विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.24
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१९३
104
59814
418815
127957
2026-10-22T11:05:36Z
अनुनाद सिंह
1115
/* समस्याकारक */
418815
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude><poem>
धम्मपदं
अनुवाद—इस लोक और परलोक के विषय में जसकी आशायें (=चाह)
नहीं रह गई हैं, जो आशारहित और आसक्तिरहित है, उसे मैं ब्राह्मण कहता हूँ ।
जैतवन
महामोग्गछन (थेर)
४११-यालया न विजन्ति अध्याय अकथंकथा ।
अमतोगधं अनुप्पत्त तमहं कूमि ब्राह्मणं ॥२९॥
(यस्याऽऽळया न विद्यन्त आशयाऽकथंकथा ।
अमृतावगाधमनुप्तं तमहं ब्रवीमि ब्राह्मणम् ॥२९)
अनुवाद– जिसको आलय (=तृष्णा) नहीं है, जो भली प्रकार जानकर
अकथ (=पद ) का कहनेवाला है, जिसने गाढे अमृतको
पा लिया) उसे मैं ब्राह्मण कहता हूँ।
श्रावस्ती ( पूर्वाराम )
रैवत (थेर)
४१२- यो'ध पुब्मच पापश्च उभो सर्गे उपचगा।
असोकं विरजं शुद्धं तमहं भूमि ब्राह्मणं ॥३०
(य इह पुष्यं च पापं चोभयोः संगै उपात्यगात् ।
आशोकं विरजं शुद्धं तमहं ब्रवीमि भ्राह्मणम् ॥३०)
अनुवाद-जिसने यहाँ पुण्य और पाप दोनोंकी आसक्ति को छोड़
खिया, जो शोकरहित, निर्मल, (और ) शुद्ध है, उसे मैं
ब्राह्मण कहता हूँ।
</poem><noinclude><references/></noinclude>
1mgu8xv8i8vdkao6w3grlh0eqolvzfm
पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४४
104
108316
418816
286947
2026-10-22T11:19:28Z
अनुनाद सिंह
1115
418816
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Soorya Hebbar" /></noinclude><poem>
शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ९९ ॥
श्रव्या श्रीव्यासदासेन समासेन सतां मता ।
क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १०० ॥
इति श्री प्रकाशेन्द्रात्मजव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृता चारुचर्या समाप्ता ।
</poem>
<section begin="10end"/><section end="10end"/>
<section begin="11start"/>{{Block center|'''श्रीमधुसूदनसरस्वतीविरचिता'''<br/>
<big>'''आनन्दमन्दाकिनी।'''</big>}}
<poem>वाग्देवीचतुरास्वपञ्चवदना नित्यं सहस्राननो-
ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः ।
मार्त्याः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया
हीनः किं करवाणि तां ब्रजकुलोत्तंस प्रशंसां तव ॥ १॥
नित्यं ब्रह्मसुरेन्द्रशंकरमुखैर्दत्तोपहाराय ते
विवादास्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ ।
तद्वद्देव निरर्थकैः कतिपयै रुक्षाक्षरैनिर्मितां
वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुति निस्त्रपः ॥ २ ॥
शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः
स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते ।
चित्रालंकृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः
सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३ ॥
चित्राकारकिरीटकोटिविलसद्रत्नघौकान्तिच्छटा-
संघट्टेन विचित्रमम्बरतलं कुर्वस्थितं मूर्धनि ।
जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी
स्वर्णार्द्रेः शिखरे पुरंदरघनुर्व्यूहस्य निन्दावहम् ॥ ४॥</poem>
<section end="11start"/><noinclude>{{rule}}
१.भीष्मस्य गरुडध्वजस्मरणं महाभारते शान्तिपर्वणि राजधर्मे सप्तचत्वारिंशेऽध्याये
द्रष्टव्यम् . २. अद्वैतसिद्धि-प्रस्थानभेद-भगवद्गीताटीका-महिमस्तवटीका-सिद्धान्तबिन्दुटी-
काद्यनेकग्रन्थकर्ता श्रीमधुसूदनसरस्वती कस्मिन्समये बभूवेति न निश्चयः. ३. श्रीकृष्णस्य
केशादिपादान्तवर्णनरूपं स्तोत्रमिदम्.</noinclude>
efhsrv58t9xufv3zezkmehjvzulfxs1
बोधिचर्यावतारः
0
124928
418812
339403
2026-10-22T08:59:01Z
अनुनाद सिंह
1115
418812
wikitext
text/x-wiki
{{header
| title = बोधिचर्यावतारः
| author =शान्तिदेवः
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
#[[बोधिचर्यावतारः/प्रथमः परिच्छेदः|प्रथमः परिच्छेदः]]
#[[बोधिचर्यावतारः/द्वितीयः परिच्छेदः|द्वितीयः परिच्छेदः]]
#[[बोधिचर्यावतारः/तृतीयः परिच्छेदः|तृतीयः परिच्छेदः]]
#[[बोधिचर्यावतारः/चतुर्थः परिच्छेदः|चतुर्थः परिच्छेदः]]
#[[बोधिचर्यावतारः/पञ्चमः परिच्छेदः|पञ्चमः परिच्छेदः]]
#[[बोधिचर्यावतारः/षष्ठः परिच्छेदः|षष्ठः परिच्छेदः]]
#[[बोधिचर्यावतारः/सप्तमः परिच्छेदः|सप्तमः परिच्छेदः]]
#[[बोधिचर्यावतारः/अष्टमः परिच्छेदः|अष्टमः परिच्छेदः]]
#[[बोधिचर्यावतारः/नवमः परिच्छेदः|नवमः परिच्छेदः]]
#[[बोधिचर्यावतारः/दशमः परिच्छेदः|दशमः परिच्छेदः]]
== इदमपि पश्यतु ==
*[https://www.dsbcproject.org/canon-text/book/552 बोधिचर्यावतारः]
[[वर्गः:बौद्धदर्शनम्]]
dflejua156e7h3von38ygb9gsn0inxg
418813
418812
2026-10-22T09:01:38Z
अनुनाद सिंह
1115
/* इदमपि पश्यतु */
418813
wikitext
text/x-wiki
{{header
| title = बोधिचर्यावतारः
| author =शान्तिदेवः
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
#[[बोधिचर्यावतारः/प्रथमः परिच्छेदः|प्रथमः परिच्छेदः]]
#[[बोधिचर्यावतारः/द्वितीयः परिच्छेदः|द्वितीयः परिच्छेदः]]
#[[बोधिचर्यावतारः/तृतीयः परिच्छेदः|तृतीयः परिच्छेदः]]
#[[बोधिचर्यावतारः/चतुर्थः परिच्छेदः|चतुर्थः परिच्छेदः]]
#[[बोधिचर्यावतारः/पञ्चमः परिच्छेदः|पञ्चमः परिच्छेदः]]
#[[बोधिचर्यावतारः/षष्ठः परिच्छेदः|षष्ठः परिच्छेदः]]
#[[बोधिचर्यावतारः/सप्तमः परिच्छेदः|सप्तमः परिच्छेदः]]
#[[बोधिचर्यावतारः/अष्टमः परिच्छेदः|अष्टमः परिच्छेदः]]
#[[बोधिचर्यावतारः/नवमः परिच्छेदः|नवमः परिच्छेदः]]
#[[बोधिचर्यावतारः/दशमः परिच्छेदः|दशमः परिच्छेदः]]
== इदमपि पश्यतु ==
*'''[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)]]'''
*[https://www.dsbcproject.org/canon-text/book/552 बोधिचर्यावतारः] (संगणीकृतम् बौद्धसंस्कृतत्रिपिटकम्)
[[वर्गः:बौद्धदर्शनम्]]
bag5chhtmsfbjjo28d535nynxicnhdv
बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
0
124947
418811
339465
2026-10-22T08:54:54Z
अनुनाद सिंह
1115
418811
wikitext
text/x-wiki
{{header
| title = बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
| author = प्रज्ञाकरमतिः
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/प्रथमः परिच्छेदः|बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/द्वितीयः परिच्छेदः|पापदेशना नाम द्वितीयः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/तृतीयः परिच्छेदः|बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/चतुर्थः परिच्छेदः|बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/पञ्चमः परिच्छेदः|संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/षष्ठः परिच्छेदः|क्षान्तिपारमिता नाम षष्ठः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/सप्तमः परिच्छेदः|वीर्यपारमिता नाम सप्तमः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/अष्टमः परिच्छेदः|ध्यानपारमिता नाम अष्टमः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/नवमः परिच्छेदः|प्रज्ञापारमिता नाम नवमः परिच्छेदः]]
#[[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/दशमः परिच्छेदः|परिणामनापरिच्छेदो दशमः]]
== इदमपि पश्यतु ==
*[https://www.dsbcproject.org/canon-text/book/553 बोधिचर्यावतारपञ्जिका]
[[वर्गः:बौद्धदर्शनम्]]
4ats7p6w7c9gz1uozwo6fwliwib5yb6
बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/प्रथमः परिच्छेदः
0
124948
418810
339470
2026-10-22T08:44:06Z
अनुनाद सिंह
1115
418810
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = प्रज्ञाकरमतिः
| translator =
| section = प्रथमः परिच्छेदः
| previous =
| next = [[बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/द्वितीयः परिच्छेदः|द्वितीयः परिच्छेदः]]
| notes =
}}
<poem>
'''शान्तिदेवविरचितः बोधिचर्यावतारः ।'''
प्रज्ञाकरमतिविरचितया पञ्जिकाख्यव्याख्यया संवलितः ।
॥ ओं नमो बुद्धाय ।
१. बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः ।
सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतोऽखिलांश्च बन्द्यान् ।
सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥ बोधि०_१.१ ॥
............ अखिलांश्च बन्द्यानिति कल्याणमित्रप्रभृतीनाम् । सुगतात्मजसंवरावतारमिति अभिधेयकथनम् । कथयिष्यामीति प्रयोजनाभिधानम् । संबन्धप्रतिपादनपदं तु न विद्यते, सामर्थ्यादेव तु स प्रतिपत्तव्यः । यथागममिति स्वातन्त्र्यपरिहारपदम् । समासादिति पुनरुक्ततापरिहारवचनम् । इति समुदायार्थः । अवयवार्थस्तु उच्यते । सुगतानित्यत्र गतशब्देन सर्वपृथग्जनेभ्यो भगवतां व्यवच्छेदं दर्शयति, तेषां संसारान्तर्गतत्वात्, भगवतां तु संसारविनिर्गतत्वात् । सुशब्दस्तु प्रशस्ताद्यर्थत्रयवृत्तिविशिष्टं सुग.......... । तेनायमर्थः- प्रशस्तं यथा भवति एवं मध्यमप्रतिपदा क्लेशाद्यावरणप्रहाणं गताः सुगताः । अनेन प्रहाणसंपत्तिरुक्ता । यदि वा । प्रशस्तं सर्वधर्मनिःस्वभावतातत्त्वं गता अधिगताः सुगताः । अनेन अधिगमसंपदुपदर्शिता । य[दि वा]..............तीर्थिकशास्तृभ्यो भगवतां विशेषश्चोपदर्शितो भवति । तेषामात्मादिभावाभिनिवेशवशात्प्रशस्तगमनाभावात् । आत्मादीनां च प्रमाणबाधितत्वात् । संसाराप्रतिपक्षत्वाच्च अप्रशस्तं गमनम् । अपुनरावृत्त्या वा गताः, पुनर्जन्मनो रागादिना ......... हंकारशुद्धया अहंकारबीजस्य अविद्यायाः सर्वथा प्रहाणात्सुगताः । अनेन स्त्रोतआपन्नसकृदागामिबोधिसत्त्वेभ्योऽपि भगवतां विशेषो दर्शितः । तेषां प्रशस्तगमनेऽपि सर्वधात्वप्रहाणात्पुनरावृत्तिसंभवात् । निःशेषं वा ..........सर्ववासनाया अपि कायबाग्बुद्धिवैगुण्यलक्षणायाः स्वयमधिगतमार्गोक्तावपाटवस्य वा सर्वथा प्रहाणात्सुगताः । एतावता संपूर्णगामित्वं भगवतां प्रतिपादितम् । अनेनापि अनागामिश्रावकप्रत्येकबुद्धेभ्यो भगवतामसाधारणगुणत्वमावेदितम् । तेषां..........कायवाग्बुद्धिवैगुण्यस्य स्वाधिगतमार्गोक्तयपाटवस्य
च संभवात् । एवं च बुद्धत्वमशेषगुणसरसमसाधारणमपरयोगिभिः सुगतशब्देन ख्यापितम् । तानेवंभूतान् सुगतानादरतः परमप्रसादेन प्रणिपत्येति (bcp-२) नमस्कृत्य सुगतात्मजसंवरावतारं कथयिष्यामिति संबन्धः । किंभूतान्? ससुतानिति । सुताश्च मुनीनामिह लब्धप्रमुदितादिभूमयो बोधिसत्त्वा एव गृह्यन्ते । तेषामेव अत्र अधिकृतत्वात् । तैः सह । अनेन विशेषणेन आर्यसंघस्य नमस्कारोऽन्तर्भावितः । अपरं विशेषणमाहसधर्मकायानिति । सर्वाप [द्विमु]क्तो भगवतां स्वाभाविको धर्मकायः । स एव च अधिगमस्वभावो धर्मः । समूहार्थो वा कायशब्दः जनकायो बलकाय इति यथा । तेन प्रवचनस्यापि ग्रहणम् । तेन सह । अनेनापि धर्मस्य नमस्कारोऽन्तर्भावितः इति । रत्नत्रयनमस्कारोऽयमित्यु[क्तं भवति] ॥
ननु बुद्धाद्धर्मो धर्मतश्च आर्यसंघ इति क्रमः । तत्किमिति बुद्धानन्तरमार्यसंघः, तदनु धर्म इति व्यतिक्रमनिर्देशः? सत्यम् । इह श्लोकबन्धानुरोधाद्व्यतिक्रमनिर्देशो वेदितव्यः । योजनात्तु सुगतान् सधर्मकायान् ससुतान् प्रणिपत्य, इति अनुक्रमेणैव । न कश्चिदत्र दोषः । अथवा । बोधिसत्त्वानामपि अधिगतधर्मत्वादानुरूप्येण धर्मकायो विद्यत एव । तेषामपि सह धर्मकायेन नमस्करणं प्रतिपादनीयम् । तेऽपि हि समधिगतधर्मतया सुगतत्वनियताः सुगतप्रायाः । इति धर्मात्पूर्वं निर्देशः । इति न किंचिदयुक्तम् । किमेतानेव? नेत्याह- अखिलांश्च बन्द्यानिति । अपरानपि समस्तान् वन्दनीयानाचार्योपाध्यायप्रभृतीनपि । आदरतः प्रणिपत्येति । इति पूर्वार्धेन सुगतादीनां नमस्कृतिमभिधाय अपरार्धेन अभिधेयादीनि प्रतिपादयन्नाह- सुगतात्मजेत्यादि । आत्मनो जाताः आत्मजाः । सुगतानामात्मजाः जिनपुत्राः, बोधिसत्त्वा इत्यर्थः । तेषां संवरावतारम् । संवरणं संव्रियते वा अनेनेति संवरः, बोधिचित्तग्रहणपूर्वकं बोधिसत्त्वशिक्षासमादानम् । तच्च यथावसरं वक्ष्यामः । तस्य अवतरणम् । अवतीर्यते तस्मिन् वा अनेनेत्यवतारो मार्गः, येन बोधिसत्त्वपदप्राप्तौ सुगतत्वमवाप्यते । तं कथयिष्यामि प्रतिपादयिष्यामि । अनेन ग्रन्थेनेत्यर्थः । एवमनेन प्रतिपाद्यमानत्वात्संवरावतारः अभिधेयमस्य, अयमभिधानं संवरावतारस्य, इति अभिधानाभिधेयलक्षणः संबन्धोऽप्यर्थात्कथितः । तत्कथनं च अभिधानप्रयोजनम् । परमार्थतस्तु अभिधेयस्वरूपव्युत्पत्तिरेव तत्प्रयोजनम् । अभिधेयस्य पुनः श्रुतमय्यादिप्रज्ञोत्पादनक्रमेण सर्वावरणविगमाद्बुद्धत्वमेव प्रयोजनमिति प्रयोजननिष्ठा । इदं च सुगतात्मजसंवरावतारशब्दे एव अन्तर्भावितम् । तदनन्तरमेवोक्तेः
। यदनुशंसकथनेन च सूचयिष्यति ।
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्धाम् ।
[बोधि १.१०]
इति संबन्धाभिधेयप्रयोजनानि प्रवृत्त्यङ्गतया प्रतिपादितानि । अन्यथा अनभिधेयादिशङ्कया प्रेक्षावतामत्र प्रवृत्तिर्न स्यात् । ननु त्वया स्वातन्त्रयेण कथितं कथनं कथं ग्रहीष्यन्तीत्याह- यथागममिति । आगमानतिक्रमेण । यथैव प्रवचने भगवद्भिः प्रतिपादितः, (bcp-३) तथा मयापि तदर्थानतिवृत्त्या प्रतिपादयितव्यः । अनेन आगमात्स्वातन्त्र्यं परिहृतं भवति । उत्सूत्रमिदं न भवतीत्यर्थः । प्रवचनार्थावगाहनमपि च अवक्रतया अनेन आत्मनो दर्शितम् । इदमपि प्रवृत्त्यङ्गमेव । ननु यदि यथागमं कथयितव्यः, तर्हि आगमे एव तदभिलाषिणः प्रवर्तिष्यन्ते, तत्किमनेनेत्याह- समासादिति । संक्षेपात् । यदि नाम आगमेऽपि कथितः, तथापि तत्र अतिविस्तरेण नानासूत्रान्तेषु प्रतिपादनात् । अहं तु पिण्डीकृत्य संक्षेपेण कथयिष्यामीति विशेषः । अनेन पुनरुक्तमिदं भवतीति परिहृतम् । अयमपि च अप्रवृत्त्यङ्गतापरिहारः । तस्मात्प्रवृत्त्यङ्गत्त्वादभिधेयादिकथनमसंगतं न भवति- तर्हि प्रणामकरणमपार्थकम् । तदपि श्रेयोलाभाद्यर्थमभिधीयमानं कथमपार्थकम्? अयमस्याभिप्रायःसुगतादिप्रणामसमुद्भूतपुण्यसंभारसमाक्रान्तचित्तसंतानस्य प्रतनुतरपुराकृतपापवृत्तेरूपशान्तविघ्नस्य आरब्धार्थपरिसमाप्तिरुपजायते । समस्तसाधुजनगतमार्गानुगमनमपि च अनेन आत्मनः प्रकाशितं भवेत् । इष्टदेवतादिनमस्कृतिश्रवणादास्तिकत्वसंभावनया श्रोतृणामात्मग्रन्थे च गौरवमापादितं स्यात् । अत्र च सुगतशब्देन उद्भावितभगवन्दुणमाहात्म्यश्रवणात्तदभिलाषिणः तदुपार्जनप्रवणमानसाः सुगतात्मजसंवरावतारपरिज्ञानाय यत्नवन्तः अस्मिन् प्रवर्तन्ते । इदमभिमतदेवतादिप्रणामफलम् । एतेन इदमपि- येन यदभिमतमभिप्रेतं कर्तुम्, स तदेव करोतु नान्यत् । अन्यकरणे अप्रस्तुताभिधानमतिप्रसङ्गश्च स्यात् । तदयमपि संवरावतारकथने
कृताभिप्रायः किमप्रस्तुतमिष्टदेवतादिप्रणामं करोति? प्रागुक्तदोषद्वयप्रसङ्गादिति यदुच्यते, तदपि निराकृतं भवति, तदुपयोगस्य वर्णितत्वात्नाप्रस्तुताभिधानम् । यत्प्रकृतोपयोगि तद्वक्तव्यं नान्यत्, इत्यतिप्रसङ्गो नास्तीति सर्वं सुस्थम् ॥
ननु आगमानतिरिक्तं संक्षेपेणाभिधीयमानमपि कथमर्थविशेषाद्यभावाद्विशेषेण प्रवृत्त्यङ्गतया कस्यचिदुपादेयं स्यात्? तस्मादागमादधिकमपि किंचिदत्र वक्तव्यमित्याशङ्कयाह-
न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति ।
अत एव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं मयेदम् ॥ बोधि०_१.२ ॥
नैव किंचिदपूर्वमपरमागमादतिरिक्तमस्मिन् वक्तव्यमस्ति मम । यस्मादर्थे वा हिशब्दः । तर्हि तदधिकप्रमेयानभिधानेऽपि पदार्थरचनाविशेषो भविष्यति । तस्मादपि विशेषेण प्रवृत्तिः स्यादिति । अत्राह- न चेति । नापि संग्रथनमर्थपदविन्यासविशेषः, तत्र कौशलं नैपुण्यं ममास्ति । अवधारणे वा चकारः । यद्येवम्, कथमस्य परार्थोपयोगित्वमिति । (bcp-४) आह- अत एवेति । परप्रसञ्जितमेव अभ्युपगच्छति । यस्मादपूर्वं वक्तुं मम शक्तिर्नास्ति । नापि संग्रथनकौशलमस्ति । न च परार्थचिन्तापि । परार्थोपयुक्तमिदं भवतीति विकल्पोऽपि मे नास्ति, तत्र श्क्तिवैगुण्यात् । किमर्थं करणाय यत्न इति चेदाह- खमन इति । आत्मचित्तं सुगतात्मजसंवरावताराभ्यासरसेन अधिकाधिकं वासयितुं कृतं प्रणितं मया प्रकरणमिदम् । संवरावतारकथनं वा । अतीतकालनिर्देशः अन्तस्तत्त्वनिष्पन्नं मनसि निधायेति ॥
ननु नात्मार्थं ग्रन्थप्रणयनं दृष्टम्, न च स्वयंकृतेनैव आत्मनि विशेषाधानम्, तावतः संस्कारविशेषस्य प्रागेवात्मनि विद्यमानत्वादिति । अत्राह-
मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
अथ मत्समधातुरेव पश्येदपरोऽप्येनमतोऽपि सार्थकोऽयम् ॥ बोधि०_१.३ ॥
अनेन ग्रन्थेन वा । कुशलं शुभमनस्कारं भावयितुमाराधयितुम् । वृद्धिं याति प्रसादवेगः । उत्तरोत्तरवर्धमानस्य प्रसन्नचित्तसंतानस्य प्रवाहवाहितया प्रवृत्तिः । अनेन स्वार्थकारित्वमनुभवसिद्धमस्य निदर्शयति । परार्थकारित्वमपि लेशतः संभवति इति दर्शयन्नाह- अथ मत्समेत्यादि । अथेति प्रकारान्तरोपन्यासे । स्वार्थकारित्वमस्य तावदनुभवसिद्धम् । यदि पुनर्मम समानप्रकृतिरेव कश्चिदन्यः पश्येदीक्षेत, एनं ग्रन्थमर्थं वा, अतोऽपि परार्थोपयुक्तत्वादपि सार्थकः सप्रयोजनोऽयम् । परार्थोपयोगस्यापि कथंचित्संभवात् । अनेन श्लोकेन निरभिमानतामात्मनो दर्शयति ॥
इदानीं संवरावतारकथां ग्राहयितुमुपोद्धातं रचयन्नाह-
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ बोधि०_१.४ ॥
अष्टाक्षणविनिर्मुक्तस्य क्षणस्य संपत्तिः समग्रता । इयं सुदुर्लभा सुष्ठु दुःखेन लभ्यत इति कथंचित्प्राप्या ।
महार्णवयुगच्छिद्रकुर्मग्रीवार्पणोपमा ।
प्रतिलब्धा प्राप्ता, सा च पुरुषार्थसाधनी । पुरुषस्य अर्थः अभ्युदयनिःश्रेयसलक्षणः, तस्य साधनी निष्पादनी । तदङ्गत्वात्तत्र समर्थेति यावत् । यदि च एवंभूतायामपि अस्यां (bcp-५) न हितं विचिन्त्यते, स्वपरसुखहेतुः स्वर्गापवर्गसाधनं नोपादीयते, तदा पुनरपि भूयोऽपि एष तथागतोत्पादः श्रद्धाक्शणविमुक्तो मनुष्यभावः इत्ययं समागमः समावेशो मिलनमिति यावत् । कुतः कथम्? न कथंचिद्भविष्यति सुदुर्लभत्वात् । अक्षणावस्थायां धर्मप्रविचयस्य कर्तुमशक्यत्वात्, इत्यभिप्रायः । यथोक्तमार्यगण्डव्यूहसूत्रे आर्यजयोष्मायतनविमोक्षे-
दुर्लभा अष्टाक्षणविनिवृत्तिः । दुर्लभो मनुष्यभावप्रतिलम्भः । दुर्लभा क्षणसंपद्विशुद्धिः । दुर्लभो बुद्धोत्पादः । दुर्लभा अविकलेन्द्रियता । दुर्लभो बुद्धधर्मश्रवणः । दुर्लभं सत्पुरुषसमवधानम् । दुर्लभानि भूतकल्याणमित्राणि । दुर्लभो भूतनयानुशासन्युपसंहारः । दुर्लभं सम्यग्जीवितं मनुष्यलोके इति ॥ [गण्डव्यूहसूत्र ११६]
इदमेवाभिसंधायोक्तम्-
मानुष्यं दुर्लभं लोके बुद्धोत्पादोऽतिदुर्लभः ।
ततोऽपि श्रद्धाप्रव्रज्याप्रतिपत्तिः सुदुर्लभा ॥
बोधौ चित्तं दृढं सर्वसत्त्वानामनुकम्पया ।
सर्वदुःखप्रशान्त्यर्थं दुर्लभानां परंपरा ॥
इति ॥
अक्षणाः पुनरिमे-
नरकप्रेततिर्यञ्चो म्लेच्छा दीर्घायुषोऽमराः ।
मिथ्यादृग्बुद्धकान्तारौ मूकताष्टाविहाक्षणाः ॥
इति ॥
तस्मादिदानीमेव उद्योगः कर्तव्य इति ॥
सांप्रतं बोधिचित्तग्रहणाय तत्राभिलाषमुत्पादयितुमनुशंसामवतारयन्नाह-
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् ।
बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥ बोधि०_१.५ ॥
निशायां यथा जलदागमसमये मेघैर्बहुले तमसि सति सौदामनी क्षणलवमात्रमालोकयति किंचिद्वस्तुजातं प्रकाशयति । सैवोपमा अत्रापि इत्याह- बुद्धानुभावेनेत्यादि । बुद्धा एव हि भगवन्तो हितसुखोपसंहाराय सदा भव्याभव्यतया सर्वसत्त्वसंतानमवलोकयन्तस्तिष्ठन्ति । यदा यत्र येनोपायेन यस्मै यं भव्यं पश्यन्ति तदा तत्र तेनोपायेन तस्मै तमधितिष्ठन्ति । अभव्यावस्थायामुपेक्ष्य विहरन्ति । इति तथागताधिष्ठानेन कथंचिद्दुर्लभोत्पत्तिकत्वात् । लोकस्य जनस्य पुण्येषु हितसुखहेतुषु कुशलेषु कर्मसु बुद्धिर्मुहूर्तमेकं भवेत् । तत्र तस्या अस्थिरत्वात् । अनादिसंसारे लोकेन अकुशलपक्षस्यैव अभ्यस्तत्वात् ॥
(bcp-६) यदि नाम एवम्, ततः किमित्याह-
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् ।
तज्जीयतेऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ बोधि०_१.६ ॥
यत एवम्, तस्माच्छुभं पुण्यं दुर्बलं सामर्थ्यविकलमेव, विद्युदुन्मेषप्रायत्वातति कृशम् । नित्यं सर्वकालम् । कस्य तर्हि अतिशयवद्बलमस्तीत्याह- बलं त्विति । सामर्थ्यं पुनरशुभस्य महत्, मेघघनान्धकारसदृशत्त्वात्तस्य । सुघोरमतिभयंकरं नरकादिदुःखदायकत्वात्, सुदुर्जयत्वाच्च । भवतु नाम महत्सामर्थ्यमस्य, तथापि तदपरेण बलवता पुण्येन जेष्यते, तथा च न काचित्क्षतिरिति, आह- तदित्यादि । तत्तादृशं महासामर्थ्यं जीयते अभिभूयते । अन्येन इतरेण । केन? न केनापीत्यर्थः । कुतः पुनरेवमुच्यते? संबोधीत्यादि । सम्यक्संबोधौ बुद्धत्वे यच्चित्तं सर्वसत्त्वसमुद्धरणाभिप्रायेण तत्प्राप्त्यर्थमध्याशयेन मनसिकारः । तद्यदि नाम न भवेत्, महासामर्थ्यं हि तदपरेण महीयसा पराजीयते सूर्येणेव निशान्धकारः । न च संबोधिचित्तात्प्रतिपक्षो महीयानपरः संभवति । तस्मात्तत्प्रतिघाताय संबोधिचित्तमेव उपादेयं नान्यदित्यभिप्रायः ॥
इतोऽपि संबोधिचित्तमुपादेयमित्याह-
कल्पाननल्पान् प्रविचिन्तयद्भिर्दृष्टं मुनीन्द्रैर्हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यप्रमिताञ्जनौघान् ॥ बोधि०_१.७ ॥
एकोऽन्तरकल्पः कल्पः । विंशतिरन्तरकल्पाः कल्पः । अशीतिरन्तरकल्पाः कल्पः । स च महाकल्प इत्यभिधीयते । तदिह महाकल्पस्यैव ग्रहणम् । अनल्पान् बहून् प्रथमासंख्येयान्तर्गतान् । प्रविचिन्तयद्भिः तात्पर्येण परिभावयद्भिः । दृष्टमधिगतम् । मुनीन्द्रैः बुद्धैर्भगवद्भिर्बोधिसत्त्वावस्थायाम् । हितं सर्वार्थसाधनयोग्यम्, तद्बीजभूतत्वात् । एतदेव संबोधिचित्तमेव । कथं पुनरिदमेव हितमित्याह- यत इत्यादि । यस्मात्सुखं प्रवृद्धं प्रकर्षगतं बुद्धत्वलक्षणम् । अप्रमितानप्रमेयान् । जनौघान् सत्त्वसमूहान् । उत्प्लावयति उत्तारयति संसारदुःखमहार्णवात् । तस्मादिदमेव हितम् ॥
अथवा । यस्मात्सुखं देवमनुष्यसंपत्तिलक्षणम् । प्रवृद्धं वृद्धिं गतम् । अर्थात्संबोधिचित्तादेव । उत्प्लावयति अतिशयेन संतर्पयति । सौकर्यादधिकतरं यद्भवति तदुत्प्लावनमुच्यते । यथा दध्ना वयमुत्प्लाविता इति सौकर्यादधिकतरं दधि भूतमित्यर्थः ॥
(bcp-७) यदि वा । यतः संबोधिचित्तात्सुखं प्रवृद्धमिति योजनीयम् ॥
कथं प्रवृद्धमित्याह- सुखेनैवेति । न अकृच्छ्रेण । न शिरोलुञ्चनादिना महता कष्टेन । तथा हि बोधिचित्तसंवरादेव बोधिसत्त्वोऽमितपुण्यज्ञानसंभारात्प्रवर्धमानो देवमनुष्यसंपत्तीः सुखमधिगच्छन् सत्त्वानेव अधिकतरं ताभिः संतर्पयतीति । यद्वक्ष्यति-
एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः ।
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥
इति ॥ [बोधि. ७.३०]
ननु भगवतामपि मैत्रीबलादिजातकेषु [जातकमाला-८] महद्दुष्करं श्रूयते । तत्कथं सुखेनैव सुखं प्रवृद्धमिति? नैष दोषः । यतः उत्पाद्यमेव परहितसुखाधायकं दुःखं स्वपरयोः । कृपात्मभिः । सुखमेव तादृशं दुःखं परदुःखदुःखिनां धिमतामिति प्रतिपादयिष्यते ॥
अस्मादपि स्वपरहितहेतुत्वाद्बोधिचित्तं न परित्याज्यमेवेति दर्शयन्नाह-
भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् ॥ बोधि०_१.८ ॥
संसारदुःखशतानि नरकादिगतिदुःखानामसातवेदितानां शतानि अपर्यन्तसमूहां स्तर्तुकामैः परित्यक्तुमिच्छद्भिः श्रावकप्रत्येकबुद्धगोत्रैः । न केवलमात्मीयानि, लोकानां जात्यादिदुःखान्यपि हर्तुकामैरपनेतुकामैर्बोधिसत्त्वगोत्रैः । न केवलं स्वपरदुःखानि हर्तुकामैः, अपि च, बहूनि सुखान्येव सौख्यानि तेषां शतानि देवमनुष्योपपत्तिलभ्यानि अनुभवितुकामैः संसारसुखाभिलाषुकैरपि । सदैव सर्वकालं न विमोच्यमपरित्याज्यं बोधिचित्तम् । स्वीकर्तव्यमित्यर्थः । अथवा संबोधिकाङ्क्षिणामेव विशेषणानि ॥
अस्मादपि गुणविशेषाद्बोधिचित्तं ग्राह्यमित्याह-
भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन ।
सनरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥ बोधि०_१.९ ॥
संसार एव बन्धनागारम्, तत्र बन्धनं बन्धो रागादय एव यस्येति विग्रहः । तादृशो वराकस्तपस्वी सन् । उदिते एव बोधिचित्ते प्रथमतरं बोधिचित्तसंवरग्रहणसमये । सुगतानां सुत उच्यते, बुद्धपुत्र इत्यभिधीयते । क्षणेन तत्क्षणमेव । न केवलमेवमित्याह- (bcp-८) सनरामरेत्यादि । सह नरामरैः मनुष्यदेवैर्वर्तन्ते ये असुरादयो लोकाः, तेसामपि वन्दनीयो नमस्करणीयः स्तवनीयश्च भवति स्म । स्मशब्देन अतीतकालाभिद्योतनाद्बोधिचित्तोदयसमये एव भूतः ॥
अस्मादपि गुणानुशंसदर्शनाद्बोधिचित्तग्रहणे यत्नः करणीय इत्याह-
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् ।
रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञम् ॥ बोधि०_१.१० ॥
अमेध्यप्रतिमामिमां मनुष्यादिकलेवरस्वभावां तद्धातुकां तत्स्वभावाम् । तेन संवर्धितामित्यर्थः । तां गृहीत्वा आदाय । जिन एव रत्नम्, दुर्लभप्रतिलम्भादिगुणयोगात् । तस्य प्रतिमां करोति निष्पादयति बोधिचित्तम् । तथागतविग्रहं निर्वर्तयतीत्यर्थः । किं भूताम्? अनर्घाम् । न विद्यते अर्घो मूल्यं यस्याः । सर्वत्रैधातुकातिशायिगुणत्वाद्गुणपर्यन्तापरिज्ञानाच्च । तथोक्तां ताम् । अत एव रसजातं रसप्रकारम् । अत्युच्चवेधकारित्वादतीव वेधनीयम् । कर्तरि अनीयः करणे वा । तत्तादृशम् । बोधिचित्तं संज्ञा अस्य रसजातस्य । बोधिचित्तापरव्यपदेशम् । सुदृढं गृह्णत यथा गृहीतं पुनर्न चलति गृह्णीतेति प्राप्ते गृह्णतेति यथागमपाठात् । तस्माज्जिनरत्नमात्मानं कर्तुकामैर्बोधिचित्तमहारसः सुदृढं ग्रहीतव्यः । उक्तं च आर्यमैत्रेयविमोक्षे [गण्डव्यूहसूत्र ५०२]
तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम् । तस्यैकं पलं लोहपलसहस्रं सुवर्णीकरोति । न च तद्रसपलं शक्यते तेन लोहपलसहस्रेण पर्यादातुं लोहीकर्तुं वा । एवमेव एकः सर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतासुवर्णान् करोति । न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यते सर्वकर्मक्लेशावरणलोहादिभिः पर्यादातुं तत्कर्तुं वेति ॥
भवगतिषु विभूतिकामैरपि नात्र संशयो विपर्यासो वा कर्तव्यः इत्युपदर्शयन्नाह-
सुपरीक्षितमप्रमेयधीभिर्बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नम् ॥ बोधि०_१.११ ॥
गतय एव पत्तनानि पण्यद्रव्यक्रयविक्रयनगराणि इह पत्तनानि । तद्वत्शुभाशुभकर्मपण्यद्रव्यक्रयविक्रयस्थानानि गतिपत्तनानि । तेषु विप्रवासो विप्रवसनमेव शीलं स्वभावो येषां ते तथोक्ताः । तेषां संबोधनम् । हे गतिपत्तनविप्रवासशीलाः, सुदृढं गृह्णत बोधिचित्तरत्नम् । बोधिचित्तमेव रत्नं रत्नमिव । यथा चिन्तामणिमहारत्नं सर्वदारिद्यदुर्गतिप्रशमनहेतुः, (bcp-९) तथा इदमपि बोधिचित्तरत्नम् । अयमभिप्रायः- वणिज एव सुखसंपत्तिलाभार्थिनो यूयम् । अतः इदमेव महारत्नं महतादरेण गृह्णत । कुतः? बहुमूल्यमिति हेतुपदमेतत् । यस्मादनर्घमिदं सर्वातिशायि लौकिकलोकोत्तरसंपत्तिनिदानभूतत्वात्, तस्मादिदमेव ग्राह्यमित्यर्थः । कथमिदं ज्ञायत इति चेदाह- सुपरीक्षितमिति । सुष्ठु निरूपितं सम्यङ्निर्णीतमित्यर्थः । कैरित्याह- अप्रमेयधीभिः । अप्रमेया प्रमातुमशक्या धीर्बुद्धिर्येषां तैः महाप्राज्ञैः बुद्धबोधिसत्त्वैः । एतावता परीक्षायां स्खलितमपि नास्ति इति सुपरीक्शितमुच्यते । पुनरपि किंभूतैः? जगदेकसार्थवाहैः । सार्थं वाहयन्तीत्यण् । जगतामेक एव सार्थवाहाः करुणावशवर्तिनो बुद्धा भगवन्तो बोधिसत्त्वाश्च, तैः । यथा खलु वणिजां हिताहितप्राप्तिपरिहारयोर्हितैषिणो ज्ञानवन्तश्च सार्थवाहा नेतारो भवन्ति, इति न तत्र विसंवादसंभावना, तथा अत्रापीत्यभिप्रायः । तस्मादिदमेव बोधिचित्तरत्नमनर्घं सुदृढं ग्राह्यमिति । एतच्च तत्रैवोक्तम्-
तद्यथा कुलपुत्र यावच्चन्द्रसूर्यौ मन्डलप्रभया अवभासेते । अत्रान्तरे ये केचिद्धन धान्यरत्नजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनपरिभोगाः, ते सर्वे वशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत्त्रिष्वपि अध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति । अत्रान्तरे यानि कानि चित्सर्वदेवमनुष्यसर्वसत्त्वसर्वश्रावकप्रत्येकबुद्धकुशलमूलानि सास्रवानास्रवाणि सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते । [गण्डव्यूहसूत्र-५००] इति ॥
इदमपरमसाधारणमतिशयवत्कल्पतरोरिव माहात्म्यमस्य उपदर्शयन्नाह-
कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव ।
सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥ बोधि०_१.१२ ॥
कदली यथा पलमेकवारं दत्वा न पुनः फलति, तथा बोधिचित्तादन्यदपि कुशलं सर्वमेव किंचिदेव विपाके परिपक्वे न पुनः फलदानसमर्थं भवति । तावतैवास्य परिक्षयात्, विपाकस्य च अव्याकृततया पुनः फलानुबन्धाभावात् । बोधिचित्तस्य पुनरयं विशेषः इत्याह- सततमित्यादि । सर्वकालं फलति देवमनुष्योपपत्तिषु सुखसंपत्तिप्रदानात्क्षयं न याति तदन्यकुशलवत्, स्थिरस्वभावत्वात् । प्रतिक्षणमनेकप्रकारैः शुभमेघप्रवाहैरापूर्यमाणत्वाच्च प्रसवत्येव तु बोधिचित्तवृक्षः, अविच्छिन्नसुखसंपत्तिफलप्रसवनात्, उत्तरोत्तरमपरा परगुणविशेषजननाच्च । बोधिचित्तं वृक्श इव । उपमितं व्याघ्रादिभिः इति समासः । यस्मादेवम्, तस्मादनुपरतमतिशयवत्सर्वसुखसंपदः प्राप्तुकामैः प्रेक्षावद्भिरिदमेव ग्राह्यम् । कथितं चैतदार्याक्षयमतिनिर्देशे-
(bcp-१०) तद्यथापि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्योदकबिन्दोर्नास्त्यन्तरा परिक्षयः पर्यादानं यावन्न कल्पपर्यन्तः इति, एवमेव बोधिपरिणामितस्य कुशलमूलस्य नास्त्यन्तरा परिक्षयः पर्यादानं यावन्न बोधिमण्डनिषदनम् ॥ इति ॥
न केवलं सर्वशुभसंचयकारणम्, अकुशलपक्षक्षयहेतुरपि बोधिचित्तमिति सार्धश्लोकेनाह-
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ बोधि०_१.१३ ॥
बोधिचित्तग्रहणात्पूर्वं कृत्वापि पापानि अकुशलकर्माणि नरकादिषु दुःसहदुःखदायकत्वात्सुदारुणानि अतिभयंकराणि महान्ति वा यस्य बोधिचित्तस्याश्रयादाश्रयणात्तदुत्पादनरक्षणवर्धनसेवनलक्षणातुत्तरति निस्तरति । तत्सामर्थ्याभिभवेन अतिक्रामतीत्यर्थः । क्षणेन एकस्मिन्नेव क्षणे महतः पुण्यराशेः समुपार्जनात् । तदुत्पादनमात्रेण । कथमिवोत्तरति? शूराश्रयेणेव महाभयानि बलवत्पुरुषाश्रयेण यथा महापराधं कृत्वापि कश्चिदुत्तरति तदपराधफलान्निर्भयो भवति, तथा प्रकृतेऽपि । तदेवंभूतं बोधिचित्तं कथं किमिति नाश्रीयते न सेव्यते? अज्ञसत्त्वैः प्रज्ञाविकलैर्मूढजनैरित्यर्थः । आश्रयणीयमेव तद्भवेदिति भावः । इदमपि तत्रैवोक्तम्-
तद्यथा कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव बोधिचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेतीति ॥
अपरमपि बोधिचित्तात्पापक्षयदृष्टान्तमाह-
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।
युगान्तकाले प्रलयसमये अनलो बह्निः सप्तसूर्योदयसमुद्भूतः यथा सर्वं कामाधातुं सप्रथमध्यानं निर्दहति, निःशेषं दहति यथा भस्मापि नावशिष्यते, तद्वत्पापानि । किंभूतानि? महान्ति सुमेरुप्रख्यानि महारौरवादिदुःखविपाकानि यद्बोधिचित्तं निर्दहति तद्विपाकोपघातान्निर्मूलयति । क्षणेन नचिरेण । नाश्रीयते तत्कथमज्ञसत्त्वैरिति संबन्धः कार्यः ॥ एतदपि तत्रैवोक्तम्- कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया । पातालभूतं सर्वाकुशलधर्मपर्यादानकरणतया इति ॥
ननु कृतकर्माविप्रणाशवादी भगवान्, तत्कथमिदमभिधीयते? सत्यमुच्यते । बोधिचित्तप्रसूते प्रतिक्षणमाकाशधातुव्यापके महति पुण्यौघेऽन्तर्भूततया लवणपलोपमन्यायेन अप्रज्ञायमानत्वात्, बलवता प्रतिपक्षेण अभीभूतत्वाच्च, फलदानासमर्थं दग्धमेव तदित्यदोषः । यदि वा निरुपायाभिसंधिना तदुक्तम्- नाभुक्तं क्षीयते कर्मेति । इदं तु सर्वपापनिर्मूलने (bcp-११) महानुपायः । तथा हि- यदा बोधिसत्त्वः सर्वसत्त्वानाकाशधातुव्यापिनः सर्वदुःखात्समुद्धृत्य सर्वसुखसंपन्नान् करिष्यामीत्यध्याशयेन विचिन्तयति । पूर्वकृतं च पापं विदूषणासमुदाचारादिभिः क्षपयति, तदा बोधिचित्तबलादेव तत्संताने पापस्य कः सद्भावः, येन चोद्यस्यावकाशः स्यादिति सर्वं निराकुलम् । एतावता यदुक्तम्- तज्जीयतेऽन्येन शुभेन केन इति, तदपि विस्पष्टीकृतम् । अन्ये पुनः- अनियतविपाकापेक्षया सर्वमेतदुच्यते, नियतविपाकस्य तु कर्मणः केनचित्प्रतिषेद्धुमशक्यत्वादित्याहुः ॥
इत्थमपि बोधिचित्तमुपादेयमित्याह-
यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥ बोधि०_१.१४ ॥
यस्य बोधिचित्तस्य अनुशंसान् स्वाभाविकान् गुणानमितानप्रमाणान्मैत्रेयनाथः भगवानजितः । किंभूतः? धीमान् बोधिसत्त्वः । उवाच उक्तवान् । सुधनाय सुधननाम्ने बोधिसत्त्वाय । तथा च आर्यगण्डव्यूहसूत्रे [वर्णितम्-
बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम् । क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया । धरणिभूतं सर्वलोकप्रतिशरणतया । यावत्पितृभूतं सर्वबोधिसत्त्वारक्षणतया । पे......... । वैश्रवणभूतं सर्वदारिद्यसंछेदनतया । चिन्तामणिराजभूतं सर्वार्थसंसाधनतया । भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया । शक्तिभूतं क्लेशशत्रुविजयाय ॥ इत्यादि विस्तरः ॥
नाश्रीयते तत्कथमज्ञसत्त्वैः इति अत्रापि योजनीयम् ॥
इदानीं बोधिचित्तस्य प्रभेदं दर्शयन्नाह-
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ बोधि०_१.१५ ॥
तत्समनन्तरप्रदर्शितानुशंसं बोधिचित्तं द्विविधं द्विप्रकारं विज्ञातव्यं वेदितव्यम् । गोत्रभूम्यादिगतानेकप्रकारसंभवेऽपि कथं द्विविधमित्याह- समासतः । अपरप्रकारसंभवेऽपि संक्षेपतः इदं द्विविधमुच्यते । द्विविधमपि कथम्? बोधिप्रणिधिचित्तमित्येकम्, बोधिप्रस्थानमिति द्वितीयम् । बोधौ प्रणिधिः, तदेव चित्तं तत्र वा चित्तम् । यच्चित्तं प्रणिधानादुत्पन्नं भवति दानादिप्रवृत्तिविकलं च, तत्प्रणिधिचित्तम् । तद्यथा- सर्वजगत्परित्राणाय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना । प्रस्थाने चित्तं प्रस्थानमेव वा चित्तम् । चित्तस्य तत्स्वभावत्वात् । पूर्वकमनस्कारपुरःसरमेव यतः प्रभृति संवरग्रहणपूर्वकं संभारेषु प्रवर्तते, तत्प्रस्थानचित्तम् । इति उक्तक्रमेण द्वैविध्यम् । इयानेव भेदः इति एवकारेण प्रतिपादयति । चकारद्वयं परस्परसमुच्चये । द्वयोरपि बोधिचित्तत्वं दर्शयति । तेन पूर्वकं बोधिचित्तं न भवतीति शङ्कां निरस्यति । शूरंगमसूत्रे आद्योत्पादितस्यापि बोधिचित्तस्य बुद्धत्वहेतुत्वाभिधानात् । तथा आर्यगण्डव्यूहे चोक्तम्-
(bcp-१२) दुर्लभाः कुलपुत्र ते सत्त्वाः सत्त्वलोके ये अनुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति । ततोऽपि दुर्लभतमास्ते सत्त्वाः ये अनुत्तरां सम्यक्संबोधिमनुप्रस्थिताः ॥ इति ॥
इदानीमुक्तमेव प्रभेदमुदाहरणेन व्यक्तीकुर्वन्नाह-
गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते ।
तथा भेदोऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः ॥ बोधि०_१.१६ ॥
यथा कश्चित्पुरुषः अभिमतदेशप्राप्तये गन्तुकामः गमनाभिप्रायः, न तु पुनर्गच्छत्येव, अन्यः पुनस्तत्प्राप्तये प्रस्थितो गच्छत्येव । यद्वद्यथा । तयोर्भेदो विशेषः प्रतीयते अवगम्यते, तद्वत्तथा भेदो नानात्वमनयोर्बोधिप्रणिधिप्रस्थानचेतसोर्ज्ञेयः अवबोद्धव्यः पण्डितैर्विचक्षणैः । कथम्? याथासंख्येन । स्वार्थेऽप्यण् । प्राक्तनं प्रणिधिचित्तस्य निदर्शनं पश्चात्तनं प्रस्थानचेतसः इति संख्यार्थः ॥
तदेतत्प्रणिधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितमित्याह-
बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत् ।
यदि नाम तत्प्रतिपत्तिविकलम्, तथापि तस्य आस्तां तावद्बुद्धत्वम्, संसारेऽपि देवमनुष्योपपत्तिस्वभावं सुखसंपत्तिलक्षणं फलं महत्, अन्यस्मात्कुशलाद्बृहत् । सततं फलतीत्यादिविशेषणविशिष्टत्वात् । तथा चोक्तमार्यमैत्रेयविमोक्षे [=गण्डव्यूहसूत्र-५०८]-
तद्यथापि नाम कुलपुत्र भिन्नमपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्यं च विनिवर्तयति, एवमेव कुलपुत्र प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारमभिभवति, बोधिचित्तनाम च न विजहाति, संसारदारिद्यं च विनिवर्तयतीति ॥
तस्माद्योऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुमसमर्थः, तेनापि बोधिचित्तमुत्पादनीयम् । एवमुपायपरिग्रहेण महाफलत्वात् । यथोक्तमार्यापरराजाववादकसूत्रे-
यस्मात्त्वं महाराज बहुकृत्यो बहुकरणीयः, असहः सर्वेण सर्वं सर्वथा सर्वदा दानपारमितायां शिक्षितुम्, यावत्प्रज्ञापारमितायां शिक्षितुम् । तस्मात्तर्हि त्वं महाराज एवमेव संबोधिच्छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि, सततममितमनुस्मर, मनसि कुरु, भावय । सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकपृथग्जनानामात्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानिपिण्डयित्वा तुलयित्वा अनुमोदयस्व अग्रया अनुमोदनया । अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय । निर्यात्य च सर्वसत्त्वसाधारणानि कुरु । ततः सर्वसत्त्वानां यावत्सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यमनुत्तरायां सम्यक्संबोधौ परिणामय । एवं खलु त्वं महाराज प्रतिपन्नः सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिष्यसि, बोधिसंभारांश्च परिपूरयिष्यसि ॥ इत्यादिकमुक्त्वाह- (bcp-१३) स खलु पुनस्त्वं महाराज सम्यक्संबोधिचित्तकुशलमूलविपाकेन अनेककृत्वो देवेषु उपपन्नोऽभूः । अनेककृत्वो मनुष्येषु उपपन्नोऽभूः । सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि । इति विस्तरः ॥
इति चर्याविकलेऽपि बोधिचित्ते नावमन्यना कार्या । तस्यापि अनन्तसंसारे सुखप्रसवनात् । यत्पुनः प्रतिपत्तिसारं बोधिचित्तं तदतितरां विपुलफलमेवेति सिद्धमित्याह-
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥ बोधि०_१.१७ ॥
न तु न पुनः । यथा प्रस्थानचित्तस्य अविच्छिन्नपुण्यत्वं निरन्तरशुभप्रवाह वाहित्वम्, न तथा अस्येति भावः ॥
इदमेव अविच्छिन्नपुण्यत्वं वृत्तद्वयेन प्रसाधयन्नाह-
यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्त्येन चेतसा ॥ बोधि०_१.१८ ॥
ततःप्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ बोधि०_१.१९ ॥
यतःप्रभृतिः यस्मादारभ्य । न विद्यते पर्यन्तः इयत्ता अस्येति अपर्यन्तस्य आकाशधातुव्यापिनः सत्त्वधातोः । प्रमोक्षणे प्रमोक्षे सर्वदुःखोपशमनिमित्ते । समाददाति तच्चित्तम्, सम्यक्संबोधिचित्तं समादाय वर्तते । कथम्? अनिवर्त्येन चेतसा अप्रवृत्तिभ्रष्टेन मनसा । ततःप्रभृति तदादिं कृत्वा । सुप्तस्य मिद्धाक्रान्तचित्तस्य प्रमत्तस्य विक्षिप्तचित्तस्यापि । उभयत्रापि संबध्यते । उपलक्षणं चैतत् । गच्छतोऽपि तिष्ठतोऽपि निषण्णस्यापि भुञ्जानस्यापि मूर्च्छाद्यवस्थायामपीत्यादि द्रष्टव्यम् । अनेकश इति । प्रतिक्षणमनेकवारम् । अविच्छिन्नाः पुण्यधाराः निरन्तरसंततयः शुभवेगाः प्रवर्तन्ते । नभःसमाः प्रतिक्षणमाकाशधातुप्रमाणाः । तस्मात्प्रतिपत्तिसारेण बोधिसत्त्वेन भवितव्यम् । आर्यसमाधिराजे चोक्तम्-
तस्मात्प्रतिपत्तिसारो भविष्यामि, इत्येवं कुमार शिक्षितव्यम् । तत्कस्य हेतोः? प्रतिपत्तिसारस्य कुमार न दुर्लभा भवति अनुत्तरा सम्यक्संबोधिरिति [समाधि-१०] ॥
अविच्छिन्नपुण्यंत्वमस्य भगवतैवोक्तमित्युपदर्शयन्नाह-
इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् ।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥ बोधि०_१.२० ॥
इदमेव अप्रमेयपुण्यत्वं स्वयमेव आत्मनैव तथागतो बुद्धो भगवानुक्तवान् कथितवान् । क्व? सुबाहुपृच्छायां सुबाहुपृच्छानाम्नि सूत्रे । कथम्? सोपपत्तिकं सयुक्तिकम् । किमर्थम्? हीनाधिमुक्तिसत्त्वार्थम् । हीने श्रावकप्रत्येकबुद्धयाने अधिमुक्तिः श्रद्धा छन्दो वा (bcp-१४) येषां ते । ते सत्त्वाश्च । तेभ्य इदं तदर्थम् । तत्प्रयोजनमुद्दिश्येत्यर्थः । तथा हि- ये अनियतगोत्राश्चिरतरकालेन बहुतरसंभारोपार्जनभीता महायानाच्चित्तं व्यावर्त्य लघुतरकालेन अल्पतरसंभारसाध्ये श्रावकप्रत्येकबुद्धयाने चित्तमुत्पादयन्ति, तद्वयावर्तनार्थं भगवानुपपत्तिमाह ॥
तामेवोपपत्तिं वृत्तद्वयेन कथयन्नाह-
शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् ।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥ बोधि०_१.२१ ॥
किमुताप्रतिमं शूलमेकैकस्य जिहीर्षतः ।
अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः ॥ बोधि०_१.२२ ॥
कतिपयजनानां मस्तकपीडां नाशयामि मन्त्रेण अगदेन वा, इत्येवं मनसि कुर्वनप्रमाणेन सुकृतेन असौ कल्याणाभिप्रायो गृहीतो द्रष्टव्यः । किं पुनरप्रमाणं संसारदुःखं प्रतिसत्त्वमप्रमाणस्य जगतो हर्तुमिच्छतः । अपि च तच्छूलमपनीय सर्वसत्त्वान् सर्वगुणसमङ्गिनः कर्तुमिच्छतः किमप्रमेयं पुण्यं न भवति? इति विभक्तिविपरिणामेन योजनीयम् । अविच्छिन्नाः पुण्यधाराः किमुत तस्य न प्रवर्तन्ते नभःसमा इति । तस्माद्यथा संभारबाहुल्यसाध्यं बुद्धत्वम्, यथा संभारवैपुल्येऽपि प्रतिक्षणमिति हेतुविशेषादत्रैव महायाने महान्लाभः । अतो नास्मच्चित्तमभयस्थाने कातरतया विनिवर्तनीयमित्युपदर्शितं भवति । यद्वक्ष्यति-
क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् ।
बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः ॥
इति ॥ [बोधि. ७.२९]
यश्चैवं सर्वसत्त्वानां हितसुखार्थमुद्युज्यते, स देवादिभ्योऽप्यसाधारणगुणात्वात्प्रशस्य इत्युपदर्शयन्नाह-
कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी ।
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥ बोधि०_१.२३ ॥
कस्य सत्त्वस्य । मातुर्जनन्याः । कस्य पितुर्वा जनकस्य । देवतानां सोमवरुणादीनाम् । ऋषीणां वा वसिष्ठगोतमादीनाम् । ब्रह्मणां वा वेधसाम् । इयमीदृशी हीताशंसा हितोपसंहारमतिः यादृशी समनन्तरं प्रतिपादिता बोधिसत्त्वस्य भविष्यति इति । आस्तां तावत्भूता भवति वा, भविष्यत्यपि नैव कस्यचिद्बोधिसत्त्वमन्तरेणान्यस्य ॥
कुतः पुनरेतदित्याह-
तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः ।
नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः ॥ बोधि०_१.२४ ॥
(bcp-१५) तेषां मात्रादीनां स्वार्थेऽपि आत्मनः कृतेऽपि एष मनोरथः सर्वदुःखमपहर्तुम्, अप्रमाणगुणानाधातुं नोत्पन्नपूर्वः अभूतपूर्वः स्वप्नेऽपि । आस्तां तावज्जाग्रदवस्थायां बुद्धिपूर्वकमुत्पन्नः । परार्थे कदाचिदुत्पद्येत इत्याह- परार्थे संभवः कुतः । आत्मा हि वल्लभो लोकस्य परस्मात् । तत्रैव चेन्नास्ति, परार्थे संभावनापि कुतः? अथवा । स्वप्नेऽपि परार्थे संभवः कुतः इति योज्यम् ॥
तदेवमसाधारणत्वं बोधिसत्त्वस्य प्रतिपाद्य उपसंहरन्नाह-
सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथम् ।
यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते ॥ बोधि०_१.२५ ॥
एवमत्यद्भुतकर्मकारितया दुर्लभोत्पादात्सत्त्व एव रत्नविशेषः अपूर्वः अनुपलब्धपूर्वः । अयमिति यादृशगुणोऽत्र कथितः । जायते कथम् । कथमित्यद्भुते । कस्मात्पुनरेवमुच्यते? आह- यत्परार्थेति । यस्य महात्मनः परार्थाशयः अन्येषां सत्त्वानामुक्तक्रमेण न स्वार्थेऽप्युपजायते इत्यस्मात् ॥
अत्र च अन्येऽपि बोधिचित्तोत्पादकस्य गुणा वक्तव्याः । यथा आर्यगण्डव्यूहे भगवता आर्यमैत्रेयेण सुधनमधिकृत्य उद्भाविताः । ते च अतिविस्तरेण शास्त्रकृता शिक्षासमुच्चये दर्शिताश्च, तत्रैव अवधारयितव्या ॥
पुनरपि बोधिचित्तानुशंसाद्वारेण बोधिसत्त्वस्याप्रमेयपुण्यत्वमाह-
जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयताम् ॥ बोधि०_१.२६ ॥
सर्वसत्त्वानां सर्वप्रामोद्यकारणस्य देवादिसर्वसंपत्तिनिदानभूतत्वात् । चित्तरत्नस्य बोधिचित्तस्य यत्पुण्यं तत्कथं हि प्रमीयताम्, केन प्रकारेण नाम संख्येयताम् । अतिविपुलतया प्रमातुमशक्यत्वात् । एतदुक्तमार्यवीरदत्तपरिपृच्छायाम्-
बोधिचित्ताद्धि यत्पुण्यं तच्च रूपि भवेद्यदि ।
आकाशधातुं संपूर्य भूयश्चोत्तरि तद्भवेत् ॥
इति ॥
यदि नाम सामान्येन निर्देशः, तथापि प्रस्थानचित्तस्येति द्रष्टव्यम्, तस्यैव प्रकृतत्वात् । पुनरपि तस्यैव विशेषणमाह- जगद्दुःखौषधस्य चेति । सर्वप्राणभृतां कायिकचैतसिकसर्वदुःखनिवर्तनतया सर्वव्याधिहरणमहागदस्वभावत्वात् । तदनेन अभ्युदयनिःश्रेयसहेतुत्वं बोधिचित्तस्य प्रतिपादितं भवति । अतो युक्तमेव अस्य असंख्येयपुण्यत्वमित्युक्तं भवति ॥
कथं पुनरेतद्युक्तमित्याशङ्कय प्रतिपादयन्नाह-
हिताशंसनमात्रेण बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वासौख्यार्थमुद्यमात् ॥ बोधि०_१.२७ ॥
(bcp-१६) सर्वजगत्परित्राणाय बुद्धो भवेयमित्यध्याशयेन आशंसनात्प्रार्थनात्केवलात्प्रतिपत्तिविकलाद्बोधिचित्तादित्यर्थः । यत्पुण्यं भवति तद्बुद्धपूजामतिशेते इत्यागमाद्भवत्येव पुण्यस्कन्धप्रसवहेतुः । इति प्रथमस्य बोधिचित्तस्य माहात्म्यमुक्तम् । एतदपि तत्रैवोक्तम्-
गङ्गावालिकसंख्यानि बुद्धक्षेत्राणि यो नरः ।
दद्यात्सद्रत्नपूर्णानि लोकनाथेभ्य एव हि ॥
यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत् ।
इयं विशिष्यते पूजा यस्यान्तोऽपि न विद्यते ॥
इति ॥
किं पुनः सर्वदुःखितजनानां सर्वदुःखमपनीय सर्वसुखसंपन्नान् करिष्यामीत्युद्योगकरणादतिशयवत्पुण्यं न भवति ॥
ननु हिताहितप्राप्तिपरिहारयोः स्वयमेव सत्त्वा विचक्षणाः । तत्कुत्रोद्यमस्योपयोग इति वृत्तत्रितयेन परिहरन्नाह-
दुःखमेवाभिधावन्ति दुःखनिःसरणाशया ।
सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥ बोधि०_१.२८ ॥
यस्तेषां सुखरङ्काणां पीडितानामनेकशः ।
तृप्तिं सर्वसुखैः कुर्यात्सर्वाः पीडाश्च्छिनत्ति च ॥ बोधि०_१.२९ ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ बोधि०_१.३० ॥
दुःखान्निःसरणाभिप्रायाः प्राणातिपातादिभिरकुशलैः कर्मभिः क्षुधादिदुःखप्रतीकारमिच्छन्तः । दुःखमेव नरकादिप्रपातवेदनास्वभावम् । अभिधावन्ति तदभिमुखाः प्रवर्तन्ते । दुःखमेव प्रविशन्तीत्यर्थः । शलभा इव दीपशिखामिति । अत एव सुखेच्छयैव सुखाभिलाषेणैव स्वसुखं घ्नन्ति शत्रुवत् । आत्मसुखघाताय कथमात्मनैव शत्रवो भवन्तीति चेत्, संमोहाद्विपर्यासवशाथिताहितप्राप्तिपरिहारयोः परिज्ञानाभावात् ॥
अतो यः पुण्यात्मा अकारणवत्सलः तेषां विपर्यस्तानां सुखरङ्काणां सुखभिलाषुकाणां सर्वशोऽलब्धसुखानां पीडितानां दुःखितानाम् । अनेकश इति अनेकैर्दुःखशतैर्बहुधा बाधितानां तृप्तिमाप्यायनं सर्वसुखैः कुर्यात्कायिकचैतसिकैः । यदि वा । अनेकशः अनेकप्रकारं तृप्तिं सर्वसुखैः कुर्यातिति योजनीयम् । न सुखतृप्तिमात्रं जनयति, किं तर्हि सर्वाः पीडाः समस्ता दुःखा वेदनाश्च्छिनत्ति च शमयति च ॥
न केवलं दुःखप्रशान्तिं सुखतृप्तिं च करोति, नाशयत्यपि संमोहम्, अपरिज्ञानमपि निवर्तयति ।
अपथमिदमेष पन्था भयमत इत एत गात मासादम् ।
इति हेयोपादेयमार्गप्रकाशनात् । यश्चैवं परव्यसननिवर्तनपरतन्नो हितसुखविधानतत्परश्च (bcp-१७) सर्वभूतानाम् । साधुस्तेन समः कुतः, तेन महात्मना तुल्यः साधुः कुतः? नैव कुतश्चिद्विद्यते अकारणपरमवत्सलस्वभावत्वात् । कुतो वा तादृशं मित्रम्, हितसुखोपसंहारप्रवणमानसं परमविश्वासस्थानं तादृशं तत्समं मित्रम्, सुहृत्कुतः? नैव संभवति । पुण्यं वा तादृशं कुतः? एवं विहरतो बोधिसत्त्वस्य यत्पुण्यमुपजायते, तदपि न केनचित्पुण्येन समानम् ॥
कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते ।
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यताम् ॥ बोधि०_१.३१ ॥
पूर्वं भयसंकटव्यसनेषु उपकृतमनेन इत्युपकृते सति प्रत्युपकारं करोति यः, सोऽपि तावत्प्रशस्यते लोकेन स्तूयते साधुरयमिति । यः पुनरव्यापारितसाधुः अनभ्यर्थितकल्याणोपनेता बोधिसत्त्वः, किमुच्यतां किमपरमभिधीयताम्? तस्य प्रशंसा कर्तुमशक्येत्यर्थः ॥
दृष्टव्यवहारमपेक्ष्यापि बोधिसत्त्वस्य पुण्यमाहात्म्यमुद्भावयन्नाह-
कतिपयजनसत्त्रदायकः कुशलकृदित्यभिपूज्यते जनैः ।
क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥ बोधि०_१.३२ ॥
परिमितसत्त्वानामाहारपानमात्रदानसमादानमादिशन् पुण्यकर्मा अयमिति पूज्यते सत्क्रियते जनैः सत्कर्मरतैर्लोकैः । तदपि दानं क्षणम्, न सकलमहः, तदर्धं वा, अपि तु मुहूर्तमेकम् । अशनकमात्रदानत इति । कुत्सितमशनमशनकम्, अप्रणीतं भोजनम्, तदेव केवलं तन्मात्रम्, तथाविधव्यञ्जनरहितम् । तस्य दानतः परित्यागतः । कथम्? सपरिभवम् । क्रियाविशेषणमेतत् । सतिरस्कारं नमस्कारापुरःसरम् । हठात्सत्रागारं प्रविशतः खटचपेटादिना प्रहृत्येति यावत् । पुनः किंभूतात्? दिवसार्धयापनात्प्रहरद्वयोपस्तम्भनात् । मध्यान्हे भुक्त्वा सायं पुनराहारान्वेषणात् ॥
बोधिसत्त्वस्य पुनरेतद्विपरीतं दानमिति प्रतिपादयन्नाह-
किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः ।
गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणम् ॥ बोधि०_१.३३ ॥
न विद्यते अवधिरियत्ता । इयद्भयः शतसहस्रलक्षकोटिसंख्येभ्यो दास्यामि, ततः परं नेति न सत्त्वानां गणनया ददाति, किं तु निरवधिसत्त्वसंख्यया । नापि नियतकालम्, (bcp-१८) अपि तु निरवधिकालम् । कल्पशतसहस्रलक्षकोटिशतं यावद्दास्यामि, ततः परं नेति सावधिकं न ददाति । गगनेति । गगनमिव जनाः गगनजनाः । यथा आकाशमपर्यन्तं तथा जनोऽपीत्यर्थः । यदि वा । गगनं च जनाश्च ते गगनजनाः । तेषां परिक्षयः पर्यवदानम् । यावदाकाशधातुर्यावच्च सत्त्वा न परिनिर्वृताः तावदवधिकम् । यद्वक्ष्यति-
आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयातिति । [बोधि. १०.५५]
तस्मादक्षयम्, न विद्यते क्षयः पर्यन्तोऽस्येति कृत्वा । अयमभिप्रायः- गगनजनपरिक्षयावधि यद्दानं तद्वस्तुतोऽक्षयमेव, तेषां परिक्षयाभावात् । नापि प्रतिनियतं वस्तु, अपि तु सकलमनोरथसंप्रपूरणम् । यद्यस्याभिमतं तत्सर्वमनवद्यमभिप्रायाल्हादनकरं परमप्रेमगौरवसत्कारप्रियवचनपुरःसरं प्रमुदितमनसा अनुप्रयच्छतो बोधिसत्त्वस्य किं पुनः पूजा न युज्यते? तस्य सुतरां युज्यते इति योज्यम् । यदुक्तं नारायणपरिपृच्छायाम्-
न तद्वस्तु उपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्यते । न त्यागबुद्धिः क्रमेत । यावतयं ममात्मभावः सर्वसत्त्वेभ्य उत्सृष्टः परित्यक्तः, प्रागेव बाह्यानि वस्तूनि । यस्य यस्य सत्त्वस्य येन येन यद्यत्कार्यं भविष्यति, तस्मै तस्मै तत्तद्दास्यामि । तत्संविद्यमानं हस्तं हस्तार्थिकेभ्यो दास्यामि, यावत्शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि, कः पुनर्वादो बाह्येषु वस्तुषु । यदुत धनधान्यजातरुपरजतरत्नाभरणहयरथगजवाहनग्रामनगरनिगमजनपदराज्यराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु । इति विस्तरः ॥
एवं च गुणरत्नसमुच्चयस्थाने परहितसुखविधानैकपरममहाव्रते बोधिसत्त्वे स्वात्महितकामैः स्वचित्तं रक्षितव्यं प्रयत्नतः इत्युपदर्शयन्नाह-
इति सत्त्रपतौ जिनस्य पुत्रे कलुषं स्वे हृदये करोति यश्च ।
कलुषोदयसंख्यया स कल्पान्नरकेष्वावसतीति नाथ आह ॥ बोधि०_१.३४ ॥
इत्येवमुक्तक्रमेण सत्त्रपत्तौ सर्वदा सुखदानपतौ जिनस्य पुत्रे सुगतस्य सुते । बोधिसत्त्वे इत्यर्थः । कलुषं पापचित्तं स्वे हृदये आत्मचित्तसंताने करोति उत्पादयति दुरात्मा यः, स नरकेष्वावसति इति नाथो बुद्धो भगवानाह ब्रूते । उपान्वध्याड्वसः इति कर्मत्वे प्राप्ते अधिकरणविवक्षा । कियद्यावत्कलुषोदयसंख्यया कल्पान् । यावतः क्षणांस्तत्संताने कलुषचित्तमुत्पद्यते, तावतः कल्पान् कलुषचित्तक्षणसंख्यान्नरकेषु तिष्ठतीति भावः । यदुक्तं प्रशान्तविनिश्चयप्रातिहार्यसूत्रे-
(bcp-१९) यावन्ति मञ्जुश्रीर्बोधिसत्त्वो बोधिसत्त्वस्यान्तिके प्रतिघचित्तान्युत्पादयति अवमन्यनाचित्तानि वा, तावतः कल्पांस्तेन संनाहः संनद्धव्यः- वस्तव्यं मया महानरकेषु इति ॥
ननु तथागतस्य दुष्टचित्तेन रुधिरमुत्पादयतो नावीचौ चित्तोत्पादनक्षणसंख्यया कल्पानवस्थितिरुक्ता । न तथागतात्कश्चिदधिकतरः संभवति त्रैलोक्ये । तत्कथमिदमतिदुर्घटं नीयते? सत्यम् । न खलु यथाभूतमस्मिन्नये वस्तुतत्त्वव्यवस्था । सर्वस्य प्रवचनस्य नेयनीतार्थतया व्यवस्थापनात् । न हि कश्चित्तथागते सदेवकोऽपि लोको दुष्टचित्तमुत्पादयितुं क्षमते । अनल्पकल्पसंख्यया अभ्यासेन सर्वसत्त्वेषु मैत्रचित्तस्य सात्मीभावात्, नास्य काये शस्त्रं क्रमतीति मैत्रचित्तस्यानुशंसकथनात् । न च कर्मप्लुतिरिह वस्तुतो दर्शिता । कर्मावरणस्य बुद्धानां प्रहीणत्वात् । तस्माद्वैनेयजनाभिसंधिना तदुपदर्शितं न परमार्थतः । बोधिसत्त्वापकारे तु बुद्धत्वमेव समूलोपघातमुपहतं भवेत् । तथा च सदेवकस्य लोकस्य अर्थः उपहतो भवेत् । यथागममिदमुक्तम् । परमार्थमिह भगवानेव जानाति । इदमुक्तं च श्रद्धाबलाधानावतारमुद्रासूत्रे-
यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुकासमान् स्तूपान् विनिपातयेद्दहेद्वा, यश्चान्यः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य व्यापादखिलक्रोधचित्तमुत्पाद्य आक्रोशयेत्परिभाषयेत्, अयं ततोऽसंख्येयतरं पापं प्रविशति । तत्कस्माद्धेतोः? बोधिसत्त्वनिर्जाता हि बुद्धा भगवन्तः, बुद्धनिर्जाताश्च स्तूपाः सर्वसुखोपधानानि च सर्वदेवनिकायाश्च । बोधिसत्त्वमसत्कृत्य सर्वबुद्धा असत्कृता भवन्ति । बोधिसत्त्वं सत्कृत्य सर्वबुद्धाः सत्कृता भवन्ति । इत्यादि ॥
यस्य पुनस्तत्र प्रसन्नं चित्तमुत्पद्यते, तस्य कियत्पुण्यफलमुपजायते, इत्याह-
अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं फलम् ।
महता हि बलेन पापकं जिनपुत्रेषु शुभं त्वयत्नतः ॥ बोधि०_१.३५ ॥
यस्य पुनः पुण्यात्मनो मनः प्रसादमुपयाति बोधिसत्त्वे, प्रसवेत्तस्य ततोऽधिकं फलम्, तस्य प्रसन्नचित्तस्य प्रसवेदुपजायेत ततोऽधिकं फलं तस्मात्पूर्वकपापफलाद्बहुतरं पुण्यकर्मफलं विपाकविशेषात्प्रसवेदुत्पद्येत । यदि वा । तत्समधिकविपाकफलाधायकं कर्मैव फलमुच्यते । अधिकतरफलजनकं कर्म उपजायते इति यावत् । उक्तं च नियतानियतावतारमुद्रासूत्रे-
सचेन्मञ्जुश्रीः दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वा उत्पाटिताक्षा भवेयुः परिकल्पमुपादाय । (bcp-२०) अथ कश्चिदेव कुलपुत्रो वा कुलदुहिता वा तेषां सर्वसत्त्वानां मैत्रचित्तस्तान्यक्षीणि जनयेत्परिकल्पमुपादाय । योऽन्यो वा मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तं बोधिसत्त्वं प्रसन्नचित्तः पश्येत्, अयं ततोऽसंख्येयतरं पुण्यं प्रसवति । इति ॥
तस्मादस्मिन्महति पुण्यक्षेत्रे शुभचित्तमेव करणीयमात्मज्ञैः ॥
अपि च । इतोऽपि शुभचित्तमेव कर्तुमुचितम् । यस्मान्महता बलेन परमकृच्छ्रेण पापकं पापमेव पापकं कुत्सितत्वाद्वा दुष्कृतं कर्म बोधिसत्त्वेषु क्रियते, तेषां सकलकायवाङ्यनःप्रचारस्य प्रसादजनकत्वात् । बोधिचित्तप्रभावाच्च न बोधिसत्त्वेषु कस्यचिदपकारचित्तमुत्पद्यते । एतदुक्तमार्यमञ्जुश्रीविमोक्षे-
तद्यथा कुलपुत्र चिन्तामणिरत्नराजमुकुटावबद्धानां महानागराज्ञां नास्ति परोपक्रमभयम्, एवमेव बोधिचित्तमहाकरुणाचिन्तामणिरत्नराजमुकुटावबद्धानां बोधिसत्त्वानां नास्ति दुर्गत्यपायपरोपक्रमभयम् । इति ॥
अतः किमर्थमनर्थोपार्जनं कटुकफलं तेषु प्रयत्नतः प्रारभ्यते? अत एव शुभं त्वयत्नतः, संग्रहवस्त्वादिभिः सर्वसत्त्वहितसुखकर्मकारित्वात्परिशुद्धकर्मकारितया, क्वचिदपि स्खलिताभावाच्च । अप्रयत्नत एव प्रीतिप्रसादप्रामोद्यमुपजायते तेषु । अतः कुशलं पुनरयत्नत एव प्रसूयते ॥
सांप्रतमुत्पादितबोधिचित्तेषु अतिशयवता आत्मना मनःप्रसादमाविष्कुर्वन् शास्त्रकारस्तान्नमस्यन्नाह-
तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नम् ।
यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥ बोधि०_१.३६ ॥
तेषां पुरुषकुञ्जराणां शरीराणि आत्मभावान्नमस्करोमि प्रणिपत्य वन्दे । यत्र येषु (येषां?) संतानेषु उदितमुत्पन्नं तदुक्तानुशंसं वरचित्तरत्नम् । चित्तमेव रत्नं चिन्तामणिसदृशम् । वरं श्रेष्ठं सर्वदारिद्यदुःखापहारित्वात् । तच्च तद्वरचित्तरत्नं चेति विग्रहः । तदिति भिन्नं वा । इयं च अधिकगुणाधारस्य सत्कृतिः । अपरमपि तद्विशेषणमाह- यत्रापकारोऽपीति । येषु परमकल्याणहृदयेषु बोधिसत्त्वेषु अपकारोऽपि पराभवोऽपि कृतः तत्कर्तुः सुखानुबन्धी परंपरया सुखमावहतीति । अयमभिप्रायः- तत्रापकारः कर्तुमशक्यः । संभवे वा कथंचित्तदपकारमेव निमित्तं कृत्वा प्रवृत्तानां दुष्टाभिप्रायाणां पुनः केनचिन्निमित्तेन तत्प्रसादसमुत्पादनात् । तत्र अपकारो निर्वाणे सुखमनुबन्धाति । तद्यथा मैत्रीबलजातके [जातकमाला-८] पञ्चकानधिकृत्योक्तम् । बोधिसत्त्वप्रणिधानाद्वा अपकारोऽपि सुखानुबन्धीत्युच्यते । यद्वक्ष्यति-
(bcp-२१) अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः ।
उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः ॥
इति ॥ [बोधि. ३.१६]
अथवा । यत्रापकारोऽपि येषामपकारोऽपि महाकरुणाध्याशयात्प्रियपुत्रेण कृत इव दुःखहेतुरपि सुखमेव जनयति, यथा क्षान्तिपरिच्छेदे कथयिष्यामः । एवं सर्वथा सुखहेतुत्वात्सुखार्थिनां रत्नाकर इव रत्नार्थिनामाश्र्यणीया बोधिसत्त्वा इत्युपदर्शयति । सुखाकरांस्तान् शरणं प्रयामि । सुखस्य आकराः सर्वसुखैकप्रभवत्वात् । तानुक्तक्रमेण अपकारेऽपि सुखहेतून् । शरणं प्रयामि । ते मम त्राणं भवन्तु इति भावः ॥
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्तानुशंसाविवरणं नाम प्रथमः परिच्छेदः ॥
</poem>
e92kifmrf2hh9u25m14k1rp08oj2dp1
शिक्षासमुच्चयकारिका
0
154639
418814
404080
2026-10-22T09:52:36Z
अनुनाद सिंह
1115
418814
wikitext
text/x-wiki
{{header
| title = शिक्षासमुच्चयकारिका
| author = शान्तिदेवः
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
'''शिक्षासमुच्चयकारिका'''
यदा मम परेषां च भयं दुःखं च न प्रियम् ।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥ १ ॥
दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता ।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा ॥ २ ॥
(शिक्षादरो) महायानाद्बोधिसत्त्वस्य संवरः ।
मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत् ॥ ३ ॥
आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च ।
उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम् ॥ ४ ॥
परिभोगाय सत्त्वानामात्मभावादि दीयते ।
अरक्षिते कुतो भोगः कि दत्तं यन्न भुज्यते ॥ ५ ॥
तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत् ।
कल्याणमित्रानुत्सर्गात्सूत्राणां च सदेक्षणात् ॥ ६ ॥
तत्रात्मभावे का रक्षा यदनर्थविवर्जनम् ।
केनैतल्लभ्यते सर्वं निष्फलस्पन्दवर्जनात् ॥ ७ ॥
एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत् ।
आदरः शममाहात्म्यं ज्ञात्वातापेन जायते ॥ ८ ॥
समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः ।
शमाच्च न चलेच्चितं बाह्यचेष्टा निवर्तनात् ॥ ९ ॥
सर्वत्रापचलो मन्दमतिस्निग्धाभिभाषणात् ।
आववर्जयेज्जनं भव्यमादेयश्चापि जायते ॥ १० ॥
अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम् ।
भस्मच्छन्नो यथा वह्निः पच्येत नरकादिषु ॥ ११ ॥
रत्नमेघे जिनेनोक्तस्तेन सङ्क्षेपसंवरः ।
येनाप्रसादः सत्त्वानां तद्यत्नेन विवर्जयेत् ॥ १२ ॥
एषा रक्षात्मभावस्य भैषज्यवसानादिभिः ।
आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते ॥ १३ ॥
सुकृटारम्भिणा भाव्यं मात्रज्ञेन च सर्वतः ।
इति शिक्षापदादस्य भोगरक्षा न दुष्करा ॥ १४ ॥
स्वार्थविपाक वैतृष्ण्याच्छुभं संरक्षितं भवेत् ।
पश्चातापं न कुर्वीत न च कृत्वा प्रकाशयेत् ॥ १५ ॥
लाभसत्कारभीतः स्यादुन्नतिं वर्जयेत्सदा ।
बोधिसत्त्वः प्रसन्नः स्याद्धर्मे विमतिमुत्सृजेत् ॥ १६ ॥
शोधितस्यात्मभावस्यभोगः पथ्यो भविष्यति ।
सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम् ॥ १७ ॥
तृणच्छन्न यथा शस्यं रोगैः सीदति नैधते ।
बुद्धाङ्कुरस्तथा वृद्धिं क्लेशच्छन्नो न गच्छति ॥ १८ ॥
आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम् ।
सम्बुद्धोत्तयर्थसारेण यत्नभावे त्वपायगः ॥ १९ ॥
क्षमेत श्रुतमेषेत संश्रयेत वनं ततः ।
सामाधानाय युज्येत भावयेदशुभादिकम् ॥ २० ॥
भोगशुद्धिं च जानीयात्सम्यगाजीवशोधनात् ।
शून्यताकरुणागर्भेचेष्टितात्पुण्यशोधनम् ॥ २१ ॥
ग्रहीतारः सुबहवः स्वल्पं चेद मनेन किम् ।
न चातितृप्तिजनकं वर्धनीयमिदं ततः ॥ २२ ॥
आत्मभावस्य का वृद्धिर्बलानालस्यवर्धनम् ।
शून्यताकरुणागर्भाद्दानाद्भोगस्य वर्धनम् ॥ २३ ॥
कृत्वादावेव यत्नेन व्यवसायाशयौ दृढौ ।
करुणां च पुरस्कृत्य यतेत शुभवृद्धये ॥ २४ ॥
भद्रचर्याविधिः कार्यो वन्दनादिः सहादरात् ।
श्रद्धादीनां सदाभ्यासो मैत्री बुद्धाद्यनुस्मृतिः ॥ २५ ॥
सर्वावस्थासु सत्त्वार्थो धर्मदानं निरामिषम् ।
बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः ॥ २६ ॥
सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात् ।
स्मृत्याथ सम्प्रजन्येन योनिशश्चिन्तनेन च ॥ २७ ॥
</poem>
== इदमपि पश्यतु ==
*[[शिक्षासमुच्चयः]] (शान्तिदेवेन रचितः)
3wjufamm95sys1cde2zp4roda4zyvff
कामिकागमः - पूर्वभागः
0
164054
418807
418806
2026-10-22T01:29:59Z
~2026-56367-96
10825
/* आयादिलक्षणविधिः */
418807
wikitext
text/x-wiki
{{header
| title = कामिकागमः - पूर्वभागः
| author =
| translator =
| section =
| previous =
| next = [[कामिकागमः - उत्तरभागः]]
| year =
| notes =
}}
Published in 1909 by Mayilai Alagappa Mudaliyar, Shivajnanabodham Press, lyyamudaliar Veethi, Chindadripet, Madras in Grantha script.
Devanagari transliteration of the same done by the staff of Muktabodha Indological Research Institute under the supervision of Mark S. G. Dyczkowski.
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0.
<poem>
॥ श्रीः ॥
श्री उमामहेश्वराभ्यां नमः ॥
वन्दे महागणपतिं मदनारिसूनुं
वामोरुसुस्थवनिताभुजवेष्टिताङ्गम् ।
वल्लीशपूर्वजमभीष्टदमाश्रितानां
वाणीपतिप्रमुखदेवगणार्चिताङ्घ्रिम् ॥
॥ कामिकागम - पूर्वभागानुक्रमणिका ॥
तन्त्रावतारो मन्त्राणामुद्धारः स्नानमर्चनम् ।
अर्चनाङ्गं च नैवेद्यविधिः कुण्डस्य लक्षणम् ॥ १/१ ॥
अग्निकार्यं कालविधिर्निमित्तस्य परीक्षणम् ।
भूपरीक्षा प्रवेशार्थबलिर्ग्रामादिलक्षणम् ॥ १/२ ॥
शङ्कोस्तु स्थापनं चैव मानोपकरणक्रमम् ।
पदविन्यासभेदश्च सूत्रमर्मादिलक्षणम् ॥ १/३ ॥
वास्तुदेवबलिः पश्चाद् ग्रामादीनां च लक्षणम् ।
विस्तारायाम आयादिलक्ष्यं नक्षत्रचक्रकम् ॥ १/४ ॥
दण्डकादिविधिर्वीथिद्वारादीनां प्रमाणकम् ।
ग्रामादिदेवतास्थानं द्विजसंख्याविधानकम् ॥ १/५ ॥
विन्यासस्य विशेषश्च ब्रह्मदेवपदादि च ।
अङ्गोपजीविनां स्थानं गर्भन्यासस्य लक्षणम् ॥ १/६ ॥
बालस्थानविधानं च ग्रामादिन्यासभेदतः ।
वास्तुशान्तिश्च शालाया विधानं च ततः परम् ॥ १/७ ॥
नन्द्यावर्तं द्विशाला च सर्वतोभद्रसंज्ञकम् ।
वर्धमानं खस्तिकं च रूचकारव्यमतः परम् ॥ १/८ ॥
चतुः शाला पञ्चशाला हस्तिशाला च मालिका ।
लाङ्गलाख्यं मौलिकं च मालिकापद्मकं परम् ॥ १/९ ॥
नागरादिविभेदं च भूमिलम्बविधिस्तथा ।
आद्येष्टकोपपीठं च पादानां मानलक्षणम् ॥ १/१० ॥
प्रस्तरस्य विधिश्चैव प्रासादानां च भूषणम् ।
कण्ठस्य शिखरस्यापि स्थूपिकायाश्च लक्षणम् ॥ १/११ ॥
नालादिस्थापनं पश्चादेकभूम्यादिलक्षणम् ।
मूर्धेष्टकाविधानं च लिङ्गलक्ष्माङ्कुरार्पणम् ॥ १/१२ ॥
शिवलिङ्गप्रतिष्ठा च प्रतिमानां च लक्षणम् ।
शूलसंस्थापनं पश्चाद् देवस्थापनसंज्ञकम् ॥ १/१३ ॥
प्रतिमानां प्रतिष्ठा च विमानस्थापनं परम् ।
लक्षणं मण्टपानां च प्राकाराणां च लक्षणम् ॥ १/१४ ॥
स्थापनं परिवाराणां परिवारार्चनं तथा ।
वृषभस्थापनं चान्ते गोपुरस्थापनं परम् ॥ १/१५ ॥
चतुःसप्तति संख्याताः पटलाः पूर्वकामिके ॥
॥ कामिकागमोत्तरभागानुक्रमणिका ॥
पश्चिमद्वारपूजा च दक्षिणद्वारपूजनम् ।
अर्चनं सकलानां च महास्नपनलक्षणम् ॥ २/१ ॥
नित्योत्सवविधिः पश्चान्महोत्सवविधिः परम् ।
नीराजनक्रिया पूर्वा फल्गुनीपूजनं परम् ॥ २/२ ॥
घृताभिषेकं डोलाया रोहणं क्षौद्रपूजनम् ।
दीपावलिविधानं च घृतकम्बलपूजनम् ॥ २/३ ॥
शिवरात्रिरथो गन्धपूजा दमनकार्चनम् ।
वसन्तेज्या शीतकुम्भं फलपूजा पवित्रकम् ॥ २/४ ॥
नवनैवेद्यपूजा च दीक्षा समयसंज्ञिता ।
स्थालीपाकविधिःस्वप्नाध्यायो निर्वाणसंस्कृतिः ॥ २/५ ॥
आचार्यस्याभिषेकश्च गोत्रप्रवरनिर्णयः ।
शताभिषेकश्चान्त्येष्टिः पितृयज्ञविधिस्ततः ॥ २/६ ॥
शैवश्राद्धं ततःसर्वप्रायश्चित्तं ततः परम् ।
नित्यनैमित्तिकप्रायश्चित्तमुत्सवनिष्कृतिः ॥ २/७ ॥
अद्भुतानां च शान्तिः स्यादनुकर्मविधानकम् ।
संप्रोक्षणं च पीठस्य स्थापनं च ततः परम् ॥ २/८ ॥
बाणस्य काम्यलिङ्गस्य प्रतिष्ठा चार्षपौरुषयोः ।
प्रासादलक्षणं लिङ्गवशात्प्रासादलक्षणम् ॥ २/९ ॥
व्यक्तलिङ्गप्रतिष्ठा च सार्वदेशिकलिङ्गिनः ।
अङ्गलिङ्गप्रतिष्ठा च सदेशस्थापनं ततः ॥ २/१० ॥
देव्या विघ्नेश्वरस्यापि स्थापनं नृत्तमूर्तिनः ।
सोमास्कन्दस्य चन्द्रार्धमौलेस्त्रिपुरवैरिणः ॥ २/११ ॥
लिङ्गोद्भवप्रतिष्ठा च दक्षिणामूर्तिनस्तथा ।
भिक्षाटनस्य कङ्कालमूर्तेः पाशुपतस्य च ॥ २/१२ ॥
त्रिशूलशरभेशानचण्डेशस्थापनादि च ।
शिवभक्तायुधानां च सिंहासनविधिस्तथा ॥ २/१३ ॥
रथस्य करणानां च लक्षणं सौख्यकर्म च ।
व्याधिनाशो राजरक्षा दुर्गापूजाविधिस्तथा ॥ २/१४ ॥
शान्तिनीराजनं पुष्याभिषेकग्रहयज्ञकम् ।
बन्धः प्रतिसरस्यापि तुलाभारविधानकम् ॥ २/१५ ॥
हिरण्यगर्भदानं च तिलपर्वतदानकम् ।
सुवर्णभूमिदानं च कल्पवृक्षप्रदानकम् ॥ २/१६ ॥
गणेशदानं सौवर्णधेनुलक्ष्मीप्रदानकम् ।
तिलधेनुसहस्रं च गवां दानसहस्रकम् (हेमाश्वदानकम्?) ॥ २/१७ ॥
कन्यादानं हिरण्योक्षदानं च गजदानकम् ।
लोकपालाष्टकं चैव सर्वदानोत्तमं तथा ॥ २/१८ ॥
इत्युक्ताः षण्णवत्यश्च पटलाः कामिकोत्तरे ।
॥ श्रीः ॥
॥ कामिकागमः ॥
पूर्वभागः
</poem>
== तन्त्रावतारपटलः ==
<poem>
कैलासदक्षिणे शृङ्गे नानाश्चर्यसमन्विते ।
प्रवृद्धवटवृक्षोत्थच्छायाच्छन्नेऽतिविस्तृते ॥ ३/१ ॥
व्याघ्रचर्मपरीधाने पीठे रत्नोपशोभिते ।
देवदानवगन्धर्वसिद्धविद्याधरादिभिः ॥ ३/२ ॥
सेव्यमानं महादेवं श्रीकण्ठं विश्वनायकम् ।
कौशिकः काश्यपोऽगस्त्यो गौतमो नारदस्तथा ॥ ३/३ ॥
सनत्कुमारः सनकः सनातनसनन्दनौ ।
भृगुश्चात्रिभरद्वाजवसिष्ठाद्या महर्षयः ॥ ३/४ ॥
जिज्ञासवः परं ज्ञानं शिवशक्त्युन्मुखीकृताः ।
प्रणम्य चरणौ तस्य प्राहुरीशमुमापतिम् ॥ ३/५ ॥
ऋषयः-
भगवन् देवदेवेश पशुपाशविमोचक ।
सृष्टिस्थितितिरोभावलयानुग्रहकारक ॥ ३/६ ॥
वियदादिमहामायावृत्तेः साक्षात्प्रवर्तक ।
सहजानन्दसन्दोहस्वसंविल्लक्षणात्मक ॥ ३/७ ॥
परसंवित्स्वरूपिण्या शक्त्या परमया युत ।
दिग्देशकालनिर्मुक्त जगदाह्लादकारण ॥ ३/८ ॥
वयं नियुक्ता देवेश त्वयेज्यायां शिवस्य तु ।
तदर्थं सारभूतं तु शास्त्रं शिवमुखोद्भवम् ॥ ३/९ ॥
वक्तुमर्हसि देवेश भक्तानामनुकम्पया ।
इत्येवं ऋषिभिः पृष्टो भगवान् वृषभध्वजः ॥ ३/१० ॥
प्राह गम्भीरया वाचा स्फुरच्चन्द्रार्धशेखरः ।
साधु पृष्टं हि युष्माभिश्शृणुध्वं संशितव्रताः ॥ ३/११ ॥
कामिकाख्यान्महातन्त्रादुद्धृतं शास्त्रमुत्तमम् ।
अवतीर्णमिदं मेरौ प्रणवाद्यवतारकैः ॥ ३/१२ ॥
क्रियाचर्यासमोपेतं योगज्ञानान्वितं परम् ।
इत्येवमुक्ता ऋषयः प्रणेमुर्दण्डवत्क्षितौ ॥ ३/१३ ॥
तेषामाज्ञां शिवो दत्वा प्राह तन्त्रमनुत्तमम् ।
आदावभूद् द्विधा ज्ञानमधिकारिविभेदतः ॥ ३/१४ ॥
परापरेण भेदेन पतिपश्वर्थदर्शकम् ।
शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ॥ ३/१५ ॥
वेदाद्यपरं ज्ञानं पशुपाशार्थदर्शकम् ।
यथा विलक्षणं चक्षुः क्षपायां नृबिडालयोः ॥ ३/१६ ॥
तथा विलक्षणं ज्ञानमेवमेतत्परापरम् ।
लौकिकं वैदिकं चैव तथाध्यात्मिकमेव च ॥ ३/१७ ॥
अतिमार्गं व मन्त्राख्यं तन्त्रमेतदनेकधा ।
सद्योवाममहाघोरपुरुषेशानमूर्तयः ॥ ३/१८ ॥
प्रत्येकं पञ्चवक्त्रास्त्युस्तैरुक्तं लौकिकादिकम् ।
पञ्चविंशतिभेदेन स्रोतोभेदः प्रकीर्तितः ॥ ३/१९ ॥
एष्वेवान्तर्गतं वक्तुं वाङ्मयं वस्तुवाचकम् ।
तेष्वेव मन्त्रतन्त्राख्यं सदाशिवमुखोद्गतम् ॥ ३/२० ॥
सिद्धान्तं गारुडं वामं भूततन्त्रं च भैरवम् ।
ऊर्ध्वपूर्वकुबेरास्ययाम्यवक्त्राद्यथाक्रमम् ॥ ३/२१ ॥
ईशानवक्त्रादूर्ध्वस्थाज्ज्ञानं यत्कामिकादिकम् ।
दशाष्टादशभेदेन शिवरुद्रावतारकैः ॥ ३/२२ ॥
षट्षष्टिभिः क्रमेणैव कथितं तु शिवाज्ञया ।
तदेव युगभेदेन सद्योजातादिमूर्तिभिः ॥ ३/२३ ॥
प्रकाशितं चतुर्भेदं मूर्तिसंख्यावशेन तु ।
संख्यया गारुडं तद्वत् पूर्ववक्त्राद्विनिर्गतम् ॥ ३/२४ ॥
सावित्र्याद्यं च सिद्ध्यर्थमुक्तं तदवतारकैः ।
नयसूत्रादिभेदेन वामं वामाद्विनिर्गतम् ॥ ३/२५ ॥
चतुर्विंशतिसंख्याकमवतीर्णं शिवाज्ञया ।
कौलादिविंशत्संख्यातं भूततन्त्रं तु सद्यतः ॥ ३/२६ ॥
द्विविधं तन्त्रमुद्भूतं भैरवं दक्षिणास्यतः ।
असिताङ्गादिभिर्भूमौ कथितं तदनेकधा ॥ ३/२७ ॥
प्रत्येकं तन्त्रभेदोक्तौ जायते ग्रन्थविस्तरः ।
अथ सिद्धान्ततन्त्राणामवतारो निगद्यते ॥ ३/२८ ॥
तनोति विपुलानर्थांस्तत्त्वमन्त्रसमाश्रितान् ।
त्राणं च कुरुते यस्मात्तन्त्रमित्यभिधीयते ॥ ३/२९ ॥
कामिकं प्रणवाख्यस्य परार्धग्रन्थसंख्यया ।
प्रणवात् त्रिकलः प्राप्तः त्रिकलाच्च ततो हरः ॥ ३/३० ॥
त्रयश्चैवोपभेदाः स्युर्वक्त्रारं भैरवोत्तरम् ।
नारसिंहं च विप्रेन्द्राः कथ्यते कामिकत्रयम् ॥ ३/३१ ॥
योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसंख्यया ।
सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् ॥ ३/३२ ॥
वीणाशिखोत्तरं तारं सन्तं सन्ततिरेव च ।
आत्मयोगं च पञ्चैते योगतन्त्रस्य भेदकाः ॥ ३/३३ ॥
चिन्त्यं सुदीप्तसंज्ञस्य प्रोक्तं शतसहस्रकैः ।
दीप्ताच्च गोपतिः प्राप्तस्ततः प्राप्ता तु चाम्बिका ॥ ३/३४ ॥
सुचिन्त्यं सुभगं वामं पापनाशं परोद्भवम् ।
अमृतं चिन्त्यन्तन्त्रस्य षड्विधं तु प्रकीर्तितम् ॥ ३/३५ ॥
कारणं कारणाख्यस्य कोटिग्रन्थेन चोदितम् ।
कारणाच्छर्वरुद्रस्तु शर्वात्प्राप्तः प्रजापतिः ॥ ३/३६ ॥
कारणं पावनं दोर्गं ? माहेन्द्रं भीममेव च ।
ततस्तु मारणं द्वेष्टं सप्तधा कारणं तथा ॥ ३/३७ ॥
अजितं सुशिवाख्यस्य नियुतग्रन्थसंख्यया ।
सुशिवाख्याच्छिवः प्राप्तस्तच्छिवादच्युतस्ततः ॥ ३/३८ ॥
प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ।
चतुर्भेदमिदं तन्त्रं चास्मिन् तन्त्रे प्रकीर्तितम् ॥ ३/३९ ॥
दीप्तमीशस्य विख्यातं नियुतग्रन्थसंख्यया ।
ईशानमूर्तिः संप्राप्तस्ततः प्राप्तो हुताशनः ॥ ३/४० ॥
अमेयं शब्दामाच्छाद्यमसंख्यममितौजसम् ।
आनन्दं माधयोद्भूतमद्भूतं चाक्षतं तथा ॥ ३/४१ ॥
दीप्तं तु नवधा प्रोक्तं सूक्ष्मतन्त्रं निबोधत ।
सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तदूग्रन्थं पद्मसंख्यया ॥ ३/४२ ॥
सूक्ष्माद्वैश्रवणः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः ।
तत्सूक्ष्ममेकभेदं स्यात्सूक्ष्ममित्यभिधीयते ॥ ३/४३ ॥
सहस्रं कालसंज्ञस्य? प्रोक्तं वै शङ्खसंख्यया ।
कालाद्भीमस्ततः प्राप्तो भीमाद्धर्मो यथा तथा ॥ ३/४४ ॥
अतीतं मङ्गलं शुद्धमप्रमेयं तु जातिभाक् ।
प्रबुद्धं विबुधं हस्तमलङ्कारं सुबोधकम् ॥ ३/४५ ॥
एते सहस्रतन्त्रस्य दशसंख्याः प्रकीर्तिताः ।
अंशुमानम्बुसंज्ञस्य पञ्चलक्षेण कीर्तितः ॥ ३/४६ ॥
अग्रश्चैवाम्बुसंज्ञाच्च अग्रात्प्राप्तस्ततो रविः ।
विद्यापुराणतन्त्रं च वासवं नीललोहितम् ॥ ३/४७ ॥
प्रकारणं भूततन्त्रमात्मालङ्कारमेव च ।
काश्यपं गौतमं चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥ ३/४८ ॥
ऐशानं नामतः प्रोक्तमंशुमान् द्वादश स्मृतः ।
सुप्रभेदं माहाशास्त्रं दशेशस्य प्रकीर्तितम् ॥ ३/४९ ॥
विघ्नेश्वरो दशेशाच्च शशी प्राप्तो गणेश्वरात् ।
त्रिकोटिसंख्यया प्रोक्तो भेदश्चात्र न विद्यते ॥ ३/५० ॥
क्रियादिज्ञानपर्यन्तं तन्त्रमत्रैव दृश्यते ।
शिवभेदमिति प्रोक्तो रुद्रभेदस्तथोच्यते ॥ ३/५१ ॥
रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् ।
परमेशस्ततः प्राप्तस्त्रिकोटिग्रन्थसंख्यया ॥ ३/५२ ॥
विजयं चोद्भवं सौम्यमघोरं मृत्युनाशनम् ।
कुबेरं च माघोरं विमलं विजयाष्टकम् ॥ ३/५३ ॥
निःश्वासं तु दशार्णस्य प्रोक्तं तत्कोटिसंख्यया ।
दशार्णात् शैलजा प्राप्ता चाष्टभेदेन भेदितम् ॥ ३/५४ ॥
निःश्वासोत्तरनिःश्वासौ निःश्वासस्य मुखोदयम् ।
निःश्वासनयनं चैव तथा निःश्वासकारिका ॥ ३/५५ ॥
घोरसंज्ञं यमाख्यं च गुह्यं चाप्येवमष्टधा ।
निधनस्य स्वयंभूतं त्रिकोट्यर्धेन कीर्तितम् ॥ ३/५६ ॥
निधनेशात्स्वयंभूतं श्रुतवान्नलिनोद्भवः ।
प्रजापतिमतं पद्मं स्वायम्भुवमिति त्रिधा ॥ ३/५७ ॥
आग्नेयं यच्च तद्व्योम्नो ग्रन्थसंख्यायुतत्रयात् ।
आग्नेयं तन्त्रमेकं तु तस्मात्प्राप्तो हुताशनः ॥ ३/५८ ॥
तेजस्तु वीरं संप्राप्तो नियुतग्रन्थसंख्यया ।
प्रजापतिस्ततः प्राप्तस्त्रयोदशविभेदकम् ॥ ३/५९ ॥
प्रस्तारं फुल्लमल्लञ्च (फुल्लममलं ?) प्रबोधं बोधबोधकम् ।
अमोहं मोहसमयं हाकटं शाकटाधिकम् ॥ ३/६० ॥
हलं विलेखनं भद्रं वीरं वीरे त्रयोदश ।
रौरवं ब्राह्मणेशस्य चार्बुदाष्टकसंख्यया ॥ ३/६१ ॥
नन्दिकेशस्ततः प्राप्तः षड्भेदञ्च विधीयते ।
कालघ्नं च कलातीतं रौरवं रौरवोत्तरम् ॥ ३/६२ ॥
महाकालमतं चैन्द्रं रौरवं षड्विधं मतम् ।
मकुटं तु शिवाख्यस्य शतसाहस्रसंख्यया ॥ ३/६३ ॥
महादेवस्ततः प्राप्तो भेदश्च द्विविधो भवेत् ।
मकुटोत्तरं च मकुटं द्विविधेन विधीयते ॥ ३/६४ ॥
सर्वात्मकस्य विमलं त्रिलक्षग्रन्थसंख्यया ।
वीरभद्रस्ततः प्राप्तो भेदाः षोडशसंख्यया ॥ ३/६५ ॥
अनन्तं भोगमाक्रान्तं वृषपिङ्गं वृषोदरम् ।
वृषाद्भुतं सुदन्तं च रौद्रं भद्रविधं तथा ॥ ३/६६ ॥
अरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।
अर्चितं धारणं तन्त्रं विमलं षोडशैव तु ॥ ३/६७ ॥
चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्थसंख्यया ।
बृहस्पतिस्ततः प्राप्तो भेदाश्चात्र चतुर्दश ॥ ३/६८ ॥
स्थिरं स्थाणुं महान्तं च वारुणं नन्दिकेश्वरम् ।
एकपादपुराणं च शङ्करं नीलरुद्रकम् ॥ ३/६९ ॥
शिवभद्रं कल्पभेदं श्रीमुखं शिवशासनम् ।
शिवशेखरमाख्यातं देव्या मतं तथैव च ॥ ३/७० ॥
चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधो भवेत् ।
मुखबिम्बं प्रशान्तस्य शतसाहस्रसंख्यया ॥ ३/७१ ॥
दधीचिस्तु ततः प्राप्तो भेदाः पञ्चदशैव तु ।
चतुर्मुखमलायोगं संस्तोभं प्रतिबिम्बकम् ॥ ३/७२ ॥
आत्मालङ्कारवायव्ये तौटिकं तुटिनीरकम् ।
कलात्ययं तुलायोगं कुट्टिमं पट्टशेखरम् ॥ ३/७३ ॥
महाविद्या महासौरं बिम्बं पञ्चदशैव तु ।
प्रोद्गीतं शूलिनः प्रोक्तं लक्षत्रितयसंख्यया ॥ ३/७४ ॥
कवचाख्यस्ततः प्राप्तो भेदाः षोडशसंख्यया ।
कवचं चैव वाराहं पिङ्गलामतमेव च ॥ ३/७५ ॥
पाशबन्धं दण्डधरमङ्कुशं च धनुर्धरम् ।
शिवज्ञानं च विज्ञानं श्रीकालज्ञानमेव च ॥ ३/७६ ॥
आयुर्वेदं धनुर्वेदं सर्पदंष्ट्रीविभेदनम् ।
गीतं भरतमातोद्यं प्रोद्गीतं षोडशैव तु ॥ ३/७७ ॥
ललितं चालयेशस्य प्रोक्तमष्टसहस्रकम् ।
आलयाल्लालितः (भैरवः?) प्राप्तो ललितं ललितोत्तरम् ॥ ३/७८ ॥
कौमारं चैव तद्भेदं त्रिविधं परिकीर्तितम् ।
बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्धसंख्यया ॥ ३/७९ ॥
बिन्दु (संज्ञात्तु?) सिद्धाख्यं प्राप्तश्चण्डेश्वरः परः ।
सारोत्तरमथान्यत्तु औशनोत्तरमेव च ॥ ३/८० ॥
शालाभेदं शशीखण्डं सिद्धं तन्त्रं चतुर्विधम् ।
सन्तानं शिवनिष्ठस्य षट् सहस्रं तु संख्यया ॥ ३/८१ ॥
असंवायस्ततः प्राप्तो भेदः सप्तविधो भवेत् ।
लिङ्गाध्यक्षं सुराध्यक्षं शङ्करं त्वमलेश्वरम् ॥ ३/८२ ॥
असंख्यमनिलं द्वन्द्वं सन्तानं सप्तधेरितम् ।
सोमदेवस्य शर्वोक्तं द्विलक्षेणैव संख्यया ॥ ३/८३ ॥
नृसिंहः प्राप्तवान् सोमाद्भेदः पञ्चविधो भवेत् ।
शिवधर्मोत्तरं चैव वायुप्रोक्तं तथैवच ॥ ३/८४ ॥
दिव्यप्रोक्तमथैशानं शर्वोद्गीतं विधीयते ।
श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥ ३/८५ ॥
ग्रन्थद्वादशलक्षं तु सप्तधा प्रसृतं तु तत् ।
उशनोमुनिसंप्राप्तः श्रीदेव्याश्च यथाक्रमात् ॥ ३/८६ ॥
मतङ्गं यक्षिणीपद्मं पारमेश्वरमेव च ।
पुष्करं सुप्रयोगं च हंसं सामान्यमेव हि ॥ ३/८७ ॥
किरणं देवविभवे कोटिपञ्चकसंख्यया ।
संवर्तकस्ततः प्राप्तो भेदास्तु नवसंख्यया ॥ ३/८८ ॥
गारुडं नैरृतं नीलं रूक्षं भानुकधेनुके ।
प्रबुद्धं बुद्धकालाख्ये नवधा किरणो भवेत् ॥ ३/८९ ॥
शिवस्य वातुलं प्रोक्तं ग्रन्थाः शतसहस्रकम् ।
महाकालस्ततः प्राप्तो भेदा वै द्वादशैव तु ॥ ३/९० ॥
वातुलं चोत्तरं चैव कालज्ञानं प्ररोहितम् ।
सर्वं धर्मात्मकं श्रेष्ठं नित्यं शुद्धं महाननम् ॥ ३/९१ ॥
विश्वं विश्वात्मकं चैव वातुले द्वादश स्मृताः ।
अष्टाविंशतितन्त्राणां मूलभेदाः प्रकीर्तिताः ॥ ३/९२ ॥
कामिकं पादयुग्मं स्याद्योगजं गुल्फमेव च ।
चिन्त्यं पादाङ्गुलिः प्रोक्तः कारणं जङ्घिका भवेत् ॥ ३/९३ ॥
अजितं जानुदेशं स्याद्दीप्तमूरुप्रदेशकम् ।
सूक्ष्मन्तु गुह्यमेवं स्यात्सहस्रं कटिदेशकम् ॥ ३/९४ ॥
अंशुमान् स्यात् पृष्ठतलं सुप्रभेदं तु नाभिकम् ।
विजयं कुक्षिदेशं स्यान्निःश्वासं हृदयं भवेत् ॥ ३/९५ ॥
स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।
वीरं कण्ठप्रदेशस्तु रौरवं श्रोत्रमेव च ॥ ३/९६ ॥
मकुटं माकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरःस्थलम् ॥ ३/९७ ॥
बिम्बतन्त्रं सुवदनं प्रोद्गीतं रसना भवेत् ।
ललितं स्यात्कपोलं तु सिद्धं चैव ललाटकम् ॥ ३/९८ ॥
सन्तानं कुण्डलं विद्याच्छर्वोक्तमुपवीतकम् ।
पारमेशेन हारं तु किरणं रत्नभूषणम् ॥ ३/९९ ॥
वातुलं वसनं प्रोक्तं शिवधर्म त्रिपुण्ड्रके ।
कल्पञ्चैव तु संयोगे शिवधर्मानुलेपने ॥ ३/१०० ॥
बिम्बं पुष्पे च माल्ये च सिद्धान्तेन निवेदितम् ।
तन्त्रात्मकशरीरेण मन्त्रमूर्तिमयेन तु ॥ ३/१०१ ॥
एतेषामुपभेदैश्च सादाख्यं मूर्तिमत् स्थितम् ।
शिवरुद्रात्मकं तन्त्रमष्टाविंशतिसंख्यकम् ॥ ३/१०२ ॥
चिन्तामणिरिव भ्राजि चैकधा बहुधा दिशेत् ।
यद्यप्येको भवेद्वक्ता श्रोतृभेदादनेकधा ॥ ३/१०३ ॥
कर्षणादिप्रतिष्ठान्तं मूलेनैव समाचरेत् ।
कृतञ्चेदुपभेदेन कर्ता भर्ता विनश्यति ॥ ३/१०४ ॥
केवलं यजनं प्रोक्तमुपभेदैर्विशेषतः ।
प्रतिष्ठाद्यं तु मूलैश्चेत् अष्टाविंशतिभिर्वरम् ॥ ३/१०५ ॥
येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।
तेन सर्वं प्रकर्तव्यं न कुर्यादन्यतन्त्रतः ॥ ३/१०६ ॥
कारयेदन्यतन्त्रेण नोक्तं चेत्तु विशेषतः ।
उक्तानि प्रतिषिद्धानि पुनः संभाषितानि च ॥ ३/१०७ ॥
सापेक्षनिरपेक्षाणि शिववाक्यान्यनेकधा ।
चतुष्पादयुतान्येव भुक्तिमुक्त्यर्थसाधनम् ॥ ३/१०८ ॥
एतान्येवाथ श्रुत्वा तु देवैर्मुनिवरादिभिः ।
संक्षेपतोऽपि कथितं सर्वेषामनुकम्पया ॥ ३/१०९ ॥
एषामध्ययनं कार्यं शिवविप्रैर्गुरुक्रमात् ।
अव्यापनं च कर्तव्यं न कार्यमितरैर्नरैः ॥ ३/११० ॥
दीक्षाविहीनविप्राद्यास्त्रिवर्णाश्शूद्रजातयः ।
सवर्णाद्यनुलोमाश्च शिल्पिनः कारुकादयः ॥ ३/१११ ॥
पठन्ति शिवशास्त्रञ्चेत्तत्पापान्नृपराष्ट्रयोः ।
अचिरेण विनाशः स्यात्तस्माद्राजा निवारयेत् ॥ ३/११२ ॥
शिवसिद्धान्ततन्त्रेण प्रारब्धं कर्षणादिकम् ।
न कुर्यादन्यशास्त्रेण कुर्याच्चेत्तन्त्रसंकरः ॥ ३/११३ ॥
तन्त्रसंकरदोषेण राजा राष्ट्रं च नश्यति ।
गारुडं भूततन्त्रं च भैरवं वामतन्त्रकम् ॥ ३/११४ ॥
कापालं पाञ्चरात्रं च लाकुलं कुलशास्त्रकम् ।
तन्त्रं पाशुपतं चान्यत् पुराणं धर्मशास्त्रकम् ॥ ३/११५ ॥
इतिहासं षड्ङ्गं च ऋग्यजुः सामसंज्ञकम् ।
अथर्वणं तथा बौद्धमार्हतं मतमेव च ॥ ३/११६ ॥
ऊर्ध्वस्रोतोऽक्षपाच्छास्त्रादपरं तदनुक्रमात् ।
कामिकादि शिवज्ञानं मूर्धा भगवतः सदा ॥ ३/११७ ॥
इतराणि महेशस्य हृत्कण्ठाद्यङ्गकानि वै ।
पूर्वपक्षतया तानि कथितानीह शम्भुना ॥ ३/११८ ॥
हेयोपादेयवस्तूनां निर्णये परमार्थतः ।
तत्सर्वमधरीकृत्य शैवसिद्धान्त ईरितः ॥ ३/११९ ॥
सिद्धान्तशास्त्रनिष्ठैश्च शिवविप्रैर्यथाक्रमम् ।
शास्त्रान्तरैस्तु संस्थाप्य लिङ्गं तदुभयार्थकम् ॥ ३/१२० ॥
पूजनीयं नृपग्रामयजमानाभिवृद्धये ।
शैवः सर्वाधिकारी स्यात्स्वकीये च परत्र च ॥ ३/१२१ ॥
शैवाः सर्वेषु कुर्वन्ति ये गृहस्था द्विजोत्तमाः ।
यामले मातृतन्त्रे च कापाले पाञ्चरात्रके ॥ ३/१२२ ॥
बौद्धे चार्हमते चैव लाकुले वैदिकेऽपि च ।
अन्येष्वपि च मार्गेषु तत्तच्छास्त्रैः स्वशास्त्रतः ॥ ३/१२३ ॥
शैवाः कुर्वन्ति दीक्षाद्यं तल्लिङ्गस्थापनादिकम् ।
मुख्यत्वादिह शैवस्य मुखमाहात्म्यतोऽपि च ॥ ३/१२४ ॥
अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने ।
तस्मात्परार्थमात्मार्थं स्थापनं यजनं तथा ॥ ३/१२५ ॥
शिवविप्रेण कर्तव्यमन्येषां स्वार्थमेव हि ।
परार्थमपि कुर्याच्चेल्लोपेन नृपतेस्तथा ॥ ३/१२६ ॥
तद्राष्ट्रस्य च नाशः स्यादचिरेण न संशयः ।
॥ ३/इति कामिकाख्ये महातन्त्रे क्रियापादे तन्त्रावतारपटलः प्रथमः ॥
</poem>
== अथ मन्त्रावतारपटलः ==
<poem>
अथ संक्षेपतो वक्ष्ये मन्त्राणामुद्धृतिं क्रमात् ।
मन्त्रं विना क्रिया नास्ति कर्षणाद्यर्चनान्तकम् ॥ ४/१ ॥
मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः ।
मननत्राणधर्मित्वान्मन्त्र इत्यभिधीयते ॥ ४/२ ॥
मन्त्रो द्विरूपो विज्ञेयो वाच्यवाचकभेदतः ।
वाग्रूपो वाचकः प्रोक्तो वाच्यस्त्वर्थात्मकः स्मृतः ॥ ४/३ ॥
वाच्यवाचकयोश्चैव तादात्म्यं क्वचिदिष्यते ।
नादो मन्त्र इति प्रोक्तः स नादो जायते परात् ॥ ४/४ ॥
नादाद्बिन्दुः समुद्भूतो बिन्दोराद्यस्वरो भवेत् ।
तस्मात्स्वरद्वयं द्वौ द्वौ तेषां भेदास्त्रयोदश ॥ ४/५ ॥
स्वराः षोडश जीवाख्याः कादयो देहवन्मताः ।
संख्यया ते चतुस्त्रिंशत्त एव व्यञ्जनानि तु ॥ ४/६ ॥
प्राणोपाधिविभेदेन व्याप्तं तैरेव सर्वतः ।
तैरेव रचितं शास्त्रं परापरविभेदितम् ॥ ४/७ ॥
नव खण्डं तु नादाख्यं पञ्चाशद्वर्णभेदितम् ।
विकारभूतभूताख्यवेदवेदेन्दुसंख्यया ॥ ४/८ ॥
खण्डानां निर्णयो वर्णैरेवमेव नवात्मकः ।
स नादः कथ्यते विप्राः पर्यायैश्शिवनामभिः ॥ ४/९ ॥
स्थूलः सूक्ष्मः परश्चेति त्रिविधः परिपठ्यते ।
शब्दबोधानुभूतात्मा सर्वप्राणिहृदि स्थितिः ॥ ४/१० ॥
पञ्चाशद्रुद्रभेदेन पञ्चाशच्छक्तिभेदतः ।
संस्थिता मातृका ज्ञेयाः साधकैस्तत्त्वदर्शिभिः ॥ ४/११ ॥
तद्व्यासो वक्ष्यते विप्राः पश्चाद्वर्णाध्ववर्णनैः ।
ऋषय ऊचुः -
भगवन् प्राणिनो लोके क्षीणसत्वाचिरायुषः ॥ ४/१२ ॥
लोभमोहमहामानरागद्वेषादिभिर्युताः ।
तेषां योग्यमशक्तानां यथातथा ।
बहुधा मन्त्रसद्भावो वक्तव्यः करुणानिधे ॥ ४/१३ ॥
ईश्वर उवाच -
येन येन प्रकारेण सुखोपायो भवेन्नृणाम् ।
तेन तेन प्रकारेण कथयामि समासतः ॥ ४/१४ ॥
(चिन्तामणिमन्त्रः)
जीवाद्यं पञ्चमं वायुपूर्वं कारणकार्ययुक् ॥ ४/१५ ॥
चिन्तामणिरिति ख्यातो मन्त्रोऽयं शिववाचकः ॥ ४/१६ ॥
पञ्चविंशच्चतुर्थस्य पञ्चमं पञ्चविंशकम् ।
अष्टकात्पञ्चमं युग्मं मायाबीजसमन्वितम् (षष्ठकात्पञ्चकं
युग्मं अग्निबीजसमन्वितम्) ॥ ४/१६ ॥
भेदो द्वितीयबीजस्थं धातुपूर्वं यथाक्रमम् ॥ ४/१७ ॥
हृच्छिरश्चूलिका वर्म हेतयो मुनिपुङ्गवाः ।
सद्योजातादयो वापि तत्स्थाने ह्युभयं तु वा ॥ ४/१८ ॥
मन्त्रः समुदितो वापि वाचकः स्याच्छिवस्य तु ।
यदा हंस शिवायेति मन्त्रं पञ्चाक्षरं भवेत् (यदा हौं स इति
पाठः) ॥ ४/१९ ॥
तदा तद्वर्णभेदेन कार्या वक्त्राङ्गकल्पना ।
अथवाऽन्यप्रकारेण मन्त्रलक्षणमुच्यते ॥ ४/२० ॥
सान्तार्कबीजसंयोगात् पादहृद्गुह्यमस्तकैः ।
हृच्चूडास्यतनुत्राणमूर्ध्वमूलदृगस्त्रकान् ॥ ४/२१ ॥
उद्धरेत्क्रमशो मन्त्री सज्वालान्सृष्टिरस्त्रकम् ।
यद्वानलासनारूढो वर्णव्योमेन्दुभास्करैः ॥ ४/२२ ॥
यष्टभूजलवह्न्यादि व्योमबीजाङ्गसङ्गमात् ।
मन्त्रोऽयं मूलभूतस्तु प्राग्वदस्याङ्गकल्पना ॥ ४/२३ ॥
तत्त्वंपदार्थयोर्वापि समायोगस्य कारणम् ।
खबीजानल बीजस्थं कारणोक्तं सितार्णकम् ॥ ४/२४ ॥
ससृष्टिमुद्धरेद्ध्रस्वं तद्वा शिवपदान्वितम् ॥
तारमाद्यं तदन्यं खबीजं स्वस्यापि नेति च । २५ ॥
ऊद्धरेद्दीपकं प्राग्वन्मूलमन्त्रोयमीरितः ।
तत्र ब्रह्माङ्गसंकॢप्तिरनुलोमविलोमतः ॥ ४/२६ ॥
कालान्तकमन्त्र :-
अथ कालात्मनश्चेह वक्ष्येहं मन्त्रलक्षणम् ।
सनामि पद्मं संलिख्य प्राग्दलाद्यक्षरान्न्यसेत् ॥ ४/२७ ॥
पूर्वोरकादौ योन्यस्य विकारं तस्य दक्षिणे ।
एवं प्रदक्षिणं न्यासो मन्त्रोद्धारो दलक्रमात् ॥ ४/२८ ॥
श्रीस्थितिश्च विसर्गस्थो मकारो मूतयाचया ।
ये निपाताश्च विश्वेश स्वराद्यो नास्वरादिकम् ॥ ४/२९ ॥
मश्च वश्च भकारोन्तिजाक्षिज्ञार्वस्तनोन्ततः ।
मनेताताश्च सिद्धं या दीपको कथयोपकृत् ॥ ४/३० ॥
नानिपञ्च प्रयोश्चाथ स्याच्चितुश्च न सस्थतः ।
ध्याशियश्च यकारश्च वकारो यश्च वा ततः ॥ ४/३१ ॥
नानापव्याथवा नाच धारमद्विभगास्तराः ।
ज्ञार्वावन्तो द्विधा धूक् च नियौतत् तद्विसर्गतः ॥ ४/३२ ॥
यरोमश्च मकारश्च स्वराद्यो नानमा तथा ।
वरौ द्वराद्यौ तुश्चैव नदावन्ते तथा च ने ॥ ४/३३ ॥
यमाद्यं वसुभेनां च समेद्य प्रनधुस्तथा ।
निर्गर्हासी प्रसा प्राश्चै स्वकुशामी प्लको ततः ॥ ४/३४ ॥
व्योम स्वराद्यो योर्वाश्च रुचौमः सविसर्गकः ।
वश्च स्वश्च तथा दींश्चस्तिसृ धूथमते तथा ॥ ४/३५ ॥
मर्वभूताश्च पप्तौ च नकारोन्ते ननौ तथा ।
शागीन्द्र इगुश्चैव योरव्यमवराटिकाः ॥ ४/३६ ॥
धूनभोसि विसर्गोज भूमिस्तुत नशास्तथा ।
सविसर्गे मकारस्तु व्योन्ताश्च न भवौ तथा ॥ ४/३७ ॥
भ्याभ्यागाप तथापिङ्ग ते धूधूनिश्चयोशता ।
तशश्च दर्शिकारोन्ते मयष्का स्याश्चवे तथा ॥ ४/३८ ॥
कर्तृश्च तिथिकार्याश्च जकारश्च विसर्गकः ।
मश्च दीपोथ रागार्वा सूरूपू पग्वसूपव ॥ ४/३९ ॥
रूस्वराद्यो यनेराश्च सौगश्च कृचयौ च ते ।
ते स्वराद्याथ भूरामोधिशखाद्यर्पितं क्षथा ॥ ४/४० ॥
पानायोहा स्तथावाच स्वरद्यो द्यो तथैव च ।
ह्याता स्वराद्यो बीजाद्यो जकारः सविसर्गकः ॥ ४/४१ ॥
अकारो दीपकोक्षश्च भावर्वाश्च प्रभौ तथा ।
दिक् धूपदीपको यश्च धागरायास्तथश्चवौ ॥ ४/४२ ॥
जयायाश्चोध रूपज्योस्मभुस्म तथा च यः ।
देते भन्दरताश्चैव पीठश्च क्ष्मश्च एव च ॥ ४/४३ ॥
सयवीयाश्च रौ रौ च तगो ज्योतांश्च विंशतिः ।
स्वराद्यः सविसर्गोप शिवौ मुचवसौ तथा ॥ ४/४४ ॥
स्वराद्यः सकलश्चैव सविसर्गो म एव च ।
दृश्च स्वराद्यो मश्चैव दीपको शादृमू तथा ॥ ४/४५ ॥
प्रेति नाश्च स्वराद्यश्च ज्योना दीपौ वसौ तथा ।
चर्वास्तथा नाक्षिपंश्च विंश्च वः सविसर्गकः ॥ ४/४६ ॥
स्वराद्योरु तथा चैव रुतिकारो विसर्गयुत् ।
देशश्च शद्भामुरश्चैव कारः सार्चिसागशाः ॥ ४/४७ ॥
मकारः सविसर्गान्ते प्रादक्षिण्येन विन्यसेत् ।
चक्रं तु गन्धपुष्पाद्यैः समभ्यर्च्य च दर्शयेत् ॥ ४/४८ ॥
शिष्यस्य शिवभक्तस्य शिवविप्रस्य धीमतः ।
गुर्वाज्ञापूर्वकं चैवं गृह्णीयान्मन्त्रमुत्तमम् ॥ ४/४९ ॥
अन्यथा स्वीकृतेऽन्यत्र तज्जपेद्यद्यनर्थकृत् ।
शिवाद्यवनिपर्यन्तं भूतभावादिकं क्रमात् ॥ ४/५० ॥
मन्त्रेस्मिन् संस्थितं ज्ञात्वा मुच्यते पाशबन्धनात् ।
चैत्र्यादि दिनमारभ्य फाल्गुन्यन्तदिनान्तकम् ॥ ४/५१ ॥
यजेद्वर्णं प्रतिदिनं एकैकं प्रणवादिकम् ।
नाभिपद्मदलेष्वष्टौ वर्णा दीपकपूर्वकाः ॥ ४/५२ ॥
तैरेतान् संपुटान् कृत्वा जपेद्ध्यायेद्यजेदिति ।
एकेन वा यजेदह्ना चक्रेस्मिन् सव्यवस्थितम् ॥ ४/५३ ॥
रुद्रमन्त्रचक्रम् :-
अथातो रुद्रमन्त्रस्य चक्रलक्षणमुच्यते ।
व्योमतत्वपदानां तु कन्यकाङ्गगणो दवः ॥ ४/५४ ॥
तेषूर्ध्वपङ्क्तितो न्यासश्चोद्धारः क्रमतः स्थितः ।
दीपकोव्यो यदाप्या च दीक्षर्वा च तथा च ना ॥ ४/५५ ॥
यकाराष्टद्वयं चैव रूपपिंश्चलिलो तथा ।
सद्वयञ्चायतञ्चैव स्वराद्योव्यानयेष्टदे ॥ ४/५६ ॥
नपारुतेज कालश्च तुश्च णे च नती तथा ।
द्याकालतधनास्यांश्च संल्लिखेदाद्यपंक्तिके ॥ ४/५७ ॥
मव्यारूप च व्यायौ च हा पापघ्नश्च शेशवः ।
त्वमानालं च भाशिश्च भुवं दधचितो तथा ॥ ४/५८ ॥
रूरूपस्ते तथा रूरू लावमोगो तथैव च ।
प्रश्च सश्च द्वितीयान्ते नेतवा विश्वदीपकः ॥ ४/५९ ॥
हासायश्च विषाकश्च पथश्रीश्चबराशयाः ।
दगुसाश्च तथा णेरु विविलाम तथैव च ॥ ४/६० ॥
पापिकारस्तथा निश्च द्वयं रेथयुक् शिव ।
त्रेपपूस्त्रस्तुश्चैव नित्यं नात्रे तृतीयके ॥ ४/६१ ॥
रियनेनाश्च दयौ च पनादीतंश्चले तथा ।
रेफपूर्वोपेतायौ यवयाप्यमस्तथैव च ॥ ४/६२ ॥
द्योधाणपि तथाणेणे णेयणेसे तथापरे ।
नन्तश्च अद्भ्यव्यापी च विलिखेद्वेदपङ्क्तिके ॥ ४/६३ ॥
संप्रमाण तथा वाच अदशाष्ट्वास्तथैव च ।
ष्टालित्रयगकारश्च आददश्चेययौ तथा ॥ ४/६४ ॥
जापाः सेपि विसर्गश्च णेकारो मूपष्टाश्चरू ।
पुनद्रहे तपश्चैव व्योकारश्च अनेवजाः ॥ ४/६५ ॥
तारं कं पञ्चमे पङ्क्तौ विन्यसेदनुपूर्वशः ।
याशियाने विधाभिश्च यागाया यूश्च वी तथा ॥ ४/६६ ॥
आशिवाश्च तलौ शश्च रलात्राब विरूययौ ।
तुः सविः सर्गो मं वा व्योदकाश्च रूढी च विभोयाच ॥ ४/६७ ॥
हरो पादजभूमब्जाश्च बाह्योक्तः दाचरौ लिश्चविना ।
यवाव्योदक बरूद्धिस्वपिहोचागरोरुपादचमूः ॥ ४/६८ ॥
मवाश्च साधे च यरुतमं नादियमेचका ।
अयोद्योदिश्च कलहलन्यैश्चैवसप्तमे
मायामश्च मीश्च तथाचनर ॥ ४/६९ ॥
काशबाहुस्तथान्तश्च रसपङ्क्तौ समालिखेत् ।
बाह्ये सश्च तथारू रू समाद्यो यश्च णे तथा ॥ ४/७० ॥
नेपिश्च तथा तथाश्च भीरुश्च द्विजातिकश्च यः ।
तथा ब्राह्म्यो कदाश्चरौ विनयेतश्च साये च ॥ ४/७१ ॥
यरू ततो येथ मेचका अयोद्योनिश्च कव ।
हलिश्चैवसप्तमोवा त्रयातश्च दींश्च वशशिरूश्च द्विदादितिकश्च ॥
४/७२ ॥
सन्धेषकाश्च पंक्तोनौ ययौमू पविवाभुवाः ।
रूनक्यारास्तथापेतु मिश्च बीजादिकश्च कः ॥ ४/७३ ॥
शवभं च तथा तश्च थ्यश्च गोन्येषमस्य तु ।
तिसिसरूलित जीनाश्च शास्तिया ववचाश्च ये ॥ ४/७४ ॥
मत्कारो नातिकः शरंत्राणे त्रवियष्टणा ।
गुह्याप्यानां च पार्वं च शकारान्तारमेव च ॥ ४/७५ ॥
तथा कामक ज्ञायतमेतु क्रमादालिख्य साधकः ।
रेफपूर्वो वकारश्च पाकिनाष्टतथैव च ॥ ४/७६ ॥
णकाकः पूर्वलीपस्तांश्च बन्तायाका च
मा सशत्तयाप्रीहानरासमाः ।
सविसर्गो दशामान्तके यश्च ययौ
यश्च ताय मया मयास्यथैव च ॥ ४/७७ ॥
न पूर्वो द्रायमामाश्च रूरूपि नवगा भवाः ।
मविपितृ तथा मोमः व्यानायादास्त थैव सः ॥ ४/७८ ॥
नकारपूर्वो द्रीपाश्च प्रश्च शश्च तथा नवाः ।
खकारश्च रुकारश्च पङ्क्तौ एकादशे क्षिपेत् ॥ ४/७९ ॥
शिश्चानाश्च ऋकारश्च स्वराद्यो यदि शयनम् ।
रश्च दिश्च तथाज्योपि विश्च णेणे तथैव च ॥ ४/८० ॥
नपूर्वस्तर्थयाणे भूपर्यसाश्च तथाचवित् ।
देवविश्च तथा शक्तिद्रिका रश्च नपूर्वकः ॥ ४/८१ ॥
नश्च शब्दो च बा भाद्रा योकारान्तेऽर्कपङूक्तिके ।
नट्यनात्तथा क्यन्नामे च विश्च विशष्मणे ॥ ४/८२ ॥
णे च स्वरार्थोश्च बद्वन्द्वोगयरूसंसरं तथा ।
वौरेपि पूर्वे वश्चैव बीजाद्योनाविवास्तथा ॥ ४/८३ ॥
पिकारो दीपको थश्चविषूशानादिकश्चतः ।
णाञ्च सर्गसकारश्च लिखेतास्तंत्रयोदशे ॥ ४/८४ ॥
स्यांशावियोय सोद्या च रोक्त्यो रौ स्फगरू तथा ।
भकारे रेफपूर्वश्च स्वराद्योपिश्च मा तथा ॥ ४/८५ ॥
दातचंह्यचिरा नाभयेद्यां ह्रीं राष्णषास्तथा ।
षांश्चसपसौ संरेपाद्येवौ वकारो दीपकोन्तकः ॥ ४/८६ ॥
यकैर्गिण्दिरश्चपृसधात्राशान्तश्चरायनाः ।
णेया शिधाश्वरातद्या विविणीयु रू ॥ ४/८७ ॥
स्थूसान्तत भेदेषुश्चतु श्चंतेतिथिपङ्क्तिके ।
लीनेगश्च शिवौवश्च रायाया ययागास्तथा ॥ ४/८८ ॥
नपूर्वस्त स्वराद्यश्च रूपादिति विसर्गमः ।
नो नाश्च विद्यश्च ह्रीं स्वाद्या लश्च भाचये ॥ ४/८९ ॥
राशिरश्शिबं पूर्वोमः चं पङ्क्तौ सोसशे न्यसेत् ।
धापवान्ता च वध्वाश्च द्वैद्विन्तोयासरे पोहरू चः ॥ ४/९० ॥
भञ्च वियंच वैद्यातं च स्वराद्यं च परश्च रूसूच्यपाः ।
पुनो भपौरिका लोलाश्चैव नन याभाश्च वै ॥ ४/९१ ॥
विकारोऽनुस्वारसंयुक्तो मश्च सप्तदशे लिखेत् ।
तकारश्च ययो भूश्च काच निश्च कपूर्वशः ॥ ४/९२ ॥
शकारे रेफपूर्वश्च धकारश्च नपूर्वकः ।
रूकारो रूपिकाणेसनिशदतास्तथा च वित् ॥ ४/९३ ॥
धूधौ च तश्च रूश्चैव सविसर्गो मतः सखः ।
सवीयश्च सर्गो मकारकः ॥ ४/९४ ॥
परपक्षा विसर्गान्तो मकारश्च प्यनश्चसः ।
सर्वशिवश्चैव तेगश्च हाज्ञोदष्टदिशो लिखेत् ॥ ४/९५ ॥
अवासु लगु रू रूरविश्च णेराशुदाश्च वै ।
नित्यान्तसे ये प्रथूशाये षाकार स्वञ्चवाक् भवः ॥ ४/९६ ॥
यश्चक्षिः सतदीपं च रश्च काच तथा जवः ।
लसदश्च धकारश्च विश्च वैकोनविंशके ॥ ४/९७ ॥
मविघ्नभ्याव वीरूणेरेयन्धाशिया तथा ।
नद्योभ धृतिजश्चैव सुयंरण्यं च विंशके ॥ ४/९८ ॥
राकायेण तथाणेपि पुश्च तश्च सुरादयः ।
नवन्तामोदि वश्चैव सविसर्गश्च तारकम् ॥ ४/९९ ॥
सर्वकुश्चाथ स्वाभर्चि सकारोक्षैश्च बिन्दुयुक् ।
नमर्वरप्रविसर्गो मरेफयुतं वकारकम् ॥ ४/१०० ॥
बश्च वश्च पसस्फुश्च चकाश्चैकविंशके ।
माच वश्च तथा तेपि णेञ्च वाच षपूर्वकम् ॥ ४/१०१ ॥
सोकारो भङ्गुरोमोति नारूतेभूः सकार च ।
मषभाश्चेत - र्वक्षं नैत्मकुश्च तारकम् ॥ ४/१०२ ॥
जाकारपूर्वो तन्त्रञ्चैव आचधाश्ति नपूर्वकः ।
ज्ञाचर्वश्च रभौतश्च द्वाविंशत्पङ्क्तिके न्येसेत् ॥ ४/१०३ ॥
भुजाजाना धरेकान्तं धविभीता तथा चटा ।
पाच जश्च विसर्गाश्च दीपनश्च स्वराद्यकः ॥ ४/१०४ ॥
वेराजवा भगववो दक्षदानेच कमौ चशि ।
मश्च या च तथा वश्च सश्च दुश्च तथा च पौ ॥ ४/१०५ ॥
पृश्चयश्च मकारश्च त्रयोविंशतिके लिखेत् ।
सेचयच तथा लाच पुश्च तोच वरूचणे ॥ ४/१०६ ॥
सोथवाद्यो काराहुश्च शश्चप्रजश्चथा ।
यस्तुशिश्च प्रकाराश्च मकारः सविसर्गकः ॥ ४/१०७ ॥
पञ्चकुश्च नवौचैव पक्वभिर्द्धनिषां रचाः ।
भुञ्चभाव तथायच्च चतुर्विंशतिके क्षिपेत् ॥ ४/१०८ ॥
बियोचष्वञ्च कूरूपी तारश्यञ्च तथा नरः ।
पचन्ति प्रसविर्गश्च वबिसर्ग ममोचवा ॥ ४/१०९ ॥
वश्चपोत ववासश्च वरारुस्तथा च रा ।
सानुस्वरं च संयुक्तो पूर्वः संयोगपश्चिमे ॥ ४/११० ॥
रंयैः क्रमशः पञ्चविंशत् पङ्क्तौ समालिखेत् ।
नारूपिश्च विणेश्चावा वान्तौ सम सर्गकः ॥ ४/१११ ॥
रश्च आद्यस्वरोपोन शतदोषवहा तथा ।
पुनर्वसवश्चैव तथार्द्राह्री दिगणाज्ञा ॥ ४/११२ ॥
भरका दीपवागे चतिषड्विंशके न्यसेत् ।
पञ्च णे च विभाश्चैव मोच वै तनमेमम ॥ ४/११३ ॥
रूश्चसपञ्चैव वा भगबन्ते वशाच पौ ।
सवौ मसविसर्गञ्च पमवाश्च शिश्चतः ॥ ४/११४ ॥
तकारो मकारो लञ्च कशौ---चै ।
यतौ च यतौ च भदज्यां कारोय ॥ ४/११५ ॥
णाश्चैव मसयः सप्तविंशके ।
मश्चप्रश्च तथा द्याच याये वोत च श्ववाचकैः ॥ ४/११६ ॥
ओङ्कारश्च रोषधि विसर्गेमः ।
देवषचरेत्पीयुत् स्थीश्चतारतथा तञ्च नेचरश्च सरौ च यः ॥ ४/११७ ॥
आकारो मकरी चैव तं कारश्च सपूर्वकः ।
नश्चकश्च विसर्गः सधी च बहिश्चहिन सथा ॥ ४/११८ ॥
नश्च कुश्च क्रमेणैव अष्टाविंशतिके न्यसेत् ।
कुश्च यश्च यकारश्च स्वराद्यो रश्चमोचरः ॥ ४/११९ ॥
वर्गवो मताश्चश्च ओङ्कारो भूत एव च ।
आकारश्च सबिन्दुश्च येनमेन्यः प्र एव च ॥ ४/१२० ॥
जवा च वश्च तथा भकार भाच कतभौ च वै ।
ओङ्कारश्च विमकारश्च कातपाश्च तथा च मो ॥ ४/१२१ ॥
द्रकारश्च तथा ते च त्रिंशदेकोनके न्यसेत् ।
पिश्च नश्चिषितौ चैव गुश्च पश्च तथा च नः ॥ ४/१२२ ॥
हकारः सविसर्गश्च दापौ चैव प्रदीपकम् ।
बुंश्च तथासृच ईकारश्च सबिन्दुकाः ॥ ४/१२३ ॥
मनः सश्च सविसर्ग वकारश्च शिवपूर्वकः ।
भश्च सश्च लिकारश्च वकारो रेफपूर्वकम् ॥ ४/१२४ ॥
कश्चहश्च उकारश्च यश्चगुश्च वतौ च हिं ।
येनश्च यन्वो समतो दकारश्च ययौ तथा ॥ ४/१२५ ॥
नकारश्च वकारश्च त्रिंशत्पङ्क्तौ तु विन्यसेत् ।
सविसर्गो तकारश्च लाचमः सविसर्गकः ॥ ४/१२६ ॥
ह्याराग्निश्च प्रदीपश्च मकारो नपरस्तथा ।
नश्चशिश तथा पश्च मकारश्च सपूर्वकः ॥ ४/१२७ ॥
विकारश्च कपूर्वश्च यकारश्च सबिन्दुकः ।
सविसर्गो मकारश्च स्वराद्यश्च तथा रवौ ॥ ४/१२८ ॥
नद्वयोनिरावाश्चैव कशदश्च सबिन्दुकः ।
हुङ्कारश्च तथा रूमौ मकारश्च न पूर्वकः ॥ ४/१२९ ॥
तश्च विश्च तथा गौच तिकारश्च न पूर्वकं ।
लतोमः सविसर्गश्च लिकारो बिन्दुसंयुतः ॥ ४/१३० ॥
स्वकारो रेफसंयुक्तो एकत्रिंशतिके लिखेत् ।
नश्च शिश्च तथा तिश्च यकारोद्यस्वरोज च ॥ ४/१३१ ॥
वर्गवो भाजशिश्चैव स्वराद्योखञ्चतुञ्च वै ।
ष्येच जश्च मृकारश्च वहनास्वाच मश्च वै ॥ ४/१३२ ॥
चकारे मपरं किञ्चित् तञ्च पश्च पपोवहे ॥ ४/१३३ ॥
नद्वयः सविसर्गश्च मकारश्च न पूर्वकः ।
करिकारश्च तथा काच लिश्चानुस्वारसंयुतम् ॥ ४/१३४ ॥
विसर्गेण समायुक्तो मश्च भश्च तथाच न ।
यकाररातभागाच द्वात्रिंशत्पङ्क्तिके न्यसेत् ॥ ४/१३५ ॥
खश्चगश्च स्वराद्यशधूचनश्च विसर्गकः ।
निशवश्च तथा शिश्च नपूरुश्च तथा च गौ ॥ ४/१३६ ॥
तारावाश्च तथा मोहाशिसूरि तथास्वाश्च तः ।
तथा च शिभे प्रायाश्चैव गारुडा ॥ ४/१३७ ॥
यनयाश्च तथावश्च त्रयस्त्रिंशतिके लिखेत् ।
तकारो वागवस्तश्च नहुंषट्स्वाश्च सश्च वै ॥ ४/१३८ ॥
तकारो बिन्दुसंयुक्ते वहन्नेवोश्चवोचने ।
शिश्च रश्च सबिन्दुश्च जपूर्वश्च ज्ञकारकः ॥ ४/१३९ ॥
सूच मश्च प्रदीपश्च ततौ चैव तु विप्रभाः ।
दाहाते लिलनश्चैव ऊननाश्च तथा चलि ॥ ४/१४० ॥
तेकारश्चैव पङ्क्त्यन्ते पञ्चत्रिंशतिके लिखेत् ।
भश्च वः सविसर्गश्च निश्च तश्च तथा च षट् ॥ ४/१४१ ॥
नकारपूर्वों दश्चिव वकारो रेफसंयुतः ।
गश्च तेज तथा वेचे नगामश्च तपूर्वकः ॥ ४/१४२ ॥
स्वा च पा च कयायाक्ष मश्च द्रश्च गयौ तथा ।
तकारापूर्वजो मंचैव वचो देयानाग च ॥ ४/१४३ ॥
सोमविसर्गों मकारश्च स्वरेका पादकारयुक् ।
मकारः सविसर्गश्च मो चगा च तथैव च ॥ ४/१४४ ॥
मृवानः सारसंयुक्तः षट्त्रिंशत्पङ्क्तिके लिखेत् ।
ओंकारोधश्च भाश्चैव षट् च सुश्च तथा च सा ॥ ४/१४५ ॥
विकलानुस्वारसंयुक्तप्रदीपञ्च नमस्तथा ।
यश्च वश्च तथा हाश्च मकारश्च तपूर्वकः ॥ ४/१४६ ॥
वश्च ते च वप्रौ च प्रश्च तथाच वा भवेत् ।
वाश्च प्रदीश्च लाश्च मश्चः सविसर्गकः ॥ ४/१४७ ॥
यश्चभश्चैव दौकारो लिकारे बिन्दुसंयुतः ।
शिद्वयोश्च तथा यश्च मकारः सविसर्गिकः ॥ ४/१४८ ॥
ज्ञकर्मवासवाने तु सप्तत्रिंशतिके लिखेत् ।
एवं विन्यस्य चक्रे तु चक्रं मन्त्रं समुद्धरेत् ॥ ४/१४९ ॥
कूटार्णं भानुवह्न्यङ्गस्वरो तम्मूलमन्त्रकम् ।
जीवान्तं जीवसंयुक्तं बिन्दुसृष्टियुतं तु वा ॥ ४/१५० ॥
एषां प्रधानवर्णेन ब्रह्माङ्गपरिकल्पनात् ।
अन्येषामपि देवानां नामाद्वर्णं सबिन्दुकम् ॥ ४/१५१ ॥
तत्तन्नाम्ना चतुर्थ्यन्तं मन्त्रविन्मन्त्रमुद्धरेत् ।
यक्षरक्षोग्रहादीनामेवमेवं प्रयोजयेत् ॥ ४/१५२ ॥
मातृकामन्त्र :-
मातृका सर्वमन्त्राणां मुख्यभूता भवेदिह ।
ताः शक्तिरुद्रसंयुक्ताः केवलं वा समभ्यसेत् ॥ ४/१५३ ॥
अनया साध्यते सर्वं तस्मादेतान्न्यसेज्जपेत् ।
मालामन्त्र :-
मालामन्त्रक्रमं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ॥ ४/१५४ ॥
जङ्घोतान् - नात् - भूत् - उस - मासुनं -
बम् - य - हे - न्ध - प - क्षि - म - नु - ल - म्यि
मरि - ज्ञ - षि - क - द्यो - य - आ - कू - मृ - कम्
यम् - र्वां - ब - गखंत्रियम् - व ।
मन्त्रोऽयं त्र्यम्बकाद्यस्तु सर्वकामफलप्रदः ।
सृष्ट्यादौ भिद्यते देवि बहुधा शिवशक्तिका ॥ ४/१५५ ॥
आदिशक्तिः शिवस्य स्यात् सादाख्यस्य मनोन्मनी ।
महेशस्य भवानी स्यात् शक्तिरेवं त्रिधा मता ॥ ४/१५६ ॥
शुक्लं खमनुवर्णाद्यामादेर्मन्त्रं पकल्पयेत् ।
मनोमन्या खवह्नी च मायाबीजसमन्वितौ ॥ ४/१५७ ॥
भवान्याः सविसर्गस्तु गौर्या मन्त्रमिति स्मृतम् ।
अन्यासां सर्वशक्तीनां स्वनामाद्यर्णमुच्यते ॥ ४/१५८ ॥
शक्तीनां मन्त्रकं प्रोक्तं मेलामन्त्रं शृणुष्वथ ।
तारं खं षान्तकूटं हरलयवरयू तारपूर्वं सबिन्दुं
नादं हुंफट्क्तसर्गो वषडपि सहितं वातये नाभिवौषट् । १५९ ॥
वाट्शुक्लं खन्दुबिन्दुध्वनि शपषपरट् द्विंगंख शुक्लौ
नादं सर्गैः सकामं भुवनपतिरमास्प्रेंसभौ सर्गनादः ॥ ४/१६०
॥
वाग् बिन्दुर्नादबिन्दुर्मनसिजलिपिना बिन्दुनादद्वयं च
प्रोक्तं शुक्लौ च बिन्दुध्वनिरपि मनु वै वालिकायां विसर्गः ।
षान्तं खं वाचबिन्दुध्वनिरपि मनुवै शुक्लषान्तं सकामं
ह्रीं बिन्दुर्नादध्वनिपरसमे बिन्दुनादं विमेला ॥ ४/१६१ ॥
मेलामन्त्रजपे मनुं प्रतिगुरुं पञ्चाशदर्णान् पठन्
आदौ मातृकया मनुं जपविधौ संयोज्य तस्मात्परम् ।
मन्त्रस्यास्य तु मध्यमे सति तथा मन्त्रान्ततो वा पठे-
द्यान् यान् क्रामयते नितान्तमतुलान् कामानवाप्नोत्यसौ ॥ ४/१६२ ॥
मालामन्त्राश्च ते ख्याता विंशत्यर्णाधिकाश्च ये ।
दशाक्षराधिका मन्त्रास्तन्न्यूना बीजसंज्ञकाः ॥ ४/१६३ ॥
माला वार्द्धक्यफलदा मन्त्राश्चैव तु यौवने ।
भूतार्णाद्यधिका बाल्ये तन्न्यूनफलदाः सदा ॥ ४/१६४ ॥
स्वाहा नमश्च शेषाश्च स्त्रीक्लीबपुरुषात्मकाः ।
वश्योच्चाटविषादादौ पुमांसः क्षुद्रकर्मणि ॥ ४/१६५ ॥
रोगापहारे वनिताः क्लीबाश्चान्यत्र कर्मणि ।
व्योमाग्निकूटदीपार्णैराग्नेयप्रचुरस्ततः ॥ ४/१६६ ॥
सौम्योवशिष्टस्तौ शस्तौ क्रूरसौम्ये च कर्मणि ।
नमः फट्कारयोगाभ्यां क्रूरसौम्यौ परैः परः ॥ ४/१६७ ॥
सिद्धिदो न भवेन्मन्त्रः सुप्तः किञ्चित्प्रबोधयुक् ।
वामदक्षमरुद्वाहकालयोस्तौ गुणौ मतौ ॥ ४/१६८ ॥
आग्नेयमन्त्रमेवं स्यात् सौम्यस्यैते विपर्ययात् ।
पुटद्वयप्रवाहे तु प्रबोधः सौम्यरौद्रयोः ॥ ४/१६९ ॥
अनिषीतिनराश्यर्णप्रमुखान् वर्जयेन्मनून् ।
युग्मेन्द्वनलवेदेन्दुचन्द्राक्षिद्व्यक्षिपाणयः ॥ ४/१७० ॥
व्योमाक्षिनेत्रपाणीन्दुनेत्रानलखखाग्नयः ।
खकैव्योमाक्षि व्योक्ष्याग्नि वर्णश्चाश्चयुजादयः ॥ ४/१७१ ॥
जीवान्ते रेवतीयुक्तौ वर्णैरेवं दिनक्रमः ।
वेदाग्न्यानलपाश्याक्षि लोचनैर्भूतपञ्चकैः ॥ ४/१७२ ॥
अजादयश्च तुहश्च शेषाः षष्ठगताः स्मृताः ।
इत्यर्णकल्पनाराशेरानुकूल्यप्रसिद्धये ॥ ४/१७३ ॥
यस्यानुकूलो मन्त्रो यः साधकस्य स सिद्धिदः ।
स्वस्तिके लिपिमालिख्य शङ्करं षोडशात्मकैः ॥ ४/१७४ ॥
सिद्धः साद्ध्यः स्वसिद्धारिः साधकस्यादिमाक्षरात् ।
मन्त्राद्यर्णान्तका भूयः सिद्धसाध्यादिकल्पनात् ॥ ४/१७५ ॥
सिद्धसिद्धाः सिद्धसाद्ध्यः सिद्धस्वसिद्धाः सिद्धारिः ।
एवमन्यत्र साद्ध्यादौ चतुर्द्धा कल्पना मता ॥ ४/१७६ ॥
जपादिष्टप्रदः सिद्धः साद्ध्यश्च जपतर्पणैः ।
स्वसिद्धः पाठमात्रेण साधकानिष्टदो रिपुः ॥ ४/१७७ ॥
प्रचुरः शत्रुवर्णैस्तु मन्त्रो नाशकरः स्मृतः ।
शिष्योऽपि शीलसंपन्नः पुत्रो वा शिवभक्तिमान् ॥ ४/१७८ ॥
तस्य देयोऽथ गुरुणा सहस्रं तं जपेद् गुरुः ।
पुत्रे क्षिप्तं छलात्प्राप्तं गृहीतं ग्रन्थरूपतः ॥ ४/१७९ ॥
प्रकारान्तरतः प्राप्तं जपेद्यदि विनाशकृत् ।
जपेच्चादिक्रियासिद्ध्यै मन्त्रपः साधकोत्तमः ॥ ४/१८० ॥
तस्माच्च साधनादन्ये मन्त्राः सर्वत्र सिद्धिदाः ।
एकार्णसिद्धिदश्चैव दशलक्षजपादिभिः ॥ ४/१८१ ॥
अर्णाधिक्यात् जपह्रासः कर्तव्यो युक्तितः क्रमात् ।
एवं बीजजपः कार्यस्तद्द्वित्रिगुणसंख्यया ॥ ४/१८२ ॥
मालात्मकस्य मन्त्रस्य जपसंख्या विधीयते ।
अनुक्तसंख्या मन्त्रस्य शतं साष्टसहस्रकम् ॥ ४/१८३ ॥
जपाद्दशांश तो होमस्त्वभिषेकविधौ मतः ।
मूलाद्दशांशतोऽङ्गानामर्चाहोमजपादिकम् ॥ ४/१८४ ॥
भाष्यादुपांशुः शस्तः स्यात्तस्माच्छस्तो हि मानसः ।
प्रागास्यश्चोत्तरास्यो वा मन्त्राणां स्याज्जपादिकम् ॥ ४/१८५ ॥
मन्त्राः सर्वे दिवापूर्वग्राह्यास्तत्र हितास्तु वा ।
इति कामि काख्ये महातन्त्रे मन्त्रोद्धारपटलो द्वितीयः ॥
ओं व्योमव्यापिने दिव्यान्तरिक्षरूपाय
सर्वव्यापिने प्रधानाय ओं नमश्शिवाय
महादेवाय व्योमाष्टभासायानेकाकृति -
त्रिरूपाय पदपदाय सर्वविघ्नविनाशाय
रौद्ररूपाय विशेषातीत भिलिपिलिकिंशिलि
लीपि वक्तदंष्ट्राय भयंकृतनयनाय
उपलेलिहानोग्रजिह्वाय ऋग्यजुः सामा -
थर्वेन्द्रियाय अनन्ताय अनाभाय
अनाश्रिताय ध्रुवाय शाश्वताय किल
कैलिप्य लम्ब योग पीठसंस्थिताय नित्यं
योगिने ध्यानाहाराय आधारायधेयाय
ईशानाय जगत्पतये शिवाय तत्पुरुषवक्त्राय
नमो घोरशिवायाष्टहृदयाय शिवकवचेन्द्राय
विद्युत्प्रपन्नाय वामदेवगुह्याय पचपचाय
वरवरेण्याय परिसुवीरानन्दसद्योजात मूर्तये
वामादिशक्त्याधाराय कालघ्नकामापहाय
बालाबाल मनोन्मन वामाज्येष्ठारुद्राय
शक्तिगुह्याय बहुरूपिणे नमः ।
शब्दाय शब्दरूपिणे स्वर्गाय स्वर्गरूपिणे
तेजसे तेजोरूपिणे रसाय रसरूपिणे गन्धाय
गन्धरूपिणे बीजाय बीजरूपिणे मूलाय
मूलरूपिणे अङ्कुराय अङ्कुररूपिणे नालाय
नालरूपिणे पत्राय पत्ररूपिणे गर्भाय
गर्भरूपिणे पुष्पाय पुष्परूपिणे फलाय
फलरूपिणे अनन्ताय अनन्तरूपिणे रेतसे
रेतोरूपिणे मनसे मनोरूपिणे अर्थाय
अर्थरूपिणे अहंकाराय अहंकाररूपिणे
प्रकृतिरूपाय प्रकृतिरूपिणे मायाय
मायारूपिणे शुद्धाय शुद्धरूपिणे विद्याय
विद्यारूपिणे नयाय नयरूपिणे सदाशिवाय
सदाशिवरूपिणे ओं हौं शिवाय नमः ॥
कालाग्निरुद्राय मूर्त्यष्टकविभूषिताय
नित्यानित्याय नमो हिरण्यबाहवे अनिलाय
अनिलवर्चसे हेतुकारणाय त्रिपुर त्रिपुरातीत
शान्तशान्तातीत घोरघोरतरश्शिवतमोऽ -
वताच्छिवतमः । अनन्तादे नादाय नमः ॥
ओं नमो गुह्याद् गुह्याय गोपूगोप्तये तुभ्यं नमः ॥
सविद्याधिपतये ज्योतिरूपाय परमेश्वरपराय
अचेतनाचेतन व्योमिन् व्यापिन् अरूपिन्
प्रथमप्रथम तेजस्तेजज्योतिरूप अग्नि अधूम
अभस्म अनादि अनादेनादे नाना नाना
धूधृ धूधू ओं भूः ओं भुवः ओं सुवः ओं महः
ओं जनः ओं तपः ओं सत्यं अनेकानेक
वामा वामा विभवे अव्यय अव्ययशान्ते
शासन शमन अतीत धामन् अनिधन निधनोद्भव
शिव सर्व सर्व सदाशिव योगाधिपतये शर्वञ्च
मुञ्च प्रथम तेजः भवः भावानाभूत भव भवोद्भव
शक्त्या शक्ति विद्याविद्य पुरुष अजात देश ओं क्लीं
श्लीं ओं ह्लीं ग्लीं ओं फट् फट् ओं हुं हुं
ओं द्रीं द्रीं ह्रीं ह्रीं ह्रीं ह्रूं ह्रूं ह्रूं त्रि नमः ॥
स्वस्ति स्वाहा स्वधा वषट् वौषट् हुं फट्
अनन्तानन्द स्वजलित स्वाहा । हेमगर्भधराय
स्वाहा सर्वभूत सुखप्रद सर्वसान्निद्ध्यकर
ब्रह्म् विष्णु रुद्र पर अनार्चित अस्तुतास्तुत
पूर्वस्थित पूर्वार्द्ध साक्षि साक्षि तुरु तुरु पतङ्ग
पतङ्ग ज्ञान ज्ञान शब्द शब्द सूक्ष्म स्थूल शिव
शर्व सदाशिव नमः ।
ओं आं ईं ऊं व्योमव्यापिने ओं यां
रां लां वां गां षां सां हां लां क्षां क्षीं
क्षूं क्षैं क्षौं क्षः प्रशान्तपतये नमः ।
जगत्प्रभवे नमः ।
ओं स्वाहान्तपतये नमः
तत्वात्मने नमः
शर्वात्मने नमः ।
अमृतात्मने नमः
रुद्राणां पतये नमः ।
मन्त्रविद्याविभागेन द्विविधा मन्त्रजातयः ।
मन्त्राः पुंदेवतामन्त्रा विद्याः स्त्रीदेवताः स्मृताः ॥
पुंस्त्रीनपुंसकात्मानो मन्त्राः सर्वे समीरिताः ।
पुंमन्त्रा हुंफडन्ताः स्युः स्वाहान्ताः स्युःस्त्रियो मताः ॥
नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ।
सर्वात्मने पराय परमेश्वराय योगाय योगसम्भवाय
करकर कुरुकुरु सद्य भव भव भवोद्भव
सर्वदेव सर्वकार्यप्रमथन सदाशिव प्रसन्न नमोऽस्तु ते स्वाहा
ओं सशिव शिनमः ओं मं शिवस्य हदया ज्वालानि स्वाहा
ओं शिवात्मक महातेजः सर्वज्ञश्च पराजितम् ।
आवर्तय महाघोर पिङ्गलं कवचप्रभम् ॥
आयाहि पिङ्गलं महाकवचं शिवाज्ञया मम
हृदयं बन्ध बन्ध पूर्वपूर्व भक्तिसूक्ष्म वज्रधर
वज्राशनि वज्रशरीर इदं शरीरमनुप्रविश्य
सर्वदुष्टां स्तम्भय स्तम्भय - हुं फट् स्वाहा ॥
ओं प्रस्फुर प्रस्फुर घोर घोरतर तनुरूप
चट चट प्रचट कह कह वम वम घातय घातय
हुं फट् - ओं जूं सः ॥
ओं तन्महेशाय विद्महे महादेवाय धीमहि
तन्नःशिवः प्रचोदयात् ।
ओं गणाम्बिकायै विद्महे महातपायै धीमहि
तन्नो गौरी प्रचोदयात् ।
ओं निधनपतान्तकाय स्वाहा ।
जलाय नमो जललिङ्गाय ते नमः ।
रुद्राय नमो रुद्रलिङ्गाय ते नमः ।
भवाय नमो भवलिङ्गाय ते नमः ।
ऊर्ध्वाय नमो ऊर्ध्वलिङ्गाय ते नमः ।
शिवाय नमः शिवलिङ्गाय ते नमः ।
पाठभेद :-
सारमिंश्च चकारश्च स्वराद्यो ना नामा मया ।
अधिकपाठ :-
मनमूढा प्रसण्याश्चैव वस्तुराशापकोन्नतः
पाठभेद :-
एहित्रगर्षपश्चैव योर्व्योमस्वरादिकम्
ष्णुतशब्द शिरारश्च धतस्याश्च वे तथा
रश्च पर्वत धानाक्षि पिश्च वश्च तथा च नः ।
अधिकपाठ :-
व्यानसंश्च नकारश्च नदौ रेभोति दिक् चत ।
पाठभेद :-
देव स्वर्गश्च भामश्च पकारः सविभागशः ॥
ष्ठं विद्यु यगकारश्च आतश्चैव यवौ तथा ।
जायामः सविसर्गश्च णेकारो दूपलाश्च रू ॥
यायौ तःसविसर्गौस्त मश्च मिश्च तथा चन ।
दीका शिवोहुं तथा वश्च षष्ठपङ्क्तौ समालिखेत् ॥
याले एकादाय रौलिश्च विनेयाः पाठरा रुच ।
चमून्दाः शसायौ च यरुणेतु यमूचकाः ॥
अयेवेदिश्च नोद्भाहु लिन्ते चैव सप्तमे ।
माक्तिघाश्च दौ कृश्च त्रश्च बीजादिकश्च यः ॥
सन्धेष्टकाश्च पङ्क्तौनौ ययौ सूपविधाद्भव ।
कृतमानस्तभापेस्तु मिश्च बीजादिकश्च कः ॥
तवभूश्च तथातश्च यश्च गोन्तेष्टमस्य तु ।
दिसरूति लितजीनाश्च इन्धिया पापचाश्च ये ॥
नपूवे मश्च रश्चैव लत्रणेत्रापि यष्टणा ।
स्यपुणानाश्च पर्वाश्च शकारान्तरमेव च ॥
स्वज्ञाघातु नवमे क्रमादालिख्य साधकः ।
रेफपूर्वो मकारश्च पातिनं वा तथैव च ॥
नकारपूर्वकं स्ना च श्चतावक्रश्च वेथवा ।
वाब्तसाश्च तथा रूरू स्वराद्यो यश्चणे तथा ॥
रूकायाश्च तथा नन पिंश्चतेव तथा च मा ।
सत्यामिमं भरतश्चैका नामान्ते दशमस्य तु ॥
यश्च लिश्च ययौ यश्च ताय-ईयास्तथैव च ।
न पूर्वोद्रा ममामाश्च रूरू पीपी नवाग् भवा ॥
मा पीपीत्रि तथामोमध्यानपादस्तथैव च ॥
मकार पूर्वो ध्रुवश्च पुष्ठशश्च तथा चला ।
ह्लाकारश्च रुकारश्च पङ्क्तावेकादशे क्षिपेत् ।
शिश्च नाच जकारश्च साख्यानपि शाश्च नः ॥
यश्च रश्च तथा जिज्ये पीपीणेणे तथैव च ।
नकारपूर्वस्वार्थश्च याणेभूपा असाश्चिवित् ॥
दशमश्च तथा शक्ति हृकारश्च नपूर्वकः ।
ज्ञश्च सब्दे पभद्राणे विलिखेदर्कपङ्क्तिके ॥
नद्ध्यानाकि तथाम्याना मापि वांश्शैशष्व च ।???????
णेणेस्वराज्यो बीबन्तो गयरूप सषीरव ॥
रेफपूर्वो बकारश्च बीजाद्यानां शिवौ तथा ।
विकारो दीपको यश्च विसूतान्नादिकश्च कः ॥
णाश्च गश्च सकारश्च आलिखेत्तु त्रयोदशे ।
जुधालिथो ययोद्वाच्च रेत्यकुस्वगरुस्तथा ॥
भाकरो रेफपूर्वश्च स्वराद्योपिश्च मा तथा ।
दातापह्यपि तुनाहयोद्याह्री विकरं क्षमा ॥
षांवापौ सञ्चरेपाद्यो वकारो दीपकोन्ततः ।
यकैगिराश्चरप्रण्य याद्रशा सास्वराधन ॥
णेयाश्च शिश्च मान्तद्य विना वेगात् ह्रियं कुरु ।
सुसाट ततभेदेसु श्वतश्चान्तेति पङ्क्तिके ॥
लिनेशगत् शवौ वश्च रायथाथ यगास्तथा ।
नपूर्वस्त स्वराद्यश्च रूपानिति उस्तथा ॥
अनाल अधिश्चैव द्यश्च ह्रींस्वदुलाश्च भाये ।
येवावाश्शिवौ वश्च पङ्क्तौ षोडशके न्यसेत् ॥
ध्यापवान् नचरीश्चैव गयल्विश्च ग एव च ।
सबिन्दुवत् भवेरूश्च हश्च विधश्च वैत्याश्च ॥
तश्च स्वराद्यश्च पश्चरू धूह्यपापुनौ ।
भाश्च पश्च शिखांश्चैव नमास्थर्गवभाश्च वै ॥
विश्वानुभ्य रसंयुक्तो मश्च सप्तदशे लिखेत् ।
ककारञ्च ययौ षष्ठ श्चकावर्तिस्थथैव च ॥
शकारो रेफसंयुक्तो नपूश्च धकारकः ।
आकारो रूपिकाणेसन्यनानाकरश्च विंश्चवै ॥
सूधौ ततश्च रूश्चैव सविसर्गो मकारकः ।
प्रेखक्षां विसर्गान्तो मकारश्च पुनश्च मः ॥
कुर्वशिश्चैव तेगच्छ हृज्ज्ञो चाष्टदशे लिखेत् ।
अवासुलगुरुपिश्च णेदंरागुहुदाश्च वै ॥
त्यान्तदेशो प्रधूशाये शकारस्वमवाग्भवम् ।
शश्च क्षुश्च तदीपञ्च रकारश्चैवकारजः ॥
लंश्च दंश्च यकारञ्च विस्तथैकोनविंशके ।
मविस्नव्यापिरूपेण येद्धाः शिवया तथा ॥
नद्योथथूके शश्चैव आकारस्ति नगक्षुम ।
मत्वासकास्य नासाश्चैवं पश्यरविंशके ॥
राकायेण तथाणेपि पुश्चतश्च स्वरार्वथौ ।
वनन्नामोमेकरस सविसर्गश्च तारकम् ॥
शावर्वरूश्च स्वाहर्चि सकारो क्षैश्च बिन्दुयुकम् ।
मर्वारश्च प्रमश्चैव रेफपूर्ववकारकम् ॥
भञ्च बञ्च वसुप्सुश्च चकारश्चैकविंशके ।
मापतेश्च तथापिश्च णेथपाच षपूर्वकः ॥
सेकारोहं शुरुमेति नारुतेग्रः सकारकम् ।
मषभाधश्च रुर्वक्षौ नेकारोत्म कुशश्चमे ॥
ऋकारपूर्वो जश्चैव आपयश्च नपूर्वकाः ।
ज्ञाचर्वश्च रदौतश्च द्वाविंशत्पङ्क्तिके न्यसेत् ॥
भूज्जानाथ नरेकार्द्ध विहिताश्च तथादरा ।
पाचजः सविसर्गश्च दीपानञ्च स्वराथवाक् ॥
भवोदक्ष नश्च मनचरुमौ वशी ।
मश्च याच तथा यश्च शश्वदुश्च तथाचयोः ॥
प्रश्च वश्च मकारश्च तयोर्विंशतिके लिखेत् ।
सेच रश्च तथापौच अश्च ते वाररूपिणे ॥
रश्च मथयाश्च द्योकारे हुश्च शश्च प्रजाच या ।
यस्तुशिश्च प्रकारश्च मकारः सविसर्गकः ॥
पञ्चकुश्च रसश्चैव सनिष्ठा रच ।
भुः शभाच तथायाच चतुर्विंशतिके क्षिपेत् ॥
बियौच चष्वश्च रूरू पींताराग्यश्च तथाननः ।
पश्चतिश्च विसर्गान्तो वर्गवगौ तममौचतः ॥
पश्चञ्च स्वातवागान्तिश्चशास्य तथैव च ।
रोविंशश्च पूर्वस्क योटषट्वद्देतारयै क्रमात् ॥
पञ्चविंशतिके पङ्क्तौ न्यसेत्तत्र विचक्षणः ।
नररूश्च वीणेभौः शवातौ मःसविसर्गकः ॥
रश्च आद्यास्विरादीर्घो नाथदोषच्चभातथा ।
पुनन्तर्वायसादा हृदिगर्णज्ञास्तथैव च ॥
हरौकदीपौ नापानौ विनिषड्विंशके न्यसेत् ।
विश्चणेच विशिवाश्चैव मोच वै ॥
तारं मेरूच स्वः शैवर्मावाक् भवन्तेच शच्चचौ ।
सर्वमध्व विसर्गः श पद्यार्च शिच्चद ॥
तयानुवार संयुग्जे लघूशाश्च ययौ तभः ।
जङ्कारो यश्चणाश्चैव मधश्वारः सप्तविंशके ॥
मश्चप्रश्च तथाद्याच पावेथेनश्च पार्श वै ।
ओङ्कारश्च तथादिजते वषट्कर रेफयुक् ॥
स्वश्चकारं तथा तश्च नेश्चरश्च सवौविधिः ।
आकारो मरणश्चैव तंकारश्च सपूर्वकः ॥
तारकौ सविसर्गश्च धीचविश्च हिनस्तथा ॥
नः शकुश्च क्रमेणैव अष्टाविंशतिके न्यसेत् ।
कूश्च थश्च यकारश्च स्वराद्ये रश्च मेवयुक् ॥
वाक्भवो मधुभाजैश्च ओङ्कारो भूत एव च ।
अकारश्च सबिन्दुश्च येनमेद्या प्रयेव च ॥
जरश्च तथा भाच करभाश्च तभौद्ध वै ।
ओंकारः श मकारश्च कातपाः श तथाचमौ ।
द्राकारश्च तथातेच एकोनत्रिंशके न्यसेत् ॥
पिश्चनश्च ततो चैव शुश्च वश्च तथाच न ।
हकारसविसर्गश्च यावो चैव प्रदीपकम् ॥
भूश्च तश्च तथावाचं ख्नमः सविसर्गकः ।
वश्च भश्च सलिश्चैव तिकारो रेफसंयुतः ॥
कश्च भश्च इकारश्च यश्च तुश्च पतौहि वै ।
नद्व्यञ्चौ समेतश्च दकाराश्चन्दथौ तथा ॥

ककार पूर्वमिश्चैव ऊकारश्च सबिन्दुकः ॥
व्योजश्च हृपौ भश्चनस्वाद्याश्च सबिन्दुयुक् ।
कौशफट् भव भेन्नश्च तपूर्वो मश्च निश्चकः ॥
लिकारो बिन्दुसंयुक्तो मेचभश्च तथाचभाः ।
भकारश्च तथा गाप द्वात्रिंशत्पङ्क्तिके न्यसेत् ॥
भ्यचे माश्च प्रदीपञ्च भकञ्चैव प्रदीपकाः ।
नकारपूर्वकस्ताच दश्चवव्यतथैवच ॥
प्रकारश्च तपूर्वश्च मकारश्च कपूर्वकाः ।
यश्चमश्च प्रदीपौ यौ वाच क्षुश्च रभादघा ॥
यवौ मचौ स्वयद्रयते मो यैवास्तुथा ।
</poem>
== स्नानविधिप्रारम्भः ==
<poem>
अथ स्नानविधिं वक्ष्ये परमेशप्रकाशितम् ।
सर्वदोषहरं पुण्यं मनःप्रीतिकरं परम् ॥ ५/१ ॥
चारुणञ्च तथाग्नेयं मान्त्रम्मानसमेव च ।
वायव्यञ्च महेन्द्राख्यं स्नानं षड्विधमीरितम् ॥ ५/२ ॥
ब्राह्मे मुहूर्ते चोत्थाय हृत्पङ्कजगतं शिवम् ।
निष्कम्पं दीपिकाकारं प्रणवात्मकमव्ययम् ॥ ५/३ ॥
ध्यायन् प्रभाते विमले दण्डपाणिः सहायवान् ।
गत्वा निकेतनाद्बाह्ये विजनं सजलाशयम् ॥ ५/४ ॥
स्नानंमावश्यकं तत्र कुर्याद्वै साधकोत्तमः ।
मूत्रकण्टककीटास्थिविष्ठादिप्रावृतं त्यजेत् ॥ ५/५ ॥
मार्गशष्प नदीगर्त तोय गोमय भस्मसु ।
श्मशानाराम गोष्ठैकद्रुमशृङ्गाटकादिषु ॥ ५/६ ॥
आवश्यकं न कर्तव्यं स्त्रीगोविप्रार्कलिङ्गिनाम् ।
चन्द्रस्य सम्मुखो भूत्वा भूतानां विकृतेस्तथा ॥ ५/७ ॥
दिबा वा सन्ध्ययोः सौम्यवक्त्रः कर्णस्थसूत्रकः ।
शिरोवकुण्ठनं कृत्वा त्यजेत्तदुभयन्नरः ॥ ५/८ ॥
रात्रौ दक्षिणवक्त्रस्तु तृणाद्यन्तरिते भुवि ।
मौनी गुल्मादिसञ्च्छन्नो नासाग्राहितलोचनः ॥ ५/९ ॥
विष्ठावियत्प्रजननदिक्षु दृष्टिं न च क्षिपेत् ।
नासापीडनानिष्ठीवह्रस्वोद्नारादिकं त्यजेत् ॥ ५/१० ॥
तृणलोष्ठादिमृत्खण्डैर्मलङ्गुदगतं हरेत् ।
काष्ठगोमयपाषाणकास्थ्यादि परिवर्जयेत् ॥ ५/११ ॥
सवासा वामहस्तेन सङ्गृह्य जननन्नरः ।
शुद्धामशर्करां मृद्वीं मृदं शौचार्थमाहरेत् ॥ ५/१२ ॥
वृक्षाम्बुसेतुवल्मीकग्राममध्योत्करस्थिताम् ।
मृदमन्यावशिष्टाञ्च शौचार्थं परिवर्जयेत् ॥ ५/१३ ॥
प्रक्षालिताम्बुतीरे तु विन्यसेत्स्वत्य दक्षिणे ।
शौचं समाचरेदेकमृदा जननशोधनम् ॥ ५/१४ ॥
तथैव वामहस्तन्तु सप्तभिर्गुदशोधनम् ।
दशभिर्वामहस्तन्तु सप्तभिश्चोभयङ्करम् ॥ ५/१५ ॥
पादौ पाणीच संशोद्ध्य मृदा चैव सकृत्सकृत् ।
आमलीफलमात्रन्तु मृत्पिण्डं योजयेत्सकृत् ॥ ५/१६ ॥
सोपवीतः समुत्थाय तटेऽन्यत्राचमेद् बुधः ।
गृहे मैत्रपदे वापि कृत्वा चावश्यकक्रियाम् ॥ ५/१७ ॥
शौचं समाचरेत् स्नानं मन्दिरे प्राग्विधानतः ।
संग्राह्य दन्तकाष्ठन्तु हरेद्दन्तगतं मलम् ॥ ५/१८ ॥
वस्वर्काङ्गुलमानन्तु काष्ठं नैष्ठिकभोगिनोः ।
सार्द्रं त्वगन्वितमृजुं समच्छेदमृजूद्वहम् ॥ ५/१९ ॥
कनिष्ठाङ्गुलिनाहं तु कर्तव्यमुभयं नृणाम् ।
करञ्जञ्चिरिबिल्वञ्च खदिरञ्चार्जुनन्तथा ॥ ५/२० ॥
अपामार्गञ्च मुक्त्यर्थं जंब्वाम्रककुभादिकम् ।
भुक्तये धवधात्री च माकुलीनिम्बसम्भवम् ॥ ५/२१ ॥
शिग्रुश्लेष्मातकैरण्डपिशाचतरुसम्भवम् ।
वर्जयेद्दन्तकाष्ठं तदन्यल्लोहविनिर्मितम् ॥ ५/२२ ॥
नद्यः समुद्रगाश्चैव तटाकाश्च नदास्तथा ।
पल्वलाः प्लवनाश्चैव संगमाः पुण्यतीर्थकाः ॥ ५/२३ ॥
श्रेष्ठास्तु दीक्षितस्येह पुष्करिण्यान्तु मध्यमम् ।
अधमा दीर्धिकाद्यासु कूपे चैवाधमाधमम् ॥ ५/२४ ॥
विशुद्धमृत्स्नया कुर्याद्वारुणं तु चतुर्विधम् ।
वस्वङूगुलप्रमाणन्तु खात्वोद्धृत्यास्त्रमुच्चरन् ॥ ५/२५ ॥
हृदयेन मृदं ग्राह्य तेन खातं प्रपूरयेत् ।
निधाय जलतीरे तु संसिच्य शिरसैव तु ॥ ५/२६ ॥
तृणादीन् शिखया शोध्य कवचेन त्रिधा भजेत् ।
नाभेरधस्ताद्भागेन चान्येनास्त्रं समुच्चरन् ॥ ५/२७ ॥
सप्तधा परतः सर्वाण्यङ्गानि क्षालयेद्बुधः ।
हस्ताभ्यामास्यदृङ्नासाश्रोत्रादीनि पिधाय च ॥ ५/२८ ॥
प्राणानायम्य हृद्यस्त्रन्निमज्यार्कद्युतिं स्मरेत् ।
जले स्नात्वैवमुत्तीर्य दीक्षायुक्तस्त्रिवर्णकः ॥ ५/२९ ॥
अविरक्तः पुरा ब्राह्मीं सन्ध्यां वन्देत साधकः ।
भजेत्तदन्ते शैवीन्तु संक्षेपविधिमाश्रितः ॥ ५/३० ॥
सर्वकामप्रसिद्ध्यर्थं मेलामन्त्रं जपेद् बुधः ।
इतरस्तु विरागात्मा लौकिकार्थपराङ्मुखः ॥ ५/३१ ॥
कुर्याद् ब्राह्मीं नवा कुर्याच्छैवीमेव नियोगतः ।
दीक्षितो गणजातिश्चेदस्त्रसन्ध्यामुपासयेत् ॥ ५/३२ ॥
अवशिष्टमृदो भागं संग्राह्य जलमध्यतः ।
स्थित्वा वामकरे कर्यात् त्रिभागमुदगाननः ॥ ५/३३ ॥
चतुरङ्गैः सकृद्दक्षं सप्तधा हेतिनेन्द्रगम् ।
मूलेन दशधेन्दुस्थं भागमेवन्तु मन्त्रयेत् ॥ ५/३४ ॥
दिक्ष्वस्त्रजप्तं प्रक्षिप्य मूलजप्तं जले न्यसेत् ।
कल्पयेच्छिवतीर्थन्तु बाहुभ्रमणमात्रतः ॥ ५/३५ ॥
लिप्त्वाङ्गजप्तभागेन सर्वाण्यङ्गानि मस्तकात् ।
निमज्य पिहितद्वारो ध्यायेच्छिवमनामयम् ॥ ५/३६ ॥
सूर्यसोमात्मकौ हस्तौ संयोज्य घटमुद्रया ।
मूलमन्त्रादिकैर्मन्त्रैः सेकः कार्यः सकृत्सकृत् ॥ ५/३७ ॥
सुगन्धामलकाद्यैस्तु स्नायाद्राजोपचारतः ।
राजवद्धेमपीठादिसुस्थितो हेमकुम्भकैः ॥ ५/३८ ॥
स्नात्वा निमज्जनार्थन्तु कुर्याच्छब्दैः सुमङ्गलैः ।
तीर्थे विन्यस्तमन्त्रांस्तु संहृत्य स्वहृदि न्यसेत् ॥ ५/३९ ॥
अथवा स्वगृहे शुद्धवारिणा शीतलेन वा ।
तप्तेन लिप्तभूमिस्थपीठस्थः स्नानमाचरेत् ॥ ५/४० ॥
नवाष्टपञ्चभिः कुम्भैः शिवमन्त्रप्रकल्पितैः ।
वाससा परिशुद्धेन धवलेन शरीरगम् ॥ ५/४१ ॥
उद्वर्त्यापनयेत्सम्यक् स्नानवारि शनैः शनैः ।
भुक्तिमुक्तिदमाग्नेयं कार्यं शुद्धेन भस्मना ॥ ५/४२ ॥
स्नानं चतुर्विधं भस्म भवेत्कल्पादिभेदतः ।
कल्पञ्चैवानुकल्पञ्च उपकल्पमकल्पकम् ॥ ५/४३ ॥
तेष्वाद्यं तत उत्कृष्टतममन्यदभावतः ।
रोगादिरहिता या गौः कृष्णा वा कपिलाथवा ॥ ५/४४ ॥
तस्या गोमयमादाय खस्थं पद्मदलादिना ।
सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत् ॥ ५/४५ ॥
विमले शोषयित्वा तु दहेद्घोराच्छिवाग्निना ।
शुष्कं वनगतं यत्तु गोमयञ्चूर्णितं तथा ॥ ५/४६ ॥
निर्दग्धमनुकल्पाख्यमापगादिगतं तु यत् ।
वस्त्रेणान्तरितं भस्म गोमूत्रैर्बद्धपिण्डकम् ॥ ५/४७ ॥
दग्धं प्रागुक्तविधिना भवेद्भस्मोपकल्पकम् ।
अन्यैरापादितं भस्म अकल्पकमिति स्मृतम् ॥ ५/४८ ॥
जात्यादिदोषनिर्मुक्तं रोगादिरहितञ्च यत् ।
तेन स्नानं प्रशस्तं स्यान्नान्येन मुनिसत्तमाः ॥ ५/४९ ॥
एष्वेकतममादाय पात्रेषु कलशादिषु ।
त्रिसन्ध्यमाचरेत्स्नानं यथासंभवतोऽथवा ॥ ५/५० ॥
सन्ध्यायाः पूर्वतो ब्राह्मं कृत्वाऽऽकारं शिवद्विजः ।
सन्ध्यां समाचरेत्पूर्वं शैवीं वाऽवश्यकन्तथा ॥ ५/५१ ॥
जलस्नानं पुरा कृत्वा प्रातराग्नेयमभ्यसेत् ।
सन्ध्यान्तरे तथाग्नेयं केवलं वा सवारुणम् ॥ ५/५२ ॥
शक्तानां विधिरेवं स्यादशक्तानां यथेच्छया ।
आग्नेयं वारुणस्नानादसंख्येयफलावहम् ॥ ५/५३ ॥
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमभ्यसेत् ।
शोधयेदनपेक्षस्तु शुद्ध्यै शोद्ध्यस्य वस्तुनः ॥ ५/५४ ॥
यथा गङ्गाजलं शुद्धं तथा भस्मापि पावनम् ।
भासयत्येव यद्भस्म शुभं भासयते च यत् ॥ ५/५५ ॥
भक्षणात्सर्वपापानां भस्मेति परिगीयते ।
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥ ५/५६ ॥
लोकवश्यकरं पुण्यं भस्मस्नानं दिने दिने ।
ज्वरापस्मारपैशाचब्रह्मराक्षसपिडिताः ॥ ५/५७ ॥
भस्मलेपनमात्रेण स्वस्था मर्त्या भवन्ति च ।
मद्यं पीत्वा गुरुदारांश्च गत्वा
स्तेयं कृत्वा ब्रह्महत्याञ्च कृत्वा ।
भस्मच्छन्नो भस्मशययाशयानो
रुद्राध्यायी मुच्यते सर्वपापैः ॥ ५/५८ ॥
भस्मस्नानं जलस्नानात्कोटिपुण्यगुणं भवेत् ।
यतिरुद्धूलनेनैव स्नायान्नित्यमुदङ्मुखः ॥ ५/५९ ॥
गृही यथाङ्गमालभ्य तिलकैर्वा त्रिपुण्ड्रकैः ।
संगृह्य मुष्टिमात्रं तु दक्षहस्तेन भस्मनः ॥ ५/६० ॥
धारणाध्यानयोगेन विशोद्ध्य परमीकृतम् ।
विधाय शोधयेन्मूलब्रह्माङ्गमनुभिस्तथा ॥ ५/६१ ॥
अग्निरित्यादिना भस्म स्थाप्य वामकरे तु तत् ।
अस्त्रेण दक्षहस्तेन मलस्नानन्तु मस्तकात् ॥ ५/६२ ॥
कृत्वा पुनर्विधिस्नानं साभिषेकं समाचरेत् ।
ईशानेन कमुद्धूल्य मुखं तत्पुरुषेण तु ॥ ५/६३ ॥
हृदयं घोरमन्त्रेण गुह्यं वामेन मन्त्रतः ।
सद्योजातेन सर्वाङ्गं षडङ्गैर्हृदयादिकम् ॥ ५/६४ ॥
सव्यापसव्यहस्ताभ्यां शनैरुद्धूलयेत्तनुम् ।
नच गुर्वग्निदेवानां सन्निधौ मार्ग एव च ॥ ५/६५ ॥
अशुद्धभूतले चैव भस्मस्नानं नयेत्सुधीः ।
क्वचित् शस्तं हि देवस्य सन्निधावग्निसन्निधौ ॥ ५/६६ ॥
उद्धूलनविधिः प्रोक्तो विप्रस्य शिवशासने ।
उद्धूलनेप्यशक्तश्चेत् त्रिपुण्ड्रं वापि कारयेत् ॥ ५/६७ ॥
त्रिपुण्ड्रं विधिवत्कुर्याद्विप्राद्यगृहमेधिनः ।
नृपविट्शूद्रजातीनां पट्टपुण्ड्रं ललाटके ॥ ५/६८ ॥
पञ्चकाष्टद्विरष्टाष्टसन्धिषु प्रविधीयते ।
मूर्धा ललाटकर्णौ च चक्षुषी घ्राणकौ तथा ॥ ५/६९ ॥
आस्यं ग्रीवा तु चांसौ च बाहू कूर्परकौ तथा ।
मणिबन्धौ च हृन्नाभिमेढ्रं पायुस्तथैव च ॥ ५/७० ॥
ऊरू च जानुनी चैव जंघे स्फिचौ तथैव च ।
प्रियञ्चैवाष्टमूर्तीनां विद्येशानां तथैव च ॥ ५/७१ ॥
दिक्पालानां वसूनाञ्च मूर्द्धादि परिकल्पयेत् ।
ललाटं कर्णौ चांसौ च बाहू च मणिकूर्परौ ॥ ५/७२ ॥
हृदयं जठरञ्चैव नाभिः पार्श्वौ तथैव च ।
पृष्ठं क इति विज्ञेयाः सन्धयः षोडश क्रमात् ॥ ५/७३ ॥
शिववह्न्यादिमूर्तीनां वामादीनां तथैव च ।
अश्विन्योस्तु प्रियं ज्ञेयं मूर्द्धादिपरिकल्पनम् ॥ ५/७४ ॥
शिरो ललाटं कर्णौ च बाहू च हृदयन्तथा ।
नाभिः पृष्ठ इति ज्ञेयास्त्वष्टौ वै सन्धयः क्रमात् ॥ ५/७५ ॥
क्रमेण ब्रह्मणश्चैव मृषीणां तु प्रियं भवेत् ।
ललाटबाहुहृन्नाभि पञ्च सन्धिषु वा भवेत् ॥ ५/७६ ॥
शिवेश रुद्र कृष्णात्म भुवाञ्च प्रीतिसिद्धये ।
मध्यतर्जन्यनामाभिस्त्रिपुण्ड्रं विधिवन्नयेत् ॥ ५/७७ ॥
षडङ्गुल प्रमाणेन विप्राणान्तु त्रिपुण्ड्रकम् ।
नृपाणां चतुरङ्गुल्यं वैश्यानां द्व्यङ्गुलं भवेत् ॥ ५/७८ ॥
शूद्राणामपि सर्वेषां एकाङ्गुल्यं त्रिपुण्ड्रकम् ।
स्त्रीणां तथैव कुर्वीत अन्यजातिस्तु वर्जयेत् ॥ ५/७९ ॥
स्त्रीणान्तु तिलकं वापि पट्टाकारमथापि वा ।
अथ दीपसमाकारमर्द्धचन्द्रं ललामकम् ॥ ५/८० ॥
पुंस्त्रीनपुंसकादीनां सर्वेषां प्रविधीयते ।
पेषितं चन्दनेनैव वारिणा संयुतं तु वा ॥ ५/८१ ॥
केवलं वा विधातव्यं भस्मस्नानं दिनेदिने ।
प्रातर्मध्याह्नसायाह्नमध्यरात्रेषु सर्वदा ॥ ५/८२ ॥
त्रिकालं वा द्विकालं वा चैककालमथापि वा ।
भस्मस्नानं यथायोग्यं यः कुर्यात्सकृदेव वा ॥ ५/८३ ॥
सर्वपापविनिर्मुक्तः साधयेदीप्सितं फलम् ।
ताम्राब्जनालिकेराश्मवैणवालाबुचर्ममिः ॥ ५/८४ ॥
स्वहस्तेनाचमेत्तैस्तु न तेनाप्रयतो भवेत् ।
स्वप्रमाणजलैर्युक्तं प्रस्थयुग्मापि संग्रहेत् ॥ ५/८५ ॥
तालमुद्रां ततः कृत्वा कौपीनं परिवर्तयेत् ।
वस्त्रं वातिसितं पीतं कषायं चोपवीतकम् ॥ ५/८६ ॥
एकद्विहस्तविस्तारं दीर्घं कौपीनमुच्यते ।
त्रिगुणं कटिसूत्रं स्यात् द्विश्च ग्रन्थिनियन्त्रितम् ॥ ५/८७ ॥
कार्पासनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।
सूत्रमेकन्तु शूद्राणां द्विसरं भवेत् ॥ ५/८८ ॥
त्रिसरं क्षत्रियाणान्तु विप्राणां सप्तसंख्यकम् ।
यद्वा पञ्चसरं तेषां नवसूत्रमथापि वा ॥ ५/८९ ॥
सोत्तरीयन्तु विप्राणां शूद्राणां केवलं तु तत् ।
क्षत्रविट्छूद्रजातीनां यदुक्तं चोपवीतकम् ॥ ५/९० ॥
पूजादिमन्त्रकाले तु धार्यन्नो धार्यमेव वा ।
अनुलोमादिवर्णानां युक्तायुक्तं विचार्य च ॥ ५/९१ ॥
जातिभेदोक्तविधिना न धार्यं धार्यमेव च ।
चतुरङ्गुलमानेन त्रिगुणीकृतसूत्रकम् ॥ ५/९२ ॥
वस्वर्कसंख्यया तेन सूत्रं तु त्रिगुणीकृतम् ।
वर्तयेत्प्राङ्मुखो भूत्वा तोयसिक्तं समं शुभम् ॥ ५/९३ ॥
ततस्तत् त्रिगुणीकृत्य समं संवर्तिताग्रकम् ।
वामेतरकरादूर्ध्वं भूगतौ परिवर्जयेत् ॥ ५/९४ ॥
निधाय तद्द्रुमादौ तु यथाग्रौ भूमिमागतौ ।
तद्भ्रमान्मुनितृप्तिः स्यात्तृणं दत्वाऽथ शोधनम् ॥ ५/९५ ॥
तत्सर्वं हृदयेनैव मन्त्रेण हृदि कल्पयेत् ।
आयुष्कामी त्वनेकञ्च द्वन्द्वसूत्रञ्च धारयेत् ॥ ५/९६ ॥
इतरार्थी त्वयुग्मञ्च स्वल्पसूत्रन्तु धारयेत् ।
पश्चादादाय सूत्रं तद् द्विगुणं कण्ठसंगतम् ॥ ५/९७ ॥
आत्मस्तनान्तमानीय तेनैव त्रिगुणीकृतम् ।
ग्रन्थौ त्रिवेष्टनं कृत्वा सूत्रमेवं विधीयते ॥ ५/९८ ॥
यवाद्यवार्द्धमानं स्यादुत्तरीयस्य विस्मृतम् ।
तन्मानमुपवीतस्य सममेव विधीयते ॥ ५/९९ ॥
पुरुषाघोरवामाजमन्त्रा विप्रादितः क्रमात् ।
स्वस्वजात्युक्तमन्त्रेण धार्यं तदुपवीतकम् ॥ ५/१०० ॥
वारुणं वा गृहस्थानां यतीनां भस्मना कृतम् ।
स्नानान्तरं तयोरेव नैमित्तिकमुदाहृतम् ॥ ५/१०१ ॥
ऐन्द्रञ्चातपवृष्ट्या स्यात्प्राङ्मुखेनोर्ध्वपाणिना ।
स्मरता मूर्धजं मन्त्रं गच्छता पदसप्तकम् ॥ ५/१०२ ॥
कुर्यात् गोकुलसञ्चारधूलिमिर्वायुसम्भवैः ।
पुरुषेणैव मन्त्रेण स्नानानामुत्तमोत्तमम् ॥ ५/१०३ ॥
सद्यादि मन्त्रजप्तेन तोयेन परिमार्जनम् ।
मान्त्रं तद्वारुणस्नानविधावपि विधीयते ॥ ५/१०४ ॥
प्रणवस्मरणोपेतं प्राणायामेन मानसम् ।
सर्वस्नानेषु कर्तव्यं केवलं वा विधीयते ॥ ५/१०५ ॥
यावच्छरीरसंशुद्धिस्तावच्छुद्धिर्न पश्यताम् ।
भावशुद्ध्या विशुद्धो यः स शुद्धो नेतरः सदा ॥ ५/१०६ ॥
खरवायसगृध्रान्त्यजनश्वग्रामसूकरैः ।
कुक्कुटप्रेतभूसङ्गशावसूतकपातकैः ॥ ५/१०७ ॥
शाक्यनिर्गन्ध निर्माल्य भोजकैरन्यलिङ्गिभिः ।
अन्यैश्च निन्दितैः स्पृष्टो यदि स्नानं समाचरेत् ॥ ५/१०८ ॥
भागद्वयेप्युपगते नाभितोयोर्ध्वसङ्गते ।
प्रक्षालनादधः स्नानाद्विशुद्धिः स्यात्करादृते ॥ ५/१०९ ॥
छर्दितेऽभ्युदिते सूर्ये श्मश्रुकर्मणि मैथुने ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते ॥ ५/११० ॥
आजानु पादौ प्रक्षाल्य हस्तावामणिबन्धनात् ।
कुक्कटासनसंस्थस्तु जानुमध्यगपाणियुक् ॥ ५/१११ ॥
सम्यग् बद्धशिखो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
हस्तं गोकर्णवत्कृत्वा माषमग्नजलं पिबेत् ॥ ५/११२ ॥
अप्राणियुगफेनञ्च बुद्बुदादिविवर्जितम् ।
ब्रह्मतीर्थेन मूलेन त्रिः पीत्वा द्विः प्रमार्जयेत् ॥ ५/११३ ॥
ओष्ठाङ्गुष्ठमूलेनानामिकाङ्गुष्ठयोगतः ।
चक्षुर्नासाश्रुती बाहू वक्षो नाभिं शिरः स्पृशेत् ॥ ५/११४ ॥
समन्त्राचमनं पश्चादात्मविद्या शिवाणुभिः ।
स्वधान्तैः सलिलं पीत्वा हेतिनोष्ठौ प्रमार्जयेत् ॥ ५/११५ ॥
हृन्मन्त्रेणाक्षि संस्पृशन् कुर्यात् सव्यापसव्यतः ।
अथवान्यप्रकारेण कुर्यादाचमनं बुधः ॥ ५/११६ ॥
माषमग्नजलं ग्राह्यं निर्दोषं त्रिः पिबेत्पुनः ।
आस्यं द्विः प्रमृजेदस्त्रात्सकृन्मृज्य मुखं शनैः ॥ ५/११७ ॥
पादावभ्युक्ष्य मूर्धानमङूगुष्ठानामिकेन तु ।
सव्यात्तु चक्षुषी स्पृष्ट्वा तर्जन्याङूगुठकेन तु ॥ ५/११८ ॥
नासाद्वारावुभौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठयोगतः ।
श्रोत्रे स्पृष्ट्वा जलोपेतांगुष्ठेन तु बाहुकौ ॥ ५/११९ ॥
नाभिमङ्गुष्ठकेनैव सर्वाङ्गुल्यग्रसन्धितः ।
हृत्प्रदेशे तु संस्पृश्य सर्वाङ्गुल्या स्वमूर्द्धनि ॥ ५/१२० ॥
ऋग्यजुः सामवेदानां त्रिः पानात्तृप्तिरिष्यते ।
ओष्ठद्विमार्जनात्तत्र तथाथर्वेतिहासयोः ॥ ५/१२१ ॥
आस्यसम्मार्जनादत्र गणेशस्य प्रियं भवेत् ।
हृच्छिरोभ्युक्षणेनैव ऋषीणान्तु प्रियं भवेत् ॥ ५/१२२ ॥
श्रोत्रयोः स्पर्शनेनैव प्रियं स्यात्सोमसूर्ययोः ।
नासिकास्पर्शनेनैव अश्विन्योस्तु प्रियं भवेत् ॥ ५/१२३ ॥
श्रोत्रसंस्पर्शनेनैव दिशां प्रीतिस्तथा भवेत् ।
इन्द्रविष्ण्वनलानाञ्च बाह्वोर्नाभेर्हृदस्तथा ॥ ५/१२४ ॥
क्षुते च कफजाते च सद्य आचमनं नयेत् ।
स्पर्शयित्वा ततः श्रोत्रमंगुष्ठेनास्यकं मृजेत् ॥ ५/१२५ ॥
तीर्थं कनिष्ठिकामूले प्राजापत्यं प्रतिष्ठितम् ।
कराग्रे दैविकं तीर्थं तन्मूले ब्राह्ममुत्तमम् ॥ ५/१२६ ॥
पैतृकं देशिनीमूले पर्वसन्धिषु चार्षकम् ।
वामपाणितले सौम्यमाग्नेयन्दक्षिणे तले ॥ ५/१२७ ॥
सकलीकृतदेहस्तु ततः सन्ध्यामुपासयेत् ।
ब्राह्मी ब्रह्मगुणोपेतां ब्रह्मकाले विचिन्तयेत् ॥ ५/१२८ ॥
मध्याह्ने वैष्णवीं ध्यायेदशेषाच्युतलक्षणाम् ।
साये रौद्रीं तु संध्यायेद् रुद्रलक्षणलक्षिताम् ॥ ५/१२९ ॥
नियामकां त्रिमूर्तीनां साक्षिणीं सर्वकर्मणाम् ।
या शक्तिः परमेशस्य सा सन्ध्येति निगद्यते ॥ ५/१३० ॥
तद्दीप्तिमध्यगो भूत्वा प्रातः कर्माणि साधयेत् ।
मेलामन्त्रक्रमेणैव शम्भुशक्तिं पुनर्जपेत् ॥ ५/१३१ ॥
ततस्तद्वन्दनं कार्यं महास्त्रजपपूर्वकम् ।
अभ्युक्षणात्परं कर्म कर्तव्यं तदनन्तरम् ॥ ५/१३२ ॥
वामहस्ते जलं स्थाप्य स्रवच्छिरसि योजयेत् ।
मूलाङ्गब्रह्मभिर्मन्त्रैर्दक्षहस्तेन नित्यशः ॥ ५/१३३ ॥
भूयोपि दक्षहस्तस्थं शेषवारिरविद्युतिः ।
आहृत्य पूरकेणैव दक्षनासापुटेन तु ॥ ५/१३४ ॥
दक्षनासासमीपस्थं दक्षहस्तं तु सोदकम् ।
तस्मात्तोयाच्च निर्दग्धं पापं देहेऽसितप्रभम् ॥ ५/१३५ ॥
रेचकाद्दक्षनासान्तान्निर्गच्छत्परिचिन्तयेत् ।
तद्देहेदक्षहस्तस्थजलक्षेपात् शिवास्त्रतः ॥ ५/१३६ ॥
कृत्वैवं मार्जनाद्यन्तु ततस्तर्पणमारभेत् ।
देवादीनां यथायोज्यद्रव्यैर्वारिविसर्जनम् ॥ ५/१३७ ॥
हस्ताभ्यां तर्पणं प्रोक्तं त्रयाणां तर्पणं स्मृतम् ।
मन्त्राश्च देवता वाणी दिशस्तत्पतयस्तथा ॥ ५/१३८ ॥
मुनयोऽथ मनुष्याश्च सिद्धाश्चैव ग्रहास्तथा ।
भूतानि पितरश्चान्ये ज्ञातयो गुरवस्तथा ॥ ५/१३९ ॥
तर्पणीया यथान्यायं साधकैः सिद्धिकांक्षिभिः ।
स्वाहया मन्त्रदेवानां सरस्वत्यास्तथैव च ॥ ५/१४० ॥
दिक्पतीनां मुनीनां तु नमोऽन्तं मनुजे वषट् ।
सिद्धानां ग्रहसंघानां नमोन्तं परिकल्पयेत् ॥ ५/१४१ ॥
भूतानां वौषडन्तं स्यात् पित्रादीनां स्वधान्तकम् ।
सर्वं हृदयपूर्वं स्यात् कुसुमं देवतर्पणम् ॥ ५/१४२ ॥
कुशो मुनीनां विहितः पित्रादीनां तिलं स्मृतम् ।
शेषाणामक्षतैः कुर्याद्यथायोग्योपवीतधृक् ॥ ५/१४३ ॥
असव्यं सव्यकं सव्यमुपवीतं त्रयेण तु ।
मन्त्रास्तु मूलब्रह्माङ्गहेतयो मुनिसत्तमाः ॥ ५/१४४ ॥
शिवेशविष्णुरुद्राब्जभुवो देवाः प्रकीर्तिताः ।
वाग्वादिनी भवेद्वाणी दिशश्चेन्द्रादयः स्मृताः ॥ ५/१४५ ॥
इन्द्रादयस्तत्पतयो ब्रह्मानन्तावसानकाः ।
अत्रिश्च विश्वामित्रश्च पुलस्त्यः पुलहः क्रतुः ॥ ५/१४६ ॥
वसिष्ठश्च मरीचिश्च मुनयः परिकीर्तिताः ।
ततो मनुष्याः सनकः सनन्दनसनातनौ ॥ ५/१४७ ॥
सनत्कुमारः कपिलो भृगुः पञ्चशिखस्तथा ।
शिवो रुद्रो भवानी च ब्रह्मविष्ण्वग्निवायवः ॥ ५/१४८ ॥
धर्मः सूर्यश्चन्द्रमाश्च सिधाश्चैते प्रकीर्तिताः ।
आदित्यसोमावङ्गारबुधौ चैव बृहस्पतिः ॥ ५/१४९ ॥
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ।
भूतान्यसंख्यसंख्यानि भूतेभ्य इति योजयेत् ॥ ५/१५० ॥
सोमश्च पितृमांश्चैव अङ्गिरा अर्यमा तथा ।
अग्निश्च कव्यवाहाद्याः पितरः परिकीर्तिताः ॥ ५/१५१ ॥
पितृपत्न्यादिकं सर्वं क्रमाद्बुध्वा समाचरेत् ।
आचम्य दद्यात्सूर्यार्ध्यं त्र्यक्षरेण तु मन्त्रतः ॥ ५/१५२ ॥
तद्विधिः सूर्यपूजायां विस्तरेण विधास्यते ।
ध्यात्वा सूर्यं यथान्यायमुपस्थानं षडङ्गतः ॥ ५/१५३ ॥
मेलामन्त्रं ततो जप्त्वा शिवशक्तिविभागतः ।
प्रातः स्थित्वा तु सायाह्ने समासीनो मुनीश्वराः ॥ ५/१५४ ॥
आसीनो वा स्थितो वापि मध्याह्ने विधिमाचरेत् ।
उपस्थानं ततो जप्त्वा व्योमव्यापिनमेव च ॥ ५/१५५ ॥
उदुत्यं चित्रमन्त्रञ्च हंसः शुविषदो जपेत् ।
प्रदक्षिणं ततः कृत्वा कुर्याद्दण्डनमस्कृतिम् ॥ ५/१५६ ॥
सन्ध्यां नित्यमुपासीत लोपे चोपवसेद्दिनम् ।
अरोगी रोगयुक्तश्चेत् सद्योजातं शतं जपेत् ॥ ५/१५७ ॥
क्षालितं स्नानवस्त्राद्यं दण्डे संवेष्ट्य यत्नतः ।
गणेशरुद्रवागीशान् पूजयेत् हृदयेन तु ॥ ५/१५८ ॥
विघ्नान्विरेच्य मार्गस्थानस्त्ररक्षितविग्रहः ।
व्रजेद्देवकुलं वापि गृहमात्मीयमुत्तमम् ॥ ५/१५९ ॥
ततः शुद्धिक्रमात् क्ष्मादीन्यधस्तत्त्वानि कल्पयेत् ।
विद्यातत्वात्मकं गेहं सिद्धिमुक्तिफलप्रदम् ॥ ५/१६० ॥
तन्त्रमन्त्रान् समाधाय नागदन्तान्तिके शुभे ।
प्रक्षाल्य पादौ हस्तौ च तथाऽऽचम्य यथाविधि ॥ ५/१६१ ॥
मन्त्रसन्नद्धदेहस्तु सामान्यार्ध्यकरः शुचिः ।
त्यजञ्च्छेषाध्वनो भागं प्रासादं प्रविशेद् बुधः ॥ ५/१६२ ॥
सर्वमन्त्रकलाधारं सर्वशक्तिप्रवर्तकम् ।
एवं संक्षेपतः प्रोक्तं स्नानाद्यं मुनिसत्तमाः ॥ ५/१६३ ॥
अनुक्तमन्यतन्त्रेभ्यः समाहृत्याचरेद् बुधः ।
इति कामिकाख्ये महातन्त्रे स्नानविधिस्तृतीयपटलः ॥
</poem>
== अर्चनविधिपटलप्रारम्भः ==
<poem>
अथार्चनविधिं वक्ष्ये भुक्तिमुक्तिफलप्रदम् ।
परार्थं स्वार्थमित्येव द्विविधं तत्प्रकीर्तितम् ॥ ६/१ ॥
दीक्षान्ते गुरुणा दते लिङ्गे वा स्थण्डिलादिके ।
यजनं स्वार्थमाख्यातं स्वस्येष्टफलदं यतः ॥ ६/२ ॥
ग्रामखेटपुरादौ वा नद्यां पर्वत एव वा ।
अष्टषष्टिमहाक्षेत्रेष्वन्यत्र च मनोरमे ॥ ६/३ ॥
स्वयम्भुदैवबाणार्षलिङ्गयुक्ते शिवालये ।
मनुजैः स्थापिते लिङ्गे परार्थयजनं स्मृतम् ॥ ६/४ ॥
नृपतेरायुरारोग्यजयसम्पद्विवृद्वये ।
ग्रामादीनां विवृद्ध्यर्थं परार्थेज्या प्रयुज्यताम् ॥ ६/५ ॥
परार्थयजनं कार्यं शिवविप्रैस्तु नित्यशः ।
धार्मिकः कुरुते नित्यमादिशैवो द्विजोत्तमः ॥ ६/६ ॥
अन्ये तु स्वार्थकादन्यं कुर्युश्चेत्कर्तृनाशनम् ।
शिवसृष्टि विना ये तु जायन्ते ब्रह्मणो मुखात् ॥ ६/७ ॥
ते सामान्या न तेषां तु परार्थेज्याधिकारिता ।
यदि मोहेन कुर्वीरन् राज्ञो राष्ट्रस्य नाशनम् ॥ ६/८ ॥
भृत्यर्थं ये शिवं विप्राः सामान्यास्त्वर्वयन्ति चेत् ।
षण्मासात्पतनं यान्ति तस्मात्तान्परिवर्जयेत् ॥ ६/९ ॥
शिवदीक्षाभिषिक्तस्य शिवविप्रस्य धीमतः ।
शिवाज्ञावशतस्तस्य परार्थेज्या न दोषभाक् ॥ ६/१० ॥
अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गार्चनस्यैते कोट्यंशेनापि नो समाः ॥ ६/११ ॥
जातेनात्मदुहा येन नार्चितो भगवाञ्च्छिवः ।
सुचिरं सञ्चरत्यस्मिन्संसारे दुःखसागरे ॥ ६/१२ ॥
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा ।
न त्वनभ्यर्च्य भुञ्जीयाद्भगवन्तं त्रिलोचनम् ॥ ६/१३ ॥
इति ज्ञात्वा प्रयत्नेन पूजनीयः सदाशिवः ।
आजानु पादौ प्रक्षाल्य हस्तावामणिबन्धनात् ॥ ६/१४ ॥
कार्यं त्रिविधविघ्नानां प्रासादादपसारणम् ।
दिव्या नभोगताश्चैव भूगतास्त्रिविधाः स्मृताः ॥ ६/१५ ॥
तत्त्वदृष्ट्या तु दिव्यांश्च पुष्पक्षेपान् नभोगतान् ।
पार्ष्णिघातत्रयाद्भोमान् प्रासादादपसारयेत् ॥ ६/१६ ॥
श्रेष्ठं पश्चान्मुखं लिङ्गमभावात् प्राङ्मुखं स्मृतम् ।
याम्यकौबेरवक्त्रन्तु न सिद्धाविष्यते बुधैः ॥ ६/१७ ॥
अथवा शान्तिकर्मादौ सौम्याभिमुखमिष्यते ।
एकद्वारविमानेष्यं नियमो निष्कलस्य तु ॥ ६/१८ ॥
चतुर्द्वारे च मेर्वादौ लिङ्गे च चतुरानने ।
चतुर्द्वारं प्रकर्तव्यं तत्रायं नियमो न हि ॥ ६/१९ ॥
यस्यां दिशि भवेद् द्वारं तां प्राचीं परिकल्पयेत् ।
लिङ्गस्याभिमुखं यत्तु द्वारं तत्पूर्वमिष्यते ॥ ६/२० ॥
तत्र तत्पुरुषं वक्त्रमूर्ध्वञ्चाभिमुखं भवेत् ।
बलिपीठं वृषं शूलं तद्वक्त्राभिमुखं भवेत् ॥ ६/२१ ॥
गणपं भारतीमूर्ध्वे सव्ये गङ्गाञ्च नन्दिनम् ।
यमुनाञ्च महाकालं वामशाखागतौ यजेत् ॥ ६/२२ ॥
नन्दिकालौ तथा भृङ्गि विघ्नेशौ वृषषण्मुखौ ।
देवी चण्डौ द्विपार्श्वस्थौ द्वाराणां चतुरानने ॥ ६/२३ ॥
एते पूज्या नमोन्तैश्च हृदयाद्यैर्यथाक्रमम् ।
रूपसंस्थानभावैस्तु गन्धपुष्पादिभिः क्रमात् ॥ ६/२४ ॥
सामान्यार्ध्यं ततो दत्वा सव्यशाखां समाश्रितः ।
प्रविशेद्दक्षपादेन प्रासादाभ्यन्तरं गुरुः ॥ ६/२५ ॥
निवारणार्थं विघ्नानां न्यस्य खङ्गमुदुम्बरे ।
संपूज्यात्मभुवं वास्तोष्पते ब्रह्मण इत्यपि ॥ ६/२६ ॥
लिङ्गं प्रदक्षिणीकृत्य भक्त्या स्तुत्वा महेश्वरम् ।
गन्धपुष्पादिकं सर्वमानीतं परिचारकैः ॥ ६/२७ ॥
संवीक्ष्य द्रव्यसंघातं स्थापयेत् कलशान्सुधीः ।
वीक्षितांस्तत्त्वदृष्ट्या चाभ्युक्षितानस्त्रमन्त्रतः ॥ ६/२८ ॥
ताडितान् प्रोक्षितांश्चैव गृहीत्वा निः सरेद्बहिः ।
कलशान्सुशिरोनाहान् सुस्थिरान् छिद्रवर्जितान् ॥ ६/२९ ॥
भवन्तं पूजयामीति प्रार्थयेत यथा तथा ।
शिवतीर्थमनुप्राप्य षडङ्गेनाभिमन्त्रयेत् ॥ ६/३० ॥
कलशांस्तोयवस्त्रांश्च क्षालयित्वास्त्रमन्त्रतः ।
पूरयेद् रुद्रगायत्र्या हृदा तोयैः पटस्रुतैः ॥ ६/३१ ॥
सम्पूर्णकलशान् पश्चात्तद्वस्त्रेण प्रमार्जितान् ।
द्वौ द्वौ योक्तृनियुक्तांस्तानेकैकेन तु पाणिना ॥ ६/३२ ॥
गृहीत्वा प्रापयेद् गर्भगृहाग्रे वाऽथ मण्डपे ।
न स्पृशेदूरुपार्श्वस्थद्वारशाखादिकं यथा ॥ ६/३३ ॥
च्योतते न जलं भूमौ तथा कुर्याद्विचक्षणः ।
प्रलिप्तभूमावास्तीर्य कुशपुष्पादिकं हृदा ॥ ६/३४ ॥
स्थापयेत्कलशान् तत्र वर्धन्या वसुसंख्यया ।
क्ष्मालोकपदपञ्चाशत्पञ्चपञ्चघटांस्तु वा ॥ ६/३५ ॥
विकारसंख्यया वाऽथ तेषां द्विगुणसंख्यया ।
स्नपनोक्त्याऽथ संस्थाप्य कुर्यान्नित्याभिषेचनम् ॥ ६/३६ ॥
आत्मशुद्धिक्रिया पूर्वा स्थानशुद्धिर्द्वितीयिका ।
तृतीया द्रव्यशुद्धिः स्याच्चतुर्थं मन्त्रशोधनम् ॥ ६/३७ ॥
पञ्चमी लिङ्गशुद्धिश्च कथ्यन्ते पञ्चशुद्धयः ।
मार्जिते चोपलिप्ते च धामन्यन्यत्र वा बुधः ॥ ६/३८ ॥
कुशकॢप्तासने बृस्यामथ कृष्णमृगाजिने ।
यथेष्टमासनं बध्वा ऋजुकायोत्तराननः ॥ ६/३९ ॥
चन्दनालिप्तहस्तौ तौ शोधयेदस्त्रमन्त्रतः ।
परस्परौ च संस्पृश्य तलकौ हस्तपृष्ठकौ ॥ ६/४० ॥
अमृतीकृत्य मूलेन वौषडन्तेन मन्त्रतः ।
विद्याशरीरतां ध्यात्वा तयोः शक्त्यन्तमुत्तमम् ॥ ६/४१ ॥
मूलेन शिवमावाह्य ब्रह्माण्यङ्गानि विन्यसेत् ।
गृहस्थः सृष्टिमार्गेण करन्यासं तु कारयेत् ॥ ६/४२ ॥
वानप्रस्थयतीनां च संहारन्यासमुच्यते ।
अङ्गुष्ठादिकनिष्ठान्तमीशात्सद्यावसानकम् ॥ ६/४३ ॥
सृष्टिन्यासः समाख्यातः सद्यादीशावसानकम् ।
कनिष्ठाद्यङ्गुष्ठान्तं च संहारन्यासमुच्यते ॥ ६/४४ ॥
जगतः सृष्टिसंहारक्रम एवात्र च क्रमः ।
नेत्रं हस्ततले न्यस्य पश्चादङ्गानि विन्यसेत् ॥ ६/४५ ॥
अङ्गुष्ठादिकनिष्ठान्तं कनिष्ठाद्यङ्गुष्ठकावधि ।
तर्जन्याङ्गुष्ठके न्यासः सर्वास्वङ्गुष्ठतो भवेत् ॥ ६/४६ ॥
तर्जन्यन्तं न्यसेद्धीमान् तर्जन्या मस्तकं न्यसेत् ।
यद्वास्त्रवर्मचूडाकहृदोऽङ्गुष्ठादितो न्यसेत् ॥ ६/४७ ॥
सृष्टौ प्रतीपको न्यासः संहारो मोक्षकांक्षिणाम् ।
मूर्धादिः सृष्टिरित्युक्ता पादादिः संहृतिर्भवेत् ॥ ६/४८ ॥
विद्येश्वराणां बीजानि चाङ्गुष्ठादि पुनर्न्यसेत् ।
अमृतीकृत्य भावेन कवचेनावकुण्ठयेत् ॥ ६/४९ ॥
एवं शिवीकृतौ हस्तौ समर्थौ सर्वकर्मसु ।
सकलीकरणे सन्ध्याकाले चाचमने तथा ॥ ६/५० ॥
करन्यासो विधातव्यस्तद्विशेषविधावपि ।
संहारमुद्रया देहव्याप्तं चित्तं निरुध्य च ॥ ६/५१ ॥
हृत्पद्मगह्वराधारे शिवे वा व्योम्नि निर्मले ।
हृत्कण्ठतालुभ्रूशंखरोधिन्यो ब्रह्मरन्ध्रकम् ॥ ६/५२ ॥
कुटिला व्यापिनी तन्वी समना उन्मना तथा ।
तासामुपरि या शक्तिस्तस्यां वा योजयेन्नरः ॥ ६/५३ ॥
कृत्वाभिध्यानमादौ तु दहेद्देहमनन्तरम् ।
योजनं देशिकैः कार्यं रक्षार्थं भोग्यकर्मणाम् ॥ ६/५४ ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते क्षणात् ।
मुक्तौ कर्मणि देवाज्ञावशतो नास्ति तल्लयः ॥ ६/५५ ॥
तिरोभावकरी शक्तिः शिवस्य परमेष्ठिनः ।
संसिद्धा जगतः सृष्टिलयभोगादिहेतुका ॥ ६/५६ ॥
यथा मलसमोपेतं कनकं वह्निशोधितम् ।
प्रध्वस्ताशेषदोषोऽयं निर्मलश्चावशिष्यते ॥ ६/५७ ॥
धारणाभिस्तथा ध्वस्तपापौघो निर्मलः पुमान् ।
अधिकारवशाद् भूयो देहित्वं प्रतिपद्यते ॥ ६/५८ ॥
दीक्षितो यः पुमान् साक्षाज्जीवन्मुक्तः स उच्यते ।
कृत्वैवं योजनं पश्चात् ततस्तत्वानि भावयेत् ॥ ६/५९ ॥
त्रितत्त्वं पञ्चतत्त्वं वा नवतत्त्वमथापि वा ।
पञ्चविंशति षट्त्रिंशदेकं वाऽध्यात्मिकं तु वा ॥ ६/६० ॥
दीक्षायामुदितं यत्तु तद्वदत्रापि कारयेत् ।
पञ्चतत्त्वक्रमाद्वक्ष्ये शोधनं देहशुद्धये ॥ ६/६१ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।
एताः कलास्ताभिरेव व्याप्तं सर्वमिदं जगत् ॥ ६/६२ ॥
मन्त्राः पदानि वर्णैश्च व्याप्तानीह समन्ततः ।
वर्णास्तु भुवनैर्व्याप्तास्तत्त्वैर्व्याप्तानि तानि तु ॥ ६/६३ ॥
कलाभिस्तानि तत्त्वानि व्याप्तनीह कलाः क्रमात् ।
शोधनीया विभाव्यैवं पञ्चपञ्चाध्वगर्भिताः ॥ ६/६४ ॥
वर्णचिह्नाकृतिगुणैः मन्त्रमन्त्रेशपूर्वकैः ।
यद्ध्यानं प्रतिपर्वं तु प्राणायामसमन्वितम् ॥ ६/६५ ॥
तदत्र धारणा प्रोक्ता विषनिर्हरणादिवत् ।
पार्थिवं चतुरश्रं तु हेमाभं वज्रलाञ्छितम् ॥ ६/६६ ॥
लबीजं ब्रह्मदैवत्यमजातहृदयात्मकम् ।
निवृत्त्याख्यकलोपेतं ह्णामित्युद्धातपञ्चकम् ॥ ६/६७ ॥
आप्यं इन्दुसिताब्जाङ्कं विष्णुदैवं वबीजकम् ।
वामशीर्षसमायुक्तं प्रतिष्ठाकलयान्वितम् ॥ ६/६८ ॥
युक्तं चतुर्भिरुद्धातैर्ह्वीमित्युच्चारपूर्वकम् ।
अग्निस्त्र्यश्रं सप्तशिखं रक्ताभं रुद्रदैवतम् ॥ ६/६९ ॥
रार्णाघोरशिखायुक्तं विद्याख्यकलयान्वितम् ।
युक्तं तत्त्रिंभिरुद्घातैर्ह्रूमित्युच्चारसंयुतम् ॥ ६/७० ॥
वायव्यं रसकोणं तु बिन्दुषट्कमथाऽसितम् ।
ईशाधिपत्यं यार्णं तत्पुरुषकवचैर्युतम् ॥ ६/७१ ॥
शान्त्या युक्तं द्विरुद्धातैर्ह्यैमित्युच्चारपूर्वकम् ।
आकाशं वर्तुलं त्यक्तलाञ्च्छनं धूम्रवर्णकम् ॥ ६/७२ ॥
सदेशाधिष्ठितं हार्णमीशास्त्रातीतसंयुतम् ।
एकोद्घातेन हौमुक्त्वा यथास्थानं प्रयोजयेत् ॥ ६/७३ ॥
पार्थिवं हृदयस्थानमाप्यं कण्ठगतं भवेत् ।
वाह्नेयं तालुमूले तु भ्रूमध्ये वायुसम्भवम् ॥ ६/७४ ॥
ब्रह्मग्रन्थियुतं व्योमस्थानं यद्वान्यथा मतम् ।
आजानु पृथिवी ज्ञेया नाभेराप्यं निगद्यते ॥ ६/७५ ॥
अनलं कण्ठदेशात्तु वायुरामुखमण्डलात् ।
तदूर्ध्वं गगनस्थानं धारणार्थं प्रकीर्तितम् ॥ ६/७६ ॥
प्राणायामं समासेन कथयामि विशेषतः ।
रेचकं पूरकं चैव कुम्भकं च त्रिधाऽभ्यसेत् ॥ ६/७७ ॥
अकारोकारमकारास्त्वक्षराः परिकीर्तिताः ।
ब्रह्मविष्णुहरास्तेषामधिदेवाः प्रकीर्तिताः ॥ ६/७८ ॥
आत्मविद्याशिवाख्यानि तत्त्वानि स्युर्यथाक्रमम् ।
मात्राद्वादशभिर्हीनो द्विगुणैर्मध्यमो मतः ॥ ६/७९ ॥
त्रिगुणैरुत्तमः कालः प्रत्येकं रेचकादिषु ।
रेचयेद्देहगं वायुमशुद्धं व्योमसंस्थितम् ॥ ६/८० ॥
शुद्धं वायुं पूरकेण समाहृत्य शनैः शनैः ।
सम्पूर्णकुम्भवत्तिष्ठेद्रेवयेत्तदनन्तरम् ॥ ६/८१ ॥
घण्टिकां तालुवा बध्वा फट्कारोच्चारयोगतः ।
पाशुपतेन शस्त्रेण रेवयेद्बन्धमोचनात् ॥ ६/८२ ॥
ततो ग्रन्थिविभेदोपि भावनीयस्तदा तदा ।
स्थानात्स्थानान्तरप्राप्तिर्जीवस्यास्य तदुत्क्रमात् ॥ ६/८३ ॥
सूक्ष्मप्राणायामं कृत्वा देहवक्रवदाचरेत् ।
शिवेन सहितं चान्तं चोद्घातग्रन्थिभेदतः ॥ ६/८४ ॥
ऊर्ध्वमूलमधःशाखं कल्प्य संसारपादपम् ।
पूरकार्द्धेन पार्थिव्या हेयोपादेयवित्सुधीः ॥ ६/८५ ॥
आप्यायितं तद्वारुण्या पूरकापरभागतः ।
पत्रपुष्पफलोपेतं स्निग्धं वैराग्यशस्त्रतः ॥ ६/८६ ॥
छेदयित्वा तदाग्नेयया कुम्भकेन विशोष्य च ।
ज्ञानानलेन निर्दग्धं पादाङ्गुष्ठादिकान्तकम् ॥ ६/८७ ॥
रेचकेनाथ वायव्या भस्मीभूतं दिशो दश ।
प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् ॥ ६/८८ ॥
महामायाञ्च विक्षोभ्य शाक्तं देहं प्रकल्पयेत् ।
आप्लाव्य चामृतेनैव विद्याङ्गं विन्यसेत्ततः ॥ ६/८९ ॥
इच्छाज्ञानक्रियाशक्तिलोचनं मातृकात्मकम् ।
आवाह्य तत्र चात्मानं मुद्रया पुष्पमन्त्रयुक् ॥ ६/९० ॥
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ६/९१ ॥
सद्योजातं न्यसेत्पादे तत्तन्मुद्रासमन्वितम् ।
मूर्धादिपादपर्यन्तं मालाब्रह्माणि विन्यसेत् ॥ ६/९२ ॥
ऊर्ध्वेन्द्रयाम्यसौम्याप्यवक्त्रेष्वीशादितो न्यसेत् ।
बीजब्रह्माणि वा विद्वानष्टत्रिंशत्कलां न्यसेत् ॥ ६/९३ ॥
ईशानः सर्वविद्यानां नमोन्तं चोर्ध्वमूर्धनि ।
ईश्वरः सर्वभूतानां नमोन्तं पूर्वमूर्धनि ॥ ६/९४ ॥
ब्रह्मणोधिपतिर्ब्रह्म नमोन्तं याम्यमूर्धनि ।
शिवो मेऽस्तु नमोऽन्तं च तथा कौबेरमूर्धनि ॥ ६/९५ ॥
सदाशिवों नमोन्तञ्च विन्यसेदाप्यमूर्धनि ।
ईशानस्य कलाः पञ्च प्रणवादि प्रकल्पयेत् ॥ ६/९६ ॥
शशिनी चाङ्गदा इष्टा मरीचिर्ज्वालिनी तथा ।
नामैशानकलानां स्यात्तन्नाम्ना केवलं तु वा ॥ ६/९७ ॥
प्रणवेनोर्ध्ववक्त्रे तु कलामादौ तु विन्यसेत् ।
तत्पुरुषाय विद्महे नत्यन्तं पूर्ववक्त्रके ॥ ६/९८ ॥
महादेवाय धीमहि नत्यन्तं दक्षिणानने ।
तन्नो रुद्र नमोन्तं च कल्पयेदुत्तरानने ॥ ६/९९ ॥
प्रचोदयान्नमोन्तं च कल्प्यं पश्चिमवक्त्रके ।
कलाश्चतस्रो वक्त्रे स्युर्मूर्ध्न्यव्यक्तकला भवेत् ॥ ६/१०० ॥
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलाः ।
अघोरेभ्योपि नत्यन्तं तमां हृदयगोचरे ॥ ६/१०१ ॥
नत्यन्तमथ घोरेभ्यो मोहां कण्ठे तु विन्यसेत् ।
रक्षां घोरनमोन्तं च दक्षिणांसे तु विन्यसेत् ॥ ६/१०२ ॥
निष्ठां घोरतरेभ्यश्च नमो वामांसके न्यसेत् ।
मृत्युं च सर्वतः सर्वनमो नाभौ तु विन्यसेत् ॥ ६/१०३ ॥
शर्वेभ्यो नम इत्युक्त्वा मायां च जठरे न्यसेत् ।
नमस्ते रुद्रनत्यन्तमभयां पृष्ठके न्यसेत् ॥ ६/१०४ ॥
जरामुरसि रूपेभ्यो नमः प्रणवपूर्वकम् ।
बहुरूपकलाश्चाष्टौ विद्यादेहे प्रकल्पयेत् ॥ ६/१०५ ॥
वामदेवाय नत्यन्तं रजां गुह्ये तु विन्यसेत् ।
रक्षां ज्येष्ठाय नत्यन्तं लिङ्गे प्रणवकं न्यसेत् ॥ ६/१०६ ॥
रतिं रुद्राय नत्यन्तं दक्षिणोरुगतं न्यसेत् ।
पाल्यां कालाय नत्यन्तं वामोरुगतमावहेत् ॥ ६/१०७ ॥
कामां कलनमोन्ताञ्च दक्षजानुनि विन्यसेत् ।
विकरणाय नमोन्तं च संयमीं वामजानुनि ॥ ६/१०८ ॥
क्रियां बलनमोन्तं च जङ्घायां दक्षिणे न्यसेत् ।
बुद्धिं विकरणायेति नमोन्तं वामजङ्घिके ॥ ६/१०९ ॥
कार्यां बलनमोन्तं च दक्षिणस्फिचि विन्यसेत् ।
धात्रीं प्रमथनायेति नमोन्तं वामतस्स्फिचि ॥ ६/११० ॥
नमोन्तं ब्राह्मणीं कट्यां न्यसेदोंकारपूर्वकम् ।
सर्वभूतदमनाय पदमेकं प्रकल्पयेत् ॥ ६/१११ ॥
नत्यन्तं मन इत्येवं मोहिनीं दक्षपार्श्वके ।
उन्मनायेति नत्यन्तं भवां पार्श्वे तु वामके ॥ ६/११२ ॥
त्रयोदश कलाश्चैवं वामदेवस्य कीर्तिताः ।
सद्योजातं प्रपद्यामि सिद्धि दक्षिणपादके ॥ ६/११३ ॥
सद्योजाताय वै नमो ऋद्धिं वामाङ्घ्रिके न्यसेत् ।
द्युतिं भवे नमोन्तं च न्यसेद्दक्षिणबाहुके ॥ ६/११४ ॥
अभवे नम इत्युक्त्वा लक्ष्मीं वामकरे न्यसेत् ।
न्यसेन्नातिभवे मेधां नत्यन्तं नासिकाग्रतः ॥ ६/११५ ॥
भवस्व मां नमोन्तं च कान्तिं शिरसि विन्यसेत् ।
स्वधां भवनमोन्तं च न्यसेद्दक्षिणबाहुके ॥ ६/११६ ॥
उद्भवाय नमोन्तं च धृतिं बाहौ तु वामके ।
सद्योजातकलाश्चाष्टौ न्यसेत्सर्वाः स्वमुद्रया ॥ ६/११७ ॥
अष्टत्रिंशत्कलान्यासाद् विद्यादेहं विधाय च ।
मूलमन्त्रं समावाह्य पश्चादङ्गानि विन्यसेत् ॥ ६/११८ ॥
हृदयं हृदये न्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ॥ ६/११९ ॥
हस्तयोर्हेतिविन्यस्य लिपिन्यासमथाचरेत् ।
दीपकं वाग्भवं बिन्दुं श्रीकण्ठाय पदं ततः ॥ ६/१२० ॥
पूर्णोदर्यै नमश्चेति न्यसेत्केशान्तदेशगम् ।
न्यसेत् ओं आं अनन्ताय विरजायै नतिः पुनः ॥ ६/१२१ ॥
न्यसेल्ललाटे दीपाद्यमिं सूक्ष्माय पदं ततः ।
शाल्मल्यै नम इत्येवं न्यसेद्दक्षिणचक्षुषि ॥ ६/१२२ ॥
ओं ईं त्रिमूर्तये चेति लोलाक्ष्यै नम इत्यपि ।
न्यसेद्वामाक्षिमध्ये तु ओमुंकारमनन्तरम् ॥ ६/१२३ ॥
ततोऽमरेश्वरायेति वर्तुलाक्ष्यै नमः पुनः ।
दक्षश्रोत्रे न्यसेदेतदोमूंकारमनन्तरम् ॥ ६/१२४ ॥
अर्घीशाय ततो दीर्घघोणायै नम इत्यपि ।
वामकर्णे न्यसेदेतदोमृंकारं तु विन्यसेत् ॥ ६/१२५ ॥
यद्भारभूतये चेति दीर्घमुख्यै नमः पुनः ।
दक्षनासापुटे न्यसेत् ओमॄंकारमनन्तरम् ॥ ६/१२६ ॥
पदं यन्निधनेशाय गोमुख्यै नम इत्यपि ।
वामनासापुटे न्यस्येत् ओं ऌ/कारमनन्तरम् ॥ ६/१२७ ॥
स्थाणवे दीर्घजिह्वायै नमो गण्डे तु दक्षिणे ।
ओं ॡंकारपदं पूर्वं हरायेति पदं पुनः ॥ ६/१२८ ॥
कुण्डोदर्यै नमश्चेति वामगण्डे तु विन्यसेत् ।
ओमेंकारपदं पूर्वं चण्डीशाय पदं पुनः ॥ ६/१२९ ॥
ऊर्ध्वकेश्यै नमश्चेति विन्यसेदुत्तरोष्टके ।
ओमैंकारमथोद्धृत्य भौतिकाय पदं पुनः ॥ ६/१३० ॥
पदं विकृतिमुख्यै स्यात् नत्यन्तमधरोष्टके ।
ओमोंकारमथोद्धृत्य सद्योजाताय यत्पदम् ॥ ६/१३१ ॥
ज्वालामुख्यै नमश्चेति विन्यसेदूर्ध्वदन्तके ।
ओमौमनुग्रहेशाय उल्कामुख्यै नमः पुअनः ॥ ६/१३२ ॥
न्यसेदधोगते दन्तपङ्क्तिके साधकोत्तमः ।
ओमंकारं समुद्धृत्य क्रूराय च पदं पुनः ॥ ६/१३३ ॥
श्रीमुख्यै नम इत्येतन्मूर्ध्नि विन्यस्य भावयेत् ।
ओमःकारं समुद्धृत्य महासेनाय यत्पदम् ॥ ६/१३४ ॥
विद्यायै नम इत्येवमास्ये न्यस्येत्स्वरास्त्विमे ।
ओंकंकारं समुद्धृत्य क्रोधीशाय पदं पुनः ॥ ६/१३५ ॥
महाकाल्यै नमश्चेति न्यसेद्दक्षिणबाहुके ।
ओं खंकारं समुद्धृस्य चण्डेशाय पदं पुनः ॥ ६/१३६ ॥
सरस्वत्यै नमश्चेति न्यसेद्दक्षिणकूर्परे ।
ओं गंकारं समुद्धृत्य पदं पञ्चान्तकाय च ॥ ६/१३७ ॥
यत्सर्वसिद्धिगौर्यै स्यान्नमस्कारमनन्तरम् ।
दक्षिणे मणिबन्धे स्यादों घंकारमनन्तरम् ॥ ६/१३८ ॥
पदं शिवोत्तमायेति समुद्धृत्य यथाविधि ।
नतिस्त्रैलोक्यवन्द्यायै दक्षपाणितले न्यसेत् ॥ ६/१३९ ॥
ओं ङंकारं समुद्धृत्य चैकरुद्राय यत्पदम् ।
मन्त्रशक्त्यै नमश्चेति न्यसेद्दक्षकराग्रतः ॥ ६/१४० ॥
ओं चंकारं समुद्धृत्य कूर्मायेति पदं पुनः ।
आत्मशक्त्यै नमश्चेति वामबाहौ तु विन्यसेत् ॥ ६/१४१ ॥
ओं छंकारं समुद्धृत्य एकनेत्राय यत्पदम् ।
भूतमात्रे नमश्चेति विन्यसेद्वामकूर्परे ॥ ६/१४२ ॥
ओं जं चतुर्मुखायेति लम्बोदर्यै नमोन्तकम् ।
वामे तु मणिबन्धे स्यादों झंकारमनन्तरम् ॥ ६/१४३ ॥
अजेशाय पदं पश्चाद्द्राविण्यै नम इत्यपि ।
वामपाणितले न्यस्येदों ञंकारमनन्तरम् ॥ ६/१४४ ॥
चन्द्राय च नगर्यै स्यान्नतिर्वामकराग्रतः ।
ओं टंकारं समुद्धृत्य सोमेशाय पदं पुनः ॥ ६/१४५ ॥
खेचर्यै नम इत्येतन्न्यसेद्दक्षोरुमूलके ।
ओं ठंकारं समुद्धृत्य पदं लाङ्गलिने नमः ॥ ६/१४६ ॥
मञ्जर्यै नम इत्येतद्विन्यसेद्दक्षजानुनि ।
ओं डंकारं समुद्धृत्य दारुकाय पदं पुनः ॥ ६/१४७ ॥
रूपिण्यै नम इत्येवं दक्षजङ्घाग्रके न्यसेत् ।
ओं ढंकारपदं यत्तदर्धनारीश्वराय च ॥ ६/१४८ ॥
वीरायै च नश्चेति दक्षपादतले न्यसेत् ।
ओं णंकारं समुद्धृत्य उमाकान्ताय यत्पदम् ॥ ६/१४९ ॥
खादिर्यै नम इत्येवं दक्षपादतलाग्रके ।
ओं तंकारं समुद्धृत्य षडीशायेति यत्पदम् ॥ ६/१५० ॥
पूतनायै नमश्चेति न्यसेद्वामोरुमूलके ।
ओं थंकारं समुद्धृत्य डिण्डिने यत्पदं पुनः ॥ ६/१५१ ॥
भद्रकाल्यै नमश्चेति विन्यसेद्वामजानुनि ।
ओं दंकारं समुद्धृत्य अत्रये यत्पदं पुनः ॥ ६/१५२ ॥
गोमत्यै नम इत्येतद्वामजङ्घाग्रके न्यसेत् ।
ओं धंकारं समुद्धृत्य चेशानाय पदं पुनः ॥ ६/१५३ ॥
शंखिन्यै नम इत्येतद्वामपादतले न्यसेत् ।
ओं नंकारं समुद्धृत्य मेषाय पदमुद्धरेत् ॥ ६/१५४ ॥
गर्जिन्यै नम इत्येतद्वामपादतलाग्रके ।
ओं पंलोहितायेति कालारात्र्यै नमः पदम् ॥ ६/१५५ ॥
दक्षपार्श्वे न्यसेदों फं शिखिन्यै नम इत्यपि ।
कुब्जिन्यै नम इत्येवं वामपार्श्वे तु विन्यसेत् ॥ ६/१५६ ॥
ओं बंकारं समुद्धृत्य छगलण्डाय यत्पदम् ।
कामिन्यै नम इत्येवं पृष्ठभागे तु विन्यसेत् ॥ ६/१५७ ॥
ओं भंकारं समुद्धृत्य द्विरण्डायेति यत्पदम् ।
वज्रायै नम इत्येवं नाभिदेशे तु विन्यसेत् ॥ ६/१५८ ॥
ओं मं महाकालायेति जयायै नम इत्यपि ।
हृद्देशे विन्यसेदों यं पदं यत्तत्त्वगात्मने ॥ ६/१५९ ॥
पालिने सुमुखेश्वर्यै नमश्चेति त्वचि न्यसेत् ।
ओं रं रक्तात्मने चेति भुजङ्गायेति यत्पदम् ॥ ६/१६० ॥
रेवत्यै नम इत्येतत् पदं रुधिरगोचरे ।
ओं लं वसात्मने चेति पदं यत्तु पिनाकिने ॥ ६/१६१ ॥
माधव्यै नम इत्येतत् पदं मांसगतं न्यसेत् ।
ओं वं मेदोमयायेति खङ्गीशाय पदं पुनः ॥ ६/१६२ ॥
वारुण्यै नम इत्येतत्पदं मेदसि विन्यसेत् ।
ओं शं अस्थ्यात्मने चेति बेकायेति समुद्धरेत् ॥ ६/१६३ ॥
वायव्यै नम इत्येतत्पदमस्थिनि विन्यसेत् ।
ओं षं मज्जात्मने चेति श्वेताय पदमुद्धरेत् ॥ ६/१६४ ॥
पदं रक्षोपधारिण्यै नमो मज्जगतं न्यसेत् ।
ओं सं शुक्लात्मने चेति भृगवे पदमुद्धरेत् ॥ ६/१६५ ॥
सहजायै नमश्चेति पदं रेतसि विन्यसेत् ।
ओं हं प्राणात्मने चेति लकुलीशाय यत्पदम् ॥ ६/१६६ ॥
पदं लक्ष्यै नमश्चेति मन्त्रमेतद्धृदि न्यसेत् ।
ओं लं लिङ्गात्मने चेति तमोरूपाय यत्पदम् ॥ ६/१६७ ॥
व्यापिन्यै नम इत्येतल्लिङ्गमूले तु विन्यसेत् ।
ओं क्षं क्रोधात्मने चेति वर्तकायेति यत्पदम् ॥ ६/१६८ ॥
मायायै नम इत्येतत्पदं लिङ्गाग्रके न्यसेत् ।
हृदादिस्थानगैर्वर्णैर्मातृकाङ्गानि कल्पयेत् ॥ ६/१६९ ॥
दीपलेखां हसौ पूर्वं भान्तकेशान्तिमं तथा ।
कुचं चक्षुर्द्वयं कूटं हृदाद्यैर्जातिभिर्युतम् ॥ ६/१७० ॥
षडङ्गमेतत्कथितं मातृकायास्तपोधनाः ।
आद्यं मध्यनियोज्यमाद्यमथवा मध्येगतं योजये
ल्लोपं कीलमिति स्मृतं विचरतो यत् स्वस्य रूपं लिखेत् ।
मन्त्रस्योच्चरणेऽखिलस्य च लिपौ संयोगतो युक्तितः
कीलं मन्त्रसुसिद्धये जपतु तत् संयोज्य संलोप्य च ॥ ६/१७१ ॥
एतत्कीलप्रयोगेण ज्ञात्वा सर्वं समाचरेत् ।
हृच्छिरश्चूलिकावर्मनेत्रास्त्राणि यथाक्रमम् ॥ ६/१७२ ॥
नमः स्वाहा वषट् हुं च वौषट् फट् चेति जातयः ।
एवं कृत्वा लिपिन्यासं तत्त्वानां नवकं न्यसेत् ॥ ६/१७३ ॥
चन्द्रबिम्बे च नादे च भ्रूमध्ये तालुरन्ध्रके ।
कण्ठहृन्नाभिदेशेषु शाश्वतस्थान एव च ॥ ६/१७४ ॥
मूलस्थाने यथान्यायं न्यसेत्कण्ठोक्तमन्त्रकम् ।
त्र्यक्षरं मेलनायुक्तं नाभौ हृदि ललाटके ॥ ६/१७५ ॥
व्योमव्यापि न्यसेत्पश्चात् मूर्धाद्यङ्गुष्ठसीमकम् ।
एवं मन्त्रत्वमापन्नो दिव्यदेहे यथाक्रमात् ॥ ६/१७६ ॥
पूजाहोमसमाधीनां स्थानानि परिकल्पयेत् ।
हृदयेऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् ॥ ६/१७७ ॥
ललाटे चेश्वरं ध्यायेद्वरदं सर्वतोमुखम् ।
हृदये कल्पयेद्धाम ईश्वरावाहनक्रमे ॥ ६/१७८ ॥
आसनं कल्पयेदत्र वक्ष्यमाणविधानतः ।
आवाह्य देवं गन्धाद्यैर्मानसैः शिवमर्चयेत् ॥ ६/१७९ ॥
नाभिकुण्डे स्वभावोत्थे तर्पयेत्परमामृतैः ।
उद्दीप्य च निजं वह्निं संरुद्धापानवृत्तितः ॥ ६/१८० ॥
स्थाणुस्थाने स्मरेल्लिङ्गं स्फटिकाभं महोज्ज्वलम् ।
तन्मध्यगं शिवं ध्यात्वा तदेकीभावमाश्रितः ॥ ६/१८१ ॥
इडयापूर्य पूजा स्याद्धुनेत्पिङ्गलयाऽमृतम् ।
आधारे प्राणमावेश्य बध्वा ग्रन्थि समूलकम् ॥ ६/१८२ ॥
देवनाड्या समापूर्य कोदण्डे ध्यानमभ्यसेत् ।
यद्वा विस्तरतः कुर्यान्मानसं यागमादरात् ॥ ६/१८३ ॥
शिवाद्यवनिपर्यन्तं तत्त्वप्राणार्थकं स्वकम् ।
देवं विचिन्त्य तत्रस्थं त्रिपक्षमुपकल्पयेत् ॥ ६/१८४ ॥
आसनं मूर्तिपक्षं च शम्भुपक्षं तथैव च ।
त्रिपक्षक्षयगं? ध्यायेत्तत्त्वग्रामं चतुर्विधम् ॥ ६/१८५ ॥
अस्मिन्देहे प्रवितते कल्प्य शक्त्याख्यमासनम् ।
मूर्तिविद्यातनुं कल्प्य समावाह्य शिवं ततः ॥ ६/१८६ ॥
कर्णिकायां यजेद्देवं ब्रह्माङ्गैश्च समावृतम् ।
गणेशैर्लोकपालैश्च हेतिभिर्वज्रपूर्वकैः ॥ ६/१८७ ॥
त्रिभिरावरणैर्वापि एकेनावरणेन वा ।
सप्तविंशत्यावरणैर्यथाशक्ति समर्चयेत् ॥ ६/१८८ ॥
मनसा कल्पितैर्द्रव्यैर्मनःकॢप्ते तु मन्दिरे ।
मनसा भावयन्नित्यं पूजयेत्परमेश्वरम् ॥ ६/१८९ ॥
ध्यायन् गरुडतां यद्वद् गुरुर्निर्विषताफलम् ।
प्राप्नोति तद्वदत्रापि फलमिष्टमवाप्नुयात् ॥ ६/१९० ॥
प्राणवृत्तिनिरोधेन यजनं कुरुते यथा ।
प्राधर्मिकानां सर्वेषां प्रत्यावृत्ति विरेचयेत् ॥ ६/१९१ ॥
शक्तिभिः पञ्चब्रह्माणि शिवाङ्गं मूर्तिमेव च ।
महेशं सदाशिवं चैव शिवमिष्ट्वा तु रेचयेत् ॥ ६/१९२ ॥
विद्येश्वरावृतौ चैव गणेशावरणे तथा ।
लोकपालास्त्रयोश्चैव रुद्रादीनामथावृतौ ॥ ६/१९३ ॥
रेचयित्वा तु भूयोऽपि यजेदावरणं प्रति ।
चन्द्रार्कोदयतः पूजा वृथा क्लेशो भविष्यति ॥ ६/१९४ ॥
चन्द्रार्कनाशने पूजा साधयेदीप्सितं फलम् ।
सुषुम्नामध्यगे प्राणे पूजयेत्सर्वदेवताः ॥ ६/१९५ ॥
यद्वा षड्गुणदेहाय शक्तिदेहोऽथ साधकः ।
पार्थिवाद्यष्टपूजाख्यतत्त्वजातं समर्पयेत् ॥ ६/१९६ ॥
पार्थिवं सकलं गन्धो भवत्यापोऽभिषेचनम् ।
ता एव पाननैवेद्यं तैजसं दी?पमालिका ॥ ६/१९७ ॥
वायव्यं तालवृन्ताद्यं गानाद्यं व्योमसम्भवम् ।
एवञ्चेतरतत्त्वानि यथायोग्यं निवेद्य च ॥ ६/१९८ ॥
शिवेनैवोक्तवद्व्यात्वा निर्द्वन्द्वोऽमृतमश्नुते ।
कृत्वैवमात्मशुद्धिं तु स्थानशुद्धिमथाचरेत् ॥ ६/१९९ ॥
तालमुद्रात्रयं कृत्वा प्राकारं हेतिना स्मरेत् ।
तद्बहिःपरिघां ध्यात्वा कवचेनैव मन्त्रतः ॥ ६/२०० ॥
अस्त्रजालं तु तद्बाह्ये न्यसेद्विघ्नापनुत्तये ।
दिव्यं धाम विचिन्त्याऽथ द्रव्यशुद्धिं प्रकल्पयेत् ॥ ६/२०१ ॥
ततः संपूर्य गन्धाम्बु वर्धन्यामस्त्रमन्त्रतः ।
प्रोक्षयेत्तेन तोयेन शुद्ध्यर्थं हेतिमन्त्रतः ॥ ६/२०२ ॥
अर्घ्यपात्रञ्च शङ्खं च पा?द्याचमनपात्रकम् ।
यदन्यदुपयोग्यं तु हेतिना क्षालयेत्ततः ॥ ६/२०३ ॥
हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् ।
सौवर्णं राजतं ताम्रं केलिहारञ्च शङ्खजम् ॥ ६/२०४ ॥
पलाशपद्मपत्रोत्थं दारवं मृत्तिकामयम् ।
अन्यद्वा यन्त्रिकादिस्थं पात्रमुक्तं शिवार्चने ॥ ६/२०५ ॥

घन्धपुष्पादिकं सर्वमानीतं परिचारकैः ॥ ६/२०६ ॥
पुण्याहं वाचयित्वाथ प्रोक्षयेद् धृदयेन तु ।
प्रक्षाल्य पाद्यपात्रं तु गन्धतोयेन पूरयेत् ॥ ६/२०७ ॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
तद्वदाचमनीयार्थं तत्पात्रं परिकल्पयेत् ॥ ६/२०८ ॥
पलत्रयं च कर्पूरं त्रुटीपत्रं च कुष्ठकम् ।
आचमीये प्रयोक्तव्यं हृदयेन तु मन्त्रतः ॥ ६/२०९ ॥
अर्घ्यपात्रे न्यसेत्पश्चादपरं गन्धतोयकम् ।
आपः क्षीरकुशाग्राणि तण्डुलाः सुमनास्तिलाः ॥ ६/२१० ॥
अर्घ्योऽष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैः सह ।
कल्पयित्वा विशेषार्घ्यं तत्र मन्त्रगणान्न्यसेत् ॥ ६/२११ ॥
सुधया परमीकृत्य वर्मणाच्छाद्य पूजयेत् ।
तत्तोयैः कवचेनैव सकुशं प्रोक्षयेत्तथा ॥ ६/२१२ ॥
गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं निवेद्यकम् ।
दधिक्षीरघृतादींश्च प्रोक्षयेद्धृदयेन तु ॥ ६/२१३ ॥
पूजार्थं कल्पितं द्रव्यं प्रत्येकमभिमन्त्रयेत् ।
प?लोशीरपलत्रयेण सहिताः कर्पूरसत्कुङ्कुमैः
श्रीखण्डागरुपत्रकैश्च कुसुमैरामोदिभिः संयुताः ॥ ६/२१४ ॥
आपो मज्जनकर्मणे प्रणिहिताः शम्भोर्यथालाभतः
प्रोक्तद्रव्यगणेषु लब्धमिह यत्तद्ग्राह्यमाढ्येतरैः ॥ ६/२१५ ॥
अर्घ्याम्भसो जललवं सपुष्.पं हृदयेन तु ।
स्नानकुम्भेषु सर्वेषु निक्षिपेत्त द्विशुद्धये ॥ ६/२१६ ॥
हृदयेन पवित्रैर्वा यद्वाङ्गैस्तत्स्वभावकैः ।
गन्धं वस्त्रं भूषणञ्च नैवेद्यं कुसुमं तथा ॥ ६/२१७ ॥
सद्यवाममहाघोरन?रेशैरभिमन्त्रयेत् ।
अवशिष्टं तु गायत्र्या मन्त्रयेद् द्रव्यशुद्धये ॥ ६/२१८ ॥
पयेदधिघृतक्षौद्रशर्करा गन्धवारि च ।
पवित्रैर्हृदयाद्यैर्वा स्नानार्थमभिमन्त्रयेत् ॥ ६/२१९ ॥
विशुद्धमन्त्रद्रव्याणि इष्ट्वा गन्धादिभिः क्रमात् ।
मुद्रया चामृतीकृत्य भावयेदमृताख्यया ॥ ६/२२० ॥
आत्मानमर्चयेद् द्रव्यैरेवंभूतैर्यथाक्रमम् ।
तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ॥ ६/२२१ ॥
संग्राह्य वाञ्छितं मौनं ततो मन्त्रान् विशोधयेत् ।
मालाद्यैश्वर्यजालानि मन्त्राणां कीर्तितानि वै ॥ ६/२२२ ॥
तेषां प्रबोधिनीशक्तिः शिवाज्ञा ओं नमः स्मृताः ।
ओंकार दिनमोन्ताश्च पठेन्मन्त्रानशेषतः ॥ ६/२२३ ॥
बद्धपुष्पाञ्जलिर्भूत्वा शिवसद्भावभावितः ।
त्रिमात्रादक्रमेणैव यावन्नादान्तमं व्रजेत् ॥ ६/२२४ ॥
मन्त्रसुद्धिर्भवेदेवं शुद्धतत्त्वसमाश्रयात् ।
योजये पञ्चगव्यं तु तद्विधानमिहोच्यते ॥ ६/२२५ ॥
मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते ।
पञ्चतत्त्वकृतन्यासे पञ्चपात्राणि विन्यसेत् ॥ ६/२२६ ॥
शिवे सादाख्यवद्यायां काले पुंसि च देशिकः ।
सुप्रतिष्ठं सुशान्तं च तेजोवदमृतात्मकम् ॥ ६/२२७ ॥
रत्नोदकं च सङ्कल्प्य क्षीरं दधि घृतं न्यसेत् ।
गोमयञ्चैव गोमूत्रं ईशानाद्यैस्तु मन्त्रितम् ॥ ६/२२८ ॥
एकद्वित्रिचतुःपञ्चवारैः षोढा कुशोदकम् ।
अमृतीकृत्य सपूज्य शिवेनैकत्वमादिशेत् ॥ ६/२२९ ॥
पयोदधिघृतक्षौद्रशर्करा गन्धवारि च ।
पवित्रैर्हृदयाद्यैर्वा स्नानार्थमभिमन्त्रयेत् ॥ ६/२३० ॥
नित्ये नैमित्तिके वापि काम्ये वा कारयेत्प्रभोः ।
स्नपनं तु यथान्यायं तच्चानेकविधं भवेत् ॥ ६/२३१ ॥
अस्त्रेण शोधयेद् भूमिं वामदेवेन लेपयेत् ।
सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ॥ ६/२३२ ॥
त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।
चतुर्दलं यदा पञ्चकलशस्थापनं दिशि ॥ ६/२३३ ॥
विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।
पञ्चविंशतिसंख्यातं तत्समन्तात् समावृतम् ॥ ६/२३४ ॥
एकोनपञ्चाशत् ख्यातमष्टोत्तरशतं द्विजाः ।
पञ्चविंशतिसख्यातान् कलशान् मध्यमस्थितान् ॥ ६/२३५ ॥
परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गतः ।
अष्टद्वारसमायुक्तं बहिरावरणद्वयम् ॥ ६/२३६ ॥
मध्यमे तिथिसंख्याः स्युर्नवकोणे व्यवस्थिताः ।
मध्यमे तिथिम?ख्यातं मध्यमत्रितयं त्यजेत् ॥ ६/२३७ ॥
अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् ।
सूत्रद्वयं न्यसेत्?पूर्वापरगं याम्यसौम्यकम् ॥ ६/२३८ ॥
सार्धहस्तान्तरं हस्तमानान्तरमथापि वा ।
स्याच्चतुर्दश संख्या?ता वृतिर्बाह्ये भ्रमेण च ॥ ६/२३९ ॥
अन्तमार्गं समाबाह्य विधिः शास्त्रे समीरिता ।
मध्यव्यूहस्य परितश्चतुष्कुण्डं तु वाऽष्टकम् ॥ ६/२४० ॥
चत्वारिंशद्व्यूहकस्य पृथक् स्यात्पञ्चविंशतिः ।
अष्टोत्तरसहस्रात्तु त्यजेद्बाह्यावृति गुरुः ॥ ६/२४१ ॥
तत्राग्नेयादिकोणस्थचतुर्व्यूहं समाचरेत् ।
अन्यत्सर्वं समानं स्यादष्टपञ्चशतं भवेत् ॥ ६/२४२ ॥
अष्टसंख्यासमायुक्ते द्विशते मध्यमेष्टकम् ।
बाह्ये षोडशसंख्यातान् गृह्णीयाद्दिग्विदिग्गतम् ॥ ६/२४३ ॥
अष्टव्यूहं तथा त्वेतदुक्तसंख्यान्वितं भवेत् ।
स्थण्डिलं पुरुषेण स्याचतुःप्रस्थमितं परम् ॥ ६/२४४ ॥
आरभ्य द्विगुणं चैकवृद्ध्या दशगुणावधि ।
मानं च शिवकुम्भे स्यात्तदर्धं करके मतम् ॥ ६/२४५ ॥
चतुस्त्रिद्व्येकसंख्याताः प्रस्थमानप्रपूरिते ।
कलशे वेष्टनं द्वित्रिव्योमसूत्रैः क्रमेण तु ॥ ६/२४६ ॥
वरालत्रुटिकर्पूरन्यग्रोधोशीरजातयः ।
एभिर्युक्तं शिवाम्भः स्याच्छिवमन्त्राभिमन्त्रितम् ॥ ६/२४७ ॥
तेनैव पूरयेत्कुम्भं वर्धनीकलशानपि ।
षट्त्रिंशत्तत्त्वपर्यन्तान् कुशान् त्र्यादीनथ न्यसेत् ॥ ६/२४८ ॥
कूर्चानैशेन मन्त्रेण द्रव्यमूलेन विन्यसेत् ।
वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ॥ ६/२४९ ॥
नवपञ्चात्मकं रत्नं शिवे शक्तौ च विन्यसेत् ।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं चतुर्दिशि ॥ ६/२५० ॥
कुशोदकं ततः क्षीरं दधिकोणे घृतं भवेत् ।
द्वितीयस्नपनं प्रोक्तं तृतीयं च निगद्यते ॥ ६/२५१ ॥
मधुलाजं सक्तुचूर्णं लाजचूर्णं हरिद्रका ।
भूतीक्षुसारकदलीतिलसर्षपपानसाः ॥ ६/२५२ ॥
नारिकेलञ्च नारङ्गद्वयं स्यान्मातुलुङ्गकम् ।
पञ्चविंशतिमध्ये तु संत्यजेदन्तरावृतम् ॥ ६/२५३ ॥
एवं कृते भवेदत्र कलशानां तु षोडश ।
चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ॥ ६/२५४ ॥
अन्तराले तु मध्वादिवसुसंख्याकमीरितम् ।
प्रागुक्तत्रितयञ्चैतद्विशेषान्नित्यकर्मणि ॥ ६/२५५ ॥
पञ्चविंशतिसंख्यातमपि नित्ये प्रशंसितम् ।
उत्तमोत्तमपूजायामष्टोत्तरशतावधि ॥ ६/२५६ ॥
नैमित्तिकं तदूर्ध्वस्थपूर्वोक्तमपि शंशितम् ।
द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ॥ ६/२५७ ॥
पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा ।
दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ॥ ६/२५८ ॥
आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुस्मरेत् ।
ब्रह्मभिः सकलीकृत्य तत्कलास्तत्र विन्यसेत् ॥ ६/२५९ ॥
न्यस्तविद्यातनुं तत्तद्रूपं ध्यात्वा शिवं न्यसेत् ।
स्थापनादि च पाद्यादि कृत्वा दत्वा हृदा गुरुः ॥ ६/२६० ॥
गन्धं पुष्पं च धूपं च दीपमर्घ्यं विधाय च ।
पदर्श्य लिङ्गमुद्रां तु कवचेनावकुण्ठयेत् ॥ ६/२६१ ॥
इष्ट्वा गौरीं च वर्धन्यां योनिमुद्रां प्रदर्श्य च ।
पञ्चकॢप्तौ तु ब्रह्माणि हित्वेशानं द्विजोत्तमाः ॥ ६/२६२ ॥
विद्येशा नवकॢप्तौ स्युर्बाह्ये मूर्तीश्वरा दिशि ।
अन्तरे वामदेवाद्याः पञ्चविंशतिसंख्यके ॥ ६/२६३ ॥
अष्टौ गणेश्वरा बाह्ये चाङ्गुष्ठप्रमुखास्तथा ।
क्रोधाद्या वसुसंख्याताः शतरुद्रादिकास्तु वा ॥ ६/२६४ ॥
एकोनेन तु पञ्चाशत्स्नपने देवता मतः ।
मध्ये विद्येश्वराः पूज्याः शतरुद्रा बहिर्मताः ॥ ६/२६५ ॥
[अष्टोत्तरशताख्ये च स्नपने देवता मताः ।]
विद्येशा मध्यमे देवास्त्वन्यत्र शिव एव हि ॥
स च नाम्नां सहस्रैस्तु पठ्यते तद्विशेषतः ॥२६६ ॥
[अष्टोत्तरसहस्राख्यस्नपने देवता मताः ॥]
कूटाक्षरादिसंयुक्तं चतुर्थ्यन्तसमन्वितम् ।
स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ॥ ६/२६७ ॥
पठित्वा पूजयेदीशं शिवनामाथ केवलम् ।
लिङ्गशुद्धिक्रमात्प्राप्ता यथावदभिधीयते ॥ ६/२६८ ॥
लिङ्गं त्रिविधमाख्यातं व्यक्ताव्यक्तोभयात्मकम् ।
स्वयम्भूदेवबाणार्षपौरुषाद्यमनेकधा ॥ ६/२६९ ॥
स्थिरलिङ्गं चरं वापि त्रिविधं मण्डलं तथा ।
पटं वा भित्तिचित्रं वा पीठं वा मन्त्रसंस्कृतम् ॥ ६/२७० ॥
वह्न्यम्बुगुरुवृक्षाद्यं विद्यापीठमथापि वा ।
विशेषतः स्वयंसिद्धं पाषाणं रत्नमेव वा ॥ ६/२७१ ॥
अन्यद्वा लिङ्गकल्पोक्तं सैकताद्यं विशेषतः ।
एतत्सर्वं शिवेज्यार्थं यथायोगं प्रकल्पयेत् ॥ ६/२७२ ॥
सामान्यार्घ्यञ्च संग्राह्य द्वाराग्रे वृषभं यजेत् ।
लोहजं संयजेद्द्वारे परिवारे तु शैलजम् ॥ ६/२७३ ॥
सप्तवर्गाच्चतुर्थं तु सप्तस्वरविभूषितम् ।
बिन्दुनादसमायुक्तमादो प्रणवपूर्वकम् ॥ ६/२७४ ॥
वृषभाय नमश्चान्ते तस्मिन्ब्रह्माङ्गकल्पना ।
द्वारमस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ॥ ६/२७५ ॥
गणपं भारतीमूर्ध्वे नन्दिनं जाह्नवीयुतम् ।
महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् ॥ ६/२७६ ॥
विमलञ्च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।
एते पूज्या नमोन्तैश्च हृदयाद्यैर्यथाक्रमम् ॥ ६/२७७ ॥
रूपसंस्थानभावैस्तु गन्धपुष्पादिभिः क्रमात् ।
कार्यं त्रिविधविघ्नानां न्यस्य खङ्गमुदुम्बरे ॥ ६/२७८ ॥
द्वारपूजावसाने तु स्नानान्ते च निवेद्यके ।
सन्ध्यावसाने निक्षेप्यं प्रच्छन्नपटमुत्तमम् ॥ ६/२७९ ॥
संपूज्यात्मभुवं वास्तोष्पते ब्रह्मण इत्यपि ।
लिङ्गमध्यगतां पूजां पूर्वकाले प्रकल्पिताम् ॥ ६/२८० ॥
गायत्र्या पूजयित्वा तु सामान्यार्घ्यं तु दापयेत् ।
उच्चार्य पञ्चब्रह्माणि पूजां लिङ्गाद्विसृज्य च ॥ ६/२८१ ॥
हृन्मन्त्रेणेशदिग्भागे पीठिकादौ यथाविधि ।
चण्डेशायेति निक्षिप्य पिण्डिकामस्त्रयोगतः ॥ ६/२८२ ॥
विशोध्य दक्षहस्तेन शिवलिङ्गं तु शोधयेत् ।
अस्त्राम्बुनैव संशोध्य शिवलिङ्गं सवेदिकम् ॥ ६/२८३ ॥
सामान्यार्घ्यजलैः पश्चादभिषेचनमाचरेत् ।
आवाहनासनं पद्ममनन्तं स्नानकर्मणि ॥ ६/२८४ ॥
विमलञ्चार्चने विद्यान्नैवेद्ये योगमासनम् ।
वस्त्रादीन्यन्यकर्माणि सिंहासने प्रकल्पयेत् ॥ ६/२८५ ॥
इत्यात्मस्थानद्रव्यार्णलिङ्गशुद्धौ कृते सति ।
अर्चनं शैविकं कार्यमन्यथा न विधीयते ॥ ६/२८६ ॥
गणेशं पीठवायव्यां गन्धपुष्पादिभिर्यजेत् ।
ऐशान्यां गुरुपङ्क्तीश्च पूजयेद्धृदयेन तु ॥ ६/२८७ ॥
आसनासनिसद्भावं ज्ञात्वा यजनमारभेत् ।
आसनं द्विविधं प्रोक्तं देहजीवविभेदतः ॥ ६/२८८ ॥
शुद्धविद्यान्ततोऽनन्ताद्यासनं परिकीर्तितम् ।
महामायावसानं तु दिव्यदेहं विचिन्तयेत् ॥ ६/२८९ ॥
जीवोऽस्मिन् शिव एव स्यादेवं त्रिविधकल्पनात् ।
यल्लघु व्यापकं तद्धि व्याप्तं हि तदधिष्ठितम् ॥ ६/२९० ॥
तृणवद्वायुना दृश्यं धार्यते जायते यया ।
साऽधारशक्तिर्न्यस्तव्या पूर्वं कूर्मशिलासने ॥ ६/२९१ ॥
चन्द्रांशुनिर्मला सौम्या चतुर्वक्त्रा चतुर्भुजा ।
दुग्धाब्धिसदृशाकारा कल्पिता हृदयार्णगा ॥ ६/२९२ ॥
अनन्तं नीलसंकाशं अनेकफणमण्डितम् ।
हृदयेऽञ्जलिसंयुक्तमेकवक्त्रं चतुर्भुजम् ॥ ६/२९३ ॥
क्षीराब्धितः समुत्पन्नसरोरुहसमाकृतिम् ।
तत्राधारे हृदा मन्त्री विन्यसेदासनात्मकम् ॥ ६/२९४ ॥
तद्वीर्यभूता धर्माद्याः चतुष्कोणस्थपादुकाः ।
सिंहाकारसितार्कांशुपीतकृष्णनिभाः शुभाः ॥ ६/२९५ ॥
अन्योन्यवीक्षणैः सिंहैरनेकैः परिवारिताः ।
अधर्माज्ञानावैराग्यानैश्वर्याख्यानि तानि तु ॥ ६/२९६ ॥
चित्रवर्णस्वरूपाणि दिक्षु गात्राणि कल्पयेत् ।
अधश्छदनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥ ६/२९७ ॥
बन्धमोचनहेत्वादि शक्तिद्वयमयं द्वयम् ।
नैरृत्यादीशदिग्भागे मेखलाधोर्ध्वसङ्गतम् ॥ ६/२९८ ॥
पद्ममष्टदलोपेतं सिद्ध्यष्टकसमन्वितम् ।
शक्तिकेसरसंभिन्नं कर्णिकाशक्तिसंयुतम् ॥ ६/२९९ ॥
बिल्वपत्रैः हृदा कल्प्यं लिङ्गमूले विशेषतः ।
वामा ज्येष्ठा च रौद्री च काली चैव ततः परम् ॥ ६/३०० ॥
कलविकरणी देवी बलविकरणी तथा ।
बलप्रमथिनी चैव सर्वभूतदमन्यपि ॥ ६/३०१ ॥
पूर्वादीशानपर्यन्तं केसरेषु दलेषु च ।
मनोन्मनीं कर्णिकायां विन्यसेद्धृदयेन तु ॥ ६/३०२ ॥
वामाद्याः शक्तयो रक्ताः श्वेताभा स्यान्मनोन्मनी ।
मण्डलत्रयमर्केन्दुवह्न्याख्यं स्वस्वरूपतः ॥ ६/३०३ ॥
दलान्तं केसरान्तं च कर्णिकान्तं प्रकल्पयेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च मण्डलत्रयदेवताः ॥ ६/३०४ ॥
ब्रह्माणं सचतुर्वक्त्रं चतुर्बाहुविभूषितम् ।
कमण्डलुधरं रक्तं दण्डहस्तं प्रजापतिम् ॥ ६/३०५ ॥
अक्षमालाधरं दिव्यं पद्महस्तं सुलोचनम् ।
ध्यात्वा पत्रेषु विन्यस्य सर्वकिल्विषनाशनम् ॥ ६/३०६ ॥
अतसीपुष्पसंकाशं शङ्खचक्रगदाधरम् ।
पीताम्बरधरं दिव्यं वनमालाविभूषितम् ॥ ६/३०७ ॥
स्फुरन्मकुटमाणिक्यकिंकिणीजालमण्डितम् ।
ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् ॥ ६/३०८ ॥
शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् ।
सिंहचर्मपरीधानं शशाङ्ककृतशेखरम् ॥ ६/३०९ ॥
नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा विशेषतः ।
कर्णिकायां निवेश्यैनं महापातकनाशम् ॥ ६/३१० ॥
तत्रैवात्मत्रयं न्यस्य गुणत्रयमतः परम् ।
वह्नित्रयं च तत्रैव विन्यसेत् प्रविभागशः ॥ ६/३११ ॥
एवं पृथ्व्यादितत्त्वानां शुद्धविद्यावसानकम् ।
व्यप्ति? सञ्चिन्त्य तन्मध्ये शक्तिं भूयोऽपि विन्यसेत् ॥ ६/३१२ ॥
एवं शक्त्यादिशक्त्यन्तमासनं परमेष्ठिनः ।
अनन्तः कर्तृरूपेण पीठात्मा त्वत्र तिष्ठति ॥ ६/३१३ ॥
एवं संक्षेपतो विप्राः पीठकॢप्तिरिहोच्यते ।
धर्मो ज्ञानं च वैराग्यं त्वैश्वर्यं च चतुष्टयम् ॥ ६/३१४ ॥
अनन्तः शक्तिरित्येवं षडङ्गान्यासनस्य तु ।
षडध्वमासनं शम्भोः पूजा स्याद्धृदयेन तु ॥ ६/३१५ ॥
अथवाऽन्यप्रकारेण कथ्यते पीठकल्पना ।
सर्वाध्वनिर्मितं पीठं चतुर्युगमहाङ्घ्रि?कम् ॥ ६/३१६ ॥
पृथ्वीकन्दं तथा कालान्तस्थतत्त्वोर्ध्वनालकम् ।
पञ्चाशद्भावसम्भिन्नकण्टकैरुपशोभितम् ॥ ६/३१७ ॥
मायातत्त्वं बृहद्ग्रन्थि शुद्धविद्योरुपङ्कजम् ।
विद्येश्वरदलं शक्तिकेसरैरुपशोभितम् ॥ ६/३१८ ॥
शिवशक्तिद्वयारब्धकर्णिकाबीजराजितम् ।
पीठमेवंविधं ध्यायेन्मातृकाक्षरसम्भवम् ॥ ६/३१९ ॥
नपुंसकाक्षरैरेव धर्मादीन् परिकल्पयेत् ।
अनन्तं सृष्टि?पूर्वेण तत्पूर्वेण महाम्बुजम् ॥ ६/३२० ॥
कर्णिकान्तं स्वरान्तेन कल्पयेकपवितमः ।
ओंकाराद्या अकारान्तास्त्यक्तषण्डनवस्वराः ॥ ६/३२१ ॥
वामाज्येष्ठादिशक्तीनां क्रमादुत्क्रमतो नव ।
केसराणि चतुर्विंशत्कादिभान्तर्गतानि च ॥ ६/३२२ ॥
मकारादिहकारान्तैर्नवबीजानि कल्पयेत् ।
मण्डलत्रयमत्रैव पूर्वक्?परिकल्पयेत् ॥ ६/३२३ ॥
मातृकासम्भवं पीठमेवमापाद्य पूजयेत् ।
मण्डलत्रितयेभ्युत्थामनलस्तम्भसन्निभाम् ॥ ६/३२४ ॥
मूर्तिमीश्वरतत्वान्तां लिङ्गनाहे तु विन्यसेम् ।
हृत्सम्पुटमजातं वै मूर्तिमन्त्रमुदाहृतम् ॥ ६/३२५ ॥
तथैव मूल एवायं सादाख्यं मन्त्रमुच्यते ।
विन्यसेन्मूर्ध्नि मधे तु विद्यादेहं सदाशिवम् ॥ ६/३२६ ॥
आरोहे शिवलिङ्गस्य शुद्धस्थानमयं प्रभुम् ।
अष्टत्रिंशत्कलोपेतं ब्रह्माङ्गकृतविग्रहम् ॥ ६/३२७ ॥
सदाशिवस्य रूपं तु ध्यानार्थमिह कथ्यते ।
ध्यानं वै सर्वसिद्ध्यर्थं पटादौ वाऽपि निर्मितम् ॥ ६/३२८ ॥
पञ्चास्यं दशदोर्दण्डं स्फटिकाभं त्रिलोचनम् ।
शान्तं चन्द्रकलाचूडं सर्पसन्नद्धसज्जटम् ॥ ६/३२९ ॥
मन्त्रसिंहासनासीनं श्वेतपद्मोपरि स्थितम् ।
कुण्डलैः कर्णिकैर्हारैः कटिसूत्रोदरबन्धनैः ॥ ६/३३० ॥
केयूरैः कटकैश्चैव छन्नवी?रैश्च संयुतम् ।
षोडशाब्दयु?तं कान्तं सुप्रसन्नं स्मिताननम् ॥ ६/३३१ ॥
शूलं परशुखङ्गं च वज्रं वह्निं च दक्षिणे ।
अभयं पाशमन्यच्च घण्टां नागाङ्कुशौ तथा ॥ ६/३३२ ॥
वामहस्तगतं ध्यायेदन्यथा च निगद्यते ।
प्रसादाभयखट्वाङ्गशक्तिशूलास्तु सव्यतः ॥ ६/३३३ ॥
वामे डमरुसर्पाक्षमालेन्दीवरपूरकैः ।
इच्छाज्ञानक्रियाशक्तित्रयनेत्रयुतं स्मरेत् ॥ ६/३३४ ॥
चन्द्रः सर्यज्ञतारूपः दशहस्ता दिशो दश ।
त्रिशूलं त्रिगुणं प्रोक्तं सत्ता परशुरुच्यते ॥ ६/३३५ ॥
खड्गमीशप्रतापः स्याद्वज्रं दुर्भेद्यता भवेत् ।
बहिः संहारिणी शक्तिः पाशानां भस्मसात्करी ॥ ६/३३६ ॥
प्रकाशिका पदार्थानां महामायोर्ध्ववर्तिनाम् ।
नागोपधृष्टता शक्तिः सर्वेषां च विधायिका ॥ ६/३३७ ॥
पाशं पाशत्रयं विद्यान्मायाकर्ममलात्मकम् ।
घण्टा नादात्मकं रूपं मन्त्रविग्रहबोधकम् ॥ ६/३३८ ॥
अभयं सर्वलोकानां शक्तिर्वै परिपालिनी ।
यद्भोग्ये ह्यात्मनः प्राप्तिस्त्वत्रैव नियमोऽङ्कुशम् ॥ ६/३३९ ॥
एवम्भूतस्वरूपाणि स्मर्यन्ते चायुधानि वै ।
ईशः स्फटिकवन्मध्ये पूर्वे कुङ्कुमवन्नरः ॥ ६/३४० ॥
दक्षिणेऽञ्जनवद्घोरः सौम्ये वामः कुसुम्भवत् ।
चन्द्रांशुनिर्मलं सद्यं वक्त्रं पश्चिमदिग्गतम् ॥ ६/३४१ ॥
सिंहनादमुखं पूर्वे ललाटे नयनं शुभम् ।
भ्रूहीनं तुङ्गनासं च सुकपोलस्मिताधरम् ॥ ६/३४२ ॥
दक्षिणं भीषणाकारं दंष्ट्रादन्तुरकर्कशम् ।
विवृतास्यं महाघ्राणं वृत्ताक्षं लेलिहानकम् ॥ ६/३४३ ॥
नागाभरणसंयुक्तं कपालकृतशेखरम् ।
ज्वालाकृ?तिजटाव्यालभोगिबद्धोर्ध्वचूडकम् ॥ ६/३४४ ॥
पीतमाप्यं प्रसन्नं च सुनासं सुललाटकम् ।
त्र्यक्षं मकुटयुक्तं च कुण्डलालङ्कृतं शुभम् ॥ ६/३४५ ॥
भृङ्गाकारकचव्रातं काञ्चनाभरणान्वितम् ।
ललाटतिलकोपेतं दर्पणासक्ततेजसम् ॥ ६/३४६ ॥
अलकावतंससंयुक्तं सौम्यं कान्तवपुर्युतम् ।
तत्रैशानःस्थितोत्तानो मूर्धस्थस्त्वतिभीषणः ॥ ६/३४७ ॥
कुण्डलालङ्कृतस्त्र्यक्षो मौलीन्दुतरुणः स्मृतः ।
एवं वक्त्राणि संभाव्य रूपं सादाशिवं यजेत् ॥ ६/३४८ ॥
यथा देहे तथा देवे मन्त्रन्यासं प्रकल्पयेत् ।
एवं शाक्तं वपुः कल्प्य तस्मिन् परमकारणम् ॥ ६/३४९ ॥
शिवं वै शाश्वतं सत्यं ज्ञानानन्दसुखात्मकम् ।
व्यापकं सर्वतत्त्वानामप्रमेयमनूपमम् ॥ ६/३५० ॥
वाच्यवाचकरहितं वाङ्मनोऽतीतगोचरम् ।
व्यक्तं कुर्याद्विशेषेण निष्कलं सकलात्मनि ॥ ६/३५१ ॥
इत्यावाहनपूर्वैस्तु मूलमन्त्रैर्नियन्त्रणात् ।
यथा काष्ठम?तो वह्निर्व्य?ज्यते मथनादिभिः ॥ ६/३५२ ॥
तथा मन्त्रप्रभावेन भक्त्याऽभिव्यज्यते शिवः ।
कृत्वा हृद्गतमञ्जलिं संकुसुमं प्रासादमन्त्रं पठन्
भक्त्या निष्कलगोचरं समरसीभावं गतः साधकः ।
ध्यायेदुत्क्रमतः स्वशक्तिभवने नादे तथा बिन्दुके
निष्क्रान्तं क्रमतः स्वशक्तिकिरणैः स्यादेवमावाहनम् ॥ ६/३५३ ॥
ऋषयय ऊचु :-
सर्वगस्य शिवस्येह कथमावाहनं प्रभो ।
यद्यावाहनमिष्टं स्यात्सर्वगत्वं विहन्यते ॥ ६/३५४ ॥
ईश्वर उवाच :-
आमूलाग्रस्थितस्याग्नेरभिव्यक्तिर्यथा तरौ ।
तद्वदेकत्र चिद्व्यक्तिर्व्यापकस्य न बाध्यते ॥ ६/३५५ ॥
यथात्मनस्तनुद्वारा स्यातामिह गमागमौ ।
तद्वन्मन्त्रतनुद्वारा शिवस्येष्टौ गमागमौ ॥ ६/३५६ ॥
अचिन्त्यशक्तियुक्तत्वाद्व्यापकोऽव्यापकश्च सः ।
सतनुस्तनुहीनो वा सर्वकृत्सर्वगः शिवः ॥ ६/३५७ ॥
एवं बिन्दुगतं त्वीशं हस्तपुष्पगतं स्मरेत् ।
तच्च प्राणपथा कार्यं नाड्या ज्योतिः स्वरूपया ॥ ६/३५८ ॥
तस्मादादाय लिङ्गस्थं स्थापिन्या विन्यसेत्तनौ ।
येन सामर्थ्यतः शम्भोः स्वस्य स्वस्वामिता भवेत् ॥ ६/३५९ ॥
तच्छक्तिप्रकटीभावः सन्निधानं स्वमुद्रया ।
सन्निधेरपरित्यागे योऽर्चाकालावसानकः ॥ ६/३६० ॥
सन्निरोधो निरोधिन्या विभोरपि विभाव्यते ।
लोके सुखात्मकं वस्तु गोपनीयं यथा तथा ॥ ६/३६१ ॥
तस्यावकुण्ठनं कार्यमवकुण्ठनमुद्रया ।
यथानलतरण्याद्याः समर्थाः स्वस्वदीप्तिभिः ॥ ६/३६२ ॥
तद्वदङ्गैः स्वभावोत्थैरधृष्योऽखिलकृच्छिवः ।
अस्तित्वं हृदयं तस्य शिरश्चोर्ध्वं शिखास्थितिः ॥ ६/३६३ ॥
शिखा स्वतन्त्रता तस्य कवचं गोप्तृता भवेत् ।
निरस्यति यया शक्त्या भवमस्त्रं तदस्य हि ॥ ६/३६४ ॥
नेत्रं सर्वज्ञताशक्तिः समस्तार्थप्रकाशिका ।
एवं षाङ्गुण्यमत्रोक्तं जगत्कर्तुः शिवस्य तु ॥ ६/३६५ ॥
एतानि हृदयादीनि षडङ्गानि स्वमन्त्रतः ।
हृच्छिरश्चूलिकागात्रनेत्रहस्तेषु विन्यसेत् ॥ ६/३६६ ॥
अङ्गाङ्गिनोरभिन्नत्वप्रतिपत्तिर्विभिन्नयोः ।
अमृतीकरणं प्रोक्तं प्रभोरमृतमुद्रया ॥ ६/३६७ ॥
प्ररोचनं भवेत्तस्य रुचिराङ्गप्रवर्धनम् ।
तन्महामुद्रया कुर्यान्मोदनद्रावणार्थया ॥ ६/३६८ ॥
षडध्वविग्रहं देवं सम्मुखं शक्तिसंयुतम् ।
परमानन्दसन्दोहधवलीकृतदिङ्मुखम् ॥ ६/३६९ ॥
ध्यात्वा पाद्यं पदे दद्यान्मुखेष्वाचमनं ततः ।
अर्घ्यं मूर्धसु दातव्यं दूर्वापुष्पाक्षतं तथा ॥ ६/३७० ॥
नत्यन्तेन हृदा पाद्यमाचामं स्यात् स्वधान्ततः ।
स्वाहान्तेन हृदा चार्घ्यं दूर्वाद्यं वौषडन्ततः ॥ ६/३७१ ॥
कृत्वैवं दशसंस्कारानुपचारैश्च पूजयेत् ।
पूजोपचारैर्विभवानुसारैः
स्नानादिभिः स्वल्पतरैर्महद्भिः ।
विधीयते नित्यविधौ समस्तैः
स्रगा?दिभिः काम्यविधाववश्यम् ॥ ६/३७२ ॥
स्नानं वस्त्रविलेपनञ्च कुसुमं धूपोऽथ दीपो हवि-
स्ताम्बूलं मुखवासगन्धसहितं गीतं च नृत्तं महत् ।
होमो भूतबलिप्रदानसहितो नित्योत्सवो वा बलिः
सङ्गीतञ्च समस्तमेतदुदितं शम्भोर्विभूतौ सति ॥ ६/३७३ ॥
गन्धं पुष्पञ्च धूपञ्च दीपं नैवेद्यमेव च ।
पञ्चोपचारा एते स्युर्दीपान्तं वाऽपि सम्मतम् ॥ ६/३७४ ॥
स्नानयोग्याः स्नापनी?याश्चित्राद्यास्तद्विवर्जिताः ।
कृपाणदर्पणादौ? वा मणौ वा प्रतिबिम्बिते ॥ ६/३७५ ॥
दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तं तु पूजनम् ।
बल्यन्तं शान्तिकं प्रोक्तं पूजा हि त्रिविधोच्यते ॥ ६/३७६ ॥
सायं प्रातत्?तथाभ्यर्च्य मध्याह्ने तु निवेदनम् ।
प्रस्थद्वयं तु तत्काले पावयित्वा निवेदयेत् ॥ ६/३७७ ॥
एको दीपो द्विकालेऽपि रात्रौ दीपद्वयं त्विह ।
एवमुक्तप्रकारेण अधमाधममाचरेत् ॥ ६/३७८ ॥
प्रातः काले च मध्याह्ने द्विःप्रस्थं तण्डुलं हविः ।
सायं प्रातः समभ्यर्च्य दीपाश्चत्वार एव हि ॥ ६/३७९ ॥
प्रस्थद्वयं त्रिकाले तु प्रत्येकमथ निर्दिशेत् ।
दीपाश्चत्वार एव स्युः साये तु द्विगुणास्ततः ॥ ६/३८० ॥
अधमत्रितये धीमान् वाद्यध्वनिसमन्वितम् ।
मध्यमस्याधमञ्चैव मध्याह्ने चाढकं हविः ॥ ६/३८१ ॥
प्रातः साये च द्विःप्रस्थं दीपैर्द्वादशभिर्युतम् ।
त्रिकालं पुष्प लङ्गेन बलिदानं नयेद् द्विजः ॥ ६/३८२ ॥
मध्यमान्मध्यमं चैव त्रिकाले चाढकं हविः ।
अर्धयामे तदर्धं च चतुर्विंशतिदीपकम् ॥ ६/३८३ ॥
त्रिकालं बलिसंयुक्तं पुष्पेणार्घ्यं बलिक्रमात् ।
वाद्यध्वनिसमायुक्तं शङ्खकाहलसंयुतम् ॥ ६/३८४ ॥
मध्याह्ने नित्यहोमं च शिवमन्त्रेण संयुतम् ।
मध्यमस्योत्तमे चैव त्रिकालेष्वाढकद्वयम् ॥ ६/३८५ ॥
आढकञ्चार्धयामे तु दीपसप्ततिसंयुतम् ।
त्रिकालं बलिदानं स्यात्त्रिकालं होममाचरेत् ॥ ६/३८६ ॥
सर्ववाद्यसमायुक्तं षट्काले च सुधोषयेत् ।
षड्विधं यत्र कुर्वीत कालसंख्या न विद्यते ॥ ६/३८७ ॥
उत्तमस्याधमं यत्र द्रोणेनैव त्रिसन्धिषु ।
द्रोणार्धमर्घयामे तु दीपास्त्वष्टशतं भवेत् ॥ ६/३८८ ॥
त्रिकालं बलिदानं स्यात् त्रिकालं होममाचरेत् ।
वाद्यकानां चतुर्विंशत्सर्ववाद्यसमन्वितम् ॥ ६/३८९ ॥
गणिकास्तु चतुस्त्रिंशत् चतुर्विंशति वा दश ।
रूपायौवनसम्पन्नारित्रकालं नृत्तमाचरेत् ॥ ६/३९० ॥
पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् ।
उत्तमं मध्यमं यत्र त्रिकालेषु चतुर्हविः ॥ ६/३९१ ॥
पायसादीनि विधिना प्रत्येकं द्रोणतण्डुलैः ।
द्रोणं शुद्वोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ॥ ६/३९२ ॥
द्रोणं तु चार्धयामे तु दीपाश्चैव शतद्वयम् ।
त्रिकालं बलिहोमं च शीतारिदीपमुच्यते ॥ ६/३९३ ॥
वाद्यकानां चतुस्त्रिंशत् पञ्चाशद्गणिकान्वितम् ।
कालं यामद्वयं प्रोक्तं नृत्तं कुर्यात्त्रिसन्धिषु ॥ ६/३९४ ॥
उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते ।
पायस्या?दीनिपिक्वानि पञ्चद्रोणेन वै पृथक् ॥ ६/३९५ ॥
तदर्धमर्धरात्रेस्तु? दीपाः पञ्चशतं भवेत् ।
त्रिकालं बलिहोमं च पञ्चाशद्वाद्यसंयुतम् ॥ ६/३९६ ॥
षोडशद्विशतैश्चैव गणिकाभिः समन्वितम् ।
नृतं कुर्यात्त्रिसन्ध्यायां कालो यामयुतो भवेत् ॥ ६/३९७ ॥
पञ्चवर्णहवीष्यत्र पायासादीनि च क्रमात् ।
द्रोणतण्डुलसिद्धानि तदर्धेन तदर्धतः ॥ ६/३९८ ॥
एषामेकद्वयं वाऽपि त्रयं वा सर्वमेव वा ।
हर्विदद्याद्विशेषेण एककालेऽथवा पुनः ॥ ६/३९९ ॥
शुद्धान्नं द्विगुणं प्रोक्तमेतत्सामान्यमीरितम् ।
एवं नवविधे प्रोक्तं प्रत्येकं तु विधीयते ॥ ६/४०० ॥
स्नातोदभाण्डंसंपूज्य स्नानाम्भोगन्धवासितम् ।
संहितामन्त्रसं?जतं सपुष्पं धूपितं शुभम् ॥ ६/४०१ ॥
तैलेन हस्तयन्त्राद्यैः साधितेन नवेन च ।
पक्वेन? वासितेनाऽथ शुद्धगव्येन सर्पिषा ॥ ६/४०२ ॥
सपीठं लिङ्गमभ्यज्य धूपयेत्तदनन्तरम् ।
शुभेन शालिपिष्टेन हरिद्रासंयुतेन च ॥ ६/४०३ ॥
उद्वर्त्य माषचूर्णेन निमज्जन?मथाचरेत् ॥
सुगन्धामलकाद्यैस्तु स्नानं तत्र विधीयते ॥ ६/४०४ ॥
वर्णभूतशरावैस्तु वज्राद्यैर्गोमयोद्भवैः ।
पौष्टिकैर्वा सुरचितै राजिकालवणेन तु ॥ ६/४०५ ॥
कोष्णाम्बुभिर्गन्धतोयैः कषायैरभिषेचयेत् ।
पयोदधिघृतक्षौद्रशर्कराद्यैः स्वशक्तितः ॥ ६/४०६ ॥
कुडुपाद्याढकान्तैश्च कुडुपाद्वर्धितैरपि ।
खण्डाभावादिक्षुसारो मध्वभावे घृतं भवेत् ॥ ६/४०७ ॥
जलधूपान्तरैः कार्योऽभिषेको विभवे सति ।
नालिकेरफलाम्भोभिरन्यैर्वा रसवद्रसैः ॥ ६/४०८ ॥
पुष्पाद्यैर्हेमतोयैश्च रत्नोदैर्गन्धतोयकैः ।
अभिषेकं ततः कुर्यान्न कुर्याच्छून्यमस्तकम् ॥ ६/४०९ ॥
तर्जन्यङ्गुष्ठयोगेन पुष्पाण्यादाय हेतिना ।
तेन मूर्ध्निगतं पुष्पं त्यक्त्वाऽन्यत् तत्र योजयेत् ॥ ६/४१० ॥
अष्टपुष्पं त्रिगन्धं च सप्तवारि नियोजयेत् ।
आवाहनार्घ्यपाद्येषु स्नाने धूपविलेपने ॥ ६/४११ ॥
नैवेद्ये च विसर्गे च पुष्पमष्टसु योजयेत् ।
अर्घ्ये विलेपने स्नाने त्रिषु गन्धं प्रकल्पयेत् ॥ ६/४१२ ॥
पुष्पदानार्घ्यपाद्येषु स्नाने चाचमनं तथा ।
क्षालने प्रोक्षणे चैव वारि सप्तसु योजयेत् ॥ ६/४१३ ॥
धूपं सर्वत्र दातव्यं शेषं ज्ञात्वा प्रयोजयेत् ।
द्वारपूजावसाने तु स्नानान्ते च निवेद्यके ॥ ६/४१४ ॥
सन्ध्यावसाने निक्षिप्य प्रच्छन्नपटमुत्तमम् ।
स्थापितैः कलशैः पश्चादभिषेकं समाचरेत् ॥ ६/४१५ ॥
वामहस्ततले कृत्वा गडडुकं लिङ्गमस्तकात् ।
कुसुमं पूर्वविन्यस्तं तदस्त्रेणापनीय च ॥ ६/४१६ ॥
धौतपाणिः समन्त्रेण शङ्खमुद्रापरिप्लुतैः ।
जलैरनुच्चलद्भिश्च स्नापयेदीशमस्तके ॥ ६/४१७ ॥
नोपरि भ्रामयेद्धस्तं न मुद्रां बन्धयेदधः ।
अद्भिरुच्चलिताभिस्तु तद्द्रव्याणि न सेवयेत् ॥ ६/४१८ ॥
जयशब्दसमोपेतं शिवकुम्भञ्च वर्धनीम् ।
उद्धृत्य नीत्वा देवाग्ने यन्त्रिकोपरि विन्यसेत् ॥ ६/४१९ ॥
दत्वा घटस्थदेवाय देव्यै पाद्यादिकं त्रयम् ।
गन्धं पुष्पं च धूपं च दीपमर्घ्यं विधाय च ॥ ६/४२० ॥
अपनीय पिधानं तद्दक्षहस्तेन देशिकः ।
कूर्वं सपुष्पं तोयाभ्यां शिवमन्त्रमनुस्मरन् ॥ ६/४२१ ॥
संगृह्य तत्त्वचित्तस्तु लिङ्गमूर्ध्नि मनुं न्यसेत् ।
देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ॥ ६/४२२ ॥
शिवमन्त्रं स्मरन् कुम्भतोयेन स्नापयेच्छिवम् ।
पिण्डिकारूपिणीं देवीं स्नापयेत्तदनन्तरम् ॥ ६/४२३ ॥
सुगन्धामलकाद्यैस्तु स्नानं तत्र विधीयते ।
गन्धाम्बुनाऽभिषेकं तु कृत्वा लिङ्गं सपीठकम् ॥ ६/४२४ ॥
वक्त्रेष्वाचमनं दत्वा मार्जयेच्छुद्धवाससा ।
गन्धद्रव्यैः समालिप्य शिवलिङ्गं सवेदिकम् ॥ ६/४२५ ॥
वस्त्रैर्नानाविधैर्द्रव्यैर्देवमाच्छाद्य निर्मलैः ।
दत्वाष्टपुष्पं देवाय दद्यान्मन्त्रहविस्ततः ॥ ६/४२६ ॥
मुद्गान्नं वाऽथ शुद्धान्नमुपदंशादिसंयुतम् ।
शुद्धाभिः पुष्पमालाभिः पत्रच्छेदैरथार्चयेत् ॥ ६/४२७ ॥
हेमपट्टैश्च मकुटैः पर्णैर्हेमविनिर्मितैः ।
हेमदूर्वाङ्कुरैर्हेमलक्ष्मीपुष्पैरनेकशः ॥ ६/४२८ ॥
भूषयेच्चन्द्रखण्डेन हेमपुष्पैरनेकशः ।
त्रिसरेणोत्तरीयेण कटिसूत्रेण साधकः ॥ ६/४२९ ॥
हैमेन कृत्तिवासेन हैमक?त्रेण चैव हि ।
अन्यैर्मकुटपुष्पाद्यैर्गोलकैर्हेमनिर्मितैः ॥ ६/४३० ॥
भूषयेच्च यथान्यायं रत्नैर्नानाविधैरपि ।
माणिक्यमर्कवारे स्याच्चन्द्रवारे तु मौक्तिकम् ॥ ६/४३१ ॥
कुजवारे प्रवालं स्याद् बुधे मरकतं भवेत् ।
गुरौ तु पुष्परागं स्याच्छुके वज्रमिति स्मृतम् ॥ ६/४३२ ॥]
इन्द्रनीलं च सौरे स्यात्सर्वाण्येतानि यानि च ।
सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ॥ ६/४३३ ॥
दत्वाऽजातेन पाद्यं तु पादयोस्तन्मुखेषु च ।
आचामान्ते च मूर्धादौ शिरस्यर्घ्यं प्रदापयेत् ॥ ६/४३४ ॥
पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।
उपस्नानसमायुक्तं धूपं वा विनिवेदयेत् ॥ ६/४३५ ॥
अवश्यमावृतान्ते स्यादुपस्नानं सधूपकम् ।
गापयेन्मन्त्रगानं वा वीणानादमथापि वा ॥ ६/४३६ ॥
वेदाध्ययनमन्यच्च शास्त्रपाठादिकञ्च यत् ।
तदूर्ध्वं गौडभाषाद्यैर्गानं धूपान्तमाचरेत् ॥ ६/४३७ ॥
ऊर्ध्वं द्राविडभाषाङ्गं गानं नृत्तयुतं तु वा ।
संस्कृतादनपभ्रंशं नानास्वरसमन्वितम् ॥ ६/४३८ ॥
यदष्टादशभाषोत्थं गानं वा परिकल्पयेत् ।
नानादेशप्रसूतं च नर्तनं परिकल्प्य च ॥ ६/४३९ ॥
पुष्पप्रतिसराद्यैश्च समन्ताल्लम्बयेदधः ।
निर्धूमज्वलदङ्गारपूर्णपात्रोदरे भृशम् ॥ ६/४४० ॥
दह्यमानेन धूपेन धूपयेत्तदनन्तरम् ।
सुरूपां धीरनिर्घोषां घण्टां वामेन पाणिना ॥ ६/४४१ ॥
वादयन् सर्वदा धूपमुत्क्षिपेदस्त्रचोदितम् ।
कपिलाघृतसंपूर्णैः कर्पूरागरुवर्तिभिः ॥ ६/४४२ ॥
अनिर्वाणप्रदीपैश्च चक्रतोरणदीपकैः ।
त्रिशूलदीपिकाभिश्च दीपमालाभिरेव च ॥ ६/४४३ ॥
अन्यैर्नानाविधैर्दीपैर्ज्वालयेत्तु समन्ततः ।
गोदानं तिलदानं च स्वर्णदानं तथैव च ॥ ६/४४४ ॥
गवां तृणादिदानं च कुर्याल्लोकोपचारतः ।
प्रभूतैः स्नेहसम्पूर्णैर्ज्वलद्भिर्दीपकैः स्थिरैः ॥ ६/४४५ ॥
कुर्यादारात्रिकं पश्चात्सद्वर्त्या प्रतिबोधितैः ।
यथाङ्गं भमस्नाऽऽलभ्य तिलकैर्वा त्रिपुण्ड्रकैः ॥ ६/४४६ ॥
धूपै दीपेऽथ नैवेद्यं बलावभ्यन्तरेऽपि च ।
सकृदावमनं दत्वा कर्तव्यं कर्म चोत्तरम् ॥ ६/४४७ ॥
प्रणम्याध्येष्य लब्धाज्ञो बहिरावरणं यजेत् ।
ईशानं कर्णिकायां तु पूजयेत्?कुसुमादिभिः ॥ ६/४४८ ॥
पुरुषं पूर्वपत्रे तु अघोरं दक्षिणे यजेत् ।
वाममुत्तरपत्रे तु सद्यं पश्चिमपत्रतः ॥ ६/४४९ ॥
विन्यसेत्पञ्चपत्राणि पञ्चवक्त्रयुतानि च ।
बाहुभिर्दशभिश्चैव शशाङ्कमकुटैः सह ॥ ६/४५० ॥
ध्यातव्यानि स्वरूपाणि वरायुधधराणि च ।
अग्नीशरक्षोवायव्यचतुर्दिक्षु गतं यजेत् ॥ ६/४५१ ॥
वृच्छिरश्चूलिकावर्म नेत्रमस्त्रं यथाक्रमम् ।
हृदयं चन्द्रवर्णाभं शिरो गोरोचनप्रभम् ॥ ६/४५२ ॥
तटिज्ज्वलनसंकाशां शिखां सम्यग्विचिन्तयेत् ।
आधूम्रं कवचं न्यस्येदस्त्रं कपिलवर्णकम् ॥ ६/४५३ ॥
ज्योतीरूपप्रकाशं च नेत्रं मध्यगतं स्मरेत् ।
पञ्चवक्त्रयुताः सर्वे दशबाह्विन्दुभूषिताः ॥ ६/४५४ ॥
नानाभरणसंयुक्ताः नानास्रग्गन्धभूषिताः ।
द्विरष्टवत्सराकाराः सुरूपाः स्थिरयौवनाः ॥ ६/४५५ ॥
प्रसन्नवदनाः सौम्यास्त्रिणेत्राः स्वस्तिकासनाः ।
मूर्धादिभ्यो हृदादिभ्यस्त्वानेतव्याः प्रभोरिमे ॥ ६/४५६ ॥
ईशानं नेत्रमैशान्यामथवा साधको यजेत् ।
गर्भावरणमेवं तु पूजयेदभितो हरम् ॥ ६/४५७ ॥
स्थानेऽस्मिन्नथवा पूज्या वामाद्याः शक्तयो नव ।
अङ्कारूढा प्रभोः पूज्या आदिशक्तिर्मनोन्मनी ॥ ६/४५८ ॥
आवाहनादिनैतानि स्वमन्त्रैः क्रमशोऽर्चयेत् ।
नावकुण्ठनमेतेषाममृतीकरणं विना ॥ ६/४५९ ॥
संस्काराष्टकमेवैतत्प्रत्येकं विहितं बुधैः ।
स्नपनं दीपकॢप्तिश्च न पृथक् चाङ्गभावतः ॥ ६/४६० ॥
विद्येश्वरा द्वितीये तु अनन्ताद्या यथाक्रमम् ।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तमैकनेत्रकौ ॥ ६/४६१ ॥
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ।
एते देवाश्चतुर्वक्त्रा हरवद्दशबाहवः ॥ ६/४६२ ॥
खण्डेन्दुमौलयः सौम्याः पद्मस्था विविधायुधाः ।
खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः ॥ ६/४६३ ॥
वराभयकरोपेताः शूलपङ्कजपाणयः ।
युगान्तादित्यसंकाशाः संसृष्टौ शिवचोदिताः ॥ ६/४६४ ॥
अनन्तः पूर्वतः पूज्यः सूक्ष्मं दक्षिणतो यजेत् ।
शिवोत्तमं तु वारुण्यामेकनेत्रं तथोत्तरे ॥ ६/४६५ ॥
एकरुद्रं तथैशान्यां त्रिमूर्तिं चाग्निगोचरे ।
श्रीकण्ठां चैव नैरृत्यां वायव्यां तु शिखण्डिनम् ॥ ६/४६६ ॥
गणेश्वरास्तृतीये तु कुबेराशादितः क्रमात् ।
सिंहारूढाम्बिका त्र्यक्षा पीताभा दर्पणोद्वहा ॥ ६/४६७ ॥
ऐशान्यां संस्थितश्चण्डः शुद्धवैडूर्यसप्रभः ।
वैयाघ्रवसनस्त्र्यक्षः शूलदण्डकुठारभृत् ॥ ६/४६८ ॥
वराभयकरश्चण्डः चन्द्रखण्डाहिभूषितः ।
नन्दिनं पूर्वदिग्भागे पद्मरागसमप्रभम् ॥ ६/४६९ ॥
त्रिणेत्रं शूलहस्तं च सौम्यं नागोपवीतिनम् ।
हरिताभं महाकालं शूलहस्तं त्रिलोचनम् ॥ ६/४७० ॥
नागोपवीतिनं रौद्रमाग्नेययां दिशि पूजयेत् ।
गणेशो वामनाकारो गजवक्त्रः स्वदन्तभृत् ॥ ६/४७१ ॥
मौलिकुम्भः शूर्पकर्णः त्रितालकरपल्लवः ।
सलङ्डुककुठाराक्षमालाहस्तस्त्रिलोचनः ॥ ६/४७२ ॥
बिसिनीपत्रसंकाशः पूज्यो वै यमदिक्स्थितः ।
वृषो वृषाकृतिस्त्र्यक्षः कुन्देन्दुतुहिनद्युतिः ॥ ६/४७३ ॥
आधारभूतो धर्मात्मा पूज्यो निरृतिगोचरः ।
निर्मांसविग्रहो भृङ्गी श्वेतो वारुणदिग्गतः ॥ ६/४७४ ॥
षड्वक्त्रो बालवेषश्च द्वादशाक्षस्तथा भुजः ।
शक्तिखड्गपताकाब्जप्रासकुक्कुटदण्डभृत् ॥ ६/४७५ ॥
वराभयधनुर्बाणमहापरशुमानपि ।
चतुर्भुजो द्विबाहुर्वा भवत्येकाननः श्रियै ॥ ६/४७६ ॥
शक्तिकुक्कुटहस्तस्तु वराभयसमन्वितः ।
वायव्यां विद्रुमाभासः पूजनीयः फलार्थिभिः ॥ ६/४७७ ॥
अथवाऽन्यप्रकारेण पूजनीया गणेश्वराः ।
देवी चैव तु चण्डेशो महाकालो वृषस्तथा ॥ ६/४७८ ॥
नन्दीशश्च गणाध्यक्षो भृङ्गी च स्कन्द एव च ।
ध्यायेदेताननुद्विग्नः पद्मरागसमप्रभान् ॥ ६/४७९ ॥
लोकपालांश्चतुर्थे तु क्रमशः स्वस्वदिग्गतान् ।
द्विरदेन्द्रसमारूढं पीतवर्णं तु वज्रिणम् ॥ ६/४८० ॥
सहस्राक्षं यजेदिन्द्रं पूर्वभागे व्यवस्थितम् ।
ज्वालामालावृतं शक्तिधरमग्निमजासनम् ॥ ६/४८१ ॥
महिषस्थं यमं कृष्णं दक्षिणे दण्डपाणिनम् ।
नैरृत्यां निरृतिं नीलं गदाहस्तं नरासनम् ॥ ६/४८२ ॥
वारुणे वरुणं श्वेतं झषस्थं पाशहस्तकम् ।
शबलं ध्वजहस्तञ्च मृगस्थमनिलेऽनिलम् ॥ ६/४८३ ॥
खड्गहस्तं निधानस्थं कुबेरं पीतमुत्तरे ।
कपिलं शूलहस्तं च वृषारूढं त्रिलोचनम् ॥ ६/४८४ ॥
प्रसन्नवदनं हृष्टमीशानं शाङ्करे यजेत् ।
विष्णुं त्वधोगतं कृष्णं तार्क्ष्यस्थं चक्रपाणिनम् ॥ ६/४८५ ॥
ब्रह्माणमरुणाभं च हंसस्थं पद्महस्तकम् ।
ऊर्ध्वगं संयजेत् प्राज्ञः स्वस्वनामादिकाक्षरैः ॥ ६/४८६ ॥
पञ्चमे त्वस्त्रसंघातं पूजनीयं यथोदितम् ।
पूर्वभागे यजेद्वज्रं पीतवर्णं षडश्रकम् ॥ ६/४८७ ॥
अग्नौ शक्तिं सुरक्ताभां कृष्णं दण्डं तु दक्षिणे ।
निरृतौ नीलखड्गं तु श्वेतं पाशं तु वारुणे ॥ ६/४८८ ॥
चित्रध्वजं तु वायव्यां हेमाभामुत्तरे गदाम् ।
ऐशान्यां ज्वलितं शूलं चक्रमर्कसमप्रभम् ॥ ६/४८९ ॥
अधः स्थं संयजेदब्जं श्वेतमूर्ध्वे विचक्षणः ।
पञ्चावरणपूजैवं समासात्परिकीर्तिता ॥ ६/४९० ॥
एकावरणपूजा स्यादङ्गैर्ब्रह्मभिरेव च ।
अथवा केवलैरङ्गैः केवलैर्ब्रह्मभिस्तु वा ॥ ६/४९१ ॥
ब्रह्माङ्गैर्लोकपैरस्त्रैर्भवेदावरणत्रयम् ।
हेतिभिः सहितान् लोकपालानभ्यर्चयेत्तु वा ॥ ६/४९२ ॥
अथ ब्रह्माङ्गविद्येशमूर्त्यैकादशरुद्रकान् ।
यजेद् गदादिभिश्चैवमन्तरावरणक्रमात् ॥ ६/४९३ ॥
बाह्यावरणपूजा च परिवारविधौ विदुः ।
एवमावरणं पूज्य दद्यान्नैवेद्यमुत्तमम् ॥ ६/४९४ ॥
पञ्चवक्त्रेषु नैवेद्यमूर्ध्ववक्त्रेऽथवा पुनः ।
अङ्गानामपि सर्वेषां पृथङ्नैवेद्यमर्धतः ॥ ६/४९५ ॥
चरुपाकः प्रकर्तव्यः पृथक्पात्रेषु संभवे ।
पूतेष्वितरथैकस्मिन् हविष्यं मन्त्रसंस्कृतम् ॥ ६/४९६ ॥
बाह्यावरणदेवानां द्वाराध्यक्षपुरः सरम् ।
यजनं गन्धपुष्पाद्यैः प्रत्येकं प्रविधीयते ॥ ६/४९७ ॥
भूतादिभ्यो बलिं दद्यादथ मन्त्रनिवेद्यके ।
तदन्ते नित्यहोमो वा प्रविश्याभ्यन्तरं पुनः ॥ ६/४९८ ॥
तृप्तावाचमनं दद्याद्धस्तोद्वर्तनपूर्वकम् ।
मुखवासञ्च ताम्बूलं देवयोग्यं प्रदापयेत् ॥ ६/४९९ ॥
श्रीमत्पञ्चमहाशब्ददर्पणच्छत्रचामरैः ।
गेयनृत्तजपस्तोत्रैस्तदा तमभिनन्दयेत् ॥ ६/५०० ॥
हृष्टं देव्या सहासीनं सदेशं शक्तिविग्रहम् ।
ध्यात्वा तच्छिरसि न्यस्येत् पवित्रं कर्मपूरकम् ॥ ६/५०१ ॥
प्रत्यहं वाङ्मनःकायव्यापारजनितादलम् ।
पतनात्त्रायते यस्मात्तस्मादेव पवित्रकम् ॥ ६/५०२ ॥
प्रकृतौ परमीभावं संपूर्त्यर्थमनन्तरम् ।
परमान्तिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् ॥ ६/५०३ ॥
प्ररोचनं तु कर्तव्यं मुद्रया प्रागुपात्तया ।
प्रार्थयित्वा जपं कुर्यादक्षसूत्रेण बुद्धिमान् ॥ ६/५०४ ॥
अक्षाणामक्षकल्पानां संयमो यत्प्रसूयते ।
दृष्टादृष्टफलावाप्तेरक्षसूत्रं तदुच्यते ॥ ६/५०५ ॥
अष्टोत्तरशतेनाऽथ तदर्धेन तदर्धतः ।
जपमाला प्रकर्तव्या संस्कृता शर्वशम्बरैः ॥ ६/५०६ ॥
मध्यमानामिकाङ्गुष्ठकर्षणात् सिद्धिरुत्तमा ।
अङ्गुष्ठतर्जनीयोगान्मध्यमा सिद्धिरिष्यते ॥ ६/५०७ ॥
कनिष्ठाङ्गुष्ठसंयोगात् सिद्धिरुक्ता कनीयसी ।
मूलाद्दशांशो ब्रह्माङ्गजपः कार्योऽत्र धीमता ॥ ६/५०८ ॥
न विलम्बितमस्पष्टं न चास्वीकृतमद्रुतम् ।
असंख्यातं मनोभ्रान्त्या जपं कुर्याद्विचक्षणः ॥ ६/५०९ ॥
नित्यादिकर्मभेदोक्तं जपं कृत्वा निवेदयेत् ।
साधकः साध्यसिध्यर्थं विरामायेतरो जनः ॥ ६/५१० ॥
चुलुकोदत्रयेणैव कुशपुष्पादिभिः सह ।
ओं गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ ६/५११ ॥
सिद्धिर्भवतु मे येन त्वत्प्रसादात्त्वयि स्थिते ।
यत्किञ्चित्कर्म हे देव सदा सुकृतदुष्कृतम् ॥ ६/५१२ ॥
तन्मे शिवपदस्थस्य भुङ्क्ष्व क्षपय शङ्कर ।
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥ ६/५१३ ॥
शिवो यजति सर्वत्र यःशिवः सोऽहमेव तु ।
निवेद्यैवं स्वमात्मानं जपं पूजां च भक्तितः ॥ ६/५१४ ॥
ध्यायंस्तिष्ठेच्छिवं पश्चाद्यथापूर्वमुदाहृतम् ।
स्तुत्वाऽनेकविधैः स्तोत्रैः प्रणिपत्य पुनः पुनः ॥ ६/५१५ ॥
नित्याग्निकार्यं कुर्वीत नित्याग्नो होममन्दिरे ।
पचनालयवह्न्याशाकुण्डे वह्निविधिक्रमात् ॥ ६/५१६ ॥
नित्योत्सवं च कुर्वीत ताण्डवं तदनन्तरं ।
ततो लिङ्गं समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ ६/५१७ ॥
दद्यात्पराङ्मुखार्घ्यं च महामुद्रां प्रदर्शयेत् ।
संहारमुद्रयास्त्रेण देवानावरणस्थितान् ॥ ६/५१८ ॥
उत्थाप्य मूर्तिमन्त्रेण योजयेन्मूर्तिसंगतान् ।
हृन्मन्त्रानुगतं मूलमुच्चार्य करणोज्झितम् ॥ ६/५१९ ॥
सकलोपाधिनिर्मुक्तं यथा निष्कलतां गतम् ।
शिवतत्त्वविभागेन चिन्तयेद् हृत्स्थितेन च ॥ ६/५२० ॥
निरपेक्षो विसर्गोऽयं लिङ्गे साधारणो मतः ।
परिगृहीतलिङ्गे तु सापेक्षः प्राक् प्रदर्शितः ॥ ६/५२१ ॥
चललिङ्गेऽपि सापेक्षो नापेक्षः स्थण्डिले सदा ।
सर्वत्राप्यनपेक्षस्तु प्रत्यहं तु विधीयते ॥ ६/५२२ ॥
ऐशान्यां पूजयेच्चण्डं गन्धपुष्पादिभिः क्रमात् ।
तस्मै समर्पयेत्सर्वं निर्माल्यं तत्प्रकीर्तितम् ॥ ६/५२३ ॥
लिङ्गमूर्धस्थमित्येके पिण्डिकायामथापरे ।
ऐशान्यां पीठकस्थं वा बाह्ये चण्डगृहेऽथवा ॥ ६/५२४ ॥
क्रोधांशः परमेशस्य चण्डेश इति कीर्तितः ।
नैवेद्यं गन्धपुष्पाद्यं द्रव्यं यज्जायते चिरात् ॥ ६/५२५ ॥
यन्माल्यमुपभुक्तं तन्निर्माल्यमभिधीयते ।
रजः स्थण्डिललिङ्गस्थं शिवभुक्तोज्झितं हि यत् ॥ ६/५२६ ॥
चण्डभोज्यं दुराधर्षं वर्जनीयं प्रयत्नतः ।
वितानच्छत्रमाल्यादि वस्त्रभूषणवाहनम् ॥ ६/५२७ ॥
गोभूहिप?रयवासादि देवद्रव्यं तदुच्यते ।
तस्मादन्यदपि द्रव्यं शिवाय विनिवेदितम् ॥ ६/५२८ ॥
देवस्वं चण्डभोज्यं वा नात्मभोगाय कल्पयेत् ।
वितानदामसंस्पर्शः धूपामोदो न दूष्यते ॥ ६/५२९ ॥
शिवस्य दीपजालोकप्रेक्षादिरचना तथा ।
निरपेक्षं विसृज्यैशं लिङ्गं संशोध्य पूर्ववत् ॥ ६/५३० ॥
प्रणवे योगपीठे तु मूर्ति न्यस्य तदात्मिकाम् ।
पवित्रैः सकलीकृत्य गायत्र्या पर्युपासयेत् ॥ ६/५३१ ॥
अलङ्कृत्य ततः शक्त्या भोगार्थं कुसुमादिभिः ।
वेदिकासहितं लिङ्गं क्षमस्वेति च वै वदेत् ॥ ६/५३२ ॥
प्रक्षाल्यार्ध्यादिपात्राणि विन्यसेत् फलकादिके ।
प्रासादगर्भमुन्मृज्य त्रिभिर्गोमयगोलकैः ॥ ६/५३३ ॥
चण्डभोज्यं बहिस्तस्मात् क्षिपेदुच्छिष्टभाजने ।
स्नानपानीयदुग्धाद्यैः यदि सिक्तो भवेत्तदा ॥ ६/५३४ ॥
स्नायात्प्रक्षालयेद्वाथ नामेरूर्ध्वमधस्तथा ।
आचम्य प्रयतो भूत्वा देवदेवं प्रणम्य च ॥ ६/५३५ ॥
च्युतः खलितशुध्यर्थमभ्यसेन्मन्त्रसंहिताम् ।
चललिङ्गेऽप्ययं न्यायो विहितो यज्ञमन्दिरे ॥ ६/५३६ ॥
स्थण्डिले संहरेत्पूजां त्रिभिर्गोमयगोलकैः ।
पाणिपादौ च प्रक्षाल्याप्याचम्य विधिना ततः ॥ ६/५३७ ॥
प्रणम्य दण्डवद्भूमौ क्षमस्वेति च वै वदेत् ।
॥ इति कामिकाख्ये महातन्त्रे अर्चनविधिश्चतुर्थः पटलः ॥
</poem>
== अर्चनाङ्गविधिः ==
<poem>
अर्चनाङ्गविधिं वक्ष्ये सन्ध्यालक्षणपूर्वकम् ।
भास्करोदयमारभ्य यावद्वै भास्करोदयः ॥ ७/१ ॥
सप्तार्धघटिकामानो यामोऽयं सन्धिरुच्यते ।
षष्ट्युच्छवासो भवेत्प्राणः षट्प्राणो घटिका भवेत् ॥ ७/२ ॥
घटिकाषष्ट्यहोरात्रमष्टसन्ध्यं तदुच्यते ।
अष्टसन्ध्यासु या पूजा सा भवेदुत्तमोत्तमा ॥ ७/३ ॥
सप्तषड्भूतवेदाग्नियुग्मेन्दुप्रहरेषु च ।
यामार्धकालसंवृत्ता पूजा नवविधा भवेत् ॥ ७/४ ॥
पूजारम्भात्तु नृत्तान्तं कुर्यात्सन्ध्यावसानकम् ।
संध्यातिक्रमणाद्दोषो न्यूनायां तु न दोषभाक् ॥ ७/५ ॥
गुरुपचारपूजायां विधिरेषः प्रकीर्तितः ।
घटिकाद्वितयं स्नाने घटिकैकार्चने भवेत् ॥ ७/६ ॥
घटिकार्धं निवेद्यार्थं बलिदानं तु तत्समम् ।
नित्याग्निकार्यमर्धं च नित्योत्सवे द्विनाडिका ॥ ७/७ ॥
घटिकैका तु नृत्तार्थं काल एषः प्रकीर्तितः ।
एवं कालविधिः प्रोक्तो महासन्ध्यात्रयस्य च ॥ ७/८ ॥
लघूपचारे सन्ध्यायां हीनं चेत्तु न दूषकम् ।
यथासम्भवकाले तु यथासम्भवनाडिका ॥ ७/९ ॥
आत्मार्थयजनं कुर्याद्यथाशक्त्यनुरोधतः ।
अरुणोदयवेलायां प्रागेव प्रहरार्धतः ॥ ७/१० ॥
कुर्यात्पञ्चमहाशब्दं सर्वप्राणितमोपहम् ।
तत्काले पूजयेद्देवं सर्वकामार्थसिद्धये ॥ ७/११ ॥
सायंकालेऽर्चनान्ते स्याद्यजनं चार्धयामके ।
भूरिभिर्गन्धकुसुमैर्गन्धैः परिमलैरपि ॥ ७/१२ ॥
धूपैरामोदबहुलैर्नैवेद्यैर्लौकिकादिभिः ।
खट्वारूढामुमां देवीमलङ्कृत्य विशेषतः ॥ ७/१३ ॥
नृत्तैर्गेयैश्च विविधैर्देवपार्श्वं प्रवेशयेत् ।
पुत्रपौत्रविवृद्ध्यर्थं पूजयेच्छङ्करं ततः ॥ ७/१४ ॥
वौषडन्तैश्च मध्याह्ने सन्ध्यन्ते शिवमर्चयेत् ।
नृपतेरायुरारोग्यसिद्धये विजयाय च ॥ ७/१५ ॥
एवं प्रतिदिनं पूजा कर्तव्या विभवे सति ।
पूजकः सन्धिपूर्वे तु कुर्यात्स्नानादिकं विधिम् ॥ ७/१६ ॥
स्नानान्ते शुद्धवस्त्राद्यैः पर्यष्टिपरिचारकैः ।
यजनार्थं तु सम्भाराः सम्भ्रियन्तां जलादयः ॥ ७/१७ ॥
गङ्गादिसिन्धुसम्भूतं पुष्करिण्यादिसम्भवम् ।
सुस्वादु वासितं पुष्पैः नवमृत्कुम्भपूरितम् ॥ ७/१८ ॥
शुद्धवस्त्रस्रुतं शुद्धमेलाद्यामोदसंयुतम् ।
एलोशीरफलत्रयेण सहिताः कर्पूरसत्कुङ्कुमैः
श्रीखण्डागरुपत्रकैश्च कुसुमैरामोदिभिः संयुताः ॥ ७/१९ ॥
आपो मज्जनकर्मणि प्रणिहिताः शम्भोर्यथालाभतः
प्रोक्तद्रव्यगणेषु लब्धमिह यत्तद्ग्राह्यमाढ्येतरैः ॥ ७/२० ॥
कल्पयेदभिषेकार्थं वारि संसारवारि यत् ।
भारादिनवभारान्तं नवलिङ्गेऽधमाधमे ॥ ७/२१ ॥
एकभारविवृद्ध्या तु भेदोऽत्र नवसंख्यया ।
अष्टद्रोणैरथाद्भिर्वा द्विगुणैस्त्रिगुणैस्तु वा ॥ ७/२२ ॥
स्वायम्भुबाणलिऽऽग्नादौ प्रोक्तेषूक्तं हि वाञ्च्छितम् ।
स्नानोदकप्रमाणं स्यादात्मार्थे हि यथेच्छया ॥ ७/२३ ॥
पञ्चामृतं पञ्चगव्यं कुशाम्बु कलशोदकम् ।
स्नपनार्थाय कथितप्रमाणेन प्रकल्पयेत् ॥ ७/२४ ॥
सौवर्णमूर्णसूत्रोत्थं कार्पासोऽथ दुकूलकम् ।
देवालङ्कारयोग्येन प्रमाणेन समन्वितम् ॥ ७/२५ ॥
देवांशु उत्तमं प्रोक्तं मध्यमं क्षौममुच्यते ।
कार्पासतन्तुजं वस्त्रमधमं परिकीर्तितम् ॥ ७/२६ ॥
अर्कहस्तायतं वाऽथ विस्तारं स्याद्द्विहस्तकम् ।
मनोरमं तु सुश्लक्ष्णं विशिष्टं वस्त्रमुच्यते ॥ ७/२७ ॥
विस्ताराष्टगुणायामं सदशं तु सलक्षणम् ।
आखुदष्टाग्निदग्धं च केशविद्धं च वर्जयेत् ॥ ७/२८ ॥
वस्त्रमेवंविधं तच्च गृह्णीयादुपयोगि यत् ।
कुङ्कुमं चन्दनं दूर्वा सिधार्थोशीरकं तथा ॥ ७/२९ ॥
तिलेनैव समायुक्तं पाद्यं यद्वोत्तमं भवेत् ।
सिद्धार्थोशीरकं दूर्वायुक्तं मध्यममुच्यते ॥ ७/३० ॥
उशीरं चन्दनोपेतमधमं पाद्यमुच्यते ।
एलालवङ्गकर्पूरवरालफलसंयुतम् ॥ ७/३१ ॥
आप आचमनीयार्थमुशीरमयचन्दनैः ।
पलत्रयं च कर्पूरं त्रुटी पत्रं द्विजोत्तमाः ॥ ७/३२ ॥
आचामे तु प्रयोक्तव्यमेलोशीरयुतं तु वा ।
आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ॥ ७/३३ ॥
तलैर्ब्रीहिसमायुक्तमर्घ्यमष्टाङ्गमुच्यते ।
आपः क्षीरकुशाग्राणि तण्डुलाः सुमनस्तिलाः ॥ ७/३४ ॥
अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैः सह ।
तण्डुलब्रीहिसिधार्थतिलोदकमथापि वा ॥ ७/३५ ॥
अर्घ्यं पुष्पजलोपेतमथवा समुदाहृतम् ।
चन्दनं चागरुञ्चैव कुङ्कुमं गन्ध उच्यते ॥ ७/३६ ॥
एकं द्वयं त्रयं वापि कर्पूरेण चतुष्टयम् ।
काश्मीरगन्धकर्पूरचन्दनैर्वा प्रकल्पयेत् ॥ ७/३७ ॥
प्रत्येकं निष्कमात्रं वा तदर्धं वा तदर्धकम् ।
उत्तमोत्तमलिङ्गादावापलादि पलावधि ॥ ७/३८ ॥
अतीव बलहीनानां यथालाभं प्रमाणतः ।
एवं पाद्यादिवस्तूनां प्रमाणं परिकीर्तितम् ॥ ७/३९ ॥
पुष्पाणां लक्षणं वक्ष्ये समासान्मुनिपुङ्गवाः ।
श्वेतपद्मं च पुन्नागं शङ्खपुष्पं च मल्लिका ॥ ७/४० ॥
नन्द्यावर्तं श्रियावर्तं मन्दारं बहुकर्णिका ।
द्विकर्णि कुरवं जाती लक्ष्मीश्च वकुलं तथा ॥ ७/४१ ॥
श्वेतार्कं मालतीद्रोणमतसीश्वेतलोध्रकम् ।
विषकासीसकुसुमं भद्रा च महती च सा ॥ ७/४२ ॥
व्याघ्री चम्पकपुष्पं च करवीरमशोकजम् ।
हालिका शतपत्रं च उन्मन्त्तं कुशपुष्पकम् ॥ ७/४३ ॥
एतानि श्वेतपुष्पाणि मुख्यामुख्यत्वभाञ्जि हि ।
रक्तपद्मं पलाशं च रक्तोत्पलं च पाटली ॥ ७/४४ ॥
मौसली चैव धुत्तूरं बृहती करवीरजम् ।
व्याघ्री च रक्तमन्दारः पट्टिका वैजिका तथा ॥ ७/४५ ॥
मुनिपुष्पं च तद्रक्तं रक्तान्येतानि निर्दिशेत् ।
शोनक्यं कर्णिकारं च चम्पकं हेमधुत्तुरम् ॥ ७/४६ ॥
आरग्वधं च कोरण्डं शैरीषं गिरिकर्णिकां ।
एतानि पीतपुष्पाणि कृष्णे नीलोत्पलं वरम् ॥ ७/४७ ॥
बिल्वपत्रं तपस्वी च महाभद्रा च धातकी ।
अपामार्गं कुशा दूर्वाः पञ्चबिल्वाः शमी तथा ॥ ७/४८ ॥
तुलसी चन्द्रपो दान्तः जम्बुको नागनन्दिका ।
एकपत्रारविन्दं च विष्णुक्रान्तिस्तथैव च ॥ ७/४९ ॥
सहकारस्तथा कृष्णतुलसी गन्धपत्रिका ।
एवमादीनि पत्राणि पुत्रवृद्धिकराणि च ॥ ७/५० ॥
उशीरह्रीबेरादिकुलानि शुभदानि हि ।
अर्कपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥ ७/५१ ॥
बकपुष्पसहस्रेभ्यो हेमधुत्तूरकं वरम् ।
धुत्तूरकसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ ७/५२ ॥
सर्वासां पुष्पजातीनां श्रीमन्नीलोत्पलं वरम् ।[मातृकान्तरे
पाठान्तरम् -
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ।
करवीरसहस्रेभ्यः पद्मपुष्पं विशिष्यते ॥
पद्मपुष्पसहस्रेभ्यो बिल्वपत्रं विशिष्यते ।
बिल्वपत्रसहस्रेभ्यो बकपुष्पं विशिष्यते ॥
चकपुष्पसहस्रेभ्यो धुत्तूरकं विशिष्यते ।
धुत्तूरकसहस्रेभ्यो बृहती च विशिष्यते ॥
सहस्राद् बृहतीपुष्पाद् द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्पसहस्रेभ्यः अपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ।
कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥
शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् ।
अन्यत्र पाठान्तरम् -
पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥
बकपुष्पसहस्रेभ्यो बिल्वपत्रं विशिष्यते ।
सर्वासां पुष्पजातीनां श्रीमन्नीलोत्पलं वरम् ॥]
करवीरसमा ज्ञेया जाती विजयपाटली ॥ ७/५३ ॥
श्वेतमन्दारकुसुमं शतपत्रंच तत्समम् ।
नागचम्पकपुन्नागा धुत्तूरकसमाः स्मृताः ॥ ७/५४ ॥
केतकी चातिमुक्तं च यूथी च नवमल्लिका ।
शिरीषसर्जबन्धूककुसुमानि विसर्जयेत् ॥ ७/५५ ॥
अङ्कोलपत्रकुसुमं त्यजेन्नृपतरूद्भवम् ।
वैभीतकानि पत्राणि कुसुमानि विवर्जयेत् ॥ ७/५६ ॥
निर्गन्धान्युग्रगन्धानि कुसुमानि विवर्जयेत् ।
गन्धवन्त्यपवित्राणि कुसुमानि विवर्जयेत् ॥ ७/५७ ॥
गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ।
कनकानि कदम्बानि रात्रौ देयानि शङ्करे ॥ ७/५८ ॥
दिवाशेषाणि पुष्पाणि दिवारात्रौ च मल्लिका ।
प्रहरार्धे स्मृता जाती करवीरमहर्निशम् ॥ ७/५९ ॥
केशकीटापविद्धानि शीर्णपर्युषितानि च ।
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥ ७/६० ॥
मुकुलैर्नार्चयेद्देवमपक्वं न निवेदयेत् ।
अलामेऽपीह पुष्पाणां पत्राण्यपि निवेदयेत् ॥ ७/६१ ॥
पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ।
फलानामप्यलाभे तु तृणगुल्मौषधीरपि ॥ ७/६२ ॥
ओषधीनामलाभे तु भक्त्या भवति पूजितः ।
प्रत्येकमुक्तपुष्पाणां दशसौवर्णकं फलम् ॥ ७/६३ ॥
स्वर्णाद्दशगुणं रत्नं माणिक्यादिनवोद्भवम् ।
स्रग्ग्रन्थितेषु तेष्वेव द्विगुणं फलमश्नुते ॥ ७/६४ ॥
आत्मारामोद्भवैः पुष्पैरथवा वनसंभवैः ।
द्रव्यक्रीतैः प्रसूनाद्यैरर्चयेदन्यथा न च ॥ ७/६५ ॥
कृष्णागरुर्भवेदेको निर्यासो द्विगुणो भवेत् ।
त्रिगुणं चन्दनं प्रोक्तमीषत्कर्पूरमिश्रितम् ॥ ७/६६ ॥
शीतारिर्नाम धूपोऽयं विख्यातो मधुसंप्लुतः ।
एकद्वित्रिचतुष्पञ्चनखचन्दनपायसैः ॥ ७/६७ ॥
तुरुष्कसंहितञ्चैव क्रमेण परिवर्धितम् ।
शीतारिधूपमेवं स्यान्मधुना च परिप्लुतम् ॥ ७/६८ ॥
यद्वा तुरुष्ककर्पूरनागरागरुचन्दनैः ।
मुरामांसिसितामिश्रं धूपं दद्यान्मधुप्लुतम् ॥ ७/६९ ॥
उशीरचन्दनोपेतं लघुयुक्तमधुष्लुतम् ।
मध्यमं धूपमाख्यातमुशीरादि शिवप्रियम् ॥ ७/७० ॥
गुग्गुलुर्घृतसंयुक्तस्त्वधमो धूप उच्यते ।
केवलं चागरुर्वापि धूपार्थं महिषाक्षि वा ॥ ७/७१ ॥
एकादिदशपर्यन्तं दीपाः स्युरधमाधमाः ।
शतादिः स्युः सहस्रान्ता अयुतं लक्षसीमकाः ॥ ७/७२ ॥
प्रयुताः कोटिसंख्याताश्चायुताद्यर्बुदान्तकाः ।
दीपाः स्युरेकसंख्यायां रात्रौ तद्द्विगुणं भवेत् ॥ ७/७३ ॥
अनिर्वाणप्रदीपाः स्युस्तदर्धाः स्युस्तदर्धकाः ।
एवं संख्या प्रदीपादौ संख्यैषा परिकीर्तिता ॥ ७/७४ ॥
कपिलागोघृतेनाऽथ दीपः सात्त्विक उच्यते ।
राजसं तिलतैलेन मिश्रमाजेन सर्पिषा ॥ ७/७५ ॥
एकद्वित्र्यङ्गुला ज्वालाः श्रेष्ठमध्याधमाः स्मृताः ।
तामसस्तु भवेद्दीपो माहिषेण तु सर्पिषा ॥ ७/७६ ॥
वृक्षबीजोद्भवैः स्नेहैर्दीपः पैशाच उच्यते ।
तामसश्चापि पैशाचो दीपो योग्येतरः स्मृतः ॥ ७/७७ ॥
हविष्यविधिसंसिद्धनैवेद्यं बहुधा स्मृतम् ।
होमस्तद्विधिसंसिद्धद्रव्यैर्भूतबलिस्तथा ॥ ७/७८ ॥
नित्योत्सवं तथा नित्यविधिना संप्रकल्पयेत् ।
ताण्डवं ताण्डवाध्याये नृत्तगेयादिलक्षणैः ॥ ७/७९ ॥
वक्ष्यामि तत्प्रभेदं तु तदा त्वेवावधार्यते ।
इत्थंभूतार्चनाङ्गैः शिवयजनविधिं देहभृद्यः करोति
श्रद्धायुक्तस्त्रिलोक्यां सुरवरमहितः स्वामितो द्योतिताशः ।
यास्यत्यन्ते यथावच्छिवपुरमखिलोत्पत्तिसंसारहेतु-
ज्ञानानन्दस्वभावो दृढतरमलमायादिबन्धैर्विमुक्तः ॥ ७/८०
॥
॥ इति कामिकाख्ये महातन्त्रे क्रियापादे अर्चनाङ्गविधिः
पञ्चमः पटलः ॥
</poem>
== नैवेद्यविधिः ==
<poem>
अथातः संप्रवक्ष्यामि नैवेद्यविधिमुत्तमम् ।
भक्त्या वित्तानुसारेण नैवेद्यं तु प्रकल्पयेत् ॥ ८/१ ॥
पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् ।
अनिवेद्यं न भुञ्जीत भगवन्तं सदाशिवम् ॥ ८/२ ॥
अपूपकाद्यं यद्द्रव्यं भोज्यं दत्वा शिवस्य तु ।
वर्धते तस्य तद्धान्यं फलपुष्पादयस्तथा ॥ ८/३ ॥
अदत्वा तु हरस्याथ भुक्तं तत्क्षीयते धनम् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ८/४ ॥
यथाशक्ति प्रकर्तव्यं भक्तिरेवात्र कारणम् ।
दत्वा शिवस्य नैवेद्यं कल्याणं कारयेद्बुधः ॥ ८/५ ॥
अदत्वा तु कृतं यत्तु कल्याणमशुभाय वै ।
कल्याणं देवकल्याणे कृतं चापि विनश्यति ॥ ८/६ ॥
तस्मान्महोत्सवे सूत्रारोपणे स्थापनादिके ।
कल्याणं वर्जयेद्धीमान् चूडोद्वाहादिकं स्वकम् ॥ ८/७ ॥
शालीनां तण्डुलं श्रेष्ठं यववेण्वादिमध्यमम् ।
ब्रीहिणामवशिष्टानां तण्डुलन्त्वधमं भवेत् ॥ ८/८ ॥
सिततण्डुलका ये च ते सर्वे शालयः स्मृताः ।
इतरे ब्रीहयः प्रोक्ताः फलं तेषां पृथक् पृथक् ॥ ८/९ ॥
हेमशाली महाशाली रत्नशाली तथैव च ।
सितशाल्यतिरक्ता च सौगन्धिश्चोत्तमा मता ॥ ८/१० ॥
वैणवश्च तथा शेषशालयश्चैव माधुरी ।
कुस्तुम्बरश्च नीवारो मध्यमाश्चेति कीर्तिताः ॥ ८/११ ॥
बिडालव्रीहि सामान्यं ईषत्कृष्णकषाष्टयः ।
तथा वै सूकरीव्रीहिर्ह्रस्ववक्त्री च कन्यसा ॥ ८/१२ ॥
एतेषां तण्डुला श्रेष्ठा नैवेद्याय प्रभोर्मताः ।
यावन्तस्तण्डुलास्तत्र नैवेद्यपरिकल्पने ॥ ८/१३ ॥
तावद्वर्षसहस्राणि शिवलोके महीयते ।
विशोप्य सूर्यकिरणैर्व्रीह्यादींश्छुद्धभूतले ॥ ८/१४ ॥
संप्रोक्ष्योलूखले व्रीहीन्निक्षिपेदस्त्रमन्त्रतः ।
मुसलं हृदयेनैव हन्यात्संगृह्य साधकः ॥ ८/१५ ॥
त्रिधा च कुट्टनं कुर्यात्पञ्चधा नवधाऽथवा ।
चातुर्वर्णोद्भवस्त्रीभिः पुरुषैर्वाऽथ घातयेत् ॥ ८/१६ ॥
शूर्पादिकरणैस्तेषां तुषकम्ब्वादि वर्जयेत् ।
द्विशतैः पञ्चविंशत्या व्रीहिभिः पूरितं तु यत् ॥ ८/१७ ॥
शुक्तिमात्रमिति ज्ञेयं मानं तेनैव कल्पयेत् ।
शुक्तिस्तलं प्रकूर्चञ्च प्रसृतिः कुडुपं तथा ॥ ८/१८ ॥
तथा स्यादञ्जलिः प्रस्थः पात्रं चाढकशैवकौ ।
द्रोणं खारी क्रमात्प्रोक्तं मानमेवं प्रकीर्तितम् ॥ ८/१९ ॥
द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः ।
धरणाष्टौ पलञ्चैव पलं मुष्टिरिहोच्यते ॥ ८/२० ॥
तच्चतुर्गुणितं प्रस्थं भवेत्पात्रादि पूर्ववत् ।
भारं खारित्रयं प्रोक्तं मानमेवं प्रकीर्तितम् ॥ ८/२१ ॥
नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं भवेत् ।
अष्टाङ्गेषु चतुर्वह्निकरेन्दुद्रोणनिर्मितम् ॥ ८/२२ ॥
शिवाढकप्रमाणं तु नित्ये तु नवधा हविः ।
तण्डुलैराढकाद्धीनैर्नैवेद्यं न प्रकल्पयेत् ॥ ८/२३ ॥
चरुः प्रस्थद्वयं प्रोक्तं हविराढकमुच्यते ।
प्रस्थं कुडुपसयुक्तं पैशाचाशनमुच्यते ॥ ८/२४ ॥
सकलानां तु नैवेद्यं भवेत्प्रस्थद्वयाधिकम् ।
आढकद्वयमारभ्य तद्वृद्ध्या नवसंख्यया ॥ ८/२५ ॥
नैमित्तिकं हविर्मानं लिङ्गेषु त्रिविधेषु च ।
यावत् प्रार्थितमानं तु तावत्काम्यहविर्भवेत् ॥ ८/२६ ॥
स्थाली प्रतिदिनं शुद्धा पक्षमासावसानिका ।
श्रेष्ठमध्याधमास्तद्वद्विधिनाऽद्य विधीयते ॥ ८/२७ ॥
सुवर्णतारताम्रादि पात्रं शुद्धलयान्विकम् ।
नवमृद्भाण्डकं वाऽपि प्रतिसन्ध्यं प्रकल्पयेत् ॥ ८/२८ ॥
प्रागुक्तविधिना पूर्वं स्नात्वाऽथ परिचारकाः ।
शुक्लवस्त्रधराश्चैव शुक्लयज्ञोपवीतिनः ॥ ८/२९ ॥
पवित्रपाणयः कुर्युश्चरुपाकं यथा तथा ।
वस्त्रपूतैश्च तोयैश्च जलद्रोणीं प्रपूरयेत् ॥ ८/३० ॥
पात्रशुद्धिं ततः कृत्वा क्षालयेत्तण्डुलान् हृदा ।
जलेनैव तु षट्कृत्वः निष्पीड्य च मुहुर्मु?हुः ॥ ८/३१ ॥
षडङ्गैः क्षालनं कृत्वा सद्येन प्रक्षिपेज्जले ।
ज्ञात्वा तु युक्तितः सम्यक् अध्यर्धं जलमेव वा ॥ ८/३२ ॥
स्थालीं मध्यमयीं ध्यात्वा दर्भान् कण्ठे तु बन्धयेत् ।
पलिप्ते गोमयाद्यैस्तु प्रोक्षितेऽत्र महानसे ॥ ८/३३ ॥
धर्माधर्मभुजां चुल्लीं तण्डुलेनार्चयेद्धृदा ।
उद्धृत्य वामदेवेन रोपयेद्धृदयेन तु ॥ ८/३४ ॥
विन्यस्याग्निमघोरेण अस्त्रेणाग्निं प्रदीपयेत् ।
पिपीलिकादिसञ्जुष्टः कोटरक्रिमिसं?युतैः ॥ ८/३५ ॥
विस्फुलिङ्गयुतैश्चापि काष्ठैरग्निं न दीपयेत् ।
धूमगन्धमतिक्लिन्नमतिपक्वञ्च शीतलम् ॥ ८/३६ ॥
केशकीटाप बद्धं च त्यजेत् पर्युषितं तथा ।
एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते ॥ ८/३७ ॥
तण्डुलाद्द्विगुणं क्षीरं मुद्गं स्यात्तण्डुलार्धकम् ।
अलामेऽर्धं तदर्धं वा शेषं तोयैः प्रपूरयेत् ॥ ८/३८ ॥
पाचितं पायसं प्रोक्तं गुलान्नमधुनोच्यते ।
पायसं पूर्ववत् कृत्वा चतुर्भागं गुलं क्षिपेत् ॥ ८/३९ ॥
गुलार्धं प्रक्षिपेदाज्यं तस्यार्धं वा तदर्धकम् ।
कदलीफलसंयुक्तं गुलान्नमिति कीर्तितम् ॥ ८/४० ॥
तण्डुलार्धं तिलं ज्ञेयं कृसरान्नं प्रशस्यते ।
अलाभेऽर्धं तदर्धं वा मुद्गान्नमधुनोच्यते ॥ ८/४१ ॥
तण्डुलार्धं तदर्धं वा मुद्गं मुद्गान्नमुच्यते ।
एतेषामपि सर्वेषां यथालाभमथापि वा ॥ ८/४२ ॥
मरीचं रजनीयुक्तं जीरकं सर्षपं तथा ।
आलोड्य पाचितं ह्येतत् हरिद्रान्नं प्रकीर्तितम् ॥ ८/४३ ॥
हविषां लक्षणं प्रोक्तं प्रवक्ष्याम्युपदंशकान् ।
मुद्गमाषकुलुत्थांश्च शिम्बा निष्पावमेव च ॥ ८/४४ ॥
राजमाषाढकीं चैव वितुषं सतुषं तथा ।
कुश्माण्डं पनसालाबु कालिङ्गं बृहतीद्वयम् ॥ ८/४५ ॥
त्रपुषं कर्करीं चैव सतुषं वितुषं तथा ।
कदली कारवी व्याघ्री आम्रमुर्वारुकं तथा ॥ ८/४६ ॥
वल्लीमूलं तथा कन्दं मूलमन्यत्र संयुतम् ।
एकैकमुपदंशानां प्रस्थस्यैकपलं भवेत् ॥ ८/४७ ॥
प्रत्यग्राणि पवित्राणि सर्वदोषोज्झितानि हि ।
घृष्टं घृतेन संयुक्तं नालिकेरफलादिभिः ॥ ८/४८ ॥
मरीचजीरकाद्यैस्तु संस्कृतं तत्प्रशस्यते ।
लवणाज्ययुतानि स्युरुपदंशानि तानि हि ॥ ८/४९ ॥
आम्लसंस्कारयुक्तानि मरीचादियुतानि च ।
विंशत्पलं स्याल्लवणं प्रस्थं प्रस्थं समीरितम् ॥ ८/५० ॥
त्रिचतुर्थांशमानेन मरीचः परिकीर्तितः ।
सर्पिषो द्विगुणं मानं मरीचात्तु प्रशस्यते ॥ ८/५१ ॥
कलांशो मुद्गभिन्नस्तु तदर्धं वा तु तण्डुलान् ।
मुद्गभिन्नं समं प्रोक्तमधिकं गुणमेव वा ॥ ८/५२ ॥
कल्कसंस्कारयुक्तानि मरीचादियुतानि च ।
सिद्धार्थकल्कयुक्तानि रसवन्ति च पाचयेत् ॥ ८/५३ ॥
तान्येवापूपखण्डैश्च संस्कृतानि च कानिचित् ।
कुलुत्थधान्यचूर्णं च मरीचं पेषितं क्रमात् ॥ ८/५४ ॥
निक्षिप्य मथिते श्लक्ष्णं पाचयेन्मृदुवह्निना ।
गुलेन सह संयोज्य रसवन्ति फलानि च ॥ ८/५५ ॥
एवं तु पाचयेत् सूपमन्यदेवंविधं तु यत् ।
विविधानि च पूपानि योग्यद्रव्यैः कृतानि च ॥ ८/५६ ॥
शङ्खध्वनिसमायुक्तं छत्रदीपादिसंयुतम् ।
नैवेद्यमुपदंशाद्यं सुसिद्धमवतारयेत् ॥ ८/५७ ॥
प्रलिप्ते भूतले शुद्धे पञ्चचूर्णैरलङ्कृते ।
तप्ताभिघारमाज्येन पवित्रैः परिकल्पयेत् ॥ ८/५८ ॥
शीताभिधारमङ्गैस्तु घृतेनैवाहुतित्रयम् ।
पात्राणि शोधयेत्तोयैर्स्त्रिपुण्डं परिकल्पयेत् ॥ ८/५९ ॥
त्रिपाद्युपरि विन्यस्य शुद्धवस्त्रावृतानि च ।
शङ्खध्वनिसमायुक्तं छत्रदीपादिसंयुतम् ॥ ८/६० ॥
निरुद्धावृतकक्ष्यास्थजने मार्गेऽम्भसा क्षिपेत् ।
पात्रण्युद्धृत्य सर्वाणि विन्यसेन्मुखमण्डपे ॥ ८/६१ ॥
पानीयमप्यनेनैव स्थानात् संग्राहयेत् क्रमात् ।
करणाध्यायसंसिद्धलक्षणैर्लक्षितेषु च ॥ ८/६२ ॥
स्थलिकादिषु वा शुद्धकदलीपत्रकादिषु ।
न्यस्तेषु शुद्धवस्त्रोर्ध्वे दर्व्या लक्षणयुक्तया ॥ ८/६३ ॥
न्यसेत् सम्पूर्णचन्द्राभमोमिति त्र्यक्षरं जपेत् ।
उपदंशानि सर्वाणि नैवेद्योपरि विन्यसेत् ॥ ८/६४ ॥
प्रत्यग्रगोघृतं खण्डशर्करारसवत्फलम् ।
बालचूतफलञ्चापि दध्यादिकमनिन्दितम् ॥ ८/६५ ॥
शिवाग्रे मण्डपे शुद्धे शुभ्रवस्त्रादिविस्तृते ।
त्रिपाद्युपरि विन्यस्य स्थलिकादिगतं हविः ॥ ८/६६ ॥
संप्रोक्ष्य हृदयेनैव शोधयित्वा तु हेतिना ।
अमृतीकृत्य गोस्तन्या नैवेद्ये कुसुमं न्यसेत् ॥ ८/६७ ॥
निवेद्य दक्षिणे हस्ते दद्यात् पानीयमुत्तमम् ।
अन्तरावृतिसंस्थानां देवानां तु पृथक् पृथक् ॥ ८/६८ ॥
कृत्वा हविश्चतुर्थांशमूर्ध्वांशं तु शिवाय च ।
तदधस्त्वग्निकार्यार्थमधस्ताद्बलिकर्मणे ॥ ८/६९ ॥
यदंशं पात्रसंश्लिष्टं पूजकाय प्रदापयेत् ।
अग्निकार्यावशिष्टं च बलिशिष्टं च यद्धविः ॥ ८/७० ॥
तत्सर्वं पूजकायैव प्रोक्तमत्र यथाऽधुना ।
नैवेद्यं तु प्रदातव्यं मनसा तदसम्भवे ॥ ८/७१ ॥
बाह्यावरणदेवानां नैवेद्यं स्यात् पृथक् पृथक् ।
अभावे वलिदानं स्याद्द्वाराध्यक्षपुरः सरम् ॥ ८/७२ ॥
तद्बाह्ये भूतपीठेषु दिग्विदिक्स्थापितेषु च ।
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ॥ ८/७३ ॥
गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे बलिम् ।
ग्रहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ॥ ८/७४ ॥
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुगोचरे ।
नक्षत्रराशिवर्गेभ्यस्तथा विश्वगणाय च ॥ ८/७५ ॥
ऐशान्यां बलिदानं स्यात् तत्रैव क्षेत्रपालिने ।
वायुवारुणदिग्भागे क्षेत्रपालबलिं क्षिपेत् ॥ ८/७६ ॥
एतेष्वष्टसु पीठेषु दिक्पालानां बलिं तु वा ।
प्रथमं द्वारपालानां भूतानां स्याद् द्वितीयकम् ॥ ८/७७ ॥
वृषादिबलिपीठान्तं दद्यादावरणक्रमात् ।
अष्ट द्विषट् द्विरष्टौ हि द्वात्रिंशत्परिचारकाः ॥ ८/७८ ॥
अन्तर्हारादिशालस्था दद्यात् तेषां पृथक् पृथक् ।
गणेशं तत्र संपूज्य सोपचारं विशेषतः ॥ ८/७९ ॥
सम्भवे सति सर्वेषां उपचारार्चनं भवेत् ।
ततः पूर्वस्थिते पीठे बलिं दद्याद्विशेषतः ॥ ८/८० ॥
यक्षराक्षसपैशाचभूतगन्धर्वकिन्नराः ।
पितृदानवनागाश्च ब्रह्माद्यैशानमन्तकम् ॥ ८/८१ ॥
प्रणवादिचतुर्थ्यन्तं स्वनामपदमध्यगम् ।
स्वाहान्तं बलिनिर्देशं सर्वेभ्य इति योजयेत् ॥ ८/८२ ॥
बलिदानसमायुक्तं दद्याद्भूतबलिं ततः ।
सर्वदिग्द्वारसम्पन्ने त्रिद्व्येकाशावकाशके ॥ ८/८३ ॥
इन्द्रादीशानपर्यन्तं बलिं दद्यात् स्वकर्मसु ।
ततो गर्भगृहं गत्वा दद्यादाचमनीयकम् ॥ ८/८४ ॥
निर्माल्यं तु समानीय चण्डेशाय निवेदयेत् ।
येन निर्मलतां याति निर्माल्यमिति कीर्त्यते ॥ ८/८५ ॥
चण्डस्याचमनं दद्यान्निर्माल्यं तु विसर्जयेत् ।
अगाधेऽम्भसि वाऽग्नौ वा गवां वाऽपि निवेदयेत् ॥ ८/८६ ॥
कायस्य मलबन्धत्वान्निर्माल्यं तु न भोजयेत् ।
अग्निकार्यं ततः कुर्यात्कुण्डसंस्कारपूर्वकम् ॥ ८/८७ ॥
॥ इति कामिकाख्ये महातन्त्रे नैवेद्यविधिः षष्ठः पटलः ॥
</poem>
== कुण्डलक्षणविधिः ==
<poem>
अथाग्निकार्यसिद्ध्यर्थं कुडलक्षणमुच्यते ।
कुण्डं वा स्थण्डिलं वाऽपि वह्नेरायतनं द्विधा ॥ ९/१ ॥
सूत्रं पूर्वापरं पूर्वं न्यसेद्दिक्साधनक्रमात् ।
तेनैव साधयेत् सूत्रं दक्षिणोत्तरगं क्रमात् ॥ ९/२ ॥
ततः क्षेत्रार्धमानानां दिक्सूत्राद्विदिशां ग्रहः ।
चतुरश्रं भवेत् कुण्डं वृत्तं वा हस्तनिर्मितम् ॥ ९/३ ॥
नित्यनैमित्तिके चैव काम्ये कल्पप्रचोदितम् ।
इष्टकाभिः सुपक्वाभिरपक्वाभिरसम्भवे ॥ ९/४ ॥
कुर्यात् कुण्डं तु शास्त्रोक्तं मन्त्रहोमानुरूपतः ।
मन्त्राणां वारुणानां च कुम्भाकारं विधीयते ॥ ९/५ ॥
वायव्यानां पताकेव माहेन्द्रणां तु वज्रकम् ।
सप्तजिह्वाकृति प्रोक्तमाग्नेयानां गुरूत्तमैः ॥ ९/६ ॥
मध्यमोत्तमवीर्याणां चतुरश्रं फलप्रदम् ।
त्रिकोणमल्पवीर्याणां स्त्रीरूपाणां भगाकृतिः ॥ ९/७ ॥
अर्धचन्द्रं तु रौद्राणां सौम्यानां वृत्तमेव हि ।
पञ्चकोणं तु मूर्तीनां किन्नराणां तथैव च ॥ ९/८ ॥
विद्याविद्येश्वराणां तु पद्माकारमिहोच्यते ।
ऐन्द्र्यां स्तम्भे चतुष्कोणमग्नौ तापे भगाकृतिः ॥ ९/९ ॥
चन्द्रार्धं मारणे यम्ये निरृतौ द्व्यष्टकोणकम् ।
वारुण्यां शान्तिके वृत्तं षडश्रोच्चाटनेऽनले ॥ ९/१० ॥
उदीच्यां पौष्टिके पद्मं रौद्र्यामष्टाश्रमुक्तिदम् ।
शतार्धशतहामे तु विस्तारं द्विगुणं क्रमात् ॥ ९/११ ॥
सहस्रायुतहोमे तु हस्तं हस्तद्वयं क्रमात् ।
भवेल्लक्षयुते होमे चतुर्हस्तं च षट्करम् ॥ ९/१२ ॥
कोटिहोमेऽष्टहस्तं स्यात् तस्मादूर्ध्वमधो न हि ।
हस्तमात्रं भवेत्कुण्डं लिङ्गे कन्यसके न्यसेत् ॥ ९/१३ ॥
द्व्यङ्गुलार्धं तयोर्वृद्धिः प्रान्ते द्वित्र्यंशतः क्रमात् ।
पञ्चमांशं पुरो न्यस्त्वा कोणवेदांशमानतः ॥ ९/१४ ॥
भ्रमादश्वत्थपत्राभं कुण्डमाग्नेयमुच्यते ।
चतुरश्रे गृहे भक्तें त्यक्त्वाऽद्यन्ते तदंशके ॥ ९/१५ ॥
मध्यसप्तांशमानेन कुण्डं खण्डेन्दुवद्भ्रमात् ।
इष्टदिक्षु न्यसेत्पश्चादुत्तरे सूत्रपातनम् ॥ ९/१६ ॥
त्रिभागवृद्धितो मत्स्यैस्त्रिभिर्नैशाचरं भवेत् ।
कण्ठार्धाष्टांशसन्त्यागात् वृत्तकुण्डमिहोदितम् ॥ ९/१७ ॥
षड्भागवृद्धितोमत्स्यैश्चतुर्भिः स्यात् षडश्रकम् ।
चतुरश्रेऽष्टभागे तु कर्णिका स्याद्द्विभागतः ॥ ९/१८ ॥
तद्बहिस्त्वेकभागेन केसराणि प्रकल्पयेत् ।
तृतीये दलमध्यानि तुरीये दलकोटयः ॥ ९/१९ ॥
भ्रमणात्पद्मकुण्डं स्याद्दलाग्रं दर्शयेद्बहिः ।
वृत्तकुण्डसमं चान्यदथवान्यप्रकारतः ॥ ९/२० ॥
वृत्तकुण्डं पुरा कृत्वा चतुर्धा मेखलां भजेत् ।
उत्सेधं च तथा कृत्वा कर्णिका सार्धतो भवेत् ॥ ९/२१ ॥
अवशिष्टं दलं वेददलमष्टदलं तु वा ।
क्षेत्रार्धदशमं भागं चतुदिक्षु तदुत्तरे ॥ ९/२२ ॥
विन्यसेत्तत्प्रमाणेन तुर्याश्रमपरं नयेत् ।
तस्य कर्णप्रमाणेन तद्भुजांश्चापि लाञ्छयेत् ॥ ९/२३ ॥
तत्राष्टसूत्रसंयोगादष्टाश्रं कुण्डमुच्यते ।
विस्तारसदृशः खातो मेखलाशेष एव वा ॥ ९/२४ ॥
कण्ठोऽङ्गुष्ठमितो हस्तो यववृद्ध्या द्विहस्ततः ।
कण्ठमानमिदं प्रोक्तं मेखलां शृणुत द्विजाः ॥ ९/२५ ॥
मुष्टिमात्रस्य कुण्डस्य मेखला ह्यङ्गुलद्वया ।
मेखलाद्वितयं कार्यमङ्गुलार्धाङ्गुलक्रमात् ॥ ९/२६ ॥
रत्निमात्रस्य कुण्डस्य नेमिः स्यादङ्गुलैस्त्रिभिः ।
अन्यनेमिद्वयं तस्य तृतीयार्धाङ्गुला मता ॥ ९/२७ ॥
हस्तमात्रस्य कुण्डस्य नेमिः स्याच्चतुरङ्गुला ।
कर्तव्या मेखला चान्या त्रिद्व्यङ्गुलक्रमात्तथा ॥ ९/२८ ॥
कुण्डस्य द्विकरस्य स्यात्पूर्वनेमिः षडङ्गुला ।
अन्याङ्गुलचतुष्का स्यात्तृतीया त्वङ्गुलैस्त्रिभिः ॥ ९/२९ ॥
चतुर्हस्तस्य कुण्डस्य नेमिः पूर्वाङ्गुलाष्टका ।
षड्भिरन्याङ्गुलैः कार्या चतुर्भिरपराङ्गुलैः ॥ ९/३० ॥
कर्तव्या मेखला पूर्वा षड्ढस्तस्य दशाङ्गुलैः ।
अङ्गुलैरष्टभिश्चान्या तृतीया षड्भिरङ्गुलैः ॥ ९/३१ ॥
अष्टहस्तस्य या पूर्वा मेखला द्वादशाङ्गुला ।
दशाङ्गुला द्वितीया तु तृतीयाष्टाङ्गुला मता ॥ ९/३२ ॥
कुण्डस्य यादृशं रूपं मेखलानां तु तादृशम् ।
अथवान्यप्रकारेण मेखलामानमुच्यते ॥ ९/३३ ॥
चतुर्विंशतिभागं तु विभजेत्कुण्डमानकम् ।
तदेकभागमात्रं स्यात्तेन द्वित्रिचतुर्गुणैः ॥ ९/३४ ॥
विस्तारोत्सेधमानाभ्यां भवन्तीह च मेखलाः ।
षडङ्गुलविशालोच्चा मेखलैका भवेद्यदि ॥ ९/३५ ॥
कुण्डबिम्बार्धमानेन नाभिस्त्र्यंशेन वा मता ।
मेखलामध्यगा योनिर्द्व्यङ्गुलोच्छ्रायसंयुता ॥ ९/३६ ॥
मुष्टिरत्न्येकहस्तेषु योनिमानमुदीरितम् ।
द्विहस्तादिषु कुण्डेषु विस्तारे द्व्यङ्गुलाधिका ॥ ९/३७ ॥
अग्न्यङ्गुलाधिका दैर्घ्यादुत्सेधः स्वभुजात्ततः ।
सा योनिः सर्वकुण्डानां स्वार्धमानेन निर्मिता ॥ ९/३८ ॥
अश्वत्थपत्रवद्वाथ गजोष्ठसदृशाऽथवा ।
प्रणालेन समायुक्ता कुण्डमानयुतेन तु ॥ ९/३९ ॥
योनेरारभ्य नाभ्यन्तं गोनन्देन सुशोभिना ।
नाभिः स्यात्कुण्डमध्ये तु स्वार्धमानेन निर्मिता ॥ ९/४० ॥
तच्चतुर्थांशकोत्तुङ्गपद्माकारा यथा भवेत् ।
एकाशीतिपदा वेदी मण्डपेन बहिर्भवेत् ॥ ९/४१ ॥
तद्बाह्ये त्रिषु भागेषु मध्ये कुण्डानि कल्पयेत् ।
चतुर्धा वेदिकां कृत्वा वेदिका कुण्डमध्यमे ॥ ९/४२ ॥
यथैकांशं भवेत्कुण्डजालं वा परिकल्पयेत् ।
प्रधानवायुसोमेशकुण्डेषु प्राङ्मुखो यथा ॥ ९/४३ ॥
पूर्वमुत्तरवक्त्रं स्याच्छेवं प्रागुत्तरामुखम् ।
॥ इति कामिकाख्ये महातन्त्रे कुण्डलक्षणविधिः सप्तमः पटलः ॥
</poem>
== अग्निकार्यविधिः ==
<poem>
अतः परं प्रवक्ष्यामि वह्निकार्यविधिक्रमम् ।
वैदिकं मिश्रकं शैवमग्निकार्यं त्रिधा स्मृतम् ॥ १०/१ ॥
केवलैर्वैदिकैर्मन्त्रैर्विहितो वैदिको भवेत् ।
मन्त्रैश्च वैदिकैः शैवैर्विहितो मिश्र उच्यते ॥ १०/२ ॥
केवलैः शिवमन्त्रैस्तु विहितः शैव उच्यते ।
उत्पादने क्रमस्त्वेवं विहितः शिवशासने ॥ १०/३ ॥
त्रिभिः परिधिभिश्चोर्ध्वसमिद्भ्यां संयुतस्तु यः ।
वैदिकाग्निः समुद्दिष्टो मिश्राग्निस्तूभयात्मकः ॥ १०/४ ॥
चतुष्परिधिभिः शैवः शास्त्रेऽस्मिन् संप्रकीर्तितः ।
प्रणीता ब्रह्मकूर्चेन संयुक्तो वैदिकः स्मृतः ॥ १०/५ ॥
तथैव मिश्रवह्निस्तु शैवाग्निस्तद्युतो हि वा ।
मिश्रवैदिकयोरग्न्योः स्वरूपं शृणुत द्विजाः ॥ १०/६ ॥
एकविग्रहसंयुक्तो द्विवक्त्रश्च द्विनासिकः ।
षडक्षो मेखलायुक्तः पादत्रयसमान्वितः ॥ १०/७ ॥
चतुः शृङ्गसमायुक्तो द्विशिरा जटिलो मतः ।
उपवीती च मौञ्जीवान् सप्तहस्तसमायुतः ॥ १०/८ ॥
सप्तजिह्वासमायुक्तो वृषवाहनसंयुतः ।
हिरण्या कनका रक्ता कृष्णा जिह्वा च दक्षिणे ॥ १०/९ ॥
सुप्रभा चातिरक्ता च बहुरूपा च वामके ।
एवं जिह्वाः समुद्दिष्टा मिश्राग्नौवैदिकानले ॥ १०/१० ॥
हिरण्या वारुणी जिह्वा कनका मध्यमे स्थिता ।
रक्ता चोत्तरजिह्वा स्यात् कृष्णा याम्यां दिशि स्थिता ॥ १०/११ ॥
सुप्रभा पूर्वजिह्वास्यादतिरिक्ताग्निदिक्स्थिता ।
बहुरूपैशजिह्वा स्याज्जिह्वास्थानं प्रकीर्तितम् ॥ १०/१२ ॥
शैवाग्निः कथ्यते विप्राः शृणुताथ समाहिताः ।
पञ्चवक्त्रयुतं रकं सप्तजिह्वाविराजितम् ॥ १०/१३ ॥
दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ।
रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् ॥ १०/१४ ॥
बद्धपद्मासनासीनं दशायुधसमन्वितम् ।
कनका बहुरूपा चाप्यतिरक्ता ततः परम् ॥ १०/१५ ॥
सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी ।
ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादितः स्थिताः ॥ १०/१६ ॥
शैवाग्निध्यानमुद्दिष्टं त्रिविधोऽग्निः प्रकीर्तितः ।
वैदिकोऽपि त्रिधा गार्हपत्यः स्याद्दक्षिणोऽनलः ॥ १०/१७ ॥
ततस्त्वाहवनीयस्तु तेषामत्र प्रयोजनम् ।
कारयेद्देशिको धीमान् शैवमिश्रानलोद्भवे ॥ १०/१८ ॥
अनुकल्पं समानीय शैवं सम्पादयेद् गुरुः ।
मिश्रं वा साधयेत्तत्र नियमोऽपि विधीयते ॥ १०/१९ ॥
गार्हपत्यो गृहस्थानां पितॄणां दक्षिणानलः ।
दैवस्त्वाहवनीयस्तु चान्येषामपि शंसितः ॥ १०/२० ॥
बालो युवा च वृद्धश्च क्रमेण परिकीर्तितः ।
प्रतिष्ठार्थं शिवाग्नेस्तु सम्पदर्थं समाहरेत् ॥ १०/२१ ॥
बालाग्निमुत्सवार्थं तु यौवनं परिकल्पयेत् ।
नित्याग्नौ योजयेद् वृद्धमन्यत्रापि च योजयेत् ॥ १०/२२ ॥
अनुकल्पशिवाग्नेस्तु चोत्पादार्थं क्रमो मतः ।
शिवाग्न्युत्पादहोमस्तु श्रेष्ठः संपरिकीर्तितः ॥ १०/२३ ॥
मिश्राग्न्युत्पादहोमस्तु मध्यमः परिकीर्तितः ।
वैदिके केवलाग्नौ वा शिवमन्त्रान्न योजयेत् ॥ १०/२४ ॥
शिवाग्नौ वैदिका मन्त्राश्चान्ये वा संप्रकीर्तिताः ।
तथैव मिश्रवह्निस्तु वैदिकाग्निस्तु कथ्यते ॥ १०/२५ ॥
ब्रह्मा विष्णुश्च लोकेशा देवाश्चान्ये च ये स्थिताः ।
व्यासो बोधायनश्चापस्तम्बश्चैवाश्वलायनः ॥ १०/२६ ॥
सत्याषाढश्च ये चान्ये मत्तो वेदास्तु सार्थकान् ।
शास्त्राण्यन्यानि श्रोतारः पुराणं च स्मृति तथा ॥ १०/२७ ॥
सूत्रैस्तु निमार्थं तु व्याससंक्षेपकारिणः ।
तन्मत?न कृतो योऽग्निः वैदिकः परिपठ्यते ॥ १०/२८ ॥
अदीक्षिताश्च विप्राद्या वैदिकाग्नौ तु केवलम् ।
अधिकारिण इत्युक्ता दीक्षिताः सर्वयोग्यकाः ॥ १०/२९ ॥
उभयाश्रयि?णो ये तु कृत्वादौ वैदिकं पृथक् ।
कुण्डसंस्कारपूर्वं तु शैवाग्निं साधयेत्ततः ॥ १०/३० ॥
मिश्राग्निरेवमुद्दिष्टरतूभयाश्रमयोग्यकः ।
अथवा वैदिके होमे विर्वृत्ते तदनन्तरम् ॥ १०/३१ ॥
शैवोक्तकुण्डसंस्कारान् कृत्वा चाग्निं च तत्पुरा ।
नाभिस्थेऽग्नावपानेन विश्राम्योदानवृत्तिना ॥ १०/३२ ॥
तर्द्बजेन क्रमात् सद्यवामाघोरनरेश्वरान् ।
नित्याग्नि वेशयेद् भूयः शिवाग्निमपि कुण्डके ॥ १०/३३ ॥
एवं मिश्रं तु सम्पाद्य जुहुयात्सर्वमन्त्रकैः ।
विहितेऽन्त्येष्टिकर्मादौ उभयोः सङ्करार्थकम् ॥ १०/३४ ॥
आदौ वा कुण्डसंस्कारं कुर्याद्वैदिकशैवकम् ।
वैदिकाग्न्यवसाने तु शैवं सम्पाद्य वानलम् ॥ १०/३५ ॥
कृत्वा शिवाग्निमन्यत्र तेन संयोजनं नयेत् ।
एवमन्त्येष्टिकर्मादौ साङ्कर्यं सम्मतं त्विह ॥ १०/३६ ॥
अथोऽन्यत्र पृथक् कार्यः श्रद्धावित्तानुसारतः ।
शैवाग्नि संप्रवक्ष्यामि कुण्डलक्षणपूर्वकम् ॥ १०/३७ ॥
तथा कुण्डं चतुष्कोणं वृत्ताभं वाथ वारिजम् ।
सर्वकामप्रदं नित्ये हस्तमात्रविनिर्मितम् ॥ १०/३८ ॥
चतुस्त्रिद्व्यङ्गुलास्तिस्रो मैखलैका षडङ्गुला ।
गजोष्ठसदृशा योनिर्मध्ये स्याद् द्वादशाङ्गुला ॥ १०/३९ ॥
कण्ठोङ्गुष्ठप्रमाणेन गर्भश्वभ्रोपरि स्थितः ।
स्थपिडले तदभावे वा संस्कृतेऽग्नि निवेशयेत् ॥ १०/४० ॥
असंस्कृते तु वै कुण्डे शिवाग्निर्नैव सिद्ध्यति ।
अनिष्?पन्ने शिवाग्नौ तु हुतं भवति निष्फलम् ॥ १०/४१ ॥
वीक्षणं शिवमन्त्रेण प्रोक्षणं चास्त्रमन्त्रतः ।
वर्मणाभ्युक्षणं कार्यं ताडनं चास्त्रमन्त्रतः ॥ १०/४२ ॥
उल्लेखनावकिरणपूरणं सेचनं तथा ।
कुट्टनं च ततः कुर्यात्सम्मार्जनमतः परम् ॥ १०/४३ ॥
उपलेपः कुण्डकॢप्तिः कुण्डस्य परिधानकम् ।
कुण्डार्चनं च परिधिविष्टरन्यास एव च ॥ १०/४४ ॥
रेखाचतुष्टयं वज्रकॢप्तिः शृङ्गाटकल्पना ।
एतत्सर्वं तु मतिमान् अस्त्रमन्त्रेण कारयेत् ॥ १०/४५ ॥
आसनं तत्र संकल्प्य देवीं वागीश्वरीं न्यसेत् ।
तद्वद्वागीश्वरं चापि यद्वाकाशतनुं शिवम् ॥ १०/४६ ॥
ध्यात्वा रिरंसुभैसान्यां सङ्गमयय यथाविधि ।
कल्पं मन्थानुसम्पातं समिधश्चैतयोस्ततः ॥ १०/४७ ॥
शुद्धात्मतत्ववद्वह्निमरणेर्जनितं क्षिपेत् ।
सूर्यकान्तात् द्विजावासात्प्रसूतमथवाऽनलम् ॥ १०/४८ ॥
अनुकल्पविधानेन मन्त्रपूतं नियोजयेत् ।
अयस्कान्तादितोऽकल्पमथवानीय कल्पवित् ॥ १०/४९ ॥
ताम्रपात्रे शरावे वा वीक्षणाद्यैर्विशोधयेत् ।
क्रव्यादांशं परित्यज्य प्रोक्षयेदस्त्रवारिणा ॥ १०/५० ॥
कवचेनावकुण्ठ्याथ ऐमुनायेति विन्यसेत् ।
वह्निबीजं षडङ्गैश्च वह्नेः संयोजनं नयेत् ॥ १०/५१ ॥
मूलेन वौषडन्तेन धेनुमुद्रायुतेन च ।
अमृतीकृत्य संपूज्य कुण्डस्यैव प्रदक्षिणम् ॥ १०/५२ ॥
त्रिधा कृत्वाऽथ जानुभ्यां विन्यसेदवनीं गतः ।
वागीशीगर्भनाड्यां तु स्वात्मनः सम्मुखं यथा ॥ १०/५३ ॥
मूलमन्त्रेण निक्षिप्य स्वात्मानं शिववत्स्मरेत् ।
तोयबिन्दुं ततो दत्वा छादयेत्तु सदिन्धनैः ॥ १०/५४ ॥
दर्भकङ्कणमस्त्रेण जप्तं गर्भस्य रक्षणे ।
देवीहस्ते हृदा बध्वा गर्भाधाननिमित्तकम् ॥ १०/५५ ॥
सद्योजातं समावाह्य हृदयेनाहुतित्रयम् ।
तिलैर्दत्वा पुंसवननिमित्तं वाममर्चयेत् ॥ १०/५६ ॥
शिरसैवाहुतिं तद्वत्सीमन्तोन्नयने पुनः ।
अघोरेण समभ्यर्च्य शिखयैवाहुतित्रयम् ॥ १०/५७ ॥
दत्वा दर्भेण शिखया वक्त्राङ्गानां च कल्पनम् ।
निष्कृतिं च तदा कृत्वा जातकर्म ततो नयेत् ॥ १०/५८ ॥
पुरुषेणार्चनं कृत्वा कवचेनाहुतित्रयम् ।
तिलेनैव तदा कुर्यात्सूतकस्य निवृत्तये ॥ १०/५९ ॥
कुण्डमर्घ्याम्भसा प्रोक्ष्य प्रागग्रानुदगग्रकान् ।
दर्भानास्तीर्य कुण्डस्य समन्तादस्त्रमन्त्रतः ॥ १०/६० ॥
रक्षार्थं शिववह्नेस्तु वक्त्राण्युद्घाटयेत्तदा ।
आहुतित्रितयेनाथ वक्त्राणां पुष्टयेपि वा ॥ १०/६१ ॥
लालापनोदनार्थं च सदिध्मान् पञ्च होमयेत् ।
चतुर्विंशतिसंख्याकान् षोडशाङ्गुलदैर्घ्यकान् ॥ १०/६२ ॥
ईशानं नामकरणे त्वावाह्यास्त्रेण होमयेत् ।
शिवाग्निस्त्वमिति ब्रूयात् मूलमन्त्रपुरः सरम् ॥ १०/६३ ॥
पित्रोर्विसर्जनं कुर्यान्मेखलासु च पूजयेत् ।
इन्द्रादीन् लोकपालांश्च पूजयेत्परिधिष्वपि ॥ १०/६४ ॥
विष्टरे च क्रमेणैव ब्रह्माणं रुद्रमेव च ।
विष्णुमीश्वरमभ्यर्च्य प्रागादिचतसृष्वपि ॥ १०/६५ ॥
गृहीत्वा स्रुक्स्रुवास्त्रेण ह्यभ्युक्ष्य कवचेन तु ।
अवकुण्ठ्य प्रताप्याग्नौ वा भ्राम्य च तदग्रतः ॥ १०/६६ ॥
दर्भाग्रेणैव संस्पृश्य भ्राम्य मध्यं तु मध्यतः ।
पुनराभ्राम्य मूलेन मूलं संस्पृश्य तद्द्वयोः ॥ १०/६७ ॥
तद्वक्त्रपञ्चकं न्यस्य स्रुचि शक्तिं च विन्यसेत् ।
स्रुवे शम्भुं समभ्यर्च्य स्वात्मनो दक्षिणे न्यसेत् ॥ १०/६८ ॥
दर्भाणामुपरिष्टात्तु पूजयेद्धृदयेन तु ।
आज्यमस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठ्य च ॥ १०/६९ ॥
प्रताप्याग्नौ शिवास्त्रेणोद्वास्य तत्कवचेन तु ।
कुण्डस्यैवोपरिष्टात्तु त्रिः प्रदक्षिणमानयेत् ॥ १०/७० ॥
योन्यां संस्थाप्य संग्राह्य दर्भाग्रद्वयनिर्मितम् ।
प्रादेशिकपवित्रञ्चाङ्गुष्ठानामिकमध्यमम् ॥ १०/७१ ॥
त्रिराज्योत्प्लवनं कृत्वा कवचेनाग्निसम्मुखम् ।
तद्वत्संप्लवनं कृत्वा हृदयेनात्मसम्मुखम् ॥ १०/७२ ॥
वह्नौ पवित्रं निक्षिप्य अस्त्रेणोद्योत्य तद्घृतम् ।
निरीक्ष्याज्यं ततो धीमान्नीराजनमथाचरेत् ॥ १०/७३ ॥
उल्कामग्नौ विनिक्षिप्य प्रोक्ष्याङ्गैरभिमन्त्रयेत् ।
अमृतीकृत्य मूलेन धेनुमुद्रायुतेन च ॥ १०/७४ ॥
संपूज्य मूलमन्त्रेण दर्भं प्रादेशनिर्मितम् ।
ओंकारेणात्र विन्यस्य नाडीनां कल्पयेत्त्रयम् ॥ १०/७५ ॥
मध्यादाज्यं समानीय स्वाहाप्रणवसंयुतम् ।
अग्नये वामतः सोमायेति मन्त्रेण होमयेत् ॥ १०/७६ ॥
अग्नीषोमसमायुक्तं मध्ये होमं समाचरेत् ।
चतुर्थीमग्नये स्विष्टकृते स्वाहाऽहुतिञ्चरेत् ॥ १०/७७ ॥
तत्सर्पिषो लवक्षेपात्सर्पिषोऽन्यानि शोधयेत् ।
अयं विभागः शुक्ले स्यात्कृष्णे सूर्याहुतिं चरेत् ॥ १०/७८ ॥
आज्याहुतित्रयेणाग्नेः कुर्याद्वक्त्राभिधारणम् ।
स्वैः स्वैर्मन्त्रैः समोपेतं सद्यं वामेन योजयेत् ॥ १०/७९ ॥
वामं घोरेण संयोज्यं तं च तत्पुरुषेण तु ।
तं चेशाने तु संयोज्यं तं शिवेनैव योजयेत् ॥ १०/८० ॥
कृत्वैवं वक्त्रसन्धानमेकीकरणमेव च ।
स्वस्वमन्त्रसमोपेतं सद्योजातादितो नयेत् ॥ १०/८१ ॥
यथाभिलषितं वक्त्र कुण्डमानं प्रकल्पयेत् ।
अन्नप्राशनचूडादिसंस्काराणां प्रसिद्धये ॥ १०/८२ ॥
जिह्वायां मध्यमस्थायां पूर्णाहुतिमथाचरेत् ।
वौषडन्तेन मूलेन स्रुक्स्रुवाभ्यां विशेषतः ॥ १०/८३ ॥
चर्वर्थं धूपदीपार्थमोदनार्थं च कुण्डतः ।
ग्राहयेत्तु पृथग्भागं वह्निमुद्धृत्य यत्नतः ॥ १०/८४ ॥
प्राच्यां चरुपुरोडशाः पञ्चसंस्कारसंस्कृते ।
अनाहुते शिवे वह्नौ होमस्त्वावाहिते शिवे ॥ १०/८५ ॥
अग्ने त्वमैश्वरं तेजः पावनं परमं यतः ।
तस्मात् त्वदीयहृत्पद्मे स्थाप्य सन्तर्पयाम्यहम् ॥ १०/८६ ॥
प्रार्थयित्वेत्यतस्तस्य योगपीठं हृदम्बुजे ।
विन्यस्य कल्पयेन्मूर्तिं भास्वरां सुवरां पराम् ॥ १०/८७ ॥
आवाहनादिभिस्तस्यां सन्निधीकृत्य कारणम् ।
पूजयित्वा बहिस्तस्या भोगाङ्गानि प्रकल्पयेत् ॥ १०/८८ ॥
आश्रयोपायतो ध्यात्वा भास्वराणि पृथक् पृथक् ।
प्ररोच्य परमीकृत्य शिववक्त्राग्निवक्त्रयोः ॥ १०/८९ ॥
कृत्वा सन्धानमग्नेस्तु ज्योतिर्नासाविनिर्गतम् ।
यागस्थाने शिवेनैकीभूतं सम्यग्विचिन्तयेत् ॥ १०/९० ॥
नाडीसन्धानकं कृत्वा प्रार्थ्याज्ञां तर्पयेच्छिवम् ।
शिवाद्दशांशतोऽङ्गानि तर्पयेत्तु द्विजोत्तमाः ॥ १०/९१ ॥
शतमर्धं तदर्धं वा विंशतिर्वा दशाथवा ।
आत्मार्थे वा परार्थे वा प्रत्यहं होममाचरेत् ॥ १०/९२ ॥
एककालं द्विकालं वा त्रिकालं होममाचरेत् ।
आज्याभावात्तिलैर्होमः कर्तव्यः कृष्णवर्चसैः ॥ १०/९३ ॥
व्रीहिभिर्वा समिद्भिर्वा दध्ना वापि यवैस्तथा ।
त्रिफलैर्बिल्वपत्रैर्वा पुष्पैर्वा याज्ञिकैः शुभैः ॥ १०/९४ ॥
अन्यैर्होमो विधातव्यः श्रद्धावित्तानुसारतः ।
मृगीं वाराहमुद्रां वा शङ्खिनीं वा विधाय च ॥ १०/९५ ॥
जुहुयाद्वा पृथग्द्रव्यं मात्राख्याभिर्यथा तथा ।
सुस्नेहमधुदुग्धानामाहुतिः स्यात्स्रवात्मिका ॥ १०/९६ ॥
निकुञ्जेनाहुतिर्दध्ना भक्ष्यपायसयोः पलात् ।
पर्यायात्सर्वभक्ष्याणि पञ्चाग्राङ्गुलिभिस्तिलान् ॥ १०/९७ ॥
मुष्टिभिर्होमयेल्लाजान् स्वरूपेण फलानि तु ।
हस्तपिण्डमितं शाकं स्वाष्टांशं कन्दजातयः ॥ १०/९८ ॥
तिक्तपिण्याकजातीनामभिचारविधिं विना ।
त्रिखण्डानि तु मूलानि द्व्यङ्गुला वल्लिजातयः ॥ १०/९९ ॥
लाजावमिश्रितं धान्यं सर्वान्नं ग्राससम्मितम् ।
हविष्यान्नं ततश्चान्ते ताम्बूलं विनिवेदयेत् ॥ १०/१०० ॥
प्रदक्षिणं नमस्कृत्वा स्तुत्वा वा भक्तितस्ततः ।
पूजयित्वार्पयित्वा च प्ररोच्य च विसर्जयेत् ॥ १०/१०१ ॥
शिवं व्याहृतिभिः पश्चात्सन्तर्प्य शिवपावकम् ।
रोधयित्वा तु तत्रैव रक्षयेत्प्रतिवासरम् ॥ १०/१०२ ॥
कुण्डे तु भावयेदग्निं त्रिविधं विधिना त्रिधा ।
संपूज्य तत्र देवेशमविसृज्याङ्गमालभेत् ॥ १०/१०३ ॥
चण्डभस्म भवेत्पश्चाद्यदा देवो विसर्जितः ।
यद्वा विसर्जयेत्कुण्डे वह्निमन्यत्र रक्षयेत् ॥ १०/१०४ ॥
रक्षितेऽग्नौ तु निर्वाणे जपेद्घोरमुपोषितः ।
जपेद्वा जुहुयाद्वाथ बहुरूपं प्रशान्तये ॥ १०/१०५ ॥
तत्रैवान्तर्बलिं दद्यात्कृत्वा मण्डलकं भुवि ।
संस्कृते फलके वाथ गन्धपुष्पादिसंस्कृते ॥ १०/१०६ ॥
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ।
गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे बलिम् ॥ १०/१०७ ॥
ग्रहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ।
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुगोचरे ॥ १०/१०८ ॥
नक्षत्रराशिवर्गेभ्यस्तथा विश्वगणाय च ।
मण्डलाभ्यन्तरे देया बलिस्तेभ्यः प्रकामतः ॥ १०/१०९ ॥
वायुवारुणदिग्भागे क्षेत्रपालबलिं क्षिपेत् ।
आत्मार्थेऽप्येवमादिष्टं गृहादौ देवसद्मनि ॥ १०/११० ॥
नन्द्यादिपरिवाराणां बलिं दद्यात्पृथक् पृथक् ।
अग्निकार्यबलिञ्चान्ते एवमेव समाचरेत् ॥ १०/१११ ॥
समाचम्य शुचिर्भूतो सकली कृतविग्रहः ।
ततो लिङ्गान्तिकं गत्वा प्रतर्प्यानन्तरक्रियाम् ॥ १०/११२ ॥
गीताद्यैरुपचारैश्च भूयः सन्तोषयेच्छिवम् ।
नित्योत्सवं ततः कुर्याच्छुद्धाख्यं नृत्तमन्तिमे ॥ १०/११३ ॥
कारयेद्देशिको धीमान् परार्थे देवसद्मनि ।
उत्सवं शुद्धनृत्तं च गृहाग्रे न समाचरेत् ॥ १०/११४ ॥
गानं च कारयेदन्ते यथा तुष्टो महेश्वरः ।
गन्धैः पुष्पैश्च संपूज्य दत्वार्घ्यं च पराङ्मुखम् ॥ १०/११५ ॥
दर्शयित्वा परां मुद्रामुत्थाप्याङ्गानि हेतिना ।
संहारिणं शिवं ध्यात्वा मूर्तौ मूर्त्या नियोजयेत् ॥ १०/११६ ॥
अर्चयित्वा शिवं भूय उच्चार्य हृदयानुगम् ।
प्रासादं कारणत्यागाद्यावन्निष्कलतां गतम् ॥ १०/११७ ॥
परतत्वाविभागेन भावयेदथवात्मना ।
हृत्सरोजे स्थितेनैक्यं कल्पयेन्मुद्रया तया ॥ १०/११८ ॥
एवं विसर्जयेद्देवं सापेक्षनिरपेक्षकम् ।
बिन्द्वाद्यं नादपर्यन्तमन्ते चण्डेश्वरं यजेत् ॥ १०/११९ ॥
बाणे लोहे चले सिद्धे न चण्डेशः स्वयंभुवि ।
प्रतिमानां च सर्वासामन्ते च स्थण्डिले नहि ॥ १०/१२० ॥
प्रासादबाह्यतश्चण्डमैशान्यां दिशि मन्दिरे ।
देवाय दत्तं यद्द्रव्यं चण्डेशायेति कल्पितम् ॥ १०/१२१ ॥
चण्डभोज्यं दुराधर्षं नात्मभोगाय कल्पयेत् ।
निर्माल्यलङ्घनं दानं भक्षणं च विवर्जयेत् ॥ १०/१२२ ॥
गुरुपुस्तकनागानां वह्नेर्योगिगणस्य च ।
पार्वतीयक्षमातॄणां न निर्माल्यं शिवे यथा ॥ १०/१२३ ॥
रत्नहेमादिलिङ्गेषु चले लिङ्गे प्रतिक्षणे ।
गुरुष्वपि न निर्माल्यं व्याख्यासु प्रतिमासु च ॥ १०/१२४ ॥
स्वेष्टलिङ्गे च यद्दत्तं चरुवत्तन्न संशयः ।
नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापयेत् ॥ १०/१२५ ॥
स्नानपानीयदुग्धाद्यैर्यदि सिक्तो भवेत्तदा ।
स्नायात्प्रक्षालयेद्वाथ नाभेरूर्ध्वमधस्तथा ॥ १०/१२६ ॥
आचम्य प्रयतो भूत्वा देवदेवं प्रणम्य च ।
च्युतस्खलितशुद्व्यर्थमभ्यसेन्मन्त्रसंहिताम् ॥ १०/१२७ ॥
निर्गच्छेदालयाद्वामपादेनास्पृष्टदेहलीं ॥
॥ इति कामाकाख्ये महातन्त्रे अग्निकार्यविधिः अष्टमः पटलः ॥
</poem>
== कालविधिः ==
<poem>
अथ कालं प्रवक्ष्यामि सर्वेषां तु सुखावहम् ।
माघमासं विना शस्तं भानोरयनमुत्तरम् ॥ ११/१ ॥
दक्षिणे त्वरिते मासौ कार्तिकाश्वयुजावपि ।
श्रावणश्च विधीयन्ते तदन्ये निन्दिता मताः ॥ ११/२ ॥
शुक्लपक्षः शुभोऽन्यश्च सप्तम्यन्तोऽसितो मतः ।
शुक्ले वाद्यतृतीयांशं कृष्णे चान्त्यं तु वा त्यजेत् ॥ ११/३ ॥
मध्यमौ मध्यगौ भागौ श्रेष्ठावन्यौ प्रकीर्तितौ ।
नवमीं पञ्चदश्यौ च हित्वा युग्मेतरं तिथिम् ॥ ११/४ ॥
आद्यामपि च युग्मासु द्वितीयां दशमीं तथा ।
कृष्णे षष्टिं च याः शिष्टास्ताः सर्वानिन्दितास्त्विह ॥ ११/५ ॥
रोहिणी चोत्तरास्तिस्रो हस्तं स्वाती पूनर्वसू ।
अनूराधाश्वयुक् सौम्यं वैष्णवं वारुणं मघा ॥ ११/६ ॥
चित्राश्रविष्ठापौष्णाश्च मनुजेषु प्रशंशिताः ।
पूज्याः शतभिषक् चैव विशाखा पूर्वजैः सह ॥ ११/७ ॥
देवेषु कथितं रौद्रं सर्वमेतच्छिवे मतम् ।
मानुषे पौष्यपौष्णाश्च तदन्ये निन्दितास्त्विह ॥ ११/८ ॥
वारौ कुजार्कौ हित्वा च देववारः प्रशंसितः ।
मनुष्यैरपि वारं च वर्जयेत्तु सितापरम् ॥ ११/९ ॥
झषलक्षगते भानौ वेश्मारम्भं विवर्जयेत् ।
शुभकर्म न कर्तव्यं जीवे चास्तं गते बुधैः ॥ ११/१० ॥
शुक्रस्यास्तमये वाऽपि प्रतिष्ठाद्यं न कारयेत् ।
दिवा गर्भप्रतिष्ठा च शर्वर्यां वास्तुकर्म च ॥ ११/११ ॥
सर्वदोषकरं प्रोक्तं रात्रावावेशनं भवेत् ।
रात्रौ वास्तुबलिं ग्रामे नाग्नौ कुर्यात्कथञ्चन ॥ ११/१२ ॥
उत्तमः स्थिरराशिः स्यान्मध्यमस्तूभयात्मकः ।
विवर्ज्यश्चरराशिस्तु सजीवश्चेच्छुभप्रदः ॥ ११/१३ ॥
गुरुभार्गवचान्द्रीणामुदयः संप्रशस्यते ।
गुरूदयस्तु विप्राणां भूपतीनां भृगूदयः ॥ ११/१४ ॥
विशां बुधोदयः श्रेष्ठः शूद्रे चैवं विधीयते ।
त्रिषडेकादशस्थाने पापास्तु निशि शोभनाः ॥ ११/१५ ॥
व्ययं हित्वा शुभाः सर्वे सर्वत्र शुभदा मताः ।
चतुरश्रे शुभाः पापा वर्जनीया विशेषतः ॥ ११/१६ ॥
उभयस्थं हिमांशु च षट्सप्तमगतं शुभम् ।
वर्जयेद्देशिको धीमान् पञ्चगोचरसंस्थितः ॥ ११/१७ ॥
कण्टकं ब्रह्मदण्डं च स्थूणमुक्तं ग्रहेण च ।
युक्तं च काङ्क्षितञ्चोडुं सन्त्यजेद्देशिकोत्तमः ॥ ११/१८ ॥
वेधितर्क्षं व्यतीपातं वज्रं शूलं तथैव च ।
विष्कम्भं परिघं चैव गण्डं वैधृतिहर्षणे ॥ ११/१९ ॥
तथाऽतिगण्डमन्दर्क्षं षडशीतिमुखं तथा ।
मासशून्यं ग्रहैर्भिन्नं दग्धवारं तथैव च ॥ ११/२० ॥
ग्रहदोषसमाविष्टज्वालानक्षत्रकादि यत् ।
तिथिनक्षत्रमासाब्दायनान्तं च वर्जयेत् ॥ ११/२१ ॥
अधिमासं त्यजेद्धीमान् देशिकस्तु विशेषतः ।
यजमानानुकूलर्क्षे स्वल्पदोषे गुणाधिके ॥ ११/२२ ॥
पूर्वाह्णे वाथ मध्याह्ने लग्ने ग्रहवलान्विते ।
कारयेद्वास्तुकर्मैतत्सर्वसम्पत्समृद्धये ॥ ११/२३ ॥
॥ इति कामिकाख्ये महातन्त्रे कालविधिः नवमः पटलः ॥
</poem>
== निमित्तपरीक्षाविधिः ==
<poem>
आदौ कालं परिक्ष्यान्ते शुभकर्म समाचरेत् ।
निमित्तशकुनानादौ ज्ञात्वा कर्म समाचरेत् ॥ १२/१ ॥
वास्तुविद्देशिकः शिल्पी दैवज्ञो यजमानकः ।
शुचिः शुक्लाम्बरो भूत्वा भूषणैः समलङ्कृतः ॥ १२/२ ॥
प्रस्थाने निर्गमे चैव वास्तुदेशप्रवेशने ।
निमित्तान् शकुनानेतान् पश्येद्ध्यात्वा सदाशिवम् ॥ १२/३ ॥
विद्वांसो ब्राह्मणो वापि पत्नीपुत्रयुतो बली ।
भूषिता वा सुपुत्रा वा हर्षिता च विशेषतः ॥ १२/४ ॥
रूपिणी गर्भिणी कन्या क्रीडन्तश्च विशेषतः ।
भक्ष्यं भोज्यं च पानं च मांसं दीपं तथैव च ॥ १२/५ ॥
अनुलेपनमालादि गन्धद्रव्यं घृतं दधि ।
श्रीवत्सं पूर्णकुम्भं च शङ्खं गोरोचनं तथा ॥ १२/६ ॥
आदर्शनं ध्वजं चैव सिद्धार्थं च पयः पुनः ।
यान्यन्यानि प्रशस्तानि शुभं तेषां तु दर्शनम् ॥ १२/७ ॥
चुचुन्दरी शिवा गौली सूकरश्चापि पिङ्गलः ।
कोकिलं वामतः शस्तं प्रस्थाने सर्वकर्मणि ॥ १२/८ ॥
आसन्ननिम्नगाः शीघ्रं दूरादुन्नतदूरगाः ।
हर्म्यप्रासादमाङ्गल्यमनोज्ञस्थानसंश्रिताः ॥ १२/९ ॥
श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ।
न ग्रामेऽरण्यगौर्ग्राह्यो नारण्ये ग्रामसंस्थितः ॥ १२/१० ॥
दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ।
द्वन्द्वगौ चार्थितौ ग्राह्यौ काकोलस्त्विष्टकाङ्क्षिणः ॥ १२/११ ॥
आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ।
क्षुतं सर्वत्र नेष्टं स्याद्गोक्षुतं मरणं दिशेत् ॥ १२/१२ ॥
गुलास्थिकृष्णधान्यानि कार्पासाङ्गारगोचरः ।
नियतेरिन्धनानां च दर्शनं शोकदं भृशम् ॥ १२/१३ ॥
चर्मकृन्मुक्तकेशादिरणक्षुत्क्षाममुण्डिनाम् ।
मलिनाभक्तनग्नादेर्दर्शनं दुःखदं भवेत् ॥ १२/१४ ॥
आक्रोशं रोदनं चैव कलहः शोकदः पुनः ।
वराहमहिषोष्ट्रादेर्दर्शनं च तथा भवेत् ॥ १२/१५ ॥
प्रतिकूले निमित्ते च सर्वकर्म विवर्जयेत् ।
एकधा द्वित्रिधा कृत्वा निमित्तत्रयदोषकृत् ॥ १२/१६ ॥
वर्जयेद्देशिको धीमान् पञ्चगोचरसंयुतः ।
॥ इति कामिकाख्ये महातन्त्रे निमित्तपरीक्षाविधिः दशमः पटलः ॥
</poem>
== भूपरीक्षाविधिः ==
<poem>
शुमे निमित्ते लब्धे च भूपरीक्षां समाचरेत् ।
शैवं ब्राह्मं तथा वास्तु वैष्णवञ्चैन्द्रमेव च ॥ १३/१ ॥
औक्षञ्च भौतिकञ्चैव आसुरञ्च पिशाचकम् ।
राक्षसं चैव वायव्यं वारुणाग्नेयकौ तथा ॥ १३/२ ॥
जानीयाल्लक्षणैरेतैर्भूगुणं देशिकोत्तमः ।
कर्णिकारार्जुनाअश्वत्थकपित्थाशोकघातकी ॥ १३/३ ॥
स्थलारविन्दतुलसीदूर्वाभिर्वा तता मही ।
विष्णुक्रान्ताखुकर्णाभ्यां शाल्मली गिरिशारिबा ॥ १३/४ ॥
कपोतशुकहंसैश्च शैवी सा शुभदा मही ।
बिल्वैः पलाशैर्दर्भैश्च कुशैश्च हरिणैस्तथा ॥ १३/५ ॥
होमद्रव्यैः सुगन्धैश्च भूर्ब्राह्मी शुभदा मता ।
तिन्दुकैस्तिन्त्रिणीभिश्च करजैर्वेणुभिस्तथा ॥ १३/६ ॥
कार्पासार्कजपाभिश्च हंसैः पक्षिमृगैस्तथा ।
निष्कण्टकैस्तथा वृक्षैर्या भूमिः सहिता भवेत् ॥ १३/७ ॥
वैष्णवी भूः समाख्याता शौर्यवीर्यप्रदा नृणाम् ।
कदलीपनसाम्रैश्च पुन्नागैर्वकुलैस्तथा ॥ १३/८ ॥
पाटलैः सिन्धुवारैश्च तथा चामलकैः पुनः ।
इन्दीवरैश्च वैश्यैश्च शूद्रैरैन्द्री मही मता ॥ १३/९ ॥
पाटल्यगरुगन्धाढ्या धनधान्यसमृद्धिदा ।
अङ्कोलैश्च तथा वृक्षैर्मार्जालैर्नकुलैस्तथा ॥ १३/१० ॥
शशगोधाचकोरैश्च वृकैरौक्षमही मता ।
शौर्यवीर्यकरी सा स्यात्प्रजासम्पत्समृद्धिदा ॥ १३/११ ॥
निर्गुण्डी माधवी दूर्वा त्वङ्कोलैः किंशुकैस्तथा ।
मल्लिकाकरवीरैश्च मधूकैर्भौतिकी मता ॥ १३/१२ ॥
अन्नदा पुष्टिदा नॄणां भस्मगन्धसमन्विता ।
भल्लातकैर्महावृक्षैर्दुष्टसत्त्वैः पलाण्डुभिः ॥ १३/१३ ॥
किरातैः ककुभैर्गृध्रैर्धूर्तैः सर्वैः समन्विता ।
आसुरी युद्धदा भूमिः पूतिगन्धसमन्विता ॥ १३/१४ ॥
शाल्मलीभिस्तथा भूमिर्वकुलैश्च विभीतकैः ।
श्लेष्मातकैः खरैरुष्ट्रैः सृगालैः सूकरैः पुनः ॥ १३/१५ ॥
चण्डालैश्च पुलिन्दैश्च पूतिगन्धोषरा च सा ।
पैशाची च स्मृता शास्त्रैः सर्वनाशसमन्विता ॥ १३/१६ ॥
चण्डालविषचोरैश्च शिरोरोगादिभिस्तथा ।
मरीचगुलगन्धाढ्या राक्षसी सा क्षयप्रदा ॥ १३/१७ ॥
गोमायुगणसङ्कीर्णा झिल्लिका शर्करान्विता ।
या वायव्येति सा प्रोक्ता दुःखनैर्धन्यदायिका ॥ १३/१८ ॥
या पूगैरावृता भूमिर्वारुणी सर्वसिद्धिदा ।
स्नुहिश्लेष्मातकाद्यैश्च संयुक्ता क्षुद्रशर्करैः ॥ १३/१९ ॥
ऊषरा तोयहीना च आग्नेयी सर्वनाशिनी ।
शैवे शैवी समाख्याता वैष्णवी विष्णुदेशके ॥ १३/२० ॥
ब्राह्मी स्याद् ब्रह्मदेशे तु शैवी विप्रादियोग्यका ।
शैवी विप्रविषिष्टा च ब्राह्मी स्याद्वैष्णवी च भूः ॥ १३/२१ ॥
भूभृतां स्याद्विशामौक्षी शूद्राणां भौतिकी स्मृता ।
पैशाची त्वासुरी भूमी राक्षसी या च भूर्मता ॥ १३/२२ ॥
अन्त्यजानामिह प्रोक्ता शतशः कर्षिता च या ।
सा च गोभिश्चिरं भित्त्वा भूर्ग्राह्या वत्सरोर्ध्वतः ॥ १३/२३ ॥
क्षेत्रस्थितिवशादुर्वी कथिता त्वनुलोमिनाम् ।
अनूपा जाङ्गला चेति वास्तुयोग्या द्विधा धरा ॥ १३/२४ ॥
स्थिरं गुरुतरं भूरिशर्करं क्षारवारिणा ।
युक्तमल्पीयसात्यन्तं खातेऽगाधेऽपि जाङ्गलम् ॥ १३/२५ ॥
कशेरुकैरवाकीर्णं रूढसौगन्धिकोत्पलम् ।
सूक्ष्मवालुकमानूपं कृषिकृत्युच्चलज्जलम् ॥ १३/२६ ॥
जाङ्गलानूपसम्मिश्रगुणं साधारणं स्मृतम् ।
जाङ्गलं कदलीतालपनसादितरूद्भवम् ॥ १३/२७ ॥
सर्वसस्योचितं पुष्पफलवृक्षसुखोदयम् ।
सर्वर्तुसुखदं सर्वहितमानूपमिष्यते ॥ १३/२८ ॥
तयोः सम्पर्कसंयुक्तं साधारणमुदाहृतं ।
पद्मकं भद्रकं धूम्रं पूर्णञ्चेति चतुर्विधम् ॥ १३/२९ ॥
समसंस्पर्शनं स्निग्धं सुगन्धं सुस्वरं स्थिरम् ।
करोदाञ्जलिमात्रोद्यदुदकं वास्तु पद्मकम् ॥ १३/३० ॥
प्राच्युदीच्युदकं सस्यं दक्षिणेशं पुरोवनम् ।
सौम्यं सारतरं तत्तु प्रागुदग्वीरणान्वितम् ॥ १३/३१ ॥
सुद्रव्यं रमणीयं सज्जनस्थानं तु भद्रकम् ।
पूर्णकं धूम्रकं नित्यमनिलानलदिक्प्लवम् ॥ १३/३२ ॥
उत्तमं मध्यमं नीचं नित्यं चेति चतुर्विधम् ।
दशदण्डप्रमाणं तु षण्मात्रावनतं तु यत् ॥ १३/३३ ॥
उत्तमं स्याद्वितस्त्या तु मध्यं हस्तेन चाधमम् ।
तन्मन्दमध्यत्वरितजलावहसमन्वितम् ॥ १३/३४ ॥
हस्तादधिकनिम्नं तु निन्दितं वास्तु कीर्तितम् ।
चतुरश्रं समं यत्तु देवनाञ्च द्विजन्मनाम् ॥ १३/३५ ॥
अष्टषट्चतुरश्रं यद्युक्तं तु नृपवैश्ययोः ।
शूद्रस्यापि यथासंख्यं कल्पयेद्देशिकोत्तमः ॥ १३/३६ ॥
श्रेष्ठं पूर्वायतं वास्तु मध्यमं दक्षिणोत्तरम् ।
श्वेतं रक्तं च पीतञ्च कृष्णं विप्रादितः क्रमात् ॥ १३/३७ ॥
मृदङ्गवेणुवीणादि दुन्दुभिध्वनिसंयुतम् ।
पुन्नागजातिपुष्पाब्जधान्यपाटलगन्धकैः ॥ १३/३८ ॥
पशुगन्धसमं श्रेष्ठं सर्वबीजप्ररोहणम् ।
एकवर्णं घनं स्निग्धं सुखसंस्पर्शनान्वितम् ॥ १३/३९ ॥
कुब्जाङ्गमुक्तमाकाशं नीचच्छन्नं परं सुखम् ।
तिक्तं च कटुकं चैव कषायमधुराम्लकम् ॥ १३/४० ॥
लवणं षड्रसैर्युक्तं युक्तं सर्वसुखावहम् ।
प्रदक्षिणोदकोपेतं करमात्रोच्चलज्जलम् ॥ १३/४१ ॥
निष्कपालं निरुपलं क्रिमिवल्मीकवर्जितम् ।
सुषिरास्थिविहीनं तु तनुवालुकसंयुतम् ॥ १३/४२ ॥
अङ्गारतुषहीनं तु वृक्षमूलविवर्जितम् ।
पङ्कशेषोज्झितं श्वभ्रदरीलोष्टविवर्जितम् ॥ १३/४३ ॥
सर्कराभस्महीनं तु सभाचैत्यसमीपगम् ।
दुष्टप्राणिसमीपस्थं नृपमन्दिरसंश्रितम् ॥ १३/४४ ॥
देवालयसमीपस्थं कण्टकद्रुमसंयुतम् ।
चण्डालवास्तुकं चैव कर्मकारालयाश्रितम् ॥ १३/४५ ॥
एकद्वित्रिचतुर्मार्गावृतमव्यक्तमार्गकम् ।
शङ्करारामसंयुक्तं तस्य क्षेत्रं तु वर्जयेत् ॥ १३/४६ ॥
अन्यदेवंविधं वास्तु सर्वदोषकरं भवेत् ।
यत्कर्म विहितं मोहादेवंभूते तु वास्तुनि ॥ १३/४७ ॥
तन्महादोषदं यस्मात्सर्वथा तद्विवर्जयेत् ।
हीनजातेः समुद्दिष्टमुत्कृष्टानां विधीयते ॥ १३/४८ ॥
उत्कृष्टोक्तं न हीनस्य सर्वदेवेषु योग्यकम् ।
मिश्रवर्णयुतं वास्तु श्रेष्ठं तद्वर्णजन्मनाम् ॥ १३/४९ ॥
पूर्यमाणे महीं खात्वा गर्ते स्वैरेव पांसुभिः ।
अधिकन्यूनतुल्येषु पांसुष्वेतादृशं फलम् ॥ १३/५० ॥
तत्पांसुधारणे षष्टिशतं फलविवेकतः ।
सपुष्पकुम्भतोयेन पूर्यमाणेऽवटे यदि ॥ १३/५१ ॥
शस्तं प्रदक्षिणावर्तमुदकं शान्तबुद्बुदम् ।
उत्तानपुष्पकं श्रेष्ठं न त्वधोमुखपुष्पकम् ॥ १३/५२ ॥
सर्षपाणां तिलानां वा चोप्तानामङ्कुरा भुवि ।
त्रिरात्रेण प्रजायन्ते यस्यां सा स्याच्छुभा मही ॥ १३/५३ ॥
पूर्वोत्तरप्लवा श्रेष्ठा मध्यमा सर्वतः प्लवा ।
सापि ग्राह्या गृहादौ तु सा चोल्बणगुणान्विता ॥ १३/५४ ॥
कुमारराजधानी वा न्यायाप्ता सा मही मता ।
एवं परीक्ष्य गृह्णीयान्महीं बहुगुणान्विताम् ॥ १३/५५ ॥
वेतालादेः पुनः सम्यक् प्रवेशबलिमाहरेत् ।
॥ इति कामिकाख्ये महातन्त्रे भूपरीक्षाविधिः एकादशः पटलः ॥
</poem>
== प्रवेशबलिविधिः ==
<poem>
ग्रामादीनां च सर्वेषां प्रासादानां च सद्मनाम् ।
अन्येषामपि सर्वेषां प्रवेशबलिरुच्यते ॥ १४/१ ॥
शुभे मुहूर्ते नक्षत्रे रात्रौ दोषविवर्जिते ।
आदिशैवकुलोद्भूतः पञ्चगोचरसंस्थितः ॥ १४/२ ॥
पञ्चाङ्गभूषणोपेतः सोष्णीषः सोत्तरीयकः ।
सितानुलेपनाढ्यश्च प्रवेशबलिमारभेत् ॥ १४/३ ॥
ब्राह्मणान् भोजयेत्पूर्वं पुण्याहं वाचयेत्ततः ।
नवभागां धरां कृत्वा ब्रह्मस्थानादितः क्रमात् ॥ १४/४ ॥
नवदिक्षु बलिं दद्यान्मन्त्रेणानेन वास्तुवित् ।
इमे भूमौ वसन्तोऽत्र भूतपैशाचराक्षसाः ॥ १४/५ ॥
स्वेच्छं गच्छन्त्विमां भूमिमाशु गृह्णामि वास्तुने ।
दध्याज्यापूपसंयुक्तैरन्नैस्तेषां बलि क्षिपेत् ॥ १४/५ ॥
गीतवाद्यादिनिर्घोषैर्वेदघोषैश्च घोषयेत् ।
आचार्यं पूजयेत्पूर्वं सर्वान् सम्पूजयेत्ततः ॥ १४/६ ॥
॥ इति कामिकाख्ये महातन्त्रे प्रवेशबलिविधिः द्वादशः पटलः ॥
</poem>
== भूपरिग्रहविधिः ==
<poem>
ततः प्रभाते स्वीकारं कुर्यात्स्नातो विभूषितः ।
वसानो नूतनं वस्त्रमुत्तरीयसमन्वितः ॥ १५/१ ॥
सूपलिप्तमहीमध्ये सर्वधान्योपरि स्थितम् ।
सितचन्दनलिप्ताङ्गं चूताश्वत्थदलान्वितम् ॥ १५/२ ॥
सर्वरत्नौषधीगर्भनिम्नगाम्भः प्रपूरितम् ।
सद्वस्त्रवदनं कुम्भं सितसूत्रविभूषितम् ॥ १५/३ ॥
सासनेन सदेहेन शिवेन समधिष्ठितम् ।
पूजयित्वा विधानेन गन्धपुष्पाक्षतैर्गुरुः ॥ १५/४ ॥
ततः कुम्भं समुत्क्षित्य विप्रमूर्ध्न्यधिरोपयेत् ।
वेदातोद्यकुलस्त्रीणां प्रशस्तध्वनिभिस्तथा ॥ १५/५ ॥
ततः करकनिर्गच्छदच्छिन्नजलधारया ।
ध्यायन् प्रजाहितं क्षिप्रं परिषिञ्चेत्प्रदक्षिणम् ॥ १५/६ ॥
नयेत्तु पूर्वसीमान्तं किञ्चित्तत्र विलम्ब्य च ।
तस्मादग्नेः पलाशस्य पवनेशानयोस्तथा ॥ १५/७ ॥
दिक्षु नीत्वा ततः प्राचीं नयेद्भूमिपरिग्रहे ।
आचार्यादीनथाभ्यर्च्य कर्ता दद्याच्च दक्षिणाम् ॥ १५/८ ॥
प्रवेशार्थं बलिश्चैव भूपरीक्षापरिग्रहौ ।
ग्रामाङ्गभूतदेवादौ पृथङ्नेष्टो विचक्षणैः ॥ १५/९ ॥
तत्रादौ कर्षणं कुर्यात्स्वतन्त्रैः सर्वमाचरेत् ।
सर्वं स्वतन्त्रतः कुर्याच्छ्रद्धावित्तानुसारतः ॥ १५/१० ॥
तत्र दुर्गानिवेशे तु विशेषः किञ्चिदिष्यते ।
हस्तमानावटं खात्वा भूमिमध्ये शुभे दिने ॥ १५/११ ॥
चन्दनोषिततोयेन सायं गर्तं प्रपूरयेत् ।
दर्भास्तरान्तिके तस्य पयः पीत्वा गुरुः स्वपेत् ॥ १५/१२ ॥
अस्मिन् वास्तुनि वर्धस्व धनधान्येन मेदिनि ।
उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ॥ १५/१३ ॥
इत्युक्त्वोपोष्य शुद्धाङ्गः श्वभ्रं प्रातः परीक्षयेत् ।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसंपदे ॥ १५/१४ ॥
क्लिन्ने वास्तुविनाशाय शुष्के धान्यधनक्षयः ।
अह्नि वा पूरणं कृत्वा परीक्षां तु समाचरेत् ॥ १५/१५ ॥
गत्वा शतपदं चान्तः प्रत्यावृत्य निरीक्षयेत् ।
अन्यूनं चेज्जलं तत्स्थमुत्तमा भूः प्रशस्यते ॥ १५/१६ ॥
अङ्गुलेन तु हीनं चेन्मध्यमेति प्रकीर्तिता ।
ततो हीनं तु हीना स्यादतिहीना विपत्करी ॥ १५/१७ ॥
इयं परीक्षा कर्तव्या प्रवेशार्थबलेः पुरा ।
सर्वेषामपि वास्तूनां सा तु साधरणी मता ॥ १५/१८ ॥
एवं परिग्रहं कृत्वा ततः कर्षणमारभेत् ।
॥ इति कामिकाख्ये महातन्त्रे भूपरिग्रहविधिः त्रयोदशः पटलः ॥
</poem>
== भूकर्षणविधिः ==
<poem>
अतः परं प्रवक्ष्यामि ग्रामादीनां च कर्षणम् ।
सुश्वेतौ वृषभौ दान्तौ युवानौ बलसंयुतौ ॥ १६/१ ॥
अप्रोतनासिकौ साण्डौ शुभलक्षणसंयुतौ ।
ककुदं च तथा वालखुरशृङ्गाणि भूषयेत् ॥ १६/२ ॥
तदाकृतिकृतैर्हेमभूषणैर्गन्धपुष्पकैः ।
उक्तलक्षणवर्णाढ्यं गृहीत्वा गोवृषद्वयम् ॥ १६/३ ॥
तर्पयित्वा गुलैः क्षीरैस्ततः कर्षणमारभेत् ।
तस्योपकरणं द्रव्यं खादिरं देवविप्रयोः ॥ १६/४ ॥
नृपाणां खादिरो राजतरुः स्याद्वैश्यशूद्रयोः ।
निम्बश्च वकुलश्चापि गवाक्षी कट्फलस्तथा ॥ १६/५ ॥
तिन्दुकः करवर्णश्च सर्वेषां तु महीरुहाम् ।
हलश्च लाङ्गलो मुष्टिर्युगमस्य प्रकीर्तितः ॥ १६/६ ॥
चतुर्वितस्तिदीर्घं स्याद्धलं तन्मूलनाहकम् ।
द्विवितस्तिषडङ्गुल्यं लाङ्गलेषु प्रपठ्यते ॥ १६/७ ॥
त्रिगुणो हलदैर्घ्येण मूलोऽष्टाङगुलनाहकः ।
अग्रे तु चतुरङ्गुल्यं लाङ्गलेषु प्रशस्यते ॥ १६/८ ॥
हलदीर्घः समुद्दिष्टस्त्रिद्व्यङ्गुलघनान्वितः ।
घनद्विगुणविस्तारा पताका ध्वजयष्टिवत् ॥ १६/९ ॥
चतुर्हस्तायतश्चाग्रे वितस्तिपरिणाहकः ।
मध्ये त्रिसप्तमात्रेण नाभेर्वृत्तानिभो युगः ॥ १६/१० ॥
चतुर्वितस्तिदीर्घः स्यादेकाङ्गुलविशालकः ।
शम्यः शम्यान्तरः सम्यक् वितस्तिरिह कथ्यते ॥ १६/११ ॥
मध्ये कीलो द्विमात्रः स्यान्मध्यवामे तु षड्यवः ।
शम्यान्तरः समं शम्यालम्बनं स्याद्युगादयः ॥ १६/१२ ॥
पांसुगर्भं च तत्तल्यमयोमयमिहेष्यते ।
हिरण्मयं पांसुगर्भं देवानां प्रविधीयते ॥ १६/१३ ॥
राजतं द्विजभूपानां लोहितं वैश्यशूद्रयोः ।
यद्वा हलादिकं यत्तु तदर्धे वसुभाजिते ॥ १६/१४ ॥
एकभागं समारभ्य चतुर्भागावसानकम् ।
न्यूनं वाप्यधिकं वापि कारयेत्कर्तुरिच्छया ॥ १६/१५ ॥
रज्जुर्गोचर्मजा वापि मौञ्जीतालजवल्कलाः ।
नलिकेरकृता वापि रज्जुः सर्वत्र शंशिता ॥ १६/१६ ॥
पलाशोदुम्बराश्वत्थवटप्लक्षोद्भवास्तथा ।
हलादयः सुरादीनां सर्वे सर्वत्र वा मताः ॥ १६/१७ ॥
एवं सर्वं च सम्पाद्य देशिकः शिवविप्रजः ।
कृतमन्त्रतनुर्भूत्वा सोष्णीषरचोत्तरीयकः ॥ १६/१८ ॥
प्राप्तपञ्चाङ्गभूषस्तु वृषभौ संप्रपूजयेत् ।
वृषं त्र्यम्बकमन्त्रेण हलं चास्त्रेण पूजयेत् ॥ १६/१९ ॥
कर्षकं तु समाहूय वस्त्रं दत्वा द्विजोत्तमः ।
आत्मानमिव तं ध्यात्वा प्रेषयेत्कृषिकर्मणि ॥ १६/२० ॥
स्वयं चादौ तु संपृश्य कर्षयेद्देशिकोत्तमः ।
द्वात्रिंशद्वारमित्युक्तं देवाग्रजमहीभृताम् ॥ १६/२१ ॥
दशपञ्चाधिकं ख्यातं वैश्ये शूद्रे तु सप्तकम् ।
सर्वेषां सप्तवारं वा पञ्चवारमथापि वा ॥ १६/२२ ॥
प्राङ्मुखोदङ्मुखो वापि कृषिकर्म समारभेत् ।
एवं कृष्ट्वा समीकृत्य सण्मात्रावर्तितं क्रमात् ॥ १६/२३ ॥
तिलसर्षपमुद्गांश्च माषव्रीहिमनुक्रमात् ।
पयसा क्षालयित्वा तु वपेन्नेत्रमनुस्मरन् ॥ १६/२४ ॥
आचार्यदक्षिणां दद्यात्काञ्चनं पञ्चनिष्ककम् ।
सर्वोपकरणोपेतं दद्यात्तस्मै च गोवृसौ ॥ १६/२५ ॥
वृषौ पृष्ठावनीतौ च तयोश्चैवातिधावनम् ।
शयनं दुष्कृतञ्चान्यत् प्रजानां सर्वदोषदम् ॥ १६/२६ ॥
हलादिभङ्गे तद्वत्स्याद्रज्जुच्छेदे तथैव हि ।
प्रायश्चित्तं तदा कुर्याच्छान्तिहोमं शिवद्विजः ॥ १६/२७ ॥
तथात्र कर्षकस्यापि पतने चैवमेव हि ।
तत्रस्थानां च सस्यानां वर्धितानां च कर्षणात् ॥ १६/२८ ॥
भक्षणं गोकुलैर्धीमान् कारयेद्देशिकोत्तमः ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तु वासयेत् ॥ १६/२९ ॥
गवां सवृषवत्सानां पुरीषप्रस्रवोक्षणैः ।
खुरसंघट्टनाघ्राणपरिभ्रमणगोष्पदैः ॥ १६/३० ॥
रोमन्थोद्गारपातैश्च फेनैर्वत्साननच्युतैः ।
पवित्रीकृतभूमध्ये ग्रामाद्यं परिगृह्यताम् ॥ १६/३१ ॥
॥ इति कामिकाख्ये महातन्त्रे भूकर्षणविधिः चतुर्दशः पटलः ॥
</poem>
== शङ्कुस्थापनविधिः ==
<poem>
देवानां ब्राह्मणादीनां वर्णानामनुलोमिनाम् ।
गृहग्रामादिकर्तणां शिवदीक्षान्वितात्मनाम् ॥ १७/१ ॥
अदीक्षितानामन्येषां शिवभक्त्यन्वितात्मनाम् ।
शङ्कुसंस्थापनं वक्ष्ये ग्रामादीनां शुभावहम् ॥ १७/२ ॥
ब्रह्मस्थानस्य नैरृत्यां शङ्कुस्थानं प्रकल्पयेत् ।
अन्यत्र स्थापितः शङ्कुर्ग्रामाद्यं नाशयिष्यति ॥ १७/३ ॥
दण्डप्रमाणविस्तारं षडङ्गुलसमुन्नतम् ।
शङ्क्वर्थं मण्डलं कुर्याद्देवानां च सनातनम् ॥ १७/४ ॥
युक्ताष्टषट्चतुर्मात्रं द्विमात्रोच्चं मनोहरम् ।
निर्दरं निर्जरं स्निग्धं सुस्पृश्यं सुसमं शुभम् ॥ १७/५ ॥
त्रिहस्तार्धं त्रिहस्तं च द्विहस्तार्धं द्विहस्तकम् ।
द्विजादीनां यथासंख्यं योजनीयं विचक्षणैः ॥ १७/६ ॥
आपूर्य सलिलं तत्र वै?शकीलान् समोदयान् ।
खातयेत्तान् बहून् सम्यक् समान् समतरान्तरान् ॥ १७/७ ॥
तत्र फुल्लमृदा सूक्ष्मवालुकेन सगोमयम् ।
दध्याज्यक्षीरसम्मिश्रं सवल्मीकमृदा दृढम् ॥ १७/८ ॥
समं सम्पातयेत्सूत्रपातयन्त्रेण मण्डलम् ।
अजर्जरमनीचोच्चं सुस्निग्धं दर्पणोपमम् ॥ १७/९ ॥
दान्तश्च चन्दनो देवमहीदेवसमीरिताः ।
खादिरस्तिनिशो राज्ञां वणिजां शाकखादिरौ ॥ १७/१० ॥
शाकश्च तिन्दुकः कृष्णसारः स्याच्छूद्रजन्मनाम् ।
क्षीरवृक्षशमीसालाः सर्वे योग्याः समीरिताः ॥ १७/११ ॥
शङ्कुः षडङ्गुलो नाहस्त्वायामो द्वादशाङ्गुलः ।
अग्रे त्वेकाङ्गुलो वास्तु सर्ववर्णेषु योग्यकः ॥ १७/१२ ॥
चतुर्दशाङ्गुलायामस्तावान् स्यान्मूलनाहकः ।
अग्रे त्र्यङ्गुलविस्तारः शङ्कुर्वा सर्ववास्तुषु ॥ १७/१३ ॥
हस्तार्धायामनाहोऽग्रनाहस्तत्पादपादयुक् ।
एकाङ्गुलक्षयादायो मूलनाहो विधीयते ॥ १७/१४ ॥
ब्राह्मणादिचतुर्वर्णक्रमेण परिकल्पयेत् ।
देवादीनां शिरोऽग्रं स्याद्द्विजानां छत्रसन्निभम् ॥ १७/१५ ॥
कुशकीचकपत्राभं भूपानां वैश्यजन्मनाम् ।
कदलीमुकुलाग्रं स्याच्छूद्राणां मण्डलाग्रकम् ॥ १७/१६ ॥
बैल्वं कीलं सुराणां स्यात्खादिरं सालमाग्रजम् ।
आसनं वाकुलं राज्ञां तैन्दुकं चापि खादिरम् ॥ १७/१७ ॥
कीलं विशां च शूद्राणां सर्वसामान्यमेव वा ।
योजयेद्देशिको धीमान् ख्यातशङ्कौ पुरातने ॥ १७/१८ ॥
द्रुमैरेभिः प्रकर्तव्यो ग्रामादिर्भ्रमवर्जितः ।
मध्याद्यन्तस्थितैः कीलैर्मण्डलैर्नवभिर्युतैः ॥ १७/१९ ॥
वितस्त्यन्तरितैस्तावत्कीलं सूचिसमन्वितम् ।
ग्रामकेदारशैले स्यात्सूचिरेकाङ्गुलायता ॥ १७/२० ॥
यवोदरमुखां हेमरूप्यताम्रमयीं तथा ।
पञ्चगव्येन संशोध्य भूयः शुद्धोदकेन वा ॥ १७/२१ ॥
हृदयेन तु मन्त्रेण अस्त्राद्भिः प्रोक्षयेत्तदा ।
गन्धादिभिः समभ्यर्च्य वास्तुवृद्धिमनुस्मरन् ॥ १७/२२ ॥
मण्टपे वेदिकामध्ये पञ्चहस्तविनिर्मिते ।
शङ्कुस्थानोत्तरगते क्रियामेनां समाचरेत् ॥ १७/२३ ॥
अहताभ्यां सुवासोभ्यां सर्वतः परिवेष्टितम् ।
कृतकौतुकबन्धस्तु स्थण्डिलस्थं समर्चयेत् ॥ १७/२४ ॥
पूर्वस्थवास्तुहोमं च स्थण्डिले सम्यगाचरेत् ।
ततः प्रभाते विमले सुवारे तु शुभे दिने ॥ १७/२५ ॥
शङ्कुं प्रक्षाल्य तोयेन गन्धाद्यैः पूजयेद्धृदा ।
दिग्देवताश्च संपूज्य गन्धाद्यैश्च स्वनामभिः ॥ १७/२६ ॥
भूषणोपेतपञ्चाङ्गः सोष्णीषः सोत्तरीयकः ।
संप्राप्तदक्षिणैर्विप्रैः शिल्पिना च समन्वितः ॥ १७/२७ ॥
शङ्कुस्थानं तु संप्राप्य पुण्याहं वाचयेत्ततः ।
इन्द्रादीन् परितश्चेष्ट्वा शङ्कुस्थापनमारभेत् ॥ १७/२८ ॥
शङ्कुप्रमाणया रज्ज्वा शङ्कुव्यासार्धयुक्तया ।
वृत्तं संभ्राम्य तन्मध्ये स्थापयेत्तमिनोदये ॥ १७/२९ ॥
पूर्वापराह्णयोः शङ्कोश्छायारेखागता यथा ।
तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ॥ १७/३० ॥
यवस्य तु तुरीयांशं पूर्वापराह्णयोर्गता ।
बिन्दुद्वयान्तरं भ्रान्तः शम्बराननपुच्छकम् ॥ १७/३१ ॥
दक्षिणोत्तरमित्युक्तमन्यथा वापि कथ्यते ।
ध्रुववेधेन वोदीचीं प्राचीं वा ध्रुवतारया ॥ १७/३२ ॥
पुष्येण श्रवणेनाथ साधयेद्विषुवोदयात् ।
मितक्षेत्रार्धमानेन चतुरश्रं तु साधयेत् ॥ १७/३३ ॥
कर्णाभ्यां भुजसाम्यं तु कम्पनेनार्जवे स्थिते ।
जलेन तलसाम्यं स्यान्मध्यमे वाथ कर्णिके ॥ १७/३४ ॥
धाम्नि प्राच्यथवा साध्यनिश्चितान् पूर्ववास्तुनः ।
प्राचीतरं तु यत्स्थानं सर्वदोषकरं भवेत् ॥ १७/३५ ॥
॥ इति कामिकाख्ये महातन्त्रे शङ्कुस्थापनविधिः पञ्चदशः पटलः ॥
</poem>
== मानोपकरणविधिः ==
<poem>
मानोपकरणं वक्ष्ये सर्वेषां च विशेषतः ।
परमाणुक्रमाद्वृद्ध्या मानाङ्गुलमिति स्मृतम् ॥ १८/१ ॥
परमाणुरिति ख्यातो योगिनां दृष्टिगोचरः ।
रथरेणुश्च वालाग्रं लीक्षा यूको यवस्तथा ॥ १८/२ ॥
क्रमशोऽष्टगुणाः प्रोक्ता यवैः षङ्भिश्च सप्तभिः ।
अष्टाभिश्च क्रमेणैव कन्यसादिविभेदतः ॥ १८/३ ॥
अङ्गुल्यस्त्रिविधाः प्रोक्ता यावत्यः शिवशासने ।
शालिभिश्च त्रिभिः सार्धैश्चतुर्भिश्च तथायतैः ॥ १८/४ ॥
शाल्युद्भवाः समाख्यातास्त्वङ्गुलास्त्रिविधास्त्विह ।
सार्धैः षड्भिर्यवैर्वाथ सार्धैः सप्तभिरेव वा ॥ १८/५ ॥
अङ्गुलास्त्रिविधाः प्रोक्ताः सार्धैरष्टभिरेव वा ।
मध्यमाङ्गुलिमध्यस्थपर्वदीर्घं तु यद्भवेत् ॥ १८/६ ॥
श्रेष्ठं मात्राङ्गुलं प्रोक्तं पादहीनं तु मध्यमम् ।
अर्धोनमधमं प्रोक्तं मात्राङ्गुलविभेदतः ॥ १८/७ ॥
नवधा मनामुद्दिष्टं नराद्यङ्गुष्ठतोऽपि वा ।
एवं मात्राङ्गुलं प्रोक्तं यागादीनां पशस्यते ॥ १८/८ ॥
अङ्गुलैः सूर्यसंख्यातैर्वितस्तिरिह कथ्यते ।
तद्द्वयं हस्तमुद्दिष्टं स किष्कुरिह सम्मतः ॥ १८/९ ॥
पञ्चविंशतिमात्रं तु प्राजापत्य इति स्मृतः ।
मात्रैस्तु षड्विंशतिभिर्धनुर्मुष्टिः प्रकीर्तितः ॥ १८/१० ॥
सप्तविंशतिभिर्मात्रैर्धनुर्ग्रह उदाहृतः ।
मानाङ्गुलोत्थहस्तास्तु शास्त्रेऽस्मिन् संप्रकीर्तिताः ॥ १८/११ ॥
पौरुषः पुरुषाज्जातस्त्वङ्गुष्ठाद्दक्षिणादिह ।
तलं प्रसार्य चाङ्गुष्ठसहितैश्चतुरङ्गुलैः ॥ १८/१२ ॥
कनिष्ठाद्यैः क्रमेणैव यवगोकर्णसंज्ञकैः ।
वितस्तिः कथितश्चैवं प्रादेशस्तदनन्तरम् ॥ १८/१३ ॥
एवं विविध उद्दिष्टो हस्तः सर्वेषु वास्तुषु ।
प्राजापत्यस्य मानेन मण्डपे विग्रहेऽपि च ॥ १८/१४ ॥
मालिकायां सभायां च विशालायां च योजयेत् ।
राजधान्यादिकं राजभवनं च तटाककम् ॥ १८/१५ ॥
दुर्गं चैव धनुर्मुष्टिकरणैश्चैव कारयेत् ।
धनुर्ग्रहेण कुर्यात्तु रथ्याध्वानं विशेषतः ॥ १८/१६ ॥
प्राकारं किष्कुमानेन यानं च शयनं नयेत् ।
किष्कुमानेन वै सर्वमापन्नं तु समाचरेत् ॥ १८/१७ ॥
वितस्तिना विधातव्यं यानं च शयनं तथा ।
लिङ्गं च प्रतिमां चैव द्वारस्तम्भं च चूलिकम् ॥ १८/१८ ॥
यदस्य चोपकरणं तत्सर्वं चाङ्गुलेन तु ।
अत्यल्पं तु यवेनैवमाप्नुयान्मानवित्तमैः ॥ १८/१९ ॥
आयादिलक्षणं चैवमेभिरेव तु सम्मतम् ।
हस्तैश्चतुर्भिरुद्दिष्टो दण्डो रज्जुस्तदष्टभिः ॥ १८/२० ॥
दण्डेन मापयेद्ग्रामं नगरं पत्तनादिकम् ।
अध्वानं रज्जुना बध्वा क्षेत्रं चैव तु मानयेत् ॥ १८/२१ ॥
रज्जुं कुर्यात्तु कार्पासपट्टसूत्रादिभिर्बुधः ।
न्यग्रोधवल्कलेनाथ तालकेतकवल्कलैः ॥ १८/२२ ॥
कनिष्ठाङ्गुलिनाहा च त्रिवृता ग्रन्थिवर्जिता ।
देवविप्रमहीपानां वैश्यशूद्रैर्विवर्जिता ॥ १८/२३ ॥
तालश्च केतकी चैव न्यग्रोधो धातकी तथा ।
शणकं च क्रमेणैव देवादीनां प्रशंसिताः ॥ १८/२४ ॥
नालिकेरोत्थरज्जुश्च सर्वेषामपि शंसितं ।
नालिकेरस्य पत्रस्य मापनं सर्वसिद्धिदम् ॥ १८/२५ ॥
दलनं द्विविधं प्रोक्तमोजयुग्मक्रमेण तु ।
पूर्वोत्तरमुखेनाथ पारम्भे दलनं भवेत् ॥ १८/२६ ॥
तेनैव मापनं कुर्यात् प्रतिमादौ विशेषतः ।
तत्पत्रसिरया वापि क्षुद्रस्कन्धेन मापयेत् ॥ १८/२७ ॥
सारदारूद्भवो हस्तदण्डो ग्रन्थ्या विवर्जितः ।
स्वायतो दीर्घसंयुक्तस्त्वर्धमात्रप्रविस्तरः ॥ १८/२८ ॥
त्रिपादविस्तरो वा स्यादेकाङ्गुलसुविस्तरः ।
तत्तदर्धघनोपेतो विस्तारेण समोऽथवा ॥ १८/२९ ॥
चतुरश्रो भवेद्यस्तु दण्डो मानुष ईरितः ।
मूले स्वायम्भुवं रूपं मध्ये लक्ष्मीस्वरूपकम् ॥ १८/३० ॥
विश्वकर्मस्वरूपं तदग्रे तु परिकल्पयेत् ।
अयं देवेषु योग्यः स्याद्दण्डो द्व्यङ्गुलविस्तरः ॥ १८/३१ ॥
सपादो वाथ सार्धो वा सुवृत्तश्चित्रितो नु वा ।
हेम्ना वा राजतेनाथ ताम्रेणैवायसाथवा ॥ १८/३२ ॥
मूलाग्रवलयोपेतो दण्डो मानविनिर्णये ।
॥ इति कामिकाख्ये महातन्त्रे मानोपकरणविधिः षोडशः पटलः ॥
</poem>
== पदविन्यासविधिः ==
<poem>
अथ वक्ष्ये विशेषेण पदविन्यासलक्षणम् ।
सकलं पदमेकं स्यात् पेचकं तु द्वितीयकम् ॥ १९/१ ॥
पदं पीठं तृतीयं स्यान्महापीठमतः परम् ।
उपपीठं ततः पश्चादुग्रपीठमतः परम् ॥ १९/२ ॥
स्थण्डिलं सप्तमं विद्यान्मण्डूकाख्यं तथाष्टमम् ।
परमेशपदं चापि नवमं परिकीर्तितम् ॥ १९/३ ॥
दशमं चासनं चैकादशं स्थानीयमुच्यते ।
देशीयं द्वादशं प्रोक्तं पदं तूभयचण्डिकम् ॥ १९/४ ॥
चतुर्दशपदं भद्रं महासनमिति स्मृतम् ।
पद्मगर्भपदं पञ्चदशमं तु प्रकीर्तितम् ॥ १९/५ ॥
षोडशं त्रियुतं सप्तदशमं वृत्तभोगकम् ।
अष्टादशपदं चात्र कर्णाष्टकमिति स्मृतम् ॥ १९/६ ॥
एकोनविंशतिपदं ज्ञेयं गणितपादकम् ।
स्याद्विंशतिपदं सूर्यविशालं नामतः पदम् ॥ १९/७ ॥
स्यादेकविंशतिपदं सुसंहितसमाह्वयम् ।
द्वाविंशतिपदं चात्र पदं सुप्रतिकान्तकम् ॥ १९/८ ॥
स्यात्त्रयोविंशति प्रोक्तं विशालं नामतः पदम् ।
स्याच्चतुर्विंशतिपदं विप्रगर्भमिति स्मृतम् ॥ १९/९ ॥
पञ्चविंशमिह प्रोक्तं विश्वेशाख्यं पदं बुधैः ।
यत्तु षड्विंशतितमं तत्स्याद्विपुलभोगकम् ॥ १९/१० ॥
स्यात्सप्तविंशतितमं पदं विप्रतिकान्तकम् ।
यत्त्वष्टाविंशतिपदं विशालाक्षपदं स्मृतम् ॥ १९/११ ॥
विप्रभुक्तिकसंज्ञेयमेकोनत्रिंशकं पदम् ।
पदं त्रिंशत्तमं प्रोक्तं विश्वसारं पुरातनम् ॥ १९/१२ ॥
एकत्रिंशत्पदं यत्तु भवेदीश्वरकान्तकम् ।
इन्द्रकान्तपदं यत्तु द्वात्रिंशत्कथितं त्विह ॥ १९/१३ ॥
सकले मध्यमे ब्रह्मा पूज्यः प्रागादिसूत्रके ।
इन्द्रं यमं च वरुणं सोमं गन्धादिनार्चयेत् ॥ १९/१४ ॥
अस्मिन् देवादयः पूज्याश्चाग्निकार्यं च भोजनम् ।
कुर्यात्तु पेचकपदे कर्णसूत्रद्वयान्विते ॥ १९/१५ ॥
अष्टसूत्रगता लोकपाला मध्ये प्रजापतिः ।
तन्मध्ये निष्कलं बेरं स्थापयेद्देशिकोत्तमः ॥ १९/१६ ॥
सर्वमङ्गलकार्यं च क्षुद्रग्रामगृहादिकम् ।
कर्णसूत्रद्वयेनैव संयुक्तं पीठमिष्यते ॥ १९/१७ ॥
पूर्वोक्तास्तु सुरा ये तु पदस्थास्ते प्रकीर्तिताः ।
एतत्पदं मठादीनां तच्च ग्रामादियोग्यकम् ॥ १९/१८ ॥
क्षुद्रग्रामादिके चेष्टं पेचकं तु तथैव हि ।
कर्णसूत्रद्वयोपेतं महापीठं तु कारयेत् ॥ १९/१९ ॥
मध्ये चतुष्पदं ब्रह्मा भुङ्क्तेऽत्र मुनिसत्तमाः ।
ईशो जयन्त आदित्यो भृशोऽग्निर्वितथो यमः ॥ १९/२० ॥
भृगुश्च पितृसुग्रीवौ वरुणः शेषमारुतौ ।
मुख्यः सोमोऽदितिश्चेति सूत्रस्था बाह्यदेवताः ॥ १९/२१ ॥
महापीठपदं प्रोक्तं क्षुद्रग्रामादियोम्यकम् ।
उपपीठपदे चैकं भुङ्क्ते मध्ये पितामहः ॥ १९/२२ ॥
अर्यमा च विवस्वांश्च मित्रश्च पृथिवीधरः ।
चतुर्दिक्षु गता देवा एकैकपदभोगिनः ॥ १९/२३ ॥
सावित्रश्चेन्द्रजश्चैव रुद्रजस्त्वापजस्तथा ।
आग्नेयादिचतुर्दिक्षु भुञ्जते देवताः पदम् ॥ १९/२४ ॥
ईशश्च सत्यकश्चैव महेन्द्रादित्यवह्नयः ।
गन्धर्वश्च तथा देवो गृहक्षतयमौ तथा ॥ १९/२५ ॥
पितरश्चासुराश्चैव पुष्पदन्तजलेश्वरौ ।
वायुश्चापि गजश्चैव भल्लाटः सोम एव च ॥ १९/२६ ॥
भुञ्जते पदमेकैकं कर्णसूत्रद्वयान्वितम् ।
उपपीठपदं नाम्ना ग्रामादीनां शुभावहम् ॥ १९/२७ ॥
उग्रपीठमिदं मध्ये कर्णसूत्रद्वयान्वितम् ।
मध्ये चतुष्पदं ब्राह्ममन्तरावरणे ततः ॥ १९/२८ ॥

प्रागादि भुञ्जते देवा द्विपदं कोणवर्जितम् ॥ १९/२९ ॥
सविता च तथेन्द्रश्च रुद्रश्चापस्तथैव च ।
आग्नेयकोणमारभ्य भुञ्जते देवताः पदम् ॥ १९/३० ॥
बहिरावरणं वक्ष्ये पावकादिचतुर्ष्वपि ।
कोणेषु भुञ्जते देवाः पदानामर्धकं क्रमात् ॥ १९/३१ ॥
आग्नेयस्य तु पूर्वार्धे भृशो वह्निस्तु पश्चिमे ।
नैरृतस्य तु पूर्वार्धे गृहः स्यात्पश्चिमे स्वयम् ॥ १९/३२ ॥
पश्चिमार्धे तु वायव्यां शेषो वायुस्तु पूर्वगः ।
ईशानपश्चिमार्धे तु दितिरीशस्तु पूर्वगः ॥ १९/३३ ॥
प्राच्यामुत्तरमारभ्य प्रादक्षिण्यक्रमेण तु ।
जयन्तेशो महेन्द्रश्च आदित्यः सत्यकस्तथा ॥ १९/३४ ॥
दक्षिणे वितथश्चैव गृहक्षतयमौ तथा ।
गन्धर्वश्च तथा देवाश्चत्वारः पदभोगिनः ॥ १९/३५ ॥
पश्चिमे चैव सुग्रीवः पुष्पदन्तो जलेश्वरः ।
असुरश्च तथा देवाश्चत्वारश्चोत्तरे मताः ॥ १९/३६ ॥
मुख्यो भल्लाटकः सोमो भृगुरित्यधिदेवताः ।
उग्रपीठमिदं नाम ग्रामादीनां सुपूजितम् ॥ १९/३७ ॥
स्थण्डिलं सप्तसप्तांशं कर्णसूत्रद्वयान्वितम् ।
मध्ये नवपदं ब्राह्ममन्तरावरणे ततः ॥ १९/३८ ॥

पूर्वादिक्रमयोगेन त्रिपदं भुञ्जते सुराः ॥ १९/३९ ॥
आग्नेयादिषु कोणेषु सावित्राद्याश्च देवताः ।
सावित्रश्चेन्द्रजश्चैव रुद्रजस्त्वापजस्तथा ॥ १९/४० ॥
ईशानपदमारभ्य बहिरावरणे सुराः ।
ईशानश्च जयन्तश्च महेन्द्रादित्यसत्यकाः ॥ १९/४१ ॥
भृशो वह्निरिति प्रोक्ताः पूर्वस्यां दिशि देवताः ।
वितथो गृहक्षतश्चैव यमो गन्धर्व एव च ॥ १९/४२ ॥
भृङ्गराजोऽथ निरृतिर्दक्षिणस्यां तु देवताः ।
सुग्रीवपुष्पदन्तौ च वरुणासुरशेषकाः ॥ १९/४३ ॥
वायुरित्युच्यते तस्मिन् पश्चिमे देवता मताः ।
मुख्यो भल्लाटकः सोमो ऋभुर्ह्यदितिरेव च ॥ १९/४४ ॥
उत्तरस्यां दिशि प्रोक्ता देवता बलियोग्यकाः ।
स्थण्डिलाख्यपदं चैतद्गृहारामादिपूजितम् ॥ १९/४५ ॥
मण्डूकाख्यं चतुः षष्टिपदं कर्णद्वयान्वितम् ।
मध्ये चतुष्पदं ब्रह्मा तन्मुखस्थाश्चतुः सुराः ॥ १९/४६ ॥
त्रिपदाश्चापवत्साद्याः षोडशार्धांशभोगिनः ।
चतुर्दिशि स्थिता बाह्ये षोडश द्विपदेश्वराः ॥ १९/४७ ॥
तत्पार्श्वयोर्द्वयोश्चाष्टावेकैकपदभोगिनः ।
अग्रहारादियोग्यं तन्मण्डूकाख्यपदं त्विह ॥ १९/४८ ॥
परमेशपदं त्वेतदेकाशीतिपदान्वितम् ।
कर्णसूत्रद्वयोपेतं कल्पनीयं विचक्षणैः ॥ १९/४९ ॥
मध्ये नवपदं ब्रह्मा भुङ्क्ते तस्य चतुर्मुखः ।
चतस्रो देवताः षट् षट् पदभोगपराः स्मृताः ॥ १९/५० ॥
द्विपदाः कोणगाश्चाष्टौ बाह्ये त्वेकपरायणाः ।
मण्डूकेऽत्र समा देवाः कथ्यन्ते च यथाक्रमात् ॥ १९/५१ ॥
ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्यकभ्रंशावन्तरिक्षश्च पूर्वगाः ॥ १९/५२ ॥
वह्निः पूषा च वितथो गृहक्षतयमौ तथा ।
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥ १९/५३ ॥
निरृतिर्दौवारिकश्चैव सुग्रीवः पुष्पदन्तकः ।
वरुणश्चासुरश्चैव शेषो रोगस्तु पश्चिमे ॥ १९/५४ ॥
वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।
गजश्चाप्यदितिश्चैव दितिश्चैव तथोत्तरे ॥ १९/५५ ॥
बाह्यदेवा इमे प्रोक्तास्त्वन्तरावरणे पुनः ।
अर्यमा च विवस्वांश्च मित्रश्च पृथिवीधरः ॥ १९/५६ ॥
चतुर्दिक्षु गता देवा ईशानादौ च कोणके ।
आपश्चैवापवत्सश्च सवितापि सावित्रकः ॥ १९/५७ ॥
इन्द्रश्चेन्द्रजयश्चैव रुद्रो रुद्रजयस्तथा ।
मध्ये ब्रह्मा स्थितः प्रोक्तो मण्डूके चापि तत्परे ॥ १९/५८ ॥
चरकी च विदारी च पूतना पापराक्षसी ।
ईशानादिषु कोणेषु शूलस्थाः पदवर्जिताः ॥ १९/५९ ॥
स्कन्दोऽर्यमा च जम्भश्च पिलिपिञ्छो द्विजोत्तमाः ।
पूर्वादितः समारभ्य चतुर्दिक्षु व्यवस्थिताः ॥ १९/६० ॥
ग्रामाग्रहारवेश्मादियोग्यं परमशायिकम् ।
आसनं कर्णसूत्राभ्यां युक्तं तु परिकल्पयेत् ॥ १९/६१ ॥
ब्रह्मा षोडशभागस्थो तन्मुखस्थाष्टभागिनः ।
आदित्यश्च यमश्चैव करुणः सोम एव च ॥ १९/६२ ॥
द्विपदाश्चापवत्साद्या द्विपदा एव कीर्तिताः ।
क्षेत्रं शतपदं दुर्गपुराट्टालकभूमिषु ॥ १९/६३ ॥
नगरी खेटकग्रामवेश्मादिषु च कथ्यते ।
स्थानीयं कर्णसूत्राभ्यां युक्तं तु परिकल्पयेत् ॥ १९/६४ ॥
मध्ये बह्या पदानां तु भजते पञ्चविंशतिम् ।
कोणेशादिपदे ब्रह्मा त्वीशाग्निपितृवायवः ॥ १९/६५ ॥
अन्ये त्वेकपदे ज्ञेयाः पर्जन्याद्या यथाक्रमात् ।
चत्वारस्त्वर्यमाद्यास्तु पूर्वादिदशभागिनः ॥ १९/६६ ॥
आपवत्सादयः कोणेष्वष्टौ द्विपदभागिनः ।
यथास्थानाश्चरक्याद्याश्चाष्टौ बाह्ये प्रकीर्तिताः ॥ १९/६७ ॥
ग्रामादियोग्यं विज्ञेयं स्थानीयाख्यमिदं पदम् ।
देशीयाख्यं पदं कर्णसूत्राभ्यां परिकल्पयेत् ॥ १९/६८ ॥
षट्त्रिंशद्भागभुक् ब्रह्मा मुखस्था द्वादशांशिनः ।
आदित्यश्च यमश्चैव वरुणः सोम एव च ॥ १९/६९ ॥
द्विपदा बाह्यविथिस्थाश्चरक्याद्यास्तु पूर्ववत् ।
देशीयाख्यपदं चैदमग्रहारादिपूजितम् ॥ १९/७० ॥
चण्डितं तूभयाख्यं तु कर्णसूत्रद्वयान्वितम् ।
पदान्येकोनपञ्चाशन्मध्ये ब्रह्याधितिष्ठति ॥ १९/७१ ॥
बहिरावणे प्राच्यामादित्याद्यास्त्रिभागिनः ।
कोणस्थास्त्रिपदा ज्ञेया ईशाग्निपितृवायवः ॥ १९/७२ ॥
चत्वारस्त्वर्यमाद्यास्तु चतुर्दशपदे स्थिताः ।
पूर्ववच्चापवत्साद्या बाह्यस्थाः परिकीर्तिताः ॥ १९/७३ ॥
अग्रहारादियोग्यं तत्पदं तूभयचण्डितम् ।
प्राक् च पञ्चदशोदक् च सूत्राणि परिकल्पयेत् ॥ १९/७४ ॥
कर्णसूत्रद्वयोपेतं प्राग्वद्भुक्तिं प्रकल्पयेत् ।
अग्रहारादियोग्यं स्याद्भद्रासनमिदं पदम् ॥ १९/७५ ॥
पद्मगर्भमिदं चान्यत् कर्णसूत्रद्वयान्वितम् ।
एकाशीतिपदं मध्ये भुङ्क्ते लोकपितामहः ॥ १९/७६ ॥
आदित्याद्यास्त्रिभागाः स्युः कोणेशाः पञ्चनायकाः ।
अष्टादशांशभागस्थाश्चार्यमाद्याः प्रकीर्तिताः ॥ १९/७७ ॥
शेषं पूर्ववदुद्दिष्टमग्रहारादिपूजितम् ।
प्राञ्चि सप्तदशोदञ्चि सूत्राणि परिकल्पयेत् ॥ १९/७८ ॥
कर्णसूत्रद्वयोपेतं पदभुक्तिं च पूर्ववत् ।
अग्रहारादियोग्यं स्यात्त्रियुतं परिकीर्तितम् ॥ १९/७९ ॥
वृत्तभोगपदञ्चान्यत्कर्णसूत्रद्वयान्वितम् ।
एकविंशच्छतपदं ब्रह्मा भुङ्क्ते तु मध्यमे ॥ १९/८० ॥
इन्द्रादिलोकपालाश्च त्वष्टौ पञ्चपदेश्वराः ।
द्वाविंशद्भोगिनो देवा मुखस्थाः परिकीर्तिताः ॥ १९/८१ ॥
आपवत्सादयोऽष्टौ हि द्विपदास्तु प्रकीर्तिताः ।
वृत्ताभोगमिदं प्रोक्तं ग्रामादौ संप्रयोजयेत् ॥ १९/८२ ॥
एकोनविंशति प्राञ्चि तावन्ति स्युरुदञ्च्यपि ।
कर्णाष्टकमिदं विद्यादग्रहारादिपूजितम् ॥ १९/८३ ॥
गणिताख्यपदं कर्णसूत्राभ्यां संयुतं भवेत् ।
एकोनसप्ततिपदं तन्मध्ये ब्राह्मकं भवेत् ॥ १९/८४ ॥
षट्त्रिंशतिपदे देवा मुखस्थाः परिकीर्तिताः ।
त्रिपदा लोकपालाः स्युरन्तरस्था द्विभागिनः ॥ १९/८५ ॥
आपवत्सादयश्चाष्टौ पार्श्वदेवाः प्रकीर्तिताः ।
प्रोक्तं गणितपादं तु ग्रामादौ परिकल्पयेत् ॥ १९/८६ ॥
ततः सूर्यविशालं स्यात्पूर्ववत्परिकल्पयेत् ।
सुसंहितपदं कर्णसूत्रयुक्तं प्रकल्पयेत् ॥ १९/८७ ॥
मध्ये पदानि धातुश्च द्विशतं पञ्चविंशति ।
अर्यमादिचतुष्कस्य त्रिंशत्त्रिंशत्पदानि च ॥ १९/८८ ॥
ईशादिकोणसंस्थानां चतुर्णां पदपञ्चकम् ।
आदित्यादिचतुर्णां तु त्रिपदं परिकीर्तितम् ॥ १९/८९ ॥
द्वे द्वे पदे च प्रत्येकं पर्जन्यादौ प्रकल्पयेत् ।
पूर्ववच्चापवत्सादेरष्टकस्य द्वयं द्वयम् ॥ १९/९० ॥
चरक्याद्यष्टकं तद्वद्बाह्ये तु परिकीर्तितम् ।
एतत्सुसंहितं नाम पदं ग्रामादिपूजितम् ॥ १९/९१ ॥
पदं सुप्रतिकान्ताख्यं कर्णसूत्रद्वयान्वितम् ।
पूर्वोक्तेन प्रकारेण पदं ग्रामादिपूजितम् ॥ १९/९२ ॥
विशालं कर्णसंयुक्तं पण्डितेशैः प्रकल्प्यताम् ।
द्विशतं च नवाशीति मध्ये ब्रह्मपदानि च ॥ १९/९३ ॥
अर्यमादिचतुष्कस्य चतुस्त्रिंशत् पृथक्पृथक् ।
पञ्चाशल्लोकपालाः स्युरन्यत्सर्वं समानकम् ॥ १९/९४ ॥
विशालाख्यमिदं प्रोक्तमग्रहारादिपूजितम् ।
विप्रगर्भं यथापूर्वमग्रहारादिपूजितम् ॥ १९/९५ ॥
विश्वेशाख्यं पदं कर्णयुक्तं तु परिकल्पयेत् ।
त्रिशतञ्चैकषष्टिञ्च मध्ये ब्रह्मपदानि च ॥ १९/९६ ॥
अर्यमाद्या यथापूर्वं बाह्ये देवास्त्रिभागिनः ।
अग्रहारादियोग्यं स्याद्विश्वेशाख्यमिदं पदम् ॥ १९/९७ ॥
भोगं विपुलपूर्वं यदग्रहारादिपूजितम् ।
पदं विप्रतिकान्तं च कर्णसूत्रद्वयान्वितम् ॥ १९/९८ ॥
चत्वारिंशत्तथैकं च पदान्यत्र चतुः शतम् ।
ब्रह्मा भुङ्क्तेऽर्यमाद्यास्तु पूर्ववत्परिकल्पयेत् ॥ १९/९९ ॥
कोणस्थाः पञ्चभागाः स्युरन्ये त्रिपदभागिनः ।
इदं विप्रतिकान्ताख्यमग्रहारादिपूजितम् ॥ १९/१०० ॥
विशालाक्षं कर्णयुक्तं पूर्ववत्परिकल्पयेत् ।
त्रिंशत्प्राञ्चि तथोदञ्चि सूत्राणि परिकल्पयेत् ॥ १९/१०१ ॥
मध्ये पञ्चशतं ब्रह्मा भुङ्क्ते नव च विंशतिम् ।
चतुर्णामर्यमादीनां षट्चत्वारिंशदंशकम् ॥ १९/१०२ ॥
पञ्चाशल्लोकपालाः स्युः पर्जन्याद्यास्त्रिभागिनः ।
विप्रभुक्तिरिति ज्ञेयं पदं ग्रामादियोग्यकम् ॥ १९/१०३ ॥
विश्वसारं यथापूर्वमेतद्ग्रामादिपूजितम् ।
पदमीश्वरकान्तं तु कर्णसूत्रद्वयान्वितम् ॥ १९/१०४ ॥
ब्रह्मणः षट्शतं मध्ये पञ्चविंशतिसंयुतम् ।
अर्यमादिचतुष्कस्य पञ्चाशत्प्रतिवेदितम् ॥ १९/१०५ ॥
अष्टानां लोकपालानां त्रयो भागाः पृथक्पृथक् ।
पर्जन्यादेस्तु चत्वारो भागाः प्रत्येकमीरिताः ॥ १९/१०६ ॥
एतदीश्वरकान्ताख्यमग्रहारादिपूजितम् ।
इन्द्रकान्तं यथापूर्वमग्रहारादिपूजितम् ॥ १९/१०७ ॥
एवमूर्ध्वं च विज्ञेयं यावत्स्यात्तु परार्धकम् ।
चतुः षष्टिपदं दैवं मानुषं पारमेश्वरम् ॥ १९/१०८ ॥
परमेशपदं योज्यं चतुर्णामपि वर्णिनाम् ।
त्रैवर्णिकानां वा कुर्यादग्रहारादिवास्तुषु ॥ १९/१०९ ॥
चतुष्पष्टिपदं विप्रभूपयोश्च विशेषतः ।
विट्छूद्रयोस्तथैकोनपञ्चाशत्पदमीरितम् ॥ १९/११० ॥
सर्वं सर्वत्र चेष्टं वा शास्त्रेऽस्मिन् संप्रकीर्तितम् ।
चतुः षष्ट्येकाशीत्याख्यमासनं च त्रिधा मतम् ॥ १९/१११ ॥
सकलादिषु सर्वेषु पदेष्वेव पदत्रयम् ।
वास्तुकर्मणि शस्तं स्याद्ग्रामादौ च गृहादिषु ॥ १९/११२ ॥
अथवान्यप्रकारेण सकलादि विधीयते ।
कर्णसूत्रविहीनं वा मध्ये कर्णद्वयान्वितम् ॥ १९/११३ ॥
अथवानेककर्णस्थसूत्रैरन्वितमेव वा ।
पदं सर्वं विधेयं स्यादेवं बुद्ध्या प्रकल्पयेत् ॥ १९/११४ ॥
अथ वृत्तपदन्यासं प्रवक्ष्यामि यथाविधि ।
चक्रवत् पञ्चसूत्राणि सान्तराणि समानि च ॥ १९/११५ ॥
द्वात्रिंशच्च चतुर्विंशद्द्विरष्टाष्टैकभागिनः ।
एकाशीतिपदं ह्येतज्ज्ञेयं विषमसंस्थितिः ॥ १९/११६ ॥
अष्टाविंशत्तथा विंशद्द्वादशाष्टार्धभागतः ।
चतुः षष्टिपदं चैतच्चतुर्वृत्ते पकल्पयेत् ॥ १९/११७ ॥
कुम्भकस्य तु विन्यासं सम्मिश्रमुभयोर्न्यसेत् ।
चतुः षष्टिपदं वास्तु परमैशन्तु वास्तुकम् ॥ १९/११८ ॥
ग्रामादि चोपवास्तु स्याद्वास्तव्यं स्याद्गृहादिकम् ।
स्त्रीपुंसोरिव संयोगस्तथा योज्यं विचक्षणैः ॥ १९/११९ ॥
जयन्ते मेषसंस्थानमर्यम्णि वृषभस्थितिः ।
भृशांशे मिथुनं विद्यात्कुलीरो वितथे भवेत् ॥ १९/१२० ॥
व्यञ्जके केसरी भृङ्गे कन्या सुग्रीवके तुला ।
मित्रे तु वृश्चिकः शेषे धनुर्मुख्ये झषस्थितिः ॥ १९/१२१ ॥
पृथिवीधरके कुम्भस्त्वदितौ मीन उच्यते ।
चराचरोभया ज्ञेयास्तत्तदेवांशके न्यसेत् ॥ १९/१२२ ॥
अश्विन्यादीनि सर्वाणि नक्षत्राणि यथाक्रमम् ।
प्रदक्षिणगतान्येव मेषादिषु विभागतः ॥ १९/१२३ ॥
आदित्ये सूर्यवारः स्यादग्नावङ्गारको मतः ।
यमे तु गुरुवारः स्यान्नैरृतौ बुधवारकम् ॥ १९/१२४ ॥
वरुणे तु भवेच्छुक्रो वायव्ये चार्कजस्तथा ।
सोमे तु सोमवारः स्यादीशाने राहुसंस्थितिः ॥ १९/१२५ ॥
मध्ये केतुर्भवेद्वास्तुशास्त्रेऽस्मिन् कामिकाह्वये ।
तद्वशाद्विहितं सर्वं सर्वसिद्धिफलप्रदम् ॥ १९/१२६ ॥
स्त्रीलिङ्गं विषमं ज्ञेयं समं पुल्लिङ्गकं भवेत् ।
॥ इति कामिकाख्ये महातन्त्रे पदविन्यासविधिः सप्तदशः पटलः ॥
</poem>
== सूत्रनिर्माणविधिः ==
<poem>
अतः परं प्रवक्ष्यामि सूत्रनिर्माणकं द्विजाः ।
प्रथमं ब्रह्मणः स्थानात्प्राक्सूत्रं सबलिं न्यसेत् ॥ २०/१ ॥
द्वितीयं स्यादुदक्सूत्रं तस्मिन्नपि बलिं क्षिपेत् ।
चतुरश्रायताश्रस्थपर्यन्तं स्यात्तृतीयकम् ॥ २०/२ ॥
कर्णसूत्रं चतुर्थं स्यात्पञ्चमं चार्धपञ्चकं ।
षष्ठं स्यात्तदनन्तर्यं सप्तमं मध्यकर्णिकम् ॥ २०/३ ॥
अष्टमं चार्धकर्णं स्यान्नवमं कर्णिकान्तरम् ।
एवमन्यत्तु विज्ञेयं यावद्द्वात्रिंशकं पदम् ॥ २०/४ ॥
पर्यन्तसूत्रमाद्यं स्यात्ततो विन्याससूत्रकम् ।
प्रमाणसूत्रमन्यत्स्यादेवं सूत्रद्वयं भवेत् ॥ २०/५ ॥
यदुपानादिमानं तत्कूटकोष्ठावसानकम् ।
पर्यन्तसूत्रमानं तत्सूत्रं प्रामाणिकं परम् ॥ २०/६ ॥
गर्भभित्यादिमानार्थं सूत्रं देवपदोचितम् ।
तद्धि विन्याससूत्रं स्याज्ज्ञातव्या सूत्रकल्पना ॥ २०/७ ॥
अथ क्षेत्रं तु विभजेत् षष्ट्युत्तरशतत्रयम् ।
तेष्वेकभागं सूत्रस्य मानं तत्प्राण उच्यते ॥ २०/८ ॥
सूत्राणि प्राञ्चि कार्याणि अनुकार्याण्युदञ्चि हि ।
प्राणवायुप्रमाणेन शास्त्रेऽस्मिन् कीर्तितानि हि ॥ २०/९ ॥
तानि पुंस्त्रीस्वरूपाणि कीर्तितानि क्रमेण तु ।
प्राणवायुप्रमाणेन द्विगुणाश्चानुवंशकाः ॥ २०/१० ॥
वास्तुमध्ये महावंशपार्श्वगास्तु प्रकीर्तिताः ।
त्रिगुणश्च महावंशो वास्तुमध्ये प्रकीर्तितः ॥ २०/११ ॥
प्राणे त्रिगुणकाश्चानुसिराः कर्णगता मताः ।
महासिराश्च तत्रस्था मध्ये कर्णगता मताः ॥ २०/१२ ॥
प्राणवायुप्रमाणेन त्रिगुणास्ताः प्रकीर्तिताः ।
महासिराश्चानुसिराः संज्ञेयास्तु नपुंसकाः ॥ २०/१३ ॥
वास्तुमध्ये तु केतुः स्यान्महामर्म तदुच्यते ।
महासिरामहामर्मपर्यन्ते सन्धिरिष्यते ॥ २०/१४ ॥
वंशसूत्रसिरासङ्गाच्छूलमित्यभिधीयते ।
महाशूलं चतुष्प्राणं त्रिगुणं चानुशूलकम् ॥ २०/१५ ॥
शुद्धं पदं तु मर्म स्याल्लाङ्गलं कोणसंगतम् ।
चतुष्कं तु चतुः सूत्रैः षट्कं षट्सूत्रयोगतः ॥ २०/१६ ॥
अष्टकं चाष्टसूत्राणां योगेन परिकीर्तितम् ।
पदस्य चाष्टमांशेन मर्ममानं प्रकीर्तितम् ॥ २०/१७ ॥
पदाष्टनवदिग्भागे भगवान्सूत्रवित्स्मृतिः ।
त्रिहस्तनिर्मिते क्षेत्रे यवमानं तु सूत्रकम् ॥ २०/१८ ॥
अन्येषां रोममात्रेण प्रतिहस्तं प्रबन्धयेत् ।
हृदये वंशके शूले सूत्रसन्धौ च मर्मके ॥ २०/१९ ॥
सिरायामष्टके षट्के चतुष्के लाङ्गलेऽपि च ।
देवालयादिकं नोक्तं कृतञ्चेत्कुलनाशनम् ॥ २०/२० ॥
एषां स्वरूपकाष्टांशं नवांशं परिहृत्य च ।
भित्तिस्तम्भगृहादीनि कारयेद्देशिकोत्तमः ॥ २०/२१ ॥
गृहपीडा न कर्तव्या पदसूत्रेण धीमता ।
यदङ्गं वास्तु मर्त्यस्य बाध्यते सर्वकर्मणि ॥ २०/२२ ॥
तदङ्गे तु तदीयस्य बाधाः परिहरेत्ततः ।
॥ इति कामिकाख्ये महातन्त्रे सूत्रनिर्माणविधिः अष्टादशः पटलः ॥
</poem>
== वास्तुदेवबलिविधिः ==
<poem>
अथ वक्ष्ये विशेषेण वास्तुदेवबलिक्रियाम् ।
रात्रौ कुर्याद्बलिं विद्वानह्नि ग्रामादिवास्तुषु ॥ २१/१ ॥
रात्रौ वाथ दिवावाथ गृहदेवालयादिषु ।
सुस्नातो नववस्त्रस्तु सोष्णीषः सोत्तरीयकः ॥ २१/२ ॥
पञ्चाङ्गभूषणोपेतश्चन्दनाद्यनुलेपकः ।
तादृशेन च तत्कर्त्रा युक्तः कर्मेदमाचरेत् ॥ २१/३ ॥
ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत्ततः ।
तद्देशे मण्डलं कृत्वा गोमयेन च बुद्धिमान् ॥ २१/ ४ ॥
तत्र कूर्चं विनिक्षिप्य सम्बुद्ध्यन्तं स्वनाम च ।
उक्त्वा त्वावाहयामीति चावाह्यार्चनमाचरेत् ॥ २१/५ ॥
चतुर्थ्यन्तं स्वनामोक्त्वा नमस्कारान्तसंयुतम् ।
पाद्यादिनिखिलान् दत्वा स्वस्वोक्तं तु बलिं क्षिपेत् ॥ २१/६ ॥
ब्रह्माणं पूजयेत्पूर्वं सघृतं पायसं क्षिपेत् ।
फलान्यर्यमणे दद्यात्तिलमाषोदनं तथा ॥ २१/७ ॥
दद्याद्विवस्वतेऽपूपं दधि मित्राय दापयेत् ।
पृथ्वीधराय सद्गन्धान् दापयेत्सुसमाहितः ॥ २१/८ ॥
नवनीतमथो दद्यात्पर्जन्याय विशेषतः ।
जयन्ताय घृतं दद्यात् महेन्द्रः कुष्ठभाग् भवेत् ॥ २१/९ ॥
मधुपर्कं तथा दद्यादादित्याय विशेषतः ।
सत्यकाय बदर्यास्तु फलं मधुसमन्वितम् ॥ २१/१० ॥
भ्रंशाय चूर्णं माषस्य रजनीभक्तसंयुतम् ।
दापयेदन्तरिक्षाय तपनं दुग्धसर्प्पिषा ॥ २१/११ ॥
अग्नये दुग्धसंयुक्तं ओदनं शिवसंयुतम् ।
पूप्णे च वितथे दद्यात्पक्वान्नं सुसमाहितः ॥ २१/१२ ॥
गृहक्षताय शिम्बान्नं दद्यान्मधुसन्वितम् ।
यमाय पायसं दद्याद्गन्धर्वे गन्धमुच्यते ॥ २१/१३ ॥
सामुद्रं भृङ्गराजाय मस्त्यं मस्त्योदनं मृगे ।
दद्यान्निरृतये तैलं पिण्याकान्नं च बुद्धिमान् ॥ २१/१४ ॥
दौवारिके दधि प्रोक्तं सुग्रीवे तु यवान्नकम् ।
पिष्टानि पुष्पदन्ताय पुष्पाणि सजलानि च ॥ २१/१५ ॥
जलेश्वराय दातव्यं पायसं घृतमिश्रितम् ।
वाराहं तु बलौ मांसमसुराय प्रदापयेत् ॥ २१/१६ ॥
दद्यात्समाहितः सम्यक् शेषाय तिलतण्डुलौ ।
रोगाय शुष्कमस्त्यान् वै ध्वजं पीतं च वायवे ॥ २१/१७ ॥
नागाय मधुमुख्याय लाजान् सम्यक् प्रदापयेत् ।
भल्लाटाय गुलान्नं वै सम्यग्दद्याद्बलिप्रदः ॥ २१/१८ ॥
सोमाय पायसं धूपं दीपं दद्याद्विशेषतः ।
गजाय शर्करापूपमदित्यै मोदकं विदुः ॥ २१/१९ ॥
तितये तु बलिं दद्याद्बाह्यदेवबलिक्रमे ।
पायसं घृतसम्मिश्रमीशानाय निवेदयेत् ॥ २१/२० ॥
दद्यात्सवित्रे लाजांस्तु सवित्रे गन्धवारि वै ।
इन्द्राय माषमन्नं वै मुद्गान्नं चेन्द्रसूनवे ॥ २१/२१ ॥
रुद्राय मांसमन्नं स्यात्फेनं रुद्रात्मजाय वै ।
आपाय मस्त्यं मासं च चापवत्साय दापयेत् ॥ २१/२२ ॥
घृतं मांसं चरक्यै च शूलस्थायै शिवाश्रिताः ।
बिदारिकायै दातव्यं लवणं धीमता भृशम् ॥ २१/२३ ॥
तिलपिण्डमथो दद्यात्पूतनायै विशेषतः ।
कुल्माषं पापराक्षस्यै मांसान्नं स्याद्ग्रहेषु च ॥ २१/२४ ॥
विशेषबलिरेवं स्यात्सामान्यं तु घृतोदनम् ।
सर्वेषामपि दातव्यो बलिर्दध्ना समन्वितः ॥ २१/२५ ॥
उत्कृष्टबलिरेवं स्याद्ग्रामादौ च विशेषतः ।
गृहदेवालयादौ च मध्यमः कथ्यतेऽधुना ॥ २१/२६ ॥
दध्याज्यगुलसम्मिश्रं शुद्धान्नं ब्रह्मणे बलिः ।
अर्यमादिचतुर्णां तु पायसं बलिरुच्यते ॥ २१/२७ ॥
विदिक्ष्वापादिदेवानामष्टानां कृसरं बलिः ।
ईशानाद्यष्टदेवानां मुद्गान्नं बलिरुच्यते ॥ २१/२८ ॥
हुताशनादि देवानां गुलान्नं बलिरिष्यते ।
पश्चिमाशास्थितानां तु घृतान्नं बलिरुच्यते ॥ २१/२९ ॥
वायव्याद्युक्तदेवानां दध्यन्नं बलिरुच्यते ।
अष्टानां बाह्यदेवानां मांसान्नं बलिरुच्यते ॥ २१/३० ॥
अलाभे प्रोक्तवस्तूनां दध्याज्यफलसंयुतम् ।
शुद्धमन्नं प्रदातव्यं गन्धपुष्पपुरः सरम् ॥ २१/३१ ॥
हविष्यं देवभवने मांसान्नं राजमन्दिरे ।
मत्स्यं शूद्रगृहे प्रोक्तमन्यत्र मधु कल्पयेत् ॥ २१/३२ ॥
मस्त्यार्थं चैव मांसार्थं पिष्टं वापि प्रकल्पयेत् ।
ग्रामादौ वा बलिः सोपि शुद्धद्रव्यैर्विधीयताम् ॥ २१/३३ ॥
त्वरिते त्वक्षतं वा स्याद्गन्धपुष्पसमन्वितम् ।
महावास्तुनि विप्रेन्द्रा देशिका बहवो मताः ॥ २१/३४ ॥
पञ्चगोचरसंभूताः शिवविप्राः प्रकीर्तिताः ।
अभावादादिशैवानां तत्र ब्राह्माः शिवद्विजाः ॥ २१/३५ ॥
देवालये च ग्रामादौ शिवविप्रो विशिष्यते ।
स्वगृहे त्वनुशैवास्तु महावान्तरशैवकाः ॥ २१/३६ ॥
वास्तुहोमं चतुर्दिक्षु देशिको मूर्तिपैः सह ।
एकत्र वाथ कर्तव्यो देशिकेन च धीमता ॥ २१/३७ ॥
समिदाज्यचरूपेतं तिलतण्डुलसंयुतम् ।
मण्डपे वा प्रपायां वा वास्तुहोमं समाचरेत् ॥ २१/३८ ॥
पञ्चादिदशहस्तान्तं मण्डपं परिकल्पयेत् ।
हस्तमात्रमिदं कुण्डं रत्निमात्रमथापि वा ॥ २१/३९ ॥
वास्तुसीमनि वा ब्रह्मस्थाने वा मण्डपं नयेत् ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात् ॥ २१/४० ॥
समिधः कथिताः शास्त्रे चैकत्रेष्टं प्रगृह्यताम् ।
कुम्भे वोदुम्बरे वापि वास्तुदेवान् प्रपूजयेत् ॥ २१/४१ ॥
हेमवस्त्रसमायुक्ते सकूर्चे सापिधानके ।
कृतस्थण्डिलकाधारः सोष्णीषः सोत्तरीयकः ॥ २१/४२ ॥
कृतपञ्चाङ्गभूषस्तु मूर्तिपैश्च तथाविधैः ।
उष्णीषरहितैः सार्धं वेदध्वनिसमन्वितम् ॥ २१/४३ ॥
स्तोत्रध्वनिसमायुक्तं तथा मन्त्रजपान्वितम् ।
संप्राप्तदक्षिणः शान्तो मनस्तुष्टिसमन्वितः ॥ २१/४४ ॥
सर्वमङ्गलकार्ये च मण्डलादिविशोधने ।
पर्यग्निकरणोपेतं वास्तुहोमं नियामकम् ॥ २१/४५ ॥
बलिं चैव विशेषेण शिवविप्रः समाचरेत् ।
वास्तुपूजाविहीनं तु वास्तुवास्तु विनश्यति ॥ २१/४६ ॥
प्रतिसंवत्सरं कुर्यात्सर्वदोषापनुत्तये ।
ग्रामादिगृहशालासु देववेश्मनि देशिकः ॥ २१/४७ ॥
॥ इति कामिकाख्ये महातन्त्रे वास्तुदेवबलिविधिर्नाम एकोनविंशतितमः
पटलः ॥
</poem>
== ग्रामादिलक्षणविधिः ==
<poem>
वक्ष्यामि लक्षणं ग्रामनगर्यादेः समाहितः ।
यथावद्विहितं वास्तु न त्यजन्ति हि देवताः ॥ २२/१ ॥
पिशाचप्रेतरक्षांसि पीडां कर्तुं न शक्नुयुः ।
तत्र कालपरीक्षादि प्रागुक्तविधिनाचरेत् ॥ २२/२ ॥
विप्रैर्विद्वद्भिराभोग्यं मङ्गलं चेति कीर्तितम् ।
अग्रहारस्तदेवोक्तं विप्रेन्द्राः कामिकाह्वये ॥ २२/३ ॥
विप्रैरथान्यैर्वर्णैर्वा भोग्यो ग्राम उदाहृतः ।
एको ग्रामणिको यत्र सभृत्यपरिचारकः ॥ २२/४ ॥
कुटिकं तद्विजानीयादेकभोगः स एव तु ।
जनैः परिवृतं द्रव्यक्रयविक्रयकादिभिः ॥ २२/५ ॥
अनेकजातिसंयुक्तं कर्मकारैः समन्वितम् ।
सर्वदैवतसंयुक्तं नगरं चाभिधीयते ॥ २२/६ ॥
वणिजामपि भोग्यं तु तद्वदेव समीरितम् ।
यत्स्थानं ब्राह्मणानां तु खर्वटं पुरवासिनाम् ॥ २२/७ ॥
तेषामेव वनस्थानं तद्वदेव समीरितम् ।
क्रयविक्रयसंयुक्तमब्धितीरसमाश्रितम् ॥ २२/८ ॥
देशान्तरागतजनैर्नानाजातिभिरन्वितम् ।
पट्टणं तत्समाख्यातं वैश्यैरध्युषितं तु यत् ॥ २२/९ ॥
नगर्यावर्तनं यत्तत्खर्वटं तदुदाहृतम् ।
वने जनपदे चैव केवले शूद्रसेवितः ॥ २२/१० ॥
कर्णकः खेटको ग्रामः क्रमात्त्रिविध ईरितः ।
सामन्तानां समृद्धानां यत्स्थानं शिबिरं स्मृतम् ॥ २२/११ ॥
गजवाजिसमायुक्तं सेनास्थानं तदेवहि ।
राजवेश्मसमायुक्तं सर्वजातिसमन्वितम् ॥ २२/१२ ॥
गुह्यप्रदेशसंयुक्तं सेनामुखमिहोच्यते ।
आगन्तुकानां सर्वेषां नैष्ठिकानां निवासभूः ॥ २२/१३ ॥
अन्नपानीयसंयुक्तः केवलो वा मठो मतः ।
विद्यास्थानं तु तद्वत्स्याद्बहुसेनासमन्वितम् ॥ २२/१४ ॥
राजवेश्मसमायुक्ता राजधानीति कथ्यते ।
ग्रामादीनां समीपं यत्स्थानं कुब्जमिति स्मृतम् ॥ २२/१५ ॥
तदेव चेरिका प्रोक्ता नगरीतन्तुवायभूः ।
सर्वेषामपि चैतेषां ग्रामादीनां समीरितम् ।
विस्तारायाममानं तु सर्वेषां तु सनातनम् ॥ २२/१६ ॥
शास्त्रेऽस्मिन् प्रोच्यते तच्च क्रमेण परिपठ्यते ।
इति कामिकाख्ये महातन्त्रे ग्रामादिलक्षणविधिः विंशतितमः पटलः ॥
</poem>
== विस्तारायामलक्षणविधिः ==
<poem>
विस्तारायाममानं तु ग्रामादीनामिहोच्यते ।
पञ्चदण्डं समरभ्य दण्डाभ्यां वर्धयेत्क्रमात् ॥ २३/१ ॥
एकोनत्रिसहस्रान्तं तदूर्ध्वं नेष्यते बुधैः ।
अधमे तु तदूर्ध्वं तु तत्समं चोत्तमं भवेत् ॥ २३/२ ॥
एवं विस्तारमाख्यातं ग्रामादीनां समासतः ।
कुटुम्बभूमिमानं तु वाटक्षेत्रविवर्जितम् ॥ २३/३ ॥
प्रमाणं कथितं शास्त्रे तद्बाह्ये वाटभूर्मता ।
चतुरश्रार्धभागं वा चतुर्भागमथापि वा ॥ २३/४ ॥
त्रिपादं वा द्विपादं वा त्रिद्व्यंशा वा विशालतः ।
पञ्चषट्सप्तमूर्त्यंशपङ्क्तिभागमथापि वा ॥ २३/५ ॥
चतुर्दण्डात्समारभ्य दण्डाभ्यां वर्धयेत्क्रमात् ।
त्रिगुणान्तप्रमाणेन चायामं परिकल्पयेत् ॥ २३/६ ॥
ब्राह्मणानां समम् शस्तमन्येषामायताश्रकम् ।
सर्वं देवे च विप्रे च सामान्यमिह कीर्तितम् ॥ २३/७ ॥
॥ इति कामिकाख्ये महातन्त्रे विस्तारायामलक्षणविधिः एकविंशः पटलः ॥
</poem>
== आयादिलक्षणविधिः ==
<poem>
अतः परं प्रवक्ष्यामि आयादीनां तु लक्षणम् ।
विस्तारेणाभ्यसेद्दैर्घ्यं त्रिगुणं चाष्टभिर्हृतम् ॥ २४/१ ॥
शेषं ध्वजादिकं शास्त्रे योन्यष्टकमुदाहृतम् ।
ध्वजो धूमः श्वसिंहौ च वृषः खरगजोत्तमौ ॥ २४/२ ॥
ध्वाङ्क्षेण योनयश्चाष्टौ ध्वजसिंहवृषे गजः ।
शस्ताः स्युर्निन्दिताश्चान्ये धूमाद्या योनयस्त्विह ॥ २४/३ ॥
तमेवाष्टगुणं कृत्वा सप्तविंशतिभिर्भजेत् ।
शिष्टमश्वयुजाद्यं तु नक्षत्रमिह कीर्तितम् ॥ २४/४ ॥
कर्तुर्जन्मर्क्षमारभ्य त्रिदिनं पञ्चसप्तकम् ।
त्रयोदशदिनं त्याज्यं तथा पञ्चदशोडुकम् ॥ २४/५ ॥
दिनं सप्तदशं चाष्टादश द्वाविंशकं दिनम् ।
सप्तविंशतिनक्षत्रं त्याज्यमन्यच्छुभं स्मृतम् ॥ २४/६ ॥
राज्ञां ग्रामस्य कर्तुश्च जन्मर्क्षेणाविरोधि यत् ।
तदेव चात्र संग्राह्यं विपरीतं परित्यजेत् ॥ २४/७ ॥
जन्मर्क्षेण युतं वापि कारयेद्वास्तुशास्त्रवित् ।
नामजन्मर्क्षयोरानुकूल्यश्चोत्तम उच्यते ॥ २४/८ ॥
एकोनं मध्यमं प्रोक्तं विपरीतं परित्यजेत् ।
नक्षत्रस्य फलं यत्तु वयस्तस्य प्रकीर्तितम् ॥ २४/९ ॥
ध्वजादीनां वशेनाथ वयस्तत्र प्रकल्पयेत् ।
सकलञ्चाष्टभिर्हन्यादायः सोऽप्यन्यथोच्यते ॥ २४/१० ॥
सकलं चाष्टभिर्भक्त्वा भजेद्द्वादशभिर्गुरुः ।
शिष्टस्त्वायः समाख्यातो व्ययस्तत्र प्रकीर्त्यते ॥ २४/११ ॥
संस्थाप्य लब्धनक्षत्रमष्टभिर्विभजेद्बुधः ।
व्ययः शिष्ट इह प्रोक्तस्त्वन्यथापि च कथ्यते ॥ २४/१२ ॥
सकलं त्रिगुणीकृत्य मानसूत्रैर्भजेद्व्ययम् ।
आयाधिक्यं तु शुभदं समं हीनं च वर्जयेत् ॥ २४/१३ ॥
विस्तारायामराशिं तु वसुभिर्गणयेद्बुधः ।
त्रिंशद्भिर्विभजेच्छिष्टं तिथिनागावटैस्तु वा ॥ २४/१४ ॥
त्रिगुणं सकलं कृत्वा मुनिना वार उच्यते ।
पर्यन्तावटकेनाथ वारं संकल्पयेद्बुधः ॥ २४/१५ ॥
राशयश्चांशका ये तु नक्षत्रवशगा मताः ।
अष्टद्वादशकौ वर्ज्यौ शेषाः श्रेष्ठाश्च राशयः ॥ २४/१६ ॥
शुभग्रहांशकाः शस्तास्त्वितरास्त्विह निन्दिताः ।
विस्तारेणाभ्यसेद्दैर्घ्यं तादृशीमथवा पुनः ॥ २४/१७ ॥
विस्तारायामसंयुक्तं राशिं वाथ निरीक्षयेत् ।
चतुरश्रायताश्राणां सकलेनैव योजयेत् ॥ २४/१८ ॥
अन्यासामाकृतीनां तु नाहायामविशालकैः ।
कुम्भकस्य विशालार्धं नाहार्धेन न्यसेद्बुधः ॥ २४/१९ ॥
सकलं कुम्भकं प्रोक्तं तेन चायादिकं न्यसेत् ।
॥ इति कामिकाख्ये महातन्त्रे आयादिलक्षणविधिः द्वाविंशः पटलः ॥
</poem>
== नक्षत्रचक्रविधिः ==
<poem>
नक्षत्रचक्रं वक्ष्यामि नामनक्षत्रसिद्धये ।
आदौ शतपदं कृत्वा पर्यन्तेशानकोष्ठकात् ॥ २५/१ ॥
आरभ्य दक्षमार्गेण न्यसेद्वर्णाननुक्रात् ।
पञ्चतत्त्वं तथाग्नेयकोणात्पश्चिममार्गतः ॥ २५/२ ॥
पितुरुत्तरमार्गेण वायोः पूर्वमुखेन च ।
वर्णान् विंशतिसंख्याकान् क्रमेणैवं तु विन्यसेत् ॥ २५/३ ॥
अपहकट इत्येवमवटपर एव च ।
नयभजखवर्णश्च गजदचल एव च ॥ २५/४ ॥
ईशानमण्डले कुर्यात्पञ्चविंशतिकोष्ठके ।
पश्चिमाभिमुखं पूर्वं लिखितानां तृतीयकम् ॥ २५/५ ॥
पञ्चमं नाम नक्षत्रं स्वेन युक्तान् स्वरान्न्यसेत् ।
एकादश न्यसेत्पश्चात्प्रान्ते न्यसेत्त्रयोदश ॥ २५/६ ॥
अकारश्च इकारश्च उश्च एकार एव च ।
कृत्तिका कथिता तावदो वा वो वू चतुष्टयम् ॥ २५/७ ॥
रोहिणी कथिता शास्त्रे वे वो का की तथैव च ।
चन्द्रभं कुश्च आर्द्रा स्यात्पञ्चविंशतिमध्यमे ॥ २५/८ ॥
के च को च तथा हा च हीकारश्च पुनर्वसुः ।
हुश्च हेश्च तथा होश्च डश्च पुष्यः प्रकीर्तितः ॥ २५/९ ॥
अवशिष्टैरथाश्लेषान्नामधेयं प्रकल्पयेत् ।
अनेन क्रमयोगेन सर्वमत्र समाचरेत् ॥ २५/१० ॥
आर्द्रायुक्ते कुकोष्ठे च घङच्छाननुयोजयेत् ।
हस्तयुक्ते च कोष्ठे च पूषणाठान् परिकल्पयेत् ॥ २५/११ ॥
पूर्वाषाढां बुकोष्ठे च ध फा ढान् विन्यसेद्गुरुः ।
भेचोत्तराभाद्रपदे दूथाझाञान् तथा नयेत् ॥ २५/१२ ॥
नकारग्रहणेनैव ज्ञकारः स्वीकृतस्त्विह ।
अकारग्रहणेनैव आकारः स्वीकृतस्त्विह ॥ २५/१३ ॥
इकारग्रहणेनैव ईकारः स्वीकृतस्त्विह ।
उकारग्रहणेनैव ऊकारः स्वीकृतस्त्विह ॥ २५/१४ ॥
एकारग्रहणेनैकाराद्याः पञ्च समाहृताः ।
एवमन्यत्र चोन्नेयं नामनक्षत्रकल्पनात् ॥ २५/१५ ॥
ग्रामेक्षत्रियसेवायां युद्धे च व्यवहारके ।
नामर्क्षं योजयेद्विद्वान्नामान्तरपरिग्रहात् ॥ २५/१६ ॥
अन्यस्मिन् जन्मऋक्षं वा वास्तुकर्मण्युभावापि ।
एवं नक्षत्रचक्रञ्च युष्माकं कथितं मया ॥ २५/१७ ॥
अनेनैवानुकूल्यं च विज्ञेयं स्याद्विचक्षणैः ।
विपदि प्रत्यरे चैव वधे चैव यथाक्रमात् ॥ २५/१८ ॥
प्रथमांशतृतीयांशादृते शेषास्तु शोभनाः ।
तृतीये चापि पर्याये चोत्तमं परिपठ्यते ॥ २५/१९ ॥
द्वितीये मध्यमे चैव प्रथमं कन्यसं स्मृतम् ।
गणञ्चासुरमानुष्यं वर्जयेच्छुभमन्यथा ॥ २५/२० ॥
एवं जन्मर्क्षके नामनक्षत्रे च प्रकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे नामनक्षत्रविधिः त्रयोविंशः पटलः ॥
</poem>
== दण्डिकादिविधिः ==
<poem>
दण्डिकादिविधिं वक्ष्ये शृणुत ज्ञानकाङ्क्षिणः ।
दण्डिकं स्वस्तिकञ्चान्यत्प्रस्तरं च प्रकीर्णकम् ॥ २६/१ ॥
सम्पत्करं पराकं च पद्मकं श्रीप्रतिष्ठितम् ।
श्रीवत्सं वैदिकं चैव नन्द्यावर्तं च कुम्भकम् ॥ २६/२ ॥
एवं द्वादशधा प्रोक्ता ग्रामादेराकृतिस्त्विह ।
कुम्भकं वैदिकं चैव दण्डिकं च विशेषतः ॥ २६/३ ॥
जानीयात्पत्तनादौ तु शुभमेतन्न संशयः ।
पूर्वाग्रमुत्तराग्रं वा वीथिं कृत्वोभयोर्बुधः ॥ २६/४ ॥
गृहाणि पार्श्वयोः कुर्यादेकस्मिन् पार्श्वकेऽपि वा ।
एकवीथिसमायुक्तं वीथिद्वयसमायुतम् ॥ २६/५ ॥
वीथित्रयसमायुक्तं पूर्वाग्रञ्चोत्तराग्रकम् ।
कर्तरीकृतदण्डाभं वाथ कुर्यात्तु दण्डिकम् ॥ २६/६ ॥
पूर्वाग्रमुत्तराग्रं च कृत्वा वीथिद्वयं द्वयम् ।
उदगग्रैर्नवान्यैश्च मार्गैर्युक्तं तु तद्भवेत् ॥ २६/७ ॥
दक्षिणाभिमुखो भूत्वा पूर्ववीथ्यास्तु निर्गमः ।
पश्चिमाभिमुखश्चैव दक्षिणस्यां तु निर्गमः ॥ २६/८ ॥
उत्तराभिमुखो भूत्वा पश्चिमायां विनिर्गमः ।
प्राङ्मुखस्तु ततो भूत्वा सौम्यवीथ्यास्तु निर्गमः ॥ २६/९ ॥
एवं हि यत्कृतं वास्तु स्वस्तिकं त्वभिधीयते ।
एवमेव तु सर्वेषां ग्रामादीनां विनिर्गमः ॥ २६/१० ॥
त्र्यादिपञ्चदशान्ताभिरुदीचीनाभिरन्वितम् ।
तिसृभिः प्राङ्मुखाभिस्तु प्रस्तरं त्विह कथ्यते ॥ २६/११ ॥
चतुर्वीथि समारभ्य सप्तदशसमावधि ।
उदीचीभिः समायुक्तं प्राङ्मुखाभिश्चतसृभिः ॥ २६/१२ ॥
एतत्प्रकीर्णकं प्रोक्तमुदीचीनैस्तु पञ्चभिः ।
एकविंशतिसंख्यातैः प्राङ्मुखाभिश्च पञ्चभिः ॥ २६/१३ ॥
सम्पत्करमिहोद्दिष्टं पराकञ्च वदाम्यहम् ।
षड्वीथिकां समारभ्य त्रयोविंशतिकावधि ॥ २६/१४ ॥
एकैकवीथिवृद्ध्या तु उदीचीनाभिरन्वितम् ।
षड्भिश्च प्राङ्मुखाभिश्च पराकं त्विह कीर्त्यते ॥ २६/१५ ॥
सप्तवीथि समारभ्य चैकोनत्र्यंशकावधि ।
उदङ्मुखाभिर्वीथीभिर्युक्तं प्राङ्मुखमार्गकैः ॥ २६/१६ ॥
सप्तभिः पद्मकं प्रोक्तं एष्विष्टं परिगृह्यताम् ।
अष्टभिः प्राङ्मुखैर्मार्गैरुदीचीनैस्तदादितः ॥ २६/१७ ॥
षट्त्रिंशदंशसंख्यातैः प्राङ्मुखैरष्टभिर्युतम् ।
श्रीप्रतिष्ठितमित्युक्तं तस्मिन्निष्टं प्रगृह्यताम् ॥ २६/१८ ॥
प्रागग्रैरुदगग्रैश्च मार्गैरिष्टैः समन्वितम् ।
श्रीवत्समिति निर्दिष्टं सर्ववास्तुषु योग्यकम् ॥ २६/१९ ॥
चतुरश्रायताश्रं वा कृत्वा कोणेषु मध्यमे ।
पुष्पदन्तादिके वापि यथेष्टं द्वारसम्मितम् ॥ २६/२० ॥
उभयोः पार्श्वयोर्वापि एकपार्श्वेऽथवा पुनः ।
गृहवीथिसमायुक्तं चैतद्वैदिकमुच्यते ॥ २६/२१ ॥
तदेव विप्रभूपालवैश्यशूद्रगृहावृतम् ।
प्रधानं वाप्रधानं वा सर्वत्र विहितं त्विह ॥ २६/२२ ॥
क्षेत्रावृतं तु वा कार्यमारामाद्यावृतं तु वा ।
एतच्च वैदिकं प्रोक्तमन्तर्बाह्यविभागतः ॥ २६/२३ ॥
अनेकावलिसंयुक्तं चापि वैदिकमुच्यते ।
परितोऽपि समं कृत्वा मार्गैः पूर्वोत्तराननैः ॥ २६/२४ ॥
एकानेकैर्यथेष्टैस्तु प्रागुक्तैस्तच्च वैदिकम् ।
विधाय वीथिं नाभ्याख्यां निर्गमैश्च समन्विताम् ॥ २६/२५ ॥
स्वस्त्याकारैर्बहिस्तस्या महावीथिसमन्विताम् ।
नाभौ विनिर्मितास्तिस्रः पञ्च सप्त नवाथवा ॥ २६/२६ ॥
युग्माभिरेव कर्तव्यं नन्द्यावर्तमिति स्मृतम् ।
वृत्ताकारैस्तु मार्गैश्च एकानेकैः समन्वितम् ॥ २६/२७ ॥
प्रागुत्तरमुखैर्मार्गैरनेकैर्मध्यमैर्युतम् ।
कुम्भकञ्चेति निर्दिष्टमनेकैः कोणकैर्युतम् ॥ २६/२८ ॥
अष्टाग्रैर्वा बहिर्मार्गैर्युक्तं कुम्भकमुच्यते ।
नगरीपत्तनादौ तु विहितं त्विह कामिके ॥ २६/२९ ॥
॥ इति कामिकाख्ये महातन्त्रे दण्डिकादिविधिः चतुर्विंशः पटलः ॥
</poem>
== वीथिद्वारादिमानम् ==
<poem>
वीथीद्वारादिमानं तु प्रवक्ष्याम्यनुपूर्वशः ।
ब्रह्मभागावृतावीथिर्नाभिवीथीति कथ्यते ॥ २७/१ ॥
राजवीथीति विख्याता ग्रामादेर्बहिरावृता ।
सैव मङ्गलवीथीति रथवीथीति चोच्यते ॥ २७/२ ॥
प्राङ्मुखा वीथयः सर्वा नाराचाख्या इति स्मृताः ।
ता एव जनवीथ्यः स्युः क्षुद्रास्तिर्यग्गता मता ॥ २७/३ ॥
पाददण्डं समारभ्य पादपादविवर्धितम् ।
स्यादेकादशदण्डान्तं वीथिमानमिहागमे ॥ २७/४ ॥
मार्गमानं च तावत्स्यान्न द्वारं वीथिकाग्रके ।
हित्वा मङ्गलवीथ्यग्रं नाभिं न प्रोतयेत्क्वचित् ॥ २७/५ ॥
भल्लाटे पुष्पदन्ते च महेन्द्रे च गृहक्षते ।
चतुर्द्वारं प्रकर्तव्यं सर्वेषामपि वास्तुनाम् ॥ २७/६ ॥
महेन्द्रे सत्यके चैव पदे प्राग्द्वारमुत्तमम् ।
गृहक्षतपदे चैव गन्धर्वे दक्षिणे शुभम् ॥ २७/७ ॥
असुरे पुष्पदन्ते च पश्चिमद्वार उच्यते ।
मुख्यभल्लाटयोः स्थाने चोत्तरद्वार उच्यते ॥ २७/८ ॥
पर्जन्ये च भृशे पूष्णि भृङ्गराजे जलेशके ।
शेषे नागेऽदितौ स्थानमुदग्द्वारेषु कीर्तितम् ॥ २७/९ ॥
दण्डत्रयं समारभ्य चैकदण्डविवर्धनात् ।
तिथिदण्डावसानं तु गृहक्षेत्रविशालता ॥ २७/१० ॥
तत्रैव हस्तमानेन गेहं कुर्याद्विचक्षणः ।
अथवा हस्तमानेन गृहविस्तार उच्यते ॥ २७/११ ॥
पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।
एकषष्टिविशालं तु गृहक्षेत्रविशालता ॥ २७/१२ ॥
आयामं ग्रामदण्डेन हस्तच्छेदविवर्जितम् ।
चतुः शालागृहं श्रेष्ठं त्रिशालं मध्यमं भवेत् ॥ २७/१३ ॥
द्विशालमधमं प्रोक्तं हीनं स्यादेकशालकम् ।
॥ इति कामिकाख्ये महातन्त्रे वीथिद्वारादिमानविधिः पञ्चविंशः पटलः ॥
</poem>
== ग्रामादिदेवतास्थानविधिः ==
<poem>
ग्रामादौ देवतास्थानं वक्ष्ये सर्वं सनातनम् ।
ब्रह्मस्थानस्य वायव्यां विष्णुस्थानं प्रकीर्तितम् ॥ २८/१ ॥
वारुण्यां वास्तुनो ब्रह्मा सूत्रस्योत्तरदेशके ।
ग्राममध्ये तदीशान्यामष्टदिक्षु शिवो मतः ॥ २८/२ ॥
हरिहरयुतं वास्तु केवलेन हरेण वा ।
अन्यत्सर्वं यथेष्टं स्थात्तेषां स्थानमिहोच्यते ॥ २८/३ ॥
वारुण्यामिन्द्रकाष्ठायामिन्द्रेशानान्तरेऽथवा ।
रविस्थानं भवेत्तत्र स्थानं वापि शचीपतेः ॥ २८/४ ॥
वायव्यामिन्द्रकाष्ठायां याम्यकाग्नेयनैरृते ।
सुग्रीवे वारुणे वापि षण्मुखस्थानमीर्तितम् ॥ २८/५ ॥
वारुण्यां नैरृताविन्द्रे शास्तुः स्थानं प्रकीर्तितम् ।
वारुण्यां वाथ नैरृत्यां वायुसोमान्तरेऽथवा ॥ २८/६ ॥
अन्यत्र च गणेशस्य स्थानमुक्तमिहागमे ।
यमे वा नैरृते भागे वायव्यामिन्द्रमध्यमे ॥ २८/७ ॥
नैरृत्यन्तकयोर्वापि दुर्गास्थानं प्रकीर्तितम् ।
वारुण्यां श्रीसरस्वत्योः स्थानमुक्तं शिवाश्रिताः ॥ २८/८ ॥
ऐशान्यां सोमभागे वा तयोर्मध्ये तु मातरः ।
आग्नेयां मोटिकास्थानं कामदेवस्य तत्र वै ॥ २८/९ ॥
ज्येष्ठा पुष्करणीतीरे स्थाप्यान्यत्र बहिस्तु वा ।
कामभास्करयोर्वास्तु षण्मुखस्थानमुच्यते ॥ २८/१० ॥
षण्मुखस्य तु मातॄणां स्थानमन्यद्यथेप्सितम् ।
सहस्रादधिके विप्रे मध्ये विष्णुगृहं तु वा ॥ २८/११ ॥
शिवपूजायुतं वास्तु नान्यच्छास्त्रस्य निश्चयः ।
श्रीपतेः पूजया नित्यं प्रजावृद्धिर्भविष्यति ॥ २८/१२ ॥
सूर्यस्य पूजया नित्यं गृहपीडा विनश्यति ।
इन्द्रपूजा मनुष्याणां प्रभावं संप्रयच्छति ॥ २८/१३ ॥
सुब्रह्मण्यार्चनं नित्यं बलानां हितकृद्भवेत् ।
शास्तृपूजा स्वकृत्येषु नियुङ्क्ते वास्तुवासिनः ॥ २८/१४ ॥
कामस्य पूजा कुरुते सौन्दर्यं वास्तुवासिनाम् ।
उमा पूजा विशेषण विजयं संप्रयच्छति ॥ २८/१५ ॥
पूजिता चेन्महामोटी बालरोगविनाशिनी ।
सर्वसिद्धिरविघ्नेन विघ्नेशस्य सपर्यया ॥ २८/१६ ॥
ज्येष्ठापूजा विशेषेण रोगघ्नी वास्तुवासिनाम् ।
लक्ष्मीपूजा श्रियं दद्यादलक्ष्मीं च व्यपोहति ॥ २८/१७ ॥
वाग्विभूतिं सरस्वत्याः पूजा नित्यं प्रयच्छति ।
मातृपूजा सदा सर्वसम्पदं कुरुते द्विजाः ॥ २८/१८ ॥
सर्वेषां पूजया यंत्तत्फलं दद्यान्महेश्वरः ।
तस्मान्महेश्वरो नित्यं पूजनीयः फलार्थिभिः ॥ २८/१९ ॥
ऐशान्यां स्थापितं लिङ्गमुत्तमं त्विति कीर्तितम् ।
अन्यत्र मध्यमं प्रोक्तं लिङ्ग संस्थापितं द्विजाः ॥ २८/२० ॥
ग्राममध्ये हरेः स्थानमुत्तमं परिकीर्तितम् ।
पश्चिमे मध्यमं विद्यादधमं चान्यदेशके ॥ २८/२१ ॥
ईशविष्ण्वोस्तु मूर्तिः स्याद्द्विविधा परिकीर्तिता ।
उग्रा शान्ता च तत्राद्या उग्रकर्मरता मता ॥ २८/२२ ॥
शान्तकर्मरताशान्ता मूर्ती रौद्री तु बाह्यगा ।
शान्ता तु मध्यगा प्रोक्ता ग्रामादौ सर्ववास्तुनि ॥ २८/२३ ॥
करिकामपुरारिस्तु कालारिस्त्वैवमादयः ।
उग्रास्तु मूर्तयः प्रोक्तः शेषाः शान्ता उदाहृताः ॥ २८/२४ ॥
विश्वरूपं नृसिंहं च वटशायिनमेव च ।
जामदग्न्यं च जानीयादुग्रं वैष्णवविग्रहम् ॥ २८/२५ ॥
ग्रामादेर्बाह्यदेशे तु काननादौ प्रकीर्तिताः ।
रौद्राणामिह देवानां स्थापने फलमुच्यते ॥ २८/२६ ॥
पूर्वे चेद्ग्रामनाशं स्याद्वह्नौ दुःशीलगाः स्त्रियः ।
नाशस्तु याम्यदेशे तु प्रेतदैत्यादिभिर्भृशम् ॥ २८/२७ ॥
रोगैस्तु नैरृते नाशं शोकः स्याद्वरुणांशके ।
दुःस्थितिं पावने विद्याद्राष्ट्रसंस्थां तु सौम्यके ॥ २८/२८ ॥
सर्वसम्पत्तिरैशान्यां पुत्रपौत्रविवर्धनम् ।
ग्रामे त्वेवं समाख्यातं सर्वत्रान्येषु वा मता ॥ २८/२९ ॥
ग्रामे कुड्यान्तरस्थानेष्वष्टदिक्ष्वपि शस्यते ।
न मध्ये स्थापयेद्रुद्रमूर्तिं ग्रामे विशेषतः ॥ २८/३० ॥
रुद्रमूर्तिः स्थिता चेत्तु ग्रामादौ तु तदग्रके ।
शान्तमूर्तिप्रतिष्ठां तु कारयेद्देशिकोत्तमः ॥ २८/३१ ॥
तटाकं कारयेद्वापि तेन शान्तिर्विधीयते ।
अग्रहाराद्विनान्येषु स्थानीयादिषु वास्तुषु ॥ २८/३२ ॥
प्रागादिषु चतुर्दिक्षु वायावीशे शिवालयः ।
तथैव शेषदेशे च पर्जन्यांशे जयन्तके ॥ २८/३३ ॥
वामनेत्रेक्षणं तत्र सर्वसम्पत्समृद्धिदम् ।
ईक्षणं सकलानां तु ऐहिकामुष्मिकावहम् ॥ २८/३४ ॥
पादपादं तदर्धं वा त्रिपादं पादमेव वा ।
एकदण्डं समारभ्य पञ्चदण्डावसानकम् ॥ २८/३५ ॥
नीत्वा तु स्थापयेद्बाह्ये रुद्रमूर्तिनिकेतने ।
एवं तु कथितं रुद्रमूर्तीनां स्थापने फलम् ॥ २८/३६ ॥
शान्तमूर्तिप्रतिष्ठायां फलमद्य निगद्यते ।
ब्रह्मस्थाने स्थितं लिङ्गं विप्रक्षत्रियशोभनम् ॥ २८/३७ ॥
ऐन्द्रं सर्वप्रदं लिङ्गं याम्ये वृद्धिस्तथायुषः ।
आरोग्यं वारुणं लिङ्गं सौम्यं वित्तप्रदं भवेत् ॥ २८/३८ ॥
वह्निदेशे सुखं दद्याद्विजयं निरृतौ शिवः ।
वायव्ये सम्पदो दद्यात्सर्वमीशानगोचरे ॥ २८/३९ ॥
अन्तरालेषु सर्वेषु फलमेवं विनिर्दिशेत् ।
सोमे चैशानके वापि सोमेशानान्तरालके ॥ २८/४० ॥
इन्द्रेशानान्तराले च शिवलिङ्गं स्थितं यदि ।
ग्रामादेरभिवृद्धिः स्याद्राज्ञो राष्ट्रस्य चैव हि ॥ २८/४१ ॥
सौभाग्यमायुरारोग्यं भवत्येव न संशयः ।
॥ इति कामिकाख्ये महातन्त्रे ग्रामादिदेवतास्थानविधिः षड्विंशः पटलः ॥
</poem>
== द्विजसंख्याविधिः ==
<poem>
द्विजादीनां च संख्येह वक्ष्यते शृणुत द्विजाः ।
ज्येष्ठमध्यकनिष्ठाश्च क्षुद्राश्चेति चतुर्विधाः ॥ २९/१ ॥
प्रत्येकं नवधा प्रोक्ता वक्ष्यमाणप्रमाणतः ।
चतुर्दशसहस्रात्तु षट्सहस्रद्विजान्तकम् ॥ २९/२ ॥
सहस्रहीनं नवकं चतुष्केषूत्तमं द्विजाः ।
ततः पञ्चसहस्रात्तु सहस्रान्तं यथाक्रमम् ॥ २९/३ ॥
हीनं पञ्चशतेनैव मध्यमं नवकं बुधाः ।
शतहीनसहस्रात्तु यावत्पञ्चदतान्तकम् ॥ २९/४ ॥
शतार्द्धेन क्रमेणैव कनीयक्षुद्रयोर्मतम् ।
अथवान्यप्रकारेण वक्ष्यते शृणुत द्विजाः ॥ २९/५ ॥
अष्टोत्तरशतं चान्यद्वर्धयेद्दशसंख्यया ।
लक्षान्तं संगृहीतव्यं तेषु शक्त्यैकमाचरेत् ॥ २९/६ ॥
अशक्तश्चेद्दशाद्यष्टशतान्तं पञ्चसंख्यया ।
वर्धयेदतिहीनं चेदेकस्मादेव वर्धनात् ॥ २९/७ ॥
दशान्तं वाथ कर्तव्यं तेषु चेष्टं समाचरेत् ।
द्वात्रिंशद्वा चतुर्विंशत् षोडश द्वादशैव वा ॥ २९/८ ॥
चतुरुत्तरपञ्चाशत्संख्याका वा प्रकीर्तिताः ।
॥ इति कामिकाख्ये महातन्त्रे द्विजसंख्याविधिः सप्तविंशः पटलः ॥
</poem>
== ग्रामादिविन्यासविधिः ==
<poem>
विन्यासस्य विशेषोऽयं ग्रामादीनामिहोच्यते ।
ग्रामः शरीरमङ्गं स्याद्देवमर्त्यपरिग्रहः ॥ ३०/१ ॥
उपाङ्गमिति बोद्धव्यं विमानभवनादिकम् ।
पदप्रस्तरसूत्रे वा मध्यसूत्रद्वयेऽपि च ॥ ३०/२ ॥
कर्णसूत्रद्वये चापि उपाङ्गं नैव कारयेत् ।
वीथ्यन्तरे गृहश्रेण्यां सीम्नि वा सूत्रवर्धनम् ॥ ३०/३ ॥
यथाभवेत्तथा कार्यं न कार्यं सूत्रपीडनम् ।
दण्डच्छेदो न कर्तव्यो ग्रामे वापि गृहायतौ ॥ ३०/४ ॥
उपाङ्गायामविस्तारे दण्डच्छेदोऽपि योज्यते ।
अन्यत्र दण्डं न छिद्याच्छरीरे तु विशेषतः ॥ ३०/५ ॥
बाह्यश्रेणीषु वृद्धिश्च दण्डच्छेदश्च वीथिषु ।
पदशेषयुतं वेश्म छिन्नदण्डं गृहादिकम् ॥ ३०/६ ॥
इष्टमानं च वीथीनां वास्तुकर्मणि शस्यते ।
श्रेण्यन्तरेषु तत्रैव पदशेषं समापयेत् ॥ ३०/७ ॥
चण्डालानां प्रवेशाय निर्गमाय मलस्य च ।
जलस्य निर्गमार्थं तु क्षुद्रमार्गाः प्रशंसिताः ॥ ३०/८ ॥
ग्रामेषु यः कृतो दोषो राज्ञो ग्रामस्य सर्वतः ।
अङ्गेषु यः कृतो दोषो ग्रामस्य हि जनस्य तु ॥ ३०/९ ॥
प्रत्यङ्गे यः कृतो दोषस्तत्रस्थानां विशेषतः ।
वास्तुनः सर्वमर्मादि त्यक्त्वान्यत्र वसेन्नरः ॥ ३०/१० ॥
त्रिशूले गर्भनाशं स्याच्चतुष्के प्रेष्यनाशनम् ।
मरणं मर्मणि ज्ञेयं सन्धौ मित्रार्थनांशनम् ॥ ३०/११ ॥
चतुष्के नित्यरोगः स्याल्लाङ्गले मित्रनाशनम् ।
मरणं ब्रह्मसूत्रे तु कर्णसूत्रेऽर्थनाशनम् ॥ ३०/१२ ॥
पदप्रस्तरसूत्रे च पुरनाशो भवेद्ध्रुवम् ।
युग्मायुग्मविभागेन विन्यासो विविधो मतः ॥ ३०/१३ ॥
युग्ममार्गास्तु सूत्रस्था अयुग्माः पदमध्यगाः ।
अन्योन्यसङ्करो यस्मादशुभं स्याज्जनेषु च ॥ ३०/१४ ॥
अयं विभागः कथितो वास्तौ दण्डकसंज्ञके ।
ब्रह्मस्थाने सभादीनि कल्पयेद्विधिना बुधः ॥ ३०/१५ ॥
सोमेशानान्तरे सूत्रं याम्यनैरृतमध्यमे ।
तन्मुक्त्वा पार्श्वयोः कार्यं सभास्थानसमृद्धये ॥ ३०/१६ ॥
व्यपोह्य मध्यमं भागं वापीकूपञ्च मण्टपम् ।
वायव्ये नैरृते चैशे कुर्याद्वै देवतालयम् ॥ ३०/१७ ॥
ऐशं चेदीशभागे तु चान्यस्मिन् वैष्णवं भवेत् ।
ब्राह्मं वा मध्यमे भागे पीठं वा परिकल्पयेत् ॥ ३०/१८ ॥
ग्रामादेर्ब्रह्मसूत्रस्य पश्चिमायां विशेषतः ।
उत्तरे मानुषे भागे विष्णुं संस्थापयेद्बुधः ॥ ३०/१९ ॥
यमस्य पूर्वसूत्रे स्यान्मानुषे स्कन्द एव च ।
इन्द्रसूत्रादुदीच्यां तु सूर्यं संस्थापयेत्सुधीः ॥ ३०/२० ॥
सोमसूत्रं ततः पूर्वे मानुषे च विनायकम् ।
दुर्गा वा तत्र कर्तव्या स्कन्दपार्श्वेऽथवा भवेत् ॥ ३०/२१ ॥
बहिर्मङ्गलवीथ्यास्तु पैशाचे वा पकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे ग्रामादिविन्यासविधिः अष्टाविंशतितमः पटलः ॥
</poem>
== ब्रह्मदेवपदादिविधिः ==
<poem>
अतः परं प्रवक्ष्यामि ब्रह्मदेवपदादिकम् ।
ग्रामाद्दशनवांशं वा अष्टसप्तांशमेव वा ॥ ३१/१ ॥
कृत्वा बहिश्च पैशाचमन्तर्मानुषमुच्यते ।
तदन्तर्दैविकं प्रोक्तं शिष्टं ब्राह्ममिति स्मृतम् ॥ ३१/२ ॥
ग्रामभूतं तुरीयांशं वस्वग्निमुनिभागिकम् ।
कृत्वा तेष्वेकभागं तु परितो वर्धयेद्गुरुः ॥ ३१/३ ॥
बहिर्मार्गमिति ज्ञेयं बाह्यं पैशाचमेव हि ।
दैवमानुषभागे तु वर्णानां वास इष्यते ॥ ३१/४ ॥
ब्रह्मपैशाचभागे तु देवतागारमिष्यते ।
पैशाचे न च कर्तव्यो वासः कर्मोपजीविनाम् ॥ ३१/५ ॥
अथवान्यप्रकारेण कथ्यते पण्डितोत्तमाः ।
वर्णानां वास इत्युक्ते ब्रह्मपैशाचिकांशके ॥ ३१/६ ॥
पदे पैशाचिके कुर्याद्दैवज्ञभिषजां गृहम् ।
अन्येषां कर्मिणां गेहं वास्तुपैशाचिके मतम् ॥ ३१/७ ॥
चिकित्सकानां वेश्म स्याद्ग्राममध्ये बहिस्तु वा ।
देवालयस्य पार्श्वे तु पूजकानां गृहं भवेत् ॥ ३१/८ ॥
बाह्ये पैशाचिके शास्ता रुद्रो मोटी च मातरः ।
अन्येषां वास्तुदेवानां पदपैशाचिके पदम् ॥ ३१/९ ॥
बाह्ये वाऽभ्यन्तरे वापि गणेशस्कन्दयोर्गृहम् ।
॥ इति कामिकाख्ये महातन्त्रे ब्रह्मदेवपदादिविधिः एकोनत्रिंशः पटलः ॥
</poem>
== ग्रामाद्यङ्गस्थाननिर्णयविधिः ==
<poem>
इदानीं संप्रवक्ष्यामि स्थानान्यङ्गोपजीविनाम् ।
दैवज्ञो गणको वैद्यस्त्वम्बष्ठो भेषजप्रदः ॥ ३२/१ ॥
विषापहः कर्मकारो दैवो ग्रामाङ्गमष्टधा ।
वणिजश्च कुलालाश्च नापिताः पुष्पजीविनः ॥ ३२/२ ॥
वादित्रजीविनः प्राणिजीविनश्चक्रजीविनः ।
वैदेहकास्तन्तुवायाः कर्मका रजका अपि ॥ ३२/३ ॥
चण्डाला अपि चेत्येते द्वादशाङ्गोपजीविनः ।
वारुण्यां वणिजां स्थानमिन्द्रदिश्यथवा भवेत् ॥ ३२/४ ॥
कुलालस्थानमैशान्यां सौम्ये चेन्द्रस्य वा दिशि ।
नापितानां द्वयेपि स्यादग्नेरिन्द्रस्य वा दिशि ॥ ३२/५ ॥
ऐशान्यामिष्यते पुष्पजीविनां स्थानमत्र तु ।
वादित्रजीविनां स्थानं सोमदेशे च कल्पितम् ॥ ३२/६ ॥
वारुण्यामथ वायव्यां नैरृत्यां प्राणिजीविनाम् ।
याम्यायां दिशि सौम्यायां चक्रिणां स्थानमिष्यते ॥ ३२/७ ॥
वैदेहकानां वायव्यां स्थानं प्रोक्तं शिवागमे ।
प्रोक्तं तु तन्तुवायानां स्थानं याम्यदिशि स्थितम् ॥ ३२/८ ॥
जात्युत्कर्षवशेनैव स्थानं युक्त्या प्रकल्पयेत् ।
उत्कृष्टानां समीपे स्यान्निकृष्टानां तु दूरतः ॥ ३२/९ ॥
आग्नेययामथ वायव्यां शतदण्डं व्यपोह्य तु ।
कर्मकाणां निवासः स्याद्रजकानां ततो बहिः ॥ ३२/१० ॥
चण्डालानां तु कर्तव्यं पूर्वस्यां विदिशासु च ।
चण्डालानां कुटीराणि क्रोशबाह्ये प्रकल्पयेत् ॥ ३२/११ ॥
ऐशान्यामथ वायव्यां श्मशानं प्राचि वोत्तरे ।
नद्यादौ विद्यमाने तु श्मशानं तीरदेशके ॥ ३२/१२ ॥
प्राच्यां प्रतीच्यां वायव्यां ऐशान्यां सोमदिश्यथ ।
तटाकं कारयेत्कूपमन्यदिक्षु विवर्जयेत् ॥ ३२/१३ ॥
गोशाला दक्षिणे देशे पुष्पवाटी तथोत्तरे ।
अथवा सर्वकाष्ठासु वापीकूपतटाककाः ॥ ३२/१४ ॥
वैश्यानां परितो वासः शूद्राणां पितृके भवेत् ।
चण्डालकर्मकाराणां श्मशानोदक्प्रदेशयोः ॥ ३२/१५ ॥
हीनत्वपरिवृत्तिश्च ग्रामाङ्गानां विशेषतः ।
देववेश्मगृहादीनां मार्गस्य च विशेषतः ॥ ३२/१६ ॥
शोध्यानां संशये मार्गे निक्षिपेच्छून्यदेशके ।
श्लेष्मातकं वटञ्चापि कटकञ्चाप्युदुम्बरम् ॥ ३२/१७ ॥
आरग्वधं तथाश्वत्थं निम्बं प्लक्षञ्च वर्धयेत् ।
प्रदक्षिणक्रमादेतानीशानाद्यष्टदिक्ष्वपि ॥ ३२/१८ ॥
वृक्षा स्थाप्या बहिर्वास्तौ चैत्यवृक्षा भवन्त्यमी ।
एते दोषहराः प्रोक्ता गामादीनां विशेषतः ॥ ३२/१९ ॥
सहस्रादधिके विप्रे विप्रशक्त्या न दोषयुक् ।
बहिर्भङ्गलवीथ्यां तु पादपादार्धवर्धनात् ॥ ३२/२० ॥
वर्णान्तरगृहारामान्तरितामरमन्दिरम् ।
चतुरादिचतुष्पञ्चदण्डार्धार्धपदं पुनः ॥ ३२/२१ ॥
नीत्वा गृहवशात्कार्यं सप्रकारं सुरालयम् ।
एवं तु रौद्रदेवानां विमानं परिकल्पयेत् ॥ ३२/२२ ॥
॥ इति कामिकाख्ये महातन्त्रे ग्रामाद्यङ्गस्थाननिर्णयविधिस्त्रिंशः पटलः ॥
</poem>
== गर्भन्यासविधिः ==
<poem>
गर्भन्यासविधिं वक्ष्ये ग्रामादीनां च सद्मनाम् ।
सगर्भं सर्वसम्पत्यै विगर्भं नाशनं भवेत् ॥ ३३/१ ॥
तस्मात्सर्वप्रयत्नेन गर्भं संस्थापयेत्सुधीः ।
देवतास्थापनात्पूर्वं स्थापनं चोत्तमं भवेत् ॥ ३३/२ ॥
देवतास्थापनस्यान्ते स्थापनं मध्यमं भवेत् ।
ग्रामविन्यासमारभ्य चैकाब्दादूर्ध्वकालके ॥ ३३/३ ॥
स्थापनं कन्यसं प्रोक्तं ग्रामादीनामिति स्मृतम् ।
पुर्वोक्ते तु शिवे काले सितपक्षे विशेषतः ॥ ३३/४ ॥
ग्रामादीनां तु रात्रौ स्यात्सद्मनस्तु दिवापि वा ।
नागयोगे दिवा वापि ग्रामगर्भं तु विन्यसेत् ॥ ३३/५ ॥
नक्तं न्यसेन्नराणां तु देवानां तु दिवापि वा ।
गृहिणीं गर्भिणीं कर्तुं यदि गर्भं न निक्षिपेत् ॥ ३३/६ ॥
हेमाकारेण ताम्रेण फेलां वा कारयेद्बुधः ।
चतुरङ्गुलमारभ्य चैकाङ्गुलविवर्धनात् ॥ ३३/७ ॥
चतुर्विंशतिकायामविस्तारः परिकीर्तितः ।
तदर्धं स्यात्समुत्सेधं त्रिपादं वाथ तत्समम् ॥ ३३/८ ॥
फेलोत्सेधस्त्रिपादं स्यात्पिधानस्य समुच्छ्रयः ।
सभागं वा द्विभागं वा वाणभागे द्विभागकम् ॥ ३३/९ ॥
यवमेकं समारभ्य यवार्धेन तु वर्धयेत् ।
घनं पञ्चयवार्धं तु भित्तीनां परिकल्पयेत् ॥ ३३/१० ॥
कोष्ठवृद्धिस्तदर्धं स्यात्त्र्यंशकं सर्वमेव वा ।
पादा अष्टांशका वापि चोच्छ्रायेण घनेन च ॥ ३३/११ ॥
फेला पञ्चाङ्गुला प्रोक्ता गृहाणां नाधिका भवेत् ।
सपञ्चपञ्चकोष्ठं वा नवकोष्ठयुतं तु वा ॥ ३३/१२ ॥
वृत्तं वा चतुरश्रं वा कल्पयेद्देशिकोत्तमः ।
शिलामयं तु वा पात्रं यवार्धेनाङ्गुलानि च ॥ ३३/१३ ॥
घनार्धं कल्पयेद्धीमान् शङ्खे वाथ करण्डके ।
रत्नानि धातुकादीनि स्वल्पविस्तारभाजने ॥ ३३/१४ ॥
तद्देवस्थानभावज्ञस्तानि तानि निवेशयेत् ।
एवं ज्ञात्वा तु मतिमान् गर्भस्थापनमारभेत् ॥ ३३/१५ ॥
घृष्ट्वा बहिर्मलं शोध्य प्रक्षाल्याम्लेन वारिणा ।
पञ्चगव्येन संप्रोक्ष्य पुण्याहं वाचयेत्ततः ॥ ३३/१६ ॥
मङ्गलाङ्कुरकार्यं तु विधिना कारयेद्बुधः ।
गर्भस्थाने हृहे वापि ग्रामे गर्भाधिवासनम् ॥ ३३/१७ ॥
विमानस्योत्तरे चैन्द्रे चान्येषामधिवासनम् ।
दशरन्ध्राब्धिहस्तैर्वा विस्तृतं मण्टपं नयेत् ॥ ३३/१८ ॥
तन्मध्ये वेदिकां कुर्यात्तत्रिभागैकभागतः ।
तालमात्रसमुत्सेधं तस्यां दिक्षु चतसृषु ॥ ३३/१९ ॥
चतुरश्राणि कुण्डानि प्रत्येकं हास्तिकानि तु ।
सयोन्यश्राणि कुण्डानि चैकं वा पूर्वतः स्थितम् ॥ ३३/२० ॥
वितानध्वजसंयुक्तं दर्भमालाभिरावृतम् ।
पुष्पमालासमायुक्तं द्वारतोरणसंयुतम् ॥ ३३/२१ ॥
मङ्गलाङ्कुरसंयुक्तं पद्मेन महतावृतम् ।
मण्डपं भूषयित्वैवं पुनः पुण्याहमाचरेत् ॥ ३३/२२ ॥
ब्राह्मणान् भोजयेत्तत्र तद्दिनात्प्राग्दिनत्रयम् ।
शालिभिश्च दशद्रोणैः स्थण्डिलं तण्डुलैस्तिलैः ॥ ३३/२३ ॥
कृत्वालिख्याष्टदिक्पत्रं कर्णिकाकेसरैर्युतम् ।
दर्भैरपि परिस्तीर्य स्थण्डिलं पूजयेद्गुरुः ॥ ३३/२४ ॥
वेद्याः पश्चिमभागे तु गोमयालेपिते शुभे ।
चित्रिते शालिपिष्टैश्च चतुरश्रां समन्ततः ॥ ३३/२५ ॥
सप्तद्वीपसमायुक्तां सप्ताम्भोधिसमन्विताम् ।
भूधरैर्दिग्गजैर्युक्तां धात्रीं नागफणस्थिताम् ॥ ३३/२६ ॥
आलिख्य सितफेनैश्च भुवनाध्वक्रमान्विताम् ।
फेलां प्रक्षाल्य गव्यैश्च स्थाप्य चित्रे तु मण्डले ॥ ३३/२७ ॥
देशिकः समलङ्कृत्य वस्त्रैः पञ्चाङ्गभूषणैः ।
सकलीकृतदेहस्तु गन्धैः पुष्पैर्विभूषितः ॥ ३३/२८ ॥
प्राङ्मुखः प्रयतो भूत्वा विन्यसेदक्षराणि तु ।
मध्यकोष्ठे न्यसेत्कूटं बिन्दुनादसमन्वितम् ॥ ३३/२९ ॥
पूर्वाद्यष्टसु कोणेषु यादिहान्ताश्च विन्यसेत् ।
अकारादि विसर्गान्तान् बाह्यकोणेषु विन्यसेत् ॥ ३३/३० ॥
त्रिलोचनं चतुर्बाहुं वरदाभयपाणिनम् ।
शूलटङ्कधरं सौम्यं जटाचन्द्रविभूषितम् ॥ ३३/३१ ॥
एवं तु भाजनं ध्यात्वा पश्चाद् द्रव्याणि विन्यसेत् ।
प्राङ्मुखोदङ्मुखो भूत्वा मृदादीनि तु विन्यसेत् ॥ ३३/३२ ॥
अन्तरावरणे प्राच्यां सामुद्रीं विन्यसेन्मृदम् ।
नादेयीमथ ताटाकीं दर्भमूलगतामपि ॥ ३३/३३ ॥
कुलीरावृतकां चापि वल्मीकवृषशृङ्गजाम् ।
गजदन्तगतां चापि क्रमादेता मृदो न्यसेत् ॥ ३३/३४ ॥
पूर्वादिक्रमयोगेन चाष्टौ चाष्टदिशासु च ।
संयोज्य ता मृदश्चाष्टौ सर्वा ब्राह्मपदे न्यसेत् ॥ ३३/३५ ॥
अथ पञ्चमृदो वापि विन्यसेदनुपूर्वशः ।
वृषशृङ्गे हस्तिदन्ते दर्भमूले जलान्तरे ॥ ३३/३६ ॥
नद्यास्तीरे च पञ्चैता मध्ये दिक्षु मृदो न्यसेत् ।
पङ्कजोत्पलकल्हारकन्दाश्च कुमुदस्य वै ॥ ३३/३७ ॥
रक्तोत्पलस्य श्वेतस्य पद्मस्य च कशेरुणः ।
तथा कुवलयस्यापि तत्रैवावरणे पुनः ॥ ३३/३८ ॥
सर्वांश्च मध्यमे कन्दान् सर्वलोकेशमण्डले ।
विन्यसेदानुपूर्व्येण तद्वाह्ये चाष्टमङ्गलम् ॥ ३३/३९ ॥
श्रीवत्सं पूर्णकुम्भं च भेरीं दर्पणमेव च ।
मत्स्ययुग्माङ्कुशौ चैव शङ्खकेसरिणौ तथा ॥ ३३/४० ॥
इन्द्रादिषु क्रमेणैव न्यसेदिन्द्रादिमन्त्रकैः ।
वज्रप्रवालनीलेन्द्रनीलमौक्तिकपुष्यकान् ॥ ३३/४१ ॥
प्रोक्ताब्जरागवैडूर्यं दीप्तशक्तिं स्म?रन्न्यसेत् ।
अथवा पञ्चरत्नानि विन्यसेदानुपूर्वशः ॥ ३३/४२ ॥
माणिक्यं चेन्द्रनीलं च वैडूर्यं च प्रवालकम् ।
मुक्तां मध्ये चतुर्दिक्षु पञ्चब्रह्माण्यनुस्मरन् ॥ ३३/४३ ॥
हरितालशिलाकाङ्क्षितालसूतानि गैरिकान् ।
धातून् सुगन्धशृङ्गाख्यान् धृतिवीर्यात्मकान्न्यसेत् ॥ ३३/४४ ॥
हेमारुणानमेयांकाह्लादतारध्वनि पन्नगान् ।
प्रोक्तें मध्येऽखिलान्येव देहशक्तिं स्मरन् न्यसेत् ॥ ३३/४५ ॥
बाह्ये त्वावरणे दिक्षु चान्तराले तु षोडश ।
बीजानि व्रीहिगोधूमतिलमाषान् प्रदक्षिणम् ॥ ३३/४६ ॥
मुद्गं च यवनीवारश्यामाकानन्तरेऽखिलान् ।
न्यसेत्तृप्त्यात्मकानेतान् मन्त्रैर्लोकेशवाचकैः ॥ ३३/४७ ॥
सौवर्णशालिकं रौप्यव्रीहिं चापि सकोद्रवम् ।
त्रपुणा कङ्कुसीसेन मांसपुष्पायसांस्तिलान् ॥ ३३/४८ ॥
मुद्गं चायोमयं ताम्रं निमित्तं च कुलुत्थक्रम् ।
विष्णुक्रान्तित्रिशूलीश्रीः सहापूर्वां च भृङ्गकम् ॥ ३३/४९ ॥
अपामार्गैकपत्राब्जमोषधीः प्राक्क्रमान्न्यसेत् ।
चन्दनागरुकर्पूरलवङ्गैलालताफलम् ॥ ३३/५० ॥
तक्वोलेनाष्टगन्धांस्तु न्यसेत्पूर्वादिषु क्रमात् ।
सर्वेषामापि सामान्यं तत्तच्चिह्नैस्तु वक्ष्यते ॥ ३३/५१ ॥
कपालशूलखट्वाङ्गान् परशुं वृषभं तथा ।
पिनाकं हरिणं पाशं हैमं शैवे तु विन्यसेत् ॥ ३३/५२ ॥
यस्य देवस्य यच्चास्त्रं तदस्त्रं मध्यमे न्यसेत् ।
भूसुराणां हितार्थाय यज्ञसूत्रं कमण्डलुम् ॥ ३३/५३ ॥
स्रुवं च प्रणवाकारं सौवर्णं मध्यमे न्यसेत् ।
रथं गजं हयं चैव शार्दूलं चापमेव च ॥ ३३/५४ ॥
क्षुरिकां च सुवर्णेन विन्यसेन्नृपदेशके ।
तुलां च मानपात्रं च महिषं गोवृषद्वयम् ॥ ३३/५५ ॥
सौवर्णं मध्यमे कोष्ठे विन्यसेद्वैश्यभागके ।
वृषं हलयुगं चैव युग्ममत्स्यं तु शालिकम् ॥ ३३/५६ ॥
सौवर्णं मध्यमे देशे शूद्रस्थाने प्रकल्पयेत् ।
स्थालीं तदुपधानं च दर्वीकं तण्डुलं घटम् ॥ ३३/५७ ॥
गलाख्यं दण्डकाष्ठं च कृष्णलोहे महानसे ।
दक्षिणे भवने कुम्भं सुशाल्युदकपूरितम् ॥ ३३/५८ ॥
धनसद्मनि गर्भस्तु सार्गला कुञ्चिका भवेत् ।
पर्यङ्कदीपशयने गर्भं विद्यात्सुखालये ॥ ३३/५९ ॥
माषमानं समारभ्य पलान्तं द्रव्यमानकम् ।
चतुष्पदाश्च देवाश्च संस्थाप्याभ्यन्तराननाः ॥ ३३/६० ॥
पादाङ्गुलं समारभ्य पादाङ्गुलविवर्धनात् ।
अष्टाङ्गुलप्रमाणेन बिम्बोत्सेधाः प्रकीर्तिताः ॥ ३३/६१ ॥
तदर्धा वाहनोत्सेधास्त्वासीना वा स्थितास्तु वा ।
एवं द्रव्याणि विन्यस्य पिधायैशानमन्त्रतः ॥ ३३/६२ ॥
वस्त्रयुग्मेन संवेष्ट्य कुशैश्चावेष्ट्य पूजयेत् ।
गन्धपुष्पाक्षतैर्धूपैर्दीपनैवेद्यकादिभिः ॥ ३३/६३ ॥
फेलामुद्धृत्य हस्ताभ्यां विन्यसेत्स्थण्डिलोपरि ।
आचार्यो मूर्तिपैः सार्धं होमकर्म समाचरेत् ॥ ३३/६४ ॥
वस्त्रहेमाङ्गुलीयादिभूषितैः सोत्तरीयकैः ।
विधिनाग्निमुखं कृत्वा ततो द्रव्याणि होमयेत् ॥ ३३/६५ ॥
पलाशोदुम्बराश्वत्थन्यग्रोधाः प्राग्दिगादिभिः ।
समिदाज्यचरून् लाजान् सर्षपांश्च यवांस्तिलान् ॥ ३३/६६ ॥
प्रत्येकं शिवमन्त्रेण शतमर्धं तदर्धकम् ।
शिवाद्दशांशतोऽङ्गानि तर्पयित्वा यथाविधि ॥ ३३/६७ ॥
पूर्णाहुतिं ततो हुत्वा वौषडन्तं शिवाणुना ।
सेश्वराणि त्रितत्वानि मूर्तिमूर्तीश्वरान्न्यसेत् ॥ ३३/६८ ॥
फेलायां पुष्पगन्धाद्यैः पूजयेत्तर्पयेत्ततः ।
संपदा संस्कृतं कृत्वा दशधा मूलमन्त्रतः ॥ ३३/६९ ॥
द्रव्यन्यासं समारभ्य गर्भसंस्थापनान्तकम् ।
ऋगाद्यध्ययनं कार्यं कोणेष्वस्त्रजपो भवेत् ॥ ३३/७० ॥
ग्रामादिसर्ववास्तूनां गर्भस्थानान्यमूनि हि ।
ब्रह्मण्यर्यमभागे तु विवस्वति यमे तथा ॥ ३३/७१ ॥
इन्द्रे च वरुणे चैव सोमे च पृथिवीधरे ।
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ॥ ३३/७२ ॥
सौम्यदेवग्रहे चापि ग्रामादौ स्थापयेत्सुधीः ।
कृत्वावटं तु तत्रैव नयेदञ्जलिमात्रतः ॥ ३३/७३ ॥
शिरोन्तं वाथं कर्णान्तं हदयान्तं प्रकल्पयेत् ।
षडङ्गुलप्रमाणं तु चतुर्विंशाङ्गुलान्तकम् ॥ ३३/७४ ॥
भाजनस्य समन्तात्तु सावकाशसमन्वितम् ।
तथाश्मना चेष्टकया फेलाकारं तु गर्तकम् ॥ ३३/७५ ॥
गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः ।
पञ्चगव्येन संप्रोक्ष्य तन्मध्येऽष्टमृदो न्यसेत् ॥ ३३/७६ ॥
शेषनागोर्ध्वभूमीषु सप्तद्वीपार्णवां भुवम् ।
दिग्गजैर्भूधरैर्युक्तां गन्धपुष्पादिभिर्यजेत् ॥ ३३/७७ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
अधमा पञ्चनिष्कं तु द्विगुणा मध्यमा भवेत् ॥ ३३/७८ ॥
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ।
गोभूमिदासधान्यादिगृहोपकरणानि च ॥ ३३/७९ ॥
दापयित्वा विशेषेण देशिकं तोषयेत्ततः ।
अध्येतृमूर्तिपांश्चैव दैवज्ञं पूजयेत्ततः ॥ ३३/८० ॥
संपूज्य स्थपतिं तत्र वस्त्राभरणकैरपि ।
ध्यात्वा सदाशिवं रूपं मूलमन्त्रं समुच्चरेत् ॥ ३३/८१ ॥
फेलायाः प्राङ्मुखो भूत्वा स्थापयेदादिशैवकः ।
पांसुना पूरयेद्गर्तं सुस्निग्धं सुदृढं नयेत् ॥ ३३/८२ ॥
सभां वा कल्पयेदूर्ध्वं बिम्बं वोपरि कल्पयेत् ।
शिवादीनां च देवानां देवीनां द्वारदक्षिणे ॥ ३३/८३ ॥
स्तम्भमूले तथा योगे गर्ते गर्भं निधापयेत् ।
होमस्तम्भवति स्तम्भे पादकूर्चावृतेरधः ॥ ३३/८४ ॥
तस्मादत्युन्नतो निम्नो गर्भः सम्पद्विनाशकृत् ।
अथवा ब्रह्मगर्भं तु ब्रह्मस्थाने निधापयेत् ॥ ३३/८५ ॥
सभाप्रपामण्डपानां कर्णपादे प्रदक्षिणे ।
द्वितीयस्तम्भके द्वारदक्षिणाङ्घ्रौ तु विन्यसेत् ॥ ३३/८६ ॥
गर्भं नाट्यसभायां चेत् प्रक्षिपेत्कुटिकामुखे ।
मण्डितस्तम्भमूले तु गर्भं संस्थापयेत्सुधीः ॥ ३३/८७ ॥
गेहगर्भे सभाभागे द्वारस्तम्भे विधीयते ।
चूलिकाकारपादे वा तस्या गर्भो विधीयते ॥ ३३/८८ ॥
तुलाभाराभिषेकार्थं मण्डपेऽपि तथा भवेत् ।
सर्वेषां मण्डपानां च गर्भस्थानं प्रकथ्यते ॥ ३३/८९ ॥
द्वारदक्षिणपादे वा वामस्तम्भेऽथवाङ्कणे ।
पूर्वोक्तकर्णपादे वा द्वारदक्षिणयोगके ॥ ३३/९० ॥
मण्डपस्तम्भमूले तु प्रथमावरणे न्यसेत् ।
पादबन्धविमाने तु गेहगर्भोपरि न्यसेत् ॥ ३३/९१ ॥
प्रतिबन्धविमाने तु वृतेरुपरि विन्यसेत् ।
वृतेरुपरि विप्राणां कुमुदोपरि भूभृताम् ॥ ३३/९२ ॥
जगत्युपरि वैश्यानां शूद्राणां पादुकोपरि ।
सर्वेषां भूगतं कार्यं सर्वसिद्धिकराय च ॥ ३३/९३ ॥
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
दक्षिणे नेत्रभितौ तु सौम्यादौ तु चतुर्गृहे ॥ ३३/९४ ॥
द्वारप्रदक्षिणस्तम्भयोगे वापि विधीयते ।
परिवारालयानां तु मूलवत्कर्म चाचरेत् ॥ ३३/९५ ॥
शालानां तु चतुष्कोणेष्विष्टदेशे प्रगृह्यताम् ।
मालिकायुक्तशालं चेत्कोणस्तम्भे द्वितीयके ॥ ३३/९६ ॥
प्रथमावरणे वापि द्वितीयावरणे न्यसेत् ।
स्थित्वा बहिर्बहिः प्रेक्ष्य वामावामे विकल्प्य च ॥ ३३/९७ ॥
अन्तर्बहिर्मुखं गर्भं वास्तुमध्ये प्रयोजयेत् ।
आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ॥ ३३/९८ ॥
गोपुराणां च सर्वेषां प्रवेशस्य प्रदक्षिणे ।
स्वाम्याख्यरङ्गहीनानां शालानां नेत्रभित्तिके ॥ ३३/९९ ॥
तद्युक्तानां च सर्वेषां पादमूले निवेशयेत् ।
अथवा मध्यभित्तौ स्याद्द्वारसव्येऽथ मध्यमे ॥ ३३/१०० ॥
वासस्य पञ्चस्थानानि शालासु च गृहेषु च ।
वापीकूपतटाकादौ दीर्घिकासेतुबन्धने ॥ ३३/१०१ ॥
गर्भं चेत्तदुदग्भागे पूर्वस्यां वाथ विन्यसेत् ।
वास्तुपूजा च होमञ्च गर्भन्यासे विधीयते ॥ ३३/१०२ ॥
गोपुरं परिवारं च मूलवास्तुनिरीक्षणम् ।
मण्डपानां मुखं शास्त्रे सर्वस्मिन् परिकीर्तितम् ॥ ३३/१०३ ॥
भित्तिव्यासेन चाष्टांशे बहिरंशचतुष्टयम् ।
अन्तस्त्रीनन्तरे नीत्वा गर्भं सम्यग्विनिक्षेपेत् ॥ ३३/१०४ ॥
॥ इति कामिकाख्ये महातन्त्रे गर्भन्यासविधिः एकत्रिंशत्तमः पटलः ॥
॥ बालस्थापनविधिः ॥
अथ वक्ष्ये विशेषेण बालगेहस्य लक्षणम् ।
बालस्थानं विना विद्वान् मूलस्थानं न कारयेत् ॥ ३४/१ ॥
बाललिङ्गादिहीनं तु मूललिङ्गादिकं नहि ।
अयं विभागो ग्रामस्य प्रारम्भेऽन्यत्र चान्यथा ॥ ३४/२ ॥
बाललिङ्गादिहीनं वा तद्युक्तं वा समाचरेत् ।
मूलस्थानस्य चैशान्यामुत्तरे पूर्वयाम्ययोः ॥ ३४/३ ॥
आग्नेययामिष्टदेशे वा कुर्याद्बालगृहं गुरुः ।
नवदण्डं व्यपोह्यैव कुर्याद्धाम महान्तरम् ॥ ३४/४ ॥
त्रियुगेन्द्रियषढ्ढस्तैः सप्तहस्तेन वा गृहम् ।
यद्वा करद्वयेनैव मूलस्थानं प्रकल्पयेत् ॥ ३४/५ ॥
बालस्थानमथार्धेन गर्भगेहात्तथा भवेत् ।
मूलभागविशालेन भित्तिर्द्वित्रिगुणा मता ॥ ३४/६ ॥
शेषं तु गर्भगेहस्य मण्डपं वा सभाकृति ।
तस्य गर्भगृहार्धं तु हीनमध्यार्धकं तु यत् ॥ ३४/७ ॥
उत्कृष्टमध्यमाष्टांशे नन्दमानं प्रकीर्तितम् ।
लिङ्गायामं सुवृत्तं स्यान्नाहायामौ समौ मतौ ॥ ३४/८ ॥
चित्राहिशिरसोपेतं सूत्रहीनं तु कारयेत् ।
नवाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ३४/९ ॥
त्रयस्त्रिशाङ्गुलं यावद्बाललिङ्गं तु वा भवेत् ।
तल्लिङ्गं त्रिचतुर्भागमानेन तु निवेशयेत् ॥ ३४/१० ॥
मूलोदयसमं श्रेष्ठं मध्यहीनमधोन्तरम् ।
वसुधा भाजिते तत्र नवलिङ्गोच्छ्रया मताः ॥ ३४/११ ॥
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
तरुणप्रतिमानां तु नवधा मानमीरितम् ॥ ३४/१२ ॥
सकले सकलं कुर्यान्निष्कले चैव निष्कलम् ।
मूलबिम्बार्धमानं तु श्रेष्ठं वेदांशमानतः ॥ ३४/१३ ॥
हीनमष्टांशके मध्ये नवमानं तु बेरकम् ।
निष्कलस्य विशालेन चासनं चोत्तमं भवेत् ॥ ३४/१४ ॥
हीनं स्याच्चतुरंशेन मध्यमे नवमानकम् ।
लिङ्गमानवशेनापि पीठं तु परिकल्पयेत् ॥ ३४/१५ ॥
लोहोपलकुजैर्बाललिङ्गबेरं विधीयते ।
क्षीरवृक्षैः पलाशैर्वा वटोदुम्बरपिप्पलैः ॥ ३४/१६ ॥
मधूकपनसप्लक्षैः सालचन्दनखादिरैः ।
सरलामरवृक्षाभ्यां लिङ्गबेरं समाचरेत् ॥ ३४/१७ ॥
हर्म्यारम्भे च जीर्णे च भिन्ने च विकलाङ्गके ।
स्फोटनादिषु दोषेषु बालस्थानं तु कारयेत् ॥ ३४/१८ ॥
प्रागेव द्वादशाब्दात्तु चालने लिङ्गबेरयोः ।
तदूर्ध्वं नेष्टमन्यत्र तत्रैव स्थापयेत्सुधीः ॥ ३४/१९ ॥
बालालयाग्रे कर्तव्यं मण्डपं चतुरश्रकम् ।
तत्समं वा तदर्धं वा त्रिपादं वाग्रमण्डपम् ॥ ३४/२० ॥
पक्वेष्टकाशिलाद्याभिर्दृढं कुर्याद्यथाविधि ।
विस्तारसमतुङ्गाढ्यं दण्डिकाचूलिकान्वितम् ॥ ३४/२१ ॥
मूलहर्म्यं यथाद्वारं तथैव तरुणालये ।
तुर्याश्रमष्टवृत्तं वा त्रिधा पीठाकृतिर्मता ॥ ३४/२२ ॥
लिङ्गनाहं तु विस्तारं पीठं वार्धोन्नतिर्मता ।
इष्टकाभिः सुपक्वाभिः लिङ्गं स्यात्सुधया मृदा ॥ ३४/२३ ॥
रत्नन्यासो न कर्तव्यः पादशैलादिकं नहि ।
प्रागेव कुर्यात्तद्धीमान् विधिना चाङ्कुरार्पणम् ॥ ३४/२४ ॥

दशरन्ध्राष्टहस्तैर्वा मण्डपः सप्तहस्ततः ॥ ३४/२५ ॥
विस्तारस्तम्भसंयुक्तं भानुस्तम्भयुतं तु वा ।
पङ्क्तित्रयसमायुक्तं चतुरश्रं सतोरणम् ॥ ३४/२६ ॥
दर्भमालासमायुक्तं वितानाद्यैः समन्वितम् ।
मध्यांशे वेदिकां कुर्यात्तच्चतुर्थांशकोन्नतम् ॥ ३४/२७ ॥
वस्वङ्गुलं तु विस्तारमुत्सेधश्चतुरङ्गुलः ।
तस्याश्च परितश्चाष्टदिक्षु कुण्डानि कल्पयेत् ॥ ३४/२८ ॥
दिशासु चतुरश्राणि कोणेष्वब्जानि कल्पयेत् ।
ईशानशक्रयोर्मध्ये प्रधानं वृत्तकुण्डकम् ॥ ३४/२९ ॥
अथवा पञ्चकुण्.डानि चैकं वा पूर्वतः स्थितम् ।
मण्डपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत् ॥ ३४/३० ॥
पश्चाच्छिल्पिनमुद्वास्य पुण्याहं वाचयेत्ततः ।
जलमध्ये प्रपां कुर्यात्सर्वलक्षणसंयुताम् ॥ ३४/३१ ॥
प्रक्षाल्य पञ्चगव्येन लिङ्गं चास्त्रेण देशिकः ।
शुद्धतोयेन गन्धाद्यैः संस्नाप्य च हृदार्चयेत् ॥ ३४/३२ ॥
वस्त्रयुग्मेन संवेष्ट्य लम्बकूर्चसमन्वितम् ।
जले तु शाययेल्लिङ्गं सद्येनैव कुशोपरि ॥ ३४/३३ ॥
त्रिरात्रं द्व्येकरात्रं वा वेदयामावसानकम् ।
प्रभूतपञ्चगव्येन स्नपनं वा समाचरेत् ॥ ३४/३४ ॥
परितः कलशानष्टौ लोकपालाधिदैवतान् ।
सवस्त्रान्सहिरण्यांश्च ससूत्रान् सापिधानकान् ॥ ३४/३५ ॥
ब्राह्मणान् भोजयेत्तत्र मण्डपे समलङ्कृते ।
वास्तुहोमं ततः कुर्यात्प्रासादे मण्डपेऽपि वा ॥ ३४/३६ ॥
पर्यग्निकरणं कृत्वा वास्तुहोमस्थवह्निना ।
जलादानीय लिङ्गं तु स्नानश्वभ्रोपरि न्यसेत् ॥ ३४/३७ ॥
वस्त्रं विसृज्य लिङ्गे तु पूर्ववच्छुद्धिमाचरेत् ।
कौतुकं बन्धयेद्धीमान् हृदयेन तु मन्त्रतः ॥ ३४/३८ ॥
वस्त्रेण वेष्टयेल्लिङ्गं वामदेवेन देशिकः ।
शालिभिर्वेदिकामध्ये अष्टद्रोणार्धनिर्मितैः ॥ ३४/३९ ॥
तण्डुलैश्च तिलैर्दर्भैः पुष्पैश्च सुपरिस्तरेत् ।
शयनं कल्पयेन्मध्ये चर्मजाद्यैरनुक्रमात् ॥ ३४/४० ॥
सर्वातोद्यसमायुक्तं स्तोत्रमङ्गलवाचकैः ।
सर्वलक्षणसंयुक्तस्त्वादिशैवः सशिष्यकः ॥ ३४/४१ ॥
दिव्यगन्धानुलिप्ताङ्गः पुष्पमालाविभूषितः ।
शुक्लवस्त्रश्च सोष्णीषः शुक्लवस्त्रोत्तरीयकः ॥ ३४/४२ ॥
पञ्चाङ्गभूषणोपेतः सकलीकृतविग्रहः ।
ईदृशैर्लक्षणैर्युक्तस्त्वाचार्यश्चोत्तराननः ॥ ३४/४३ ॥
वेद्यूर्ध्वे शाययेल्लिङ्गं प्राक्शिरस्कमधोमुखम् ।
अभ्यर्च्य हृदयेनैव गन्धाद्यैरुपचारकैः ॥ ३४/४४ ॥
द्रोणाम्बुपूरितं सूत्रवेष्टितं कूर्चसंयुतम् ।
पञ्चरत्नसमायुक्तं सापिधानं सवस्त्रकम् ॥ ३४/४५ ॥
शिवकुम्भं न्यसेत्तस्य मूर्ध्नि देशे तु वर्मणा ।
वर्धनीं वामतः स्थाप्य सूत्रकादिभिरन्विताम् ॥ ३४/४६ ॥
शिवमन्त्रं न्यसेद्ध्यात्वा देवदेवं सदाशिवम् ।
अष्टत्रिंशत्कलोपेतं पूजयेन्मूलमन्त्रतः ॥ ३४/४७ ॥
पूजयेत्तु स्वमन्त्रेण वर्धनीं तु मनोन्मनीम् ।
मुकुलीं पद्ममुद्रां च लिङ्गमुद्रां प्रदर्शयेत् ॥ ३४/४८ ॥
अभितस्तु घटानष्टौ द्रौणार्धोदकपूरितान् ।
सूत्रादिभिः समोपेतान् हेमटङ्कसमायुतान् ॥ ३४/४९ ॥
इन्द्रादिषु क्रमेणैव स्थापयेद्देशिकोत्तमः ।
अनन्तादिशिखण्ड्यन्तान् स्वस्वमन्त्रैर्घटेषु च ॥ ३४/५० ॥
विन्यस्य गन्धपुष्पाद्यैर्नैवेद्यान्तं हृदार्चयेत् ।
परिवारघटानष्टौ चोपवेद्युपरि न्यसेत् ॥ ३४/५१ ॥
ऋगाद्यध्ययनं कुर्युः संस्कृता वेदवित्तमाः ।
एको वा सर्ववेदांश्च पठेत्स्वस्वदिशि स्थितः ॥ ३४/५२ ॥
तदभावे त्वजाताद्या जप्तव्या मूर्तिपैः सह ।
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ॥ ३४/५३ ॥
अघोरः सामवेदस्तु अथर्वः पुरुषः स्मृतः ।
अष्टोत्तरसहस्रं वा तदर्धं वा तदर्धकम् ॥ ३४/५४ ॥
अष्टोत्तरशतं वापि जपेद्वैदिकसिद्धये ।
मूर्तिधाराद्यलाभे तु देशिकः सर्वमाचरेत् ॥ ३४/५५ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
खादिराश्वत्थबिल्वाश्च उदुम्बरवटौ तथा ॥ ३४/५६ ॥
मधूकार्कपलाशाश्च समिधः संप्रकीर्तिताः ।
पलाशस्तु प्रधानं च सर्वेषामिध्ममुच्यते ॥ ३४/५७ ॥
समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ३४/५८ ॥
पूर्णाहुतिं ततः कुर्याद्वौषडन्तेन मूलतः ।
शिवाद्दशांशतोऽन्येषां दिक्षु ब्रह्माणि कल्पयेत् ॥ ३४/५९ ॥
विदिक्षु हृदयादीनि मूलार्धं सममेव वा ।
पूर्णाहुतिं ततः कुर्याद्वौषडन्तेन मूलतः ॥ ३४/६० ॥
आत्मतत्त्वादिकान् न्यस्य मूर्तिंमूर्तीश्वरानपि ।
सर्वान् लिङ्गे तु विन्यस्य वह्नावावाह्य होमयेत् ॥ ३४/६१ ॥
पूर्णाहुतिं ततो दद्यान्नयेद्रात्रिं च मङ्गलैः ।
अपरे दिवसे धीमान् सुस्नातो मूर्तिपैः सह ॥ ३४/६२ ॥
सकलीकृतदेहस्तु द्वारद्वाराधिपान् यजेत् ।
संपूज्य देवकुम्भाग्नीन् कुण्डमस्त्रेण चार्चयेत् ॥ ३४/६३ ॥
संस्कृत्य स्रुक्स्रुवाभ्यां तु ब्रह्मादीन् परिधौ यजेत् ।
पूर्णाहुतिं ततो दत्वा मन्त्रानावाह्य तर्पयेत् ॥ ३४/६४ ॥
प्रायश्चित्तास्त्रमन्त्रैस्तु होमं सम्यक् समाचरेत् ।
अघोरेण शतं हुत्वा जयाद्यैर्दुरितक्षये ॥ ३४/६५ ॥
पूर्णाहुतिं ततः कुर्याद्देशिको मूर्तिपैः सह ।
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ३४/६६ ॥
अथवा पञ्चनिष्कं वा द्विगुणा मध्यमा भवेत् ।
त्रिगुणा चोत्तमा प्रोक्ता त्वधमत्रयकल्पने ॥ ३४/६७ ॥
द्विगुणा मध्यमे कल्पे त्रिगुणा चोत्तमे भवेत् ।
दशभागैकभागं तु मूर्तिधारकदक्षिणा ॥ ३४/६८ ॥
तदर्धं मन्त्रजप्तॄणां वैदिकानां तु तत्समम् ।
दैवज्ञे तत्समं विद्याद्द्विगुणं वास्तुहोमिनः ॥ ३४/६९ ॥
आचार्यस्य चतुर्थांशाच्छिल्पिने दक्षिणा मता ।
मुहूर्तनाडिकापूर्वं लिङ्गस्थापनमारमेत् ॥ ३४/७० ॥
उत्थाप्य शयनाल्लिङ्गं बालस्थानं प्रवेशयेत् ।
स्थापयेत्पीठमध्ये तु शिवमन्त्रमुदीरयन् ॥ ३४/७१ ॥
मन्त्रयित्वा त्रिबन्धेन हृदयं मन्त्रमुच्चरन् ।
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत् ॥ ३४/७२ ॥
शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमायुतम् ।
ब्रह्मघोषसमायुक्तं नानाभक्तजनैर्युतम् ॥ ३४/७३ ॥
छत्रध्वजवितानैश्च धूपदीपैः समाकुलम् ।
वर्धन्याः स्रावसहितं मङ्गलाङ्कुरशोभितम् ॥ ३४/७४ ॥
कुम्भानुद्धृत्य शिरसा धृत्वा धामप्रदक्षिणम् ।
कृत्वा गर्भगृहे चैव स्थापयेत्स्थण्डिलोपरि ॥ ३४/७५ ॥
आसनं कल्पयेत्तत्र पूर्वोक्तविधिना सह ।
मूर्ध्नि न्यस्य पवित्राणि नेत्रमन्त्रं च विन्यसेत् ॥ ३४/७६॥
अष्टत्रिंशत्कलान्यासं लिङ्गे तु परिकल्पयेत् ।
ध्यात्वा सदाशिवं तत्र विद्यादेहेन पूजयेत् ॥ ३४/७७ ॥
कुम्भाद्बीजं समादाय लिङ्गमूर्ध्नि शिवं स्मरन् ।
पिण्डिकायां नसेद्बीजं शक्तेर्लिङ्गस्य सौम्यके ॥ ३४/७८ ॥
संस्नाप्य कुम्भवर्धन्यास्तोयैर्लिङ्गं च पीठिकाम् ।
अष्टविद्येश्वरांस्तर पीठे पूर्वादिषु न्यसेत् ॥ ३४/७९ ॥
अर्चनोक्तं समभ्यर्च्य शेषं युक्त्या समाचरेत् ।
परिवारस्य बीजानि स्वस्वस्थानेषु विन्यसेत् ॥ ३४/८० ॥
स्नपनं कारयेत्तोयैः प्रभूतं तु हविर्ददेत् ।
नित्योत्सवादिकान् सर्वान् बालस्थानेऽपि कारयेत् ॥ ३४/८१ ॥
अन्येषामपि देवानां बालस्थानस्य निर्णयम् ।
बेरमानं च हर्म्याद्यं कुर्याद्द्वारेण वर्त्मना ॥ ३४/८२ ॥
नयनोन्मीलनं गव्याभिषेकं शयनं तथा ।
कुम्भसंस्थापनं पूजा होमं च स्थापनादिकम् ॥ ३४/८३ ॥
ध्यानमात्रं च नित्यार्चा निर्मलैः कुसुमादिभिः ।
तत्तद्देवप्रतिष्ठोक्तमार्गेणैव समाचरेत् ॥ ३४/८४ ॥
एतत्सामान्यमुद्दिष्टं विशेषः किञ्चिदस्ति हि ।
द्वितीये स्थापनार्हस्तु पूर्वरात्रौ मुनीश्वराः ॥ ३४/८५ ॥
मूलगेहाग्रके तत्र पूर्ववत्स्थण्डिलोपरि ।
कुम्भं तु स्थाप्य पूर्वोक्तविधिना देशिकाधिपः ॥ ३४/८६ ॥
मूललिङ्गं तु संपूज्य गन्धाद्यैर्हविषा सह ।
प्रणम्य देवदेवेशं कर्ता कर्मविचक्षणः ॥ ३४/८७ ॥
एकवत्सरमारभ्य यावत्स्याद्द्वादशाब्दकम् ।
तेष्वन्तरे नवीकृत्य पुनः संस्थापयाम्यहम् ॥ ३४/८८ ॥
इति विज्ञाप्य तत्कर्ता देशिकेन सहैव तु ।
लिङ्गादेवं समावाह्य कुम्भमध्ये न्यसेद्गुरुः ॥ ३४/८९ ॥
पीठाद्देवीं समावाह्य वर्धन्या मध्यमे न्यसेत् ।
तदग्रे स्थण्डिलं कृत्वा प्राग्वदग्निमुखं नयेत् ॥ ३४/९० ॥
समिदाज्यान्नलाजैश्च तिलैरष्टोत्तरं शतम् ।
मूलेन होमयेद्विद्वानङ्गानां च दशांशतः ॥ ३४/९१ ॥
त्रिर्मधुप्लुतदूर्वाभिर्मृत्युजिन्मन्त्रमुच्चरन् ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ३४/९२ ॥
एवं हुत्वा तदन्ते तु क्षणहोमं समाचरेत् ।
वारैश्च रविपूर्वैश्च नक्षत्रैस्तुरगादिभिः ॥ ३४/९३ ॥
मेषादिमासकैश्चैव तिथिभिः प्रथमादिभिः ।
जुहुयादेकयाहुत्या प्रतिवत्सरमाचरेत् ॥ ३४/९४ ॥
वत्सरे वत्सरे कार्यमथवान्ते समाचरेत् ।
पूर्णाहुतिं ततो दत्वा देवे सर्वं समर्पयेत् ॥ ३४/९५ ॥
कुम्भानुद्धृत्य वेद्यां तु स्थापयेत्सर्वमङ्गलैः ।
सकलानां तु सर्वेषां कर्तव्यं बालबिम्बकम् ॥ ३४/९६ ॥
प्रतिमायां तु कुम्भे वा पीठे वा चेष्टकामये ।
परिवारेऽपि चैवं स्याद्बालबिम्बं प्रकल्पयेत् ॥ ३४/९७ ॥
अन्यत्सर्वं समानं स्यात्पूर्वेणैव समाहितः ।
॥ इति कामिकाख्ये महातन्त्रे बालस्थापनविधिः द्वात्रिंशत्तमः पटलः ॥
॥ ग्रामगृहविन्यासविधिः ॥
ग्रामादीनां तु विन्यासः निवेशाद्यं च कथ्यते ।
आदौ कालपरीक्षा स्याद्द्वितीयं देशनिर्णयम् ॥ ३५/१ ॥
तृतीयं भूपरीक्षा स्यात्प्रवेशार्थबलिस्ततः ।
स्वीकारः पञ्चमो भूमेः षष्ठः कर्षणमुच्यते ॥ ३५/२ ॥
शङ्कुसंस्थापनं पश्चादष्टमः पदनिर्णयः ।
नवमः सूत्रविन्यासो दशमो देवताबलिः ॥ ३५/३ ॥
गृहवीथ्यादिभेदः स्यादेकादश उदाहृतः ।
द्वादशो गर्भविन्यासः ततो देवनिवेशनम् ॥ ३५/४ ॥
द्वादशान्ते द्विजातीनां प्रवेशस्तदनन्तरम् ।
तदन्ते भूसुराणां तु निरीक्षणमुदाहृतम् ॥ ३५/५ ॥
ततो भूमिविभागः स्यादेवं बुध्वा समाचरेत् ।
गृहारम्भात्पुरैवं स्यादमरावासनिर्णयः ॥ ३५/६ ॥
पूर्वं देवान् प्रतिष्ठाप्य पश्चाद्विप्रान्निवेशयेत् ।
मूलबालालयोक्तेन विधिनालयनिर्णयः ॥ ३५/७ ॥
देवानां स्यान्मनुष्याणां कुर्याच्छालाविधानतः ।
उत्कृष्टे मध्यमे हीने देववेश्म तथा मतम् ॥ ३५/८ ॥
उत्कृष्टे देववेश्म स्याद्धीनं यदि तदा नरः ।
हीनभावं तु यत्नेन समं वोत्कृष्टमाचरेत् ॥ ३५/९ ॥
एतत्सर्वं तु पूर्वोक्तक्रमेणैव समाचरेत् ।
ग्रामादीनां गृहादीनां मालिकानां विशेषतः ॥ ३५/१० ॥
मण्टपादेः प्रवक्ष्यामि प्रवेशं तु महानसे ।
अन्येषामपि वस्तूनां यजमानप्रेवशनम् ॥ ३५/११ ॥
सदा सुमनसो दान्तान् दयायुक्तान् दृढव्रतान् ।
पत्नीपुत्रसमायुक्तान् सर्वोपस्करसंयुतान् ॥ ३५/१२ ॥
ग्रामानुकूलनक्षत्रान् देवाग्निगुरुपूजकान् ।
वेदवेदाङ्गतत्त्वज्ञान् श्रोत्रियान् प्रियदर्शनान् ॥ ३५/१३ ॥
अधीतशिवशास्त्रांश्चदरिद्रान् दोषवर्जितान् ।
उत्कृष्टकर्मनिरताननुष्ठानपरायणान् ॥ ३५/१४ ॥
विप्रानाहूय निश्चित्य दशाङ्गं लेखयेत्तदा ।
राष्ट्रग्रामौ गोत्रसूत्रे सव्यदक्षिणलाञ्च्छने ॥ ३५/१५ ॥
विद्या कुलं पितुर्नाम स्वच्छाङ्गं दश वा मता ।
मुलकोशे लिखित्वैवं ताम्रपात्रे विनिर्मिते ॥ ३५/१६ ॥
शिलादौ वा तदा वस्तु श्रद्धयोदकपूर्वकम् ।
प्रदद्याद्भूमिपूर्वाणि गृहोपकरणानि तु ॥ ३५/१७ ॥
स्त्रीणामाभरणं धान्यं वस्त्रं गां च पयस्विनीम् ।
दासीदासं च विप्रेभ्यो दद्याच्छ्रद्धान्वितो नृपः ॥ ३५/१८ ॥
ब्राह्मणेभ्यो महीं दद्यात्पुण्यकाले तु सोदकम् ।
अन्येषामिष्टकाले तु दद्यात्केवलया गिरा ॥ ३५/१९ ॥
शेषं सर्वं तु सामान्यं सर्ववास्तुनिवेशने ।
नास्तिकान् पिशुनान् क्रूरान् देवाग्निगुरुनिन्दकान् ॥ ३५/२० ॥
बलापहृतब्रह्मस्वान्नृपद्रोहादिसंयुतान् ।
वर्जयेदीदृशान् विप्रान् नृपस्तद्दानकर्मणि ॥ ३५/२१ ॥
पूर्णकुम्भं प्रदीपांश्च पुरस्कृत्य शुभे दिने ।
स्वस्तिवाचनसंयुक्तं वेशयेद्ब्राह्मणान् वरान् ॥ ३५/२२ ॥
चतुर्विंशतिकान् मध्यान् षट्त्रिंशत्संख्यकान् वरान् ।
अल्पे चैकं द्वयं वापि त्रयं वा सन्निवेशयेत् ॥ ३५/२३ ॥
स्थापयेच्च यथापूर्वं विप्रान् पूर्वोद्धृतानपि ।
पत्नीपुत्रसमायुक्तान् देवाग्निसहितांस्तथा ॥ ३५/२४ ॥
एतेषां च प्रवेशेऽपि वास्तुं संपूज्य होमयेत् ।
अकटवाटमनाच्छाद्यमदत्तबलिभोजनम् ॥ ३५/२५ ॥
गृहं विशन्व्रजत्येव विपदां पदमादरात् ।
स्वशक्तितोऽपि विप्रांस्तु स्वे स्वे गेहे निवेशयेत् ॥ ३५/२६ ॥
दैविके मानुषे भागे गेहे पूर्वं निवेशयेत् ।
यजमानानुकूलर्क्षे राशौ वा तन्निवेशयेत् ॥ ३५/२७ ॥
गृहमण्टपकूटादौ शालासु च महानसे ।
अनेनैव प्रकारेण तत्कर्तारं निवेशयेत् ॥ ३५/२८ ॥
देवालयादौ देवेशं देवीं स्कन्दसमन्विताम् ।
अथवा केवलां देवीं देवेशं चाथ मण्डपम् ॥ ३५/२९ ॥
देवाङ्गभूतकूटादौ वेशयेत्पूर्वमार्गतः ।
राजानं मालिकादौ तु प्रधानमहिषीयुतम् ॥ ३५/३० ॥
प्रधानमन्त्रिसंयुक्तममात्यादिभिरावृतम् ।
अङ्कुरार्पणपूर्वं वा रहितं वा निवेशयेत् ॥ ३५/३१ ॥
गृहमण्डपकूटादौ शालासु च महानसे ।
ब्राह्मणादिचतुर्वर्णान् मार्गेणानेन वेशयेत् ॥ ३५/३२ ॥
॥ इति कामिकाख्ये महातन्त्रे ग्रामगृहविन्यासविधिस्त्रयस्त्रिंशत्तमः पटलः ॥
॥ वास्तुशान्तिविधिः ॥
वास्तुशान्तिविधिं वक्ष्ये ग्रामादीनां शुभावहम् ।
वास्तूपशमनं नाम सर्वदोषविनाशनम् ॥ ३६/१ ॥
जीर्णोद्धारे नवीकारे छेदे भेदे तथैव च ।
वायवग्निजलसंबाधे नृपचोरादिबाधके ॥ ३६/२ ॥
दक्षिणापरवृद्धौ च प्रागुदक्च्छेदनेऽपि च ।
न्यूनातिरेके मानस्य द्वारनिर्गमभेदने ॥ ३६/३ ॥
प्राकारपरिघाभेदे देवतालयकल्पने ।
यजमानान्तरे चैव हीनलक्षणवास्तुके ॥ ३६/४ ॥
त्यक्ते शून्ये तथा नष्टे प्रातिलोम्ये तथैव च ।
आभिचारकृते दोषे व्याधिमारीभयेऽपि च ॥ ३६/५ ॥
उत्पाते दुर्निमित्ते च सर्वदोषापनुत्तये ।
वास्तूपशमनं कुर्यात्सद्य एव विचक्षणः ॥ ३६/६ ॥
वक्ररथ्यान्विते वापि विन्यासाद्यविवर्जिते ।
अन्येष्वशुभयुक्तेषु गृहदेवालयेषु च ॥ ३६/७ ॥
महाद्भुते च संप्राप्ते त्रिविधे चोत्तमादिके ।
प्रायश्चित्तं विशेषेण वक्ष्यमाणमिदं नयेत् ॥ ३६/८ ॥
ततो गुरुः कृतस्नानः शिवविप्रः प्रसन्नधीः ।
अहताभ्यां सुवासोभ्यां संयुक्तः सोत्तरीयकः ॥ ३६/९ ॥
वास्त्वङ्गदेवताः सर्वास्तत्तच्छास्त्रोक्तमार्गतः ।
पूजयित्वा विधानेन देवानन्यात् तथैव च ॥ ३६/१० ॥
वास्तुमध्ये प्रपां कुर्याच्चान्यस्मिन् वा मनोरमे ।
दर्भमालादिभिर्युक्तां सर्वालङ्कारसंयुताम् ॥ ३६/११ ॥
वारुण्यमिन्द्रकाष्ठायां दक्षिणे चोत्तरेऽपि वा ।
तन्मध्ये दण्डमात्रेण वेदीं पञ्चाङ्गुलोच्छ्रिताम् ॥ ३६/१२ ॥
तस्यां पिष्टाक्तसूत्रेण पदानि परिकल्पयेत् ।
चतुर्णवविकारांश्च पञ्चविंशत्पदं तु वा ॥ ३६/१३ ॥
षट्त्रिंशदंशकैश्चापि चत्वारिंशन्नवाधिकम् ।
अष्टाष्टकपदं वापि सूत्रवर्गपदं तु वा ॥ ३६/१४ ॥
एतेष्वन्यतमं योग्यं विन्यसेद्वास्तु वित्तमः ।
शालिभिः स्थण्डिलं कृत्वा तण्डुलैस्तिलमिश्रकैः ॥ ३६/१५ ॥
लाजदर्भसमायुक्तं पुष्पैश्चैव समन्वितम् ।
चरुं च तत्र संस्थाप्य घृतेनैवाभिधार्य च ॥ ३६/१६ ॥
संप्रोक्ष्य हृदयेनैव वस्त्रेणाच्छाद्य सत्कुशैः ।
वेद्यास्तु पश्चिमे देशे कुण्डं कृत्वा त्रिमेखलम् ॥ ३६/१७ ॥
चतुरश्रं हस्तमानं नवाङ्गुलसमुच्छ्रयम् ।
तत्र वह्निं समाधाय वह्निकार्योक्तमार्गतः ॥ ३६/१८ ॥
समिदाज्यहविर्भिश्च यवकृष्णतिलैरपि ।
मध्वाज्यक्षीरसंयुक्तदूर्वया होममाचरेत् ॥ ३६/१९ ॥
पञ्चब्रह्मशिवाङ्गैश्च विद्याङ्गैः शिवपूर्वकैः ।
अघोरेण शतं वार्धं द्रव्यैः पूर्वैस्तु पञ्चभिः ॥ ३६/२० ॥
अष्टोत्तरशतं दूर्वाहोमो मृत्युजितो भवेत् ।
पूर्णाहुतिं ततो हुत्वा वास्तुदेवान् समर्चयेत् ॥ ३६/२१ ॥
पदेषु कूर्चं निक्षिप्य कुर्यादावाहनादिकम् ।
ब्रह्माणं प्रथमं चेष्ट्वा ततः सर्वांश्च पूजयेत् ॥ ३६/२२ ॥
द्वादशाब्दसुसंपूर्णां विप्रजातिसमुद्भवाम् ।
सर्वलक्षणसंपूर्णां नानाभरणभूषिताम् ॥ ३६/२३ ॥
शुक्लाम्बरधरां कन्यां शुक्लपुष्पैरलङ्कृताम् ।
शुक्लवस्त्रोत्तरीयां तां संपूज्यान्नादिभिः सुखम् ॥ ३६/२४ ॥
तस्याश्च दत्वा ताम्बूलं बलिद्रव्यसमन्वितम् ।
दद्यात्तस्याश्च हस्ते तु बलिपात्रं गुरुस्तदा ॥ ३६/२५ ॥
पञ्चाङ्गभूषणोपेतः सोष्णीषः सोत्तरीयकः ।
नववस्त्रधरः शैवविप्रो दद्याद्बलिं पुरे ॥ ३६/२६ ॥
मध्वाज्यदधिसंयुक्तं शुद्धमन्नं तु वा ददेत् ।
सर्वद्रव्यसमायुक्तमथवैनं समाचरेत् ॥ ३६/२७ ॥
रात्रौ ग्रामबलिं दद्यात्प्रासादादौ यथेष्टतः ।
चतुष्कुण्डे तु वा वास्तुदेवानां तर्पणं भवेत् ॥ ३६/२८ ॥
दक्षिणां दापयेत्पश्चादाचार्यादिष्वनुक्रमात् ।
अधमा पञ्चनिष्कं स्याद्द्विगुणा मध्यमा भवेत् ॥ ३६/२९ ॥
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ।
अग्रहारादिके देवागारे राज्ञां द्विजन्मनाम् ॥ ३६/३० ॥
वैश्यानां शूद्रजातीनामावासे मण्डपादिषु ।
चण्डालाद्युषिते चैव तज्जन्ममरणेऽपि च ॥ ३६/३१ ॥
दूषितेष्वसुराद्यैश्च विधिमेनं समाचरेत् ।
कूपे वा पुष्करिण्यादौ जलं सर्वं बहिः क्षिपेत् ॥ ३६/३२ ॥
सहस्रकुम्भतोयं वा शतकुम्भोदकं तु वा ।
पञ्चगव्यं तु निक्षिप्य शान्तिहोमं तु कारयेत् ॥ ३६/३३ ॥
॥ इति कामिकाख्ये महातन्त्रे वास्तुशान्तिविधिः चतुस्त्रिंशत्तमः पटलः ॥
॥ शालालक्षणविधिः ॥
अथातः संप्रवक्ष्यामि शालानां लक्षणं परम् ।
देवानां ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ ३७/१ ॥
वैश्यानां शूद्रजातीनां वासयोग्यास्तु ताः स्मृताः ।
एकद्वित्रिचतुः सप्तदशशालाः प्रकीर्तिताः ॥ ३७/२ ॥
तदूर्ध्वं त्रित्रिवृद्ध्या तु यावदिष्टं प्रगृह्यताम् ।
ता एव मालिकाः प्रोक्ता मालावत्क्रियते यतः ॥ ३७/३ ॥
मानं तावद्द्विधा ख्यातं हस्तभक्तिवशेन तु ।
सार्धहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३७/४ ॥
अष्टोत्तरशतं यावद्धस्तानां विस्तरो मतः ।
विस्तारादर्धहस्तं स्यात्त्रिगुणान्तं समायतिः ॥ ३७/५ ॥
एवं हस्तप्रमाणं स्याद्भक्तिमानवशात्ततः ।
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३७/६ ॥
नवहस्तान्तविस्तारा भक्तयः परिकीर्तिताः ।
विस्ताराद्द्व्यङ्गुलार्धा स्याद्द्विगुणान्ता समायतिः ।
एकभक्तिविशालात्तु चार्धभक्तिविवर्धनात् ॥ ३७/७ ॥
त्रिगुणान्तप्रमाणेन विस्तारादायतिर्मता ।
विस्तारे चायते चैव विन्यस्ता भक्तयश्च ताः ॥ ३७/८ ॥
प्रमाणेन समस्ताश्चेद्विषमा वा यथेष्टतः ।
विस्तारे चायते चैव युग्मा ओजाश्च भक्तयः ॥ ३७/९ ॥
भक्त्यभ्यन्तरमानं वा भक्तिबाह्यमथापि वा ।
भक्तिमध्यप्रमाणं वा तत्स्थपादात्तथापि वा ॥ ३७/१० ॥
चतुरश्रं तु देवानां द्विजानामपि सत्तमाः ।
क्षत्रियाणां तथा प्रोक्तमन्ययोरायताश्रकम् ॥ ३७/११ ॥
हीनोक्तं श्रेष्ठजातीनां हितं नोक्तं विपर्ययात् ।
विस्तारसम उत्सेधः सपादो वाथ सार्धकः ॥ ३७/१२ ॥
पादोनद्विगुणो वापि द्विगुणो वायतिः समा ।
पादायामैस्तु वा कुर्याद्वक्ष्यमाणैर्यथाक्रमम् ॥ ३७/१३ ॥
आयादिसंपदर्थं तु विस्तारे चायतौ तथा ।
उत्सेधे चैव हस्तानां सम्यक्सम्पूर्णतां नयेत् ॥ ३७/१४ ॥
विस्तारात्केवलं वाथवायामादुन्नते तथा ।
विस्तारायामसंसर्गादायाद्यं परिगृह्यताम् ॥ ३७/१५ ॥
अष्टत्रित्र्यष्टभिर्हत्वा अष्टमन्वर्कभैर्भजेत् ।
आयो व्ययश्च योनिश्च नक्षत्रं शेषतो भवेत् ॥ ३७/१६ ॥
त्रिंशदाप्नोतु पर्यन्तं तिथिर्वारं तु सप्तभिः ।
अथवान्यप्रकारेण चायाद्यं परिगृह्यताम् ॥ ३७/१७ ॥
दैर्घ्यं दैर्घ्यस्य विस्तारं दैर्घ्यनाहञ्च नाहकम् ।
अष्टनन्दाग्निवसुभिर्गणयेन्नन्दनन्दनाः ॥ ३७/१८ ॥
अर्कदिग्वसुभैः सप्तनवभिश्च क्रमाद्भजेत् ।
आयाद्यं पूर्ववत्प्रोक्तमायाधिक्यं शुभप्रदम् ॥ ३७/१९ ॥
यजमानस्य जन्मर्क्षेणानुकूलं यथा भवेत् ।
तथा परीक्ष्य कर्तव्यं नामनक्षत्रकं तु वा ॥ ३७/२० ॥
परीक्ष्य बहुधा कुर्यादुभयं वा परीक्षयेत् ।
सर्वानुकूल्यं सर्वत्र वास्तु यस्मान्न लभ्यते ॥ ३७/२१ ॥
तस्माद्गुणधिकं ग्राह्यमल्पदोषं यथा भवेत् ।
अधिष्ठानं च पादं च प्रस्तरं कण्ठ एव च ॥ ३७/२२ ॥
शिखरं स्थूपिका चैव शालाङ्गमिति कथ्यते ।
यजमानस्य जान्वन्तं नाभ्यन्तं हृदयावधि ॥ ३७/२३ ॥
गलावधि शिरोऽन्तं च पादार्धं वा त्रिभागिकम् ।
त्र्यादिषोडशभागानामधिकं वोक्तमानतः ॥ ३७/२४ ॥
अधिष्ठानस्य मानं स्यात्तत्पादस्याथ कथ्यते ।
सार्धहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३७/२५ ॥
नवहस्तप्रमाणान्ताः स्तम्भोत्सेधाः प्रकीर्तिताः ।
अङ्गुलत्रयमारभ्य चार्धाङ्गुलविवर्धनात् ॥ ३७/२६ ॥
त्रिंशन्मात्रावसानास्तु विस्ताराः परिकीर्तिताः ।
चतुरंशं समारभ्य षोडशांशं यथाविधि ॥ ३७/२७ ॥
भागान्कृत्वैकभागेन न्यूनं स्यादग्रविस्तरः ।
एवमूर्ध्वोर्ध्वपादानां तारायामौ प्रकल्पयेत् ॥ ३७/२८ ॥
प्रस्तरं पाददैर्घ्यस्य चार्धमानेन कारयेत् ।
तन्मानं नवधा कृत्वा चैकाद्याचतुरंशकैः ॥ ३७/२९ ॥
न्यूनं वाप्यधिकं वापि प्रस्तरं कारयेद्बुधः ।
प्रस्तरोक्तप्रमाणं तु सर्वं कण्ठे विधीयते ॥ ३७/३० ॥
पादोक्तं सर्वमानं तु शिखरेऽपि विधीयते ।
ध्रुवाविधानरीत्या वा शिखरं परिकल्पयेत् ॥ ३७/३१ ॥
कण्ठोक्तं सर्वमानं तु स्थूप्युत्सेधः प्रकीर्तितः ।
पादविष्कम्भमानेन द्विगुणादिनवान्तकम् ॥ ३७/३२ ॥
भित्तिविष्कम्भ उद्दिष्टो द्व्यङ्गुलेनाथवा नयेत् ।
अष्टाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ३७/३३ ॥
त्रिहस्तान्तं तु विस्तारो भित्तीनां परिकीर्तितः ।
मूलभित्तेरिदं मानमूर्ध्वे पादार्धहीनकम् ॥ ३७/३४ ॥
अन्योन्यमधिका वापि न्यूना वा भित्तयः समाः ।
शालैका दण्डखण्डाभा द्विशाला तद्द्वयेन तु ॥ ३७/३५ ॥
तत्त्रयेण त्रिशाला स्याच्चतुः शाला चतुष्टयी ।
सप्तभिः सप्तशाला स्यादेवमन्यास्तु कीर्तिताः ॥ ३७/३६ ॥
विस्तारे चैकभक्त्यादिपञ्चाशद्भक्तिकावधि ।
आयामेऽपि तथा वृद्ध्या शतान्तं परिकल्पयेत् ॥ ३७/३७ ॥
आसामग्रे त्वलिन्दाः स्युः प्रधाने वा विशेषतः ।
एकद्वित्रिचतुष्पञ्चषट्सप्तालिन्दसंयुताः ॥ ३७/३८ ॥
पृष्ठे पार्श्वे तथैव स्युरिष्टदेशेऽथवा पुनः ।
पृथुद्वारं च द्वारां?श्च एवमेव प्रकल्पयेत् ॥ ३७/३९ ॥
मध्ये तु प्राङ्कणं कार्यं विशालेनैकपङ्क्तिकम् ।
अर्धपङ्क्तिविवृद्ध्या तु त्रिंशत्पङ्क्यन्तमिष्यते ॥ ३७/४० ॥
आयामे चैकपङ्क्त्यादित्रिगुणान्तं विशालता ।
एवं ब्रह्माङ्कणं कार्यं जलपातयुतं न वा ॥ ३७/४१ ॥
मिश्रं वापि प्रकर्तव्यं भ्रमणस्रववारियुक् ।
बाह्यवारियुतं वापि विवरं वा प्रकल्पयेत् ॥ ३७/४२ ॥
एकपङ्क्तिविशालादिपादपादविवृद्धितः ।
पञ्चभागावसानान्तं शालाविस्तार इष्यते ॥ ३७/४३ ॥
पृथुद्वारविशालं तु चैवमेव प्रकल्पयेत् ।
अलिन्दः पृथुद्वारेण समो वा चार्धमानतः ॥ ३७/४४ ॥
द्वारमानं तथैवं स्याद्दण्डिकाद्वारमर्धतः ।
गर्भाधानक्रमणकं कभित्तिर्मुख्यधामनि ॥ ३७/४५ ॥
दक्षिणे नेत्रभित्तौ वा गर्भाधानं प्रकीर्तितम् ।
अथवा ब्रह्मभित्तौ वा गर्भाधानं विधीयते ॥ ३७/४६ ॥
कभित्तेर्दक्षिणे भागे स्वाम्यावासः प्रशस्यते ।
उत्तरे रङ्मित्युक्तं तद्गृहिण्या गृहं भवेत् ॥ ३७/४७ ॥
कभित्त्यग्रभृते द्वारद्वयं कुर्याद्विशिष्यते ।
नवभागे गृहे तत्र दक्षिणे पञ्चभागकम् ॥ ३७/४८ ॥
वामभागे त्रयं त्यक्त्वा मध्ये द्वारं विधीयते ।
अलिन्दे द्वारमेवं स्यादन्यत्राप्येवमेव तु ॥ ३७/४९ ॥
कम्पद्वारं तु वा कुर्यान्मध्यपार्श्वद्वयोस्तथा ।
भित्तिव्यासेऽर्कभागं तु बाह्ये बाह्यशरांशकम् ॥ ३७/५० ॥
योगस्य मध्यमः पादमध्यमश्च विधीयते ।
भित्तिमध्यं तयोर्मध्यं पादमध्यं तु वा समम् ॥ ३७/५१ ॥
कोणं च मध्यमं स्थानं त्यक्त्वा वारिवहो भवेत् ।
कोणात्तृतीयभागे तु जलनिर्गम इष्यते ॥ ३७/५२ ॥
गृहक्षते महेन्द्रे च पुष्पदन्ते विधीयते ।
भल्लाटे चैव मध्ये च द्वारमासु विधीयते ॥ ३७/५३ ॥
हस्तस्तम्भतुलादीनि नराणां युग्मसंख्यया ।
देवानामुभयं ग्राह्यं मध्यद्वारं तु वै तले ॥ ३७/५४ ॥
अन्नागारादिमध्यं तु वास्तुमध्यात्प्रदक्षिणे ।
आदित्यान् नन्दपादान्ते पञ्चाङ्गुलगतिक्रमात् ॥ ३७/५५ ॥
वास्तुमध्यादुदक्पूर्वं दक्षिणापरतः क्रमात् ।
धर्मनन्दाष्टधात्वंशाः पूर्वभागादिपादकाः ॥ ३७/५६ ॥
एकैकांशगतास्तत्र स्तम्भस्थापनकर्मणि ।
गृहाङ्घ्रिमध्ययोर्मध्यं भित्तिमध्यमिति स्मृतम् ॥ ३७/५७ ॥
एवं चतुर्गृहं प्रोक्तं शालायां कल्पयेन्नव ।
एतत्सर्वं तु शालानां सामान्यमिति कीर्त्यते ॥ ३७/५८ ॥
तैतिलानां द्विजातीनां पाषण्डाश्रमिणामपि ।
हस्त्यश्वरथयोधानां यागहोमादिकर्मसु ॥ ३७/५९ ॥
देवानां भूपतीनां च नृत्तगीतादिकर्मसु ।
एकशाला प्रशस्ता स्यात्स्त्रीणा रङ्गोपजीविनाम् ॥ ३७/६० ॥
लाङ्गलं गणिकादीनां शूर्पमुग्रोपजीविनाम् ।
शालाविरहितस्थाने कुड्ये द्वारं प्रयोजयेत् ॥ ३७/६१ ॥
ऊर्ध्वभूमिं समारभ्य रचना कथ्यतेऽधुना ।
प्रधानशाला यत्रैव रङ्गस्थानं विधीयते ॥ ३७/६२ ॥
स्वाम्यावासस्य विन्यासं मण्डपाकारसंयुतम् ।
चूलीहर्म्ययुतं चोर्ध्वे चाग्रद्वारसमन्वितम् ॥ ३७/६३ ॥
वास्तुद्वारयुतं चैव कभित्तेश्च विशेषतः ।
सर्वतः कुण्डसंयुक्तं गृहद्वारसन्वितम् ॥ ३७/६४ ॥
रङ्गभित्तिसमायुक्तं धामसोपानसंयुतम् ।
सोर्ध्ववास्तव्यसंयुक्तं चूलीहर्म्ययुतं तु वा ॥ ३७/६५ ॥
अग्रकर्मसमायुक्तं कर्णकूटद्वयान्वितम् ।
कर्णकूटविहीनं वा चान्यत्सर्वं तु वास्तुषु ॥ ३७/६६ ॥
मध्यमं चाङ्कणस्थानं मण्डपेन युतं तु वा ।
सभाकारयुतं वापि केवलं वा जलस्थलम् ॥ ३७/६७ ॥
ऊर्ध्वभूमिरिति ख्याता सान्यथा च निगद्यते ।
प्रधानमण्डपागारं चूलीहर्म्यविवर्जितम् ॥ ३७/६८ ॥
स्वामिवासं विधायैवं रङ्गं कुर्यात्तु तत्समम् ।
लूपारोहक्रियायुक्तमन्यत्पूर्वोक्तवर्त्मना ॥ ३७/६९ ॥
अथवा सर्वशालायां लूपारोहणमेव वा ।
ऊर्ध्वभूमिरिति ख्याता द्वितीयां शृणुत द्विजाः ॥ ३७/७० ॥
चतुः शालाप्रदेशे तु तदधोभूमिरुच्यते ।
सा भूमिर्मण्डपागारचूलीहर्म्यविभूषिता ॥ ३७/७१ ॥
तदधस्तात्समन्तात्तु पृथुद्वारयुता तथा ।
भागद्वयेन तस्यैव विन्यासः परिपठ्यते ॥ ३७/७२ ॥
चतुष्कोणे चतुष्कूटं तद्विस्तारेण निर्मितम् ।
चतुर्भागद्विभागेन पृष्ठावाससभां नयेत् ॥ ३७/७३ ॥
अग्रकूटद्वयोर्मध्ये शालाः पृष्ठसभा यथा ।
पार्श्वयोरुभयोश्चैव चतुर्भागान्तविस्तरम् ॥ ३७/७४ ॥
पञ्जरद्वितयं कार्यं कर्णकूटसमोदयम् ।
प्रधानावासनेत्रस्थनेत्रकूटद्वयं नयेत् ॥ ३७/७५ ॥
तयोरूर्ध्वं च पर्याप्तिरूर्ध्वतो द्वितलान्तिका ।
पृष्ठावाससभा तद्वदन्यत्सर्वमधः स्थले ॥ ३७/७६ ॥
अवसानसमायुक्तं त्रितलञ्चैतदीरितम् ।
अलिन्दस्य समन्तात्तु भागेनैकेन वारकम् ॥ ३७/७७ ॥
पार्श्वयोरुभयोश्चैव चाग्रशालानुसारतः ।
तथा प्रधानशालायास्त्वनुसारेण पार्श्वयोः ॥ ३७/७८ ॥
अलिन्दस्यानुसारेण पूर्वभागे विशेषतः ।
भागद्वयविनिष्क्रामो भागद्वयविशालतः ॥ ३७/७९ ॥
सद्वारनेत्रशालानां षट्कं चालिन्दतो बहिः ।
चतुः शालावसानान्तामूर्ध्वाधः परिकल्पयेत् ॥ ३७/८० ॥
तदधो भूप्रवेशे तु तद्द्वारस्यावसानकम् ।
षण्णां वै नेत्रशालानां अन्तराले च वास्स्थलम् ॥ ३७/८१ ॥
चतुर्भागायतं भागद्वयविस्तारसंयुतम् ।
दक्षिणे चोत्तरे चैव पूर्वे चैव विशेषतः ॥ ३७/८२ ॥
अग्रकोणे द्वयोश्चैव पञ्चस्थाने प्रकल्पयेत् ।
अथवा नैरृते वायौ देवभागसमन्वितम् ॥ ३७/८३ ॥
वाःस्थलं वा विधातव्यमूर्ध्वतः षट्तलोपरि ।
तदधो भूद्वयं यत्तु रज्जुसूत्रकपोतयुक् ॥ ३७/८४ ॥
एतत्सप्ततलं प्रोक्तं राज्ञामावासयोग्यकम् ।
तदधस्तात्समन्तात्तु भागेनैकेन वारकम् ॥ ३७/८५ ॥
एतद्दशतलं प्रोक्तं रज्जुसूत्रमधस्तलम् ।
तदधस्तात्तलं चैकादशद्वादशभूमिकम् ॥ ३७/८६ ॥
एवमेव प्रकारेण कुर्यादाषोडशक्ष्मकम् ।
आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ॥ ३७/८७ ॥
तृतीयं स्वस्तिकं प्रोक्तं नन्द्यावर्तं चतुर्थकम् ।
चरुकं पञ्चमं विद्याच्छालानामपिधानकम् ॥ ३७/८८ ॥
सर्वतोभद्रमष्टास्यं वेदास्यं वर्धमानकम् ।
दक्षिणे चोत्तरे चैव षण्णेत्रं स्वस्तिकं मतम् ॥ ३७/८९ ॥
पार्श्वयोः पुरतश्चैव चतुर्नेत्रसमायुतम् ।
नन्द्यावर्तं स्मृतं पूर्वे दक्षिणे पश्चिमे तथा ॥ ३७/९० ॥
उत्तरे सौम्यशालादिशालानामास्यमीर्तितम् ।
निष्पटं चरुकं विद्यात्सर्वत्रैव विशेषतः ॥ ३७/९१ ॥
आद्यं चतुष्टयं यत्तु सर्वेषामपि शंसितम् ।
विशेषाद्भूभृतां शस्तं चरुकं देवयोग्यकम् ॥ ३७/९२ ॥
द्विजानां विहितं चैव पाषण्डाश्रमिणामपि ।
शालाभागे त्वलिन्दे वा पृथुवारांशके अपि ॥ ३७/९३ ॥
विन्यासस्त्विष्ट आख्यातो मण्डपे उक्तभूमिके ।
एतासां मालिकानां तु कुर्यादग्रे तु मण्डपम् ॥ ३७/९४ ॥
एकभागं समारभ्य वासव्याससमावधि ।
आयामस्त्वंशवृद्ध्या तु विस्तारो वासतः समः ॥ ३७/९५ ॥
एकैकभक्तिहान्या तु त्रिभक्तयन्तस्तु विस्तरः ।
एकद्वित्रितलोपेतं चतुष्पञ्चतलं तु वा ॥ ३७/९६ ॥
मण्डपं तु विधातव्यं शालानामग्रदेशके ।
एवंभूतस्य वासस्य समन्तान्मण्डपं नयेत् ॥ ३७/९७ ॥
एकभागं समारभ्य पादभागविवृद्धितः ।
पञ्चभागावसानान्तं कुर्यादावृतमण्डपम् ॥ ३७/९८ ॥
हस्तमानेन वा कुर्यात्त्रिहस्तादर्धवृद्धितः ।
पञ्चदशकरान्तं तु कुर्यादावृतमण्डपम् ॥ ३७/९९ ॥
मण्डपेन विना वापि तेन मानेन पीठिका ।
विभद्रा वा सभद्रा वा कर्तव्या मालिका बुधैः ॥ ३७/१०० ॥
शालानां तु चतुर्दिक्षु चैकभागादितः क्रमात् ।
पादभागविवृद्ध्या तु चाष्टभागावसानकम् ॥ ३७/१०१ ॥
विनिर्गमस्य चायामो तद्वृद्ध्या तस्य विस्तरः ।
द्विगुणान्तो विधेयः स्यादेवं स्यान्मध्यवारणम् ॥ ३७/१०२ ॥
मध्यवारणयुक्तं वा तद्विहीनं तु वा द्विजाः ।
एवंभूतस्य वासस्य समन्तात्स्यात्खलूरिका ॥ ३७/१०३ ॥
वासव्यासं चतुर्भागं कृत्वा चैकादिभागतः ।
वृध्यां वासस्य बाह्ये तु षोडशावधिभागकान् ॥ ३७/१०४ ॥
व्यपोह्य परितः कुर्यात्प्रथमावरणादितः ।
खलूरिकास्तु चैकादिसप्तभागावसानकाः ॥ ३७/१०५ ॥
मुखे च पार्श्वयोः पृष्ठे भक्तयः स्युर्यथेष्टतः ।
ओजोयुग्मप्रमाणेन न्यूना वाप्यधिका तु वा ॥ ३७/१०६ ॥
सभद्रा वा विभद्रा वा खलूरी स्याद्यथेष्टतः ।
एतासामन्तरालं तु समं वा विषमं तु वा ॥ ३७/१०७ ॥
खलूरीधाममध्यं तु तद्वदेव विधीयते ।
अन्तराले बहिर्वापि अधिकं न्यूनमेव वा ॥ ३७/१०८ ॥
एकपार्श्वेऽधिकं वापि पृष्ठे वाप्यधिकं यथा ।
मुखायाममुखे वापि पार्श्वयोः पृष्ठतस्तथा ॥ ३७/१०९ ॥
शालायामुक्तमानेन भक्तिर्हस्तं वशेन वा ।
तत्सर्वमत्र संग्राह्यं शालामात्रं तु वा भवेत् ॥ ३७/११० ॥
एकभक्त्यादिभक्त्यर्धवृद्ध्या दिग्भक्तिकान्तिकम् ।
खलूरिकाविधौ प्रोक्तं सालं तत्रोभयत्र तु ॥ ३७/१११ ॥
खलूरिकाविशालांस्तु त्रिचतुष्पञ्चभागकान् ।
षट्सप्तभागं वा कृत्वा बहिरेकं व्यपोह्य च ॥ ३७/११२ ॥
अन्तरे शेषभागांस्तु हित्वा मध्ये तु सालकम् ।
एकानेकतलोपेतमूलायामेन भूमिकाम् ॥ ३७/११३ ॥
सभाकारशिरोयुक्तां शालाकारामथापि वा ।
अथवा मण्टपोर्ध्वे तु चूलीहर्म्यविभूषिताम् ॥ ३७/११४ ॥
तलाधिष्ठानपादेभ्यः किञ्चिदूनप्रमाणकाम् ।
तद्वर्धितोपपीठां वा तद्वर्धितमसूरकाम् ॥ ३७/११५ ॥
पादायामसमोत्तुङ्गमसूरकयुतां तु वा ।
मूलधामतलोत्?तुङ्गाधिस्ठानतलसंयुताम् ॥ ३७/११६ ॥
तद्विहीनतलां वापि समस्थलयुतां तु वा ।
एतां खलूरिकां कुर्यात्प्रासादादिषु बुद्धिमान् ॥ ३७/११७ ॥
देवानां मनुजानां च विशेषाद्राजधामनि ।
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ॥ ३७/११८ ॥
उपमध्येऽथवा द्वारमुपद्वारं तु वा नयेत् ।
खलूरिकायुतं चैव गोपुरं विधिनाचरेत् ॥ ३७/११९ ॥
एवं शालां यथाशालाप्रमाणेन समाचरेत् ।
गर्भागारयुतं वापि मध्ये भक्तियुतं तु वा ॥ ३७/१२० ॥
खलूरिकाविधानोक्तं बाह्यान्तर्मार्गसंयुतम् ।
चतुरंशादिभान्वन्तभागान् कृत्वैकभागकम् ॥ ३७/१२१ ॥
हित्वा मूलतलाद्यं तु कुर्याच्छेषेण बुद्धिमान् ।
अधिष्ठानादिषड्वर्गं तन्मानमुपपीठके ॥ ३७/१२२ ॥
द्वारोत्सेधाय दातव्यं समं वाप्यधिकं तु वा ।
खलूरिकातलं यद्वत्तद्वदत्र विधीयते ॥ ३७/१२३ ॥
मूलधामतलात्किञ्चिदूनं वापि समाचरेत् ।
सालगोपुरयोस्तुङ्गस्त्वधिकश्चापि मूलतः ॥ ३७/१२४ ॥
गोपुरस्याप्यलङ्कारं शालालङ्कारवन्नयेत् ।
सभाकारशिरोयुक्तं शालाकारशिरःक्रियम् ॥ ३७/१२५ ॥
मण्डपाकारसंयुक्तं चूलीहर्म्यविभूषितम् ।
अग्रतोऽलिन्दकोपेतमट्टालं सालकान्तरे ॥ ३७/१२६ ॥
गोपुरस्य तु विस्तारत्रिभागादेकभागिकम् ।
चतुर्भागैकभागस्तु पञ्चभागैकभागिकः ॥ ३७/१२७ ॥
निर्गमो गोपुराणां तु प्राकाराद्बाह्यतो भवेत् ।
गोपुरं च खलूरी च मूलवास्तुनिरीक्षितम् ॥ ३७/१२८ ॥
अन्तरे राजदेवीनां गृहाण्यन्तर्मुखानि च ।
प्रधानमहिषीगेहं वामभागे समाचरेत् ॥ ३७/१२९ ॥
अन्यासामपि तद्बाह्ये गृहस्यावृत्य कारयेत् ।
अन्येषामपि तद्बाह्ये कर्तुरिच्छावशेन तु ॥ ३७/१३० ॥
प्रागङ्कणं प्रधानं स्यात्प्रागवागङ्कणे ज्वरः ।
दक्षिणे जयदं राज्ञां नैरृते रिपुवर्धनम् ॥ ३७/१३१ ॥
प्रतीच्यां पुत्रमित्रर्द्धिः पश्चिमोत्तरतो मृतिः ।
उदीच्यां कोशवृद्धिः स्यादीशाने मरणं ध्रुवम् ॥ ३७/१३२ ॥
समन्तात्परिघां कुर्याद्राजधाम्नीदमीरितम् ।
देवानामन्यजातीनामपि योग्यं सनातनम् ॥ ३७/१३३ ॥
आरम्भकाले त्वेतेषां पृथक्पृथगिहोच्यते ।
कुम्भस्थे मकरस्थेऽर्के पूर्वगेहमथारभेत् ॥ ३७/१३४ ॥
मेषस्थे वृषगे दाक्ष्यमाप्यं सिंहकुलीरके ।
तुलायां वृश्चिके सौम्यं नेष्टमन्यच्चतुष्टयम् ॥ ३७/१३५ ॥
भास्करस्य दिशि वेश्म नेष्टञ्चान्तर्मुखं सदा ।
यदि कुर्याद्गृहं तत्तु वत्सरे तु विनश्यति ॥ ३७/१३६ ॥
सूर्यस्थाने कृतं वेश्म तद्गृहं पीड्यते ध्रुवम् ।
भौमस्थे तु गृहक्षेत्रं स्थापितं नाशितं भवेत् ॥ ३७/१३७ ॥
शनैश्चरे तु संप्राप्ते क्षुद्भयं तत्र वासिनाम् ।
जीवस्थाने गृहक्षेत्रं सर्वसम्पत्करं भवेत् ॥ ३७/१३८ ॥
शुक्रक्षेत्रे कृतं वेश्म नित्यं कल्याणमादिशेत् ।
बुधस्य परमं सौख्यं चन्द्रः पुरुषदैन्यकृत् ॥ ३७/१३९ ॥
कुर्यात्स्त्रीभ्यः सुखं वापि चैवं राशौ फलं भवेत् ।
अंशकादिषु विज्ञेयमेवं ज्ञात्वा समाचरेत् ॥ ३७/१४० ॥
एवमेव प्रकारेण स्थापयेत्प्रथमेष्टकाम् ।
छायायां विहितं वेश्म गिरेर्देवालयस्य वा ॥ ३७/१४१ ॥
बाधितं च नदीस्रोतसा च शोकापहं भवेत् ।
छिन्ने भिन्ने तथा नष्टे नमितेऽभिमते गृहे ॥ ३७/१४२ ॥
अगः स्यः करवीरश्च नन्द्यावर्तञ्च किंशुकः ।
अर्कः कार्पासकश्चैव षडेते गृहनाशनाः ॥ ३७/१४३ ॥
पलाशः खादिरश्चैव प्लक्षश्चिन्तावटस्तथा ।
गृहे न वर्धनीयाः स्युर्ग्रामादौ शुभदा मताः ॥ ३७/१४४ ॥
सभायाममितं वास्तु पददैर्घ्यसमं यदि ।
युक्तव्ययाधिकं तस्मात्तदा गृहमशोभनम् ॥ ३७/१४५ ॥
प्रत्यङ्मुखं तु शयनं दोषदं दक्षिणामुखम् ।
द्वारे पादं तु नेष्टं स्यात् नोदक् प्रत्यक्छिरो भवेत् ॥ ३७/१४६ ॥
भोजनं नानुवंशं स्याच्छयनं च तथैव च ।
अनुवंशगृहद्वारं नैव कार्यं शुभार्थिभिः ॥ ३७/१४७ ॥
एकशालागृहं कुर्वन् याम्ये कुर्यात्प्रयत्नतः ।
द्वे द्वे वारुणयाम्ये ते शाले कार्ये त्वतन्द्रितः ॥ ३७/१४८ ॥
कोणशालां तु कृत्वा तु वसन्नाशु विनश्यति ।
द्विजगेहस्य वंशं तु पूर्वाग्रं परिकल्पयेत् ॥ ३७/१४९ ॥
याम्याग्रं क्षत्रियाणां तु पश्चिमाग्रं विशां भवेत् ।
शूद्राणामुत्तरस्यां स्यादेष वंशाग्रको विधिः ॥ ३७/१५० ॥
द्विजक्षत्रियवैश्यानां युग्मपादाः प्रकीर्तिताः ।
शूद्राणामन्यजातीनामयुग्मस्तम्भ इष्यते ॥ ३७/१५१ ॥
खदिरं खादिरं चैव शमी स्याद्द्विजराजयोः ।
सिलिन्ध्रः पिशितं चैव मधूको वैश्यपादपः ॥ ३७/१५२ ॥
राजादनं च निम्बश्च सिलिन्ध्रः पिशितं तु वा ।
शूद्राणां स्तम्भयोग्यं स्यात् त्वक्साराः सर्वयोग्यकाः ॥ ३७/१५३ ॥
गेहाकारं चतुर्भागं पञ्चभागान्तरं तु वा ।
पादव्यास इति प्रोक्तो गेहव्यासकरात्तु वा ॥ ३७/१५४ ॥
यावन्तो विपुला हस्तास्तावदङ्गुलिसंख्यया ।
सर्वेषामपि गेहानां स्तम्भविस्तार इष्यते ॥ ३७/१५५ ॥
उत्तरे विप्रगेहं स्यात्पूर्वे नृपगृहं मतम् ।
दक्षिणे वैश्यगेहं स्यात्पश्चिमे शूद्रजातये ॥ ३७/१५६ ॥
गृहमध्यमभित्तिश्च पदमध्यविवर्जिता ।
तामाश्रित्य तु कुल्याभं द्वारद्वयमिहेष्यते ॥ ३७/१५७ ॥
सर्वथा भिन्नशालासु सन्धिकर्म न कारयेत् ।
देवतास्थापनं पिण्डं शालासु न विधीयते ॥ ३७/१५८ ॥
एकैकान्तरिताः पादा नीरन्ध्रा वा निवेशिताः ।
अन्यागारादिषु द्वौ द्वौ पञ्च वा स्युर्यथेच्छया ॥ ३७/१५९ ॥
धनक्षयो मन्दवेधे तीव्रः स्याद्-ऋणबन्धनम् ।
त्रिचूली वैश्यशूद्राणां पञ्च सप्त महीभृताम् ॥ ३७/१६० ॥
ब्राह्मणानां तथैव स्युरेकादश तु वेदिकाः ।
पाषण्डाश्रमिणां युग्मसंख्या चूली विधीयते ॥ ३७/१६१ ॥
शिलास्तम्भं शिलाकुड्यं नरावासे न कारयेत् ।
तृणाद्यैर्मृण्मयाच्छाद्यं लोष्टाच्छाद्यं च मृण्मयम् ॥ ३७/१६२ ॥
कुर्यादाननहृन्नाभीरुत्सेधः क्रमणेन तु ।
अधिष्ठानं च याम्यादिचतुर्गृहविधौ भवेत् ॥ ३७/१६३ ॥
द्वारस्यान्तस्तु निम्नश्चेद्वृद्धिर्वेश्माधिपस्य तु ।
उन्नतिश्च बहिर्ज्ञेया द्वारस्य रिपुवर्धनी ॥ ३७/१६४ ॥
भल्लाटे द्वारमिष्टं स्याद्ब्राह्मणानां विशेषतः ।
माहेन्द्रं भूभुजां विद्याद्वणिजामपि राक्षसम् ॥ ३७/१६५ ॥
पुष्पदन्तपदद्वारं शूद्राणामेव भाषितम् ।
तद्दिगीशान् समाश्रित्य द्वारं विधिवदाचरेत् ॥ ३७/१६६ ॥
मध्यसूत्रस्य वामे वा द्वारं विधिवदाचरेत् ।
जलद्वारं पुनस्तेषां प्रवक्ष्यामि निवेशनम् ॥ ३७/१६७ ॥
जयन्ते तु महेन्द्रे च राक्षसे वितथे भृशे ।
पुष्पदन्ते च सुग्रीवे भल्लाटे गृहमुख्यके ॥ ३७/१६८ ॥
ब्रह्मणोऽभिमुखं ब्रह्म परावृद्धिर्निषिध्यते ।
एकत्रिपञ्चसप्तांशे ध्वजसिंहवृषद्विपाः ॥ ३७/१६९ ॥
पूर्वाद्यासु शुभा ह्येते आयाद्यास्त्वनुलोमतः ।
द्विचतुः षड्वसुस्थानां धूमश्वखरवायसाः ॥ ३७/१७० ॥
आग्नेयादिविदिक्ष्वेते वर्जनीया बुभुक्षुभिः ।
ध्वजः सिंहो वृषो हस्ती यस्य तद्वेश्मनो मुखम् ॥ ३७/१७१ ॥
तस्य प्रत्यगुदक्प्राचीं दक्षिणं स्वामिनो गृहम् ।
ध्वजो याति हरिस्थानं गजस्थानं च केसरी ॥ ३७/१७२ ॥
सर्वेप्युक्षपदं यान्ति न चोक्षा यान्ति कुत्रचित् ।
उक्षे द्वारं न कर्तव्यमुपमध्येऽथवा भवेत् ॥ ३७/१७३ ॥
ब्राह्मणानामुदग्द्वारं प्राग्द्वारं क्षत्रियस्य तु ।
वैश्यस्य दक्षिणद्वारं श्रेष्ठं शूद्रस्य पश्चिमम् ॥ ३७/१७४ ॥
शालाद्वारमिदं प्रोक्तं चतुर्गृहविधावपि ।
याम्यालयबहिर्द्वारं भल्लाटे परिकल्पयेत् ॥ ३७/१७५ ॥
माहेन्द्रं पश्चिमे भागे गान्धर्वं सौम्यगेहके ।
पुष्पदन्तपदद्वारं पूर्वगेहे विधीयते ॥ ३७/१७६ ॥
ऐशान्यां पचनस्थानं ब्राह्मणानां विधीयते ।
आग्नेययां पचनस्थानं क्षत्रियाणां प्रशस्यते ॥ ३७/१७७ ॥
नैरृत्यां पचनस्थानं वैश्यानां तु प्रशस्यते ।
वायव्यां पचनस्थानं शूद्राणां संप्रशस्यते ॥ ३७/१७८ ॥
पूर्वस्यां भोजनस्थानमाग्नेययां तु महानसम् ।
याम्यायां शयनस्थानं नैरृत्यामायुधालयः ॥ ३७/१७९ ॥
मैत्रस्थानं तु वा तत्र वारुण्यामुदकालयः ।
गोष्ठागारं च वायव्यामुत्तरस्यां धनालयः ॥ ३७/१८० ॥
नित्यनैमित्तिकार्थं स्यादैशान्यां यागमण्डपम् ।
काञ्जीलवणयोः पात्रं प्रागुदग्दिशि विन्यसेत् ॥ ३७/१८१ ॥
अन्तरिक्षेऽपि वा चुल्ली लूखली सवितर्यपि ।
अन्नप्राशनमार्यांशे चेन्द्राण्यां च सवित्रके ॥ ३७/१८२ ॥
विवस्वदंशे श्रपणं विवाहो मैत्रदेशके ।
क्षौद्रमिन्द्रजये विद्याद्वायौ सोमे च वा भवेत् ॥ ३७/१८३ ॥
वितथोपनयश्चैव पितृदौवारिके पदे ।
सुग्रीवे पुष्पदन्ते च प्रसूतिगृहमिष्यते ॥ ३७/१८४ ॥
आपवत्से तु कोशः स्यात्कुण्डमापे विधीयते ।
अङ्कणं तु महेन्द्रांशे पेषणी च महीधरे ॥ ३७/१८५ ॥
भृङ्गराजनि सुग्रीवे पितृदौवारिके पदे ।
अरिष्टागारमिष्टं स्यात्तत्रोपस्कारभूमिकम् ॥ ३७/१८६ ॥
वाहनं द्वारयाम्ये स्यात्स्नानशाला च वारुणे ।
असुरे धान्ये?वासः स्यादायुधादीन्द्रराजके ॥ ३७/१८७ ॥
मित्रवासस्तथा मित्रे रोगे वोलूखलं मतम् ।
भूधरे कोशगेहं स्यान्नागांशे घृतमौषधम् ॥ ३७/१८८ ॥
जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात् ।
विषप्रत्यौषधं चैव कूपे देवगृहं भवेत् ॥ ३७/१८९ ॥
सवित्राद्यन्तरिक्षान्तं सव्यञ्जनमहानसम् ।
वितथे पूष्णि सावित्रे भोजनागार एव वा ॥ ३७/१९० ॥
ऋक्षभल्लाटसोमेषु भवेदास्थानमण्डपम् ।
मुखे वोलूखलं कुर्याद्गणिकाश्च प्रशंसिताः ॥ ३७/१९१ ॥
वाहनात्पुरतो वामे कीर्तिदा वा विशेषतः ।
मध्यमण्डपसंयुक्तं चतुर्गृहमुदाहृतम् ॥ ३७/१९२ ॥
पर्यन्तभित्तिशिरसि जलपातः कुलक्षयः ।
तीव्रसङ्क्रमणं तस्मिन् गृहस्यास्य न शोभनम् ॥ ३७/१९३ ॥
एतत्सर्वं तु सामन्यं शालासु च गृहेषु च ।
॥ इति कामिकाख्ये महातन्त्रे शालालाक्षणविधिः पञ्चत्रिंशत्तमः
पटलः ॥
॥ विशेषशालालक्षणविधिः ॥
विशेषलक्षणं वक्ष्ये शालानां शृणुत द्विजाः ।
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३८/१ ॥
चतुर्विंशत्यरत्न्यन्ता रुद्रसंख्या समीरिता ।
एकशाला द्विशाला स्यात्कथ्यते द्वित्रिशालके ॥ ३८/२ ॥
सप्ताष्टारत्निमारभ्य द्विद्विहस्तेन वर्धयेत् ।
एकोनविंशद्रत्न्यन्ताः सप्तधा द्वित्रिशालके ॥ ३८/३ ॥
एवं विस्तार आख्यात आयामस्त्विह कथ्यते ।
पादाधिकमथाध्यर्धं पादोनद्विगुणं तथा ॥ ३८/४ ॥
द्विगुणं वा तदर्धं च त्रिपादद्विगुणोपरि ।
त्रिगुणान्तप्रमाणेन आयामस्वष्टधा मतः ॥ ३८/५ ॥
सर्वदैर्घ्यं सुराणां स्याद्द्विगुणान्तं नृणां मतम् ।
द्विगुणाद्यायताः सर्वे विहाराश्रमवासिनाम् ॥ ३८/६ ॥
सर्वस्मिन् सङ्गमोपेते द्विगुणास्यायतिर्मता ।
विस्तारसम उत्सेधः साङ्घ्रिः सार्धस्त्रिपादयुक् ॥ ३८/७ ॥
द्विगुणः पञ्चधोत्सेधः शालानां परिकीर्तितः ।
शान्तिदः पुष्टिदः पश्चाज्जयदो धनदो भवेत् ॥ ३८/८ ॥
अद्भुतप्रदमित्येवमुत्सेधफलमीरितम् ।
दक्षिणे पश्चिमे चैव शाला वैशेषिकी नृणाम् ॥ ३८/९ ॥
याम्यपश्चिमहीने तु लाङ्गले मरणं भवेत् ।
तद्युक्ते लाङ्गले गेहे श्रीः पुष्टिश्च प्रकीर्तिता ॥ ३८/१० ॥
याम्यपश्चिमहीनायां शालायां सर्वदोषदा ।
एका वा सद्विशाला वा त्रिशाला वा द्विसन्धिका ॥ ३८/११ ॥
पाषण्डकानां मर्त्यानां विप्राणां धरणीभृताम् ।
वैश्यानामपि शूद्राणामन्यद्द्व्यन्तरजन्मनाम् ॥ ३८/१२ ॥
शालैका दण्डखण्डाभा द्विनेत्रा मुखधारिणी ।
तथैव द्वित्रिशाले च सर्वग्रामादिके मते ॥ ३८/१३ ॥
त्रिचतुर्दशहस्तात्तु द्विद्विहस्तेन वर्धयेत् ।
षट्सप्तषष्टिहस्ताश्च चतुः शालाविशालता ॥ ३८/१४ ॥
हीनं निकृष्टं मध्यञ्चोत्कृष्टं सा च पृथक्पृथक् ।
अष्टाविंशतिमानानि चतुः शालाविशालके ॥ ३८/१५ ॥
तस्मात्रिंशत्करैर्वृद्धिच्छत्रशालाविशालके ।
तस्मात्तस्माद्द्विहस्ताभ्यां षट्सप्तकरपूर्वका ॥ ३८/१६ ॥
नवत्यरत्त्रिंरुद्दिष्टा त्रिपञ्चाष्टसमाहृता ।
तत आरभ्य हस्ताभ्यां बन्धयेच्छतरत्निकम् ॥ ३८/१७ ॥
षट्सप्तरत्निसंयुक्तं दशशालं तु मानतः ।
सर्वत्र चित्रमित्युक्तं संख्यया त्वष्टषड् भवेत् ॥ ३८/१८ ॥
हीनं जातिरिति प्रोक्ता निकृष्टं छन्द उच्यते ।
मध्यमं स्याद्विकल्पं तु श्रेष्ठमाभासनामभाक् ॥ ३८/१९ ॥
एतन्नाम्ना चतुः सप्तदशशालं क्रमेण तु ।
तुरङ्गावधिमेधाख्या लभते दीर्घहीनकम् ॥ ३८/२० ॥
अत्राप्युत्सेधदीर्घे च पूर्ववत्परिकल्पयेत् ।
समं तु चतुरश्रं तु दैवमानुषमीरितम् ॥ ३८/२१ ॥
पाषण्डदेवविप्रादियागयोग्यमिति स्मृतम् ।
दण्डकं मौलिकं स्वस्तिभद्रं चैव चतुर्मुखम् ॥ ३८/२२ ॥
देवादीनां तु सामान्यं चतुर्विधमुदाहृतम् ।
विन्यासं दण्डकादीनां प्रवक्ष्यामि यथाक्रमम् ॥ ३८/२३ ॥
भागत्रयं तु विस्तारे त्वायामे चतुरंशकम् ।
द्विभागो गेहविस्तार अग्रे वारस्त्वथैकतः ॥ ३८/२४ ॥
द्विनेत्रं खण्डदण्डाभं सर्वेषां वासयोग्यकम् ।
एतद्दण्डकमुद्दिष्टं शालानां स्युः षडंशकाः ॥ ३८/२५ ॥
विस्तारे चतुरंशाः स्युरायामे स्यात् षडंशकम् ।
गेहतारो द्विभागः स्याद्द्व्यंशं च क्रमणं भवेत् ॥ ३८/२६ ॥
शेषं पूर्ववदुद्दिष्टं द्वितीयं दण्डकं मतम् ।
त्रिभागो गेहविस्तारो द्विगुणं दैर्घ्यमिष्यते ॥ ३८/२७ ॥
भागं च क्रमणं कुर्याद्ब्रह्मभित्तिसमन्वितम् ।
कुल्याभद्वारसंयुक्तं शेषं सर्वं तु पूर्ववत् ॥ ३८/२८ ॥
वंशमूले तु वासः स्याद्वंशाग्रे रङ्गमिष्यते ।
सर्वत्र परितः कुड्यं रङ्गं पादसमन्वितम् ॥ ३८/२९ ॥
पुरतः पृष्ठतो वापि पार्श्वतो वाप्यलिन्दकम् ।
प्रासादवदलङ्कुर्यात्तृतीयं दण्डकं मतम् ॥ ३८/३० ॥
तदेव मध्यमं रङ्गं वासो वंशाग्रमूलयोः ।
शेषं पूर्ववदुद्दिष्टं चतुर्थं दण्डकं मतम् ॥ ३८/३१ ॥
षडंशो गेहविस्तारस्त्वायामो द्वादशांशकः ।
भागेन परितोऽलिन्दशालाव्यासो द्विभागतः ॥ ३८/३२ ॥
तत्समं पुरतोऽलिन्दयुक्तान्तः स्तम्भसंयुतम् ।
पार्श्वयोर्द्वित्रिभागेन तारायामौ विवासकौ ॥ ३८/३३ ॥
द्विचतुर्भागविस्तारं धाममध्ये तु रङ्गकम् ।
पञ्चमं दण्डकं प्रोक्तं पूर्ववच्छेषमाचरेत् ॥ ३८/३४ ॥
व्यासे निभृतपातालनन्दांशैकद्विकत्रिकैः ।
चतुर्भिः पुरतोऽलिन्दं स्यादेकद्वित्रिशालके ॥ ३८/३५ ॥
एतदेव सभाकारं शिखरं मौलिकं मतम् ।
तदेव पुरतो भद्रं चतुर्द्व्यंशे तु सम्मतम् ॥ ३८/३६ ॥
आयामेन विशालेन पुरतः पर्श्वयोर्द्वयोः ।
अशंकेऽलिन्दकं कुर्याद्व्यासे नेत्रत्रयान्वितम् ॥ ३८/३७ ॥
एतत्स्वस्तिकमित्युक्तं चतुर्मुखमथोच्यते ।
तदेव पृष्ठतो भद्रयुक्तं यद्वत्पुरो भवेत् ॥ ३८/३८ ॥
कर्करीवंशशालाग्रे चतुर्नेत्रसमन्वितम् ।
अधिष्ठानादिवार्गाढ्यं प्रासादवदलङ्कृतम् ॥ ३८/३९ ॥
नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः ।
चतुर्मुखमिदं नाम्ना क्रमाज्जात्यादिनामभाक् ॥ ३८/४० ॥
एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम् ।
स्वामिचित्तवशान्न्यस्तं स्थानविन्याससंयुतम् ॥ ३८/४१ ॥
हस्त्यश्ववृषभादीनां प्रत्येकं वा सपत्तिकम् ।
सद्विचूलीत्रिचूल्यङ्गं सुग्रीवं सवितल्पकम् ॥ ३८/४२ ॥
सपादः सार्ध उत्सेधस्तत्समो वापि नीयते ।
दण्डकं मौलिकं वापि यथेष्टदिशि वारणम् ॥ ३८/४३ ॥
एकशालमिदं प्रोक्तमधिष्ठानादिशोभितम् ।
॥ इति कामिकाख्ये महातन्त्रे एकशालाविशेषलक्षणविधिः षट्त्रिंशत्तमः पटलः ॥
॥ द्वित्रिशालालक्षणविधिः ॥
द्विशाले चतुरश्रे तु दशभागविभाजिते ।
बहिर्भागेन वारः स्याद्द्व्यंशशालाविशालतः ॥ ३९/१ ॥
प्राङ्मुखे वारमेकांशं मण्डपो नवभागभाक् ।
तदावृत्यैककालिन्दं शेषं च क्रमणं भवेत् ॥ ३९/२ ॥
मुख्यगेहं बहिर्द्वारं लाङ्गलाभं यथातथा ।
चतुर्मुखसमायुक्तं द्विशालमिह कीर्तितम् ॥ ३९/३ ॥
पौरमण्डलहीनं वा मण्डपेन विनापि वा ।
अलिन्देनान्वितं वापि द्विशालं परिकल्पयेत् ॥ ३९/४ ॥
तदेव पञ्चभागान्तमेकशालामुखायतम् ।
द्वारं पूर्ववदुद्दिष्टं सर्वालङ्कारशोभितम् ॥ ३९/५ ॥
मण्डपाद्बाह्यतोऽलिन्दं सायतं प्रविधीयते ।
नेत्रत्रयसमायुक्तं स्वस्तिकं त्वभिधीयते ॥ ३९/६ ॥
तदेव द्विमुखोपेतं दण्डवक्त्रमिति स्मृतम् ।
सावकाशान्तरोपेतं मण्.डपेन विनापि वा ॥ ३९/७ ॥
अलिन्देनान्वितं वापि द्विशालं परिकल्पयेत् ।
सवारं वा विवारं वा एकानेकतलान्वितम् ॥ ३९/८ ॥
द्विभागे त्वेकभागं वा त्रिभागे तु द्वयं तु वा ।
चतुरंशे त्रिभागं वा द्व्यंशं पञ्चत्रिभागकम् ॥ ३९/९ ॥
द्विभागं वैकभागं वा षड्भागे पञ्चभागकम् ।
सप्तांशे पञ्चभागादिद्विभागान्तमथापि वा ॥ ३९/१० ॥
नवांशे सप्तभागादिद्विभागान्तमथापि वा ।
रुद्रभागाद्द्विभागान्तं भागान् कृत्वा त्रिभागतः ॥ ३९/११ ॥
नवभागावसानान्तं शालाव्यासं प्रकल्पयेत् ।
एकद्वित्रिचतुः शालासामान्यमिदमीरितम् ॥ ३९/१२ ॥
यथा समीक्ष्य तत्रैव युक्तं कुर्यात्तु देशिकः ।
मौलिकस्य तु विस्तारं वसुभागैर्विभाजयेत् ॥ ३९/१३ ॥
अङ्कणं तु द्विभागः स्यात्त्रिपार्श्वेऽलिन्दमेकतः ।
शालाव्यासो द्विभागेन प्रासादवदलङ्कृतम् ॥ ३९/१४ ॥
षडाननसमोपेतं प्रच्छन्नमपि चाङ्कणम् ।
एकानेकतलोपेतमधिष्ठानादिशोभितम् ॥ ३९/१५ ॥
अङ्कणेन विहीनं वा वारहीनं तु वा नयेत् ।
मेरुकान्तमिदं प्रोक्तं सर्वेषामपि योग्यकम् ॥ ३९/१६ ॥
व्यासे पङ्क्त्यर्कभागे तु पार्श्वयोः पश्चिमे मतम् ।
वारमेकांशतः कुर्याद्द्व्यंशस्तु गृहविस्तरः ॥ ३९/१७ ॥
प्राङ्मुखो वारमेकांशं परितो मार्ग एकतः ।
द्व्यङ्कणं वारमेकांशमर्कांशे परिकल्पयेत् ॥ ३९/१८ ॥
पार्श्वयोर्वा परे मुख्यव्यासः स्याद्द्विललाटकम् ।
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदीरितम् ॥ ३९/१९ ॥
सावकाशान्तरोपेतमङ्कणं स्यात् त्रिशालके ।
सालिन्दमनलिन्दं वा त्रिशालं परिकल्पयेत् ॥ ३९/२० ॥
शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।
॥ इति कामिकाख्ये महातन्त्रे द्वित्रिशालालक्षणविधिः सप्तत्त्रिंशत्तमः पटलः ॥
॥ चतुः शालालक्षणविधिः ॥
चतुः शालादिशालानामलङ्कारोऽथ उच्यते ।
अष्टादिद्वादशान्तं तु नीचे तु परिकल्पयेत् ॥ ४०/१ ॥
दशार्कमनुभागांस्तु निकृष्टे संप्रकल्पयेत् ।
आदित्यमन्वोरेकांशं भागं मध्ये तु कल्पयेत् ॥ ४०/२ ॥
चतुर्दशद्विरष्टाष्टादशांशाः श्रेष्ठवर्त्मनि ।
बीजभागः समाख्यातो जातिर्द्व्यंशाधिका यतः ॥ ४०/३ ॥
चतुरंशाधिकाश्चात्र प्रकल्प्यं स्याद्रसाधिकम् ।
अष्टांशाधिकमाभासं सर्वतोभद्रसंज्ञके ॥ ४०/४ ॥
बीजं तु चतुरश्रं स्याज्जात्या द्वन्द्वादिवृद्धितः ।
बीजजात्यादिसंभूता संख्या षष्टिरिति स्मृता ॥ ४०/५ ॥
निकृष्टे सर्वतोभद्रे द्विभागं मध्यमाङ्कणम् ।
समन्तान्मार्ग एकांशो द्विभागो गेहविस्तरः ॥ ४०/६ ॥
अष्टनेत्रसमायुक्तं चतुर्दिग्भद्रसंयुतम् ।
भद्रमध्ये सभास्यं स्याच्चतुष्कं कर्णकूटकम् ॥ ४०/७ ॥
मध्यमे वारसंयुक्तं कूटे शङ्खं युगान्वितम् ।
पूर्वस्मिन्नपरस्मिन् वा स्वाम्यावासः प्रशस्यते ॥ ४०/८ ॥
सर्वतः कुड्यसंयुक्तं कुड्याभद्वारसंयुतम् ।
बहिर्जालककुड्याढ्यमन्तरं लूतपादकम् ॥ ४०/९ ॥
पक्षशालांशके द्वारं पूर्वस्मिन् वा प्रशंस्यते ।
समस्तम्भं समद्वारं समवंशं तु कारयेत् ॥ ४०/१० ॥
दण्डिकाद्वारसंयुक्तं शिखरं दिक्प्रदीपकम् ।
कर्करीवंशजालाग्रं कूटहीनं तु वा नयेत् ॥ ४०/११ ॥
अन्तर्द्वारं परित्यज्य बहिर्द्वारयुतं तु वा ।
सालिन्दं वाऽनलिन्दं वा सावकाशान्तरं तु वा ॥ ४०/१२ ॥
अङ्कणं तु प्रकर्तव्यं सर्वालङ्कारसंयुतम् ।
जात्याख्यं सर्वतोभद्रं भूपतीनामिहोदितम् ॥ ४०/१३ ॥
तदेव परितो द्व्यंशं महावारसमन्वितम् ।
कर्करीवंशजालाख्यं कूटहीनं तु वा नयेत् ॥ ४०/१४ ॥
अष्टास्योर्ध्वतलग्रीवसस्थूपिसमवंशकम् ।
अष्टास्यमुखपट्यङ्गनीव्राङ्गकसमावृतम् ॥ ४०/१५ ॥
भद्रोर्ध्वं मुख्यकूटाङ्गं सर्वालङ्कारसंयुतम् ।
चित्रं तु सर्वतोभद्रं भूपतीनां प्रशस्यते ॥ ४०/१६ ॥
तदेव पुरतो द्व्यंशं महावारसमन्वितम् ।
चतसृणां तु शालानां शिखरं तु सभाकृति ॥ ४०/१७ ॥
विकल्पं सर्वतोभद्रं गृहप्रासादसंयुतम् ।
एकद्वित्रितलोपतं सर्वालङ्कारशोभितम् ॥ ४०/१८ ॥
विहीनकर्णशिखरं हर्म्याङ्गं स्वामिवासकम् ।
शिखरस्थूपिकानासावेदिकाजालकान्वितम् ॥ ४०/१९ ॥
उच्चशालासमायुक्तं नीब्रकूटमथापि वा ।
उभयं विपरीतं वा हर्म्यं स्यान्मध्यमण्डपम् ॥ ४०/२० ॥
जात्यादीनां तु संयोगादाभासं गृहमालिकम् ।
निकृष्टं सर्वतोभद्रं चतुर्विधमुदाहृतम् ॥ ४०/२१ ॥
नीचे तु सर्वतोभद्रे द्विभागं मध्यमेऽङ्कणम् ।
समन्तादंशतः पन्था द्व्यंशः शाला द्विशालके ॥ ४०/२२ ॥
परितोंऽशेन बाह्ये तु द्वारं स्याद्विश्वभक्तिकम् ।
मसूरिकाङ्घ्रिकोच्चे तु प्रस्तरोर्ध्वगणान्वितम् ॥ ४०/२३ ॥
शिखरस्तूपिकानासावेदिकाजालकान्वितम् ।
तदेब चाङ्कणं कुर्यादन्तर्वारसमन्वितम् ॥ ४०/२४ ॥
भद्रादिकं तु पूर्वोक्तं त्विदं भूपतियोग्यकम् ।
तदेव च बहिद्वर्यंशवारद्वयसमन्वितम् ॥ ४०/२५ ॥
कर्तव्यं वा महावारं कूटकोष्ठाद्यलिन्दयुक् ।
विकल्पमिति निर्दिष्टं निष्क्रान्तादि पुरोक्तवत् ॥ ४०/२६ ॥
देवद्विजनरेन्द्राणामेतद्भवनमीरितम् ।
यथेष्टदिशि वारः स्याद्यथेष्टदिशि भद्रकम् ॥ ४०/२७ ॥
वारमार्गमलिन्दं च स्वामिवाञ्छावशान्नयेत् ।
विकल्पमिति निर्दिष्टमाभासं सर्वयोगतः ॥ ४०/२८ ॥
मुण्डप्रासादसंज्ञं तु हर्म्यप्रासादसंज्ञिकम् ।
आभासं सर्वतोभद्रं देवद्विजमहीभृताम् ॥ ४०/२९ ॥
नीचं तु सर्वतोभद्रं चतुर्विधमुदाहृतम् ।
मध्यमं सर्वतोभद्रं चतुरंशाङ्कणान्वितम् ॥ ४०/३० ॥
एकांशावृतमार्गः स्याच्छालांशो द्विगुणो भवेत् ।
बहिस्त्वलिन्दमेकांशं प्राग्वदेव प्रकल्पयेत् ॥ ४०/३१ ॥
सर्वतोभद्रजातिः स्यात्तदेवांशेन बाह्यके ।
वारयुक्तं द्विभागेन पृथुवारयुतं तु वा ॥ ४०/३२ ॥
प्राग्वद्भद्रसमोपेतं देवद्विजमहीभृताम् ।
द्विभागमङ्कणञ्चान्तर्वारहीनं तु वा नयेत् ॥ ४०/३३ ॥
तदंशतो बहिर्द्वारं महावारं तु वा नयेत् ।
षोडशांशविशालं तु विकल्पमिति निर्दिशेत् ॥ ४०/३४ ॥
तत्राङ्कणं षडंशः स्यात्परितो मार्ग एकतः ।
द्व्यंशः शालाविभागः स्यादन्तर्वारं तु चैकतः ॥ ४०/३५ ॥
भागैकेन बहिर्वारं प्राग्वच्छेषं प्रकल्पयेत् ।
विकल्पमिति निदिर्ष्टमाभासं तत्र मिश्रितम् ॥ ४०/३६ ॥
मुण्डप्रासादहर्म्याङ्गं मालिकाभासमिष्यते ।
उत्कृष्टं सर्वतोभद्रं चतुरंशाङ्कणान्वितम् ॥ ४०/३७ ॥
भागेन परितो मार्गश्चान्तर्वारमथैकतः ।
शालाव्यासो द्विभागः स्याद्बाह्यालिन्दमथैकतः ॥ ४०/३८ ॥
नासिकाजालसंयुक्तं तोरणाद्यैस्तु संयुतम् ।
अन्तर्वारं परित्यज्य बाह्ये वा तत्र कल्पयेत् ॥ ४०/३९ ॥
अङ्कणं तु द्विभागं वा मुख्यवारस्त्वलिन्दभाक् ।
सभद्रं वा विभद्रं वाप्यङ्कणांशेन वारणम् ॥ ४०/४० ॥
एष जातिक्रमः प्रोक्तो राज्ञामावासयोग्यकः ।
तमेव परितो मार्गयुक्तो वा पृथुवारकः ॥ ४०/४१ ॥
छन्दं हि सर्वतोभद्रमनुक्तं चात्र पूर्ववत् ।
तदेव परितोंऽशेन बहिर्वारं तु कल्पयेत् ॥ ४०/४२ ॥
विकल्पं सर्वतोभद्रं भूमीन्द्राणामिहोदितम् ।
जातिच्छन्दविकल्पानां मिश्रमाभासनामभाक् ॥ ४०/४३ ॥
हर्म्याङ्गं मालिकाङ्गं च मुण्डप्रासादसंज्ञिकम् ।
एतदाभासमाख्यातं राज्ञामावासयोग्यकम् ॥ ४०/४४ ॥
स्वामिपञ्चाङ्गविन्यासमनुक्तं चात्र पूर्ववत् ।
उत्कृष्टं सर्वतोभद्रं चतुर्विधमुदाहृतम् ॥ ४०/४५ ॥
एवं विकारभेदं तु सर्वतोभद्रमिष्यते ।
॥ इति कामिकाख्ये महातन्त्रे चतुः शालासर्वतोभद्रलक्षणविधिः अष्टत्रिंशत्तमः पटलः ॥
॥ वर्धमानशालाक्षणविधिः ॥
शाला तु वर्धमानाख्या षडष्टदशभागिका ।
निकृष्टभागिनी चाष्टदशद्वादशभागिका ॥ ४१/१ ॥
दशद्वादशमन्वंशा मध्यमा परिकीर्तिता ।
द्विषट्सप्ताष्टभागे तु श्रेष्ठा तु परिकीर्तिता ॥ ४१/२ ॥
मूलमेवं समाख्यातं जातिर्द्व्यंशाधिका तथा ।
छन्दादयस्तथाद्व्यंशवर्धितायामसंयुताः ॥ ४१/३ ॥
नीचादयस्त्रयोऽप्यत्र नवभेदसमन्विताः ।
जात्याद्याभासकान्ता या उक्ता मूलसमन्विता ॥ ४१/४ ॥
संख्यया पञ्चचत्वारिंशदन्तावधि भवादिभिः ।
उत्कृष्टा चात्र या जातिर्विकल्पाद्यन्तदीर्घिका ॥ ४१/५ ॥
द्वादशात्र मिलित्वा तु सप्तपञ्चाशदीरिता ।
निकृष्टे वर्धमाने तु द्विभागं मध्यमाङ्कणम् ॥ ४१/६ ॥
शालाव्यासो द्विभागेन मध्यभागो ह्यलिन्दभाक् ।
मध्यभित्तिसमाश्लिष्टकुल्याभद्वारसंयुतम् ॥ ४१/७ ॥
अपरे दीर्घशाला स्याद्द्विनेत्रा तुङ्गसंयुता ।
अल्पनिम्ना भवेत्प्राची शालादीर्घा द्विनेत्रका ॥ ४१/८ ॥
पक्षगे द्वे तु शाले तु वंशनिम्ने द्विवक्त्रके ।
बाह्ये भित्तिसमायुक्तमन्तः पादैः समन्वितम् ॥ ४१/९ ॥
सर्वतः कुड्यसंयुक्तं मध्यगेहं विधीयते ।
द्विभागकृतनिष्क्रान्तं चतुर्दिङ्मध्यवारणम् ॥ ४१/१० ॥
कर्णे द्व्यंशविशालं तु सोपानं वंशसङ्गमे ।
मुख्यगेहस्य मूले तु स्नानगेहं द्विभागतः ॥ ४१/११ ॥
तस्यापरे तु संश्लिष्टं प्रच्छन्नं मैत्रगेहकम् ।
वास्तूनां तु चतुर्मध्ये चतुः सूत्रं प्रयोजयेत् ॥ ४१/१२ ॥
प्रादक्षिण्यं तु तद्वारं तदन्ते जलनिस्रवः ।
नासिकातोरणस्तम्भजालकादिविचित्रितम् ॥ ४१/१३ ॥
प्रासादवदलङ्कुर्याद्विभद्रं वा सभद्रकम् ।
निकृष्टं वर्धमानं स्याद्राज्ञामावासयोग्यकम् ॥ ४१/१४ ॥
तदेव परितोंऽशेन द्वारं तु परिकल्पयेत् ।
यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वासकम् ॥ ४१/१५ ॥
यथेष्टद्वारसंयुक्तं छन्दमित्यभिधीयते ।
तदेव पृथुवारं तु दण्डिकावारसंयुतम् ॥ ४१/१६ ॥
सभद्रं वा विभद्रं वा विकल्पमिति कीर्तितम् ।
जात्यादित्रयसंयुक्तमाभासमिति कीर्तितम् ॥ ४१/१७ ॥
नीचमानांशके द्व्यंशे नाङ्कणं परिकल्पयेत् ।
अंशेन परितोऽलिन्दं शालाव्यासो द्विभागतः ॥ ४१/१८ ॥
उच्छ्रितं मुख्यगेहं स्याच्छालाः शेषाः समा मताः ।
प्रागुक्तवदलङ्कुर्यान्नीचे जातिः प्रकीर्तिता ॥ ४१/१९ ॥
तदेव परितोऽलिन्दमेकांशेन प्रकल्पयेत् ।
छन्दनाम्ना समुद्दिष्टं विश्वमन्यत्पुरोक्तवत् ॥ ४१/२० ॥
तदेव परितोंऽशेन वारं वा पृथुवारकम् ।
कर्करीमुखवंशाग्रं मुखपट्टिसमायुतम् ॥ ४१/२१ ॥
उत्तुङ्गं स्वामिवासाङ्गमितरद्विवृताङ्घ्रिकम् ।
विकल्पमिति निर्दिष्टमाभासं तत्र मिश्रितम् ॥ ४१/२२ ॥
मध्यमं वर्धमानं तु भागं द्विमध्यमाङ्कणम् ।
समन्तान्मार्गएकांशः शालाव्यासो द्विभागतः ॥ ४१/२३ ॥
एकांशावृतवारं स्यादष्टनेत्रसमन्वितम् ।
दण्डिकावारसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ४१/२४ ॥
चतुः षडंशदीर्घं तु मध्ये शालाचतुष्टयम् ।
मुखपट्यङ्गनेत्राङ्गं विस्तारे चायतौ क्रमात् ॥ ४१/२५ ॥
जात्याख्यं वर्धमानं स्याच्छन्दं स्यात्पृथुवारयुक् ।
विकल्पं पृथुवारेण बाह्यवारेण संयुतम् ॥ ४१/२६ ॥
दण्डिकावारसंयुक्तमाभासं सर्वमिश्रितम् ।
उत्तमव्यासभागे तु द्विभागं मध्यमाङ्कणम् ॥ ४१/२७ ॥
अंशेन परितो वारं मण्टपाकारमूर्ध्वतः ।
शालाव्यासो द्विभागेन परितोऽलिन्दवारके ॥ ४१/२८ ॥
अन्तर्वारं परित्यज्य बहिर्वारं यथेष्टतः ।
पूर्ववद्भद्रसंयुक्तं पूर्ववत्कर्करीकृतम् ॥ ४१/२९ ॥
मध्यशालोच्चयुक्तं च सर्वालङ्कारसंयुतम् ।
जात्याख्यं वर्धमानं स्याद्विप्रभूमीन्द्रयोग्यकम् ॥ ४१/३० ॥
तदेवैकांशतो वारविशेषं परिकल्पयेत् ।
छन्दं स्यात्परितो मार्गयुक्तं वैकल्पसंज्ञितम् ॥ ४१/३१ ॥
जात्यादीनां तु संयोगादाभासमिति कीर्तितम् ।
विशिष्टं वर्धमानाख्यं सालङ्कारमथोच्यते ॥ ४१/३२ ॥
विस्तारे षोडशांशाः स्युरायामे द्वादशांशकाः ।
ब्रह्माङ्कणं द्विभागं स्यादायामे चतुरंशकम् ॥ ४१/३३ ॥
शालाव्यासो द्विभागेन मुख्यगेहमलिन्दभाक् ।
भागद्वयेन तद्बाह्ये अलिन्दं परिकल्पयेत् ॥ ४१/३४ ॥
तद्बहिर्वारमेकाशं पृथुवारं द्विभागतः ।
विहाय पृष्ठदेशे तु रचना मिश्रदेशके ॥ ४१/३५ ॥
तृतीये वाःस्थलं पञ्चप्रदेशे तु प्रकल्पयेत् ।
मध्यसूत्रानुसारेण पूर्वस्मिन् पार्श्वयोर्द्वयोः ॥ ४१/३६ ॥
आग्नेयैशानयोश्चैव क्षेत्रप्रान्ते प्रकल्पयेत् ।
त्रितले वाः स्थलं चान्तर्नेत्रशाला चतुः स्थले ॥ ४१/३७ ॥
षण्णिर्गमसमायुक्ता सचारा प्रान्तमागता ।
स्वामिवासाग्रशालानुसारेणोभयपार्श्वयोः ॥ ४१/३८ ॥
चतस्रः पूर्वदेशे तु द्वे चालिन्दानुसारतः ।
अलिन्दस्य चतुष्कोणे कर्णकूटचतुष्टयम् ॥ ४१/३९ ॥
कुर्यात्पञ्चतलप्रान्ते तन्मध्ये पूर्वभागतः ।
चतुर्भागसमायामद्विभागविस्तृतान्विता ॥ ४१/४० ॥
कर्णकूटसमोपेतसवारमुखपट्टिका ।
अलिन्दपार्श्वयोः कर्णकूटानां मध्यदेशतः ॥ ४१/४१ ॥
पञ्जरद्वितयं कुर्यात्कूटद्वयसमोदयम् ।
पार्श्वं वाः स्थलसंयुक्तं वारयुक्तद्विभागिकम् ॥ ४१/४२ ॥
कर्णकूटद्वयोर्मध्ये परवेदद्विभागतः ।
पृष्ठवारसभां कुर्यात् षट्तले तु द्विजोत्तमाः ॥ ४१/४३ ॥
पार्श्वयोर्नेत्रकूटे द्वे मुखायामस्तु षट्तले ।
अङ्कणं मण्टपाकारं सभाकारमथापि वा ॥ ४१/४४ ॥
वासदक्षिणसंस्थं यच्चूलीहर्म्यविभूषितम् ।
वामसोपानसंयुक्तं नेत्रयुग्द्वारसंयुतम् ॥ ४१/४५ ॥
मुखं चङ्क्रमणोपेतं गुह्यसोपानसंयुतम् ।
वाः स्थलं च विशिष्टं स्यात्सप्तभौममिदं स्मृतम् ॥ ४१/४६ ॥
वर्धमानमिदं राज्ञां सर्वकामफलप्रदम् ।
अथवा त्वष्टभागेन पृष्ठभद्रयुतं भवेत् ॥ ४१/४७ ॥
नैरृते वायुदेशे तु वाः स्थालं वा विधीयताम् ।
मध्यशालासमायुक्तं कोटिहीनं तु वा भवेत् ॥ ४१/४८ ॥
नेत्रशालासमायुक्तं वाथ कुर्याद्यथाबिधि ।
एवं षोडशधा प्रोक्तं वर्धमानमिहागमे ॥ ४१/४९ ॥
॥ इति कामिकाख्ये महातन्त्रे वर्धमानशालालक्षणविधिः एकोनचत्वारिंशत्तमः पटलः ॥
॥ नन्द्यावर्तविधिः ॥
नन्द्यावर्तं प्रवक्ष्यामि षडष्टदशभागिकम् ।
निकृष्टं वसुदिग्भानुभागं नीचमिति स्मृतम् ॥ ४२/१ ॥
दशद्वादशमन्वंशं मध्यमं चेति कीर्तितम् ।
आदित्यमन्वोरेकांशं भागं ज्येष्ठमिति स्मृतम् ॥ ४२/२ ॥
मूलमेवं विनिर्दिष्टं जातयो द्व्यंशवर्धिताः ।
छन्दाः स्युर्वेदभागाढ्या विकल्पाः षड्विवर्धितां ॥ ४२/३ ॥
अष्टांशवृद्ध्या त्वाभासा हीनाद्या मिलिता यदा ।
चत्वारिंशद्भवन्त्यत्र संख्या पञ्चसमन्विता ॥ ४२/४ ॥
निष्कृष्टाः स्युस्त्रयो दीर्घास्तृतीयेन समन्विताः ।
मिलिते सप्तपञ्चाशत्सङ्ख्यात्र परिकीर्तिता ॥ ४२/५ ॥
निकृस्टे षट्कृते द्व्यंशमङ्कणं मध्यमं भवेत् ।
द्व्यंशशालाविशाला स्यात्सर्वालङ्कारसंयुता ॥ ४२/६ ॥
नन्द्यावर्तं चतुष्पट्टं मूलेनात्र विहीनकम् ।
द्वारं चतुष्टयं वापि यथेष्टदिशि वा भवेत् ॥ ४२/७ ॥
जालकश्च कवाटश्च बाह्ये बाह्ये प्रकल्पयेत् ।
सर्वतः कुड्यसंयुक्तं मुख्यधामात्र कीर्तितम् ॥ ४२/८ ॥
अन्तर्विवृतपादं च बाह्ये कुड्यं प्रकीर्तितम् ।
चतुर्दिक्षु विनिष्क्रान्तमर्धकूटं प्रयोजयेत् ॥ ४२/९ ॥
दण्डिकावारसंयुक्तं जातिरूपमिदं मतम् ।
तदेवांशावृतालिन्दं चतुर्णां छन्दमिष्यते ॥ ४२/१० ॥
तदेव स्याद्विवारं वा पृथुवारयुतं तु वा ।
विकल्पं बहुभौमं स्यादाभासं तत्र मिश्रितम् ॥ ४२/११ ॥
हर्म्याङ्गं मालिकाङ्गञ्च नैकैकतलसंयुतम् ।
नीचैः स्यादङ्कणं द्व्यंशं वारमेकांशमिष्यते ॥ ४२/१२ ॥
शालाव्यासो द्विभागेन दण्डिकावारसंयुतम् ।
सर्वालङ्कारसंयुक्तं भद्रकर्म यथेष्टतः ॥ ४२/१३ ॥
यथेष्टदिशि संयुक्तद्वारजालविभूषितम् ।
बहिरभ्यन्तरे कुड्यं मुख्यगेहं विधीयते ॥ ४२/१४ ॥
शेषांशं परितः कुड्यमंशं तदपि पादकम् ।
जातिरूपमिदं विप्रा भूभुजामेव भावितम् ॥ ४२/१५ ॥
विहीनपश्चिमद्वारं छन्दमत्र विधीयते ।
द्विभागमङ्कणं मध्ये मार्गमंशेन कल्पयेत् ॥ ४२/१६ ॥
शालाव्यासो द्विभागेन द्वारमंशेन बाह्यके ।
चतुष्टयानां शालानां मध्यमध्योर्ध्वमस्तकम् ॥ ४२/१७ ॥
पुरे पुरे भवेत्कूटं पक्षशालाननान्वितम् ।
चतुर्नेत्रसमायुक्तं छन्दमानं प्रकीर्तितम् ॥ ४२/१८ ॥
तदेव वृतवारं वा पृथुवारयुतं तु वा ।
सालिन्दचूलीहर्म्यं वा यथाशक्ति यथारुचि ॥ ४२/१९ ॥
सवारमुखभद्रं च साधिष्ठानाङ्घ्रिभूषितम् ।
ऊर्ध्वोर्ध्वमङ्कणं कार्यं पक्षशालासमोपरि ॥ ४२/२० ॥
सभा वा मण्टपो वाथ मालिका वाङ्कणक्रिया ।
चतुर्णामुदितं धाम विशेषाद्राजयोग्यकम् ॥ ४२/२१ ॥
विकल्पं तत्त्रयाणां तु यदा सम्मिश्रितं भवेत् ।
मुण्डप्रासादसंयुक्तं हर्म्याङ्गं मालिकं भवेत् ॥ ४२/२२ ॥
चतुर्णामुदितं नन्द्यावर्ताख्यं मध्यमेंऽशके ।
अङ्कणं तु द्विभागं स्यान्मार्गमेकेन कारयेत् ॥ ४२/२३ ॥
अन्तर्वारं तु चांशेन शालाव्यासो द्विभागतः ।
दण्डिकावारसंयुक्तं चतुराननसंयुतम् ॥ ४२/२४ ॥
ऊर्ध्वे शालास्तथाष्टौ स्युरधस्ताच्चतुराननम् ।
द्वादशास्यसमायुक्तमूर्ध्वाधस्ताद्द्वितीयतः ॥ ४२/२५ ॥
चतुर्दिग्भद्रसंयुक्तं द्वारजालकशोभितम् ।
जातिरूपमिदं न?न्द्यावर्तं क्षोणिभृतां गृहम् ॥ ४२/२६ ॥
तदेव परितोंऽशेन वारयुक्छन्दमिष्यते ।
तद्वाह्ये वारमेकं वा पृथुवारयुतं तु वा ॥ ४२/२७ ॥
नन्द्यावर्ताननाः शालाश्चतस्रस्ताः स्ववंशकाः ।
तस्योपरि गताः शालाश्चतुष्कशिखरान्विताः ॥ ४२/२८ ॥
नन्द्यावर्तं तु वैकल्पं नृपादीनां निवेशनम् ।
तत्तद्विनिश्चितं कुर्यान्मुण्डप्रासादसंज्ञिकम् ॥ ४२/२९ ॥
मालिकाङ्गञ्च हर्म्याङ्गमेकानेकतलान्वितम् ।
आभासं नन्दिकावर्तं चतुर्णामपि कीर्तितम् ॥ ४२/३० ॥
उत्कृष्टं मध्यमे द्व्यंशमङ्कणं चैकमार्गकम् ।
अन्तर्वारमथैकांशं शालाव्यासो द्विभागतः ॥ ४२/३१ ॥
अंशेनावृतवारं तु सर्वालङ्कारशोभितम् ।
मध्यशालाशिरस्तम्भाश्चैव निम्नास्तथापरे ॥ ४२/३२ ॥
द्वादशाननसंयुक्ता जातिर्भूपतियोग्यकम् ।
जातिस्तु परितो द्व्यंशं महावारसमन्वितम् ॥ ४२/३३ ॥
वारद्वसमायुक्तं छन्दमेतत्प्रकीर्तितम् ।
सालिन्दं खण्डहर्म्यं वा कूटकोष्ठकभारकम् ॥ ४२/३४ ॥
चतुः शालाः शिरश्चैव सभामुखशिरोन्वितम् ।
नद्यावर्तं विकल्पं स्यात्प्रासादवदलङ्कृतम् ॥ ४२/३५ ॥
तेषां तेषां तु सम्मिश्रं प्रासादाङ्गसमन्वितम् ।
हर्म्याङ्गं मालिकाङ्गं वा एकानेकतलान्वितम् ॥
ऊहप्रत्यूहसंयुक्तं यथायुक्ति यथारुचि ।
आभासं नन्दिकावर्तं चतुर्णामपि कीर्तितम् ॥
एवं षोडशधा प्रोक्तं नन्द्यावर्तं द्विजोत्तमाः ।
॥ इति कामिकाख्ये महातन्त्रे नन्द्यावर्तविधिः चत्वारिंशत्तमः पटलः ॥
॥ स्वस्तिकविधिः ॥
निकृष्टं स्वस्तिकं तत्र षडष्टदशभागिकम् ।
वसुदिग्द्वादशांशं तु नीचं वै स्वस्तिकं भवेत् ॥ ४३/१ ॥
दशद्वादशमन्वंशं मध्यमं स्वस्तिकं मतम् ।
आदित्यमन्वोरेकांशमुत्तमं भागमिष्यते ॥ ४३/२ ॥
मूलं तु चतुरश्रं स्यात्तद्द्विभागाधिकायतम् ।
जातिरूपं भवेच्छन्दं चतुरंशाधिकायतम् ॥ ४३/३ ॥
षड्भागाधिकदैर्घ्यं तु विकल्पमिति कीर्तितम् ।
आभासमष्टवृत्तं यच्चत्वारिंशत्तु पञ्चयुक् ॥ ४३/४ ॥
हीनाद्यैस्त्रित्रिभागे तु संख्यैषां परिकीर्तिता ।
त्रित्रिदीर्घानि नीचाः स्युः पञ्चाशत्सप्तसंख्यया ॥ ४३/५ ॥
निकृष्टाद्यैः षडंशे तु द्व्यंशमङ्कणमिष्यते ।
शालाव्यासो द्विभागेन सर्वालङ्कारसंयुतः ॥ ४३/६ ॥
पृष्ठे तु दीघकोष्ठं स्यात्पूर्वकोष्ठं तथा भवेत् ।
बाह्यशालाद्वयं नेत्रं युक्तं तु कर्करीयुतम् ॥ ४३/७ ॥
एवं जातिस्वरूपं तु प्रोक्तं भूमीन्द्रवैश्ययोः ।
तदेवांशावृतालिन्दं छन्दं शास्त्रे प्रकीर्तितम् ॥ ४३/८ ॥
पृष्ठे नेत्रविहीनं स्यात्संयुक्तं पृष्ठशालया ।
दण्डिकावारसंयुक्तं भद्राङ्गं परिकीर्तितम् ॥ ४३/९ ॥
तदेवावृतवारं वा पृथुवारयुतं तु वा ।
विकल्पं स्वस्तिकं ज्ञेयमाभासं तत्र मिश्रितम् ॥ ४३/१० ॥
मुण्डप्रासादशोभाङ्गं हर्म्याङ्गं मालिकाङ्गकम् ।
अनेकभूमिसंयुक्तं प्रासादवदलङ्कृतम् ॥ ४३/११ ॥
आभासं स्वस्तिकं प्रोक्तं नृपाणां वणिजामपि ।
हीने द्व्यंशाङ्कणं मध्ये मार्गस्तु परितोंऽशतः ॥ ४३/१२ ॥
शालाव्यासो द्विभागेन षण्णेत्रसमवंशकम् ।
तत्र मध्ये चतुः शालाश्चोर्ध्वगानेकसंयुताः ॥ ४३/१३ ॥
मनुसंख्यातनेत्रं तु सर्वत्र परिकीर्तितम् ।
स्थूपिकादिसमायुक्ता सभा भद्राननान्विता ॥ ४३/१४ ॥
अङ्कणं मण्टपाकारमूर्ध्वोर्ध्वोपरि कल्पयेत् ।
दण्डिकावारसंयुक्तं स्वस्तिकं जातिरूपकम् ॥ ४३/१५ ॥
तदेवांशावृतालिन्दं छन्दं स्वस्तिकमिष्यते ।
अंशेनावृतवारं वा पृथुवारयुतं तु वा ॥ ४३/१६ ॥
चूलीहर्म्ययुतं वापि विकल्पं स्वस्तिकं मतम् ।
जात्यादीनां तु संयोगादाभासमिति कीर्तितम् ॥ ४३/१७ ॥
मुण्डप्रासादहर्म्याङ्गं मालिकाभासमीरितम् ।
मध्यमे त्वङ्गणं प्राग्वन्मार्गमेकांशतो भवेत् ॥ ४३/१८ ॥
अन्तर्वारमथैकांशं शालाव्यासो द्विभागतः ।
दण्डिकावारसंयुक्तं षण्णेत्रसमवंशकम् ॥ ४३/१९ ॥
वंशोपरिगताः शालाश्चतस्रोऽष्टाननान्विताः ।
ऊर्ध्वोर्ध्वमण्टपाकारहर्म्यस्थलमथाङ्कणम् ॥ ४३/२० ॥
चतुर्दिग्भद्रसंयुक्तं सभाङ्गं स्वस्तिकं भवेत् ।
तदेवांशाभितो द्वारं छन्दमित्यभिधीयते ॥ ४३/२१ ॥
तद्द्व्यंशं पृथुवारं यद्विकल्पमिति कीर्तितम् ।
आभासं तत्र मिश्रं यन्मुण्डप्रासादशोभितम् ॥ ४३/२२ ॥
हर्म्याङ्गं मालिकाङ्गं च मध्यमं चेति कीर्तितम् ।
उत्कृष्टे त्वङ्कणं द्व्यंशं मार्गस्तु परितोंऽशतः ॥ ४३/२३ ॥
अन्तर्वारमथैकेन शालाव्यासो द्विभागतः ।
अंशेन परितोऽलिन्दं नीव्रवारः शिरःक्रिया ॥ ४३/२४ ॥
अर्कनेत्रसमायुक्तं चतुर्दिग्भद्रसंयुतम् ।
जालकस्तम्भकुड्याङ्गनासिकातोरणान्वितम् ॥ ४३/२५ ॥
प्रस्तरक्षुद्रसोपानं सोपानादिसमन्वितम् ।
पादोत्तरं तुलाद्यङ्गं भित्तिसंश्लिष्टविष्टरम् ॥ ४३/२६ ॥
प्रासादवदलङ्कुर्याज्जातिरूपमिदं मतम् ।
तदेव परितो मार्गं वारभद्रसभामुखम् ॥ ४३/२७ ॥
पार्श्वशाले सभाकारे पूर्वे पृष्ठे सकोष्ठकम् ।
एकच्छन्दमिति प्रोक्तं पृथुवारं विकल्पकम् ॥ ४३/२८ ॥
महावारान्वितं वापि मुण्डहर्म्यमथापि वा ।
आभासं तत्र मिश्रं स्यान्मुण्डप्रासादशोभितम् ॥ ४३/२९ ॥
हर्म्याङ्गं मालिकाङ्गं वा स्वस्तिकं चैतदीरितम् ।
भूमीन्द्रवैश्ययोरेव भाषितं स्यादिहागमे ॥ ४३/३० ॥
॥ इति कामिकाख्ये महातन्त्रे स्वस्तिकविधिः एकचत्वारिंशत्तमः पटलः ॥
॥ चतुः शालाविधिः ॥
सर्वतोभद्रकाख्या च पूर्वोक्तायामसंयुता ।
निकृष्टा रुचका ज्ञेया देवपाषण्डयोग्यका ॥ ४४/१ ॥
सर्वतोभद्रकाख्याश्च प्रागत्र कथिताश्च याः ।
अन्तर्वारं च मार्गं च परित्यज्य बहिस्तु वा ॥ ४४/२ ॥
बाह्ये बाह्यान्तरं योज्यं यजमानेच्छया क्रमात् ।
तथैव पृथुवारं तु योजनीयं विचक्षणैः ॥ ४४/३ ॥
दीर्घहीना तु या शाला दैवे पाषण्डके द्विजे ।
दानादौ योजनीया सा पञ्चांशादिनवांशकम् ॥ ४४/४ ॥
कृत्वा गेहं द्विभागेन चैकभागेन कारयेत् ।
शालाव्यासं तु शेषेण वारमङ्कणमिष्यते ॥ ४४/५ ॥
चतुः शालमिदं प्रोक्तं सर्वसामान्यमिस्.यते ।
भित्तिमध्यं तु वा मानं पादमध्यमथापि वा ॥ ४४/६ ॥
ग्रामादिवास्तुमानं तु त्यक्तभक्तिकमिष्यते ।
प्रासादमालिकायानप्रभृतीनां तु मानकम् ॥ ४४/७ ॥
पादमध्यं तु वार्बाह्यव्यासायामप्रमाणकम् ।
पिण्डहीनं चतुः शालं सर्ववर्णेषु योग्यकम् ॥ ४४/८ ॥
मुक्ताङ्कणं च सामान्याङ्गणं कोणाङ्गणं च यत् ।
गेहं तु सर्ववर्णानामनिष्टमिति च स्मृतम् ॥ ४४/९ ॥
॥ इति कामिकाख्ये महातन्त्रे चतुः शालाविधानं नाम द्विचत्वारिंशत्तमः पटलः ॥
॥ पञ्चशालादिविधिः ॥
अथ वक्ष्ये विशेषेण पञ्चशालादिलक्षणम् ।
पञ्चशालां प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ४५/१ ॥
रविभागं गृहं कृत्वा चतुः शालासमन्ततः ।
द्विभागेन तथा मध्ये चाङ्कणद्वयसंयुतम् ॥ ४५/२ ॥
प्रस्तराग्रे तथा ग्रीवविभक्तिशिखराङ्गिनि ।
मध्यमे द्व्यंशविस्तारः षडंशायामसंयुतः ॥ ४५/३ ॥
सर्वतोभद्रशालादि नेत्रयुक्तं समन्ततः ।
मूलशालादिसंयुक्ता पञ्चशाला दिवौकसाम् ॥ ४५/४ ॥
षट्शाले मध्यमे द्व्यंशमङ्कणं परिकल्पयेत् ।
तत्पार्श्वयोस्तु शाले द्वे द्विद्विभागे विशालके ॥ ४५/५ ॥
जात्याद्यायामसंयुक्तां षट्शालां परिकल्पयेत् ।
सप्तशालासमाश्रं तु नवधा परिकल्पयेत् ॥ ४५/६ ॥
एकेन मध्यशाला स्यादङ्कणं पार्श्वयोः समम् ।
तत्पार्श्वयोस्तथा शाला पार्श्वयोरङ्कणं भवेत् ॥ ४५/७ ॥
समन्तादेकभागेन शालानां स्याच्चतुष्टयम् ।
एवं तु सप्तशालं स्याद्देवद्विजमहीभृताम् ॥ ४५/८ ॥
जात्याद्यायामसंयुक्तं सप्तशालं तथा भवेत् ।
विस्तारे पञ्चभागाः स्युरायामे रुद्रसंख्यया ॥ ४५/९ ॥
अङ्कणं गृहविस्तारं पूर्ववत्परिकल्पयेत् ।
किन्त्वङ्कणं तु भागेन वर्धितायामसंयुतम् ॥ ४५/१० ॥
विस्तारे सप्तभागाः स्युरायामे द्वादशांशकाः ।
द्विभागेन समन्ताच्च मध्ये शालां प्रकल्पयेत् ॥ ४५/११ ॥
अङ्कणं तु त्रिभागं स्याद्विस्तारे चायतावपि ।
विस्तारे त्वष्टभागाः स्युरायामे स्युश्चतुर्दश ॥ ४५/१२ ॥
समन्तान्मध्यमे चैव शालाव्यासो द्विभागतः ।
अङ्कणं द्वितयं कार्यं पञ्चभिः सप्तभिः पदैः ॥ ४५/१३ ॥
षण्णेत्रमष्टनेत्रं वा दशास्यं वाथ कल्पयेत् ।
सप्तशालमिदं प्रोक्तमष्टशालमथोच्यते ॥ ४५/१४ ॥
विस्तारे रुद्रभागाः स्युरायामे च तथैव च ।
समन्तादेकभागेन चतुः शालां प्रकल्पयेत् ॥ ४५/१५ ॥
एकभागाङ्कणं कुर्यान्मध्ये शालाचतुष्टयम् ।
अष्टनेत्रयुतं वापि षोडशास्ययुतं तु वा ॥ ४५/१६ ॥
विशिष्टप्रस्तरार्धांशामष्टशालां प्रकल्पयेत् ।
देवानां भूसुराणां स्यादष्टशाला द्विजोत्तमाः ॥ ४५/१७ ॥
विस्तारे रुद्रभागाः स्युरायामे स्युस्त्रयोदश ।
समन्तादेकभागेन चतुः शालां प्रकल्पयेत् ॥ ४५/१८ ॥
मध्यमे पञ्चशालाः स्युरेकभागविनिर्मिताः ।
अङ्कणानां चतुष्कं तु मध्यभागद्वयेन तु ॥ ४५/१९ ॥
एकभागकृतं शेषं द्व्यङ्कणं परिकल्पयेत् ।
भवन्ति विपुले सप्तदशदैर्घ्यद्वयाधिकम् ॥ ४५/२० ॥
एकभागमिता दिक्षु चतुः शालाः प्रकीर्तिताः ।
शालानां पञ्चकं मध्ये चतुः शालाः प्रकीर्तिताः ॥ ४५/२१ ॥
भागद्वयमिदं तासां षडङ्गणमुदाहृतम् ।
एकोनविंशदंशाः स्युर्विस्तारे दैर्घ्यके पुनः ॥ ४५/२२ ॥
एकविंशतिभागाः स्युर्द्विभागेन समन्ततः ।
मध्यमे पञ्चशालाः स्युर्भागद्वयविनिर्मिताः ॥ ४५/२३ ॥
एकभागेन मध्ये तु अङ्कणानां तु षट्ककम् ।
नवशालमिदं प्रोक्तं दशशालमिहोच्यते ॥ ४५/२४ ॥
पञ्चादिनवभागान्तं विस्तारेऽशं प्रकल्पयेत् ।
आयामे द्विगुणं कुर्यादथवायाम उच्यते ॥ ४५/२५ ॥
अष्टदिग्भागमन्वंशं विकारांशाः क्रमेण तु ।
अथवायामकॢप्तिस्तु पञ्चादीनां क्रमेण तु ॥ ४५/२६ ॥
आदित्यमन्वोरेकांशादष्टादशांशाश्च विंशतिः ।
यथायुक्ति गृहाणां च अङ्कणं तत्र कल्पयेत् ॥ ४५/२७ ॥
दशशालमिदं प्रोक्तं सर्वेषामपि योग्यकम् ।
विहारशाला कर्तव्या चैकशाला विशालका ॥ ४५/२८ ॥
एकविंशद्गुणानां तु शालाव्यासेन वर्धयेत् ।
द्विगुणाद्यायसंयुक्तं मानं विंशतिसंख्यकम् ॥ ४५/२९ ॥
कूटकोष्ठादिसंयुक्तं पुरतो भद्रसंयुतम् ।
पुरतः पृष्ठतो वापि वारालिन्दयुतं न वा ॥ ४५/३० ॥
नेत्रद्वयसमायुक्तमग्रनासाविभूषितम् ।
एकद्वित्रितलोपेतं कूटकोष्ठयुतं न वा ॥ ४५/३१ ॥
विहारशाला चैवोक्तं सर्वालङ्कारसंयुतम् ।
बौद्धार्हतादिपाषण्डयोग्यमेतदुदीरितम् ॥ ४५/३२ ॥
सकलक्षितिपेन्द्राणामेकादशतलं मतम् ।
नवभूमिर्द्विजानां स्यान्नृपाणां सप्तभूर्मता ॥ ४५/३३ ॥
षट्तलं मण्डलीकस्य पञ्चकं युवराजके ।
वैश्यानां च चतुर्भूमिर्योधसेनेशयोरपि ॥ ४५/३४ ॥
एकस्मादात्रितलान्तं तु शूद्राणां प्रविधीयते ।
सामन्तप्रमुखानां तु पञ्चभूमीर्विधीयते ॥ ४५/३५ ॥
युग्मं वायुग्मसंख्यं वा सर्वभूमीन्द्रमन्दिरम् ।
राज्ञां स्त्रीणां च देवीनां युग्मं वायुग्मसंख्यकम् ॥ ४५/३६ ॥
सदण्डिकं लुपारोहं द्विनेत्रं प्रस्तरान्वितम् ।
मृण्मयं तु तृणाच्छाद्यमेकद्वित्रितलान्वितम् ॥ ४५/३७ ॥
स्थूपिवर्णलुपासीनं प्रशस्तं सर्वजातिषु ।
॥ इति कामिकाख्ये महातन्त्रे पञ्चशालादिविधिः त्रिचत्वारिंशत्तमः पटलः ॥
॥ हस्तिशालाविधिः ॥
अथ वक्ष्ये विशेषेण हस्तिशालाविधिक्रमम् ।
त्रिकरं तु समारभ्य करार्धेन तु वर्धयेत् ॥ ४६/१ ॥
यावत्पञ्चकरं भित्तिमानं पञ्चविधं भवेत् ।
हस्तिशाला विधेया तु भित्तिमानेन धीमता ॥ ४६/२ ॥
विस्तारे भक्तयः षट् च आयामे नव भक्तयः ।
चतुर्भक्तिविशाला वा सप्तभित्त्या अथापि वा ॥ ४६/३ ॥
त्रिपञ्चभित्तयो वास्युर्विस्तारे चायतावपि ।
मुखशालैकभित्तिः स्यात् सार्धा वा द्विगुणापि वा ॥ ४६/४ ॥
विस्तारे चायते वापि निर्गमागमयोग्यकाः ।
दक्षिणे शयनस्थानं चेष्टभक्त्या विधीयते ॥ ४६/५ ॥
राजादनो मधूकश्च कदरः खदिरः पुनः ।
तिन्त्रिणी चार्जुनः प्रोक्ताः स्तबकः पिहितः शमी ॥ ४६/६ ॥
क्षीरिणी पद्मकाद्यास्ते शालास्तम्भा गजस्य च ।
नवाष्टसप्तहस्तोच्चाः काकमानं विहाय च ॥ ४६/७ ॥
विस्तारे स्यात्षडङ्गुल्यमेकाङ्गुलविवर्धनात् ।
द्वादशाङ्गुलमानं तदवगाहो यथा वलम् ॥ ४६/८ ॥
शालास्तम्भा इमे प्रोक्ता विटपाङ्गशिखान्विताः ।
आलानस्य विशालः स्याद्द्वादशाङ्गुलमानतः ॥ ४६/९ ॥
एकाङ्गुलविवृद्ध्या तु पञ्चविंशाङ्गुलान्तकम् ।
छत्राभाग्रं सुविस्तारमष्टांशं पीनसंयुतम् ॥ ४६/१० ॥
पञ्चधा तु कृते शालाव्यासे पृष्टे त्रिभागिकम् ।
नीत्वारेः षोडशांशं तु वामेऽष्टांशं व्यपोह्य तु ॥ ४६/११ ॥
स्थापयेत्कूटमालानं पूर्वोक्तोच्चसमन्वितम् ।
अनुवाताः समन्तात्स्युस्तत्र भित्तिं प्रकल्पयेत् ॥ ४६/१२ ॥
तदर्धं पादहीनं वा अष्टांशोनमथापि वा ।
तदूर्ध्वे छादनं कुर्यात्कूटाद्यैस्तु समन्ततः ॥ ४६/१३ ॥
गोस्तनं स्याद्वितस्त्या तु बहिराननसंयुतम् ।
फलकाप्रस्तरं कार्यं दृढदारुभिरेव तु ॥ ४६/१४ ॥
शिलाभिश्चेष्टकाभिश्च प्रस्तरं नैव योजयेत् ।
मूत्रद्वारसमोपेतं स्थूलद्वारं प्रकल्पयेत् ॥ ४६/१५ ॥
गजराशिं समारभ्य चाष्टमं द्वादशं तथा ।
परिहृत्य विधेया स्याद्गजशाला विचक्षणैः ॥ ४६/१६ ॥
एवं तु गजशाला स्यादश्वशाला विधीयते ।
नगरे राजवेश्मादौ कुर्याद्देवालयादिषु ॥ ४६/१७ ॥
अश्वानामपि पूर्वोक्तभक्त्या शालां प्रकल्पयेत् ।
द्विहस्तं तु समारभ्य विस्तरेणापि वर्धयेत् ॥ ४६/१८ ॥
नवहस्तप्रमाणान्तं भित्तिमानमथापि वा ।
एतद्विस्तारमाख्यातं त्वायामस्त्वधुनोच्यते ॥ ४६/१९ ॥
पादाधिकमथाध्यर्धं पादोनद्विगुणं तु वा ।
द्विगुणं वाथ विस्तारादायामं परिकल्प्यते ॥ ४६/२० ॥
एकभित्त्या द्विभित्त्या वा त्रिभित्त्या वाथ वाजिनः ।
स्थानं प्रकल्पयेच्छ्रेण्याः पृथु वा कर्तृवाञ्छया ॥ ४६/२१ ॥
समन्तात्कुड्ययुक्तं वा यथेष्टदिशिवारणम् ।
अत्रानुक्तं तु सामान्यशालामानोक्तमाचरेत् ॥ ४६/२२ ॥
पञ्चाङ्गुलं सामारभ्य वृद्ध्या चैकांङ्गुलेन तु ।
द्वादशाङ्गुलपर्यन्तं स्तम्भमानमिहोदितम् ॥ ४६/२३ ॥
आजानुद्वयविस्तीर्णं फलकाप्रस्तरान्वितम् ।
मूत्रद्वारसमायुक्तं सारदारुमयं दृढम् ॥ ४६/२४ ॥
सारदारुमयं कीलं द्विसप्ताङ्गुलदैर्घ्यकम् ।
विस्तारं त्र्यङ्गुलं प्रोक्तं सूचिकाग्रसमन्वितम् ॥ ४६/२५ ॥
पश्चाद्वन्धेऽग्रबन्धे च योजयेद्दृढघातवत् ।
अष्टमं द्वादशं राशिं परिहृत्यानुकूलतः ॥ ४६/२६ ॥
अश्वानामधिपस्यापि स्थानं सम्यक्समाचरेत् ।
उष्ट्रादीनामनेनैव प्रमाणेन समाचरेत् ॥ ४६/२७ ॥
अश्वशाला समाख्याता गोशाला प्रविधीयते ।
अश्वशालोक्तभक्त्या तु गोशालां परिकल्पयेत् ॥ ४६/२८ ॥
एकशाला द्विशाला वा त्रिशाला वाथ कल्पयेत् ।
चतुः शालासमा वापि आयामेन युतापि वा ॥ ४६/२९ ॥
ब्रह्माङ्कणं वृषोपेतं वियुक्तं वा प्रकल्पयेत् ।
गोराशेरविरोधेन स्थानं तासां प्रकल्पयेत् ॥ ४६/३० ॥
गवां रक्षा प्रकर्तव्या धान्येन तृणराशिभिः ।
पलालैरोदनाद्यैश्च निर्माल्यैर्वापि पोषयेत् ॥ ४६/३१ ॥
निर्माल्यभक्षणं तासां न दोषाय प्रकल्पितम् ।
आयादिसम्पत्संयुक्तं गजादिस्थानमीरितम् ॥ ४६/३२ ॥
॥ इति कामिकाख्ये महातन्त्रे हस्तिशालादिविधिः चतुश्चत्वारिंशत्तमः पटलः ॥
॥ मालिकालक्षणविधिः ॥
अथ वक्ष्ये विशेषेण मालिकालक्षणं द्विजाः ।
चतुर्धा मालिका शाला सभा मुण्डजसौधजे ॥ ४७/१ ॥
शालायामपि शालाङ्गा निष्क्रान्ताननशोभिता ।
सा शाला मालिका ज्ञेया शास्त्रेऽस्मिन् कामिकाह्वये ॥ ४७/२ ॥
सभावद्विहिता बाह्ये प्रासादवदलङ्कृता ।
ऊहप्रत्यूहसंयुक्ता या सभा सा च मालिका ॥ ४७/३ ॥
यथेष्टदिशि संयुक्ता भोगभूमिसमन्विता ।
प्रासादव्यासदीर्घोच्चा प्रोक्ता प्रासादमालिका ॥ ४७/४ ॥
मण्डपस्योक्तविस्तारायामतुङ्गविभूषिणी ।
सर्वत्र मुण्डाकारत्वात्कथिता मुण्डमालिका ॥ ४७/५ ॥
प्रत्येकं त्रिविधं प्रोक्तं सञ्चितं चाप्यसञ्चितम् ।
उपसञ्चितमित्येवं नागरं द्रामिडं तथा ॥ ४७/६ ॥
वेसरं च तथा जातिच्छन्दो वैकल्पमेव च ।
शुद्धं मिश्रं च सङ्कीर्णं बीजमूलं तथाङ्कुरम् ॥ ४७/७ ॥
अलिन्दसहितं वापि षड्वर्गसहितं च यत् ।
अर्पितं संचितं प्रोक्तं पुंलिङ्गं तद्धनीकृतम् ॥ ४७/८ ॥
देवानामसुराणां च सिद्धविद्याधरेष्वपि ।
रक्षोगन्धर्वयक्षाणां प्रशस्तानां च जन्मिनाम् ॥ ४७/९ ॥
सर्वत्र भोगभूम्यङ्गमलिन्दपरिशोभितम् ।
सर्ववर्गसमायुक्तं मनःप्रीतिसमन्वितम् ॥ ४७/१० ॥
चतुर्णामनुलोमानां योग्यं स्त्रीलिङ्गमिष्यते ।
पञ्चवर्गयुतं मिश्रमर्पितानर्पिताङ्गकम् ॥ ४७/११ ॥
पाषण्डानामिदं शस्तं नपुंसकसमन्वितम् ।
स्वविस्तारवाशाच्छन्नहस्तपूर्णायतान्वितम् ॥ ४७/१२ ॥
युग्मायुग्मविभागेन नागरं स्यात्समीकृतम् ।
अन्तरप्रस्तरोपेतमूहप्रत्यूहसंयुतम् ॥ ४७/१३ ॥
नीव्रसन्धारसंस्तम्भव्रातैः परिदृढैः शुभैः ।
द्रामिडं वक्ष्यतेऽथातस्तथा विस्तारदैर्घ्यकम् ॥ ४७/१४ ॥
रक्तच्छन्नप्रतिक्षेपाद्युग्मायुग्मविशेषतः ।
हित्वा तत्र समीभूतं भद्रालङ्कारसंयुतम् ॥ ४७/१५ ॥
अनेकवारसंयुक्तं षड्वर्गं द्रामिडं स्मृतम् ।
लब्धव्यासायतं यत्तु नातिरिक्तं न हीनकम् ॥ ४७/१६ ॥
बहुवर्गयुतं वापि दण्डिकावारशोभितम् ।
महावारं विमानोर्ध्वे निर्व्यूहाननसंयुतम् ॥ ४७/१७ ॥
स्वक्षेत्रोपेतमध्याङ्घ्रियुक्तं तद्वेसरं मतम् ।
यतीनां गणिकानां च जीविनां क्रूरकर्मणाम् ॥ ४७/१८ ॥
प्रशस्तं वेसरं तेषामन्येषामितरे शुभे ।
कर्णमध्येऽन्तरे कूटकोष्ठे पञ्जरसंयुतम् ॥ ४७/१९ ॥
षड्वर्गकसमायुक्तं जातिर्येषां ह्यनर्पितम् ।
कर्णे शालासभामध्ये छन्दं स्याच्छन्दमेव तत् ॥ ४७/२० ॥
त्यक्तमध्यांशके कोष्ठे यस्य स्यात्तद्विकल्पकम् ।
द्रुमेणेष्टकया वापि दृषदाद्यैरथापि वा ॥ ४७/२१ ॥
एतेन सहितं गेहं शुद्धमित्यभिधीयते ।
द्रव्यद्वययुतं मिश्रं सङ्कीर्णं बहुभिर्युतम् ॥ ४७/२२ ॥
देवानामेव संकीर्णमन्येषामन्यदिष्यते ।
विस्तारे चतुरंशं स्यादायामे तु षडंशकाः ॥ ४७/२३ ॥
परितो वारमेकांशं शालाव्यासो द्विभागतः ।
आयामं चतुरश्रं स्याच्छालानां च विशेषतः ॥ ४७/२४ ॥
मध्यागारविनिष्क्रान्तनिर्गमेन समन्विता ।
निर्गमस्तु द्विभागेन विस्तारो द्व्यंशमानतः ॥ ४७/२५ ॥
कोष्ठाननसमायुक्तं तदग्रे मण्डपं नयेत् ।
विस्तारे निर्गमे चैव विभागो मण्डपस्य तु ॥ ४७/२६ ॥
बहिर्वारसमायुक्तं व्यासः पार्श्वद्वयोरपि ।
पृष्ठे च मण्डपस्यापि पार्श्वयोरग्रदेशके ॥ ४७/२७ ॥
एकभागं विनिष्क्रान्तं द्व्यंशविस्तारसंयुतम् ।
संश्लिष्टवारसंयुक्तं षट्सु चार्धसभामुखम् ॥ ४७/२८ ॥
शालाशिखरसंयुक्तं नाम्ना सिन्धुकमिष्यते ।
एतदेव सभाकारशिखरं मन्त्रपूर्वकम् ॥ ४७/२९ ॥
संत्यक्तशिखरग्रीवचूलीहर्म्यसमायुतम् ।
संपूर्णमिति विख्यातमन्यत्सर्वं तु पूर्ववत् ॥ ४७/३० ॥
पूर्वोक्तसिन्धुकं वारवृक्षस्थलसमन्वितम् ।
मुखवत्पृष्ठशोभाढ्यं सर्वालङ्कारसंयुतम् ॥ ४७/३१ ॥
मेरुकूटमिदं नाम्ना चान्यत्पूर्वोक्तवद्भवेत् ।
एतदेव सभाकारशिखरं क्षेममुच्यते ॥ ४७/३२ ॥
क्षेममेव च पूर्वोक्तं पूर्वभद्रविहीनकम् ।
अग्रभक्तिसमायुक्तं शालापृष्ठे च पार्श्वयोः ॥ ४७/३३ ॥
भद्रपार्श्वद्वयोरग्रे षड्भागान् परिवर्जयेत् ।
तत्रैव शालापृष्ठे च नेत्रयोरुभयोरपि ॥ ४७/३४ ॥
शालाननं प्रकर्तव्यमेकद्व्यंशविनिर्मितम् ।
तत्तदग्रे प्रकर्तव्यं वारे भद्रस्य पश्चिमे ॥ ४७/३५ ॥
द्विभागं चतुरश्रस्य भद्रस्यैव च पार्श्वयोः ।
अग्रे च वाः स्थलं कुर्याद्द्वित्र्यंशायामविस्तरम् ॥ ४७/३६ ॥
पार्श्वयोः स्थलपूर्वे च द्वारमण्डपपार्श्वयोः ।
कर्णकूटद्वयं कुर्याच्चतुर्भागविनिर्मितम् ॥ ४७/३७ ॥
अग्रे च पार्श्वयोश्चैव कुर्यादेकांशवारकम् ।
चतुर्मध्ये चतुष्कोणे सभाकारं प्रकल्पयेत् ॥ ४७/३८ ॥
शिवमेतत्समाख्यातमन्यत्सर्वं तु पूर्ववत् ।
एतदेव च कर्णे तु कर्करीकृतकूटकम् ॥ ४७/३९ ॥
मध्ये शाला सुदृष्टाख्या अन्यत्सर्वं तु पूर्ववत् ।
एतदेव सभाकारशिखरं हर्म्यमिष्यते ॥ ४७/४० ॥
अन्ते तु प्रस्तरोपेतमेतत्सौम्यं तु कथ्यते ।
सर्वमङ्गं सभाकारं कर्णकूटविवर्जितम् ॥ ४७/४१ ॥
सभाव्यावृतवाराङ्गं विशालमिति कथ्यते ।
विशाले षट् तु भागं स्यादायामे दशभागकम् ॥ ४७/४२ ॥
षड्द्व्यंशायामविस्तारा मध्यशाला विधीयते ।
तद्बहिर्वारमेकांशं तद्बाह्ये तु वृषस्थलम् ॥ ४७/४३ ॥
तद्बहिश्च चतुर्दिक्षु द्व्यंशांशं वारनिष्क्रमः ।
चतस्रस्तु सभाः कार्याः कोणकूटचतुष्टयम् ॥ ४७/४४ ॥
लाङ्गलाकारसंयुक्तं वार्स्थलस्य बहिर्गतम् ।
नेत्रयोरुभयोश्चैव वार्स्थलांशे सभे मते ॥ ४७/४५ ॥
द्व्यंशं वाससमायुक्तं वारस्यैव बहिः स्थितः ।
चतुः षडंशविस्तारदैर्घ्यभद्रं मुखे मुखे ॥ ४७/४६ ॥
तन्मध्ये चतुरंशेन सभां कुर्यात्समन्ततः ।
वार्स्थलं चैकभागेन पार्श्वयोरुभयोरपि ॥ ४७/४७ ॥
चतुष्कोणे चतुष्कूटमेकभागविनिर्गमम् ।
शालामध्ये च कर्तव्या द्विभागेनैकभागतः ॥ ४७/४८ ॥
अन्तरे वार्स्थलं कुर्याद्विजयं नामतो भवेत् ।
एतदेव च पृष्ठे तु भद्रयुक्तं भवेद्यदि ॥ ४७/४९ ॥
सर्वकल्याणमित्युक्तमन्यत्सर्वं तु पूर्ववत् ।
पूर्वोक्तमेव विजयं भद्रयोरग्रपृष्ठयोः ॥ ४७/५० ॥
परित्यक्तसभाकारं मण्टपाकारसंयुतम् ।
सभाकारशिरोयुक्तं प्रधानागारमीरितम् ॥ ४७/५१ ॥
भद्रनाम्ना समाख्यातमन्यत्पूर्वोक्तवद्भवेत् ।
एतदेवमुखं भद्रं सभाकारशिरोयुतम् ॥ ४७/५२ ॥
एतद्रङ्गमुखं प्रोक्तमन्यत्सर्वं तु पूर्ववत् ।
पूर्वोक्तमेव विजयं भद्रयोरग्रकूटयोः ॥ ४७/५३ ॥
एतदेव तु शाला स्यान्मध्ये भद्रं भवेद्यदि ।
नाम्ना चाल्पमिति प्रोक्तमन्यत्पूर्वोक्तवन्नयेत् ॥ ४७/५४ ॥
आयामे दशभागाः स्युर्विस्तारे रसभागकाः ।
वासोमध्ये तु षड्द्व्यंशे वारं बाह्ये तु कारयेत् ॥ ४७/५५ ॥
तद्बाह्ये वार्स्थलं चैकभागेनैव प्रकल्पयेत् ।
वार्स्थले तु चतुष्कर्णे कूटमेकेन कारयेत् ॥ ४७/५६ ॥
तत्रैव मध्यभागे तु चैकद्व्यंशेन मण्डपम् ।
वासाद्यंशविनिष्क्रान्तशालामुखसमन्वितम् ॥ ४७/५७ ॥
हर्म्यस्थलस्य बाह्ये तु द्व्यंशैकांशसभामुखम् ।
पृष्ठे तु तद्वदिष्टं स्यान्नाम्नेदं कोणसंज्ञकम् ॥ ४७/५८ ॥
एतदेव सभाकारशिरोनाहमिति स्मृतम् ।
अग्रतः पृष्ठतः शालामुखागतमिति स्मृतम् ॥ ४७/५९ ॥
नेत्रयोः पृष्ठकास्यं चेद्गेयं नाम्ना समीरितम् ।
शालामुखं तु कर्णे स्यात्सारं नाम्ना प्रकीर्तितम् ॥ ४७/६० ॥
तदग्रे चैव पृष्ठे च द्विचतुर्भागसंयुतम् ।
पारावृतस्य शालास्यं पुष्करं त्विति कथ्यते ॥ ४७/६१ ॥
उभयं च दशास्यं चेद्द्भुतं चेति कीर्तितम् ।
मध्ये शालाननोपेतं बाहुकोष्ठाननान्वितम् ॥ ४७/६२ ॥
अन्यत्र संज्ञया चैतत्सङ्कीर्णं परिपठ्यते ।
भद्रद्व्यं च संत्यक्तं शिखरं मण्टपं तु चेत् ॥ ४७/६३ ॥
नाम्ना पुष्करमित्युक्तमन्यत्पूर्वोक्तवर्त्मना ।
एतदेव च सर्वत्र सभागं दण्डमुच्यते ॥ ४७/६४ ॥
॥ इति कामिकाख्ये महातन्त्रे मालिकालक्षणविधिः पञ्चचत्वारिंशत्तमः पटलः ॥
॥ लाङ्गलमालिकाविधिः ॥
मालिकां लाङ्गलाख्यां तु प्रवक्ष्यामि विशेषतः ।
विस्तारेष्टांशकं कुर्यादायामे द्वादशांशकः ॥ ४८/१ ॥
परितो वारमेकांशं शालाव्यासो द्विभागतः ।
शेषं हर्म्यस्थलं कुर्यान्मध्ये वारणसंयुतम् ॥ ४८/२ ॥
चतुर्द्व्यंशेन विस्तारयुक्तमेतदिहोदितम् ।
कर्णे स्याल्लाङ्गलाकारकूटनिर्गमसंयुतम् ॥ ४८/३ ॥
नेत्रद्वयसमायुक्तं गोमेचमिति कथ्यते ।
तदेव वेदनेत्रं चेद्विश्वमित्यभिधीयते ॥ ४८/४ ॥
हर्म्यद्वयस्य मध्ये तु कर्णकूटद्वयान्वितम् ।
आदेयमिति विख्यातं लाङ्गलं त्रिविधं भवेत् ॥ ४८/५ ॥
॥ इति कामिकाख्ये महातन्त्रे लाङ्गलमालिकाविधिः षट्चत्वारिंशत्तमः पटलः ॥
॥ मौलिकामालिकाविधिः ॥
अथ वक्ष्ये विशेषेण मालिकामौलिकाह्वयम् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकम् ॥ ४९/१ ॥
समन्ताद्द्वारमेकांशं शालाव्यासो द्विभागतः ।
वेदनेत्रसमायुक्तमन्यत्स्यात्सलिलस्थलम् ॥ ४९/२ ॥
कर्णकूटद्विभागेन मण्टपं मध्यमं भवेत् ।
कूटं च मण्टपं चैव निष्क्रमेण समन्वितम् ॥ ४९/३ ॥
युग्मनाभमिति प्रोक्तं मध्यमण्टपमध्यमे ।
चतुरश्रसमायुक्तं धनमित्यभिधीयते ॥ ४९/४ ॥
तदेव कूटकं चेत्तु सुखमित्यभिधीयते ।
बहिः शालाननोपेतं यदि स्याद्रौद्रमुच्यते ॥ ४९/५ ॥
षड्भिर्नेत्रैः समायुक्तं षण्णेत्रमिति कथ्यते ।
एवं पञ्चविधं प्रोक्तं त्रिशालामौलिकं तु तत् ॥ ४९/६ ॥
॥ इति कामिकाख्ये महातन्त्रे मौलिकामालिकाविधिः सप्तचत्वारिंशत्तमः पटलः ॥
॥ पद्ममालिकाविधिः ॥
अथ वक्ष्ये विशेषेण मालिकां पद्मकाह्वयम् ।
अष्टांशव्याससंयुक्तं दशांशायामसंयुतम् ॥ ५०/१ ॥
समन्तात्परितोंऽशेन वारं तु परिकल्पयेत् ।
अन्तः शालाद्विभागेन मध्याङ्कणसमन्विता ॥ ५०/२ ॥
द्विभागविस्तृतं वेदभागायामसमन्वितम् ।
शालाकारं सभाकारं मण्टपं वाङ्कणं भवेत् ॥ ५०/३ ॥
एकभागविनिष्क्रामं भागद्वयविशालतः ।
पाश्वयोर्भद्रसंयुक्तमङ्कणस्योक्तरूपवत् ॥ ५०/४ ॥
मुख्यवारसमाश्लिष्टं कुर्याच्चङ्क्रमणत्रयम् ।
नेत्राणि चार्धकूटानि कर्णाश्लिष्टानि चाष्ट च ॥ ५०/५ ॥
शालाभशिखरं मुख्यधाम कुर्यात्तदुद्धृतम् ।
मण्टपाग्रजशाला स्यात्पक्षशाला तु वार्स्थले ॥ ५०/६ ॥
बाह्ये वारे चतुष्कोणे सभा स्याद्द्वयंशनिर्गमा ।
मध्ये शाला सभा वा स्यान्मध्ये वारणमिष्यते ॥ ५०/७ ॥
कूटशालान्तरे कुर्याद्धस्तिपृष्ठाभनासिकाम् ।
शालाग्रपृष्ठपार्श्वेषु द्विभागेनैकभागतः ॥ ५०/८ ॥
शालाः स्युर्वा सभा वा स्युरन्तरान्तरदेशके ।
हाराङ्कालंकृतं कुर्याच्छ्रीवर्धनमिदं मतम् ॥ ५०/९ ॥
एतत्सौभद्रमित्युक्तं त्यक्तमस्तकमेव च ।
शिखरं तु सभाकारं मुखे शालास्यमेव च ॥ ५०/१० ॥
पूर्वोक्तमन्यत्सर्वं स्यात् श्रीभद्रं नामतो भवेत् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकाः ॥ ५०/११ ॥
ब्रह्माङ्कणं द्विभागं स्याद्विस्तारे द्विगुणायतम् ।
अन्तर्वारं बहिर्वारं शालायास्त्वेकभागतः ॥ ५०/१२ ॥
शालाव्यासो द्विभागेन पार्श्वयोरुभयोरपि ।
चतस्रोऽर्धसभायास्ताः सक्तावारविशेषतः ॥ ५०/१३ ॥
पूर्वे च पश्चिमे भागे द्व्यंशांशव्यासनिर्गमे ।
शालास्ये वा सभास्ये वा भद्रे वारान्तरे स्थिरे ॥ ५०/१४ ॥
पार्श्वयोरुभयोर्द्व्यंशव्यासे वेदांशदैर्घ्यके ।
मध्यं वारणके कल्प्यं सवारे वासबाह्यतः ॥ ५०/१५ ॥
मुखशाला विशाला स्यान्मुखवासात्तु मण्टपः ।
शेषं हर्म्यस्थलं कार्यमङ्कणं तु विशेषतः ॥ ५०/१६ ॥
भद्रसुन्दरमेतत्स्यात्कल्पयेत्कल्पवित्तमः ।
एतदेव सभाकारं शिरश्चेन्मुख्यवासकम् ॥ ५०/१७ ॥
मेरुकान्तमिति प्रोक्तं सर्वालङ्कारशोभितम् ।
विस्तारे द्वादशांशः स्यादायामे नवभागकम् ॥ ५०/१८ ॥
वेदभागसमायामभागद्वयसुविस्तरम् ।
अङ्कणं बाह्यतो वारमेकशालाद्विभागतः ॥ ५०/१९ ॥
अङ्कणं मण्टपं मुख्यवारं तत्तद्भवेदिह ।
अग्रशाला च तद्वत्स्याच्छेषं सर्वं तु वार्स्थलम् ॥ ५०/२० ॥
स्वायामार्धप्रमाणेन चोद्धृतं मुख्यवासकम् ।
हाराङ्गशोभितं तच्च मण्टपं प्रविधीयते ॥ ५०/२१ ॥
वासबाह्येंऽशतो वारं तत्राष्टौ स्युः सभामुखे ।
कर्करीबन्धयुक्तास्तु वासाश्लिष्टास्त्विमे मताः ॥ ५०/२२ ॥
प्रधाने चाग्रशालायामन्तः पार्श्वद्वयोरपि ।
बहुशालानुसारेण सभाशालानने मते ॥ ५०/२३ ॥
तद्बाह्ये चावृतं वारमेकभागेन कल्पयेत् ।
तद्बाह्ये च चतुर्दिक्षु पञ्चभागविनिर्गमात् ॥ ५०/२४ ॥
दशभागविशालेन कुर्याद्भद्रचतुष्टयम् ।
तत्रैव च चतुर्दिक्षु वेदभागविशालतः ॥ ५०/२५ ॥
भागद्वयविदिङ्मार्गं मध्यवारणमिष्यते ।
तत्पार्श्वयोर्द्वयोश्चैवान्तराला द्व्यंशविस्तराः ॥ ५०/२६ ॥
एकभागविनिष्क्रान्ताश्चाष्टौ स्युस्ते सभामुखाः ।
मध्यवारणबाह्ये तु पार्श्वयोर्द्व्यंशविस्तरे ॥ ५०/२७ ॥
चतुरंशाययुक्ते चैकान्तरालसमन्विते ।
द्वे शाले च प्रकर्तव्ये दक्षिणे चोत्तरेऽपि च ॥ ५०/२८ ॥
तत्पार्श्वयोर्द्वयोद्व्यंशंत्र्यंशे च विपुलास्तथा ।
विपरीतायसंयुक्ताश्चैकभागान्तरालकाः ॥ ५०/२९ ॥
शालाश्चतस्रः कर्तव्याः पार्श्वयोरुभयोरपि ।
पुरतः पृष्ठतो वापि मध्यवारणपूर्वकम् ॥ ५०/३० ॥
चतुरंशेन कूटं स्यादेकभागान्तरालकम् ।
अथवा चतुरंशेन शाला पूर्ववदीरिता ॥ ५०/३१ ॥
तत्पार्श्वयोर्द्वयोश्चैव कर्णकूटद्वयं भवेत् ।
भागद्वयान्तरालं तु दक्षिणोत्तरकूटयोः ॥ ५०/३२ ॥
कूटार्धसभयोरेवं पश्चिमेऽप्येवमेव तु ।
अन्यत्सर्वं समानोक्तं नाम्ना चैतत्सुमङ्गलम् ॥ ५०/३३ ॥
पञ्चषट्सप्तभौमान्तं भूपालानां प्रकीर्तितम् ।
तदेव चाङ्कणं मुख्यं वासशालाख्यमीरितम् ॥ ५०/३४ ॥
कर्णकूटद्वयं चाग्रशालांशे वेदभागतः ।
अहन्यमेतदुद्दिष्टमन्यत्सर्वं तु पूर्ववत् ॥ ५०/३५ ॥
सभाग्रमङ्कणं मुख्यागारं चेत्कान्तिवर्धनम् ।
विस्तारायामतोर्कांशं मन्वंशेन समायुतम् ॥ ५०/३६ ॥
अङ्कणं स्याच्चतुर्भागं विस्तारे चायतेऽपि च ।
शालाव्यासो द्विभागेन सर्वत्र परिकीर्तितः ॥ ५०/३७ ॥
मुख्यधाम्नः समन्तात्तु वारमेकांशतो भवेत् ।
मुख्यधाम्नो मुखे पृष्ठे शाला स्यान्नासिकाद्वयम् ॥ ५०/३८ ॥
शालाख्यमुख्यधाम स्यात्कभित्त्या च समन्वितम् ।
अग्रशालांशके कोणे कूटे द्व्यंशेन निर्मिते ॥ ५०/३९ ॥
शेषं हर्म्यस्थलं चान्तः शिष्टं कुड्यसमन्वितम् ।
बहिरावृतवारं स्यात्पताकाकुड्यसंयुतम् ॥ ५०/४० ॥
बहिर्वारे द्विभागैकभागविस्तारनिर्गमे ।
शालासभामुखे पूर्वे पूर्वकार्याग्रशालके ॥ ५०/४१ ॥
तद्बहिः कारयेद्वर्षस्थलं भागद्वयेन तु ।
खण्डहर्म्यसमायुक्तं समन्तात्परिकल्पयेत् ॥ ५०/४२ ॥
स्वव्यासार्धं तदर्धं वा कर्णकूटस्य निर्गमः ।
शालायामविशालेन पञ्चभागविनिष्क्रमात् ॥ ५०/४३ ॥
बाह्ये तु खण्डहर्म्यं स्याच्चतुर्भद्रं प्रयोजयेत् ।
दक्षिणे चोत्तरे वापि भद्रयोश्च द्वयोरपि ॥ ५०/४४ ॥
खण्डहर्म्यस्य पार्श्वे तु वार्स्थलं चैकभागतः ।
तदग्रे मण्टपे मध्ये वेदभागेन निर्मितम् ॥ ५०/४५ ॥
तत्कर्णयोर्द्वयोश्चैव कर्णकूटद्वयं भवेत् ।
पार्श्वयोर्मण्टपं वेदभागेनैव तु वार्स्थलम् ॥ ५०/४६ ॥
पार्श्वयोर्द्व्येकभागेन तद्वदेव च वार्स्थलम् ।
तत्पार्श्वयोर्द्वयोर्वेदद्व्यंशेनैव तु निर्मिते ॥ ५०/४७ ॥
प्रतिलोमायते शाले कार्ये मध्ये तु वार्स्थलम् ।
उभयोः पार्श्वयोर्वारे कार्या चार्धसभामुखा ॥ ५०/४८ ॥
भागद्वयविशालास्तु चैकभागविनिर्गमाः ।
पृष्ठतः पुरतो भद्रद्वये त्वेवं समाचरेत् ॥ ५०/४९ ॥
खण्डहर्म्यस्य बाह्ये तु वार्स्थले चैकभागतः ।
तदग्रे मण्टपं वेदभागेनैव तु निर्मितम् ॥ ५०/५० ॥
तत्कर्णकूटयोश्चैव कर्णकूटद्वयं भवेत् ।
पार्श्वयोर्मण्टपस्यैव वेदभागेन वार्स्थलम् ॥ ५०/५१ ॥
तदग्रे वार्स्थलं चैकभागेनैव तु निर्मितम् ।
तदग्रे वारमेकांशं कुड्यं चापि प्रयोजयेत् ॥ ५०/५२ ॥
तदग्रे द्व्यंशविस्ताराच्चैकभागविनिष्क्रमात् ।
मुखशाला प्रकर्तव्या विशेषेण विमानवत् ॥ ५०/५३ ॥
पूर्वपश्चिमभद्रं तु सवारं वाक्षिपक्ष्मवत् ।
एतत्तद्वर्धमानं स्याद्भूपालानां प्रशंसितम् ॥ ५०/५४ ॥
तदेव च शिरोहीनं शुकपञ्जरसंयुतम् ।
मनोरम्यमिति ख्यातं द्विजातीनां प्रशंसितम् ॥ ५०/५५ ॥
तदेव मुख्यधामैवं सभाशिखरसंयुतम् ।
अङ्कणं तु सभारं स्यात् श्रीकरं चैतदीरितम् ॥ ५०/५६ ॥
विस्तारे द्वादशांशाः स्युरायामे मनुभागतः ।
अङ्कणं वेदभागं स्याच्छालाव्यासो द्विभागतः ॥ ५०/५७ ॥
मुखागारेऽग्रशालायां स्याच्चङ्क्रमणमेकतः ।
अङ्कणं तु सभारं स्यान्मुख्यागारं तु कोष्ठकम् ॥ ५०/५८ ॥
तत्संश्लिष्टद्विभागैकभागविस्तारनिर्गमम् ।
शालावक्त्रसमायुक्तं तद्भद्रं च क्रमोज्झितम् ॥ ५०/५९ ॥
तस्य पश्चिमभागे तु तद्वदेव विधीयताम् ।
वार्स्थले बाहुशाले द्वे मुख्यागारस्य पार्श्वयोः ॥ ५०/६० ॥
मण्टपद्वितयं कुर्याद्वासकं वापि मण्टपम् ।
परितो वारमेकांशं सभारं स्याज्जलस्थलम् ॥ ५०/६१ ॥
पार्श्वयोर्मुखशालायाः कुर्यादर्धसभामुखे ।
पार्श्वयोरुभयोश्चैव शाले कार्ये विचक्षणैः ॥ ५०/६२ ॥
बहिर्भागद्वयेनेष्टं वार्स्थलं खण्डहर्म्ययुक् ।
कर्णकूटचतुष्कं तु तत्र कोणेषु कारयेत् ॥ ५०/६३ ॥
सद्वारं स्याच्चतुर्दिक्षु विभागेन तु निर्मितम् ।
चतुर्भागसमायामं सवारं मुखपार्श्वके ॥ ५०/६४ ॥
शालाचतुष्टयं कुर्यादुत्तरे कूटकोष्ठयोः ।
नीडाष्टकं प्रकर्तव्यं दिशामुखमिदं मतम् ॥ ५०/६५ ॥
एतदेव शिरोहीनं मुखागारं सभारकम् ।
अङ्कणं मण्टपाकारं नाम्ना विपुलमुच्यते ॥ ५०/६६ ॥
मुख्यागारं सभाकारं शाला स्याच्चाङ्कणक्रिया ।
मण्टपं चाग्रशालास्थद्वयं हित्वा तु कूटकम् ॥ ५०/६७ ॥
द्वयं तत्र पकर्तव्यं सूर्यकान्तमिदं मतम् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकम् ॥ ५०/६८ ॥
द्व्यंशेनायतदीर्घे तु विभागो विस्तरः पुनः ।
अङ्कणस्य पुरः पृष्ठवारमेकांशतो भवेत् ॥ ५०/६९ ॥
शालाव्यासो द्विभागेन सर्वत्र परिकीर्तितः ।
बहिर्वर्षस्थलं चैकभागं भागेन वारकम् ॥ ५०/७० ॥
व्यासायामविशालेन तदर्धेन च निर्गमम् ।
बहिर्वर्षस्थलाद्भद्रद्वयं भद्रान्वितं भवेत् ॥ ५०/७१ ॥
प्रतिलोमायते शाले द्विचतुर्व्यासदैर्घ्यके ।
तयोर्मध्येऽनुलोमेन शालायाममिहेष्यते ॥ ५०/७२ ॥
बहिष्ठद्व्येकभागेन पार्श्वाभ्यां निर्गमं भवेत् ।
एकभागान्तरालेन सर्वाः शाला निवेशिताः ॥ ५०/७३ ॥
पूर्वस्मिन् पृष्ठदेशे तु विभागेनैव निर्गमम् ।
मध्ये वाराणमिष्टं स्यादुच्छ्रितं स्वामिवासकम् ॥ ५०/७४ ॥
अग्रहारं तु तद्वत्स्यात्तत्संश्लिष्टे तु बाहुके ।
जालकैस्तोरणैश्चैव नासिकाद्यैरलङ्कृतम् ॥ ५०/७५ ॥
श्रीकान्तमेतदाख्यातं योग्यमैश्वर्यभोगिनाम् ।
तदेव मुख्यागारस्य शिखरं तु सभाकृति ॥ ५०/७६ ॥
वारणैश्चावृतं ब्रह्माङ्कणस्थानं सभाकृति ।
पूर्वशालाग्रमूलस्थं कर्णकूटद्वयं भवेत् ॥ ५०/७७ ॥
शेषं तु वार्स्थलोपेतं रुद्रकान्तमिदं मतम् ।
मुख्यागारं तु गोष्ठाभं कोष्ठाग्रं त्वङ्कणं भवेत् ॥ ५०/७८ ॥
अग्रशालाङ्गके पार्श्वे कर्तव्ये कोष्ठकानने ।
तत्रैव पूर्वभागे तु कोष्ठकस्य द्विभागतः ॥ ५०/७९ ॥
विस्तारान्निर्गमादेकभागं षण्मुखमीरितम् ।
षण्णेत्रं स्यादिति ब्रह्माङ्कणं कोष्ठाननेऽपि च ॥ ५०/८० ॥
संत्यक्तशिखरं सर्वमण्टपाकारमिष्यते ।
जयन्तं नामतः प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ५०/८१ ॥
विस्तारे मनुभागाः स्युरायमे षोडशांशकाः ।
अङ्कणं तु चतुर्भागं शालाद्व्यंशेन बाह्यतः ॥ ५०/८२ ॥
तद्बहिर्वारमेकांशं खण्डहर्म्यं तु बाह्यतः ।
खण्डहर्म्याङ्गके बाह्ये वेदभागेन निर्मितम् ॥ ५०/८३ ॥
चतुष्कूटं चतुष्कोणे चतुर्नासिसमन्वितम् ।
तयोर्मध्ये चतुर्द्व्यंशे चतुः शालाः प्रकीर्तिताः ॥ ५०/८४ ॥
कर्करीशिखरोपेता अग्रवारान्विता नव ।
हारबन्धं यथास्थानं कामाङ्कणमुदीरितम् ॥ ५०/८५ ॥
एतदेवाङ्कणं भागत्रयेणायामसंयुतम् ।
तेन वारं प्रकर्तव्यं मुख्यागारस्य चाग्रतः ॥ ५०/८६ ॥
उत्तुङ्गशिखरग्रीवं मुख्यागारं प्रकीर्तितम् ।
शालास्यमङ्कणं च स्यात्कर्करीकृतवक्त्रकम् ॥ ५०/८७ ॥
शेषं तु वार्स्थलं कुर्याद्वारबन्धान्तमौलिकम् ।
भद्रेण भद्रसंयुक्तं सुखदं स्वस्तिकं मतम् ॥ ५०/८८ ॥
विस्तारे चायते चैव पूर्ववद्भागसंयुतम् ।
द्विचतुर्भागसंयुक्तमङ्कणं तस्य बाह्यतः ॥ ५०/८९ ॥
वारमेकेन कर्तव्यं शालाव्यासो द्विभागतः ।
बहिर्वारमलिन्दं च खण्डहर्म्यं च भागशः ॥ ५०/९० ॥
शालाभागे चतुष्कोणे चतुष्कूटं तु कारयेत् ।
चतुर्णामपि मध्ये तु कुर्याच्छालाचतुष्टयम् ॥ ५०/९१ ॥
अङ्कणं मण्टपाकारं शालातुङ्गाधिकोन्नतम् ।
अन्तर्विन्यासवत्खण्डहर्म्यं तु परिकल्पयेत् ॥ ५०/९२ ॥
शालामध्याननोपेतं चतुर्दिक्षु प्रकल्पयेत् ।
अन्तरे पञ्जरान् कुर्यात्खण्डहर्म्ये विशेषतः ॥ ५०/९३ ॥
गुह्ये गुह्ये क्रियोपेतं विश्वभद्रं भवेदिदम् ।
द्विचतुर्भागविस्तारदैर्घ्यमङ्कणमिष्यते ॥
अङ्कणावृतवारं तु नन्दिच्छन्दं प्रदक्षिणम् ॥ ५०/९४ ॥
नन्द्यावर्ताननोपेतं कुर्याच्छालाचतुष्टयम् ।
समवंशं यथाकार्यं खण्डहर्म्ये तु कोणके ॥ ५०/९५ ॥
एकाङ्गनिर्गतच्छन्दं छन्दाकाराननान्वितम् ।
शालाचतुष्टयं कुर्याच्छालाव्यासार्धनिर्गमम् ॥ ५०/९६ ॥
द्विगुणायामसंयुक्तं मध्यवारणमिष्यते ।
प्रासादवदलंकुर्यान्नन्द्यावर्तं द्विजोत्तमाः ॥ ५०/९७ ॥
शालाचतुष्टयं कुर्यात्सभाकारशिरो यथा ।
अङ्कणं मण्टपं कुर्यादुच्छ्रितं ततमीरितम् ॥ ५०/९८ ॥
सौमुख्यमिदमाख्यातं सर्वेषां तु सुखावहम् ।
सर्वं तु मण्टपाकारं शालानां परिकीर्तितम् ॥ ५०/९९ ॥
शुकपञ्जरसंयुक्तं बाह्ये वारादि पूर्ववत् ।
रुचकं चेदमाख्यातमन्यत्सर्वं तु पूर्ववत् ॥ ५०/१०० ॥
विस्तारायाममानेन समं स्याद्वारमङ्कणम् ।
शालाव्यासोऽपि तद्वत्स्याद्वारादित्रितयं ततः ॥ ५०/१०१ ॥
मण्टपं तु चतुर्दिक्षु कोणे वेदसभान्वितम् ।
शेषं तु वार्स्थलं कुर्यात्सुप्रतिष्ठितमीरितम् ॥ ५०/१०२ ॥
मुख्यागारं तु शालास्यमङ्कणं च यथा भवेत् ।
अन्यद्वर्षस्थलं सर्वं नामतो जयमङ्गलम् ॥ ५०/१०३ ॥
अङ्कणं तु सभाकारं मुख्यागारं तु हर्म्यवत् ।
कूटाकारं चतुर्दिक्षु मण्टपं परिकल्पयेत् ॥ ५०/१०४ ॥
अन्यत्सर्वं तु पूर्वोक्तमेतदद्भुतमिष्यते ।
विस्तारे षोडशांशाः स्युरायामेऽष्टादशांशकाः ॥ ५०/१०५ ॥
मध्यमे द्विचतुर्भागैरङ्कणं परिकल्पयेत् ।
तद्बाह्ये द्वारमेकांशं शालाव्यासो द्विभागतः ॥ ५०/१०६ ॥
समन्ताद्वारमेकांशं बाह्ये वारं तथैव च ।
अलिन्दं चैकभागेन खण्डहर्म्यं तु चैकतः ॥ ५०/१०७ ॥
मुख्यशालाग्रशाले च नेत्रहीने प्रकल्पयेत् ।
बाहुशालाद्वयं कार्यं तत्संश्लिष्टं तथा भवेत् ॥ ५०/१०८ ॥
मुख्यागारापरस्थाने स्थाने मूले तु वर्चसा ।
मध्यवारं च भद्रैश्च खण्डहर्म्यैश्च मण्डितम् ॥ ५०/१०९ ॥
कर्णद्व्यंशेन सोपानमग्रशालांशके नयेत् ।
अग्रे शालासमायुक्तं त्रिशिरोमण्टपं तु वा ॥ ५०/११० ॥
वासस्थानं च भोगं च स्वामिवाञ्च्छावशान्नयेत् ।
एतत्पद्मकमित्युक्तमन्यत्सर्वं तु पूर्ववत् ॥ ५०/१११ ॥
॥ इति कामिकाख्ये महातन्त्रे पद्ममालिकाविधिः अष्टचत्वारिंशत्तमः पटलः ॥
॥ नागरादिविभेदविधिः ॥
नागरादिविभेदं तु प्रवक्ष्यामि विशेषतः ।
विन्ध्यान्तं चैव कृष्णान्तं कन्यान्तं तु हिमाचलात् ॥ ५१/१ ॥
तस्मात्तस्मात्त्रिधा धात्री युक्तसत्वतमोरजाः ।
नागरं द्रामिडं चैव वेसरं सार्वदेशिकम् ॥ ५१/२ ॥
कालिङ्गं च वराटं च षड्विधं त्विह कीर्तितम् ।
नागरं सात्विके क्षेत्रे वेसरं स्यात्तमोऽधिके ॥ ५१/३ ॥
राजसे द्रामिडं सार्वदेश्यं सर्वत्र सम्मतम् ।
कालिङ्गं च वराटं च ग्राह्यं सत्वरजोधिऽके ॥ ५१/४ ॥
मूलं मसूरकं जङ्घा कपोतं शिखरं गलम् ।
ऊर्ध्वे चामलसारेणाष्टवर्गः कुम्भशूलयुक् ॥ ५१/५ ॥
अन्यैरुपरि निक्षिप्तं प्रोक्तं वर्गाष्टकं तु यत् ।
रथैः प्रतिरथैः कोणैरन्योन्याधिकभद्रकैः ॥ ५१/६ ॥
त्रिभिर्वा पञ्चभिर्भागैर्नवभिर्वाथ सप्तभिः ।
सोष्ट्रभावादिभिर्नीडयुक्तोपान्तैश्चरण्डकैः ॥ ५१/७ ॥
सर्वाकृतिविचित्राङ्गैः सन्तारप्रस्तरक्रियम् ।
ऊहप्रत्यूहसंयुक्तमोजानोजांशमुण्डयुक् ॥ ५१/८ ॥
सकर्माकर्मजं यत्तु मण्डलामलसारकम् ।
शुकनासिकयोपेतं पार्श्वयोः प्रमुखे मुखे ॥ ५१/९ ॥
मुण्डमण्डपसंयुक्तमङ्गप्रत्यङ्गकल्पितम् ।
यथायुक्ति यथाशोभं विधातव्यं हि नागरम् ॥ ५१/१० ॥
बहिरभ्यन्तरस्तम्भभित्तितुल्यक्रियान्वितम् ।
प्रकृत्युपरि जन्मोर्ध्वे सोपपीठमसूरकम् ॥ ५१/११ ॥
समस्तम्भान्तरं यत्तु सभारमविभागभाक् ।
जन्मोपपीठाधिष्ठानस्तम्भप्रस्तरकन्धरैः ॥ ५१/१२ ॥
शिखरस्थूपिकाभ्यां च षड्वर्गसहितं नयेत् ।
मानसूत्राद्बहिस्तिर्यक्समसूत्राङ्गभद्रकम् ॥ ५१/१३ ॥
समस्तम्भान्तरस्योर्ध्वं प्रस्तरान्तरबन्धनम् ।
नालिकान्धारिकाधारहारोरस्याभिमण्डनम् ॥ ५१/१४ ॥
कपोतशालया ब्रह्मद्वारयुक्तं पताकया ।
शुकनासिकयोपेतं युक्तं प्रमुखमण्टपम् ॥ ५१/१५ ॥
श्रेष्ठं त्रयोदशांशं तु द्वादशांशमिति स्मृतम् ।
तथा षट्सप्तभौमं त्रिःपञ्चत्रिः सप्तभागभाक् ॥ ५१/१६ ॥
तथा चाष्टतलं प्रोक्तं नवभौमं निकेतनम् ।
सप्तदशद्विरष्टांशनवाष्टदशकांशकम् ॥ ५१/१७ ॥
षड्विधाकृतिविन्यासं सर्वाङ्गपरिमण्डनम् ।
मध्यकर्णविनिर्गच्छत्प्रमाणभवनान्वितम् ॥ ५१/१८ ॥
एवमादिविशिष्टाङ्गं विमानं द्रामिडं मतम् ।
युक्तं द्रामिडविन्यासं नागरक्रिययान्वितम् ॥ ५१/१९ ॥
नागरं द्रामिडोद्दिष्टविशेषेण विभूषितम् ।
सखण्डाखण्डहर्म्यं तु खण्डहर्म्योभयात्मकम् ॥ ५१/२० ॥
उत्तरोत्तरनिर्यूहयुक्तान्तरतलक्रियम् ।
एवमादिविचित्राङ्गं विमानं नाम वेसरम् ॥ ५१/२१ ॥
मूलादूर्ध्वोर्ध्वसन्धेया धारिकोपरि मण्डनम् ।
तदुपर्युचितग्रीवशिखरस्थूपिकान्वितम् ॥ ५१/२२ ॥
भद्रोपभद्रचित्राङ्गमाप्तान्तरतलक्रियम् ।
साधारणतलासक्तकायस्तम्भनिवेशनम् ॥ ५१/२३ ॥
श्रेण्याकारक्रियोपेतच्छायाप्रस्तरबन्धनम् ।
एवमाद्यङ्गवैचित्र्यं वराटं धाम सम्मतम् ॥ ५१/२४ ॥
विनान्धारिकयोरस्य पताकाबाह्यमण्डनम् ।
उत्तराध उपारोहक्रियान्धारिकयान्वितम् ॥ ५१/२५ ॥
उन्नतावनतस्याङ्गैः सर्वाङ्गैः परिमण्डनम् ।
चतुरश्राष्टवृत्ताभं ग्रीवाशिखरसौरभम् ॥ ५१/२६ ॥
ईदृग्भूताङ्गसङ्कल्पं कालिङ्गं सद्म सम्मतम् ।
नालिकान्धारिकाधारहारोरस्याभिमण्डनम् ॥ ५१/२७ ॥
कपोतशालया युक्तं ब्रह्मद्वारपताकया ।
षड्विधाकृतियुक्सद्म सम्मतं सार्वदेशिकम् ॥ ५१/२८ ॥
प्रत्येकं त्रिविधं प्रोक्तं द्रामिडं त्वधुनोच्यते ।
हस्तच्छेदपरीहारन्यूनाधिकसमीकृतम् ॥ ५१/२९ ॥
स्वायसम्पत्समुत्पन्नैर्नागरं तत्समाङ्गकम् ।
हस्तच्छेदेपरीहृत्यैर्हृत्वा धामविधानवित् ॥ ५१/३० ॥
भद्रालङ्कारसंयुक्तं द्रामिडं चेति कीर्तितम् ।
लब्धमात्राविहीनं तु नातिरिक्तं सवक्त्रकम् ॥ ५१/३१ ॥
उत्तरोत्तरनिर्यूहसङ्गतं वेसरं मतम् ।
त्रिपञ्चसप्तद्विचतुः षडभक्त्यैकतलक्रमात् ॥ ५१/३२ ॥
नागरादिषु षड्भेदहीनमुक्तं च मध्यमम् ।
साक्षाद्द्वित्रिचतुष्पञ्चतलमष्टनवांशकम् ॥ ५१/३३ ॥
कनिष्ठं मध्यमं ज्ञेयं दशांशैकदशांशकम् ।
श्रेष्ठं त्रयोदशांशं तु द्वादशांशमिति स्मृतम् ॥ ५१/३४ ॥
तथा षट्सप्तभौमं त्रिःपञ्चद्विः सप्तभागभाक् ।
तथा चाष्टतलं प्रोक्तं नवभौमं निकेतनम् ॥ ५१/३५ ॥
सप्तदशद्विरष्टांशं नवाष्टादिदशांशकम् ।
विमानं दशभौमं तु द्वात्रिंशत्सप्तभागयुक् ॥ ५१/३६ ॥
एकादशतलं द्वित्रिभागयुग्विंशदंशकम् ।
तथा द्वादशभौमं तु चतुः षट्पञ्चभागभाक् ॥ ५१/३७ ॥
शुद्धयुक्तिरियं प्रोक्ता त्वन्यथा च निगद्यते ।
सप्तत्रिद्व्यंशकादंशाद्दशाष्टदशभागिकम् ॥ ५१/३८ ॥
युग्मायुग्मत्रिभूम्यादिव्यासाद्द्विद्व्यंशवर्धनात् ।
दशद्वादशभूम्यन्ता संख्या ख्याता क्रमागता ॥ ५१/३९ ॥
कनिष्ठा मध्यमा श्रेष्ठा नागरादिषु पञ्चसु ।
अविरोधेन विन्यासभूषणं सार्वदेशिकम् ॥ ५१/४० ॥
असमा नागरे भागा द्रामिडे वै समासमाः ।
द्विविधा भक्तयो ग्राह्या वेसरे सार्वदेशिके ॥ ५१/४१ ॥
अनन्योन्याधिकक्षीणं क्षीणं नागरधामनि ।
द्रामिडे स्वाङ्गविश्लेषे क्षेत्रभागोचितं क्षणात् ॥ ५१/४२ ॥
ईषदूनाधिका वा स्युर्वेसरादिषु भक्तयः ।
त्रिचतुःपञ्चमात्राभिः कपोतैः स्थलनिश्चयः ॥ ५१/४३ ॥
एवं भक्तिविभागः स्याद्गर्भगेहमथोच्यते ।
सैकत्रिपञ्चभक्त्यंशषण्णवैकादशांशभाक् ॥ ५१/४४ ॥
नागरस्यैकभौमस्य प्रासादस्यैकनालिका ।
श्रेष्ठमध्यहीनस्य बहिः शेषेण भित्तिका ॥ ५१/४५ ॥
गर्भः षडष्टदशसु त्रिचतुःपञ्चभागभाक् ।
द्वितले नागरस्योक्ता नालीगेहविशालता ॥ ५१/४६ ॥
षोडशांशे तु षड्भागो गर्भसप्तदशांशके ।
अष्टादशांशे सप्तांशस्त्रितले नागरस्य तु ॥ ५१/४७ ॥
द्रामिडे त्रिचतुःपञ्चभागैर्नालिविशालता ।
पञ्चसप्तनवांशैश्च बहिः शेषास्तु भित्तयः ॥ ५१/४८ ॥
एवमेकतले प्रोक्तमुत्तमादिविभेदतः ।
सप्तत्र्येकादशांशे च चतुष्पञ्चषडंशकम् ॥ ५१/४९ ॥
द्वितले द्रामिडस्योक्ता नालीगृहविशालता ।
गर्भे नवदशांशे तु बहिः शेषास्तु भित्तयः ॥ ५१/५० ॥
एवमेव नवांशस्तु त्रितले द्रामिडे मतः ।
त्रिपञ्चसप्तभिर्नाली षडष्टादशभाजिते ॥ ५१/५१ ॥
वेसरस्यैकभौमस्य श्रेष्ठमध्याधमक्रमात् ।
नवैकादशविश्वेषु चतुष्पञ्चषडंशकः ॥ ५१/५२ ॥
वेसरे द्वितलस्योक्ता नालीगृहविशालता ।
द्वित्रिवेदांशके विंशत्यंशे नवदिगंशकः ॥ ५१/५३ ॥
वेसरे गर्भगेहः स्यात्त्रितले तु द्विजोत्तमाः ।
एकद्वित्रितलानां तु गर्घस्त्वेवमुदाहृतः ॥ ५१/५४ ॥
नागरोक्तं वराटे स्यात्कालिङ्गे द्रामिडोचितम् ॥
वेसरोक्तं तु यत्सर्वं तद्योग्यं सार्वदेशिके ।
यथाक्रमं वा तद्बाह्यं सर्वं वा सार्वदेशिके ॥ ५१/५५ ॥
अष्टत्रित्रिदशत्र्यंशगर्भः स्यात्त्रितलादिषु ।
नागरादिषु सामान्यविशेषालङ्कृतिस्थितिः ॥ ५१/५६ ॥
श्रेयसी श्रेयसी नार्धश्रेयसी श्रेयसी मता ।
एवं गर्भगृहं प्रोक्तं भद्रस्य विधिरुच्यते ॥ ५१/५७ ॥
सैकत्रिपञ्चपङ्क्त्यंशपञ्चषट्सप्तविस्तराः ।
तत्तारैकांशनिष्क्रान्ता मध्ये मूषा कनीयसी ॥ ५१/५८ ॥
कनिष्ठे नवपञ्चांशा सप्तत्र्यंशा च मध्यमे ।
मूले द्विपञ्चषट्सप्तचतुष्पञ्चषडंशिका ॥ ५१/५९ ॥
मध्यमे मध्यमा मूषा सर्वव्यासार्धनिष्क्रमा ।
षोडशांशे षडंशाष्टादशसप्तांशविस्तराः ॥ ५१/६० ॥
पञ्चादशषडंशः स्यान्मध्ये मूषा कनीयसौ ।
कनिष्ठे नवपञ्चांशाः सप्तत्र्यंशाब्ध मध्यमे ॥ ५१/६१ ॥
त्र्यंशकैकांशके षट्सु नागरादिष्वनुक्रमात् ।
निष्क्रान्तिरासां पूर्वोक्तरीत्यैवं परिकल्प्यताम् ॥ ५१/६२ ॥
शान्तिकाद्याः कामदान्ताः पञ्चाशद्द्रामिडोचिताः ।
व्यासद्विगुण-उत्सेधाः कामदाद्यास्तु नागरे ॥ ५१/६३ ॥
एकद्वित्रिचतुःपञ्चभागैस्तु द्विगुणाधिकाः ।
अष्टांशेषु विशालेषु उत्सेधाः शान्तिकादिकाः ॥ ५१/६४ ॥
वराटे चापि कालिङ्गे वेसरे नागरोक्तवत् ।
नागरे समहस्ताः स्युर्द्रामिडादिषु पूर्ववत् ॥ ५१/६५ ॥
स्वायम्भुवादिलिङ्गानां पूजांशप्रिणाहके ।
पञ्चादशांशके पञ्चभागोत्सेधं तु शान्तिकम् ॥ ५१/६६ ॥
नागरं समलिङ्गं तन्नाहे सप्तदशांशके ।
नागरं पौष्टिकं नाम सप्तांशोच्चं शिवाधिकम् ॥ ५१/६७ ॥
एकोनविंशदंशात्तु नवांशं वर्धमानकम् ।
जयदं नागरं तस्माद्दशांशाधिकतुङ्गकम् ॥ ५१/६८ ॥
अद्भुतं चाभिवारं च तदर्धं सार्वदेशिकम् ।
एवं नागरलिङ्गे तु सौधमोजःपदेन तु ॥ ५१/६९ ॥
परिणाहे विकारांशे भूतकौशिकधातुभिः ।
उदयं द्रामिडं प्रोक्तं शान्तिपुष्टिजयावहम् ॥ ५१/७० ॥
तत्तर्धांशकाधिक्यं हीनद्व्यन्तरमानकम् ।
अद्भुतं चाभिवारं च सार्वकामिकमुच्यते ॥ ५१/७१ ॥
नाहे तु भास्करे भागे त्रिचतुःपञ्चभागिकम् ।
पौष्टिकं तुङ्गजयदं जयदं वेसरं मतम् ॥ ५१/७२ ॥
पूर्वोक्तविधिना ज्ञेया अद्भुताद्यास्त्रयस्त्रयः ।
द्रामिडे वेसरे लिङ्गे समभागप्रमाणतः ॥ ५१/७३ ॥
प्रासादं योजयेद्विद्वान् यथाशास्त्रं द्विजोत्तमाः ।
मानवे लब्धदैर्घ्यं यत् तद्विरष्टांशके कृते ॥ ५१/७४ ॥
भूतवेदगुणव्यासं नागरं शान्तिकादिकम् ।
अर्धार्धाधिकहीनं तु द्व्यन्तरं तु विशालकम् ॥ ५१/७५ ॥
अद्भुतं चाभिवारं च नागरं सार्वकामिकम् ।
अष्टादशांशके तुङ्गे कौशिकेन्द्रियवेदिकम् ॥ ५१/७६ ॥
द्रामिडं शान्तिकादि स्यादद्भुताद्यथ पूर्ववत् ।
वेसरे विंशदंशे तु वसुभानुरसांशकम् ॥ ५१/७७ ॥
शान्तिकादिक्रमेणैवमद्भुताद्यथ पूर्ववत् ।
लिङ्गायामसमो व्यासः पूजांशोच्चद्वयेन वा ॥ ५१/७८ ॥
तदन्तरेऽष्टभागे तु नवैते पीठविस्तराः ।
व्यासार्धमुच्छ्रयं कुर्याद्द्वात्रिंशद्द्व्यंशमेव वा ॥ ५१/७९ ॥
तदन्तरेऽष्टभागे तु नवैते पीठिकोच्छ्रयाः ।
लिङ्गायामे नवांशैस्तु सप्तभागैस्तु कन्यसः ।
उत्तमो नवभिर्भागैर्द्रामिडे पीठविस्तरः ॥ ५१/८० ॥
तदन्तरेऽष्टभागे तु नवधा पीठविस्तराः ।
तस्य चोच्चेऽष्टभागे तु त्यक्त्वैकं द्वित्रिभागिकम् ॥ ५१/८१ ॥
शेषं पूर्वोच्छ्रयं पूजाभागमर्वाक्स्थलोपरि ।
द्रामिडे विहितं ह्येवं वेसरं तु निगद्यते ॥ ५१/८२ ॥
वेसरे परिणाहे तु विकारांशे तु विस्तरः ।
पीठस्य सप्तनन्दांशैरधमोत्तममिष्यते ॥ ५१/८३ ॥
तदन्तरेऽष्टभागे तु पूर्ववत्परिकल्पयेत् ।
विष्णुभागसमुत्सेधः शेषं भूगतमिष्यते ॥ ५१/८४ ॥
विष्णुभागे तुरीयांशेनाधिका वाथ पीठिका ।
विष्कम्भत्रिगुणो व्यासोऽधस्ताद्ब्रह्मशिलां न्यसेत् ॥ ५१/८५ ॥
व्यासत्रिभाग उत्सेधश्चतुरंशैक एव वा ।
यस्य लिङ्गस्य विष्कम्भश्चाष्टभागैकमेव वा ॥ ५१/८६ ॥
नवभागैकभागं वा गाम्भीर्यमवटस्य तु ।
एषा नागरलिङ्गे तु ब्रह्माख्या कथिता शिला ॥ ५१/८७ ॥
गर्भकर्णतुरीयांशा व्यासात्तत्त्र्यंशकोदया ।
लिङ्गव्यासाष्टभागैकरवाता द्रामिडभूशिला ॥ ५१/८८ ॥
गर्भादर्धचतुर्भागहीनविस्तारसंयुता ।
तत्पादांशकयोपेता शिला वा वेसरे स्थिता ॥ ५१/८९ ॥
लिङ्गपीठशिलायामसजातीया सुसंपदे ।
विपरीते विपत्यै स्यात्कर्तुः कारयितुस्तथा ॥ ५१/९० ॥
अयं विभागो लिङ्गे तु नेष्यते सार्वदेशिके ।
प्रासादेऽपि तथा लिङ्गे नियमो नेष्यते द्विजाः ॥ ५१/९१ ॥
एवं पीठशिलायां च नियमो नेप्यतेऽत्र तु ।
मुख्यत्वात्सर्वलिङ्गेभ्यः सर्वत्रापि च सम्मतम् ॥ ५१/९२ ॥
तथा प्रासाद एव स्यात्पीठश्चापि तथैव च ।
शान्तिकं पौष्टिजयदमद्भुतं सार्वकामिकम् ॥ ५१/९३ ॥
शान्तिकश्चोच्छ्रयेऽष्टांशो भागोच्छ्रायविनिर्मितम् ।
द्विभागश्चरणोत्सेधः प्रस्तरोऽष्टांशहीनकः ॥ ५१/९४ ॥
त्रिभागं गलमित्युक्तमर्धांशं शिखरोदयम् ।
स्थूपिकाष्टांशहीना स्याद्द्रामिडं चैकभूमिकम् ॥ ५१/९५ ॥
नवांऽशेष्टांशयुग्भागं मसूरं द्विगुणं भवेत् ।
तारोच्चप्रस्तरो भागो गलं भागविनिर्मितम् ॥ ५१/९६ ॥
त्रिभागशिखरोत्सेधं शेषेण स्थूपिका भवेत् ।
द्रामिडं पौष्टिकं प्रोक्तं दशांशे तु सपादकम् ॥ ५१/९७ ॥
मसूरद्विगुणः पादो भागः प्रस्तर उच्यते ।
पादमानं गलं प्रोक्तं सर्वात्म्यांशं शिरो भवेत् ॥ ५१/९८ ॥
भागेन स्थूपिकाजययं द्रामिडं परिकीर्तितम् ।
द्वादशांशे सपादांशं मसूरश्च त्रिभागभाक् ॥ ५१/९९ ॥
द्विपादः पाद इत्युक्तः सपादप्रस्तरोदयः ।
एकांशं गलमित्युक्तं चतुरर्धं शिरो भवेत् ॥ ५१/१०० ॥
सपादभागं स्थूप्युच्चमुद्भूतं द्रामिडं भवेत् ।
त्रयोदशांशे सार्धांशं मसूरं वा त्रिभागतः ।
सपादः प्रस्तरः प्रोक्तस्त्वेकेन गलमिष्यते ॥ ५१/१०१ ॥
पञ्चांशं शिखरं ज्ञेयं सपादः स्थूपिका भवेत् ।
सार्वकामिकसंज्ञं तु द्रामिडं परिकीर्तितम् ॥ ५१/१०२ ॥
सभद्रं वा विभद्रं वा कर्णकूटयुतं तु वा ।
निष्कर्णकूटं वा कार्यं सनीडं वा सतोरणम् ॥ ५१/१०३ ॥
एवं लक्षणसंयुक्तं विधेयं चैकभूमिकम् ।
गर्भान्तर्गलवेशस्तु यदि स्यान्मरणं भवेत् ॥ ५१/१०४ ॥
नागरे सार्वदेश्ये च कालिङ्गे द्रामिडेऽपि वा ।
वराटे न प्रवेशं तु वेसरे परिकल्पयेत् ॥ ५१/१०५ ॥
विष्णुर्ब्रह्मा हरश्चेति विप्रराजन्यवैश्यकाः ।
नागरे द्रामिडे धाम्नि वेसरे त्वधिपा मताः ॥ ५१/१०६ ॥
उपानात् स्थूपिपर्यन्तं युगाश्रं नागरं भवेत् ।
कण्ठात्प्रभृति वृत्तं यद्वेसरं परिकीर्तितम् ॥ ५१/१०७ ॥
कण्ठात्प्रभृति वस्वश्रं द्रामिडं परिकीर्तितम् ।
सार्वदेशिकधाम्न्येतन्नागराद्यं प्रकीर्तितम् ॥ ५१/१०८ ॥
चतुरश्रायताश्रं तन्नागरं प्ररिकीर्तितम् ।
अष्टाश्रं च षडश्रं च तत्तदायाममेव च ॥ ५१/१०९ ॥
सौधं द्रामिडमित्युक्तं वेसरं तु प्रकथ्यते ।
वृत्तं वृत्तायतं चाश्रं वृत्तं चान्यत्प्रकीर्तितम् ॥ ५१/११० ॥
द्रामिडाख्यविमानेऽपि नागरादिप्रभेदितम् ।
लिङ्गाद्यं कथितं पूर्वं वपुस्तत्रापि कथ्यते ॥ ५१/१११ ॥
नागरे लक्षणं पूजाभागे षोडशभाजिते ।
ऊर्ध्वे षड्भूतवेदांशं त्यक्त्वाधो लक्ष्म कारयेत् ॥ ५१/११२ ॥
विष्ण्वंशाभिमुखे सूत्रे पार्श्वयोर्द्वेऽवलम्बयेत् ।
पृष्ठे तयोर्यूतिहीने वेदाग्निनयनान्यथ ॥ ५१/११३ ॥
विहाय मध्यमे भूतवेदाग्निनयनानि च ।
ज्येष्ठे षट्पञ्चवेदाग्निपादभागानधस्त्यजेत् ॥ ५१/११४ ॥
त्रिभागं त्वेकभागं तु द्व्यंशं सूत्रान्तरं मतम् ।
तदर्धं पार्श्वसूत्राग्रं तारं प्रोक्तं मुनीश्वराः ॥ ५१/११५ ॥
यवमानं भवेत्सूत्रगाम्भीर्यं विस्तरेण च ।
हीने हीने भवेदष्टयवैः श्रेष्ठोत्तमे द्विजाः ॥ ५१/११६ ॥
एवं नागरलिङ्गेषु लक्षणं द्विजसत्तमाः ।
द्रामिडे शिवभागे तु त्रिपञ्चांशे कृते क्रमात् ॥ ५१/११७ ॥
नवभागैर्दशांशेन ह्येकादशविभागकैः ॥ ५१/११८ ॥
हीनमध्योत्तमाख्यं तु लक्षणोद्धारकं भवेत् ।
सप्ताष्टनवभागेभ्यः सूत्रे संलम्बयेत्क्रमात् ॥ ५१/११९ ॥
त्रिचतुर्द्व्यंशके हीने यूतिः स्यात्पक्षसूत्रयोः ।
मध्यमे भूतवेदाग्नियूकैश्चापि युतिर्भवेत् ॥ ५१/१२० ॥
षड्भूतवेदवह्न्यंशैः श्रेष्ठे पृष्ठे तयोर्युतिः ।
स्वभागात्सूत्रविस्तारः पक्षसूत्रं पुरोक्तवत् ॥ ५१/१२१ ॥
षोडशांशे शिवायामे सूत्रायामो दशांशकः ।
चतुर्भागं तदूर्ध्वेऽथ पृष्ठे द्व्यंशं विहाय च ॥ ५१/१२२ ॥
मुकुलाकारमारभ्य संयुतः पार्श्वसूत्रयोः ।
अथवाथ त्रयांशं तु त्यक्त्वोर्ध्वे रुद्रभागतः ॥ ५१/१२३ ॥
नालायामः समुद्दिष्टः शेषं पूर्ववदेव हि ।
एवं द्रामिडलिङ्गस्य ब्रह्मसूत्रं प्रकल्पितम् ॥ ५१/१२४ ॥
वेसरस्यार्चनांशोच्चे त्रिपञ्चांशे तशांशतः ।
नालायामः समुद्दिष्टस्त्वष्टभागात्प्रभृत्यधः ॥ ५१/१२५ ॥
भूतवेदगुणांशेषु सङ्गमः पक्षसूत्रयोः ।
द्वःदशांशार्चनाभागे षोडशद्व्यंशमूर्ध्वतः ॥ ५१/१२६ ॥
नालायामो नवांशः स्यात्सङ्गमः पूर्ववद्भवेत् ।
व्यासे द्विरस्टभागे तु भागः स्यात्सूत्रविस्तरः ॥ ५१/१२७ ॥
तदर्धं पक्षसूत्रं स्यादन्तरं शेषपूर्ववत् ।
एवं वेसरलिङ्गस्य ब्रह्मसूत्रमुदाहृतम् ॥ ५१/१२८ ॥
सार्वदेशिकलिङ्गे तु विभागोऽयं न कीर्तितः ।
तथा पीठे तु पीठस्य नागराद्यं विधीयते ॥ ५१/१२९ ॥
अभद्रं द्रामिडे पीठं भद्रं भद्रोपभद्रकम् ।
नागरे वेसरे योग्यं कालिङ्गेऽपि वराटके ॥ ५१/१३० ॥
सामान्यं पीठमुद्दिष्टं प्रतिमाप्यधुनोच्यते ।
गर्भे धिष्ण्ये मसूरे च द्वारे स्तम्भे च मस्तके ॥ ५१/१३१ ॥
स्थूपिकोच्चे दशांशोच्चे सप्तांशा प्रतिमा वरा ।
चतुर्थ्यंशोदया हीना षड्विंशत्यन्तरेऽन्तरम् ॥ ५१/१३२ ॥
नक्षत्रसंख्यातुङ्गानि प्रतिमायां भवन्ति हि ।
नागरे त्रित्रिसंख्यानि द्रामिडे नवसंख्यया ॥ ५१/१३३ ॥
वेसराणि तथान्यानि श्रेष्ठमध्याधमक्रमात् ।
सात्त्विकं राजसं चैव तामसं च क्रमात्त्रिधा ॥ ५१/१३४ ॥
सात्त्विकं स्थानके योग्यं राजसं नृत्तरूपके ।
तामसं चान्यरूपे तु योजनीयं विचक्षणैः ॥ ५१/१३५ ॥
सार्वदेशिकलिङ्गे तु विधानं नेष्यते बुधैः ।
धामवास्त्वमराणां तु नागराद्यं परं मतम् ॥ ५१/१३६ ॥
ग्रामे वा नगरे वापि पत्तने राजधानिके ।
खेटादौ परमेशस्य ब्रह्मस्थानेऽष्टदिक्षु वा ॥ ५१/१३७ ॥
बहिर्वाष्टासु काष्ठासु कुड्यान्तर्वा बहिष्कृतम् ।
एतेषामन्तराले वा प्रासादं कर्तुमारभेत् ॥ ५१/१३८ ॥
उत्तरे नागरं कुर्याद्वायौ वैशानदेशके ।
दक्षिणे द्रामिडं कुर्याद्वह्नौ वा नैरृतेऽपि वा ॥ ५१/१३९ ॥
पूर्वस्मिन् पश्चिमे वापि वेसरं हर्म्यमाचरेत् ।
सोमपार्श्वद्वये तद्वद्यमपार्श्वे यमोक्तिवत् ॥ ५१/१४० ॥
इन्द्रस्य पार्श्वयोस्तद्वद्वारुणोभयस्तथा ।
धामान्येतानि सर्वाणि द्रामिडानि भवन्ति हि ॥ ५१/१४१ ॥
सार्वदेशिकहर्म्यं चेत्सर्वत्रापि समाचरेत् ।
एतेषामिष्टकामाद्यामिष्टदेशे समाचरेत् ॥ ५१/१४२ ॥
ब्राह्मे चेदग्निकोणस्थकोष्ठः स्याद्वापणस्य च ।
नैरृतेप्येकदेशस्थं सभाया वाविरोधतः ॥ ५१/१४३ ॥
धामान्येतानि कार्याणि वंशसूत्राविरोधतः ।
पार्वतीभवनं सार्वदेशे शर्वोक्तवन्नयेत् ॥ ५१/१४४ ॥
वलभ्याकारकोपेतं द्रामिडाकारमेव वा ।
विघ्नेश्वरस्य मध्ये वा पूर्वोक्ते वा यथा शिवे ॥ ५१/१४५ ॥
हस्तिपृष्ठशिरः कार्यं साधारणशिरस्तु वा ।
सेनानीभवनं कार्यं यथा शर्वस्य सम्मतम् ॥ ५१/१४६ ॥
पूर्वोक्तदेशे कर्तव्यं नागरं विष्णुमन्दिरम् ।
मध्यमे च चतुर्दिक्षु नैरृतेऽन्यत्र ब्रह्मणः ॥ ५१/१४७ ॥
वेसरं धाम कर्तव्यं चतुर्भद्रसमन्वितम् ।
वारुण्यां वाथ याम्याग्निमध्ये वा ग्राममध्यमे ॥ ५१/१४८ ॥
श्रीधाम वैष्णवं कुर्याद्याम्ये नैरृतमध्यमे ।
ग्रामादिमध्यमेऽन्यत्र यथा वा ब्रह्ममन्दिरम् ॥ ५१/१४९ ॥
तथाविधे वा चग्नेययां सूर्यस्य शिववन्मतम् ।
अष्टदिक्ष्विष्टदेशेषु क्षेत्रेशे द्रामिडं ततः ॥ ५१/१५० ॥
पार्वतीभवनं यद्वत्पूर्वोक्तस्थानकं द्विजाः ।
जेष्ठाधाम यथा वाचस्त्विन्द्रपावकमध्यमे ॥ ५१/१५१ ॥
पूर्वोक्तदेशे वा कार्यं वह्नौ सोमेशमध्यमे ।
शास्तुर्धाम विधातव्यं यथा विघ्नेशमन्दिरम् ॥ ५१/१५२ ॥
सोमस्य सोमदिग्भागे नैरृते वाथ तद्गृहम् ।
नागरं सोमवायव्ये वास्तुवैश्रवणं गृहम् ॥ ५१/१५३ ॥
सोममन्दिरवत्कार्यं वह्नौ सोमेशमध्यमे ।
कामधाम यथा विष्णोरथवान्यत्र देशतः ॥ ५१/१५४ ॥
अनुक्तानां च सर्वेषां देवानां योषितामपि ।
प्रागुक्तानां च देवानां देवीनां सार्वदेशिकम् ॥ ५१/१५५ ॥
अथवा कारयेद्धाम तत्तद्वाहनसंयुतम् ।
सार्वदेशिकसंज्ञस्य प्रासादस्य च लक्षणम् ॥ ५१/१५६ ॥
लिङ्गस्य लक्षणं विप्रास्तद्वत्पीठस्य लक्षणम् ।
लक्षणं ब्रह्मशैलस्य तद्वद्बेरादिलक्षणम् ॥ ५१/१५७ ॥
तत्तदध्यायसंसिद्धं संग्राह्यं देशिकोत्तमैः ।
इति कामिकाख्ये महातन्त्रे नागरादिविभेदविधिः नवचत्वारिंशत्तमः पटः ॥
॥ भूमिलम्बविधिपटलः ॥
अथ वक्ष्ये विशेषेण भूमिलम्बविधिक्रमम् ।
चतुरंशादिसंस्थानं भूमिलम्बमिति स्मृतम् ॥ ५२/१ ॥
अथवा क्षयवृद्धिर्वा हस्तानां परिकीर्तितम् ।
हस्तानां सप्ततिस्तारे शतं तुङ्गे प्रकीर्तितम् ॥ ५२/२ ॥
एकोनं वा प्रकर्तव्यं तलं द्वादशसंज्ञिकम् ।
त्रिषष्टि विस्तृतं तत्र नवत्युन्नतमीरितम् ॥ ५२/३ ॥
एकादशतलं सप्तपञ्चाशद्विस्तृतं भवेत् ।
चतुर्हस्तमशीत्युच्चं दशभौमं द्विजोत्तमाः ॥ ५२/४ ॥
एकयुक्तं तु पञ्चाशत्करं तारे तु तुङ्गके ।
पञ्चसप्ततिसंख्यातं नवभौमं प्रकीर्तितम् ॥ ५२/५ ॥
पञ्चहस्तसमायुक्तं चत्वारिंशत्करान्वितम् ।
षष्ट्युन्नतसमायुक्तमष्टभौमं प्रकीर्तितम् ॥ ५२/६ ॥
नवत्रिंशत्करोपेतं सप्तपञ्चाशदुन्नतम् ।
एतत्सप्त इति प्रोक्तं एकविंशतिसंयुतम् ॥ ५२/७ ॥
त्रिंशद्धस्तसमुत्सेधं चतुस्तलमुदाहृतम् ।
तिथिहस्तविशालं यदेकविंशतितुङ्गकम् ॥ ५२/८ ॥
एकत्रितलमाख्यातं शास्त्रेऽस्मिन् कामिकाह्वये ।
सप्तत्यन्तं द्विरष्टादि विस्तारे वा प्रकल्प्यताम् ॥ ५२/९ ॥
एतदुत्तममानं स्याज्जात्याख्यस्य द्विजोत्तमाः ।
विस्तारे चापि चोत्सेधे द्वित्रिहस्तक्षयेण तु ॥ ५२/१० ॥
मध्यमं चाधमं ज्ञेयं सप्तविंशतिभेदकम् ।
महस्त्रितलस्येष्टत्रिभेदो नैव विद्यते ॥ ५२/११ ॥
अष्टाविंशतिहस्तं तु जात्याख्यमिह कीर्तितम् ।
एकाद्येकादशान्तानां हस्तानामन्तरक्षयात् ॥ ५२/१२ ॥
द्व्यादिद्वादशसीम्नां तु षण्णामप्यन्तरक्षयात् ।
सप्तविंशतिमाने तु षट्त्रिशत्संख्यकं मतम् ॥ ५२/१३ ॥
छन्दं विकल्पमाभासमेकैके तु द्विसंख्यकम् ।
नवादिरुद्रभागान्तधाम्नामुक्तं प्रमाणतः ॥ ५२/१४ ॥
यत्तु षोडशभूम्यन्तं विमानं मानवं द्विजाः ।
एतदन्तरमानं स्यात्क्षुद्रमानमथोच्यते ॥ ५२/१५ ॥
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
एकभूमिप्रमाणं तु चतुर्विधमुदाहृतम् ॥ ५२/१६ ॥
पञ्चषड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
द्वितले तु चतुर्मानं रुद्रभानुकरान्तकम् ॥ ५२/१७ ॥
सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
त्रितले तु चतुर्मानं मनुविश्वकरान्तकम् ॥ ५२/१८ ॥
नवदिक्करमारभ्य द्विद्विहस्तविवर्धनात् ।
पक्षषोडशहस्तान्तं चतुष्पञ्चतलं भवेत् ॥ ५२/१९ ॥
एकहस्तं द्विहस्तं वा क्षुद्रमेकतलं मतम् ।
युग्मायुग्मकरं मानं पादार्धकरसंयुतम् ॥ ५२/२० ॥
व्योमहस्तं समारभ्य व्योमहस्तविवर्धनात् ।
विमानं योजितव्यं स्यात्सर्वेषामपि शंसितम् ॥ ५२/२१ ॥
आयामे द्विगुणान्तं स्याद्वेदान्ता मण्टपे मताः ।
तथा भक्त्या विधेयाः स्युरायामे द्विजसत्तमाः ॥ ५२/२२ ॥
देवभूसुरभूमीन्द्र विट्छूद्राणां समानकम् ।
विस्तारे सप्तषट्पञ्चचतुस्त्र्यंशेऽधिकं त्रिभिः ॥ ५२/२३ ॥
शान्तिकं पुष्टिजयदमद्भुतं सार्वकामिकम् ।
उत्सेधे द्विगुणो व्यासः पादाधिक्यं च सम्मतम् ॥ ५२/२४ ॥
विस्तारद्विगुणादष्टांशाधिकं वाधियोजयेत् ।
क्षुद्राणामेवमुद्दिष्टं कनिष्ठानामथोच्यते ॥ ५२/२५ ॥
सप्तांशे तु कृते व्यासे सप्तांशं वा षडंशकम् ।
विस्तारादधिकस्तुङ्गो मध्यमानमथोच्यते ॥ ५२/२६ ॥
विस्तारं पूर्ववत्कृत्वा चतुःपञ्चाधिकं तु यत् ।
मध्यमानमिदं प्रोक्तमुत्तमानां त्रयांशकम् ॥ ५२/२७ ॥
पूर्वमुद्देशमानं स्यादेतन्निर्देशमानकम् ।
एकद्वित्रिकरैर्युक्तं मानहीनं तु वाधिकम् ॥ ५२/२८ ॥
उत्सेधं कल्पयेद्धीमान् सर्वेषामपि सद्मनाम् ।
देवानां सार्वभौमानामाद्वादशतलं विदुः ॥ ५२/२९ ॥
रक्षोगन्धर्वयक्षाणामेकादशतलं मतम् ।
द्विजानां नवभौमं स्याद्दशभौमं तु धाम वा ॥ ५२/३० ॥
युवराजस्य राज्ञांश्च च पञ्चमस्यैव पञ्चभूः ।
नन्दाद्येकादशतलं षण्णां वै चक्रवर्तिनाम् ॥ ५२/३१ ॥
त्रिभौमं च चतुर्भौमं वैश्यानां शूद्रजन्मनाम् ।
राज्ञां पञ्चतलं वापि मतं पट्टभृतां तु तत् ॥ ५२/३२ ॥
सप्तहस्तसमुत्सेधादूर्ध्वं सप्ततिविस्तरात् ।
नेष्यतेऽधिकमानं तु सर्वथा तद्विचक्षणैः ॥ ५२/३३ ॥
शिवस्य षोडशक्ष्मादिसर्वभूमिर्विधीयते ।
प्रासादवशतो लिङ्गं लिङ्गात्प्रासाद एव वा ॥ ५२/३४ ॥
परीक्ष्य मतिमान् कुर्याद् यथाशास्त्रं तदुच्यते ।
स्वायंभुवं बाणलिङ्गं दैविकं चार्षकं त्विति ॥ ५२/३५ ॥
गाणवं मानुषं लिङ्गं षट्प्रकारं प्रकीर्तितम् ।
स्वेनैवोद्भूतलिङ्गं तु स्वायम्भुवमुदाहृतम् ॥ ५२/३६ ॥
शिवेन संस्कृतं यत्तु बाणलिङ्गमिति स्मृतम् ।
देवैः संस्थापितं दैवमार्षं ऋषिहितं स्मृतम् ॥ ५२/३७ ॥
गणैः संस्थापितं लिङ्गं गाणवं तदुदाहृतम् ।
मानुषं मनुजैः शिष्टैः शिष्टं षष्ठमिहोदितम् ॥ ५२/३८ ॥
मानुषे लिङ्गमानं तु प्रासादवशतो भवेत् ।
अन्येषां चैव सर्वेषां लिङ्गात्प्रसाद इष्यते ॥ ५२/३९ ॥
प्रासादगर्भमानेन लिङ्गं ज्येष्ठादिभेदतः ।
मुख्यतः सिद्धये प्रोक्तं मुक्त्यर्थमनुषङ्गतः ॥ ५२/४० ॥
हस्तादिलिङ्गमानानि यानि तानि विमुक्तये ।
मुक्तये चानुषङ्गेण भवन्ति विधियोगतः ॥ ५२/४१ ॥
स्वायंभुवादिलिङ्गानां दृश्यभागादधस्तनम् ।
दर्शयेद्यदि मोहेन सर्वदोषकरं नृणाम् ॥ ५२/४२ ॥
नाहतारौ तथा स्थूलदेशे संगृह्य कल्पयेत् ।
मानवेलिङ्गमानं तु शिरोमानं विनोदयम् ॥ ५२/४३ ॥
स्वायंभुवादिलिङ्गानां शिरसा सह मानकम् ।
कल्पयेदर्चनाभागं तेन पीठं प्रकल्पयेत् ॥ ५२/४४ ॥
लिङ्गविष्कम्भमानेन भवेद्द्वित्रिचतुर्गुणः ।
तथा पञ्चगुणो वापि पीठविस्तर इष्यते ॥ ५२/४५ ॥
एतेषामपि सर्वेषां कर्णमानेन वा भवेत् ।
कृत्वाष्टधा वा नवकं एकद्व्यंशत्रयांशकम् ॥ ५२/४६ ॥
चतुरंशं तु वा हीनमधिकं वा प्रकल्पयेत् ।
पीठद्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ॥ ५२/४७ ॥
पञ्चषड्गुणतो वापि गर्भगेहस्य विस्तरः ।
गर्भगेहत्रयांशं तु भित्तिविष्कम्भ इष्यते ॥ ५२/४८ ॥
अर्धो वा सदृशः पीठाद्द्विगुणस्त्रिगुणोऽपि वा ।
एतेषां कर्णमानो वा भित्तिविष्कम्भ इष्यते ॥ ५२/४९ ॥
अनेनैव प्रकारेण सन्धानेऽपि प्रकल्प्यताम् ।
पीठव्यासेन हर्म्यस्थनालीगेहमयुग्मकम् ॥ ५२/५० ॥
यदि तद्बाह्यभागं च युग्ममेव समाचरेत् ।
युग्मं चेद्युग्मभागं स्यात्सम्मिश्रं नैव कारयेत् ॥ ५२/५१ ॥
यत्र लिङ्गेन यन्मानं युग्मं वायुग्महस्तकम् ।
यदि तत्र करच्छेदो हीनो वाप्यधिको भवेत् ॥ ५२/५२ ॥
मानसंपूर्णकं कुर्यात्तत्र दोषो न विद्यते ।
अङ्गुलैर्गर्भमाने तु विभक्ते लिङ्गदैर्घ्यके ॥ ५२/५३ ॥
लिङ्गं चेदङ्गुलं छिन्नं तत्र सम्पूर्णतां नयेत् ।
आयादिसम्पदर्थं च एकद्वित्रिभिरङ्गुलैः ॥ ५२/५४ ॥
क्षीणं वाप्यधिकं वापि कर्तव्यं सम्पदिच्छता ।
त्रिः सप्तभागतारे तु भागं कृत्वा षडंशकम् ॥ ५२/५५ ॥
लिङ्गमध्यात्तदेकांशं दक्षिणेन व्यपोहति ।
प्रासादमध्यमिष्टं स्यात्पश्चिमेऽपि तथैव च ॥ ५२/५६ ॥
पूर्वद्वारं प्रशस्तं स्यात्पश्चिमास्ये विपर्ययः ।
एवमादौ परीक्ष्यैव प्रासादं परिकल्पयेत् ॥ ५२/५७ ॥
एतेषामपि सर्वेषामायादिविधिरुच्यते ।
विस्तारं द्विगुणं कृत्वा वसुभिर्भाजिते सति ॥ ५२/५८ ॥
शिष्टं योनिरिह प्रोक्ता तदभावे तु शोधकः ।
उदये वसुभिः सप्तविंशद्भिर्भमिहोदितम् ॥ ५२/५९ ॥
परिधौ नन्दगुणिते सप्तमूर्द्वारमुच्यते ।
सकलं त्रिगुणं कृत्वा त्रिंशद्भिर्भाजिता तिथिः ॥ ५२/६० ॥
उदयं वसुभिर्भक्त्वा सूर्यैरायस्तु शेषतः ।
पुनरप्युदयं नन्दवसुभिर्व्यय उच्यते ॥ ५२/६१ ॥
पूर्वोक्तेन प्रकारेणाप्यनेन विधिनापि वा ।
परिक्ष्यायादिषट्कं तु प्रासादं परिकल्पयेत् ॥ ५२/६२ ॥
पादादिकं तु यच्छिष्टं तत्सर्वं सकलं भवेत् ।
पूर्ववद्गुणितं कृत्वा भागं तारं च तत्समम् ॥ ५२/६३ ॥
कृत्वा तेनैव विभजेत् यल्लाभादधिकं भवेत् ।
युग्महस्तैः स्वरोद्भूतैः शिखिभिर्योनिरुच्यते ॥ ५२/६४ ॥
अथवान्यप्रकारेण आयादिविधिरुच्यते ।
नागैः सूत्राग्निरन्ध्रैर्हतदिनदशवस्वब्धिशिष्टं तु तत् स्या-
दायोनौ योनिवारं वसुहतमुडुभिर्भक्तशिष्टं तु ऋक्षम् ।
हत्वा भक्त्वाथ सूत्रैर्भुवनमथ फलं शिष्टमंशं वसुघ्नं
त्रिंशद्भक्तं तिथिः स्याद्गृहदिनतिथियोगादयो योनिभेदाः ॥ ५२/६५ ॥
अथवान्यप्रकारेण चायादिन् परिकल्पयेत् ।
नागनन्दगुणनागनन्ददृक् भानुनाडिवसुभं मुनिर्नव ।
आयमन्यतरयोनिऋक्षकं वारमंशकगुणक्षयक्रमात् ॥ ५२/६६ ॥
इदं लिङ्गे च सकले द्वारे स्तम्भादिके मतम् ॥ ५२/६७ ॥
इदमायादिकं चार्धमण्टपे शिष्टमण्टपे ।
परिवारालये तुङ्गहर्म्येऽन्यस्मिन् प्रकल्पयेत् ॥ ५२/६८ ॥
एवं परीक्ष्य बहुधा प्रासादं परिकल्पयेत् ।
त्र्यशैकांशो भवेद्गर्भः पञ्चांशात् त्र्यंशमेव वा ॥ ५२/६९ ॥
सप्तांशे चतुरंशो वा नवांशे पञ्चभागतः ।
रुद्रभागे षडंशः स्याद्विश्वांशे सप्तभागकः ॥ ५२/७० ॥
तिथ्यंशे वसुभिः सप्तदशांशे तु नवांशकः ।
विस्तारार्धप्रमाणं तु गर्भविस्तार इष्यते ॥ ५२/७१ ॥
एकद्वित्रितलानां स्याद्गर्भगेहे प्रमाणकम् ।
प्रासादस्य नवाष्टांशः दशांशः कूटविस्तरः ॥ ५२/७२ ॥
शालाव्यासो मतो द्वित्रिगुणायामसमन्वितः ।
पञ्जरश्चार्धभागो वा त्रिपादो वाथ भागिकः ॥ ५२/७३ ॥
अलिन्दान्धारिकान्धारहारा भागेन कल्पिताः ।
भागार्धद्वित्रिभागं वा पञ्चत्रिंशमथापि वा ॥ ५२/७४ ॥
अलिन्दं कल्पयेच्छेषं गृहविन्यासके मतम् ।
महतां च विमानानां रचनात्र विधीयते ॥ ५२/७५ ॥
नवभागत्रिभागो वा व्यासनालीगृहान्वितः ।
बहिरान्धारिकान्धारहारभागेन विस्तृताः ॥ ५२/७६ ॥
हारप्रमाणं बाह्ये तु रचनार्थं प्रकल्पयेत् ।
भित्त्यन्तस्थं प्रमाणं स्याद्भित्तिबाह्ये त्वबाह्यतः ॥ ५२/७७ ॥
रचनाक्षेत्रमानं तु हित्वा मानं प्रकल्पयेत् ।
एवमन्तस्थविन्यासो बाह्यविन्यास उच्यते ॥ ५२/७८ ॥
सप्तविंशतिभागे तु प्रासादस्य तु विस्तरे ।
एकैकभागवेशात्तु कूटशादिकं नयेत् ॥ ५२/७९ ॥
आदौ भागद्वयेनाथ कूटमेकेन वा भवेत् ।
तलमेकं भवेद्ग्रासं खण्डहर्म्यं त्रिभूमिके ॥ ५२/८० ॥
अथवान्यप्रकारेण चान्तर्विन्यास उच्यते ।
सप्तविंशतिभागे तु प्रासादस्याय उच्यते ॥ ५२/८१ ॥
त्रिभागेन भवेद्गर्भं समन्ताद्भित्तिरिष्यते ।
पञ्चालिन्दं सषट्कुड्यं बहिरान्धारिकावृतम् ॥ ५२/८२ ॥
त्रिनवांशमिदं जातिविमानं द्वादश क्ष्मकम् ।
एतन्मणिमये लिङ्गे बाणादौ वा प्रकल्पयेत् ॥ ५२/८३ ॥
दशादिपञ्चहस्तर्द्ध्या यदा प्रासाद इष्यते ।
पञ्चाशत्करपर्यन्तं नवलिङ्गेष्वनुक्रमात् ॥ ५२/८४ ॥
तदायामायविस्तारे हस्तराशौ कराहते ।
लिङ्गवत्पीठमन्येन सैकेन त्रयमन्तरम् ॥ ५२/८५ ॥
द्व्यधिकेन बहिर्भित्तिः शेषं प्राग्वत्प्रकीर्तितम् ।
लिङ्गे शिलासु च क्रोधे भित्तिपञ्चांशवर्जिताः ॥ ५२/८६ ॥
क्रिञ्चिन्न्यूनमलिन्दं वा शेषं कुड्येषु योजयेत् ।
तलस्तम्भोत्तराः सर्वसामान्याः परिकीर्तिताः ॥ ५२/८७ ॥
प्राग्वंशैरन्यवंशैश्च नालिकेरदलादिभिः ।
आच्छादिता प्रपा नाम प्रस्तरं चात्र मण्डपः ॥ ५२/८८ ॥
प्रभूत शिखरोपेतं हर्म्यं नाम्ना प्रकीर्तितम् ।
अनेकभूमियुक्ता तु मालाकारा तु मालिका ॥ ५२/८९ ॥
वंशादिवंशसहिता शिखरस्तूपिकान्विता ।
नासिकामुख्यपट्यंशा शालेति परिकीर्तिताः ॥ ५२/९० ॥
षड्वर्गसहितं यत्तु गर्भगेहसमन्वितम् ।
अन्धार्यान्धारिहारोक्तखण्डहर्म्यविशेषितम् ॥ ५२/९१ ॥
कूटशालान्वितं यत्तु पञ्जरैश्च समन्वितम् ।
हस्तिपृष्ठयुतं चेन्द्रशालाभिश्च समन्वितम् ॥ ५२/९२ ॥
तिलकक्षुद्रनास्योक्ततोरणैश्च समन्वितम् ।
ब्रह्मद्वारपताकाद्यैरङ्गैर्युक्तं विमानकम् ॥ ५२/९४ ॥
मण्टपे मण्टपं यत्तु रङ्गमित्यभिधीयते ।
मूलकूटसमायुक्ता बालकूटसमन्विता ॥ ५२/९५ ॥
कचग्रहसमायुक्ता सभेति परिकीर्तिता ।
विविधं वस्तुमुख्यं स्याद्गौणमन्यत्प्रकीर्तितम् ॥ ५२/९६ ॥
यथोक्तं मुख्यमेवं स्यात्तदभावे तु गौणकम् ।
॥ इति कामिकाख्ये महातन्त्रे भूमिलम्बविधिः पञ्चाशत्तमः पटलः ॥
</poem>
== आद्येष्टकाविधिः ==
<poem>
आद्येष्टकाविधानं तु वक्ष्ये हर्म्यादिके क्रमात् ।
ऐन्द्रे वा चोत्तरे चैशे कूटं वा मण्टपं प्रपा ॥ ५३/१ ॥
भूतादिविश्वहस्तान्तं वितानाद्यैरलङ्कृतम् ।
दर्भमालासमायुक्तं दिग्गजैश्च समन्वितम् ॥ ५३/२ ॥
तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागैकभागतः ।
एकहस्तं द्विहस्तं वा मुष्टिमात्रसमन्वितम् ॥ ५३/३ ॥
कुण्डानि कारयेद्दिक्षु विदिक्ष्वष्टौ प्रधानकम् ।
पञ्चवाचैककुण्डं वा वृत्तं वा चतुरश्रकम् ॥ ५३/४ ॥
विसृज्य शिल्पिनं पश्चाद्गोमयेन तु लेपयेत् ।
पञ्चगव्येन संप्रोक्ष्य हृदयेनानुमन्त्रतः ॥ ५३/५ ॥
त्र्यङ्गुलं तु समारभ्य चैकैकाङ्गुलवर्धनात् ।
अष्टत्रिंशाङ्गुलान्तास्तु चेष्टका विस्तरा मताः ॥ ५३/६ ॥
एकादिद्वादशान्तानां तलानां स्यात्त्रयं त्रयम् ।
अथवा विस्तरस्तासां पादव्यासं महालये ॥ ५३/७ ॥
सपादार्धत्रिपादा वा द्विगुणा वा सपादकाः ।
इष्टकाया इह प्रोक्तं विस्तारार्धं त्रिपादकम् ॥ ५३/८ ॥
पादं वा पञ्चभागे तु त्रिद्व्यंशं वा घनं भवेत् ।
आचार्य आदिशैवस्तु शिवदीक्षासमन्वितः ॥ ५३/९ ॥
सुस्नातस्तु शुचिर्भूत्वा सकलीकृतविग्रहः ।
सुशुक्लवस्त्रः सोष्णीषः सोत्तरीयः सुभूषितः ॥ ५३/१० ॥
पञ्चाङ्गभूषणोपेतः सशिष्यपरिचारकः ।
इष्टकाः पञ्जगव्यैश्च क्षालयेद्वर्मणा गुरुः ॥ ५३/११ ॥
हेमकौतुकसूत्रेण कार्पासोत्थेन बन्धयेत् ।
स्थण्डिलं कारयेद्विद्वानष्टद्रोणैश्च शालिभिः ॥ ५३/१२ ॥
तदर्धं तण्डुलोपेतं तण्डुलार्धतिलान्वितम् ।
तिलार्धं लाजसंयुक्तं दर्भैश्चैव समन्वितम् ॥ ५३/१३ ॥
इदमुत्तमकल्पं स्यात्तदर्धं मध्यमिष्यते ।
तदर्धमधमं ज्ञेयं सर्वत्रैव विनिर्मितम् ॥ ५३/१४ ॥
लिखित्वाष्टदलं पद्मं कर्णिकाकेसरान्वितम् ।
स्थण्डिलं पञ्चगव्येन संप्रोक्ष्य हृदयेन तु ॥ ५३/१५ ॥
स्वस्वदिक्स्थापनार्थं च लेखयेदिष्टकान्तरे ।
पूर्वभागे त्वकारं तु याम्ये त्वाकारमेव च ॥ ५३/१६ ॥
इकारं पश्चिमे देशे त्वीकारं चोत्तरे न्यसेत् ।
उकारमूर्ध्वभागे तु वस्त्रैराच्छाद्य पूजयेत् ॥ ५३/१७ ॥
ऋग्यजुः सामाथर्वाणि शिवशास्त्रं यथाक्रमात् ।
अधिदेवा इह प्रोक्ताः पूर्वादीनां यथाक्रमम् ॥ ५३/१८ ॥
तन्तुनावेष्टितान् कुम्भान् गन्धाम्बुपरिपूरितान् ।
पिधानसितवस्त्राढ्यान् हेमयुक्तान् सकूर्चकान् ॥ ५३/१९ ॥
पुष्पाम्रपल्लवोपेतानिन्द्राद्यष्टदिशासु वै ।
लोकपालाधिपानष्टशिवकुम्भसमायुतान् ॥ ५३/२० ॥
इन्द्रेशानान्तराले तु संस्थाप्याभ्यर्चयेद्बुधः ।
ततो होमः प्रकर्तव्यस्त्वग्निकार्योक्तमार्गतः ॥ ५३/२१ ॥
पलाशोदुम्बराश्वत्थन्यग्रोधाः प्राग्दिगादितः ।
वह्न्यपामार्गखदिरवटास्त्वग्न्यादिकोणतः ॥ ५३/२२ ॥
प्रधानस्य पलाशः स्यात्समिदाज्यचरुं तिलम् ।
तण्डुलेन समायुक्तं मूलब्रह्माङ्गसंयुतम् ॥ ५३/२३ ॥
प्रत्येकं होमयेद्धीमान् मध्ये दिक्षु विदिक्ष्वपि ।
सहस्रं वा तदर्धं वा शतं तस्यार्धमेव वा ॥ ५३/२४ ॥
विन्यसेमूर्तिपान् तत्त्वतत्त्वेश्वरसमन्वितान् ।
तेषां होमं विधातव्यं पूर्णाहुतिमथाचरेत् ॥ ५३/२५ ॥
प्रभाते विधिना स्नात्वा देशिको मूर्तिपैः सह ।
संपूज्य चेष्टकान्कुम्भान्पूर्णाहुतिमथाचरेत् ॥ ५३/२६ ॥
प्रायश्चित्तं ततो हुत्वा पुनः पूर्णाहुतिं चरेत् ।
गर्भविन्यासमार्गोक्तस्थाने तान् विन्यसेत्क्रमात् ॥ ५३/२७ ॥
हृदयं च शिखा चैव कवचं च शिरस्तथा ।
मूलं चैव क्रमेणैव पठन्नेतांश्च विन्यसेत् ॥ ५३/२८ ॥
अग्रमग्रं तथैशान्यां पृष्ठं पृष्ठं च नैरृते ।
पृष्ठाग्रे त्वनले वायौ ज्ञात्वा कर्म समाचरेत् ॥ ५३/२९ ॥
मानुषे प्रागुदग्दीर्घा दिव्ये प्राक्प्रत्यगायता ।
इष्टका प्रागवागेका प्रक्षेप्यादौ क्रमेण तु ॥ ५३/३० ॥
नन्द्यावर्ताकृति स्थाप्यमिष्टकानां चतुष्टयम् ।
पञ्चमीत्वीशवदना शैवी प्राग्वदना सुरे ॥ ५३/३१ ॥
कौबेरवदना नॄणामेवं ज्ञात्वा तु विन्यसेत् ।
आचार्यं प्राक् प्रपूज्याथ तेनैतत्कारयेत्सुधीः ॥ ५३/३२ ॥
निष्कादिनवनिष्कान्तं काञ्चनं देशिकस्य तु ।
रत्नादीन्विन्यसेन्मध्ये त्ववटेषु च विन्यसेत् ॥ ५३/३३ ॥
एकवर्गं द्विवर्गं वा त्रिवर्गं सर्वमेव वा ।
गर्भन्यासोक्तमार्गेण विन्यसेद्देशिकोत्तमः ॥ ५३/३४ ॥
आदौ जलेन संपूर्य शिवकुम्भस्थितेन तु ।
पुष्पं निक्षिप्य तत्रैव पश्चाद्रत्नानि विन्यसेत् ॥ ५३/३५ ॥
शुभं प्रदक्षिणावर्तो वामावर्तस्त्वशोभनम् ।
वामावर्ते तु संजाते शान्तिहोमं समाचरेत् ॥ ५३/३६ ॥
मन्दिरे मण्टपे चैव प्राकारे गोपुरे गृहे ।
परिवारालये पीठे शालायां च सभाविधौ ॥ ५३/३७ ॥
पुष्करिण्यां च कुल्यायां कूपे सेतोश्च बन्धने ।
अनेनैव प्रकारेण कर्म चैतत्समाचरेत् ॥ ५३/३८ ॥
अत्रानुक्तं तु यत्सर्वं गर्भन्यासोक्तमाचरेत् ।
॥ इति कामिकाख्ये महातन्त्रे आद्येष्टकाविधिः एकपञ्चाशत्तमः पटलः ॥
</poem>
== उपपीठविधिः ==
<poem>
उपपीठविधिं वक्ष्ये अधिष्ठानसमन्वितम् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् ॥ ५४/१ ॥
विमानादिविशालात्तु खातयेत्परितोऽधिकम् ।
तत्र चिक्वणपाषाणमुष्टिमृद्वालुकादिभिः ॥ ५४/२ ॥
अधिष्ठानषडष्टांशहीनं तु परिपूरयेत् ।
पञ्चांशद्ब्यंशत्र्यंशं वा हीनं वा परिकल्पयेत् ॥ ५४/३ ॥
मुद्गरैर्गजपादैश्च काष्ठतुण्डैर्घनीकृते ।
जलेन पूरिते तत्स्थं निरूनमुदकं यदि ॥ ५४/४ ॥
तद्व्यपोह्य समुद्धृत्य दण्डमानं तु शैलके ।
पतिते भारमात्रे तु न निम्नं च भवेद्यदि ॥ ५४/५ ॥
तत आरभ्य शैलैर्वा त्विष्टकाभिश्च बन्धयेत् ।
आदौ प्रकृतिभूमिः स्यात् त्रिप्रकारा तु सा स्मृता ॥ ५४/६ ॥
प्रकृतिर्हस्तमात्रेण चोत्तमे तु प्रशस्यते ।
अष्टादशाङ्गुला मध्ये हीने स्याद्द्वादशाङ्गुला ॥ ५४/७ ॥
जलस्य निस्रवार्थं तु प्रतिशालं प्रकल्पयेत् ।
षडङ्गुलक्षयेणादौ चतुरर्धं द्वितीयके ॥ ५४/८ ॥
पक्षयोस्त्र्यङ्गुलं हीनं प्रकृत्युपरि जन्मभूः ।
तदुपानमिति प्रोक्ता सैव भौमा प्रकीर्तिता ॥ ५४/९ ॥
तदूर्ध्वस्थमधिष्ठानं केवलं तु विधीयते ।
पादविस्तारमानेन साध्यर्धद्वित्रिदण्डकम् ॥ ५४/१० ॥
निर्गतं बाह्यदेशे तु तदर्धबहुलान्वितम् ।
उपानोपरि पद्मं वा सोपानं तु तदूर्ध्वतः ॥ ५४/११ ॥
यथा शोभांशमानेन भूतवेदाग्निभाजिते ।
उन्नतार्थं च शोभार्थं रक्षार्थं च बलार्थकम् ॥ ५४/१२ ॥
सभद्रं वा विभद्रं वा जन्मप्रभृति मध्यमे ।
उपपीठं विधातव्यमधिष्ठानोदयार्धतः ॥ ५४/१३ ॥
पादेन च त्रिपादेन समेन त्रिगुणेन वा ।
पञ्चांशे तु त्रयांशेन वह्न्यंशे त्वैकभागतः ॥ ५४/१४ ॥
तदुच्चार्धत्रिपादं वा पादं वाष्टांशहीनकम् ।
द्विदण्डं वा त्रिदण्डं वा निर्गमं पादबाह्यतः ॥ ५४/१५ ॥
पादुकाच्च बहिर्वाधो उपानस्तम्भबाह्यकम् ।
नवपङ्क्त्यंशकं कृत्वा त्र्यंशोच्चोपानभिष्यते ॥ ५४/१६ ॥
द्व्यंशं पद्मं तदूर्ध्वे तु कम्पमेकांशमिष्यते ।
षडंशः कर्णमिष्टः स्याच्छेषं प्राग्वत्प्रकीर्तितम् ॥ ५४/१७ ॥
कम्पस्त्वंशेन कर्तव्यमष्टांशमुपपीठकम् ।
तदेवोर्ध्वमधस्ताच्चेदम्बुजेन विहीनकम् ॥ ५४/१८ ॥
षडंशमुपपीठं स्याच्चतुर्विंशतिभाजिते ।
तदर्धं करणं प्राग्वदंशेनोत्तरमिष्यते ॥ ५४/१९ ॥
रुद्रांशेन त्रिभागेन कपोतमिह सम्मतम् ।
अलिन्दान्तरितं द्व्यंशं प्रत्युत्सेधं तु तत्समम् ॥ ५४/२० ॥
वाजनं चैकभागं स्यात्कर्णस्त्वष्टांश इष्यते ।
उत्तरे चैकभागं स्याद्रुद्रभागेन कीर्तिता ॥ ५४/२१ ॥
कपोतकं त्रिभागेन भागेनालिन्दमिष्यते ।
अन्तरीतं तु भागेन भागाभ्यां प्रति इष्यते ॥ ५४/२२ ॥
प्रतिवाजनमेकांशं सर्वालङ्कारसंयुतम् ।
त्रिः सप्तांशत उत्सेधो द्वाभ्यां जन्म तथाम्बुजम् ॥ ५४/२३ ॥
गलमर्धेन चार्धेन पद्मं द्व्यंशेन वाजनम् ।
अर्धेनाब्जं तथा कम्पमष्टांशं कर्णमीर्तितम् ॥ ५४/२४ ॥
अंशेनोत्तरमर्धेन पद्मं चोपानकं त्रिभिः ।
भागार्धमूर्ध्वकम्पः स्यात् त्रिः सप्तांशे तदुन्नते ॥ ५४/२५ ॥
जन्म द्व्यंशेन त्र्यंशेन पद्ममंशेन कन्धरम् ।
बाह्यवाजनमेकेन कम्पमष्टांशकैर्गलम् ॥ ५४/२६ ॥
अंशेनोत्तरमंशाभ्यां वाजनं कम्पमंशकम् ।
सिंहेभमकरैर्व्यालैर्भूतैः पत्रैलङ्कृतम् ॥ ५४/२७ ॥
प्रतिवक्त्रं चषालं स्याद्बालेनारूढमस्तकम् ।
अर्पिते नार्पिते मत्स्यैः सर्वत्र परिकल्पयेत् ॥ ५४/२८ ॥
अङ्गमङ्गं विशेषेण वृद्धिं हानिं च कारयेत् ।
चतुःपञ्चषडंशं वा सप्ताष्टांशमथापि वा ॥ ५४/२९ ॥
अंशद्वयं त्रयांशं वा परिगृह्यावशेषतः ।
परिलोप्य विधातव्यमाद्यङ्गंत्वोपपीठकम् ॥ ५४/३० ॥
अनेनैव प्रकारेण ह्यधिष्ठानं च कारयेत् ।
द्विविधं तदिह प्रोक्तं प्रत्यङ्गं पट्टिकाङ्गकम् ॥ ५४/३१ ॥
चतुर्विंशतिभागं तु कृत्वाधिष्ठानतुङ्गकम् ।
जगत्यष्टांशकेनोक्ता कुमुदं तत्समानकम् ॥ ५४/३२ ॥
अष्टपादं तदुद्दिष्टं कम्पमंशस्त्रिभागभाक् ।
कर्णस्त्वंशेन कम्पं स्यात् त्र्यंशं वाजनमिष्यते ॥ ५४/३३ ॥
जगती प्राग्वदुद्दिष्टा सप्तांशं कुमुदं भवेत् ।
पद्ममंशेन कर्तव्यं शेषं पूर्ववदाचरेत् ॥ ५४/३४ ॥
सप्तांशा जगती प्रोक्ता षडंशं कुमुदं भवेत् ।
पद्ममंशेन कर्तव्यं कम्पमेकांशतो भवेत् ॥ ५४/३५ ॥
त्र्यंशं तु गलमित्युक्तमेकांशं चोर्ध्वकम्पकम् ।
पद्ममेकांशतो ज्ञेयं वाजनं द्व्यंशमिष्यते ॥ ५४/३६ ॥
ऊर्ध्वपद्मं तदैकांशमुपकम्पं तथैव च ।
पञ्चांशा जगती प्रोक्ता पद्ममेकांशतो भवेत् ॥ ५४/३७ ॥
दृगंशेनांशतः पद्मं कुमुदं चतुरंशकम् ।
शेषं प्राग्वत्समुद्दिष्टं कम्पस्तम्भोदयाश्रितम् ॥ ५४/३८ ॥
भागेनैकेन जन्म स्यात्त्रिभागं गलमुच्यते ।
कम्पमेकांशतो ज्ञेयं षडंशं जगतिर्भवेत् ॥ ५४/३९ ॥
एकेन पद्ममंशेन गलमेकेन पद्मकम् ।
त्रिभागं कुमुदं पद्ममेकांशं परिकीर्तितम् ॥ ५४/४० ॥
एकेन कम्पं द्व्यंशेन गलमंशेन कम्पकम् ।
दलमंशेन कर्तव्यं वाजनं द्व्यंशमीरितम् ॥ ५४/४१ ॥
एकांशं जलजं प्रोक्तं कम्पमंशेन कीर्तितम् ।
एकभागेन जन्म स्यात्पञ्चांशा जगतिर्भवेत् ॥ ५४/४२ ॥
प्रकर्तव्ये तथान्येषां सर्वमेतत्प्रकल्पयेत् ।
आर्ताधिष्ठानतुङ्गेन द्विगुणापाततुङ्गता ॥ ५४/४३ ॥
अथवार्तांशमानेन तं भेदैः परिकल्पयेत् ।
एकांशं जलजं प्रोक्तं गलमर्धांशतो भवेत् ॥ ५४/४४ ॥
उर्ध्वपद्मं तथार्धांशं चतुर्भिः कुमुदं भवेत् ।
अर्धेन पद्ममर्धेन कम्पं द्व्यर्धांशकैर्गलम् ॥ ५४/४५ ॥
अंशेन कम्पमर्धेन पद्मं द्व्यंशेन वाजनम् ।
अर्धेन पद्ममेकेन कम्पमर्धेन पद्मकम् ॥ ५४/४६ ॥
एकेन जन्म द्वाभ्यां तु पद्ममेकेन कम्पकम् ।
षडंशा जगती वेदभागं च कुमुदं भवेत् ॥ ५४/४७ ॥
एकांशं कम्पकर्णौ हृद्भागं भागेन निर्मितम् ।
कम्पमेकेन कर्तव्यं वाजनं द्व्यंशमिष्यते ॥ ५४/४८ ॥
एकांशं कम्पकं पद्मं सार्धेनार्धेन कम्पकम् ।
षड्विंशत्यंशकं प्रोक्तं सर्वस्मिन् धाम्नि योजयेत् ॥ ५४/४९ ॥
द्विभागं जन्म संप्रोक्तमेकांशं पद्ममिष्यते ।
एकेन कम्पकं पञ्चभागेन जगती भवेत् ॥ ५४/५० ॥
कुमुदं चतुरंशं स्यादेकं पद्मं तु भागतः ।
कम्पकर्णौ द्विभागेन एकं कम्पं तथाब्जकम् ॥ ५४/५१ ॥
वाजनं तु द्विभागं स्यात्कम्पमंशेन कीर्तितम् ।
एवं स्यात्पादबन्धं तु छेदनीयं यथोचितम् ॥ ५४/५२ ॥
देवानां च द्बिजातीनां चतुर्णामपि योग्यकम् ।
प्रतिबन्धं प्रवक्ष्यामि त्रयोविंशतिभाजिते ॥ ५४/५३ ॥
अष्टांशा जगती प्रोक्ता कुमुदं तत्समानकम् ।
आलिङ्गमर्धभागं स्यात् द्वाविंशत्यंशके कृते ॥ ५४/५४ ॥
एवं स्यात्पादबन्धे तु छेदनीयं यथोचितम् ।
तदेवं कुमुदं प्रोक्तं वाजनं स्यात्कपोतकम् ॥ ५४/५५ ॥
प्रत्युत्सेधं त्रिभागेन साब्जकं पञ्चभागतः ।
देवद्विजनरेन्द्राणां प्रशस्तं नान्यजातिषु ॥ ५४/५६ ॥
अष्टांशमम्बुजं प्रोक्तं कण्ठभागे च भागतः ।
अम्बुजं कुमुदं भूतैरेकांशं पद्ममिष्यते ॥ ५४/५७ ॥
आलिङ्गस्य द्विभागं स्यात्तथैवान्तरितं मतम् ।
प्रत्युत्सेधं त्रिभागेन साब्जक्षेपणमंशुकम् ॥ ५४/५८ ॥
तृतीयं विंशतिभागैः कल्पयेत्कल्पवित्तमः ।
अष्टभागं महापद्मं दृगेकेनांशतोऽम्बुजम् ॥ ५४/५९ ॥
वृत्तं तु पञ्चभागेन भागेनोर्ध्वाम्बुजम् भवेत् ।
कम्पमेकेन कर्णस्तु त्रिभिरंशेन वाजनम् ॥ ५४/६० ॥
निद्रांशेन कपोतस्तु सार्धद्व्यंशेन कल्पितम् ।
आलिङ्गान्तरिते द्वाभ्यां प्रतिभागद्वयेन तु ॥ ५४/६१ ॥
अर्धांशेनोर्ध्वकम्पं तु भागेन त्रिंशदंशके ।
एकविंशतिभागे तु जन्मभागेन कीर्तितम् ॥ ५४/६२ ॥
सार्धेन पद्ममर्धेन कम्पं स्यात्सप्तभागतः ।
जगती कुमुदं षड्भिरेकेनालिङ्गगमंशुके ॥ ५४/६३ ॥
प्रोक्तमन्तरितं द्वाभ्यां प्रतिसाब्जं तु वाजनम् ।
एकभागेन कर्तव्यं लतापत्रादिशोभितम् ॥ ५४/६४ ॥
द्वात्रिंशद्भाजिते तुङ्गे जन्म द्वाभ्यामथैकतः ।
वाजनं स्यान्महापद्मं सप्तभागेन कीर्तितम् ॥ ५४/६५ ॥
कर्णस्त्वंशेन पद्मं स्यादेकं वेदेन वृत्तकम् ।
अब्जमेकेन कम्पं स्यादंशमग्न्यंशकैर्गलम् ॥ ५४/६६ ॥
कम्पमेकेन तद्वत्स्यात्पद्मं वेदैः कपोतकम् ।
आलिङ्गान्तरिते द्वाभ्यां प्रतिभागद्वयेन तु ॥ ५४/६७ ॥
सपद्मकम्पमेकेन सर्वालङ्कारशोभितम् ।
एकेन जन्मषड्भागैर्जगती शरभागिकम् ॥ ५४/६८ ॥
कुमुदं भागवेत्रं स्यात् त्रिभिः कण्ठः प्रकीर्तितः ।
एकेन कम्पमंशेन गलं त्र्यंशैः कपोतकम् ॥ ५४/६९ ॥
एकं कम्पं भवेदुच्चैः कृते द्वाविंशकांशके ।
तत्तदेव भवेदूर्ध्वं भागेनान्तरितं भवेत् ॥ ५४/७० ॥
द्वाभ्यां प्रतिरथांशेन गलत्र्यंशैः कपोतकम् ।
सार्धजं वार्धजं कम्पं महापद्मं शरांशकम् ॥ ५४/७१ ॥
गलमंशेन भागेन गलवृत्तं त्रिभागिकम् ।
पद्ममंशं भवेत्कम्पमंशेन परिकीर्तितम् ॥ ५४/७२ ॥
अंशेनान्तरितं द्वाभ्यां प्रतिरंशेन वाजनम् ।
द्वाभ्यां जन्मांशतः पद्मं कम्पमेकेन कीर्तितम् ॥ ५४/७३ ॥
जगती पञ्चभागेन वेदांशैः कुमुदं भवेत् ।
एकांशं पद्ममेकेन पद्मं कण्ठो द्विभागतः ॥ ५४/७४ ॥
कम्पमंशेन भागेन पद्मं द्वाभ्यां कपोतकम् ।
एकेन कम्पमंशेन त्र्यशं द्वाभ्यां प्रतिर्भवेत् ॥ ५४/७५ ॥
अंशेन वाजनं तुङ्गे कृते षड्विंशकांशके ।
त्र्यंशं प्रतिश्च कम्पं च त्यक्त्वान्यैरन्यदिष्यते ॥ ५४/७६ ॥
एकेन जन्म भागाभ्यां पद्ममंशेन कम्पकम् ।
जगती चतुरंशेन कम्पं पद्मं द्विभागकम् ॥ ५४/७७ ॥
कम्पमंशेन भागेन पद्मं वृत्तं त्रिभिर्भवेत् ।
एकांशं पद्ममालिङ्गमंशमन्तरितं तथा ॥ ५४/७८ ॥
द्वाभ्यां प्रतिश्च भागेन वाजनं पञ्चविंशेके ।
यवमेकं समारभ्य चैकैकयववर्धनात् ॥ ५४/७९ ॥
पञ्चमात्रान्तकं वृद्धिमाधिक्यं वा प्रकल्पयेत् ।
मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ॥ ५४/८० ॥
तलं कृट्टिममाद्यङ्गं पर्यायवचनानि हि ।
जगत्या निष्क्रमो यावत् तावदेव च कैरवे ॥ ५४/८१ ॥
अम्बुजानां च सर्वेषां स्वे स्व यो निष्क्रमो मतः ।
वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमः ॥ ५४/८२ ॥
स्वसमो वा त्रिभागो वा महावाजननिर्गमः ।
एवं निवृत्तमेवं स्यात् शोभाबलवशेन वा ॥ ५४/८३ ॥
प्रवेशनिर्गमौ कार्यौ सर्वाङ्गानां मसूरके ।
प्रतिच्छन्दो न कर्तव्यो सर्वत्रैव विचक्षणैः ॥ ५४/८४ ॥
द्वारार्थं यः परिच्छेदः सम्पद्द्वारं च नेत्यलं ।
स्वायम्भुवादिलिङ्गेषु प्रतिच्छन्दो न दोषकृत् ॥ ५४/८५ ॥
पादबन्धमधिष्ठानं छेदनीयं यथोचितम् ।
जन्मादिपञ्चवर्गेषु तत्तदंशेऽवसानके ॥ ५४/८६ ॥
पट्टिकाङ्गे त्वधिष्ठानैरन्यस्मिन्नेवमूह्यताम् ।
तदधिस्ठानमानं च श्रूयतां मुनिपुङ्गवाः ॥ ५४/८७ ॥
देवानां स्याच्चतुर्हस्तं द्विजानां तत्समो भवेत् ।
नृपाणां त्रिकरं सार्धं द्विहस्तं यौवराजकम् ॥ ५४/८८ ॥
द्विहस्तं वणिजामेकहस्तं शूद्रस्य कीर्तितम् ।
एतज्जातिवशाद् भूमिवशादत्रैव कथ्यते ॥ ५४/८९ ॥
दण्डात् षण्मात्रहत्यात्तु द्वादशाद्यात् त्रिभूमिकात् ।
त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम् ॥ ५४/९० ॥
महत्तराणां क्षुद्राणां मानमेवात्र चानयेत् ।
मसूरकोन्नतं पञ्चहस्तैर्द्वात्रिंशदङ्गुलम् ॥ ५४/९१ ॥
त्रिंशदङ्गुलमूलं वा द्विद्व्यङ्गुलविवर्धनात् ।
अष्टत्रिंशाङ्गुलं चान्ते त्रयोदशविशालतः ॥ ५४/९२ ॥
षडादीनां तु पञ्चानामेकत्रिंशाङ्गुलादितः ।
नवत्रिंशाङ्गुलं तत्स्याच्चतुर्दशकरस्य तु ॥ ५४/९३ ॥
त्रिचतुर्हस्तयोर्धाम्नोस्तन्नीत्यैव विनिश्चयः ।
आर्तोत्सेधांशमानं वाधिष्ठानस्य विधीयते ॥ ५४/९४ ॥
तत्तत्पादोदयार्धेन षडष्टांशोनमानतः ।
अधिष्ठानोछ्रयो वा स्यात् पादतुङ्गोनमेव वा ॥ ५४/९५ ॥
त्रिभागाद्रविभागान्तं त्यक्त्वाधिष्ठानतुङ्गकम् ।
भागेन वा प्रकर्तव्यमङ्गुलैर्वा यवैस्तु वा ॥ ५४/९६ ॥
न्यूनं वाप्यधिकं वापि कारयेत्कर्तुरिच्छया ।
अधिष्ठानादिषड्वर्गेप्येवमेव समाचरेत् ॥ ५४/९७ ॥
॥ इति कामिकाख्ये महातन्त्रे उपपीठाधिष्ठानविधिः द्विपञ्चाशत्तमः पटलः ॥
</poem>
== पादमानविधिपटलः ==
<poem>
अतः परं प्रवक्ष्यामि पादमानं विचक्षणाः ।
पादश्च द्विविधो होमस्तम्भः स्यात्प्रतिपादकः ॥ ५५/१ ॥
अधिष्ठानोपगूढस्तु निर्घातस्तम्भ इष्यते ।
प्रतिस्तम्भवृतेरूर्ध्वे चोत्तरान्तसमायतिः ॥ ५५/२ ॥
सवितस्त्यष्टहस्तोच्चः प्रतिस्तम्भोदयो मतः ।
अयं द्वादशभूमेः स्यात्तलं प्रति तलं प्रति ॥ ५५/३ ॥
वितस्त्याः क्षपयेदेकभूमौ त्रिकर इष्यते ।
अनेनैव क्रमान्नेयं षोडशक्ष्मान्तमेव हि ॥ ५५/४ ॥
द्ब्यन्तराणां च षड्वेदाङ्गुलेन क्षय इष्यते ।
जातीतराणां क्षपणं द्वाभ्यां वा त्र्यङ्गुलेन वा ॥ ५५/५ ॥
रविभौमस्य विसृतिरष्टाविंशतिमात्रकम् ।
द्व्यङ्गुलेन क्षयो भूमौ भूमावेव षडङ्गुला ॥ ५५/६ ॥
एकभूस्तम्भविस्तारस्तलोपरितले मतम् ।
द्व्यन्तराणां च सर्वेषां द्वाभ्यां वा त्रिभिरङ्गुलैः ॥ ५५/७ ॥
ऊनाधिक्ये प्रकर्तव्ये तथान्येषां प्रकल्पयेत् ।
आर्ताधिष्ठानतुङ्गेन द्विगुणः पादतुङ्गकः ॥ ५५/८ ॥
अथवार्तांशमानेन स्तम्भदैर्घ्यं प्रकल्प्यताम् ।
आर्तोत्सेधांशमानं तु षट्सप्ताष्टनवांशकम् ॥ ५५/९ ॥
हीनं वाप्यधिकं वापि स्तम्भोत्सेधं प्रकल्पयेत् ।
अथवा स्तम्भतुङ्गे तु वसुनन्ददशांशके ॥ ५५/१० ॥
विस्तारस्त्वेकभागः स्यात्सर्वेषां दारुपादके ।
तद्व्यासार्धं च पादेन त्रिद्व्यंशं वा प्रकल्पयेत् ॥ ५५/११ ॥
भित्तिस्तम्भविशालं यत्तेन द्वित्रिगुणं मतम् ।
शिलास्तम्भविशालं स्याद्यथेष्टं वा प्रकल्पयेत् ॥ ५५/१२ ॥
षडंशं तु समारभ्य द्वादशांशसमावधि ।
भागं कृत्वैकभागेन वोर्ध्वोर्ध्वं स्तम्भतुङ्गता ॥ ५५/१३ ॥
मूलादग्रं यथा प्रोक्तं कुड्यं चापि तथा मतम् ।
द्वित्रिवेदचतुर्दण्डः कुड्यविस्तार इष्यते ॥ ५५/१४ ॥
पञ्चषड्गुणितो वापि स्तम्भालङ्कार इष्यते ।
उच्यते चतुरश्रं च वृत्तं वा तत्प्रकीर्तितम् ॥ ५५/१५ ॥
सर्वं तच्चतुरश्रं तु कुम्भमण्डीसमन्वितम् ।
ब्रह्मकान्तं विजानीयाद्व्यासत्रिगुणमानतः ॥ ५५/१६ ॥
मध्येष्टाश्रं पोतिकान्तं मध्याष्टाश्रं प्रकल्पयेत् ।
सर्वत्राष्टाश्रसंयुक्तं कुम्भमण्ड्यादिसंयुतम् ॥ ५५/१७ ॥
विष्णुक्रान्तं स्वयं नाम्ना कौमारं स्यात्षडश्रकम् ।
भानुकान्तं तदग्रं स्यात्कलाश्रं चन्द्रकान्तकम् ॥ ५५/१८ ॥
मूले कर्णप्रमाणेन चतुरश्रस्तदूर्ध्वतः ।
पूर्वोक्ताकृतिसंयुक्ताः पूर्वाश्रा ननु कीर्तिताः ॥ ५५/१९ ॥
सर्वत्र वृत्तसंयुक्तमीशकान्तमिति स्मृतम् ।
समत्रिभागमानेन चतुरष्टाश्रवृत्तकम् ॥ ५५/२० ॥
कुम्भमण्ड्यादिसहितो रुद्रकान्तस्तु कीर्तितः ।
शुक्लभेदसमायुक्त ईशकान्तः प्रकीर्तितः ॥ ५५/२१ ॥
पिण्डपाद इति प्रोक्तो मूले विपुलमानतः ।
चतुरश्रः तदूर्ध्वे तु षोडशाश्रादिसंयुतः ॥ ५५/२२ ॥
स्यान्मूलचतुरश्रोऽसौ स्तम्भव्यासोद्वयेन च ।
विस्तृतं तु तदूर्ध्वोच्चं मूले पद्मासनं भवेत् ॥ ५५/२३ ॥
यथेष्टाकृतिशेषं तु मूलपद्मासनं भवेत् ।
द्वित्रिदण्डविशालोच्चो लूखलो यदि मूलतः ॥ ५५/२४ ॥
तदूर्ध्वेऽष्टाश्रसंयुक्तः स्यादुलूखलपादपः ।
उदयं तु चतुर्भागः सिंहव्यालेभभूतकैः ॥ ५५/२५ ॥
नरनारीयुतो मूले यथेष्टाकारसंयुतः ।
उपरिष्टाच्च तन्नाम्ना पादाश्च बहवो मताः ॥ ५५/२६ ॥
स्तम्भार्धनिष्क्रमः कुड्यादष्टाश्राणां विधीयते ।
त्रिभागैकं च वृत्तानां वेदाश्राणां तु पादतः ॥ ५५/२७ ॥
कुम्भश्चतुर्विधः प्रोक्तः सपादः सार्ध एव च ।
पादोनद्विगुणश्चैव द्विगुणस्तून्नतिक्रमात् ॥ ५५/२८ ॥
श्रीकान्तब्रह्मकान्तादिचन्द्रकान्ताः प्रकीर्तिताः ।
भानुकान्त इति प्रोक्तः तदुच्चे तु नवांशके ॥ ५५/२९ ॥
अंशेन दृक् चतुर्भागः कलशः कण्ठ एकतः ।
आस्यमंशमथांशेन पद्ममर्धेन वृत्तकम् ॥ ५५/३० ॥
अर्धेन हीनकौ कार्यौ स्तम्भद्विगुणमानतः ।
कुम्भविस्तार उद्दिष्टश्चाध्यर्धं चास्यमीर्तितम् ॥ ५५/३१ ॥
मूलपादविशालं तु हीनकौ पादविस्तरौ ।
दृक्कण्ठौ च विधातव्यौ पादविस्तारमानतः ॥ ५५/३२ ॥
तद्विस्तारसमायुक्तं ततो द्बिगुणमूलतः ।
किञ्चिदग्रं विहीनं स्यात्कमलं तदधो भवेत् ॥ ५५/३३ ॥
अष्टांशाधिकपद्व्यासमर्धपादेन तुङ्गकम् ।
मूलस्थानमधस्तत्स्याद्दण्डमानमथोच्यते ॥ ५५/३४ ॥
त्रिगुणार्धयुता सा च चतुरश्रा समायता ।
मण्डिता पञ्चधा कृत्वा सार्धेन फलकासनम् ॥ ५५/३५ ॥
तत्समं वेत्रमित्युक्तं मण्डी शेषेण कल्प्यताम् ।
दण्डाक्रारस्तु वेत्रान्तं पादाकारसमो भवेत् ॥ ५५/३६ ॥
पालिकाभा च पद्माग्रा तथा नागतलाकृतिः ।
त्रिधा मण्डी समाख्यात पादोर्ध्वे पोतिका भवेत् ॥ ५५/३७ ॥
नागवृत्ता पत्रचित्रा समुद्रोर्मिरिति त्रिधा ।
स्तम्भत्रिगुणमाना सा दण्डोदयसमायुता ॥ ५५/३८ ॥
छायाक्षेपणसंयुक्ता नागवृत्तेति कीर्तिता ।
चतुर्दण्डसमायामा त्रिपादोदयसंयुता ॥ ५५/३९ ॥
छायाक्षेपणपत्रैश्च युक्ता पत्रविचित्रिता ।
पञ्चदण्डसमायामा दण्डमानसमोदया ॥ ५५/४० ॥
चतुर्भागैकमानेन युक्ता युग्मैस्तरङ्गकैः ।
यथेष्टैः पार्श्वयोश्चैव समुद्रोर्मिरिति स्मृता ॥ ५५/४१ ॥
पोतिकानां च सर्वासां विस्तारः पादतः समः ।
तदुच्चस्त्रित्रिभागेन तस्यास्त्वग्रे तु पट्टिका ॥ ५५/४२ ॥
तदर्धार्धेन कर्तव्यं तदधः क्षेपणं द्विजाः ।
छायायामं तदुच्चार्धं त्रिद्व्यंशं वाथ कल्पयेत् ॥ ५५/४३ ॥
स्वव्यासार्धं त्रिभागं वा त्वग्रमण्डनमिष्यते ।
सनालिकं समतलं सिंहव्यालादिमण्डितम् ॥ ५५/४४ ॥
मुष्टिबन्धोपरि क्षिप्तं व्यालाद्यैर्भूषितं तु वा ।
पूर्वाश्रचतुरश्राणां नागवृत्ता प्रकीर्तिता ॥ ५५/४५ ॥
सर्वेषु चातिहारेषु पत्रचित्रा प्रकीर्तिता ।
समुद्रोर्मिस्तथान्येषां पादानां फलका मता ॥ ५५/४६ ॥
विस्तारे त्रिचतुर्भागे चैकांशेन शिखा भवेत् ।
हस्तादिपञ्चहस्तान्तं षट्षडङ्गुलवर्धनात् ॥ ५५/४७ ॥
स्तम्भान्तरं प्रयोक्तव्यमोजं वा युग्ममेव वा ।
समाः स्तम्भान्तराः सर्वे प्रासादे सार्वदेशिके ॥ ५५/४८ ॥
विषमस्तम्भभागं तु वास्तु चाशु विनश्यति ।
सायं चापि च तत्सर्वं तत्प्रकारेण कारयेत् ॥ ५५/४९ ॥
शिलामयास्तु देवानामन्येषां नैव कीर्तिताः ।
इष्टकाभिर्द्रुमैः सर्वे स्तम्भाः कार्या विचक्षणैः ॥ ५५/५० ॥
युग्मायुग्मास्तु देवानामयुग्मास्तु नृणां मताः ।
अन्तस्तम्भा बहिस्तम्भा ऋजुस्तम्भाः समा मताः ॥ ५५/५१ ।
अधिष्ठानं च पादं च भित्तिरुत्तरसंज्ञकम् ।
तुला जयन्ती चाख्याता छायाख्यमिति कीर्तितम् ॥ ५५/५२ ।
एभ्यो विशिष्टं यद्वस्तु तनुकायमिति स्मृतम् ।
॥ इति कामिकाख्ये महातन्त्रे पादमानविधिः त्रिपञ्चाशत्तमः पटलः ॥
</poem>
== प्रस्तरविधिपटलः ==
<poem>
अथ वक्ष्ये विशेषेण प्रस्तरस्य विधिक्रमम् ।
उत्तरं वाजनं चैव मुष्टिबन्धं मृणालिकम् ॥ ५६/१ ॥
दण्डिकावलयक्षुद्रगोपनाच्छादनानि च ।
आलिङ्गान्तरिता चैव प्रत्यङ्गं वाजनं क्रमात् ॥ ५६/२ ॥
त्रयंशैकांशांशपञ्चैकद्वित्रिभागैकभागकैः ।
त्रिभागेनैकभागेन उपर्युपरि योजयेत् ॥ ५६/३ ॥
एतानि प्रस्तराङ्गानि त्रिविधं चोत्तरं भवेत् ।
खण्डोत्तरं पत्रबन्धं रूपोत्तरमिह द्विजाः ॥ ५६/४ ॥
पादविस्तारविस्तारं समोदयसमन्वितम् ।
खण्डोत्तरमिति ज्ञेयं पादेनोत्सेधसंयुतम् ॥ ५६/५ ॥
पादविस्तारसंमुक्तं पत्रबन्धमिति स्मृतम् ।
अर्धोच्चं पादविस्तारं रूपोत्तरमिहोदितम् ॥ ५६/६ ॥
त्रिपादं वा त्रित्रिभागोनमर्धं वा कर्णनिर्गमम् ।
स्वस्तिकं चार्धमानं च नन्द्यावर्तसमाकृति ॥ ५६/७ ॥
सर्वतोभद्रवृत्तं वा प्रत्युत्तरनिवेशनम् ।
प्रागुक्तोत्सेधसंयुक्तं तत्पादादथ विस्तरम् ॥ ५६/८ ॥
छन्दःपादाग्रसंयुक्तमथवा परिकल्पयेत् ।
तदुच्चत्रिचतुर्भागनिर्गमोद्गमसंयुतम् ॥ ५६/९ ॥
वाजनं चतुरश्रं वा पद्माश्रं चोत्तरोपरि ।
आयतं त्रिचतुःपञ्चदण्डैरर्धं त्रिपादिकम् ॥ ५६/१० ॥
विस्तारं तत्समोत्सेधं पोतिकालङ्कृतिक्रियाम् ।
सनालीकविधीकं स्यान्मृणालिकमथोपरि ॥ ५६/११ ॥
तुलावलीकयोर्मध्ये क्षोणीवाजनमेव वा ।
स्तम्भव्यासी त्रिपादोच्चा त्वर्धपादोनविस्तरा ॥ ५६/१२ ॥
महाभारतुला कार्या वलीकोर्ध्वे विशेषतः ।
तुलाविस्तारतारोच्चा जयन्ती स्यात्तुलोपरि ॥ ५६/१३ ॥
अर्धदण्डघनोपेतमध्यर्धोच्चं समोदरम् ।
स्थानमार्गं जयन्त्यमूर्ध्वे पार्श्वगं तूत्तरं भवेत् ॥ ५६/१४ ॥
वाजनाश्च तुलाद्वारानुगाः सर्वत्र कीर्तिताः ।
जयन्ती वंशका ज्ञेया तुलावदनुमार्गकम् ॥ ५६/१५ ॥
प्रस्तरः पादविष्कम्भस्त्रिदण्डं चार्धदण्डकम् ।
तुलावलीकयोर्मध्ये द्विदण्डमथवा पुनः ॥ ५६/१६ ॥
एकदण्डान्तरं वापि जयन्त्युत्तरमेव च ।
पादात्पादविवृद्ध्या तु त्रिदण्डान्तं प्रकल्पयेत् ॥ ५६/१७ ॥
तथैव चानुमार्गाणामन्तरं प्रविधीयते ।
अनुमार्गयुतं वापि रहितं वापि कारयेत् ॥ ५६/१८ ॥
यथाबलं यथाशोभमाच्छाद्यं तदुपर्यथ ।
दारुभिर्वेष्टकाभिर्वा यथाबलघनान्वितम् ॥ ५६/१९ ॥
हंसभूतबलिर्वाथ निद्रा वा दण्डमानतः ।
त्रिपादोदययुक्ता वा विधेया वाजनोपरि ॥ ५६/२० ॥
बहिः कपोतकरणं वाजनोपरि कल्पयेत् ।
अध्यर्धद्वित्रिदण्डो वा निर्गमश्चोद्गमो भवेत् ॥ ५६/२१ ॥
अर्धत्रिपाददण्डं वा कपोतालम्बनं भवेत् ।
उत्तरोपरि संस्थाप्य वाजनस्य तदूर्ध्वकम् ॥ ५६/२२ ॥
पोतिकान्तावलम्बं वा तुलान्तरितमन्तरम् ।
दण्डार्धात्पादवृद्ध्या तु त्रिदण्डान्तं तदुच्यते ॥ ५६/२३ ॥
तदर्धार्धत्रिभागैकं सोपानघनमिष्यते ।
पादाष्टांशषडंशैकफलकैश्छादयेत् परि ॥ ५६/२४ ॥
कम्पास्तदुपरि क्षेप्या यथेष्टाकृतिविस्तरैः ।
छादयेल्लोहलोष्टैर्वा मृल्लोष्टैर्वा द्विजोत्तमाः ॥ ५६/२५ ॥
सोपाननिर्गमाद्येन दण्डिकानिर्गमो भवेत् ।
दण्डिका पादतारार्धं तदर्धं हि घनं भवेत् ॥ ५६/२६ ॥
दण्डिकाविपुलोपेतं तदर्धं च गलान्वितम् ।
सनालीकं तु मण्ड्यङ्गं दण्डनिष्क्रमसंयुतम् ॥ ५६/२७ ॥
मुष्टिबन्धं पृथक् कुर्याद्वाजनोपरि बुद्धिमान् ।
तुलाच्छेदेन वा कुर्यात् स्तम्भाग्रविपुलान्वितम् ॥ ५६/२८ ॥
तदर्धं निष्क्रमोपेतं स्वाग्रपट्टिकयान्वितम् ।
कायपादं नयेद्धीमान् दण्डिकावाजनान्तरे ॥ ५६/२९ ॥
कायपादान्तरं छाद्यं फलकैः सारदारुजैः ।
दण्डिकामुष्टिबन्धान्तः समाद्यायसमन्वितम् ॥ ५६/३० ॥
दण्डत्रिपादविसृतं तदर्धार्धघनान्वितम् ।
हस्तिमुण्डकसंस्थानं कुम्भमण्डीसमायुतम् ॥ ५६/३१ ॥
ऊर्ध्वाधस्ताच्छिरोपेतं नानाकम्पसमायुतम् ।
मण्डनं त्वन्तरे कार्यं दण्डिकामुष्टिबन्धयोः ॥ ५६/३२ ॥
व्यालनालकसिंहाद्यं मध्ये वा परिकल्पयेत् ।
मुष्टिबन्धसमाकारं चतुरश्रसमाकृति ॥ ५६/३३ ॥
यथेष्टविपुलोत्तुङ्गं तुङ्गार्धसमवेशनम् ।
दण्डिकोर्ध्वे तु वलयं गोपनं स्यात्तदूर्ध्वतः ॥ ५६/३४ ॥
हित्वावशिष्टमानं तु गोपनं चार्पयेद्बुधः ।
वसन्तकं वालिन्दं वा विधेयं वाजनोपरि ॥ ५६/३५ ॥
त्रिपादोच्चं तदूर्ध्वे स्यात्कपोतोच्चं तु पूर्ववत् ।
एवं स्याद्दृढकल्पं तु शिलयेष्टकया द्रुमैः ॥ ५६/३६ ॥
यथा प्रयोगस्थैर्यं तु तथा योज्यं विचक्षणैः ।
कपोतोच्चत्रिभागं वा पादं वा क्षुद्रनिद्रकम् ॥ ५६/३७ ॥
कपोतनासिका क्षुद्रनीव्रोर्ध्वे स्थितकर्णिका ।
सपाददण्डा वाध्यर्धद्विदण्डा विस्तृतान्विता ॥ ५६/३८ ॥
सिंहश्रोत्रशिखालिङ्गपट्टिकान्तस्य पट्टिका ।
विधेया स्वस्तिकाकृत्या नासिकोर्ध्वेन नासिका ॥ ५६/३९ ॥
कुक्षिकादिशिखामानं यथाशोभनमेव वा ।
वाताहतचलच्चारुलतावत्कर्णिकाक्रिया ॥ ५६/४० ॥
प्रतिवाजनकस्योर्ध्वे नेष्यते नासिकोच्छ्रयः ।
पादपादघनोपेतं पादात्पादविनिर्गमः ॥ ५६/४१ ॥
आलिङ्गं स्यात्तदूर्ध्वस्थं तदूर्ध्वान्तरितं मतम् ।
पादार्धविपुलं त्वर्धनिवृत्याश्राग्रपट्टिका ॥ ५६/४२ ॥
पादे पादान्तरे त्वन्तःप्रविष्टं पादबाह्यकम् ।
पादाकारं त्रिपादार्धसदृशोदयसंयुता ॥ ५६/४३ ॥
प्रतिं निवेशयेत्तस्य त्रित्रिभागैकभागतः ।
पादेन वाजनं कुर्यात्तदनन्तरमुच्यते ॥ ५६/४४ ॥
तच्चेन्निम्नोन्नतं सर्वं देवानां कुलनाशनम् ।
विकारः स्यात्तु देवानां द्विजानां भूभृतामपि ॥ ५६/४५ ॥
अन्ययोश्चार्धचन्द्राभा प्रतिः कार्या द्विजोत्तमाः ।
दण्डं सपादं सार्धं वा प्रतिनिर्गमनं नयेत् ॥ ५६/४६ ॥
एकद्वित्रिचतुर्मात्रैर्यवैर्वा परिकल्पयेत् ।
हीनाधिक्यं तु चाङ्गानां प्रस्तरस्य द्विजोत्तमाः ॥ ५६/४७ ॥
पादाङ्गानां तथा कुर्याद्गलाङ्गे च मसूरके ॥
॥ इति कामिकाख्ये महातन्त्रे प्रस्तरविधिः चतुःपञ्चाशत्तमः पटलः ॥
</poem>
== प्रासादभूषणविधिः ==
<poem>
प्रासादभूषणं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
स्यात् पादप्रस्तर ग्रीत्वावर्गे मूले तु वेदिका ॥ ५७/१ ॥
अध्यर्धाद्यं त्रिदण्डेन भित्तिमात्रविसारिणी ।
षट्सप्ताष्टदशोत्सेधा तत्समं दीर्घिका भवेत् ॥ ५७/२ ॥
प्रत्युच्चाद्विगुणोत्सेधा वेदिका प्रस्तरोत्तरे ।
ग्रीवोत्सेधत्रिभागाच्च ग्रीवाधस्तात्स्थिरा भवेत् ॥ ५७/३ ॥
पञ्चसप्तांशके द्वित्रिभागोच्चं वाग्रबन्धनं ।
शेषोऽधस्तम्भखण्डः स्याद् भित्तिः पादविशालभाक् ॥ ५७/४ ॥
तत्पादः पादनिर्वेशः षट्सप्ताष्टांश एव वा ।
चतुर्धा बन्धनं कृत्वा कम्पमेकेन कारयेत् ॥ ५७/५ ॥
तदूर्ध्वे तु द्विभागेन निद्रा त्वेकेन वाजनम् ।
पादं वा पञ्चभागे तु त्रिद्व्यंशं वाजनं भवेत् ॥ ५७/६ ॥
कम्पमर्धेन निद्रा स्यादध्यर्धेनार्धतः कजम् ।
अर्धेन कम्पमंशेन वाजनं परिकल्पयेत् ॥ ५७/७ ॥
द्वाविंशत्यंशके तुङ्गे कर्णो द्वादशभागिकः ।
नेत्रांशेन तथा निद्रा कपोतं चतुरंशकम् ॥ ५७/८ ॥
तदूर्ध्वे वाजनं चैकं तद्वत्कर्णो द्विभागतः ।
निद्रा कार्या तदूर्ध्वस्था पट्टषट्कसमन्विता ॥ ५७/९ ॥
द्वाविंशत्यंशके तुङ्गे कर्णो द्वादशभिर्भवेत् ।
वाजनं चैकभागेन निद्रैका वाजनं त्रिभिः ॥ ५७/१० ॥
पद्मकम्पगलाब्जानि तद्वत्कर्णो द्विभागतः ।
षोडशांशे तदुत्सेधे नवांशं गलमिष्यते ॥ ५७/११ ॥
वाजनं चैकभागेन तथा निद्रा त्रिभागतः ।
पट्टपद्ममथैकांशं पद्ममेकेन कीर्तितम् ॥ ५७/१२ ॥
वेदिकाजालाकार्थं तु नैवं छेद्याद्द्विजोत्तमाः ।
द्वारार्थं देववेश्मार्थं छेदनीयं यथोचितम् ॥ ५७/१३ ॥
वेदिकानियमो धाम्नि नेष्यते सार्वदेशिके ।
एवं वेदिः समाख्याता द्वारं तु श्रूयतां द्विजाः ॥ ५७/१४ ॥
स्तम्भदेशे नवाष्टांशे सप्तांशे त्वैकभागभाक् ।
द्वारतुङ्गं तदर्धं स्याद्विस्तारो देवसद्मनि ॥ ५७/१५ ॥
नालीगेहं त्रिभागैकमर्धं वा नवपञ्चभाक् ।
पञ्चत्रिंशद्भवेत्तुङ्गमिदं वैशेषिकम् भवेत् ॥ ५७/१६ ॥
विस्तारः प्राग्वदुद्दिष्टस्त्वथवा तत्प्रकीर्त्यते ।
त्रिवितस्ति विशालं स्याद्दैर्ध्यं सप्तवितस्तिकम् ॥ ५७/१७ ॥
विस्तारायामतस्तस्मात्षड्द्वादशकराग्रकैः ।
वृद्ध्या त्रिपञ्चमानादिषड्वितस्त्यन्तकानि हि ॥ ५७/१८ ॥
पञ्चविंशतिमानानि द्वारतारोदयानि हि ।
तदाद्यं शयनीयस्य गृहस्य द्वादशैव हि ॥ ५७/१९ ॥
समावृतखलूरीणां तान्येवोक्तानि पण्डिताः ।
नगरग्रामदुर्गाणां शेषाण्युक्तानि वेश्मनाम् ॥ ५७/२० ॥
विस्तारो द्विगुणोत्सेधः षण्मात्रमधिकं भवेत् ।
नवमात्राधिकं वापि सर्वेषां समुदीरितम् ॥ ५७/२१ ॥
सषण्मात्रं द्वितालं च सत्रिमात्रं द्वितालकम् ।
द्वितालं क्षुद्रमानं तु सार्धतालं तु योजयेत् ॥ ५७/२२ ॥
स्वव्यासाद्द्विगुणोत्सेधात्षण्मात्रं वा त्रिमात्रकम् ।
न्यूनं तु शुभदं वारं विप्रादीनां गृहं मतम् ॥ ५७/२३ ॥
स्तम्भायामेऽष्टभागे तु षडर्धं द्वारदैर्घ्यकम् ।
तदर्धे नवभागे तु सार्धाष्टांशात्समुन्नतिः ॥ ५७/२४ ॥
त्रिव्यासद्विगुणोत्तुङ्गं नेष्टं द्वारं नृणां गृहे ।
पादोत्तुङ्गवशाद्भूमौ भूमावेवं विधीयताम् ॥ ५७/२५ ॥
उक्तोत्सेधत्रिपञ्चैकमङ्गुलेनाधिकं तु वा ।
विपुलेऽपि तथैवं स्यात्षट्सप्ताष्टांशकैस्तु वा ॥ ५७/२६ ॥
द्वारस्योभयपार्श्वे तु मण्डितस्थम्भयुग्मकम् ।
भूषणं तु बहिः कार्यं सर्वेषामपि सद्मनाम् ॥ ५७/२७ ॥
मानं लब्धोदयं यत्स्याद्भक्त्वा मात्रैर्विशेषतः ।
परिहृत्याङ्गुलिच्छेदमायाद्यं परिकल्पयेत् ॥ ५७/२८ ॥
अष्टनन्दाग्निभिश्चैव वसुनन्दचतुष्टयैः ।
गुणत्वरविदिङ्मूर्तिऋक्षसप्तनवांशकैः ॥ ५७/२९ ॥
हृतमायं व्ययं चैव यो विस्तारस्तु वारकः ।
अंशकाश्चावशिष्टास्तु कल्पनीयास्तु देशिकैः ॥ ५७/३० ॥
वास्तुनः पार्श्वयोर्मध्ये स्तम्भं सम्यङ्निधापयेत् ।
कभित्तिविसृतार्थं तु त्यक्त्वा तत्पार्श्वयोर्द्वयोः ॥ ५७/३१ ॥
मुख्यद्वारं तु तद्वामे कम्पद्वारं तदन्यके ।
कम्पद्वारं च मध्ये तु योगार्थं बहुलान्वितम् ॥ ५७/३२ ॥
कम्पं समान्तरं कुर्याद्यथाशोभमथापि वा ।
मूलवास्तुत्रिपार्श्वेषु कम्पद्वारं यथोचितम् ॥ ५७/३३ ॥
कम्पद्वारं समुद्दिश्य भित्त्यन्तः स्तम्भसंयुतम् ।
न त्यजेद्यदि तत्स्वामी मरणाय भविष्यति ॥ ५७/३४ ॥
सपादपादविस्तारः सार्धो वा योगविस्तरः ।
स्तम्भव्याससमो वापि तदर्धं बहुलं मतम् ॥ ५७/३५ ॥
त्रिपादं वोत्तराधस्तात्प्रतीकं तत्स्ववाजनम् ।
द्वारोदयाय शेषं तु त्रिधा वा पञ्चधा कृते ॥ ५७/३६ ॥
एकांशं वा द्व्यंशकं स्यादधोभूषणमूर्ध्वतः ।
शेषेण भूषणं कुर्याच्छुद्धद्वारं तु मध्यमम् ॥ ५७/३७ ॥
अष्टमङ्गलकस्योर्ध्वे लताद्याः परितो मताः ।
त्रिचतुःपञ्चषड्भागभागेन स्तम्भवैपुले ॥ ५७/३८ ॥
कवाटबहुलं प्रोक्तं दण्डार्धं वा घनं भवेत् ।
अयुग्मफलका ग्राह्या मध्यसन्धिविवर्जिता ॥ ५७/३९ ॥
तल्पस्य भूषणोर्ध्वे वा बाह्ये वा परिकीर्तिता ।
मध्यं त्यक्त्वा प्रयोक्तव्या यथाबलसमन्विता ॥ ५७/४० ॥
अस्य तल्पघनस्यार्धघनद्विगुणविस्तरा ।
दण्डास्त्रिपंचसप्तैव नवैकादशसंख्यया ॥ ५७/४१ ॥
अश्वस्कन्धखुराभा वाश्वत्थपत्रसमा अपि ।
युग्मे महति तल्पे च दक्षिणस्थे कवाटके ॥ ५७/४२ ॥
विस्तारे त्वायतौ चैव त्र्यंशपञ्चांशके कृते ।
उपरिष्टात्त्रयांशं तु त्यक्त्वाधोंऽशं द्विपार्श्वयोः ॥ ५७/४३ ॥
तेषां मध्ये तु यद्द्वारं मणिद्वारमिहोच्यते ।
यथाबलं यथाशोभमयःपट्टैर्दृढीकृते ॥ ५७/४४ ॥
श्रीमुख्यैर्वामदण्डैश्च क्षेपणैः सन्धिपत्रकैः ।
अर्धचन्द्रैस्तथा शृङ्गैः पुष्पैर्नानाविधैरपि ॥ ५७/४५ ॥
योगसमबन्धकीलैश्च दैवताद्यैरलङ्कृतम् ।
ऊर्ध्वाधः शिखराश्लिष्टमूलबन्धाग्रबन्धनम् ॥ ५७/४६ ॥
गुल्फे ललाटसन्धौ च पट्टैर्हेमादिनिर्मितैः ।
बध्नीयात्सर्वदेशे वा यथाशोभं यथाबलम् ॥ ५७/४७ ॥
तल्पतीव्रघना तस्य तद्वद्द्विगुणविस्तरा ।
पद्मपत्रविचित्राङ्गा पट्टाङ्गा स्कन्धपट्टिका ॥ ५७/४८ ॥
प्रवेशदक्षिणे तल्पे विधातव्या मनोहरा ।
अर्गलं दक्षिणे भागे वामभागे तु तल्पकम् ॥ ५७/४९ ॥
कवाटं त्वेकवृक्षोत्थं भेदो बाह्यं तु बाह्यकम् ।
अन्तरं च विनिर्दिष्टं ज्ञात्वा कर्म समाचरेत् ॥ ५७/५० ॥
देवद्विजनरेन्द्राणां कवाटयुगलं मतम् ।
अन्ययोरेकमुद्दिष्टं महाद्वारे चतुर्युगम् ॥ ५७/५१ ॥
अनेकशृङ्खलोपेतं बहुकुण्डलभूषितम् ।
कवाटयुग्मं कर्तव्यं कोकिलार्गलसंयुतम् ॥ ५७/५२ ॥
प्रस्तरे भित्तिके वापि प्रविष्टो निर्गतोऽथवा ।
तथा कवाटो वा कार्यो यन्त्रैर्बहुविधैरपि ॥ ५७/५३ ॥
कूजत् कवाटो नेष्टव्यो विशिष्टोऽपि तथा भवेत् ।
द्वारेण सिद्धं द्वारं तु रथ्यारूपादिवोदितम् ॥ ५७/५४ ॥
लिङ्गं प्रासादसिद्धं चेन्नेष्टं द्वारं शिवद्विजाः ।
भित्तिं कृत्वा तु पंचाशदन्तस्त्रिंशद्बहिर्द्वयम् ॥ ५७/५५ ॥
सप्तांशैर्वा चतुस्त्र्यंशैर्नीत्वान्तर्योग उच्यते ।
अथवा योगविस्तारस्त्वङ्गुलैस्त्रिभिरेव वा ॥ ५७/५६ ॥
अङ्गुलाङ्गुलिवृद्धया तु द्वात्रिंशत्करजान्तरम् ।
बहुलं प्राग्वदुद्दिष्टं पादं वा तदुदीरितम् ॥ ५७/५७ ॥
पञ्चाद्येकादशान्तं तु द्वारतुङ्गं विधाय च ।
एकांशहीनं तन्मानं द्वारं शुद्धमिहोदितम् ॥ ५७/५८ ॥
तत्र द्व्याधिकं ग्राह्यं तन्मानं देवतोचितम् ।
एवं द्वारं समाख्यातं तोरणं श्रूयतां द्विजाः ॥ ५७/५९ ॥
त्रिदण्डो वा चतुःपञ्चदण्डस्तोरणविस्तरः ।
तत्पादः पादपादोनद्व्यंशस्त्र्यंशोऽथवा मतः ॥ ५७/६० ॥
पादार्धविस्तरो वापि तोरणस्तम्भविस्तरः ।
उत्तरान्तसमुत्सेधे नवाष्टदशभागिके ॥ ५७/६१ ॥
त्रिभागो मौलिकोत्सेधो वीरकाण्डादुपर्यधः ।
उत्तरं च त्रिदण्डं स्यात्तदर्धं वाजनं भवेत् ॥ ५७/६२ ॥
उत्तरेण समानं तु पट्टिका त्विह कथ्यते ।
तदर्धं वाजनं चोर्ध्वे तत्सर्वं स्यात्सनातनम् ॥ ५७/६३ ॥
तोरणं त्रिविधं पत्रतोरण मकरान्वितम् ।
चित्रतोरणमित्येषां मण्डनं चाधुनोच्यते ॥ ५७/६४ ॥
बालचन्द्रनिभैःपत्रैश्चित्रितं पत्रतोरणम् ।
द्वयोर्मकरयोर्वक्त्रैः सक्तं मध्यमपूरितम् ॥ ५७/६५ ॥
नानाविधलतायुक्तमेतन्मकरतोरणम् ।
तदेव पार्श्वयोर्मध्यं पूरितं च द्वयोरपि ॥ ५७/६६ ॥
नक्रतुण्डप्रग्रहैश्च तयोरास्यविनिर्गतैः ।
विद्याधरैश्च भूतैश्च सिंहेभव्यालहंसकैः ॥ ५७/६७ ॥
वाले स्रग्दण्डकैरन्यैर्मणिबन्धैर्विचित्रकम् ।
चित्रतोरणमेतत्स्याद्देवानां भूभृतां वरम् ॥ ५७/६८ ॥
गुहासु प्रतिमाद्याः स्युः पादाः सर्वाङ्गशोभिताः ।
चतुरश्राष्टवृत्ताभाः कुम्भमण्ड्यादिसंयुताः ॥ ५७/६९ ॥
पोतिकासहिता वा स्युर्वियुक्ता वा प्रकीर्तिताः ।
उत्सन्ध्यादवलम्बं तु कुर्यान्मकरपृष्ठकम् ॥ ५७/७० ॥
एकदण्डं समारभ्य सार्धदण्डविवर्धनात् ।
चतुदण्डान्तमानं तु गुहावेशनमिष्यते ॥ ५७/७१ ॥
गुहासु देवताः स्थाप्याः प्रासादस्य समन्ततः ।
दक्षिणे दक्षिणामूर्ति लिङ्गोत्थं तस्य पश्चिमे ॥ ५७/७२ ॥
ब्रह्माणमुत्तरे देशे स्थापयेद्देशिकोत्तमः ।
अर्धमण्डपदक्षांशे विघ्नेशं नृत्तरूपिणम् ॥ ५७/७३ ॥
दुर्गाञ्चोत्तरभागे स्याद्रुद्रं वा सार्वदेशिके ।
नानाकारयुतं वापि सर्वत्रैकं तु वा न्यसेत् ॥ ५७/७४ ॥
प्रतिमालक्षणोक्तेन मार्गेणैव समाचरेत् ।
तले तले तु देवांश्च गले चाप्येवमाचरेत् ॥ ५७/७५ ॥
क्वचिदस्मिन्विशेषोऽस्ति सुब्रह्मण्यं तु पूर्वतः ।
इन्द्रं वाहनयुक्तं वा रुद्ररूपं तु वा न्यसेत् ॥ ५७/७६ ॥
द्वारस्योभयपार्श्वे तु द्वारपालौ तु विन्यसेत् ।
गुहाद्वयं प्रकर्तव्यं द्वारस्योभयपार्श्वतः ॥ ५७/७७ ॥
उत्तरान्तं गुहोच्चं स्यान्मध्य?मं वा विधीयते ।
विहाय च गुहाबाह्ये द्वारपान् विनिवेशयेत् ॥ ५७/७८ ॥
देवता वाथ संस्थाप्या कल्पिते बाह्यभित्तिके ।
दक्षिणे नन्दिसंज्ञं तु महाकालं तु वामतः ॥ ५७/७९ ॥
व्यत्यासो वा तयोः पूर्वद्वारे वा पश्चिमानने ।
दक्षिणाननयुक्ते च उत्तरास्य एव मेव वा ॥ ५७/८० ॥
चतुर्द्वारसमोपेते द्वारपानष्ट विन्यसेत् ।
यस्यां दिशि भवेद्द्वारं तां प्राचीं परिकल्पयेत् ॥ ५७/८१ ॥
अथवोदयदेशं तु रवेः प्राचीं प्रकल्पयेत् ।
सर्वत्र चोत्तरे नालः सोमस्याभिमुखो भवेत् ॥ ५७/८२ ॥
ऐशान्यां वा प्रणालं स्यात्पूर्वस्यां वा प्रकीर्तितम् ।
एवं प्रणालमाख्यातं पद्ममध्ये विशेषतः ॥ ५७/८३ ॥
गले वा द्वारदेशे वा द्वारतोरणमिष्यते ।
द्वारतुल्यो नतिर्त्र्यासान्तरः स्तम्भद्वयोरपि ॥ ५७/८४ ॥
उत्तरोत्तरयुक्ताष्टमङ्गलैस्तु नव क्रमात् ।
फलकं पञ्चवक्त्रं तु तदूर्ध्वे शूलसंयुतम् ॥ ५७/८५ ॥
चित्रकेतुपताकाश्रीभेरीकुम्भाश्च दीपिका ।
नन्द्यावर्तं च देवानां सर्वेषामष्टमङ्गलम् ॥ ५७/८६ ॥
भेरी वृषो गजश्चैव चामरौ केसरी झषः ।
पताका च प्रदीपश्च देवानामष्टमङ्गलम् ॥ ५७/८७ ॥
दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपश्चैवाष्टमङ्गलम् ॥ ५७/८८ ॥
पताकाः स्वस्तिकाः शङ्खाः पूर्णकुम्भं सपद्मकम् ।
छत्रलक्ष्मीप्रदीपाश्च द्विजानामष्टमङ्गलम् ॥ ५७/८९ ॥
पताका पूर्णकुम्भं च शङ्खं चक्रं च श्र्यङ्कुशौ ।
छत्रं चैव प्रदीपश्च भूभुजामष्टमङ्गलम् ॥ ५७/९० ॥
पूर्णकुम्भं प्रदीपश्च पादुकं छत्रभेरिके ।
श्रीनन्दिकौ महाशंखो वैश्यानामष्टमङ्गलम् ॥ ५७/९१ ॥
दर्पणं पूर्णकुम्भं च हलं शफरयुग्मकम् ।
श्रीदीपछत्रभेर्यश्च शूद्राणामष्टमङ्गलम् ॥ ५७/९२ ॥
देवद्विजनरेन्द्राणां तोरणं मकराख्यकम् ।
तोरणं चित्रसंज्ञं तु वैश्यानां प्रविधीयते ॥ ५७/९३ ॥
पद्माख्यतोरणं शूद्रे सर्वं सर्वत्र वा मतम् ।
जालकं फालकं शैलमैष्ट्यं कुड्यं च इष्यते ॥ ५७/९४ ॥
जालकैर्बहुभिर्युक्तं जालकं कुड्यमिष्यते ।
स्तम्भानामन्तरे चेत्स्तम्भान् संस्थाप्य चान्तरे ॥ ५७/९५ ॥
फलकैः सारदारुत्थैश्च्छादितं फलकामयम् ।
ऊर्ध्वाधः पद्मकम्पैश्च भित्तिबन्धनमेव वा ॥ ५७/९६ ॥
यथार्हविपुलोपेतमुत्तरान्तसमुच्छितम् ।
निष्पादं वा सपादं वा कुड्यं शैलमथैष्टकम् ॥ ५७/९७ ॥
अथवा मृण्मयं वापि कुड्यमिष्टं द्विजोत्तमाः ।
कुड्ये स्तम्भलता कार्या वस्त्वाधारस्य चोपरि ॥ ५७/९८ ॥
वेदिकोर्ध्वाधरे कूटकोष्ठादीनां त्रिधा स्मृता ।
चित्रकुम्भलता पूर्वा स्तम्भकुम्भलता परा ॥ ५७/९९ ॥
कुम्भकुम्भलता चान्या तासां लक्षणमुच्यते ।
कुम्भकुम्भलतामूले दण्डद्विगुणविस्तरः ॥ ५७/१०० ॥
सपादा वाथ सार्धा वा पादोनद्विगुणा तु वा ।
पादोनत्रिगुणा वापि तदर्धेनोच्छ्रयो भवेत् ॥ ५७/१०१ ॥
पादपद्मावसानोर्ध्वस्थानतिर्यग्लताम्बुजम् ।
नन्द्यावर्तावलम्बः स्यात्कुम्भतः पादनिर्गतिः ॥ ५७/१०२ ॥
आस्यभागत्रिभागैका तदा स्यात्पत्रनिर्गतिः ।
पद्मादीनां च कम्पाती? मानं शोभाबलानुगम् ॥ ५७/१०३ ॥
स्तम्भार्धं कलशाद्बाती? लतावर्तनमिष्यते ।
कुम्भोर्ध्वे स्तम्भतारा*? नक्रपत्रावली क्रिया ॥ ५७/१०४ ॥
पादस्य पार्श्वयोःकामी? पादसर्वाङ्गमण्डिता ।
यथा शोभान्तरव्यासा? मुक्ता शङ्खान्तरे स्थिता ॥ ५७/१०५ ॥
स्तम्भशाला विशाला स्यात्स्तम्भविस्तार एव च ।
तस्यास्त्वलङ्कृतिः प्राप्त?वल्लीमण्डनमण्डितम् ॥ ५७/१०६ ॥
कुड्याद्विनिर्गता रूपपद्ममालाग्रभागिनी ।
एषां निष्क्रान्तिवेशी तु यथाशोभं समाचरेत् ॥ ५७/१०७ ॥
अग्रपत्रावधेर्मध्ये मुक्ति?बन्धं सनालकम् ।
पादपादविनिष्क्रान्तपद्मपट्टविचित्रितम् ॥ ५७/१०८ ॥
मध्ये द्विपार्श्वयोर्ग्राती? तत्समास्योदयावधि ।
मुष्टिबन्धोपरि क्षिप्तं व्या?लान्तं कलशावधि ॥ ५७/१०९ ॥
व्यालमृत्पट्टिकापादापादो?च्चा पत्रचित्रिता ।
पद्महृत्पद्मसंयुक्तं तदूर्ध्वे नरबन्धनम् ॥ ५७/११० ॥
तत्सर्वं फलकोत्सन्धि?पर्यन्तं परिपठ्यते ।
वीरकाण्डावधि क्षेणी? तदूर्ध्वे नक्रपट्टिका ॥ ५७/१११ ॥
लसन्मकरकाण्डः स्यान्निर्गच्छद्व्यालपट्टिका ।
ऊर्ध्वे मकरतुण्डस्य पूरितं मौलिबन्धवत् ॥ ५७/११२ ॥
तस्यावतंसकोर्ध्वं तु वा?जनाय समुल्लिखेत् ।
घ्मातशङ्खं तु भूतं वा कारयेदुत्तरादधः ॥ ५७/११३ ॥
यथाशोभनसर्वाङ्गा गता कुम्भलतेदृशी ।
चित्रकुम्भलतैवं स्यात्स्तम्भकुम्भलतान्यथा ॥ ५७/११४ ॥
स्तम्भद्विगुणविस्तारं स्तम्भोर्ध्वे पद्मविष्टरम् ।
पट्टिका पद्मधृग्वेष *?पद्मोपरि पट्टिका ॥ ५७/११५ ॥
त्रिपञ्चसप्तशाखाभिर्युक्तार्याम्बुरुहासना ।
ऊर्ध्वस्थपूर्णकुम्भाङ्का कुम्भकुम्भलता मता ॥ ५७/११६ ॥
अथ पद्मासनोर्ध्वस्थस्तम्भक्षेपणपट्टिका ।
खड्गादिफलकान्ताङ्गा तदूर्ध्वे पूर्णकुम्भवत् ॥ ५७/११७ ॥
कुम्भस्य तिर्यक्पत्रा च पत्रालङ्कारसंयुता ।
स्तम्भकुम्भलतैदृक् स्यादन्यदप्येवमूह्यताम् ॥ ५७/११८ ॥
एवं कुम्भलता प्रोक्ता वृत्तस्फटिकमुच्यते ।
षडष्टदशभिर्भानुमनुवैकारमात्रकैः ॥ ५७/११९ ॥
व्यासतारार्धनिष्क्रान्ता द्वित्र्यंशं वा द्विभागिकम् ।
वृत्ताकारं समं चेतु तोरणाङ्घ्रिवदायतम् ॥ ५७/१२० ॥
सकन्धरं तदूर्ध्वे तु शुकनास्या विभूषितम् ।
वृत्तस्फटिकमत्रोक्तं द्युस्थसद्मविभूषितम् ॥ ५७/१२१ ॥
ऊर्ध्वक्ष्मपादसप्तांशे वेदिका च गलद्वयम् ।
त्रिभागैः शिखरञ्चैकभागः स्थूप्युदयो भवेत् ॥ ५७/१२२ ॥
कूटकोष्ठकनीडानां प्रमाणमिह कीर्तितम् ।
कूटकोष्ठादिसर्वाङ्गं मानसूत्राद्बहिर्नयेत् ॥ ५७/१२३ ॥
अन्तः प्रमाणसूत्रात्तु वेशनं सर्वदोषदम् ।
चतुरंश्रं तु वस्वश्रं षोडशाश्रं तु वर्तुलम् ॥ ५७/१२४ ॥
मस्तकस्थूपिकोपेतं कर्णकूटमिदं मतम् ।
मध्ये नासासमायुक्तम् अर्धकोटीसमन्वितम् ॥ ५७/१२५ ॥
मुखपट्टिकयोपेतं शक्तिद्वयसमन्वितम् ।
अनेकस्थूपिकोपेतं कोष्ठकं मध्यशो भवेत् ॥ ५७/१२६ ॥
हंसतुण्डनिभं पृष्ठे शालाकारं मुखे मुखे ।
पञ्जरं विहितं कूटकोष्ठयोरन्तरं द्विजाः ॥ ५७/१२७ ॥
पार्श्ववक्त्रं तदेवेष्टं हस्तितुण्डं समण्डलम् ।
एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितम् ॥ ५७/१२८ ॥
मध्ये कूटं तयोर्मध्ये क्षुद्रकोष्ठादिशोभितम् ।
छन्दमेतत्समुद्दिष्टं कूटं वा कोष्ठकं तु वा ॥ ५७/१२९ ॥
अन्तरप्रस्तरोपेतं निम्नं वोन्नतमेव वा ।
विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम् ॥ ५७/१३० ॥
जात्यादिभैदकैर्युक्तं विमानं सम्पदां पदम् ।
विपरीते विनाशाय भवेदेव विनिश्चयः ॥ ५७/१३१ ॥
नासिका त्वष्टधा ज्ञेया तस्यादौ सिंहसंज्ञकम् ।
सार्धपञ्जरमन्यत्स्यात्तृतीयं पञ्जरं मतम् ॥ ५७/१३२ ॥
निर्यूहपञ्जरं पश्चात्पञ्चमं लम्बनासिकम् ।
सिंहश्रोत्रं तु षष्ठं स्यात्खण्डनिर्यूहकं ततः ॥ ५७/१३३ ॥
झषपञ्जरमन्यत्स्यात्तासां लक्षणमुच्यते ।
श्लिष्टप्रासादनीव्राङ्गविपुलं समनिर्गमम् ॥ ५७/१३४ ॥
षड्वर्गसहितं शक्तिध्वजयुङ्मुखपट्टिकम् ।
वेदिकाजालकस्तम्भराजितं सिंहपञ्जरम् ॥ ५७/१३५ ॥
त्रिदण्डादिचतुर्दण्डपर्यन्तं विपुलान्वितम् ।
यथार्हायामसंयुक्तं सूचिपादद्वयं द्विजाः ॥ ५७/१३६ ॥
सर्वेषां पञ्जराणां तु मध्यमे संप्रयोजयेत् ।
धाम्नि प्रासादमाश्लिष्टं सतीव्रं चार्धनिर्गतम् ॥ ५७/१३७ ॥
अधिष्ठानादिपञ्चाऽऽगशक्तिध्वजसमन्वितम् ।
मुखपट्टिकयोपेतं वेदिकाजालकान्वितम् ॥ ५७/१३८ ॥
कर्णपादयुतं सार्धपञ्जरं तु विधीयते ।
प्राग्वद्विपुलसंयुक्तं पादनिर्गमनान्वितम् ॥ ५७/१३९ ॥
त्रिभागनिर्गतं वापि वृत्तस्फटिकसन्निभम् ।
पञ्जरं स्यादिदं शेषं प्राग्वदत्र समीरितम् ॥ ५७/१४० ॥
स्वानुरूपशिखास्वाग्रं श्लिष्टनीव्राङ्गकर्णकम् ।
कपोताद्यङ्गसंयुक्तमेतन्निर्यूहपञ्जरम् ॥ ५७/१४१ ॥
संश्लिष्टनीव्रकर्णाङ्घ्रिकृतनागतलं शिरः ।
निर्यूहरहितं युक्तं सर्वाङ्गं लम्बनासिकम् ॥ ५७/१४२ ॥
तदेव सिंहश्रेत्राभशिखं यद्वदनीव्रकम् ।
संश्रितं कर्णपादेन सिंहश्रोत्रं तदुच्यते ॥ ५७/१४३ ॥
विस्तारे पञ्चमांशे तु द्व्यंशनिर्गमनान्वितम् ।
नीव्राधस्तात्कपोताद्यैत्शैर्मण्डितरूपकम् ॥ ५७/१४४ ॥
नाम्ना तु खण्डनिर्यूहं ज्ञात्वा सम्यक् प्रयोजयेत् ।
दण्डदण्डान्तनिष्क्रान्तनीव्राधस्तादुपर्यधः ॥ ५७/१४५ ॥
अङ्गैर्युक्तकपोताद्यैः कन्धरं तोरणान्वितम् ।
झषपञ्जरमेतत्स्यादष्टमं नामतो द्विजाः ॥ ५७/१४६ ॥
अधिष्ठानान्तरान्तस्थतुङ्गे पञ्चविभागके ।
साङ्घ्रिद्व्यंशेन पादः स्यादर्धेन प्रस्तरोदयः ॥ ५७/१४७ ॥
तत्समं गलमित्युक्तं मध्ये कोटिस्तु शेषतः ।
ऊर्ध्वे तु भागमारोप्य शिरस्तेन समाचरेत् ॥ ५७/१४८ ॥
स्तम्भाधस्तादधिष्ठानं कुर्यात्स्तम्भार्धमानतः ।
तदष्टांशाधिकं वाथ शेषं स्यादुपपीठकम् ॥ ५७/१४९ ॥
सर्वेषां पञ्जराणां तु मानमेवमुदाहृतम् ।
पादुकोत्तरयोर्मध्ये नवांशेनोपपीठकम् ॥ ५७/१५० ॥
मसूरकं द्विभागं स्याद्द्विगुणं स्तम्भदैर्ध्यकम् ।
सार्धांशं प्रस्तरोत्सेधं मध्यांशं वेदिकोदयम् ॥ ५७/१५१ ॥
उत्तरादिकपोतान्तं नालोदयमितीरितम् ।
पञ्जराकृतिसंयुक्तं कपोतात्तु विनिर्गतम् ॥ ५७/१५२ ॥
यथाशोभं यथायुक्ति तथा शक्तिध्वजान्वितम् ।
कपोतपञ्जरं ह्येतत्प्रासादे सार्वदेशिके ॥ ५७/१५३ ॥
मध्ये द्वित्रिचतुर्भित्तिविस्तारं समनिर्गमम् ।
शालाकारं सभाकारं प्रसादशिखरावृति ॥ ५७/१५४ ॥
महावारावृतं वापि हारस्थशिखरक्रियम् ।
ब्रह्मद्वारमिति प्रोक्तं विमानानां सनातनम् ॥ ५७/१५५ ॥
एकभित्तिविशालेन तोरणं स्यात्तु भारकाः ।
सपताका बहिर्ग्राह्यास्तद्विस्तारलुपान्विताः ॥ ५७/१५६ ॥
महावारक्रियायुक्ता शालोद्युक्तकपेतयुक् ।
गर्भद्वित्रिकरव्यासा शुकनासा मुखे मुखे ॥ ५७/१५७ ॥
न कर्तव्या विमानेषु नासिकोर्ध्वे न नासिका ।
ऋजुजालक्रमाद्यं स्याद्गवाक्षं कुञ्जराक्षकम् ॥ ५७/१५८ ॥
गोमूत्रं गणिकापत्रनन्द्यावर्तं च सप्तधा ।
ऋजुकम्पयुतं यत्तु ऋजुजालकमुच्यते ॥ ५७/१५९ ॥
कर्णगत्या यदा श्रोत्रं गवाक्षमिति कीर्तितम् ।
तदेव चतुरश्रोत्थं कुञ्जराक्षमिति स्मृतम् ॥ ५७/१६० ॥
विदिग्वक्त्रगता दृष्टिर्गोमूत्रमिति कीर्तितम् ।
मूलमप्यग्रगुलिकमृदुभित्त्यन्तरार्चितम् ॥ ५७/१६१ ॥
नानाछिद्रसमायुक्तं गणिकाजालकं भवेत् ।
पत्रैर्विचित्रित रन्ध्रं पत्रजालकमिष्यते ॥ ५७/१६२ ॥
पञ्चसूत्रगतं रन्ध्रं प्रादक्षिण्यक्रमेण तु ।
नन्द्यावर्तमिति प्रोक्तं वेद्यर्ध्वे जालकं नयेत् ॥ ५७/१६३ ॥
स्वायंभुवादिलिङ्गे तु यथाकामं प्रयोजयेत् ।
त्यक्त्वा भित्याङ्घ्रिमध्यं तु सप्तदण्डान्तविस्तृतम् ॥ ५७/१६४ ॥
एकदण्डं समारभ्य व्यासद्विगुणसंयुतम् ।
अर्धपादेन कम्पोच्चमष्टांशाधिकमेव वा ॥ ५७/१६५ ॥
त्यक्त्वा मध्याङ्घ्रिरन्ध्रं तु युग्मायुग्माङ्घ्रिकम्पयुक् ।
भित्तिमध्याद्बहिस्तस्याः स्तम्भयोगकवाटयुक् ॥ ५७/१६६ ॥
कवाटयुगलं वैकं घटनोद्धाटनक्षमम् ।
पादवर्गे भवेद्ग्रीवावर्गे वातायनस्थितिः ॥ ५७/१६७ ॥
तले तले तु सोपानमारोहार्थं प्रकल्पयेत् ।
मूलं त्रिविधमुद्दिष्टं चतुरं वृत्तमायतम् ॥ ५७/१६८ ॥
चतुर्विधं प्रकर्तव्यं त्रिखण्डं शङ्खमण्डलम् ।
वल्लीमण्डलमित्यूर्ध्वे गोमूत्रेण समन्वितम् ॥ ५७/१६९ ॥
सत्रिखण्डं त्रिखण्डं स्याद्द्विखण्डं चार्धमूलकम् ।
मूलादग्राग्रमाक्षीणं शंखसोपानमिष्यते ॥ ५७/१७० ॥
स्याद्वल्लीमण्डलं वृक्षारोहिवल्लीसमक्रियम् ।
अश्वपादस्य विस्तारं द्विगुणं च चतुर्गुणं ॥ ५७/१७१ ॥
तस्मादङ्गुलवृद्ध्या तु द्वात्रिंशतिसमावधि ।
शयितफलकव्यासषडङ्गुलमुदाहृतम् ॥ ५७/१७२ ॥
द्विगुणं तु समारभ्य चैकैकाङ्गुलवर्धनात् ।
दैर्घ्यं तिथिगुणान्तं स्याद्यथाकामं तु वा भवेत् ॥ ५७/१७३ ॥
शयितव्यासपादार्धं त्रिपादसदृशोदयैः ।
हस्तिसोपानकं लाजसोपानं वृद्धिसंज्ञकम् ॥ ५७/१७४ ॥
समखण्डं समं प्रोक्तं खण्डशः स्यात्समागमः ।
हस्तव्यासं तु दण्डादित्रिदण्डान्तं प्रयोजयेत् ॥ ५७/१७५ ॥
तत्पादं तद्घनं प्रोक्तं यथाबलमथापि वा ।
अयुग्ममेव सोपानं प्रादक्षिण्यक्रमान्नयेत् ॥ ५७/१७६ ॥
सोपानं पार्श्वयोरग्रे तन्मूलस्य प्रयोजयेत् ।
तन्मूलं स्यादधिष्ठानं पादप्रस्तरवर्गयुक् ॥ ५७/१७७ ॥
अश्वपादोपरि स्थित्वा रोहणं दक्षिणाङ्घ्रिणा ।
ईदृग्लक्षणसंयुक्तं सोपानं सम्पदां पदम् ॥ ५७/१७८ ॥
उत्तरे वाथ पूर्वे वा प्रणालं कल्पयेद्बुधः ।
जन्मादिपञ्चवर्गे तु बाह्ये नालं प्रयोजयेत् ॥ ५७/१७९ ॥
पट्टिकान्ततले नालमथ छिद्रं तु वा भवेत् ।
पञ्चाङ्गुलं समारभ्य चैकैकाङ्गुलवर्धनात् ॥ ५७/१८० ॥
षट्त्रिंशदङ्गुलान्तं तु नालायामं प्रकल्पयेत् ।
अङ्गुलत्रयमारभ्य चार्धांगुलविवर्धनात् ॥ ५७/१८१ ॥
चतुर्विंशतिमात्रान्तं नालान्नालं प्रकल्पयेत् ।
समं त्रिपादमध्यं वा घनच्छिद्रं तु मध्यमे ॥ ५७/१८२ ॥
द्वित्रिभागे तु भागं वा वेदभूतांशके द्वयम् ।
षट्सप्तांशत्रयं वाथ वेदांशं वा प्रकल्पयेत् ॥ ५७/१८३ ॥
गाम्भीर्यमपि तद्वत्स्यादग्रं किञ्चिन्नतं भवेत् ।
मूलात्पञ्चत्रिभागं वा द्विभागं वा प्रकल्पयेत् ॥ ५७/१८४ ॥
अथवा बन्धभागे तु भागेनाग्रं प्रकल्पयेत् ।
पतितं सिंहवक्त्राद्यैः केवलं वा प्रकल्पयेत् ॥ ५७/१८५ ॥
भागोच्चं द्वित्रिभागोच्चभागं सर्वाङ्गसंयुतम् ।
पोतिकारहितं वीरकाण्डोपरि समन्वितम् ॥ ५७/१८६ ॥
उत्तरं वाजनं साब्जक्षेपणं निम्नवाजनम् ।
तदूर्ध्वे झषकाण्डं स्यान्नानाचित्रविचित्रितम् ॥ ५७/१८७ ॥
तोरणाकृतिसंयुक्तं मृणालान्वितकन्धरम् ।
सर्वालङ्कारसंयुक्तं स्तम्भतोरणमीरितम् ॥ ५७/१८८ ॥
पादान्तरे वा पादे वा कर्णप्रासादमध्यमे ।
शालामध्यान्तराले तु कुर्यात्सर्वेषु धामसु ॥ ५७/१८९ ॥
मूलपादोच्चमानं तु कृत्वाष्टांशं यथाक्रमम् ।
अधिष्ठानादिषड्वर्गसहितं मूलधामवत् ॥ ५७/१९० ॥
कुर्यात्क्षुद्रविमानं तु स्तम्भानामन्तरालके ।
सकलं निष्कलं मिश्रं यद्यद्रूपं शिवस्य तु ॥ ५७/१९१ ॥
अन्येषां देवतादीनां रूपमार्षानुरूपकम् ।
मद्भक्तानां स्वरूपं यन्मानुषं वा गजादिकम् ॥ ५७/१९२ ॥
पिपीलिकावसानान्तास्तथा तेषां तु वा भवेत् ।
सर्वं धामनि कर्तव्यं धाम्नः षड्वर्गमेव वा ॥ ५७/१९३ ॥
यानं वा शयनं वापि गोपुराकृतिमेव वा ।
पीठाकृतिं वा मेर्वादिपर्वताकृतिमेव वा ॥ ५७/१९४ ॥
नन्द्याद्याकृति वा धाम्नि विधेयं चेष्टदेशके ।
मण्डपे गोपुरे वप्रे परिवारालयादिषु ॥ ५७/१९५ ॥
एवमेवं विधेयं स्यात्तथा भुवि विशिष्यते ।
पञ्जरादिषु पर्यायवचनं त्विह कथ्यते ॥ ५७/१९६ ॥
प्रमाणभवनं कर्ण प्रासादस्याष्टकं तथा ।
सभेति कूटनाम स्याच्छाया वलभिरेव च ॥ ५७/१९७ ॥
ब्रह्मद्वारं ततो मध्ये मण्डपं कोष्ठके मतम् ।
ऋजुवक्त्रं द्विजावासं क्रीडं स्यात्सिंहवक्त्रकम् ॥ ५७/१९८ ॥
पञ्जरस्याभिधानं स्यात् हस्तिपृष्ठमथोच्यते ।
गजपृष्ठं च तत्तुण्डं गजवक्त्रं गजापरम् ॥ ५७/१९९ ॥
हस्तिपृष्ठाभिधानं स्याद्द्वारि कुड्यं च कुट्टिमम् ।
भित्तेराख्येयमाख्यातं गृहपिण्डिरथोच्यते ॥ ५७/२०० ॥
मध्ये वासावृतं वासा पिण्डिरन्धारिकेति च ।
संज्ञैवं गृहपिण्डेः स्यादन्धारं गृहमाद्यकम् ॥ ५७/२०१ ॥
परिमण्डनसालिन्दावलिन्दस्याभिधानकम् ।
मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ॥ ५७/२०२ ॥
तलं कुट्टिममाद्यङ्गमधिष्ठानस्य कीर्तितम् ।
स्थाणुः स्थूणश्च पादश्च जङ्घा च चरणाङ्घ्रिकम् ॥ ५७/२०३ ॥
स्तम्भस्तु तलिपं कम्पः पादानामभिधानकम् ।
प्रस्तरं चैव गोपानं कपोतं मञ्चमेव च ॥ ५७/२०४ ॥
नीव्रमित्येवमाख्यातं प्रस्तरस्य द्विजोत्तमाः ।
कन्धरं गलसंज्ञं च कण्ठं ग्रीवा शिरोधरम् ॥ ५७/२०५ ॥
एवं कण्ठस्य नाम स्याच्छिखरं पुनरुच्यते ।
शिखरं शिरमूर्धा च शिखा मौलिश्च मस्तकम् ॥ ५७/२०६ ॥
शीर्षं कमिति विज्ञेयं शिरोवर्गस्य पण्डिताः ।
स्थूपिका च घटः कीलो चुलुकः स्थूपिरित्यपि ॥ ५७/२०७ ॥
शिखा स्थूपिरिति ख्याता चूलिका च द्विजोत्तमाः ।
विमानं भवनं हर्म्यं सौधं धाम निकेतनम् ॥ ५७/२०८ ॥
प्रासादं सदनं सद्म गेहमावसकं गृहम् ।
आलयं निलयं वासोऽप्यास्पदं वास्तु वास्तुकम् ॥ ५७/२०९ ॥
क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् ।
लयं क्षयमगारं च तथोपवसितं पुनः ॥ ५७/२१० ॥
स्थानमित्येवमुक्तानि पर्यायवचनानि हि ।
धाम्नः सम्यक् समाख्याता एवमन्यत्समूह्यताम् ॥ ५७/२११ ॥
॥ इति कामिकाख्ये महातन्त्रे प्रासादभूषणविधिः पञ्चपञ्चाशत्तमः पटलः ॥
</poem>
== कण्ठलक्षणविधिपटलः ==
<poem>
कण्ठस्य लक्षणं वक्ष्ये समासाच्छृणुत द्विजाः ।
तन्मूले वेदिका कार्या कण्ठोत्सेधात्त्रिभागतः ॥ ५८/१ ॥
गर्भभित्तित्रिभागैकमङ्घ्रेर्वेद्यङ्घ्रिवेशनम् ।
चतुष्पञ्चषडंशे तु समावेशाधिवेदिका ॥ ५८/२ ॥
ग्रिवावेशस्ततस्तावत्सप्ताष्टांशे तथैव च ।
समं वाध्यर्धकं वापि द्विगुणं त्रिगुणं तु वा ॥ ५८/३ ॥
वेदिकोत्सेधमानेन ग्रीवोच्चं परिकल्पयेत् ।
उत्तरं वाजनं चैव मुष्टिबन्धं मृणालिकम् ॥ ५८/४ ॥
दण्डिका वलयं चैव गलभूषणमिष्यते ।
दण्डिकान्तं गलं प्रोक्तं तदूर्ध्वे शिखरं भवेत् ॥ ५८/५ ॥
प्रस्तरोर्ध्वे वृषं स्थाप्यं शिवधाम्नि विशेषतः ।
ऊर्ध्वेन स्थापितास्ते च धाम्नोऽधस्तात्समन्ततः ॥ ५८/६ ॥
अन्तर्मण्डलदेशे तु स्थापनीयाः सपीठिकाः ।
अन्येषामपि देवानां धाम्नि तद्वाहनान् न्यसेत् ॥ ५८/७ ॥
देवीनां च तथा प्रोक्तं गलदेवांस्तु विन्यसेत् ।
एकपादयुतं ब्रह्मविष्णुसंयुक्तमेव वा ॥ ५८/८ ॥
ईदृग्रपसमायुक्तं महेशं वापि विन्यसेत् ।
पूर्वोक्तविधिना वापि पादवर्गेऽथवा नयेत् ॥ ५८/९ ॥
ग्रिवायां तु चतुर्दिक्षु नासि पादांश्च विन्यसेत् ।
तत्रैव कारयेद्वृत्तं स्फुटितं च समन्ततः ॥ ५८/१० ॥
एवं कण्ठः समाख्यातः तदूर्ध्वे शिखरं भवेत् ।
॥ इति कामिकाख्ये महातन्त्रे कण्ठलक्षणविधिः षट्पञ्चाशत्तमः पटलः ॥
</poem>
== शिखरलक्षणविधिः ==
<poem>
अथ वक्ष्ये विशेषेण शिखरस्य तु लक्षणम् ।
शिखरोत्सेधमानांशभागमानवशेन वा ॥ ५९/१ ॥
दण्डिकावधि तारेण पञ्चांशं द्व्यंशकं तु वा ।
सप्तनन्दशिवांशेषु त्रयोदशतिथौ तथा ॥ ५९/२ ॥
सप्तदशांशके बन्धवेदपञ्चषडंशकम् ।
सप्ताष्टांशं तु तारार्धमित्यष्टौ शिखरोदयाः ॥ ५९/३ ॥
पाञ्चालं चापि वैदेहं मागधं चापि कौरवम् ।
कोसलं शौरसेनं च गान्धारं पत्रिकं तथा ॥ ५९/४ ॥
यथाक्रमेण नामानि ज्ञातव्यानि विचक्षणैः ।
जघनादूर्ध्वमेवैते भागाः सर्वे समीरिताः ॥ ५९/५ ॥
सर्वे तु तैतिलानां स्युरर्धाधस्तात्तु मानतः ।
एकादशात्सप्तदशभागादेकांशवर्धनात् ॥ ५९/६ ॥
अवन्तिकाप्रभृत्यूर्ध्वमर्धाविष्टलुपोदयः ।
व्यामिश्रश्च कलिङ्गश्च तथा कौशिकमेव च ॥ ५९/७ ॥
वराटं द्रामिडं चैव बर्वरं कोल्लकं पुनः ।
तथा शौण्डिकमित्येवं व्यामिश्रादिलुपोदयः ॥ ५९/८ ॥
देवानां प्रथिता ह्येते ता तापसाश्रमिणामपि ।
चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेव च ॥ ५९/९ ॥
द्वादशं च द्विरष्टाश्रं पद्मकुड्मलसन्निभम् ।
तथामलकपत्राभं दीर्घवृत्तं च कोमलम् ॥ ५९/१० ॥
अष्टाद्यष्टाष्टधाराणि हर्म्यादीनां शिरांसि च ।
षडाद्याषष्टिकर्णान्ताः सम्मतं शिखराकृतेः ॥ ५९/११ ॥
पञ्चाद्येकादशान्ताश्च चतुराद्या दशान्तकाः ।
चतुर्विधा लुपासंख्या देवे देव्या निकेतने ॥ ५९/१२ ॥
पूर्वोक्तद्व्यन्तरोच्चं तु व्यामिश्रं नाम पुष्करम् ।
ऊर्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्धमानतः ॥ ५९/१३ ॥
अर्धमारभ्य संवर्ध्य पश्चादुच्चार्धभाजि हि ।
आरोहण्यवरोहाणि गुह्यमेतदुदाहृतम् ॥ ५९/१४ ॥
दण्डिकावधि तारार्धं चतुरश्रीकृतं समम् ।
कोष्णीषासितसीमाख्यं सूत्रं युक्तं घनं नयेत् ॥ ५९/१५ ॥
दण्डिकोत्तरबाहुल्यं सूत्रवेदासनान्यधः ।
आसने चतुरंशादि न्यसेद्विन्दुदशान्तकान् ॥ ५९/१६ ॥
कोष्णीषसन्धेस्तद्बिन्दुसीमन्तोच्चं समाहरेत् ।
अवाक्वाथोच्चमानानि कं मूलादासनं न्यसेत् ॥ ५९/१७ ॥
तान्येव दण्डिकादीनां पर्यन्तानि भवन्ति हि ।
कोष्णीषसङ्गात्पर्यन्तबिन्द्वन्तं तल्लुपायनम् ॥ ५९/१८ ॥
तत्तत्पर्यन्तविस्तारं ससूत्रं? विन्यसेत्पुनः ।
विन्यसेदासने वापि तन्मानं स्याल्लुपावधि ॥ ५९/१९ ॥
एतन्मध्यलुपासीम्ना वर्धते वर्णसंख्यया ।
एवमावर्त्य तत्पश्चादारोहे वावरुह्य च ॥ ५९/२० ॥
तत्तत्कोष्टेषु संजातं तत्तन्मल्लयुतं भवेत् ।
समध्यं वा विमध्यं वा लुपान्यासो द्विधा मतः ॥ ५९/२१ ॥
मध्यं च मध्यकर्णं च व्याकर्णमनुकोटिकम् ।
कोतिरित्येवमुच्येत पञ्चवर्णलुपाः क्रमात् ॥ ५९/२२ ॥
तत्तत्सूत्रादधः पृष्ठवंशनिद्राणि सूत्रयेत् ।
शयितस्थितिसूत्रान्तं कीलं तत्कूटमूर्धनि ॥ ५९/२३ ॥
निधायार्धेन्दुवत्सर्वाश्चूलिका विलिखेत्समाः ।
लुपाविलुपमध्यान्तर्गता सा चूलिकाकृतिः ॥ ५९/२४ ॥
एवं स्यादृजुकायं तु चान्यदप्येवमूह्यताम् ।
बालकूटस्य विस्तारस्थितिसूत्रस्तनान्तरः ॥ ५९/२५ ॥
लुपातारस्तु दण्डो वा सपादः सार्ध एव वा ।
यथाभिमतमानो वा विस्तराद्बहुलादपि ॥ ५९/२६ ॥
विस्तारस्त्रिचतुःपञ्चभागैकांशं तु तद्घनम् ।
जानुव्यासस्तूत्तरार्धचूलिका वार्ध एव वा ॥ ५९/२७ ॥
दण्डिकाविपुलं तावत्त्रिपादार्धं तु तद्घनम् ।
वलयं जानु नीव्रं च दण्डिकाविपुलार्धतः ॥ ५९/२८ ॥
मल्लमध्यादथालीनतालमानं च यद्घनम् ।
पर्यन्ताज्जानुकान्तं च चूलिकाभाग एव वा ॥ ५९/२९ ॥
शयनात्तावदेव स्यान्नीव्रालम्बनसूत्रकम् ।
कुठारिका ललाटं च जघनं चैव सम्मतम् ॥ ५९/३० ॥
पादविष्कम्भकण्ठे वा विष्कम्भद्विगुणे तथा ।
कूटव्यासो लुपामध्यं द्विकर्णो द्विगुणो यथा ॥ ५९/३१ ॥
तदर्धं नालिकालम्बमूर्ध्वे मल्लाग्रसङ्गतिः ।
छिद्रं तन्नीव्रमात्रं वा मल्लानां तु प्रवेशनम् ॥ ५९/३२ ॥
जानुकान्तं लुपामध्ये ऊर्ध्वाधः पृष्ठवंशकम् ।
समं स्यान्नीव्रताराभ्यश्चूल्यंशो वा लुपांशकम् ॥ ५९/३३ ॥
लुपा वा सुघनं वापि वलयो वंशविस्तरः ।
तदर्धवेशनान्नीव्रं वलयस्य विधीयते ॥ ५९/३४ ॥
लुपोर्ध्वे च फलन्यासे पादबन्धसमार्धतः ।
आलिप्य च धनुर्वंशं निक्षिप्य च तदूर्ध्वतः ॥ ५९/३५ ॥
छादयेल्लोहलोष्टैश्च बन्धयेदष्टबन्धनैः ।
लुपामध्यादथ छिद्रं वलयस्य विधीयते ॥ ५९/३६ ॥
क्रियायाः पञ्चरेखास्तु कल्प्याः षोडशसंख्यया ।
कुक्षिव्यासाष्टभागैकं मानमात्रमिति स्मृतम् ॥ ५९/३७ ॥
तेन मात्रेण सप्तार्धान्यर्धभागविवर्धनात् ।
आपञ्चदशसंख्याताः परिलेख्यास्तु षोडश ॥ ५९/३८ ॥
लुपान्तोर्ध्वान्तबिन्द्वादिमथो विन्यस्य तद्विधम् ।
तद्बन्द्वादि विलेख्याथ रूपलेखाविचक्षणैः ॥ ५९/३९ ॥
प्रासादानामिमाः प्रोक्ता गृहादीनां तु षोडश ।
लुपागमाद्यद्द्विगुणं यन्मानं तेन बुद्धिमान् ॥ ५९/४० ॥
कोष्णीषासनसीमाभ्यामधः शफरमालिखेत् ।
तस्मादुपरि मल्लस्य लेखयेत्तद्विचक्षणः ॥ ५९/४१ ॥
मल्लायतादर्धभागे त्रिपञ्चाशीकृते क्रमात् ।
तत्तदंशावसानं तु तत्तन्मध्ये समालिखेत् ॥ ५९/४२ ॥
सर्वासां परिलेखानां क्रमोऽयं परिकीर्तितः ।
पाञ्चालादिलुपानां तु प्रत्येकं प्रोच्यते द्विजाः ॥ ५९/४३ ॥
ऋजुकाययुता मल्लाद्या रेखासनकाग्रयोः ।
मध्ये कृता क्रियारेखा परिलेखा तु सा स्मृता ॥ ५९/४४ ॥
लुपाघनप्रमाणेन घटिकां चतुरश्रिकाम् ।
वितस्त्यायामिनीमृज्वीं कृतमध्यमसूत्रकाम् ॥ ५९/४५ ॥
चूलिकान्तर्वर्णलुपातिर्यक्सूत्रस्य मध्यमाम् ।
विन्यस्य घटिकां पश्चाच्छिन्नां शयनसूत्रवत् ॥ ५९/४६ ॥
प्रतिवर्णे तु घटिकां तद्वर्णे तां निधापयेत् ।
क्षिप्तसूत्रस्य शेषांशच्छिन्ने वर्णलुपोदरे ॥ ५९/४७ ॥
दण्डिकोत्तरवलयस्थिरसूत्रसमं लिखेत् ।
उदरायाममध्ये तु लिखिते करकं भवेत् ॥ ५९/४८ ॥
घटिकाललाटमध्यस्थं करकं च समं यथा ।
तथा निधानघटिकां लुपोदरवशायताम् ॥ ५९/४९ ॥
तल्ललाटाकृतिश्च्छेद्या वलयाद्या लुपोदयाः ।
इष्टपार्श्वे क्षिपेच्छायां छिद्रे च वलस्य तु ॥ ५९/५० ॥
तत्तद्घटिकया तत्तन्मध्यसंहितमध्यया ।
तल्ललाटगतच्छाया तासां तासां तु वा भवेत् ॥ ५९/५१ ॥
दण्डिकावलयछिद्रस्तनजानूत्तरादिषु ।
घटिकामध्यमायामछिद्राणि वलस्य तु ॥ ५९/५२ ॥
शिरोमध्येर्ऽधमध्ये च न्यसेन्मुण्डं तुलोपरि ।
सुवर्णा मध्यबन्धाश्च खर्जूरदलसन्निभाः ॥ ५९/५३ ॥
सवलर्क्षा विधातव्या लुपा शिखरकान्तरे ।
शिखरोच्चचतुष्पञ्चभागः स्यात्पद्मतुङ्गकम् ॥ ५९/५४ ॥
वेदीविस्तारतुल्यं स्याच्छिस्वरस्य तु नीव्रकम् ।
शिखरस्य त्रिभागे तु नासिकाविस्तरो भवेत् ॥ ५९/५५ ॥
समत्रिपादो ह्यर्धो वा महानासीविनिर्गमः ।
तद्वत्सत्रिचतुर्भागहीनं स्कन्धाङ्गतुङ्गकम् ॥ ५९/५६ ॥
शक्तिध्वजस्तदर्धो वा त्रिपादो वाथ तुङ्गकम् ।
सार्धदण्डो द्विदण्डो वा क्षुद्रनासाविशालता ॥ ५९/५७ ॥
विस्तारे मुखपट्यश्च दण्डो वाध्यर्ध एव वा ।
सपादो वा त्रिपादो वा तद्घनं स्याद्यथेष्टतः ॥ ५९/५८ ॥
शक्तिध्वजस्य मूले तु विपुलं दण्डमानतः ।
मुखपटयुक्तमानो वा तावत्तत्कन्धरादयः ॥ ५९/५९ ॥
ग्रीवान्तराग्रपत्रं तु स्तम्भव्यासार्धमानकम् ।
ग्रीवोपरि कपोलं तद्द्विगुणं सार्धमेव वा ॥ ५९/६० ॥
त्रिदण्डं वा प्रकर्तव्यं गलस्त्वर्धेन वा भवेत् ।
तावच्छक्तिध्वजान्तं स्यात्सपत्रं वा सशूलकम् ॥ ५९/६१ ॥
नेत्रसंश्लिष्टमल्लं तु चूलिकास्तनमण्डितम् ।
शयितस्थितिपट्टाभ्यामङ्गुलाद्यैर्विभूषितम् ॥ ५९/६२ ॥
श्लिष्टकर्णोर्ध्वपट्टोर्ध्वप्रत्यूर्ध्वे मुष्टिबन्धनम् ।
यथाशोभननिष्क्रान्तं त्रिमुखं स्यात्तदूर्ध्वतः ॥ ५९/६३ ॥
यत्र यत्र विचित्रं तु प्रासादे परिकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे शिखरलक्षणविधिर्नाम सप्तपञ्चाशत्तमः पटलः ॥
</poem>
== स्थूपिकालक्षणविधिः ==
<poem>
स्थूपिकालक्षणं वक्ष्ये प्रासादादेः सनातनम् ।
पद्मोच्चं वार्धभागो वा तदूर्ध्वे स्थूपिकायति ॥ ६०/१ ॥
अल्पीयसी शिरोर्धा वा भागोच्चं वा त्रिभागिके ।
लोहजं दारुजं वापि स्थूपिकाकीलमिष्यते ॥ ६०/२ ॥
ऊर्ध्वभूमेस्तु पादोच्चं विस्तारं पादतः समम् ।
अग्रमङ्गुलविस्तारमानुपूर्वात्कृशं नयेत् ॥ ६०/३ ॥
चतुरश्रं समं कुर्यात् त्रिभागैकमधस्ततः ।
वृत्तमूर्ध्वमधःकुर्याच्छिखिपादान्न्यसेदधः ॥ ६०/४ ॥
विस्तारं त्रिगुणायामं व्यासोच्चं पादतः समम् ।
आयामं तु यथाशोभं तथा कुर्याद्विचक्षणः ॥ ६०/५ ॥
अथवा तच्छिखायामद्विगुणं कीलदैर्घ्यकम् ।
स्तम्भव्यासार्धविस्तारं त्रिचतुर्भाग एव वा ॥ ६०/६ ॥
अग्रमर्धाङ्गुलं व्यासो शिखिपादं यथासुखम् ।
शिखराकृतिवत्कीलं लिङ्गच्छन्दमथापि वा ॥ ६०/७ ॥
द्वाविंशत्यंशके दैर्घ्ये पद्मं सार्धांशमीरितम् ।
सप्तांशविस्तरस्तस्यास्तदूर्ध्वे च तु वाजनम् ॥ ६०/८ ॥
विस्तारं द्वित्रिभागेन वेत्रमर्धोच्चमीरितम् ।
त्रिभागो विस्तरं चोर्ध्वे वाजनं चोर्ध्वमुच्यते ॥ ६०/९ ॥
त्रिभागं विस्तरं चोर्ध्वे पद्ममंशविनिर्मितम् ।
पञ्चांशो विस्तरस्तम्भः कुम्भं पञ्चांशनिर्मितम् ॥ ६०/१० ॥
विस्तारो नवभागः स्यादूर्ध्वे पद्ममथांशतः ।
पञ्चांशो विस्तरस्तस्य वेत्रमर्धविनिर्मितम् ॥ ६०/११ ॥
त्रिभागो विस्तरः तस्य कर्णस्त्वंशविनिर्मितः ।
विस्तारेण द्विभागः स्यादूर्ध्वं वाजनमर्धतः ॥ ६०/१२ ॥
विस्तारेण त्रिभागः स्याद्वेत्रमंशविनिर्मितम् ।
विस्तारं चतुरंश स्यात् कम्पकर्णन्तु कम्पकम् ॥ ६०/१३ ॥
पूर्ववत्पद्ममर्धं स्याद्विस्तारं पञ्चभागिकम् ।
वाजनं चैकभागेन षडंशो विस्तरो भवेत् ॥ ६०/१४ ॥
ऊर्ध्वपद्ममधो यद्वत्तदूर्ध्वे वेत्रमंशतः ।
विस्तारः स्यात्त्रिभागेन तदूर्ध्वे पद्मकुड्मलम् ॥ ६०/१५ ॥
वेदांशे त्र्यंशविस्तारो मूलतः परिकल्पयेत् ।
चतुरश्रद्विरष्टाश्रं साधारं वर्तुलं तु वा ॥ ६०/१६ ॥
अथवान्यप्रकारेण स्थूपिकाभूषणं नयेत् ।
पद्मकं पञ्चकर्णं तु पञ्चकं पद्मतुङ्गकम् ॥ ६०/१७ ॥
पद्मकुम्भं च पूर्वोक्तमानेनैव समाचरेत् ।
वेदांशैः कर्णमित्युक्तस्तदूर्ध्वं पूर्ववन्नयेत् ॥ ६०/१८ ॥
द्वाविंशत्यंशकास्तत्र पूर्ववत्परिकल्पितम् ।
ईदृग्लक्षणसंयुक्तं विमानं सम्पदां पदम् ॥ ६०/१९ ॥
विपरीते विपत्यै स्यात्कर्तुः कारयितुस्तथा ।
एवामदौ तु शास्त्रार्थमालोच्यालेख्य बुद्धिमान् ॥ ६०/२० ॥
स्थापिते सम्यगुद्दिश्य सामान्यं तेन कारयेत् ।
प्रारम्भकाले सञ्चित्य सर्ववस्तु समाचरेत् ॥ ६०/२१ ॥
कृतस्य विपरीतत्वमनर्थाय भवेदिह ।
प्रमाणसहितं चैवमथवानादिकं तु वा ॥ ६०/२२ ॥
उक्तस्थाने विधातव्यं सप्रमाणं यथा भवेत् ।
कामिकाद्यागमोक्तेन प्रमाणेन समाचरेत् ॥ ६०/२३ ॥
तत्रान्येकेन कर्तव्यं नोक्तं चेदन्यशास्त्रतः ।
सिद्धान्ते नोदितं चेत्तु गारुडाद्यं प्रगृह्यताम् ॥ ६०/२४ ॥
तत्रापि नोदितं चेत्तु वास्तुशास्त्रं समाश्रयेत् ।
वक्त्रैक्यमुत्तमं प्रोक्तं तन्त्रैक्यं मध्यमं भवेत् ॥ ६०/२५ ॥
अधमं स्रोतसामैक्यं स्रोतोमिश्रं तु नीचकम् ।
तदभावान्निकृष्टं स्यादेवं बुध्वा समाचरेत् ॥ ६०/२६ ॥
कामिकाख्यं शिवज्ञानं सर्वसामान्यमीरितम् ।
मुख्यत्वात्सर्वशास्त्रेभ्यः सर्वत्र परिकीर्तितम् ॥ ६०/२७ ॥
॥ इति कामिकाख्ये महातन्त्रे स्थूपिकालक्षणविधिर्नाम अष्टपञ्चाशत्तमः पटलः ॥
</poem>
== नालादिस्थापनविधिपटलः ==
<poem>
स्थापनं नालयोगाङ्घ्रेः स्रवदूर्ध्वोपलस्य च ।
स्थूपिकास्थापनं चैव वक्ष्ये तच्छृणुत द्विजाः ॥ ६१/१ ॥
अयने चोत्तरे वापि दक्षिणे प्राप्तदेशके ।
अविलम्बेन कर्तव्यं सुमुहूर्ते शुभे दिने ॥ ६१/२ ॥
प्रासादस्याग्रतः कुर्यादुत्तरे वेशदेशके ।
मण्टपं नवहस्तादिपञ्चहस्तान्तमेव च ॥ ६१/३ ॥
मध्यमे वेदिकां कुर्यान्नवभागैकभागतः ।
कुण्डानि परितः कुर्याद्भूतवेदैकसंख्यया ॥ ६१/४ ॥
वृत्ताभं चतुरश्रं वा सर्वकुण्डं समाचरेत् ।
मङ्गलाङ्कुरकार्यं तु पूर्वमेव समाचरेत् ॥ ६१/५ ॥
अथवा तद्विहीनं तु स्थापनञ्चैतदाचरेत् ।
मण्डपं समलंकृत्य पुण्याहं वाचयेत्ततः ॥ ६१/६ ॥
अस्त्राम्बुनाथवा प्रोक्ष्य नालाद्यं स्थापयेततः ।
पञ्चमृत्पञ्चगव्यैश्च शुंद्धोदकसमन्वितम् ॥ ६१/७ ॥
आलिप्य चन्दनाद्यैस्तु पुष्पमालाभिरावृतम् ।
कृतकौतुकबन्धस्तु वञ्जैरावेष्ट्य देशिकः ॥ ६१/८ ॥
स्थण्डिलं वेदिकोर्ध्वे वा भूतले वा समाचरेत् ।
अष्टद्रोणेन शालीनामर्धेनार्धेन वा भवेत् ॥ ६१/९ ॥
तदर्धं तण्डुलोपेतं तदर्धं तिललाजकम् ।
वस्त्रैर्दर्भैः समाछाद्य हृदयेन तु मन्त्रतः ॥ ६१/१० ॥
पूजयेत्परितः सर्वान् वस्त्रेणाच्छादयेत्पुनः ।
स्थापयेत्परितः कुम्भानष्टौ वस्त्रादिसंयुतान् ॥ ६१/११ ॥
ससूत्रनुदसम्पूर्णानिन्द्राद्यधिप संयुतान् ।
गन्धाद्यैरर्चनां कुर्याद्धृदयेन विवक्षणः ॥ ६१/१२ ॥
मूर्धेष्टकाप्रतिष्टा चेदाकारं पूर्वशैलके ।
इकारं दक्षिणे न्यस्त्वा उकारं पश्चिमे न्यसेत् ॥ ६१/१३ ॥
एकारं सौम्यदेशे तु पृथग् वस्त्रेण वेष्टयेत् ।
नन्दां भद्रां जयां पूर्णां क्रमेणाभ्यर्चयेत्सुधीः ॥ ६१/१४ ॥
ततो होमः प्रकर्तव्यः वह्निकार्योक्तमार्गतः ।
समिदाज्यचरूंश्चैव तिलं वै होमयेत्सुधीः ॥ ६१/१५ ॥
पलाशोदुम्बराश्वत्थवटाः पूर्वादिदेशके ।
प्रधानस्य पलाशः स्यादेकं वा सर्वकुण्डके ॥ ६१/१६ ॥
शतसंख्यं तदर्धं वा शिवमन्त्रेण होमयेत् ।
शिवाद्दशांशतोऽङ्गानि तर्पयित्वा समाहितः ॥ ६१/१७ ॥
आत्मादितत्वं विन्यस्य ब्रह्माद्यधिपतीन्न्यसेत् ।
मूर्तिमूर्तीश्वरान्न्यस्त्वा तत्त्वतत्त्वेश्वरान् न्यसेत् ॥ ६१/१८ ॥
पूर्णाहुतिं ततो हुत्वा वौषडन्तेन मूलतः ।
नालाद्यं स्थापयेत्पश्चादधिवासयुतं तु वा ॥ ६१/१९ ॥
मूले तु नवरत्नं वा पञ्चरत्नमथापि वा ।
तदलाभे हिरण्यं वा न्यस्त्वा संस्थापयेद्धृदा ॥ ६१/२० ॥
मूर्धेष्टकाविधानं चेदाद्योपलविधानतः ।
स्थापयित्वा तदूर्ध्वे तु स्थूपिकीलं तु विन्यसेत् ॥ ६१/२१ ॥
अनेकस्थूपिकाकीलेप्वेवमेव समाचरेत् ।
दारुनिर्मितहर्म्यं चेद्वंशे वा मूलकूटके ॥ ६१/२२ ॥
स्थूपिकीले न्यसेद्धीमानिष्टकास्थापनं विना ।
स्तम्भसंस्थापनं चेतु गर्भस्थानं तु विन्यसेत् ॥ ६१/२३ ॥
नालानां स्थापनं चेत्तु किञ्चिदीशाश्रितं न्यसेत् ।
लुपानां रोहणं चेत्तु मूलधाम्नस्तु दक्षिणे ॥ ६१/२४ ॥
पश्चिमे विन्यसेत्पादान् पश्चात्सर्वं च विन्यसेत् ।
द्वारे तु गर्भगेहस्य स्थापयेद्योग्यमादितः ॥ ६१/२५ ॥
आचार्यमूर्तिपांश्चैव दैवज्ञं स्थपतिं पुनः ।
पूजयेद्वस्त्रहेमाद्यैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥ ६१/२६ ॥
एवं तु विहितं धाम सर्वसम्पत्सुखावहम् ।
॥ इति कामिकाख्ये महातन्त्रे नालादिस्थापनविधिर्नाम एकोनषष्टितमः पटलः ॥
</poem>
== एकभूम्यादिविधिः ==
<poem>
लक्षणं चैकभूम्यादेर्विशेषेण निगद्यते ।
हर्म्यतारत्रिभागैकभूतांशेषु गुणांशकम् ॥ ६२/१ ॥
धातुभागे युगांशं तु बाणांशं नवभागके ।
रुद्रांशे रसभागं तु विश्वांशे सप्तभागकम् ॥ ६२/२ ॥
तिथ्यंशे वसुभागं तु सप्तादशनवांशकम् ।
विस्तारार्धं तु तत्सर्वं नालीगृहमिति स्मृतम् ॥ ६२/३ ॥
एकद्वित्रिचतुष्पञ्चषडंशस्त्वेकभूमिकम् ।
त्रिचतुष्पञ्चमात्रं तु पादविष्कम्भ इष्यते ॥ ६२/४ ॥
एकभागमधिष्ठानं पाददैर्घ्यं द्विभागतः ।
प्रस्तरश्चैकभागः स्यात्कण्ठस्त्वेकेन कीर्तितः ॥ ६२/५ ॥
शिखरस्य द्विभागेन स्थूपिरेकेन कीर्तितः ।
वृत्तकण्ठशिरोयुक्तं विजयं नामतो भवेत् ॥ ६२/६ ॥
कर्णकूटयुतं तत्तु श्रीभोगमिति कीर्तितम् ।
मध्ये भद्रयुतं चेत् तु श्रीविशालं प्रकीर्तितम् ॥ ६२/७ ॥
वस्वश्रशिखरग्रीवं स्वस्तिबन्धनमिष्यते ।
वेदाश्रशिखरग्रीवं श्रीकरं स्याद्द्विजोत्तमाः ॥ ६२/८ ॥
द्व्यश्रवृत्तशिरोग्रीवं हस्तिपृष्ठमिति स्मृतम् ।
षडश्रशिखरग्रीवं स्कन्दकान्तमिति स्मृतम् ।
मध्ये भद्रयुतं कर्णकूटयुक्तं तु मस्तके ॥ ६२/९ ॥
कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् ।
केसरं नामतः प्रोक्तं युगाश्रं वा गलं शिरः ॥ ६२/१० ॥
पञ्चसप्तर्तुभागे तु त्रिद्व्यंशे मध्यभद्रकम् ।
एकभौममिदं प्रोक्तं द्वितलं तु विधीयते ॥ ६२/११ ॥
तारे सप्त त्रिभागे तु सौष्ठिकं विस्तरं स्मृतम् ।
द्विभागं कोष्ठकायामं शेषं हारं सपञ्जरम् ॥ ६२/१२ ॥
विमानोच्चं तु विभजेदष्टाविंशतिसंख्यया ।
अधिष्ठानं त्रिभागः स्यात्पादः षड्भाग ईरितः ॥ ६२/१३ ॥
त्रिभागः प्रस्तरः पञ्चभागः स्यादूर्ध्वभागतः ।
द्विभागः प्रस्तरः कर्णस्त्रिभागः परिकीर्तितः ॥ ६२/१४ ॥
सार्धवेदैः शिरस्थूपिरध्यर्धेन विनिर्मितः ।
चतुरश्रमधिष्ठानं तद्वत्कन्धरमस्तकम् ॥ ६२/१५ ॥
चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम् ।
क्षुद्रनीडमुपर्यष्टौ नाम्नैतत्स्वस्तिकं भवेत् ॥ ६२/१६ ॥
तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि ।
अन्तरप्रस्तरोपेतमेतद्विपुलसुन्दरम् ॥ ६२/१७ ॥
अंशमंशत्रयं सत्रिपादांशं साङ्घ्रिभागिकम् ।
भागत्रयवितस्त्यंघ्रिप्रस्तरं ग्रीवमस्तकम् ॥ ६२/१८ ॥
पादोदये दशांशे तु द्वितलादिविमानके ।
अन्तरप्रस्तरोपेतं कूटशालान्तमीरितम् ॥ ६२/१९ ॥
तदेव कोष्ठकं निम्नमुन्नतं सौष्ठिकं यदि ।
अन्तरप्रस्तरोपेतमेतत्कैलासमुच्यते ॥ ६२/२० ॥
तदेव वर्तुलं वेदिकन्धरं शिखरं घटम् ।
वसुकूटं चतुः शालोपेतं पञ्जरभूषितम् ॥ ६२/२१ ॥
कोष्ठकं निर्गमं मध्ये द्वित्रिदण्डेन सौष्ठिकम् ।
समग्रीवशिरोयुक्तं कूटकोष्ठकसंयुतम् ॥ ६२/२२ ॥
नानाधिष्ठानसंयुक्तं नाम्नैतत्पर्वतो भवेत् ।
तदेव शिखरं दिक्षु चार्धकोष्ठकसंयुतम् ॥ ६२/२३ ॥
चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम् ।
नानाधिष्ठानसंयुक्तं नाम्नैतत्स्वस्तिकं भवेत् ॥ ६२/२४ ॥
तदेव सौष्ठिकं कोष्ठमन्तरप्रस्तरान्वितम् ।
हारपञ्जरसंयुक्तं नाम्ना कल्याणमिष्यते ॥ ६२/२५ ॥
तदेव शिखरं चार्धकोष्ठकं रहितं यदि ।
चतुर्णासिसमायुक्तमेतत्पाञ्चालमिष्यते ॥ ६२/२६ ॥
तदेवाष्टाश्रकं वेदिकन्धरं शिखरं घटम् ।
शिखराष्टमहानासियुक्तं स्याद्विष्णुकान्तकम् ॥ ६२/२७ ॥
तदेव कूटशालानामन्तरप्रस्तरं विना ।
तच्चतुर्भागमानेन चायतं चतुरश्रकम् ॥ ६२/२८ ॥
आयतं च तथा वेदिकन्धरं शिखरं भवेत् ।
स्थूपित्रयसमायुक्तं तन्नाम्नैतत्सुमङ्गलं ॥ ६२/२९ ॥
तदेवायतवृत्तं चेद्वेदिकाकन्धरं शिरः ।
सर्वावयवसंयुक्तमेतद्गान्धारमिष्यते ॥ ६२/३० ॥
तारादर्धाधिकायामसंयुक्तं चतुरश्रकम् ।
द्व्यश्रवृत्तशिरोयुक्तं नेत्रशालामुखान्वितम् ॥ ६२/३१ ॥
हस्तिपृष्ठमिदं द्व्यश्रं वृत्तं वापि मसूरकम् ।
चतुरश्रमधिष्ठानं वृत्तं स्याद्गर्भगेहकम् ॥ ६२/३२ ॥
सर्वालङ्कारसंयुक्तं नाम्नैतत्स्यान्मनोहरम् ।
तदेव जन्माद्याकुम्भाद्वृत्तं चेत्तु बहिर्बहिः ॥ ६२/३३ ॥
शेषं पूर्ववदुद्दिष्टं प्रोक्तमीश्वरकान्तकम् ।
द्विभूमिरेवमाख्याता त्रिभूमिरधुनोच्यते ॥ ६२/३४ ॥
प्रासादस्य तु विस्तारे सप्ताष्टांशैर्विभाजिते ।
भागेन कूटविस्तारं कोष्ठाद्द्वित्रिगुणायतम् ॥ ६२/३५ ॥
लम्बपञ्जरमर्धांशं हारभागं तु तत्समम् ।
ऊर्ध्वक्ष्मतारे षड्भागे भागः कूटस्य विस्तरः ॥ ६२/३६ ॥
कोष्ठकं द्विगुणायामं हारं भागेन कल्पयेत् ।
ऊर्ध्वभूमेर्द्विभागेन मध्यभद्रं विधीयते ॥ ६२/३७ ॥
दण्डः सार्धद्विदण्डो वा हर्म्यनिर्गम इष्यते ।
विमानोच्चं तु विभजेच्चतुर्विशतिसंख्यया ॥ ६२/३८ ॥
धरातलं द्विभागेन चतुर्भिःपाद ईरितः ।
द्विभागः प्रस्तरः पादः सत्रिपादगुणांशकैः ॥ ६२/३९ ॥
प्रस्तरः सार्धभागः स्याद्भागः सार्धत्रिभागकः ।
सपादभागो मञ्चः स्यात्सार्धकं कण्ठमीरितम् ॥ ६२/४० ॥
शिखरं सार्धबन्धं स्यादेकेन स्थूपिका भवेत् ।
कूटं कोष्ठं च नीडं च वसुसंख्यासमीरितम् ॥ ६२/४१ ॥
जन्मादिस्थूपिकान्तं तु वेदाश्रकमिति स्मृतम् ।
द्वितीये च तृतीये च चक्रनीडास्तु षोडश ॥ ६२/४२ ॥
यथाशोभं तथा नास्यः सर्वत्र परिकीर्तिताः ।
शिखरे तु महानास्यश्चतस्रः परिकीर्तिताः ॥ ६२/४३ ॥
कोष्ठकं चोन्नतं कूटं निम्नमन्तरपञ्चकम् ।
विमानाकृतिकं नाम्ना सर्वालङ्कारसंयुतम् ॥ ६२/४४ ॥
चतुर्भागाधिकायामं विस्तारं परिकल्पयेत् ।
विस्तारे वसुभागाः स्युरायामे द्वादशांशकम् ॥ ६२/४५ ॥
तद्विस्तारोर्ध्वमानेन वर्तुलं वर्तनीयकम् ।
मसूरकाच्छिरोऽन्तं तु द्व्यंशवृत्तं तु कारयेत् ॥ ६२/४६ ॥
अथवा शिखरं खण्डं द्व्यश्रवृत्तं नयेद्द्विजाः ।
तदधश्चतुरश्रं स्यान्मूलतो द्व्यश्रवृत्तके ॥ ६२/४७ ॥
अग्रात् पार्श्वद्वयोः पृष्ठे कुर्याद्वृत्तद्वयांशकम् ।
कूटकोष्ठकनीडानां विस्तारो भाग इष्यते ॥ ६२/४८ ॥
कोष्ठकं द्विगुणायामं हारा भागेन कीर्तिताः ।
शिखरे तु महानास्यश्चतस्रः परिकीर्तिताः ॥ ६२/४९ ॥
कोष्ठतश्चोन्नतं कूटं निम्नमन्तरमञ्चकम् ।
स्वस्तिकं तत्त्रिभौमं स्याच्छिवप्रीतिकरं भवेत् ॥ ६२/५० ॥
तारे सप्तनवांशे तु भागः सौष्ठिकविस्तरः ।
शालायामस्तथा द्व्यंशो हारं भागेन कल्पयेत् ॥ ६२/५१ ॥
अष्टकूटं तु तत्कोष्ठं द्वादशैव विधीयते ।
अष्टनीडानि नाड्यः स्युर्नीडं शोभावशेन तु ॥ ६२/५२ ॥
अष्टाश्रमस्तकं वेदिकन्धरं चाष्टनासिकम् ।
विमलाकृतिकं नाम्ना सर्वालङ्कारसंयुतम् ॥ ६२/५३ ॥
चतुर्भागाधिकायामं विस्तारात्परिकल्पयेत् ।
विस्तारे वसुभागाः स्युरायामे द्वादशांशकः ॥ ६२/५४ ॥
तद्विस्तारार्धमानेन वर्तुलं वर्तनीयकम् ।
मसूरकाच्छिरोऽन्तं तु द्व्यश्रं वृत्तं तु कारयेत् ॥ ६२/५५ ॥
अथवा शिखरं कण्ठं द्व्यश्रवृत्तं नयेद्द्विजाः ।
तदधश्चतुरश्रं स्यान्मूलतो द्व्यश्रवृत्तके ॥ ६२/५६ ॥
अग्रात्पार्श्वद्वयोः पृष्ठे कुर्यादर्कद्वयांशकम् ।
कूटकोष्ठकनीडांशविस्तारो भाग इष्यते ॥ ६२/५७ ॥
कोष्ठकं द्विगुणायामं हारं भागेन कीर्तितम् ।
षड्भागाः स्युस्तदूर्ध्वे तु पृष्ठतस्तस्य पार्श्वयोः ॥ ६२/५८ ॥
कृत्वार्कद्विगुणांशं तु कूटकोष्ठादि पूर्ववत् ।
ऊर्ध्वभौमं चतुर्भागं यथायुक्तिवशान्नयेत् ॥ ६२/५९ ॥
मस्तके पुरतो नेत्रं शालावक्त्रसमन्वितम् ।
गर्भकूटोपसंयुक्तं क्षुद्रनासीविभूषितम् ॥ ६२/६० ॥
कूटकोष्ठयुतं वाथ तद्विहीनं तु वा नयेत् ।
शिखरे दभ्रनास्यः स्युस्तिस्रः पादसमन्विताः ॥ ६२/६१ ॥
अष्टकूटं तु तत्कोष्ठं नीडं द्वादश एव हि ।
हरायां क्षुद्रनीडं स्यादर्कद्विगुणसंख्यया ॥ ६२/६२ ॥
एकादिरविभूम्यन्तं वर्तनायुक्तमेव वा ।
हस्तिपृष्ठमिदं नाम्ना सर्वालङ्कारसंयुतम् ।
विस्तारास्त्वष्टभागाः स्युरायामो दशभागिकः ॥ ६२/६३ ॥
कूटं कोष्ठं च नीडं च भागेन परिकल्पयेत् ।
हारभागं तु भागेन षडंशञ्चोर्ध्वभूमिके ॥ ६२/६४ ॥
तदूर्ध्वे तु चतुर्भाग आयामोऽष्टांश आधिकः ।
सायतं द्व्यश्रवृत्तं स्याद्वेदिकागलमस्तकम् ॥ ६२/६५ ॥
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत् ।
एतद्धस्त्यादिकं सौधं गजपृष्ठं पुरातनम् ॥ ६२/६६ ॥
नवधा भाजिते तारे गर्भगेहं त्रिभागतः ।
भागतो गृहपिण्डी स्यात्कन्धरं वांशतो भवेत् ॥ ६२/६७ ॥
अंशेनान्धारिका ज्ञेया सौष्ठिकं चांशतो भवेत् ।
त्रिभागः कोष्ठकायामः सार्धतो नीडविस्तरः ॥ ६२/६८ ॥
कोष्ठमध्ये त्रिदण्डेन नाडीनिर्गमनान्वितः ।
ऊर्ध्वक्ष्मेऽपि षडंशांशं कूटं तद्द्विगुणायतम् ॥ ६२/६९ ॥
कोष्ठभागगतो हारः पञ्जरैरञ्जितो भवेत् ।
ऊर्ध्वभूमौ त्रिभागेन मध्ये दण्डेन निर्गतः ॥ ६२/७० ॥
आदौ तलं चतुष्कर्णे कूटं वेदाश्रमस्तके ।
अष्टाश्र ऊर्ध्वभूमौ तु सौष्ठिकानां तु मस्तकम् ॥ ६२/७१ ॥
चतुरश्रमधिष्ठानं वस्वश्रगलमस्तकम् ।
अष्टकूटं तथा कोष्ठं नीडकं च तथा भवेत् ॥ ६२/७२ ॥
क्षुद्रनीडं तथाप्यष्टौ चाष्टौस्युर्गलनासिकाः ।
भद्रकोष्ठमिदं नाम्ना सर्वालङ्कारसंयुतम् ॥ ६२/७३ ॥
तदेव वर्तुलं कर्णकूटमूर्ध्वोर्ध्वभूमिके ।
मस्तकं तस्य वृत्तं स्याच्चतुर्णासिसमन्वितम् ॥ ६२/७४ ॥
वृत्तकूटमिदं नाम्ना सर्वावयवसंयुतम् ।
तदेवाष्टांशदैर्घ्येण सायतं चतुरश्रकम् ॥ ६२/७५ ॥
कर्णकूटं च वेदाश्रं सायतं वृत्तमस्तकम् ।
कोष्ठभद्रविहीनं वा शेषं पूर्ववदाचरेत् ॥ ६२/७६ ॥
स्थूपित्रयसमायुक्तं नाम्नैतत्स्यात्सुमङ्गलम् ।
पञ्चादशकरं व्यासं दशभागेन योजयेम् ॥ ६२/७७ ॥
गर्भगेहं चतुर्भागं गान्धार्यंशेन कीर्तिता ।
अलीन्द्रमंशमंशेन खण्डहर्म्यं बहिष्क्रमात् ॥ ६२/७८ ॥
कर्णमध्येऽन्तरं कुर्यात्कूटकोष्ठकपञ्जरान् ।
भागेन कोष्ठकायामं द्विगुणं सम्मतं बुधाः ॥ ६२/७९ ॥
ऊर्ध्वभूमौ रसांशे तु भागः सौष्ठिकविस्तरः ।
कोष्ठकं द्विगुणायामं हारं भागेन योजयेत् ॥ ६२/८० ॥
तदूर्ध्वे च चतुर्भागे भागो मध्येन निर्गमः ।
दण्डेनाध्यर्धदण्डेन द्विदण्डेनाथवा भवेत् ॥ ६२/८१ ॥
चतुरश्रमधिष्ठानं तद्वत्कन्धरमस्तकम् ।
वसुकूटं तथा नीडं कोष्ठकं च तथैव हि ॥ ६२/८२ ॥
ऊर्ध्वेऽष्टौ लम्बनीडाः स्युर्जलस्थलसमन्वितम् ।
नासिकाद्यङ्गसंयुक्तं सर्वावयवसंयुतम् ॥ ६२/८३ ॥
उन्नतौ कूटकोष्ठौ चेदन्तरप्रस्तरान्वितौ ।
एवं गान्धारमत्रोक्तं अष्टाश्रं वा गलं शिरः ॥ ६२/८४ ॥
तदेव वर्तुलं वेदिकन्धरं शिखरं यदि ।
शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगमिष्यते ॥ ६२/८५ ॥
वृत्तं वृत्तायतं द्व्यश्रं वृत्तमष्टषडश्रकम् ।
वृत्तं वृत्तायतं द्व्यश्रं वृत्तमष्टषडश्रकम् ॥ ६२/८६ ॥
कूटकोष्ठकनीडैश्च मण्डितं हर्म्यखण्डके ।
ऋजुभागविशालात्तु द्व्यश्रवृत्तेऽथ वर्तुले ॥ ६२/८७ ॥
भागः कश्चिद्भवेन्न्यूनो भागः सर्वसमस्तु वा ।
अष्टांशेन दशांशेन चोर्ध्वांशस्योदयांशकान् ॥ ६२/८८ ॥
यथाशोभंबलव्याप्तिस्तथा युञ्जीत बुद्धिमान् ।
वक्ष्येऽथ मुनयः श्रेष्ठाश्चतुर्भौमनिकेतनम् ॥ ६२/८९ ॥
त्रिचतुष्पञ्चहस्तादिर्द्विद्व्यङ्गुलविवर्धनात् ।
एकविंशतिहस्तान्तो व्यासतुङ्गस्तु पूर्ववत् ॥ ६२/९० ॥
त्रयोदशकरव्यासमष्टधा विभजेत्ततः ।
एकांशः कूटविस्तारः शालायामो द्विभागतः ॥ ६२/९१ ॥
भागः पञ्जरविस्तारो भवेदूर्ध्वमथोऽष्टधा ।
प्राग्वदेव सभाशालापञ्जराणां तु कल्पनम् ॥ ६२/९२ ॥
ऊर्ध्वे षडंशभागेन कूटविस्तार ईरितः ।
द्विभागः कोष्ठकायामो नीडं भागोर्ध्वमिष्यते ॥ ६२/९३ ॥
ऊर्ध्वे गुणांशभागेन भद्रो दण्डेन मध्यमे ।
उच्चं यद्विभजेद्धाम्नो नवत्रिंशतिसंख्यया ॥ ६२/९४ ॥
सार्धंद्व्यंशमधिष्ठानं पञ्चांशः पाददैर्घ्यतः ।
तस्यार्धप्रस्तरोत्सेधः सत्रिपादयुगांशकैः ॥ ६२/९५ ॥
ऊर्ध्वभूम्यङ्घ्रिकोत्सेधः सपादद्व्यंशमंशकम् ।
जङ्घा च द्विगुणं चोर्ध्वे द्व्यंशेन प्रस्तरोदयः ॥ ६२/९६ ॥
भागाधिकचतुर्भाग उपरिष्टात्स्वतुङ्गता ।
स्यात् सत्रिपादभागेन प्रस्तरो वेदिकांशतः ॥ ६२/९७ ॥
गलोच्चमश्विनीभागं सार्धवेदैः शिरो भवेत् ।
शेषभागैः शिखामानं हर्म्यान्तं चतुरश्रकम् ॥ ६२/९८ ॥
रविसंख्या भवेत्सौष्ठिकोष्ठं तद्वत्सपञ्जरम् ।
शिखरे वेदनासाः स्युरल्पनास्यस्तथैव च ॥ ६२/९९ ॥
सर्वालङ्कारसंयुक्तमेतद्धर्म्यं सुभद्रकम् ।
तदेव कूटकोष्ठादि मध्येमध्ये द्विजोत्तमाः ॥ ६२/१०० ॥
मस्तकं मण्डलाभं स्याद्वृत्ताभं स्यात्तथा शिरः ।
विस्तारार्धप्रमाणेन गर्भगेहसमन्वितम् ॥ ६२/१०१ ॥
शेषं द्व्यंशावृता पिण्डी तद्वदन्धारहारकौ ।
नानामसूरकाद्यङ्गं नाम्नेदं श्रीविशालकम् ॥ ६२/१०२ ॥
पञ्चादशकरव्यासे नवधा भाजिते सति ।
गर्भगेहं त्रिभिर्भागैर्गृहपिण्डस्तदंशतः ॥ ६२/१०३ ॥
अलिन्दं परितोंऽशेन खण्डहर्म्यमथांशतः ।
कूटकोष्ठकनीडानां भागेनैकेन विस्तरः ॥ ६२/१०४ ॥
विस्तारत्रिगुणायामः स्वव्याससमनिर्गमः ।
शालामध्ये महानासी भागमध्यविनिर्गमः ॥ ६२/१०५ ॥
भद्रकोष्ठकनीडानामन्तरार्धेन भारकम् ।
तदूर्ध्वे वसुभागे तु भागमट्टस्य विस्तरम् ॥ ६२/१०६ ॥
कोष्ठकस्य तु विस्तारस्तथैव परिकीर्तितः ।
आयामस्तु द्विभागेन तन्मध्ये नीडमंशतः ॥ ६२/१०७ ॥
तदूर्ध्वे रसभागे तु कूटमंशेन कोष्ठकम् ।
विस्तारद्विगुणायामस्तन्मध्येऽर्धेन पञ्जरम् ॥ ६२/१०८ ॥
ऊर्ध्वभूमिश्चतुर्भागो मध्ये दण्डेन निर्गतः ।
अष्टाश्रं कर्णकूटं स्यात्कोष्ठकं कर्करीकृतम् ॥ ६२/१०९ ॥
महाशिखरमष्टाश्रमष्टनास्या विभूषितम् ।
कूटकोष्ठकनीडानां संख्या पूर्ववदीरिता ॥ ६२/११० ॥
अस्याप्युत्सेधभागं तु पूर्ववत्परिकल्पयेत् ।
भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम् ॥ ६२/१११ ॥
सप्तादशकरव्यासं दशभागैर्विभाजयेत् ।
नालिभेदं चतुर्भागं भागेनान्धारिकां नयेत् ॥ ६२/११२ ॥
परितोऽलिन्द्रमंशेन परितः खण्डहर्म्यकम् ।
कूटकोष्ठकनीडञ्च भागेन परिकल्पयेत् ॥ ६२/११३ ॥
शालायामो द्विभागः स्याद्धारः शेषेण कीर्तिता ।
जलं विहाय चोर्ध्वे च वसुभागैर्विभाजिते ॥ ६२/११४ ॥
भागेन सौष्ठि भागाभ्यां शाला भागेन पञ्जरम् ।
तदूर्ध्वे रसभागे तु भागः सौष्ठिकविस्तरः ॥ ६२/११५ ॥
द्विगुणः कोष्ठकायामो हारायां क्षुद्रपञ्जरम् ।
तदूर्ध्वं तु त्रिभागे तु मध्याद्दण्डेन निर्गमः ॥ ६२/११६ ॥
चतुरश्रमधिष्ठानमष्टाश्रं मस्तकं गलम् ।
रविकोष्ठं तथा शालापञ्जराणामथाष्टकम् ॥ ६२/११७ ॥
लम्बपञ्जरमष्टौ हि क्षुद्रनीडं द्विरष्टकम् ।
गलनासाष्टसंयुक्तं कोष्ठकं किञ्चिदुन्नतम् ॥ ६२/११८ ॥
नानामसूरकस्तम्भवेदिजालादिमण्डितम् ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ६२/११९ ॥
स्वस्तिकाकारसंयुक्तं नासिकाभिश्च संयुतम् ।
पूर्ववत्तुङ्गभागं स्यादेतन्नाम्ना जलावहम् ॥ ६२/१२० ॥
नवपङ्क्तिकरव्यासे दशभागविभाजिते ।
गर्भवासश्चतुर्भागो भागेन गृहपिण्डिका ॥ ६२/१२१ ॥
कन्धरं परितोंऽशेन परितः खण्डहर्म्यकम् ।
कूटकोष्ठकनीडानां विस्तारो भाग एव हि ॥ ६२/१२२ ॥
द्व्यंशेन कोष्ठकायामो हारा भागेन सम्मतम् ।
कूटकोष्ठं च नीडं चावान्तरप्रस्तरान्वितम् ॥ ६२/१२३ ॥
जलस्थलं विहायोर्ध्वे चाष्टांशं सौष्ठिकं भवेत् ।
तथा द्विगुणशाला स्यात्तयोर्मध्ये तु पञ्जरम् ॥ ६२/१२४ ॥
तदूर्ध्वे रसभागे तु कूंटकोष्ठादि पूर्ववत् ।
विजयस्य तथा प्रोक्तं शेषमूर्ध्वे तु योजयेत् ॥ ६२/१२५ ॥
कूटकोष्ठादि सर्वाङ्गं पूर्ववत्संख्यया विदुः ।
महानीडं द्विरष्ट स्युर्नाम्नैतद्भद्रकूटकम् ॥ ६२/१२६ ॥
तदेवान्यदलङ्कारं कोष्ठमध्ये तु भद्रकम् ।
प्रतिग्रीवशिरोयुक्तमेतन्नाम्ना मनोहरम् ॥ ६२/१२७ ॥ ६२/
तदेवान्यदलङ्कारं वेदाश्रं कन्धरं शिरः ।
नाम्नावन्तिकमित्युक्तं शम्भोर्मन्दिरमुत्तमम् ॥ ६२/१२८ ॥
त्रिसप्तहस्तविस्तारे दशभागविभाजिते ।
वेदांशो गर्भगेहं स्यादंशेन गृहपिण्डिका ॥ ६२/१२९ ॥
अन्धारांशेन भागेन मङ्गलाङ्गं प्रकल्पयेत् ।
कूटकोष्ठकनीडम् च पूर्ववत्परिकल्पयेत् ॥ ६२/१३० ॥
मण्डितं वेदिकाशालतोरणप्रमुखैरपि ।
जलस्थलं विहायोर्ध्वे वसुभागैर्विभाजिते ॥ ६२/१३१ ॥
शालासौष्ठिकनीडाद्यं पूर्ववत्परिकल्पयेत् ।
ऊर्ध्वभूमिः षडंशा स्याद्भागः सौष्ठिकविस्तरः ॥ ६२/१३२ ॥
शालायामो द्विभागेन नीडतारोर्ध्वभागतः ।
ऊर्ध्वभूमिद्विभागेन मध्यभद्रो विधीयते ॥ ६२/१३३ ॥
दण्डेन निर्गमस्तस्य सार्धदण्डद्वयेन तु ।
ग्रीवानाडी विशाला स्याद्वृत्तवेदिसमन्वितम् ॥ ६२/१३४ ॥
वृत्ताभशिखरग्रीवमहानासीचतुष्टयम् ॥
अल्पाष्टनालिकोपेतमस्य मूलतले द्विजाः ॥ ६२/१३५ ॥
समं चोत्तुङ्गशिखरं कूटकोष्ठकनीडकम् ।
उत्तङ्गशालाद्वितलं मूले त्वधिककूटकम् ॥ ६२/१३६ ॥
चतुरश्राष्टवृत्ताभाः कर्णकूटास्तु मूलतः ।
नानामसूरकस्तम्भवेदिकाजालतोरणम् ॥ ६२/१३७ ॥
नानासुखावहं प्रोक्तं देवानामास्पदं मतम् ।
पञ्चभौममहं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ॥ ६२/१३८ ॥
तुङ्गे षष्ठाष्टभागे तु सत्रिभागं द्विभागिकः ।
मसूरकोच्चमाख्यातं पादः सार्धशरैर्भवेत् ॥ ६२/१३९ ॥
सार्धद्विभागैर्बिम्बः स्यात्साङ्घ्रिभूतैश्च पादकः ।
भागद्वयेन सार्धेन प्रस्तरः परिकीर्तितः ॥ ६२/१४० ॥
पञ्चभागेन पादः स्यान्मञ्चस्याङ्घ्रिर्द्विपादभाक् ।
त्रिपादवेदैस्तलिपो द्विभागः प्रस्तरो भवेत् ॥ ६२/१४१ ॥
सार्धवेदैः पुनः पादः सत्रिपादांशकेन च ।
प्रस्तरोदय इष्टः स्याद्वितर्दिश्चैकभागतः ॥ ६२/१४२ ॥
द्विभागः कन्धरः प्रोक्तः साङ्घ्रिवेदैः शिरो भवेत् ।
विभागः कुम्भ इत्युक्तो भागाश्चैवं प्रकीर्तिताः ॥ ६२/१४३ ॥
रसादिरुद्रभागेन पञ्चभौमं प्रकल्पयेत् ।
षट्तलाद्यं क्रमाद्वक्ष्ये पञ्चभूम्यंशकैः सह ॥ ६२/१४४ ॥
पञ्चभौमस्य धाम्नः स्यान्मूलधामोर्ध्वतः क्रमात् ।
प्रस्तरस्तदधिष्ठानं मानेनैव प्रकीर्तितम् ॥ ६२/१४५ ॥
रसभागेन पादः स्यादधिष्ठानत्रिभागतः ।
षड्भौममेवमाख्यातं प्रायो विस्तारभागयुक् ॥ ६२/१४६ ॥
तदधः सार्धसप्तांशैः सपादगुणभागकैः ।
स्तम्भं मसूरकं कुर्यात्तारे रुद्रार्कभाजिते ॥ ६२/१४७ ॥
सप्तभौममिदं ख्यातं विमानं सार्वदेशिकम् ।
तदधो मुनिमिः सार्धं गुणांशैः पादकुट्टिमौ ॥ ६२/१४८ ॥
धर्मरुद्रार्कभागैस्तु त्रयोदशविभागकैः ।
अष्टभौममिदं प्रोक्तमेवं प्राज्ञैर्मुनीश्वराः ॥ ६२/१४९ ॥
तदधः सार्धसप्तांशैः सत्रिभागाग्निभागिके ।
स्तम्भं च तलिपं कुर्यात्तारेंऽशाः प्रागुदीरिताः ॥ ६२/१५० ॥
एवं नवतलं प्रोक्तं दशभौममिहोच्यते ।
तदधोऽष्टयुगांशैस्तु पादोऽधिष्ठानमिष्यते ॥ ६२/१५१ ॥
तारे पूर्वोक्तभागाः स्युर्मनुभागं तु वा मतम् ।
तदधः सार्धवस्वंशैः सपादयुगभागिके ॥ ६२/१५२ ॥
पादं मसूरकं कुर्याद्भागानष्टादशान्तकान् ।
पूर्वोक्तं कल्पयेदेवमेकादशतलं मतम् ॥ ६२/१५३ ॥
तदधो गृहनन्दांशैः पादांशतलकं भवेत् ।
तारे षोडशभागादि यावदर्कद्वयांशकम् ॥ ६२/१५४ ॥
सङ्कल्प्य तत्र कूटादीन् योजयेद्देशिकोत्तमः ।
द्वित्रिवेदेषु षड्भागैः प्रागुक्तांशैस्तु वा गृहम् ॥ ६२/१५५ ॥
गृहपिण्ड्यलिन्द्रतारांश्च गर्भभागाद्बहिर्नयेत् ।
प्रासादस्य तु विस्तारं कृत्वा षोडशभागिकम् ॥ ६२/१५६ ॥
वेदभागैर्गृहं प्रोक्तं पिण्डीभागेन निर्मितम् ।
पञ्चालिन्द्रं च षट्कुड्यं प्रत्येकं चार्धभागतः ॥ ६२/१५७ ॥
अथवायामविस्तारे चतुर्विंशतिभाजिते ।
गर्भगेहो द्विभागेन गृहपिण्डस्तु भागतः ॥ ६२/१५८ ॥
पञ्चालिन्द्रं तथा कुड्यं योजयेद्भागतो बहिः ।
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत् ॥ ६२/१५९ ॥
प्रासादस्य तु विस्तारं कृत्वा त्रिनवभागिकम् ।
पञ्चभिर्गर्भगेहं स्याच्छेषं पूर्ववदीरितम् ॥ ६२/१६० ॥
अन्येष्वपि च भागेषु समूह्यैवं प्रकल्पयेत् ।
एवं द्वादशभौमं स्यात्तदूर्ध्वमधुनोच्यते ॥ ६२/१६१ ॥
पूर्वमानादधिष्ठाने पादमानमथार्धकम् ।
स्तम्भमाने तु युक्त्यैव योजयेदधिकं गुरुः ॥ ६२/१६२ ॥
आषोडशतलं सम्यगारभ्य द्वादशक्ष्मकम् ।
अंशाद्विंशति भागादीनेकत्रिंशांशकावधि ॥ ६२/१६३ ॥
कल्पयेद्यजमानेच्छावशेनैव विशेषतः ।
भागार्धेनाथवालिन्दं शेषं कुड्येषु योजयेत् ॥ ६२/१६४ ॥
युग्मायुग्मकरैर्वाथ कारयेदेवमेव तु ।
युग्मांशे तु विभागे वा कूटव्यासा द्विरायता ॥ ६२/१६५ ॥
शाला तु चतुरंशैर्वा युग्मायुग्मांशकैस्तथा ।
तलमेकं भवेद्ग्रासं खण्डहर्म्यञ्चतुस्तले ॥ ६२/१६६ ॥
द्विचतुःपञ्चषट्सप्तभूमौ ग्रासं भवेद्द्विजाः ।
त्रितलं चाष्टभौमे तु नवपङ्क्तितले तथा ॥ ६२/१६७ ॥
चतुष्पञ्चतलव्यासो रुद्रादित्यतले भवेत् ।
षट्तलं वसुभौमे च चतुर्दशतले तथा ॥ ६२/१६८ ॥
सप्तभौमं समाख्यातं षोडशाष्टैकभूमिकम् ।
मूलतः कूटकोष्ठादि कर्तुं सम्यङ्महीतले ॥ ६२/१६९ ॥
तले गृहे तु कूटादीन् यथायुक्त्या प्रयोजयेत् ।
कूटशालादिभिर्भेदैः पूर्वमाख्या यथोदिता ॥ ६२/१७० ॥
धामस्थैर्भेदकैर्युक्ता व्याख्या पूर्ववदीरिता ।
॥ इति कामिकाख्ये महातन्त्रे एकभूम्यादिलक्षणविधिर्नाम षष्टिः पटलः ॥
</poem>
== मूर्धेष्टकास्थापनविधिपटलः ==
<poem>
विमानानामथो वक्ष्ये ऊर्ध्वाश्मस्थापनं परम् ।
यद्द्रव्येणावसानं स्यात्तन्मया चेष्टका मता ॥ ६३/१ ॥
आद्येष्टकोक्तमानाः स्युरष्टांशोनास्तु वा मताः ।
स्थापनं वक्ष्यमाणेन मार्गेणैव समाचरेत् ॥ ६३/२ ॥
अङ्कुरार्पणकार्यं तु प्रागेव विधिना चरेत् ।
मण्डपस्य विमानस्य सौम्यायां पूर्वतो दिशि ॥ ६३/३ ॥
पञ्चैककुण्डयुक्तो वा तत्संख्यस्थण्डिलान्वितः ।
मध्यमे वेदिकायुक्तो दर्भमालादिशोभितः ॥ ६३/४ ॥
पश्चाच्छिल्पिनमुद्वास्य गोमयेनोपलेपयेत् ।
भोजनं भूसुराणां च पुण्याहं प्रोक्षणं तथा ॥ ६३/५ ॥
वास्तुहोमं पुरा कृत्वा स्थण्डिलं कारयेत्ततः ।
अष्टद्रोणैस्तदर्धैर्वा शालिभिश्च तदर्धकैः ॥ ६३/६ ॥
तण्डुलैश्च तिलैर्लाजैर्दर्भैः पुष्पैर्हृदा गुरुः ।
शययां च कल्पयित्वाथ पञ्चमृत्पञ्चगव्यकैः ॥ ६३/७ ॥
प्रक्षाल्य चेष्टकां स्थूपिं यजेद्गन्धादिभिर्हृदा ।
स्वराद्यं वेदवर्णं तु पूर्वादिक्रमशो लिखेत् ॥ ६३/८ ॥
इष्टकासु हृदा मन्त्री श्वेतचन्दनचर्चितैः ।
शययायां स्थापयित्वा तु तद्वामे स्थूपिकां न्यसेत् ॥ ६३/९ ॥
कौतुकं बन्धयित्वा तु वस्त्रेणाछाद्य देशिकः ।
परितोऽष्टौ घटान् न्यस्त्वा लोकेशाशासु तान्हृदा ॥ ६३/१० ॥
संपूज्य गन्धपुष्पाद्यैर्मूर्त्तिमूर्त्यधिपान् न्यसेत् ।
नन्दां भद्रां जयां रिक्तां पूर्णां चैवेष्टकासु च ॥ ६३/११ ॥
न्यसेत्स्थूप्यां सदेशं च होमकर्म समाचरेत् ।
कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तमार्गतः ॥ ६३/१२ ॥
समिदाज्यान्नलाजैश्च तिलाद्यैश्च क्रमाद्धुनेत् ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादिदिक्षु च ॥ ६३/१३ ॥
प्रधानेऽपि पलाशः स्यात्स च सर्वत्र वा मतः ।
शिवब्रह्माङ्गमन्त्रैश्च शतसंख्यां तु होमयेत् ॥ ६३/१४ ॥
प्रभाते तु गुरुः स्नातः कृतमन्त्रादिविग्रहः ।
इष्ट्वेष्टकाभिः स्थूपिं च कुम्भान्कुण्डं च पालकान् ॥ ६३/१५ ॥
कृत्वा च निष्कृतिं पूर्णां पूजां सन्तुष्टमानसः ।
पञ्चनिष्कादिसम्प्राप्तदक्षिणैर्मूर्तिंधारकैः ॥ ६३/१६ ॥
दैवज्ञाद्यैस्त्रिभिः सार्धं शिल्पिना च गुरूत्तमः ।
गृहीत्वा चेष्टकां स्थूपिं कृतधामप्रदक्षिणः ॥ ६३/१७ ॥
आरुह्य शिखरं मूर्ध्नि विन्यसेदिष्टकाः क्रमात् ।
आद्येष्टकोक्तरीत्यैव मध्ये रत्नादि विन्यसेत् ॥ ६३/१८ ॥
तदूर्ध्वे स्थापयेत्स्थूपिं मूलमन्त्रेण देशिकः ।
तन्मूलं कुम्भतोयैश्च प्रोक्षयेत्स्वस्वमन्त्रतः ॥ ६३/१९ ॥
स्थूपिकांशं विहायाधो बन्धयेदिष्टकादिभिः ।
एवं यः कारयेन्मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ६३/२० ॥
॥ इति कामिकाख्ये महातन्त्रे मूर्धेष्टकास्थापनविधिर्नाम एकषष्टितमः पटलः ॥
</poem>
== लिङ्गलक्षणविधिः ==
<poem>
लिङ्गस्य लक्षणं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
मृद्द्रुमोपललोहोत्थं रत्नबाणादिसम्भवम् ॥ ६४/१ ॥
द्विविधं मृण्मयं लिङ्गं पक्वं चापक्वमेव च ।
आभिचाराय पक्वं तु द्विहस्तादुपरि स्थितम् ॥ ६४/२ ॥
श्वेताद्यां मृदमादाय पयस्तैलादिभिर्वृताम् ।
यवगोधूमचूर्णं तु पयोवृक्षत्वचान्वितम् ॥ ६४/३ ॥
पिच्छिलेन सुगन्धेन चूर्णेनालोड्य सन्मृदम् ।
श्रीवेष्टकं सर्जरसं तथा गुग्गुलुशर्करा ॥ ६४/४ ॥
पञ्चनिर्याससंयुक्तामथ लोकप्रसिद्धितः ।
एतेषां संख्यया तुल्यां मृदं गृह्णीत देशिकः ॥ ६४/५ ॥
गिरौ गिरिसमीपे वा वनेषूपवनेषु च ।
नदीतीरे द्रुमे शैले लिङ्गार्थं द्रव्यमाहरेत् ॥ ६४/६ ॥
याः सुवर्णा घनाः स्निग्धा निमग्ना नगसन्धिषु ।
सरित्सलिलनिर्धूतपवित्रान्तर्जलोषिताः ॥ ६४/७ ॥
वृक्षच्छायोपगूढाश्च तीर्थाश्रमसमाश्रयाः ।
आयामव्यासनाहाढ्या रक्ताः पीताःसितासिताः ॥ ६४/८ ॥
मनोरमाः शिला ग्राह्या यौवनाः श्रेयसे मताः ।
वातातपानलालीढा मृद्वीक्षारोदकाश्रिताः ॥ ६४/९ ॥
कर्मान्तरगृहीता या अत्यन्तोपहताश्च याः ।
अन्त्यजानीतसेव्या या नदीशैलतटे स्थिताः ॥ ६४/१० ॥
रूक्षा वृद्धातिबालाश्च वर्जनीयाः शिला द्रुमाः ।
खादिरश्चन्दनः सालो मधूकः सरलोऽसनः ॥ ६४/११ ॥
बिल्वः कदम्बः खदिरो देवदारुश्च शिंशुपा ।
पनसार्जुनावशोकश्च क्षीरिणो रक्तचन्दनः ॥ ६४/१२ ॥
स्निग्धवर्णा महाकायाः शुभदाः शुभदेशजाः ।
द्रव्यसंग्रहणं कुर्याद्वक्ष्यमाणं विशेषतः ॥ ६४/१३ ॥
तच्छैलं नवहस्तान्तं पार्थिवं च तथा मतम् ।
त्र्यंशेन दारुजं लोहमस्यार्धेनोत्तमं मतम् ॥ ६४/१४ ॥
षट्षडङ्गुलहान्यन्तं मध्यमं मानमुच्यते ।
तदलाभे तु तन्मध्ये त्वेकैकाङ्गुलहानितः ॥ ६४/१५ ॥
मानं शतं च नवतिहस्तयुक्तप्रमाणतः ।
धामगर्भप्रमाणेनाधमं लिङ्गमुच्यते ॥ ६४/१६ ॥
गर्भार्धं मध्यमं ज्ञेयं पञ्चत्र्यंशं परं भवेत् ।
मध्यमेऽष्टविभागेन नवलिङ्गोदयानि च ॥ ६४/१७ ॥
ज्येष्ठे ज्येष्ठात्समारभ्य पादह्रासाद्द्विजोत्तमाः ।
मानानि च त्रयस्त्रिंशल्लिङ्गानां कीर्तितानि तु ॥ ६४/१८ ॥
अथवान्यप्रकारेण गर्भमानं विधीयते ।
अधमं गर्भपादं स्यात्त्रिपादं ज्येष्टमानकम् ॥ ६४/१९ ॥
पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।
आयादिशुद्धिसिद्ध्यर्थं भजेन्मानाङ्गुलेन तु ॥ ६४/२० ॥
भागं वा विभजेत्तेषां शध्यर्थं तदिहोच्यते ।
षोडशांशं समारभ्य चतुर्विंशतिसंयुतम् ॥ ६४/२१ ॥
शतांशं विभजेत्तत्र चैकांशं योजयेद्गुरुः ।
आयादिशुभसंयुक्तं सडंशं वा पुरा मया ॥ ६४/२२ ॥
भूमिलम्बे समादिष्टं नोक्तं विस्तरभीरुणा ।
लिङ्गायामे विकारांशे चतुर्भूतरसैः क्रमात् ॥ ६४/२३ ॥
सत्रिभागैस्त्रिरंशैस्तु सुरेड्यानाढ्यके द्विजाः ।
आढ्यं सर्वसमं लिङ्गं विशिष्टं परिकीर्तितम् ॥ ६४/२४ ॥
तेषां तन्मध्यमेऽष्टांशे प्रत्येकं नवधा भजेत् ।
लिङ्गायामे दिनांशे तु सप्ताष्टनवभागतः ॥ ६४/२५ ॥
ब्रह्मविष्ण्वीशभागानां उत्सेधाः संप्रकीर्तिताः ।
सर्वेषामपि सामान्यं लिङ्गमेतदुदाहृतम् ॥ ६४/२६ ॥
समखण्डं वर्धमानं शैवाधिक्यं त्रिभागिकम् ।
वर्णानां ब्राह्मणादीनां क्रमेण परिकल्पयेत् ॥ ६४/२७ ॥
वर्धमानशिवाधिक्ये सर्वजात्यर्हके मते ।
लिङ्गायामं त्रिधा कृत्वा ब्रह्मांशः त्वेकभागतः ॥ ६४/२८ ॥
विष्ण्वंशस्तद्वदेवं स्याद्रुद्रांशो भाग एव वा ।
एकांशसदृशस्तारः समखण्डोऽयमीर्तितः ॥ ६४/२९ ॥
चतुष्पञ्चषडंशं तु पञ्चषट्सप्तभागिकम् ।
षट्सप्ताष्टांशकं सप्तभागाष्टनवभागिकम् ॥ ६४/३० ॥
वर्धमानमिदं प्रोक्तं विप्रादीनामनुक्रमात् ।
सप्तसप्ताष्टभागं तु पञ्चपञ्चषडंशकम् ॥ ६४/३१ ॥
वेदवेदशरांशं तु गुणानलयुगांशकम् ।
एवं शिवाधिकं प्रोक्तं द्विजातीनामनुक्रमात् ॥ ६४/३२ ॥
कृत्वा नवांशं लिङ्गोच्चं बन्धबन्धगुणांशकम् ।
षट्सप्ताष्टकनाहं तु वृत्तेऽष्टाश्रे युगाश्रके ॥ ६४/३३ ॥
त्रैराशिकमिदं शास्त्रे स्वस्तिकं त्वधुनोच्यते ।
नवधा लिङ्गमानेन द्व्यंशं मध्ये गुणांशकम् ॥ ६४/३४ ॥
वृत्ते युगांशकं दैर्घ्यं शूद्रेऽप्येतच्च शस्यते ।
त्रैराशिकं तु सर्वेषां सर्वकामप्रदं मतम् ॥ ६४/३५ ॥
आढ्यानाढ्यसुरेड्यं च धारालिङ्गं सहस्रकम् ।
सर्वेषां ब्राह्मणादीनामपि सामान्यमीरितम् ॥ ६४/३६ ॥
एकादिधारया वृद्धं शतधारावसानकम् ।
धारालिङ्गं प्रशस्तं स्यात्सहस्रमधुनोच्यते ॥ ६४/३७ ॥
समखण्डे शिवायामे रुद्रभागविनिर्मिते ।
एकाधिकं नवत्यंशे विषमांशनिवेशितम् ॥ ६४/३८ ॥
सैकसाहस्रलिङ्गानां नवभागोच्चमेव वा ।
मुखलिङ्गमथो वक्ष्ये भुक्तिमुक्तिफलप्रदम् ॥ ६४/३९ ॥
चतुर्मुखं तत्त्रिमुखमेकवक्त्रयुतं भवेत् ।
योच्चतारा द्विभक्ता सा गुणत्यागादधो शिरः ॥ ६४/४० ॥
ललाटं नासिका वक्त्रञ्चिबुकोष्ठं च वर्तयेत् ।
ग्रीवाभुजोपनिष्क्रान्तिरिदानीं प्रोच्यते बुधाः ॥ ६४/४१ ॥
लिङ्गायामे विकारांशे लिङ्गविष्कम्भतो बहिः ।
चतुर्दिक्षु चतुर्वक्त्र निर्गमाय प्रकल्पयेत् ॥ ६४/४२ ॥
शेषं लिङ्गाकृतिः कार्या विष्णुभागानुसारतः ।
जानौ प्रविष्टा ग्रीवा स्याच्चतुरङ्गुलमानतः ॥ ६४/४३ ॥
तद्वद्दीर्घसमायुक्तं शेषं यत्प्रतिमोक्तवत् ।
नन्दमात्रादिकं भक्त्वा षट्तालं तु चतुर्विधम् ॥ ६४/४४ ॥
निर्गमार्थं चतुर्दिक्षु वेष्टनं परिकल्पयेत् ।
पादोनसप्तमात्रं तु विस्तारेण प्रकल्पयेत् ॥ ६४/४५ ॥
त्रिमुखं वा तदुच्चांशं ऋतुवद्भाजयेत्समम् ।
भागार्धेन भुजस्कन्धौ षडङ्गुलविनिःसृतौ ॥ ६४/४६ ॥
त्रिभागेन भवेद्ग्रीवा मकुटं स्याद्द्विभागतः ।
चतुर्धा विभजेच्छेषं भागमात्रप्रमाणतः ॥ ६४/४७ ॥
शिरोललाटनासाश्च वक्त्रं चिबुकसंयुतम् ।
विष्ण्वंशतारसदृशं मकुटं च विवर्तयेत् ॥ ६४/४८ ॥
निर्गमांशा मुखानां स्युः प्रत्येकं वसुमात्रकैः ।
एकवक्त्रे त्रयोच्चांशे सार्धोनमुखदैर्घ्यकम् ॥ ६४/४९ ॥
मकुटञ्चैकभागं स्यादवशिष्टे द्विधा कृते ।
ग्रीवास्कन्धौ क्रमणैव वर्धयेद्देशिकोत्तमः ॥ ६४/५० ॥
मुखस्य निर्गमं कुर्यान्नवमात्रप्रमाणतः ।
अष्टाधिकशते लिङ्गदैर्घ्ये दैर्घ्यांश इष्यते ॥ ६४/५१ ॥
शिरोवर्तनमेतेषां वक्ष्ये तद्बहुधा मतम् ।
पुण्डरीकविशालाख्यं श्रीवत्सं शत्रुमर्दनम् ॥ ६४/५२ ॥
काष्टांशके चतुर्भक्ते भागभागविवर्धनात् ।
भवन्ति पुण्डरीकादिभेदा भिन्नफलाप्तये ॥ ६४/५३ ॥
६४/पुण्डरीकाद्यशःप्राप्तिर्विशालाद्विपुलां श्रियम् ।
प्राप्नोति सर्वान् श्रीवत्साद्विजयं शत्रुमर्दनात् ॥ ६४/५४ ॥
कुक्कुटाण्डशिरो मूर्तिचतुर्थांशविवर्धनात् ।
प्रजावृद्धिकरं यस्मात्प्रजालाभः प्रजापतिः ॥ ६४/५५ ॥
त्रिभागवर्धनादर्धचन्द्रं चन्द्रसमो यतः ।
प्राप्तमायुः परं प्राप्तलोकं सौभाग्यमुत्तमम् ॥ ६४/५६ ॥
षड्भागवर्धनाद्भूतिनिमित्तं त्रपुषाकृतिः ।
साध्याः सिद्धाश्च मरुतो यस्माद्भूतिं परां गताः ॥ ६४/५७ ॥
अथवान्यप्रकारेण शिरोवर्तनमुच्यते ।
अष्टधा विभजेत्तारमध्यर्धेन विवर्तनात् ॥ ६४/५८ ॥
छत्रशीर्षमिति प्रोक्तं त्रपुषाभं निगद्यते ।
षडंशैस्त्रपुषं वा स्यात्सार्धद्व्यंशेन वर्तनम् ॥ ६४/५९ ॥
कुक्कुटाण्डशिरः प्रोक्तं विस्तारार्धप्रवर्तितम् ।
चन्द्रखण्डनिभं प्रोक्तं विस्तारात्त्र्यंशवर्तितम् ॥ ६४/६० ॥
बुद्बुदाभं शिरः सार्धत्र्यंशेनाष्टविभाजिते ।
एतानि सर्वलिङ्गानां सनातनशिरांसि हि ॥ ६४/६१ ॥
आयादिशुभसंयुक्तं लिङ्गं सर्वार्थसाधकम् ।
अशुभे त्वशुभं विद्यात्तदर्थमुपरि न्यसेत् ॥ ६४/६२ ॥
एकहस्तेऽङ्गुलं स्याच्च द्वित्रिहस्ते त्रिमात्रकम् ।
चतुष्पञ्चकरे पञ्च षट्सप्तसु च सप्तकम् ॥ ६४/६३ ॥
वसुनन्दकरे नन्दमात्रमानाधिकं मतम् ।
शिरोवर्तनभागे तु चतुर्थे वा षडंशके ॥ ६४/६४ ॥
एकं द्वयं त्रयं दद्याद्ब्रह्मभागात्क्रमेण तु ।
शिरोवर्तनभागस्य त्र्यंशं पूजांशकोपरि ॥ ६४/६५ ॥
लिङ्गायामेऽथवारोप्य षड्भागे तु तदुच्छ्रये ।
एकांशं योजयेद्धीमांलिङ्गे द्व्यंशं तु मध्यमे ॥ ६४/६६ ॥
त्रिभागमुत्तमे लिङ्गे योजयेद्वा द्विजोत्तमाः ।
केवलं वा शिरोमानमधिरोप्य विवर्तयेत् ॥ ६४/६७ ॥
शिरसा मिश्रितं भागं पार्श्वयोरवलम्ब्य च ।
वृत्तद्वयं तु तन्मानादुभयोः पार्श्वयोर्नयेत् ॥ ६४/६८ ॥
ऊर्ध्वदेशे शिरोमध्ये तृतीयं मण्डलं न्यसेत् ।
मण्डलैश्च त्रिभिर्मत्स्यद्वयमत्रोपजायते ॥ ६४/६९ ॥
तन्मत्स्याननपुच्छस्थसूत्रयोर्यत्र सङ्गतिः ।
तत्र स्थित्वा त्रिभिर्वास्य वर्तनीयं शिरःशुभम् ॥ ६४/७० ॥
जातिलिङ्गविभेदेन शिरश्च द्विविधं मतम् ।
छत्राकारं तु विप्राणां कुक्कुटाण्डनिभं नृपे ॥ ६४/७१ ॥
वैश्यानामर्धचन्द्राभं शूद्राणां त्रपुषं भवेत् ।
अपरं चन्द्रमप्यन्यलिङ्गभेदेन कथ्यते ॥ ६४/७२ ॥
लिङ्गव्यासे विकारांशे व्योमद्वित्र्यब्धिभिः क्रमात् ।
चतुर्विधं स्याच्छत्राभं तत्राद्ये समलिङ्गके ॥ ६४/७३ ॥
शैवधिक्ये तृतीयं स्याच्चतुर्थं वर्धमानके ।
अन्योऽन्यसङ्करः त्वेषामशुभाय प्रकल्पितः ॥ ६४/७४ ॥
स्वायंभुवादिलिङ्गानां लक्षणं नेष्यते द्विजाः ।
किन्तु तेषां विभागं तु प्रसिद्धोक्त्या समाचरेत् ॥ ६४/७५ ॥
सर्वलक्षणसंयुक्तं लिङ्गं सर्वार्थसाधकम् ।
॥ इति कामिकाख्ये महातन्त्रे लिङ्गलक्षणविधिर्नाम द्विषष्टितमः पटलः ॥
</poem>
== अङ्कुरार्पणलक्षणविधिः ==
<poem>
अथातः संप्रवक्ष्यामि अङ्कुरार्पणलक्षणम् ।
सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलाङ्कुरम् ॥ ६५/१ ॥
उत्तमो मध्यमो नीचस्त्रिविधः परिकीर्तितः ।
नवाहे वाथ सप्ताहे पञ्चाहे त्रिदिनेऽपि वा ॥ ६५/२ ॥
सद्योऽङ्कुरार्पणं वापि शिवं संपूज्य चारभेत् ।
सायादिदिनमारभ्य देवानामङ्कुरार्पणम् ॥ ६५/३ ॥
तद्दिने तु मनुष्याणां देवानामपि संमतम् ।
बीजानामधिपः सोमो तस्माद्रात्रौ तु निर्वपेत् ॥ ६५/४ ॥
दिवाकाले न कर्तव्यं कृतं चेत्कर्तृनाशनम् ।
सदनस्याग्रगे देशे वामे वाप्यग्रदक्षिणे ॥ ६५/५ ॥
त्रिहस्तं तु समारभ्य कुर्याद्रुद्रकरान्तकम् ।
मण्डपं तत्र कर्तव्यं पूर्वसङ्कल्पितेऽथवा ॥ ६५/६ ॥
ऐशे वा यागशालायां कुर्यात्तीर्थाङ्कुरार्पणम् ।
वितानध्वजसंयुक्तद्वारतोरणसंयुते ॥ ६५/७ ॥
दर्भमालासमायुक्ते मुक्तादामसमन्विते ।
पुण्याहप्रोक्षणं कुर्यादथवास्त्रेण शोधयेत् ॥ ६५/८ ॥
शरावः पालिकाश्चैव घटिकाश्च त्रिधा स्मृताः ।
सरावाः कृतं यदुत्कृष्टं वर्गाभ्यां मध्यमं भवेत् ॥ ६५/९ ॥
कनिष्ठिकं चैकवर्गैस्तेषां लक्षणमुच्यते ।
सौवर्णं राजतं ताम्रं निर्मितं मृण्मयं स्मृतम् ॥ ६५/१० ॥
पालिकाननविस्तारो मन्वङ्गुलमुदाहृतम् ।
एकैकाङ्गुलहीनं स्यान्मध्यमे कन्यसेक्रमात् ॥ ६५/११ ॥
विस्तारे सममुत्सेधः पादतारः तदर्धतः ।
विस्तारे कौशिकांशेन परितः शेष उच्यते ॥ ६५/१२ ॥
विस्तारस्य त्रिभागैकवर्तितं बिलमुच्यते ।
विस्तारयुगभागैको दण्डविस्तार इष्यते ॥ ६५/१३ ॥
घटिका कलशाकारा दण्डपादौ तु पूर्ववत् ।
विद्येश्वराङ्गुलः कुम्भविस्तारः पञ्चवक्त्रयुक् ॥ ६५/१४ ॥
पालिकार्धप्रमाणेन त्रिपादो वा शरावकम् ।
यथासम्भवमानं वा पालिकादि प्रकीर्तितम् ॥ ६५/१५ ॥
भिन्नं कृष्णञ्च सुषिरं दुर्गन्धं च पुराणकम् ।
छिन्नलिङ्गादिसंयुक्तं वर्जयेदङ्कुरार्पणे ॥ ६५/१६ ॥
शरावं ब्रह्मदैवत्यं पालिका विष्णुदेवता ।
घटिकैशानसंयुक्ता तेषु तानर्चयेद्गुरुः ॥ ६५/१७ ॥
पृथक् षोडशसंख्यातमुत्तमं परिकीर्तितम् ।
मध्यमं मनुसंख्यातं दशतः कन्यसं भवेत् ॥ ६५/१८ ॥
उत्तमक्रममेवं स्यादष्टषड्वेदसंख्यया ।
मध्यमक्रममुद्दिष्टं त्रिद्व्येकैः कन्यसं भवेत् ॥ ६५/१९ ॥
सर्वेषां स्थापनं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
गोमयालेपनं कृत्वा पिष्टचूर्णैंर्विचित्रयेत् ॥ ६५/२० ॥
पञ्चगव्येन संप्रोक्ष्य सूत्रपातमथाचरेत् ।
सूत्रव्याप्तिर्दश प्राच्यां दशोदीच्यां तथैव च ॥ ६५/२१ ॥
नव मध्ये च संगृह्य परितः षोडशं त्यजेत् ।
चतुर्दिक्षु च चत्वारिद्वाराणि द्विपदानि च ॥ ६५/२२ ॥
कोणे द्वादशसंख्यानि तेषु स्युः पालिकादयः ।
मध्ये नवपदे पद्मं पालिकां कोणदेशके ॥ ६५/२३ ॥
घटिका द्वारवामे स्युः शरावा द्वारदक्षिणे ।
एवं द्वारेषु चान्येषु कल्पयेद्देशिकोत्तमः ॥ ६५/२४ ॥
प्राक्सूत्रं वसुसंख्यातमुदक्सूत्रं तथैव च ।
मध्ये व्योमपदं हित्वा परितोऽष्टपदं त्यजेत् ॥ ६५/२५ ॥
मध्यमे सोमकुम्भः स्यात्पूर्वपङ्क्तिद्वये पुनः ।
पालिका मनुसंख्याताः पश्चिमे घटिका मताः ॥ ६५/२६ ॥
तदन्तरालषट्के च दक्षेऽदक्षे शरावकाः ।
कुम्भपार्श्वे द्वयं प्रोक्तं पूर्वस्मिन् पश्चिमे द्विजाः ॥ ६५/२७ ॥
श्रेष्ठमध्यममेवं स्यादुत्तमाधममुच्यते ।
प्राक्सूत्रं मुनिसंख्यातमुदक्सूत्रं तथैव च ॥ ६५/२८ ॥
मध्ये वेदपदं मुक्त्वा तत्र कुम्भं निवेशयेत् ।
ईशानकोणादारभ्य पालिका बाह्यपङ्क्तिके ॥ ६५/२९ ॥
राक्षस्यां दिशि कोणान्तं शरावाः परिकीर्तिताः ।
अन्तर्दिशासु द्वौ द्वौ वा वायावीशे परा मताः ॥ ६५/३० ॥
उत्कृष्टकन्यसं प्रोक्तं मध्यमोत्तममुच्यते ।
पञ्चपञ्चपदं कृत्वा मध्यमे स्थापयेद्घटम् ॥ ६५/३१ ॥
चतुर्दिक्षु च कोणेषु स्थापयेत्पालिका बहिः ।
कुम्भबाह्ये च घटिकाः स्वान्तरेऽष्टौ प्रकीर्तिताः ॥ ६५/३२ ॥
शरावं स्थापयेद्बाह्ये पालिकानामथान्तरे ।
मध्यमे ज्येष्ठमाख्यातं मध्यमध्यमथोच्यते ॥ ६५/३३ ॥
षोढा प्रागग्रसूत्राणि तथैवोत्तरगानि च ।
मध्ये नवपदं कृत्वा ईशानं नैरृतं विना ॥ ६५/३४ ॥
पालिकाः पञ्च पूर्वस्थाः पश्चिमस्थाः शरावकाः ।
दक्षिणे त्रितये वामे घटिकाः षड्व्यवस्थिताः ॥ ६५/३५ ॥
अन्तरीशानदेशे तु पालिकैका व्यवस्थिता ।
तथैव नैरृते देशे शरावः सुव्यवस्थितः ॥ ६५/३६ ॥
षोडशांशं ततः कृत्वा मध्ये वेदैर्व्यवस्थिताः ।
पालिका घटिका चैव शरावश्च यथाक्रमात् ॥ ६५/३७ ॥
ईशानकोणादारभ्य वह्न्यन्ताः समुदीरिताः ।
अनेनैव क्रमेणैव वह्न्याद्विषु च विन्यसेत् ॥ ६५/३८ ॥
कृत्वा नवपदं मध्ये सोमकुम्भो व्यवस्थितः ।
पूर्ववत्पालिकाद्यं तु शर्वमारभ्य विन्यसेत् ॥ ६५/३९ ॥
अवशिष्टं बहिः सोमे कन्यसाद्यं प्रकीर्तितम् ।
प्राग्वन्नवपदं कृत्वा द्वारे पूर्वत्र पश्चिमे ॥ ६५/४० ॥
ईशानकोणादारभ्य पालिकाद्यं तु विन्यसेत् ।
एतत्कन्यसमध्यं स्यात्ततः कन्यसकन्यसम् ॥ ६५/४१ ॥
कृत्वा नवपदं चापि त्यजेत्कोणचतुष्टयम् ।
मध्ये कुम्भं च पूर्वादिपालिकादींश्च विन्यसेत् ॥ ६५/४२ ॥
एवं न्यासक्रमं प्रोक्तं तत्क्रिया कथ्यतेऽधुना ।
स्थण्डिलं कारयेद्विद्वानष्टद्रोणेन शालिका ॥ ६५/४३ ॥
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
शिवकुम्भोक्तवत्कुम्भे प्रस्थं वा प्रतिपालिकम् ॥ ६५/४४ ॥
तन्मध्ये विलिखेत्पद्मं साष्टपत्रं सकर्णिकम् ।
तदर्धं तण्डुलोपेतं तिललाजसमन्वितम् ॥ ६५/४५ ॥
दर्भैः पुष्पैः परिस्तीर्य तन्मध्ये स्थापयेद्घटम् ।
द्रोणेनार्धेन वा पूर्णं कुम्भसंख्यासमन्वितम् ॥ ६५/४६ ॥
ससूत्रं सपिधानं च सकूर्चं वारिसंयुतम् ।
सौवर्णं चन्द्रबिम्बं स्यात्सद्वस्त्रवदनान्वितम् ॥ ६५/४७ ॥
तन्मध्ये विन्यसेदिन्दुं तन्मन्त्रेण शिवद्विजाः ।
पायसं दापयेद्विद्वान् ताम्बूलं दापयेत्ततः ॥ ६५/४८ ॥
ईशानेन तु मन्त्रेण पालिकादीनि विन्यसेत् ।
दर्भैः कुशैः पलाशैर्वा निश्छिद्रं सुषिरं नयेत् ॥ ६५/४९ ॥
शुद्धदेशोत्थमृद्भिस्तु पालिकादीनि पूरयेत् ।
द्रव्याणि वापयेत्पश्चात्पयसा भावितानि वै ॥ ६५/५० ॥
तिलसर्षपमुद्गांश्च माषशिम्बाढकानि च ।
कुलुत्थं सप्तबीजानि वापयेदुत्तमस्य तु ॥ ६५/५१ ॥
मुद्गमाषकुलुत्थं च तिलं च सर्षपं तथा ।
एवं तु मध्यमं प्रोक्तं कन्यसं तिलसर्षपम् ॥ ६५/५२ ॥
अधमं त्वेवमाख्यातमथवान्यमिहोच्यते ।
तिलसर्षपमुद्गांश्च माषशिम्बकुलुत्थकान् ॥ ६५/५३ ॥
शालिप्रियंग्वपामार्गयवश्याममिहोच्यते ।
अथवान्यप्रकारेण द्रव्यलक्षणमुच्यते ॥ ६५/५४ ॥
तिलसर्षपमुद्गांश्च ततो माषकुलुत्थकम् ।
निष्पावशाल्यपामार्गशिम्बाव्रीह्याढकाः स्मृताः ॥ ६५/५५ ॥
श्यामगोधूमसस्येन्द्रवैणवाः परिकीर्तिताः ।
पयसा भावितान्यत्र निर्वपेद्धृदयेन तु ॥ ६५/५६ ॥
अङ्कुरा वर्धनीयाः स्युर्यथा शोभावहा द्विजाः ।
वापयेद्बीजमुख्येन प्राङ्मुखो वाप्युदङ्मुखः ॥ ६५/५७ ॥
तत्कुम्भस्थजलेनैव पालिकादीनि विन्यसेत् ।
कुम्भाम्भःशोषणात्पूर्वं गन्धतोयेन पूरयेत् ॥ ६५/५८ ॥
नित्यं संपूज्य हविषा दापयेत्तद्दिनान्तकम् ।
निर्दिष्टदिवसे प्राप्ते सोममुद्वासयेत्सुधीः ॥ ६५/५९ ॥
निर्वापान्ते पिधायैव स्मृत्या गुप्तं निधापयेत् ।
अङ्कुरास्तु सिताः शस्ताः कोमला ऊर्ध्वगामिनः ॥ ६५/६० ॥
कृष्णं च धूम्रवर्णं च पिङ्गलं श्यामलं तथा ।
तिर्यग्गतं च कुब्जं च वर्जयेच्छुद्धकर्मणि ॥ ६५/६१ ॥
शान्तिहोमं ततः कुर्यात्तन्निवृत्यर्थमेव च ।
तीर्थाङ्कुरस्य कर्तव्यं ग्रामादीनां प्रदक्षिणम् ॥ ६५/६२ ॥
गृहीतमृत्समोपेतं पालिकादिसमन्वितम् ।
त्रिशूलेन समोपेतं कुन्दाल्या च समन्वितम् ॥ ६५/६३ ॥
चण्डेश्वरसमोपेतं सर्वालंकारसंयुतम् ।
अन्येषामपि सर्वेषां वर्जयेद्वा प्रदक्षिणम् ॥ ६५/६४ ॥
मृत्संग्रहादौ कुर्याद्वा न कुर्याद्भ्रमणक्रियाम् ।
नदीतीरे तटाके वा वने पुष्पवनेऽपि वा ॥ ६५/६५ ॥
दीर्धिकासेतुबन्धादौ विधिना मृदमाहरेत् ।
प्रोक्षयेद्भूतलं सम्यक् शिवतोयेन बुद्धिमान् ॥ ६५/६६ ॥
आवाहयेत्ततो भूमिं गन्धाद्यैरर्चयेद्धृदा ।
परितो लोकपानिष्टवा शस्त्रमन्त्रेण पूजयेत् ॥ ६५/६७ ॥
शस्त्रेण निखनेद्भूमिं त्रिः खात्वा चोत्तरामुखः ।
मृदं संगृह्य वामेन पूरयेत्स्थलिकान्तरम् ॥ ६५/६८ ॥
गन्धादिभिः समभ्यर्च्य परिवारजनैस्तु वा ।
वाहयित्वा मृदं पश्चात्प्रासादाद्यं? प्रवेशयेत् ॥ ६५/६९ ॥
पालिकाद्यैस्त्रिभिः श्रेष्ठं द्वाभ्यां मध्यममुच्यते ।
अधमं चैकवर्गेण कर्तव्या चाङ्कुरक्रिया ॥ ६५/७० ॥
उक्तालाभे तदासन्ने काले सद्योऽङ्कुरार्पणम् ।
प्रसूनं नालिकेरस्य दूर्वापुष्पाक्षतान्वितम् ॥ ६५/७१ ॥
प्रक्षिपेत्पालिकामध्ये बीजमन्त्रमनुस्मरन् ।
घटिकासु शरावेषु त्रिषु वा चाङ्कुरार्पणम् ॥ ६५/७२ ॥
॥ इति कामिकाख्ये महातन्त्रे अङ्कुरार्पणविधिर्नाम त्रिषष्टितमः पटलः ॥
</poem>
== लिङ्गप्रतिष्ठाविधिपटलः ==
<poem>
अथेदानीं प्रतिष्ठां तु लिङ्गस्य शृणुत द्विजाः ।
पूर्वोक्तविधिना कालं कल्पयेत्स्थापनादिके ॥ ६६/१ ॥
यमाश्लेषाग्निशूर्पाणि श्रविष्ठां चैव वारुणम् ।
ज्येष्ठां च त्रीणि पूर्वाणि वर्जयेत्स्थापनादिके ॥ ६६/२ ॥
चतुर्थी चाष्टमी भूतपञ्चदश्यशुभा मता ।
नेष्टौ कुजशनी ज्ञेयौ शुभयुक्तौ शुभप्रदौ ॥ ६६/३ ॥
राशयश्चरवर्ज्याः स्युः शेषं पूर्ववदीरितम् ।
अङ्कुरार्पणकार्यं तु प्रागेव विधिना चरेत् ॥ ६६/४ ॥
हर्म्यादौ मण्टपं कुर्याद्यागार्थं वाग्रपार्श्वयोः ।
उत्तरे चैव हस्तादित्रयस्याष्टाङ्गदिक्करैः ॥ ६६/५ ॥
यववृद्ध्या तदन्येषां तस्मादर्कादितोऽपि वा ।
त्रिभागेन तथैव स्यादुत्तरे स्नानमण्डपम् ॥ ६६/६ ॥
वेदिकासममानं वा स्नानयोग्यं यथा भवेत् ।
तथा मेखलया युक्तं श्वभ्रयुक्शोभितं भवेत् ॥ ६६/७ ॥
अष्टाङ्गुलोच्छ्रिता वेदी मध्यभागे चतुष्करा ।
हस्तादिके हस्तवृद्ध्या तदन्येषां प्रकल्पयेत् ॥ ६६/८ ॥
हस्तद्वयविशाला वा वेदिका हस्तनिर्मिता ।
वेदिमानेन कूटं स्यात्प्रपा वा तस्य बाह्यतः ॥ ६६/९ ॥
अथवा सर्वदेशे तु प्रपा स्यादतिविस्तरा ।
सर्वतो वाथ कूटं स्यादल्पे शोभाबलं यथा ॥ ६६/१० ॥
योग्या हस्तमिता वेदी लिङ्गे स्यात्कन्यसत्रये ।
द्वादशस्तम्भसंयुक्ता स्याल्लिङ्गे मध्यमत्रये ॥ ६६/११ ॥
गात्रैर्विंशतिभिर्युक्ता वेदी स्यादुत्तमत्रये ।
तत्तद्भक्तिप्रमाणेन बाह्यपङ्क्तीः प्रकल्पयेत् ॥ ६६/१२ ॥
एवं पङ्क्तियुता चाद्ये ततः कुण्डाष्टकं भवेत् ।
द्विभक्तिर्मध्यमे ज्ञेया चतुर्विंशतिकुण्डके ॥ ६६/१३ ॥
त्रिभक्तिसंयुताप्यष्टचत्वारिंशच्च कुण्डकम् ।
ज्येष्ठलिङ्गत्रयं वा स्यात् द्वात्रिंशत्कुण्डसंयुतम् ॥ ६६/१४ ॥
भ्रमन्ति बाह्यतः कुर्याद्यथाशोभांशमानतः ।
प्राधानिकं तदन्यत्स्याच्चक्रे चानन्तरे मतम् ॥ ६६/१५ ॥
सर्वत्र नवकुण्डं वा लिङ्गे कन्यसकन्यसे ।
पञ्चकुण्डमथैकं वा चललिङ्गेऽपि कथ्यते ॥ ६६/१६ ॥
वेदिभागशशाङ्कार्धत्र्यश्रवृत्तानि पञ्चसु ।
षडश्राष्टाब्जकोणानि दिक्ष्वन्यासु निवेशयेत् ॥ ६६/१७ ॥
वृत्तं प्रधानमेवं स्याच्चतुरश्रं तु वा भवेत् ।
अन्तरावरणे त्वेवं बाह्ये तु चतुरश्रकम् ॥ ६६/१८ ॥
वृत्तं वापि प्रकर्तव्यं सर्वत्रैकमथापि वा ।
प्रागुक्तविधिना सर्वमत्रानुक्तं समाचरेत् ॥ ६६/१९ ॥
चतुर्द्वारसमायुक्तश्चतुस्तोरणभूषितः ।
मङ्गलाष्टकसंयुक्तो मङ्गलाङ्कुरशोभितः ॥ ६६/२० ॥
नवध्वजसमायुक्तो दर्भमालादिभूषितः ।
अयं तु मण्टपो लिङ्गे प्रतिमायां विशेषतः ॥ ६६/२१ ॥
सर्वकर्मसु शस्तं स्यादुत्सवादौ विशेषतः ।
अस्य प्रागुक्तदेशे तु लक्षणोद्धारमण्टपम् ॥ ६६/२२ ॥
कृत्वा तत्र नयेल्लक्ष्म शुद्धदेशेऽथवा भवेत् ।
शिलावालुकतोयाद्यैर्धर्षयेल्लिङ्गपिण्डिके ॥ ६६/२३ ॥
तथा चाकारशुद्धिं च कुर्याल्लिङ्गस्य देशिकः ।
मृद्भिः कषायवर्गेण गोमूत्रेणोदकैस्तथा ॥ ६६/२४ ॥
गोमयेन ततोऽम्भोभिर्गन्धवद्भिः सुपावनैः ।
प्रणवेनास्त्रमन्त्रेण हुंफट्प्रणतियोगिना ॥ ६६/२५ ॥
ततः सामान्यमन्त्रेण पूजयेत्स्थाणुनापि वा ।
लिङ्गपिण्डिं समावेष्ट्य कुशवस्त्रस्रगादिभिः ॥ ६६/२६ ॥
मण्टपे स्थण्डिलं कुर्यादष्टद्रोणेन शालिना ।
तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ६६/२७ ॥
स्थण्डिले शाययेल्लिङ्गं सपीठं पूर्वमस्तकम् ।
रक्तवस्त्रेण संछाद्य यजेद्गन्धादिभिर्हृदा ॥ ६६/२८ ॥
रुद्रभागसमायामं चतुः षष्ट्यंशकं भजेत् ।
एकांशसूत्रविस्तारस्तथा गम्भीर इष्यते ॥ ६६/२९ ॥
तदर्धेनाधमो ज्ञेयस्तत्तारेऽष्टांशके कृते ।
नवधा सूत्रविस्तारः सर्वलिङ्गेषु कीर्तितः ॥ ६६/३० ॥
कुड्कुमाक्तेन सूत्रेण नवधा च विभज्य च ।
षड्भिस्तु लक्षणोधारः त्वधोभागे यथा भवेत् ॥ ६६/३१ ॥
मुखनासाललाटानां भेदो ग्रीवोर्ध्वतो भवेत् ।
तत्र नेष्टस्तु यस्तस्मादधो लक्ष्म विलक्षयेत् ॥ ६६/३२ ॥
लिङ्गायामे दिनांशे तु लक्ष्मविस्तृतिरंशतः ।
पृथ्वी निम्ना च तद्रेखा विस्तृतेर्नवमांशतः ॥ ६६/३३ ॥
लक्ष्मसूत्रार्धमानं तु पक्षसूत्रावतारणम् ।
तत्खातसमवैपुल्यं कर्तव्यं शोभनं यथा ॥ ६६/३४ ॥
पक्षक्षेत्रे वसुच्छिन्ने षड्भागपरिवर्तनात् ।
नवभागान्मुनीनां हि दत्वा भागद्वयं त्वधः ॥ ६६/३५ ॥
भागद्वयेन सार्धेन वह्निभक्तेर्विवर्धनम् ।
विकारभक्तेऽधस्ताद्वा त्यक्त्वा भागद्वयं तथा ॥ ६६/३६ ॥
नवभिर्भानुभिर्भक्ते पक्षं वाग्निक्रमेण वा ।
अथवान्यल्लक्ष्म तस्यां नवभागकृतं समम् ॥ ६६/३७ ॥
भागं षष्ठं गुणीकृत्य भागत्यागे त्रिधा त्वयम् ।
यवार्धकं द्विभागे तु वर्तयेल्लक्ष्म शोभनम् ॥ ६६/३८ ॥
कर्णकूटादधश्चैकां ब्रह्मरेखां नयेत्क्रमात् ।
यावत्तु वैष्णवो भागः सूत्रमूले गजाक्षके ॥ ६६/३९ ॥
अधो द्वितीयभागो वा यवार्धाकारलक्षणम् ।
पक्षसूत्रविनिर्मुक्तमुभयं त्विह कीर्तितम् ॥ ६६/४० ॥
रेखात्रयं तु कर्तव्यं सर्वासामनुकूतलः ।
षोडशांशे चतुर्भागं त्यक्त्वोर्ध्वे द्वादशांशकम् ॥ ६६/४१ ॥
सपद्मकुड्मलं नालमधोभागद्वयं विना ।
रुद्रांशोच्चं त्रिधा कृत्वा चोर्ध्वभागं त्यजेत् क्रमात् ॥ ६६/४२ ॥
पक्षांशं दशधा कृत्वा व्योमांशं मुकुलं भवेत् ।
विस्तारः तत्समो ज्ञेयो नालं तु वसुभागिकम् ॥ ६६/४३ ॥
मुकुलात्तु समारभ्य पक्षरेखे विवर्तयेत् ।
मणिरेखे तु विज्ञेये तयोःपृष्ठे तु सङ्गतिः ॥ ६६/४४ ॥
रुद्रांशे रुद्रभागे तु गुणांशमुपरि न्यसेत् ।
एकेन मुकुलीनालं सप्तांशमितिकीर्तितम् ॥ ६६/४५ ॥
रुद्रांशं नवधा कृत्वा चोर्ध्वे भागत्रयं त्यजेत् ।
मुकुलं चैकभागेन नालं पञ्चांशतो भवेत् ॥ ६६/४६ ॥
षोडशांशे पुनः तस्मिन्स्त्यजेदूर्ध्वं चतुष्टयम् ।
मुकुलं चैकभागेन दशांशं नालमिष्यते ॥ ६६/४७ ॥
द्वादशांशे तु पूजांशं त्यक्त्वोर्ध्वेऽशद्वयं ततः ।
एकांशं मुकुलं ज्ञेयं वस्वंशं नालमिष्यते ॥ ६६/४८ ॥
नालायाममधस्तिर्यक्कृत्वा मुकुलमूलतः ।
पार्श्वयोरुभयोः सूत्रं यथा ऋजु *?भवेद्द्विजाः ॥ ६६/४९ ॥
अधश्चोर्ध्वद्वयोः पार्श्वे चतुरश्रद्वयं तथा ।
निष्पाद्य बहिरूर्ध्वस्थं कोणे हस्तं विधाय च ॥ ६६/५० ॥
पद्मकुड्मलमारभ्य नालान्तं भ्रामयेद्बहिः ।
नालायामं तु नवधा कृत्वा चैकैकवर्धनम् ॥ ६६/५१ ॥
तस्मान्नवप्रमाणेन नवधा वर्धनं भवेत् ।
नालान्तरेऽष्टधा भक्ते भागार्धादर्धवर्धितम् ॥ ६६/५२ ॥
चतुर्मानं भवेल्लक्ष्म पक्षसूत्रान्तरे द्विजाः ।
पक्षसूत्रं च कर्तव्यं सूत्रं मुकुलमूलतः ॥ ६६/५३ ॥
कुड्मलं वा गजाक्षं वा लिङ्गाग्रं पद्मसन्निभम् ।
कदलीमुकुलाकारं शूलाग्राश्वत्थपत्रकम् ॥ ६६/५४ ॥
लोकपालायुधास्त्राग्रं शिवास्त्राग्रं तु वा भवेत् ।
सार्वदेशिकलिङ्गस्य लक्ष्मेत्थं कीर्तितं द्विजाः ॥ ६६/५५ ॥
नैतद्रत्नमये लिङ्गे न लोहेऽपि च लोहितम् ।
न बाणलिङ्गे लौहे वा नदीप्रस्रवणोद्भवे ॥ ६६/५६ ॥
स्वाकारलक्ष्मातीतेषु तेजोरत्नेषु भास्वरम् ।
रत्नजे लोहजे लक्ष्म विधेयं वा न वा भवेत् ॥ ६६/५७ ॥
रन्ध्रमध्ये भगाकारमूर्ध्वाग्रं लक्ष्मपीठकम् ।
एवं लक्ष्मलिखेद्विद्वान्गुरुर्हेमशलाकया ॥ ६६/५८ ॥
अक्षिलोहसमोपेतमस्त्रमन्त्रमनुस्मरम् ।
शिल्पशास्त्रान्तराभ्यां तु ताभ्यां वा लक्ष्म वा लिखेत् ॥ ६६/५९ ॥
तत्तस्मादेव शास्त्रेण सममेव विवर्तयेत् ।
रेखा हीनाधिका हन्याद्यजमानं सशिल्पिनम् ॥ ६६/६० ॥
राजानं राष्ट्रसहितं समं तस्माद्विवर्तयेत् ।
आचार्यो मन्त्रयोग्यस्तु स्थपतिः कर्म कारयेत् ॥ ६६/६१ ॥
शिल्पिनं तु विसृज्याथ नयेत्तत्स्थण्डिलान्तरम् ।
ताम्रके कांस्यपात्रे वा मध्वाज्याभ्यां समन्विते ॥ ६६/६२ ॥
सहेमं स्पर्शयेद्विद्वान्नेत्रमन्त्रमनुस्मरन् ।
धान्यराशिं ततो गां च सवत्सां ब्रह्मणांस्तथा ॥ ६६/६३ ॥
कन्या दानक्रमेणैव ब्रह्मभिर्दर्शयेद्गुरुः ।
प्रच्छन्नपटमानीय स्थाने स्थाने नयेच्छिवम् ॥ ६६/६४ ॥
दारुपीठे कुशोर्ध्वे वा पूर्ववत्स्थापनं भवेत् ।
तस्योत्तरे भवान्यास्तु स्थापनं तत्र वा पुनः ॥ ६६/६५ ॥
संपूज्य गन्धपुष्पाद्यैरलङ्कृस्य विशेषतः ।
देवं देवीं समारोप्य रथादावप्रमादतः ॥ ६६/६६ ॥
नानाविधैरलङ्कारैर्नयेद्वास्तुप्रदक्षिणम् ।
प्रासादं वा महाभागा विशेषः कश्चिदुच्यते ॥ ६६/६७ ॥
अर्वाक् सप्तदिनाल्लिङ्गे पिण्डिकां च विधाय च ।
प्रतिष्ठादिवसाल्लिङ्गं सन्धाप्य च शिलान्वितम् ॥ ६६/६८ ॥
पीठं संयोज्य कृत्वाष्टबन्धं सर्वां क्रियां ततः ।
कुर्यात्स्नपनमादो तु सहस्रादिषु सम्भवैः ॥ ६६/६९ ॥
संपूज्य गन्धपुष्पाद्यैः कृत्वा ग्रामप्रदक्षिणम् ।
जलाधिवासनार्थं तु स्नापयेत्पञ्चगव्यतः ॥ ६६/७० ॥ ६६/
परीक्ष्य लिङ्गं पीठं च वस्त्राद्यैः पूजयेत्ततः ।
कौतुकं बन्धयित्वा तु लिङ्गपीठे क्रमेण तु ॥ ६६/७१ ॥
लम्बकूर्चसमायुक्तं वस्त्रैराच्छाद्य सर्वतः ।
स्थण्डिलं मण्डले कृत्वा शयनं तत्र कल्पयेत् ॥ ६६/७२ ॥
तन्मध्ये विन्यसेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।
अन्यत्सर्वं समानं स्याद्गर्भाग्रे स्थण्डिलं मतम् ॥ ६६/७३ ॥
अतः प्रसङ्गमुत्सृज्य प्रकृतं वच्मि साम्प्रतम् ।
जलेऽधिवासयेद्देवं द्वित्रिरात्रं सपीठकम् ॥ ६६/७४ ॥
एकरात्रं दिवारात्रं याममात्रमथापि वा ।
नाभिमात्रोदके कृत्वा प्रपामण्डपमण्डिताम् ॥ ६६/७५ ॥
जलतीरे विधायैवं स्थण्डिलद्वितयं क्रमात् ।
भद्रपीठे समारोप्य देवं देवीं क्रमेण तु ॥ ६६/७६ ॥
आछाद्य नववस्त्रेण लम्बकूर्चसमन्वितम् ।
अभितोऽष्ट घटान् न्यस्त्वा शम्भोर्देव्याः समाहितः ॥ ६६/७७ ॥
प्रधानकूर्चवस्त्राढ्यान् हेमयुक्तान् सलोकपान् ।
जलमध्ये न्यसेत्पश्चाद्देवं देवीं घटांश्च तान् ॥ ६६/७८ ॥
शाययेत्फलकादौ तु प्राक् शिरः कोर्ध्ववक्त्रकम् ।
विसृज्य शिल्पिनं पश्चात्प्रोक्षिते यागमण्टपे ॥ ६६/७९ ॥
ब्राह्मणान् भोजयित्वा तु गोमयेनोपलेपयेत् ।
पुण्याहं वाचयित्वा तु वास्तुहोमं समाचरेत् ॥ ६६/८० ॥
पण्टपालंकृतिं कुर्यात्प्रागुक्तविधिना सह ।
कृतस्नानः शिवाचार्यः शुद्धवस्त्रोत्तरीयकः ॥ ६६/८१ ॥
सोष्णीषो धृतपञ्चाङ्गभूषणः समलंकृतः ।
मूर्तिपा भूषितास्तद्वत्किन्तूष्णीषविवर्जिताः ॥ ६६/८२ ॥
संप्राप्य यागस्थानं तु सामान्यार्घ्यकरो गुरुः ।
द्वाराण्यभ्यर्च्य पूर्वादिद्वारपालयुतानि च ॥ ६६/८३ ॥
पूर्वे नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।
वारुणे वृषभस्कन्दौ देवीचण्डौ तु साउम्यके ॥ ६६/८४ ॥
भद्रो विजयसंज्ञस्तु विजृम्भो लोहितः क्रमात् ।
तोरणे पूर्वमारभ्य द्वारे शान्त्यादिकाः कलाः ॥ ६६/८५ ॥
अभ्यर्च्य गन्धपुष्पाद्यैः सद्यद्वारेण संविशेत् ।
विशुद्धकायो मन्त्रात्मा कृतान्तर्यजनो गुरुः ॥ ६६/८६ ॥
कृतार्घ्यद्रव्यसंशुद्धिकर्महस्तात्मपूजनः ।
कृतपञ्चाङ्गभूषस्तु वास्तुपूजासमन्वितः ॥ ६६/८७ ॥
कुम्भसंस्कारयुक् क्षिप्तविकिरश्रीसपर्ययः ।
शिवकुम्भास्त्रयजनो लोकपालार्चनान्वितः ॥ ६६/८८ ॥
स्वाज्ञापनसमायुक्तः कुम्भास्त्रभ्रमणान्वितः ।
कृतकुम्भास्त्रसंपूजः तदध्येषणसंयुतः ॥ ६६/८९ ॥
कुण्डसंस्कारसंयुक्तः शिवाग्निजननान्वितः ।
जलाधिवासनस्थानादानीय परमेश्वरम् ॥ ६६/९० ॥
मण्टपे स्नपनाख्ये तु प्राग्वत्स्नपनमारभेत् ।
मृद्भिः कषायवर्गेण पञ्चगव्यफलोदकैः ॥ ६६/९१ ॥
पोष्पोदैः पत्रतोयैश्च गन्धोदैर्धातुतोयकैः ।
पञ्चामृतैः कुशोदैर्वा स्नापयेद्वृषभध्वजम् ॥ ६६/९२ ॥
एवमेव भवान्याश्च कुर्यात्स्नपनमुत्तमम् ।
आच्छाद्य वस्त्रयुग्मेन गन्धाद्यैरर्चयेत्क्रमात् ॥ ६६/९३ ॥
कृत्वा कौतुकसूत्रं तु शम्भोर्देव्याः क्रमेण तु ।
शययां च कल्पयेद्विद्वान् शालितण्डुलकादिभिः ॥ ६६/९४ ॥
अष्टद्रोणैः सशालीभिस्तदर्धैस्तण्डुलैरपि ।
तिलैः तदर्धैर्लाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ६६/९५ ॥
चर्मजं रोमजं तूर्ध्वं मुण्डजं चाण्डजं तथा ।
कार्पासजं क्रमेणैव कल्पयेदुपधानकम् ॥ ६६/९६ ॥
अलाभे पञ्चवस्त्रैस्तु मिश्रैः शययां प्रकल्पयेत् ।
सम्पूज्यासनमन्त्रैश्च शक्तिं शययाधिपां न्यसेत् ॥ ६६/९७ ॥
शिबिकादौ समारोप्य भवान्यानुगतं नयेत् ।
द्वारदेशे तु संप्राप्ते दद्यादर्घ्यं क्रमेण तु ॥ ६६/९८ ॥
आरोप्य शयने देवं प्राङ्मस्तकसमन्वितम् ।
लिङ्गस्योत्तरतो देवीं क्रियाख्यां पीठविग्रहाम् ॥ ६६/९९ ॥
लिङ्गमूले न्यसेद्देवीं नवगर्तसमन्विताम् ।
मूर्तिमूर्तीश्वरन्यासं तत्वतत्वेश्वरान्वितम् ॥ ६६/१०० ॥
ब्रह्मविष्णुहरा एव लिङ्गे तत्वत्रयाधिपाः ।
आत्मविद्याशिवाख्यं तु तत्वत्रयमितीरितम् ॥ ६६/१०१ ॥
क्ष्मावह्नियजमानार्कजलवायुनिशाकराः ।
व्योमान्ता मूर्तयश्चाष्टौ न्यस्तव्याः प्रतिखण्डकम् ॥ ६६/१०२ ॥
शर्वः पशुपतिश्चोग्रो रुद्रश्चैव भवस्तथा ।
ईशानश्च महादेवो भीमश्चेत्यष्टमूर्तिपाः ॥ ६६/१०३ ॥
पञ्चमूर्त्यात्मके न्यासे क्ष्मावारिदहनानिलाः ।
खञ्चेति मूर्तयो लिङ्गे ब्रह्माद्या मूर्तिपा मताः ॥ ६६/१०४ ॥
लिङ्गपीठे शिलानां च व्याप्तिस्तु आदितः क्रमात् ।
शिवशक्तिमनीषान्तं त्रिखण्डकल्पनं पुनः ॥ ६६/१०५ ॥
विद्याशक्तिशिवप्रान्तं मायासादेशशक्तिगम् ।
शब्दचित्तमनीषान्तं लिङ्गे पीठेऽश्मनि क्रमात् ॥ ६६/१०६ ॥
क्रिया ज्ञानं तथेच्छा च त्रितत्वाधीश्वरा मताः ।
धारिका दीप्तिमुत्युग्रा ज्योत्स्ना चेता बलोत्कटा ॥ ६६/१०७ ॥
धात्री बिभ्यतिदेव्यश्च मूर्तिपाः परिकीर्तिंताः ।
पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः ॥ ६६/१०८ ॥
वामा ज्येष्ठा क्रिया ज्ञानी चेच्छा चेति प्रकीर्तिताः ।
संपूज्य गन्धपुष्पाद्यैर्देवानध्वपतीन् क्रमात् ॥ ६६/१०९ ॥
अव्यक्तमूर्तिं ब्रह्माणि विद्यादेहं शिवं ततः ।
शिवाङ्गानि च सम्पूज्य गन्धपुष्पादिभिः क्रमात् ॥ ६६/११० ॥
आच्छाद्य नववस्त्रेण प्रतिभागं च पूजयेत् ।
वेद्यूर्ध्वे परितः कुम्भान्न्यसेद्विश्वेश्वरात्मकान् ॥ ६६/१११ ॥
निद्राकुम्भं शिरोदेशे वर्धनीमुत्तरे न्यसेत् ।
कुम्भान् वस्त्रैः समावेष्ट्य हेमपद्मसमन्वितान् ॥ ६६/११२ ॥
पिधानकूर्चसंयुक्तान् पल्लवैरुपशोभितान् ।
निवेद्य भूरिनैवेद्यं ताम्बूलाच्चं च मन्त्रवत् ॥ ६६/११३ ॥
गुरुमूर्तिधरैः सार्धं होमकर्म समारभेत् ।
मूर्तिपाः शिवशास्त्रज्ञाः पञ्चगोचरसम्भवाः ॥ ६६/११४ ॥
आचार्यारब्धतन्त्रोक्तकर्मक्रमविशारदाः ।
प्रतिष्ठामन्त्रतन्त्रज्ञाः पुत्रपौत्रादयो गुरोः ॥ ६६/११५ ॥
स्वमूर्तिरूपसामर्थ्यव्याप्तिसन्धानयोगिनः ।
चतुर्वेदद्रि?दो विप्राश्चतुर्दिक्षु व्यवस्थिताः ॥ ६६/११६ ॥
पठन्तो देवतालिङ्गमन्त्रान् सन्निधिहेतवे ।
भवन्ति मूर्तिपा नाम संस्कृताः शिवशम्बरैः ॥ ६६/११७ ॥
विदिक्षु चान्नलाजांश्च तिलान् मधुलवास्तिथा ।
यागान्तरायविध्वंसं कुर्वन्त्यमिततेजसः ॥ ६६/११८ ॥
गुरुणा चोदिता मूर्तिधारकाः शिवसंस्कृताः ।
प्रधानाग्नेः समानीय स्वानंशान् स्वायते न्यसेत् ॥ ६६/११९ ॥
समिदाज्यान्नलाजांश्च तिलान् मधुलवांस्तथा ।
पालाशोदुम्बराश्वत्थवटाः पूर्वादिदिक्षु च ॥ ६६/१२० ॥
शमीखदिरपालाशश्रीवृक्षास्त्वग्निकोणतः ।
प्रधानस्य पलाशस्तु सर्वं पालाशमेव वा ॥ ६६/१२१ ॥
समिदाज्यं च कुण्डानां स्वस्वदिक्षु यथाक्रमम् ।
सहस्रं वा तदर्द्धं वा तदर्द्धार्धमथापि वा ॥ ६६/१२२ ॥
शतमष्टोत्तरं वापि मूलेन जुहृयात्ततः ।
मूलाद्दशांशतोऽङ्गानां समं वाथ तदर्धकम् ॥ ६६/१२३ ॥
मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।
आग्नेयैशाननैरृयवायुदिक्षु यथाक्रमम् ॥ ६६/१२४ ॥
ईशानं तु प्रधाने वा नेत्रास्त्रे मध्यकुण्डके ।
सन्तर्प्य मन्त्रान् कुम्भान्ते साधयेयुरथो परम् ॥ ६६/१२५ ॥
शान्तिकुम्भस्य स्रग्वारि शान्तिसान्निध्यकारणम् ।
प्रतिभागमधस्तेन प्रोक्षणं वै हि सत्तमाः ॥ ६६/२६ ॥
संशोध्य सर्वे संहृत्य जपेयुर्निजशम्बरान् ।
दर्भस्पर्शस्ततो भागं शुद्धं संजायतेश्वरम् ॥ ६६/२७ ॥
परतत्वमुपस्थाप्यं शोधयेयुस्ततः परम् ।
मूलाणुसंहितामन्त्रैराचार्यस्य जपादिकम् ॥ ६६/२८ ॥
शतमर्धं तदर्धं वा दशसंख्यमथापि वा ।
मूर्तिमूर्तीशहोमं च तत्वतत्वेश्वरैः सह ॥ ६६/२९ ॥
केवलेन घृतेनाथ सर्वद्रव्यैः तिलैरथ ।
स्वमूर्तिरूपसामर्थ्याद्व्याप्तिसन्धानयोगिनः ॥ ६६/१३० ॥
मूर्तिपाः सर्वसन्धानयोगकृद्देशिकोत्तमाः ।
एवं संशोध्य ब्रह्मांशं विष्ण्वंशादिविशुद्धये ॥ ६६/१३१ ॥
विधाय पूर्ववत्सर्वं होमसंख्याजपादिकम् ।
कुशमूलान्तराग्रैस्तु ब्रह्मभागादिकान् क्रमात् ॥ ६६/१३२ ॥
स्पृशेयुर्मूर्तिपाः स्वीयदिक्स्थिता निजशम्बरैः ।
एवं पीठे शिलायां च होमाद्यं परिकल्पयेत् ॥ ६६/१३३ ॥
क्रियाधाराख्यशक्तिभ्यां मूर्तिंमूर्त्यधिपादिभिः ।
मनोन्मनीमनन्तं च क्रमेण परिकल्पयेत् ॥ ६६/१३४ ॥
पीठोक्तमूलमूर्तीशशिलायां परिकल्पयेत् ।
प्रायश्चित्तमघोरेण कृत्वा चाष्टोत्तरं शतम् ॥ ६६/१३५ ॥
भूतिदर्भतिलैः कृत्वा रक्षामस्त्रेण मन्त्रतः ।
बहिरन्तर्बलिं क्षिप्त्वा क्षेत्रपालबलिं क्षिपेत् ॥ ६६/१३६ ॥
अदीक्षितस्तु यः कर्ता दीक्षयेत्तमिहान्तरे ।
ततः प्रभाते विमले देशिको मूर्तिपैः सह ॥ ६६/१३७ ॥
स्नानादिनित्यं निर्वृत्य सामान्यार्ध्यकरो गुरुः ।
संपूज्य द्वारपालादीन् समुत्थाप्य महेश्वरम् ॥ ६६/१३८ ॥
देवीमुत्थाप्य मन्त्रज्ञः यजेद्गन्धादिभिः सह ।
दत्वा पूर्णाहुतिं पश्चात्प्रविशेद्भवनं प्रभोः ॥ ६६/१३९ ॥
पञ्चगव्येन संप्रोक्ष्य शिलां मध्ये तु विन्यसेत् ।
एकविंशतिभागे तु द्वारतारे तु मध्यमे ॥ ६६/१४० ॥
भागे षोढाकृते ब्रह्मसूत्रमध्यमसूत्रकम् ।
ब्रह्मवामैकभागार्धं शिवसूत्रमिति स्मृतम् ॥ ६६/१४१ ॥
शिवस्य ब्रह्मणो मध्ये हरेरिन्द्रस्य मध्यमम् ।
शिवसूत्रप्रमाणं तु सौम्यसूत्रस्य पूर्वतः ॥ ६६/१४२ ॥
न्यस्त्वा तत्सन्धिमध्ये तु विन्यसेत्कशिलां गुरुः ।
प्रणवं प्रणतिं चोक्त्वा व्यापिनीति स्थिरेति च ॥ ६६/१४३ ॥
अचलेति ध्रुवेत्युच्चैर्मायागर्भं धराक्षरम् ।
स्वाहेत्यन्तं पदं चोक्त्वा स्थैर्यं सर्वगतं स्मरन् ॥ ६६/१४४ ॥
पद्मासनं तदारूढं सावष्टम्भं निरुध्य च ।
न्यसेद्रत्नौषधी लोहधातुबीजानि पूर्ववत् ॥ ६६/१४५ ॥
कूर्मं वा वृषभं वाथ हैमं तत्र विनिक्षिपेत् ।
विलिख्य चायसेनाथ श्वभ्रं कृत्वा पटावृतम् ॥ ६६/१४६ ॥
वर्मणास्त्रेण संरक्ष्य दिगीशेभ्यो बलिं क्षिपेत् ।
समाचम्य कृतन्यासो जुहुयादसिना शतम् ॥ ६६/१४७ ॥
देवं देवीं च सम्पूज्य समारोप्य रथादिके ।
द्वारप्रदेशे दत्वार्घ्यं स्पृष्ट्वा चाथोर्ध्वशाखकम् ॥ ६६/१४८ ॥
द्वारश्वभ्रान्तरावस्थे भद्रपीठे निवेशयेत् ।
स्थिरं भवेद्यथोत्पाद्यं श्वभ्रमस्त्रेण शोधयेत् ॥ ६६/१४९ ॥
यन्त्रेण विधृतं सम्यक् लम्बेन प्रगुणीकृतम् ।
समूर्तिभृद्गुरुश्वभ्रे ततः तदवतारयेत् ॥ ६६/१५० ॥
शक्तिशक्तिमतोर्ध्यायेन्न भेदो धर्मधर्मिणोः ।
लयान्तं मन्त्रमुच्चार्य सृष्टिमार्गेण विन्यसेत् ॥ ६६/१५१ ॥
नन्द्यावर्तशिलाः पश्चाच्चतस्रो बह्निकोणतः ।
धर्मादिमन्त्रैः संयोज्य देवीमुत्सेधयेत्क्रियाम् ॥ ६६/१५२ ॥
आदौ प्रणवमुच्चार्य ह्रीङ्कारः तदनन्तरम् ।
क्रियाशक्तिपदं पश्चाच्चतुर्थ्यन्तं मनोन्मनी ॥ ६६/१५३ ॥
पिण्डिकां च समायोज्य बन्धयेदष्टबन्धनैः ।
लाक्षागुलमधूच्छिष्टगुग्गुलूनां समांशतः ॥ ६६/१५४ ॥
एतेषामपि सर्वेषां संग्राह्यं सर्जरं समम् ।
इष्टकाचूर्णभागे वा पूर्वभागसमन्विते ॥ ६६/१५५ ॥
सर्वेषां पादतः तैलं पाकश्चिक्कणवद्भवेत् ।
सिकताभिः समापूर्य चान्तरं लिङ्गपीठयोः ॥ ६६/१५६ ॥
तदूर्ध्वे विन्यसेद्बन्धं विष्णुभागावसानकम् ।
शर्करा सर्जरांशं तु समं कृत्वा तु चूर्णयेत् ॥ ६६/१५७ ॥
माहिषं नवनीतं च मर्दयेद्देशिकोत्तमः ।
वजबन्धमिति श्लाघ्यं विवरे तं प्रयोजयेत् ॥ ६६/१५८ ॥
अष्टबन्धं ततः कृत्वा जतुगुग्गुलुसर्जयुक् ।
सद्मं च स्फटिकं चैव शर्करा गुरुविन्दकम् ॥ ६६/१५९ ॥
तैलं वा चाष्टमिश्रं वा दधि वा चिक्कणं बुधः ।
एवं पीठे समायोज्य तत्र न्यासं समारभेत् ॥ ६६/१६० ॥
पुण्याहं वाचयित्वा तु लिङ्गपीठे तु शोधयेत् ।
शान्तिकुम्भस्थतोयैश्च देवेशमभिषेचयेत् ॥ ६६/१६१ ॥
शिल्प्यादिस्पर्शशान्त्यर्थं भवेदेतद्द्विजोत्तमाः ।
ईश्वरान्तानि तत्वानि तुर्यश्रे विन्यसेद्गुरुः ॥ ६६/१६२ ॥
शक्त्यन्तानि च विष्ण्वंशे शिवतत्त्वं शिवात्मके ।
त्रिषष्टिपदविन्यासं ब्राह्मे नव नव द्वयोः ॥ ६६/१६३ ॥
क्षादिकान्तानधोभागे सृष्ट्याद्यन्तांश्च मध्यमे ।
वृत्तभागे सदाकारमेवं वर्णप्रकल्पना ॥ ६६/१६४ ॥
कालाग्न्यादीश्वरान्तानि भुवनानि न्यसेद्गुरुः ।
सूक्ष्मादीन्यथ मध्ये तु विन्यसेदष्टसंख्यया ॥ ६६/१६५ ॥
निवृत्यादीनि वृत्ते स्युरेवं भुवनकल्पना ।
शक्तयादिपुरुषान्ताश्च हृदादिकवचानिमान् ॥ ६६/१६६ ॥
मन्त्रान्ब्राह्मे हरावीशशस्त्रे वृत्ते शिवं न्यसेत् ।
लोकेशास्त्रगणेशानान् ब्राह्मे विद्येश्वरान् हरौ ॥ ६६/१६७ ॥
गर्भाण्युद्वृत्तभागे तु न्यसेन्मन्त्रान्न्यसेत्क्रमात् ।
शान्त्यन्तं ब्रह्मणो भागे शान्त्यतीतं तु मध्यमे ॥ ६६/१६८ ॥
परमं निष्कलं बिन्दुं विन्यसेद्वृत्तभागके ।
आसनाणून्न्यसेत्पीठे लिङ्गमूर्तिगतान्न्यसेत् ॥ ६६/१६९ ॥
ज्ञानशक्तिं न्यसेल्लिङ्गे क्रियाख्यं पीठविग्रहे ।
मन्त्रानेतांस्तु पूर्वेद्युरधिवासे तु विन्यसेत् ॥ ६६/१७० ॥
एवं मन्त्रांस्तु विन्यस्य कुम्भन्यासं समाचरेत् ।
कुम्भान् सर्वान् समानीय वेदिकोपरि संस्थितान् ॥ ६६/१७१ ॥
सर्वमंगलसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ।
स्थण्डिले त्वग्रकॢप्ते तु पूर्ववद्विनिवेशयेत् ॥ ६६/१७२ ॥
कुम्भाद्बीजं समादाय लिङ्गमूर्धनि विन्यसेत् ।
गुरूपदिष्टकन्दादेर्मन्त्रमुच्चारयेच्छैनः ॥ ६६/१७३ ॥
नादशक्तिमयं सूक्ष्मं घण्टानादविसर्पिणम् ।
कारणत्यागयोगेन ब्रह्मरन्ध्राद्विनिर्गतम् ॥ ६६/१७४ ॥
दिवाकरसहस्राभं विद्युत्सङ्घसमप्रभम् ।
स्फुरद्रत्नवितानेन प्रदीपितदिगम्बरम् ॥ ६६/१७५ ॥
मन्त्रेण मनसा भिन्नं प्राप्तानन्दरसोदयम् ।
सृष्टिमार्गप्रवृत्यन्तमिन्दुसन्ततिसन्निभम् ॥ ६६/१७६ ॥
तेजोबिम्बं ललाटस्थं घण्टिकाद्वारमानयेत् ।
सुषुम्नानिर्गतं ध्यात्वा स्फुरत्तारकसर्पिणम् ॥ ६६/१७७ ॥
विशन्तं ब्रह्मरन्ध्रेण सकलौ व्यापकौ न्यसेत् ।
एवं सर्वत्र सान्निध्यं जीवन्यासेन कारयेत् ॥ ६६/१७८ ॥
अनैनेव प्रकारेण पीठे शक्तिं च विन्यसेत् ।
जलेन कुम्भवर्धन्योः स्नापयेल्लिङ्गपिण्डिके ॥ ६६/१७९ ॥
विद्येश्वरघटस्थाणून् पीठे पूर्वादितो न्यसेत् ।
तत्तत्कुम्भस्थतोयेन स्नापयेत्परमेश्वरम् ॥ ६६/१८० ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
तावदत्र त्वया देव स्थातव्यमिह सन्निधौ ॥ ६६/१८१ ॥
संप्राप्तप्रार्थनोऽत्रैव देव्याश्चैवं समाचरेत् ।
प्रतिष्ठादिवसे ब्रह्मशिलासंस्थापनं तु वा ॥ ६६/१८२ ॥
तां पूर्वं स्थापयित्वा तु धाम्नि कृत्वा स्थलान्वितम् ।
लिङ्गस्थानं च कल्पोक्तं सर्वं वापि समाचरेत् ॥ ६६/१८३ ॥
धाम्नः संस्थापनात्पूर्वं लिङ्गस्य स्थापनं नयेत् ।
विधानमेतत्सामान्यं बाणादौ तु शिलामये ॥ ६६/१८४ ॥
आचार्यो मूर्तिपैः सार्धं निःसृत्य भवनात् प्रभोः ।
यजमानेन संकॢप्तां गृह्णीयाद्दक्षिणां गुरुः ॥ ६६/१८५ ॥
स्याच्चतुर्विधा शास्त्रे श्रेष्ठा मध्याधमापरा ।
षष्टिनिष्कं समारभ्य पञ्चनिष्काः क्रमेण तु ॥ ६६/१८६ ॥
काञ्चनस्य गुरोः पञ्चनिष्कान्ता दक्षिणा मताः ।
गोभूहिरण्यसद्वेश्मवाहनाच्छादनादिकम् ॥ ६६/१८७ ॥
दासीदासादिकं सर्वं गुरवे सन्निवेदयेत् ।
लम्बस्थानोक्तमार्गेण चान्येषां दक्षिणा भवेत् ॥ ६६/१८८ ॥
गृहीतदक्षिणस्तुष्टः प्रतिष्ठापुण्यमर्थिने ।
यजमानाय सन्दद्यात्सोदकं पुष्पसंयुतम् ॥ ६६/१८९ ॥
चन्दनाक्षतसंयुक्तं सकुशं दक्षिणे करे ।
तेजोबिम्बनिभं ध्यात्वा कर्तुर्दक्षकरे गुरुः ॥ ६६/१९० ॥
एककालं द्विकालं वा त्रिकालं त्रिदिनं गुरुः ।
दिनद्वयमथैकं वा जुहुयान्मूर्तिपैः सह ॥ ६६/१९१ ॥
केवलो वा गुरुः कुर्याच्छिवब्रह्माङ्गशम्बरैः ।
शतं सहस्रमर्धं वा तथा स्याच्छक्तिमन्त्रतः ॥ ६६/१९२ ॥
संसाध्य स्नापयेत्तेन चतुर्थे दिवसे पुनः ।
संस्नाप्य देवं देवीं च स्नपनोक्तक्रमेण तु ॥ ६६/१९३ ॥
प्रभूतहविषं दत्वा नानासूपादिसंयुतम् ।
समिदाज्यान्नसंयुक्तं पूर्ववद्धोममाचरेत् ॥ ६६/१९४ ॥
शिवलिङ्गप्रतिष्ठैषा प्रोक्ता सामान्यरूपिणी ।
अस्या विकृतिरूपा तु प्रैष्ठान्या समीरिता ॥ ६६/१९५ ॥
एवं यः कारयेन्मर्त्यः कुरुते वा नरोत्तमः ।
भुक्त्वा तु विपुलान् भोगान् देहान्ते मोक्षमाप्नुयात् ॥ ६६/१९६ ॥
॥ इति कामिकाख्ये महातन्त्रे लिङ्गस्थापनविधिर्नाम चतुः षष्टितमः पटलः ॥
</poem>
== प्रतिमालक्षणविधिपटलः ==
<poem>
प्रतिमालक्षणं वक्ष्ये श्रूयतां मुनिसत्तमाः ।
लिङ्गतारोच्चनाहैर्वा तैश्च द्वित्रिगुणैस्तु वा ॥ ६७/१ ॥
अङ्गुलैस्त्रिविधैर्वापि मानमात्रतनूद्भवैः ।
प्रासादगर्भद्वाराभ्यां पादाधिष्ठानमानतः ॥ ६७/२ ॥
यवेन हस्तमानेन प्रतिमोच्चं विधीयते ।
अङ्गुलत्रितयं हस्तं यवमानं विहाय च ॥ ६७/३ ॥
शेषमानसमानं वा षोडशांशे कृतेऽथवा ।
तन्मध्ये च विकारांशे त्रिभागादेकवृद्धितः ॥ ६७/४ ॥
रुद्रान्तं वाधिकं हीनं पूर्वमानात्प्रकल्पयेत् ।
पूजांशो लिङ्गशब्देन कथितो द्विजसत्तमाः ॥ ६७/५ ॥
अङ्गुलत्रयमारभ्य मात्राद्वयविवर्धनात् ।
पञ्चविंशतिसंयुक्तशतमात्रान्तमीरितम् ॥ ६७/६ ॥
यवसप्तकमारभ्य यवद्वयविवर्धनात् ।
सहस्रयवपर्यन्तं यवमानं प्रकीर्तितम् ॥ ६७/७ ॥
मत्रांगुलैर्गृहाच्चाः स्युर्यवैः क्षुद्रं विधीयते ।
अष्टषष्ट्यर्कपङ्त्यूर्ध्वे वेदद्वियुगषड्विधम् ॥ ६७/८ ॥
भागं कृत्वैकभागेन युक्तं जात्यङ्गकान्वितम् ।
वसुभिर्गुणिते तस्मिन् सप्तविंशतिभिर्हृते ॥ ६७/९ ॥
ब्राह्मणादिदिनं प्रोक्तं तेषामेतच्छुभावहम् ।
त्रिष्वङ्गुलप्रमाणेषु जात्यंशकं न रोपयेत् ॥ ६७/१० ॥
शुभमानं न युक्तं चेद्राजग्रामादिवास्तुषु ।
उत्सेधं पङ्क्तिपङ्त्यादि भजेत्पञ्चषडंशकम् ॥ ६७/११ ॥
व्योमभागः सदा योज्यो यावानस्य शुभोदयः ।
आयांशश्चैव नेष्टः स्त्यात्त्रिविधेष्वङ्गुलेषु च ॥ ६७/१२ ॥
यवमानेऽपि जात्यंशमायांशं नैव रोपयेत् ।
वसुभिर्गुणितेष्वर्कहृते वायं विनिर्दिशेत् ॥ ६७/१३ ॥
अष्टपञ्चदिनं प्रोक्तं पञ्चविंशतिभिर्हृतम् ।
नवभिर्गुणिते सप्तहृते वारं तु निर्दिशेत् ॥ ६७/१४ ॥
नन्दसंगुणिते दिग्भिर्भाजिते व्ययमादिशेत् ।
गुणघ्ने वसुभिन्ने तु योनिरित्यभिधीयते ॥ ६७/१५ ॥
वेदसंगुणिते नन्दहृते त्वंशक इष्यते ।
द्वयोरृक्षफलं प्रोक्तं राशिरंशश्च ऋक्षतः ॥ ६७/१६ ॥
त्रिंशद्भिन्ने तिथिः प्रोक्ता योगो वारक्षयो भवेत् ।
जात्यंशयोजिते वैभिर्युक्तं चेत् तत्प्रगृह्यताम् ॥ ६७/१७ ॥
नो चेदायांशयुक्ते तु सशुभं तु समारभेत् ।
गृहीतप्रतिमोत्तुङ्गमानमात्रेण वा भवेत् ॥ ६७/१८ ॥
शैलं वार्क्षं च लोहं च मृण्मयं रत्नजं भवेत् ।
धातुजं दन्तजं बेरमेवं सप्तविधं भवेत् ॥ ६७/१९ ॥
मुहूर्ते समनुप्राप्ते गृहीतायाममानतः ।
प्रतिमां कारयेद्विद्वाञ्च्छिल्पिना हृदयं जपेत् ॥ ६७/२० ॥
बिम्बं संपूजयेत्पश्चाद्गन्धपुष्पादिभिर्हृदा ।
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ॥ ६७/२१ ॥
तथैव पूजयेत्पश्चाच्छास्त्रज्ञं शिल्पिवित्तमम् ।
सदाशिवाद्यं बेरं तु दशतालोत्तमेन तु ॥ ६७/२२ ॥
आदौ सदाशिवः प्रोक्तः नृत्तमूर्तिंरतः परम् ।
उमोमास्कन्दसहितः स्थितः स्यादिन्दुशेखरः ॥ ६७/२३ ॥
त्रिपुरघ्नः ततः प्रोक्तो लिङ्गोद्भूतस्त्वनन्तरम् ।
ततः स्याद्दक्षिणामूर्तिर्गेयमूर्तिरतः परम् ॥ ६७/२४ ॥
चण्डेशाधिपतिः पश्चात्कालकामादिनाशकः ।
सुखासनः ततः प्रोक्तः ततः कल्याणसुन्दरः ॥ ६७/२५ ॥
उमाविष्ण्वर्धरूपं च ब्रह्मविष्णुसमन्वितः ।
वृषारूढः ततः प्रोक्तः गंगायुगपरस्तथा ॥ ६७/२६ ॥
ततः कङ्कालमूर्तिः स्याद्बलिभर्ता त्वनन्तरम् ।
नन्दीश्वरप्रसादश्च ऊर्ध्वपादसमन्वितः ॥ ६७/२७ ॥
एवमादीनि चान्यानि प्रोक्ततालेन कारयेत् ।
मनोन्मनीं च गौरी च विघ्नेशस्कन्दनन्दिनः ॥ ६७/२८ ॥
चण्डेश्वरं तथा मध्यदशतालेन कारयेत् ।
ब्रह्माणं च हरिं लक्ष्मीं मोटीं वागीश्वरीमपि ॥ ६७/२९ ॥
दुर्गार्कसप्तमातृश्च दशतालाधमेन तु ।
ज्येष्ठासवितृ-ऋक्षेन्द्रानश्विनीं च महीं ऋषीन् ॥ ६७/३० ॥
ज्येष्ठेन नवतालेन कुर्याक्षेत्रेश्वरं त्विति ।
लोकपालान् वसूनष्टौ मूर्तीर्मध्येन कारयेत् ॥ ६७/३१ ॥
यक्षानप्सरसो मध्याञ्छस्त्रमूर्तिमरुद्गणान् ।
विद्याधरान् कनिष्ठेन नवतालेन कारयेत् ॥ ६७/३२ ॥
राक्षसान् यातुधानांश्च गन्धर्वान् सिद्धचारणान् ।
असुरांश्च पितॄंश्चैव तथैव हि समाचरेत् ॥ ६७/३३ ॥
अष्टतालेन मनुजान् पिशाचान् सप्ततालतः ।
कुब्जकान् रसतालेन शरतालोत्तमेन तु ॥ ६७/३४ ॥
विघ्नेशं कारयेत्तस्य मध्यमेनाधमेन वा ।
भूतान्तराणि कार्याणि चतुः तालेन सालकान् ॥ ६७/३५ ॥
किन्नरान् पुरुषानन्यात् त्रितालेन द्वितालतः ।
कबन्धानेकतालेन द्विभागेनैवमाचरेत् ॥ ६७/३६ ॥
सर्वानेतांश्च वा कुर्याच्चतुर्भागाष्टतालतः ।
मानं प्रोक्तोपचाराद्यं लम्बाद्यं केवलं तु तत् ॥ ६७/३७ ॥
आयान्तरप्रदेशाच्च द्व्यन्तनानान्तलम्बनैः ।
भिन्नानि तानि मानानि तेषां लक्षणमुच्यते ॥ ६७/३८ ॥
तेष्वेकांशस्तु मात्रः स्यात्पूर्ववद्भाजितेष्वथ ।
कलाकोलकभागाख्यं स्याद्द्वित्रिचतुरङ्गुलम् ॥ ६७/३९ ॥
मानहीने महाव्याधिरधिके शत्रुवर्धनम् ।
नाहहीने विनाशः स्यादधिके च क्षयाय च ॥ ६७/४० ॥
प्रमाणहीने दारिद्र्यमधिके दारनाशनम् ।
लम्बमानविहीने तु राजराष्ट्रस्य नाशकृत् ॥ ६७/४१ ॥
उपमानबिहीने तु शिल्पिनं हन्ति देशिकम् ।
सर्वलक्षणसंयुक्तमेतत्सर्वप्रदायकम् ॥ ६७/४२ ॥
उष्णीषमङ्गुलं ज्ञेयं केशान्तं त्र्यङ्गुलं भवेत् ।
सार्धत्रयोदशं मात्रं मुखमात्रं विधीयते ॥ ६७/४३ ॥
केशान्ताअदक्षिसूत्रान्तो भागो वेदयबाधिकः ।
अक्षिसूत्रात्पुटान्तं च तत्समं परिकीर्तितम् ॥ ६७/४४ ॥
तत्पुटार्धात्तु पर्यन्तो भागो वेदयबाधिकः ।
गलमर्धाङ्गुलं ज्ञेयं कर्णो भागसमुच्छ्रयः ॥ ६७/४५ ॥
हिक्कादिहृदयान्तं च सार्धविश्वाङ्गुलं मतम् ।
हृदयान्नाभिपर्यन्तं तत्समं चेति कीर्तितम् ॥ ६७/४६ ॥
नाभ्यादिमेढ्रपर्यन्तं विश्वामित्रमिति स्मृतम् ।
मेढ्रमूलात्तु जान्वन्तं सप्तविंशतिमात्रकम् ॥ ६७/४७ ॥
वेदमात्रं तु जानुः स्याज्जङ्घे चोरुसमे मते ।
तालोत्सेधस्तु भागः स्यात्कायमानमिति स्मृतम् ॥ ६७/४८ ॥
दशतालोत्तमं ह्येतत्तस्या मध्यममुच्यते ।
उष्णीषात्केशपर्यन्तं चतुर्मात्रमिति स्मृतम् ॥ ६७/४९ ॥
केशान्ताद्धनुपर्यन्तं विश्वामित्रमिति स्मृतम् ।
ग्रीवा वेदाङ्गुलाः प्रोक्ता ग्रीवायास्तु स्तनान्तरम् ॥ ६७/५० ॥
विश्वामित्रमिति ज्ञेयं नाभ्यन्तं तत्समं भवेत् ।
नामेस्तु मेढ्रपर्यन्तं विश्वामित्रमिति स्मृतम् ॥ ६७/५१ ॥
तद्द्वयं चोरुमानं स्याज्जानुपर्यन्तमेव हि ।
भागेन जानुमानं स्याज्जङ्घे ऊरुसमे मते ॥ ६७/५२ ॥
तालोत्सेधस्तु भागः स्यान्मध्यमे दशतालके ।
उष्णीषमङ्गुलं प्रोक्तं केशान्तं त्र्यङ्गुलं भवेत् ॥ ६७/५३ ॥
केशान्ताद्धनुपर्यन्तं सार्धद्वादशकं मतम् ।
गलमर्धाङ्गुलं ज्ञेयं भागः कण्ठे समुच्छ्रयः ॥ ६७/५४ ॥
हिक्कासूत्रात् स्तनान्तं तु सार्धद्वादशमात्रकम् ।
स्तनान्तान्नाभिपर्यन्तं तत्समं चेति कीर्तितम् ॥ ६७/५५ ॥
नाभेस्तु मूलमेढ्रान्तमर्धोनद्वादशाङ्गुलम् ।
पञ्चविंशतिमात्रस्तु तस्मात्पूर्वाग्रकावधि ॥ ६७/५६ ॥
जानुमानं तु भागेन जङ्घे चोरुसमे मते ।
भागेन तलदैर्घ्यं स्यान्मानमेवं प्रकीर्तितम् ॥ ६७/५७ ॥
दशतालाधमं प्रोक्तं दशतालं त्रिधोदितम् ।
ज्येष्ठस्य नवतालस्य तालं द्वादशमात्रकम् ॥ ६७/५८ ॥
वेदाङ्गुलेन भागः स्यादन्यत्सर्वं समानकम् ।
वेदभागाष्टतालैश्च कुर्याल्लक्षणमुच्यते ॥ ६७/५९ ॥
मुखाष्टकं चतुर्भागं सर्वतालं प्रयोजयेत् ।
अष्टाविंशतिभागं तु बेरमानं विभाजयेत् ॥ ६७/६० ॥
भाग एकांश इत्युक्तस्त्रिभागः ताल उच्यते ।
उष्णीषकर्णजान्वङ्घ्रिगृहीतवदनायतम् ॥ ६७/६१ ॥
द्वादशांशं विभज्यैव तेन मानेन कारयेत् ।
सर्वेषामपि देवानां सनातनमिति स्मृतम् ॥ ६७/६२ ॥
दशतालादितालानां मानमद्योच्यते द्विजाः ।
स्यात्त्रयाङ्गुलमुष्णीषं केशान्तं त्रयङ्गुलं तथा ॥ ६७/६३ ॥
भागः स्यान्नेत्रसूत्रान्तं सांशवेदांशकं पदम् ।
अर्धेन त्रिचतुर्भागं हनुभूतं प्रकीर्तितम् ॥ ६७/६४ ॥
गलमर्धांशकं सार्धं त्रिमात्रं कर्णमीरितम् ।
हृन्नाभिमेढ्रपर्यन्तं द्वादशांगुलमुच्यते ॥ ६७/६५ ॥
मुखजानुक्रमान्तं च जानुमानं च भागभाक् ।
जङ्घे द्विगुणितायामे तालोच्चं भागतो भवेत् ॥ ६७/६६ ॥
शिरोव्यासे दशांशः स्यान्मुखव्यासः तथैव च ।
पुरोगमः स्यादष्टांशः अष्टांश कन्धरो भवेत् ॥ ६७/६७ ॥
भ्रुवौ विधेये वेदांशैः स्निग्धश्लक्ष्णाञ्जनप्रभे ।
धन्वाकारे तु तन्मध्ये भ्रूमध्याद्द्व्यंशकं मतम् ॥ ६७/६८ ॥
श्रोत्रचूल्यन्तमानं तच्छ्रोत्रस्याष्टान्तरामुखे ।
मध्यांशमपि चूल्येका भाग अर्धांशतो भवेत् ॥ ६७/६९ ॥
अर्धपादांशविस्तारघनो नालमुखेषु च ।
चतुर्भागान्वितावेकांशाधिकौ कुण्डलान्वितौ ॥ ६७/७० ॥
श्रोत्रचूल्यर्धभागैकव्यासनिर्गमनानती ।
तावपि श्रोत्रावन्तं च निम्नगं बहिरुन्नतम् ॥ ६७/७१ ॥
द्विभागविस्तृतौ कर्णावर्तिः शुक्त्याकृतिः पुटम् ।
द्विभागायतमेकांशं व्यासमध्यं तु लोचनम् ॥ ६७/७२ ॥
सायामं त्र्यंशकं मध्ये भागैकं कृष्णमण्डलम् ।
तन्मध्ये तस्य पञ्चांशं ज्योतिर्दृष्टिः तदर्धतः ॥ ६७/७३ ॥
तेन तुल्ये विधातव्ये पक्षयोः शुक्लमण्डले ।
मानाधिकेऽष्टभागार्धव्यासायामे कनीनिके ॥ ६७/७४ ॥
नेत्रयोर्लोर्हितश्वेतमण्डलं शफराकृति ।
उर्ध्वान्तः पक्ष्मविस्तारः पादाङ्गुष्ठार्ध एव हि ॥ ६७/७५ ॥
शतानि पक्ष्मरोमाणि षट्पदांजनभानि च ।
सुलोचनमनिद्रं स्यात्कर्मणे सर्वदेहिनाम् ॥ ६७/७६ ॥
प्रशान्तमृदुनेत्रस्य व्यासादष्टार्धहीनके ।
रूक्षेक्षणे विधातव्ये अष्टांशार्धाधिके मते ॥ ६७/७७ ॥
नेत्रान्ताच्छ्रोत्रबन्धान्तं पञ्चांशमिति कीर्तितम् ।
नेत्रयोरन्तरं द्व्यंशं किञ्चिन्न्यूनं तु वा भवेत् ॥ ६७/७८ ॥
भ्रूरष्टांशोन्नता पादविस्तारं मध्यमं मतम् ।
पादेन प्रान्तसंयुक्ता विधेया स्याद्द्विजोत्तमाः ॥ ६७/७९ ॥
अर्धैकविंशविस्तीर्णा मूलमध्याग्रनासिका ।
तावदुच्चस्तदाकारः तिलपुष्पसमो भवेत् ॥ ६७/८० ॥
भागं पुटद्वयायामं व्यासे वंशस्य विस्तरम् ।
पुटवत्पादभागार्धमधिकोन्नतिसंयुता ॥ ६७/८१ ॥
पुटौ निष्पावतुल्यौ स्याच्छ्रोत्रसार्धार्ध एव हि ।
ऋजुतिर्यक्त्रिपादोनमिष्टांशेन विशालयुक् ॥ ६७/८२ ॥
पुष्करं चोर्ध्वनासांशव्यासोऽष्टांशोऽपि च त्रिधा ।
नासान्तांशं नताग्रं स्यात्पुटे तु विपुले तथा ॥ ६७/८३ ॥
पादार्धांशविशालोच्चा गोजिराच्च नतोन्नता ।
चतुरंशायततया नीव्रमंशं समालिकम् ॥ ६७/८४ ॥
त्रिभागोत्तरवाली स्यात्पादाष्टांशेन चोष्ठयोः ।
अधरोष्ठाय तद्द्व्यंशमायामात्तु विशालकम् ॥ ६७/८५ ॥
विशालाच्चतुरंशेन तुङ्गमध्ये नतान्तिकम् ।
हनुचक्रं द्विभागं स्याद्धन्वग्रं किञ्चिदुन्नतम् ॥ ६७/८६ ॥
अधरोष्ठादधो निम्नं तन्मिथ प्रेक्ष्य योजयेत् ।
अष्टांशं कर्णविस्तारं पञ्चपञ्चांशनासियुक् ॥ ६७/८७ ॥
गलं हनुश्च ग्रीवांशस्तथा द्व्यंशः प्रवेशभाक् ।
पृष्ठकेशावधिर्मूर्ध्नो मुखं स्याच्चतुरङ्गुलम् ॥ ६७/८८ ॥
ग्रीवा द्विभागा यत्रैव कर्णवृत्तिः तथाधिका ।
अष्टांशविस्तरः पृष्ठे कर्णवृत्यन्तरे शिरः ॥ ६७/८९ ॥
केशसीमपुरोगान्तात्कर्णचूल्यन्तमानकम् ।
केशान्तं नाहषट्पञ्चभागोऽष्टांशेन नाहकम् ॥ ६७/९० ॥
कपोलशंखपर्यन्तं सोत्क्षेपं सम्मतं बुधाः ।
स्कन्धो गलसमोच्चः स्यान्मूलं योर्?मूलसंक्षयम् ॥ ६७/९१ ॥
अष्टांशो मूलदोस्तारः पक्षः कक्षान्तरं ततः ।
विंशत्यंशत्रिभागोना स्तनपार्श्वावधेः स्थितिः ॥ ६७/९२ ॥
मध्यं तस्माद्विभागोनः तस्माद्द्व्यंशाधिकानतिः ।
श्रोणी कटी तथा तस्मादेकैकं चतुरंशकम् ॥ ६७/९३ ॥
नाभिरर्धांशविस्तीर्णा गम्भीरोदरतोन्नता ।
सम्पूर्णगोमुखाकारं पादाग्रान्तं मुखे मुखे ॥ ६७/९४ ॥
चतुरंशः ततो ग्रीवा सीम्नोऽथोन्नतिरागलात् ।
हिक्काः तनाग्रकस्तस्थोनान्ताल्पः स(म)खण्डनः ॥ ६७/९५ ॥
द्विभागं स्यात्स्तनान्तं स्यात् चूचुकः पादभागभाक् ।
तिर्यक्कर्णधरः पृष्ठे द्वादशद्विगुणांशकः ॥ ६७/९६ ॥
पुरस्तनोरः तुल्यं स्यात्सूत्रं तत्क्षयितं नवेत् ।
विंशातिः कटिसंधौ स्यात्ककुद्दोषोस्त्रिरष्ट च ॥ ६७/९७ ॥
कण्ठो द्वादशभागस्तु पृष्ठस्तु चतुरंशतः ।
श्रोणिः कटिश्च मध्यं च मुखे तिर्यङ्मुखेऽपि च ॥ ६७/९८ ॥
पञ्चद्व्यंशायतव्यासो मेढ्रमुष्के विशालता ।
आनतिश्चतुरंशा तु लिङ्गं वृत्तमृजु स्थिरम् ॥ ६७/९९ ॥
स्फिक्पिण्डं चोरुमूलेऽष्टभागो वृत्तस्त्रिभागकः ।
उत्तुङ्गमूरुमूलं तु मूलमध्याग्रविस्तरः ॥ ६७/१०० ॥
स्याद्द्वादशांशश्चाष्टांशस्तावाञ्जान्वग्रविस्तरः ।
चतुः षट्तारदैर्घ्यं तु जानु स्याद्दैर्घ्यवर्तुलम् ॥ ६७/१०१ ॥
जङ्घा षडंशा नलका चतुरंशविशालभाक् ।
पार्ष्णिर्मध्यग्रतलगा चतुष्पञ्चषडंशकैः ॥ ६७/१०२ ॥
तिथिर्मध्यतलोत्सेधः पञ्चांशः पार्ष्णिरुछ्रयः ।
चतुरंशाक्षगुल्फे च द्व्यंशसार्धांशमण्डले ॥ ६७/१०३ ॥
नलकापार्श्वमध्यं तु मध्यं स्यादक्षगुल्फयोः ।
पार्ष्णिपृष्ठे सुवृत्तान्तं पार्ष्ण्यंङ्गुष्ठाग्रमायतम् ॥ ६७/१०४ ॥
तस्य षोडशकांशं तु द्विसप्तांशमिति स्मृतम् ।
पार्ष्णिसीमात्कनिष्ठान्तं चतुरंशेन विस्तरः ॥ ६७/१०५ ॥
पार्ष्णिरक्षादधस्तुङ्गं चतुरंशान्तरं भवेत् ।
चतुरंशायतोऽङ्गुष्ठस्तत्तारे चेद्द्विभागके ॥ ६७/१०६ ॥
पादाधिकचतुर्भागदीर्घो नाहस्तु त्र्यंशकः ।
द्वितीयस्य तृतीयं स्याद् द्वयवेदोननाहयुक् ॥ ६७/१०७ ॥
पादोनचतुरंशान्तायामा वा स्यादनामिका ।
त्र्यंशायामाष्टभागेन भागोच्चविपुलान्विता ॥ ६७/१०८ ॥
६७/दव्यंशायामा त्रिपादोच्चव्यासोपेता कनीयसी ।
एतासामङ्गुलानां तु नखः स्वाग्रत्रिपादभाक् ॥ ६७/१०९ ॥
आरक्तस्निग्धतुङ्गास्तु अङ्गुल्यस्ताः सुवर्तुलाः ।
अष्टभागाधिकायामस्त्वङ्गुष्ठस्तु द्वितीयकः ॥ ६७/११० ॥
भुजायामो द्विक्दनो मुखार्धं मुखमिष्यते ।
प्रकोष्ठमणिबन्धान्ततलायामः षडंशत.ः ॥ ६७/१११ ॥
मध्याङ्गुलायतं तावत्षट्पञ्चत्र्यंशविस्तरः ।
भागः स्यात्कूर्परः तस्मान्मणिबन्धावसानकम् ॥ ६७/११२ ॥
तलमूलस्य बाहुल्यं द्विभागं भागमग्रतः ।
चतुस्त्रिंशायतव्यासः त्वन्तं निम्नं समीरितम् ॥ ६७/११३ ॥
अङ्गुष्ठाङ्गुलमूलं तु तन्नाम्नोक्तः शुक्रोदरः ।
पञ्चांशः तलविस्तारः तलमानिम्नमध्यगम् ॥ ६७/११४ ॥
सान्तोच्चं सममेवं हि विधातव्यं बहिः तलम् ।
सपादांशश्चतुर्भागः त्वङ्गुष्ठविपुलायतिः ॥ ६७/११५ ॥
अग्रे दशांशहीनं तु पर्वायामो द्विभागभाक् ।
तर्जन्यष्टांशहीनांशव्यासाष्टांशाग्रहीनकाः ॥ ६७/११६ ॥
पञ्चांशार्धायतान्योन्यहीनाः पर्वत्रयान्विताः ।
षडंशैकांशकायामव्यासा मध्याङ्गुली मता ॥ ६७/११७ ॥
तर्जन्यानामिका तुल्या तदेकोना कनिष्ठिका ।
तद्दशांशोनविस्तारा पर्वत्रयसमन्विता ॥ ६७/११८ ॥
अग्रव्यासो दशांशोनः त्वङ्गुलीमूलविस्तरात् ।
त्रित्रिपादद्विभागैस्तु चतुर्भागविभागिका ॥ ६७/११९ ॥
अङ्गुलीनखविस्तारो दैर्घ्यं चैव प्रकीर्तितम् ।
अग्रपर्वाङ्गुलीनां तु द्विगुणं स्यान्नखायतम् ॥ ६७/१२० ॥
बहिरन्तःस्थलं तुङ्गं निम्नं तु बहिरङ्गुली ।
अभ्यन्तरगताङ्गुल्या भागाधिक्यायता मता ॥ ६७/१२१ ॥
रक्तपाणितलं व्यक्ताविच्छिन्नारक्तरेखकम् ।
शङ्खचक्रगदाशूलपद्मवज्रसमन्वितम् ॥ ६७/१२२ ॥
सुवृत्तासीररोमाङ्गौ भुजावाजानुलम्बिनौ ।
आलम्बितभुजच्छायमूरुपाणितलान्तरम् ॥ ६७/१२३ ॥
स्याद्द्वादशदशाष्टांशो बाह्यः स्यात्पार्श्वमध्यतः ।
उष्णीषतपनीगोजीग्रीवोरुनाभिमध्यगम् ॥ ६७/१२४ ॥
लिङ्गपादतलान्तस्थं ब्रह्मसूत्रं पुरोगतम् ।
यदुष्णीषकक्रुद्वंशखण्डस्फिक्पार्ष्णिमध्यगम् ॥ ६७/१२५ ॥
ऋजु स्थिरं परावृत्तं ब्रह्मसूत्रं विनिर्दिशेत् ।
मूर्ध्नः श्रवणपाल्यन्तं गुल्पग्रीवांसमध्यगम् ॥ ६७/१२६ ॥
पार्श्वस्फिक्यजसूत्रं स्यादन्तर्देहगतं द्विजाः ।
पार्श्वाजसूत्रादधिका चतुष्पञ्चांशका ककुद् ॥ ६७/१२७ ॥
सूत्रत्त्रिभागः पञ्चाशात्स्याद्बाहुश्च बहिर्बहिः ।
दशभागं कटीसूत्रं मुखे पृष्ठषडङ्गकम् ॥ ६७/१२८ ॥
सूत्रात्पूर्वोरुमूलान्ताद्दशान्ताद्द्व्यंशकं बहिः ।
जानुत्रिचतुरंशं तु पार्श्वसूत्रं मुखे मुखे ॥ ६७/१२९ ॥
सूत्रात्तु नलकागुल्फं स्वमित्योभयथा समम् ।
सूत्रात्पञ्चांशकात्पर्ष्णिरेवं पार्श्वं प्रकीर्तितम् ॥ ६७/१३० ॥
मूलोरुजानुजङ्घान्तरेकद्विचतुरंशकम् ।
मुखं स्यान्नलकाबाह्यादन्तरं चतुरंशकम् ॥ ६७/१३१ ॥
एवमृज्वागतं विश्वदृश्यं चित्रमिति स्मृतम् ।
भित्त्याश्लिष्टं ह्यर्धचित्रं दृष्टचित्रमिति स्मृतम् ॥ ६७/१३२ ॥
आभासं भित्तिलेख्यं स्यादेतत्सामान्यमीरितम् ।
स्त्रीमानमधुना वक्ष्ये षण्णवत्यङ्गुलं तु तत् ॥ ६७/१३३ ॥
उष्णीषात्केशपर्यन्तं कोलकं सचतुर्यवम् ।
त्रिमात्राष्टयवं व्यासोत्सेधमुष्णीषमानकम् ॥ ६७/१३४ ॥
तस्माद्दृक्पुटहन्वन्तं चतुस्त्रिद्व्यर्धमात्रकम् ।
ग्रीवा त्रिमात्रा स्याद्वक्षः सार्धषट्पञ्चमात्रकम् ॥ ६७/१३५ ॥
सार्धैर्दशाङ्गुलैर्मध्यं नाभेर्योनिर्दशाङ्गुला ।
स्यादूरुजानुजङ्घाङ्घ्रितलानुच्चैरनुक्रमात् ॥ ६७/१३६ ॥
द्वाविंशतित्रयोविंशमात्राभिः स्थितिरीरिता ।
मूर्ध्नो नवदशाङ्गुल्यं केशसीमा मुखे मुखे ॥ ६७/१३७ ॥
नवविंशतिमात्रेण नाहं केशावसानकम् ।
ललाटं शरमात्रं तु मध्ये ख्यातं पुरोगतम् ॥ ६७/१३८ ॥
दृक्सूत्राच्छ्रोत्रतुङ्गं तु भ्रूमध्ये द्व्यङ्गुलं भवेत् ।
भ्रूमध्यं यवतारोच्चं दैर्घ्यं स्यात् तत्त्रिमात्रकम् ॥ ६७/१३९ ॥
अन्तयोः क्रमशो हीनं भ्रुवोरानतिरन्तरम् ।
अङ्गुलेन समं स्निग्धश्लक्ष्णरोमधनुः समम् ॥ ६७/१४० ॥
यवहीनकलायामे मध्ये षोडशविस्तरे ।
नेत्रे पञ्चयवव्यासं तन्मध्ये कृष्णमण्डलम् ॥ ६७/१४१ ॥
चतुरर्धयवव्यासे तद्द्वयोः श्वेतमण्डले ।
कनीनिके द्वयान्तस्थे यवतारान्वितायते ॥ ६७/१४२ ॥
यवं चार्धयवं ज्योतिर्दृष्टिः कृष्णांशमध्यगा ।
ऊर्ध्वाधःपक्ष्मविस्तारो द्वियवार्धयवोन्नतः ॥ ६७/१४३ ॥
श्रोत्रे नेत्रसमव्यासात्कला पञ्चयवाधिका ।
कर्णबन्धात्तु कर्णाग्रं ततः सप्तयवं स्मृतम् ॥ ६७/१४४ ॥
त्रियवं श्रोत्ररध्रं स्यान्नालौ त्र्यर्धाङ्गुलायतौ ।
कुण्डलेन युतौ तौ हि भवेतां कोलकाधिकौ ॥ ६७/१४५ ॥
नासीनालसमौ नीव्रव्यासार्धद्विचतुर्यवौ ।
अर्धमात्राधिकावष्टमात्रौ वा श्रवणौ स्मृतौ ॥ ६७/१४६ ॥
लकारावर्तवज्ज्ञेया पिञ्चसी सार्धमात्रिका ।
श्रोत्रे कलान्तरं निम्नं नतवृत्ताङ्गवद्बहिः ॥ ६७/१४७ ॥
श्रोत्रचूलिर्यवव्यासा निर्गतावनतक्रिया ।
श्रोत्रपृष्ठं तथा श्रोत्रसममूर्ध्वे दशार्धकम् ॥ ६७/१४८ ॥
ललाटान्ताद्दृगन्तं तु द्विमात्रं षड्यवाधिकम् ।
तस्मात्सप्तयवोऽपाङ्गः तस्मात्त्र्यर्धाङ्गुलं मुखम् ॥ ६७/१४९ ॥
आलेख्यलेखने त्वर्धयवोनं श्रोत्रमङ्गुलम् ।
नेत्रयोरन्तरं नेत्रतारं नासापुटावधि ॥ ६७/१५० ॥
शेषं तु मुखतारं स्यान्नेत्रश्रोत्रान्तरं मतम् ।
नासामूलोन्नतिर्न्नेत्रमध्ये स्यादर्धमात्रिका ॥ ६७/१५१ ॥
द्व्यर्धसप्तयवं सप्तयवयुक्तं कलार्धकम् ।
मूलमध्याग्रं नास्यास्तु विस्तारे कीर्तितं क्रमात् ॥ ६७/१५२ ॥
पुटौ सप्तयवव्यासायामौ वंशस्य विस्तृतिः ।
मात्रा श्रोत्राङ्गपञ्चार्धाङ्गुलायामा तु मस्तके ॥ ६७/१५३ ॥
पुष्करः षड्यवोत्सेधस्तन्मध्ये यवविस्तरः ।
पुटौ निष्पाववत्प्रोक्तौ नात्युन्नतिसमन्वितौ ॥ ६७/१५४ ॥
पुटत्वग्यवनीव्रा स्यान्नासिकार्धाङ्गुलोन्नतिः ।
गोजीमूलात्पुटान्तं तु तद्व्यासस्य समुच्छ्रयः ॥ ६७/१५५ ॥
नासाग्रं तिलपुष्पाभं यवेनालम्बितं पुटात् ।
नेत्रं वा दिनपद्मोत्थमारक्तं श्वेतमण्डलम् ॥ ६७/१५६ ॥
द्विचतुर्यवतारोच्चा गोजिरास्योर्ध्वमध्यगा ।
आनिम्नार्धत्रिमात्रे तु ऊर्ध्वोष्टविपुलायते ॥ ६७/१५७ ॥
स्यात्त्रिवर्गोत्तरा पालिर्यवेनैवाधरोष्टगा ।
उन्नतायतविस्तारे षड्यवा षड्यवाधिका ॥ ६७/१५८ ॥
मात्रा मात्राधरोष्टस्य समध्योच्चानतावधिः ।
तुण्डीरखण्डसंकाशं किंशुकप्रसवच्छवि ॥ ६७/१५९ ॥
हनुचक्रमथ श्लिष्टं ग्रीवायास्त्र्यङ्गुलोद्गतम् ।
ग्रीवा पञ्चाङ्गुलव्यासा व्यासत्रिगुणनासिका ॥ ६७/१६० ॥
अंसौ पञ्चाङ्गुलव्यासावध्यर्धोच्चौ हनोरधः ।
हनुचक्रद्विमात्रार्धमास्यरूपं तु पूर्ववत् ॥ ६७/१६१ ॥
ऊर्ध्वे द्व्यर्धयवा दन्ता द्वियवा विपुलोन्नताः ।
तेभ्योऽर्धोनायतव्यासा अधोदन्तास्तु दन्ततः ॥ ६७/१६२ ॥
यवार्धेनाधिका दंष्ट्रा दन्ताः स्निग्धाः समाः स्थिताः ।
सुस्निग्धाञ्जनरोचींषि पक्ष्मरोमाणि योजयेत् ॥ ६७/१६३ ॥
अशीतिर्नवतिर्वापि संख्यया संमतानि च ।
केशास्तु ऋजवः शुद्धाः सूक्ष्माः स्निध्याः समासिताः ॥ ६७/१६४ ॥
सालकं च ससीमन्तं सधम्मिल्लललाटयुक् ।
योषितां वदनं कुर्यात्सुप्रकारं मनोहरम् ॥ ६७/१६५ ॥
बाहुमूलविशालस्तु ग्रीवातारसमो मतः ।
पक्षः कक्षान्तरं तस्य तारःसप्तदशाङ्गुलम् ॥ ६७/१६६ ॥
हिक्काया दशमात्रान्तं विधेयं स्तनचूचुकम् ।
तदन्तरं द्विभागं स्यात्कुक्षेरप्यथ वक्षसि ॥ ६७/१६७ ॥
स्तनौ पञ्चाङ्गुलोत्सेधौ वृत्तौ द्विविधचूचुकौ ।
मूले सप्ताङ्गुलव्यासावश्वत्थदलसंमुखौ ॥ ६७/१६८ ॥
सुवृत्तावन्तरे ह्युच्चं वक्षोऽन्तर्विहितावधि ।
चतुर्दशाङ्गुलान्तं तु स्तनान्तं हृदयावधि ॥ ६७/१६९ ॥
मूलबाहुद्वयान्तं स्यादेकोनत्रिंशदङ्गुलम् ।
हिक्काधो बाहुदैर्घ्यं तु द्वाविंशत्यङ्गुलं भवेत् ॥ ६७/१७० ॥
कूर्परं स्याच्चतुर्मात्रं प्रकोष्ठो द्वादशाङ्गुलः ।
मणिबन्धस्य विस्तारं त्रियवेनाधिका कला ॥ ६७/१७१ ॥
द्वियवेन कलानीव्रं पाणिमूलतलं मतम् ।
पञ्चाङ्गुलः तलव्यासः तलायामो द्विकोलकः ॥ ६७/१७२ ॥
आयामो मध्यमाङ्गुल्याः तलायामसमो मतः ।
मूलाङ्गुलिविशालस्य तलाग्रबहुलं समम् ॥ ६७/१७३ ॥
चतुष्पञ्चयवस्त्वग्रनखोऽङ्गुष्ठो द्विपर्वभाक् ।
षट्पञ्चयवमूलाग्रा चतुरर्धाङ्गुलायता ॥ ६७/१७४ ॥
अन्योऽन्यैकघनोपेतमूलमध्याग्रपर्वभाक् ।
त्रिचतुर्यवविस्तारश्यामरक्तनखान्विता ॥ ६७/१७५ ॥
प्रादेशिन्यङ्गुलिः तस्या यवमात्राधिकायता ।
एकोनविंशत्त्रिःपञ्चयवमूलाग्रनाहिका ॥ ६७/१७६ ॥
प्राग्वन्नखत्रिपर्वाग्रा सा मता मध्यमाङ्गुलिः ।
अनामिका प्रदेशिन्या समाना मानलक्षणात् ॥ ६७/१७७ ॥
त्रिमात्रद्वियवायामा मूले पञ्चयवा ततः ।
अग्रे चतुर्यवाध्यर्धत्रियवार्धनखान्विता ॥ ६७/१७८ ॥
प्राग्वत्त्रिपर्वसंयुक्ता सुवृत्ता सा कनिष्ठिका ।
मूलाद्यग्राः सुवृत्ताः स्युरङ्गुल्यः सुसमाहिताः ॥ ६७/१७९ ॥
अन्तर्हस्ततले ह्येतन्निम्नतुल्यतलं बहिः ।
बहिःतलस्य मूलं तु मणिबन्धात्ततोऽधिकम् ॥ ६७/१८० ॥
रेखां सुरक्ता सुस्निग्धा श्रीवत्साद्यङ्कसुच्छविः ।
गोमुखाकारवद्धस्तो युवतीनां विधीयते ॥ ६७/१८१ ॥
हिक्कासूत्रादधो यावदायामोऽन्तः षडष्टभिः ।
त्र्यर्धद्व्यर्धकला तस्य मूलमध्याग्रविस्तरः ॥ ६७/१८२ ॥
आमध्याङ्गुलि योषाणामेष हस्तविधिः स्मृतः ।
अधरोष्ठावधेर्ग्रीवा त्रिमात्रा स्यात्तथा ककुत् ॥ ६७/१८३ ॥
मात्रामात्रोन्नतिः तस्यास्तिर्यक्कक्षे यवार्धकम् ।
पृष्ठे कक्षावधे रेखा दशकोलकसंमिता ॥ ६७/१८४ ॥
ग्रीवायाः कटिसूत्रैकविंशदङ्गुलदैर्घ्यभाक् ।
कट्यास्तु तुण्डतः तालं पृष्टं षड्यवकोलकम् ॥ ६७/१८५ ॥
पृष्ठे कट्यन्तविस्तारश्चैकविंशतिमात्रकः ।
पृष्ठे नाभिगुहासाम्ये श्रोणिः सप्तदशाङ्गुला ॥ ६७/१८६ ॥
ऊरुमूलात्त्रिमात्रोच्चं स्फिक्पिण्डं चाष्टमात्रकम् ।
स्फिक्ताराङ्गावधेस्तुल्यलेखा लेख्या मुखे मुखे ॥ ६७/१८७ ॥
एकादशाङ्गुलं मध्यव्यासस्त्रिगुणनाहयुक् ।
वलित्रययुतं कार्यं शातोदरसमं शुभम् ॥ ६७/१८८ ॥
अर्धाङ्गुलसुविस्तीर्णं तावद्गम्भीरसंयुतम् ।
प्रदक्षिणक्रमावर्ता नाभिः कार्या मुनीश्वराः ॥ ६७/१८९ ॥
श्रोणिः सप्तदशव्यासा कटिस्त्रिः सप्तमात्रिकः ।
ईषन्निम्नतलं कार्यं नितम्बान्तं त्रिकोलकम् ॥ ६७/१९० ॥
अष्टमात्रसमा योनिः करिणः शिरसा समा ।
अश्वत्थदलवद्बाह्याकृतिर्ग्राह्या मनोहरा ॥ ६७/१९१ ॥
लेख्योदरगता रोमराजिरामदनास्पदम् ।
स्निग्धैषा द्वन्द्वषड्गूढमणिरोमविवर्जितम् ॥ ६७/१९२ ॥
वराङ्गमङ्गनानां तु विधातव्यं विपश्चिता ।
योन्यन्तात्कटिकापार्श्वे रेखे द्वे विधिवन्मते ॥ ६७/१९३ ॥
कटिः कालाङ्गुलान्तस्था मूलोरोरुपरि स्थिता ।
तालं विशालं मूलोरोर्मध्योरोः पञ्चकोलकम् ॥ ६७/१९४ ॥
जान्वन्ते त्रिकलश्चोरुस्त्रिमात्रं जानुमण्डलम् ।
तत्पञ्चाङ्गुलविस्तारं जङ्घाभागः सषड्यवः ॥ ६७/१९५ ॥
नलका त्र्यङ्गुलव्यासा त्रिगुणीकृतनाहका ।
हस्तिहस्तनिभावूरू विरोमं जानुमण्डलम् ॥ ६७/१९६ ॥
बुद्बुदाग्रोपमा जङ्घा नलकांशावधेः समा ।
स्यादङ्गुष्ठकनिष्ठाग्रपार्ष्णिरङ्घ्रितलायता ॥ ६७/१९७ ॥
अङ्गुष्ठस्त्वङ्गुलायामो विस्तारोऽर्धाङ्गुलोऽधिकः ।
व्यासेन षड्यवायामा पादाङ्गुष्ठाद्यवाधिका ॥ ६७/१९८ ॥
प्रदेशिनी यवार्धोना चान्ययोश्च यवक्षयः ।
यवार्धेन विशालः स्यदङ्गुष्ठे षड्यवो नखः ॥ ६७/१९९ ॥
अन्यासामङ्गुलीनां तु नखस्त्रिद्व्यंशकोऽग्रतः ।
सामान्यलक्षणं प्रोक्तं प्रतिमानां द्विजोत्तमाः ॥ ६७/२०० ॥
यवादियववृद्ध्याष्टयवान्तं बेरकर्मणि ।
वृद्ध्या हान्या प्रयोक्तव्यं सर्वेष्वङ्गेषु वा द्विजाः ॥ ६७/२०१ ॥
तिथिमात्रं समारभ्य व्योममात्रविवर्धनात् ।
त्र्यङ्गुलान्तं शिरश्चक्रं सुवृत्तं मकरान्वितम् ॥ ६७/२०२ ॥
निर्गमन्तु तदर्धेन मकुटोच्चं त्रितालकम् ।
आरभ्याङ्गुलहान्यैकतलान्तं परिकल्पयेत् ॥ ६७/२०३ ॥
पञ्चाङ्गुलं समारभ्य व्योममात्रविवर्धनात् ।
त्रिंशदङ्गुलपर्यन्तं धनुर्बाणादियुक्तितः ॥ ६७/२०४ ॥
कल्पयेदायुधं युक्त्या प्रभाद्यं च प्रकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे सामान्यप्रतिमालक्षणविधिः पञ्चषष्टितमः पटलः ॥
</poem>
== त्रिशूलस्थापनविधिपटलः ==
<poem>
त्रिशूलस्थापनं वक्ष्ये तल्लक्ष्म स्यादनेकधा ।
चन्दनश्च मधूकश्च खदिरः सरलः तथा ॥ ६८/१ ॥
शमीतिनिशतापिञ्चः तिलको देवदारुकः ।
क्रमुकः सप्तपर्णश्च वकुलः कुन्दचन्दनौ ॥ ६८/२ ॥
पिण्डिकस्तिमिशो रक्तचन्दनः पनसः तथा ।
श्रीपर्णी खदिरः सालतिन्तृणीसालबिल्वकौ ॥ ६८/३ ॥
कदम्बः शिंशुपाह्वश्च धन्विनःशूलिनः कुजाः ।
पनसो देवादारुश्च पद्मतिन्दुकसंज्ञकौ ॥ ६८/४ ॥
तिलकःसप्तपर्णश्च विष्णोः शूलार्थ ईरिताः ।
वकुलः कुटजाह्वश्च पिण्डितस्तिनिशः पुनः ॥ ६८/५ ॥
धन्विनश्चार्जुनाश्वत्थौ ब्रह्मणः पादपा मताः ।
यस्य देवस्य या देवी तस्याः तद्वृक्ष एव हि ॥ ६८/६ ॥
वैकंकतश्च खादिर्यः शमी दुर्गाकुजा मताः ।
ज्येष्ठायाः पाटली प्रोक्ता शिवाख्यः सप्तमातृषु ॥ ६८/७ ॥
वकुलश्चण्डवृक्षः स्याद्दिक्पाले राजवृक्षकः ।
खादिरः सर्वदेवानां क्षीरिणी खादिरः तथा ॥ ६८/८ ॥
सर्वासां देवतानां च श्रीवृक्षः सम्प्रकीर्तितः ।
गणपस्कन्दशास्तॄणां मातॄणां शिवपादपाः ॥ ६८/९ ॥
सर्वे सर्वत्र वा कर्याः कृत्यनाहानुसारिणः ।
ताम्रारकूटरौप्यैर्वा शातकुम्भेन वा मताः ॥ ६८/१० ॥
एकस्य चैकवृक्षः स्याद्बहुवृक्षस्तु नेष्यते ।
द्रव्यसंग्रहणं कुर्यात्तद्विधनप्रकारतः ॥ ६८/११ ॥
केशाङ्गुल्यादिमानार्थं मानार्धं दारुवन्नयेत् ।
ब्रह्मदण्डस्य विस्तारः पञ्चाङ्गुलमिति स्मृतम् ॥ ६८/१२ ॥
मेढ्रादिनाभिपर्यन्तं चतुरश्राकृतिर्भवेत् ।
नाभेर्हिक्कान्तकं चैव वस्वश्रः परिभाषितः ॥ ६८/१३ ॥
तस्योर्ध्वं वकुलं कुर्यात्पक्षदण्डस्य विस्तरः ।
सप्ताङ्गुल इति ज्ञेया तद्धनेतु कला भवेत् ॥ ६८/१४ ॥
उभयोरग्रयोस्तस्य द्विमात्रे च शिखायतिः ।
व्योममात्रप्रमाणेन शिखाविस्तार इष्यते ॥ ६८/१५ ॥
एकद्वित्रिचतुःसंख्याः शिखान्ताश्च प्रकीर्तिताः ।
रन्ध्रं विष्ण्वंशतारेण वक्षोदण्डस्य मध्यमे ॥ ६८/१६ ॥
हिक्कासूत्रादधस्तात्तु वक्षोदण्डस्य संस्थितिः ।
कटिदण्डस्य विस्तारः सप्ताङ्गुल उदाहृतः ॥ ६८/१७ ॥
कला ज्ञेया घने तस्य पार्श्वयोरुभयोरपि ।
अग्न्यङ्गुलप्रमाणेन शिखा तिर्यङ्मुखा भवेत् ॥ ६८/१८ ॥
ब्रह्मभागस्य तारेण तन्मध्ये सुषिरं नयेत् ।
चतुरश्रस्य तारेण मानार्धं द्व्यङ्गुलं न्यसेत् ॥ ६८/१९ ॥
द्विमात्रं नाभ्यधस्तात्तु हित्वात्र कटिदण्डकम् ।
योजयेद्ब्रह्मदण्डे तु सुस्निग्धं सुदृढं नयेत् ॥ ६८/२० ॥
ऊरुदण्डाग्रविस्तारः कोलकेति च संमतम् ।
तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ ६८/२१ ॥
तस्याग्रे तु शिखां कुर्यात्पक्षमात्रप्रमाणतः ।
कटिदण्डे शिखायां च ऊरुदण्डं च योजयेत् ॥ ६८/२२ ॥
जङ्घायामेन संग्राह्यं चतुर्मात्रसमन्वितम् ।
जङ्घामूलस्य विस्तारस्त्र्यङ्गुलः समुदाहृतः ॥ ६८/२३ ॥
तस्य चाग्रे तु विस्तारः सार्धमात्र इति स्मृतः ।
तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ ६८/२४ ॥
वक्षोदण्डशिखायां तु बाहुदण्डं तु योजयेत् ।
योजयेत्तूरुदण्डं तु जानुमण्डलकं बुधः ॥ ६८/२५ ॥
जानुमण्डलविस्तारो युगाङ्गुलमुदाहृतः ।
आयामस्तत्समो ज्ञेयो जङ्घा तत्र तदर्धतः ॥ ६८/२६ ॥
तलदण्डस्य विस्तारश्चतुर्मात्रमुदाहृतः ।
बाहुमूलस्य विस्तारो गुणाङ्गुलमुदाहृतम् ॥ ६८/२७ ॥
तस्याग्रस्य च विस्तारः सार्धपक्षाङ्गुलो मतः ।
सप्तमात्रप्रमाणेन तन्मूले सुषिरं नयेत् ॥ ६८/२८ ॥
वक्षोदण्डशिखायां तु बाहुमूलं तु योजयेत् ।
प्रकोष्ठमूलविस्तारस्त्रिमात्रः समुदाहृतः ॥ ६८/२९ ॥
तस्याग्रस्य च विस्तारः सार्धाङ्गुलमुदाहृतः ।
तन्मूलेन द्विमात्रेण सुषिरं कारयेत्ततः ॥ ६८/३० ॥
बाहुग्रस्तशिखाश्चैव प्रकोष्ठेनैव योजयेत् ।
वक्षोदण्डात्समारभ्य कटिदण्डान्तरक्रमात् ॥ ६८/३१ ॥
पार्श्वदण्डायतं ज्ञेयं तत्तारं कोलकं भवेत् ।
तद्घनं तत्समं ज्ञेयं पार्श्वदण्डस्य चोपरि ॥ ६८/३२ ॥
अधश्च सुषिरं कार्यभेकाङ्गुलप्रमाणतः ।
वक्षोदण्डकटीदण्डे योजयेत्पार्श्वदण्डकम् ॥ ६८/३३ ॥
पार्श्वजं दण्डयोर्मध्ये अग्रे च ऋषिमात्रकम् ।
स्त्रीणां चैव विशेषेण वर्जयेत्पार्श्वदण्डके ॥ ६८/३४ ॥
एतेषां दण्डमाने तु मांसमानं त्यजेद्बुधः ।
पादाङ्गुलं समारभ्य पादाङ्गुलविवर्धनात् ॥ ६८/३५ ॥
द्विमात्रान्तो विधेयः स्याद्धानिर्वृद्धिश्च युक्तितः ।
ब्रह्मदण्डेऽन्त्यदण्डेषु द्वात्रिंशद्गृह्यतां द्विजाः ॥ ६८/३६ ॥
शिरः करतलं कर्णमम्बरं चरणादिकम् ।
स्वमानादर्धमात्रं तु हीनं युक्त्यैव कारयेत् ॥ ६८/३७ ॥
स्थानकस्यैवमाख्यातं विशेषःकश्चिदासने ।
ब्रह्मदण्डस्य मूले तु योजयेत्तु युगाङ्गुलम् ॥ ६८/३८ ॥
जङ्घामूलप्रदेशस्तु अध्यर्धाङ्गुलहीनयुक् ।
शूललक्षणमाख्यातं तत्स्थापनमिहोच्यते ॥ ६८/३९ ॥
कालोऽपि पूर्ववन्नेयस्त्वङ्कुरार्पणमेव च ।
मण्डपः कुण्डकॢप्तिस्तु नवपञ्चैकसंख्यया ॥ ६८/४० ॥
चतुरश्राणि कुण्डानि तद्दिक्कुण्डानि वा तथा ।
शिल्पिनं च विसृज्याथ पुण्याहं वाचयेत्ततः ॥ ६८/४१ ॥
वास्तुहोमं च कृत्वान्ते स्थण्डिलं कारयेद्द्विजाः ।
सङ्क्ल्प्य शयनं तत्र ज्ञात्वा ब्रह्मादिदण्डकान् ॥ ६८/४२ ॥
पञ्चगव्येन संप्रोक्ष्य ततः पञ्चामृतादिभिः ।
संस्नाप्य शुद्धतोयेन वस्त्रेणाच्छाद्य पूजयेत् ॥ ६८/४३ ॥
आसनं कल्पयित्वा तु शययायामासनाणुभिः ।
मूर्तिभूतं तु तच्छूलं हृदयेन निवेशयेत् ॥ ६८/४४ ॥
कौतुकं बन्धयित्वा तु तत्समन्ताद्घटान् न्यसेत् ।
सकूर्चान् हेमसंयुक्तान् सवस्त्रानुदपूरितान् ॥ ६८/४५ ॥
तत्तन्मूर्तिमनुं मध्ये लोकेशान् परितो यजेत् ।
तत्त्वतत्त्वेश्वरोपेतान् मूर्तिमूर्तीश्वरान्न्यसेत् ॥ ६८/४६ ॥
ब्रह्मभिः सकलीकृत्य मूर्तिं तत्र निवेशयेत् ।
गन्धपुष्पादिनाभ्यर्च्य मूर्तिमन्त्रमनुस्मरन् ॥ ६८/४७ ॥
पायसं सन्निवेद्याथ होमकर्म समारभेत् ।
कृत्वा कुण्डादिसंस्कारं मूर्तिमावाह्य तर्पयेत् ॥ ६८/४८ ॥
समिदन्नाज्यलाजैश्च तिलसर्षपसंयुतम् ।
पालाशोदुम्बराश्वत्थवटाःपूर्वादिदिक्षु च ॥ ६८/४९ ॥
शम्यपामार्गमाधूकश्रीवृक्षाः त्वग्निकोणतः ।
प्रधानस्य पलाशः स्याच्छतसंख्या प्रधानके ॥ ६८/५० ॥
दशांशे ब्रह्मभिर्होमस्तथा नेत्रेण संमतः ।
तत्त्वतत्त्वेश्वराद्यैश्च प्रत्येकं त्रितयं क्रमात् ॥ ६८/५१ ॥
ततः पूर्णाहुतिं कृत्वा प्रभाते मूर्तिपैर्गुरुः ।
स्नात्वा देवं घटं मन्त्री संपूज्याग्निं समीपतः ॥ ६८/५२ ॥
स्थित्वा छिद्रं निरस्याथ पूर्णां मूर्त्या प्रदापयेत् ।
सुमुहूर्ते सुलग्ने तु प्राप्तपूजो गुरुत्तमः ।
संगृह्य मूलधाम्नस्तु प्रदक्षिणमनुव्रजन् ॥ ६८/५३ ॥
प्रविश्य गर्भगेहं तु ज्ञात्वा ब्रह्मादिभागकान् ।
स्थानकादिविभागेन कृत्वा स्थानं घटीकृतम् ॥ ६८/५४ ॥
इष्टकांशादिकैस्तत्र न्यसेदाधारसंज्ञकम् । ५५ ॥
स्थानंकासनसुप्ताश्च यानगा गमनोन्मुखाः ॥
नाट्योत्सुकाश्च षोढा स्यात्स्थानकाधारसंज्ञतः । ५६ ॥
तथैव नृत्तसक्ता च गमनभिरता हि च ॥ ६८/५७ ॥
स्थानगोक्षादिसंस्था स्यादासनस्थास्तु पीठगाः ।
शययासक्ता तु सुप्ता स्यात्सा च प्रायोऽस्य नेष्यते ॥ ६८/५८ ॥
विष्ण्वादिप्रतिभा सा स्यादाधारं त्वधुनोच्यते ।
शूलमूलविशालेनाध्यर्धमाधारमानकम् ॥ ६८/५८ ॥
तद्बेराङ्गुलमानेन एकाङ्गुलविवर्धनात् ।
चतुरङ्गुलमानं स्यात्समं स्याच्चतुरश्रकम् ॥ ६८/५९ ॥
तद्घनं त्रिविधं प्रोक्तं तस्मादेकैकवर्धनात् । ६० ॥
चतुर्मात्रान्तमानं स्यात्क्रियामानानुसारतः ॥ ६८/६१ ॥
सुवर्णतारताम्राद्यैः पादपाद्यैस्तु वा भवेत् ।
पादानि नव तन्मध्ये कृत्वा कूटयुतानि वा ॥ ६८/६२ ॥
रत्नाद्यं विन्यसेत्तत्र प्रागुक्तविधिना गुरुः ।
तत्र संस्थापयेद्वाग्मी तत्र मूर्तिमनुस्मरन् ॥ ६८/६३ ॥
ब्रह्मदण्डेऽन्यदण्डांश्च योजयेदुक्तवर्त्मना ।
अथवा पीठिकोत्सेधं ब्रह्मदण्डस्य मूलतः ॥ ६८/६४ ॥
शूलदैर्घ्यान्वितं कृत्वा इष्टमानान्वितं तु वा ।
कृत्वा तदवधिस्थाने स्थाप्यं वाधारसंज्ञकम् ॥ ६८/६५ ॥
स्थिराद्यं पीठबन्धाद्यैर्बन्धयेत्सुषिरं यथा ।
मूर्तिनिर्गतशूलैश्च सुस्थिरैः सारदारुजैः ॥ ६८/६६ ॥
इष्टनाहसमायुक्तैरिष्टसंख्यासमन्वितैः ।
ब्रह्मदण्डादिदण्डे तु योजयित्वा गुरुत्तमः ॥ ६८/६७ ॥
स्थैर्यं सम्पादयेदत्र क्रियमाणानुसारतः ।
ऋजुभिर्लोहपट्टैश्च लोहकीलैरनेकधा ॥ ६८/६८ ॥
बन्धयित्वा यथाकर्म आर्द्रं वा वस्त्रवेष्टनम् ।
कल्कचिक्कणकाद्यैस्तु संपूर्णाङ्गं यथा नसत् ॥ ६८/६९ ॥
वर्णैर्नानाविधैर्श्चित्रं कारयेत् प्रतिमोक्तवत् ।
चतुर्वार्णानुलोमाद्यैः शिल्पिभिश्चित्रवित्तमैः ॥ ६८/ ७० ॥
नयनोन्मीलनं कुर्याच्चित्रकर्मावसानके ।
नयनोन्मीलनात्पूर्वं द्रव्यमात्रं तु तद्भवेत् ॥ ६८/७१ ॥
तत्र छेदादिकं चेष्टं तदूर्ध्वं नेष्यते द्विजाः ।
तत्र प्रतिष्ठा कर्तव्या स्थापनोक्तविधानतः ॥ ६८/७२ ॥
स्थानायैव तलव्यासमानेनाधारसंज्ञिकम् ।
जङ्घोरू प्रतिमादण्डान्स्थापयित्वा तदूर्ध्वतः ॥ ६८/७३ ॥
कटिदण्डं च संयोज्य ब्रह्मदण्डे नियोजयेत् ।
सर्वदण्डादिसंयुक्तं कृत्वा च प्रतिमादिकम् ॥ ६८/७४ ॥
पट्टाद्यैर्बन्धयित्वा तु तां शययायां निधाय च ।
तत्त्वमूर्त्यादिविन्यासं कृत्वा तां स्थापयेत्तु वा ॥ ६८/७५ ॥
शैली चेत्प्रतिमा शैलं कुर्यादाधारसंज्ञकम् ।
अन्यत्सर्वं समानं स्यात्किन्तु पादशिलादयः ॥ ६८/७६ ॥
कृत्वा कूर्चं क्रमात्क्षीणं बलानुगतमानकम् ।
सुषिरे पीठमध्ये तु यथास्निग्धं नियोजयेत् ॥ ६८/७७ ॥
कृत्वासनं तु तन्मन्त्रैर्बाहुभिः सकलीकृतः ।
मूर्तिमन्त्रान्न्यसेत्कुम्भतोयगान् प्रतिमाहृदि ॥ ६८/७८ ॥
तदम्भसा तु संस्नाप्य लोकपान् परितो न्यसेत् ।
तच्छैलं सुधयालेप्य वस्त्रेणावेष्ट्य चित्रयेत् ॥ ६८/७९ ॥
शूलस्थापनकाले तु मूर्तिमन्त्रमनुन्यसेत् ।
॥ इति कामिकाख्ये महातन्त्रे त्रिशूलस्थापनविधिपटलः षट्षष्टितमः ॥
</poem>
== देवतास्थापनविधिपटलः ==
<poem>
देवतास्थापनं स्थानं वक्ष्येऽथ मुनिपुङ्गवाः ।
ग्रामे वा नगरे वापि पत्तने राजधानिके ॥ ६९/१ ॥
आदौ नद्यास्तटे पुण्ये देवतायतनेषु च ।
समुद्रतीरे सेतौ च पुष्करिण्यास्तटेषु च ॥ ६९/२ ॥
महाजलसमीपे वा महाजनसमीपगे ।
उद्याने पुण्यदेशे वा निष्कलं सकलं तु वा ॥ ६९/३ ॥
शैलं वा लोहजं वार्क्षं रत्नजं मृण्मयं तु वा ।
सौधजं वार्धचित्रं वा आभासं वाथ पीठकम् ॥ ६९/४ ॥
स्थापयेद्देशिको धीमान् ब्रह्मदेवादिभागवित् ।
आरभ्य पञ्चपञ्चांशमेकैकपदवर्धनात् ॥ ६९/५ ॥
द्वात्रिंशत्पदपर्यन्तं कृत्वा गर्भगृहं ततः ।
एकं वापि द्वयं वापि त्रयं वा ब्रह्ममन्दिरे ॥ ६९/६ ॥
तदन्तरं तथा कृत्वा दैविकं वार्षकं तथा ।
पदं पैशाचिकं प्रोक्तं ब्रह्मभागे प्रकल्पयेत् ॥ ६९/७ ॥
इदं ब्रह्मादिकाद्यं तु ग्रामादौ वा वियोजयेत् ।
निष्कलं ब्रह्मभागे तु सकलं दैविकांशके ॥ ६९/८ ॥
ग्रामादीनां निवेशे तु ब्रह्मांशे दैर्घिकांशके ।
स्थापयेन्मानुषं वापि मातुः केचिदिदं भवेत् ॥ ६९/९ ॥
चित्रयुक्तं तु तद्बेरं बाह्ये पैशाचिके अपि ।
रक्षोगन्धर्वयक्षाद्याः पिशाचाद्याश्च मूर्तिपाः ॥ ६९/१० ॥
मानुषे वाथ पैशाचे द्विजानां वास इष्यते ।
ईशानादिचतुष्कोणे सभाद्यं तत्र कल्पयेत् ॥ ६९/११ ॥
ब्रह्मभागं चतुर्भागं कृत्वेशाने सभां नयेत् ।
वापीं चाग्नेयदेशे तु गोवासं कूपसंयुतम् ॥ ६९/१२ ॥
नैरृते वापणस्थानं देवालययुतं तु वा ।
वायौ देवालयं कुर्याद्व्यत्यासे व्यसनं भवेत् ॥ ६९/१३ ॥
क्षुद्रवास्तौ तु तत्सर्वं नेष्यते ब्रह्मभागिके ।
द्विजवासस्तु तत्सर्वं शर्वे वाथ विधीयते ॥ ६९/१४ ॥
वरुणे विष्णुवासः स्यात्केशवं शर्वं एव च ।
पञ्चपंचांशतो न्यूनात्तदूर्ध्वं द्विजसत्तमाः ॥ ६९/१५ ॥
चौः सहस्रपर्यन्तं पदं पैशाचिकं क्रमात् ।
सूर्यः कन्दगणेशानां दुर्गाद्या वास्तुदेवताः ॥ ६९/१६ ॥
वास्तुपैशाचिके मोटी मदनः सप्तमातरः ।
मोटीशास्तृविहीना वा सप्तदेवास्तथा मताः ॥ ६९/१७ ॥
सहस्रविप्रादूर्ध्वे तु सभाद्यं ब्राह्मणादिकम् ।
कल्पना न्यूनविप्रे तु त्यजेत्कोष्ठमथाङ्कणम् ॥ ६९/१८ ॥
तदूर्ध्वं तु सहस्रान्ते गौरी वा कमलालया ।
ब्रह्मावैश्रवणः सौम्यः कन्दर्पोऽन्तर्व्यवस्थिताः ॥ ६९/१९ ॥
बाह्ये क्षेत्राधिपो ज्येष्ठा पूर्वोक्ते स्मृतदेवताः ।
तदूर्ध्वं सर्वदेवाश्च शंसिताः फलदायकाः ॥ ६९/२० ॥
एतेष्वन्यतमार्थं तु शिवो गौरी विनायकः ।
स्कन्दः तत्र विधेयो वा *? ब्रह्मभागादिभागके ॥ ६९/२१ ॥
शास्तावान्तर्बहिस्थाप्यो बाह्ये रौद्राः प्रकीर्तिताः ।
वास्तुविन्यासतुष्टास्तु प्रागत्र स्थापिताः सुराः ॥ ६९/२२ ॥
उक्तदेशेऽन्यदेशे वा न? ते वास्त्वङ्गभाजिनः ।
विना प्रतिष्ठां देवानां वास्तुन्यासं कथं भवेत् ॥ ६९/२३ ॥
तस्मात्सर्वप्रयत्नेन देवानां च प्रकल्पयेत् ।
विन्यसेद्रुद्रदेवांश्च शैवं सम्पादयेद्गुरुः ॥ ६९/२४ ॥
सन्त्यक्तमार्षस्थानाद्यथादेवालयास्त्विह ।
पुरातनात्त्वर्थालोच्य वास्तुन्याससमाचरेत् ॥ ६९/२५ ॥
वास्तुन्यासादिकं सर्वं प्रागेवप्रदिपादितम् ।
तथापि पुनरद्यापि विशेषस्तत्र कथ्यते ॥ ६९/२६ ॥
पदं पैशाचिकान्तं तु ग्राममानं विधीयते ।
गृहश्रेणिषु वृद्धिर्वा हानिर्बाह्यान्तरेऽपि वा ॥ ६९/२७ ॥
आयामे विस्तरे वापि वैषम्यं तेषु मानतः ।
इष्यते क्षुद्रमार्गो वा क्षुद्रे महति वास्तुनि ॥ ६९/२८ ॥
बाह्यान्तरविधौ चैव वषम्यं वा परस्परम् ।
वास्तुपैशाचवैषम्यमिष्यते वास्तुनिर्भितौ ॥ ६९/२९ ॥
तथैव मार्गो मानेषु यथा देवालयेषु च ।
स्थानादीनां यथा पीडा न स्यात्सर्वं नयेत् ॥ ६९/३० ॥
ब्रह्मदैविकभागादिस्थिता पीडा न दोषदा ।
तस्मादुक्तेषु देशेषु मर्माद्यं परिगृह्य च ॥ ६९/३१ ॥
नागरादिप्रभेदेन दिग्भेदेन विशेषतः ।
प्रतिपादितहर्म्येषु शिवाद्यान् स्थापयेत्ततः ॥ ६९/३२ ॥
॥ इति कामिकाख्ये महातन्त्रे देवतास्थापनविधिपटलः सप्तषष्टितमः ॥
</poem>
== प्रतिमाप्रतिष्ठाविधिः ==
<poem>
प्रतिमानां प्रतिष्ठां तु प्रवक्ष्यामि समासतः ।
द्रव्यसंग्रहणं पूर्वं बिम्बनिर्माणमेव च ॥ ७०/१ ॥
पश्चान्मण्डपनिर्माणं रत्नन्यासमतः परम् ।
नयनोन्मीलनं पश्चाद्बेरशुद्धिरनन्तरम् ॥ ७०/२ ॥
ग्रामप्रदक्षिणं पश्चाज्जलवेशोऽष्टमं भवेत् ।
मण्डपालङ्कतिः पश्चाद्वास्तुहोममतः परम् ॥ ७०/३ ॥
शययाकॢप्तिस्ततः प्रोक्ता प्रतिमास्थापनं ततः ।
ततः कौतुकबन्धः स्याच्छयनारोहणं पुनः ॥ ७०/४ ॥
कुम्भसंस्थापनं पश्चादर्चनं तदनन्तरम् ।
ततो मुर्त्यादिविन्यासो होमकार्यमनन्तरम् ।
दक्षिणादानमन्ते स्यान्मन्त्रन्यासमतः परम् ॥ ७०/५ ॥
अतः परं च स्नपनमर्च्चनं स्यादतः परम् ।
द्वाविंशतिः क्रियाः प्रोक्तास्तासां लक्षणमुच्यते ॥ ७०/६ ॥
शिलामृल्लोहसद्वृक्षरत्नधातुसुधापटाः ।
दन्तश्च बेरनिर्माणे तस्य संग्रहमुच्यते ॥ ७०/७ ॥
सुमुहूर्ते सुलग्ने तु नक्षत्रकरणान्विते ।
शिलादिस्थानमासाद्य स्थण्डिले पूजितेश्वरः ॥ ७०/८ ॥
हुताग्निः पूजिताशाभृद् दत्तभूतबलिः शुचिः ।
शिलाद्यं प्रोक्ष्य वस्त्रेण वर्मणावेष्ट्य पूजयेत् ॥ ७०/९ ॥
हृदि वस्त्रेण संवेष्ट्य टङ्काद्यं मधुसर्पिषा ।
आप्लाव्य त्रिःप्रहारेण स्फोटयेदस्त्रमन्त्रतः ॥ ७०/१०
गुरोरनुज्ञया शिल्पी तथैवा स्फोटयेत्पुनः ।
संपूज्य वस्त्रहैमाद्यैराचार्यं स्थपतिं तथा ॥ ७०/११ ॥
तस्मात्संगृह्य तद्द्रव्यं नयेत्कर्मकुटीं पुनः ।
आदौ सिक्तं द्रवीभूतमस्त्रेणास्त्राव्य वारिणा ॥ ७०/१२ ॥
मण्डपे स्थण्डिलं कृत्वा सिक्तं तत्रैव निक्षिपेत् ।
संपूज्य गन्धपुष्पाद्यैर्हृदा वस्त्रेण वेष्टयेत् ॥ ७०/१३ ॥
तद्द्रव्यं शिल्पिने दत्वा कारयेल्लक्षणान्वितम् ।
तस्य निर्माणकाले तु उत्तराभिमुखो गुरुः ॥ ७०/१४ ॥
प्रतिमामूलमन्त्रं तु जपेदष्टोत्तरं शतम् ।
तस्याश्चोत्तरदिग्भागे शान्तिहोमं तु कारयेत् ॥ ७०/१५ ॥
देशिकं शिल्पिनं चैव पूजयेत्काञ्चनादिभिः ।
वृक्षसंग्रहणे वृक्षं संपूज्यैवं वदेद्गुरुः ॥ ७०/१६ ॥
श्रीनिकेत नमस्तुभ्यं देवजुष्ट वनस्पते ।
सङ्क्रामः स्यादितिस्थानं गुणवद्यन्मनोरमम् ॥ ७०/१७ ॥
विसृज्यानेन मन्त्रेण छदात्मानं निरुच्यते ।
घृताक्तेन कुठारेण छिन्द्यान्मृत्युञ्जयं स्मरन् ॥ ७०/१८ ॥
यक्षेन्द्रशिवकाष्ठासु पतितं सर्वकामदम् ।
तापमृत्युमहारोहगुल्मोच्चाटनमग्नितः ॥ ७०/१९ ॥
द्रव्यसंग्रहणं चैवं निर्माणं पूर्वमेव तु ।
प्रतिमालक्षणं प्रोक्तं मण्डपं त्वधुनोच्यते ॥ ७०/२० ॥
प्रासादस्य चतुर्दिक्षु मण्डपं चाग्रपार्श्वयोः ।
त्रिहस्तं तु समारभ्य चैकैककरवृद्धितः ॥ ७०/२१ ॥
पञ्चादशकरान्तं तु कुर्याल्लक्षणसंयुतम् ।
अत्रानुक्तं तु यत्किञ्चित्तत्सर्वं पूर्ववन्नयेत् ॥ ७०/२२ ॥
नवपञ्चैककुण्डानि पूर्ववत्परिकल्पयेत् ।
चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ॥ ७०/२३ ॥
शक्तीनां चैव सर्वासां योन्याकाराणि कल्पयेत् ।
मण्डपं समलङ्कृत्वा पीठं तत्र विनिक्षिपेत् ॥ ७०/२४ ॥
नवपट्टसमायुक्तं पञ्चपट्टयुतं तु वा ।
एकपट्टयुतं वापि पूजयेच्चन्दनादिभिः ॥ ७०/२५ ॥
आधाराख्यमनन्तं च मध्यमे विन्यसेद्गुरुः ।
लोकपालांश्च चतुरः रत्नानि विविधानि च ॥ ७०/२६ ॥
माणिक्यमिन्द्रनीलं च वैडूर्यं च प्रवालकम् ।
मुक्ता वज्रं तथा पुष्परागं गोमेदकं तथा ॥ ७०/२७ ॥
मरकतं चैव रत्नानि नवरत्नादिपञ्चकम् ।
पञ्चरत्नमिति प्रोक्तं माणिक्कं चैकमेव वा ॥ ७०/२८ ॥
वज्रं वा मध्ये प्रोक्तं महावेशमिति स्मृतम् ।
स्वस्वलोकपमन्त्रैश्च मध्यादिक्रमतो न्यसेत् ॥ ७०/२९ ॥
देवं रत्नोपरि न्यस्त्वा सुस्निग्धं कारयेद्दृढम् ।
शैलं चेत्स्थापने काले रत्नाद्यं विधिवन्न्यसेत् ॥ ७०/३० ॥
शूलस्थापनकाले तु न्यसेद्रत्नानि मृण्मये ।
अन्येषां रत्नविन्यासं वर्जयेत्तु विशेषतः ॥ ७०/३१ ॥
नेत्रद्वययुतर्क्षे तु कारयेन्नेत्रमोक्षणम् ।
सुगुप्ते मण्डपे रम्ये गोमयेनानुलेपिते ॥ ७०/३२ ॥
प्रच्छन्नपटसंयुक्ते सर्वालङ्कारसंयुते ।
स्थण्डिलं तत्र कर्तव्यमष्टद्रोणादिब्रीहिभिः ॥ ७०/३३ ॥
तिलतण्डुलसंयुक्तं लाजपुष्पसमन्वितम् ।
तस्य मध्ये न्यसेद्बिम्बं प्राङ्मुखं देशिकोत्तमः ॥ ७०/३४ ॥
हेमसूचीप्रहाराभ्यां नेत्रमन्त्रमनुस्मरन् ।
प्रथमं दक्षिणं नेत्रं द्वितीयं वामनेत्रकम् ॥ ७०/३५ ॥
ललाटस्थं तृतीयं तु लेखयेत्पूजयेद्गुरुः ।
पक्ष्मरेखां पुरा कृत्वा ततो वै दृष्टिमण्डलम् ॥ ७०/३६ ॥
ज्योतिर्मण्डलमालिख्य नेत्रमोचनमाचरेत् ।
तथैवोन्मीलनं शिल्पी वज्रकाञ्चनसूचितः ॥ ७०/३७ ॥
पुष्पायोनिर्मितेनेव टङ्केनैव त्रिलोचने ।
नासिकाकर्णवक्त्राणि लिङ्गं पायुं च मोचयेत् ॥ ७०/३८ ॥
तत्तद्देवाङ्गभूतानां नयनोन्मीलनं नयेत् ।
चित्राभासादिदेवानां तत्तद्वर्णैः समाचरेत् ॥ ७०/३९ ॥
तदाक्षिमोचनं कुर्याद्धेमतूलिकया गुरुः ।
उद्वास्य शिल्पिनं पश्चात्तस्याग्रे स्थण्डिलं नयेत् ॥ ७०/४० ॥
बिम्बं तस्योपरि न्यस्त्वा हृदयेन तु मन्त्रतः ।
ससूत्रान् सापिधानांश्च कलशानष्टदिक्षु च ॥ ७०/४१ ॥
सवस्त्रान् वारिसंयुक्तान् सकूर्चान् पल्लवैर्युतान् ।
स्वमन्त्रैरभितो न्यस्त्वा लोकेशांस्तत्र पूजयेत् ॥ ७०/४२ ॥
क्षूद्रेऽष्टकलशान् हित्वा चान्यत्सर्वं समाचरेत् ।
स्वर्णया दूर्वया नेत्रं मध्वाज्याभ्यां तु तर्पयेत् ॥ ७०/४३ ॥
हृदा वा नेत्रमन्त्रेण मन्त्रिताभ्यां गुरूत्तमः ।
लोहजे शैलजे वार्क्षे रत्नजेप्येवमाचरेत् ॥ ७०/४४ ॥
अन्येषामपि सर्वेषां भावयेत्तर्पणक्रियाम् ।
तर्जन्यनामिकामध्ये सूर्यसोमाग्निलोचने ॥ ७०/४५ ॥
हिरण्यनखसंप्रोतैर्न्यसेत्तद्बीजसंयुतम् ।
सौवर्णे राजते ताम्रे कांस्ये वाथ शरावके ॥ ७०/४६ ॥
घृतेन मधुना चैव प्रत्येकं प्रस्थपूरितम् ।
तदर्धेनार्धपादेन पूरितं वा पृथक् पृठक् ॥ ७०/४७ ॥
घृतं प्रदर्शयेन्मन्त्री नेत्रमन्त्रमनुस्मरन् ।
दर्शयेन्मधुपात्रं तु मृत्युजिन्मन्त्रमुच्चरन् ॥ ७०/४८ ॥
हृदयेन तु मन्त्रज्ञः तवत्सां गां प्रदर्शयेत् ।
बीजमुख्येन मन्त्रेण धान्यराशिं प्रदर्शयेत् ॥ ७०/४९ ॥
शिवादिदशभारान्तं तेषां मानं प्रकीर्तितम् ।
ब्राह्मणान् दर्शयेत्पश्चात्पवमानमनुस्मरन् ॥ ७०/५० ॥
तेनैव दर्शयेत्कन्यां भूषितां सर्वभूषणैः ।
प्रच्छन्नपटमावर्ज्य जनसंघान् प्रदर्शयेत् ॥ ७०/५१ ॥
मृद्भस्मकुशगोमूत्रगोमयैः पञ्चगव्यकैः ।
त्वक्सारैः प्रतिमाशुद्धिं चित्रादौ दर्पणे नयेत् ॥ ७०/५२ ॥
रजन्यामलपिष्टाद्यैः शुद्धियुक्तं प्रकल्पयेत् ।
वस्त्रैर्गन्धैश्च मालभिर्भूषयेद्भूषणार्हकैः ॥ ७०/५३ ॥
ग्रामप्रदक्षिणं कुर्यात्सर्वालङ्कारसंयुतम् ।
ग्रामप्रदक्षिणं वापि चित्रादौ परिवर्जयेत् ॥ ७०/५४ ॥
महत्तरे वा तत्त्याज्यं प्रापयेत्तु जलं ततः ।
जलमध्ये प्रपां कृत्वा चतुर्गात्रसमन्वितम् ॥ ७०/५५ ॥
मण्डितां दर्भमालाद्यः तीरे समतले पुनः ।
स्थण्डिलं स्थापयित्वा तु गन्धाद्यैरर्चयेद्गुरुः ॥ ७०/५६ ॥
तस्याग्रे स्थण्डिलं कृत्वा कलशानष्ट विन्यसेत् ।
लोकपालाधिपांस्तत्र हेमाढ्यान् पूजयेद्गुरुः ॥ ७०/५७ ॥
व्यपोह्य भूषणार्हं तु वस्त्रेणाच्छाद्य वर्मणा ।
लम्बकूर्चेन संयुक्तं द्वात्रिंशत्सम्मितेन तु ॥ ७०/५८ ॥
पीठे वा फलकादौ वा शाययेज्जलमध्यमे ।
गङ्गादितीर्थमवाह्य परितः कलशान् न्यसेत् ॥ ७०/५९ ॥
एकादिनवरात्रान्तं वेदत्रिद्व्येकयामकम् ।
जलाधिवासनं कुर्याच्चित्रादौ दर्पणे न वा ॥ ७०/६० ॥
मण्डपं भूषयेत्पश्चात्पटेन महतावृतम् ।
ब्राह्मणान् भोजयेत्तत्र सहस्रान्तान् दशाधिकान् ॥ ७०/६१ ॥
पुन्याहं वाचयित्वा तु वास्तुहोमं तु कारयेत् ।
पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु शिवाम्भसा ॥ ७०/६२ ॥
पुण्याहं वाचयेत्पश्चात्स्थण्डिले वेदिकोपरि ।
अष्टद्रोणैः तदर्धैर्वा तदर्धैः शालिभिर्मतम् ॥ ७०/६३ ॥
तिलैर्लाजैश्च दर्भैश्च पुष्पैः सम्यक् प्रकल्पयेत् ।
शयनं कल्पयेदूर्ध्वे चर्मजाद्यैरनुक्रमात् ॥ ७०/६४ ॥
चित्रादौ कल्पयेच्छययां तत्तत्पादप्रदेशके ।
प्रोक्षयेत्पुरुषेणैव हृदा गन्धादिभिर्यजेत् ॥ ७०/६५ ॥
जलादुत्तिर्य बेरं तु स्नानश्वभ्रे तु विन्यसेत् ।
व्यपोह्य वस्त्रकूर्चाच्चं? स्नपनं पूर्ववन्नयेत् ॥ ७०/६६ ॥
वस्त्रेणैव तु संवेष्ट्य पूजयेद्धृदयेन तु ।
कौतुकं बन्धयेत्पश्चाद्धृदा दक्षिणहस्तके ।
शक्तीनां चैव सर्वासां वामे वा दक्षिणेऽपि वा ॥ ७०/६७ ॥
कुम्भान् संस्थापयेत्पश्चात्सर्वलक्षणसंयुतान् ।
ससूत्रान् सहिरण्यांश्च सकूर्चान् वस्त्रसंयुतान् ॥ ७०/६८ ॥
गन्धोदकेन सम्पूर्णान् फलपल्लवशोभितान् ।
विन्यस्य परितः सर्वान् गन्धपुष्पादिभिर्यजेत् ॥ ७०/६९ ॥
मूर्तिन्यासं ततः कुर्याल्लिङ्गस्थापनमार्गतः ।
आत्मविद्यां शिवाख्यं च जानुकर्णशिरोवधि ॥ ७०/७० ॥
होमकर्म तदन्ते स्यात्प्रागुक्तविधिना सह ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादिषु क्रमात् ॥ ७०/७१ ॥
शम्यपामार्गश्रीवृक्षपिप्पलैश्चाग्निकोणतः ।
प्रधानस्य पलाशः स्यात्समिधः संप्रकीर्तिताः ॥ ७०/७२ ॥
समिदाज्यचरू लाजसर्षपाश्चैव वैणवाः ।
यवप्रियङ्गुशाल्यश्च मुद्गमाषकुलुत्थकाः ॥ ७०/७३ ॥
मधु क्षीरगुले सक्तु फलादावुदकाः स्मृताः ।
त्रिपञ्चसप्तनवभिः रुद्रैर्विश्वैश्च पक्षकैः ॥ ७०/७४ ॥
द्रव्यैर्वा सप्तदशभिः समस्तैर्होममाचरेत् ।
ब्रह्मादिदिक्षु ख्यातानि विदिक्षु हृदयादयः ॥ ७०/७५ ॥
प्रधाने मूलमन्त्रः स्यादङ्गब्रह्मसमायुतः ।
पञ्चाग्न्यातनं चेत्तु हृदयादीनि वर्जयेत् ॥ ७०/७६ ॥
एकाग्न्यायतनं चेत्तु द्रव्यैरेकत्र होमयेत् ।
सहस्रमर्धं तस्यार्धं शतं वाष्टशतं तु वा ॥ ७०/७७ ॥
एवमर्धं च दशभिर्मूलमन्त्रेण होमयेत् ।
मूलाद्दशांशतोऽङ्गैस्तु सर्वैर्ब्रह्मादि होमयेत् ॥ ७०/७८ ॥
तत्त्वतत्त्वेश्वराद्यैश्च होमं पूर्ववदाचरेत् ।
द्रव्यान्ते व्याहृतिं कुर्याद्धोमान्ते पूर्णया युतम् ॥ ७०/७९ ॥
स्पर्शनं पूर्ववत्कुर्याच्छान्त्यम्भः प्रोक्षणं ततः ।
अत्रानुक्तं तु यत्सर्वं लिङ्गस्थापनवन्नयेत् ॥ ७०/८० ॥
आगमाध्ययनं दिक्षु कोणे मन्त्रजपं नयेत् ।
आगमाध्ययनं कुर्यादीशाने दीक्षितः त्विह ॥ ७०/८१ ॥
नृत्तगेयसमायुक्तं स्तोत्रमङ्गलवाचकैः ।
रात्रिशेषमपोह्याथ प्रभाते विमले ततः ॥ ७०/८२ ॥
देशिको मूर्तिपैः सार्धं कुर्यात्स्नानं तु पूर्ववत् ।
मन्त्रसन्नद्धकायस्तु प्रविश्यं मखमण्डपम् ॥ ७०/८३ ॥
उद्धृत्य प्रतिमां पूर्वं मुखे मूर्तिपसन्निभः ।
व्यपोह्य वस्त्रकूर्चादीन् यजेद्गन्धादिभिर्हृदा ॥ ७०/८४ ॥
कुम्भान् संपूजयेत्पश्चाद्वह्निकुण्डेषु पूजयेत् ।
अघोराष्टशतं हुत्वो प्रायश्चित्तार्थमेव वा ॥ ७०/८५ ॥
वौषडन्तं हरेणैव पूर्णाहुतिमाथचरेत् ।
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
पञ्चनिष्कं समारभ्य पञ्चनिष्कविवर्धनात् ॥ ७०/८६ ॥
दक्षिणा नवधा प्रोक्ता प्रतिमानां निवेशने ।
अथवा च दरिद्रस्तु निष्काद्यं पञ्चनिष्ककान् ॥ ७०/८७ ॥
दक्षिणा तु गुरोः प्रोक्ता ततो हीनां विवर्जयेत् ।
अन्येषां चैव सर्वेषां पूर्ववद्दक्षिणा भवेत् ॥ ७०/८८ ॥
मुहूर्तनाडिकापूर्वे स्थापनं तु समाचरेत् ।
शिवकुम्भं समुद्धृत्य वर्धन्या सह देशिकः ।
परिवारघटैर्युक्तं सर्वालङ्कारसंयुतम् ॥ ७०/९० ॥
हर्म्यप्रदक्षिणं कृत्वा प्रतिमाग्रे नयेद्घटान् ॥
कुम्भाद्बीजं समादाय प्रतिमाहृदि विन्यसेत् ॥ ७०/९१ ॥
तत्कुम्भस्थजलेनैव स्नापयेत्परमेश्वरम् ॥
वर्धन्या बीजमादाय तत्पीठे विन्यसेद्गुरुः ॥ ७०/९२ ॥
देवेन सह चेद्देवी तस्यास्तु हृदि विन्यसेत् ॥
विभिन्नपीठां देवी चेत्पृथक्स्थापनमारभेत् ॥ ७०/९३ ॥
मृण्मये त्वर्धचित्रे वा आभासे च पटे तथा ॥
सौधे कश्चिद्विशेषोऽस्ति तेषामेवाथ सन्निधौ ॥ ७०/९४ ॥
दर्पणं स्थापयित्वा तु स्नापनं तत्र कारयेत् ॥
कर्मार्चायास्तु पीठे वा कूर्चे वा स्नापनं स्थले ॥ ७०/९५ ॥
अर्चनोक्तं समभ्यर्च्य वस्त्राभरणपुष्पकैः ॥ ७०/९६ ॥
प्रभूतं तु हविर्दद्यात्ताम्बूलादिसमन्वितम् ।
स्नपनं कल्पयेद्वा चेदुत्सवेन युतं तु वा ॥ ७०/९७ ॥
अत्रानुक्तं तु यत्सर्वं लिङ्गस्थापनवन्नयेत् ।
स्वप्रधाने पराङ्गे च स्थापनं चैवमीरितम् ॥ ७०/९८ ॥
परिवारसमायुक्तं स्वप्रधानमिति स्मृतम् ।
इतरं तद्विहीनं स्यात्तच्च द्विविधमुच्यते ॥ ७०/९९ ॥
अन्तरङ्गं च बाह्याङ्गमाद्यधामान्तरस्थितम् ।
चलं तदचलं वापि धामगर्भगृहादिके ।
मित्त्याश्लिष्टं चित्रयुक्तं शैलं वा ग्रामसंस्थितम् ॥ ७०/१०० ॥
परिवारालयस्थं यदन्तरङ्गमिति स्मृतम् ।
प्रासादे मण्डपे साले गोपुरे बलिपीठके ॥ ७०/१०१ ॥
तोरणादिषु सुस्थं यद्वहिरङ्गमिति स्मृतम् ।
बहिरङ्गे विशेषोऽस्ति तच्छणुध्वं शिवद्विजाः ॥ ७०/१०२ ॥
जलाधिवासनं रत्नन्यासं धामप्रदक्षिणम् ।
शययाकॢप्तं विना वापि सर्वं पूर्ववदाचरेत् ॥ ७०/१०३ ॥
एतासामपि सर्वासां कर्षणं प्रथमेष्टकम् ।
धाम्नःकॢप्तिं च नित्येष्टिमुत्सवं स्नपनं तथा ॥ ७०/१०४ ॥
मासपूजाविधानं च प्रायश्चित्तविधिक्रमम् ।
जीर्णोद्धारं बालगृहं तत्र संस्थापनं तथा ॥ ७०/१०५ ॥
अद्भुते शान्तिमन्यच्च प्रकृत्युक्तं समाचरेत् ॥
॥ इति कामिकाख्ये महातन्त्रे प्रतिमाप्रतिष्ठाविधिः अष्टषष्टितमः पटलः ॥
</poem>
== विमानस्थापनविधिपटलः ==
<poem>
विमानस्थापनं वक्ष्ये वाञ्छितार्थफलप्रदम् ।
धिष्ण्यावसाने पूर्वोक्ते काले च त्वङ्कुरार्पणम् ॥ ७१/१ ॥
प्रासादस्याग्रतः कुर्यान्मण्डपं वेदिकान्वितम् ।
नवकुण्डसमायुक्तं पञ्चकुण्डयुतं तु वा ॥ ७१/२ ॥
मण्डपं मण्डयित्वा तु कुर्याच्छिल्पिविसर्जनम् ।
ब्राह्मणान् भोजयेत्तत्र तद्दिनात्प्राग्दिनत्रये ॥ ७१/३ ॥
तदा प्रासाददेहस्थबेराणां दृष्टिमोचनम् ।
मध्वाज्यधान्यगोविप्रकन्यानां दर्शनं द्विजाः ॥ ७१/४ ॥
तत्तद्धृदयमन्त्रेण कृत्वा संप्रोक्ष्य गव्यतः ।
संपूज्य गन्धपुष्पाद्यैः प्रासादं प्रोक्षयेत्ततः ॥ ७१/५ ॥
जंघायुगलचूडान्तं तत्त्वतत्त्वेश्वरान् न्यसेत् ।
मूर्तिमूर्तीश्वरान् न्यस्त्वा बेरेष्वपि तथाचरेत् ॥ ७१/६ ॥
वस्त्रैराच्छाद्य सर्वं तु पुष्पैर्दर्भैः परिस्तरेत् ।
मण्डपं संप्रविश्याथ पुण्याहं वाचयेत्ततः ॥ ७१/७ ॥
स्थण्डिले वेदिकायां तु वसुद्रोणैश्च शालिभिः ।
तदर्धतण्डुलैः शुद्धैः तिलैर्लाजैः तदर्धकैः ॥ ७१/८ ॥
मध्यमे शिवकुम्भं तु वर्धनीसहितं न्यसेत् ।
दिङ्मूर्तिसंख्यया कुम्भांस्तद्बहिः परितो न्यसेत् ॥ ७१/९ ॥
ससूत्रान् सापिधानांश्च सवस्त्रान् हेमसंयुतान् ।
चन्दनोदकसंपूर्णान् सकूर्चान् पल्लवान्वितान् ॥ ७१/१० ॥
गन्धादिभ्ः समभ्यर्च्य नैवेद्यान्तैः समन्ततः ।
कृत्वा तथाग्निसंस्कारमग्निकार्योक्तमार्गतः ॥ ७१/११ ॥
प्रधानकुण्डे हर्म्यस्य शिवाङ्गब्रह्मशम्बरैः ।
पूर्वस्मिन् पूर्वदिग्देवमन्त्रैर्दक्षे तु विन्यसेत् ॥ ७१/१२ ॥
पश्चिमे वरुणस्थैश्च सोमे सोमदिशि स्थितैः ।
विदिक्षु हृदयाद्यैश्च जुहुयाच्छतसंख्यया ॥ ७१/१३ ॥
पञ्चहोमेऽङ्गहीनैश्च मन्त्रैर्होमं समाचरेत् ।
समिदाज्यचरू लाजतिलसस्येन्द्रवैणवाः ॥ ७१/१४ ॥
उदुम्बरवटाश्वत्थन्यग्रोधा दिक्षु संस्थिताः ।
शम्यपामार्गखदिरबिल्वाः कोणेषु संस्थिताः ॥ ७१/१५ ॥
प्रधानस्य पलाशः स्यादेवं ज्ञात्वा समाचरेत् ।
तत्त्वतत्त्वेश्वराद्यैश्च हुत्वा पूर्णां समाचरेत् ॥ ७१/१६ ॥
प्रभाते तु गुरुः स्नात्वा विशुद्धो मूर्तिपैः सह ।
नववस्त्रस्रगुष्णीषः सोत्तरीयः समालकः ॥ ७१/१७ ॥
पञ्चाङ्गभूषणोपेतो दशनिष्कादिदक्षिणः ।
नववस्त्रादिसंयुक्तमूर्तिपैश्च समन्वितः ॥ ७१/१८ ॥
प्रासादान्तः स्थितान् देवानिष्ट्वा कुम्भांश्च पावकान् ।
प्रायश्चितं च पूर्णां च हुत्वा मूर्तिधरैः सह ॥ ७१/१९ ॥
कुम्भान् संगृह्य हर्म्यस्य प्रदक्षिणमथाचरेत् ।
प्रासाददक्षिणे देशे स्थण्डिले विन्यसेद्.घतान् ॥ ७१/२० ॥
प्रासादं पूजयित्वा तु वस्त्वाधारे शिवासनम् ।
मूर्तिविद्यातनुं देहे अष्टत्रिंशत्कलान्वितम् ॥ ७१/२१ ॥
विन्यस्य सावधानः सन् कुम्भादादाय शम्बरम् ।
न्यसेत्प्रासाददेहे तु वस्त्वाधारे मनोन्मनीम् ॥ ७१/२२ ॥
तत्तज्जलेन संप्रोक्ष्य ततो दिङ्मूर्तिषु न्यसेत् ।
अर्चयेदथ गन्धाद्यैर्नैवेद्यान्तं पृथक्पृथक् ॥ ७१/२३ ॥
एवं यः कुरुते मर्त्यो भुक्त्वा भोगान् शिवं व्रजेत् ॥
॥ इति कामिकाख्ये महातन्त्रे विमानस्थापनविधिः एकोनसप्ततितमः पटलः ॥
</poem>
== मण्डपस्थापनविधिपटलः ==
<poem>
लक्षणं मण्डपानां तु वक्ष्यते विप्रसत्तमाः ।
उक्तानामपि सर्वेषां धाम्नामग्रेऽग्रमण्डपम् ॥ ७२/१ ॥
तन्मानसममानं तु श्रेष्ठमित्यभिधीयते ।
मण्डपं सममानं चेत्सान्तरालं सवेशकम् ॥ ७२/२ ॥
युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गशोभितम् ।
सार्धहस्तं द्विहस्तं वा प्रासादार्धमथापि वा ॥ ७२/३ ॥
अन्तरालस्य दीर्घं स्यादन्यत्सन्धिगतं तु यत् ।
तन्मध्यममिति प्रोक्तं त्रिगुणं चोत्तमं भवेत् ॥ ७२/४ ॥
एकदण्डं द्विदण्डं वा त्रिदण्डं तस्य वेशनम् ।
सावकाशान्तरालं चेत्तस्माद्द्वित्रिगुणं भवेत् ॥ ७२/५ ॥
पार्श्वसोपानसंयुक्तं मूलसोपानभित्तिकम् ।
तदर्धं भित्तियुक्तं वा तदष्टांशेन भित्तिकम् ॥ ७२/६ ॥
प्रासादमष्टघा कृत्वा ह्रासयेदष्टभागतः ।
यावद्विभागमानं तु भवेद्द्वादशमानकम् ॥ ७२/७ ॥
मूलधाम्नो भवेच्छुद्धिर्मण्डपं चेद्द्विपार्श्वयोः ।
अन्तरालप्रदेशोक्तं वेशयुक्तं प्रकीर्तितम् ॥ ७२/८ ॥
अग्रमण्डपमीदृक्स्यात्प्रासादसमतुङ्गकम् ।
स्वायंभुवादिलिङ्गे तु न्यूनं वाप्यधिकं तु वा ॥ ७२/९ ॥
तद्वत्तस्य तलं चाथ भित्तिहीनं तु वा मतम् ।
विवृतस्तम्भसंयुक्तं न चेद्द्वारं तदग्रके ॥ ७२/१० ॥
द्वारलक्षणमार्गेण तत्पार्ऽऽवे द्वारपौ मतौ ।
विवृतस्तम्भसंयुक्तं चेन्मूलधामप्रवेशगौ ॥ ७२/११ ॥
हित्वा तु मण्डपं तत्र शुकाग्रं वा विधीयते ।
शुद्धनागरधाम्नैतद्गर्भमानार्धनिष्क्रमः ॥ ७२/१२ ॥
शिखरार्धसमुत्सेधः शुकनासाविभूषितः ।
अन्तरालं तदग्रे स्यात्पार्श्वदेशप्रमाणकम् ॥ ७२/१३ ॥
सनिष्क्रमान्तरालं वा मण्डपं वा विधीयते ।
पार्श्वद्वारसमोपेतं निर्द्वारं वाथ तद्भवेत् ॥ ७२/१४ ॥
तदग्रे मण्डपं कुर्यात्प्रतिमास्थापनार्थकम् ।
स्नपनार्थं तदग्रे स्यात्तदग्रे नृत्तमण्डपम् ॥ ७२/१५ ॥
एतेषामपि सर्वेषामधिष्ठानादिमानकम् ।
मूलधामसमं श्रेष्ठं स्वाष्टांशोनाधिकं तु वा ॥ ७२/१६ ॥
चतुः षोडशभागोनमधिकं वा प्रकीर्तितम् ।
मानवे मानवं ह्येतत्सामान्यं समुदाहृतम् ॥ ७२/१७ ॥
मण्डपं वा सभा वापि कूटमेषां समाकृतिः ।
एतेषामपि सर्वेषां प्रमाणमधुनोच्यते ॥ ७२/१८ ॥
त्रिकरं तु समारभ्य करपादविवृद्धितः ।
शहस्तावसानस्तु भवेन्मण्डपविस्तरः ॥ ७२/१९ ॥
प्रासादोक्तायसंयुक्तमिष्टपार्श्वगभित्तियुक् ।
नानाजालकसंयुक्तं नानाद्वारसमायुतम् ॥ ७२/२० ॥
पृथगाद्येष्टकोपेतमायादिशुभसंयुतम् ।
विस्तारमष्टवह्न्यह्नि वसुघ्नं रविणा भजेत् ॥ ७२/२१ ॥
मन्वष्टघ्नैस्तु यच्छिष्टं भवेद्धनमृणं द्विजाः ।
योनिस्तारा च पर्यन्ते त्रिंशन्मुनिहते सति ॥ ७२/२२ ॥
तिथिवारक्रमेणैव मण्डपायादयो मताः ।
न चायं विहितः त्वग्रमण्डपे चान्तरालके ॥ ७२/२३ ॥
आद्येष्टकादयोऽप्यत्र न विधेयाः पृथग्विधाः ।
अन्येषामपि सर्वेषां मूलोक्तं सर्वमाचरेत् ॥ ७२/२४ ॥
सार्धहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
पञ्चहस्तान्तमानं तु भित्तिमानं च मण्डपे ॥ ७२/२५ ॥
तथैव स्थम्भमानं स्यात्किं तु पङ्क्तिकरान्तकम् ।
पञ्चाङ्गुलं समारभ्य व्योममात्रविवृद्धितः ॥ ७२/२६ ॥
त्रिंशदङ्गुलपर्यन्तं स्तम्भतारं प्रकीर्तितितम् ।
व्योमपङ्क्ति समारभ्य व्योमपङ्क्तिविवृद्धितः ॥ ७२/२७ ॥
पञ्चाशत्पङ्क्तिपर्यन्तं मण्डपे पङ्क्तयो मताः ।
भद्रोपभद्रसंयुक्तं मध्यस्तम्भप्रभासनम् ॥ ७२/२८ ॥
लाङ्गलाकारकुड्याढ्यं नानालङ्कारशोभितम् ॥ ७२/२९ ॥
ब्रह्माङ्कणसमायुक्तमथवा तद्विवर्तितम् ।
द्वारतालतलोपेतं कूटकोष्ठादिशोभितम् ॥ ७२/३० ॥
एतदेव सभामानमिति प्रोक्तं द्विजेश्वराः ।
आस्थानमण्डपं कुर्याद्धाम्नो दिक्षु विदिक्षु च ॥ ७२/३१ ॥
प्रागुक्तेन प्रमाणेन मण्डपं कूटमेव वा ।
सभा वा तत्र कर्तव्या चाष्टदिङ्मुखसंयुतम् ॥ ७२/३२ ॥
समाश्रमायताश्रं वा मुखे भद्रयुतं तु वा ।
एकानेकतलोपेतं पार्श्वसोपानसंयुतम् ॥ ७२/३३ ॥
संपाद्यैवं तदग्रे तु सभाद्यं परिकीर्तितम् ।
पञ्चहस्तं समारभ्य व्योमहस्तविवृद्धितः ॥ ७२/३४ ॥
एकत्रिंशत्करान्तं तु विस्तारः तस्य संमतः ।
विस्तारपादवृद्ध्या तु यावद्वेदगुणं भवेत् ॥ ७२/३५ ॥
आयामं कल्पयेत्तस्य विस्तारे भित्तिरुच्यए ।
वह्निभित्तिं समारभ्य व्योमभित्तिविवर्धनात् ॥ ७२/३६ ॥
विश्वभित्त्यवसानं तु विस्तारे भित्तयो मताः ।
विस्तारभित्तिवसुधां कृत्वार्धार्धविवर्धनात् ॥ ७२/३७ ॥
विस्ताराध्यर्धमानान्ताः समानद्वारभित्तयः ।
युग्मभित्तिषु मध्यस्थपादानामोजविस्तरः ॥ ७२/३८ ॥
तन्मानं वर्धयेन्मध्ये पार्श्वभित्तिषु ह्रासयेत् ।
ओजभित्तिषु मध्यस्थपदश्रेणिद्वयं तु वा ॥ ७२/३९ ॥
त्यजेत्तस्य समन्तात्तु द्वारं कुर्याद्यथाविधि ।
मूलभित्तिप्रमाणेन पादं वार्धत्रिपादकम् ॥ ७२/४० ॥
द्वारमानं समाख्यातं तत्पादान् युक्तितो नयेत् ।
मूलपादाच्च द्वारस्थाः पादा ये संस्थिताः त्विह ॥ ७२/४१ ॥
तत्तत्पादविशालेन बहिरन्तर्निंवेशिताः ।
स्वस्वस्थानगता वापि विधातव्या विचक्षणैः ॥ ७२/४२ ॥
सभादिमध्यगं रङ्गस्थानं देवासनं तु वा ।
एतेषामपि सर्वेषां प्रोक्षणं त्वधुनोच्यते ॥ ७२/४३ ॥
कृत्वाङ्कुरार्पणं पूर्वं पुण्याहप्रोक्षणं तथा ।
ब्राह्मणान् भोजयित्वादौ तदुच्छिष्टं विवर्जयेत् ॥ ७२/४४ ॥
पुण्याहं च पुनः कृत्वा पञ्चगव्येन सेचयेत् ।
वास्तुहोमं ततः कृत्वा पर्यग्निकरणं नयेत् ॥ ७२/४५ ॥
मण्डपं भूषयित्वा तु गन्धाद्यैरर्चयेद्गुरुः ।
निवृत्त्यादिकला न्यस्त्वा मध्यस्तम्भचतुष्टये ॥ ७२/४६ ॥
कौतुकं बन्धयेदग्निकोणभागेऽथ बन्धयेत् ।
वस्त्रैरस्त्रेण चावेष्ट्य मालाद्यैर्भूषयत्ततः ॥ ७२/४७ ॥
गन्धाद्यैः पुनरभ्यर्च्य तत्त्वतत्त्वेश्वरान्वितान् ।
मूर्तिमूर्तीश्वरान्न्यस्त्वा मध्यमे मण्डपस्य तु ॥ ७२/४८ ॥
स्थण्डिलं शालिभिःकृत्वा वसुद्रोणादिमानतः ।
तण्डुलैः तिललाजैश्च दर्भैःपुष्पैः परिस्तरेत् ॥ ७२/४९ ॥
मध्यमे शिवकुम्भं तु निवृत्त्यादिकलान्वितम् ।
तद्वामे वर्धनीं तस्यां देवीमावाह्य भक्तितः ॥ ७२/५० ॥
चतुष्कुम्भं तु संस्थाप्य हेमवस्त्रादिसंयुतम् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं तेषु वह्नितः ॥ ७२/५१ ॥
पूजयेद्गन्धपुष्पाद्यैः नैवेद्यान्तैः पृथक्पृथक् ।
ततः शिवाग्निं संस्थाप्य समिदाज्यान्नलाजकैः ॥ ७२/५२ ॥
शतसंख्यं तदर्धं वा शिवाद्यैर्होममाचरेत् ।
प्रधानेन शिवेनाङ्गैः पूर्वदिक्स्थण्डिले मताः ॥ ७२/५३ ॥
धर्माद्यर्हृदयाद्यैर्वा होमः स्यादग्निकोणतः ।
तत्त्वाद्यैश्च ततो हुत्वा पूर्णाहुतिमथाचरेत् ॥ ७२/५४ ॥
प्रभातेऽथ गुरुः स्नात्वा मूर्तिपैश्च समन्वितः ।
नववस्त्रधृगुष्णीषी सोत्तरीयः समालकः ॥ ७२/५५ ॥
संप्राप्तदक्षिणो मूर्तिधारदैवज्ञशिल्पिभिः ।
सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं समारभेत् ॥ ७२/५६ ॥
मण्डपं वेदगात्रं च कुम्भानग्निं च योजयेत् ।
प्रायश्चित्तमघोरेण कृत्वा पूर्णां समाचरेत् ॥ ७२/५७ ॥
शिवमण्डपदेहे तु वस्त्वाधारे मनोन्मनीम् ।
न्यस्त्वा तदद्भिः संप्रोक्ष्य गन्धपुष्पादिभिर्यजेत् ॥ ७२/५८ ॥
नैवेद्यान्ते गुरुर्मन्त्री हृदयेन तु मन्त्रतः ।
एवमेव सभादीनां विधेयं प्रोक्षणं बुधाः ॥ ७२/५९ ॥
एवं यः कुरुते मर्त्यः सोऽनिष्टैर्विप्रयुज्यते ॥
॥ इति कामिकाख्ये महातन्त्रे मण्डपस्थापनविधिः सप्ततितमः पटलः ॥
</poem>
== प्राकारलक्षणविधिः ==
<poem>
अथ वक्ष्ये विशेषेण प्राकाराणां तु लक्षणम् ।
प्रासादस्य विशालार्धं दण्डमित्यभिधीयते ॥ ७३/१ ॥
एकद्वित्रिचतुष्पञ्चदण्डैर्मध्यात्समन्ततः ।
एकप्राकारकॢप्तिस्तु पञ्चधा परिकीर्तिता ॥ ७३/२ ॥
मूलालयविशाले तु त्रिधा भक्ते पदं भवेत् ।
तेन भागेन तद्बाह्ये द्विगुणं त्रिगुणं तु वा ॥ ७३/३ ॥
त्रिचतुर्गुणकं चापि चतुष्पञ्चगुणं तु वा ।
पञ्चषड्गुणमिष्टं च प्राकारद्वयकल्पनम् ॥ ७३/४ ॥
एवं चतुर्विधं प्रोक्तं त्रिप्राकारस्तु कथ्यते ।
प्रासादस्य चतुर्भागे यस्तु दण्डमिहोच्यते ॥ ७३/५ ॥
तस्य द्वित्रिचतुर्भागैस्त्रिचतुष्पञ्चभिः तथा ।
चतुष्पञ्चषडंशैस्तु पञ्चषट्सप्तभिस्तथा ॥ ७३/६ ॥
षट्सप्ताष्टभिरुद्दिष्टं त्रिप्राकारप्रमाणकम् ।
पञ्चधा कथितं वेदप्राकारं शृणुत द्विजाः ॥ ७३/७ ॥
त्रिप्राकारस्य बाह्ये तु एकैकाङ्गुलवर्धनात् ।
नवभागावसानं तु समन्तात्परिवर्धयेत् ॥ ७३/८ ॥
एवं पञ्चविधं प्रोक्तं चतुष्प्राकारमानकम् ।
एवं चतुष्प्राकारेऽपि प्रासादस्य विशालकम् ॥ ७३/९ ॥
समस्तं चार्धमानं च त्रिचतुर्भागमानकम् ।
दण्डार्धं योजयेद्धीमान् हस्तमानेन चोच्यते ॥ ७३/१० ॥
द्विहस्तादेकवृद्ध्या तु नवहस्तावसानकम् ।
एषु प्राकारमानं तु क्षुद्राणामष्टधा मतम् ॥ ७३/११ ॥
द्विहस्तं च त्रिहस्तं च त्रिचतुर्हस्तमेव च ।
चतुष्पञ्चकरं चैव पञ्चषट्करमेव च ॥ ७३/१२ ॥
षट्सप्ताष्टकरं चैव अष्टनन्दं तथैव च ।
नन्ददीर्घाष्टकं चैव द्विप्राकारप्रमाणकम् ॥ ७३/१३ ॥
अस्मादेककरर्द्ध्या तु रुद्रहस्तान्तमेव च ।
त्रिप्रकारप्रमाणं तु वेदप्राकारकं तथा ॥ ७३/१४ ॥
एकैकहस्तवृद्ध्या तु रविहस्तावसानकम् ।
चतुष्प्राकारमानं तु क्षुद्रादीनां प्रकीर्तितम् ॥ ७३/१५ ॥
जातिच्छन्दविकल्पाभासादीनां तु समीरितम् ।
नियमो विद्यते नैव प्रासादे सार्वदेशिके ॥ ७३/१६ ॥
जातौ जातिकराणां तु अन्यस्यापि च सद्मनः ।
अर्धत्र्यंशचतुर्भागैर्द्विभागैश्च क्रमेण तु ॥ ७३/१७ ॥
सममार्गानुमार्गाभ्यां नागरादौ नियुज्यते ।
प्रासादस्य विशालेन सपादेन समेन च ॥ ७३/१८ ॥
पादोनेन विशालेन महामार्गार्हकं तु वा ।
कल्पयेद्धस्तमानेऽपि प्रागुक्तविधिना सह ॥ ७३/१९ ॥
अयं विभागो नास्त्येव प्रासादे सार्वदेशिके ।
पञ्चषण्मुनिसालेऽपि चाष्टनन्दवृतौ तथा ॥ ७३/२० ॥
हस्तैः पादैः समन्तात्तु वर्धयेत्पूर्वमानतः ।
समं तु चतुरश्रं तत्पूर्वं कृत्वा ततः परम् ॥ ७३/२१ ॥
कल्पयेत्तु मुखायामं देवस्याभिमुखं यथा ।
पृष्ठे वा कल्पयेत्पार्श्वे पुरातनविमानके ॥ ७३/२२ ॥
नूतने वा प्रकर्तव्यं स्थानसंकटसंयुते ।
एकहस्तं समारभ्य हस्तैकैकविवृद्धितः ॥ ७३/२३ ॥
एकादशकरान्तं तु प्रागुक्तात्तु विशालकात् ।
वर्धयेद्ध्रासयेद्वापि यावदिष्टप्रपूरणम् ॥ ७३/२४ ॥
पृष्ठे वापि मुखे वापि पार्श्वयोरुभयोस्तु वा ।
एकपार्श्वेऽथवा कुर्यान्मुखायामे प्रकल्पयेत् ॥ ७३/२५ ॥
पादाधिकमथाध्यर्धं पादोनद्विगुणं तु वा ।
द्विगुणं द्विगुणार्धं वा त्रिगुणं च चतुर्गुणं ॥ ७३/२६ ॥
द्विहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ।
यावत्पञ्चगुणं तारं मुखायामं प्रकल्पयेत् ॥ ७३/२७ ॥
भित्त्यन्तरालमानं वा भित्तिबाह्यमथापि वा ।
भित्तिमध्यं तु वा कुर्यात्प्राकाराणां प्रमाणकम् ॥ ७३/२८ ॥
आयादिषट्कसिद्ध्यर्थं वृद्धिं हानिं च हस्तकैः ।
कल्पयेत्पादमार्गेण प्राकारस्य प्रकल्पने ॥ ७३/२९ ॥
सच्छिन्नहस्तप्रासादे छिन्नहस्तस्य लोपनम् ।
पूरणं वा प्रकर्तव्यं हस्तमानवशेऽपि च ॥ ७३/३० ॥
देवानाभेतदुक्तं तु नराणां स्यात्खलूरिका ।
तदुक्तमात्रं संग्राह्य मात्रोक्तं तत्र योजयेत् ॥ ७३/३१ ॥
आयं वसुगुणं कृत्वा सप्तविंशतिभिर्हरेत् ।
शेषं ऋक्षं तु विस्तारात्सकलाद्वाथ कल्पयेत् ॥ ७३/३२ ॥
उक्तादेकमथवाष्टगुणितं भानुभिर्भजेत् ।
आयं त्रिगुणितं दिग्भिर्मनुभिर्विभजेत्ततः ॥ ७३/३३ ॥
व्ययस्तु कथितः शास्त्रैर्द्विगुणं वसुभिर्हरेत् ।
ध्वजादियोनयः प्रोक्ताः पर्यन्तत्रिंशतो भवेत् ॥ ७३/३४ ॥
तिथिश्च कथिता वारो मुनिभिर्भाजितो भवेत् ।
मूलप्रासादहस्तैर्वा चान्यैर्वाथ निरीक्षयेत् ॥ ७३/३५ ॥
एकहस्तं समारभ्य चैकाङ्गुलविवर्धनात् ।
द्विहस्तान्तः समुद्दिष्टः सालानां चैव विस्तरः ॥ ७३/३६ ॥
तद्विस्तारप्रमाणेन यावत्त्रिंशद्गुणं भवेत् ।
त्रिगुणं तु समारभ्य क्षुद्रे महति मन्दिरे ॥ ७३/३७ ॥
प्राकारोत्सेध उद्दिष्टो मूलादूनं तदग्रतः ।
षडंशं तु समारभ्य यावत्षोडशभागिकम् ॥ ७३/३८ ॥
तावत्कृत्वा समूलं तु चैकांशेन तदग्रकम् ।
अधिष्ठानादिवर्गाढ्यं खण्डहर्म्यादिमण्डितम् ॥ ७३/३९ ॥
ऋजुभक्तियुतं वापि प्राकारं तु प्रकल्पयेत् ।
छत्रादिशिखरोपेतमूर्ध्वस्थवृषभान्वितम् ॥ ७३/४० ॥
तस्य दण्डप्रमाणेन चार्धेनाथ त्रिपादतः ।
सपादेनाथ सार्धेन पादोनद्विगुणेन वा ॥ ७३/४१ ॥
द्विगुणेन च मूले तु भित्तेश्चैव विनिर्गमः ।
उपानं कथितं तस्योपरिष्टात्तेन मानतः ॥ ७३/४२ ॥
अर्धादिपादवृद्ध्यादिद्विगुणान्तं हि पादकम् ।
तस्योपरिष्टात्कम्पं तु तच्चतुर्थांशमानतः ॥ ७३/४३ ॥
तस्यार्धेन त्रिपादेन सपादेन च सार्धतः ।
पादोनद्विगुणं वापि द्विगुणान्तं प्रकल्पयेत् ॥ ७३/४४ ॥
कम्पमेकं द्वयं वापि ऊर्ध्वोपानं तु वा भवेत् ।
अन्तः सालाङ्कणं निम्नं बाह्यसालाङ्कणं भवेत् ॥ ७३/४५
सालानामन्तरे व्यासं बाह्ये सालाङ्कणं भवेत् ।
अङ्गुलद्वयमारभ्य चैकैकाङ्गुलवर्धनात् ॥ ७३/४६ ॥
नवमात्रान्तकं यावत्प्रतिसालं तु निम्नकम् ।
षट्पञ्चवेदरुद्राक्षद्व्यङ्गुलैः परिकल्पयेत् ॥ ७३/४७ ॥
जातिच्छन्दविकल्पाभासानां क्षुद्रस्य चैव हि ।
सार्वदेशिकहर्म्ये तु ना चायं विधिरिष्यते ॥ ७३/४८ ॥
स्वायंभुवादिलिङ्गानामन्तर्निम्नसमं तु वा ।
बाह्यनिम्नं तु वा कार्यं सालानामङ्कणं बुधैः ॥ ७३/४९ ॥
सालानामन्तरेऽपि स्यान्मालिकामण्डपाकृतिः ।
सभाकृतिर्वा कर्तव्या चैकद्वित्रिकभित्तिभिः ॥ ७३/५० ॥
चतुर्भिंत्तियुता वापि एकानेकतलान्विता ।
उपानात्तु समारभ्य मूलप्रासादतुङ्गकम् ॥ ७३/५१ ॥
उत्तरान्तं विभज्याथ सप्तधा तु मसूरकम् ।
द्विपादं पाददैर्घ्यं तु शेषेण परिकल्पयेत् ॥ ७३/५२ ॥
मूलधाम्नस्तु पादं तु भजेद्वा नवसंख्यया ।
अधिष्ठानद्विभागेन पादं शेषेण कल्पयेत् ॥ ७३/५३ ॥
द्विहस्तं तु समारभ्य चैकैकाङ्गुलवर्धनात् ।
सप्तहस्तान्त उत्सेधः स्तम्भानां परिकीर्तितः ॥ ७३/५४ ॥
भित्तिमानं तथैव स्यात्क्षुद्रे क्षुद्रविमानके ।
पक्षाङ्गुलं समारभ्य चार्धाङ्गुलविवर्धनात् ॥ ७३/५५ ॥
चतुर्विंशतिमात्रान्तं स्तम्भविस्तार इष्यते ।
पादोच्चार्धमधिष्ठानसप्तमाष्टनवांशकम् ॥ ७३/५६ ॥
हीनं वाप्यधिकं वापि पादोच्चेऽप्येवमेव हि ।
पादोच्चे त्रिचतुर्भागेनाथवापि मसूरकम् ॥ ७३/५७ ॥
पादबन्धं सजातीयमधिष्ठानं नियोजयेत् ।
प्रस्तरादिप्रमाणं च प्रासादोक्तवदाचरेत् ॥ ७३/५८ ॥
आग्नेये नैरृते कोणे वायव्ये चाथ वैशके ।
चतुष्कोणेऽपि वा कुर्याद्गर्भं च प्रथमेष्टकाम् ॥ ७३/५९ ॥
अभ्यन्तरमुखाश्चैव प्राकाराः परिकीर्तिताः ।
स्वस्य दक्षिणकेंऽशे तु द्वारकोणान्तरेऽपि वा ॥ ७३/६० ॥
गृहक्षते महेन्द्रे वा भल्लाटे पुष्पदन्तके ।
स्थानं गर्भस्य निर्दिष्टं तत्रस्था प्रथमेष्टका ॥ ७३/६१ ॥
मूर्धेष्टकोर्ध्वकीलाढ्यं मूलात्तत्परिकल्पयेत् ।
भित्त्यूर्ध्वस्थचतुष्कोणेष्वेकस्मिन्निष्टकां न्यसेत् ॥ ७३/६२ ॥
अन्तर्मण्डलमाद्यं स्यादन्तर्हारा द्वितीयका ।
तृतीया मध्यहारा स्यान्मर्यादाख्या चतुर्थका ॥ ७३/६३ ॥
महामर्यादिकाख्या च पञ्चमी परिकीर्तिता ।
परिवारामरान् सर्वांस्तत्र संस्थापयेद्गुरुः ॥ ७३/६४ ॥
परिवारविधानाय तच्च लेशान्निगद्यते ।
परिवारविमानानां मानं गर्भार्धमेव वा ॥ ७३/६५ ॥
मूलवास्तुत्रिभागैकमर्धं वा पादबाह्यकम् ।
एकहस्तं समारभ्य रुद्रहस्तान्तमेव हि ॥ ७३/६६ ॥
प्रासादस्य तु विस्तारो ह्युत्सेधः प्राग्वदेव हि ।
अङ्गलिङ्गालयाकाराः परिवारालया मताः ॥ ७३/६७ ॥
भित्त्याश्रिता विशिष्टा वा परिवारालया मताः ।
सन्त्यक्तपादरूपांशमूलदेशमुखान्विताः ॥ ७३/६८ ॥
पूर्वस्थाः पश्चिमास्याः स्युः पूर्वास्याः पश्चिमस्थिताः ।
दक्षस्थाः सौम्यवक्त्राः स्युर्दक्षास्याः सौम्यदिग्गताः ॥ ७३/६९ ॥
क्षेत्रेशो दक्षवक्त्रो वा चण्डेशश्च तथैव च ।
नागराडीशदेशे स्यादगस्त्यश्च तथैव च ॥ ७३/७० ॥
धनदोऽपि तथा प्रोक्तस्तथा चण्डेश्वरो मतः ।
वसवो ऋषयश्चार्का रुद्रा एकादशैव हि ॥ ७३/७१ ॥
अश्विनौ वास्तुदेवाश्च बहिर्वान्तर्व्यवस्थिताः ।
सर्वेषु परिवारेषु सामान्योऽयं प्रकीर्तितः ॥ ७३/७२ ॥
देवाग्रे स्थापयेदुक्षं देवस्याभिमुखं तु वा ।
मण्डपं तु चतुर्द्वारं कारयेद्वृषभस्य तु ॥ ७३/७३ ॥
आदितः परिवारोऽयं त्रिशूलेन समाहितः ।
द्वितीयः परिवारः स्यात्सचण्डेशः तृतीयकः ॥ ७३/७४ ॥
विघ्नेश्वरसमायुक्तश्चतुर्थः परिकीर्तितः ।
ततः सप्तार्चिषा युक्तः पञ्चमोऽद्य समीरितः ॥ ७३/७५ ॥
स्कन्दज्येष्ठासमायुक्तौ वीरौ द्वौ षष्ठसप्तमे ।
अष्टमः परिवारः स्यात् संयुक्तः सप्तमातृभिः ॥ ७३/७६ ॥
सकलादिपदे देवान् स्थापयेद्युक्तितो बहिः ।
परिवाराष्टकैर्हीनं विमाने परिकल्पयेत् ॥ ७३/७७ ॥
वृषोऽग्निमातरौ विघ्नस्कन्दौ ज्येष्ठा च चण्डिका ।
आदित्यश्च क्रमेण स्याद्गणविद्येश्वरास्तु वा ॥ ७३/७८ ॥
मातॄणामुत्तरे दक्षे चण्डिकां वा मुनीश्वराः ।
पद्मजं स्थापयेद्विष्णुं तद्विहीनमथापि वा ॥ ७३/७९ ॥
दुर्गां हित्वाथ विष्णुं वा कुबेरं सोममेव वा ।
चण्डेशमीशदिग्भागे क्षेत्रपालं च तत्र वै ॥ ७३/८० ॥
विघ्नेशकन्दयोर्मध्ये वारुणे वा श्रियं न्यसेत् ।
विघ्नसरस्वतीयुक्तां तृतीयां वा पृथङ्न्यसेत् ॥ ७३/८१ ॥
अथवा लोकपालाः स्युर्यमो मातृयुतो न वा ।
अष्टदिक्षु विशालाः स्युः सपीठाः केवलास्तु वा ॥ ७३/८२ ॥
विघ्नेशः सर्वदेशस्थो गौरिस्कन्दौ तथैव च ।
द्वादश स्युर्द्विरष्टौ च चतुर्विंशतिसंख्यका ॥ ७३/८३ ॥
द्वात्रिंशत्परिवाराः स्युरन्तर्मध्यमहारयोः ।
द्विरष्टपरिवारोऽयं तेषु सौम्यं निगद्यते ॥ ७३/८४ ॥
उपपीठपदं कृत्वा स्थापयेद्रविदेशतः ।
आदित्यं सुप्रजं वह्निं किन्नरं मातरं तथा ॥ ७३/८५ ॥
चिबुधं विघ्नराजं च श्रियं च वरुणं तथा ।
स्कन्दं ज्येष्ठां च दुर्गां च विष्णुं चण्डेश्वरं तथा ॥ ७३/८६ ॥
क्षेत्रजं गीतजं पश्चात्स्थाप्यन्तां मुनिपुङ्गवाः ।
अस्मिन्नेव पदे चान्तर्विंद्येशा द्वारपास्तु वा ॥ ७३/८७ ॥
द्विरस्टपरिवाराः स्युर्द्वात्रिंशदधुनोच्यते ।
स्थण्डिले तु पदे स्थाप्य र्द्वात्रिंशद्रविभागतः ॥ ७३/८८ ॥
आदित्यं चोदकं गङ्गां वह्निं नागमगस्त्यकम् ।
यमं सुशान्तं भूतेशं विघ्नेशं भारतीमपि ॥ ७३/८९ ॥
श्रियं जलेशं स्कन्दं व दुर्गां ज्येष्ठां मनोन्मनीम् ।
ब्रह्माणं विष्णुमन्ते च काश्यपं नन्दिनं तथा ॥ ७३/९० ॥
क्षेत्रजं विमलं चान्ते गजेन्द्रं स्थापयेद्बहिः ।
अन्तर्विषद्येश्वरान् वापि ऋषीन् वा विन्यसेद्वसून् ॥ ७३/९१ ॥
अथाष्टपरिवारान् वा विन्यसेद्देशिकोत्तमः ।
एकसालादिसालेषु युक्त्या सर्वत्र योजयेत् ॥ ७३/९२ ॥
पीठस्था वाथ बिम्बस्थाः परिवारामरा मताः ।
वृषं शूलं च चण्डेशं महापीठं गणाधिपम् ॥ ७३/९३ ॥
नागराजानमित्येतान् सर्वत्र परिकल्पयेत् ।
एषां मध्यादथेष्टान्वा न्यसेत्पञ्चादिसालके ॥ ७३/९४ ॥
चतुर्दिक्षु चतुष्पीठे चाग्रपृष्ठे द्वयं तु वा ।
पृष्ठं विहाय त्रितयमेकमग्रेऽथवा भवेत् ॥ ७३/९५ ॥
कोणाद्वारे भवेत्पीठं कोणस्थं दिग्गतन्तु वा ।
प्रतिसालं तु पीठं वा पैशाचं तु बहिर्भवेत् ॥ ७३/९६ ॥
पञ्चाङ्गुलं समारभ्य चैकाङ्गुलविवर्धनात् ।
पञ्चविंशतिमात्रान्तो विस्तारादग्रपीठके ॥ ७३/९७ ॥
पारमर्धं त्रिपादं वा समं वोच्चविशालतः ।
द्वित्रिवेदेषु षट्सप्तभागान् कृत्वैकभागतः ।
एकद्वित्रिचतस्रः स्युर्मेखलायास्तथोपरि ॥ ७३/९८ ॥
सकर्णिकं तु पद्मं स्यात्केवला कर्णिकापि वा ।
मेखलाद्विगुणं पद्मं त्रिगुणं वा चतुर्गुणम् ॥ ७३/९९ ॥
पद्मोच्चं कीर्तितं वेशो मेखलासदृशो भवेत् ॥
त्रिपादं वा द्विपादं वा परिकल्पयेत् ॥ ७३/१०० ॥
कर्णिका मेखलोच्चा वा पद्मार्धेनाथ पादतः ।
त्रिपादेन विधेया वा यथाशोभबलेन वा ॥ ७३/१०१ ॥
वृत्तं वा चतुरश्रं वा क्षुद्रपीठं तदीरितम् ।
महतां पीठकानां च लक्षणं शृणुतोत्तमाः ॥ ७३/१०२ ॥
धामगर्भसमो वापि तदर्धः पाद एव वा ।
तदन्तरेऽष्टभागे तु नवधा विस्तरो भवेत् ॥ ७३/१०३ ॥
रुद्रमात्रं समारभ्य द्वित्र्यङ्गुलविवर्धनात् ।
नवहस्तप्रमाणान्तो महापीठस्य विस्तरः ॥ ७३/१०४ ॥
विस्तारसम उत्सेधः सपादः सार्ध एव वा ।
त्रिपादो ह्यर्ह्दमानो वा तत्तदन्तरजोऽपि वा ॥ ७३/१०५ ॥
पीठोच्चः षोडशांशो वा एकभागेन कीर्तितः ।
पीठतारसमो वा स्यादेकद्वित्र्यङ्गुलोन्नतः ॥ ७३/१०६ ॥
जगती चतुरंशः स्यात्त्रिपादं कुमुदो भवेत् ।
पादेन कम्पः कर्णस्तु त्रिपादेन प्रकीर्तितः ॥ ७३/१०७ ॥
भागेनोपरि कम्पः स्याद्वाजनं तु द्विभागतः ।
भागेन वाजनं चोर्ध्वे तदूर्ध्वे पद्ममिष्यते ॥ ७३/१०८ ॥
पीठाकारसमो वा स्यादेकद्वित्र्यङ्गुलोन्नतः ।
षोडशाष्टांशहीनो वा पत्रविस्तार इष्यते ॥ ७३/१०९ ॥
तदर्धो वा त्रिपादो वा स्वव्यासादुच्चमिष्यते ।
तयोरन्तरमानं तु नवधोच्चं भवेद्द्विजाः ॥ ७३/११० ॥
पद्मतारत्रिभागैका कर्णिकार्धेन वा मता ।
पादमानान्तराष्टांशे नवमानं प्रकीर्तितम् ॥ ७३/१११ ॥
कर्णिकाविस्तरः प्रोक्तः तत्त्रिपादः समोऽपि वा ।
अर्धमानान्तरोपेतः कर्णिकोच्छ्राय इष्यते ॥ ७३/११२ ॥
पादाष्टांशविहीनः स्यादग्रस्थूलस्य विस्तरः ।
अधिष्ठानोपपीठोक्तकृतिं वोपरि कल्पयेत् ॥ ७३/११३ ॥
धामाकृतिर्वा कर्तव्या पस्तरान्ता गुरुत्तमाः ।
मध्यभद्रयुतं वापि नानाचामरसंयुतम् ॥ ७३/११४ ॥
नानाभूतसमायुक्तं कोणस्थर्क्षसमन्वितम् ।
अनेकनासिकाजालं सोपपीठं तु केवलम् ॥ ७३/११५ ॥
वृत्तं वा चतुरश्रं वा त्र्यक्षं वस्वश्रमेव वा ।
प्रासादपोतमध्यात्तु पादमध्यविवर्जितम् ॥ ७३/११६ ॥
मूलधाम्नः समारभ्य वह्निदण्डं व्यपोह्य च ।
तत्र संस्थापयेत्पीठं तत आरभ्य वर्धयेत् ॥ ७३/११७ ॥
अर्धदण्डेन पंचाशद्दण्डान्तं देशिकोत्तमः ।
पीठायामान्तरा ह्येतद्वृषपृष्ठेऽथवा भवेत् ॥ ७३/११८ ॥
सालानां मध्यदेशे वा ग्राममार्गान्तरेऽपि वा ।
ग्राममध्येऽथवा कुर्याद्धामेशानेऽथवा भवेत् ॥ ७३/११९ ॥
आयाद्यं धामजात्युक्तवर्त्मनैव परीक्षयेत् ।
कुर्यादाद्येष्टकामध्ये पूर्वोक्तविधिना गुरुः ॥ ७३/१२० ॥
दक्षिणे पश्चिमे वास्य सोपानं परिकल्पयेत् ।
संश्लिष्टं वाथ विश्लिष्टं सोपानं तदपीरितम् ॥ ७३/१२१ ॥
पश्चिमद्वारसंयुक्तं वृषभं शूलमेव च ।
महापीठध्वजाद्यं च पश्चिमे परिकल्पयेत् ॥ ७३/१२२ ॥
दक्षद्वारे च कौबेरेऽप्येवमेव समाचरेत् ।
चतुर्द्वारयुते द्वारं प्रत्यक्षं वा सशूलकम् ॥ ७३/१२३ ॥
महापीठमथैकत्र स्थापयेद्वा ध्वजादिकम् ।
प्रतोली पूर्वदेशे स्यात्पश्चिमे वा चतुर्दिशि ॥ ७३/१२४ ॥
आग्नेयां तु धनस्थानं नैऋत्यामायुधालयः ।
वायव्यां शयनस्थानमैशान्यां कूपमिष्यते ॥ ७३/१२५ ॥
सदाशिवाद्याः सर्वत्र स्थापनीयाः समन्ततः ।
इन्द्रपावकयोर्मध्ये धनस्थानं तु वा भवेत् ॥ ७३/१२६ ॥
आग्नेययां पचनस्थानं यागशाला च तत्र च ।
अग्निकुण्डं च तत्र स्याद्यमपावकमध्यमे ॥ ७३/१२७ ॥
पुष्पमज्जनशाला स्यात्पानीयस्थामेव च ।
कामिकादिशिवज्ञानस्थानं याम्यदिशि स्थितम् ॥ ७३/१२८ ॥
यमराक्षस मध्ये तु गन्धादिस्थानमिष्यते ।
निरृतौ पुष्पसंस्थानं तद्वामे वाथ कल्पयेत् ॥ ७३/१२९ ॥
धर्मसंकीर्तनं वात्र वारुणे वा प्रकल्पयेत् ।
वायव्ये दक्षिणे वाथ ज्ञानकोशं प्रकल्पयेत् ॥ ७३/१३० ॥
तत्र वा शयनस्थानं सोमवायवन्तरेऽपि वा ।
कूपस्थानं कुबेरे वा तत्पूर्वे वैशदेशके ॥ ७३/१३१ ॥
यागमण्डपमिष्टं स्यात्तद्दक्षे वाद्यमिष्यते ।
ऐशान्यां शयनस्थानमथवा परिकल्पयेत् ॥ ७३/१३२ ॥
तद्दक्षिणे वा तत्स्थानं सोमे वा परिककल्पयेत् ।
कूपं च शयनस्थानं पुष्पमज्जनमण्डपे ॥ ७३/१३३ ॥
मद्भक्तस्थानकं विद्यास्थानं वस्त्रसुवर्णयोः ।
देवोपकरणस्थानं नोक्तं विस्तारभीरुणा ॥ ७३/१३४ ॥
तत्सर्वं यजमानेच्छावशेन परिकल्पयेत् ।
देवोपजीविनां स्थानं तथैव परिकल्पयेत् ॥ ७३/१३५
देवालयसमीपे तु देशिकस्यालयो भवेत् ।
पूजकानां गृहं तत्र परिचारकसंस्थितिः ॥ ७३/१३६ ॥
पुष्पारामादिकानां तु स्थानं सर्वत्र कल्पयेत् ।
आस्थानमण्डपं सर्वदेशेऽपि विविधं नयेत् ॥ ७३/१३७ ॥
अन्यद्ग्रामोक्तरीत्या तु स्थानं संक्ल्प्यतां बुधाः ।
॥ इति कामिकाख्ये महातन्त्रे प्राकारलक्षणविधिः एकसप्ततितमः पटलः ॥
</poem>
== परिवारस्थापनविधिः ==
<poem>
स्थापनं परिवाराणां संक्षेपाच्छृणुत द्विजाः ।
त्रिहस्तं तु समारभ्य करस्यैकस्य वर्धनात् ॥ ७४/१ ॥
मण्डपस्यास्य विस्तारो नवहस्तान्तमेव हि ।
तन्मध्ये वेदिकोपेतं षोडशस्तम्भसंयुतम् ॥ ७४/२ ॥
रविस्तम्भयुतं वापि चतुःस्तम्भयुतं तु वा ।
कुण्डं वा स्थण्डिलं वापि शरवेदैकसंख्यया ॥ ७४/३ ॥
वृत्तं वा चतुरश्रं वा कुण्डं कुर्याद्दिगश्रकम् ।
मातॄणां नवकुण्डं वा चैककुण्डमथापि वा ॥ ७४/४ ॥
योग्यानां रत्नविन्यासं नेत्रोन्मीलनमेव च ।
पञ्चगव्यादिभिस्तेषां शुचिं तोयाधिवासनम् ॥ ७४/५ ॥
ततो मण्डपसंस्कारं ततो बिम्बादिशोधनम् ।
कौतुकं शयनारोहं कुम्भविन्यासमेव च ॥ ७४/६ ॥
कृत्वा तु पूर्ववत्सर्वं स्वनामाद्यकक्षरेण तु ।
तत्तद्वर्णादिसंस्थाने यजेत्सम्यक्छिवद्विजाः ॥ ७४/७ ॥
तेषां मूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।
पलाशोदुम्बराश्वत्थवटैः पूर्वादिदिक्षु च ॥ ७४/८ ॥
समिदाज्यचरून् लाजान् तिलांश्च जुहुयात्क्रमात् ।
ततः प्रभाते बिम्बाद्यं कुम्भानग्नींश्च पूजयेत् ॥ ७४/९ ॥
दक्षिणां दापयेत्पश्चादाचार्यादेर्विंधानतः ।
निष्कादिदशनिष्कान्ता गुरावन्येषु पूर्ववत् ॥ ७४/१० ॥
मूहूर्तनाडिकापूर्वं मन्त्रन्यासं समारभेत् ।
कुम्भाद्बीजं समादाय विन्यसेत्स्वस्वदेशके ॥ ७४/११ ॥
प्रासादतारपादं वा तदर्धं वा त्रिपादकम् ।
समं सपादं सार्धं वा सजगत् पादुका बहिः ॥ ७४/१२ ॥
न्यस्त्वा संस्थापयेत्पीठानथवादौ विधाय तान् ।
प्रतिष्ठां कारयेन्मुक्त्वारत्नन्यासं प्रदक्षिणम् ॥ ७४/१३ ॥
जलाधिवासनं कुर्यादन्यत्कर्म समारभेत् ।
महापीठप्रतिष्ठाया विधानमधुनोच्यते ॥ ७४/१४ ॥
पूर्वपश्चिमसोमेषु मण्डपं पूर्ववन्नयेत् ।
वेदैकसंख्यया कुण्डं वेदाश्रं स्थण्डिलं तु वा ॥ ७४/१५ ॥
पञ्चगव्यादिभिः पीठशुद्धिं कृत्वा च कौतुकम् ।
स्थण्डिले वेदिकायां तु कुण्डन्यासं तु कारयेत् ॥ ७४/१६ ॥
मध्यपूर्वयमाप्येन्दुशङ्करस्थघटेष्वथ ।
अविघ्नं च तथामोदं प्रमोदं प्रमुखं तथा ॥ ७४/१७ ॥
दुर्मुखं विघ्नकर्तारं न्यस्त्वा वर्णांस्तु भावयेत् ।
अविघ्नं विद्रुमप्रख्यमामोदं श्यामवर्णकम् ॥ ७४/१८ ॥
प्रमोदं कृष्णवर्णं च प्रमुखं स्फटिकप्रभम् ।
दुर्मुखं कुङ्कुमाभं च ध्यात्वैवं पूजयेद्गुरुः ॥ ७४/१९ ॥
पीठे तत्त्वेशमूर्त्यादिन्यासं होमं समाचरेत् ।
जङ्घागलकपद्मान्तमात्मतत्त्वादिकं न्यसेत् ॥ ७४/२० ॥
समिदाज्यचरून् लाजान् सर्षपं च यवं तिलम् ।
क्रमेण जुहुयाद्धीमान् पलाशोदुम्बरौ वटम् ॥ ७४/२१ ॥
अश्वत्थं प्राग्दिगारभ्य पूर्ववद्धोममाचरेत् ।
संपूज्य पीठं कुम्भांश्च प्रभाते पावकं तथा ॥ ७४/२२ ॥
दक्षिणां पूर्ववद्दत्वा मन्त्रन्यासं समारभेत् ।
अविघ्नं कर्णिकामध्ये विन्यसेत्कुम्भमध्यगम् ॥ ७४/२३ ॥
आमोदादीन्न्यसेद्धीमान् चतुर्दिक्ष्वीशकोणके ।
तत्तत्कुम्भोदकेनैव स्नापयेत्पीठमादरात् ॥ ७४/२४ ॥
एवं स्याद्भूतपीठस्य पैशाचेऽप्येवमाचरेत् ।
किन्तु मध्यमकुम्भस्य मध्यमे नीललोहितम् ॥ ७४/२५ ॥
नक्षत्रं पूर्वदिभागे राशिं चैव तु दक्षिणे ।
पश्चिमे क्षेत्रपालं च सोमे विश्वगणान्न्यसेत् ॥ ७४/२६ ॥
रुद्रांश्च पूर्वदिक्कुम्भे याम्ये मातृगणान्न्यसेत् ।
गणान् पश्चिमदिग्भागे यक्षानुत्तरदिग्गते ॥ ७४/२७ ॥
ग्रहानीशानदिग्भागे वह्नावसुरसंज्ञकान् ।
राक्षसान् पितृदेशे तु वायौ नागगणान्न्यसेत् ॥ ७४/२८ ॥
तद्बाह्ये कलशान् स्थाप्य लोकपालाधिदैवतान् ।
संपूज्य गन्धपुष्पाद्यैर्नैवेद्यान्तं हि देशिकः ॥ ७४/२९ ॥
एतदेव विशेषं स्यादन्यत्सर्वं समानकम् ।
कर्णिकायां न्यसेत्पञ्चगणानष्टौ दलेषु च ॥ ७४/३० ॥
दलबाह्ये न्यसेद्धीमान् लोकेशान् स्वस्वदिग्गतान् ।
मन्त्रन्यासविशेषोऽयं पिशाचबलिपीठके ॥ ७४/३१ ॥
अनुक्तं यन्नयेत्सर्वं प्रतिमास्थापनोक्तवत् ।
॥ इति कामिकाख्ये महातन्त्रे परिवारस्थापनविधिः द्विसप्ततितमः पटलः ॥
</poem>
== परिवारार्चनविधिः ==
<poem>
परिवारार्चनं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ।
आदौ प्रणवयुक्रवस्ववर्णो विष्णुसमन्वितः ॥ ७५/१ ॥
बिन्दुनादसमायुक्तश्चतुर्थ्यन्तः सनामकः ।
नमस्कारादिसंयुक्तः परिवारार्चने मनुः ॥ ७५/२ ॥
पूर्वाह्णे वाथ मध्याह्ने रात्रावभ्यर्चयेत्तु तान् ।
अथवा एककालं वा अन्यत्सर्वं समर्चयेत् ॥ ७५/३ ॥
बलिं त्रिद्व्येककालं वा दापयेत्तु क्रमेण तु ।
तेषां पूजा नमोन्तेन स्वाहान्तमनुना बलिः ॥ ७५/४ ॥
गन्धपुष्पान्नधूपैश्च दीपवाद्यादिसंयुतम् ।
द्वारादिबलिपीठान्तं बलिं दद्याद्विशेषतः ॥ ७५/५ ॥
पूर्वोत्तरमुखो भूत्वा धृतवस्त्रोत्तरीयकः ।
कुक्कुटाण्डप्रमाणेन तदर्धेन तदर्धतः ॥ ७५/६ ॥
नन्दिने प्रथमं दद्यान्महाकालाय पूर्वतः ।
चतुर्द्वारसमोपेते भृङ्गिणे च विनायके ॥ ७५/७ ॥
दक्षिणे पश्चिमे देशे वृषस्कन्दबलिं न्यसेत् ।
देव्यै चण्डाय सोमे तु पश्चादुक्षबलिं ददेत् ॥ ७५/८ ॥
ततोऽष्टपरिवारादिबलिं दद्यात्क्रमेण तु ।
दत्वोदकं पुनर्गन्धं पुष्पं धूपं सदीपकम् ॥ ७५/९ ॥
दद्याद्धविष्यं पानीयसहितं बलिकर्मणि ।
देवदक्षिणदेशस्थः तस्माद्गच्छेत् प्रदक्षिणम् ॥ ७५/१० ॥
बलिपीठं ततो गत्वा बलिं दद्यात्तु तत्र वै ।
कर्णिकायामविघ्नस्य आमोदे पूर्वदिग्दले ॥ ७५/११ ॥
प्रमोदे प्रमुखे चैव दुर्मुखे विघ्नकर्तरि ।
दक्षिणाप्योत्तरेशेषु बलिं दद्यात्स्वनामभिः ॥ ७५/१२ ॥
सति पैशाचिके पीठे तत्रापि बलिमाचरेत् ।
एकत्र वा बलिं दद्यात्पैशाचे वाथ भौतिके ॥ ७५/१३ ॥
कर्णिकामध्यमे नीलरुद्राय बलिरीरितः ।
पूर्वदक्षाप्यसौम्येषु ऋक्षादिभ्यो बलिं क्षिपेत् ॥ ७५/१४ ॥
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ।
गणेभ्यः पश्चिमे भागे यक्षेभ्यः सोमदिग्दले
गृहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ॥ ७५/१५ ॥
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुदिग्दले ।
दलबाह्ये बलिं दद्याद्दिक्पालानां स्वनामतः ॥ ७५/१६ ॥
॥ इति कामिकाख्ये महातन्त्रे परिवारार्चनविधिः त्रिसप्ततितमः पटलः ॥
</poem>
== वृषभस्थापनविधिपटलः ==
<poem>
वृषस्थापनं वक्ष्ये तल्लक्षणपुरः सरम् ।
अन्तर्द्वारस्य पूर्वस्मिन् कल्पयेत्प्रथमं वृषम् ॥ ७६/१ ॥
द्वितीयं मण्डपाग्रे तु पीठात्पूर्वे तृतीयकम् ।
पीठे पीठे विशेषेण पश्चिमे वृषभस्थितिः ॥ ७६/२ ॥
पीठार्धं वा समं तत्र द्विगुणं त्रिगुणं तु वा ।
त्यक्त्वा चतुर्गुणं वापि तस्याग्रे स्थापयेद्वृषम् ॥ ७६/३ ॥
पूजाभागसमं श्रेष्ठं तदर्धं मध्यमं भवेत् ।
तदर्धमधमं ज्ञेयं चतुस्त्रिद्विगुणं तु वा ॥ ७६/४ ॥
तत्तदन्तरमानं वा लोहजे वृषभं मतम् ।
गर्भं कृत्वा नवांशं तु नवधा शैलजे मतम् ॥ ७६/५ ॥
द्वारोच्चमष्टधा कृत्वा चैकैकांशविवर्धनात् ।
चतुर्गुणान्तमानं तु मृण्मये वृषभे मतम् ॥ ७६/६ ॥
लोहजं संयजेद्द्वारे परिवारे तु शैलजम् ।
पीठाग्रे मृण्मयं प्रोक्तं शैलं वा तत्र संमतम् ॥ ७६/७ ॥
लोहजं तु प्रकर्तव्यं स्थितं वा शयितं तु वा ।
शैलं सुधामयं कार्यं शयितं तु विशेषतः ॥ ७६/८ ॥
स्थितं वपि प्रकर्तव्यम् ऋषभं देशिकोत्तमाः ।
अथ सामान्यलिङ्गस्य पुरस्ताद्वृषभो मतः ॥ ७६/९ ॥
स्वयंभुबाणलौहाख्यं रौद्रलोके प्रपूजितम् ।
लोकपालाङ्कितं सिद्धं शतसाहस्रलिङ्गकम् ॥ ७६/१० ॥
मुखलिङ्गं च बेरं च विशिष्टं लिङ्गमीरितम् ।
तदन्यत्रवृषः प्रोक्तस्तत्रापि कथितस्तु वा ॥ ७६/११ ॥
ध्वजयष्टिस्तथा प्रोक्ता तल्लक्षणमिहोच्यते ।
लिङ्गत्र्यंशायसंयुक्तो लम्बसूत्रार्थ दृग्युतः ॥ ७६/१२ ॥
पीठोच्चपृष्ठसंयुक्तो लम्बकूर्चाग्रमस्तकः ।
भक्त्वा चतुरशीत्यन्तं तेन मानं विधीयते ॥ ७६/१३ ॥
शृङ्गप्रदेशविस्तारः षोडशाङ्गुल उच्यते ।
तावदेव च दैर्घ्यं स्याद्वक्त्रतारस्तु षट्कलः ॥ ७६/१४ ॥
सृक्किणीप्रोथयोर्मध्ये दशाङ्गुलविनिर्मिता ।
नेत्रं नेत्रसमं दैर्घ्यात्तदर्धं विस्तरेण च ॥ ७६/१५ ॥
तत्त्रिभागेन तारं स्याज्ज्योतिस्तत्पञ्चमांशतः ।
नेत्रार्धान्तं भ्रुवोः स्थौल्यं तद्दैर्घ्यं स्याद्द्विमात्रकम् ॥ ७६/१६ ॥
नासा स्याद्द्व्यंगुला प्रोक्तस्तन्मध्ये वेदमात्रकः ।
नासाप्रदेशविस्तारो वक्त्रं स्याद्द्वादशाङ्गुलम् ॥ ७६/१७ ॥
तदूर्ध्वे दशमात्रं स्यात्तदूर्ध्वेऽष्टादशाङ्गुलम् ।
नेत्रान्तरं चतुर्मात्रं त्रिकोणे तु कपोलके ॥ ७६/१८ ॥
चतुर्नेत्रावुभौ पार्श्वौ वक्त्रसंध्योस्तु कर्णकौ ।
कर्णमूलाच्च वक्त्रान्तं पञ्चनेत्रं प्रकीर्तितम् ॥ ७६/१९ ॥
कर्णमूलात्तु कर्णान्तं प्रोक्तं मन्वङ्गुलं भवेत् ।
कर्णमूलौ द्विमात्रौ तु तद्वदुच्चसमन्वितौ ॥ ७६/२० ॥
तत्रैव वर्तुले कार्ये दशाङ्गुलसुनाहके ।
कर्णौ पञ्चाङ्गुलायामौ कलावृत्तसमुद्भवौ ॥ ७६/२१ ॥
पञ्चाङ्गुलपृथूमध्ये परितः परतः कृशौ ।
षडङ्गुलावृतौ मूले ऋजुरेखाविभूषितौ ॥ ७६/२२ ॥
शृङ्गमूलं चतुर्मात्रं षडङ्गुलसमुच्छ्रयम् ।
अर्धाङ्गुलाग्रविस्तारो मनाग्वक्रसमन्वितः ॥ ७६/२३ ॥
शृङ्गमूलस्थितं पिण्डं हित्वा भागान्तरे मतम् ।
पिण्डमङ्गुलमानं स्यादुच्छ्रितं शृङ्गमूलयोः ॥ ७६/२४ ॥
शृङ्गाग्रादवटं यावत्षण्णेत्रं चान्तरं मतम् ।
अष्टनेत्रायता ग्रीवा ककुद्दैर्घ्यं त्रिणेत्रतः ॥ ७६/२५ ॥
त्रिणेत्रमुच्छ्रयादुक्तं मानं वक्त्रं च मूर्धनि ।
ककुदोऽधोष्टनेत्रस्तु जङ्घा पञ्चदृगायता ॥ ७६/२६ ॥
सन्धिरेकाङ्गुला प्रोक्ता चतुर्नेत्रोपजङ्घिका ।
सार्धनेत्रं ततो गुल्फे द्विनेत्रौ खुरकौ पुनः ॥ ७६/२७ ॥
गुल्फाधः खुरिके कांस्ये नेत्रपादे समे यथा ।
जङ्घामूलावृतिः सप्तदशमात्रा प्रकीर्तिता ॥ ७६/२८ ॥
जङ्घाग्रे तिथिमात्रं स्यान्मनुमात्राङ्गुलक्रमात् ।
मूलाग्रे चोपजङ्घाया वेष्टनं पकीर्तितम् ॥ ७६/२९ ॥
खुरयोरष्टमात्रं स्याद्धित्वा वेष्टनमात्रकम् ।
ककुदः पृष्ठमानं तु षट्त्रिंशन्मानमीरितम् ॥ ७६/३० ॥
तत्र त्रिकटमात्रं तु षडङ्गुलमिति स्मृतम् ।
त्रिकटानतिमानं तु द्वादशाङ्गुलमीरितम् ॥ ७६/३१ ॥
तस्माच्च परतः पुच्छसन्ततिस्तु प्रकीर्तिता ।
पुच्छमूलं चतुर्मात्रमग्रेऽङ्गुलविनिर्मितम् ॥ ७६/३२ ॥
त्रिंशदङ्गुलमानेन पुच्छदैर्घ्यं प्रकीर्तितम् ।
षडङ्गुलप्रमाणेन तस्मात्स्यात्केशसन्ततिः ॥ ७६/३३ ॥
पृष्ठे त्रिकटिदेशे च तारो विंशतिमात्रकः ।
विस्तारदेहमध्ये तु षोडशाङ्गुल उच्यते ॥ ७६/३४ ॥
ककुत्सन्धिप्रदेशे तु विस्तारं मनुमात्रकम् ।
ग्रीवाधस्ताच्चतुर्मात्रं सास्नालम्बः प्रकीर्तितम् ॥ ७६/३५ ॥
सा चाष्टादशमात्रा स्याज्जङ्घान्तायतिसंयुता ।
अशीत्यङ्गुलविस्तारा कुक्षिर्नाभेः प्रकीर्तिता ॥ ७६/३६ ॥
मध्यपाच्चाग्रदेशे तु षष्ट्यङ्गुलमिति स्मृतम् ।
नाभिर्नेत्रद्वयेन स्याद्द्विनेत्रौ वृषणौ मतौ ॥ ७६/३७ ॥
विस्तारायाममानेन परजङ्घा दशाङ्गुला ।
सन्धिर्द्विमात्रः षण्णेत्रा चोपजङ्घा प्रकीर्तिता ॥ ७६/३८ ॥
द्विनेत्रौ गुल्फकौ ज्ञेयौ खुरौ पञ्चाङ्गुलौ मतौ ।
खुरके द्व्यङ्गुले कार्ये द्वाविशत्यङ्गुलेन तु ॥ ७६/३९ ॥
जङ्घा मध्यमनाहः स्यात्सन्धिदेशे पुनस्त्रयः ।
वेष्टनं चोपजङ्घायाः षोडशाङ्गुलमुच्यते ॥ ७६/४० ॥
द्व्यङ्गुलं पृष्ठदैर्घ्यं स्यादधस्त्वष्टाङ्गुलो मतः ।
एषा वृषक्रिया शक्तिपर्यन्तव्याप्तिसंयुता ॥ ७६/४१ ॥
अथवान्यप्रकारेण वृषलक्षणमुच्यते ।
भक्त्वा पञ्चांशमुत्सेधं त्रिमात्रं खुरमुच्यते ॥ ७६/४२ ॥
मूलव्यासश्चतुर्मात्रशृङ्गाग्रं स्यात् द्विमात्रकम् ।
नवमात्रं ललाटः स्यान्मुखव्यासः स्वराङ्गुलः ॥ ७६/४३ ॥
उत्सेधश्च समस्तेन नेत्रायामं द्विमात्रकम् ।
सार्धाङ्गुलं तदुच्चं स्यान्नेत्रमध्या मुखाकृतिः ॥ ७६/४४ ॥
चतुर्नेत्राङ्गुलं पृष्ठं ग्रीवायास्तु षडङ्गुलः ।
पक्षपञ्चांशमुत्सेधं तेन मानं प्रकीर्तितम् ॥ ७६/४५ ॥
पञ्चषाङ्गुलमायामे प्रोक्तं तु मुनिसत्तमाः ।
आरभ्य मूर्ध्नः कण्ठाधो दशाङ्गुल इति स्मृतः ॥ ७६/४६ ॥
ग्रीवोच्चं वमुमात्रं स्यात्तयोर्द्दैर्घ्यं षडङ्गुलम् ।
अनुत्सेधं तु षण्मात्रं जानुमात्रं द्विमात्रकम् ॥ ७६/४७ ॥
जङ्घा द्वित्र्यङ्गुला दैर्घ्यात्त्रिमात्रं खुरमुच्यते ।
शृङ्गान्तरं द्विमात्रं स्यात्तयोर्दैर्घ्यं षडङ्गुलम् ॥ ७६/४८ ॥
मूलव्यासं चतुर्मात्रं ललाटोच्चं मुनीश्वराः ।
नेत्रकर्णान्तरं तद्वत्कर्णायामः शराङ्गुलः ॥ ७६/४९ ॥
त्रिमात्रमुत्तरोष्ठोच्चमधरोष्ठं द्विमात्रकम् ।
मूलायामोच्चविस्तारो द्विमात्रैकत्रिमात्रकैः ॥ ७६/५० ॥
पञ्चनेत्राङ्गुलं कर्णव्यासो मूलोक्तमात्रकम् ।
पञ्चाशद्ग्रीवविस्तारो मूलविस्तार एव च ॥ ७६/५१ ॥
षड्वस्वङ्गुल इत्युक्तः क्रमेण द्विजपुङ्गवाः ।
ककुत्षडङ्गुलव्यास उत्सेधो द्वित्रिमात्रकः ॥ ७६/५२ ॥
कर्णस्याग्रविशालं तु द्विमात्रं युक्तितो न्यसेत् ।
ककुदस्तु शरीरोच्चं प्रोक्तमाष्टदशाङ्गुलम् ॥ ७६/५३ ॥
द्विसप्तमात्रं पृष्ठे स्याद्विस्तारो द्वादशाङ्गुलः ।
अन्योन्यमूलमध्याग्रव्यासो वेदाङ्गुलेन च ॥ ७६/५४ ॥
अष्टाङ्गुलेन दिङ्मात्रैः क्रमेणैव भवेद्द्विजाः ।
पञ्चाङ्गुलं तथायामो जानुदेशं द्विमात्रकम् ॥ ७६/५५ ॥
जङ्घा पञ्चाङ्गुलोत्सेधा त्र्यङ्गुला स्याद्विशालतः ।
खुरोत्सेधं द्विमात्रं स्यात्तथास्यात्पुच्छमूलकम् ॥ ७६/५६ ॥
सार्धाङ्गुलं तु पुच्छाग्रं जङ्घान्तं तस्य लम्बनम् ।
मुष्कायामविशाले तु द्विमात्रे च यथाक्रमम् ॥ ७६/५७ ॥
जङ्घायामं त्रिमात्रं स्यादुदराङ्गुलमायतम् ।
शेषायामं त्रिमात्रं स्याद्गुदं मायाङ्गुलं भवेत् ॥ ७६/५८ ॥
ऊरुमूलाग्रविस्तारो वेदाङ्गुलमिति स्मृतम् ।
जङ्घाग्रं तु त्रिमात्रं स्याच्छेषं युक्तिबलान्नयेत् ॥ ७६/५९ ॥
घनं वाप्यघनं वापि लोहजं परिकल्पयेत् ।
वेणुवस्त्रादिवेत्रेण सदनं परिकल्पयेत् ॥ ७६/६० ॥
सकलस्य तु यन्मानं तन्मानं वा वृषोदये ।
उक्तेऽध्यर्धयवाद्यष्ट उच्छायस्य यवाङ्गुलम् ॥ ७६/६१ ॥
हीनं वाप्यधिकं कार्यं कर्तुरिच्छावशेन तु ।
नानाभूषणसंयुक्तं घण्टाजालसमन्वितम् ॥ ७६/६२ ॥
प्रतिमोक्ताय जात्यंशं तद्वदायादिशोभनम् ।
एवं लक्षणमाख्यातं स्थापनं श्रूयतां द्विजाः ॥ ७६/६३ ॥
कालोऽपि पूर्ववज्ज्ञेयस्तद्वदेवाङ्कुरार्पणम् ।
मण्टपं परिवारोक्तमार्गेणैव समाचरेत् ॥ ७६/६४ ॥
पञ्चैककुण्डे होमं स्यात्तथैव स्थण्डिलेऽपि वा ।
रत्नन्यासं प्रकर्तव्यं शैलजे लोहजेऽप्यथ ॥ ७६/६५ ॥
रत्नार्थं हेमपद्मं वा मृण्मयादौ विवर्जयेत् ।
ततोऽक्षिमोचनं शुद्धिर्ग्रामादीनां प्रदक्षिणम् ॥ ७६/६६ ॥
तोयाधिवासनं प्राप्य ततो मण्टपसंस्कृतिः ।
द्विजसंभोजनं पुण्यतोयसेचनमेव वा ॥ ७६/६७ ॥
वास्तुहोमं तथा शयया स्नपनं कौतुकं तथा ।
वृषस्य दक्षिणे शृङ्गे कौतुकं बन्धयेद्गुरुः ॥ ७६/६८ ॥
शयनारोहणं कुम्भस्थापनं पूर्ववन्नयेत् ।
सप्तवर्गाच्चतुर्थान्तं सप्तस्वरविभूषितम् ॥ ७६/६९ ॥
बिन्दुनादसमायुक्तमादौ प्रणवसंयुतम् ।
वृषभाया नमश्चान्ते तस्मिन् ब्रह्माङ्गकल्पना ॥ ७६/७० ॥
मध्यकुम्भे वृषःप्रोक्तः परितोऽष्टसु लोकपाः ।
अथ विद्येश्वरान्वापि वृषस्य परितो न्यसेत् ॥ ७६/७१ ॥
उक्षा च गोपतिश्चापि शङ्कुकर्णस्तथैव च ।
तीक्ष्णशृङ्गस्तथा नन्दी विषाणी पशुभृत्तथा ॥ ७६/७२ ॥
महोदरोऽष्टमश्चैतान् स्वस्वबीजेन विन्यसेत् ।
संपूज्य गन्धपुष्पाद्यैर्मुद्गान्नं तु निवेदयेत् ॥ ७६/७३ ॥
चरुकल्पे तथैव स्यात्तत्त्वमूर्त्यादिकं न्यसेत् ।
अग्निकार्यं ततः कुर्यात्प्रागुक्तविधिना सह ॥ ७६/७४ ॥
समिदाज्यचरून् लाजान् मुद्गमाषान् क्रमाद्धुनेत् ।
प्रभाते देशिकः शुद्धः पूजाहोमं च कारयेत् ॥ ७६/७५ ॥
आचार्यपूजा स्यादन्ते होतृभ्यश्चापि दक्षिणाः ।
सुमूहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् ॥ ७६/७६ ॥
चलं चेद्वृषभस्थानं वेद्यन्ते च स्वदेशके ।
मूलमन्त्रेण संस्थाप्य गन्धपुष्पादिभिर्यजेत् ॥ ७६/७७ ॥
ततः कुम्भान् समाहृत्य वृषाग्रे स्थण्डिले न्यसेत् ।
कुम्भाद्बीजं समादाय वृषस्य हृदये न्यसेत् ॥ ७६/७८ ॥
अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।
ततः कुम्भोदकेनैव स्नापयेद्वृषमादरात् ॥ ७६/७९ ॥
ध्वजस्यारोपणेऽप्येवं किन्तु तद्दण्डमूलके ।
कुम्भाभिषेकः कर्तव्यस्तत्र प्रोक्षणमेव च ॥ ७६/८० ॥
॥ इति कामिकाख्ये महातन्त्रे वृषभस्थापनविधिः चतुःसप्ततितमः पटलः ॥
</poem>
== गोपुरस्थापनविधिः ==
<poem>
स्थापनं गोपुराणां च वक्ष्ये लक्षणपूर्वकम् ।
मूलप्रासादविस्तारे सप्ताष्टनवभागिके ॥ ७७/१ ॥
दशैकादशभागे तु तत्तदेकोनभागतः ।
द्वारशोभादिमानं स्याद्गोपुरान्तं विशालतः ॥ ७७/२ ॥
क्षुद्रेऽल्पे च तदुद्दिष्टं मध्यमानं विधीयते ।
धाम्नि तारे चतुष्पञ्चषड्भागेन विभाजिते ॥ ७७/३ ॥
सप्ताष्टधा कृते तेभ्यो विभागो गोपुरान्तकः ।
द्वारशोभादिविस्तारः पञ्चधा परिकीर्तितः ॥ ७७/४ ॥
त्रिभागैकमथार्धं च त्रिभागे तु द्विभागकम् ।
चतुर्भागे त्रिभागं च पञ्चांशे चतुरंशकम् ॥ ७७/५ ॥
ज्येष्ठधाम्नां विशालं स्याद्गोपुरान्तं क्रमेण तु ।
द्विहस्तादिद्विरष्टान्तं व्योमारत्निविवृद्धितः ॥ ७७/६ ॥
प्रत्येकं त्रित्रिमानं स्याद्गोपुरान्तं विशालतः ।
एकविंशत्करान्तं तु त्रिहस्ताद्द्विकवर्धनात् ॥ ७७/७ ॥
पूर्ववत्तिथिसंख्याता मानशोभादिविस्तरे ।
आरभ्य नन्दहस्तं तु द्विद्विहस्तविवर्धनात् ॥ ७७/८ ॥
सप्तत्रिंशत्करान्तं तु गोपुरान्तविशालता ।
त्रिपञ्चदशसप्तात्तु एकहस्तविवर्धनात् ॥ ७७/९ ॥
पञ्चमानं द्विरष्टाभ्यां पञ्चस्वेकस्य सम्मतम् ।
अन्यथा हस्तमानेन विस्तारः प्रविधीयते ॥ ७७/१० ॥
पञ्चादिविश्वहस्तान्तं चैकैककरवृद्धितः ।
प्रथमावरणे द्वारशोभाविस्तार इष्यते ॥ ७७/११ ॥
तिथिहस्तात्त्रयोविंशत्यन्ताः स्युर्द्वारशालके ।
पञ्चविंशतिहस्तात्तु त्रयस्त्रिंशत्करान्तकः ॥ ७७/१२ ॥
द्वारप्रासादविस्तारः पञ्चमः परिकीर्तितः ।
पञ्चविंशत्समारभ्य त्रिचत्वारिंशदन्ततः ॥ ७७/१३ ॥
द्वारहर्म्यविशालः स्यान्नवपञ्चकरादितः ।
त्रिपञ्चाशत्करान्तं तु विशालो गोपुरस्य तु ॥ ७७/१४ ॥
एकद्वित्रिचतुष्पञ्चहस्तैर्न्यूनं तु वाधिकम् ।
नगरग्रामवेशादौ मानं गोपुरविस्तरे ॥ ७७/१५ ॥
सार्धद्विपादत्रिगुणत्र्यंशैकद्व्यंशमायते ।
कल्पयेद्द्वारशोभादौ सप्तांशदशभागिकम् ॥ ७७/१६ ॥
चतुरंशषडंशं तु सप्तांशे चतुरंशकम् ।
नन्दांशे भूतभागं च द्विगुणम् च प्रकल्पयेत् ॥ ७७/१७ ॥
द्वारायतनतुङ्गार्थं खलूरीगोपुरादिकम् ।
मानमप्यथ संग्राह्यं निर्गमं चापि तत्समम् ॥ ७७/१८ ॥
गोपुरस्य विशालं तु कृत्वा विंशतिभागिकम् ।
एकाद्यष्टदशांशान्तं गोपुराणां गुरूत्तमाः ॥ ७७/१९ ॥
निर्गमं सालबाह्याद्वा तदन्तर्वा समाचरेत् ।
सार्धहस्तात्तु पादोनद्विहस्ताद्द्विकरात्क्रमात् ॥ ७७/२० ॥
षण्णन्दनवमात्रैस्तु वर्धयेद्देशिकोत्तमः ।
पञ्चसप्तनवान्तस्तु द्वारतारः पृथग्भवेत् ॥ ७७/२१ ॥
तिथिसंख्या च हीने स्यान्मध्ये श्रेष्ठं तु सम्मतम् ।
पञ्चाशे द्वारविस्तारे सप्तांशे मुनिभाजिते ॥ ७७/२२ ॥
दशांशो द्विगुणः पादादधिकः पञ्चधोच्छ्रयः ।
मूलधाम्नि मसूरादितुङ्गाद्वेदांशकादिकः ॥ ७७/२३ ॥
रविभागावसानं तु कृत्वैकांशं विहाय च ।
कृत्वा मसूरपादं च तच्छेषेणैव पीठकम् ॥ ७७/२४ ॥
योजयेद्गोपुरद्वारं तुङ्गवृद्ध्यार्धमेव च ।
अथ प्रागुक्तभागे तु वर्द्धितं सममेव वा ॥ ७७/२५ ॥
धामाङ्गोक्ताखिलं मानं गोपुराङ्गेषु वा मतः ।
छेदयेत्तदधिष्ठानं सोपपीठे तु केवलम् ॥ ७७/२६ ॥
उत्तरान्तसमुत्सेधं तदर्धं विस्तृतान्वितम् ।
गोपुरद्वारतुङ्गं वा कारयेद्वास्तुशास्त्रवित् ॥ ७७/२७ ॥
एकद्वित्रितलं कुर्याच्छोभायामेकवृद्धितः ।
तलादिकमथो कुर्यात् पञ्चषट्सप्तभूमिकम् ॥ ७७/२८ ॥
गोपुरं तु विधेयं स्यान्मध्यमेऽप्येवमूह्यताम् ।
द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ॥ ७७/२९ ॥
गोपुरेणैव पञ्चान्तं मण्डलादिषु संस्थिताः ।
मसूः स्तम्भमानं तु प्रागेव प्रदिपादितम् ॥ ७७/३० ॥
तदूर्ध्वप्रस्तारात्स्थूपिपर्यन्ते मानमुच्यते ।
षोढा विभज्य तत्तुङ्गं प्रस्तरैः साङ्घ्रिभागकैः ॥ ७७/३१ ॥
तद्वत्कण्ठशिरोध्यर्धभागेन स्थूपिकांशकः ।
एवमेकतलं प्रोक्तं द्वितलं च विधीयते ॥ ७७/३२ ॥
तदुच्चं नवधा कृत्वा साङ्घ्र्येकप्रस्तरोदयः ।
एकांशं गलमित्युक्तं सार्धद्व्यंशं शिरो भवेत् ॥ ७७/३३ ॥
शेषः शिरोद्धृतः प्रोक्तः द्वितलं त्वेतदीरितम् ।
द्वादशांशं त्रिभूम्युच्चैः कपोतं साङ्घ्रिभागभाक् ॥ ७७/३४ ॥
सार्धद्व्यंशं च पादोच्चं प्रस्तरो भाग एव हि ।
द्विभागः पाददैर्घ्यं स्यादष्टांशेनांशमानतः ॥ ७७/३५ ॥
तदुच्चं चांशो ग्रीवोच्चं सार्धद्व्यंशः शिरो भवेत् ।
शेषेण स्थूपिकोत्सेधस्त्रितलं चैवमीरितम् ॥ ७७/३६ ॥
उत्तरादिशिखान्तं यन्मानमष्टादशांशकम् ।
त्रिभागसहितं भागमन्तोच्चं प्रविधीयते ॥ ७७/३७ ॥
सार्धद्व्यंशं तु पादोच्चं साङ्घ्र्येकप्रस्तरोदयः ।
भागेन गलमानं स्यात्त्रिभागैः शिखरोदयः ॥ ७७/३८ ॥
शेषेण स्थूपिका प्रोक्ता पञ्चभौममतः परम् ।
उत्तरादिशिखान्तं चाप्येकोनत्रिंशदंशकम् ॥ ७७/३९ ॥
भागार्धं प्रस्तरं कुर्यात्पादोच्चं चतुरंशकम् ।
पादोनद्व्यंशकं मञ्चं सार्धद्व्यंशं तु पादपः ॥ ७७/४० ॥
त्रिपादांशैककं मञ्चं त्रिभागात्पादपायतिः ।
सपादांशकपोतोच्चमूर्ध्वभागाद्द्विभागतः ॥ ७७/४१ ॥
प्रस्तरोच्चं द्विभागेन कन्धरोच्चसमो भवेत् ।
सार्धद्व्यंशः शिरस्तुङ्गः शेषेण स्याच्छिरोदयः ॥ ७७/४२ ॥
एवं तु षट्तलं प्रोक्तं सप्तभौममथोच्यते ।
उत्तरादिशिखान्तं यन्मञ्चं षट्त्रिंशदंशकम् ॥ ७७/४३ ॥
साङ्घ्रिद्व्यंशं कपोतं स्यात्सार्धवेदांशतोऽधिकम् ।
द्विभागः प्रस्तरोत्सेधः पादोच्चं वेदभागतः ॥ ७७/४४ ॥
सत्रिपादांशकं मञ्चं सार्धद्व्यंशस्तु पादपः ।
मञ्चं पादोनभागाभ्यां त्रिपादः पादवैधृतिः ॥ ७७/४५ ॥
सार्धांशं प्रस्तरोच्चं स्यात् द्व्यंशस्त्वन्ततलायतिः ।
सपादभागं मञ्चोच्चं सार्धभागद्विभागिकम् ॥ ७७/४६ ॥
कपोतोच्चं तु भागेन कन्धरं तत्समं भवेत् ।
सद्विपादद्विभागेन शिरः शिष्टाः शिखा मताः ॥ ७७/४७ ॥
सप्तभौममिदं श्रेष्ठं तदूर्ध्वे पूर्वमानभाक् ।
स्तम्भप्रस्तरभागाभ्यां कल्पिताभ्यामधस्तले ॥ ७७/४८ ॥
रविभौमान्तमिष्टं स्याद्गोपुराणामिहागमे ।
उक्तानि गोपुराङ्गानि विभजेच्चतुरंशकम् ॥ ७७/४९ ॥
आरभ्याष्टदशांशं तेष्वेकांशं तु नवांशकम् ।
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुःपञ्चषडङ्गुलम् ॥ ७७/५० ॥
वर्धयेद्ध्रासयेद्वापि युक्त्या प्रागुक्तमानतः ।
पञ्चभागे विशाले तु त्रिभागे गर्भविस्तरः ॥ ७७/५१ ॥
शेषेण भित्तिरत्रोक्ता व्योमभूमौ मुनीश्वराः ।
व्यासः सप्तांशवेदांशो गर्भकूटस्तु भागभाक् ॥ ७७/५२ ॥
कोष्ठस्यात्मगविस्तारदैर्घ्यं पञ्चांशमिष्यते ।
कूटकोष्ठान्तराले तु पञ्जरादिविभूषितम् ॥ ७७/५३ ॥
एवं द्वितलमाख्यातं त्रितलं चाधुनोच्यते ।
तारे नवांशे गर्भः स्यात्त्रिभागः तद्वहिः क्रमात् ॥ ७७/५४ ॥
गृहपिण्ड्यलिन्दहारांश्च क्रमेण परिकल्पयेत् ।
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत् ॥ ७७/५५ ॥
विशाले पङ्क्तिभागे तु गर्भगेहे त्रिभागतः ।
सार्धांशो भित्तिविष्कम्भ एकभागमलिन्दकम् ॥ ७७/५६ ॥
खण्डहर्म्यं तु भागेन कूटकोष्ठादि पूर्ववत् ।
मुखे पृष्ठे महाशाला पञ्चांशो वा षडंशकः ॥ ७७/५७ ॥
चतुर्भौममिदं ख्यातं सर्वावयवसुन्दरम् ।
विस्तारे रुद्रभागे तु नालीगेहं त्रिभागतः ॥ ७७/५८ ॥
द्विभागो भित्तिविष्कम्भो व्योमांशः स्यादलिन्दकः ।
एकांशं खण्डहर्म्यं स्यादन्यत्सर्वं समानकम् ॥ ७७/५९ ॥
पञ्चभौमं समाख्यातं षड्भौममधुनोच्यते ।
विस्तारे रविभागे तु नालीगेहं युगांशकम् ॥ ७७/६० ॥
द्विभागो भित्तिविस्तारो द्वारांशेन प्रकीर्तितः ।
भागेन खण्डहर्म्यं स्यादन्यत्सर्वं समानकम् ॥ ७७/६१ ॥
षष्ठभौममिदं प्रोक्तं सप्तमं त्वधुनोच्यते ।
त्रयोदशांशे विस्तारे गर्भः स्यादंशभागभाक् ॥ ७७/६२ ॥
सार्धद्व्यंशं तु भित्तिः स्यादेकेनालिन्दमिष्यते ।
खण्डहर्म्यमिहैकांशं कूटशालादि पूर्ववत् ॥ ७७/६३ ॥
पृष्ठे मुखे महाशाला षड्भागेन प्रकीर्तिता ।
पञ्चांशे हस्तिपृष्ठे च पक्षशालादिभिर्युतः ॥ ७७/६४ ॥
नानामसूरकस्तम्भवेदिकाजालतोरणम् ।
सप्तभौममिदं प्रोक्तं गोपुरं सार्वदेशिकम् ॥ ७७/६५ ॥
मूलभूद्वारविस्तारपञ्चांशेन विशालभाक् ।
चतुरंशोनकं वा स्यादूर्ध्वद्वारं तु विस्तरात् ॥ ७७/६६ ॥
उपर्युपरि द्वारं स्यान्मध्याधमोत्तमान्वितम् ।
सोपानगर्भगेहे तु तलं प्रति समाचरेत् ॥ ७७/६७ ॥
उपपीठे चतुष्कण्ठे सोपानं प्रविधीयते ।
मण्टपाभं भवेद्द्वारं शोभायै पण्डितेश्वराः ॥ ७७/६८ ॥
दण्डशालासमाकारा द्वारशाला प्रकीर्तिता ।
प्रासादाकृतिवद्द्वारप्रासादं परिपठ्यते ॥ ७७/६९ ॥
मालिकाकृतिवद्द्वारहर्म्यं स्यान्मुनिसत्तमाः ।
शालाकारसमं कुर्याद्द्वारगोपुरमन्तिमम् ॥ ७७/७० ॥
सर्वत्र गोपुरं कुर्याद्यथाशक्ति विशेषतः ।
पञ्चभागादिभागं वा चैकत्रिंशत्समावधि ॥ ७७/७१ ॥
भागान्कृत्वा विशालांस्तु गोपुरस्य द्विभागतः ।
वृद्ध्या भागोऽर्धमानेन तिथ्यंशान्तं प्रकल्पयेत् ॥ ७७/७२ ॥
गर्भगेहविशालं स्याच्छोभादीनां मुनीश्वराः ।
तेन विस्तारभागेन व्योमांशंद्विगुणावधि ॥ ७७/७३ ॥
सायतं वा समं वापि गर्भगेहं प्रकल्पयेत् ।
तस्मादूर्ध्वं तु दैर्घ्यं स्यादधिकं द्वारतारकम् ॥ ७७/७४ ॥
यथा भवेत्तथा कुर्याद्गोपुरं मुनिपुङ्गवाः ।
गर्भगेहात्समन्तात्तु गर्भार्धात्पादवृद्धितः ॥ ७७/७५ ॥
त्रिभागावधि कुड्यं च व्योमादिबहुसंख्यकः ।
तथालिन्दं च हारं च कल्पयेत्कल्पवित्तमः ॥ ७७/७६ ॥
अंशमानेन वा द्वारतारं वा गोपुरं भवेत् ।
त्रिभागं तु समारभ्य अर्धांशात्तिथिसंख्यया ॥ ७७/७७ ॥
यावद्द्वारविशालार्थमंशानत्र प्रयोजयेत् ।
प्रासादालङ्कृतिं चैव शालायालङ्कृतिं तु वा ॥ ७७/७८ ॥
सर्वं वा गोपुरे कुर्यात्सञ्चितादिविभेदतः ।
नानामसूरकोपेतं नानास्तम्भसमन्वितम् ॥ ७७/७९ ॥
नानाप्रस्तरसंयुक्तं वेदाश्रगलसंयुतम् ।
वलभ्यादिशिरोयुक्तं बहुस्थूपिसमन्वितम् ॥ ७७/८० ॥
कूटशालैकतुण्डैश्च पञ्जरैः पक्षशालया ।
आयामांशाधिकैर्वापि समांशैः परिकल्पयेत् ॥ ७७/८१ ॥
नानाद्वारसमायुक्तं वृषस्थलसमन्वितम् ।
धाम्नां समस्तभूषाभिरन्याभिः समलंकृतम् ॥ ७७/८२ ॥
मूलधामोनभौमं वा समभौमं तु वाधिकम् ।
खलूरिकाविधानोक्तरीत्या चैतत्समाचरेत् ॥ ७७/८३ ॥
दिग्विदिक्षु तदिष्टं स्यात्पूर्ववत्प्रथमेष्टकाम् ।
मूर्धेष्टकाविधानं च धामोक्तविधिनाचरेत् ॥ ७७/८४ ॥
किञ्चिन्मध्ये द्वयोर्वापि चैकं स्यात्स्थूपिकासु वा ।
कृत्वोर्ध्वशैलं प्रत्येकं चतुःसंख्यं निवेश्य च ॥ ७७/८५ ॥
तदूर्ध्वं स्थूपिकां स्थाप्य स्थूपिकोक्तविधानतः ।
किञ्चैतदधिदेवांश्च ज्ञानाख्यक्रियया सह ॥ ७७/८६ ॥
त्रिषु चेत्स्युस्त्रितत्त्वानि चतसृषु कलाः स्मृताः ।
विवृत्तिं च विना ब्रह्मरहिताः कारणं तु वा ॥ ७७/८७ ॥
सद्योजातादिका वापि निवृत्त्याद्यास्तु पञ्चसु ।
अण्डान्तर्वर्तिनः षट्सु कलान्यासाः प्रकीर्तिताः ॥ ७७/८८ ॥
कलाद्याः सप्त विज्ञेया विद्येशा वसुकल्पने ।
वामाद्या नवकल्पे स्युर्लोकपाला दशाख्यके ॥ ७७/८९ ॥
रुद्रसंख्ये तु रुद्राः स्युरादित्याश्चार्कसंख्यके ।
विश्वेरुद्राश्विनी प्रोक्ताश्चतुष्पञ्चदशान्विते ॥ ७७/९० ॥
तिथयो भुवनान्युक्ता दक्षादारभ्य पश्चिमे ।
तत्तत्स्वनाममन्त्रेण न्यसेत्तद्धाम्नि निर्मिते ॥ ७७/९१ ॥
गोपुरस्थापनं कुर्यात्तदग्रे मण्टपे कृते ।
पूर्वोक्तविधिनायुक्तकुण्डे वा स्थण्डिलेऽपि वा ॥ ७७/९२ ॥
नवकुण्डैकसंख्ये वा पुण्याहप्रोक्षणान्विते ।
स्थण्डिले वेदिकोर्ध्वे च अष्टौ च स्थापयेद्घटान् ॥ ७७/९३ ॥
मध्यमे च महादिक्षु शान्त्यादीन् तत्र पूजयेत् ।
शतसंख्यैस्तदर्धैर्वा तन्मन्त्रैः समिदादिभिः ॥ ७७/९४ ॥
पूर्णा दत्वेष्टिसन्तुष्टो गुरुः पञ्चघटोदके ।
शान्त्यादीनादितो न्यस्त्वा तन्मनूनभिषेचयेत् ॥ ७७/९५ ॥
क्रियैषा प्रचुरा कार्या प्रधाना देशिकोत्तमाः ।
अन्यत्राप्यनुकल्पं स्यात्प्रचुरा वा प्रकीर्तिता ॥ ७७/९६ ॥
गोपुरं प्रतियोज्याः स्युर्नन्द्याद्याश्च द्विपार्श्वयोः ।
निष्कले पश्चिमद्वारं सकले दक्षिणं हितम् ॥ ७७/९७ ॥
॥ इति कामिकाख्ये महातन्त्रे गोपुरस्थापनविधिः पञ्चसप्ततितमः पटलः ॥
पूर्वकामिकं समाप्तम् ॥
</poem>
[[वर्गः:आगमः]]
1x199d4a22yzezwfxux6mmdj0k4zb4x
418808
418807
2026-10-22T05:09:54Z
~2026-56367-96
10825
/* गर्भन्यासविधिः */

== बालस्थापनविधिः ==

== ग्रामगृहविन्यासविधिः ==
<poem>
ग्रामादीनां तु विन्यासः निवेशाद्यं च कथ्यते ।
आदौ कालपरीक्षा स्याद्द्वितीयं देशनिर्णयम् ॥ ३५/१ ॥
तृतीयं भूपरीक्षा स्यात्प्रवेशार्थबलिस्ततः ।
स्वीकारः पञ्चमो भूमेः षष्ठः कर्षणमुच्यते ॥ ३५/२ ॥
शङ्कुसंस्थापनं पश्चादष्टमः पदनिर्णयः ।
नवमः सूत्रविन्यासो दशमो देवताबलिः ॥ ३५/३ ॥
गृहवीथ्यादिभेदः स्यादेकादश उदाहृतः ।
द्वादशो गर्भविन्यासः ततो देवनिवेशनम् ॥ ३५/४ ॥
द्वादशान्ते द्विजातीनां प्रवेशस्तदनन्तरम् ।
तदन्ते भूसुराणां तु निरीक्षणमुदाहृतम् ॥ ३५/५ ॥
ततो भूमिविभागः स्यादेवं बुध्वा समाचरेत् ।
गृहारम्भात्पुरैवं स्यादमरावासनिर्णयः ॥ ३५/६ ॥
पूर्वं देवान् प्रतिष्ठाप्य पश्चाद्विप्रान्निवेशयेत् ।
मूलबालालयोक्तेन विधिनालयनिर्णयः ॥ ३५/७ ॥
देवानां स्यान्मनुष्याणां कुर्याच्छालाविधानतः ।
उत्कृष्टे मध्यमे हीने देववेश्म तथा मतम् ॥ ३५/८ ॥
उत्कृष्टे देववेश्म स्याद्धीनं यदि तदा नरः ।
हीनभावं तु यत्नेन समं वोत्कृष्टमाचरेत् ॥ ३५/९ ॥
एतत्सर्वं तु पूर्वोक्तक्रमेणैव समाचरेत् ।
ग्रामादीनां गृहादीनां मालिकानां विशेषतः ॥ ३५/१० ॥
मण्टपादेः प्रवक्ष्यामि प्रवेशं तु महानसे ।
अन्येषामपि वस्तूनां यजमानप्रेवशनम् ॥ ३५/११ ॥
सदा सुमनसो दान्तान् दयायुक्तान् दृढव्रतान् ।
पत्नीपुत्रसमायुक्तान् सर्वोपस्करसंयुतान् ॥ ३५/१२ ॥
ग्रामानुकूलनक्षत्रान् देवाग्निगुरुपूजकान् ।
वेदवेदाङ्गतत्त्वज्ञान् श्रोत्रियान् प्रियदर्शनान् ॥ ३५/१३ ॥
अधीतशिवशास्त्रांश्चदरिद्रान् दोषवर्जितान् ।
उत्कृष्टकर्मनिरताननुष्ठानपरायणान् ॥ ३५/१४ ॥
विप्रानाहूय निश्चित्य दशाङ्गं लेखयेत्तदा ।
राष्ट्रग्रामौ गोत्रसूत्रे सव्यदक्षिणलाञ्च्छने ॥ ३५/१५ ॥
विद्या कुलं पितुर्नाम स्वच्छाङ्गं दश वा मता ।
मुलकोशे लिखित्वैवं ताम्रपात्रे विनिर्मिते ॥ ३५/१६ ॥
शिलादौ वा तदा वस्तु श्रद्धयोदकपूर्वकम् ।
प्रदद्याद्भूमिपूर्वाणि गृहोपकरणानि तु ॥ ३५/१७ ॥
स्त्रीणामाभरणं धान्यं वस्त्रं गां च पयस्विनीम् ।
दासीदासं च विप्रेभ्यो दद्याच्छ्रद्धान्वितो नृपः ॥ ३५/१८ ॥
ब्राह्मणेभ्यो महीं दद्यात्पुण्यकाले तु सोदकम् ।
अन्येषामिष्टकाले तु दद्यात्केवलया गिरा ॥ ३५/१९ ॥
शेषं सर्वं तु सामान्यं सर्ववास्तुनिवेशने ।
नास्तिकान् पिशुनान् क्रूरान् देवाग्निगुरुनिन्दकान् ॥ ३५/२० ॥
बलापहृतब्रह्मस्वान्नृपद्रोहादिसंयुतान् ।
वर्जयेदीदृशान् विप्रान् नृपस्तद्दानकर्मणि ॥ ३५/२१ ॥
पूर्णकुम्भं प्रदीपांश्च पुरस्कृत्य शुभे दिने ।
स्वस्तिवाचनसंयुक्तं वेशयेद्ब्राह्मणान् वरान् ॥ ३५/२२ ॥
चतुर्विंशतिकान् मध्यान् षट्त्रिंशत्संख्यकान् वरान् ।
अल्पे चैकं द्वयं वापि त्रयं वा सन्निवेशयेत् ॥ ३५/२३ ॥
स्थापयेच्च यथापूर्वं विप्रान् पूर्वोद्धृतानपि ।
पत्नीपुत्रसमायुक्तान् देवाग्निसहितांस्तथा ॥ ३५/२४ ॥
एतेषां च प्रवेशेऽपि वास्तुं संपूज्य होमयेत् ।
अकटवाटमनाच्छाद्यमदत्तबलिभोजनम् ॥ ३५/२५ ॥
गृहं विशन्व्रजत्येव विपदां पदमादरात् ।
स्वशक्तितोऽपि विप्रांस्तु स्वे स्वे गेहे निवेशयेत् ॥ ३५/२६ ॥
दैविके मानुषे भागे गेहे पूर्वं निवेशयेत् ।
यजमानानुकूलर्क्षे राशौ वा तन्निवेशयेत् ॥ ३५/२७ ॥
गृहमण्टपकूटादौ शालासु च महानसे ।
अनेनैव प्रकारेण तत्कर्तारं निवेशयेत् ॥ ३५/२८ ॥
देवालयादौ देवेशं देवीं स्कन्दसमन्विताम् ।
अथवा केवलां देवीं देवेशं चाथ मण्डपम् ॥ ३५/२९ ॥
देवाङ्गभूतकूटादौ वेशयेत्पूर्वमार्गतः ।
राजानं मालिकादौ तु प्रधानमहिषीयुतम् ॥ ३५/३० ॥
प्रधानमन्त्रिसंयुक्तममात्यादिभिरावृतम् ।
अङ्कुरार्पणपूर्वं वा रहितं वा निवेशयेत् ॥ ३५/३१ ॥
गृहमण्डपकूटादौ शालासु च महानसे ।
ब्राह्मणादिचतुर्वर्णान् मार्गेणानेन वेशयेत् ॥ ३५/३२ ॥
॥ इति कामिकाख्ये महातन्त्रे ग्रामगृहविन्यासविधिस्त्रयस्त्रिंशत्तमः पटलः ॥
</poem>
== वास्तुशान्तिविधिः ==
<poem>
वास्तुशान्तिविधिं वक्ष्ये ग्रामादीनां शुभावहम् ।
वास्तूपशमनं नाम सर्वदोषविनाशनम् ॥ ३६/१ ॥
जीर्णोद्धारे नवीकारे छेदे भेदे तथैव च ।
वायवग्निजलसंबाधे नृपचोरादिबाधके ॥ ३६/२ ॥
दक्षिणापरवृद्धौ च प्रागुदक्च्छेदनेऽपि च ।
न्यूनातिरेके मानस्य द्वारनिर्गमभेदने ॥ ३६/३ ॥
प्राकारपरिघाभेदे देवतालयकल्पने ।
यजमानान्तरे चैव हीनलक्षणवास्तुके ॥ ३६/४ ॥
त्यक्ते शून्ये तथा नष्टे प्रातिलोम्ये तथैव च ।
आभिचारकृते दोषे व्याधिमारीभयेऽपि च ॥ ३६/५ ॥
उत्पाते दुर्निमित्ते च सर्वदोषापनुत्तये ।
वास्तूपशमनं कुर्यात्सद्य एव विचक्षणः ॥ ३६/६ ॥
वक्ररथ्यान्विते वापि विन्यासाद्यविवर्जिते ।
अन्येष्वशुभयुक्तेषु गृहदेवालयेषु च ॥ ३६/७ ॥
महाद्भुते च संप्राप्ते त्रिविधे चोत्तमादिके ।
प्रायश्चित्तं विशेषेण वक्ष्यमाणमिदं नयेत् ॥ ३६/८ ॥
ततो गुरुः कृतस्नानः शिवविप्रः प्रसन्नधीः ।
अहताभ्यां सुवासोभ्यां संयुक्तः सोत्तरीयकः ॥ ३६/९ ॥
वास्त्वङ्गदेवताः सर्वास्तत्तच्छास्त्रोक्तमार्गतः ।
पूजयित्वा विधानेन देवानन्यात् तथैव च ॥ ३६/१० ॥
वास्तुमध्ये प्रपां कुर्याच्चान्यस्मिन् वा मनोरमे ।
दर्भमालादिभिर्युक्तां सर्वालङ्कारसंयुताम् ॥ ३६/११ ॥
वारुण्यमिन्द्रकाष्ठायां दक्षिणे चोत्तरेऽपि वा ।
तन्मध्ये दण्डमात्रेण वेदीं पञ्चाङ्गुलोच्छ्रिताम् ॥ ३६/१२ ॥
तस्यां पिष्टाक्तसूत्रेण पदानि परिकल्पयेत् ।
चतुर्णवविकारांश्च पञ्चविंशत्पदं तु वा ॥ ३६/१३ ॥
षट्त्रिंशदंशकैश्चापि चत्वारिंशन्नवाधिकम् ।
अष्टाष्टकपदं वापि सूत्रवर्गपदं तु वा ॥ ३६/१४ ॥
एतेष्वन्यतमं योग्यं विन्यसेद्वास्तु वित्तमः ।
शालिभिः स्थण्डिलं कृत्वा तण्डुलैस्तिलमिश्रकैः ॥ ३६/१५ ॥
लाजदर्भसमायुक्तं पुष्पैश्चैव समन्वितम् ।
चरुं च तत्र संस्थाप्य घृतेनैवाभिधार्य च ॥ ३६/१६ ॥
संप्रोक्ष्य हृदयेनैव वस्त्रेणाच्छाद्य सत्कुशैः ।
वेद्यास्तु पश्चिमे देशे कुण्डं कृत्वा त्रिमेखलम् ॥ ३६/१७ ॥
चतुरश्रं हस्तमानं नवाङ्गुलसमुच्छ्रयम् ।
तत्र वह्निं समाधाय वह्निकार्योक्तमार्गतः ॥ ३६/१८ ॥
समिदाज्यहविर्भिश्च यवकृष्णतिलैरपि ।
मध्वाज्यक्षीरसंयुक्तदूर्वया होममाचरेत् ॥ ३६/१९ ॥
पञ्चब्रह्मशिवाङ्गैश्च विद्याङ्गैः शिवपूर्वकैः ।
अघोरेण शतं वार्धं द्रव्यैः पूर्वैस्तु पञ्चभिः ॥ ३६/२० ॥
अष्टोत्तरशतं दूर्वाहोमो मृत्युजितो भवेत् ।
पूर्णाहुतिं ततो हुत्वा वास्तुदेवान् समर्चयेत् ॥ ३६/२१ ॥
पदेषु कूर्चं निक्षिप्य कुर्यादावाहनादिकम् ।
ब्रह्माणं प्रथमं चेष्ट्वा ततः सर्वांश्च पूजयेत् ॥ ३६/२२ ॥
द्वादशाब्दसुसंपूर्णां विप्रजातिसमुद्भवाम् ।
सर्वलक्षणसंपूर्णां नानाभरणभूषिताम् ॥ ३६/२३ ॥
शुक्लाम्बरधरां कन्यां शुक्लपुष्पैरलङ्कृताम् ।
शुक्लवस्त्रोत्तरीयां तां संपूज्यान्नादिभिः सुखम् ॥ ३६/२४ ॥
तस्याश्च दत्वा ताम्बूलं बलिद्रव्यसमन्वितम् ।
दद्यात्तस्याश्च हस्ते तु बलिपात्रं गुरुस्तदा ॥ ३६/२५ ॥
पञ्चाङ्गभूषणोपेतः सोष्णीषः सोत्तरीयकः ।
नववस्त्रधरः शैवविप्रो दद्याद्बलिं पुरे ॥ ३६/२६ ॥
मध्वाज्यदधिसंयुक्तं शुद्धमन्नं तु वा ददेत् ।
सर्वद्रव्यसमायुक्तमथवैनं समाचरेत् ॥ ३६/२७ ॥
रात्रौ ग्रामबलिं दद्यात्प्रासादादौ यथेष्टतः ।
चतुष्कुण्डे तु वा वास्तुदेवानां तर्पणं भवेत् ॥ ३६/२८ ॥
दक्षिणां दापयेत्पश्चादाचार्यादिष्वनुक्रमात् ।
अधमा पञ्चनिष्कं स्याद्द्विगुणा मध्यमा भवेत् ॥ ३६/२९ ॥
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ।
अग्रहारादिके देवागारे राज्ञां द्विजन्मनाम् ॥ ३६/३० ॥
वैश्यानां शूद्रजातीनामावासे मण्डपादिषु ।
चण्डालाद्युषिते चैव तज्जन्ममरणेऽपि च ॥ ३६/३१ ॥
दूषितेष्वसुराद्यैश्च विधिमेनं समाचरेत् ।
कूपे वा पुष्करिण्यादौ जलं सर्वं बहिः क्षिपेत् ॥ ३६/३२ ॥
सहस्रकुम्भतोयं वा शतकुम्भोदकं तु वा ।
पञ्चगव्यं तु निक्षिप्य शान्तिहोमं तु कारयेत् ॥ ३६/३३ ॥
॥ इति कामिकाख्ये महातन्त्रे वास्तुशान्तिविधिः चतुस्त्रिंशत्तमः पटलः ॥
</poem>
== शालालक्षणविधिः ==

== विशेषशालालक्षणविधिः ==

== द्वित्रिशालालक्षणविधिः ==
<poem>
द्विशाले चतुरश्रे तु दशभागविभाजिते ।
बहिर्भागेन वारः स्याद्द्व्यंशशालाविशालतः ॥ ३९/१ ॥
प्राङ्मुखे वारमेकांशं मण्डपो नवभागभाक् ।
तदावृत्यैककालिन्दं शेषं च क्रमणं भवेत् ॥ ३९/२ ॥
मुख्यगेहं बहिर्द्वारं लाङ्गलाभं यथातथा ।
चतुर्मुखसमायुक्तं द्विशालमिह कीर्तितम् ॥ ३९/३ ॥
पौरमण्डलहीनं वा मण्डपेन विनापि वा ।
अलिन्देनान्वितं वापि द्विशालं परिकल्पयेत् ॥ ३९/४ ॥
तदेव पञ्चभागान्तमेकशालामुखायतम् ।
द्वारं पूर्ववदुद्दिष्टं सर्वालङ्कारशोभितम् ॥ ३९/५ ॥
मण्डपाद्बाह्यतोऽलिन्दं सायतं प्रविधीयते ।
नेत्रत्रयसमायुक्तं स्वस्तिकं त्वभिधीयते ॥ ३९/६ ॥
तदेव द्विमुखोपेतं दण्डवक्त्रमिति स्मृतम् ।
सावकाशान्तरोपेतं मण्.डपेन विनापि वा ॥ ३९/७ ॥
अलिन्देनान्वितं वापि द्विशालं परिकल्पयेत् ।
सवारं वा विवारं वा एकानेकतलान्वितम् ॥ ३९/८ ॥
द्विभागे त्वेकभागं वा त्रिभागे तु द्वयं तु वा ।
चतुरंशे त्रिभागं वा द्व्यंशं पञ्चत्रिभागकम् ॥ ३९/९ ॥
द्विभागं वैकभागं वा षड्भागे पञ्चभागकम् ।
सप्तांशे पञ्चभागादिद्विभागान्तमथापि वा ॥ ३९/१० ॥
नवांशे सप्तभागादिद्विभागान्तमथापि वा ।
रुद्रभागाद्द्विभागान्तं भागान् कृत्वा त्रिभागतः ॥ ३९/११ ॥
नवभागावसानान्तं शालाव्यासं प्रकल्पयेत् ।
एकद्वित्रिचतुः शालासामान्यमिदमीरितम् ॥ ३९/१२ ॥
यथा समीक्ष्य तत्रैव युक्तं कुर्यात्तु देशिकः ।
मौलिकस्य तु विस्तारं वसुभागैर्विभाजयेत् ॥ ३९/१३ ॥
अङ्कणं तु द्विभागः स्यात्त्रिपार्श्वेऽलिन्दमेकतः ।
शालाव्यासो द्विभागेन प्रासादवदलङ्कृतम् ॥ ३९/१४ ॥
षडाननसमोपेतं प्रच्छन्नमपि चाङ्कणम् ।
एकानेकतलोपेतमधिष्ठानादिशोभितम् ॥ ३९/१५ ॥
अङ्कणेन विहीनं वा वारहीनं तु वा नयेत् ।
मेरुकान्तमिदं प्रोक्तं सर्वेषामपि योग्यकम् ॥ ३९/१६ ॥
व्यासे पङ्क्त्यर्कभागे तु पार्श्वयोः पश्चिमे मतम् ।
वारमेकांशतः कुर्याद्द्व्यंशस्तु गृहविस्तरः ॥ ३९/१७ ॥
प्राङ्मुखो वारमेकांशं परितो मार्ग एकतः ।
द्व्यङ्कणं वारमेकांशमर्कांशे परिकल्पयेत् ॥ ३९/१८ ॥
पार्श्वयोर्वा परे मुख्यव्यासः स्याद्द्विललाटकम् ।
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदीरितम् ॥ ३९/१९ ॥
सावकाशान्तरोपेतमङ्कणं स्यात् त्रिशालके ।
सालिन्दमनलिन्दं वा त्रिशालं परिकल्पयेत् ॥ ३९/२० ॥
शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।
॥ इति कामिकाख्ये महातन्त्रे द्वित्रिशालालक्षणविधिः सप्तत्त्रिंशत्तमः पटलः ॥
</poem>
== चतुः शालालक्षणविधिः ==

== वर्धमानशालाक्षणविधिः ==

== नन्द्यावर्तविधिः ==

== स्वस्तिकविधिः ==

== चतुःशालाविधिः ==
<poem>
सर्वतोभद्रकाख्या च पूर्वोक्तायामसंयुता ।
निकृष्टा रुचका ज्ञेया देवपाषण्डयोग्यका ॥ ४४/१ ॥
सर्वतोभद्रकाख्याश्च प्रागत्र कथिताश्च याः ।
अन्तर्वारं च मार्गं च परित्यज्य बहिस्तु वा ॥ ४४/२ ॥
बाह्ये बाह्यान्तरं योज्यं यजमानेच्छया क्रमात् ।
तथैव पृथुवारं तु योजनीयं विचक्षणैः ॥ ४४/३ ॥
दीर्घहीना तु या शाला दैवे पाषण्डके द्विजे ।
दानादौ योजनीया सा पञ्चांशादिनवांशकम् ॥ ४४/४ ॥
कृत्वा गेहं द्विभागेन चैकभागेन कारयेत् ।
शालाव्यासं तु शेषेण वारमङ्कणमिष्यते ॥ ४४/५ ॥
चतुः शालमिदं प्रोक्तं सर्वसामान्यमिस्.यते ।
भित्तिमध्यं तु वा मानं पादमध्यमथापि वा ॥ ४४/६ ॥
ग्रामादिवास्तुमानं तु त्यक्तभक्तिकमिष्यते ।
प्रासादमालिकायानप्रभृतीनां तु मानकम् ॥ ४४/७ ॥
पादमध्यं तु वार्बाह्यव्यासायामप्रमाणकम् ।
पिण्डहीनं चतुः शालं सर्ववर्णेषु योग्यकम् ॥ ४४/८ ॥
मुक्ताङ्कणं च सामान्याङ्गणं कोणाङ्गणं च यत् ।
गेहं तु सर्ववर्णानामनिष्टमिति च स्मृतम् ॥ ४४/९ ॥
॥ इति कामिकाख्ये महातन्त्रे चतुः शालाविधानं नाम द्विचत्वारिंशत्तमः पटलः ॥
</poem>
== पञ्चशालादिविधिः ==

== हस्तिशालाविधिः ==

== मालिकालक्षणविधिः ==

== लाङ्गलमालिकाविधिः ==
<poem>
मालिकां लाङ्गलाख्यां तु प्रवक्ष्यामि विशेषतः ।
विस्तारेष्टांशकं कुर्यादायामे द्वादशांशकः ॥ ४८/१ ॥
परितो वारमेकांशं शालाव्यासो द्विभागतः ।
शेषं हर्म्यस्थलं कुर्यान्मध्ये वारणसंयुतम् ॥ ४८/२ ॥
चतुर्द्व्यंशेन विस्तारयुक्तमेतदिहोदितम् ।
कर्णे स्याल्लाङ्गलाकारकूटनिर्गमसंयुतम् ॥ ४८/३ ॥
नेत्रद्वयसमायुक्तं गोमेचमिति कथ्यते ।
तदेव वेदनेत्रं चेद्विश्वमित्यभिधीयते ॥ ४८/४ ॥
हर्म्यद्वयस्य मध्ये तु कर्णकूटद्वयान्वितम् ।
आदेयमिति विख्यातं लाङ्गलं त्रिविधं भवेत् ॥ ४८/५ ॥
॥ इति कामिकाख्ये महातन्त्रे लाङ्गलमालिकाविधिः षट्चत्वारिंशत्तमः पटलः ॥
</poem>
== मौलिकामालिकाविधिः ==
<poem>
अथ वक्ष्ये विशेषेण मालिकामौलिकाह्वयम् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकम् ॥ ४९/१ ॥
समन्ताद्द्वारमेकांशं शालाव्यासो द्विभागतः ।
वेदनेत्रसमायुक्तमन्यत्स्यात्सलिलस्थलम् ॥ ४९/२ ॥
कर्णकूटद्विभागेन मण्टपं मध्यमं भवेत् ।
कूटं च मण्टपं चैव निष्क्रमेण समन्वितम् ॥ ४९/३ ॥
युग्मनाभमिति प्रोक्तं मध्यमण्टपमध्यमे ।
चतुरश्रसमायुक्तं धनमित्यभिधीयते ॥ ४९/४ ॥
तदेव कूटकं चेत्तु सुखमित्यभिधीयते ।
बहिः शालाननोपेतं यदि स्याद्रौद्रमुच्यते ॥ ४९/५ ॥
षड्भिर्नेत्रैः समायुक्तं षण्णेत्रमिति कथ्यते ।
एवं पञ्चविधं प्रोक्तं त्रिशालामौलिकं तु तत् ॥ ४९/६ ॥
॥ इति कामिकाख्ये महातन्त्रे मौलिकामालिकाविधिः सप्तचत्वारिंशत्तमः पटलः ॥
</poem>
== पद्ममालिकाविधिः ==

== नागरादिविभेदविधिः ==

== भूमिलम्बविधिपटलः ==

8m7twigysbktv85w9or0jefr0nprjap
418809
418808
2026-10-22T05:11:23Z
~2026-56367-96
10825
/* */
418809
wikitext
text/x-wiki
{{header
| title = कामिकागमः - पूर्वभागः
| author =
| translator =
| section =
| previous =
| next = [[कामिकागमः - उत्तरभागः]]
| year =
| notes =
}}
Published in 1909 by Mayilai Alagappa Mudaliyar, Shivajnanabodham Press, lyyamudaliar Veethi, Chindadripet, Madras in Grantha script.
Devanagari transliteration of the same done by the staff of Muktabodha Indological Research Institute under the supervision of Mark S. G. Dyczkowski.
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0.
<poem>
॥ श्रीः ॥
श्री उमामहेश्वराभ्यां नमः ॥
वन्दे महागणपतिं मदनारिसूनुं
वामोरुसुस्थवनिताभुजवेष्टिताङ्गम् ।
वल्लीशपूर्वजमभीष्टदमाश्रितानां
वाणीपतिप्रमुखदेवगणार्चिताङ्घ्रिम् ॥
</poem>
== कामिकागम - पूर्वभागानुक्रमणिका ==
<poem>
तन्त्रावतारो मन्त्राणामुद्धारः स्नानमर्चनम् ।
अर्चनाङ्गं च नैवेद्यविधिः कुण्डस्य लक्षणम् ॥ १/१ ॥
अग्निकार्यं कालविधिर्निमित्तस्य परीक्षणम् ।
भूपरीक्षा प्रवेशार्थबलिर्ग्रामादिलक्षणम् ॥ १/२ ॥
शङ्कोस्तु स्थापनं चैव मानोपकरणक्रमम् ।
पदविन्यासभेदश्च सूत्रमर्मादिलक्षणम् ॥ १/३ ॥
वास्तुदेवबलिः पश्चाद् ग्रामादीनां च लक्षणम् ।
विस्तारायाम आयादिलक्ष्यं नक्षत्रचक्रकम् ॥ १/४ ॥
दण्डकादिविधिर्वीथिद्वारादीनां प्रमाणकम् ।
ग्रामादिदेवतास्थानं द्विजसंख्याविधानकम् ॥ १/५ ॥
विन्यासस्य विशेषश्च ब्रह्मदेवपदादि च ।
अङ्गोपजीविनां स्थानं गर्भन्यासस्य लक्षणम् ॥ १/६ ॥
बालस्थानविधानं च ग्रामादिन्यासभेदतः ।
वास्तुशान्तिश्च शालाया विधानं च ततः परम् ॥ १/७ ॥
नन्द्यावर्तं द्विशाला च सर्वतोभद्रसंज्ञकम् ।
वर्धमानं खस्तिकं च रूचकारव्यमतः परम् ॥ १/८ ॥
चतुः शाला पञ्चशाला हस्तिशाला च मालिका ।
लाङ्गलाख्यं मौलिकं च मालिकापद्मकं परम् ॥ १/९ ॥
नागरादिविभेदं च भूमिलम्बविधिस्तथा ।
आद्येष्टकोपपीठं च पादानां मानलक्षणम् ॥ १/१० ॥
प्रस्तरस्य विधिश्चैव प्रासादानां च भूषणम् ।
कण्ठस्य शिखरस्यापि स्थूपिकायाश्च लक्षणम् ॥ १/११ ॥
नालादिस्थापनं पश्चादेकभूम्यादिलक्षणम् ।
मूर्धेष्टकाविधानं च लिङ्गलक्ष्माङ्कुरार्पणम् ॥ १/१२ ॥
शिवलिङ्गप्रतिष्ठा च प्रतिमानां च लक्षणम् ।
शूलसंस्थापनं पश्चाद् देवस्थापनसंज्ञकम् ॥ १/१३ ॥
प्रतिमानां प्रतिष्ठा च विमानस्थापनं परम् ।
लक्षणं मण्टपानां च प्राकाराणां च लक्षणम् ॥ १/१४ ॥
स्थापनं परिवाराणां परिवारार्चनं तथा ।
वृषभस्थापनं चान्ते गोपुरस्थापनं परम् ॥ १/१५ ॥
चतुःसप्तति संख्याताः पटलाः पूर्वकामिके ॥
</poem>
== कामिकागमोत्तरभागानुक्रमणिका ==

izaupsi5vdvxu27uq8qgbpyjx5jb4gq