत्वात् आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिस्तत्सन्निहिते वह्नौ गृहीता भ्रान्त्या। यथा जपाकुसुमसंबन्धात् 'लोहितः स्फटिकः' इति प्रतीतिः स्फटिकसंयुक्त-जपाकुसुमगतलौहित्यस्य स्फटिके भानात् औपाधिकी, तथैवात्रापि आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिरार्द्रेन्धनसंयोगविशिष्टे वह्नौ भासत इति आर्द्रेन्धनसंयोग उपाधिः। स्वस्मिन् वर्तमानं विशेषं स्वसन्निहिते वस्तुन्यारोपयितुं समर्थं वस्तूपाधिरित्युच्यते। यत्र यत्रोपाधिसहितं वस्तु वर्तते, तत्र सर्वत्र तद्वस्तुनि तद्व्यवहारो लोके प्रसिद्धः। तप्तायःपिण्डो दहति। तत्र दाहकत्वं वह्नेर्धर्मः, न केवलमयसः। अयसा संयुक्तो वह्निर्दहति, न त्वयः। वह्निगतं दाहकत्वं स्वसंयुक्तेऽयसि आरोपितम्। अतोऽयसो दाहकत्वमौपाधिकम्। अत एव 'अयो दहति' इति शब्दप्रयोग औपचारिकः। प्रतीतिस्त्वौपाधिकी। इदं सर्वं बुद्धिपूर्वकत्वे। अबुद्धिपूर्वकत्वे तु प्रतीतिर्भ्रान्तिरेव। शब्दप्रयोगोऽपि भ्रान्तिमूलकः। एवञ्च उप आधीयतेऽनेन (स्वस्मिन् विद्यमानं विशेषं स्वसन्निहिते येनाधीयते) इति व्युत्पत्त्या - उपाधिः इति पदं निष्पन्नम्। जपाकुसुमं हि स्वसन्निहिते स्फटिके स्वगुणं रक्तरूपमादधत् 'लोहितः स्फटिकः' इति व्यवहारहेतुर्भवति। वह्निर्हि स्वसंयुक्तेऽयसि स्वगुणं दाहकत्वमादधत् ‘अयो दहति' इति व्यवहारहेतुर्भवति। एवमार्द्रेन्धनसंयोगः स्वस्मिन् विद्यमानां धूमव्याप्तिं आर्द्रेन्धनसंयुक्ते वह्नौ भासयति। अतो धूमव्याप्तिर्वह्नौ वर्तत इति भ्रान्त्या प्रयुङ्क्ते 'धूमवान् वह्नेः' इति। तथा च साध्यव्यापकत्वे सति साधनाव्यापकत्वं तदनुगुणमुपाधेर्लक्षणमुक्तम्। साध्यव्यापकत्वमात्रस्य लक्षणत्वे ‘वह्निमान् धूमात्’ इत्यादावालोकवत्त्वमुपाधिः स्यात्। यत्र यत्र वह्निः, तत्रालोको वर्तत इति साध्यव्यापकत्वात्। तदर्थं साधनाव्यापकत्वमुक्तम्। एवं सति आलोकवत्त्वस्य धूमव्यापकत्वात् साधनाव्यापकत्वाभावान्न तस्योपाधित्वम्। साधनाव्यापकत्वमात्रोक्तौ- ‘शब्दोऽनित्यः, कार्यत्वात्' इत्यत्र अश्रावणत्वमुपाधिः स्यात्। 'यत्र यत्र कार्यत्वम्, तत्र सर्वत्र अश्रावणत्वम्' इति व्याप्तेरभावात्। पक्षे शब्दे कार्यत्त्वसत्त्वेऽपि श्रावणत्वस्याभावेन साधनाव्यापकत्वसत्त्वात्। साध्यव्यापकत्वनिवेशे तु 'यत्र यत्रानित्यत्वम्, तत्र सर्वत्राश्रावणत्वम्' इति साध्यव्यापकत्वस्यापि अश्रावणत्वेऽभावान्नोपाधित्वम्। एतादृशोपाधिविशिष्टो हेतुस्सोपाधिकत्वात् व्याप्यत्वासिद्ध इत्युच्यते। ; तर्कसंग्रहः यस्य साध्याभाव: प्रमाणान्तरेण निश्चितः स बाधितः। यथा वह्निरनुष्णः पदार्थत्वात्। अत्रानुष्णत्वं साध्यम्, तदभाव उष्णत्वं त्वाचप्रत्यक्षेण गृह्यत इति बोध्यम्। ; आलोक- व्याख्या बाधितं निरूपयति - यस्येत्यादि। अत्र वाक्ये 'पक्षे' इति पूरणीयम्। यस्य हेतोः, सम्बन्धसामान्ये षष्ठी, साध्यस्याभावः पक्षे प्रमाणान्तरेण प्रत्यक्षादिना निश्चितः, स हेतुर्बाधित इत्युच्यते। तथा च साध्याभाववत्पक्षकत्वं बाधः इति बाधदोषस्य लक्षणम्। तादृशपक्षकत्वात् उक्तो हेतुर्बाधित इत्युच्यते। यथा 'ह्रदो वह्निमान्' इत्यत्र वह्न्यभाववद्ध्रदो बाधः। ह्रदे वह्न्यभावः प्रत्यक्षसिद्धः। एवं दुष्टहेतूनां स्वरूपेऽवगते, एभिरनुमितिर्न भवति, साक्षाद्वा परम्परया वानुमितेः प्रतिबन्धात्। तद्वत्तावुद्धिं प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्च प्रतिबन्धकः। भूतलं घटाभाववत्' इति निश्चयः ‘भूतलं घटवत्' इति निश्चयं प्रति प्रतिबन्धकः। ‘ह्रदो वह्न्यभाववान्’ इति निश्चये जाते ‘ह्रदो वह्निमान्' इति ज्ञानं न हि भवितुं शक्यम्। एवम् ‘वह्न्यभावव्याप्यजलवान् ह्रदः' इति ज्ञाने सत्यपि 'ह्रदो वह्निमान्' इति ज्ञानं न भवति। जले विद्यमाने कथं वह्निस्स्यात्। अतस्तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्चेति द्वयं साक्षादेव प्रतिबन्धकम्। एवम् ‘जलवान् ह्रदः' इति निश्चयोऽपि 'वह्न्यभावव्याप्यं जलम्' इति ज्ञानकालिको वह्निमत्ताबुद्धिं प्रति प्रतिबन्धकः। तदभावव्याप्यवत्तानिश्चयस्तु एकं ज्ञानम्। इदं तु ज्ञानविशिष्टं भिन्नं ज्ञानम्। ज्ञानविशिष्टज्ञानत्वेन इदं ज्ञानद्वयं प्रतिबन्धकमित्युच्यते। निष्कर्षस्तु 'तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयोऽपि तद्वत्तावुद्धिं प्रतिबन्धकः' इति। तदभावः वह्न्यभावः। तदवच्छेदकतया गृहीतो धर्मः 'जलवत्त्वम्’। ‘वह्न्यभावव्याप्यं जलम्' इति एकं ज्ञानम्, 'जलवान् ह्रदः' इत्यपरं ज्ञानम्। अत्र जलवत्त्वं वह्न्यभावव्याप्यतया गृहीतम्। अतस्तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयोऽपि तद्वत्ताबुद्धिं प्रति प्रतिबन्धकः।। एवं मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वमपि अतिरिक्तमङ्गीकार्यम्। मणिसहितेन वह्निना दाहो न जायते। मणेः सत्तैव दाहं प्रति प्रतिबन्धिका। एवं मन्त्रविशेषोऽपि। आदिना ओषधिविशेषो विवक्षितः। एते हि कार्यं प्रति साक्षादेव प्रतिबन्धकाः। तद्वत्ताज्ञानमप्येकं कार्यम्। एतत्प्रति तदन्यविषयिण्युत्कटेच्छापि प्रतिबन्धिकैव। 'वह्निव्याप्यधूमवानयं पर्वतः' इति परामर्शसमकालमन्यविषयिणी उत्कटेच्छा यदि भवेत्, तदा 'पर्वतो वह्निमान्' इत्यनुमितिर्न स्यात्। इदमेव प्रतिबन्धकम् 'कामिनीजिज्ञासादिवत्स्वातन्त्र्येण प्रतिबन्धकम्' इत्युच्यते। तरुणस्य हि पुरुषस्य कामिनीविषयिणी तीव्रेच्छा- दिदृक्षादिरूपा यदि भवेत्, तदा सा तीव्रेच्छा इतरकार्यप्रतिबन्धिका यतः, तत एवानुमिति प्रत्यपि प्रतिबन्धिका। तथा च तद्वत्ताबुद्धिं प्रति १) तदभाववत्तानिश्चयः २) तदभावव्याप्यवत्तानिश्चयः ३) तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयः ४) स्वातन्त्र्येण चेति प्रतिबन्धकत्वं चतुर्विधम्। आद्यं त्रयं ज्ञानरूपम्। अन्तिमं तु न ज्ञानरूपम्। किन्तु वस्तुरूपम्। अत एवेदं चतुर्थं 'स्वातन्त्र्येण प्रतिबन्धकम्', 'मणिमन्त्रादिन्यायेन प्रतिबन्धकम्', 'कामिनीजिज्ञासादिवत्प्रतिबन्धकम्’ इत्यादिशब्दैर्व्यवह्रियते। प्रतिबध्यं तु ज्ञानं संशयरूपं निश्चयरूपं च। अत एव प्रतिबध्यकोटौ ‘ज्ञान’पदम्, 'बुद्धि' पदमेव वा प्रयोज्यम्। प्रतिबन्धककोटौ तु 'निश्चय' पदमेव प्रयोज्यमित्यत्यन्तमवधेयम्। प्रकृते - सव्यभिचारेषु आद्यं साध्याभाववद्वृत्तित्वरूपसाधारणदोषज्ञानम्, साध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानं प्रति प्रतिबन्धकत्वात् अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वाद्धेत्वाभासत्वम्। असाधारण्यं तु हेतोः पक्षमात्रवृत्तित्वरूपम्। तद्ज्ञानं व्याप्तिज्ञानं प्रति प्रतिबन्धकम्। सपक्षसत्त्वेऽपि हेतुस्तत्र न वर्तत इति व्याप्तिग्रहासंभवात्। अनुपसंहारी तु, सर्वस्यापि पक्षत्वात्, सपक्षविपक्षयोरभावात्, अन्वयव्याप्तिर्वा व्यतिरेकव्याप्तिर्वा ग्रहीतुं न शक्यत एवेति व्याप्तिग्रहणासंभवाद्दुष्टः। विरुद्धो हेतु:, साध्याभावव्याप्तत्वज्ञानात् साध्यव्याप्तिविघटक इति व्याप्तिज्ञानप्रतिबन्धकः। अथवा साध्याभावव्याप्यवत्तानिश्चयविधयानुमितिप्रतिबन्धको वा। सत्प्रतिपक्षितो हेतुस्तु साध्याभावव्याप्यत्वात्, तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयविधया साक्षादेव साध्यवत्ताबुद्धिं प्रति प्रतिबन्धकः। परन्तु हेतुप्रतिहेतुद्वयसत्त्वात् परस्परं तत्तदभावव्याप्यवत्ताबुद्ध्योः प्रतिबन्धकत्वा- दनुमितिप्रतिबन्धकः। असिद्धौ- आश्रयासिद्धिस्तु पक्षस्यैवाप्रसिद्ध्या पक्षे साध्यवत्तानिश्चयासंभवात्परंपरयानुमितिप्रतिबन्धः। एवमेव साध्याप्रसिद्धिहेत्वप्रसिद्धयोरपि ज्ञेयम्। स्वरूपासिद्धेस्तु पक्षे हेतुमत्ताज्ञानरूपपक्षधर्मताज्ञानविघटकत्वात्परामर्शप्रतिबन्धः फलम्। व्याप्यत्वासिद्धेस्तु- सोपाधिकत्वात्, प्राचीनमते अनौपाधिक- सम्बन्धरूपत्वाद्व्याप्तेः साक्षाद्व्याप्तिज्ञानप्रतिबन्धः फलम्। नवीनमते तु बाधोन्नायकतया साक्षादनुमितिप्रतिबन्धः फलम्। उन्नायकत्वं नामानुमापकत्वम् अनुमितिजनकत्वम्। अथवा व्यभिचारोन्नायकतया व्याप्तिज्ञानप्रतिबन्धः फलम्। 'हेतुः साध्यव्यभिचारी, साध्यव्यापकोपाधिव्यभिचारित्वात्, यो यद्व्यापकव्यभिचारी, स तद्व्यभिचारी। यथा घटत्वव्यापकपृथिवीत्वव्यभिचारि जलत्वं घटत्वव्यभिचारि' इति सामान्यव्याप्तिः। अथवा 'धूमवान् वह्नेः' इत्यादिस्थले वह्निः धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोग-व्यभिचारित्वात्, यो यद्व्यापकव्यभिचारी, स तद्व्यभिचारी, यथा घटत्वव्यापकपृथिवीत्व- व्यभिचारि जलत्वं घटत्वव्यभिचारि इति विशेषव्याप्तिः। बाधोन्नायकत्वं नाम तदभावसाध्यकानुमितिजनकत्वम्। यथा 'धूमवान् वह्नेः' इत्यादौ ‘अयोगोलकं धूमाभाववत्, धूमव्यापकार्द्रेन्धनसंयोगाभावात्, यत् यद्व्यापकाभाववत्, तत् तदभाववत् यथा घटत्वव्यापकपृथिवीत्वाभाववत् जलं घटत्वाभाववत्' इत्यनुमानं बोध्यम्। एवञ्च हेतोर्दुष्टत्वज्ञाने जाते, तादृशहेतोरनुपादेयत्वनिश्चयः, अदुष्टहेतोरुपादेयत्वनिश्चयश्च भवतीति हेत्वाभासज्ञानमपि विवेकहेतुतया तत्त्वज्ञानोपयोगीति मन्तव्यम्। ।। इत्यनुमानखण्डः।। स्वार्थपरार्थानुमाने अनुमानं द्विविधं स्वार्थं परार्थं च। स्वार्थं स्वानुमितिहेतुः। तथाहि स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्रधूमस्तत्र तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम्। यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानम्। यथा पर्वतो वह्निमान्। धूमवत्त्वात्। यो यो धूमवान्स स वह्निमान्यथा महानसम्। तथा चायम्। तस्मात्तथेति। अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते॥ ४१॥ पञ्चावयवः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्जावयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः। यो यो धूमवान्स स स वह्निमान्यथा महानस इत्युदाहरणम्। तथा चायमित्युपनयः। तस्मात्तथेति निगमनम्॥ ४२॥ लिङ्गपरामर्शः स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्॥ ४३॥ लिङ्गत्रैविध्यम् लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत्। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्॥ ४४॥ पक्षसपक्षविपक्षाः सन्दिग्धसाध्यवान्पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान्सपक्षः यथा तत्रैव महानसम्। निश्चितसाध्याऽभाववान्विपक्षः यथा तत्रैव महाह्रदः॥ ४५॥ हेत्वाभासाः सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः। सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्। तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान्प्रमेयत्वादिति। प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा शब्दो नित्यः शब्दत्वादिति। शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वादिति। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति। साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कृतकत्वादिति। कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम्। यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत्। शब्दोऽनित्यः कार्यत्वाद्घटवदिति। असिद्धस्त्रिविध आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजारविन्दवदिति। अत्र गगनारविन्दमाश्रयः। स च नास्त्येव। स्वरूपासिद्धो यथा शब्दोऽनित्यश्चाक्षुषत्वात् रूपवत्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। पर्वतो धूमवान्वह्निमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्। यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वात्(जलवत्)इति। अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम्॥ ४६ ॥ उपमानम् उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। तथा हि कश्चिद्गवयशब्दवाच्यमजानङ्कुतश्चिदारण्यपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति। तदनन्तरमयं गवयशब्दवाच्य इत्युपमितिरुत्पद्यते॥ ४७ ॥ ; आलोकः - उपमानम् ; तर्कसंग्रहः अथोपमानखण्डः उपमितिकरणमुपमानम्। संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। तथाहि- कश्चिद् गवयशब्दवाच्य(पदार्थ)मजानन् कुतश्चिदारण्यकपुरुषात् “गोसदृशो गवय” इति श्रुत्वा वनं गतः, गोसदृशपिण्डं पश्यन् वाक्यार्थं स्मरति। तदनन्तरं “अयं गवयपदवाच्यः” इत्युपमितिरुत्पद्यते। ; आलोक- व्याख्या अथोपमानखण्डः क्रमप्राप्तमुपमानं निरूपयति - उपमितीति। उपमितेः करणम् - उपमितिकरणम्। करणं नाम करणतावत् - असाधारणकारणतावदित्यर्थः। उपमितेरित्यत्र षष्ठ्याः कार्यत्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। कार्यतायाश्च निरूपितत्वसंबन्धेन असाधारणकारणतायामन्वयः। तथा च उपमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत् उपमानम् इति शाब्दबोधः। लक्षणं तु- उपमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत्त्वम् इति। उपमितिर्नाम केत्यत्र - संज्ञेत्यादि। गोसदृशस्यारण्यकप्राणिनः 'गवयः' इति संज्ञा। संज्ञी तु प्राणिविशेषः। 'गवयपदं गोसदृशप्राणिवाचकम्' इत्यर्थनिर्णयः- गवयपदवाच्यनिर्णय उपमितिशब्दार्थः। स च निर्णयः शब्दार्थयोर्वाच्यवाचकभावसंबन्धज्ञानमूलक इति वाच्यवाचकभावसंबन्धज्ञानम् संज्ञासंज्ञिसंबन्धज्ञानम् उपमानपदार्थो नवीनमते। एतच संबन्धज्ञानं गोगवययोः सादृश्यज्ञानमूलकम्। प्राचीनमते एतदेवोपमानपदार्थः। संज्ञासंज्ञिसंबन्धिज्ञानं मध्ये व्यापारः, अनुमितौ परामर्श इव। एवञ्चोपमानं शक्तिग्राहकं प्रमाणमवगन्तव्यम्। अत एव शब्दप्रमाणात्पूर्वं परिगणितम्। तत्प्रकारं वर्णयति - तथा हीत्यादिना। नन्वेवं शक्तिग्राहकस्याप्युपमानस्य वस्तुग्राहकप्रमाणानां प्रत्यक्षादीनां मध्ये गणनं कथमिति चेत्, सत्यम्। लोकातीतवस्तुवाचकानां वैदिकानामिन्द्रादिपदानां शक्तिग्रह उपमानादेव वक्तव्यः। एवं परोक्षाणां परदेशानां प्रतिदिनं क्रियमाणो व्यवहारादिरुपमानमूलक एव। यथा भोजनस्य तृप्तिसाधनत्वज्ञानमनुमानरूपमप्यतिपरिचयात् प्रत्यक्षसदृशं भवत्येवमुपमानमपि। अतो वेदप्रामाण्यहेतुत्वात्, दैनन्दिनव्यवहाराणां बहूनां प्रामाण्य- निर्वाहार्थमुपमानस्यैवाश्रयणीयतयांशतो वस्तुग्राहकत्वमप्यस्त्युपमानस्य। नो चेत्प्रायस्सर्वैर्मूखैर्भवितव्यमिति मत्वा उपमानमपि स्वतन्त्रं प्रमाणं परिगणितमिति मन्तव्यम्। अंशतः पारतन्त्र्यं तु प्रत्यक्षादेरप्यनिवार्यम्। सर्वप्रमाणमूर्धन्यमपि ऐन्द्रियकं प्रत्यक्षप्रमाणमालोकादिसापेक्षमेव। तावता प्रत्यक्षं स्वविषये स्वतन्त्रमित्येव सर्वसंमतम्। एवं शब्दानुमानयोरपि प्रत्यक्षोपजीव्यत्वस्यानिवार्यत्वेऽपि स्वविषये स्वातन्त्र्यमवर्जनीयमेव। एवमेवोपमानमपि केवलशक्तिग्राहकप्रमाणमिति स्थितेऽपि पारलौकिकानां स्वर्गापवर्गादिविषयाणां शब्दैकसमधिगम्यत्वेन तद्विषयकव्यवहारः स्वतन्त्र इव भाति विदुषाम्। अत्रत्यमर्यादाया अतिसूक्ष्माया अपरिचयादेव उच्चावचाः वादविवादाः वर्धन्त इत्यपि न तिरोहितं विदुषाम्। अतः अक्षपादोक्तिरत्यन्तसाधीयसीति प्रामाणिकैर्मन्तव्यम्। ।। इत्युपमानखण्डः।। शब्दप्रमाणम् आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानय शुक्लां दण्डेनेति। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः॥ ४८॥ ; आलोकः - शब्दप्रमाणम् ; तर्कसंग्रहः अथ शब्दखण्डः आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं तु पदसमूहः। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंङ्केतः शक्तिः। ; आलोक- व्याख्या अथ शब्दखण्ड: क्रमप्राप्तं शब्दप्रमाणं निरूपयति - आप्तेत्यादि। आप्तस्य वाक्यम् आप्तवाक्यम्। सम्बन्धसामान्ये षष्ठी। स च प्रकृते तदुच्चरितत्वरूपः। तथाच आप्तोच्चरितत्वे सति वाक्यत्वं शब्दप्रमाणलक्षणम्। अनेन जातं च प्रमात्मकं ज्ञानं शाब्दबोध इत्युच्यते। यद्यपि वञ्चकवाक्यजन्यं ज्ञानं भ्रमः स्यात्, परन्तु 'यथार्थानुभवञ्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधम् - प्रत्यक्षानुमानोपमानशब्दभेदात्' इत्येवोक्तेः, यथार्थानुभवस्यैवायं विभागः। अतश्चाप्तोच्चरितवाक्यमेव शाब्दप्रमितेः करणभूतः शब्द इत्यनाप्तवाक्यस्य प्रमाकरणत्वमेव नास्तीति नातिव्याप्तिः॥ आप्तो नाम कः ? यथार्थवक्तेति। 'आप्तो यथादृष्टार्थवक्ता' इत्यपि दृश्यते। स्वेन यथा दृष्टं तथैव वदेचेदाप्त इति। परं तु तदीयदर्शने यदि भ्रान्तिस्स्यात्तदा का गतिः ? इति प्रश्नो भवति। तदानीं तस्य विप्रलंभकत्वाभावेऽपि आप्तत्वं कथं स्यात्, वस्तुस्थित्या तेनान्यथाकथनादिति चेत्, अत एव 'यथादृष्टार्थवक्ता' इति परित्यज्य 'यथार्थवक्ता' इत्युक्तम्। यत्र स्वयंभ्रान्तोऽपि तदजानन्नेव सत्यं मत्वा वक्ति, तदा स नाप्तः, नापि विप्रलम्भकः, तस्य विप्रलिप्साया अभावात् नापि यथार्थवक्ता, किन्तु यथादृष्टार्थवक्ता। अत एव शब्दव्यवहारे महान् भारो वर्तते, श्रोतुरपि भारोऽनिवार्यः। प्रामाण्यं प्रति यथार्थवक्तृत्वमेव हेतुः। आप्तलक्षणमुक्तम्। वाक्यं नाम किम् ? इत्यत्राह - पदसमूह इति। तर्हि पदं नाम किम् ? इत्यत्र - शक्तं पदमिति। शक्तिविशिष्टोऽकारादिवर्णसमुदायः पदमित्यर्थः। ननु नैयायिकैः शक्तेरतिरिक्ताया अनङ्गीकारात् 'शक्तम्' इति कथमुच्यते ? इत्यत्र अस्मादित्यादि। ईश्वरसङ्केतः शक्तिरिति *शक्तेः स्वरूपम्। ‘अस्मात् पदादयमर्थो बोद्धव्यः' इति ईश्वरसङ्केतस्याभिलापकः प्रदर्शकः शब्दः। लोके हि गवादिशब्दाः सर्वदेशकालेषु सर्वेषामपि सास्नादिमत्प्राणिविशेषबोधजनका दृश्यन्ते। कथमेवमविसंवादेन शब्दप्रयोगः, शाब्दबोधश्च ? पूर्वपूर्वपुरुषाणां परम्परया तथा प्रयोगवशादिति चेत्, प्रथमप्रयोगः कस्येति वक्तव्यम्। 'गावो वा एतत्सत्रमासत' इत्यादिषु वैदिकप्रयोग एव प्रथमप्रयोग इति चेत्, वेदस्येश्वरोपदेशरूपत्वात्, ईश्वर एवैतादृशबोधजनकेच्छया एतानि पदानि प्रयुक्तवानिति ज्ञायते। यथा गुणवृद्ध्यादिसंज्ञाः पाणिनिना तत्तदर्थबोधेच्छया संकेतिता इदानीमपि तथैव प्रयुज्यन्ते। ततश्च 'गुणवृद्ध्यादिपदं तत्तदर्थबोधजनकं भवतु इति पाणिनीच्छापूर्वकं यथा, तथैव गवादिपदान्यपि तदुच्चारयितुरीश्वरस्येच्छया तत्तदर्थबोधनसमर्थानि भवन्तीति ‘अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरेच्छैव शक्तिपदार्थः। नातिरिक्ता शक्तिः। ननु नदीवृद्ध्यादिपदेषु पाणिनीच्छाया एव दर्शनादीश्वरेच्छाया अदर्शनात्कथं तत्पदानां बोधकत्वं जातमिति चेत्, 'ईश्वरस्स्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।' इति दर्शनात् 'तेन विना तृणाग्रमपि न चलति' इति न्यायात्, पाणिनिना संज्ञाकरणमपीश्वरेच्छाधीनमेवेति परम्परयेश्वरेच्छा तत्रापि वर्तत इति न दोषः। अत ईश्वरेच्छैव शक्तिः। टिप्पणी *शक्तिग्राहकप्रमाणानि - कस्य पदस्य कुत्र शक्तिः ? इति कथं ज्ञायते इति चेत्, ईश्वरेच्छैव तत्र नियामिकेत्युक्तं किलेति चेत्, ईश्वरेच्छां सामान्यजनाः कथं जानीयुरिति चेत्, सत्यम् - परिगणितानि शक्तिग्राहकान्येवम् - शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यात् व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।। इति। अस्यार्थः- शक्तिग्रहं व्याकरणोपमानादिभिः वृद्धाः प्रवदन्तीत्यन्वयः। शक्तिर्नाम प्रकृते पदानां बोधनसामर्थ्यम्। १) व्याकरणात् शक्तिग्रहः धातुप्रकृतिप्रत्ययानां भवति। यथा भू सत्तायाम् इत्यादिना भ्वादिधातूनां सत्ताद्यर्थे शक्तिर्ज्ञायते। एवं घटम् इत्यादौ द्वितीयाविभक्त्यादीनां कर्मत्वाद्यर्थे शक्तिरित्यपि कर्मणि द्वितीया इत्यादिव्याकरणात् ज्ञायते। २) उपमानाच्छक्तिग्रहप्रकारश्चोपमानखण्डे प्रादर्शि। ३)कोश: नामलिङ्गानुशासनादिः। पुलोमजा शचीन्द्राणी इत्यादिकोशात् पुलोमजादिपदानाम् इन्द्रपत्न्यादौ शक्तिर्ज्ञायते। इन्द्रादिपदानां तु वस्तुत उपमानादेव शक्तिरित्यादिकं लोकादेव ज्ञायते। यथा वा एतल्लोके राजानोऽधिपतयः, तथेन्द्रादयोपीत्येव वक्तव्यम्। ४) आप्तवाक्यम् शक्तिग्रहः॥ आप्तानां मित्रादीनां वाक्यादपि पाकशासनादिपदानामिन्द्रादौ शक्तिग्रहः। ५) व्यवहारः- हानोपादानादिः। गामानय, गां नय इत्यादि वृद्धवाक्यं शृण्वन् पार्श्वस्थो बालः, गवानयनादिकर्मणि प्रवृत्तं तत्पुत्रम्, गवानयनादिकं च पश्यन्, तत्तत्पदानामावापोद्वापादिकं च जानन् तत्तत्पदानां तत्तदर्थे शक्तिं जानाति। बाला ह्यतिसूक्ष्ममतयः, सदा कुतूहलिनः, जिज्ञासापरायणास्सहजत एव। अत एव बाल्ये पदानां आनयनादिकार्यान्वित एव शक्तिग्रहात्, कार्यान्वित एव शक्तिरिति केचित्। चैत्रः कीदृश: ? चैत्रस्सुन्दरः इत्यादौ कार्यविशेषाभावेऽपि चैत्रादिपदानां व्यक्तिविशेषबोधजनकत्वदर्शनात्, कार्यान्वितेऽपि शक्तिरस्त्येवेति लोकव्यवहारनिर्वहणचतुरा नैय्यायिकाः। ६) वाक्यस्य शेषात्- वाक्यशेषादित्यर्थ:। यथा गामानय इत्यादौ गोपदस्य वृषभसाधारणस्य गोपदस्य, अद्य भूकर्षणं कर्तव्यम् इति समनन्तरमेव वाक्ये प्रयुक्ते वृषभे शक्तिग्रहः लोके। वेदे तु यवमयश्चरुर्भवति इति वाक्ये यवः क इति संशये, तद्वाक्यशेषभूतात् अथान्या ओषधयो म्लायन्ते, अथैते मोदमानास्तिष्ठन्ते इति वाक्यात् दीर्घशूकविशिष्टे धान्ये शक्तिग्रहः। शूकपदस्य तु शूकोऽस्त्री "लक्षणतीक्ष्णाग्रे इत्यादिकोशात् धान्यानामग्रे वर्तमानः कण्टकतुल्योऽवयवः। ७) विवृतिः - विवरणम्। तदा तदा व्याख्याकारादिभिः लक्षणादिमुखेन क्रियमाणं विवरणं प्रसिद्धम्। आप्तवाक्यं तु पर्यायपदादिशब्दः। विवृतिस्तु- प्रश्नोपप्रश्नादिपूर्वकं शब्दार्थनिश्चयहेतुः॥ ८) सान्निध्यात्सिद्धपदस्य - प्रसिद्धपदसान्निध्यमित्यर्थ:। बहुपदघटिते वाक्ये एकपदं विनेतरेषां सर्वेषां शक्तिग्रहे सति तदेकपदस्येतरपदसमभिव्याहारवशाच्छक्तिग्रहो भवति। यथा शृणु, सहकारतरौ मधुरं पिको रौति इति सन्निहितपुरुषोक्ते वाक्ये पिकपदव्यतिरिक्तानामर्थे ज्ञाते, तद्वशात् पिकपदस्य पक्षिविशेषे शक्तिग्रहो भवति। एवमौचित्यवशात्सर्वं ज्ञेयम्॥ ; आलोक- व्याख्या *शाब्दबोधोत्पत्तिक्रमः - प्रथमं 'गामानय' इति वाक्यश्रवणात् शब्दानुपूर्वीविषयकं श्रोत्रेन्द्रियजन्यं ज्ञानम्। ततः शक्तिस्मरणम्। ततः ‘एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम्' इति न्यायेन पदार्थस्मरणम्। यथा हस्तिहस्तिपकयोरसकृद्दर्शनेन कालान्तरे, तयोरन्यतरस्य कुत्रचिद्दर्शने, तदन्यविषयस्य स्मरणं भवति, तथा शक्तिस्मरणे पदार्थस्मरणम्। अतश्च शक्तिः पदपदार्थयोस्संबन्धरूपा। स च संबन्धो वाच्यवाचकभावरूपः, नातिरिक्तः। एवं पदार्थस्मरणानन्तरमाकाङ्क्षादिवशात्परस्परम् अन्वयविशिष्टः शाब्दबोधः। अयमेव शाब्दप्रमेत्युच्यते।। टिप्पणी *शाब्दबोधः - शब्दजन्यो बोधः शाब्दबोधः। प्रत्यक्षादिषु प्रमाणेषु शब्दस्यैव इतरापेक्षया व्यापकता सर्वानुभवसिद्धा। 'आदित्येऽस्तमिते, चन्द्रमस्यस्तमिते, अग्नौ शान्ते किंज्योतिरास्ते पुरुषः' ? इति प्रश्ने, 'वागेवास्य ज्योतिः' (बृ.उ.) इति ह्युक्तम्। इतरप्रमाणैः ज्ञातुमशक्यमपि शब्देन ज्ञातुं शक्यते। पारलौकिकोऽपि व्यवहारः शब्दमूलतयैव हि क्रियते। अतश्शाब्दबोधप्रक्रियाप्यवश्यं ज्ञेया सुधीभिः। क्रियारूपधात्वर्थमुख्यविशेष्यकशाब्दबोधवादिनो वैयाकरणाः। 'सर्वं वाक्यं क्रियायां परिसमप्यते' इति हि न्यायः। क्रियावाचिनो हि धातवः। अतः क्रियैव वाक्ये प्रधानमिति तदाशयः। (चैत्रकर्तृकः, तण्डुलकर्मकः पाकः इति शाब्दबोधः)। पाकादि क्रिया हि बाह्यः पदार्थः। स च मानवदृष्ट्या प्रयत्नरूपव्यापारसाध्यः। ‘चैत्रः तण्डुलं पचति' इत्युक्ते 'चैत्रकर्तृकः तण्डुलकर्मकः पाकानुकूलो व्यापारः' इति हि बोधः। स च व्यापारः आख्यातवाच्यः। अतः आख्यातार्थमुख्यविशेष्यक एव बोधः इति आख्यातार्थमुख्यविशेष्यक एव शाब्दबोध इति मीमांसकाः। पुरुषव्यापारस्याख्यातार्थत्वे, पुरुष एव प्राधान्यपर्यवसानात्, कर्ता पुरुष एव वाक्ये प्रधानतया बोध्यते। पुरुषार्थपर्यवसायी खलु व्यवहारः। क्रियानिवर्तकेषु कारकेषु कर्तैव 'स्वतन्त्रः कर्ता' इति लक्षितः। 'चैत्रः घटं करोति' इत्यादौ चैत्र एव प्रथमान्तपदेनोच्यत इति तत्रैव वाक्यार्थस्य पर्यवसानात् प्रथमान्तमुख्यविशेष्यक एव शाब्दबोधो लोकानुभवसिद्ध इति आख्यातेनोच्यमानो व्यापार एवाख्यातार्थः। तथा च 'चैत्रस्तण्डुलं पचति' इत्युक्ते 'तण्डुलनिष्ठविकप्तयनुकूलव्यापारा(पाका)नुकूल प्रयत्ना(कृत्या)श्रयः चैत्रः' इत्येव बोधः लोके स्वरसः। अतः प्रथमान्तार्थमुख्यविशेष्यक एव शाब्दबोध इति लोकव्यवहारनिपुणा नैयायिकाः। 'लकाराः कर्मणि कर्तरि च स्युः' इत्यत्र 'कर्मत्वे कर्तृत्वे च' इति भावप्रधानो निर्देशः 'द्व्येकयोः' इत्यत्र 'द्वित्वैकत्वयोरि’तिवत्। कर्त्राख्याते आख्यातस्य कर्तृत्वमर्थः। कर्तृत्वं च कृतिः। कृतिश्च चैत्रे विशेषणतया भासते। कर्माख्याते तु आख्यातस्य कर्मत्वमर्थः। कर्मत्वं चाश्रयत्वरूपम्। आख्यातेन कर्तुरनभिधानात्, चैत्रपदोत्तरं तृतीयाप्राप्त्या, तृतीयायाः कर्तत्वरूपकृतिरर्थः। प्रकृत्यर्थस्य चैत्रस्य समवेतत्वसंबन्धेन तृतीयार्थकृतावन्वयः। तस्य च स्वप्रयोज्यत्वसंबन्धेन धात्वर्थैकदेशे व्यापारे अन्वयः। पाकः किल विकप्त्यनुकूलव्यापारः। तथा च ‘चैत्रसमवेतकृतिप्रयोज्यव्यापारप्रयोज्यविकप्त्याश्रयः तण्डुल इति बोधः। 'चैत्रो ग्रामं गच्छती’त्यादौ ‘ग्रामनिष्ठसंयोगानुकूलव्यापारानुकूलकृतिमानि’ति बोधः। ‘चैत्रेण ग्रामो गम्यते' इत्यत्र च 'चैत्रसमवेत कृतिजन्यसंयोगाश्रयो ग्राम' इति बोध इत्याद्यवगन्तव्यम्॥ नन्वेवं सति ‘चैत्रेण तण्डुलः पच्यते' इत्यादौ कथं तण्डुलविशेष्यकबोधो भवेत् ? इति चेत्, प्राधान्यस्य कदाचित् मानवबुद्ध्यपेक्षत्वात्, कर्मप्राधान्यविवक्षया कर्मणि प्रयोगोपि साधुरेव। तथा च 'तण्डुलकर्मकपाकानुकूलकृतिमान् चैत्रः' इति कर्त्राख्याते बोधः। कर्माख्याते तु 'चैत्रेण तण्डुलः पच्यते’ इत्यादौ ‘चैत्रसमवेत- कृतिजन्यविकड्ट्याश्रयः तण्डुलः' इति, प्रथमान्तमुख्यविशेष्यक एव शाब्दबोधः। ‘चैत्रेण सुप्यते’ इत्यादिभावाख्यातस्थले तु 'चैत्रकर्तृकः - चैत्रसमवेतकृतिजन्यः स्वापः’ इति धात्वर्थमुख्यविशेष्यकबोधः। भावाख्यातातिरिक्तस्थले तु प्रथमान्तमुख्यविशेष्यक एव शाब्दबोध इति संक्षेपः। अधिकं व्युत्पत्तिवादादौ। (प्रकृते तर्कसंग्रहे लक्षणवाक्यानां शाब्दबोधप्रक्रियायाः अध्ययनेनेतरत्सर्वं सुगमम्।) अथ समासस्थले शाब्दवोधप्रक्रिया संग्रहेण प्रदर्श्यते विग्रहवाक्य- समस्तवाक्ययोस्समानविषयकत्वमुत्सर्गः। यथा 'नीलोत्पलम्' इति समस्तपदम्। 'नीलमुत्पलम्' इति व्यस्तप्रयोगः। 'नीलं च तत् उत्पलं च' इति कर्मधारयः। 'नीलाभिन्नम् उत्पल' मित्युभयत्रापि शाब्दबोधः। अत एव कर्मधारये न लक्षणा। एवं 'रामलक्ष्मणौ' इतीतरेतरद्वन्द्वेऽपि न लक्षणा। 'रामश्च लक्ष्मणश्चेति' विग्रहः। अत्रापि रामस्य लक्ष्मणस्य च बोधः। समासेऽपि तावानेव बोध इति नवीनाः। ‘इदमप्रौढमतीनाम् बालानामालोचनम्, न प्रौढमतीनाम्। 'समुच्चयान्वा- चयेतरेतरयोगसमाहाराश्चार्था’ इति किलाह महर्षिः इत्येकाक्षरस्याव्ययार्थश्चतुर्विधो वर्तते लोकानुभव एव। तेषु समुच्चयान्वाचययोर्न समासः, असमर्थत्वात्। इतरेतरयोगसमा- हारयोरेव समासः इत्यादिकं सरलमतिभिः न ज्ञातुं शक्यम्। इतरेतरयोगो नाम परस्परसौहार्दरूपं मिलनम्। अतोऽर्थस्वारस्यसत्त्वात् सोऽपि समासस्यार्थः। ‘यथेन्द्रशत्रुः स्वरतोऽपराधात्' इति वर्ण्यमानायामपि संस्कृतौ सूक्ष्मभावतराङ्गाणां स्थानं स्पष्टं प्रदर्शनमावश्यकम्, येन शब्दश्रवणेनैवान्तरङ्गाशयः स्पष्टं ज्ञातुं शक्येत। अधिकमन्यत्र। एवञ्चार्थभेदस्य सत्त्वात् सोऽपि तत्र विवक्षित एव। ततश्चेतरेतरयोगद्वन्द्वेऽपि उत्तरपदे विलक्षणसंयोगविशिष्टे लक्षणा आवश्यकी। नो चेत्, समहारेऽपि लक्षणा न स्यात्। बहुव्रीहिसमासेऽन्यपदार्थस्य प्राधान्यात् लक्षणाऽनिवार्या। 'पीतम् अम्बरं यस्य’, पीताम्बरो हरिः। अत्र विग्रहवाक्ये अम्बरपदमेव प्रमथमान्तत्वात् विशेष्यम्। यच्छब्दार्थः हरिः। 'यस्य हरेः अम्बरं पीतरूपवत्, सः हरिः पीताम्बर' इति खलु वाक्यस्यार्थो वक्तव्यः। एवञ्च ' यत् सम्बन्धी अम्बरं पीतरूपवदभिन्नम्' इति विग्रहवाक्यात् बोधः। समासवाक्यात्तु 'पीतरूपविशिष्टाभिन्नाम्बरसम्बन्धी हरिरि'ति बोधः। एवं समासघटकपदार्थापेक्षया बाह्यस्यार्थस्य प्राधान्यात् इतरसमासापेक्षया बहुव्रीहिर्जघन्य इत्युच्यते। गत्यन्तराभाव एव स आश्रयणीय इति भावः। 'माता च पिता च पितरौ' इत्यादिविरूपैकशेषसमासे पितृपदस्य मातापित्रोः लक्षणेति स्पष्टमेव। इदं विरूपैकशेषसमासे। 'घटश्च घट घटौ', 'घटश्च घट घटश्च घटाः' इत्यादि सरूपैकशेषे तु विभक्तयैव घटद्वयस्य, बहूनां घटानां च बोधात् न लक्षणा आवश्यकी। ‘उपकुम्भम्’, ‘अर्धपिप्पली’त्यादौ उत्तरपदे कुम्भपदे, पिप्पलीपदे च कुम्भसमीपे, पिप्पल्यर्धे च लक्षणा, पूर्वपदं तात्पर्यग्राहकमात्रम्। एवं च समासे कुत्रापि न शक्तिः। अत एव न लक्षणापि, शक्यसम्बन्धस्याभावात्। वाक्ये शक्तिर्नास्ति, लक्षणा तु वर्तत इति अर्थवादवाक्यानां प्राशस्त्ये लक्षणायाः वक्तव्यत्वादिति मीमांसकाः। उभयमप्यस्तीति वैय्याकरणा इत्याद्यन्यत्र विस्तरः। ; आलोक- व्याख्या ननु यदि पदे शक्तिर्नातिरिक्ता, तर्हि अनादिकालात् सर्वेष्वपि देशेषु कालेषु सर्वेषामपि पदानामेक एवार्थः कथं भवति। कारणस्य पदस्य, वह्न्यादेः दाहकत्ववत्, सर्वदेशकालपुरुषसाधारणत्वात्। न ह्यश्वशब्दस्य कदाचिदपि गर्दभोऽर्थः। गोशब्दस्य अश्वोऽर्थः कदापि न बोध्यः। इयं व्यवस्था कथमिति चेत्, अहो भवान् अतिमृदुमतिरिव भाति। शक्तेरतिरिक्तत्ववाद एवैतादृशशङ्का युज्यते। एतन्मते हि शक्तिः स्वरूपयोग्यतैव। परन्तु शब्दे द्विविधा सा। एका शब्दसाक्षात्कारहेतुभूता, अन्या तु अर्थबोध हेतुभूता। आद्या तु श्रोत्रेण शब्दग्रहणेनैव कृतकृत्या। अस्मिन् विषये तु उक्तमत्रेश्वरेच्छायास्तस्यास्तथा व्यवस्थितत्वादिति नानुपपत्तिः। ; तर्कसंग्रहः आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्ता-न्वयाननुभावकत्वमाकाङ्क्षा | अर्थाबाधो योग्यता | पदानामविलम्बेनोच्चारणं सन्निधिः। आकाङ्क्षादिरहितं वाक्यं न प्रमाणम्। यथा गौरश्वः पुरुषो हस्ती इति वाक्यं न प्रमाणम्, आकाङ्क्षाविरहात्। अग्निना सिञ्चतीति वाक्यं न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात्। ; आलोक- व्याख्या ननु गवादिपदसमूह एव चेत् वाक्यम्, तर्हि 'गौरश्वः पुरुषो हस्ती' इत्यादिपदसमूहादपि कश्चन बोधः स्यात्। भवत्येव तत्र गवाद्यर्थानां बोध इति चेत्, नायं बोधः। किन्त्वर्थस्य स्मरणमात्रम्। शाब्दबोधो नाम शब्दजन्यः परस्परान्वितार्थविषयको यथार्थानुभवः। चतुर्विधयथार्थानुभवेषु हि 'शाब्दः' इति विभागः प्रादर्शि। 'गौरश्वः' इत्यादिवाक्याच्छाब्दबोधो न भवितुमर्हति किन्तु विशकलितपदार्थस्मृतिरेव। एवम् 'अग्निना सिञ्चति' इति वाक्ये श्रुतेऽपि शाब्दबोधो न जायते, बाधितार्थकत्वात्। एवं प्रातः घटपदमुक्त्वा सायम् 'आनय' इति पदप्रयोगेऽपि शाब्दबोधो न भवति, पदानामत्यन्तं व्यवधानात्। एवं कोशादावपि पदानामर्थोपस्थितिमात्रं भवति। एषु स्थलेषु वाक्ये श्रुतेऽपि शाब्दबोधः कुतो न जायते ? इति शङ्कायाम्, तेषु स्थलेषु शाब्दबोधानुत्पत्तेः कारणान्याह - आकाङ्क्षेत्यादिना। एवञ्चोक्तस्थलेषु पदज्ञाने सत्यपि, सत्यपि च शक्तिज्ञाने आकाङ्क्षाद्यन्यतमकारणाभावान्न शाब्दबोधः। सकलकारणसन्निधाने सत्येव कार्योदयसंभवात्। ‘गौरश्वः पुरुषो हस्ती' इत्यत्र तेषां पदानां परस्परमाकाङ्क्षाया अभावान्न शाब्दबोधः। यथा ‘भूतले घटः' इत्युक्ते घटभूतलयोराधाराधेयभावात् आधारस्याधेयाकाङ्क्षा, आधेयस्याधाराकाङ्क्षा च वर्तते, तथा न हि गोपदार्थस्याश्वपदार्थस्य च परस्परमाकाङ्क्षा काचिद्वर्तते। अत आकाङ्क्षाभावान्न शाब्दबोधः। अत एव कोशान्न शाब्दबोधः, परस्परमाकाङ्क्षाभावात्। आकाङ्क्षायाः स्वरूपमाह - पदस्येत्यादि। पदस्य कस्यचित्पदस्य पदान्तरम् - अन्यत् समीपस्थं पदम्, तद्व्यतिरेकस्तदप्रयोगः। तत्प्रयुक्तम्- तन्निबन्धनम् तत्पदे सति बोधः, तदभावे च न बोध इत्येवंरूपम्, अन्वयाननुभावकत्वम् - परस्परान्वयविशिष्टविषयकशाब्दबोधाजनकत्वं यदा भवति, तदा तयोः पदयोराकाङ्क्षा। यथा क्रियापदे श्रुते, कर्त्राकाङ्क्षा, कर्तृवाचकपदे प्रयुक्ते, क्रियाकाङ्क्षा च भवति। तद्वाचकपदाभावे च शाब्दबोधो न भवति। एवं सकर्मकधातुश्रवणे कर्माकाङ्क्षा, विशेष्यविशेषणवाचकपदादीनां परस्परमाकाङ्क्षादि च ज्ञेयम्।। योग्यता - अर्थाबाधः। प्रयुक्तशब्दश्रवणेनोपस्थितानामर्थानां परस्परबाधाभावः। परस्परबाधे सति बोधो न जायते। अत एव 'वह्निना सिञ्चति' इति वाक्ये श्रुते वह्नेः सेचनसाधनत्वं प्रतीयते। तच्च बाधितम्। जलं हि सेचनसाधनम्। अतः सेचनस्य वह्निकरणकत्वस्य च बाधात् योग्यताया अभावात्तेन वाक्येन शाब्दबोधो न भवति। सन्निधिः पदानामविलम्बेनोच्चारणमावश्यकम्। तदभावादेव, प्रातः ‘गाम्’ इत्युच्चार्य, सायम् 'आनय' इत्युक्ते तयोरन्वयबोधो न भवति। तयोः पदयोस्सान्निध्याभावात्। एवं वक्तुरिच्छारूपं तात्पर्यज्ञानमपि शाब्दबोधे कारणम्। 'सैन्धवमानय' इति वाक्ये श्रुते, सैन्धवपदस्य अश्वः, लवणं द्वयमप्यर्थः। केनाभिप्रायेणायं शब्दः प्रयुक्तः ? इति जिज्ञासायाम्, प्रकरणादिवशाद्वक्तुरिच्छां ज्ञात्वा तदनुगुणमर्थं निर्धारयति। भोजनप्रकरणं चेत् सैन्धवपदस्य लवणमर्थः। प्रयाणप्रकरणं चेत् तत्पदस्याश्वोऽर्थ इति। इदं च तात्पर्यज्ञानं नानार्थकपदस्थल एव कारणम्, न तु सर्वत्र। 'घटमानय' इत्यादौ हि घटपदस्यार्थान्तराभावादिति केचिन्मन्यन्ते। परन्तु पदानां शक्तिर्हि घटत्वादिरूपसामान्यधर्मावच्छिन्ने घटसामान्ये। न तु एकस्मिन् घटे, घटान्तरविषयकशाब्दबोधानुत्पत्तिप्रसङ्गात्। एवं घटसामान्ये शक्त्योपस्थापिते घटविशेषनिश्चयस्तु वक्तुरिच्छानुरोधेनैव। अतस्सर्वत्रैव शाब्दबोधे तात्पर्यज्ञानं कारणमित्येव युक्तम्। न हि 'घटमानय' इत्युक्ते घटव्यक्तिनिश्चयः तत्तात्पर्यज्ञानमन्तरा सम्भवी॥ ननु पदानां शक्तिः किं जातौ ? उत व्यक्तौ ? यदि व्यक्तौ शक्तिः, तर्हि शक्तिग्रहणवेलायां गोपदस्य एकस्यामेव गवि शक्तिग्रहणात्, अन्यगोविषयकबोधो न स्यात्। अतो जातावेव शक्तिः। ‘गामानय’ इत्युक्ते गोः आनयनान्वयासंभवादन्वयानुपपत्त्या व्यक्तिबोध इति मीमांसकाः। परन्तु 'गौरस्ति' इत्यत्र तथानुपपत्तेरभावात् व्यक्तिबोधो न स्यात्। गोपदश्रवणसमनन्तरमेव गोत्वविशिष्टबोधानुभवात् जातौ तद्व्यञ्जकाकृतौ, जात्याश्रयव्यक्तौ चेति त्रिष्वपि शक्तिरिति तार्किकाः। ननु तर्हि 'गंगायां घोषः' इति वाक्यात् कथं बोधः ? गंगापदस्य हि नदी अर्थः। घोषः = आभीरपल्ली। सा कथं गङ्गायां स्यात् ? एवं 'राजवीथ्यां गृहं वर्तते' इत्यत्र वीथीपदस्य सञ्चारमार्गोऽर्थः। संचारमार्गे गृहं कथं स्यात् ? इति चेत्, न। एतादृशस्थले लक्षणया बोधात्। लक्षणया गङ्गापदस्य गङ्गातीरमर्थ:, वीथीपदस्य वीथीपार्श्वभागोऽर्थः। लक्षणा नाम शक्यार्थसंबन्धः। गङ्गापदस्य शक्यार्थः गङ्गानदी, तत्सम्बन्धस्तीरे वर्तते। एवं वीथीपदस्य वीथीमार्गोऽर्थः। तत्संबन्धः तत्पार्श्वभागस्य वर्तत इति बोधो भवति। ततश्च शक्तिलक्षणान्यतरसंबन्धः शाब्दबोधहेतुः। शक्तिः, लक्षणा च वृत्तिपदेनोतच्येते। वाक्यार्थज्ञानहेतवः आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारणं सन्निधिः॥ ४९॥ अप्रमाणवाक्यम् तथा चाकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात्। वह्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात्॥ ५०॥ वाक्यद्वयम् वाक्यं द्विविधं वैदिकं लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम्॥ ५१॥ ; आलोकः - वाक्यभेदः ; तर्कसंग्रहः वाक्यं द्विविधम्। वैदिकं लौकिकं चेति। वैदिकमीश्वरोक्तत्वात् सर्वमपि प्रमाणम्। लौकिकं त्वाप्तवाक्यं प्रमाणम्। अन्यदप्रमाणम्। वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः। इति तर्कसंग्रहे शब्दपरिच्छेदः समाप्तः॥ ; आलोक- व्याख्या वाक्यं विभजते - वाक्यमिति। ईश्वरोच्चरितत्वादिति। तात्पर्यज्ञानस्य शाब्दबोधं प्रति कारणतया, तात्पर्यस्य च वक्तुरिच्छारूपत्वात्, वेदवाक्यजन्यबोधे तद्वक्त्रभावे शाब्दबोधो न स्यात्। अतो वेद ईश्वरेणैवोपदिष्टः। तर्हि ‘वेदोऽपौरुषेयः' इति प्रसिद्धिः कथमिति चेत्, मानवबुद्धिमूलकत्वाभावाद्वेदस्य, लोके शब्दानां सर्वेषां मानवबुद्धिमूलकत्वात्, वेदस्य मनुष्यकृतत्वाभावात् तथा व्यवहारः। अत एव 'श्रुतिस्स्मृतिर्ममैवाज्ञा' इत्यादीश्वरवचनमपि संगच्छते। निगमयति - वाक्येत्यादि।। ननु ईश्वरेच्छामूलकपाणिन्यादिसंकेततः प्रकृतिप्रत्ययानां शक्तिग्रहो भवेत्। तयोरन्वयः केन संकेत्यते ? 'घटमानय' इत्युक्ते घटपदस्य घटोऽर्थः। द्वितीयायाः कर्मत्वमर्थः। कर्मत्वस्य घटवृत्तित्वं कथं ग्राह्यम् ? प्रकृतिप्रत्ययातिरिक्तस्तयोर्मध्ये न हि कश्चन शब्दः श्रूयते। प्रत्यक्षे तु घटभूतलयोः, रूपघटयोर्वा आधाराधेयभावश्चक्षुषैव दृश्यते। आधेयता किं संबन्धावच्छिन्नेति निर्णयस्तु शास्त्रात्। न ह्येवं शब्दानुमानस्थले संबन्धः साक्षाद्वर्तते। न हि व्याप्तिज्ञानमन्तरा धूमदर्शनमात्रात् वह्न्यनुमितिर्भवेत्। न वा शक्तिज्ञानमन्तरा पदात् पदार्थबोधो भवेत्, पदजन्यपदार्थोपस्थितेश्शाब्दबोधं प्रति कारणत्वात्। अतः प्रकृतिप्रत्ययार्थयोस्संबन्धः केन बोध्यते, तद्वाचकशब्दादर्शनादिति चेत्; न तत्तत्समभिव्याहारवशादेव संबन्धो बोध्यते, न तु शक्त्या। अतश्च घटपदशक्त्या घटरूपार्थो बोध्यते। द्वितीयया च कर्मत्वं बोध्यते। तयोराधाराधेयभावस्तु, घटपदोत्तरम् अम्प्रत्ययश्रवणात्, परस्पराकांक्षायोग्यतादिवशात् भासते। एवं कर्मत्वस्यानयनस्य च संबन्धो निरूपकत्वरूपस्तादृशादौचित्यादेव भासते। एवं शाब्दबोधस्यौचित्यमूलकत्वादेव कदाचिदन्योद्देशेन प्रयुक्तात् शब्दात् समीचीनशाब्दबोधाजननेनार्थभ्रान्त्या वादविवादा अपि दृश्यन्ते। अनुमितिस्थले संबन्धो यथाविनाभावः, न तथास्ति तादृशः शब्दार्थयोरविनाभावः, कस्याप्यननुभवात्। एवञ्च प्रथमं प्रकृतिप्रत्ययाद्यैरर्थोपस्थितिः तत्तच्छक्त्या। अनन्तरमाकांक्षाद्यौचित्यवशात् संबन्धग्रहणम्। अयमेवाभिहितान्वयवादः, पदैरभिहितानामर्थानाम् अनन्तरमन्वयभानात्। तथा च प्रकारतया विशेष्यतया वार्थबोधं प्रत्येव पदजन्यपदार्थोपस्थितिः कारणम्, न त्वन्वयोपस्थितिं प्रत्यपि। सर्वेषामनुभवोऽप्येवमेवेति सिद्धान्तिनः। प्राभाकरास्तु - अन्वयांशेऽपि पदानामस्त्येव शक्तिग्रहः। अतश्च घटपदस्य कर्मत्वान्वितघट एव शक्तिः। अम्प्रत्ययस्यापि घटान्वितकर्मत्व एव शक्तिः। एवं कर्मत्वस्यानयनान्वयस्यापि भानात्, आनयनान्विते कर्मत्व एव अम्प्रत्ययस्य शक्तिः। एवमानयनपदस्यापि कर्मत्वान्वित एवानयने शक्तिरिति बहुधा वर्णयन्तः क्लिश्यन्ति स्वयम्, क्लेशयन्ति चेतरान्। परस्परमन्वितानामेवार्थानां पदैर्बोधनात् अयमेवान्विताभिधानवाद इत्युच्यते। एवं सति हि कस्य पदस्य केन साकं समभिव्याहार इत्यनियमात् कस्यापि पदस्य शक्तिग्रह एव न स्यात्। 'घटमानय' 'पटमानय' 'गामानय' इत्यादिसमभिव्याहारा ह्यनन्ताः। एवं घटमानय, घटं नय, घटं पश्य इत्येवंरूपाः क्रियापदसमभिव्याहारा अप्यनन्ताः। घटपदस्य आनयनान्वितघटे, नयनान्वितघटे, दर्शनान्वितघटे च शक्तिः। एवम् अम्प्रत्ययस्य घटान्वितकर्मत्वे, पटान्वितकर्मत्वे, गवान्वितकर्मत्वे च शक्तिरिति अतिगौरवम्। पदार्थानां पुनःपुनः भानात्पौनरुक्त्यमित्याद्यनन्ता दोषाः। अत औचित्यमूलकमेवान्वयभानमिति युक्तः पन्थाः। इति शब्दखण्डः शब्दज्ञानम् वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः॥ ५२ ॥ अयथार्थानुभवः अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्ताविदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्नस्यात्तर्हि धूमोऽपि न स्यादिति॥ ५३॥ ; आलोकः - अयथार्थानुभवः ; तर्कसंग्रहः एवं यथार्थानुभवो निरूपितः। अयथार्थानुभवस्त्रिविधः। संशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्ताविदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति। ; आलोक- व्याख्या एवम् - ‘यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्' इति विभक्तस्य यथार्थानुभवस्य विचारस्समाप्तः। अथ प्रप्रथमम् 'स च द्विविधो यथार्थः, अयथार्थश्चेति विभक्तयोर्मध्ये, अथायथार्थानुभवनिरूपणोपोद्घाततया तस्य संगत्यर्थमाह- एवमित्यादि।। प्रथमोद्दिष्टं संशयं निरूपयति - एकस्मिन्नित्यादि। विरुद्धाश्च ते नानाधर्माश्च विरुद्धनानाधर्माः। ते प्रकारा यत्र, तत् विरुद्धनानाधर्मप्रकारकम्। ‘एकस्मिन्' इति धर्मिविशेषणम्। 'धर्मिणि' इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। विरुद्धत्वं परस्परासमानाधिकरणत्वम्। ततश्च विरुद्धनानाधर्मप्रकारकं नाम परस्परासमानाधिकरणनानाधर्मनिष्ठप्रकारतानिरूपकम् इत्यर्थः। ततश्च एकधर्मिनिष्ठविशेष्यतानिरूपकम्, परस्परविरुद्धनानाधर्मनिष्ठ- प्रकारतानिरूपकं च ज्ञानं संशय इत्यर्थः।। एवञ्च एकधर्मावच्छिन्नविशेष्यतानिरूपकत्वे सति, परस्परविरुद्धनानाधर्मावच्छिन्नप्रकारताशालित्वे सति ज्ञानत्वं संशयलक्षणम्। ज्ञानत्वमात्रोक्तौ विपर्यये प्रमायाञ्चातिव्याप्तिः, तयोरपि ज्ञानत्वात्। अतो नानाधर्मप्रकारकत्वं विशेषणम्। शुक्तौ 'इदं रजतम्' इति विपर्यये रजतत्वमात्रप्रकारकत्वात् नानाधर्मप्रकारकत्वाभावात् नातिव्याप्तिः। एवमपि 'भूतलं घटवत् पटवच' इति समुच्चयात्मकज्ञाने, 'भूतलं घटपटवत्' इति समूहालम्बनज्ञाने च एकस्मिन् धर्मिणि नानाधर्मप्रकारकत्वादतिव्याप्तिरित्यतः विरुद्धेति। समुच्चये समूहालम्बने च विरोधस्याभानान्नातिव्याप्तिः। ननु संशयस्यायथार्थानुभवावान्तरविभागरूपत्वात्, तदभाववति तत्प्रकारकत्वरूपसामान्यलक्षणस्य जागरूकत्वे प्रमात्मकसमुच्चये समूहालम्बने वा कथमतिव्याप्तिप्रसक्तिरिति चेत्, न। शुक्तौ 'इदमेकं रजतम्' इति भ्रमे एकत्वरजतत्वरूपनानाधर्मप्रकारकत्वस्य सत्त्वात् विपर्ययेऽतिव्याप्तिः। अतो विरुद्धत्वविशेषणम्। एकत्वरजतत्वयोर्विरोधाभावाद्व्यावृत्तिः। एवमपि अतिव्याप्तिर्दुर्वारैव, रङ्गे रजतत्वावगाहित्वेनायथार्थत्वापरित्यागात् ‘रङ्गरजते दृष्ट्वा 'इमे रजतरङ्गे' इति भ्रमे विरुद्धनानाधर्मप्रकारकत्वसत्त्वात् अतिव्याप्तिवारणाय 'एकस्मिन् धर्मिणि' इति। तत्र 'इमे' इति नानाधर्मिकत्वान्नातिव्याप्तिः। मिथ्येत्यादि। एतल्लक्षणं च पूर्वमेवोक्तम् - 'तदभाववति तत्प्रकार- कानुभव इति। ननु तत् अप्रमाया लक्षणम्। अप्रमैव मिथ्याज्ञानमुच्यते। स एव चायथार्थानुभवः। अयं च त्रिविध उक्तः संशयविपर्ययतर्कभेदादिति। तदभाववति तत्प्रकारकत्वं त्रयाणामपि सामान्यं लक्षणम्। एवं चेत् विपर्ययस्य लक्षणं संशये तर्के चातिव्याप्तं किलेति चेत्, सत्यम्। संशयतर्कभिन्नत्वे सति तदभाववति तत्प्रकारकत्वं विपर्ययस्य लक्षणमिति विशेषलक्षणं वक्तव्यमिति न कश्चन दोषः। ननु तर्हि विपर्ययो निश्चयरूपः। निश्चयत्वं च संशयान्यज्ञानत्वम्। एवञ्चान्योन्याश्रयः संशयान्यज्ञानत्वं विपर्ययत्वम्, विपर्ययान्यज्ञानत्वं संशयत्वमितीति चेत्, प्रमाया अपि निश्चयरूपत्वात् विपर्ययत्वनिश्चयत्वयोः पर्यायत्वाभावान्न दोषः अथवा निश्चिनोमीति अनुभवसिद्धजातिमत्त्वमेव निश्चयत्वम्। अथवा 'तदभाववद्विशेष्यकत्वे सति परस्परविरुद्धधर्माप्रकारकानुभवो विपर्यय इति नान्योन्याश्रयः। तर्कस्य लक्षणम् - व्याप्येत्यादि। व्याप्यस्यारोपेण व्यापकस्यारोपणं तर्कः। यथा 'पर्वतो वह्निमान् धूमात्' इति प्रयुक्ते, कश्चित् पृच्छति 'धूमस्य सत्त्वमात्रेण, वह्निसत्त्वं कथं निश्चीयते' इति। एवं प्रश्नस्याप्रयोजकशङ्केति संज्ञा। 'हेतुरस्तु साध्यं मास्तु' इति शङ्काप्रयोजकशङ्का। हेतोः सत्त्वं साध्यस्य सत्त्वे न प्रयोजकम्, यदि साध्यं विनापि हेतुः स्यात्पक्षे इति शङ्काया आशयः। तस्योत्तरं वक्ति - 'यदि साध्यं न स्यात्, तर्हि हेतुरपि न स्यात्' इति। प्रकृते 'यदि वह्निर्न स्यात्, तर्हि धूमोऽपि न स्यात्' इति। जगति यत्र कुत्रापि वह्न्यभावेऽपि धूमो दृष्टः किम् ? अतो वह्न्यभावे धूमोऽपि न स्यादेव। 'धूमो यतो दृश्यते, तर्हि वह्निरपि स्यादेव, न तु वह्न्यभावः' इति प्रदर्शनेन प्रकृतहेतोः अप्रयोजकत्वशङ्का= साध्यासाधकत्वशङ्का निवर्तते। अतोऽप्रयोजकशङ्कानिवारकस्तर्क इत्युच्यते। पर्वते वह्नेर्धूमस्य च सत्त्वात् 'यदि वह्निर्न स्यात्' इति कल्पयित्वा वक्तव्यम्। एतादृशकल्पनात्मकं ज्ञानम् 'आरोप:' इत्युच्यते। एवं 'धूमोऽपि न स्यात्' इत्यारोप एव। धूमस्य सत्त्वेन तथा वक्तुमशक्यात्। एतदारोपसूचनार्थमेव 'स्यात्' इत्युच्यते। अत्र वह्न्यभावो व्याप्यः, धूमाभावो व्यापकः। आक्षेप्ता पृच्छति - 'धूमोऽस्तु' इति। अतस्तस्य पर्वते धूमाभावो नेष्टः। प्रतिवक्ता वदति, 'यदि पर्वते धूम एव स्यात्, न तु धूमाभावः तर्हि तत्र वह्निरेव स्यात्, न तु वह्न्यभावः। अत्र वह्न्यभाव एवाक्षेप्तुरिष्टः। तत उच्यते 'यदि वह्न्यभावः स्यात्, तर्हि धूमाभाव एव स्यात्, न तु धूमः' इति। अतो यदि व्याप्यो वह्न्यभावः स्यात्, तर्हि व्यापको धूमाभाव एव स्यात्। 'यत्र वह्न्यभावस्तत्र धूमाभावः’ इति व्याप्तेः सत्त्वात्। अतश्च यदि धूमः स्यात्, तर्हि वह्निरप्यावश्यक इति प्रदर्शनमेव तर्कस्य कृत्यम्। आरोपो नाम, वस्तुतस्तथाऽभावेऽपि तथात्वकल्पनम्। बाधकालिकमिच्छाजन्यमिदं ज्ञानम् 'आहार्यम्' 'उपनीतभानम्' इत्यप्युच्यते। अत एव वह्न्यभावस्य बाधज्ञाने सत्यपि, इच्छया बलात्कारेणोत्पाद्यते एतादृशं ज्ञानम्। एतादृशस्थले तदभाववत्तानिश्चये सत्यपि तद्वत्ताबुद्धिरुत्पद्यते। अत एव प्रतिबध्यप्रतिबन्धकभावकोटावुभयत्रानाहार्यत्वविशेषणम्। आहार्यज्ञानं तु न कुत्रापि प्रतिबन्धकम्, प्रतिबध्यं वा। प्रतिबन्धककोटौ 'अनाहार्य' पदं स्पष्टम्। प्रतिबध्यकोटौ तु 'लौकिकसन्निकर्षाजन्य' पदमेतदर्थकम्। बलात्कारेणाह्रियमाणत्वात्, तत् आहार्यज्ञानं न लौकिकसन्निकर्षजन्यम्। अधिकमन्यत्र। तर्कसंग्रह: स्मृतिरपि द्विविधा। यथार्थाऽयथार्था चेति। प्रमाजन्या यथार्था। अप्रमाजन्या अयथार्था। ; आलोक व्याख्या एवं ‘ज्ञानं द्विविधम्- स्मृतिः, अनुभवश्च' इति विभक्तयोः मध्येऽनुभवस्यैव स्मृतिं प्रति कारणत्वात् प्रथममनुभवविचारं परिसमाप्य, स्मृतौ वक्तव्यं वक्ति- स्मृतिरपीत्यादि। एवञ्च स्मृतेः प्रमात्वमप्रमात्वं वा तद्धेतुभूतज्ञानाधीनमिति, स्मृतावेतद्विभागो न मुख्यः। स्मृतौ प्रमात्वस्याङ्गीकारे, तद्धेतुभूतस्य संस्कारस्य प्रमाकरणत्वप्राप्त्या प्रमाणत्वं स्यात्। न चास्तु का हानिरिति वाच्यम्, तर्हि अयथार्थस्मृतेरपि प्रमाणजन्यत्वात्, प्रमात्वापत्तिः। अस्तु तर्हि संस्कारेऽपि विभाग इति वाच्यम्, करणे तथा विभागासंभवात्। न हीन्द्रियादौ तथा विभागो वक्तुं शक्यते। इन्द्रियं हि प्रमाकरणम्, न तु अप्रमाकरणम्। तर्हि शुक्तौ ' इदं रजतम्' इति ज्ञानमिन्द्रियमन्तरापि स्यादिति चेत्, ‘इदम्’ इत्यंशस्येन्द्रियान्वयव्यतिरेकानुविधानात् तावत्येवेन्द्रियव्यापार- स्योपरमः। 'रजतम्' इत्यंशस्तु ज्ञानलक्षणारूपालौकिकसन्निकर्षवशा- द्भवतीत्यादिकमन्यत्र द्रष्टव्यम्। आहत्यातीन्द्रिये संस्कारे द्वैविध्यस्याभावात्, तज्जन्यस्मृतावपि द्वैविध्यं तद्धेतुभूतानुभवाधीनम् इति, विभागप्रदर्शनं स्वरूपकीर्तनमात्रम्। स्मृतिः स्मृतिरपि द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था॥ ५४॥ सुखम् सर्वेषामनुकूलतया वेदनीयं सुखम्॥ ५५॥ ; आलोकः - पुरुषार्थाः ; तर्कसंग्रहः सर्वेषामनुकूलतया वेदनीयं सुखम्। प्रतिकूलतया वेदनीयं दुःखम्। इच्छा कामः। क्रोधो द्वेष:। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्योऽधर्मः। बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च। नित्या ईश्वरस्य अनित्या जीवस्य। संस्कारस्त्रिविधः। वेगो भावना स्थितस्थापकश्चेति। वेगः पृथिव्यादि चतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितस्थापकः। कटादि पृथिवीमात्रवृत्तिः। ; आलोक- व्याख्या सर्वेषामित्यादि। अनुकूलत्वं स्वत इष्टत्वम्। एतच्चान्येच्छानधीनेच्छाविषयत्वम्। 'सुखं मे भूयात्' इति हि सर्वोऽपि अपेक्षते। अपेक्षैवेच्छा। सुखसाधनेष्वपि धनादाविच्छायास्सत्त्वात्, इच्छाविषयत्वमात्रोक्तौ धनादावतिव्याप्तिः। अतोऽन्येच्छा-नधीनेच्छाविषयत्वमुक्तम्। सुखसाधनत्वादेव धनादाविच्छा, न तु स्वतो धने। ततश्चान्येच्छाधीनेच्छाविषयत्वमेव, न त्वन्येच्छानधीनेच्छाविषयत्वम्। अतश्च 'सर्वेषाम्' इति पदमेतदर्थसूचकम्, न तु लक्षणे निवेश्यम्, प्रयोजनाभावात्। ननु लुब्धा धनं स्वतः पुरुषार्थं मन्यन्ते। अतस्तत्रातिव्याप्तिरिति चेत्, तत्रापि लुब्धानां धनदर्शनेन, स्मरणेन वान्तस्सुखं भवतीति, धनज्ञानमेव सुखम्, न तु धनमिति न दोषः। अत एवार्थस्यापि पुरुषार्थेषु गणना। ननु तर्हि सुखमनुकूलज्ञानमेवेति ज्ञानेऽन्तर्भाव्यमिति चेत्, न सुखेऽपि 'वेदनीयम्' इति वेद्यत्वांशसत्त्वात्, ज्ञानसामान्यस्य पुरुषार्थत्वासंभवात्, सुखस्य तु पुरुषार्थत्वादतिरिक्तत्वस्यावश्यकत्वात्। न च मुमुक्षूणां सुखस्य त्याज्यत्वोक्तेः, तद्दृष्ट्यानुकूलत्वं मुक्तिसुखेऽतिव्याप्तमिति वाच्यम्, वैषयिकसुखस्यैव तेषां त्याज्यत्वोक्तेः, आत्मसुखस्य तेषामुपादेयत्वात्। सुखस्यैव तत्तद्व्यक्तिभेदेन भिन्नत्वात्, तत्तद्व्यक्तिदृष्ट्यैव सुखलक्षणस्य वक्तव्यत्वान्न दोषः। एवमेव 'प्रतिकूलतया वेदनीयं दुःखम्' इत्यत्रापि सर्वेषामिति वर्तते। इतरत् सुखवदेव ज्ञेयम्।। केचित्तु सुखत्वदुःखत्वादिकं जातिविशेष इति तत्तज्जातिमत्त्वमेव सुखादीनां लक्षणमिति लाघवाद्वदन्ति। परन्तु तदा 'वृद्धस्य तरुणी विषम्' इति न्यायात्, एकस्य सुखमन्यस्य दुःखं न स्यात्, जातिसाङ्कर्यप्रसङ्गात्। न हि घटोऽन्यं प्रति अघटः स्यादित्यादिकमन्यत्र द्रष्टव्यम्।। इच्छा काम इति व्याख्यानम्। अपेक्षितत्वप्रकारकज्ञानजन्यः, आत्मनः प्रयत्नं प्रति हेतुरिच्छा। 'जानाति, इच्छति, यतते' इति हि क्रमः। क्रोधो द्वेष इति स्थूलदृष्ट्या। इच्छायाः प्रतिघाते कोप:, ततो द्वेष इति क्रमः। प्रतिकूलत्वज्ञानजन्य आत्मगुणो द्वेषः। एवं प्रयत्नोऽपि आत्मगुणः, प्रवृत्तिहेतुः। लोके प्रवृत्तेः क्रियात्वात्, आत्मनि विभौ क्रियाया असंभवात्, शरीरादिप्रवृत्तिहेतुभूतो गुणविशेषः प्रयत्नः। बुद्धीच्छाद्वेषप्रयत्नाः सविषयका गुणाः। विहितेत्यादि। आत्मगतो गुणविशेषो धर्मः। एवमधर्मोऽपि। कालान्तरभावि-सुखदुःखहेतुतया एतौ गुणौ सिद्धौ। यागादिक्रियायाः क्षणिकत्वात्, स्वर्गादिसुखहेतुत्वस्य शास्त्रसिद्धत्वादेतन्निर्वाहाय मध्ये द्वारतया कल्प्यमानो धर्मः। एवं गोहत्यादीनां कालान्तरे नरकादि दुःखकारणत्वनिर्वाहार्थमधर्मश्चावश्यकः। विहितत्वनिषिद्धत्वे शास्त्राधीने। एतावुभावेवादृष्टपदवाच्यौ कार्यसामान्यकारणभूतौ। टिप्पणी *विध्यर्थः- लिङ्लोट्तव्यत्प्रत्ययैर्विधिरभिधीयत इति सर्वविदितम्। विधेरर्थः कः ? गामानय इत्युक्ते हि कश्चित् कञ्चित् गवानयनरूपे कार्ये प्रेरयतीति प्रतीतेः प्रेरणैव विध्यर्थ इति स्पष्टम्। अथापि शास्त्रकारा बहुधा विप्रतिपद्यन्ते। नियोगो लिडर्थ इति जरन्मीमांसकाः। कार्यमेव लिङर्थ इति प्राभाकराः। भावनैवेति भाट्टाः। अपूर्वमिति नवीनाः। कृतिसाध्यत्वमेव स इति केचित्। इष्टसाधनत्वमेव स इत्यन्ये। इदमत्रावधेयम्- लोके स्वरसतया प्रतीयमानेष्वप्यर्थेषु एते पण्डिताः क्लिश्यन्ति, क्लेशयन्ति चेति कुतः ? इत्येव तटस्थाः जिज्ञासन्ते। तत्रेदमेवात्र मूलम्। एकैकशास्त्र (दर्शन)स्य प्रत्येकं क्षेत्रं भिन्नमेव। न्यायशास्त्रस्य क्षेत्रं लौकिकक्षेत्रमेव। अत एव न्यायसूत्रभाष्ययोरीश्वरानुमानादिकं न प्रदर्शितम्। अत एव प्रत्यक्षलक्षणमपि इन्द्रियार्थसन्निकर्षोत्पन्नम् इति विशेषितम्, ईश्वरप्रत्यक्षस्य लक्ष्यत्वमेव नास्तीत्येव गौतमस्याशयः। अत एव प्राचीने काले न्यायदर्शनस्य लोकायतम् इत्येव संज्ञाऽऽसीदित्यादिकमन्यत्र प्रदर्शितम्। एवञ्च नानाविधसंस्कारवतां चेतनानां बुद्धिभेदस्यानिवार्यतया, तत्तत्कक्ष्यानुरोधेन बुद्धेस्समन्वयस्य संपादनीयतया, शास्त्राणां कक्ष्या अपि भिद्येरन्। मूलस्तु एकतत्त्ववादः, तत्त्वद्वयवादः, त्रितत्त्ववाद इति त्रिविधं शास्त्रम्। एकतत्त्ववादी बौद्धानाम्। अद्वयवादी इति खलु बुद्धं निर्दिशति अमरसिंहः। निर्विशेषजीवतत्त्वमेकमङ्गीकृत्यैव सर्वं निर्वोढुं शक्यमिति सोऽमन्यत। तद्वदेव तत्स्थाने निर्विशेषब्रह्मैक्यवादोऽपि अनन्तरं प्रवृत्तः सर्वसमन्वयार्थमित्यपि प्रसिद्धम्। एवं सांख्याः, मीमांसकाश्च प्रकृतिपुरुषरूपतत्त्वद्वयवादिन इति प्रसिद्धमेव। सविशेषब्रह्मवादिनो वैदिकास्तु प्रकृतिः, जीवः, ईश्वरश्चेति तत्त्वत्रयवादिनः। भोक्ता भोग्यं प्ररितारं च मत्वा इति हि तत्त्वत्रयं वदति श्वेताश्वेतरश्रुतिः। इदं सर्वं साधककक्ष्याभेदेनैव। तत्तत्कक्ष्यायां तत्तत्सत्यमेवेत्यादिकं तत्त्वमुक्ताकलापव्याख्यायां सर्वङ्कषायां सत्यसिद्धौ च विस्तरेण प्रतिपादितम्।। प्रकृते न्यायशास्त्रं वैदिकं त्रितत्त्ववादमेवाङ्गीकरोति। वेदोपाङ्गत्वेन परिगणितश्च। अत एवेश्वरकृतो वेद इति वदति। अत एव चेश्वरप्रेरणैव लिङर्थ इत्यङ्गीकरोति। बलवदनिष्टाननुबन्धित्वकृतिसाध्यत्वज्ञानादिकं प्रेरणायाः पोषकतयोपकरोतीत्येव तत्त्वम्। अधिकमन्यत्र। सर्वं न्याय्यं युक्तिमत्त्वात् विदुषां किमशोभनम् इति वदन् भगवान् शुकः- केवलकलहप्रियाणामविदुषां पण्डितानां तु नैकमपि शास्त्रं मुक्तये कल्पते इत्युद्घोषयति। एवं तर्हि निर्णय एव कुत्रापि न शक्य इति तु न मन्तव्यम् मानवबुद्धीनां परस्परमत्यन्तविलक्षणत्वात्, तत्तत्कक्ष्यानुगुणमेव निर्णयः। अत एवोक्तम्- यो विद्यया यया युक्तस्तस्य सा दैवतं परम्। सैव पूज्यार्चनीया च सैव तस्योपकारिणी॥ इत्येव परमं रहस्यम् अशक्तानामाप्तवाक्यमेव परमं प्रमाणम्। इत्याद्यन्यत्र विस्तरः। ; आलोक- व्याख्या ईश्वरस्य द्वेषादिगुणाभावात् ज्ञानेच्छायत्नेष्वेव नित्यानित्यविभागः। एतत् त्रयव्यतिरिक्तास्तु जीवगता अनित्या एव।। वेगः। ‘आद्यपतनासमवायिकारणं गुरुत्वम्' इति पूर्वमुक्ते लक्षणे, द्वितीयादिपतने वेगस्यापि कारणत्वं प्रदर्शितम्। अतश्च गुरुत्वादिभिन्नत्वे सति द्वितीयादिपतनासमवायिकारणत्वं वेगस्य लक्षणं ज्ञेयम्। भावनाख्यं संस्कारं निरूपयति- अनुभवेत्यादि। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। अनुभवजन्यत्वमात्रोक्तौ अनुभवध्वंसेऽतिव्याप्तिः। अतः स्मृतिहेतुत्वम्। स्मृतिहेतुत्वमात्रोक्तावात्मन्यतिव्याप्तिः, आत्मनस्समवायिकारणत्वात्। अतोऽनुभवजन्यत्वमुक्तम्। आत्मनो नित्यत्वान्नातिव्याप्तिः। ननु तर्हि जन्यत्वमात्रमलम्, तावतैवात्मनि अतिव्याप्तेः परिहारादिति चेत्, न तदा कार्यसामान्यं प्रत्यदृष्टस्य कारणत्वात्, तस्य च जन्यत्वस्य 'विहितकर्मजन्यः' ‘निषिद्धकर्मजन्यः' इत्यनुपदमुक्तत्वात्, अदृष्टपदवाच्यधर्माधर्मयोरतिव्याप्तिः। अतोऽनुभवजन्यत्वमावश्यकम्। आत्ममात्रेति। जीवात्ममात्रवृत्तिरित्यर्थः। परमात्मा तु सदा सर्वं प्रत्यक्षत एव पश्यतीति, तस्य स्मृतिर्नास्ति। विस्तरस्त्वन्यत्र।। ननु पूर्वम् ‘संस्कारमात्रजन्यं ज्ञानं स्मृतिः' इति स्मृतेर्लक्षणमुक्तम्। इदानीं तु अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाख्यसंस्कारस्य लक्षणमुच्यते। एवं सति स्मृतिस्संस्कारजन्या, भावनाख्यसंस्कारस्तु स्मृतिहेतुरित्यन्योन्याश्रयदोष इति चेत्, न। अनुभवजन्यत्वे सति संस्कारत्वजातिमत्त्वमेव वा लघुलक्षणं बोध्यम्। इतरत्सर्वं स्वरूपकथनम्। संस्कारत्वजातिश्च स्मृतिजनकतावच्छेदकतया द्रव्यत्वादिवत्सिद्ध्यतीति युक्तम्।। अनुभवजन्या स्मृतिहेतु:' इत्यनेन भावनाख्यसंस्कारस्यानुभव-स्मृत्योर्मध्यवर्तित्वमुक्तं भवति। स्मृतिं प्रति पूर्वानुभवः कारणमिति सर्वसंप्रतिपन्नम्। न तावन्मात्रम्, अनुभवस्मृत्योः समानविषयत्वमपि संप्रतिपन्नम्। तावतानुभूतस्य सर्वस्यापि स्मरणनियमादर्शनात् अनुभवानधिकविषयत्वमेव समानविषयकत्वम्। अत्र च कारणमनुभवतारतम्यमेव। अत्रापि कारणं तत्तत्पुरुषबुद्धितारतम्यमेव। इदमेव ग्रहणधारणसामर्थ्यमित्युच्यते। ग्रहणं तादात्त्विकम्। धारणं संस्कारानुवृत्तिः। संस्कारानुवृत्तावपि कदाचित् स्मरणाभावोऽदृष्टाधीनः। अदृष्टमेव संस्कारोद्बोधकम्। एवं स्मृत्यनुभवयोर्मध्यवर्तित्वकथनात् संस्कारस्य द्वारत्वं सिद्ध्यति। क्षणिकानां क्रियारूपयागादीनां कालान्तरभाविस्वर्गादिकारणत्वनिर्वाहार्थं मध्ये धर्माधर्मयोः कल्पनवदेवाशुतरविनाशिनामनुभवानामपि स्मृतिकारणत्वनिर्वाहार्थं मध्ये संस्कारकल्पना। ननु तर्हि उद्बोधकतयाभिमतधर्माधर्मावेव मध्ये द्वारमास्ताम्, किमर्थमधिकगुणकल्पनेति चेत्, न। धर्माधर्मयोः फलनाश्यत्वात्, सकृत्स्मरणजननेनैव धर्माधर्मरूपसंस्कारक्षयापत्त्या पुनः कालान्तरे तत्स्मरणानुपपत्तेः। न च स्मृत्यैव पुनस्संस्कारान्तरोत्पत्त्या निर्वाहसंभवः। संस्कारस्यानुभवजन्यत्वनियमभंगप्रसङ्गात्। न चेष्टापत्तिः, पुनः पुनःस्मरणेन पूर्वसंस्कारस्यैव दार्ढ्यानुभवस्य वेदाध्ययनादावनुभवसिद्धत्वात्। पूर्वतनसंस्कारानुवृत्तेः स्पष्टमनुभवाच्च। अतो धर्माधर्माभ्यां नान्यथासिद्धिस्संस्कारस्येति संस्कारोऽत्यन्तमावश्यकः। दुःखम् प्रतिकूलतया वेदनीयं दुःखम्॥ ५६॥ इच्छा इच्छा कामः॥ ५७॥ द्वेषः क्रोधो द्वेषः॥ ५८॥ प्रयत्नः कृतिः प्रयत्नः॥ ५९॥ धर्मः विहितकर्मजन्यो धर्मः॥ ६०॥ अधर्मः निषिद्धकर्मजन्योऽधर्मः॥ ६१॥ आत्मविशेषगुणाः बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः॥ ६२॥ नित्यानित्यगुणौ बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च। नित्या ईश्वरस्य। अनित्या जीवस्य॥ ६३॥ संस्कारः संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः॥ ६४॥ कर्म चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। (पृथिव्यादिचतुष्टयमनोमात्रवृत्ति)॥ ६५॥ ; आलोकः - कर्म ; तर्कसंग्रहः चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। ; आलोक- व्याख्या चलनात्मकमिति। 'चलति' इतिप्रतीतिसिद्धक्रियात्वरूपजातिमत्त्वं कर्मणो लक्षणम् इत्यर्थः। चलने जाते, पूर्वदेशाद्वस्तुनो विभागः। तेन पूर्वसंयोगनाशः। तत उत्तरदेशसंयोगोत्पत्तिरिति क्रमोऽवर्जनीयः। अतः सर्वापि क्रिया क्षणचतुष्टयमात्रावस्थायिनी। अधिककालानुवृत्तिव्यवहारस्तु क्रियान्तरोत्पत्तिवशादिति ज्ञेयम्। सामान्यम् नित्यमेकमनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति। तद्द्विविधं परापरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि॥ ६६॥ ; आलोकः - साधर्म्यवैधर्म्यम् साधर्म्यवैधर्म्ये "धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम्” इति महर्षिः कणादः। साधर्म्यज्ञानं भ्रमहेतुः। वैधर्म्यज्ञानं तन्निवृत्तिहेतुः। सर्वमिदं अन्ते आत्मस्वरूपस्य विविक्तस्य परिचये पर्यवस्यति। एतदभ्यासरूपमिदं साधर्म्यवैधर्म्यज्ञानमिति भावः। समानो धर्मः येषाम्, ते सधर्माणः। तेषां भावः साधर्म्यम्। साधारणो धर्म इत्यर्थः। एवं विरुद्धो धर्मो येषाम्, ते विधर्माणः। तेषां भावः वैधर्म्यम्, तत्रावर्तमानो धर्म इत्यर्थः। सप्तानामपि पदार्थानां ज्ञेयत्वम्, वाच्यत्वम्, पदार्थत्वमित्यादिकं साधर्म्यम्। ज्ञेयत्वं ज्ञानविषयत्वम्। एतच्च सर्वपदार्थसाधारणो धर्मः। येन केन प्रकारेण, यस्य कस्यचित् यदा कदाचित् ज्ञेयाः स्युरेव सर्वे पदार्थाः। अत एव ज्ञेयत्वं केवलान्वयि। एकदैव एकपुरुषीयज्ञानविषयत्वे सत्येव ज्ञानविषयत्वं स्यादिति न भ्रमितव्यम्। यदा कदाचित् यस्य कस्यचित् ज्ञानविषयताया अपि तथात्वात्। अथवा ईश्वरीयज्ञानविषयतामादायापि समन्वयात्। ईश्वरो हि सदा सर्वज्ञो वैदिकानाम्। तावता अस्मदीयज्ञानविषयताऽपि न वार्यते। ज्ञानपदं चात्र प्रमापरम्, गुणादिपदानां सद्गुणपरत्ववदौत्सर्गिकमिदम्। एवं वाच्यत्वमपि केवलान्वयि। एवं पदार्थत्वादिकमपि। वाच्यत्वम् अभिधेयत्वं च समानम्। द्रव्यादीनां षण्णां भावत्वं साधर्म्यम्। तच्च अभावविलक्षणत्वम् - अस्तीति प्रतीति विषयत्वम्। अभावो हि नास्तीतिप्रतीतिविषयः। समवाय - एकार्थसमवायान्यतरसंबन्धेन सत्तावत्त्वमिति केचित्। एकस्मिन् वस्तुनि उभयोरपि समवायेन सत्त्वमेव एकार्थसमवायः। द्रव्यगुणकर्मसु हि समवायसंबन्धेन सत्ताजातिः वर्तते, तत्रैव च समवायसंबन्धेन सामान्यं, विशेषः, समवायोऽपि वर्तते। यद्यपि समवायस्य स्वरूपं सम्बन्धः, अथापि समवायस्य स्वरूपं समवाय एव। अतो नानुपपत्तिः।। द्रव्यादीनां पञ्चानाम् अनेकत्वं समवायित्वं च साधर्म्यम्। षष्ठः पदार्थस्समवायस्त्वेक एव। अतः पञ्चसु समन्वयः। यद्यपि अनेकत्वम् अभावेऽप्यस्ति, तथापि भावत्वे सतीति विशेषणान्न दोषः। द्रव्यादीनां चतुर्णां समवेतसमवेतवृत्तिधर्मत्वम्। विशेषा हि नित्यद्रव्यमात्रवृत्तयः। गुणादयस्त्रयोऽनित्यद्रव्येष्वपि वर्तन्ते। द्रव्यत्वं स्वावयवकपालसमवेते घटादौ वर्तते। घटादौ द्रव्यत्वं वर्तते। अतो द्रव्यं समवेतसमवेतवृत्ति भवति। गुणत्वादिकं तु तादृशद्रव्यसमवेते गुणादौ वर्तन्त इति समन्वयः। द्रव्यादीनां त्रयाणां सत्ताजातिमत्त्वं साधर्म्यं प्रसिद्धमेव। कार्यसामान्यं प्रति द्रव्यं समवायिकारणम्। गुणकर्मणी त्वसमवायिकारणे। तथा च कार्यसामान्यं प्रति द्रव्यादित्रितयमेव कारणं भवति। तादृशकारणत्वस्य त्रिष्वेव वर्तमानत्वात्, तदवच्छेदकतयानुगतायाः सत्ताजातेः सिद्धिः। द्रव्यगुणयोः द्वयोः नित्यानित्यवृत्तिपदार्थविभाजकधर्मवत्त्वं साधर्म्यम्। कर्मत्वं त्वनित्यमात्रवृत्ति। सामान्यत्वादिकं तु नित्यमात्रवृत्ति। द्रव्यत्वगुणत्वे तु नित्येषु परमाण्वादिषु, तद्गतगुणेष्वपि यथासंख्यं वर्तते। तथैव अनित्येषु घटपटादिषु, तद्गतगुणेष्वपि वर्तत एव। अभावत्वस्यापि अनित्यप्रागभावे, नित्येऽत्यन्ताभावे च सत्त्वादव्याप्तिवारणाय भावत्वे सतीत्यपि विशेष्यताम्। एवम्, गुणादीनां निर्गुणत्वं निष्क्रियत्वं च साधर्म्यम्। गुणवत्त्वं क्रियावत्त्वं वा नवद्रव्याणां साधर्म्यं चेत्, तदेव इतरेषां वैधर्म्यं भवति। यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् इति हि नियमः। सामान्यादीनां जातिशून्यत्वं साधर्म्यम्, सत्ताजातेः, द्रव्यत्वगुणत्वकर्मत्वानां च यथासंख्यं त्रिष्वेव वर्तमानत्वात्। पारिमाण्डल्यभिन्नानां कारणत्वं साधर्म्यम्। पारिमाण्डल्यं परमाणुपरिमाणम्। तद्भिन्नानां सर्वेषां यत्र कुत्रचित् कारणत्वं वर्तत इति तत् तेषां साधर्म्यमित्यर्थः। परमाणुपरिमाणं हि न कुत्रापि कार्ये कारणमित्यर्थः। न चावयविपरिमाणं प्रत्यवयवपरिमाणस्य कारणत्वनियमात् द्व्यणुकपरिमाणं प्रति परमाणुपरिमाणस्य कारणत्वेन, कथं कुत्रापि तत् न कारणमिति शङ्क्यम्, एवं सति परमाणुजन्यं द्व्यणुकम् अणुतरं भवेत्। यथा महत्कपालद्वयजन्यो घटो महत्तरो भवति, तथैव अणुजन्यः अणुतर एव भवेत्। लोके हि धनवान् कश्चित् दशसहस्ररूप्यकाधिपतिश्चेत्, धनवत्तरस्त- तोऽप्यधिकविंशतिसहस्राधिपतिर्भवेत्। धनवत्तमस्तु त्रिंशत्सहस्राधिपतिर्भवेत्। एवं दरिद्रः कश्चित् दशरूप्यकवान् यदि भवति, तदा दरिद्रतरः पञ्चरूप्यकवान् भवेत्, न तु विंशतिरूप्यकवान्। दरिद्रतमस्तु रूप्यकत्र्यवान् एव भवेत्। अतः तरप्तमप्प्रत्ययार्थः तत्तत्कक्ष्यानुरोधेनैव लोके व्यवह्रियते। एवमेव प्रकृते महत्परिमाणवान् कश्चित् घटश्चेत् ततोऽपि महत्तरमहत्तमपरिमाणवन्तोऽन्ये घटादयोऽधिकपरिमाणवन्त एव भवेयुः। अतश्च अण्वपेक्षया अणुतरस्तु न्यूनपरिमाणवानेव भवेत्। अणुतमस्तु ततोऽपि न्यूनपरिमाणवानेव। एतेन परमाणुगतमणुपरिमाणम् द्व्यणुकपरिमाणं प्रति न कारणम्, किन्तु तद्गतसंख्यैव। एवं त्र्यणुकपरिमाणं प्रति द्व्यणुकत्रयगता संख्यैव कारणम्,अत एव द्व्यणुकत्रयजन्यस्त्र्यणुको महान् भवति, त्र्यणुकस्य महत्परिमाणवत्त्वात्, प्रत्यक्षं प्रति महत्त्वस्य कारणत्त्वात्। अन्यथा द्व्यणुकमणुतरं त्र्यणुकं चाणुतमम् इत्येव वक्तव्यं भवेत्। न चाणुतर-अणुतमादिशब्दानां तथात्वेऽपि प्रत्यक्षदृष्ट्या अवयवगतपरिमाणमेव किल अवयविपरिमाणं प्रति कारणं दृश्यते इति शङ्क्यम्, वस्तुतत्त्वनिर्णयः खलु व्यवहाराधीनः। व्यवहारश्च शब्दाधीनः। शब्दानां शक्तिग्रहणं हि व्यवहारादेवेति शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च इत्यादौ निरूपितम्। पदार्थो नाम पदस्यार्थः, इदञ्च लोकव्यवहारसिद्धम्। लोकव्यवहारदृष्ट्या अणोरणुतरः पूर्वोक्तरीत्यैव वक्तव्यः। न्यायशास्त्रं हि लोकव्यवहारसिद्धपदार्थनिरूपणपरम्। अत एवेदमेव दर्शनं लोकायतपदवाच्यमासीत् पूर्वम्। चार्वाकमतं तु केवलनवीनपण्डित परिकल्पितम्। यतः- अतिप्राचीने प्रसिद्धे चाणक्यविरचिते अर्थशास्त्रे सनत्कुमारसंहितायां च सांख्यम्, योगः, लोकायतञ्च इत्यान्वीक्षिकी त्रिविधा इति दृश्यते। आन्वीक्षिकीति न्यायशास्त्रमिति न्यायभाष्ये अभिहितम्। प्रतीतिशरणाः नैयायिकाः, प्रयोगशरणाः वैयाकरणाः इति हि प्रसिद्धम्। ईश्वरानुमानादिकं तु वेदान्तिसुहृदां नैयायिकानामेव, न तु न्यायशास्त्रान्तर्गतम्। अत एव न्यायसूत्रभाष्ययोर्न कुत्रापि ईश्वरविषयको विचारो दृश्यते। ईश्वरविचारो वेदान्तशास्त्र एवेति तयोराशयः। अत एव च इन्द्रियार्थसन्निकर्षोत्पन्नम् इति प्रत्यक्षलक्षणविशेषणम्। न हि ईश्वरप्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यम्, तस्य नित्यत्वात्। अतो लोकायतपदं न्यायशास्त्रपरमेव। न तावन्मात्रम्, चार्वाकदर्शनं हि प्रत्यक्षैकप्रमाणवादीत्युच्यते। एवं सति किण्वादिभ्यो मदशक्तिवत् भूतानामेव चैतन्यं केन प्रमाणेन गृह्येत ? न हि चैतन्यमैन्द्रियकम्। नापि मानसम्, इन्द्रियाणां सर्वेषामपि अतीन्द्रियत्वेन तैः तेषामङ्गीकारासंभवात्। अतञ्चार्वाकदर्शनमिति संपूर्णमेकं दर्शनमेव वस्तुतो नास्त्येवेत्यादिकं तत्त्वमुक्ताकलापस्य सर्वाङ्कषाव्याख्यायां विस्तरेण निरूपितम्॥ अतश्च अणुपरिमाणं न कुत्रापि कारणम्। एवञ्च पारिमाण्डल्यपदं द्व्यणुकपरिमाणस्याप्युपलक्षकम्। परमाणुपरिमाणं द्व्यणुकपरिमाणं च न कुत्रापि कारणमिति भावः। एवं पारिमाण्डल्यपदं परममहत्परिमाणस्य, अतीन्द्रियपदार्थवृत्तिसामान्यस्य, विशेषाख्यपदार्थस्य चोपलक्षकमिति विश्वनाथो न्यायपञ्चाननः। तेषामपि कुत्रापि कारणत्वाभावादित्यर्थः। आकाशादिगतं विभुपरिमाणं हि नान्यस्य परिमाणस्य जनकम्, विभुत्वापेक्षयाधिकपरिमाणस्याभावात्। एवम् ऐन्द्रियकस्थूलवस्तुगतं घटत्वादिरूपं सामान्यं तु तत्तत्प्रत्यक्षनिमित्तकारणं भवति, प्रत्यक्षं प्रति विषयस्य निमित्तकारणत्वात्। अतीन्द्रियपदार्थवृत्तिसामान्यस्य तु इन्द्रियजन्यज्ञानं प्रति न कारणत्वम्, तदविषयत्वात्। एवं नित्यद्रव्यवृत्तयो विशेषाख्याः पदार्था अपि न कुत्रापि कारणानि भवन्तीत्याशयः। तथा च परमाणुपरिमाण-द्व्यणुकपरिमाण-विभुपरिमाण- अतीन्द्रियसामान्य-विशेषभिन्नानां सर्वेषां कारणत्वं साधर्म्यमित्यर्थः। ननु योगिनो हि तपः प्रभावविशेषादतीन्द्रियाण्यपि वस्तूनि साक्षात्कुर्वन्तीति प्रसिद्धम्। प्रत्यक्षे च विषयस्य कारणत्वं लोकसिद्धम्। एवञ्चातीन्द्रियं परमाणुपरिमाणम्, द्व्यणुकपरिमाणञ्च तद्विषयकयोगिप्रत्यक्षे कारणं भवत्येव। एवमतीन्द्रिय- सामान्यविषयकयोगिप्रत्यक्षे अतीन्द्रियसामान्यमपि कारणं भवेदेव। एवमेव विशेषविषयकयोगिप्रत्यक्षे विशेषाः कारणम्। तथा च सर्वेषामपि कुत्रचित् कारणत्वात्, प्रमेयत्वादिवत् कारणत्वमपि केवलान्वयिधर्मः। एवम् अणुत्वेन निखिलाणूनामुपस्थितौ अणुत्वाद्यतीन्द्रियसामान्यस्यापि कारणत्वमागतम्। एवम्, एषः परमाणुः तत्परमाणुभिन्नः, एतद्विशेषात् इति परमाणूनां परस्परभेदसाधकानुमाने विशेषस्य लिङ्गविधया कारणत्वात्, विशेषाणामपि कारणत्वमनिवार्यम्। तथा च तद्भिन्नानां कारणत्वं साधर्म्यमित्ययुक्तम् कारणत्वस्य पूर्वोक्तरीत्या केवलान्वयिधर्मत्वात् इति चेत्, न उक्तसर्वस्यापि प्राचीनमते एव स्वीकारात्। नवीनानां मते तु, लिङ्गज्ञानमेवानुमितिकरणम्, न तु लिङ्गम्। सामान्यज्ञानमेव प्रत्यासत्तिः, न तु सामान्यम् इत्यङ्गीकारात् नानुपपत्तिः। एवम् अस्मदादि प्रत्यक्ष एव विषयः कारणं, न तु योगिप्रत्यक्षे। अतीतानागतवस्तून्यपि योगिनः पश्यन्तीति कथनात्, अतीतानागतानां वस्तूनामिदानीमभावात् कथमेषां कारणत्वम्। ननु विषयाभावेऽपि कथं ते पश्यन्तीति चेत्, योगजन्यादृष्टविशेषवशादेवेति योगशास्त्रादवगम्यते। अतो नास्ति तेषां कारणत्वमिति, कारणत्वं न केवलान्वयिधर्म इति न कश्चन दोषः। ननु एवमपि महत्त्वं हि त्र्यणुकादारभ्य द्रव्यप्रत्यक्षे कारणं सम्मतम्। अतः आत्मविषयकमानसप्रत्यक्षे आत्मगतं परममहत्परिमाणं कारणं वाच्यम्। एवञ्च विभुपरिमाणस्य कुत्रापि न कारणत्वमिति कथमुच्यत इति चेत्; आत्मप्रत्यक्षस्य योगजधर्मप्रभावाधीनत्वेन अत्यन्तमलौकिकत्वात्, तत्र घटादिदृष्टान्तेन आत्मगतमहत्त्वस्य कारणत्वे, तेनैव न्यायेन आत्मप्रत्यक्षे आलोकोऽपि कारणं वक्तव्यं भवेत् इत्यलं शास्त्रान्तरविचारेण। आकाशशरीरिणामव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते इति कारिकावली। अव्याप्यवृत्तिविशेषगुणवत्त्वम्, क्षणिकविशेषगुणवत्त्वं च आकाशात्मनोः साधर्म्यम् इत्यर्थः। आकाशे विशेषगुणः शब्द एक एव। आत्मनां विशेषगुणाश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नादृष्टभावनाख्यसंस्काराः। शब्दश्च आकाशे अव्याप्यवृत्तिः। अव्याप्यवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्वम्। स्वं शब्दः। तदत्यन्ताभावः शब्दात्यन्ताभावः। विभावाकाशे शब्दः एकदेशावच्छेदेनैव जायते, न तु सर्वत्र। तथैवानुभवात्। अतश्च शब्दः स्वात्यन्ताभावाधिकरण एव वर्तते। अतः शब्दः स्वात्यन्ताभावसमानाधिकरणः। एवमात्मनि विभौ विशेषगुणा बुद्ध्यादयः शरीरावच्छेदेनैव जायन्ते, तथैवानुभवात्। अतोऽव्याप्यवृत्तिविशेषगुणवत्त्वमुभयोस्समानम्॥ एवं क्षणिकविशेषगुणवत्त्वं च तयोस्समानम्। क्षणिकत्वं च न बौद्धादिवत् एकक्षणमात्रवृत्तित्वम्, क्षणिकवादस्य निराकृतत्वात्। किन्तु द्विक्षणवृत्तित्वम्। शब्दो हि आकाशे जातो विशेषगुणो वीचीतरङ्गन्यायेन (तरङ्गात्तरङ्गोत्पत्तिवत्) श्रोत्रदेशं प्राप्तः श्रोत्रेन्द्रियेण गृह्यते। अतः उत्पन्नः शब्दः शब्दान्तरमुत्पाद्य स्वयं नश्यति, शब्द द्वयाश्रवणात्। अतश्शब्दस्य द्विक्षणवृत्तित्वमावश्यकम्। प्रथमक्षणे उत्पन्नः, द्वितीयक्षणे शब्दान्तरमुत्पाद्य नश्यति। अतः सिद्धान्ते क्षणिकत्वं द्विक्षणवृत्तित्वमेव, नैकक्षणवृत्तित्वम्। एवञ्च क्षणिकविशेषगुणवत्त्वम् आकाशस्य सिद्धम्। एवमात्मनि जाता बुद्ध्यादयोऽपेक्षाबुद्धिव्यतिरिक्ता विशेषगुणा द्विक्षणमात्रावस्थायिन एव। प्रतिक्षणमिन्द्रियविषयसंयोगस्य नानाविधेषु जायमानत्वात्, ज्ञानान्यपि अनेकविषयाणि जायन्ते। तानि सर्वाण्यपि न स्थिराणि, अननुभवात्। युगपज्ज्ञानद्वयोत्पत्तेरसंभवात्। अतो ज्ञानान्यपि द्विक्षणमात्रावस्थायीति। धारावाहिकज्ञानानां किञ्चित् कालानुवृत्तिश्च, ज्ञानात् ज्ञानान्तरोत्पत्यैव समर्थनीया। अतञ्च क्षणिकविशेषगुणवत्त्वमात्मनां सिद्धम्। संख्यादिसामान्यगुणानाम् आत्मसु आकाशे च नित्यत्वात्, विशेषगुणेत्यभिहितम्। आत्मगुणबुद्धिप्रभेदरूपाया अपेक्षाबुद्धेस्तु त्रिक्षणवृत्तित्वमावश्यकम्। द्वित्वादयः किल संख्या अपेक्षाबुद्धिजाः। अयमेकः, अयमेकः इति गणनरूपा बुद्धिरेव, तत्तत्पुरुषापेक्षया तत्तद्वस्त्वपेक्षयैव च जायमानत्वात्, अपेक्षाबुद्धिरित्युच्यते। तया तत्तद्वस्तुद्वये द्वित्वोत्पत्तिः। ततो द्वित्वत्वनिर्विकल्पकम्। ततो द्वित्वसविकल्पकम् इति तृतीयक्षण एव द्वित्वानुभवात्, तावत्पर्यन्तमपेक्षाबुद्धिः वर्तत एव। अपेक्षाबुद्धिनाशे च द्वित्वादिकमपि नश्यति। अतस्तद्भिन्ना बुद्धय एव द्विक्षणावस्थायिन्यः, अपेक्षाबुद्धेः त्रिक्षणावस्थायित्वेऽपि इतरबुद्धेः द्विक्षणमात्रस्थायित्वात्। एवं सुखादीनामात्मविशेषगुणानाम्, आकाशविशेषगुणस्य शब्दस्य च द्विक्षणवृत्तित्वरूपं क्षणिकत्वं साधारणम्। अतश्च क्षणिकविशेषगुणवत्त्वम्, अव्याप्यवृत्तिविशेषगुणवत्त्वं च आकाशात्मनोः साधर्म्यम्। संख्यापरिमाणादिसामान्य-गुणानां नित्यद्रव्यवृत्तीनां नित्यत्वात्, विशेषपदं गुणविशेषणम्। समवायिकारणत्वं नवानां द्रव्याणां साधर्म्यम्। कालदिशोः विद्यमानसंख्यादिगुणानां नित्यत्वेन तन्निरूपितसमवायिकारणत्वस्य कालादिष्वसंभवेऽपि, विभुद्वयसंयोगाभावेऽपि घटादिमूर्तद्रव्याणां तैः साकं संयोगस्योभयवृत्तित्वेन घटादिनाशे तादृशसंयोगस्यापि नाशात् तस्यानित्यत्वेन तन्निरूपितं समवायिकारणत्वम् अक्षतमेव। विभुद्वयसंयोगाभावे मानाभावात् विभुद्वयसंयोगे विरोधो नास्तीति नव्याः। अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः इति संयोगस्य विभागपूर्वकत्वनियमात्, विभुद्वयस्य विभागासंभवात् तयोः संयोगोऽपि न संभवत्येव। संयोगस्य नित्यत्वे समवायोऽन्यथासिद्धो भवेत्। न च द्रव्ययोरेव संयोगात्, गुणगुणिनोरतथात्वेन न संयोगस्तयोः संबन्धो भवितुमर्हतीति वाच्यम्, संयोगस्य नित्यत्वेनैव सिद्धौ समवायस्यातिरिक्तकल्पने गौरवात्, द्रव्ययोरेव संयोगः इति नियमस्याप्यनावश्यकत्वात्। एवं धर्मिकल्पनातो वरं धर्मकल्पना इति न्यायेन समवायासिद्धौ, क्रमेण भिक्षुपादप्रसरणन्यायेनेदं शास्त्रमेव न शिष्येत। तत्तत्पण्डितैः स्वेच्छया तत्तत्पदार्थकल्पने, अन्ते बौद्धन्यायस्यापि प्रामाण्यापत्त्या, व्यासयाज्ञवल्क्यादिसंमतं न्यायविस्तरशास्त्रं लुप्येत। इष्टापत्तौ, वैदिकत्वमेव न स्यात्। तत्रापि इष्टापत्तौ नास्तिक्यमपि दुर्निवारं स्यात्। तथा च उच्छृङ्खलानां नवीनानां वचनानि नोपादेयान्येव॥ वस्तुतस्तु सुसूक्ष्मपरिशीलने प्राचीनानां प्रक्रियैव साधीयसी, क्षेमकरी च जीवानामित्यादिकमन्यत्र विस्तरेण द्रष्टव्यम्। अत एव न्यायवैशेषिकयोः समानतन्त्रत्वेऽपि नैकशास्त्र्यं प्रामाणिकम्। अत एव षोडशपदार्थानां सप्तस्वेव अन्तर्भाव इत्यादिकमपि अप्रामाणिकमेव। सप्तानां पदार्थत्वेऽपि षोडशानां पदार्थत्वाभावात्, न्यायसूत्रे तेषां तत्त्वपदेनैव निर्देशात्। एवञ्च समवायिकारणत्वं नवद्रव्याणां समानम्। एवमेव गुणकर्मणोः असमवायिकारणत्वमेव साधर्म्यम्। न च केषाञ्चित् गुणानां कुत्रचित् असमवायिकारणत्वेऽपि आत्मविशेषगुणादीनां कुत्रापि असमवायिकारणत्वाभावात् कथं गुणकर्मणोः असमवायिकारणत्वं संभवतीति वाच्यम्, असमवायिकारणं चेत् गुणविशेषरूपमेव भवेत् इत्येव व्याप्तेरभिमतत्वेन, गुणकर्मभिन्नानाम् असमवायिकारणत्वं वैधर्म्यमित्यत्रैव तात्पर्यात् अथवा जातिघटिततया लक्षणकरणेन न दोषः। नित्यद्रव्यातिरिक्तानाम् आश्रितत्वं साधर्म्यम्। ननु किं नाम आश्रितत्वम् ? न तावत् साधारत्वम्, नित्यानामपि कालदिगाधारवत्त्वेन तथात्वात्। तथाहि- सर्वाधारः कालः इति हि प्रसिद्धं किल। अत्र काल इति दिशोऽप्युपलक्षकम्। एवमेव कालेश्वरादृष्टादीनां साधारणकारणत्वम् इत्यत्र हि आदिपदेन दिशो ग्रहणमिति मर्मज्ञा एव जानन्ति। नित्यानां कालानधीनत्वेऽपि कालसंबन्धित्वरूपं सत्त्वं तु वर्तत एव। सदातनत्वं हि नित्यत्वम्। सदा इति काल एव ह्युच्यते। यथा अनित्याः पदार्थाः तत्तद्देशकालसंबन्धिनः, तथैव नित्या अपि सर्वदेशकालसंबन्धिनः। अत एव ब्रह्मणोऽपि नित्यं विभुम् इति निर्देशोपपत्तिः। नित्यमिति सर्वकालसंबन्धः, विभुमिति सर्वदेशसंबन्धः। अन्यथा ब्रह्म शशशृङ्गवत् तुच्छं भवेत्। अत आश्रितत्वं न संबन्धित्वमात्रम्, किन्तु आधाराधीनत्वरूपम्। तादृशाधाराधीनत्वरूपाश्रितत्वं तु गुणादीनां सर्वेषां समानम्, ते हि द्रव्यमाश्रिताः। अनित्यद्रव्याण्यपि स्वावयवमाश्रितानि। यथा- घटः कपालाश्रितः। पटस्तन्त्वाश्रितः। ननु घटादयो हि भूतलमाश्रिता इति चेत्, न, नियताश्रितत्वस्यात्र विवक्षितत्वात्। घटादीनां भूतलाश्रितत्वं तु देशकृतं न नियतम्। कदाचित् अत्र, कदाचित् तत्रेति अव्यवस्थितत्वात्। अतो न मुख्यमाश्रितत्वमिदम्। अनित्यद्रव्याणि हि स्वावयवेषु यावन्नाशं वर्तन्ते। अत एते वृत्तिमत्पदार्थाः। नित्यद्रव्याणां तु अवयवाभावात् तत्रावर्तमानत्वात्, नैते वृत्तिमत्पदार्थाः। ननु सन्तु गगनादयोऽवृत्तिपदार्थाः, तथैव प्रसिद्धाः। परमाणवस्तु आकाशे खलु वर्तेरन्। अतस्ते कथमवृत्तिपदार्था इति चेत् न, घटादीनां यथा भूतलादयो न मुख्याधाराः, किन्तु स्वावयवा एवेति यथोक्तम्, तथैव परमाणवोऽतिलघुद्रव्याणि आकाशे प्लवन्ते, न वर्तन्ते। अतः परमाणवोऽपि गगनादिवदेवावृत्तिपदार्था एव, निरवयत्वात्। अतश्च नित्यद्रव्याण्यनाश्रितानि, तद्व्यतिरिक्तानि च द्रव्याश्रितानि। गुणकर्मादीनां सर्वेषां मुख्यमाश्रयो द्रव्यमेव। अतः सुष्ठुक्तम् - अन्यत्र नित्यद्रव्येभ्यो ह्याश्रितत्वं साधर्म्यम् इति। पृथिव्यादीनां नवानां द्रव्यत्वम्, गुणक्रियादिमत्त्वञ्च साधर्म्यम्। पृथिव्यप्ते- जोवायुमनसां मूर्तत्वं, परत्वापरत्ववेगवत्त्वं क्रियावत्त्वं च साधर्म्यम्। मूर्तत्वं नाम परिच्छिन्नपरिमाणवत्त्वम्। पृथिव्यप्तेजोवाय्वाकाशानां भूतत्वं साधर्म्यम्। तच्च बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्। आत्मनो मनोग्राह्यसुखादिविशेषगुणवत्त्वात् बहिरितीन्द्रियविशेषणम्। संख्यादिसामान्यगुणानां नवद्रव्यसाधारणत्वात् विशेषगुणपदम्। कालदिगाकाशात्मनां विभुत्वम्, सर्वगतत्वं च साधर्म्यम्। पृथिव्यप्तेजोवायूनां चतुर्णां स्पर्शवत्त्वं, द्रव्यारम्भकत्वं च साधर्म्यम्। तेष्वेवावयवावयविभावस्य सत्त्वात्, अवयवानामवयव्यारम्भकत्वात्। पृथिव्यप्तेजसां रूपवत्त्वं, द्रवत्ववत्त्वं, चाक्षुषत्वं च साधर्म्यम्। पृथिवीजलयोः रसवत्त्वं, गुरुत्त्ववत्त्वं च साधर्म्यं स्पष्टम्। पृथिवीतेजसोः नैमित्तिकद्रवत्ववत्त्वं साधर्म्यम्॥ एवं साधर्म्यवैधर्म्यज्ञानात् पदार्थानामसङ्कीर्णं ज्ञानं सुसंपदं भवति। तेन चान्ते आत्मानात्मचिन्तायामात्मनोऽसङ्कीर्णस्वरूपज्ञानात् मुक्तिरपि क्रमेण भवेदित्याशयः। इति साधर्म्यवैधर्म्यप्रकरणम्। ; आलोकः - सामान्यम् ; तर्कसंग्रहः नित्यमेकमनेकानुगतं सामान्यम्। परं सत्ता। अपरं द्रव्यत्वादि। ; आलोक- व्याख्या नित्यमित्यादि। अनेकेषु अनुगततया वर्तमानत्वम्। समानानां भावः सामान्यमिति व्युत्पत्तिलब्धोऽयमर्थः। अनेकेषु वर्तमानम् इत्यनेनैव एकत्वं लब्धमिति लक्षण एकत्वं न निवेशनीयम्। तथा च नित्यत्वे सत्यनेकवृत्तित्वं सामान्यस्य लक्षणम्। नित्यत्वमात्रोक्तावाकाशादावतिव्याप्तिः। अतोऽनेकवृत्तित्वम्। ननु आकाशस्यावृत्तिपदार्थत्वेन वृत्तित्वमात्रमेवालमिति चेत्, परमाण्वादिगतैकत्वादौ नित्यत्वस्य वृत्तित्वस्य च सत्त्वादतिव्याप्तिः। अतोऽनेकपदम्। अनेकवृत्तित्वमात्रोक्तौ संयोगादावतिव्याप्तिः। अतो नित्यत्वम्। संयोगस्यानित्यत्वान्नातिव्याप्तिः। एवमप्यत्यन्ताभावस्य नित्यत्वादनेकवृत्तित्वाच्चात्यन्ताभावेऽतिव्याप्तिः। अतो वृत्तित्वं समवायसंबन्धेन बोध्यम्। अभावस्य समवायसंबन्धाभावान्नातिव्याप्तिः। तथा च नित्यत्वे सत्यनेकसमवेतत्त्वं सामान्यस्य लक्षणम्। सामान्यं - जातिः, अखण्डोपाधिरिति द्विविधम्। ; तर्कसंग्रहः विशेषाः नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः॥ ६७॥ ; आलोकः - व्यावर्तकाः *नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः। व्यावर्तका इति। भेदानुमितिहेतव इत्यर्थः। गुणक्रियादीनां भेदो हि तत्तदाश्रयभेदाधीनः। घटपटादीनां परस्परं भेदस्तत्तज्जात्यैव सिद्ध्यति। एकजातीययोर्घटयोर्भेदः कथं भवति ? द्वयोर्भेदे कारणं किमित्यर्थः। घटयोरुभयोर्जातिभेदाभावात् कथं भेदः सिद्ध्यतीति प्रश्नः। कोऽयं प्रश्नः प्रत्यक्षसिद्धे विषय इति चेत् ? आशयानभिज्ञो भवान्। सिद्ध्यतीति न प्रमाणप्रश्नः। किन्तु एतद्घटः, तद्धटश्च कथं परस्परं भिन्नावभूताम् ? इति कारणप्रश्नः। प्रत्यक्षेण सिद्धे भेदे कः प्रश्न इति चेत् ? पुनराशयं न जानासि। भेदः प्रत्यक्षेण ज्ञायते, न तु प्रत्यक्षेण भेदस्तयोर्जातः। घटद्वये भेदः कथं जात इति प्रश्नः। भिन्नभिन्नकपालजन्यत्वात्तयोर्भेदोऽनिवार्यः, अतः कोऽयं महान् प्रश्न इति चेत्! आगतोऽसि समीचीनं मार्गम्। घटभेदः कपालभेदात्। कपालभेदः तदवयवभेदात्। एवं त्र्यणुकभेदस्तदवयवद्व्यणुकभेदात्। द्व्यणुकभेदः परमाणुभेदात्। परमाणुभेदः कुतोऽभूत् ? इति प्रश्ने किमुत्तरम् ? परमाणूनाम् अवयवाभावात्। अतः परमाणूनां परस्परं भेदस्तद्गतानिर्वचनीयविशेषाख्यपदार्थभेदादेव। अयमर्थः पूर्वमुक्तः। एवमेव नित्यानामात्मादीनामपि विशेषभेदादेव भेदः, अन्यस्य वक्तुमशक्यत्वात्। ‘एतत्परमाणुस्तत्परमाणुभिन्नः, एतद्विशेषात्' इत्यनुमानस्याकारः। ननु विशेषाणां परस्परं भेदः कथं सिद्ध इत्यत्र - व्यावृत्ता इति। स्वत एव व्यावृत्ता इत्यर्थः। अन्यथानवस्थाप्रसङ्गः। अतश्च स्वतोव्यावृत्तत्वमेव विशेषाणां लक्षणम्। भेदनिरूपणं कर्तुमेव विशेषाख्यं पदार्थमङ्गीकृतवन्त इत्येते काणादा वैशेषिका इत्युच्यन्ते। भेदनिरूपका भेदवादिन इत्यर्थः। टिप्पणी *ननु 'नित्यद्रव्यवृत्तयः' इत्यत्र द्रव्यपदं किमर्थं ? परमाणुवदेव नित्यगुणा अपि निरवयवाः किल! तर्हि नित्यानां परमाणुगतगुणानां कथं भेदसिद्धिरिति चेत्, विशेषवशात् परमाणूनां परस्परभेदसिद्धौ तत्तद्गतगुणानामाश्रयभेदादेव सिद्ध्यति। शुक्लनीलादिगुणा हि भिन्ना तथैव प्रत्यक्षसिद्धाः। भिन्नयोः शुक्लपटयोर्वर्तमानयोः शुकुरूपयोः तदाश्रयपटभेदादेव भेदः। निरवयवे द्रव्ये कारणाभावात् भेदः कथं सिद्धः ? इति प्रश्न इत्यतः विशेषाः नित्यद्रव्यवृत्तयः, न तु नित्यगुणादिवृत्तय इति ज्ञेयम्। समवायः नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यत्तदवस्थमपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथाऽवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति॥ ६८॥ ; आलोकः - समवायः ; तर्कसंग्रहः नित्यसंबन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्य एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति। ; आलोक व्याख्या नित्यत्वे सति संबन्धत्वं समवायस्य लक्षणम्। नित्यत्वमात्रोक्तावाकाशादावतिव्याप्तिः। अतस्संबन्धत्वम्। संबन्धत्वमात्रोक्तौ संयोगेऽतिव्याप्तिः। अतो नित्यत्वम्। अस्य संबन्धस्यावश्यकतां प्रदर्शयितुम् अयुतसिद्धवृत्तिरिति। 'यु अमिश्रण' इति धातुः। अमिश्रणं पृथग्भावः। युतं यथा तथा सिद्धौ इति वा, युतौ च तौ सिद्धौ चेति वायुतसिद्ध इति विग्रहः। न युतसिद्धौ अयुतसिद्धौ। कदापि पृथक्कर्तुं वा पृथक्ज्ञातुं वा यौ न शक्यौ, तावयुतसिद्धौ। पृथक्कर्तुमशक्यौ इति कथनेनैव तत्र द्वौ वर्तेते इति स्पष्टम्। एवं सति तयोस्संबन्धो वक्तव्यः। न चेद्विशिष्टबुद्धिर्न स्यात्। यथा गुणगुणिनौ। ' रूपवान् घटः' इति खलु व्यवहरति। एतादृशव्यवहारविषयो न केवलं रूपम्, न केवलं घटः, किन्तु मतुबर्थस्तयोस्संबन्धोऽपि। नो चेत् 'रूपघटौ' इत्येवोच्येत- यथा 'घटपटौ' इति। अतो मतुप्प्रत्ययवाच्यस्तयोः संबन्ध आवश्यकः। अतश्चेयं विशिष्टबुद्धिरित्युच्यते। अत एवानुमानम्- गुणक्रियादिविशिष्टबुद्धिः, विशेषणविशेष्यसंबन्धविषया, विशिष्टबुद्धित्वात्, 'दण्डी' इति विशिष्टबुद्धिवत् इति। दण्डं धरन् पुरुषो 'दण्डी' भवति। दण्डपुरुषयोस्संबन्धाभावे 'दण्डी पुरुषः' इति न स्यात्, किन्तु 'दण्डपुरुषौ' इति स्यात्। अतस्तत्र दण्डः, पुरुषः, तयोः संबन्ध इति त्रयं विषयः। एवमेव 'गुणवान्' 'क्रियावान्' इत्यादावपि। स एव संबन्धः समवाय इत्युच्यते। अवयवावयविभावरहितयोर्द्रव्ययोरेव संयोगः, तयोः पृथक्सिद्धत्वात्। गुणगुणिनौ त्वपृथक्सिद्धौ। अतो न तयोस्संयोगः, किन्तु विलक्षणः। अयं च संबन्धो लोकप्रसिद्ध्या चतुर्षु - अवयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योश्च। शास्त्रतस्तु विशेषनित्यद्रव्ययोः। आहत्य पञ्चसु स्थलेषु समवायस्संबन्धः। अयं च संबन्धः सत्तयैव विशिष्टबुद्धिजनकः, न तु ज्ञाततया। अत एव न प्रत्यक्षः, रूपघटयोर्मध्येऽतिरिक्तस्य कस्यापि पदार्थस्य चक्षुषादर्शनात्। अथाप्युक्तेनानुमानेन स सम्बन्धो ज्ञायते। एवमनुमानसिद्धत्वादेव ‘सिद्ध्यतो वस्तुनो नित्यत्वे एकत्वे च लाघवम्' इति लाघवतर्कवशात् समवायो नित्य एकश्च, लाघवात्। अत एव समवायस्य प्रत्यक्षत्ववादोऽपि न युक्तः। अनुमानेन सिद्धावेव लाघवतर्कप्रसङ्गात्। न चास्तु समवायोऽनित्योऽनेकश्च का हानिरिति चेत्, न। उत्पत्तिविनाशादिकल्पनस्य, तस्य हेतुकल्पनादेरावश्यकत्वात्। तेषां प्रत्यक्षतोऽदर्शनात् कल्पनासंभवात्, नित्य एकश्च समवायः। ननु समवायस्याप्रत्यक्षत्वे विशिष्टबुद्धिः कथं भवेदिति चेत्, सत्तया कार्यकारिण एव संबन्धत्वात्। ज्ञातश्चेत् प्रकारो वा भवेत्, विशेष्यो वा भवेदित्येव परमं तत्त्वम्। ननु तर्हि संयोगोऽप्यतीन्द्रियः स्यात्तर्हीति चेत्, अतीन्द्रियत्वं प्रति संबन्धत्वस्याप्रयोजकत्वात्। वस्तुन ऐन्द्रियकत्वं हि तत्कारणप्रयुक्तम्। विशिष्टबुद्धौ संबन्धः सत्तयैव कार्यकारीत्येव प्राचां निर्णयः। यथा 'घटवद्भूतलम्' इत्यादौ हि घटभूतलयोः पूर्वं प्रत्येकं दर्शनात्, अनन्तरमुभयोर्मेलने 'घटभूतले' इत्यनुभवाभावात्, अतिरिक्तः कश्चन पदार्थः विशिष्टबुद्धावावश्यक इति, अवयवावयविभावरहितयोः द्रव्ययोः समवायासंभवात् संयोगः सिद्ध्यतीत्यादिकं संयोगविभागप्रकरण एव गतम्। ‘घटसंयोगिभूतलम्' इत्यादौ तु संयोगः प्रकार एव। संबन्धस्तु समवायः। संयोगस्तु वस्तुतो गुणः। स्वरूपसंबन्धस्तु नातिरिक्तः। समवाय एक एव संबन्धः शिष्यते। अभावः अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो नेति॥ ६९॥ ; आलोकः - अभावः ; तर्कसंग्रहः अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसाभावः। उत्पत्तेरनन्तरं कार्यस्य। त्रैकालिकसंसर्गाभावोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो न भवतीति। ; आलोक- व्याख्या 'अभावश्चतुर्विध:' इति पूर्वमेव विभागस्योक्तत्वात् विभक्तानां लक्षणान्याह अनादिरित्यादि। यथा 'अस्ति' इति प्रतीत्या षड्विधो भावः सिद्धः, तथा ‘नास्ति' इति प्रतीतिसिद्धोऽभावः। यथा 'घटोऽस्ति' इति व्यवहारः, तथा 'घटो नास्ति' इत्यपि व्यवहारस्सर्वसंमतः। अतोऽभावपदार्थोऽप्यावश्यकः। स चाभावश्चतुर्विधः, नञश्चतुर्धा प्रयोगात्। 'घटः पटो न' इत्येकः, 'घटो नास्ति' इत्यपरः। आद्योऽन्योन्याभावः, द्वितीयोऽत्यन्ताभावः। एतदन्तरा घटस्योत्पत्तेः पूर्वं 'नास्ति घटः' इति वदन्ति। एवं घटस्य नाशानन्तरम् 'नास्ति घटः' इति वदन्ति। आद्यव्यवहारे प्रागभावः, द्वितीयव्यवहारे ध्वंसश्च विषयः। आहत्याभावश्चतुर्विध आवश्यकः। विभागक्रमेण लक्षयति - अनादित्वे सति सान्तत्वं = नश्वरत्वं प्रागभावस्य लक्षणम्। अनादित्वमात्रोक्तावाकाशादावतिव्याप्तिः। अतः सान्तत्वम्। सान्तत्वमात्रोक्तौ घटादावतिव्याप्तिः। अतोऽनादित्वम्। एतस्यानादित्वं सादित्वं च प्रदर्शयति - कार्यस्य घटादेरुत्पत्तेः पूर्वं विद्यमानः, घटोत्पत्तौ स्वयं नङ्क्ष्यन् ‘भविष्यति' इति प्रतीतिसिद्धोऽभावः प्रागभाव इत्युच्यते। ‘प्राक् अभावः' इति व्युत्पत्त्या प्रागभाव इति संज्ञा। 'भविष्यति' इति कथनेनैव ‘इदानीं नास्ति' इत्यप्यर्थात्सिद्ध्यति। तत्र नञो विषयीभूतोऽभावः प्रागभावः। सादित्वे सत्यनन्तत्वं प्रध्वंसाभावस्य लक्षणम्। सादित्वमात्रोक्तौ घटादावतिव्याप्तिः। अतोऽनन्तत्वम्, घटादेस्सान्तत्वात् नातिव्याप्तिः। अनन्तत्वमात्रोक्तौ आकाशादावतिव्याप्तिः। अतः सादित्वम्। एतत्प्रदर्शयति घटादेरुत्पत्तेरनन्तरं कदाचित् जायमानोऽभावः - 'घटो ध्वस्तः = नष्टः ' इति प्रतीतिसिद्धोऽभावः = प्रध्वंसाभावः। 'ध्वस्तो घटः' इति प्रतीत्या तदानीं नास्तित्वं प्रतीयते। तत्र नञो विषयोऽभावः प्रध्वंसाभावः। स तु सादित्वादुत्पद्यते। वस्तुतस्तु भविष्यतीति प्रतीतिसिद्धोऽभावः प्रागभावः। 'ध्वस्तः' इति प्रतीतिसिद्धोऽभावः प्रध्वंसाभावः। उभयत्रापि 'नास्ति' इति प्रतीतिरनन्तरकालिकी आर्थिकी, न प्रागभावप्रध्वंसाभावविषयिणी। अत एवाभावो द्विविध एवेति केचित्। उभयत्रापि 'नास्ति' इति प्रतीतिर्न प्रामाणिकीत्येव प्राचां मतम्। अत एतावुभावभावौ तत्तत्समवायिकारणवर्तिनावित्युच्येते। अत एव ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचीनाः। घटो भविष्यति' 'घटो ध्वस्त इति व्यवहारौ हि घटविशेषविषयौ। अतः प्रागभावप्रध्वंसाभावौ न सामान्यधर्मावच्छिन्नप्रतियोगिताकौ॥ त्रैकालिकेत्यादि। त्रैकालिकः = कालत्रयवर्ती यः संसर्गाभावः = तत्तत्संबन्धनिषेधरूपोऽभावः = अत्यन्ताभावः। 'भूतले घटो नास्ति' इत्युक्ते भूतले घटनिषेधो घटसंबन्धनिषेध एव न तु घटस्यैव निषेधः, अन्यत्र घटस्य सत्त्वात्। अत एव 'शशशृङ्गं नास्ति' इत्यादि व्यवहारो 'घटो नास्तीति प्रतीतिवत् न प्रमाणिकः। प्रमेयदृष्ट्या घटनिषेधोऽन्यः, घटसंसर्गनिषेधोऽन्यः। उभयोः पर्यायता तु स्थूलदृष्ट्या। अतोऽत्यन्ताभावः सम्बन्धावच्छिन्नप्रतियोगिताकः। प्रागभावप्रध्वंसाभावौ तु न संसर्गावच्छिन्नप्रतियोगिताकौ, तयोस्संबन्धाभानात्। यद्यपि श्वो भविष्यतो घटस्य प्रागभावः, घटोत्पत्तेः पूर्वं श्वोऽपि स्थास्यति, अद्यापि वर्तते, ह्योऽप्यासीदिति त्रैकालिक इति कश्चिद्वदेत्, परन्तु अतीतत्ववर्तमानत्वादिकं नास्मद्दृष्ट्या ज्ञातव्यम्, किन्तु तत्तद्वस्तुदृष्ट्यैव। अन्यथा सर्वमपि त्रैकालिकम्, अत एवाव्यवस्थितं च स्यात्। तत्तद्वस्तुदृष्ट्या तत्तद्वस्तुनः कालः वर्तमान एव। अत्यन्ताभावव्यवहारस्य त्रैकालिकत्वात् स एव त्रैकालिकः = नित्यः। ‘घटो नास्ति' इतिव्यवहारः खलु त्रैकालिकः। नित्यत्वे सत्यभावत्वं चेदत्यन्ताभावस्य लक्षणम्, अन्योन्याभावेऽतिव्याप्तिः, घटपटयोर्भेदस्यान्योन्याभावरूपस्य नित्यत्वात्, न हि घटः पटो भवेत्, न वा पटो घटः कदाचित्। अन्तत आत्मनां हि परस्परं भेदो नित्यः। नापि नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताकत्वम्, अन्योन्याभावस्यापि तादात्म्यसंबन्धवच्छिन्न-प्रतियोगिताकत्वात्। किन्तु तादात्म्यातिरिक्तसंबन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम्। अभावत्वमात्रोक्तावन्योन्याभावेऽतिव्याप्तिः, अत इतरदलम्। तादात्म्यातिरिक्तसंबन्धावच्छिन्नप्रतियोगिताकत्वमात्रोक्तौ घटादावतिव्याप्तिः। ‘भूतले घटः' इत्यादौ हि घटभूतलयोर्वर्तमानस्य संयोगसंबन्धस्य प्रतियोगी घटः, अनुयोगि भूतलम्। एवञ्च भूतलानुयोगिकसंयोगप्रतियोगी घटः इत्यर्थो भवति। प्रतियोगिता घटे वर्तते। सा च संयोगस्य गुणत्वेन समवायसंबन्धावच्छिन्ना। अतस्तादात्म्यातिरिक्त- समवायसंबन्धावच्छिन्नप्रतियोगिताकत्वं घटेऽप्यस्तीत्यतिव्याप्तिः। अतोऽभावत्वम्। घटस्य भावत्वान्नातिव्याप्तिः। तादात्म्येत्यादि। 'घटः पटो न' इत्युक्ते हि परस्परनिषेधः प्रतीयते। अत एवायमन्योन्याभाव इत्युच्यते। परस्परनिषेधः – परस्परभेदनिषेधः - परस्परतादात्म्यनिषेधः - परस्परतादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। तथा च तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वमन्योन्याभावस्य लक्षणम्। अभावत्वमात्रोक्तावत्यन्ताभावेऽतिव्याप्तिः। अतस्तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वम्। एतावन्मात्रोक्तौ ‘नीलो घटः' इत्यादावभेदसंबन्धावच्छिन्नप्रकारताशालिबोधजननात्, प्रकारतायां विशेष्यतायां वा तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वसत्त्वादतिव्याप्तिः। अतोऽभावत्वम्। अभावाभावः प्रथमाभावप्रतियोगिरूपः, न त्वतिरिक्तः, अन्यथान- वस्थाप्रसङ्गात्। यथा घटाभावाभावो घटरूप एव 'घटाभावो नास्ति' इत्युक्ते हि 'घटोऽस्ति' इत्येवार्थः। भेदाभावस्तु भेदप्रतियोगितावच्छेदकरूपः। यथा घटभेदः पटे वर्तते। घटभेदाभावः घट एव, नान्यत्र, अतः स घटत्वरूपः। अभावाधिकरणकाभावप्रतियोगिकाभावः अधिकरणीभूताभावरूपः। यथा ‘घटाभावे पटाभावो नास्ति' इत्युक्ते पटाभावाभावः घटाभाववृत्तिस्तत्स्वरूप एव, अन्यथाऽनवस्थाप्रसङ्गादित्याद्यन्यत्र द्रष्टव्यम्। सप्तपदार्थसिद्धिः सर्वेषामपि पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्॥ ७०॥ ; आलोकः - पदार्थसङ्ग्रहः ; तर्कसंग्रहः सर्वेषामपि पदार्थानां यथायथम् उक्तेष्वेवान्तर्भावात् सप्तैव पदार्थाः इति सिद्धम्॥ काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये। अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः॥ ; आलोकः - पदार्थस्वरूपविश्लेषणम् सर्वेषामित्यादि। अत्र 'पदार्थानाम्' इति कथनात् शक्तिसादृश्यादयो ग्राह्याः, न तु ‘प्रमाणप्रमेय' इत्यादयः, तेषां पदार्थत्वाकथनात्। पदानि चतुर्विधानि, पदार्थाश्च चतुर्विधाः लोकसिद्धाः, इतरौ द्वौ विशेषसमवायौ शास्त्रसिद्धौ। अभावस्तु वाक्यस्यार्थः, न तु पदस्य। अभावस्य पदार्थत्वाभिमानेऽपि आहत्य सप्तैव पदार्थाः। अत एव महर्षि कणादेन सूत्रे ‘पदार्थानाम्' इत्येव कथितम्। नैवं महर्षिगौतमेन प्रमाणप्रमेयेत्यादिसूत्रे पदार्थपदं प्रयुक्तम्। प्रमाणादीनि षोडश मुमुक्षुभिरवश्यं ज्ञेयानि तत्त्वानीत्येव भाष्ये व्याख्यातम्। अतश्शक्तिसादृश्यादय एवात्र ग्राह्याः। पदं किञ्चित्, पदार्थः कश्चिच्चेत्, स एष्वेवान्तर्भवतीत्यर्थः, अतिरिक्तपदस्य तदर्थस्य चाभावादित्यर्थः। अधिकमन्यत्र द्रष्टव्यम्। एवं पदार्थतत्त्वज्ञानम्, पदार्थ साधर्म्य वैधर्म्य तत्त्वज्ञानं च शरीराद्यतिरिक्तात्मतत्त्वज्ञानप्रयोजकम्। एतद्विषयविमर्शनाय च प्रमाणादिषोडशतत्त्वज्ञानमप्यावश्यकम्। इदं च तत्त्वज्ञानं केवलग्रन्थपठनान्न कदापि संभवि। अत एव काणादसूत्रे 'धर्मविशेषप्रसूतात्' (वै.सू.१.१.४) इति साधर्म्यवैधर्म्यतत्त्वज्ञानस्य विशेषणमुक्तम्। एवं गौतमीयं सूत्रम् 'समाधिविशेषाभ्यासात्' (न्या. सू. ४-२-३८) इति। अस्य चावतरणभाष्यम् 'अथ तत्त्वज्ञानं कथमुत्पद्यत इति' इत्यादि। सूत्रद्वयेऽपि विशेषपदप्रयोगोऽप्यवधेयः। ‘अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः' (न्या.सू.४-२-४२) 'तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः' (न्या. सू. ४.२.४६) 'ज्ञानग्रहणाभ्यासः तद्विद्यैश्च सह संवादः' (न्या. सू. ४.२.४७) 'तं शिष्यगुरुसब्रह्मचारिविशिष्ट श्रेयोऽर्थिरनसूयुभिरभ्युपेयात्' (न्या.सू. ४. २.४८) इत्यादीनिसूत्राण्यप्यवधेयानि। आहत्य तु- प्रतारितास्तु सर्वेऽपि प्रायः पण्डितमानिभिः। ख्यातिलाभादिपूजादिपरैर्हन्त ! किमुच्यते ? ॥ आत्मापरोक्षज्ञानं क्व, क्व वा ग्रन्थात्परोक्षधीः। उभयोरन्तरं ज्ञेयं मेरुसर्षपयोरिव॥ अतो भारो महानस्ति पण्डितानां विवेकिनाम्। आत्मा श्रेयसि योक्तव्यो नार्थकामेषु जातुचित्॥ 'उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।' इत्येतद्वचनं नैव विस्मर्तव्यं कदाचन ॥ ननु भोः ! कोऽयमाग्रहः ? अज्ञानं वा ? प्रमाणादयः पदानामर्थास्तेऽपि पदार्था एव। दीपिका पठिता नैव व्याख्यैतत्कर्तृका त्वया। न केवलं सा पठिता, वहुधा शोधिता च सा॥ 'गतानुगतिको लोको न लोकः पारमार्थिकः।' इति गाथालक्ष्यभूताः प्रायो हन्त ! धियाधिकाः॥ किं कुर्मो वयमत्र ! न हि हस्तामलकदर्शनार्थं काशी गन्तव्या। अधिकमप्रसक्तमत्र। ग्रन्थमुपसंहरति- काणादेत्यादि। कणादमतं पदार्थनिरूपणप्रधानम्। अक्षपादप्रणीतं तु न्यायविस्तरपदवाच्यं प्रमाणप्रधानम्। ; आलोकः - शास्त्रभेदः कणादगौतमप्रोक्तशास्त्रे भिन्नपथे मते। समानतन्त्रे स्यातां तु न सांकर्यं परस्परम्॥ न्यायशास्त्रस्य प्रमाणशास्त्रत्वात्, अर्थापत्त्यादीनामनुमानादावेवान्तर्भावात्, इतरैः प्रमाणसंख्योल्लङ्घनादिकं शास्त्राणां साङ्कर्यरूपमेवेति चत्वार्येव प्रमाणानि। अत एव प्रमाणद्वयवादो वा प्रमाणत्रयवादो वा अक्षपादाभिप्रायाननुगुणः। वेदविरोधिभिः मध्यकालिकबौद्धैः, केवलतर्कपरायणैः स्वतन्त्रं तर्कशास्त्रं प्रणीतं प्रमाणसमुच्चयप्रमाणवार्तिकादिरूपम्। तद्दृष्टान्तेनैवानन्तरकाले वैदिकैरपि स्वस्वसिद्धान्तानुगुणास्तर्कशास्त्रग्रन्थाः शिष्यानुग्रहदृष्ट्यैव रचिता इति सुगमं सूक्ष्ममतीनाम्। न्यायशास्त्रं वेदोपाङ्गभूतं लोकायतपदवाच्यं प्रमाणशास्त्रं पर्याप्तं वैदिकानां विचारप्रियाणाम्। पदार्थशास्त्रं काणादम्, प्रमाणशास्त्रं गौतमम्, इत्येव वस्तुस्थितिः। 'पदार्थधर्मसंग्रहः प्रवक्ष्यते इत्येव च प्रशस्तपादीयं प्रशस्ततमं वचनम्। पदार्थानां सप्तत्वे च कारणमपि प्रदर्शितमेव। वर्तते तु प्रमाणप्रमेययोः परस्परापेक्षा। तावताऽन्योन्यचारितार्थ्यं वाऽन्तर्भावो वा न क्लेशेन कर्तव्यः।। 'अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥ ' एतानि विद्यास्थानानि धर्मस्यापि विदुर्बुधाः। 'पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ' अत्र तर्कपदेनैते शास्त्रे क्रोडीकृते, शृणु। उपाङ्गभूतावेतौ हि मीमांसा न्यायविस्तरः। वाक्यन्यायविचारो हि मीमांसा कथिता बुधैः॥ अर्थन्यायविचारात्मा कथितो न्यायविस्तरः। मानाधीना मेयसिद्धिः मानं मेयावलम्बि च ॥ विषयौ मानमेये तु तर्कशास्त्रस्य सम्मतौ। काणादं गौतमीयं च तर्कशास्त्रं समीरितम् ॥ सत्तर्कशास्त्रप्रविविक्षवो ये बाला महाकोमलबुद्धिमन्तः। आलोकनाम्नी विवृतिर्मयैषा कृता हितायैव मुदेऽस्तु तेषाम् ॥ समापनम् :काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये। :अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः॥ इति श्रीमहामहोपाध्याय अन्नम्भट्टविरचिततर्कसंग्रहः समाप्तः॥ == स्रोतः == *[https://tarkasangraha.com/grantha?book=तर्कसङ्ग्रहः तर्कसङ्ग्रहः] 0bsk720cyy35k22aoi7l0qaq9smussq नव्यन्यायभाषाप्रदीप 0 165960 418664 2026-09-30T04:03:24Z अनुनाद सिंह 1115 ; नव्यन्याय-भाषाप्रदीप ; ग्रन्थाकारः : महामहोपाध्याय श्रीमन्महेशचन्द्रन्यायरत्न ; ग्रन्थ 1 धर्मः- ध्रियते तिष्ठति वर्तते यः स धर्मः । आकाशादिकं विना सर्व एव पद... नवीन पृष्ठं निर्मीत अस्ती 418664 wikitext text/x-wiki ; नव्यन्याय-भाषाप्रदीप ; ग्रन्थाकारः : महामहोपाध्याय श्रीमन्महेशचन्द्रन्यायरत्न ; ग्रन्थ 1 धर्मः- ध्रियते तिष्ठति वर्तते यः स धर्मः । आकाशादिकं विना सर्व एव पदार्थाः यत्र-कुत्रचिदपि वर्तन्ते इति सर्व एव 'धर्माः' इत्युच्यन्ते । यत्र यो वर्तते स तस्य धर्मः । यथा- द्रव्ये जातिगुणकर्माणि तिष्ठन्तीति जातिगुणकर्माणि द्रव्यस्य धर्माः ; सूत्रादौ अवयवे पटादि अवयविद्रव्यं तिष्ठतीति द्रव्यमपि पटादि सूत्रादेर्धर्मः 'पात्रे जलं वर्तते' इति पात्रस्य धर्मो जलम् । आकाशादिकन्तु न कुत्रापि वर्तते इति आकाशं न कस्यापि धर्मः । अतएव ‘आकाशम्’ ‘अवृत्तिपदार्थः' इत्युच्यते । ; ग्रन्थ 2 धर्मश्च प्रथमतो द्विविधः, जातिरुपाधिश्चेति । येन परस्परं विभिन्नरूपाणामपि एकजातीयद्रव्याणामेकश्रेण्यामन्तर्भावो भवति स धर्मो जातिः । यथा विभिन्नदेशीया मनुष्या विभिन्नाकाररूपस्वभावा अपि एकया मनुष्यत्वजात्या एकश्रेण्यामन्तर्भाविताः । जातिश्च सामान्यं नाम कणादोक्तश्चतुर्थः पदार्थः । ; ग्रन्थ 3 उपाधिरपि पुनः सखण्डोपाधिरखण्डोपाधिश्चेति द्विविधः । खण्डेन (अंशेन) सह वर्तते इति सखण्डः ; यश्च अंशतो विभक्तुं शक्यते स सखण्डोपाधिर्धर्म इति यावत् । यथा पशुत्वं, तद्धि लोमवल्लाङ्गूलवत्त्वम् । ततश्च तस्य लोमलाङ्गूलादयः अंशा बहवो वर्तन्ते इति द्रव्यरूपं पशुत्वं धर्मः सखण्डोपाधिः । एवं 'रूपवानयं' इत्यत्र गुणात्मकं रूपं धर्मः । स च सखण्डोपाधिः । रूपत्वजातेराश्रयो हि रूपम् । ततश्च रूपस्य रूपत्वजातिः आश्रयश्चेति अंशद्वयमस्ति । ; ग्रन्थ 4 यस्य अंशविशेषो नास्ति, मनुष्यत्वद्रव्यत्वादिजातिवत्, यस्तु अंशतो विभक्तुं न शक्यते, अंशरहितत्वमेव यस्य स्वरूपमङ्गी क्रियते स अखण्डोपाधिः । यथा भावत्वं, तद्धि अभावत्वविरोधि कश्चन धर्म इति, पशुत्वादिवद् भावत्वम् अंशतो विभक्तुं न शक्यते । ; ग्रन्थ 5 जातेरपि अंशविभागो नास्ति । किन्तु जातेः समवायसम्बन्धेन सत्त्वं नियतम्, अखण्डोपाधेस्तु न तथा तस्य स्वरूपसम्बन्धेन सत्त्वमित्यनयोः पृथगुल्लेखः । ; ग्रन्थ 6 जातेरखण्डोपाधेश्च प्रतीतावनुल्लेखे (शब्देनानुच्चारणे) निरवच्छिन्ना (तयोर्विशेषणप्रतीतिरहिता) प्रतीतिर्भवति । यथा- 'पटो भावः' इति प्रतीतौ पटत्वं जातिः, भावत्वमखण्डोपाधिश्च पटपदार्थभावपदार्थान्तर्भावेणैव प्रतीयते, न तु शब्देन ते उल्लिखिते इति न तयोः प्रतीतावत्र सविशेषणं भानं किन्तु पटत्वांशे भावत्वांशे च विशेषणभानरहितमेव निरवच्छिन्नं भानं जायते । यत्र तु तयोरुल्लेखः, तत्र तयोः प्रतीतिरपि सावच्छिन्ना (विशेषणप्रतीतिसहिता) भवति । यथा- 'अस्मिन् द्रव्ये भावत्वं पटत्वञ्चास्ति' इत्यत्र पटत्वं भावत्वञ्च स्पष्टत एव शब्देन उल्लिखितमिति तयोरत्र यथाक्रमं पटत्वत्वेन भावत्वत्वेन च सावच्छिन्ना प्रतीतिः । अत एव 'अनुल्लिख्यमानजात्यखण्डोपाध्यतिरिक्तपदार्थानां निरवच्छिन्नभानानभ्युपगम' इति ग्रन्थकृद्भिः सिद्धान्तितः । ; ग्रन्थ 7 सम्बन्धः सन्निकर्षः स च विभिन्नयोर्वस्तुनोर्विशेषणविशेष्यभावप्रयोजकः । यथा-'दण्डी पुरुष' इति दण्डपुरुषयोर्विशेषणविशेष्यभावप्रयोजकः संयोगसम्बन्धः । दण्डपुरुषयोरन्तरा संयोगं विना 'दण्डी पुरुषः' इति विशेषणविशेष्यभावप्रतीतिरेव न स्यात् । ; ग्रन्थ 8 सम्बन्धश्च द्विविधः- साक्षात् परम्पराभेदात् । सम्बन्धान्तराघटितः सम्बन्धः साक्षात्सम्बन्धः ; स च समवाय संयोगस्वरूपादिभेदाद बहुविधः । 'रूपवान् पुरुषः', 'पात्रे जलमस्ति', 'गृहे पटो नास्ति' इत्यादौ पुरुषे रूपस्य, पात्रे जलस्य, गृहे च पटाभावस्य यथाक्रमं समवाय-संयोग-स्वरूपनामानः सम्बन्धाः प्रतीयन्ते । ; ग्रन्थ 9 समवायश्च षष्ठपदार्थतया कणादेनोक्तो नित्यः सम्बन्धः । यथा- 'रूपवान् ब्राह्मणोऽयं चलति' इत्यादौ ब्राह्मणत्वजातेः, रूपगुणस्य, चलनक्रियायाश्च ब्राह्मणे समवायः सम्बन्धः । यावदाधारं यावदाधेयं वा समवायस्तिष्ठतीति समवायो नित्यसम्बन्ध इत्युच्यते ; समवायस्यैव 'अयुतसम्बन्ध' इति नामान्तरम् | संयोगादिकन्तु नैवम् ; सतोरपि आधाराधेययोः (दण्डपुरुषयोः) संयोगादेरपायदर्शनात् । ; ग्रन्थ 10 संयोगश्च कणादोक्तगुणविशेषः । अभावादेः सम्बन्धः स्वरूपसम्बन्धः । यथा-‘भूतले पटो नास्ति' इत्यादौ भूतले पटाभावस्य स्वरूपसम्बन्धः प्रतीयते स्वरूपसम्बन्धस्यैव 'विशेषणता' इति नामान्तरम् । ; ग्रन्थ 11 सम्बन्धान्तरघटितः (यस्य सम्बन्धस्य निर्माणे सम्बन्धान्तरापेक्षा विद्यते तादृशः ) सम्बन्धः परम्परासम्बन्धः । यथा स्वसमवायिसमवेतत्वरूपेण सामानाधिकरण्यनामकेन परम्परासम्बन्धेन पटे तन्तोरपि रूपमस्ति । अयञ्च सम्बन्धः समवायघटितः । एवं दण्डकमण्डलुधारिणि पुरुषे गृहे तिष्ठति सति स्वसंयोगिसंयोगित्वरूपेण स्वाश्रयाश्रयत्वेन परम्परासम्बन्धेन दण्डकमण्डलू अपि गृहे स्त इति । अयञ्च सम्बन्धः संयोगघटितः । ; ग्रन्थ 12 समवायादिसाक्षात्सम्बन्धवत् परम्परासम्बन्धो न नियतसंख्यकः नापि च नियतपरिमाणः, यथेच्छं सम्बन्धि सम्बन्धादिकमादाय दीर्घ-दीर्घतर-दीर्घतमा असंख्या एव ते कल्पयितुं शक्यन्ते। सर्वतोऽसंसृष्टावपि पदार्थौ परम्परासम्बन्धेन सम्बद्धौ भवतः, तत्र च दूरत्वादि न प्रतिबन्धकम्, तथाहि स्वसम्राडधिकृतराज्यत्वसम्बधेन भारतवर्षीयाः सर्व एव आर्या अनार्याश्च इंग्लेण्डे सन्ति | इंग्लेण्डीयाश्च तत्र स्थिता अपि स्वराज्येश्वरीसाम्राज्यसम्बन्धेन भारतवर्षे तिष्ठन्तीति । ; ग्रन्थ 13 परम्परासम्बन्धस्य गूढं रहस्यमिदं स्वशब्देन यमभिप्रेत्य यस्य परम्परासम्बन्धस्यारम्भो यस्मिंश्च पर्यवसानं, तत् तेन परम्परासम्बन्धेन तस्मिन् तिष्ठति । यथा पूर्वोक्ते उदाहरणे स्वशब्देन भारतवर्षीयानभिप्रेत्य स्वसम्राडधिकृतराज्यत्वसम्बन्धस्यारम्भः, तच्च राज्यत्वम् इंग्लेण्डे वर्तत इति तस्य इंग्लेण्डे पर्यवसानम्, अतः तेन सम्बन्धेन भारतवर्षीया इंग्लेण्डे तिष्ठन्ति । ; ग्रन्थ 14 पुनश्च सम्बन्धो द्विविधः - वृत्तिनियामकः वृत्त्यनियामकश्चेति । यस्मिंश्च सम्बन्धे सति एकस्मिन् अपरस्य वृत्तिता, आधाराधेयभाव, आश्रयाश्रयिभावो वा प्रतीयते स सम्बन्धो वृत्तिनियामकः । वृत्तिनियामकसम्बन्धस्थले आधारे सप्तमी विभक्तिः प्रयुज्यते यथा- ‘भूतले घटः' । आधेये च मतुबादयः प्रत्ययाः भवन्ति । यथा- ‘भूतलं घटवत्' । ; ग्रन्थ 15 वृत्तिनियामकसम्बन्धाश्च समवाय-संयोग-स्वरूपप्रभृतय एव केचन । तेषु सम्बन्धेषु सत्सु 'पृथिव्यां रूपं', 'कुण्डे बदरं', 'भूतले घटो नास्ति' इत्यादिप्रयोगात् । समसूत्रपातेन स्थितयोरुभयोः संयोगोऽपि न वृत्तिनियामकः । अतएव अञ्जलिरूपतया समसूत्रपातेन स्थितयोर्हस्तयोः संयोगो न वृत्तिनियामक इति तत्र न 'हस्ते हस्तः' इति प्रयोगः । तयोरेव हस्तयोः उपर्यधोभावेन स्थितयोः पुनः संयोगो वृत्तिनियामक इति तत्र 'हस्ते हस्तः' इति प्रयोगोऽपि भवति । ; ग्रन्थ 16 यस्मिंस्तु सम्बन्धे पूर्वोक्तरूपा वृत्तिता आधाराधेयभावश्च न प्रतीयते, केवलं सम्बन्धितामात्रं, स वृत्त्यनियामकः सम्बन्धः । तत्र सप्तमीविभक्तेः मतुबादिप्रत्ययस्य च प्रयोगो न भवति । किन्तु सम्बन्धित्वबोधका 'इन्' - 'ईय’-प्रभृतयः प्रत्ययाः प्रयुज्यन्ते । यथा - स्वत्वसम्बन्धो न वृत्तिनियामक इति मन्त्रिणि सत्यपि स्वत्वसम्बन्धे 'मन्त्री राजवान्' इति, किंवा 'मन्त्रिणि राजा' इति न प्रयोगः, किन्तु 'राजकीयो मन्त्री' इति प्रयोगः [ उज्ज्वलाझानुसारं ... स्वत्वसम्बन्धे 'राजा मन्त्रीवान्' इति किंवा 'राज्ञि मन्त्री ' इति न प्रयोगः....] ; ग्रन्थ 17 परम्परासम्बन्धाः प्रायशः सर्व एव वृत्त्यनियामकाः । अत एव शिखिनि पुरुषे गृहे तिष्ठति स्वाश्रयपुरुषाश्रयत्वसम्बन्धेन 'शिखावद् गृहम्' इति न प्रयोगः । ; ग्रन्थ 18 कालिकनामकः सम्बन्धः कश्चिद् वृत्तिनियामकः, कश्चिच्च वृत्यनियामकोऽस्ति । वृत्तिनियामकेन कालिकसम्बन्धेन काले सर्वं वर्तते। स च कालः महाकालरूपः खण्डकालरूपश्च । 'काले सर्वम्' इति महाकालविषयिणी प्रतीतिः । अस्मिन् 'मासे शीताधिक्यम्', 'अद्य वृष्टिर्जाता' इत्यादयश्च खण्डकालविषयिण्यः प्रतीतयः । वृत्त्यनियामकः कालिकस्तु स्वाश्रयकालाश्रितत्वरूपः परम्परासम्बन्धः ; तेन सम्बन्धेन सर्वं सर्वत्र वर्तते । तथाहि गृहस्याश्रयः यः कालः तस्मिन् काले पुरुषोऽपि वर्तते इति स्वाश्रयकालाश्रितत्वसम्बन्धेन ( स्वस्य गृहस्य आश्रयः कालः तदाश्रितः पुरुषः ) गृहमपि पुरुषे वर्तते । ; ग्रन्थ 19 “अयं न द्वौ, किन्तु द्वित्ववान्” इति प्रतीतेः 'द्वौ' 'द्वित्ववान्' इति पदयोरर्थविशेषावधारणाय नवीनैः कश्चित् पर्याप्तिनामकः सम्बन्धः स्वीक्रियते । पर्याप्तिः पर्यवसानं, साकल्येन सम्बन्धः, अर्थात् यस्य यावन्तः आश्रयाः सन्ति, तस्य तावत्स्वेवाश्रयेषु मिलितेष्वेव सम्बन्धः। पर्याप्तिसम्बन्धेन द्वित्वसंख्या मिलितयोरेव द्वयोर्वर्तते न त्वेकैकस्मिन् ; एवं त्रित्वसंख्या मिलितेष्वेव त्रिषु वर्तते, न त्वेकैकस्मिन् द्वयोर्वा । अत एव द्वित्वादयः संख्या ‘व्यासज्यवृत्तयः' ( व्यासज्य सर्वमेवाधारमधिकृत्य वर्तन्ते) इत्युच्यते । एवञ्च द्विशब्दस्य पर्याप्तिसम्बन्धेन द्वित्वाधारताप्रतीतेः एकस्य च पर्याप्तिसम्बन्धेन द्वित्वाधारत्वाभावात् “अयं न द्वौ ” इति प्रतीतिर्भवति । समवाय सम्बन्धेन पुनः द्वित्वसंख्या द्वयोरेकैकस्मिन्नपि तिष्ठतीति 'समवाय सम्बन्धेन द्वित्वाश्रय' इत्यर्थमभिप्रेत्य 'द्वित्ववान्' इति प्रयोगः । ततश्च 'अयं न द्वौ किन्तु द्वित्ववान्' इति वाक्यस्य 'अयं न पर्याप्तिसम्बन्धेन द्वित्ववान्, किन्तु समवायसम्बन्धेन द्वित्ववान्' इत्यर्थः । ; ग्रन्थ 20 संख्यादीनामिव वक्ष्यमाणाया अवच्छेदकताया अपि पर्याप्तिसम्बन्धोऽङ्गीक्रियते । ; ग्रन्थ 21 विषयता विषयिता चेति अपरौ द्वौ वृत्त्यनियामकौ सम्बन्धौ स्तः । तत्र विषयाः घटपटादयो ज्ञानेच्छादौ विषयितासम्बन्धेन वर्तते । विषयतासम्बन्धेन च ज्ञानेच्छादयो घटपटादौ विषये तिष्ठन्तीति । ; ग्रन्थ 22 सम्बन्धो यद्यपि उभयनिष्ठः, यथा - कुण्डबदरयोः सम्बन्धः कुण्डे बदरे च अस्ति, तथापि केनचित् सम्बन्धेन कश्चिदेव कुत्रचिदेव तिष्ठति । यथा-संयोगेन सम्बन्धेन कुण्डे एव बदर तिष्ठति, न तु बदरे कुण्डम् । एवं भूतले एव घटो वर्तते, न तु घटे भूतलमिति । अत्र कारणमेतत्; सम्बन्धस्य एकं प्रतियोगि, अपरञ्चानुयोगि भवति । यस्य सम्बन्धस्य यत् प्रतियोगि भवति, तेन सम्बन्धेन तदेव तिष्ठति । यच्च यस्य सम्बन्धस्य अनुयोगि भवति, तेन सम्बन्धेन तत्र प्रतियोगि तिष्ठति । यथा कुण्डबदरयोः संयोगे बदरं प्रतियोगि, कुण्डञ्चानुयोगीति कुण्डे बदरं वर्तते । धर्मधर्मिणोः सम्बन्धस्य धर्मः प्रतियोगी, धर्मी चानुयोगी भवति । अतएव धर्म एव धर्मिणि वर्तते, न तु धर्मी धर्मे ; ग्रन्थ 23 यच्च यत्र वर्तते तत् तस्य आधेयम्, आश्रितं तद्वृत्ति इति चोच्यते यत्र तु यद् वर्तते तत् तस्य अधिकरणम् आधार आश्रय इति चोच्यते । यथा कुण्डे बदरं वर्तते, गृहे पटो वर्तते इति बदरं पटश्च आधेयः, कुण्डं गृहञ्च आधार इति । यच्च यस्य आधेयं, तस्मिन् तन्निरूपिता वृत्तिता तिष्ठति । एवं यच्च यस्य अधिकरणं, तस्मिन् तन्निरूपिता अधिकरणता वर्तते । यथा पूर्वोक्तयोरुदाहरणयोः कुण्डनिरूपिता वृत्तिता बदरे, गृहनिरूपिता आधेयता च पटे वर्तते । एकस्य वृत्तितायामपरस्य अधिकरणता अवश्यम्भाविनी । ; ग्रन्थ 24 एकञ्च एकस्य अधिकरणतायां अपरस्य वृत्तिता नियता । अतएव वृत्तिताधिकरणतयोः परस्परनियतसापेक्षतया वृत्तिताधिकरणतयोश्च परस्परं निरूप्यनिरूपकभावोऽस्ति । वृत्तितानिरूपिता अधिकरणता, अधिकरणतानिरूपिता च वृत्तितेति । ततश्च 'कुण्डे बदरम्' इति वाक्यस्य 'कुण्डनिरूपितवृत्तितावद् बदरम्' किंवा 'कुण्डनिष्ठाधिकरणतानिरूपिताधेयतावद् बदरम्' इत्यर्थः प्रतीयते । एवं 'बदरवत् कुण्डम्' इत्यस्य प्रयोगस्य 'कुण्डं बदरनिरूपिताधिकरणतावत्' इति, किंवा 'कुण्डं बदरनिष्ठवृत्तितानिरूपिताधिकरणतावत्' इत्यर्थः पर्यवसीयते । ; ग्रन्थ 25 सम्बन्धवदभावस्यापि एवं प्रतियोगि, अपरञ्च अनुयोगि अस्ति । यः अभावः यस्य विरोधी प्रतिपक्षः, यश्चाभावो यस्य, 'घटस्य अभावः', 'पटस्य अभावः' इत्यादिरीत्या यत्सम्बन्धितया अभावः प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति । यथा यत्र घटाभावोऽस्ति, तत्र घटो नैव तिष्ठति इति घटाभावो घटस्य विरोधी । एवमयमभावो घटस्येति घटाभावस्य घटः प्रतियोगी, रूपाभावस्य रूपं प्रतियोगि । यत्र अभावो वर्तते, तद् अभावस्य अनुयोगि भवति, यथा वायुः रूपाभावस्य अनुयोगी, घटादिः जड़पदार्थः ज्ञानाभावस्य । प्रतियोगिनि प्रतियोगिता, अनुयोगिनि च अनुयोगिता वर्तते । ; ग्रन्थ 26 एकत्र एकेन सम्बन्धेन वर्तमानस्यापि सम्बन्धान्तरेण अभावो वर्तते । यथा भूतले संयोगेन सम्बन्धेन वर्तमानस्यापि घटस्य समवायसम्बन्धेनाभावः । एवम् एकत्र एकेन रूपेण वर्तमानस्यापि रूपान्तरेण अभावो भवति, यथा-शुक्लपटवति गृहे पटत्वरूपेण सामान्यधर्मेण वर्तमानस्यापि नीलपटत्वरूपेण विशेषधर्मेण, बहिर्वृत्तित्वविशिष्टपटत्वरूपेण वा विशिष्टधर्मेण, पटघटोभयत्वरूपेण वा उभयत्वपुरस्कारेण अभावो भवति । न हि शुक्लपटस्य विद्यमानत्वेनैव नीलपटस्यापि वृत्तिता भवति, नापि च बहिर्वृत्ति (बहिरवस्थानदशायां ) / घटो भूतले / पटो गृहे वर्तते । एवं गृहे केवलस्य पटस्य सत्त्वेऽपि घटस्याभावेन पटघटोभयस्यापि अभावोऽस्त्येव । एकाभावेन उभयाभावस्य अवश्यम्भावित्वात् । इत्येवमभावस्य सम्बन्धविशेषकृतं धर्मविशेषकृतञ्च वैलक्षण्यं भवति । ; ग्रन्थ 27 तच्च अभावस्य वैलक्षण्यं प्रतियोगितावैलक्षण्यनिबन्धनमिति तदेवोच्यते । अभावस्य प्रतियोगिता केनचित् सम्बन्धेन केन चिद्धर्मेण च अवच्छिन्ना भवति येन सम्बन्धेन येन वा धर्मेण अवच्छिन्ना भवति, स सम्बन्धः स च धर्मः तस्याः प्रतियोगितायाः अवच्छेदको भवति । यथा 'भूतले समवाय सम्बन्धेन घटो नास्ति' इत्यादौ घटाभावस्य प्रतियोगिता समवायेन सम्बन्धेन घटत्वेन च धर्मेण अवच्छिन्ना । ततश्च तस्याः प्रतियोगितायाः समवायः सम्बन्धः, घटत्वञ्च धर्मोऽवच्छेदकः । अतएव 'समवायेन घटो नास्ति' इत्यस्य समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकोऽभावो वर्तते इत्यर्थः । ; ग्रन्थ 28 सम्बन्धस्य प्रतियोगितावच्छेदकत्वस्वीकारे युक्तिरियं - सामान्यतः कस्यापि कुत्रापि प्रायशोऽभावो नास्ति; अन्ततः कालिकसम्बन्धेन सर्वस्य सर्वत्र विद्यमानत्वात् । ततश्च अभावस्य अन्तरा कश्चित् सम्बन्धोऽस्तीति अवश्यमङ्गीकार्यम् । अभावस्यान्तरा प्रविशन् सम्बन्धः प्रतियोगितामेव अवच्छिन्दन् (विशेषयन् ) सम्भवति, नान्यथा, येन सम्बन्धेन यत्र यन्नास्ति, स एव सम्बन्धस्तत्र तदभावस्य प्रतियोगितामवच्छिनत्ति (विशेषयति ) । अत एव स एव सम्बन्धस्तस्या अवच्छेदको भवति। प्रतियोगिता च तेन सम्बन्धेनावच्छिन्ना भवति । यथा 'भूतले समवायसम्बन्धेन घटो नास्ति' इत्यत्र समवायसम्बन्धः भूतले घटाभावस्य प्रतियोगितां विशेषयतीति घटाभावस्य प्रतियोगिता समवायसम्बन्धावच्छिन्ना । समवायसम्बन्धश्च तस्याः प्रतियोगिताया अवच्छेदकः। तथा च सम्बन्धस्य अवच्छेदकत्वं विशेषकत्वरूपमिति फलितम् । ; ग्रन्थ 29 धर्मस्य प्रतियोगितावच्छेदकत्वे युक्तिरियम् – अभावस्य प्रतियोगिता कुत्र वर्तते, कुत्र वा न वर्तते इति निर्णयाय प्रतियोगितानियामकः कश्चिदस्तीति अवश्यमङ्गीकार्यम् । सर्वेषु प्रतियोगिषु वर्तमानः, तदन्यत्र अवर्तमानः प्रतियोगिगतः कश्चिद् असाधारणो धर्म एव प्रतियोगितायाः नियामको भवति । य एव नियामकः स एव अवच्छेदक इत्युच्यते । यश्च नियमितः स अवच्छिन्न इति । तथाहि - घटाभावस्य घटगता प्रतियोगिता कुत्र कुत्र वर्तते, कुत्र कुत्र वा न वर्तते ? इति प्रश्नस्योत्तरमिदमेव भवति, यत्र यत्र घटत्वं वर्तते, तत्र सर्वत्रैव घटाभावस्य घटगता प्रतियोगिता वर्तते, नान्यत्र कुत्रचित् घटत्वशून्ये; नापि च कस्मिन्नपि घटे तस्या अभाव इति घटत्वमेव घटगतायाः घटाभावप्रतियोगितायाः स्थितिनियामकम् । घटत्वेनैव घटाभावप्रतियोगिता नियमितेति नियामकत्वमेवावच्छेदकत्वम्, नियमितत्वमेवावच्छिन्नत्वमिति । यश्च प्रतियोगी भवति, तत्र विशेषणतया प्रतीयमानोऽसाधारणो धर्मः तद्गतप्रतियोगिताया अवच्छेदको भवतीति फलितार्थः । ; ग्रन्थ 30 अथवा स्थूलतः एवंरीत्या बोध्यम् - प्रतियोगिबोधक विशेष्यपदोत्तरं 'त्व'-'ता' प्रभृतिभावप्रत्ययनिष्पन्नो (निष्पन्नपदवाच्य) धर्मः प्रतियोगितावच्छेदको भवति यथा घटाभावस्य घटः प्रतियोगीति, प्रतियोगिवाचकं घटपदम्, तदुत्तरं 'त्व' प्रत्ययेन (घट+त्व) निष्पन्नो धर्मः (घटत्वं जातिः), घटगतप्रतियोगिताया अवच्छेदक इति एवं रूपाभावस्य प्रतियोगिवाचकं रूपपदम्, तत्र 'त्व' प्रत्ययनिष्पन्नपदस्यार्थः रूपत्वं जातिः, रूपाभावस्य प्रतियोगिताया अवच्छेदिकेति । यद्यपि अवच्छेदकत्वनियामकत्वयोरैक्यम्, तथापि ग्रन्थकृद्भिरवच्छेदकपदस्यैव प्रयोगात् अवच्छेदकशब्द एव प्रयोक्तव्यः, न तु नियामकशब्दोऽपि; तथात्वे अप्रयुक्ततादोषः स्यात् । ; ग्रन्थ 31 वृत्तितावत् प्रतियोगितापि अभावेन निरूपिता भवति, अभावश्च प्रतियोगिताया नियामकः । एवमवच्छेदकताप्रतियोगितयोरपि परस्परं निरूप्यनिरूपकभावोऽस्ति । अवच्छेदकतानिरूपिता प्रतियोगिता भवति, प्रतियोगितानिरूपिता च अवच्छेदकता भवति । ततश्च 'समवायेन घटो नास्ति' इत्यस्य समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रतियोगितानिरूपकोऽयमभावः । ; ग्रन्थ 32 एकस्य अभावस्यबहूनि प्रतियोगीनि सन्ति । सुतरां प्रतियोगिताः तदवच्छेदकधर्माः तदवच्छेदकसम्बन्धाश्चापि बहवो भवन्ति । तथाहि द्वितीयाभावः (घटाभावाभावः) प्रतियोगि (घट) स्वरूपः । तृतीयाभावः (घटाभावाभावाभावः ) प्रथमाभाव ( घटाभाव) स्वरूप इति प्रथमाभावस्य (घटाभावस्य ) घट इव द्वितीयाभावोऽपि (घटाभावाभावोऽपि ) प्रतियोगी । तस्मिंश्च एका अपरा प्रतियोगिता वर्तते । तस्याश्च प्रतियोगिताया अवच्छेदको धर्मः द्वितीयाभावत्वं (घटाभावाभावत्वम् ) । अवच्छेदकसम्बन्धश्च स्वरूपम् । एवमन्यदपि प्रतियोगी ऊह्यम् । ; ग्रन्थ 33 भावपदार्थवत् अभावोऽपि व्याप्यवृत्तिरव्याप्यवृत्तिश्च भवति । 'व्याप्य' सर्वमेव आधारस्यांशां कालं देशं वा अवलम्ब्य वर्तते यः स व्याप्यवृत्तिः । कस्मिन्नपि अंशे कालविशेषे देशविशेषे वा यस्याधिकरणे अभावो नास्ति स व्याप्यवृत्तिः । यथा मनुष्ये मनुष्यत्वं जातिः, आकाशे रूपाभावः, शशे विषाणाभावः । स्वाधारेऽपि यस्याभावो वर्तते, सोऽव्याप्यवृत्तिः । यथा वृक्षे कपिसंयोगः, कपिसंयोगाभावश्च अव्याप्यवृत्तिः। ; ग्रन्थ 34 अव्याप्यवृत्तिपदार्थस्य वृत्तितायाः कश्चित् सीमापरिच्छेदकोऽस्ति । परिच्छेदक एवात्र अवच्छेदकनाम्ना व्यवह्रियते । स च क्वचित् आधारस्य अंशविशेषः, क्वचित् कालविशेषः क्वचिच्च देशविशेष इति । यथा 'शाखायां वृक्षः कपिसंयोगी, न मूले इत्यत्र वृक्षे कपिसंयोगस्य वृत्तितायाः शाखा सीमापरिच्छेदकतया अवच्छेदिका, कपिसंयोगाभावस्य तु मूलमवच्छेदकम् । 'उत्पत्ति काले पुष्पं न गन्धवत् किन्तु तदुत्तरम्' इत्यत्र पुष्पे गन्धाभावस्य वृत्तितायामुत्पत्तिकालः अवच्छेदकः, गन्धस्य वृत्तितायान्तु उत्पत्तेरनन्तरकालः अवच्छेदकः। " वसन्ते यवा मगधे तिष्ठन्ति, न तु गिरौ" इत्यत्र वसन्ते यववृत्तितायाः मगधदेशोऽवच्छेदकः, यवाभावस्य वृत्तितायां गिरिप्रदेशोऽवच्छेदकः। ; ग्रन्थ 35 अव्याप्यवृत्तिताया अवच्छेदकवाचकपदे प्रायशः सप्तमी भवति । यथा 'अग्रे वृक्षः कपिसंयोगी, न मूले' इति प्रयोगः । अव्याप्यवृत्तिरभावः प्रतियोगिसमानाधिकरणो भवति । यथा वृक्षे कपि- संयोगाभावः, वृक्षे कपिः [ पाठभेदः - कपिसंयोगः ] कपिसंयोगाभावश्चास्ति । व्याप्यवृत्तिस्तु प्रतियोगिव्यधिकरणः, यथा- आकाशे रूपाभावः, आकाशे रूपाभाव एवास्ति, न तु रूपमिति ; ग्रन्थ 36 अभावश्च पुनर्द्विविधः - अन्योन्याभावः, संसर्गाभावश्च । तादात्म्यं (तत्स्वरूपता ऐक्यम् अभेदः ) नाम कश्चित् सम्बन्धोऽस्ति तेन सम्बन्धेन तस्य प्रतियोग्यनुयोगिनोरभेदः प्रतीयते यथा - 'सुन्दरो नरः' इत्यत्र नरसुन्दरयोरैक्यं प्रतीयते तादात्म्यसम्बन्धेनाभावः (भेदः) अन्योन्याभावः । यस्य अभावस्य प्रतियोगिता तादात्म्यसम्बन्धेनावच्छिन्ना स अन्योन्याभाव इति | यथा-' घटो न पट' इति । ततश्च न्यायभाषायाम् अन्योन्याभावस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगितानिरूपकाभावत्वम् अन्योन्याभावत्वम्' इति लक्षणं पर्यवसितं भवति । अन्योन्याभाव एव भेदः । अन्योन्याभावभिन्नोऽभावः संसर्गाभावः । नञा अभावबोधने यत्र प्रतियोगिपदेऽनुयोगिपदे च प्रथमा भवति, तत्र अन्योन्याभावः प्रतीयते । यथा 'घटो न पट' इति । यत्र पुनः प्रतियोगिपदे प्रथमा अनुयोगिपदे च सप्तमी भवति, तत्र नञा संसर्गाभावः प्रतीयते । यथा- 'भूतले घटो नास्ति' । ; ग्रन्थ 37 स्थूलत इदमत्रावधेयम्, अन्योन्यस्मिन् अन्योन्यस्य अभावः (तादात्म्याभावः भेद इति यावत्) अन्योन्याभावः, संसर्गस्य प्रतियोगिनः सम्बन्धस्य अनुयोगिनि अभावः संसर्गाभावः । अन्योन्याभावस्थले प्रतियोग्यनुयोगिनोः घटपटयोः परस्परम् अभेदाभावः (भेदः) प्रतीयते। संसर्गाभावस्थले तु प्रतियोग्यनुयोगिनोः घटभूतलयोः सम्बन्धो नास्तीति पर्यवसाने प्रतीतिः । अत एव प्रतियोग्यनुयोगिनोरभेदेऽपि घटे घटो नास्तीति संसर्गाभावप्रतीतिः । ; ग्रन्थ 38 प्रतियोगितावत् अवच्छेदकतासाध्यताकार्यता विधेयता हेतुता कारणता प्रकारतादयोऽपि धर्मगताः सापेक्ष धर्माः केनचिद्धर्मेण केनचिच्च सम्बन्धेन अवच्छिन्ना भवन्ति । अत्र वृतिता प्रतियोगितास्थलीययुक्तिरिव युक्तिः स्वयमुद्भावनीया । तत्र कियन्ति उदाहरणानि दर्शयामि । ; ग्रन्थ 39 अवच्छेदके विशेषणीभूतो धर्मोऽवच्छेदकतायाः अवच्छेदको भवति । अवच्छेदके विशेषणीभूतो धर्मो येन सम्बन्धेन तिष्ठति, स सम्बन्धोऽवच्छेदकतावच्छेदकः सम्बन्धो भवति । यथा 'दण्डी नास्ति' इत्यत्र दण्डिनि प्रतियोगिनि विशेषणतया उपस्थितो दण्डो दण्डिगतप्रतियोगिताया अवच्छेदकः, दण्डश्च दण्डिनि संयोग सम्बन्धेन तिष्ठतीति दण्डगता प्रतियोगितावच्छेदकता संयोग सम्बन्धावच्छिन्ना । दण्डे च दण्डत्वं विशेषणतया उपस्थितमिति दण्डगतायाः प्रतियोगितावच्छेदकताया अवच्छेदकं दण्डत्वम्। दण्डत्वञ्च दण्डे समवायसम्बन्धेन तिष्ठतीति दण्डत्वगता अवच्छेदकता समवायसम्बन्धावच्छिन्ना दण्डत्वे च किमपि विशेषणतया न प्रतीयते इति दण्डत्वगता अवच्छेदकतावच्छेदकता निरवच्छिन्ना । ततश्च 'दण्डी नास्ति' इत्यस्य नैयायिकभाषायामयमर्थः -- समवायसम्बन्धावच्छिन्नदण्डत्वनिष्ठावच्छेदकतानिरूपित-संयोगसम्बन्धावच्छिन्नदण्डनिष्ठावच्छेदकतानिरूपित-संयोगसम्बन्धावच्छिन्नदण्डिनिष्ठप्रतियोगितानिरूपकोऽभावः । ; ग्रन्थ 40 येन सम्बन्धेन यत् साध्यते, यत् क्रियते, यत् विधीयते, यो हेतुः, यत् कारणम्, यश्च प्रकारो भवति, स सम्बन्धः तन्निष्ठ साध्यता-कार्यता-विधेयता हेतुता कारणता प्रकारतानामवच्छेदको भवति । 'सुन्दरो नरः' इत्यादौ नरस्य धर्मिणः केवलं विशेष्यतयैव प्रतीतिः, तस्य सम्बन्धो न कुत्रापि बोध्यते इति धर्मिगता अधिकरणता - अनुयोगिता - विशेष्यता-पक्षतादयः सापेक्षधर्माः न केनापि सम्बन्धेन अवच्छिन्नाः, केवलं धर्मेणैव तेऽवच्छिन्ना इति । ; ग्रन्थ 41 यो धर्म साध्यादौ विशेषणतया प्रतीयते स धर्मः साध्यतादीनामवच्छेदको भवति । यथा- 'पर्वतो वह्निमान् धूमात्' इत्यत्रानुमाने पर्वते पक्षे धूमेन हेतुना वह्निः संयोगसम्बन्धेन साध्यते इति यथाक्रमं पर्वतत्वं पक्षतावच्छेदकं, धूमत्वं हेतुतावच्छेदकं, वह्नित्वं साध्यतावच्छेदकम् । संयोगश्च साध्यतावच्छेदकः सम्बन्धः । हेतुरपि संयोगसम्बन्धेनैव कृत इति हेतुतावच्छेदकसम्बन्धोऽपि संयोग एव । ; ग्रन्थ 42 यत्र च साध्यतावच्छेदको धर्मः सखण्डः, तत्र साध्यतावच्छेदकतावच्छेदकोऽप्यस्ति । यथा- ' शतायुरप्ययं वृद्धो मरिष्यति मनुष्यत्वात्' इत्यनुमाने मरणं साध्यम्, मरणत्वञ्च साध्यतावच्छेदकम् । मरणञ्च श्वासप्रश्वासयोर्विरामः इति श्वासप्रश्वासविरामरूपं मरणत्वं सखण्डोपाधिः धर्मः । ततश्च मरणत्वत्वेन धर्मेण मरणत्वमत्र विशेषणीभूतमिति मरणत्वत्वं साध्यतावच्छेदकतावच्छेदकम् । एवमन्यदपि ज्ञेयम् । ; ग्रन्थ 43 अवच्छेदकपदस्य क्वचिद् विशेषणमित्यर्थः । अवच्छिन्नपदस्य च विशिष्टम् आश्रय इत्यर्थोऽपि भवति । यथा 'अवच्छेदकत्वमात्रेणान्वयः' इत्यत्र अवच्छेदकत्वपदस्य विशेषणत्वमर्थः | 'वह्नित्वावच्छिन्नस्य यस्य कस्यचिद्' इत्यत्र 'वह्नित्वावच्छिन्नस्य' 'वह्नित्वाश्रयस्य' इत्यर्थो बोध्यते । ; ग्रन्थ 44 ज्ञानं द्विविधम् निर्विकल्पकं सविकल्पकञ्च । 'निर्' नास्ति 'विकल्पः' विशेष्यविशेषणभावः विशेष्यविशेषणयोः सम्बन्धो वा यस्मिन् तत् निर्विकल्पकम् । निर्विकल्पके हि ज्ञाने केवलं धर्मधर्मिणोः पटत्वपटयोः परस्परमसंसृष्टयोः (पट-पटत्वे इत्याकारकं ) भानं (प्रकाशो) भवति, न तु तयोः सम्बन्धस्यापि भानम् । विषयेन्द्रियसन्निकर्षे सति जायमानं प्राथमिकं प्रत्यक्षं निर्विकल्पकं भवति । ; ग्रन्थ 45 तत्रेदं कारणम् - विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वम् । न हि अज्ञातशुक्लरूपस्य जनस्य इदं शुक्लं वस्त्रम्' इति प्रतीतिर्भवति । ततश्च पटे चक्षुः संयोगात् पूर्वं तत्समकालं वा पटत्वज्ञानस्य नियतमसम्भवाद पटत्वज्ञानं विना पटत्वस्य विशेषणतया पटे ज्ञानासम्भव इति, पटे चक्षुः संयोगानन्तरं प्रथमं पटत्वस्य ज्ञाने जाते ततो द्वितीयेन ज्ञानेन 'अयं पटः' इति पटत्वविशिष्टबुद्धिर्भवति । ; ग्रन्थ 46 विशेष्यविशेषणभावावगाहिज्ञानं सविकल्पकं (विकल्पेन सहितम् ) ज्ञानम् । 'अयं घटः' 'सुन्दरो नरः' इत्यादि विशिष्टज्ञानं सर्वमेव सविकल्पकम् । द्वितीयप्रत्यक्षं सर्वदैव विशिष्टज्ञानमेव भवति । प्राथमिकेन निर्विकल्पकेन प्रत्यक्षेण अवगतस्य घटत्वादिसामान्यस्य घटादौ विशेषणतया प्रतीतौ बाधाभावात् । तृतीयन्तु प्रत्यक्षं प्रायशो विशिष्टवैशिष्ट्यावगाहि भवति । यथा- 'कृष्णपशुपूर्णा पशुशाला' इति । अत्र कृष्णरूपविशिष्टस्य पशोः पशुशालायां सम्बन्धो भासते। 'दण्डिपूर्णो मठः' इति ज्ञाने दण्डविशिष्टस्य पुरुषस्य वैशिष्ट्यं (सम्बन्धः ) मठे प्रतीयते । ; ग्रन्थ 47 विशिष्टज्ञाने एकं विशेष्यम् अपरं विशेषणं भवति । विशेष्यस्यैव उद्देश्यमिति नामान्तरम् विशेषणस्य प्रकार इति । यथा- 'सुन्दरो नरः' इत्यत्र नरो विशेष्यः, सौन्दर्यं प्रकारः । विशेष्ये प्रकारे च यद् विशेषणतया प्रतीयते तद् यथाक्रमं विशेष्यतावच्छेदकं प्रकारतावच्छेदकञ्च भवति । यथा 'मृण्मयोऽयं गिरिः आश्विने मासि मनोहरपुष्पसमृद्धो भवति' इत्यादौ गिरौ विशेष्ये मृत्तिका गिरित्कच विशेषणम्, मृत्तिकायाञ्च मृत्तिकात्वम् विशेषणम् । ततश्च मृत्तिका गिरित्कञ्च विशेष्यतावच्छेदकम्, मृत्तिकात्वन्तु विशेष्यतावच्छेदकावच्छेदकम् । एवं मनोहरपुष्प समृद्धौ प्रकारे मनोहरपुष्पं विशेषणम् । तत्र च मनोहरत्वं पुष्पत्वञ्च विशेषणतया प्रतीयते इति पुष्पं प्रकारतावच्छेकं, मनोहरत्वं पुष्पत्वञ्च उभयमेव प्रकारतावच्छेकतावच्छेदक्तम् । ; ग्रन्थ 48 विशेष्ये विशेष्यता प्रकारे च प्रकारता वर्तते । ते च परस्परं निरूप्यनिरूपकभावापन्ने,विशेष्यतानिरूपिता प्रकारता भवति, प्रकारतानिरूपिता च विशेष्यतेति एवं प्रकारता विशेष्यनिरुपिता भवति विशेष्यता च प्रकारनिरूपिता भवति । एतत् सर्वं वृत्तितावर्णनास्थले उक्तप्रायमेव । ; ग्रन्थ 49 विशेषणं द्विविधम्- सिद्धं साध्यञ्च । सिद्धं पूर्वावगतं विशेषणम्, विशेष्यस्य इतरेभ्यो व्यावर्तनाय विशेष्यान्तरा प्रयुज्यते । साध्यञ्च पूर्वमप्राप्तम् प्राधान्येन विधीयते । साध्यस्य विधेयमिति नाम । यथा-'दयादाक्षिण्यादिगुणैरलङ्कृतो जनकानुरक्तोऽयं रामः सर्वैर्नमस्य' इत्यत्र विशेष्यस्य रामस्य दयादाक्षिण्यादिगुणैरलङ्कृतत्वं जनकानुरक्तत्वञ्च च पूर्वावगतमिति सिद्धं विशेषणम् इतरव्यावर्तनाय उद्देश्यमध्ये प्रयुक्तम् । नमस्यत्वन्तु पूर्वमसिद्धमिति विधीयते । ; ग्रन्थ 50 विधेयस्य विधानञ्च क्वचित् विशेष्यतावच्छेदकसामानाधिकरण्येन क्वचिच्च विशेष्यतावच्छेदकावच्छेदेन भवति । यस्मिन् कस्मिन्नपि विशेष्ये यद्विधान तत् विशेष्यतावच्छेदकसामानाधिकरण्येन (विशेष्यतावच्छेदकस्य समाने एकस्मिन् अधिकरणे वृत्तितया ) विधानम् । यथा- 'ब्राह्मणो विद्वान् भवति' इत्यनेन न 'सर्व एव ब्राह्मणा विद्वांसो भवन्ति' इति विधीयते किन्तु 'यत्र यत्र ब्राह्मण्यं वर्तते तेषां मध्ये केषुचित् विद्या वर्तते इति । यत्र यत्र विशेष्यतावच्छेदकं वर्तते, तत्र सर्वत्रैव (अर्थात् सर्वस्मिन्नेव विशेष्ये) विधेयस्य विधानम् विशेष्यतावच्छेदकावच्छेदेन (विशेष्यतावच्छेदकस्य अवच्छेदेन व्याप्त्या) विधानम् । यथा-'मनुष्यो मरणशीलः' इत्यनेन न केषुचित् मनुष्येषु मरणशीलत्वं विधीयते किन्तु सर्वेष्वेव मनुष्येषु । मनुष्यत्वं व्याप्य सर्वेष्वेव मनुष्येषु मरणशीलत्वं विधीयते इति । ; ग्रन्थ 51 विधेये मुख्यप्रकारता तिष्ठति । मुख्यप्रकारतानिरूपिता विशेष्यता च मुख्यविशेष्यता भवति । विधेयभिन्ने या प्रकारता सा न मुख्या । एवं या च विशेष्यता मुख्यप्रकारतानिरूपिता न भवति सापि न मुख्यविशेष्यता । अत एव ' जनकानुरक्तोऽयं रामः पूज्यः' इत्यत्र पूज्यत्वरूपविधेयनिष्ठा प्रकारता मुख्या, तन्निरूपितैव च रामनिष्ठा विशेष्यता मुख्या । जनकानुरक्तत्वरूपविशेषणनिष्ठा च प्रकारता न मुख्या, सुतरां तन्निरूपिता रामनिष्ठा विशेष्यतापि न मुख्या । ; ग्रन्थ 52 पुनश्च ज्ञानं द्विविधम् निश्चयः संशयश्चेति । यत्र ज्ञाने एकस्मिन् विशेष्ये एकमेव, तदेव तदभाव एव वा प्रकारतया भासते सनिश्चयः । यस्मिन् तु पुनः एकस्मिन्नेव तत् तदभावश्च उभयमेव भासते स संशयः । यथा- 'अयं मनुष्यः' इति निश्चयः, 'दीर्घोऽयं मनुष्यो न वा' इति संशयः । पूर्वत्र एकमेव मनुष्यत्वं प्रकारः; परत्र मनुष्यत्वं मनुष्यत्वाभावश्च उभयएव प्रकारः । संशये हि एकस्मिन् विशेष्ये प्रतियोगी अभावश्च परस्परविरुद्धावपि उभौ प्रकारतया भासते इति नियमः । तत्र भावाभावोभयप्रकारतानिरूपिता एकैव विशेष्यता भवति । यथा उक्ते उदाहरणे मनुष्यत्वनिष्ठा या प्रकारता, या च मनुष्यत्वाभावनिष्ठा प्रकारता, एतदुभयनिरूपिता एकैव विशेष्यता अस्मिन् दीर्घे विशेष्ये वर्तते। समूहालम्बनस्थले तु प्रत्येकप्रकारतानिरूपिता पृथक् पृथक् विशेष्यता भवति इति संशयात् समूहालम्बनस्य भेदः । संशये प्रकारस्य कोटिरिति नाम । अयं स्थाणुर्वा पुरुषो वा' इत्यादौ संशये कोटिचतुष्टयमस्ति स्थाणुत्वं, स्थाणुत्वाभावः, पुरुषत्वं पुरुषत्वाभावश्चेति । अत एवायं संशयः चातुष्कोटिक इत्युच्यते । केचित्तु वदन्ति - अत्रापि कोटिद्वयमेवास्ति स्थाणुत्वम्, स्थाणुत्वविरुद्धपुरुषत्वञ्चेति । ; ग्रन्थ 53 संशये च क्वचित् कोटिद्वयं समानं भवति, क्वचिच्च काचिदेका कोटिरुत्कटा भवति । 'आश्विने मासि वृष्टिरधिका भवति न वा' इति सन्देहे अधिकवृष्टेः तदभावस्य वा बोधकं किमपि चिह्नमधुना नास्तीति नैकापि कोटिरुत्कटा | परन्तु 'भादे मासि वृष्टिर्भवति न वा' इति संशये भाद्रमासस्य वर्षाकालतया वृष्टिकोटिरुत्कटा इत्ययं संशयः उत्कटैककोटिः । उत्कटैककोटिकः संशय एव 'सम्भावनेत्युच्यते । अत एव 'भाद्रे मासि वृष्टिर्भवति न वा' इति ज्ञानं 'सम्भावना' इत्यलम् । इति महामहोपाध्याय श्रीमन्महेशचन्द्रन्यायरत्नप्रणीतः नव्यन्यायभाषाप्रदीपः समाप्तः। == स्रोतः == *[https://cl.sanskrit.du.ac.in/etexts/etext.php?text=navyanyayabhashapradeep&ref=Full-Text नव्यन्याय-भाषाप्रदीप (NAVYANYĀYA-BHĀṢĀPRADĪPA)] ierkktq7o2vg71b0jgjtjbjq7nh7v26 शुक्रनीतिः 0 165961 418671 2026-09-30T05:01:41Z अनुनाद सिंह 1115 ; शुक्रनीतिः ==प्रथम अध्याय== प्रणम्य जगदाधारं सर्गस्थित्यन्तकारणम् । सम्पूज्य भार्गवः पृष्टो वन्दितः पूजितः स्तुतः ॥ पूर्वदेवैर्यथान्यायं नीतिसारमुवाच तान... नवीन पृष्ठं निर्मीत अस्ती 418671 wikitext text/x-wiki ; शुक्रनीतिः ==प्रथम अध्याय== प्रणम्य जगदाधारं सर्गस्थित्यन्तकारणम् । सम्पूज्य भार्गवः पृष्टो वन्दितः पूजितः स्तुतः ॥ पूर्वदेवैर्यथान्यायं नीतिसारमुवाच तान् । शतलक्षश्लोकमितं नीतिशास्त्रमथोक्तवान् ॥ स्वयम्भूर्भगवाँल्लोकहितार्थं सङ्ग्रहेण वै । तत्सारं तु वसिष्ठाद्यैरस्माभिर्वृद्धिहेतवे ॥ अल्पायुर्भूभृदाद्यर्थं सङ्क्षिप्तं तर्कविस्तृतम् । क्रियैकदेशबोधीनि शास्त्राण्यन्यानि सन्ति हि ॥ सर्वोपजीवकं लोकस्थितिकृन्नीतिशास्त्रकम् । धर्मार्थकाममूलं हि स्मृतं मोक्षप्रदं यतः ॥ अतः सदा नीतिशास्त्रमभ्यसेद्यत्नतो नृपः । यद्विज्ञानान्नृपाद्याश्च शत्रुजिल्लोकरञ्जकाः ॥ सुनीतिकुशला नित्यं प्रभवन्ति च भूमिपाः । शब्दार्थानां न किं ज्ञानं विना व्याकरणाद्भवेत् ॥ प्राकृतानां पदार्थानां न्यायतर्कैर्विना न किम् । विधिक्रियाव्यवस्थानां न किं मीमांसया विना ॥ देहादीनां नश्वरत्वं वेदान्तैर्न विना हि किम् । स्वस्याभिमतबोधीनि शास्त्राण्येतानि सन्ति हि ॥ तत्तन्मतानुगैः सर्वैर्विधृतानि जनैः सदा । बुद्धिकौशलमेतद्धि तैः किं स्याद् व्यवहारिणाम् ॥ सर्वलोकव्यवहारस्थितिर्नीत्या विना नहि । यथाऽशनैर्विना देहस्थितिर्न स्याद्धि देहिनाम् ॥ सर्वाभीष्टकरं नीतिशास्त्रं स्यात्सर्वसम्मतम् । अत्यावश्यं नृपस्यापि स सर्वेषां प्रभुर्यतः ॥ शत्रवो नीतिहीनानां यथाऽपथ्याशिनां गदाः । सद्यः केचिच्च कालेन भवन्ति न भवन्ति च ॥ नृपस्य परमो धर्मः प्रजानां परिपालनम् । दुष्टनिग्रहणं नित्यं न नीत्याऽतो विना ह्युभे ॥ अनीतिरेव सच्छिद्रं राज्ञो नित्यं भयावहम् । शत्रुसंवर्धनं प्रोक्तं बलह्रासकरं महत् ॥ नीतिं त्यक्त्वा वर्त्तते यः स्वतन्त्रः स हि दुःखभाक् । स्वतन्त्रप्रभुसेवा तु ह्यसिधारावलेहनम् ॥ स्वाराध्यो नीतिमान् राजा दुराराध्यस्त्वनीतिमान् । यत्र नीतिबले चोभे तत्र श्रीस्सर्वतोमुखी ॥ अप्रेरितहितकरं सर्वराष्ट्रं भवेद्यथा । तथा नीतिस्तु सन्धार्या नृपेणात्महिताय वै ॥ भिन्नं राष्ट्रं बलं भिन्नं भिन्नोऽमात्यादिको गणः । अकौशल्यं नृपस्यैतदनीतेर्यस्य सर्वदा ॥ तपसा तेज आदत्ते शास्ता पाता च रञ्जकः । नृपः स्वप्राक्तनाद्धत्ते तपसा च महीमिमाम् ॥ वृष्टिशीतोष्णनक्षत्रगतिरूपस्वभावतः । इष्टानिष्टाधिकं न्यूनाचारैः कालस्तु भिद्यते ॥ आचारप्रेरको राजा ह्येतत्कालस्य कारणम् । यदि कालः प्रमाणं हि कस्माद्धर्मोऽस्ति कर्तृषु ॥ राजदण्डभयाल्लोकः स्वस्वधर्मपरो भवेत् । यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह ॥ विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः । तपः स्वधर्मरूपं यद्वर्धितं येन वै सदा ॥ देवास्तु किङ्करास्तस्य किं पुनर्मनुजा भुवि । सुदण्डैर्धर्मनिरताः प्रजाः कुर्यान्महाभयैः ॥ नृपः स्वधर्मनिरतो भूत्वा तेजःक्षयोऽन्यथा । अभिषिक्तोऽनभिषिक्तो नृपत्वं तु यदानुयात् ॥ बुद्धया बलेन शौर्येण ततो नीत्याऽनुपालयन् । प्रजाः सर्वाः प्रतिदिनमच्छिद्रे दण्डधृक् सदा ॥ नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते । तिर्यञ्चोऽपि वशं याति शौर्यनीतिबलैर्धनैः ॥ सात्त्विकं राजसं चैव तामसं त्रिविधं तपः । यादृक् तपति योऽत्यर्थं तादृग् भवति वै नृपः ॥ यो हि स्वधर्मनिरतः प्रजानां परिपालकः । यष्टा च सर्वयज्ञानां नेता शत्रुगणस्य च ॥ दानशौण्डः क्षमी शूरो निःस्पृहो विषयेष्वपि । विरक्तः सात्त्विकः स हि नृपोऽन्ते मोक्षमन्वियात् ॥ विपरीतस्तामसः स्यात् सोऽन्ते नरकभाजनः । निर्घृणश्च मदोन्मत्तो हिंसकः सत्यवर्जितः ॥ राजसो दाम्भिको लोभी विषयी वञ्चकश्शठः । मनसाऽन्यश्च वचसा कर्मणा कलहप्रियः ॥ नीचप्रियः स्वतन्त्रश्च नीतिहीनश्छलान्तरः । स तिर्यक्त्वं स्थावरत्वं भविताऽन्ते नृपाधमः ॥ देवांशान् सात्त्विको भुङ्क्ते राक्षसांशांस्तु तामसः । राजसो मानवांशांस्तु सत्त्वे धार्य्यं मनस्ततः ॥ सत्त्वस्य तमसः साम्यान्मानुषं जन्म जायते । यद्यदाश्रयते मर्त्त्यस्तत्तुल्यो दिष्टतो भवेत् ॥ कर्मैव कारणञ्चात्र सुगति दुर्गतिं प्रति । कर्मैव प्राक्तनमपि क्षणं किं कोऽस्ति चाक्रियः ? ॥ न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य एव न । न शूद्रो न च वै म्लेच्छो भेदिता गुणकर्मभिः ॥ ब्रह्मणस्तु समुत्पन्नाः सर्वे ते किं नु ब्राह्मणाः ? । न वर्णतो न जनकाद् ब्राह्मतेजः प्रपद्यते ॥ ज्ञानकर्मोपासनाभिर्देवताराधने रतः । शान्तो दान्तो दयालुश्च ब्राह्मणश्च गुणैः कृतः ॥ लोकसंरक्षणे दक्षः शूरो दान्तः पराक्रमी । दुष्टनिग्रहशीलो यः स वै क्षत्रिय उच्यते ॥ क्रयविक्रयकुशला ये नित्यञ्च पण्यजीविनः । पशुरक्षाः कृषिकरास्ते वैश्याः कीर्तिता भुवि ॥ द्विजसेवार्चनरताः शूराः शान्ता जितेन्द्रियाः । सीरकाष्ठतृणवहास्ते नीचाः शूद्रसंज्ञकाः ॥ त्यक्तस्वधर्माचरणा निर्घृणाः परपीडकाः । चण्डाश्च हिंसका नित्यं म्लेच्छास्ते ह्यविवेकिनः ॥ प्राक्कर्मफलभोगार्हा बुद्धिः सञ्जायते नृणाम् । पापकर्मणि पुण्ये वा कर्तुं शक्तो न चान्यथा ॥ बुद्धिरुत्पद्यते तादृक् यादृक् कर्मफलोदयः । सहायास्तादृशा एव यादृशी भवितव्यता ॥ प्राक्कर्मवशतः सर्वं भवत्येवेति निश्चितम् । तदोपदेशा व्यर्थाः स्युः कार्य्याकार्य्यप्रबोधकाः ॥ धीमन्तो वन्द्यचरिता मन्यन्ते पौरुषं महत् । अशक्ताः पौरुषं कर्त्तुं क्लीबा दैवमुपासते ॥ दैवे पुरुषकारे च खलु सर्वं प्रतिष्ठितम् । पूर्वजन्मकृतं कर्मेहार्जितं तद् द्विधाकृतम् ॥ बलवान् प्रतिकारी स्याद् दुर्बलस्य सदैव हि। स बलाबलयोर्ज्ञानफलप्राप्त्यान्यथा न हि ॥ फलोपलब्धिः प्रत्यक्षहेतुना नैव दृश्यते । प्राक्कर्महैतुकी सा तु नान्यथैवेति निश्चयः ॥ यज्जायतेऽल्पक्रियया नृणां वापि महत् फलम् । तदपि प्राक्तनादेव केचित् प्रागिहकर्मजम् ॥ वदन्तीहैव क्रियया जायते पौरुषं नृणाम् । सस्नेहवर्त्तिदीपस्य रक्षा वातात् प्रयत्नतः ॥ अवश्यम्भाविभावानां प्रतीकारो न चेद् यदि । दुष्टानां क्षपणं श्रेयो यावद् बुद्धिबलोदयम् ॥ प्रतिकूलानुकूलाभ्यां फलाभ्याञ्च नृपोऽप्यतः । ईषन्मध्याधिकाभ्याञ्च त्रिधा दैवं विचिन्तयेत् ॥ रावणस्य च भीष्मादेर्वनभङ्गे च गोग्रहे । प्रातिकूल्यन्तु विज्ञातमेकस्माद् वानरान्नरात् ॥ कालानुकूल्यं विस्पष्टं राघवस्यार्जुनस्य च । अनुकूले यदा दैवे क्रियाल्पा सुफला भवेत् ॥ महती स‌त्क्रियानिष्टफला स्यात् प्रतिकूलके । बलिर्दानेन सम्बद्धो हरिश्चन्द्रस्तथैव च ॥ भवतीष्टं स‌त्क्रिययानिष्टं तद्विपरीतया । शास्त्रतः सदसज्ज्ञात्वा त्यक्त्वाऽसत्सत् समाचरेत् ॥ कालस्य कारणं राजा सदसत्कर्मणस्त्वतः । सुकार्य्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत् प्रजाः ॥ स्वाम्यमात्यसुहत्कोशराष्ट्रदुर्गबलानि च । सप्ताङ्गमुच्यते राज्यं तत्र मूर्द्धा नृपः स्मृतः ॥ दृगमात्यः सुहच्छ्रोत्रं मुखं कोशो बलं मनः । हस्तौ पादौ दुर्गराष्ट्रौ राज्याङ्गानि स्मृतानि हि ॥ अङ्गानां क्रमशो वक्ष्ये गुणान् भूतिप्रदान् सदा । यैर्गुणैस्तु सुसंयुक्ता वृद्धिमन्तो भवन्ति हि ॥ राजास्य जगतो हेतुर्वृद्धयै वृद्धाभिसम्मतः । नयनानन्दजनकः शशाङ्क इव तोयधेः ॥ यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ न तिष्ठन्ति स्वस्वधर्मे विना पालेन वै प्रजाः । प्रजया तु विना स्वामी पृथिव्यां नैव शोभते ॥ न्यायप्रवृत्तो नृपतिरात्मानमथ च प्रजाः । त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवमन्यथा ॥ धर्मं द्वैतवने राजा विधाय बुभुजे दिवम् । अधर्माश्चैव नहुषः प्रतिपेदे रसातलम् ॥ वेणो नष्टस्त्वधर्मेण पृथुर्वृद्धस्तु धर्मतः । तस्माद्धर्मं पुरस्कृत्य यतेतार्थाय पार्थिवः ॥ यो हि धर्मपरो राजा देवांशोऽन्यश्च रक्षसाम् । अंशभूतो धर्मलोपी प्रजापीडाकरो भवेत् ॥ अराजके हि सर्वस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चापि मात्रा निर्हत्य शाश्वतीः ॥ जङ्गमस्थावराणाञ्च हीशः स्वतपसा भवेत् । भागभाग्रक्षणे दक्षो यथेन्द्रो नृपतिस्तथा ॥ वायुर्गन्धस्य सदसत्कर्मणः प्रेरको नृपः । धर्मप्रवर्तकोऽधर्मनाशकस्तमसो रविः ॥ दुष्कर्मदण्डको राजा यमः स्याद् दण्डकृद् यमः । अग्निः शुचिस्तथा राजा रक्षार्थं सर्वभागभुक् ॥ पुष्यत्यपां रसैः सर्वं वरुणः स्वधनैर्नृपः । करैश्चन्द्रो ह्लादयति राजा स्वगुणकर्मभिः ॥ कोशानां रक्षणे दक्षः स्यान्निधीनां धनाधिपः । चन्द्रो यथा विना सर्वैरंशैर्नो भाति भूपतिः ॥ पिता माता गुरुर्भ्राता बन्धुर्वैश्रवणो यमः । नित्यं सप्तगुणैरेषां युक्तो राजा न चान्यथा ॥ गुणसाधनसन्दक्षः स्वप्रजायाः पिता यथा । क्षमयित्र्यपराधानां माता पुष्टिविधायिनी ॥ हितोपदेष्टा शिष्यस्य सुविद्याध्यापको गुरुः । स्वभागोद्धारकृद् भ्राता यथाशास्त्रं पितुर्धनात् ॥ आत्मस्त्रीधनुगुह्यानां गोप्ता बन्धुस्तु मित्रवत् । धनदस्तु कुबेरः स्याद् यमः स्याच्च सुदण्डकृत् ॥ प्रवृद्धिमति सुराज्ञि निवसन्ति गुणा अमी । एते सप्त गुणा राज्ञा न हातव्याः कदाचन ॥ क्षमते योऽपराधं सः शक्तः सुदमने क्षमी । क्षमया तु विना भूपो न भात्यखिलसद्‌गुणैः ॥ स्वान् दुर्गुणान् परित्यज्य ह्यतिवादांस्तितिक्षते । दानैर्मानैश्च सत्कारैः स्वप्रजारञ्जकः सदा ॥ दान्तः शूरश्च शस्त्रास्त्रकुशलोऽरिनिषूदनः । अस्वतन्त्रश्च मेधावी ज्ञानविज्ञानसंयुतः ॥ नीचहीनो दीर्घदर्शी वृद्धसेवी सुनीतियुक् । गुणिजुष्टस्तु यो राजा स ज्ञेयो देवतांशकः ॥ विपरीतस्तु रक्षोंऽशः स वै नरकभाजनः । नृपांशसदृशो नित्यं तत्सहायगणः किल ॥ तत्कृतं मन्यते राजा सन्तुष्यति च मोदते । तेषामाचरणैर्नित्यं नान्यथा नियतेर्बलात् ॥ अवश्यमेव भोक्तव्यं कृतकर्मफलं नरैः । प्रतिकारैर्विना नैव प्रतिकारे कृते सति ॥ तथा भोगाय भवति चिकित्सितगदी यथा । उपदिष्टेऽनिष्टहेतौ तत् तत् कर्तुं यतेत कः ॥ रज्यते सत्फले स्वान्तं दुष्फले न हि कस्यचित्। सदसद्बोधकान्येव दृष्ट्‌वा शास्त्राणि चाचरेत् ॥९१॥ नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् । विनयस्येन्द्रियजयस्तद्युक्तः शास्त्रमृच्छति ॥९२॥ आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ततः पुत्रांस्ततोऽमात्यांस्ततो भृत्यांस्ततः प्रजाम् ॥९३॥ परोपदेशकुशलः केवलो न भवेन्नृपः । प्रजाधिकारहीनः स्यात् सगुणोऽपि नृपः क्वचित् ॥९४॥ न तु नृपविहीनाः स्युर्दुर्गुणा ह्यपितु प्रजाः । यथा न विधवेन्द्राणी सर्वदा तु तथा प्रजाः ॥९५॥ भ्रष्टश्रीः स्वामिता राज्ञो यस्य दान्ता न मन्त्रिणः । तथाऽविनीता दायादा दुष्टाः पुत्रादयोऽपि च ॥९६॥ सदानुरक्तप्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥९७॥ प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् । ज्ञानाङ्‌कुशेन कुर्वीत वशमिन्द्रियदन्तिनम् ॥९८॥ विषयामिषलोभेन मनः प्रेरयतीन्द्रियम् । तन्निरुध्यात् प्रयत्नेन जिते तस्मिन् जितेन्द्रियः ॥९९॥ एकस्यैव हि योऽशक्तो मनसः सन्निवर्हणे । महीं सागरपर्य्यन्तां स कथं ह्यवजेष्यति ?॥१००॥ क्रियावसानविरसैर्विषयैरपहारिभिः । गच्छत्याक्षिप्तहृदयः करीव नृपतिर्ब्रहम् ॥१०१॥ शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः । एकैकस्त्वलमेतेषां विनाशप्रतिपत्तये ॥१०२॥ शुचिर्दर्भाङ्कुराहारो विदूरभ्रमणे क्षमः । लुब्धकोद्‌गीतमोहेन मृगो मृगयते वधम् ॥१०३॥ गिरीन्द्रशिखराकारो लीलयोन्मूलितद्रुमः । करिणीस्पर्शसम्मोहाद् बन्धनं याति वारणः ॥१०४॥ स्निग्धदीपशिखालोकविलोलितविलोचनः । मृत्युमृच्छति सम्मोहात् पतङ्गः सहसा पतन् ॥१०५॥ अगाधसलिले मग्नो दूरेऽपि दासतो वसन् । मीनस्तु सामिषं लोहमास्वादयति मृत्यवे ॥१०६॥ उत्कर्तितुं समर्थोऽपि गन्तुं चैव सपक्षकः । द्विरेफो गन्धलोभेन कमले याति बन्धनम् ॥१०७॥ एकैकशो विनिघ्नन्ति विषया विषसन्निभाः । किं पुनः पञ्च मिलिताः न कथं नाशयन्ति हि ॥१०८॥ द्यूतं स्त्री मद्यमेवैतत् त्रितयं बह्वनर्थकृत् । अयुक्तं युक्तियुक्तं हि धनपुत्रमतिप्रदम् ॥१०९॥ धर्मपुत्रनलाद्यास्तु सुद्यूतेन विनाशिताः । सकापट्यं धनायालं द्यूतं भवति तद्विदाम् ॥११०॥ स्त्रीणां नामापि संह्लादि विकरोत्येव मानसम् । किं पुनर्दर्शनं तासां विलासोल्लासितध्रुवाम् ॥१११॥ रहःप्रचारकुशला मृदुगद्गदभाषिणी । कं न नारी वशीकुर्य्यान्नरं रक्तान्तलोचना ?॥११२॥ मुनेरपि मनोऽवश्यं सरागं कुरुतेऽङ्गना । जितेन्द्रियस्य का वार्त्ता किं पुनश्चाजितात्मनाम् ॥११३॥ व्यायच्छन्तश्च बहवः स्त्रीषु नाशं गता अमी। इन्द्रदण्डकनहुषरावणाद्याः सदा ह्यतः ॥११४॥ अतत्परनरस्यैव स्त्री सुखाय भवेत् सदा । साहायिनी गृहकृत्ये तां विनान्या न विद्यते ॥११५॥ अतिमद्यं हि पिबतो बुद्धिलोपो भवेत् किल । प्रतिभां बुद्धिवैशद्यं धैर्य्य चित्तविनिश्चयम् ॥११६॥ तनोति मात्रया पीतं मद्यमन्यद् विनाशकृत् । कामक्रोधौ मद्यतमौ नियोक्तव्यौ यथोचितम् ॥११७॥ कामः प्रजापालने च क्रोधः शत्रुनिवर्हणे । सेनासन्धारणे लोभो योज्यो राज्ञा जयार्थिना ॥११८॥ परस्त्रीसङ्गमे कामो लोभो नान्यधनेषु च। स्वप्रजादण्डने क्रोधो नैव धार्य्यो नृपैः कदा ॥११९॥ किमुच्यते कुटुम्बीति परस्त्रीसङ्गमान्नरः । स्वप्रजादण्डनाच्छूरो धनिकोऽन्यधनैश्च किम् ॥१२०॥ अरक्षितारं नृपतिं ब्राह्मणं चातपस्विनम् । धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यथः ॥१२१॥ स्वामित्वं चैव दातृत्वं धनिकत्वं तपः फलम् । एनसः फलमर्थित्वं दास्यत्वं च दरिद्रता ॥१२२॥ दृष्ट्वा शास्त्राण्यतश्चित्तं सन्नियम्य यथोचितम्। कुर्य्यात् नृपः स्ववृत्तं तु परत्रेह सुखाय च ॥१२३॥ दुष्टनिग्रहणं दानं प्रजायाः परिपालनम् । यजनं राजसूयादेः कोशानां न्यायतोऽर्जनम् ॥१२४॥ करदीकरणं राज्ञां रिपूणां परिमर्दनम् । भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्टधा ॥१२५॥ न वर्द्धितं बलं यैस्तु न भूपाः करदीकृताः । न प्रजाः पालिताः सम्यक् ते वै षण्डतिला नृपाः ॥१२६॥ प्रजा सूद्विजते यस्माद् यत्कर्म परिनिन्दति । त्यज्यते धनिकैर्यस्तु गुणिभिस्तु नृपाधमः ॥१२७॥ नटगायकगणिकामल्लषण्ढाल्पजातिषु । योऽतिसक्तो नृपो निन्द्यः स हि शत्रुमुखे स्थितः ॥१२८॥ बुद्धिमन्तं सदा द्वेष्टि मोदते वञ्चकैः सह । स्वं दुर्गुणं नैव वेत्ति स्वात्मनाशाय स नृपः ॥१२९॥ नापराधं हि क्षमते प्रदण्डो धनहारकः । स्वदुर्गुणश्रवणतो लोकानां परिपीडकः ॥१३०॥ नृपो यदा तदा लोकः क्षुभ्यते भिद्यते यतः । गूढचारैः श्रावयित्वा स्ववृत्तं दूषयन्ति के ॥१३१॥ भूषयन्ति च कैर्भावैरमात्याद्याश्च तद्विदः । मयि कीदृक् च सम्प्रीतिः केषामप्रीतिरेव वा ॥१३२॥ ममागुणैर्गुणैर्वापि गूढं संश्रुत्य चाखिलम् । चारैः स्वदुर्गुणं ज्ञात्वा लोकतः सर्वदा नृपः ॥१३३॥ सुकीर्त्यै सन्त्यजेन्नित्यं नावमन्येत वै प्रजाः । लोको निन्दन्ति राजंस्त्वां चारैः संश्रावितो यदि ॥१३४॥ कोपं करोति दौरात्म्यादात्मदुर्गुणलोपकः । सीता साध्व्यपि रामेण त्यक्ता लोकापवादतः ॥१३५॥ शक्तेनापि हि न धृतो दण्डोऽल्पो रजके क्वचित् । ज्ञानविज्ञानसम्पन्नः राजादत्ताभयोऽपि च ॥१३६॥ समक्षं वक्ति न भयाद्राज्ञो गुर्वपि दूषणम् । स्तुतिप्रिया हि वै देवा विष्णुमुख्या इति श्रुतिः ॥१३७॥ किं पुनर्मनुजा ? नित्यं निन्दाजः क्रोध इत्यतः । राजा सुभागदण्डी स्यात् सुक्षमी रञ्जकः सदा ॥१३८॥ यौवनं जीवितं चित्तं छाया लक्ष्मीश्च स्वामिता । चञ्चलानि षडेतानि ज्ञात्वा धर्मरतो भवेत् ॥१३९॥ अदानेनापमानेन छलाच्च कटुवाक्यतः । राज्ञः प्रबलदण्डेन नृपं मुञ्चति वै प्रजा ॥१४०॥ विपरीतगुणैरेभिः सान्वयारज्यते प्रजा । एकस्तनोति दुष्कीर्त्तिं दुर्गुणः सङ्घशो नु किम् ॥१४१॥ मृगयाक्षास्तथा पानं गर्हितानि महीभुजाम् । दृष्टास्तेभ्यस्तु विपदो पाण्डुनैषधवृष्णिषु ॥१४२॥ कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनमस्मिस्त्यक्ते सुखी नृपः ॥१४३॥ दण्डको नृपतिः कामात् क्रोधाच्च जनमेजयः । लोभादैलस्तु राजर्षिर्मोहाद् वातापिरासुरः ॥१४४॥ पौलस्त्यो राक्षसो मानान्मदाद् दम्भोद्भवो नृपः । प्रयाता निधनं ह्येते शत्रुषड्‌वर्गमाश्रिताः ॥१४५॥ शत्रुषड्वर्गमुत्सृज्य जामदग्न्यः प्रतापवान् । अम्बरीषो महाभागो बुभुजाते चिरं महीम् ॥१४६॥ वर्द्धयन्निह धर्मार्थों सेवितौ सद्भिरादरात् । निगृहीतेन्द्रियग्रामः कुर्वीत गुरुसेवनम् ॥१४७॥ शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धये। विद्याविनीतो नृपतिः सतां भवति सम्पतः ॥१४८॥ प्रेर्य्यमाणोऽप्यसद्वृत्तैर्नाकार्य्येषु प्रवर्त्तते । श्रुत्या स्मृत्या लोकतश्च मनसा साधुनिश्चितम् ॥१४९॥ यत् कर्म धर्मसंज्ञं तद् व्यवस्यति च पण्डितः । आददानप्रतिदानकलासम्यक् महीपतिः ॥१५०॥ जितेन्द्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः । भवन्त्युच्चलिता लक्ष्म्यः कीर्त्तयश्च नभस्पृशः ॥१५१॥ आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती । विद्याश्वतस्त्र एवैता अभ्यसेद् नृपतिः सदा ॥१५२॥ आन्वीक्षिक्यां तर्कशास्त्रं वेदान्ताद्यं प्रतिष्ठितम् । त्रय्यां धर्मो ह्यधर्मश्च कामोऽकामः प्रतिष्ठितः ॥१५३॥ अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ। वर्णाः सर्वाश्रमाश्चैव विद्यास्वासु प्रतिष्ठिताः ॥१५४॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रपुराणानि त्रयीदं सर्वमुच्यते ॥१५५॥ कुसीदकृषिवाणिज्यं गोरक्षावार्त्तयोच्यते । सम्पन्नो वार्त्तया साधुर्न वृत्तेर्भयमृच्छति ॥१५६॥ दमो दण्ड इति ख्यातस्तस्माद्दण्डो महीपतिः । तस्य नीतिर्दण्डनीतिर्नयनान्नीतिरुच्यते ॥१५७॥ आन्वीक्षिक्यात्मविज्ञानाद्धर्षशोकौ व्युदस्यति । उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥१५८॥ आनृशंस्यं परो धर्मः सर्वप्राणभृतां यतः । तस्माद्राजानृशंस्येन पालयेत् कृपणं जनम् ॥१५९॥ न हि स्वसुखमन्विच्छन् पीडयेत् कृपणं जनम्। कृपणः पीड्यमानः स्वमृत्युना हन्ति पार्थिवम् ॥ १६० ॥ सुजनैः सङ्गतं कुर्य्याद्धर्माय च सुखाय च। सेव्यमानस्तु सुजनैर्महानतिविराजते ॥ १६१ ॥ हिमांशुमाली च यथा नवोत्फुल्लोत्पलं सरः । आनन्दयति चेतांसि तथा सुजनचेष्टितम् ॥ १६२ ॥ ग्रीष्मसूय्र्यांशुसन्तप्तमुद्वेजनमनाश्रयम् । मरुस्थलमिवोदग्रं त्यजेद् दुर्जनसङ्गतम् ॥ १६३ ॥ निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः 1 वरमाशीविषैः सङ्गं कुर्य्यान्न त्वेव दुर्जनैः ॥ १६४ ॥ क्रियतेऽभ्यर्हणीयाय सुजनाय यथाञ्जलिः । ततः साधुतरः कार्यो दुर्जनाय हितार्थिना ॥ १६५ ॥ नित्यं मनोऽपहारिण्या वाचा प्रह्लादयेज्जगत् । उद्वेजयति भूतानि क्रूरवाग्धनदोऽपि सन् ॥ १६६ ॥ हृदि विद्ध इवात्यर्थं यया सन्तप्यते जनः । पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत् ॥ १६७ ॥ प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु वा। शिखीव केकां मधुरां वाचं बूते जनप्रियः ।॥ १६८ ॥ मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः। हरन्ति न तथा वाचो यथा वाचो विपश्चिताम् ॥ १६९ ॥ ये प्रियाणि प्रभाषन्ते प्रियमिच्छन्ति सत्कृतम् । श्रीमन्तो वन्द्यचरिता देवास्ते नरविग्रहाः ॥ १७० ॥ न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानञ्च मधुरा च वाक् ॥ १७१ ॥ श्रुतिरास्तिक्यपूतात्मा पूजयेद् देवतां सदा। देवतावद् गुरुजनानात्मवच्च सुहृज्जनान् ॥ १७२ ॥ प्रणिपातेन हि गुरून् सतोऽनूचानवेष्टिताः । कुर्वीताभिमुखान् देवान् भूत्यै सुकृतकर्मणा ॥ १७३ ॥ सद्भावेन हरेन्मित्रं सद्भावेन च बान्धवान् । स्त्रीभृत्यौ प्रेममानाभ्यां दाक्षिण्येनेतरं जनम् ॥ १७४ ॥ बलवान् बुद्धिमान् शूरो यो हि युक्तपराक्रमी । वित्तपूर्णां महीं भुङ्क्ते स भूपो भूपतिर्भवेत् ॥ १७५ ॥ पराक्रमो बलं बुद्धि शौर्य्यमेते वरा गुणाः। एभिर्हींनोऽन्यगुणयुग् महीभुक् सधनोऽपि च ॥ १७६ ॥ महीं स्वल्पां नैव भुङ्क्ते द्राक् च राज्याद् विनश्यति । महाघनाच्च नृपतेर्विभात्यल्पोऽपि पार्थिवः ॥ अव्याहताज्ञस्तेजस्वी एभिरेव गुणैर्भवेत् । राज्ञः साधारणास्त्वन्ये न शक्ता भूप्रसाधने ॥ १७८ ॥ खनिः सर्वधनस्येयं देवदैत्यविमर्दिनी । भूम्यर्थे भूमिपतयः स्वात्मानं नाशयन्त्यपि ॥ १७९ ॥ उपभोगाय च धनं जीवितं येन रक्षितम् । न रक्षिता तु भूर्येन किं तस्य धनजीवितैः ॥ १८० ॥ न यथेष्टव्ययायालं सञ्चितं तु धनं भवेत् । सदागमाद् विना कस्य कुवेरस्यापि नाञ्जसा ॥ १८१ ॥ पूज्यस्त्वेभिर्गुणैर्भूपो न भूपः कुलसम्भवः । न कुले पूज्यते यादृम् बलशौर्य्यपराक्रमैः ॥ १८२ ॥ लक्षकर्षमितो भागो राजतो यस्य जायते। वत्सरे वत्सरे नित्यं प्रजानान्त्वविपीडनैः ॥ १८३ ॥ सामन्तः स नृपः प्रोक्तो यावल्लक्षत्रयावधि । तदूर्ध्वं दशलक्षान्तो नृपो माण्डलिकः स्मृतः ॥ १८४ ॥ तदूर्ध्वन्तु भवेद्राजा यावद् विंशतिलक्षकः । पञ्चाशल्लक्षपर्य्यन्तो महाराजः प्रकीर्त्तितः ॥ १८५ ॥ ततस्तु कोटिपर्य्यन्तः स्वराट् सम्म्राट् ततः परम् । दशकोटिमितो यावत् विराट् तु तदनन्तरम् ॥ १८६ ॥ पञ्चाशत्कोटिपर्य्यन्तः सार्वभौमस्ततः परम् । सप्तद्वीपा च पृथिवी यस्य वश्या भवेत् सदा ॥ १८७ ॥ स्वभागभृत्या दास्यत्वे प्रजानाञ्च नृपः कृतः । ब्रह्मणा स्वामिरूपस्तु पालनार्थं हि सर्वदा ॥ १८८ ॥ सामन्तादिसमा ये तु भृत्या अधिकृता भुवि। ते तु सामन्तसंज्ञाः स्यू राजभागहराः क्रमात् ॥ १८९ ॥ सामन्तादिपदभ्रष्टास्तत्तुल्यं भृतिपोषिताः । महाराजादिभिस्ते तु हीनसामन्तसंज्ञकाः ॥ १९० ॥ शतग्रामाधिपो यस्तु सोऽपि सामन्तसंज्ञकः । शतप्रामे चाधिकृतोऽनुसामन्तो नृपेण सः ॥ १९१ ॥ अधिकृतो दशग्रामे नायकः स च कीर्त्तितः । आशापालोऽयुतग्रामभागभाक् च स्वराडपि ॥ १९२॥ भवेत् क्रोशात्मको ग्रामो रूप्यकर्षसहस्त्रकः । ग्रामार्द्धकं पल्लिसंज्ञं पल्लवर्द्ध कुम्भसंज्ञकम् ॥ १९३ ॥ करैः पञ्चसहखैर्वा क्रोशः प्रोक्तः प्रजापतेः । हस्तैश्चतुःसहस्त्रैर्वा मनोः क्रोशस्य विस्तरः ॥ १९४ ॥ सार्द्धद्विकोटिहस्तैश्च क्षेत्रं क्रोशस्य ब्रह्मणः । पञ्चविंशशतैः प्रोक्तं क्षेत्रस्तद्धि निवर्त्तनम् ॥ १९५ ॥ मध्यमामध्यमपर्वदैर्ध्य यच्च तद्ङ्गुलम् । यवोदरैरष्टभिस्तदैर्ध्य स्थौल्यन्तु पञ्चभिः ॥ १९६ ॥ चतुर्विंशत्यङ्गलैस्तैः प्राजापत्यः करः स्मृतः । स श्रेष्ठो भूमिमाने तु तदन्यास्त्वधमा मताः ॥ १९७ ॥ चतुःकरात्मको दण्डो लघुः पञ्चकरात्मकः । तद्दङ्गुलं पञ्चयवैर्मानवं मानमेव तत् ॥ १९८ ॥ वसुषण्मुनिसंख्याकैर्यवैर्दण्ड प्रजापतेः । यवोदरैः षट्‌शतैस्तु मानवो दण्ड उच्यते ॥ ९९९ ॥ पञ्चविंशतिभिर्दण्डैरुभयोस्तु निवर्त्तनम्। त्रिंशच्छतैरडुलैर्यवैश्विपञ्चसहस्त्रकैः ॥ २०० ॥ सपादशतहस्तैश्च मानवन्तु निवर्तनम् । ऊनविंशतिसाहस्त्रैर्द्विशतैश्च यवोदरैः ॥ २०१ ॥ चतुर्विंशशतैरेव हाङ्गलैश्च निवर्त्तनम् । प्राजापत्यन्तु कथितं शतैश्चैव करैः सदा ॥ २०२ ॥ सपादषट्‌शता दण्डा उभयोश्च निवर्त्तने । निवर्त्तनान्यपि सदोभयोर्वै पञ्चविंशतिः ॥ २०३ ॥ पञ्चसप्ततिसाहस्त्रैरङ्गलैः परिवर्तनम् । मानवं षष्टिसाहस्रैः प्राजापत्यं तथाङ्गलैः ॥ २०४ ॥ पञ्चविंशाधिकैर्हस्तैरे कत्रिंशच्छतैर्मनोः । परिवर्तनमाख्यातं पञ्चविंशशतैः करैः ॥ २०५ ॥ प्राजापत्यं, पादहीनचतुर्लक्षयवैर्मनोः । अशीत्यधिकसाहस्त्रचतुर्लक्षयवैः परम् ॥ २०६ ॥ निवर्त्तनानि द्वात्रिंशन्मनुमानेन तस्य वै। चतुःसहस्त्रहस्ताः स्युर्दण्डाश्चाष्टशतानि हि ॥ २०७ ॥ पञ्चविंशतिभिर्दण्डैर्भुजः स्यात् परिवत्र्त्तने। कर्ररयुतसंख्याकैः क्षेत्रं तस्य प्रकीर्त्तितम् ॥ २०८ ॥ चतुर्भुजैः समं प्रोक्तं कष्टभूपरिवर्तनम् । प्राजापत्येन मानेन भूभागहरणं नृपः ॥ २०९ ॥ सदा कुर्य्याच्च स्वापत्तौ मनुमानेन नान्यथा । लोभात् सङ्कर्ययेद् यस्तु हीयते सप्रजो नृपः ॥ २१० ॥ न दद्याद् द्व्यङ्गलमपि भूमेः स्वत्वनिवर्त्तनम् । वृत्त्यर्थं कल्पयेद् वापि यावद् ग्राहस्तु जीवति ॥ २११ ॥ गुणी तावद् देवतार्थं विसृजेच्च सदैव हि। आरामार्थं गृहार्थं वा दद्याद् दृष्ट्वा कुटुम्बिनम् ॥ २१२ ॥ नानावृक्षलताकीर्णे पशुपक्षिगणावृते । सुबहूदकधान्ये च तृणकाष्ठसुखे सदा ॥ २१३ ॥ आसिन्धुनौगमाकूले नातिदूरमहीधरे । सुरम्यसमभूदेशे राजधानीं प्रकल्पयेत् ॥ २१४ ॥ अर्द्धचन्द्रां वर्तुलां वा चतुरश्रां सुशोभनाम्। सप्राकारां सपरिखां ग्रामादीनां निवेशिनीम् ॥ २१५ ॥ सभामध्यां कूपवापीतडागादियुतां सदा। चतुर्दिक्षु चतुर्द्वारा सुमार्गारामवीथिकाम् ॥ २१६ ॥ दृढसुरालयमठपान्यशालाविराजिताम् । कल्पयित्वा वसेत् तत्र सुगुप्तः सप्रजो नृपः ॥ २१७ ॥ राजगृहं सभामध्यं गवाश्वगजशालिकम् । प्रशस्तवापीकूपादिजलयन्त्रैः सुशोभितम् ॥ २१८ ॥ सर्वतः स्यात् समभुजं दक्षिणोच्चमुदड्नतम् । शालां विना नैकभुजं तथा विषमबाहुकम् ॥ २१९ ॥ प्रायः शाला नैकभुजा चतुःशालं विना शुभा। शस्त्रास्त्रधारिसंयुक्तप्राकारं सुष्ठुयन्त्रकम् ॥ २२० ॥ सत्रिकक्षचतुर्द्वारं चतुर्दिक्षु सुशोभितम् । दिवा रात्रौ सशस्त्रास्त्रैः प्रतिकक्षासु गोपितम् ॥ २२१ ॥ चतुर्भिः पञ्चभिः षड्भिर्यामिकैः परिवर्त्तकैः । नानागृहोपकार्य्याट्टसंयुतं कल्पयेत् सदा ॥ २२२ ॥ वस्त्रादिमार्जनार्थञ्च स्नानार्थं यजनार्थकम् । भोजनार्थञ्च पाकार्थं पूर्वस्यां कल्पयेत् गृहान् ॥ २२३ ॥ अन्वयः निद्रार्थञ्च विहारार्थं पानार्थं रोदनार्थकम् । धान्यार्थं घरटाद्यर्थं दासीदासार्थमेव च ॥ २२४ ॥ उत्सर्गार्थं गृहान् कुर्य्याद्दक्षिणस्यामनुक्रमात् । गोमृगोष्ट्रगजाद्यर्थं गृहान् प्रत्यक् प्रकल्पयेत् ॥ २२५ ॥ रथवाज्यस्त्रशस्त्रार्थं व्यायामायामिकार्थकम् । वस्त्रार्थकन्तु द्रव्यार्थं विद्याभ्यासार्थमेव च ॥ २२६ ॥ उदग्गृहान् प्रकुर्वीत सुगुप्तान् सुमनोहरान् । यथा सुखानि वा कुर्य्याद् गृहाण्येतानि वै नृपः ॥ २२७ ॥ धर्माधिकरणं शिल्पशालां कुर्य्यादुदग्गृहात् । पञ्चमांशाधिकोच्छ्राया भित्तिर्विस्तारतो गृहे ॥ २२८ ॥ कोष्ठविस्तारषष्ठांशस्थूला सा च प्रकीर्त्तिता । एकभूमेरिदं मानमूर्ध्वमूर्ध्व समन्ततः ॥ २२९ ॥ स्तम्भैश्च भित्तिभिर्वापि पृथक्कोष्ठानि संन्यसेत् । त्रिकोष्ठं पञ्चकोष्ठं वा सप्तकोष्ठं गृहं स्मृतम् ॥ २३० ॥ द्वारार्थमष्टधा भक्तं हारस्यांशौ तु मध्यमौ । द्वौ द्वौ ज्ञेयौ चतुर्दिक्षु धनपुत्रप्रदौ नृणाम् ॥ २३१ ॥ तत्रैव कल्पयेद्द्वारं नान्यथा तु कदाचन । वातायनं पृथक्कोष्ठे कुर्य्याद् यादृक् सुखावहम् ॥ २३२ अन्यगृहद्वारविद्धं गृहद्वारं न चिन्तयेत् । गृहकोणस्तम्भमार्गपीठकूपैश्च वेधितम् ॥ २३३ ॥ प्रासादमण्डपद्वारे मार्गवेधो न विद्यते । गृहपीठं चतुर्थांशमुच्छ्रायस्य प्रकल्पयेत् ॥ २३४ ॥ प्रासादानां मण्डपानामर्द्धाशं वापरे जगुः । परवातायनैर्विद्धं नापि वातायनं स्मृतम् ॥ २३५ ॥ विस्तारार्धांशमध्योच्चा छदिः खर्परसम्भवा । पतितन्तु जलं तस्यां सुखं गच्छति वाप्यधः ॥ २३६ ॥ हीना निम्ना छदिर्न स्यात् तादृक् कोष्ठस्य विस्तरः । स्वोच्छ्रायस्यार्द्धमूलो वा प्राकारः सममूलकः ॥ २३७ ॥ तृतीयांशकमूलो वा ह्युच्छ्रायार्द्धप्रविस्तरः । उच्छ्रितस्तु तथा कार्यो दस्युभिर्न विलङ्घयते ॥ २३८ ॥ यामिकैः रक्षितो नित्यं नालिकास्त्रैश्च संयुतः । सुबहुदृढगुल्मश्च सुगवाक्षप्रणालिकः ॥ २३९ ॥ स्वहीनप्रतिप्राकारो हासमीपमहीधरः । परिखा च ततः कार्ष्या खाताद् द्विगुणविस्तरा ॥ २४० ॥ नातिसमीपप्राकारा ह्यगाधसलिला शुभा । युद्धसाधनसम्भारैः सुयुद्धकुशलैर्विना ॥ २४१ ॥ न श्रेयसे दुर्गवासो राज्ञः स्याद् बन्धनाय सः। राज्ञा राजसभा कार्य्या सुगुप्ता सुमनोरमा ॥ २४२ ॥ त्रिकोष्ठैः पञ्चकोष्ठर्वा सप्तकोष्ठैः सुविस्तृता । दक्षिणोदक् तथा दीर्घा प्राक्प्रत्यग् द्विगुणाथवा ॥ २४३ ॥ त्रिगुणा वा यथा काममेकभूमिर्द्धिभूमिका। त्रिभूमिका वा कर्त्तव्या सोपकार्य्या शिरोगृहा ॥ २४४ ॥ परितः प्रतिकोष्ठे तु वातायनविराजिता । पार्श्वकोष्ठात् तु द्विगुणो मध्यकोष्ठस्य विस्तरः ॥ २४५ ॥ पञ्चमांशाधिकं तूच्वं मध्यकोष्ठस्य विस्तरात् । विस्तारेण समं तूच्चं पञ्चमांशाधिकन्तु वा ॥ ४४६ ॥ कोष्ठकानाञ्च भूमिर्वा छदिर्वा तत्र कारयेत् । द्विभूमिके पार्श्वकोष्ठे मध्यमं त्वेकभूमिकम् ॥ २४७ ॥ पृथक्स्तम्भान्तसत्कोष्ठा चतुर्मार्गागमा शुभा। जलोर्ध्वपातियन्त्रैश्च युता सुस्वरयन्त्रकैः ॥ २४८ ॥ वातप्रेरकयन्त्रैश्व यन्त्रैः कालप्रबोधकैः । प्रतिष्ठिता च स्वादशैंस्तथा च प्रतिरूपकैः ॥ २४९ ॥ एवंविधा राजसभा मन्त्रार्था कार्य्यदर्शन । तथाविधामात्यलेख्यसभ्याधिकृतशालिकाः॥ २५० ॥ कर्तव्याश्च पृथक् त्वेतास्तदर्थाश्व पृथक् पृथक् । शतहस्तमितां भूमि त्यक्त्वा राजगृहात् सदा ॥ २५१ ॥ उदग्द्विशतहस्तां प्राक् सेनासंवेशनार्थिकाम् । आराद्राजगृहस्यैव प्रजानां निलयानि च ॥ २५२ ॥ सधनश्रेष्ठजात्यानुक्रमतश्च सदा बुधः । समन्ताच्च चतुर्दिक्षु विन्यसेच्च ततः परम् ॥ २५३ ॥ प्रकृत्यनुप्रकृतयो ह्यधिकारिगणस्ततः । सेनाधिपाः पदातीनां गणः सादिगणस्ततः ॥ २५४ ॥ साश्वश्च सगजश्चापि गजपालगणस्ततः । बृहन्नालिकयन्त्राणि ततः स्वतुरगीगणः ॥ २५५ ॥ ततः स्वगौल्मिकगणो ह्यारण्यकगणस्ततः । क्रमादेषां गृहाणि स्युः शोभनानि पुरे सदा ॥ २५६ ॥ पान्थशाला ततः कार्य्या सुगुप्ता सुजलाशया । सजातीयगृहाणां हि समुदायेन प‌ङ्क्तितः ॥ २५७ ॥ निवेशनं पुरे ग्रामे प्रागुदङ्‌मुखमेव वा । सजातिपण्यनिवहैरापणे पण्यवेशनम् ॥ २५८ ॥ धनिकादिक्रमेणैव राजमार्गस्य पार्श्वयोः । एवं हि पत्तनं कुर्य्यात् ग्रामञ्चैव नराधिपः ॥ २५९ ॥ राजमार्गास्तु कर्तव्याश्चतुर्दिक्षु नृपगृहात् । उत्तमो राजमार्गस्तु त्रिंशद्धस्तमितो भवेत् ॥ २६० ॥ मध्यमो विंशतिकरो दशपञ्चकरोऽधमः पण्यमार्गास्तथा चैते पुरग्रामादिषु स्थिताः ॥ २६१ ॥ करत्रयात्मिका पद्या वीथिः पञ्चकरात्मिका । मार्गों दशकरः प्रोक्तो ग्रामेषु नगरे च ॥ २६२ ॥ प्राक् पश्चाद्दक्षिणोदक् तान् ग्राममध्यात् प्रकल्पयेत् । पुरं दृष्ट्वा राजमार्गान् सुबहून् कल्ययेन्नृपः ।॥ २६३ ॥ न वीथि न च पद्यां हि राजधान्यां प्रकल्पयेत् । षड्‌योजनान्तरेऽरण्ये राजमार्गन्तु चोत्तमम् ॥ २६४ ॥ कल्पयेत् मध्यमं मध्ये तयोर्मध्ये तथाधमम् । दशहस्तात्मकं नित्यं ग्रामे ग्रामे नियोजयेत् ॥ २६५ ॥ कूर्म्मपृष्ठा मार्गभूमिः कार्या ग्राम्यैः सुसेतुका । कुर्य्यान्मार्गान् पार्श्वखातान्निर्गमार्थं जलस्य च ॥ २६६ ॥ राजमार्गमुखानि स्युर्गृहाणि सकलान्यपि । गृहपृष्ठे सदा वीथिर्मलनिर्हरणस्थलम् ॥ २६७ ॥ प‌ङ्क्तिद्वयगतानां हि गेहानां कारयेत् तथा। मार्गान् सुधाशर्करैर्वा घटितान् प्रतिवत्सरम् ॥ २६८ ॥ अभियुक्तनिरुद्धैर्वा कुर्य्यात् ग्राम्यजनैर्नृपः । ग्रामद्वयान्तरे चैव पान्थशालां प्रकल्पयेत् ॥ २६९ ॥ नित्यं सम्मार्जिताञ्चैव ग्रामपैश्च सुगोपिताम् । तत्रागतन्तु सम्पृच्छेत् पान्थं शालाधिपः सदा ॥ २७० ॥ प्रयातोऽसि कुतः कस्मात् क्व गच्छसि ऋतं वद। ससहायोऽसहायो वा किं सशस्त्रः सवाहनः ॥ २७१ ॥ का जातिः किं कुलं नाम स्थितिः कुत्रास्ति ते चिरम् । इति पृष्ट्वा लिखेत् सायं शस्त्रं तस्य प्रगृह्य च ॥ २७२ ॥ सावधानमना भूत्वा स्वापं कुर्विति शासयेत् । तत्रस्थान् गणयित्वा तु शालाद्वारं पिधाय च ॥ २७३ ॥ संरक्षयेद् यामिकैश्च प्रभाते तान् प्रबोधयेत् । शस्त्रं दद्याच्च गणयेद् द्वारमुद्घाट्य मोचयेत् ॥ २७४ ॥ कुर्य्यात् सहायं सीमान्तं तेषां ग्राम्यजनः सदा। प्रकुर्य्याद्दिनकृत्यन्तु राजधान्यां वसन्नृपः ॥ २७५ ॥ उत्थाय पश्चिमे यामे मुहूर्तद्वितयेन वै। नियतायश्च कत्यस्ति व्ययश्च नियतः कति ॥ २७६ ॥ कोशभूतस्य द्रव्यस्य व्ययः कति गतस्तथा । व्यवहारे मुद्रिताय व्ययशेषं कतीति च ॥ २७७ ॥ प्रत्यक्षतो लेखतश्च ज्ञात्वा चाद्य व्ययः कति । भविष्यति च तत्तुल्यं द्रव्यं कोशात् तु निर्हरेत् ॥ २७८ ॥ पश्चात्तु वेगनिर्मोक्षं स्नानं मौहूर्त्तिकं मतम् । सन्ध्यापुराणदानैश्च मुहूर्त्तद्वितयं नयेत् । गवाश्वयानव्यायामैर्नयेत् प्रातर्मुहूर्त्तकम् ॥ २७९ ॥ धान्यवस्त्रस्वर्णरत्नसेनादेशविलेखनैः आयव्ययैर्मुहूर्तानां चतुष्कन्तु नयेत् सदा। पारितोषिकदानेन मुहूर्त्तन्तु नयेत् सुधीः । स्वस्थचित्तो भोजनेन मुहूर्त ससुहन्नृपः ॥ २८१ ॥ प्रत्यक्षीकरणाज्जीर्णनवीनानां मुहूर्त्तकम् । ततस्तु प्रा‌ड्विवाकादिबोधितव्यवहारतः ॥ २८२ ॥ मुहूर्त्तद्वितयञ्चैव मृगयाक्रीडनैर्नयेत् । व्यूहाभ्यासैर्मुहूर्त्तन्तु मुहूर्त सन्ध्यया ततः ॥ २८३ ॥ मुहूर्त भोजनेनैव द्विमुहूर्त्तञ्च वार्त्तया। गूढचारैः श्रावितया निद्रयाष्टमुहूर्त्तकम् ॥ २८४ ॥ एवं विहरतो राज्ञः सुखं सम्यक् प्रजायते । अहोरात्रं विभज्यैवं त्रिंशद्धिस्तु मुहूर्त्तकैः ॥ २८५ ॥ नयेत् कालं वृथा नैव नयेत् स्त्रीमद्यसेवनैः । यत्काले हाचितं कर्तुं तत्कार्य्य द्रागशङ्कित्तम् ॥ २८६ ॥ काले वृष्टिः सुपोषाय ह्यन्यथा सुविनाशिनी । कार्य्यस्थानानि सर्वाणि यामिकैरभितोऽनिशम् ॥ २८७ ॥ नयवान् अनीतिनतिवित् सिद्धशस्त्रादिकैर्वरैः । चतुर्भिः पञ्चभिर्वापि षड्भिर्वा गोपयेत् सदा ॥ २८८ ॥ तत्रत्यानि दैनिकानि शृणुयाल्लेखकाधिपैः । दिने दिने यामिकानां प्रकुर्य्यात् परिवर्त्तनम् ॥ गृहप‌ङ्क्तिमुखे द्वारं कर्त्तव्यं यामिकैः सदा। तैस्तवृत्तन्तु शृणुयात् गृहस्थभूतिपोषितैः ॥ निर्गच्छन्ति च ये ग्रामाद् ये ग्रामं प्रविशन्ति च। तान् सुसंशोध्य यत्लेन मोचयेद्दत्तलग्नकान् ॥ प्रख्यातवृत्तशीलांस्तु ह्यविमृष्य विमोचयेत् । वीथिवीथिषु यामाद्वैर्निशिपर्यटनं सदा ॥ कर्त्तव्यं यामिकैरेव चौरजारनिवृत्तये । शासनं त्वीदृशं कार्यं राज्ञा नित्यं प्रजासु च ॥ दासे भृत्येऽथ भार्य्यायां पुत्रे शिष्येऽपि वा क्वचित्। वाग्दण्डपरुषं नैव कार्य्य मद्देशसंस्थितैः ॥ तुलाशासनमानानां नाणकस्यापि वा क्वचित् । निर्यासनाञ्च धातूनां सजातीनां घृतस्य च ॥ मधुदुग्धवसादीनां पिष्टादीनाञ्च सर्वदा। कूटं नैव तु कार्यं स्याद् बलाच्च लिखितं जनैः ॥ उत्कोचग्रहणं नैव स्वामिकार्य्यविलोभनम् । दुर्वृत्तकारिणञ्चोरं जारं मद्वेषिणं द्विषम् ॥ न रक्षन्त्वप्रकाशं हि तथान्यानपकारकान् । मातृणां पितृणाञ्चैव पूज्यानां विदुषामपि ॥ नावमानं नोपहासं कुर्युः सवृत्तशालिनाम् । न भेदं जनयेयुर्वै नृनाय्यर्योः स्वामिभृत्ययोः ॥ भ्रातृणां गुरुशिष्याणां न कुर्युः पितृपुत्रयोः । वापीकूपारामसीमाधर्मशालासुरालयान् ॥ प्रबाधेयुर्हीनाङ्गविकलाङ्गकान् । मार्गान्नैव द्यूतञ्च मद्यपानञ्च मृगयां शस्त्रधारणम् ॥ गोगजाश्वोष्ट्रमहिषीनृणां वै स्थावरस्य च। रजतस्वर्णरत्नानां मादकस्य विषस्य च ॥ क्रयो वा विक्रयो वापि मद्यसन्धानमेव च। क्रयपत्रं दानपत्रमृणनिर्णयपत्रकम् ॥ राजाज्ञया विना नैव जनैः कार्यं चिकित्सितम् । महापापाभिशपनं निधिग्रहणमेव च ॥ नवसमाजनियमं निर्णयं याति दूषणम् । अस्वामिनाष्टिकधनसङ्ग्रहं मन्त्रभेदनम् ॥ नृपदुर्गुणालापन्तु नैव कुर्युः कदाचन। स्वधर्महानिमनृतं परदाराभिमर्शनम् ॥ कूटसाक्ष्यं कूटलेख्यमप्रकाशप्रतिग्रहम् । निर्धारितकराधिक्यं स्तेयं साहसमेव च ॥ मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च। भृत्या शुल्केन भागेन वृद्धया दर्पाद् बलाच्छलात् ॥ आधर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा। परिमाणोन्मानमानं धार्यं राजविमुद्रितम् ॥ गुणसाधनसन्दक्षा भवन्तु निखिला जनाः । साहसाधिकृते दद्युर्विनिगृह्याततायिनम् ॥ उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्याः सुयन्त्रिताः । इति मच्छासनं श्रुत्वा येऽन्यथा वर्त्तयन्ति तान् ॥ विनिशिष्यामि दण्डेन महता पापकारकान् । इति प्रबोधयेन्नित्यं प्रजाः शासनडिण्डिमैः ॥ लिखित्वा शासनं राजा धारयीत चतुष्पथे । सदा चोद्यतदण्डः स्यादसाधुषु च शत्रुषु ॥ प्रजानां पालनं कार्य्य नीतिपूर्वं नृपेण हि। मार्गसंरक्षणं कुर्यान्नृपः पान्थसुखाय च ॥ पान्थप्रपीडका ये ये हन्तव्यास्ते प्रयत्नतः । त्रिभिरंशैर्बलं धार्यं दानमर्द्धाशकेन च ॥ अद्धशिन प्रकृतयो ह्यद्धद्धृशेनाधिकारिणः । अद्धशिनात्मभोगश्च कोशोंऽशेन च रक्ष्यते ॥ आयस्यैवं ष‌ड्विभागैर्व्ययं कुर्य्यात् तु वत्सरे । सामन्तादिषु धर्मोऽयं न न्यूनस्य कदाचन ॥ राज्यस्य यशसः कीर्तेर्धनस्य च गुणस्य च। प्राप्तस्य रक्षणेऽन्यस्य हरणे चोद्यमोऽपि च ॥ संरक्षणे संहरणे सुप्रयत्नो भवेत् सदा । शौर्य्यपाण्डित्यवक्तृत्वं दातृत्वं न त्यजेत् क्वचित् ॥ बलं पराक्रमं नित्यमुत्थानञ्चापि भूमिपः । समितौ स्वात्मकायें वा स्वामिकायें तथैव च ॥ त्यक्त्वा प्राणभयं युध्येत् स शूरस्त्वविशङ्कितः । पक्षं सन्त्यज्य यत्लेन बालस्यापि सुभाषितम् ॥ गृह्णाति धर्मतत्त्वञ्च व्यवस्यति स पण्डितः । राज्ञोऽपि दुर्गुणान् वक्ति प्रत्यक्षमविशङ्कित्तः ॥ स वक्ता गुणतुल्यांस्तान्न प्रस्तौति कदाचन । अदेयं यस्य नैवास्ति भार्य्यापुत्रादिकं धनम् ॥ आत्मानमपि सन्दत्ते पात्रे दाता स अशङ्कितक्षमो येन कार्य्य कर्तुं बलं हि तत् ॥ ३२४ ॥ उच्यते ॥ किङ्करा इव येनान्ये नृपाद्याः स पराक्रमः । युद्धानुकूलव्यापार उत्थानमिति कीर्त्तितम् ॥ विषदोषभयादन्नं विमृशेत् कपिकुक्कुटैः । हंसाः स्खलन्ति कूजन्ति भृङ्गा नृत्यन्ति मायूराः ॥ विरौति कुक्कुटो माद्येत् क्रौञ्चो वै रेचते कपिः । हृष्टरोमा भवेद् बभ्रुः सारिका वमते तथा ॥ दृष्ट्वैवं सविषं चान्नं तस्माद् भोज्यं परीक्षयेत् । भुञ्जीत षड्रसं नित्यं न द्वित्रिरससङ्कुलम् ॥ हीनातिरिक्तं कटुमधुर क्षारसङ्कलम् । न आवेदयति यत्कार्य्य शृणुयान्मन्त्रिभिः सह ॥ आरामादौ प्रकृतिभिः स्त्रीभिश्च नटगायकैः । विहरेत् सावधानस्तु मागधैरैन्द्रजालिकैः ॥ गजाश्वरथयानं तु प्रातः सायं सदाभ्यसेत् । व्यूहाभ्यासं सैनिकानां स्वयं शिक्षेच्च शिक्षयेत् ॥ व्याघ्रादिभिर्वनचरैर्मयूराद्यैश्च पक्षिभिः । क्रीडयेत् मृगयां कुर्य्याद् दुष्टसत्त्वान्निपातयन् ॥ शौर्य्य प्रवर्द्धते नित्यं लक्ष्यसन्धानसाधनम् । अकातरत्वं शस्त्रास्त्रशीघ्रपातनकारिता ॥ मृगयायां गुणा एते हिंसादोषो महत्तरः । इङ्गितं चेष्टितं यत्नात् प्रजानामधिकारिणाम् ॥ प्रकृतीनाञ्च शत्रूणां सैनिकानां मतञ्च यत्। सभ्यानां बान्धवानाञ्च स्त्रीणामन्तःपुरे च यत् ॥ शृणुयाद् गूढचारेभ्यो निशि चात्ययिके सदा। सावधानमनाः सिद्धशस्त्रास्त्रः संलिखेच्च तत् ॥ असत्यवादिनं गूढचारं नैव च शास्ति यः । स नृपो म्लेच्छ इत्युक्तः प्रजाप्राणधनापहः ॥ वर्णि-तपस्वि-सन्यासि-नीच-सिद्धस्वरूपिणम् । प्रत्यक्षेण छलेनैव गूढचारं विशोधयेत् ॥ विना तच्छोधनात् तत्त्वं न जानाति च नाप्यते । अशोधकनृपान्नैव बिभ्यत्यनृतवादने ॥ प्रकृतिभ्योऽधिकृतेभ्यो गूढचारं सुरक्षयेत् । सदैकनायकं राज्यं कुर्य्यान्न बहुनायकम् ॥ नानायकं क्वचिदपि कर्तुमीहेत भूमिपः । राजकुले तु बहवः पुरुषाः यदि सन्ति हि ॥ तेषु ज्येष्ठो भवेद्राजा शेषास्तत्कार्य्यसाधकाः । गरीयांसो वराः सर्वसहायेभ्योऽभिवृद्धये ॥ ज्येष्ठोऽपि बधिरः कुष्ठी मूकोऽन्धः षण्ड एव यः । स राज्याहों भवन्नैव भ्राता तत्पुत्र एव हि ॥ स्वकनिष्ठोऽपि ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यभाक् । यथाग्रजस्य चाभावे कनिष्ठा राज्यभागिनः । दायादानामैकमत्यं राज्ञः श्रेयस्करं परम् ॥ पृथग्भावो विनाशाय राज्यस्य च कुलस्य च। अतः स्वभोगसदृशान् दायादान् कारयेन्नृपः । अव्याहताज्ञः सन्तुष्येत् छत्रसिंहासनैरपि ॥ राज्यविभजनाच्छ्रेयो न भूपानां भवेत् खलु । अल्पीकृतं विभागेन राज्यं शत्रुजिघृक्षति ॥ राज्यतुर्थ्यांशदानेन स्थापयेत् तान् समन्ततः । चतुर्दिक्ष्वथवा देशाधिपान् कुर्य्यात् सदा नृपः ॥ गोगजाश्वोष्ट्रकोशानामाधिपत्ये नियोजयेत् । माता मातृसमा या च सा नियोज्या महानसे ॥ सेनाधिकारे संयोज्या बान्धवाः श्यालकाः सदा। स्वदोषदर्शकाः कार्या गुरवः सुहृदश्च ये ॥ वस्त्रालङ्कारपात्राणां स्त्रियो योज्याः सुदर्शन । स्वयं सर्वन्तु विमृशेत् पर्यायेण च मुद्रयेत् ॥ अन्तर्वेश्मनि रात्रौ वा दिवारण्ये विशोधिते । मन्त्रयेन्मन्त्रिभिः सार्द्धं भाविकृत्यन्तु निर्जने ॥ सुहृद्धिर्भातृभिः सार्द्धं सभायां पुत्रबान्धवैः । राजकृत्यं सेनपैश्च सभ्याद्यौश्चिन्तयेत् सदा ॥ सभायां प्रत्यगर्द्धस्य मध्ये राजासनं स्मृतम्। दक्षसंस्था वामसंस्था विशेयुः पार्श्वकोष्ठगाः ॥ पुत्राः पौत्रा भ्रातरश्च भागिनेयाः स्वपृष्ठतः । दौहित्रा दक्षभागात् तु वामसंस्था क्रमादिमे ॥ पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधिपास्तथा । स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथगासनाः ॥ मातामहकुलश्रेष्ठा मन्त्रिणो बान्धवास्तथा। श्वशुराश्चैव श्यालाश्च वामाग्रे चाधिकारिणः ॥ वामदक्षिणपार्श्वस्थौ जामाता भगिनीपतिः । स्वसदृशः समीपे वा स्वार्द्धासनगतः सुहृत् ॥ दौहित्रभागिनेयानां स्थाने स्युर्दत्तकादयः । भागिनेयाश्च दौहित्राः पुत्रादिस्थानसंश्रिताः ॥ यथा पिता तथाचार्य्यः समश्रेष्ठासने स्थितः । पार्श्वयोरग्रतः सर्वे लेखका मन्त्रिपृष्ठगाः ॥ परिचारगणाः सर्वे सर्वेभ्यः पृष्ठसंस्थिताः । स्वर्णदण्डधरौ पार्श्वे प्रवेशनतिबोधकौ ॥ विशिष्टचिह्नयुग्राजा स्वासने प्रविशेत् सुखम् । सुभूषणः सुकवचः सुवस्त्रो मुकुटान्वितः ॥ सिद्धास्त्रो नग्नशस्त्रः सन् सावधानमनाः सदा । सर्वस्मादधिको दाता शूरस्त्वं धार्मिको ह्यसि ॥ इति वाचं न शृणुयाच्छ्रावका वञ्चकास्तु ये। रागाल्लोभाद्भयाद्राज्ञः स्युर्मूका इव मन्त्रिणः ॥ न ताननुमतान् विद्यान्नृपतिः स्वार्थसिद्धये । पृथक्पृथङ्मतं तेषां लेखयित्वा ससाधनम् ॥ विमृशेत् स्वमतेनैव यत् कुर्य्याद् बहुसम्मतम् । गजाश्वरथपश्वादीन् भृत्यान् दासांस्तथैव च ॥ सम्भारान् सैनिकान् कार्य्याक्षमान् ज्ञात्वा दिने दिने। संरक्षयेत् प्रयत्नेन सुजीर्णान् सन्त्यजेत् सुधीः ॥ अयुतक्रोशजां वार्ता हरेदेकदिनेन वै। सर्वविद्याकलाभ्यासे शिक्षयेद् भृतिपोषितान् ॥ समाप्तविद्यं सन्दृष्ट्‌वा तत्कायें तं नियोजयेत् । विद्याकलोत्तमान् दृष्ट्वा वत्सरे पूजयेच्च तान् ॥ विद्याकलानां वृद्धिः स्यात्तथा कुर्य्यान्नृपः सदा । पृष्ठाग्रगान् क्रूरवेशान्नतिनीतिविशारदान् ॥ सिद्धास्त्रनग्नशस्त्रांश्च भटानारान्नियोजयेत् । पुरे पर्यटयेन्नित्यं गजस्थो रञ्जयन् प्रजाः ॥ राजयानारूढितः किं राज्ञा श्वा न समोऽपि च। शुना समो न कि राजा कविभिर्भाव्यतेऽञ्जसा ॥ अतः स्वबान्धवैर्मित्रैः स्वसाम्यप्रापितैर्गुणैः । प्रकृतिभिर्नृपो गच्छेन्न नीचैस्तु कदाचन ॥ मिथ्यासत्यसदाचारैर्नीचः साधुः क्रमात् स्मृतः । साधुभ्योऽतिस्वमृदुत्वं नीचाः सन्दर्शयन्ति हि ॥ ग्रामान् पुराणि देशांश्च स्वयं संवीक्ष्य वत्सरे। अधिकारिगणैः काश्च रञ्जिताः काश्च कर्षिताः ॥ प्रजास्ताः साधुभूतेन व्यवहारं विचिन्तयेत् । न भृत्यपक्षपाती स्यात् प्रजापक्षं समाश्रयेत् ॥ प्रजाशतेन सन्द्विष्टं सन्त्यजेदधिकारिणम् । अमात्यमपि संवीक्ष्य सकृदन्यायगामिनम् ॥ एकान्ते दण्डयेत् स्पष्टमभ्यासापकृतं त्यजेत् । अन्यायवर्त्तिनां राज्यं सर्वस्वञ्च हरेन्नृपः ॥ जितानां विषये स्थाप्यं धर्माधिकरणं सदा । भृतिं दद्यान्निर्जितानां तच्चरित्रानुरूपतः ॥ स्वानुरक्तां सुरूपाञ्च सुवस्त्रां प्रियवादिनीम् । सुभूषणां सुसंशुद्धां प्रमदां शयने भजेत् ॥ यामद्वयं शयानञ्च ह्यत्यन्तं सुखमश्नुते । न सन्त्यजेच्च स्वस्थानं नीत्या शत्रुगणं जयेत् ॥ स्थानभ्रष्टा नो विभान्ति दन्ताः केशा नखा नृपाः । संश्रयेद् गिरदुर्गाणि महापदि नृपः सदा ॥ तदाश्रयाद् दस्युवृत्त्या स्वराज्यन्तु समाहरेत् । विवाहदानयज्ञार्थं विनाप्यष्टांशशेषितम् ॥ सर्वतस्तु हरेद् दस्युरसतामखिलं धनम्। नैकत्र संवसेन्नित्यं विश्वसेन्नैव कं प्रति ॥ सदैव सावधानः स्यात् प्राणनाशं न चिन्तयेत् । क्रूरकर्मा सदोद्युक्तो निघृणो दस्युकर्मसु ॥ विमुखः परदारासु कुलकन्याप्रदूषणे । पुत्रवत् पालिता भृत्याः समये शत्रुतां गताः ॥ न दोषः स्यात् प्रयत्नस्य भागधेयं स्वयं हि तत् । दृष्ट्वा सुविफलं कर्म तपस्तप्त्वा दिवं व्रजेत् ॥ उक्तं समासतो राजकृत्यं मिश्रेऽधिकं ब्रुवे। अध्यायः प्रथमः प्रोक्तो राजकार्य्यनिरूपकः ॥ ==द्वितीय अध्याय== यद्यप्यल्पतरं कर्म तदप्येकेन दुष्करम् । पुरुषेणासहायेन किमु राज्यं महोदयम् ॥ सर्वविद्यासु कुशलो नृपो ह्यपि सुमन्त्रवित् । मन्त्रिभिस्तु विना मन्त्रं नैकोऽर्थं चिन्तयेत् क्वचित् ॥ सभ्याधिकारिप्रकृतिसभासत्सुमते स्थितः । सर्वदा स्यान्नृपः प्राज्ञः स्वमते न कदाचन ॥ प्रभुः स्वातन्त्र्यमापन्नो हानर्थायैव कल्पते । भिन्नराष्ट्रो भवेत् सद्यो भिन्नप्रकृतिरेव च ॥ पुरुषे पुरुषे भिन्नं दृश्यते बुद्धिवैभवम् । आप्तवाक्यैरनुभवैरागमैरनुमानतः ॥ प्रत्यक्षेण च सादृश्यैः साहसैश्च छलैर्बलैः । वैचित्र्यं व्यवहाराणामौन्नत्यं गुरुलाघवैः ॥ न हि तत् सकलं ज्ञातुं नरेणैकेन शक्यते । अतः सहायान् वरयेद्राजा राज्यविवृद्धये ॥ कुलगुणशीलवृद्धान् शूरान् भक्तान् प्रियंवदान् । हितोपदेशकान् क्लेशसहान् धर्म्मरतान् सदा ॥ कुमार्गगं नृपमपि बुद्धयोद्धर्तुं क्षमान् शुचीन् । निर्मत्सरान् कामक्रोधलोभहीनान्निरालसान् ॥ हीयते कुसहायेन स्वधर्माद्राज्यतो नृपः । कुकर्मणा प्रनष्टास्तु दितिजाः कुसहायतः ॥ नष्टा दुर्योधनाद्यास्तु नृपाः शूरा बलाधिकाः । निरभिमानो नृपतिः सुसहायो भवेदतः ॥ युवराजोऽमात्यगणो भुजावेतौ महीभुजः । तावेव नयने कर्णों दक्षसव्यौ क्रमात् स्मृतौ ॥ बाहुकर्णाक्षिहीनः स्याद् विना ताभ्यामतो नृपः । योजयेच्चिन्तयित्वा तौ महानाशाय चान्यथा ॥ मुद्रां विनाखिलं राजकृत्यं कर्तुं क्षमं सदा। कल्पयेद् युवराजार्थमौरसं धर्मपत्नीजम् ॥ स्वकनिष्ठं पितृव्यं वानुजं वाग्रजसम्भवम् । पुत्रं पुत्रीकृतं दत्तं यौवराज्येऽभिषेचयेत् ॥ क्रमादद्भावे दौहित्रं स्वप्रियं वा नियोजयेत् । स्वहितायापि मनसा नैतान् सङ्कर्षयेत् क्वचित् ॥ स्वधर्मनिरतान् शूरान् भक्तान् नीतिमतः सदा । संरक्षयेद्राजपुत्रान् बालानपि सुयत्नतः ॥ लोलुभ्यमानास्तेऽर्थेषु हन्युरेनमरक्षिताः । रक्ष्यमाणा यदि छिद्रं कथञ्चित् प्राप्नुवन्ति ते ॥ सिंहशावा इव घ्नन्ति रक्षितारं द्विपं द्रुतम् । राजपुत्रा मदोद्भूता गजा इव निरङ्कुशाः ॥ पितरञ्चापि निघ्नन्ति भ्रातरं त्वितरं न किम्। मूर्खे बालोऽपीच्छतिस्म स्वाम्यं किं नु पुनर्युवा ? ॥ स्वात्यन्तसन्निकर्षेण राजपुत्रांस्तु रक्षयेत् । सधृत्यैश्चापि तत् स्वान्तं छलैंर्ज्ञात्वा सदा स्वयम् ॥ सुनीतिशास्त्रकुशलान् धनुर्वेदविशारदान् । क्लेशसहांश्च वाग्दण्डपारुष्यानुभवान् सदा ॥ शौर्य्ययुद्धरतान् सर्वकलाविद्याविदोऽञ्जसः । सुविनीतान् प्रकुर्वीत ह्यमात्याद्यद्यैर्नृपः सुतान् ॥ सुवस्वाद्यैर्भूषयित्वा लालयित्वा सुक्रीडनैः । अर्हयित्वासनाद्यैश्च पालयित्वा सुभोजनैः ॥ कृत्वा तु यौवराज्यार्हान् यौवराज्येऽभिषेचयेत् । अविनीत्कुमारं हि कुलमाशु विनश्यति ॥ राजपुत्रः सुदुर्वृत्तः परित्यागं हि नार्हति। क्लिश्यमानः स पितरं परानाश्रित्य हन्ति हि ॥ व्यसने सज्जमानं तं क्लेशयेद् व्यसनाश्रयैः । दुष्टं गजमिवोद्धृत्तं कुर्वीत सुखबन्धनम् ॥ सुदुर्वृत्तास्तु दायादा हन्तव्यास्ते प्रयत्नतः । व्याघ्रादिभिः शत्रुभिर्वा छलै राष्ट्रविवृद्धये ॥ अतोऽन्यथा विनाशाय प्रजाया भूपतेश्च ते। तोषयेयुर्नृपं नित्यं दायादाः स्वगुणैः परैः ॥ भ्रष्टा भवन्त्यन्यथा ते स्वभागाज्जीवितादपि। स्वसापिण्ड्यविहीना ये हान्योत्पन्ना नराः खलु ॥ मनसापि न मन्तव्या दत्ताद्याः स्वसुता इति। ते दत्तकत्वमिच्छन्ति दृष्ट्वा यद् धनिकं नरम् ॥ स्वकुलोत्पन्नकन्यायाः पुत्रस्तेभ्यो वरो ह्यतः । अङ्गादङ्गात् सम्भवति पुत्रवद् दुहिता नृणाम् ॥ पिण्डदाने विशेषो न पुत्रदौहित्रयोस्त्वतः । भूप्रजापालनार्थं हि भूपो दत्तन्तु पालयेत् ॥ नृपः प्रजापालनार्थं सधनश्चेन्न चान्यथा । परोत्पन्ने स्वपुत्रत्वं मत्वा सर्वं ददाति तम् ॥ किमाश्चर्य्यमता लोके न ददाति यजत्यपि। प्राप्यापि युवराजत्वं प्राप्नुयाद्विकृतिं न च ॥ स्वसम्पत्तिमदान्नैव मातरं पितरं गुरुम् । भ्रातरं भगिनीं वापि हान्यान् वा राजवल्लभान् ॥ महाजनांस्तथा राष्ट्रठे नावमन्येत पीडयेत् । प्राप्यापि महतीं वृद्धि वर्तेत पितुराज्ञया ॥ पुत्रस्य पितुराज्ञा हि परमं भूषणं स्मृतम् । भार्गवेण हता माता राघवस्तु वनं गतः ॥ पितुस्तपोबलात् तौ तु मातरं राज्यमापतुः । शापानुग्रहयोः शक्तो यस्तस्याज्ञा गरीयसी ॥ सोदरेषु च सर्वेषु स्वस्याधिक्यं न दर्शयेत् । भागार्हभ्रातॄणां नष्टो ह्यवमानात् सुयोधनः ॥ पितुराज्ञोल्लङ्घनेन प्राप्यापि पदमुत्तमम् । तस्माद् भ्रष्टा भवन्तीह दासवद्राजपुत्रकाः ॥ ययातेश्च यथा पुत्रा विश्वामित्रसुता यथा। पितृसेवापरस्तिष्ठेत् कायवाड्‌मानसैः सदा ॥ तत्कर्म नियतं कुर्य्याद् येन तुष्टो भवेत् पिता। तन्न कुर्य्याद् येन पिता मनागपि विषीदति ॥ यस्मिन् पितुर्भवेत् प्रीतिः स्वयं तस्मिन् प्रियञ्चरेत् । यस्मिन् द्वेषं पिता कुर्य्यात् स्वस्यापि द्वेष्य एव सः ॥ असम्पतं विरुद्धं वा पितुर्नैव समाचरेत् । चारसूचकदोषेण यदि स्यादन्यथा पिता ॥ प्रकृत्यनुमतं कृत्वा तमेकान्ते प्रबोधयेत् । अन्यथा सूचकान्नित्यं महद्दण्डेन दण्डयेत् ॥ प्रकृतीनाञ्च कपटस्वान्तं विद्यात् सदैव हि। प्रातर्नत्वा प्रतिदिनं पितरं मातरं गुरुम् ॥ राजानं स्वकृतं यद् यद् निवेद्यानुदिनं ततः । एवं गृहाविरोधेन राजपुत्रो वसेद् गृहे ॥ विद्यया कर्मणा शीलैः प्रजाः संरञ्जयन् मुदा। त्यागी च सत्यसम्पन्नः सर्वान् कुर्य्याद्वशे स्वके ॥ शनैः शनैः प्रवर्द्धत शुक्लपक्षमृगाङ्कवत् । एवं वृत्तो राजपुत्रो राज्यं प्राप्याप्यकण्टकम् ॥ सहायवान् सहामात्यश्चिरं भुङ्क्ते वसुन्धराम् । समासतः कार्य्यमुक्तं युवराजस्य यद्धितम् ॥ समासादुच्यते कृत्यममात्यादेश्च लक्षणम् । मृद्गुरुप्रमाणत्ववर्णशब्दादिभिः समम् ॥ परीक्षकैर्द्रावयित्वा यथा स्वर्ण परीक्ष्यते। कर्मणा सहवासेन गुणैः शीलकुलादिभिः ॥ भृत्यं परीक्षयेन्नित्यं विश्वास्यं विश्वसेत् तदा । नैव जातिर्न च कुलं केवलं लक्षयेदपि ॥ कर्मशीलगुणाः पूज्यास्तथा जातिकुले न हि। जात्या न कुलेनैव श्रेष्ठत्वं प्रतिपद्यते ॥ विवाहे भोजने नित्यं कुलजातिविवेचनम्। सत्यवाक् गुणसम्पन्नस्तथाभिजनवान् धनी ॥ सुकुलश्च सुशीलश्च सुकर्मा च निरालसः । यथा करोत्यात्मकार्यं स्वामिकार्य्य ततोऽधिकम् ॥ चतुर्गुणेन यत्नेन कायवाड्‌मानसेन च। भृत्यैव तुष्टो मृदुवाक् कार्यदक्षः शुचिर्दृढः ॥ परोपकरणे दक्षो ह्यपकारपराङ्‌मुखः । स्वाम्यागस्कारिणं पुत्रं पितरं वापि दर्शकः ॥ अन्यायगामिनि पत्यौ बतद्रूपः सुबोधकः । नाक्षेप्ता तहिरं काञ्चित् तन्न्यूनस्याप्रकाशकः ॥ अदीर्घसूत्र सत्काव्यें हासत्काव्यें चिरक्रियः । त‌द्भार्थ्यांपुत्रमित्रछिद्रदर्शी कदाचन ॥ तद्वत् बुद्धिस्तदीयेषु भार्य्यापुत्रादिवन्युषु । न श्लाघते स्पर्द्धते न नाभ्यसूयति निन्दति ॥ नेच्छत्यन्याधिकारं हि निष्पृहो मोदते सदा। तद्दत्तवस्त्रभूषादिधारकस्तत् पुरोऽनिशम् ॥ भृतितुल्यव्ययी दान्तो दयालुः शूर एव हि। तदकार्य्यस्य रहसि सूचको भृतको वरः ॥ विपरीतगुणैरेभिर्भूतको निन्द्य उच्यते। ये भृत्या हीनभृतिका ये दण्डेन प्रकर्षिताः ॥ शठाश्च कातरा लुब्धाः समक्षं प्रियवादिनः । मत्ता व्यसनिनश्वार्ता उत्कोचेष्टाश्च देविनः ॥ नास्तिका दाम्भिकाश्चैवासत्यवाचोऽप्यसूयकाः । ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः ॥ रिपोर्मित्राः सेवकाश्च पूर्ववैरानुबन्धिनः । चण्डाः साहसिका धर्महीना नैते सुसेवकाः । सङ्‌क्षेपतस्तु कथितं सदस‌द्धृत्यलक्षणम् ॥ समासतः पुरोधादिलक्षणं यत् तदुच्यते । पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा ॥ मन्त्री च प्रा‌ड्विवाकश्च पण्डितश्च सुमन्त्रकः । अमात्यो दूत इत्येता राज्ञः प्रकृतयो दश ॥ दशमांशाधिकाः पूर्वं दूतान्ताः क्रमशः स्मृताः । अष्टप्रकृतिभिर्युक्तो नृपः कैश्चित् स्मृतः सदा ॥ सुमन्त्रः पण्डितो मन्त्री प्रधानः सचिवस्तथा। अमात्यः प्राड्विवाकश्च तथा प्रतिनिधिः स्मृतः ॥ एता भृतिसमास्त्वष्टौ राज्ञः प्रकृतयः सदा। इङ्गिताकारतत्त्वज्ञो दूतस्तदनुगः स्मृतः ॥ पुरोधाः प्रथमं श्रेष्ठः सर्वेभ्यो राजराष्ट्रभृत् । तदनु स्यात् प्रतिनिधिः प्रधानस्तदनन्तरम् ॥ सचिवस्तु ततः प्रोक्तो मन्त्री तदनु चोच्यते। प्रा‌ड्विवाकस्ततः प्रोक्तः पण्डितस्तदनन्तरम् ॥ सुमन्त्रस्तु ततः ख्यातो ह्यमात्यस्तु ततः परम् ॥ दूतस्ततः क्रमादेते पूर्वश्रेष्ठा यथा गुणाः ॥ मन्त्रानुष्ठानसम्पन्नस्त्रैविद्यः कर्मतत्परः । जितेन्द्रियो जितक्रोधो लोभमोहविवर्जितः ॥ षडङ्गवित् साङ्गधनुर्वेदविच्चार्थधर्म्मवित् । यत् कोपभीत्या राजापि धर्मनीतिरतो भवेत् ॥ नीतिशस्त्रास्त्रव्यूहादिकुशलस्तु पुरोहितः । सैवाचार्य्यः पुरोधा यः शापानुग्रहयोः क्षमः ॥ विना प्रकृतिसन्मन्त्राद्राज्यनाशो भवेद् ध्रुवम् । रोधनं न भवेत् तस्मात् राज्ञस्ते स्युः सुमन्त्रिणः ॥ न बिभेति नृपो येभ्यस्तैः स्यात् किं राज्यवर्द्धनम् ? यथालङ्कारवस्त्राद्यैः स्त्रियो भूष्यास्तथाहि ते ॥ राज्यं प्रजा बलं कोशः सुनृपत्वं न वर्द्धितम् । यन्मन्त्रतोऽरिनाशस्तैर्मन्त्रिभिः किं प्रयोजनम् ॥ कार्याकार्य्यप्रविज्ञाता स्मृतः प्रतिनिधिस्तु सः । सर्वदर्शी प्रधानस्तु सेनावित् सचिवस्तथा ॥ मन्त्री तु नीतिकुशलः पण्डितो धर्मतत्त्ववित् । लोकशास्त्रनयज्ञस्तु प्राड्विवाकः स्मृतः सदा ॥ देशकालप्रविज्ञाता हामात्य इति कथ्यते । आयव्ययप्रविज्ञाता सुमन्त्रः स च कीर्त्तितः ॥ इङ्गिताकारचेष्टाज्ञः स्मृतिमान् देशकालवित् । षाड्गुण्यमन्त्रविद्वाग्मी वीतभीर्दूत इष्यते ॥ अहितञ्चापि यत्कार्य्य सद्यः कर्तुं यदोचितम् । प्रतिनिधिः सदा। अकर्तुं यद्धितमपि राज्ञः बोधयेत् कारयेत् कुर्य्यान्न कुर्यान्न प्रबोधयेत् ॥ सत्यं वा यदि वासत्यं कार्य्यजातञ्च यत् किल । सर्वेषां राजकृत्येषु प्रधानस्तद्विचिन्तयेत् ॥ गजानाञ्च तथाश्वानां रथानां पदगामिनाम् । सुदृद्धानां तथोष्ट्राणां वृषाणां सद्य एव हि ॥ वाद्यभाषासु सङ्केत्तव्यूहाभ्यसनशालिनाम् । प्राक्प्रत्यग्गामिनां राज्यचिह्नशस्त्रास्त्रधारिणाम् ॥ परिचारगणानां हीनमध्योत्तमकर्मणाम् । अस्त्राणामखजातीनां सङ्घः स्वतुरगीगणः ॥ कार्यक्षमश्च प्राचीनः साद्यस्कः कति विद्यते । कार्यासमर्थः कत्यस्ति शस्त्रगोलाग्निचूर्णयुक् ॥ साङ्ग्रामिकश्च कत्यस्ति सम्भारस्तान् विचिन्त्य च। सचिवश्चापि तत्कार्यं राज्ञे सम्यक् निवेदयेत् ॥ साम दानञ्च भेदश्च दण्डः केषु कदा कथम् । कर्त्तव्यः किं फलं तेभ्यो बहु मध्यं तथाल्यकम् । एतत् सञ्चिन्त्य निश्चित्य मन्त्री सर्वं निवेदयेत् ॥ साक्षिभिर्लिखितैर्भोगैश्छलैर्भूतैश्च मानुषान् । स्वेनोत्पादितसम्प्राप्तव्यवहारान् विचिन्त्य च ॥ दिव्यसंसाधनाद्वापि केषु किं साधनं परम्। युक्तिप्रत्यक्षानुमानोपमानैलोंकशास्त्रतः ॥ बहुसम्मतसंसिद्धान् विनिश्चित्य सभास्थितः । ससभ्यः प्राड्विवाकस्तु नृपं सम्बोधयेत् सदा ॥ वर्तमानाश्च प्राचीना धर्माः के लोकसंश्रिताः । शास्त्रेषु के समुद्दिष्टा विरुध्यन्ते च केऽधुना ॥ लोकशास्त्रविरुद्धाः के पण्डितस्तान् विचिन्त्य च। नृपं सम्बोधयेत् तैश्च परत्रेह सुखप्रदैः ॥ इयच्च सञ्चितं द्रव्यं वत्सरेऽस्मिन् तृणादिकम् । व्ययीभूतमियच्चैव शेषं स्थावरजङ्गमम् । इयदस्तीति वै राज्ञे सुमन्त्रो विनिवेदयेत् ॥ पुराणि च कति ग्रामा अरण्यानिच सन्ति हि। कर्षिता कति भूः केन प्राप्तो भागस्ततः कति ॥ भागशेषं स्थितं कस्मिन् कत्यकृष्टा च भूमिका। भागद्रव्यं वत्सरेऽस्मिन् शुल्कदण्डादिजं कति ॥ अकृष्टपच्यं कति च कति चारण्यसम्भवम् । कति चाकरसञ्जातं निधिप्राप्तं कतीति च ॥ अस्वामिकं कति प्राप्तं नाष्टिकं तस्कराहतम् । सञ्चितन्तु विनिश्वित्यामात्यो राज्ञे निवेदयेत् ॥ समासाल्लक्षणं कृत्यं प्रधानदशकस्य च। उक्तं तल्लिखतैः सर्व विन्द्यात् तदनुदर्शिभिः ॥ परिवर्त्ता नृपो होतान् युज्यादन्योऽन्यकर्मणि ॥ न कुर्य्यात् स्वाधिकबलान् कदापि ह्यधिकारिणः । परस्परं समबलाः कार्याः प्रकृतयो दश ॥ एकस्मिन्नधिकारे तु पुरुषाणां त्रयं सदा। नियुञ्जीत प्राज्ञतमं मुख्यमेकन्तु तेषु वै ॥ द्वौ दर्शकौ तु तत्कार्ये हायनैस्तन्निवर्त्तयेत् । त्रिभिर्वा पञ्चभिर्वापि सप्तभिर्दशभिश्च वा ॥ दृष्ट्वा तत्कार्यकौशल्ये तथा तौ परिवर्त्तयेत् । नाधिकारं चिरं दद्याद्यस्मै कस्मै सदा नृपः ॥ अधिकारे क्षमं दृष्ट्वा ह्यधिकारे नियोजयेत् । अधिकारमदं पीत्वा को न मुह्येत् पुनश्चिरम् ? ॥ अतः कार्य्यक्षमं दृष्ट्वा काव्येंऽन्ये तं नियोजयेत् । तत्कायें कुशलं चान्यं तत्पदानुगतं खलु ॥ नियोजयेद्वत्र्त्तने तु तदभावे तथापरम् । तद्गुणो यदि तत्पुत्रस्तत्कार्ये तं नियोजयेत् ॥ यथा यथा श्रेष्ठपदे हाधिकारी यदा भवेत् । अनुक्रमेण संयोज्यो हह्यन्ते तं प्रकृतिं नयेत् ॥ अधिकारबलं दृष्ट्वा योजयेद्दर्शकान् बहून् । अधिकारिणमेकं वा योजयेद्दर्शकैर्विना ॥ ये चान्ये कर्मसचिवास्तान् सर्वान् विनियोजयेत् । गजाश्वरथपादातपशूष्ट्रमृगपक्षिणाम् ॥ सुवर्णरत्नरजतवस्त्राणामधिपान् पृथक् । वित्तानामधिपं धान्याधिपं कपाकाधिपं तथा ॥ आरामाधिपतिञ्चैव सौधगेहाधिपं पृथक् । सम्भारपं देवतुष्टिपतिं सदा ॥ साहसाधिपतिञ्चैव ग्रामनेतारमेव च। भागहारं तृतीयन्तु लेखकञ्च चतुर्थकम् । शुल्कग्राहं पञ्चमञ्च प्रतिहारं तथैव च ॥ षट्कमेतन्नियोक्तव्यं ग्रामे ग्रामे पुरे पुरे ॥ तपस्विनो दानशीलाः श्रुतिस्मृतिविशारदाः । पौराणिकाः शास्त्रविदो दैवज्ञा मान्त्रिकाश्च ये ॥ आयुर्वेदविदः कर्मकाण्डज्ञास्तान्त्रिकाश्च ये। ये चान्ये गुणिनः श्रेष्ठा बुद्धिमन्तो जितेन्द्रियाः ॥ तान् सर्वान् पोषयेद् भृत्या दानैर्मानैः सुपूजितान् । हीयते चान्यथा राजा ह्यकीर्त्ति वापि वदन्ति ॥ बहुसाध्यानि कार्याणि तेषामप्यधिपांस्तथा । तत्तत्कार्येषु कुशलान् ज्ञात्वा तांस्तु नियोजयेत् ॥ अमत्र्यमक्षरं नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥ प्रभद्रादिजातिभेदं गजानाञ्च चिकित्सितम् । शिक्षां व्याधिं पोषणन्च तालुजिह्वानखैर्गुणान् । आरोहणं गतिं वेत्ति स योज्यो गजरक्षणे ॥ तथाविधाधोरणस्तु हस्तिहृदयहारकः ॥ अश्वानां हृदयं वेत्ति जातिवर्णभ्रमैर्गुणान् । गर्ति शिक्षां चिकित्साञ्च सत्त्वं सारं रुजं तथा ॥ हिताहितं पोषणञ्च मानं यानं दतो वयः । शूख्ठ व्यूहवित् प्राज्ञः कार्योऽश्वाधिपतिश्च सः ॥ एभिर्गुणैश्च संयुक्तो धुर्य्यान् युग्यांश्च वेत्ति यः । रथस्य सारं गमनं भ्रमणं परिवर्तनम् ॥ समापतत्सुशस्त्रास्खलक्ष्यसन्धाननाशकः । रथगत्या स रथपो हयसंयोगगुप्तिवित् ॥ सादिनश्व तथा कार्य्याः शूरा व्यूहविशारदाः । वाजिगतिविदः प्राज्ञाः शस्त्रास्त्रैर्युद्धकोविदाः ॥ चक्रितं रेचितं वल्गितकं धौरितमाप्लुतम् । तुरं मन्दञ्च कुटिलं सर्पणं परिवर्तनम् ॥ एकादशास्कन्दितञ्च गतीरश्वस्य वेत्ति यः । यथावलं यथार्थञ्च शिक्षयेत् स च शिक्षकः ॥ वाजिसेवासु कुशलः पल्याणादिनियोगवित् । दृढाङ्गश्च तथा शूरः स कायों वाजिसेवकः ॥ नीतिशस्त्रास्त्रव्यूहादिनतिविद्याविशारदाः । अबाला मध्यवयसः शूरा दान्ता दृढाङ्गकाः ॥ स्वधर्मनिरता नित्यं स्वामिभक्ता रिपुह्वषः । शूद्रा वा क्षत्रिया वैश्या म्लेच्छा सङ्करसम्भवाः ॥ सेनाधिपाः सैनिकाच कार्य्या राज्ञाः जयर्थिना ॥ पञ्चानामथवा षण्णामधिपः पदगामिनाम् । योज्यः स पत्तिपालः स्यात् त्रिंशतां गौल्मिकः स्मृतः ॥ शतानान्तु शतानीकस्तथानुशतिको वरः । सेनानीलेंखकश्चैते शतं प्रत्यधिपा इमे ॥ साहस्त्रिकस्तु संयोज्यस्तथा चायुतिको महान् ॥ व्यूहाभ्यासं शिक्षयेद्यः सायं प्रातश्च सैनिकान् । जानाति स शतानीकः सुयोद्धं युद्धभूमिकाम् ॥ तथाविधोऽनुशातिकः शतानीकस्य साधकः । जानाति युद्धसम्भारं कार्ययोग्यञ्च सैनिकम् ॥ निदेशयति कार्याणि सेनानीर्यामिकांश्च सः। परिवृत्तिं यामिकानां करोति स च पत्तिपः ॥ स्वावधानं यामिकानां विजानीयाच्च गुल्मपः ॥ सैनिकाः कति सन्त्येतैः कति प्राप्तन्तु वेतनम् । प्राचीनाः के कुत्र गताश्चैतान् वेत्ति स लेखकः । गजाश्वानां विंशतेश्चाधिपो नायकसंज्ञकः ॥ उक्तसंज्ञान् स्वस्वचिद्वैर्लान्छितांश्च नियोजयेत् ॥ अजाविगोमहिष्येण मृगाणामधिपाश्रच ये। तद्वद्धिपुष्टिकुशलास्तद्वात्सल्यनिपीडिताः । तथाविधा गजोष्ट्रादेर्योज्यास्तत् सेवका अपि ॥ युद्धप्रवृत्तिकुशलास्तित्तिरादेश्च पोषकाः । शुकादेः पाठकाः सम्यक् श्येनादेः पातबोधकाः । तत्तद् हृदयविज्ञानकुशलाश्च सदा हि ते ॥ मानाकृतिप्रभावर्णजातिसाम्याच्च मौल्यवित् । रत्नानां स्वर्णरजतमुद्राणामधिपश्च सः ॥ दान्तस्तु सधनो यस्तु व्यवहारविशारदः । धनप्राणोऽतिकृपणः कोशाध्यक्षः स एव हि ॥ देशभेदैर्जातिभेदैः स्थूलसूक्ष्मबलाबलैः । कौशेयादेर्मानमूल्यवेत्ता वस्त्रस्य वस्त्रपः ॥ कुटीकञ्झुकनेपथ्यमण्डपादेः परिक्रियाम् । प्रमाणतः सौचिकेन रञ्जनानि च वेत्ति यः ॥ तथा शय्यादिसन्धानं वितानादेर्नियोजनम् । वस्त्रादीनाञ्च स प्रोक्तो वितानाद्यधिपः खलु ॥ जाति तुलाञ्च मौल्यञ्च सारं भोगं परिग्रहम् । सम्मार्जनञ्च धान्यानां विजानाति स धान्यपः ॥ धौताघौतविपाकज्ञो रससंयोगभेदवित् । क्रियासु कुशलो द्रव्यगुणवित् पाकनायकः ॥ फलपुष्पवृ‌द्धिहेतु रोपणं शोधनं तथा। पादपानां यथाकालं कर्तुं भूमिजलादिना। तद्धेषजञ्च संवेत्ति ह्यारामाधिपतिश्रच सः ॥ प्रासादं परिखां दुर्गं प्राकारं प्रतिमां तथा। यन्त्राणि सेतुबन्धञ्च वापीं कूपं तडागकम् ॥ तथा पुष्करिणीं कुण्डं जलाद्यूर्ध्वगतिक्रियाम् । सुशिल्पशास्त्रतः सम्यक् सुरम्यन्तु यथा भवेत् ॥ कर्तुं जानाति यः सैव गृहाद्यधिपतिः स्मृतः ॥ राजकाय्र्योपयोग्यान् हि पदार्थान् वेत्ति तत्त्वतः । सन्चिनोति यथाकाले सम्भाराधिप उच्यते ॥ स्वधर्माचरणे दक्षो देवताराधने रतः । निष्पृहः स च कर्त्तव्यो देवतुष्टिपतिः सदा ॥ याचकं विमुखं नैव करोति न च सङ्ग्रहम् । दानशीलश्च निर्लोभो गुणज्ञश्च निरालसः ॥ दयालुमृदुवाक् दानपात्रविन्नतितत्परः । नित्यमेभिर्गुणैर्युक्तो दानाध्यक्षः प्रकीर्त्तितः ॥ व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः । रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ॥ निरालसा जितक्रोधकामलोभाः प्रियंवदाः । सभ्याः सभासदः कार्या वृद्धाः सर्वासु जातिषु ॥ सर्वभूतात्मतुल्यो यो निष्पृहोऽतिथिपूजकः । दानशीलश्च यो नित्यं सैव सत्राधिपः स्मृतः ॥ परोपकारनिरतः परमर्माप्रकाशकः । निर्मत्सरो गुणग्राही तद्विद्यः स्यात् परीक्षकः ॥ प्रजा नष्टा न हि भवेत् तथा दण्डविधायकः । नातिक्रूरो नातिमृदुः साहसाधिपतिश्च सः ॥ आधर्षकेभ्यश्चोरेभ्यो ह्यधिकारिगणात् तथा। प्रजासंरक्षणे दक्षो ग्रामपो मातृपितृवत् ॥ वृक्षान् सम्पुष्य यत्लेन फलं पुष्पं विचिन्वति। मालाकार इवात्यन्तं भागहारस्तथाविधः ॥ गणनाकुशलो यस्तु देशभाषाप्रभेदवित् । असन्दिग्धमगूढार्थं विलिखेत् स च लेखकः ॥ शस्त्रास्त्रकुशलो यस्तु दृढाङ्गश्च निरालसः । यथायोग्यं समाहूयात् प्रणम्रः प्रतिहारकः ॥ यथा विक्रयिणां मूलधननाशो भवेन्न हि। तथा शुल्कन्तु हरति शौल्किकः स उदाहृतः ॥ जपोपवासनियमकर्मध्यानरतः सदा । दान्तः क्षमी निष्पृहश्च तपोनिष्ठः स उच्यते ॥ याचकेभ्यो ददात्यर्थं भार्य्यापुत्रादिकं त्वपि। न सङ्गृह्णाति यत्किञ्चिद्दानशीलः स उच्यते ॥ पठनं पाठनं कर्तुं क्षमास्त्वभ्यासशालिनः । श्रुतिस्मृतिपुराणानां श्रुतज्ञास्ते प्रकीर्त्तिताः ॥ साहित्यशास्त्रनिपुणः सङ्गीतज्ञश्च सुस्वरः । सर्गादिपञ्चकज्ञाता स वै पौराणिकः स्मृतः ॥ मीमांसातर्कवेदान्तशब्दशासनतत्परः । ऊहवान् बोधितुं शक्तस्तत्त्वतः शास्त्रविच्च सः ॥ संहिताञ्च तथा होरां गणितं वेत्ति तत्त्वतः । ज्योतिर्विच्च स विज्ञेयो त्रिकालज्ञश्च यो भवेत् ॥ बीजानुपूर्व्य मन्त्राणां गुणान् दोषांश्च वेत्ति यः । मन्त्रानुष्ठानसम्पन्नो मान्त्रिकः सिद्धदैवतः ॥ हेतुलिङ्गौषधीभिर्यो व्याधीनां तत्त्वनिश्चयम्। साध्यासाध्यं विदित्वोपक्रमते स भिषक् स्मृतः ॥ श्रुतिस्मृतीतरैर्मन्त्रानुष्ठानैर्देवतार्चनम्॥ कर्तुं हिततमं मत्वा यतते स च तान्त्रिकः ॥ नपुंसकाः सत्यवाचः सुभूषाश्च प्रियंवदाः । सुकुलाश्च सुरूपाश्च योज्यास्त्वन्तः पुरे सदा ॥ अनन्याः स्वामिभक्ताश्च धर्मनिष्ठा दृढाङ्गकाः । अबाला मध्यवयसः सेवासु कुशलाः सदा ॥ सर्वं यद्यत् कार्य्यजातं नीचं वा कर्तुमुद्यताः । निदेशकारिणो राज्ञा कर्त्तव्या परिचारकाः ॥ शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये । ते गूढचाराः कर्त्तव्या यथार्थश्रुतबोधकाः ॥ राज्ञः समीपप्राप्तानां नतिस्थानविबोधकाः । दण्डधरा वेत्रधराः कर्त्तव्यास्ते सुशिक्षकाः ॥ तन्त्रीकण्ठोत्थितान् सप्त स्वरान् स्थानविभागतः । उत्पादयति संवेत्ति ससंयोगविभागिनः ॥ अनुरागं सुस्वरञ्च सतालञ्च प्रगायति । सनृत्यं वा गायकानामधिपः स च कीर्त्तितः ॥ तथाविधा च पण्यस्त्री निर्लज्जा भावसंयुता । शृङ्गाररसतत्त्वज्ञा सुन्दराङ्गी मनोरमा । नवीनोत्तुङ्गकठिनकुचा सुस्मितदर्शिनी ॥ ये चान्ये साधकास्ते च तथा चित्तविरञ्जकाः सुभृत्यास्तेऽपि सन्धार्या नृपेणात्महिताय च ॥ वैतालिकाः सुकवयो वेत्रदण्डधराश्च ये। शिल्पज्ञाश्च कलावन्तो ये सदाप्युपकारकाः ॥ दुर्गुणासूचका भाणा नर्त्तका बहुरूपिणः । आरामकृत्रिमवनकारिणो दुर्गकारिणः ॥ महानालिकयन्त्रस्थगोलैर्लक्ष्यविभेदिनः । लघुयन्त्राग्नेयचूर्णबाणगोलासिकारिणः ॥ अनेकयन्त्रशस्त्रास्त्रधनुस्तूणादिकारकाः । स्वर्णरत्नाद्यलङ्कारघटका रथकारिणः ॥ पाषाणघटका लोहकारा धातुविलेपकाः । कुम्भकाराः शौल्विकाश्वं तक्षाणो मार्गकारकाः ॥ नापिता रजकाश्चैव वासिका मलहारकाः । वार्ताहराः सौचिकाश्व राजचिह्नाग्रधारिणः ॥ भेरीपटहगोपुच्छशङ्खवेण्वादिनिःस्वनैः । ये व्यूहरचका यानव्यपयानादिबोधकाः ॥ नाविकाः खनका व्याधाः किराता भारिका अपि। शस्त्रसम्मार्जनकरा जलधान्यप्रवाहकाः ॥ आपणिकाश्च गणिका वाद्यजायाप्रजीविनः । तन्तुवायाः शाकुनिकाश्चित्रकाराश्च चर्मकाः ॥ गृहसम्मार्जकाः पात्रधान्यवस्वप्रमार्जकाः । शय्यावितानास्तरणकारकाः शासका अपि ॥ आमोदास्वेदसद्धपकारास्ताम्बूलिकास्तथा । हीनाल्पकर्मिणश्चैते योज्याः कार्यानुरूपतः ॥ प्रोक्तं पुण्यतमं सत्यं परोपकरणं तथा। आज्ञायुक्तांश्च भृतकान् सततं धारयेन्नृपः ॥ हिंसा गरीयसी सर्वपापेभ्योऽनृतभाषणम् । गरीयस्तरमेताभ्यां युक्तान् भृत्यान् न धारयेत् ॥ यदा यदुचितं कर्तुं वक्तुं वा तत् प्रबोधयन् । तद्वक्ति कुरुते द्राक् तु स सद्भूत्यः सुपूज्यते ॥ उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च। कृत्वोत्सर्गन्तु विष्णु हि स्मृत्वा स्नायादनन्तरम् ॥ प्रातः कृत्यन्तु निर्वत्र्य यावत् सार्द्धमुहूर्तकम् । गत्वा स्वकार्य्यशालां वा कार्याकार्यं विचिन्त्य च ॥ विनाज्ञया विशन्तन्तु द्वास्र्थः सम्य‌ङ्निरोधयेत् । निदेशकार्यं विज्ञाप्य तेनाज्ञप्तः प्रमोचयेत् ॥ दृष्ट्वागतान् सभामध्ये राज्ञे दण्डधरः क्रमात् । निवेद्य तन्नतीः पश्चात् तेषां स्थानानि सूचयेत् ॥ ततो राजगृहं गत्वाज्ञप्तो गच्छेच्च सन्निधिम् । नत्वा नृपं यथान्यायं विष्णुरूपमिवापरम् ॥ प्रविश्य सानुरागस्य चित्तज्ञश्च समन्ततः । भर्तुरर्द्धासने दृष्टि कृत्वा नान्यत्र निक्षिपेत् ॥ अग्नि दीप्तमिवासीदेद् राजानमुपशिक्षितः । आशीविषमिव कुद्धं प्रभुं प्राणधनेश्वरम् ॥ यत्नेनोपचरेन्नित्यं नाहमस्मीति चिन्तयेत् । समर्थयन् च तत् पक्षं साधु भाषेत भाषितम्। तन्नियोगेन वा ब्रूयादर्थं सुपरिनिश्चितम् ॥ सुखप्रबन्धगोष्ठीषु विवादे वादिनां मतम् । विजानन्नपि नो ब्रूयाद्भर्तुः क्षिप्त्वोत्तरं वचः ॥ सदानुद्धतवेशः स्यान्नृपाहूतस्तु प्राञ्जलिः । तद्गां कृतनतिः श्रुत्वा वस्त्रान्तरितसम्मुखः ॥ तदाज्ञां धारयित्वादौ स्वकर्माणि निवेदयेत् । नत्वाऽऽसीताऽऽसने प्रह्वो न तत्पार्श्वे न सम्मुखे ॥ उच्चैः प्रहसनं कासं ष्ठीवनं कुत्सनं तथा। जृम्भणं गात्रभङ्गञ्च पर्वास्फोटञ्च वर्जयेत् ॥ राज्ञादिष्टन्तु यत् स्थानं तत्र तिष्ठेन्युदान्वितः । प्रवीणोचितमेधावी वर्जयेदभिमानताम् ॥ आपद्युन्मार्गगमने कार्य्यकालात्ययेषु च। अपृष्टोऽपि हितान्वेषी ब्रूयात् कल्याणभाषितम् ॥ प्रियं तथ्यञ्च पथ्यञ्च वदेद्धर्मार्थकं वचः । समानवार्तया चापि तद्धितं बोधयेत् सदा ॥ वदेन्नीतिफलं तथा । कीर्त्तिमन्यनृपाणां वा दाता त्वं धार्मिकः शूरो नीतिमानसि भूपते ! ॥ अनीतिस्ते तु मनसि वर्त्तते न कदाचन। ये ये भ्रष्टा अनीत्या तान् तदने कीर्त्तयेत् सदा ॥ नृपेभ्यो ह्यधिकोऽसीति सर्वेभ्यो न विशेषयेत् । परार्थं देशकालज्ञो देशे काले च साधयेत् ॥ परार्थनाशनं न स्यात् तथा ब्रूयात् सदैव हि। न कर्षयेत् प्रजाकार्य्यमिषतश्च नृपं सदा ॥ अपि स्थाणुवदासीत शुष्यन् परिगतः क्षुधा। न त्वेवानर्थसम्पन्नां वृत्तिमीहेत पण्डितः ॥ यत्काय्यें यो नियुक्तः स भूयात् तत्कार्य्यतत्परः । नान्याधिकारमन्विच्छेन्नाभ्यसूयेच्च केनचित् ॥ न न्यूनं लक्षयेत् कस्य पूरयीत स्वशक्तितः । परोपकरणादन्यन्न स्यान्मित्रकरं सदा ॥ करिष्यामीति ते कार्यं न कुर्य्यात् कार्य्यलम्बनम्। द्राक् कुर्य्यात् तु समर्थश्चेत् साशं दीर्घ न रक्षयेत् ॥ गुह्यं कर्म च मन्त्रञ्च न भर्तुः सम्प्रकाशयेत् । विद्वेषञ्च विनाशञ्च मनसापि न चिन्तयेत् ॥ राजा परममित्रोऽस्ति न कामं विचरेदिति । स्त्रीभिस्तदर्थिभिः पापैर्वैरिभूतैर्निराकृतैः ॥ एकार्थचर्य्या साहित्यं संसर्गञ्च विवर्जयेत्। वेशभाषानुकरणं न कुर्य्यात् पृथिवीपतेः ॥ सम्पन्नोऽपि च मेधावी न स्पर्धेत च तद्गुणैः । रागापरागौ जानीयाद्भर्तुः कुशलकर्मवित् । इङ्गिताकारचेष्टाभ्यस्तदभिप्रायतां तथा ॥ त्यजेद्विरक्तं नृपतिं रक्ते वृत्तिन्तु कारयेत् ॥ विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा ॥ आशावर्द्धनकं कृत्वा फलनाशं करोति च। अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः । वाक्यञ्च समदं वक्ति वृत्तिच्छेदं करोति च ॥ लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तने कृते । दृष्टि क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ॥ विरक्तलक्षणं ह्येतद्रक्तस्य लक्षणं ब्रुवे ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात्। कुशलादिपरिप्रश्नी प्रदापयति चासनम् ॥ विविक्तदर्शनं चास्य रहस्येनं न शङ्कते। ज्ञायेत हृष्टवदनः श्रुत्वा तस्य च तत्कथाम् ॥ अप्रियाण्यपि चान्यानि तद्युक्तान्यभिमन्यते । उपायनञ्च गृह्णाति स्तोकसम्पादनैस्तथा । कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ॥ इति रक्तस्य वै लक्ष्यं कर्त्तव्यं तस्य सेवनम् ॥ तद्दत्तवस्त्रभूषादिचिह्न सन्धारयेत् सदा । न्यूनाधिक्यं स्वाधिकारकायें नित्यं निवेदयेत् । तदर्थां तत्कृतां वार्ता शृणुयाद्वापि कीर्त्तयेत् ॥ चारसूचकदोषेण त्वन्यथा यद्वदेन्नृपः । शृणुयान्मौनमाश्रित्य तथ्यवन्नानुमोदयेत् ॥ आपद्गतं सुभर्त्तारं कदापि न परित्यजेत् ॥ एकवारमप्यशितं यस्यान्नं ह्यादरेण च। तदिष्टं चिन्तयेन्नित्यं पालकस्याञ्जसा न किम् ? ॥ अप्रधानः प्रधानः स्यात् काले चात्यन्तसेवनात् । प्रधानोऽप्यप्रधानः स्यात् सेवालस्यादिना यतः ॥ नित्यं संसेवनरतो भृत्यो राज्ञः प्रियो भवेत् । स्वस्वाधिकारकार्यं यद्वाक् कुर्य्यात् सुमना यतः ॥ न कुर्य्यात् सहसा कार्य्य नीचं राजापि नो दिशेत् । तत्कार्य्यकारकाभावे राज्ञः कार्यं सदैव हि ॥ काले यदुचितं कर्तुं नीचमप्युत्तमोऽर्हति । यस्मिन् प्रीतो भवेद्राजा तदनिष्टं न चिन्तयेत् ॥ न दर्शयेत् स्वाधिकारगौरवन्तु कदाचन ॥ परस्परं नाभ्यसूयुर्न भेदं प्राप्नुयुः कदा । राज्ञा चाधिकृताः सन्तो स्वस्वाधिकारगुप्तये ॥ अधिकारिगणो राजा सवृत्तौ यत्र तिष्ठतः । उभौ तत्र स्थिरा लक्ष्मीर्विपुला सम्मुखी भवेत् ॥ अन्याधिकारवृत्तन्तु न ब्रूयाच्छ्रतमप्युत । राजा न श्रणुयादन्यमुखतस्तु कदाचन ॥ न बोधयन्ति च हितमहितं चाधिकारिणः। प्रच्छन्नवैरिणस्ते तु दास्यरूपमुपाश्रिताः ॥ हिताहितं न शृणोति राजा मन्त्रिमुखाच्च यः । स दस्यू राजरूपेण प्रजानां धनहारकः ॥ सुपृष्टव्यवहारा ये राजपुत्रैश्च मन्त्रिणः । विरुध्यन्ति च तैः साकं ते तु प्रच्छन्नतस्कराः ॥ बाला हृह्यपि राजपुत्रा नावमान्यास्तु मन्त्रिभिः । सदा सुबहुवचनैः सम्बोध्यास्ते प्रयत्नतः ॥ असदाचरितं तेषां क्वचिद्राज्ञे न दर्शयेत् । स्त्रीपुत्रमोहो बलवान् न निन्दा श्रेयसे तयोः ॥ राज्ञोऽवश्यतरं कार्यं प्राणसंशयितञ्च यत् । आज्ञापयाग्रतश्चाहं करिष्ये तत्तु निश्चितम् । इति विज्ञाप्य द्राक् कर्तुं प्रयतेत स्वशक्तितः ॥ प्राणानपि च सन्दद्यान्महत्कार्ये नृपाय च । भृत्यः कुटुम्बपुष्ट्यर्थं नान्यथा तु कदाचन ॥ भृत्या धनहराः सर्वे युक्त्या प्राणहरो नृपः ॥ युद्धादौ सुमहत्कायें भृत्या प्राणान् हरेन्नृपः। नान्यथा भृतिरूपेण भृत्यो राजधनं हरेत् ॥ अन्यथा हरतस्तौ तु भवतश्च स्वनाशकौ ॥ राजानु युवराजस्तु मान्योऽमात्यादिकैः सदा । तन्यूनामात्यनवकं तन्न्यूनाधिकृतो गणः । मन्त्रितुल्यश्चायुतिको न्यूनः साहस्रिको मतः ॥ न क्रीडयेद्राजसमं क्रीडिते तं विशेषयेत् । नावमान्या राजपत्नी कन्या हापि च मन्त्रिभिः ॥ राजसम्बन्धिनः पूज्याः सुहृदश्च यथार्हतः । नृपाहूतस्तुरं गच्छेत् त्यक्त्वा कार्य्यशतं महत् ॥ मित्रायापि न वक्तव्यं राजकार्यं सुमन्त्रितम् । भृतिं विना राजद्रव्यमदत्तं नाभिलाषयेत् ॥ राजाज्ञया विना नेच्छेत् कार्य्यमाध्यस्थिक्रीं भृतिम् । न निहन्याद् द्रव्यलोभात् सत्कार्यं यस्य कस्यचित् ॥ स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम् । उत्कोचं नैव गृह्णीयान्नान्यथा बोधयेन्नृपम् ॥ अन्यथा दण्डकं भूपं नित्यं प्रबलदण्डकम् । निगृह्य बोधयेत् सम्यगेकान्ते राज्यगुप्तये ॥ हितं राज्ञश्चाहितं यल्लोकानां तन्न कारयेत् । नवीनकरशुल्काद्यैलोंक उद्विजते ततः ॥ गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः । नृपो यदि भवेत् तन्तु त्यजेद्राष्ट्रविनाशकम् ॥ तत्पदे तस्य कुलजं गुणयुक्तं पुरोहितः । प्रकृत्यनुमतिं कृत्वा स्थापयेद्राज्यगुप्तये ॥ सास्त्रो दूरं नृपात् तिष्ठेदस्त्रपाताद् बहिः सदा। सशस्त्रो दशहस्तन्तु यथादिष्टं नृपप्रियाः ॥ पञ्चहस्तं वसेयुर्वै मन्त्रिणो लेखकाः सदा। सेनपैस्तु विना नैव सशस्त्रास्त्रो विशेत् सभाम् ॥ पुरोहितः श्रेष्ठतरः श्रेष्ठः सेनापतिः स्मृतः । समः सुहच्च सम्बन्धी ह्युत्तमा मन्त्रिणः स्मृताः ॥ अधिकारिगणो मध्योऽधमौ दर्शकलेखकौ । ज्ञेयोऽधमतमौ भृत्यः परिचारगणः सदा । परिचारगणान्न्यूनो विज्ञेयो नीचसाधकः ॥ पुरोगमनमुत्यानं स्वासने सन्निवेशनम् । कुर्य्यात् स कुशलप्रश्नं क्रमात् सुस्मितदर्शनम् ॥ राजापुरोहितादीनां त्वन्येषां स्नेहदर्शनम् । अधिकारिगणादीनां सभास्थश्च निरालसः ॥ विद्यावत्सु शरच्चन्द्रो निदाघाकों द्विषत्सु च। प्रजासु च वसन्तार्क इव स्यात् त्रिविधो नृपः ॥ यदि ब्राह्मणभिन्नेषु मृदुत्वं धारयेन्नृपः । परिभवन्ति तं नीचा यथा हस्तिपका गजम् ॥ भृत्याद्यौर्यन्न कर्त्तव्याः परिहासाश्च क्रीडनम्। अपमानास्पदे ते तु राज्ञो नित्यं भयावहे ॥ पृथक् पृथग् व्यापयन्ति स्वार्थसिद्धयै नृपाय ते। स्वाकार्य्य गुणवत् कृत्वा सर्वे स्वार्थपरा यतः ॥ विकल्पन्तेऽवमन्यन्ति लङ्घयन्ति च तद्वचः । राजभोज्यानि भुञ्जन्ति न तिष्ठन्ति स्वके पदे ॥ विस्त्रंसयन्ति तन्मन्त्रं विवृण्वन्ति च दुष्कृतम् । भवन्ति नृपवेशा हि वञ्चयन्ति नृपं सदा ॥ तत् स्त्रियं सज्जयन्ति स्म राज्ञि कुद्धे हसन्ति च। व्याहरन्ति च निर्लज्जा हेलयन्ति नृपं क्षणात् ॥ आज्ञामुल्लङ्घयन्ति स्म न भयं यान्त्यकर्म्मणि। एते दोषाः परीहासक्षमाक्रीडोद्भवा नृपे ॥ न कार्यं भृतकः कुर्य्यान्नृपलेखाद्विना क्वचित् । नाज्ञापयेल्लेखनेन विनाल्पं वा महन्नृपः ॥ भ्रान्तेः पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम्। अलेख्यमाज्ञापयति हह्यलेख्यं यत् करोति यः । राजकृत्यमुभौ चौरौ तौ भृत्यनृपती सदा ॥ नृपसञ्चिह्नितं लेख्यं नृपस्तन्न नृपो नृपः ॥ समुद्रलिखितं राज्ञा लेख्यं तच्चोत्तमोत्तमम् । उत्तमं राजलिखितं मध्यं मन्यादिभिः कृतम् । पौरलेख्यं कनिष्ठं स्यात् सर्वं संसाधनक्षमम् ॥ यस्मिन् यस्मिन् हि कृत्ये तु राज्ञा योऽधिकृतो नरः । सामात्ययुवराजादिर्यथानुक्रमतश्च सः ॥ दैनिकं मासिकं वृत्तं वार्षिकं बहुवार्षिकम् । तत्कार्य्यजातलेख्यन्तु राज्ञे सम्य‌ङ्निवेदयेत् ॥ राजाद्यङ्कितलेख्यस्य धारयेत् स्मृतिपत्रकम् । कालेऽतीते विस्मृतिर्वा भ्रान्तिः सञ्जायते नृणाम् ॥ अनुभूतस्य स्मृत्यर्थं लिखितं निर्मितं पुरा। यत्नाच्च ब्रह्मणा वाचां वर्णस्वरविचिह्नितम् ॥ वृत्तलेख्यं तथा चायव्ययलेख्यमिति द्विधा । व्यवहारक्रियाभेदादुभयं बहुतां गतम् ॥ यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकञ्चैव जयपत्रकमुच्यते ॥ सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु यत् । कार्य्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥ ऋत्विक् पुराहिताचार्य्यमन्येष्वभ्यर्चितेषु च। कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ सर्वे शृणुत कर्त्तव्यमाज्ञया मम निश्चितम् । स्वहस्तकालसम्पन्नं शासनं पत्रमेव तत् ॥ देशाधिकं यस्य राजा लिखितेन प्रयच्छति। सेवाशौर्य्यादिभिस्तुष्टः प्रसादलिखितं हि तत् ॥ भोगपत्रन्तु करदीकृतं चोपायनीकृतम् । पुरुषावधिकं तत्तु कालावधिकमेव वा ॥ विभक्ता ये च भ्रात्राद्याः स्वरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥ गृहभूम्यादिकं दत्त्वा पत्रं कुर्य्यात् प्रकाशकम् । अनुच्छेद्यमनाहार्य्यं दानलेख्यं तदुच्यते ॥ गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्यप्रमाणयुक् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥ जङ्गमस्थावरं बन्धं कृत्वा लेख्यं करोति यत् । गोप्यभोग्यक्रियायुक्तं सादिलेख्यं तदुच्यते ॥ ग्रामो देशश्च यत् कुर्य्यात् सत्यलेख्यं परस्परम् । राजाविरोधिधर्मार्थं संवित्पत्रं तदुच्यते ॥ वृद्धयै धनं गृहीत्वा तु कृतं वा कारितञ्च यत्। सुसाक्षिमच्च तत् प्रोक्तमृणलेख्यं मनीषिभिः ॥ अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते बुधैः । दत्तं लेख्यं साक्षिमद्यच्छुद्धिपत्रं तदुच्यते ॥ मेलयित्वा स्वधनांशान् व्यवहाराय साधकाः । कुर्वन्ति लेख्यपत्रं यत् तच्च सामयिकं स्मृतम् ॥ सभ्याधिकारिप्रकृतिसभासद्भिर्न यः कृतः । तत्पत्रं वादिमान्यं चेज्ज्ञेयं सम्मतिसंज्ञकम् ॥ स्वकीयवृत्तज्ञानार्थं लिख्यते यत् परस्परम् । श्रीमङ्गलपदाढ्यं वा सपूर्वोत्तरपक्षकम् ॥ असन्दिग्धमगूढार्थं स्पष्टाक्षरपदं सदा । अन्यव्यावर्त्तकस्वात्मपरपित्रादिनामयुक् ॥ एकद्विबहुवचनैर्यथार्हस्तुतिसंयुतम् । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥ कार्य्यबोधि सुसम्बन्धं नत्याशीर्वादपूर्वकम् । स्वाम्यसेवकसेव्यार्थं क्षेमपत्रं तु तत् स्मृतम् ॥ एभिरेव गुणैर्युक्तं स्वाधर्षकविबोधकम् । भाषापत्रं तु तज्ज्ञेयमथवा वेदनार्थकम् ॥ प्रदर्शितं वृत्तलेख्यं समासाल्लक्षणान्वितम् । समासात् कथ्यते चान्यच्छेषायव्ययबोधकम् ॥ व्याप्यव्यापकभेदैश्च मूल्यमानादिभिः पृथक् । विशिष्टसंज्ञितैस्तद्धि यथार्थैर्बहुभेदयुक् ॥ वत्सरे वत्सरे वापि मासि मासि दिने दिने । हिरण्यपशुधान्यादि स्वाधीनं त्वायसंज्ञकम् । पराधीनं कृतं यत्तु व्ययसंज्ञं धनं च तत् ॥ साद्यस्कश्चैव प्राचीन आयः सञ्चितसंज्ञकः । व्ययो द्विधा चोपभुक्तस्तथा विनिमयात्मकः ॥ निश्चितान्यस्वामिकं चानिश्चितस्वामिकं तथा। स्वस्वत्वनिश्चितं चेति त्रिविधं सञ्चितं मतम् ॥ निश्चितान्यस्वामिकं यद्धनं तु त्रिविधं हि तत्। औपनिध्यं याचितकमौत्तमर्णिकमेव च ॥ विश्रम्भान्निहितं सद्भिर्यदौपनिधिकं हि तत् । अवृद्धिकं गृहीतान्यालङ्कारादि च याचितम् ॥ सवृद्धिकं गृहीतं यदृणं तच्चौत्तमर्णिकम् । निध्यादिकं च मार्गादौ प्राप्तमज्ञातस्वामिकम् ॥ साहजिकं चाधिकं च द्विधा स्वस्वविनिश्वितम् ॥ उत्पद्यते यो नियतो दिने मासि च वत्सरे। आयः साहजिकः सैव दायाद्यश्च स्ववृत्तितः ॥ दायः परिग्रहो यत्तु प्रकृष्टं तत् स्वभावजम् । मौल्याधिक्यं कुसीदञ्च गृहीतं याजनादिभिः ॥ पारितोष्यं भृतिप्राप्तं विजिताद्यं धनञ्च यत् । स्वस्वत्वेऽधिकसंज्ञं तदन्यत् साहजिकं स्मृतम् ॥ पूर्ववत्सरशेषञ्च वर्तमानाब्दसम्भवम् । स्वाधीनं सञ्चितं द्वेधा धनं सर्वं प्रकीर्त्तितम् ॥ द्वेधाधिकं साहजिकं पार्थिवेतरभेदतः । भूमिभागसमुद्भूत आयः पार्थिव उच्यते ॥ स देवकृत्रिमजलैर्देशग्रामपुरैः पृथक् । बहुमध्यात्पफलतो भिद्यते भूविभागतः ॥ शुल्कदण्डाकरकरभाटकोपायनादिभिः । इतरः कीर्त्तितस्तज्ज्ञैरायो लेखविशारदैः ॥ यन्निमित्ततो भवेदायो व्ययस्तन्नामपूर्वकः । व्ययश्चैवं समुद्दिष्टो व्याप्यव्यापकसंयुतः ॥ पुनरावर्त्तकः स्वत्वनिवर्त्तक इति द्विधा। व्ययो यन्निध्युपनिधीकृतो विनिमयीकृतः । सकुसीदाकुसीदाधमर्णिकश्चावृतः स्मृतः ॥ निधिर्भूमौ विनिहितोऽन्यस्मिन्नुपनिधिः स्थितः । दत्तमूल्यादिसम्प्राप्तः सैव विनिमयीकृतः ॥ वृद्धावृद्धया च यो दत्तः स वै स्यादाधमर्णिकः । सवृद्धिकमृर्ण दत्तमकुसीदं तु याचितम् ॥ स्वत्वनिर्वर्त्तको द्वेधा त्वैहिकः पारलौकिकः ॥ प्रतिदानं पारितोष्यं वेतनं भोग्यमैहिकः । चतुर्विधस्तथा पारलौकिकोऽनन्तभेदभाक् ॥ शेषं संयोजयेन्नित्यं पुनरावर्त्तको व्ययः । मूल्यत्वेन च यद् दत्तं प्रतिदानं स्मृतं हि तत् ॥ सेवाशौर्य्यादिसन्तुष्टैर्दत्तं तत् पारितोषिकम् । भृतिरूपेण सन्दत्तं वेतनं तत् प्रकीर्त्तितम् ॥ धान्यवस्त्रगृहारामगोगजादिरथार्थकम् । विद्याराज्याद्यर्जनार्थं धनाद्यर्थं तथैव च । व्ययीकृतं रक्षणार्थमुपभोग्यं तदुच्यते ॥ सुवर्णरत्नरजतनिष्कशालास्तथैव च। रथाश्वगोगजोष्ट्राजावीनशालाः पृथक् पृथक् ॥ वाद्यशखास्ववस्त्राणां धान्यसम्भारयोस्तथा । मन्त्रिशिल्पनाट्यवैद्यमृगाणां पाकपक्षिणाम् । शाला भोग्ये निविष्टास्तु तद्व्ययो भोग्य उच्यते ॥ जपहोमार्चनैर्दानैश्चतुर्धा पारलौकिकः । पुनर्याती निवृत्तश्च विशेषायव्ययौ च तौ। आवर्त्तको निवर्ती च व्ययायौ तु पृथग् द्विया ॥ आवर्त्तकविहीनौ तु व्ययायौ लेखको लिखेत् ॥ क्रयाधमर्णघटनान्यस्थलाप्तो विवर्त्तकः । द्रव्यं लिखित्वा दद्यात्तु गृहीत्वा विलिखेत् स्वयम् ॥ हीयते वर्द्धते नैवमायव्ययविलेखकः ॥ हेतुप्रमाणसम्बन्धकार्य्याङ्गव्याप्यव्यापकैः । आयाश्व बहुधा भिन्ना व्ययाः शेषं पृथक् पृथक् । मानेन संख्यया चैवोन्मानेन परिमाणकैः ॥ क्वचित् संख्या क्वचिन्भानमुन्मानं परिमाणकम् । समाहारः क्वचिच्चेष्टो व्यवहाराय तद्विदाम् ॥ अङ्गलाद्यं स्मृतं मानमुन्मानं तु तुला स्मृता । परिमाणं पात्रमानं संख्यैकद्वादिसंज्ञिका ॥ यत्र यादृम् व्यवहारस्तत्र तादृक् प्रकल्पयेत् ॥ रजतस्वर्णताप्रादि व्यवहारार्थमुद्रितम् । व्यवहार्य्य वराटाद्यं रत्नान्तं द्रव्यमीरितम् । सपशुधान्यवस्त्रादितृणान्तं धनसंज्ञिकम् ॥ व्यवहारे चाधिकृतं स्वर्णाद्यं मूल्यतामियात् ॥ कारणादिसमायोगात् पदार्थस्तु भवेद्भुवि । येन व्ययेन संसिद्धस्तद्व्ययस्तस्य मूल्यकम् ॥ सुलभासुलभत्वाच्वागुणत्वगुणसंश्रयैः । यथाकामात् पदार्थानामधं हीनाधिकं भवेत् ॥ न हीनं मणिधातूनां क्वचिन्मूल्यं प्रकल्पयेत्। मूल्यहानिस्तु चैतेषां राजदौष्ट्वेन जायते ॥ दीर्धे चतुर्भागभूतपत्रे तिर्य्यग्गतावलिः । त्र्यंशगाभ्यन्तरगता चार्द्धगा पादगापि वा। कार्य्या व्यापकव्याप्यानां लेखने पदसंज्ञिका ॥ श्रेष्ठाभ्यन्तरगा तासु वामतः त्र्यंशगाप्यनु । दक्षत्र्यंशगता चानु ह्यर्द्धगा पादगा ततः ॥ स्वभ्यन्तरे स्वभेदाः स्युः सदृशाः सदृशे पदे । स्वारम्भपूर्तिसदृशे पदगे स्तः सदैव हि ॥ राजा स्वलेख्यचिह्न तु यथाभिलषितं तथा । लेखानुपूर्व कुर्य्याद्धि दृष्ट्वा लेख्यं विचार्य्य च ॥ मन्त्री च प्राङ्ड्विवाकश्च पण्डितो दूतसंज्ञकः । स्वाविरुद्धं लेख्यमिदं लिखेयुः प्रथमं त्विमे ॥ अमात्यः साधु लिखनमस्त्येतत् प्राग्लिखेदयम् । सम्यग्विचारितमिति सुमन्त्रो विलिखेत् ततः ॥ सत्यं यथार्थमिति च प्रधानश्च लिखेत् स्वयम् । अङ्गीकर्तुं योग्यमिति ततः प्रतिनिधिर्लिखेत् ॥ अङ्गीकर्त्तव्यमिति च युवराजो लिखेत् स्वयम् । लेख्यं स्वाभिमतं चैतद् विलिखेच्च पुरोहितः ॥ स्वस्वमुद्राचिह्नितं च लेख्यान्ते कुव्युरेव हि । अङ्गीकृतमिति लिखेन्मुद्रयेच्च ततो नृपः ॥ कार्य्यान्तरस्याकुलत्वात् सम्यग्द्रष्टुं न शक्यते । युवराजादिभिर्लेख्यं तदनेन च दर्शितम् ॥ समुद्रं विलिखेयुर्वै सर्वे मन्त्रिगणास्ततः । राजा दृष्टमिति लिखेद् द्राक् सम्यग्दर्शनाक्षमः ॥ आयमादौ लिखेत् सम्यग् व्ययं पश्चात् तथागतम् । वामे वायं व्ययं दक्षे पत्रभागे च लेखयेत् ॥ यत्रोभौ व्यापकव्याप्यौ वामोर्ध्वभागगौ क्रमात् । आधाराधेयरूपौ वा कालार्थं गणितं हि तत् ॥ अधोऽधश्व क्रमात् तत्र व्यापकं वामतो लिखेत् । व्याप्यानां मूल्यमानादि तत्पङ्क्त्यां विनिवेशयेत् ॥ ऊर्ध्वगानां तु गणितमधः पङ्क्त्यां प्रजायते । यत्रोभौ व्यापकव्याप्यौ व्यापकत्वेन संस्थितौ ॥ व्यापकं बहुवृत्तित्वं व्याप्यं स्यान्न्यूनवृत्तिकम् । व्याप्याश्चावयवाः प्रोक्ता व्यापकोऽवयवी स्मृतः ॥ सजातीनां च लिखनं कुर्य्याच्च समुदायतः । यथाप्राप्तं तु लिखनमाद्यन्तसमुदायतः ॥ व्यापकाश्च पदार्था वा यत्र सन्ति स्थलानि हि । व्याप्यमायव्ययं तत्र कुर्य्यात् कालेन सर्वदा ॥ स्थानटिप्पनिका चैषा ततोऽन्यत् सङ्घटिप्पनम् । विशिष्टसंज्ञितं तत्र व्यापकं लेख्यभाषितम् ॥ आयाः कति व्ययाः कस्य शेषं द्रव्यस्य चास्ति वै । विशिष्टसंज्ञकैरेषां संविज्ञानं प्रजायते ॥ आदौ लेख्यं यथाप्राप्तं पश्चात् तद्ग‌णितं लिखेत् । यथा द्रव्यं च स्थानं चाधिकसंज्ञं च टिप्पनैः ॥ शेषायव्ययविज्ञानं क्रमाल्लेख्यैः प्रजायते । स्थलायव्ययविज्ञानं व्यापकं स्थलतो भवेत् ॥ पदार्थस्य स्थलानि स्युः पदार्थाश्च स्थलस्य तु । व्याप्यास्तिथ्यादयश्चापि यथेष्टा लेखने नृणाम् ॥ निश्चितान्यस्वामिकाद्या आया ये इतरान्तगाः । विशिष्टसंज्ञिका ये च पुनरावर्त्तकादयः । व्ययाश्च परलेखान्ता अन्तिमव्यापकाश्च ते ॥ इच्छया ताडितं कृत्वादौ प्रमाणफलं ततः । प्रमाणभक्तं तल्लब्धं भवेदिच्छाफलं नृणाम् ॥ समासतो लेख्यमुक्तं सर्वेषां स्मृतिसाधनम् ॥ गुञ्जा माषस्तथा कर्षः पदार्द्धः प्रस्थ एव हि । यथोत्तरा दशगुणाः पञ्च प्रस्थस्य चाढकाः ॥ ततश्चाष्टाढकः प्रोक्तो ह्यर्मणस्ते तु विंशतिः । खारिका स्याद्भिद्यते तद् देशे देशे प्रमाणकम् ॥ पञ्चाङ्गलावटं पात्रं चतुरङ्गलविस्तृतम् । प्रस्थपादं तु तज्ज्ञेयं परिमाणे सदा बुधैः ॥ उर्ध्वाङ्कश्च यथासंज्ञस्तदधः स्थाश्च वामगाः । क्रमात् स्वदशगुणिताः परार्द्धान्ताः प्रकीर्तिताः ॥ न कर्तुं शक्यते संख्यासंज्ञा कालस्य दुर्गमात् । ब्रह्मणो द्विपरार्द्ध तु आयुरुक्तं मनीषिभिः ॥ एको दश शतं चैव सहस्त्रं चायुतं क्रमात् । नियुतं प्रयुतं कोटिरर्बुदं चाब्जखर्वकौ। निखर्वपद्मशङ्खाब्धिमध्यमान्तपरार्द्धकाः ॥ कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम् । भृतिदाने सदा सौरं चान्द्रं कौसीदवृद्धिषु । कल्पयेत् सावनं नित्यं दिनभृत्येऽवधौ सदा ॥ कार्य्यमाना कालमाना कार्य्यकालमितिस्त्रिधा । भृतिरुक्ता तु तद्विज्ञैः सा देया भाषिता यथा ॥ अयं भारस्त्वया तत्र स्थाप्यस्त्वैतावतीं भृतिम् । दास्यामि कार्व्यमाना सा कीर्त्तिता तन्निदेशकैः ॥ वत्सरे वत्सरे वापि मासि मासि दिने दिने । एतावतीं भृतिं तेऽहं दास्यामीति च कालिका ॥ एतावता कार्य्यमिदं कालेनापि त्वया कृतम् । भृतिमेतावतीं दास्ये कार्य्यकालमिता च सा ॥ न कुर्य्याद् भृतिलोपं तु तथा भृतिविलम्बनम् । अवश्यपोष्यभरणा भृतिर्मध्या प्रकीर्त्तिता ॥ परिपोष्या भृतिः श्रेष्ठा समान्नाच्छादनार्थिका । भवेदेकस्य भरणं यया सा हीनसंज्ञिका ॥ यथा यथा तु गुणवान् भृतकस्तधृतिस्तथा । संयोज्या तु प्रयत्लेन नृपेणात्महिताय वै ॥ अवश्यपोष्यवर्गस्य भरणं भृतकाद् भवेत् । तथा भृतिस्तु संयोज्या तद्योग्यभृतकाय वै ॥ ये भृत्या हीनभृतिकाः शत्रवस्ते स्वयं कृताः । परस्य साधकास्ते तु छिद्रकोशप्रजाहराः ॥ अन्नाच्छादनमात्रा हि भृतिः शूद्रादिषु स्मृता । तत्पापभागन्यथा स्यात् पोषको मांसभोजिषु ॥ यद् ब्राह्मणेनापहतं धनं तत् परलोकदम् । शूद्राय दत्तमपि यन्नरकायैव केवलम् ॥ मन्दो मध्यस्तथा शीघ्रस्त्रिविधो भृत्य उच्यते । समा मध्या च श्रेष्ठा च भृतिस्तेषां क्रमात् स्मृता ॥ भृत्यानां गृहकृत्यार्थं दिवा यामं समुत्सृजेत् । निशि यामत्रयं नित्यं दिनभृत्येऽर्द्धयामकम् ॥ तेभ्यः कार्यं कारयीत ह्युत्सवाद्यद्यैर्विना नृपः । अत्यावश्यं तूत्सवेऽपि हित्वा श्राद्धदिनं सदा ॥ पादहीनां भृतिं त्वार्त्ते दद्यात् त्रैमासिकीं ततः । पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा तथा ॥ षाण्मासिकीं तु दीर्घात्र्ते तदृवं न च कल्पयेत् । नैव पक्षार्द्धमार्त्तस्य हातव्यात्यापि वै भृतिः ॥ संवत्सरोषितस्यापि ग्राहाः प्रतिनिधिस्ततः । सुमहद्‌गुणिनं त्वात्र्त्त भृत्यर्द्ध कल्पयेत् सदा ॥ सेवां विना नृपः पक्षं दद्याद् भृत्याय वत्सरे ॥ चत्वारिंशत् समा नीताः सेवया येन वै नृपः । ततः सेवां विना तस्मै भृत्यर्द्ध कल्ययेत् सदा ॥ यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तदर्द्धकम् । भार्य्यायां वा सुशीलायां कन्यायां वा स्वश्रेयसे ॥ अष्टमांशं पारितोष्यं दद्याद् भृत्याय वत्सरे। कार्याष्टमांशं वा दद्यात् कार्यं द्रागधिकं कृतम् ॥ स्वामिकायें विनष्टो यस्तत्पुत्रे तद्धृतिं वहेत् । यावद् बालोऽन्यथा पुत्रगुणान् दृष्ट्वा भृतिं वहेत् ॥ षष्ठांशं वा चतुर्थांशं भृतेर्भूत्यस्य पालयेत् । दद्यात् तदर्द्धं भृत्याय द्वित्रिवर्षेऽखिलं तु वा ॥ वाक्पारुष्यान्यूनभृत्या स्वामी प्रबलदण्डतः । भृत्यं प्रशिक्षयेन्नित्यं शत्रुत्वं त्वपमानतः ॥ भृतिदानेन सन्तुष्टा मानेन परिवर्द्धिताः । सान्त्विता मृदुवाचा ये न त्यजन्त्वधिपं हि ते ॥ अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ यथागुणान् स्वभृत्यांश्च प्रजाः संरञ्जयेन्नृपः । शाखाप्रदानतः कांश्चिदपरान् फलदानतः ॥ अन्यान् सुचक्षुषा हास्यैस्तथा कोमलया गिरा। सुभोजनैः सुवसनैस्ताम्बूलैश्च धनैरपि ॥ कांश्चित् सुकुशलप्रश्नैरधिकारप्रदानतः । वाहनानां प्रदानेन योग्याभरणदानतः ॥ छत्रातपत्रचमरदीपिकानां प्रदानतः । क्षमया प्रणिपातेन मानेनाभिगमेन च ॥ सत्कारेण च ज्ञानेन ह्यादरेण शमेन च । प्रेम्णा समीपवासेन स्वार्द्धासनप्रदानतः । सम्पूर्णासनदानेन स्तुत्योपकारकीर्त्तनात् ॥ यत्त्कार्य्ये विनियुक्ता ये कार्य्याङ्करङ्कयेच्च तान् । लोहजैस्ताम्रजै रीतिभवै रजतसम्भवैः ॥ सोवर्णै रत्नजैर्वापि यथायोग्यैः स्वलाञ्छनैः । प्रविज्ञानाय दूरात् तु वस्त्रैश्च मुकुटैरपि ॥ वाद्यवाहनभेदैश्च भृत्यान् कुर्य्यात् पृथक् पृथक् । स्वविशिष्टं च यच्चिद्धं न दद्याद् कस्यचिन्नृपः ॥ दश प्रोक्ताः पुरोधाद्या ब्राह्मणाः सर्व एव ते । अभावे क्षत्रिया योज्यास्तदभावे तथोरुजाः ॥ नैव शूद्रास्तु संयोज्या गुणवन्तोऽपि पार्थिवैः ॥ भागग्राही क्षत्रियस्तु साहसाधिपतिश्च सः । ग्रामपो ब्राह्मणो योज्यः कायस्थो लेखकस्तथा ॥ शुल्कग्राही तु वैश्यो हि प्रतिहारश्च पादजः । सेनाधिपः क्षत्रियस्तु ब्राह्मणस्तदभावतः ॥ न वैश्यो न च वै शूद्रः कातरश्च कदाचन। सेनापतिः शूर एव योज्यः सर्वासु जातिषु ॥ ससङ्करचतुर्वर्णधर्मोऽयं नैव यावनः । यस्य वर्णस्य यो राजा स वर्णः सुखमेधते ॥ नोपकृतं मन्यते स्प न तुष्यति सुसेवनैः । कथान्तरे न स्मरति शङ्कते प्रलपत्यपि। क्षुब्धस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत् ॥ लक्षणं युवराजादेः कृत्यमुक्तं समासतः ॥ ==तृतीय अध्याय== अथ साधारणं नीतिशास्त्रं सर्वेषु चोच्यते । सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ॥ सुखं च न विना धर्मात् तस्माद् धर्मपरो भवेत् । त्रिवर्गशून्यं नारम्भं भजेत् तं चाविरोधयन् । अनुयायात् प्रतिपदं सर्वधर्मेषु मध्यमः ॥ नीचरोमनखश्मश्रुर्निर्मलाङ्ङ्घिमलायनः स्नानशीलः सुसुरभिः सुवेशोऽनुल्वणोज्ज्वलः । धारयेत् सततं रत्नसिद्धमन्त्रमहौषधीः ॥ सातपत्रपदत्राणो विचरेद् युगमात्रदृक् । निशि चात्ययिके कार्य्ये दण्डी मौली सहायवान् ॥ न वेगितोऽन्यकाय्यें स्यान्न वेगान् धारयेत् बलात् । भक्त्वा कल्याणमित्राणि सेवेतेतरदूरगः ॥ हिंसास्तेयान्यथाकामपैशुन्यं परुषानृतम् । सम्भिन्नालापव्यापादममिथ्यादृग्विपर्य्ययम् । पापकर्मेति दशधा कायवाङ्‌मानसैस्त्यजेत् ॥ धर्मकार्य्यं यतन् शक्त्या नो चेत् प्राप्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥ मनसा चिन्तयन् पापं कर्मणा नाभिरोचयेत् । तत् प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥ अवृत्तिव्याधिशोकार्त्ताननुवर्तेत शक्तितः । आत्मवत् सततं पश्येदपि कीटपिपीलिकम् ॥ उपकारप्रधानः स्यादपकारपरेऽप्यरौ । सम्पद्विपत्स्वेकमना हेतावीर्येत् फले न तु ॥ काले हितं मितं ब्रूयादविसंवादि पेशलम् । पूर्वाभिभाषी सुमुखः सुशीलः करुणामृदुः ॥ नैकः सुखी न सर्वत्र विश्रब्धो न च शङ्कितः ॥ न कञ्चिदात्मनः शत्रु नात्मानं कस्यचिद्रिपुम् । प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः ॥ जनस्याशयमालक्ष्य यो यथा परितुष्यति । तं तथैवानुवर्तेत पराराधनपण्डितः ॥ न पीडयेदिन्द्रियाणि न चैतान्यतिलालयेत् । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ एणो गजः पतङ्गश्च भृङ्गो मीनस्तु पञ्चमः । शब्दस्पर्शरूपगन्धरसैरेते हताः खलु ॥ एषु स्पों वरस्त्रीणां स्वान्तहारी मुनेरपि । अतोऽप्रमत्तः सेवेत विषयांस्तु यथोचितान् ॥ मात्रा स्वस्त्रा दुहित्रा वा नात्यन्तैकान्तिकं वसेत् । यथा सम्बन्धमाहूयादाभाष्याश्वास्य वै स्त्रियम् । स्वीयां तु परकीयां च सुभगे ! भगिनीति च ॥ सहवासोऽन्यपुरुषैः प्रकाशमपि भाषणम् । स्वातन्त्र्यं न क्षणमपि ह्यावासोऽन्यगृहे तथा ॥ भर्ना पित्राथवा राज्ञा पुत्रश्वशुरबान्धवैः । स्त्रीणां नैव तु देयः स्याद् गृहकृत्यैर्विना क्षणः ॥ चण्डं षण्डं दण्डशीलमकामं सुप्रवासिनम् । सुदरिद्रं रोगिणं च हह्यन्यस्त्रीनिरतं सदा ॥ पतिं दृष्ट्वा विरक्ता स्यान्नारी वान्यं समाश्रयेत् । त्यक्त्वैतान् दुर्गुणान् यत्नादतो रक्ष्याः स्त्रियो नरैः ॥ वस्त्रान्नभूषणप्रेममृदुवाग्भिश्च शक्तितः । स्वात्यन्तसन्निकर्षेण स्त्रियं पुत्रं च रक्षयेत् ॥ चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन् । नाक्रामेच्छर्करालोष्टबलिस्नानभुवाऽपि च ॥ नदीं तरेन्न बाहुभ्यां नाग्नि छन्नमभिव्रजेत् । सन्दिग्धनावं वृक्षं च नारोहेद् दुष्टयानकम् ॥ नासिकां न विकृष्णीयान्नाकस्माद् विलिखेद् भुवम् । न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥ नाङ्गैश्चेष्टेत विगुणं नासीतोत्कटुकश्चिरम् । देहवाक्चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्त्तयेत् ॥ नोर्ध्वजानुश्चिरं तिष्ठेन्नक्तं सेवेत न द्रुमम् । तथा चत्वरचैत्यं न चतुष्पथसुरालयान् ॥ शून्याटवीशून्यगृहश्मशानानि दिवापि न । सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत् ॥ नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥ सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम् । मद्यविक्रयसन्धानदानादानानि नाचरेत् ॥ आचार्य्यः सर्वचेष्टासु लोक एव हि धीमतः । अनुकुर्य्यात् तमेवातो लौकिकार्थे परीक्षकः ॥ राजदेशकुलज्ञातिसद्धर्मान् नैव दूषयेत् । शक्तोऽपि लौकिकाचारं मनसापि न लड्ङ्घयेत् ॥ अयुक्तं यत् कृतं चोक्तं न बलाद्धेतुनोद्धरेत् ॥ दुर्गुणस्य च वक्तारः प्रत्यक्षं विरला जनाः । लोकतः शास्त्रतो ज्ञात्वा ह्यतस्त्याज्यांस्त्यजेत् सुधीः । अनयं नयसङ्काशं मनसापि न चिन्तयेत् ॥ अयं सहस्त्रापराधी किमेकेन भवेन्मम । मत्वा नार्घ स्मरेदीषद्विन्दुना पूर्य्यते घटः ॥ नक्तं दिनानि मे यान्ति कथम्भूतस्य सम्प्रति । दुःखभाड्न भवेदेवं नित्यं सन्निहितस्मृतिः ॥ समासव्यूहहेत्वादिकृतेच्छार्थं विहाय स्तुत्यर्थवादान् सन्त्यज्य सारं सङ्‌गृह्य यत्नतः ॥ धर्मतत्त्वं हि गहनमतः सत्सेवितं नरः । श्रुतिस्मृतिपुराणानां कर्म कुर्य्याद् विचक्षणः ॥ न गोपयेद् वासयेच्च राजा मित्रं सुतं गुरुम् । अधर्मनिरतं स्तेनमाततायिनमप्युत ॥ अग्निदो गरदश्चैव शस्त्रोन्मत्तो धनापहः । क्षेत्रदारहरणैतान् षड्विद्यादाततायिनः ॥ नोपेक्षेत स्त्रियं बालं रोगं दासं पशुं धनम् । विद्याभ्यासं क्षणमपि सत्सेवां बुद्धिमान् नरः ॥ विरुद्धो यत्र नृपतिर्धनिकः श्रोत्रियो भिषक् । आचाख्ख तथा देशो न तत्र दिवसं वसेत् ॥ नपुसंकश्च स्त्री बालश्शुण्डो मूर्खश्च साहसी । यत्राधिकारिणौते न तत्र दिवसं वसेत् ॥ अविवेकी यत्र राजा सभ्या यत्र तु पाक्षिकाः । सन्मार्गोज्झितविद्वांसः साक्षिणोऽनृतवादिनः ॥ दुरात्मनां च प्राबल्यं स्त्रीणां नीचजनस्य च । तत्र नेच्छेद् धनं मानं वसतिञ्चापि जीवितम् ॥ माता न पालयेद् बाल्ये पिता साधु न शिक्षयेत् । राजा यदि हरेद् वित्तं का तत्र परिदेवना ? ॥ सुसेविताः प्रकुप्यन्ति मित्रस्वजनपार्थिवाः । गृहमग्न्यश्निहतं का तत्र परिदेवना ?। आप्तवाक्यमनादृत्य दर्पेणाचरितं यदि । फलितं विपरीतं तत् का तत्र परिदेवना ?। सावधानमना नित्यं राजानं देवतां गुरुम् । अग्नि तपस्विनं धर्मज्ञानवृद्धं सुसेवयेत् ॥ मातृपितृगुरुस्वामिभ्रातृपुत्रसखिष्वपि । न विरुध्येन्नपकुर्यान्मनसापि क्षणं क्वचित् ॥ स्वजनैर्न विरुध्येत न स्पर्धेत बलीयसा । न कुर्य्यात् स्त्रीबालवृद्धमूर्खेषु च विवादनम् ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ नान्यधर्मं हि सेवेत न द्रुह्याद् वै कदाचन । हीनकर्म्मगुणैः स्त्रीभिर्नासीतैकासने क्वचित् ॥ षड् दोषा पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता । प्रभवन्ति विघाताय कार्य्यस्यैते न संशयः ॥ उपायज्ञश्च योगज्ञस्तत्त्वज्ञः प्रतिभानवान् । स्वधर्मनिरतो नित्यं परस्त्रीषु पराङ्मुखः । वक्तोहवांश्चित्रकथः स्यादकुण्ठितवाक् सदा ॥ चिरं संशृणुयान्नित्यं जानीयात् क्षिप्रमेव च । विज्ञाय प्रभजेदर्थान् न कामं प्रभजेत् क्वचित् ॥ क्रयविक्रयातिलिप्सां स्वदैन्यं दर्शयेन्न हि । कार्य्य विनान्यगेहे न नाज्ञातः प्रविशेदपि ॥ अपृष्टो नैव कथयेद् गृहकृत्यं तु कं प्रति। बह्वर्थाल्पाक्षरं कुर्य्यात् सल्लापं कार्य्यसाधकम् ॥ न दर्शयेत् स्वाभिमतमनुभूताद् विना सदा। ज्ञात्वा परमतं सम्यक्त्वेनाज्ञातोत्तरं वदेत् ॥ दम्पत्योः कलहे साक्ष्यं न कुर्य्यात् पितृपुत्रयोः । सुगुप्तकृत्यमन्त्रः स्यान्न त्यजेच्छरणागतम् ॥ यथाशक्ति चिकीर्षेत कुर्वन् मुद्दोच्च नापदि । कस्यचिन्न स्पृशेन्मर्म्म मिथ्यावादं न कस्यचित् ॥ नाश्लीलं कीर्त्तयेत् कञ्चित् प्रलापं न च कारयेत् ॥ अस्वर्यं स्याद्धर्म्यमपि लोकविद्वेषितं तु यत् । स्वहेतुभिर्न हन्येत कस्य वाक्यं कदाचन ॥ प्रविचार्य्योंत्तरं देयं सहसा न वदेत् क्वचित् । शत्रोरपि गुणा ग्राह्या गुरोस्त्याज्यास्तु दुर्गुणाः ॥ उत्कर्षो नैव नित्यः स्यान्नापकर्षस्तथैव न्न । प्राक्कर्म्मवशतो नित्यं सधनो निर्धनो भवेत् ॥ तस्मात् सर्वेषु भूतेषु मैत्रीं नैव च हापयेत् ॥ दीर्घदर्शी सदा च स्यात् प्रत्युत्पन्नमतिः क्वचित् । साहसी सालसी चैव चिरकारी भवेन्न हि ॥ यः सुदुर्निष्फलं कर्म ज्ञात्वा कर्तुं व्यवस्यति । द्रागादौ दीर्घदर्शी स्यात् स चिरं सुखमश्नुते ॥ प्रत्युत्पन्नमतिः प्राप्तां क्रियां कर्तुं व्यवस्यति । सिद्धि सांशयिकी तत्र चापल्यात् कार्यगौरवात् ॥ यतते नैव कालेऽपि क्रियां कर्तुं च सालसः । न सिद्धिस्तस्य कुत्रापि स नश्यति च सान्वयः ॥ क्रियाफलमविज्ञाय यतते साहसी च सः । दुःखभागी भवत्येव क्रियया तत्फलेन वा ॥ महत्कालेनाल्पकर्म चिरकारी करोति च । स शोचत्यल्पफलतो दीर्घदर्शी भवेदतः ॥ सुफलं तु भवेत् कर्म कदाचित् सहसा कृतम् । निष्फलं वापि प्रभवेत् कदाचित् सुविचारितम् ॥ तथापि नैव कुर्वीत सहासानर्थकारि तत् । कदाचिदपि सञ्जातमकार्यादिष्टसाधनम् ॥ यदनिष्टं तु सत्कार्यान्नाकार्य्यप्रेरकं हि तत् ॥ भृत्यो भ्रातापि वा पुत्रः पत्नी कुर्य्यान्न चैठ यत् । विधास्यन्ति च मित्राणि तत्कार्यमविशङ्कितम् ॥ यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः । मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥ न हि मानसिको धर्मः कस्यचिज्ज्ञायतेऽञ्जसा । अतो यतेत तत्प्राप्तौ मित्रलब्धिर्वरा नृणाम् ॥ नात्यन्तं विश्वसेत् कञ्चिद् विश्वस्तमपि सर्वदा । पुत्रं वा भ्रातरं भार्य्याममात्यमधिकारिणम् ॥ धनस्त्रीराज्यलोभो हि सर्वेषामधिको यतः । प्रामाणिकञ्चानुभूतमाप्तं सर्वत्र विश्वसेत् ॥ विश्वसित्वात्मवद् गूढस्तत्कार्यं विमृशेत् स्वयम् । तद्वाक्यं तर्कतोऽनर्थं विपरीतं न चिन्तयेत् ॥ चतुःषष्टितमांशं तन्नाशितं क्षमयेदथ । स्वधर्मनीतिबलवांस्तेन मैत्रीं प्रधारयेत् ॥ दानैर्मानैश्च सत्कारैः सुपूज्यान् पूजयेत् सदा ॥ कदापि नोग्रदण्ड स्यात् कटुभाषणतत्परः । भार्य्या पुत्रोऽप्युद्विजते कटुवाक्यात् प्रदण्डतः ॥ पशवोऽपि वशं यान्ति दानैछ मृदुभाषणैः ॥ न विद्यया न शौर्य्येण धनेनाभिजनेन च। न बलेन प्रमत्तः स्याच्चातिमानी कदाचन ॥ नाप्तोपदेशं संवेत्ति विद्यामत्तः स्वहेतुभिः । अनर्थमप्यभिप्रेतं मन्यते परमार्थवत् ॥ महाजनैर्धृतः पन्था येन सन्त्यज्यते बलात् । शौर्य्यमत्तस्तु सहसा युद्धं कृत्वा जहात्यसून् । व्यूहादियुद्धकौशल्यं तिरस्कृत्यं च शस्त्रवान् ॥ श्रीमत्तः पुरुषो वेत्ति न दुष्कीर्त्तिमजो यथा। स्वमूत्रगन्धं मूत्रेण मुखमासिञ्चते स्वकम् ॥ तथाभिजनमत्तस्तु सर्वानेवावमन्यते । श्रेष्ठानपीतरान् सम्यगकायें कुरुते मतिम् ॥ बलमत्तस्तु सहसा युद्धे विदधते मनः । बलेन बाघते सर्वान् पश्वादीनपि ह्यन्यथा ॥ मानमत्तो मन्यते स्म तृणवच्चाखिलं जगत् । अनर्होऽपि च सर्वेभ्यस्त्वत्यर्घासनमिच्छति ॥ मदा एतेऽवलिप्तानां सतामेति दमाः स्मृताः ॥ विद्यायाश्च फलं ज्ञानं विनयश्च फलं श्रियः । यज्ञदाने बलफलं सद्रक्षणमुदाहृतम् ॥ शमो दमश्वार्जवं चाभिजनस्य फलं त्विदम् । मानस्य तु फलं चैतत् सर्वे स्वसदृशा इति ॥ सुविद्यामन्त्रभैषज्यस्त्रीरलं दुष्कुलादपि । गृह्णीयात् सुप्रयत्नेन मानमुत्सृज्य साधकः ॥ उपेक्षेत प्रनष्टं यत् प्राप्तं यत् तदुपाहरेत् । न बालं न स्त्रियं चातिलालयेत् ताडयेन्न च। विद्याभ्यासे गृह्यकृत्ये तावुभौ योजयेत् क्रमात् ॥ परद्रव्यं क्षुदमपि नादत्तं संहरेदणु । नोच्चारयेदर्घ कस्य स्त्रियं नैव च दूषयेत् ॥ न ब्रूयादनृतं साक्ष्यं कृतं साक्ष्यं न लोपयेत् । प्राणात्ययेऽनृतं ब्रूयात् सुमहत्कार्य्यसाधने ॥ कन्यादात्रे तु ह्यघनं दस्यवे सधनं नरम् । गुप्तं जिघांसवे नैव विज्ञातमपि दर्शयेत् ॥ जायापत्योश्च पित्रोश्च भ्रात्रोश्च स्वामिभृत्ययोः । भगिन्योर्मित्रयोर्भेदं न कुर्य्याद् गुरुशिष्ययोः ॥ न मध्याद् गमनं भाषाशालिनोः स्थितयोरपि । सुहृदं भ्रातरं बन्धुमुपचर्य्यात् सदात्मवत् ॥ गृहागतं क्षुद्रमपि यथार्ह पूजयेत् सदा। तदीयकुशलप्रश्नैः शक्त्या दानैर्जलादिभिः ॥ सपुत्रस्तु गृहे कन्यां सपुत्रां वासयेन्न हि। सभर्तृकां च भगिनीमनाथे ते तु पालयेत् ॥ सपर्योऽग्निर्दुर्जनो राजा जामाता भगिनीसुतः । रोगः शत्रुर्नावमान्योऽप्यल्प इत्युपचारतः ॥ क्रौर्य्यात्तैक्ष्ण्याद्दुःस्वभावात् स्वामित्वात्पुत्रिकाभयात् । स्वपूर्वजपिण्डदत्वाद् वृद्धिभीभ्यामुपाचरेत् ॥ ऋणशेषं रोगशेषं शत्रुशेषं न रक्षयेत् । याचकाद्यैः प्रार्थितः सन्न तीक्ष्णं चोत्तरं वदेत् । तत्कार्य्यं तु समर्थश्चेत् कुर्य्याद् वा कारयीत च ॥ दातृणां धार्मिकाणां च शूराणां कीर्त्तनं सदा। श्रणुयात् तु प्रयत्नेन तच्छिद्रं नैव लक्षयेत् ॥ काले हितमिताहारविहारी विघसाशनः । अदीनात्मा च सुस्वप्नः शुचिः स्यात् सर्वदा नरः ॥ कुर्य्याद् विहारमाहारं निर्धारं विजने सदा। व्यवसायी सदा च स्यात् सुखं व्यायाममभ्यसेत् ॥ अन्नं न निन्द्यात् सुस्वस्थः स्वीकुर्य्यात् प्रीतिभोजनम् । आहारं प्रवरं विद्यात् षड्रसं मधुरोत्तरम् ॥ विहारं चैव स्वस्त्रीभिर्वेश्याभिर्न कदाचन । नियुद्धं कुशलैः सार्द्ध व्यायामं नतिभिर्वरम् ॥ हित्वा प्राक्यश्चिमौ यामौ निशि स्वापो वरो मतः । दीनान्धपडुबधिरा नोपहास्याः कदाचन ॥ नाकार्ये तु मतिं कुर्य्याद् द्राक् स्वकार्य्य प्रसाधयेत् । उद्योगेन बलेनैव बुद्धया धैय्येंण साहसात् । पराक्रमेणार्जवेन मानमुत्सृज्य साधकः ॥ यदि सिध्यति येनार्थः कलहेन वरस्तु सः । अन्यथायुर्धनसुहृद्यशः सुखहरः स्मृतः ॥ नानिष्टं प्रवदेत् कस्मिन् न छिद्रं कस्य लक्षयेत् । आज्ञाभङ्गस्तु महतां राज्ञः काव्यों न वै क्वचित् ॥ असत्कार्य्यनियोक्तारं गुरुं वापि प्रबोधयेत् । नातिक्रामेदपि लघु क्वचित् सत्कार्य्यबोधकम् ॥ कृत्वा स्वतन्त्रां तरुणीं स्त्रियं गच्छेन्न वै क्वचित् । स्त्रियो मूलमनर्थस्य तरुण्यः किं परैः सह ॥ न प्रमाद्येन्मदद्रव्यैर्न विमुह्येत् कुसन्ततौ ॥ साध्वी भार्य्या पितृपत्नी माता बाला पिता स्नुषा । अभर्तृकानपत्या या साध्वी कन्या स्वसापि च ॥ मातुलानी भ्रातृभार्या पितृमातृस्वसा तथा । मातामहोऽनपत्यश्च गुरुश्वशुरमातुलाः ॥ बालोऽपिता च दौहित्रो भ्राता च भगिनीसुतः । एतेऽवश्यं पालनीयाः प्रयत्नेन स्वशक्तितः ॥ अविभवेऽपि विभवे पितृमातृकुलं सुहत् । पल्याः कुलं दासदासीभृत्यवर्गाश्च पोषयेत् ॥ विकलाङ्गान् प्रव्रजितान् दीनानाथांश्च पालयेत् ॥ कुटुम्बभरणार्थेषु यत्नवान् न भवेच्च यः । तस्य सर्वगुणैः किन्तु जीवन्नेव मृतश्च सः ॥ न कुटुम्बं भृतं येन नाशिताः शत्रवोऽपि न । प्राप्तं संरक्षितं नैव तस्य किं जीवितेन वै ? ॥ स्त्रीभिर्जितो ऋणी नित्यं सुदरिद्रश्च याचकः । गुणहीनोऽर्थहीनः सन् मृता एते सजीवकाः ॥ आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । दानमानापमानं च नवैतानि सुगोपयेत् ॥ देशाटनं राजसभावेशनं शस्त्रचिन्तनम् । वेश्यादिदर्शनं विद्वन्मैत्रीं कुर्य्यादतन्द्रितः ॥ अनेकाश्च तथा धर्माः पदार्थाः पशवो नराः । देशाटनात् स्वानुभूताः प्रभवन्ति च पर्वताः ॥ कीदृशा राजपुरुषा न्यायान्यायं च कीदृशम् । मिथ्याविवादिनः के च के वै सत्यविवादिनः ॥ कीदृशी व्यवहारस्य प्रवृत्तिः शास्त्रलोकतः । सभागमनशीलस्य तद्विज्ञानं प्रजायते ॥ नाहङ्कारी च धर्मान्धः शास्त्राणां तत्त्वचिन्तनैः । एकं शास्त्रमधीयानो न विद्यात् कार्य्यनिर्णयम् ॥ स्याद् बह्वागमसन्दर्शी व्यवहारो महानतः । बुद्धिमानध्यसेन्नित्यं बहुशाखाण्यतन्द्रितः ॥ तदर्थं गृहीत्वापि तदधीना न जायते। वेश्या तथाविधा वापि वशीकर्तुं नरं क्षमा। नेयात् कस्य वशं तद्वत् स्वाधीनं कारयेज्जगत् ॥ श्रुतिस्मृतिपुराणानामर्थविज्ञानमेव च। सहवासात् पण्डितानां बुद्धि पण्डा प्रजायते ॥ देवपित्रतिथिभ्योऽन्नमद्दत्त्वा नाश्नीयात् क्वचित् । आत्मार्थं यः पचेन्मोहान्नरकार्थं स जीवति ॥ मार्ग गुरुभ्यो बलिने व्याधिताय शवाय च। राज्ञे श्रेष्ठाय व्रतिने यानगाय समुत्सृजेत् ॥ शकटात् पञ्चहस्तं तु दशहस्तं तु वाजिनः । दूरतः शतहस्तं च तिष्ठेन्नागाद् वृषाद् दश ॥ शृङ्गिणां च नखिनां च दंष्ट्रिणां दुर्जनस्य च। नदीनां वसतौ स्त्रीणां विश्वासं नैव कारयेत् ॥ खादन् न गच्छेदध्वानं न च हास्येन भाषणम् । शोकं न कुर्य्यान्नष्टस्य स्वकृतेरपि जल्पनम् ॥ स्वशङ्कितानां सामीप्यं त्यजेद् वै नीचसेवनम् । संलापं नैव शृणुयाद् गुप्तः कस्यापि सर्वदा ॥ उत्तमैरननुज्ञातं काव्यै नेच्छेच्च तैः सह। देवैः साकं सुधापानाद्राहोश्छिन्नं शिरो यतः ॥ महतोऽसत्कृतमपि भवेत् तद्भूषणाय वै। विषपानं शिवस्यैव त्वन्येषां मृत्युकारकम् ॥ तेजस्वी क्षमते सर्वं भोक्तुं वह्निरिवानघः । न साम्मुख्यं गुरोः स्थेयं राज्ञः श्रेष्ठस्य कस्यचित् ॥ राजा मित्रमिति ज्ञात्वा न कार्य्य मानसेप्सितम् । नेच्छेन्मूर्खस्य स्वामित्वं दास्यमिच्छेन्महात्मनाम् । विरोधं न ज्ञानलवदुर्विदग्धस्य रञ्जनम् ॥ अत्यावश्यमनावश्यं क्रमात् कार्यं समाचरेत् । प्राक् पश्चाद्वाग्विलम्बेन प्राप्तं कार्य्य तु बुद्धिमान् ॥ पित्राज्ञप्तेनापि मातृवधरूपे सुपूजिता । धृता गोतमपुत्रेण हाकायें चिरकारिता ॥ प्रेम्णा समीपवासेन स्तुत्या नत्या च सेवया। कौशल्येन कलाभिश्च कथाभिर्ज्ञानतोऽपि च ॥ आदरेणार्जवेनैव शौर्य्याद् दानेन विद्यया। प्रत्युत्थानाभिगमनैरानन्दस्मितभाषणैः उपकारैः स्वाशयेन वशीकुर्य्याज्जगत् सदा ॥ एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः । तत्सन्निधिं त्यजेत् प्राज्ञः शक्तस्तं दण्डतो जयेत् । छलभूतैस्तु तद्रूपैरुपायैरेभिरेव वा ॥ श्रुतिस्मृतिपुराणानामभ्यासः सर्वदा हितः । साङ्गानां सोपवेदानां सकलानां नरस्य हि ॥ मृगयाक्षाः स्त्रियः पानं व्यसनानि नृणां सदा। चत्वाय्येंतानि सन्त्यज्य युक्त्या संयोजयेत् क्वचित् ॥ कूटेन व्यवहारं तु वृत्तिलोपं न कस्यचित् । न कुर्याच्चिन्तयेत् कस्य मनसाप्यहितं क्वचित् ॥ तत्कार्य्य तु सुखं यस्माद् भवेत् द्वैकालिकं दृढम् । मृते स्वर्गं जीवति च विन्द्यात्कीर्त्तिदृढां शुभाम् ॥ जागर्त्ति च सचिन्तो य आधिव्याधिनिपीडितः । जारश्चोरो बलिद्विष्टो विषयी धनलोलुपः ॥ कुसहायी कुनृपतिर्भिन्नामात्यसुहृत्प्रजः । कुर्य्याद्यथा समीक्ष्यैतत् सुखं स्वप्याच्चिरं नरः ॥ राज्ञो नानुकृतिं कुर्य्यान्न च श्रेष्ठस्य कस्यचित् । नैको गच्छेद् व्यालव्याघ्रचोरेषु च प्रबाधितुम् ॥ जिघांसन्तं जिघांसीयाद् गुरुमप्याततायिनम् । कलहे न सहायः स्यात् संरक्षेद् बहुनायकम् ॥ गुरूणां पुरतो राज्ञो न चासीत महासने । प्रौढपादो न तद्वाक्यं हेतुभिर्विकृतिं नयेत् ॥ यत् कर्त्तव्यं न जानाति कृतं जानाति चेतरः । नैव वक्ति च कर्त्तव्यं कृतं यश्चोत्तमो नरः ॥ न प्रियाकथितं सम्यङ्मन्येतानुभवं विना । अपराधं मातृस्नुषाभ्रातृपत्नीसपत्निजम् ॥ अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दया दर्पः स्त्रीणामष्टौ स्वदुर्गुणाः ॥ षोडशाब्दात् परं पुत्रं द्वादशाब्दात् परं स्त्रियम् । न ताडयेद् दुष्टवाक्यैः पीडयेन्न स्नुषादिकम् ॥ पुत्राधिकाश्च दौहित्रा भागिनेयाश्च भ्रातरः । कन्याधिकाः पालनीया भ्रातृभार्य्या स्नुषा स्वसा ॥ आगमार्थं हि यतते रक्षणार्थं हि सर्वदा । कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ॥ अनृतं साहसं मौख्यं कामाधिक्यं स्त्रियां यतः । कामाद् विनैकशयने नैव सुप्यात् स्त्रिया सह ॥ दृष्ट्वा धनं कुलं शीलं रूपं विद्यां बलं वयः । कन्यां दद्यादुत्तमं चेन्मैत्रीं कुर्य्यादथात्मनः ॥ भार्य्यार्थिनं वयोविद्यारूपिणं निर्धनं त्वपि । न केवलेन रूपेण वयसा न धनेन च ॥ आदौ कुलं परीक्षेत ततो विद्यां ततो वयः । शीलं धनं ततो रूपं देशं पश्चाद् विवाहयेत् ॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ भार्य्यार्थं वरयेत् कन्यामसमानर्षिगोत्रजाम् । भ्रातृमतीं सुकुलां च योनिदोषविवर्जिताम् ॥ क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । न त्याज्यौ तु क्षणकणौ नित्यं विद्याधनार्थिना ॥ सुभार्य्यापुत्रमित्रार्थं हितं नित्यं धनार्जनम् । दानार्थं च विना त्वेतैः किं धनैश्च जनैश्च किम् ?। भाविसंरक्षणक्षमं धनं यत्नेन रक्षयेत् । जीवामि शतवर्षं तु नन्दामि च धनेन वै ॥ इति बुद्धया सञ्चिनुयाद्धनं विद्यादिकं सदा। पञ्चविंशत्यब्दपूरं तदर्द्ध वा तदर्द्धकम् ॥ विद्याधनं श्रेष्ठतरं तन्मूलमितरद्धनम् । दानेन वर्द्धते नित्यं न भाराय न नीयते ॥ अस्ति यावत् तु सधनस्तावत् सर्वैस्तु सेव्यते । निर्धनस्त्यज्यते भार्य्यापुत्राद्यैः सगुणोऽप्यतः ॥ संसृतौ व्यवहाराय सारभूतं धनं स्मृतम् । अतो यतेत तत्प्राप्तौ नरा ह्युपायसाहसैः ॥ सुविद्यया सुसेवाभिः शौर्येण कृषिभिस्तथा । कौसीदवृद्धया पण्येन कलाभिश्च प्रतिग्रहैः । यया कया चापि वृत्त्या धनवान् स्यात्तथाचरेत् ॥ तिष्ठन्ति सधनद्वारे गुणिनः किङ्करा इव ॥ दोषा अपि गुणायन्ते दोषायन्ते गुणा अपि । धनवतो निर्धनस्य निन्द्यते निर्धनोऽखिलैः ॥ सुनिर्धनत्वं प्राप्यैके मरणं भेजिरे जनाः । ग्रामायैकेऽचलायैके नाशायैके प्रवव्रजुः ॥ उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् । दास्यमेके च गच्छन्ति परेषा मर्थहेतुना ॥ यथा न जानन्ति धनं सञ्चितं कति कुत्र वै । आत्मस्त्रीपुत्रमित्राणि सलेखं धारयेत् तथा ॥ नैवास्ति लिखितादन्यत् स्मारकं व्यवहारिणाम् । न लेख्येन विना कुर्य्याद् व्यवहारं सदा बुधः ॥ निर्लोभे धनिके राज्ञि विश्वस्ते क्षमिणां वरे । सुसञ्चितं धनं धार्यं गृहीतलिखितं तु वा ॥ मैत्र्यर्थे याचितं दद्यादकुसीदं धनं सदा । तस्मिन् स्थितं चेन्न बहु हानिकृच्च तथाविधम् ॥ दृष्ट्वाधमर्ण वृद्धयापि व्यवहारक्षमं सदा । सबन्धं सप्रतिभुवं धनं दद्याच्च साक्षिमत् ॥ गृहीतलिखितं योग्यमानं प्रत्यागमे सुखम् । न दद्याद् वृद्धिलोभेन नष्टं मूलधनं भवेत् ॥ आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् । धनं मैत्रीकरं दाने चादाने शत्रुकारणम् ॥ कृत्वा स्वान्ते तथौदार्यं कार्पण्यं बहिरेव च । उचितं तु व्ययं काले नरः कुर्य्यान्न चान्यथा ॥ सुभार्य्यापुत्रमित्राणि शक्त्या संरक्षयेद्धनैः । नात्मा पुनरतो त्मानं सर्वैः सर्वं पुनर्भवेत् ॥ पश्यति स्म सजीवश्चेन्नरो भद्रशतानि च । सदारप्रौढपुत्रान् द्राक् श्रेयोऽर्थी विभजेत् पिता ॥ सदारभ्रातरः प्रौढा विभजेयुः परस्परम् । एकोदरा अपि प्रायो विनाशायान्यथा खलु ॥ नैकत्र संवसेच्चापि स्त्रीद्वयं मनुजस्य तु । कथं वसेत् तद्बहुत्वं पशूनां तु नरद्वयम् ॥ विभजेयुर्न तत् पुत्रा यद्धनं वृद्धिकारणम् । अधमर्णस्थितं चापि यद्देयं चौत्तमर्णिकम् ॥ यस्येच्छेदुत्तमां मैत्रीं कुर्यान्नार्थाभिलाषकम् । परोक्षे तद्रहश्चारं तत्त्रीसम्भाषणं तथा ॥ तन्न्यूनदर्शनं नैव तत् प्रतीपविवादनम् । असाहाय्यं च तत्कायें ह्यनिष्टोपेक्षणं न च ॥ सकुसीदमकुसीदं धनं यच्चौत्तमर्णिकम् । दद्यादगृहीतमिव नोभयोः क्लेशकृद् यथा ॥ नासाक्षिमच्चालिखितमृणपत्रस्य पृष्ठतः ॥ आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः । गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ॥ उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः । कन्यास्त्रीभगिनीभाग्यो नरोऽधमतमो मतः ॥ भूत्वा महाधनः सम्यक् पोष्यवर्ग तु पोषयेत् । अदत्त्वा यत् किञ्चिदपि न नयेद् दिवसं बुधः ॥ स्थितो मृत्युमुखे चाहं क्षणमायुर्ममास्ति न । इति मत्वा दानधर्मों यथेष्टौ तु समाचरेत् ॥ न तौ विना मे परत्र सहायाः सन्ति चेतरे । दानशीलाश्रयाल्लोको वर्त्तते न शठाश्रयात् ॥ भवन्ति मित्रा दानेन द्विषन्तोऽपि च किं पुनः ॥ देवतार्थं च यज्ञार्थं ब्राह्मणार्थं गवार्थकम् । यद्दत्तं तत्पारलौक्यं संविद्दत्तं तदुच्यते ॥ वन्दिमागधमल्लादिनटनार्थं च दीयते । पारितोष्यं यशोऽर्थं तु श्रिया दत्तं तदुच्यते ॥ उपायनीकृतं यत् तु सुहृत्सम्बन्धिबन्धुषु । विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ॥ राज्ञे च बलिने दत्तं कार्य्यार्थं कार्य्यघातिने । पापभीत्याथवा यच्च तत् तु भीदत्तमुच्यते ॥ यद्दत्तं हिंस्त्रवृद्धयर्थं नष्टं द्यूतविनाशितम् । चौरैर्हतं पापदत्तं परस्त्रीसङ्गमार्थकम् ॥ आराधयति यं देवं तमुत्कृष्टतरं वदेत् । तन्न्यूनतां नैव कुर्य्याज्जोषयेत् तस्य सेवनम् ॥ विना दानार्जवाभ्यां न भुव्यस्ति च वशीकरम् । दानक्षीणो विवर्द्धिष्णुः शशी वक्रोऽप्यतः शुभः ॥ विचार्य्य स्नेहं द्वेषं वा कुर्य्यात् कृत्वा न चान्यथा । नापकुर्य्यान्नोपकुर्य्याद्भवतोऽनर्थकारिणौ ॥ नातिक्रौर्घ्यं नातिशाठ्यं धारयेन्नातिमार्दवम् । नातिवादं नातिकार्य्यासक्तिमत्याग्रहं न च ॥ अति सर्वं नाशहेतुर्हातोऽत्यन्तं विवर्जयेत् । उद्वेजते जनः क्रौर्य्यात् कार्पण्यादतिनिन्दति ॥ मार्दवान्नैव गणयेदपभानोऽतिवादतः । अतिदानेन दारिद्रयं तिरस्कारोऽतिलोभतः ॥ अत्याग्रहान्नरस्यैव मौख्र्वं सञ्जायते खलु । अनाचारार्द्धर्महानिरत्याचारस्तु मूर्खता ॥ ह्यधिकोऽस्मीति सर्वेभ्यो ह्यधिकज्ञानवानहम् । धर्मतत्त्वमिदमिति नैवं मन्येत बुद्धिमान् ॥ तिमिङ्गिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघवः । कश्चित्तु तद्ङ्गिलोऽस्तीति मत्वा मन्येत सर्वदा ॥ नेच्छेत् स्वाम्यं तु देवेषु गोषु च ब्राह्मणेषु च । महानर्थकरं होतत् समग्रकुलनाशनम् ॥ भजनं पूजनं सेवामिच्छेदेतेषु सर्वदा । न ज्ञायते ब्रह्मतेजः कस्मिन् कीदृक् प्रतिष्ठितम् ॥ पराधीनं नैव कुर्य्यात् तरुणीधनपुस्तकम् । कृतं चेल्लभ्यते दैवाद् भ्रष्टं नष्टं विमर्दितम् ॥ बह्वर्थं न त्यजेदल्यहेतुनाल्यं न साधयेत् । बह्वर्थव्ययतो धीमानभिमानेन वै क्वचित् ॥ बह्वर्थव्ययभीत्या तु सत्कीर्त्ति न त्यजेत् सदा। भटानामसदुक्त्या तु नेष्ये॑त् कुप्यान्न तैः सह ॥ लज्ज्यते च सुहृद् येन भिद्यते दुर्मना भवेत् । वक्तव्यं न तथा किञ्विद् विनोदेऽपि च धीमता ॥ यस्मिन् सूक्तं दुरुक्तं च समं स्याद् वा निरर्थकम् । न तत्र प्रलपेत् प्राज्ञो बधिरेष्विव गायनः ॥ व्यसने सज्जमानं हि यो मित्रं नाभिपद्यते। अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥ ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते । सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ॥ आजन्मसेवितं दानैर्मानैश्च परिपोषितम् । तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुताम् । वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ॥ वहेदमित्रं स्कन्धेन यावत् स्यात् स्वबलाधिकः । ज्ञात्वा नष्टबलं तं तु भिन्द्याद् घटमिवाश्मनि ॥ न भूषयत्यलङ्कारो न राज्यं न च पौरुषम् । न विद्या न धनं तादृग् यादृक् सौजन्यभूषणम् ॥ अश्वे जवो वृषे धौयं मनौ कान्तिः क्षमा नृपे। हावभावौ च वेश्यायां गायके मधुरस्वरः ॥ दातृत्वं धनिके शौय्यै सैनिके बहुदुग्धता । गोषु दमस्तपस्विषु विद्वत्सु वावदूकता ॥ सभ्येष्वपक्षपातस्तु तथा साक्षिषु सत्यवाक् । अनन्यभक्तिभृत्येषु सुहितोक्तिश्च मन्त्रिषु ॥ मौनं मूर्खेषु च स्त्रीषु पातिव्रत्यं सुभूषणम् । महादुर्भूषणं चैतद् विपरीतममीषु च ॥ गृहं बहुकुटुम्बेन दीपैगोंभिः सुबालकैः । भात्येकनायकं नित्यं न गृहं बहुनायकम् ॥ न च हिंस्त्रमुपेक्षेत शक्तो हन्याच्च तत्क्षणे ॥ पैशुन्यं चण्डता चौर्य्य मात्सर्य्यमतिलोभता । असत्यं कार्य्यघातित्वं तथालसकताप्यलम् । गुणिनामपि दोषाय गुणानाच्छाद्य जायते ॥ मातुः प्रियायाः पुत्रस्य धनस्य च विनाशनम् । बाल्ये मध्ये व वार्द्धक्ये महापापफलं क्रमात् ॥ श्रीमतामनपत्यत्वमधनानां च मूर्खता । स्त्रीणां षण्डपतित्वं च न सौख्यायेष्टनिर्गमः ॥ मूर्खः पुत्रोऽथवा कन्या चण्डी भार्य्या दरिद्रता । नीचसेवा ऋणं नित्यं नैतत् षट्कं सुखाय च ॥ नाध्यापने नाध्ययने न देवे न गुरौ द्विजे । न कलासु न सङ्गीते सेवायां नार्जवे स्त्रियाम् ॥ न शौयें न च तपसि साहित्ये रमते मनः । यस्य मुक्तः खलः किं वा नररूपपशुश्च सः ॥ अन्योदयासहिष्णुश्च छिद्रदर्शी विनिन्दकः । द्रोहशीलः स्वान्तमलः प्रसन्नास्यः खलः स्मृतः ॥ एकस्यैव न पर्याप्तमस्ति यद् ब्रह्मकोशजम् । आशया वर्द्धितस्यास्ति तस्याल्पमपि पूर्त्तिकृत् ॥ करोत्यकार्य्य साशोऽन्यं बोधयत्यनुमोदते ॥ भवन्त्यन्योपदेशार्थे धूर्त्ताः साधुसमाः सदा । स्वकार्य्यार्थं प्रकुर्वन्ति ह्यकार्याणां शतन्तु ते ॥ पित्रोराज्ञां पालयति सेवने च निरालसः । छायेव वर्त्तते नित्यं यतते चागमाय वै ॥ कुशलः सर्वविद्यासु स पुत्रः प्रीतिकारकः । दुःखदो विपरीतो यो दुर्गुणो धननाशकः ॥ पत्यौ नित्यं चानुरक्ता कुशला गृहकर्मणि । पुत्रप्रसूः सुशीला या प्रिया पत्युः सुयौवना ॥ पुत्रापराधान् क्षमते या पुत्रपरिपोषिणी । सा माता प्रीतिदा नित्यं कुलटान्यातिदुःखदा ॥ विद्यागमार्थं पुत्रस्य वृत्त्यर्थं यतते च यः । पुत्रं सदा साधु शास्ति प्रीतिकृत् स पितानृणी ॥ यः सहायं सदा कुर्य्यात् प्रतीपं न वदेत् क्वचित् । सत्यं हितं वक्ति याति दत्ते गृह्णाति मित्रताम् ॥ नीचस्यातिपरिचयो ह्यन्यगेहे सदा गतिः । जातौ सड्डे प्रातिकूल्यं मानहान्यै दरिद्रता ॥ व्याघ्राग्निसर्पहिंस्त्राणां न हि सङ्घर्षणं हितम् । सेवितत्वात्तु राज्ञो नैते मित्राः कस्य सन्ति किम् ? ॥ दौर्मनस्यं च सुहृदां सुप्राबल्यं रिपोः सदा। विद्वत्स्वपि च दारिद्र्यं दारिद्र्ये बह्वपत्यता ॥ धनिगुणिवैद्यनृपजलहीने सदा स्थितः । दुःखाय कन्यकाप्येका पित्रोरपि च याचनम् ॥ सुरूपः सधनः स्वामी विद्वानपि बलाधिकः । न कामयेद् यथेष्टं यत् स्त्रीणां नैव सुसौख्यकृत् ॥ यो यथेष्टं कामयते स्त्री तस्य वशगा भवेत् । सन्धारणाल्लालनाच्च यथा याति वशं शिशुः ॥ कार्यं तत्साधकादींश्च तद्व्ययं सुविनिर्गमम् । विचिन्त्य कुरुते ज्ञानी नान्यथा लघ्वपि क्वचित् ॥ न च व्ययाधिकं कार्यं कर्तुमीहेत पण्डितः । लाभाधिक्यं यत् क्रियते तत् सेव्यं व्यवसायिभिः । मूल्यं मानञ्च पण्यानां याथात्म्यान्मृग्यते सदा ॥ तपः स्त्रीकृषिसेवासूपभोग्ये नापि भक्षणे। हितः प्रतिनिधिर्नित्यं काव्येंऽन्ये तं नियोजयेत् ॥ निर्जनत्वं मधुरभुम् जारश्चोरः सदेच्छति । साहाय्यन्तु बलिद्विष्टो वेश्या धनिकमित्रताम् ॥ कुनृपश्च छलं नित्यं स्वामिद्रव्यं कुसेवकः । तत्त्वन्तु ज्ञानवान् दम्भं तपोऽग्नि देवजीवकः ॥ योग्या कान्तं च कुलटा जारं वैद्यं च व्याधितः । धृतपण्यो महार्घत्वं दानशीलन्तु याचकः । रक्षितारं मृगयते भीतश्छिद्रन्तु दुर्जनः ॥ चण्डायते विवदते स्वपित्यश्नाति मादकम् । करोति निष्फलं कर्म मूर्खा वा स्वेष्टनाशनम् ॥ तमोगुणाधिकं क्षात्रं ब्राह्यं सत्त्वगुणाधिकम् । अन्यद्रजोऽधिकं तेजस्तेषु सत्त्वाधिकं वरम् ॥ सर्वाधिको ब्राह्मणस्तु जायते हि स्वकर्मणा । तत्तेजसोऽनुतेजांसि सन्ति च क्षत्रियादिषु ॥ स्वधर्मस्थं ब्राह्मणं हि दृष्ट्वा बिभ्यति चेतरे । क्षत्रियाद्या नान्यथा स्वधर्मञ्चातः समाचरेत् ॥ न स्यात् स्वधर्महानिस्तु यया वृत्त्या च सा वरा । स देशः प्रवरो यत्र कुटुम्बपरिपोषणम् ॥ कृषिस्तु चोत्तमा वृत्तिर्या सरिन्मातृका मता । मध्यमा वैश्यवृत्तिस्तु शूद्रवृत्तिस्तु चाधमा ॥ याच्ञाधमतरा वृत्तिद्युत्तमा सा तपस्विषु । क्वचित् सेवोत्तमा वृत्तिर्धर्मशीलनृपस्य च ॥ आध्वर्य्यवादिकं कर्म कृत्वा या गृह्यते भृतिः । सा किं महाधनायैन ? वाणिज्यमलमेव किम् ? ॥ राजसेवां विना द्रव्यं विपुलं नैव जायते । राजसेवातिगहना बुद्धिमद्भिर्विना न सा। कर्तुं शक्या चेतरेण ह्यसिधारेव सा सदा ॥ व्यालग्राही यथा व्यालं मन्त्री मन्त्रबलात् नृपम् । करोत्यधीनन्तु नृपे भयं बुद्धिमतां महत् ॥ ब्राह्यं तेजो बुद्धिमत्सु क्षात्रं राज्ञि प्रतिष्ठितम् । आरादेव सदा चास्ति तिष्ठन् दूरेऽपि बुद्धिमान् ॥ बुद्धिपाशैर्बन्धयित्वा सन्ताडयति कर्षति । समीपस्थोऽपि दूरेऽस्ति ह्यप्रत्यक्षसहायवान् ॥ नानुवाकहता बुद्धिर्व्यवहारक्षमा भवेत् । अनुवाकहता या तु न सा सर्वत्रगामिनी ॥ तथादौ पादगमनं यानगत्वमनन्तरम् । सुखाय कल्पते नित्यं दुःखाय विपरीतकम् ॥ वरं हि त्वनपत्यत्वं मृतापत्यवतः सदा । दुष्टयानात् पादगमो ह्यौदासीन्यं विरोधतः ॥ वरं देशाच्छादनतश्चर्मणा पादगूहनम् । ज्ञानलवदौर्विदग्ध्यादज्ञता प्रवरा मता ॥ परगृहनिवासाद्धधरण्ये निवसनं वरम् । प्रदुष्टभार्य्यागार्हस्थ्याद् भैक्ष्यं वा मरणं वरम् ॥ श्वमैथुनमृणं गर्भाधानं स्वामित्वमेव च । खलसख्यमपथ्यन्तु प्राक् सुखं दुःखनिर्गमम् ॥ कुमन्त्रिभिर्नृपो रोगी कुवैद्यैः कुनृपैः प्रजा । कुसन्तत्या कुलं चात्मा कुबुद्ध्या हीयतेऽनिशम् ॥ हस्त्यश्ववृषबालस्त्रीशुकानां शिक्षको यथा । तथा भवन्ति ते नित्यं संसर्गगुणधारकाः ॥ स्याज्जयोऽवसरोक्त्या सद्वसनैः सुप्रसिद्धता । सभायां विद्यया मानस्त्रितयं त्वधिकारतः ॥ सुभार्य्या सुष्ठु चापत्यं सुविद्या सुधनं सुहृत् । सुदासदास्यौ सद्देहः सद्देश्म सुनृपः सदा । गृहिणां हि सुखाचालं दशैतानि न चान्यथा ॥ वृद्धाः सुशीला विश्वस्ताः सदाचाराः स्त्रियो नराः । क्लीवा वान्तःपुरे योज्या न युवा मित्रमप्युत ॥ कालं नियम्य कार्य्याणि ह्याचरेन्नान्यथा क्वचित् । गवादिष्वात्मवज्ञानमात्मानं चार्थधर्मयोः । नियुञ्जीतान्नसंसिद्ध्यै मातरं शिक्षणे गुरुम् ॥ गच्छेदनियमेनैव सदैवान्तःपुरं नरः ॥ भार्य्यानपत्या सद्यानं भारवाही सुरक्षकः । परदुःखहरा विद्या सेवकश्च निरालसः । षडेतानि सुखायालं प्रवासे तु नृणां सदा ॥ मार्गं निरुध्य न स्थेयं समर्थेनापि कर्हिचित् । सद्यानेनापि गच्छेन्न हट्टमार्गे नृपोऽपि च ॥ ससहायः सदा च स्यादध्वगो नान्यथा क्वचित् । समीपसन्मार्गजलाभयग्रामेऽध्वगो वसेत् ॥ अतादृशे च विरमेन्न मार्गे विपिनेऽपि न ॥ अत्यटनं चानशनमतिमैथुनमेव च । अत्यायासश्च सर्वेषां द्राग्जराकरणं महत् ॥ अत्यायासो हि विद्यासु जराकारी कलासु च ॥ दुर्गुणं तु गुणीकृत्य कीर्त्तयेत् स प्रियो भवेत् । गुणाधिक्यं कीर्त्तयति यः किं स्यान्न पुनः सखा ? ॥ दुर्गुणं वक्ति सत्येन प्रियोऽपि सोऽप्रियो भवेत् । गुणं हि दुर्गुणीकृत्य वक्ति यः स्यात् कथं प्रियः ? ॥ स्तुत्या वशं यान्ति देवा ह्यञ्जसा किं पुनर्नराः ? । प्रत्यक्षं दुर्गुणान् नैव वक्तुं शक्नोति कोऽप्यतः ॥ स्वदुर्गुणान् स्वयं चातो विमृशेल्लोकशास्त्रतः ॥ स्वदुर्गुणश्रवणतो यस्तुष्यति न कुध्यति । स्वदोषस्य प्रविज्ञाने यतते त्यजति श्रुते । स्वगुणश्रवणान्नित्यं समस्तिष्ठति नाधिकः ॥ दुर्गुणानां खनिरहं गुणाधानं कथं मयि ? । मय्येव चाज्ञताप्यस्ति मन्यते सोऽधिकोऽखिलात् ॥ स साधुस्तस्य देवा हि कलालेशं लभन्ति न ॥ सदाल्पमप्युपकृतं महत् साधुषु जायते । मन्यते सर्षपादल्पं महच्चोपकृतं खलः ॥ क्षमिणं बलिनं साधुर्मन्यते दुर्जनोऽन्यथा । दुरुक्तमप्यतः साधोः क्षमयेद् दुर्जनस्य न ॥ तथा न क्रीडयेत् कैश्चित् कलहाय भवेद् यथा । विनोदेऽपि वदेन्नैवं ते भार्य्या कुलटास्ति किम् ॥ अपशब्दाश्च नो वाच्या मित्रभावाच्च केष्वपि । गोप्यं न गोपयेन्मित्रे तद्‌गोप्यं न प्रकाशयेत् ॥ वैरीभूतोऽपि पश्चात् प्राक्कथितं वापि सर्वदा। विज्ञातमपि यद् दौष्ट्यं दर्शयेत्तन्न कर्हिचित् ॥ प्रतिकर्तुं यतेतैव गुप्तः कुर्य्यात् प्रतिक्रियाम् ॥ यथार्थमपि न ब्रूयाद् बलवद् विपरीतकम् । दृष्टं त्वदृष्टवत् कुर्य्याच्छ्रतमप्यश्रुतं क्वचित् ॥ मूकोऽन्धो बधिरः खञ्जः स्वापत्काले भवेन्नरः । अन्यथा दुःखमाप्नोति हीयते व्यवहारतः ॥ वदेद् वृद्धानुकूलं यन्न बालसदृशं क्वचित् । परवेश्मगतस्तत् स्त्रीवीक्षणं न च कारयेत् ॥ अधनादननुज्ञातान्न गृहणीयात् तु स्वामिताम् । स्वशिशुं शिक्षयेदन्यशिशुं नाप्यपराधिनम् ॥ अधर्मनिरतो यस्तु नीतिहीनश्चलान्तरः । सङ्कर्षकोऽतिदण्डी तद्द्यामं त्यक्त्वान्यतो वसेत् ॥ यथार्थमपि विज्ञातमुभयोर्वादिनोर्मतम् । अनियुक्तो न वै ब्रूयाद्धीनः शत्रुर्भवेदतः ॥ गृहीत्वान्यविवादं तु विवदेन्नैव केनचित् । मिलित्वा सङ्घशो राजमन्त्रं नैव तु तर्कयेत् ॥ अज्ञातशास्त्रो, ने ब्रूयात् ज्योतिषं धर्मनिर्णयम् । नीति दण्डं चिकित्साञ्च प्रायश्चित्तं क्रियाफलम् ॥ पारतन्त्र्यात् परं दुःखं न स्वातन्त्र्यात् परं सुखम् । अप्रवासी गृही नित्यं स्वतन्त्रः सुखमेधते ॥ नूतनप्राक्तनानां च व्यवहारविदां धिया । प्रतिक्षणं चाभिनवो व्यवहारो भवेदतः ॥ वक्तुं न शक्यते प्रायः पत्यक्षादनुमानतः । उपमानेन तज्ज्ञानं भवेदाप्तोपदेशतः ॥ कथितं तु समासेन सामान्यं नृपराष्ट्रयोः । नीतिशास्त्रं हितायालं यद् विशिष्टं नृपे स्मृतम् ॥ ==चतुर्थ अध्याय== === सुहृदादि लक्षण प्रकरण=== अथ मिश्रप्रकरणं प्रवक्ष्यामि समासतः । लक्षणं सुहृदादीनां समासाच्छृणुताधुना ॥ मित्रः शत्रुश्चतुर्धा स्यादुपकारापकारयोः । कर्ता कारयिता चानुमन्ता यश्च सहायकः ॥ यस्य सुद्रवते चित्तं परदुःखेन सर्वदा । इष्टार्थे यततेऽन्यस्याप्रेरितः सत्करोति यः ॥ आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् । प्रोक्तोत्तमोऽयमन्यश्च त्रिद्वयेकपद‌मित्रकः ॥ अनन्यस्वत्वकामत्वमेकस्मिन् विषये द्वयोः । वैरिलक्षणमेतद् वान्येष्टनाशनकारिता ॥ भ्रात्रभावे पितृद्रव्यमखिलं मम वै भवेत् । न स्यादेतस्य वश्येऽयं ममैव स्यात् परस्परम् ॥ भोक्ष्येऽखिलमहं चैतद्विनान्यं स्तः सुवैरिणौ । द्वेष्टि द्विष्ट उभौ शत्रू स्तश्चैकतरसंज्ञकौ ॥ शूरस्योत्थानशीलस्य बलनीतिमतः सदा । सर्वे मित्रा गूढवैरा नृपाः कालप्रतीक्षकाः ॥ भवन्तीति किमाश्चर्य्यं राज्यलुब्धा न ते हि किम् ? । न राज्ञो विद्यते मित्रं राजा मित्रं न कस्य वै ॥ प्रायः कृत्रिममित्रे ते भवतश्च परस्परम् । केचित् स्वभावतो मित्राः शत्रवः सन्ति सर्वदा माता मातृकुलं चैव पिता तत् पितरौ तथा । पितृपितृव्यात्मकन्या पत्नी तत् कुलमेव हि ॥ पितृमात्रात्मभगिनीकन्यकासन्ततिश्च या । प्रजापालो गुरुश्चैव मित्राणि सहजानि हि ॥ विद्या शौर्य्यञ्च दाक्ष्यञ्च बलं धैर्य्यञ्च पञ्चमम् । मित्राणि सहजान्याहुर्वर्त्तयन्ति हि तैर्बुधाः ॥ पित्रोर्निदशवर्ती यः स पुत्रोऽन्वर्थनामवान् । श्रेष्ठ एकस्तु गुणवान् किं शतैरपि निर्गुणैः ॥ स्वभावतो भवन्त्येते हिंस्रो दुर्वृत्त एव च । ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी ॥ आत्मपितृभ्रातरश्च तत् स्त्रीपुत्राश्च शत्रवः । स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ॥ मूर्खः पुत्रः कुवैद्यश्चारक्षकस्तु पतिः प्रभुः । चण्डश्चण्डा प्रजा शत्रुरदाता धनिकश्च यः ॥ दुष्टानां नृपतिः शत्रुः कुलटानां पतिव्रता । साधुः खलानां शत्रुः स्यान्मूर्खाणां बोधको रिपुः ॥ उपदेशो हि मूर्खाणां क्रोधायैव शमाय न । पयःपानं भुजङ्गानां विषायैवामृताय न ॥ आसमन्ताच्चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः । तत्परास्तत्परा येऽन्ये क्रमाद्धीनबलारयः ॥ शत्रूदासीनमित्राणि क्रमात् ते स्युस्तु प्राकृताः । अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ॥ क्रमशो वा नृपा ज्ञेयाश्चतुर्दिक्षु तथारयः । स्वसमीपतरा भृत्या ह्यमात्याद्याश्च कर्षिताः ॥ बृंहयेत् कर्षयेत् मित्रं हीनाधिकबलं क्रमात् ॥ भेदनीया कर्षणीयाः पीडनीयाश्च शत्रवः । विनाशनीयास्ते सर्वे सामादिभिरुपक्रमैः ॥ मित्रं शत्रुं यथायोग्यैः कुर्य्यात् स्ववशवर्त्तिनम् । उपायेन यथा व्यालो गजः सिंहोऽपि साध्यते ॥ भूमिष्ठाः स्वर्गमायान्ति वज्रं भिन्दन्त्युपायतः ॥ सुहृत्सम्बन्धिस्त्रीपुत्रप्रजाशत्रुषु ते पृथक् । सामदानभेददण्डाश्चिन्तनीयाः स्वयुक्तितः॥ एकशीलवयोविद्याजातिव्यसनवृत्तयः साहचर्य्ये भवेन्मित्रमेभिर्यदि तु सार्जवैः ॥ त्वत्समस्तु सखा नास्ति मित्रे साम इदं स्मृतम् । मम सर्वं तवैवास्ति दानं मित्रे सजीवितम् ॥ मित्रेऽन्यमित्रसुगुणान् कीर्त्तयेद् भेदनं हि तत् । मित्रे दण्डो न करिष्ये मैत्रीमेवंविधोऽसि चेत् ॥ यो न संयोजयेदिष्टमन्यानिष्टमुपेक्षते । उदासीनः स न कथं भवेच्छत्रुः सुसान्धिकः ? ॥ परस्परमनिष्टं न चिन्तनीयं त्वया मया । सुसाहाय्यं हि कर्त्तव्यं शत्रौ साम प्रकीर्त्तितम् ॥ करैर्वा प्रमितैर्ग्रामैर्वत्सरे प्रबलं रिपुम् । तोषयेत् तद्धि दानं स्याद् यथायोग्येषु शत्रुषु ॥ शत्रुसाधकहीनत्वकरणात् प्रबलाश्रयात् । तद्धीनतोज्जीवनाच्च शत्रुभेदनमुच्यते ॥ दस्युभिः पीडनं शत्रोः कर्षणं धनधान्यतः । तच्छिद्रदर्शनादुग्रबलैर्नीत्या प्रभीषणम् । प्राप्तयुद्धानिवृत्तित्वैस्त्रासनं दण्ड उच्यते ॥ ३५ ॥ क्रियाभेदादुपाया हि भिद्यन्ते च यथार्हतः ॥ सर्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः । यथा स्वाभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ सामैव प्रथमं श्रेष्ठं दानं तु तदनन्तरम् । सर्वथा भेदनं शत्रोर्दण्डनं प्राणसंशये ॥ प्रबलेऽरौ सामदानौ सामभेदोऽधिके स्मृतौ । भेददण्डौ समे कार्य्यौ दण्डः पूज्यः प्रहीनके ॥ मित्रे च सामदानौ स्तो न कदा भेददण्डने ॥ रिपोः प्रजानां सम्भेदपीडनं स्वजयाय वै । रिपुप्रपीडितानां च साम्ना दानेन सङ्ग्रहः । गुणवतां च दुष्टानां हितं निर्वासनं सदा ॥ स्वप्रजानां न भेदेन नैव दण्डेन पालनम् । कुर्वीत सामदानाभ्यां सर्वदा यत्नमास्थितः ॥ स्वप्रजादण्डभेदैश्च भवेद्राज्यविनाशनम् । हीनाधिका यथा न स्युः सदा रक्ष्यास्तथा प्रजाः ॥ निवृत्तिरसदाचाराद् दमनं दण्डतश्च तत् । येन सन्दम्यते जन्तुरुपायो दण्ड एव सः ॥ स उपायो नृपाधीनः स सर्वस्य प्रभुर्यतः ॥ निर्भर्त्सनं चापमानोऽनशनं बन्धनं तथा । ताडनं द्रव्यहरणं पुरान्निर्वासनाङ्कने ॥ व्यस्त क्षौरमसद्यानमङ्गच्छेदो वधस्तथा । युद्धेमेते ह्युपायाश्च दण्डस्यैव प्रभेदकाः ॥ जायते धर्मनिरता प्रजा दण्डभयेन च । करोत्याधर्षणं नैव तथा चासत्यभाषणम् ॥ क्रूराश्च मार्दवं यान्ति दुष्टा दौष्ठ्यं त्यजन्ति च । पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः ॥ पिशुना मूकतां यान्ति भयं यान्त्याततायिनः । करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे । अतो दण्डधरो नित्यं स्यात् नृपो धर्मरक्षणे ॥ गुरोरप्यवलिप्तस्य कार्य्याकार्य्यमजानतः । उत्पथप्रतिपन्नस्य कार्य्यं भवति शासनम् ॥ राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः । दण्ड एव हि धर्माणां शरणं परमं स्मृतम् ॥ अहिंसैवासाधुहिंसा पशुवच्छ्रुतिचोदनात् । श्रुतिचोदनात् पशुवत् असाधुनाम् हिंसा अहिंसा एव ॥ दण्ड्यस्यादण्डनान्नित्यमदण्ड्यस्य च दण्डनात् । अतिदण्डाच्च गुणिभिस्त्यज्यते पातकी भवेत् ॥ अल्पदानात् महत् पुण्यं दण्डप्रणयनात् फलम् । शास्त्रेषुक्तं मुनिवरैः प्रवृत्त्यर्थं भयाय च ॥ अश्वमेधादिभिः पुण्यं तत् किं स्यात् स्तोत्रपाठतः ? । क्षमया यत्तु पुण्यं स्यात्तत् किं दण्डनिपातनात् ? ॥ स्वप्रजादण्डनाच्छ्रेयः कथं राज्ञो भविष्यति ? । तद्दण्डाज्जायते कीर्त्तिधनपुण्यविनाशनम् ॥ नृपस्य धर्मपूर्णत्वाद् दण्डः कृतयुगे न हि । त्रेतायुगे पूर्णदण्डः पादाधर्माः प्रजा यतः ॥ द्वापरे चार्द्धधर्मत्वात् त्रिपाद्दण्डो विधीयते । प्रजा निःस्वा राजदौष्ट्याद् दण्डार्द्धं तु कलौ तथा ॥ युगप्रवर्त्तको राजा धर्माधर्मप्रशिक्षणात् । युगानां न प्रजानां न दोषः किन्तु नृपस्य हि ॥ प्रसन्नो येन नृपतिस्तदाचरति वै जनः । लोभाद्भयाच्च किं तेन शिक्षितं नाचरेत् कथम् ? ॥ सुपुण्यो यत्र नृपतिर्धर्मिष्ठास्तत्र हि प्रजाः । महापापी यत्र राजा तत्राधर्मपरो जनः ॥ न कालवर्षी पर्जन्यस्तत्र भूर्न महाफला । जायते राष्ट्रहासश्च शत्रुवृद्धिर्धनक्षयः॥ राप्यपि वरो राजा न स्त्रैणो नातिकोपवान् । लोकांश्चण्डस्तापयति स्त्रैणो वर्णान् विलुम्पति ॥ मद्यप्येकश्च भ्रष्टः स्याद् बुद्ध्या च व्यवहारतः । कामक्रोधौ मद्यतमौ सर्वमद्याधिकौ यतः ॥ धनप्राणहरो राजा प्रजायाश्चातिलोभतः । तस्मादेतत् त्रयं त्यक्त्वा दण्डधारी भवेत् नृपः ॥ अन्तर्मृदुर्बहिः क्रूरो भूत्वा स्वां दण्डयेत् प्रजाम् । अत्युग्रदण्डकल्पः स्यात् स्वभावा हितकारिणः ॥ राष्ट्रं कर्णेजपैर्नित्यं हन्यते च स्वभावतः । अतो नृपः सूचितोऽपि विमृशेत् कार्य्यमादरात् ॥ आत्मनश्व प्रजायाश्च दोषदर्श्युत्तमो नृपः । विनियच्छति चात्मानमादौ भृत्यांस्ततः प्रजाः ॥ कायिको वाचिको मानसिकः सांसर्गिकस्तथा । चतुर्विधोऽपराधः स बुद्धयबुद्धिकृतो द्विधा ॥ पुनर्द्विधा कारितश्च तथा ज्ञेयोऽनुमोदितः । सकृदसकृदभ्यस्तस्वभावैः स चतुर्विधः ॥ नेत्रवक्त्रविकाराद्यैर्भावैर्मानसिकं तथा । क्रियया कायिकं वीक्ष्य वाचिकं क्रूरशब्दतः ॥ सांसर्गिकं साहचर्यैर्ज्ञात्वा गौरवलाघवम् । उत्पन्नोत्पत्स्यमानानां कार्य्याणां दण्डमावहेत् ॥ प्रथमं साहसं कुर्वन्नुत्तमो दण्डमर्हति । न्याय्यं किमिति सम्पृच्छेत् तवैवेयमसत् कृतिः ? ॥ अपराधं यथोक्तं च द्विगुणं त्रिगुणं ततः । मध्यमं साहसं कुर्वन्नुत्तमो दण्डमर्हति ॥ धिग्दण्डं प्रथमं चाद्यसाहसं तदनन्तरम् । यथोक्तं तु तथा सम्यग् यथावृद्धि ह्यनन्तरम् ॥ उत्तमं साहसं कुर्वन्नुत्तमो दण्डमर्हति ॥ प्रथमं साहसं चादौ मध्यमं तदनन्तरम् । यथोक्तं द्विगुणं पश्चादवरोधं ततः परम् ॥ बुद्धिपूर्वनृघातेन विनैतद् दण्डकल्पनम् ॥ उत्तमत्वं मध्यमत्वं नीचत्वं चात्र कीर्त्यते । गुणेनैव तु मुख्यं हि कुलेनापि धनेन च ॥ प्रथमं साहसं कुर्वन् मध्यमो दण्डमर्हति । धिग्दण्डमर्द्धदण्डं च पूर्णदण्डमनुक्रमात् ॥ द्विगुणं त्रिगुणं पश्चात् संरोधं नीचकर्म च । मध्यमं साहसं कुर्वन् मध्यमो दण्डमर्हति ॥ पूर्वसाहसमादौ तु यथोक्तं द्विगुणं ततः । ताडनं बन्धनं पश्चात् पुरान्निर्वासनाङ्कने । उत्तमं साहसं कुर्वन् मध्यमो दण्डमर्हति ॥ मध्यमं साहसं चादौ यथोक्तं तदनन्तरम् । द्विगुणं त्रिगुणं पश्चाद् यावज्जीवं तु बन्धनम् । प्रथमं साहसं कुर्वन्नधमो दण्डमर्हति ॥ अर्द्धं यथोक्तं द्विगुणं त्रिगुणं बन्धनं ततः । मध्यमं साहसं कुर्वन्नधमो दण्डमर्हति ॥ पूर्वसाहसमादौ तु यथोक्तं द्विगुणं ततः । ततः संरोधनं नित्यं मार्गसंस्करणार्थकम् । उत्तमं साहसं कुर्वन् अधमो दण्डमर्हति ॥ मध्यमं साहसं चादौ यथोक्तं द्विगुणं ततः । यावज्जीवं बन्धनं च नीचकर्मैव केवलम् ॥ हरेत् पादं धनात् तस्य यः कुर्य्याद्धनगर्वतः । पूर्वं ततोऽर्द्धमखिलं यावज्जीवं तु बन्धनम् ॥ सहायगौरवाद् विद्यामदाच्च बलदर्पतः । पापं करोति यस्तं तु बन्धयेत् ताडयेत् सदा ॥ भार्य्या पुत्रश्च भगिनी शिष्यो दासः स्नुषानुजः । कृतापराधास्ताड्यास्ते तनुरज्जुसुवेणुभिः ॥ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन । अतोऽन्यथा तु प्रहरंश्चोरवद्दण्डमर्हति ॥ नीचकर्मकरं कुर्य्याद् बन्धयित्वा तु पापिनम् । मासमात्रं त्रिमासं वा षण्मासं वापि वत्सरम् । यावज्जीवं तु वा कश्चित् न कश्चिद् वधमर्हति ॥ न निहन्याच्च भूतानि त्विति जागर्त्ति वै श्रुतिः । तस्मात् सर्वप्रयत्नेन वधदण्डं त्यजेत् नृपः ॥ अवरोधाद् बन्धनेन ताडनेन च कर्षयेत् । लोभान्न कर्षयेद्राजा धनदण्डेन वै प्रजाम् ॥ नासहायास्तु पित्राद्या दण्ड्याः स्युरपराधिनः । क्षमाशीलस्य वै राज्ञो दण्डग्रहणमीदृशम् ॥ नापराधं तु क्षमते प्रदण्डो धनहारकः । नृपो यदा तदा लोकः क्षुभ्यते भिद्यते परैः ॥ अतः सुभागदण्डी स्यात् क्षमावान् रञ्जको नृपः ॥ मद्यपः कितवः स्तेनो जारश्चण्डश्च हिंसकः । त्यक्तवर्णाश्रमाचारो नास्तिकः शठ एव हि ॥ मिथ्याभिशापकः कर्णेजपार्य्यदेवदूषकौ । असत्यवाङ्न्यासहारी तथा वृत्तिविघातकः ॥ अन्योदयासहिष्णुश्च ह्युत्कोचग्रहणे रतः । अकार्य्यकर्त्ता मन्त्राणां कार्य्याणां भेदकस्तथा । अनिष्टवाक् परुषवाग्जलारामप्रबाधकः । नक्षत्रसूची राजद्विट् कुमन्त्री कूटकार्य्यवित् ॥ कुवैद्यामङ्गलाशौचशीलो मार्गनिरोधकः । कुसाक्ष्युद्धतवेशश्च स्वामिद्रोही व्ययाधिकः ॥ अग्निदो गरदो वेश्यासक्तः प्रबलदण्डकृत् । तथा पाक्षिकसभ्यश्च बलाल्लिखितग्राहकः ॥ अन्यायकारी कलहशीलो युद्धे पराङ्‌मुखः । साक्ष्यलोपी पितृमातृसतीस्त्रीमित्रद्रोहकः ॥ असूयकः शत्रुसेवी मर्मभेदी च वञ्चकः । स्वकीयद्विड्गुप्तवृत्तिर्वृषलो ग्रामकण्टकः ॥ विना कुटुम्बभरणात् तपोविद्यार्थिनः सदा । तृणकाष्ठादिहरणे शक्तः सन् भैक्ष्यभोजकः ॥ कन्याया अपि विक्रेता कुटुम्बवृत्तिह्रासकः । अधर्मासूचकश्चापि राजानिष्टमुपेक्षकः ॥ कुलटा पतिपुत्रघ्नी स्वतन्त्रा वृद्धनिन्दिता । गृहकृत्योज्झिता नित्यं दुष्टाचाराप्रियस्नुषा । स्वभावदुष्टानेतान् हि ज्ञात्वा राष्ट्राद् विवासयेत् ॥ द्वीपे निवासितव्यास्ते बद्ध्वा दुर्गोदरेऽथवा। मार्गसंस्करणे योज्याः कदन्नन्यूनभोजनाः॥ तत् तत् जात्युक्तकर्माणि कारयीत च तैर्नृपः॥ एवंविधानसाधूंश्च संसर्गेण च दूषितान्। दण्डयित्वा च सन्मार्गे शिक्षयेत् तान् नृपः सदा॥ राज्ञो राष्ट्रस्य विकृतिं तथा मन्त्रिगणस्य च। इच्छन्ति शत्रुसम्बन्धाद्ये तान् हन्याद्धि द्राङ्नृपः॥ नेच्छेच्च युगपद् ह्रासं गणदौष्ट्ये गणस्य च। एकैकं घातयेद्राजा वत्सोऽश्नाति यथा स्तनम्॥ अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः। धर्मशीलातिबलवद्रिपोराश्रयतः सदा॥ यावत् तु धर्मशीलः स्यात् स नृपस्तावदेव हि। अन्यथा नश्यते लोको द्राङ्नृपोऽपि विनश्यति॥ मातरं पितरं भार्य्यां यः सन्त्यज्य विवर्त्तते। निगडैर्बन्धयित्वा तं योजयेन्मार्गसंस्कृतौ। तद्भृत्यर्द्धं तु सन्दद्यात् तेभ्यो राजा प्रयत्नतः॥ विद्यात् पणसहस्रं तु दण्ड उत्तमसाहसः। दशमाषमितं ताम्रं तत् पणो राजमुद्रितम्। वराटिसार्द्धशतकमूल्यः कार्षापणश्च सः॥ तदर्द्धश्च तदर्द्धश्च मध्यमः प्रथमः क्रमात्। प्रथमे साहसे दण्डः प्रथमश्च क्रमात् परौ॥ मध्यमे मध्यमो धार्यश्चोत्तमे तूत्तमो नृपैः। सोपायाः कथिता मिश्रे मित्रोदासीनशत्रवः॥ ==चतुर्थ अध्याय == ===कोश निरूपण प्रकरण=== अथ कोशप्रकरणं ब्रुवे मिश्रे द्वितीयकम् । एकार्थसमुदायो यः स कोशः स्यात् पृथक् पृथक् ॥ येन केन प्रकारेण धनं सञ्चिनुयात् नृपः । तेन संरक्षयेद्राष्ट्रं बलं यज्ञादिकाः क्रियाः ॥ बलप्रजारक्षणार्थं यज्ञार्थं कोशसङ्ग्रहः । परत्रेह च सुखदो नृपस्यान्यश्च दुःखदः ॥ स्त्रीपुत्रार्थं कृतो यश्च स्वोपभोगाय केवलम् । नरकायैव स ज्ञेयो न परत्र सुखप्रदः ॥ अन्यायेनार्जितो यस्माद् येन तत् पापभाक् च सः । सुपात्रतो गृहीतं यद् दत्तं वा वर्द्धते च तत् ॥ स्वागमी सद्व्ययी पात्रमपात्रं विपरीतकम् । अपात्रस्य हरेत् सर्वं धनं राजा न दोषभाक् ॥ अधर्मशीलात् नृपतिः सर्वशः संहरेद्धनम् । छलाद् बलाद् दस्युवृत्त्या परराष्ट्राद्धरेत् तथा ॥ त्यक्त्वा नीतिबलं स्वीयप्रजापीडनतो धनम् । सञ्चितं येन तत्तस्य सराज्यं शत्रुसाद्भवेत् ॥ दण्डभूभागशुल्कानामाधिक्यात् कोशवर्द्धनम् । अनापदि न कुर्वीत तीर्थदेवकरग्रहात् ॥ यदा शत्रुविनाशार्थं बलसंरक्षणोद्यतः । विशिष्टदण्डशुल्कादि धनं लोकात् तदा हरेत् ॥ धनिकेभ्यो भृतिं दत्त्वा स्वापत्तौ तद्धनं हरेत् । राजा स्वापत्समुत्तीर्णस्तत् स्वं दद्यात् सवृद्धिकम् ॥ प्रजान्यथा हीयते च राज्यं कोशो नृपस्तथा । हीनाः प्रबलदण्डेन सुरथाद्या नृपा यतः ॥ दण्डभूभागशुल्कैस्तु विना कोशाद् बलस्य च । संरक्षणं भवेत् सम्यग् यावद्विशतिवत्सरम् । तथा कोणस्तु सन्धार्य्यः स्वप्रजारक्षणक्षमः ॥ बलमूलो भवेत् कोशः कोशमूलं बलं स्मृतम् । बलसंरक्षणात् कोशराष्ट्रवृद्धिररिक्षयः ॥ जायते तत् त्रयं स्वर्गः प्रजासंरक्षणेन वै ॥ यज्ञार्थं द्रव्यमुत्पन्नं यज्ञः स्वर्गसुखायुषे । अर्य्यभावो बलं कोशो राष्ट्रवृद्धयै त्रयं त्विदम् ॥ तद् वृद्धिर्नीतिनैपुण्यात् क्षमाशीलनृपस्य च । जायतेऽतो यतेतैव यावत् बुद्धिबलोदयम् ॥ मालाकारस्य वृत्त्यैव स्वप्रजारक्षणेन च । शत्रुं हि करदीकृत्य तद्धनैः कोशवर्द्धनम् ॥ करोति स नृपश्रेष्ठो मध्यमो वैश्यवृत्तितः । अधमः सेवया दण्डतीर्थदेवकरग्रहैः ॥ प्रजा हीनधना रक्ष्या भृत्या मध्यधनाः सदा । यथाधिकृत् प्रतिभुवोऽधिकद्रव्यास्तथोत्तमाः ॥ धनिकाश्चोत्तमधना न हीना नाधिका नृपैः ॥ द्वादशाब्दप्रपूरं यद्धनं तन्नीचसंज्ञकम् । पर्याप्तं षोडशाब्दानां मध्यमं तद्धनं स्मृतम् । त्रिंशदब्दप्रपूरं यत् कुटुम्बस्योत्तमं धनम् ॥ क्रमादर्थं रक्षयेद् वा स्वापत्तौ नृप एषु वै ॥ मूलैर्व्यवहरन्त्यघैर्न वृद्धया वणिजः क्वचित् । विक्रीणन्ति महार्घे तु हीनार्घे सञ्चयन्ति हि ॥ व्यवहारे धृतं वैश्यैस्तद्धनेन विना सदा । अन्यथा स्वप्रजातापो नृपं दहति सान्वयम् ॥ धान्यानां सङ्ग्रहः कार्य्यो वत्सरत्रयपूर्त्तिदः । तत्तत्काले स्वराष्ट्रार्थं नृपेणात्महिताय च । चिरस्थायी समृद्धानामधिको वापि चेष्यते ॥ सुपुष्टं कान्तिमज्जातिश्रेष्ठं शुष्कं नवीनकम् । ससुगन्धवर्णरसं धान्यं संवीक्ष्य रक्षयेत् । सुसमृद्धं चिरस्थायि महार्घमपि नान्यथा ॥ विषवह्निहिमव्याप्तं कीटजुष्टं न धारयेत् । निःसारतां न हि प्राप्तं व्यये तावन्नियोजयेत् ॥ व्ययीभूतं तु यद् दृष्ट्वा तत्तुल्यं तु नवीनकम् । गृह्णीयात् सुप्रयत्नेन वत्सरे वत्सरे नृपः ॥ ओषधीनां च धातूनां तृणकाष्ठादिकस्य च । यन्त्रशस्त्रास्त्राग्निचूर्णभाण्डादेर्वाससां तथा ॥ यद्यच्च साधकं द्रव्यं यद्यत्कार्य्ये भवेत् सदा । सङ्ग्रहस्तस्य तस्यापि कर्त्तव्यः कार्य्यसिद्धिदः ॥ रक्षयेत् प्रयत्नेन सङ्‌गृहीतं धनादिकम् । आर्जने तु महद् दुःखं रक्षणे तच्चतुर्गुणम् ॥ क्षणं चोपेक्षितं यत्तद्विनाशं द्राक् समाप्नुयात् ॥ आर्जकस्यैव दुःखं स्यात् तथार्जितविनाशने । स्त्रीपुत्राणामपि तथा नान्येषां तु कथं भवेत् ॥ स्वकार्य्ये शिथिलो यः स्यात् किमन्ये न भवन्ति हि । जागरूकः स्वकार्य्ये यस्तत् सहायाश्च तत्समाः ॥ यो जानात्यर्जितुं सम्यगर्जितं न हि रक्षितुम् । नातः परतरो मूर्खो वृथा तस्यार्जनश्रमः ॥ एकस्मिन्नधिकारे तु यो द्वावधिकरोति सः । मूर्खो जीवद् द्विभार्य्यश्च ह्यतिविस्रम्भवांस्तथा ॥ महाधनाशो ह्यलसः स्त्रीभिर्निर्जित एव हि । तथा यः साक्षितां पृच्छेच्चोरजाराततायिषु ॥ संरक्षयेत् कृपणवत् काले दद्याद्विरक्तवत् ।नमूर्खत्वमन्यथा याति स्वधनव्ययतोऽपि च ॥ वस्तुयाथात्म्यविज्ञाने स्वयमेव यतेत् सदा । परीक्षकैः स्वयं राजा रत्नादीन् वीक्ष्य रक्षयेत् ॥ वज्रं मुक्ता प्रवालं च गोमेदश्चन्द्रनीलकः । वैदूर्य्यं पुष्परागश्च पाचिर्माणिक्यमेव च । महारत्नानि चैतानि नव प्रोक्तानि सूरिभिः ॥ रवेः प्रियं रक्तवर्णं माणिक्यं त्विन्द्रगोपरुक् । रक्तपीतसितश्यामच्छविर्मुक्ता प्रिया विधोः ॥ सपीतरक्तरुग्भौमप्रियं विद्रुममुत्तमम् । मयूरचाषपत्राभा पाचिर्बुधहिता हरित् ॥ स्वर्णच्छविः पुष्परागः पीतवर्णो गुरुप्रियः । अत्यन्तविशदं वज्रं तारकाभं कवेः प्रियम् ॥ हितः शनेरिन्द्रनीलो ह्यसितो घनमेघरुक् । गोमेदः प्रियकृद्राहोरीषत्पीतारुणप्रभः ॥ ओत्वक्ष्याभश्चलत्तन्तुवैदूर्य्यः केतुप्रीतिकृत् ॥ रत्नश्रेष्ठतरं वज्रं नीचे गोमेदविद्रुमे । गारुत्मतं तु माणिक्यं मौक्तिकं श्रेष्ठमेव हि । इन्द्रनीलं पुष्परागो वैदूर्य्यं मध्यमं स्मृतम् ॥ रत्नश्रेष्ठो दुर्लभश्च महाद्युतिरहेर्मणिः ॥ अजालगर्भं सद्वर्णं रेखाविन्दुविवर्जितम् । सत्कोणं सुप्रभं रत्नं श्रेष्ठं रत्नविदो जगुः ॥ शर्कराभं दलाभञ्च चिपिटं वर्तुलं हि तत् । वर्णाः प्रभाः सिता रक्ताः पीतकृष्णास्तु रत्नजाः ॥ यथावर्णं यथाच्छायं रत्नं यद् दोषवर्जितम् । श्रीपुष्टिकीर्त्तिशौर्य्यायुः करमन्यदसत् स्मृतम् ॥ वर्णमाक्रमते छाया प्रभा वर्णप्रकाशिनी ॥ पद्मरागस्तु माणिक्यभेदः कोकनदच्छविः । न धारयेत् पुत्रकामा नारी वज्रं कदाचन ॥ कालेन हीनं भवति मौक्तिकं विद्रुमं धृतम् । गुरुत्वात् प्रभया वर्णाद् विस्तारादाश्रयादपि ॥ आकृत्या चाधिमूल्यं स्याद्रत्नं यद्दोषवर्जितम् । नायसोल्लिख्यते रत्नं विना मौक्तिकविद्रुमात् । पाषाणेनापि च प्राय इति रत्नविदो जगुः ॥ मूल्याधिक्याय भवति यद्रत्नं लघुविस्तृतम् । गुर्वल्पं हीनमौल्याय स्याद्रनं त्वपि सद्‌गुणम् ॥ शर्कराभं हीनमौल्यं चिपिटं मध्यमं स्मृतम् । दलाभं श्रेष्ठमूल्यं स्याद् यथाकामात्तु वर्तुलम् ॥ न जरां यान्ति रत्नानि विद्रुमं मौक्तिकं विना । राजदौष्ट्याच्च रत्नानां मूल्यं हीनाधिकं भवेत् ॥ मत्स्याहिशङ्खवाराहवेणुजीमूतशुक्तितः जायते मौक्तिकं तेषु भूरि शुक्त्युद्भवं स्मृतम् ॥ कृष्णं सितं पीतरक्तं द्विचतुःसप्तकञ्चुकम् । त्रिपञ्चसप्तावरणमुत्तरोत्तरमुत्तमम् ॥ कृष्णं सितं क्रमाद्रक्तं पीतन्तु जरठं विदुः । कनिष्ठं मध्यमं श्रेष्ठं क्रमाच्छुक्त्युद्भवं विदुः ॥ तदेव हि भवेद् वेध्यमवेध्यानीतराणि च । कुर्वन्ति कृत्रिमं तद्वत् सिंहलद्वीपवासिनः ॥ तत्सन्देहविनाशार्थं मौक्तिकं सुपरीक्षयेत् । उष्णे सलवणस्नेहे जले निश्युषितं हि तत् ॥ व्रीहिभिर्मर्दितं नेयाद् वैवर्यं तदकृत्रिमम् । श्रेष्ठाभं शुक्तिजं विद्यान्मध्याभं त्वितरद् विदुः ॥ तुलाकल्पितमूल्यं स्याद्रत्नं गोमेदकं विना ॥ क्षुमाविंशतिभी रक्ती रत्नानां मौक्तिकं विना । रक्तित्रयं तु मुक्तायाश्चतुः कृष्णलकैर्भवेत् ॥ चतुर्विंशतिभिस्ताभी रत्नटङ्कस्तु रक्तिभिः । टङ्कैश्चतुर्भिस्तोलः स्यात् स्वर्णविद्रुमयोः सदा ॥ एकस्यैव हि वज्रस्य त्वेकरक्तिमितस्य च । सुविस्तृतदलस्यैव मूल्यं पञ्चसुवर्णकम् ॥ रक्तिकादलविस्ताराच्छ्रेष्ठं पञ्चगुणं यदि । यथा यथा भवेन्न्यूनं हीनमौल्यं तथा तथा ॥ अत्राष्टरक्तिको माषो दशमाषैः सुवर्णकः । स्वर्णस्य तत् पञ्चमूल्यं राजताशीतिकर्षकम् ॥ यथा गुरुतरं वज्रं तन्मूल्यं रक्तिवर्गतः । तृतीयांशविहीनन्तु चिपिटस्य प्रकीर्त्तितम् ॥ अर्द्धन्तु शर्कराभस्य चोत्तमं मूल्यमीरितम् । रक्तिकायाश्च द्वे वज्रे तदर्द्धं मूल्यमर्हतः ॥ तदर्द्धं बहवोऽर्हन्ति मध्या हीना यथा गुणैः । उत्तमार्घं तदर्द्धं वा हीरका गुणहानतः ॥ वर्गरक्तिषु सन्धार्य्यं कलानां नवकं पृथक् । तथांशपञ्चकं पूर्वं त्रिंशद्भिस्तद्भजेत् ततः ॥ लब्धं कलासु संयोज्यं कलानां षोडशांशकैः । मुक्तानां कल्पयेन्मूल्यं हीनमध्योत्तमं यथा ॥ सहस्त्रादधिके मुक्तारक्तिवर्गशते शते । कलात्रिंशतकं त्यक्त्वा शेषान्मूल्यं प्रकल्पयेत् ॥ शतादूर्ध्वं रक्तिवर्गाद्ध्रसो विंशतिरक्तिकाः । प्रतिशतात् तु वज्रस्य सुविस्तृतदलस्य च । तथैव चिपिटस्यापि विस्तृतस्य च ह्रासयेत् ॥ शर्कराभस्य पञ्चाशच्चत्वारिंशच्च वैकतः ॥ रत्नं न धारयेत् कृष्णरक्तविन्दुयुतं सदा ॥ गारुत्मतं तूत्तमं चेन्माणिक्यं मूल्यमर्हतः । सुवर्णं रक्तिमात्रं चेद् यथा रक्तिस्तथा गुरु ॥ रक्तिमात्रः पुष्परागो नीलः स्वर्णार्घमर्हतः । चलत्त्रिसूत्रो वैदूर्य्यश्चोत्तमं मूल्यमर्हति ॥ प्रवालं तोलकमितं स्वर्णार्द्धं मूल्यमर्हति । अत्यल्पमूल्यो गोमेदो नोन्मानन्तु यतोऽर्हति ॥ संख्यातः स्वल्परत्नानां मूल्यं स्याद्धीरका‌द्विना । अत्यन्तरमणीयानां दुर्लभानां च कामतः । भवेन्मूल्यं न मानेन तथातिगुणशालिनाम् ॥ व्य‌ङ्घ्रिचतुर्दशहतो वर्गो मौक्तिकरक्तिजः । चतुर्विंशतिभिर्भक्तो लब्धान्मूल्यं प्रकल्पयेत् ॥ उत्तमन्तु सुवर्णार्घमूनमूनं यथागुणम् ॥ रक्तं पीतं वर्तुलं चेन्मौक्तिकं चोत्तमं सितम् । अधमं चिपिटं शर्कराभमन्यत् तु मध्यमम् ॥ रत्ने स्वाभाविका दोषाः सन्ति धातुषु कृत्रिमाः । अतो धातून् सम्परीक्ष्य तन्मूल्यं कल्पयेद् बुधः ॥ सुवर्णं रजतं ताम्रं वङ्गं सीसञ्च रङ्गकम् । लोहं च धातवः सप्त ह्येषामन्ये तु सङ्कराः ॥ यथापूर्वं तु श्रेष्ठं स्यात् स्वर्णं श्रेष्ठतरं मतम् । वङ्गताम्रभवं कांस्यं पित्तलं ताम्ररङ्गजम् ॥ मानसममपि स्वर्णं तनु स्यात् पृथुलाः परे ॥ एकच्छिद्रसमाकृष्टे समखण्डे द्वयोर्यदा । धातोः सूत्रं मानसमं निर्दुष्टस्य भवेत् तदा ॥ यन्त्रशस्त्रास्त्ररूपं यन्महामूल्यं भवेदयः । रजतं षोडशगुणं भवेत् स्वर्णस्य मूल्यकम् ॥ ताम्रं रजतमूल्यं स्यात् प्रायोऽशीतिगुणं तथा । ताम्राधिकं सार्द्धगुणं वङ्गं वङ्गात् तथा परे ॥ रङ्गसीसे द्वित्रिगुणे ताम्राल्लोहन्तु षड्गुणम् । मूल्यमेतद्विशिष्टन्तु ह्युक्तं प्राङ्मूल्यकल्पनम् ॥ सुशृङ्गवर्णा सुदुघा बहुदुग्धा सुवत्सका । तरुण्यल्पा वा महती मूल्याधिक्याय गौर्भवेत् ॥ पीतवत्सा प्रष्ठदुग्धा तन्मूल्यं राजतं पलम् । अजायाश्च गवार्द्धं स्यान्मेष्या मूल्यमजार्द्धकम् ॥ दृढस्य युद्धशीलस्य पलं मेषस्य राजतम् । दश वाष्टौ पलं मूल्यं राजतं तूत्तमं गवाम् ॥ पलं मेष्या अवेश्चापि राजतं मूल्यमुत्तमम् । गवां समं सार्द्धगुणं महिष्या मूल्यमुत्तमम् ॥ सुशृङ्गवर्णबलिनो वोढुः शीघ्रगमस्य च । अष्टतालवृषस्यैव मूल्यं षष्टिपलं स्मृतम् ॥ महिषस्योत्तमं मूल्यं सप्त चाष्टौ पलानि च । द्वित्रिचतुःसहस्त्रं वा मूल्यं श्रेष्ठं गजाश्वयोः ॥ उष्ट्रस्य माहिषसमं मूल्यमुत्तममीरितम् ॥ योजनानां शतं गन्ता चैकेनाह्नाश्व उत्तमः । मूल्यं तस्य सुवर्णानां श्रेष्ठं पञ्चशतानि हि ॥ त्रिंशद्योजनगन्ता वै उष्ट्रः श्रेष्ठस्तु तस्य वै । पलानां तु शतं मूल्यं राजतं परिकीर्त्तितम् ॥ बलेनोच्चेन युद्धेन मदेनाप्रतिमो गजः । यस्तस्य मूल्यं निष्काणां द्विसहस्त्रं प्रकीर्त्तितम् ॥ चतुर्माषमितं स्वर्णं निष्क इत्यभिधीयते । पञ्चरक्तिमितो माषो गजमौल्ये प्रकीर्त्तितः ॥ रत्नभूतन्तु तत्तत् स्याद् यद्यदप्रतिमं भुवि । यथादेशं यथाकालं मूल्यं सर्वस्य कल्पयेत् ॥ न मूल्यं गुणहीनस्य व्यवहाराक्षमस्य च । नीचमध्योत्तमत्वन्तु सर्वस्मिन् मूल्यकल्पने । चिन्तनीयं बुधैर्लोकाद् वस्तुजातस्य सर्वदा ॥ विक्रेतृक्रेतृतो राजभागः शुल्कमुदाहृतम् । शुल्कदेशा हट्टमार्गाः करसीमाः प्रकीर्त्तिताः ॥ वस्तुजातस्यैकवारं शुल्कं ग्राह्यं प्रयत्नतः । क्वच्चिन्नैवासकृच्छुल्कं राष्ट्रे ग्राह्यं नृपैश्छलात् ॥ द्वात्रिंशांशं हरेद्राजा विक्रेतुः क्रेतुरेव वा । विंशांशं वा षोडशांशं शुल्कं मूल्याविरोधकम् ॥ न हीनसममूल्याद्धि शुल्कं विक्रेतृतो हरेत् । लाभं दृष्ट्वा हरेच्छुल्कं क्रेतृतश्च सदा नृपः ॥ बहुमध्याल्पफलितां भुवं मानमितां सदा । ज्ञात्वा पूर्वं भागमिच्छुः पश्चाद्भागं विकल्पयेत् ॥ हरेच्च कर्षकाद्भागं यथा नष्टो भवेन्न सः । मालाकार इव ग्राह्यो भागो नाङ्गारकारवत् ॥ बहुमध्याल्पफलतस्तारतम्यं विमृश्य च । राजभागादिव्ययतो द्विगुणं लभ्यते यतः । कृषिकृत्यन्तु तच्छ्रेष्ठं तन्न्यूनं दुःखदं नृणाम् ॥ तडागवापिकाकूपमातृकाद्देवमातृकात् । देशान्नदीमातृकात् तु राजानुक्रमतः सदा ॥ तृतीयांशं चतुर्थांशभर्द्धांशन्तु हरेत् फलम् । षष्ठांशमूषरात् तद्वत् पाषाणादिसमाकुलात् ॥ राजभागस्तु रजतशतकर्षमितो यतः । कर्षकाल्लभ्यते तस्मै विंशांशमुत्सृजेन्नृपः ॥ स्वर्णादर्द्धं च रजतात् तृतीयांशञ्च ताम्रतः । चतुर्थांशन्तु षष्ठांशं लोहाद् वङ्गाच्च सीसकात् ॥ रत्नार्द्धं चैव क्षारार्द्धं खनिजाद् व्ययशेषतः । लाभाधिक्यं कर्षकादेर्यथा दृष्ट्वा हरेत् फलम् । त्रिधा वा पञ्चधा कृत्वा सप्तधा दशधापि वा ॥ तृणकाष्ठादिहरकाद् विंशत्यंशं हरेत् फलम् । अजाविगोमहिष्याश्ववृ‌द्धितोऽष्टांशमाहरेत् । महिष्यजाविगोदुग्धात् षोडशांशं हरेन्नृपः ॥ कारुशिल्पिगणात् पक्षे दैनिकं कर्म कारयेत् । तस्य वृद्ध्यै तडागं वा वापिकां कृत्रिमां नदीम् ॥ कुर्वन्त्यन्यत् तद्विधं वा कर्षन्त्यभिनवां भुवम् । तद्व्ययद्विगुणं यावन्न तेभ्यो भागमाहरेत् ॥ भुवि भागं भृतिं शुल्कं वृद्धिमुत्कोचकं करम् । सद्य एव हरेत् सर्वं न तु कालविलम्बनैः दद्यात् प्रतिकर्षकाय भागपत्रं स्वचिह्नितम् । नियम्य ग्रामभूभागमेकस्माद् धनिकाद्धरेत् ॥ गृहीत्वा तत्प्रतिभुवं धनं प्राक् तत्समं तु वा । विभागशो गृहीत्वापि मासि मासि ऋतौ ऋतौ ॥ षोडशद्वादशदशाष्टांशतो वाधिकारिणः । स्वांशात् षष्ठांशभागेन ग्रामपान् सन्नियोजयेत् ॥ गवादिदुग्धान्नफलं कुटुम्बार्थाद्धरेन्नृपः । उपभोगे धान्यवस्त्रं क्रेतृतो नाहरेत् फलम् ॥ वार्द्धुषिकाच्च कौसीदाद् द्वात्रिंशांशं हरेन्नृपः । गृहाद्याधारभूशुल्कं कृष्टभूमेरिवाहरेत् ॥ तथा चापणिकेभ्यस्तु पण्यभूशुल्कमाहरेत् । मार्गसंस्काररक्षार्थं मार्गगेभ्यो हरेत् फलम् ॥ सर्वतः फलभुग्भूत्वा दासवत् स्यात्तु रक्षणे । इति कोशप्रकरणं समासात् कथितं किल ॥ ==चतुर्थ अध्याय== ===राष्ट्र प्रकरण=== अथ मिश्रे तृतीयन्तु राष्ट्र वक्ष्ये समासतः । स्थावरं जङ्गमञ्चापि राष्ट्रशब्देन गीयते ॥ यस्याधीनं भवेद् यावत् तद्राष्ट्रं तस्य वै भवेत् ॥ कुवेरता शतगुणाधिका सर्वगुणात् ततः । ईशता चाधिकतरा सा नाल्पतपसः फलम् ॥ स दीव्यति पृथिव्यां तु नान्यो देवो यतः स्मृतः ॥ यस्याश्रितो भवेल्लोकस्तद्वदाचरति प्रजा । भुङ्क्ते राष्ट्रफलं सम्यगतो राष्ट्रकृतं त्वघम् ॥ स्वस्वधर्मपरो लोको यस्य राष्ट्र प्रवर्त्तते । धर्मनीतिपरो राजा चिरं कीर्त्तिं स चाश्नुते ॥ भूमौ यावद् यस्य कीर्त्तिस्तावत् स्वर्गे स तिष्ठति ॥ अकीर्त्तिरेव नरको नान्योऽस्ति नरको दिवि । नरदेहाद् विना त्वन्यो देहो नरक एव सः ॥ महत् पापफलं विद्यादाधिव्याधिस्वरूपकम् । स्वयं धर्मपरो भूत्वा धर्मे संस्थापयेत् प्रजाः । प्रमाणभूतं धर्मिष्ठमुपसर्पन्त्यतः प्रजाः ॥ देशधर्मा जातिधर्माः कुलधर्माः सनातनाः । मुनिप्रोक्ताश्च ये धर्माः प्राचीना नूतनाश्च ये ॥ ते राष्ट्रगुप्त्यै सन्धार्य्या ज्ञात्वा यत्नेन सन्नृपैः । धर्मसंस्थापनाद्राजा श्रियं कीर्त्ति प्रविन्दति ॥ चतुर्धा भेदिता जातिर्बह्मणा कर्मभिः पुरा । तत्तत्साङ्कर्य्यासाङ्कर्य्यात् प्रतिलोमानुलोमतः । जात्यानन्त्यन्तु सम्प्राप्तं तद्वक्तुं नैव शक्यते ॥ मन्यन्ते जातिभेदं ये मनुष्याणां तु जन्मना । त एव हि विजानन्ति पार्थक्यं नामकर्म्मभिः ॥ जरायुजाण्डजा स्वेदोद्भिज्जा जातिः सुसङ्ग्रहात् । उत्तमो नीचसंसर्गाद् भवेन्नीचस्तु जन्मना ॥ नीचो भवेन्नोत्तमस्तु संसर्गाद् वापि जन्मना । कर्म्मणोत्तमनीचत्वं कालतस्तु भवेद् गुणैः । विद्याकलाश्रयेणैव तन्नाम्ना जातिरुच्यते ॥ इज्याध्ययनदानानि कर्माणि तु द्विजन्मनाम् । प्रतिग्रहोऽध्यापनञ्च याजनं ब्राह्मणेऽधिकम् ॥ सद्रक्षणं दुष्टनाशः स्वांशादानन्तु क्षत्रिये । कृषिगोगुप्तिवाणिज्यमधिकन्तु विशां स्मृतम् ॥ दानं सेवैव शूद्रादेर्नीचकर्म्म प्रकीर्त्तितम् ॥ क्रियाभेदैस्तु सर्वेषां भृतिवृत्तिरनिन्दिता । सीरभेदैः कृषिः प्रोक्ता मन्वाद्यैर्ब्राह्मणादिषु ॥ ब्राह्मणैः षोडशगवं चतुरूनं यथा परैः । द्विगवं वान्त्यजैः सीरं दृष्ट्‌वा भूमार्दवं तथा ॥ ब्राह्मणेन विनान्येषां भिक्षावृत्तिर्विगर्हिता ॥ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ योऽधीतविद्यः सकलः स सर्वेषां गुरुर्भवेत् । न च जात्यानधीतो यो गुरुर्भवितुमर्हति ॥ विद्या ह्यनन्ताश्च कलाः संख्यातुं नैव शक्यते । विद्या मुख्याश्च द्वात्रिंशच्चतुःषष्टिः कलाः स्मृताः ॥ यद् यत् स्याद् वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम् । शक्तो मूकोऽपि यत् कर्तुं कलासंज्ञन्तु तत् स्मृतम् ॥ उक्तं सङ्‌क्षेपतो लक्ष्म विशिष्टं पृथगुच्यते । विद्यानाञ्च कलानाञ्च नामानि तु पृथक् पृथक् ॥ ऋग्यजुः साम चाथर्वा वेदा आयुर्धनुः क्रमात् । गान्धर्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥ शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा । छन्दः षडङ्गानीमानि वेदानां कीर्त्तितानि हि ॥ मीमांसातर्कसांख्यानि वेदान्तो योग एव च । इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम् ॥ अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलङ्कृतिः । काव्यानि देशभाषावसरोक्तिर्यावनं मतम् । देशादिधर्मा द्वात्रिंशदेता विद्याभिसंज्ञिताः ॥ मन्त्रब्राह्मणयोर्वेदनाम प्रोक्तमृगादिषु ॥ जपहोमार्चनं यस्य देवताप्रीतिदं भवेत् । उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम् ॥ ऋग्रूपा यत्र ये मन्त्राः पादशोऽर्द्धर्चशोऽपि वा । येषां हौत्रं स ऋग्भागः समाख्यानं च यत्र वा ॥ प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः । आध्वर्य्यवं यत्र कर्म्म त्रिगुणं यत्र पाठनम् । मन्त्रब्राह्मणयोरेव यजुर्वेदः स उच्यते ॥ उद्‌गीथं यस्य शस्त्रादेर्यज्ञे तत् सामसंज्ञकम् ॥ अथर्वाङ्गिरसो नाम ह्युपास्योपासनात्मकः । इति वेदचतुष्कन्तु ह्युद्दिष्टञ्च समासतः ॥ विन्दत्यायुर्वेत्ति सम्यगाकृत्यौषधिहेतुतः । यस्मिन्नृग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥ युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत् । यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥ स्वरैरुदात्तादिधर्मैस्तन्त्रीकण्ठोत्थितैः सदा । सतालैर्गानविज्ञानं गान्धर्वो वेद एव सः ॥ विविधोपास्यमन्त्राणां प्रयोगाः सुविभेदतः । कथिताः सोपसंहारास्तद्धर्मनियमैश्च षट् । अथर्वणां चोपवेदस्तन्त्ररूपः स एव हि ॥ स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । सवनाद्यैश्च सा शिक्षा वर्णानां पाठशिक्षणात् ॥ प्रयोगो यत्र यज्ञानामुक्तो ब्राह्मणशेषतः । श्रौतकल्पः स विज्ञेयः स्मार्त्तकल्पस्तथेतरः ॥ व्याकृताः प्रत्ययाद्यैश्च धातुसन्धिसमासतः । शब्दा यत्र व्याकरणमेतद्धि बहुलिङ्गतः ॥ शब्दनिर्वचनं यत्र वाक्यार्थैकार्थसङ्‌ग्रहः । निरुक्तं तत् समाख्यानाद् वेदाङ्ग श्रोत्रसंज्ञकम् ॥ नक्षत्रग्रहगमनैः कालो येन विधीयते । संहिताभिश्च होराभिर्गणितैर्ज्योतिषं हि तत् ॥ म्यरस्तजभ्रगैर्लान्तैः पद्यं यत्र प्रमाणतः । कल्प्यते छन्दःशास्त्रं तद् वेदानां पादरूपधृक् ॥ यत्र व्यवस्थिता चार्थकल्पना विधिभेदतः । मीमांसा वेदवाक्यानां सैव न्यायश्व कीर्त्तितः ॥ भावाभावपदार्थानां प्रत्यक्षादिप्रमाणतः । सविवेको यत्र तर्कः कणादादिमतं च यत् ॥ पुरुषोऽष्टौ प्रकृतयो विकाराः षोडशेति च । तत्त्वादिसंख्यावैशिष्ट्यात् सांख्यमित्यभिधीयते ॥ ब्रहौकमद्वितीयं स्यान्नाना नेहास्ति किञ्चन । मायिकं सर्वमज्ञानाद् भाति वेदान्तिनां मतम् ॥ चित्तवृत्तिनिरोधस्तु प्राणसंयमनादिभिः । तद् योगशास्त्रं विज्ञेयं यस्मिन् ध्यानसमाधितः ।॥ प्राग्वृत्तकथनं चैकराजकृत्यमिषादितः । यस्मिन् स इतिहासः स्यात् पुरावृत्तः स एव हि ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं यस्मिन् पुराणं तद् विकीर्त्तितम् ॥ वर्णादिधर्म्मस्मरणं यत्र वेदाविरोधकम् । कीर्त्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्त्तिता ॥ युक्तिर्बलीयसी यत्र सर्वं स्वाभाविकं मतम् । कस्यापि नेश्वरः कर्त्ता न वेदो नास्तिकं हि तत् ॥ श्रुतिस्मृत्यविरोधेन राजवृत्तादिशासनम् । सुयुक्त्यार्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ॥ शशादिभेदतः पुंसामनुकूलादिभेदतः । पद्मिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः । तत् कामशास्त्रं सत्त्वादेर्लक्ष्म यत्रास्ति चोभयोः ॥ प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः । कथिता यत्र तच्छिल्पशास्त्रमुक्तं महर्षिभिः ॥ समन्यूनाधिकत्वेन सारूप्यादिप्रभेदतः । अन्योऽन्यगुणभूषा तु वर्ण्यतेऽलङ्‌कृतिश्च सा ॥ सरसालङ्कृतादुष्टशब्दार्थं काव्यमेव तत् । विलक्षणचमत्कारबीजं पद्यादिभेदतः ॥ लोकसङ्केततोऽर्थानां सुग्रहा वाक् तु दैशिकी ॥ विना कौशिकशास्त्रीयसङ्केतैः कार्य्यसाधिका । यथाकालोचिता वाग् वावसरोक्तिश्च सा स्मृता ॥ ईश्वरः कारणं यत्रादृश्योऽस्ति जगतः सदा । श्रुतिस्मृती विना धर्माधर्मौ स्तस्तच्च यावनम् । श्रुत्यादिभिन्नधर्मोऽस्ति यत्र तद् यावनं मतम् ॥ कल्पितश्रुतिमूलो वामूलो लोकैर्धृतः सदा । देशादिधर्म्मः स ज्ञेयो देशे देशे कुले कुले ॥ पृथक् पृथक् तु विद्यानां लक्षणं सम्प्रकाशितम् । कलानां न पृथङ्नाम लक्ष्म चास्तीह केवलम् ॥ पृथक् पृथक् क्रियाभिर्हि कलाभेदस्तु जायते । यां यां कलां समाश्रित्य तन्नाम्ना जातिरुच्यते ॥ हावभावादिसंयुक्तं नर्त्तनं तु कला स्मृता । अनेकवाद्यकरणे ज्ञानं तद्वादने कला ॥ वस्त्रालङ्कारसन्धानं स्त्रीपुंसोश्च कला स्मृता । अनेकरूपाविर्भावकृतिज्ञानं कला स्मृता ॥ शय्यास्तरणसंयोगपुष्पादिग्रथनं कला । द्यूताद्यनेकक्रीडाभी रञ्जनं तु कला स्मृता ॥ अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता । कलासप्तकमेतद्धि गान्धर्वे समुदाहृतम् ॥ मकरन्दासवादीनां मद्यादीनां कृतिः कला । शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे कला ॥ हिङ्ग्वादिरससंयोगादन्नादिपचनं कला । वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ पाषाणधात्वादिदृतिस्तद्भस्मीकरणं कला । यावदिक्षुविकाराणां कृतिज्ञानं कला स्मृता ॥ धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाङ्कर्य्यपार्थक्यकरणन्तु कला स्मृता ॥ संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता । क्षारनिष्कासनज्ञानं कलासंज्ञन्तु तत् स्मृतम् । कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ॥ शस्त्रसन्धानविक्षेपः पदादिन्यासतः कला । सन्ध्याघाताकृष्टिभेदैर्मल्लयुद्धं कला स्मृता ॥ बाहुयुद्धन्तु मल्लानामशस्त्रं मुष्टिभिः स्मृतम् । मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ॥ बलदर्पविनाशान्तं नियुद्धं यशसे रिपोः । न कस्यासीद्धि कुर्य्याद् वै प्राणान्तं बाहुयुद्धकम् ॥ कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः । सन्निपातावघातैश्च प्रमादोन्मथनैस्तथा । कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥ कलाभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम् । वाद्यसङ्केततो व्यूहरचनादि कला स्मृता ॥ गजाश्वरथगत्या तु युद्धसंयोजनं कला । कलापञ्चकमेतद्धि धनुर्वेदागमे स्थितम् ॥ विविधासनमुद्राभिर्देवतातोषणं कला । सारथ्यं च गजाश्वादेर्गतिशिक्षा कला स्मृता ॥ मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया । पृथक् कलाचतुष्कं तु चित्राद्यालेखनं कला ॥ तडागवापीप्रासादसमभूमिक्रिया कला । घट्याद्यनेकयन्त्राणां वाद्यानान्तु कृतिः कला ॥ हीनमध्यादिसंयोगवर्णाद्यै रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ॥ नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥ अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । वेधादिसदसज्ज्ञानं रत्नानाञ्च कला स्मृता ॥ स्वर्णादीनान्तु याथात्म्यविज्ञानञ्च कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः । मार्दवादिक्रियाज्ञानं चर्मणान्तु कला स्मृता ॥ पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता । दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता ॥ सीवने कञ्चकादीनां विज्ञानन्तु कलात्मकम् । बाह्वादिभिश्च तरणं कलासंज्ञं जले स्मृतम् ॥ मार्जने गृहभाण्डादेर्विज्ञानन्तु कला स्मृता । वस्त्रसम्मार्जनञ्चैव क्षुरकर्म कले ह्यभे ॥ तिलमांसादिस्नेहानां कला निष्कासने कृतिः । सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता । वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥ काचपात्रादिकरणविज्ञानन्तु कला स्मृता । संसेचनं संहरणं जलानां तु कला स्मृता ॥ लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला । सुयुक्तताडनज्ञानमपराधिजने कला ॥ नानादेशीयवर्णानां सुसम्यग् लेखने कला । ताम्बूलरक्षादिकृतिविज्ञानन्तु कला स्मृता ॥ आदानमाशुकारित्वं प्रतिदानं चिरक्रिया । कलासु द्वौ गुणौ ज्ञेयौ द्वे कले परिकीर्त्तिते ॥ चतुःषष्टिकला ह्येताः सङ्‌क्षेपेण निदर्शिताः । यां यां कलां समाश्रित्य निपुणो यो हि मानवः । नैपुण्यकरणे सम्यक् तां तां कुर्य्यात् स एव हि ॥ ==स्रोतः== *[https://cl.sanskrit.du.ac.in/etexts/etext.php?text=shukraNiti&ref=Full-Text शुक्रनीति] l87wq97kz9qi5rzngur8q9h31nzu5me