विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.24 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५ 104 107880 418795 285020 2026-10-18T10:21:10Z अनुनाद सिंह 1115 418795 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Col Sandeep Sharma" /></noinclude>'''काव्यमाला।''' काश्मीरकमहाकविश्रीकल्हणकृतम् अर्धनारीश्वरस्तोत्रम् । <poem> भालं वन्हिशिखाङ्कितं दधदधिश्रोत्रं वहन्संमृत- कीडकुण्डलि जृम्भितं जलधिजच्छायाच्छकण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणोऽस्तु यशसे वामोऽथवा दक्षिणः॥१॥ वामे साञ्जनमक्षि दक्षिणदिशि श्यामायमानो गल: पाणौ तिष्ठति दर्पणोऽत्र मुकुटेऽमुत्र स्थितश्चन्द्रमाः । तन्मातेयमयं पितेति सुचिरात्सप्रत्यभिज्ञं शनै- र्यस्योत्सङ्गमगाद्गुहो भवतु वः प्रीत्यै सं गौरीश्वरः ॥ २॥ मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचञ्योचिताः किं भालज्वलनेन कज्जलमतः कार्य तवाक्ष्णोः कृते। संधाने वपुरर्धयोर्भगवतोरित्थं निषेधेऽप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ ३ ॥ विहितमजगोशृङ्गाग्रामाभ्यां धनुर्घटितं तथा नरकरटिनोर्देहार्घाभ्यां गणं प्रतिगृह्णतः । </poem> ---- १. सुप्रसिद्धोऽयं कवियरः लिखवादनशताब्द्यामेनं अन्य प्रणिनिनाय. अधिक त्येतद्विषये Dr. M.A.STHAN, PH, D., महाशयवरविरचितराजत- राशिणीभूमिमातोऽवसेयम्.<noinclude>{{rule}}१. सुप्रसिद्धोऽयं कवियरः लिखवादनशताब्द्यामेनं अन्य प्रणिनिनाय. अधिक त्येतद्विषये Dr. M.A.STHAN, PH, D., महाशयवरविरचितराजत- राशिणीभूमिमातोऽवसेयम्.</noinclude> et1rf0h88dizb37bgszchb27uvr350e पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६ 104 110131 418796 285113 2026-10-18T10:24:39Z अनुनाद सिंह 1115 418796 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Col Sandeep Sharma" /></noinclude>'''काव्यमाला ।''' <poem> द्विविधरचनावाल्लभ्यानां निधेरुचिता विभो- र्जयति लटभापुंप्रागाभ्यां शरीरविनिर्मितिः ॥ ४ ॥ नेदं पर्णसमीरणाशनतपोमाहाच्वमुक्षौरगौ पश्यैतावत एव संप्रत कृतौ तन्मात्रवृत्ती बहिः । प्रेम्णैवार्धमिदं चराचरगुरोः पप्तेवमात्मस्तुती- रित्थं देववधूमुखाच्छुतिसुवाः शृण्वत्यपर्णावतात् ॥ ५ ॥ काप्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृष्यति पुरो द्रिव्पश्य चक्षुःश्रुतेः । संधानेऽभिनवे मिथो भगवतोर्जिह्वा पृथक्स्पर्धिनी क्त्र्पधिनी भिन्नार्थिं सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ ६ ॥ दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंग च भुजेऽङ्गदं घटयितुं वामेऽपि वामेतरः । इत्थं स्वं स्वमशिक्षितं भगवतोरर्ध पश्यतोः साधाररस्मितलाञ्छितं दिशतु वो वक्रं मनोवाञ्छितम् गाढालिङ्गन मङ्गलं भवतु ते स्वस्त्यस्तु वश्चााटवः किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न । इत्युक्तें निबिडप्रवासचकितैर्याबद्गणैः स्थीयते संघट्टः शिवयोः स तावदधिकस्पष्टः शिवायास्तु वः । तदर्धनारीश्वरमूर्धरत्नमर्धं विधोरस्तु समृद्धये वः । यदद्रिकन्यावदनातिरिक्तद्वितीयभागभ्रममातनोति ॥ ९ ॥ तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभव- न्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः । वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेरपि यत्र भाति दयितामू्त्र्येव प्रिक्ता तनुः ॥ १० ॥ </poem><noinclude></noinclude> r5jabwjkpdbkvi2eubci48wqqq6cztb सम्भाषणम्:शृङ्गारकलिकात्रिशती (कामराजदीक्षितविरचितम्) 1 165995 418794 2026-10-17T17:37:48Z Princesrividya 10812 /* My question */ नवीनविभागः 418794 wikitext text/x-wiki == My question == आदरणीय सूर्य हेब्बार महोदय! सादरं प्रणामाः। ​मम नाम प्रिन्सः अस्ति। अहं श्रीविद्यायाः साधकः, कथमपि श्रीविद्यापरम्परया सम्बद्धः चास्मि। अहं कामराजदीक्षित-सम्राट्दीक्षितयोः परम्परया अपि सम्बद्धः अस्मि; ययोः विषये प्रसिद्धम् अस्ति यत् तावेव 'सम्राट्-यन्त्रस्य' तथा 'जन्तर-मन्तरस्य' निर्माणम् अकुर्वताम्। ​भवता सह वार्तालापं कर्तुम् इच्छामि। एतासां 'पूजा-रत्न'-रचनानां प्राप्तिः भवते कथम् अभवत्? कामराजदीक्षितेन सह भवतः कः सम्बन्धः अस्ति? ​कृपया ज्येष्ठभ्रातृवत् स्वस्य अनुजस्य मार्गदर्शनं कुर्वन्तु, तथा च अहं भवता सह कुत्र सम्पर्कं कर्तुं शक्नोमि इति अपि मां ज्ञापयन्तु। ​भवदीयः, प्रिन्सः [[सदस्यः:Princesrividya|Princesrividya]] ([[सदस्यसम्भाषणम्:Princesrividya|सम्भाषणम्]]) १७:३७, १७ अक्टोबर् २०२६ (UTC) n0p19oubwckd511rdgpzp4zhgjivx24