विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.48.0-wmf.4 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk सदस्यः:V(g) 2 25211 420149 419828 2026-11-13T11:49:44Z EmausBot 3495 स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना। 420149 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]] 9vhg30k1e6nvvz0wv8aqv2lym7zg53g पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१४ 104 104708 420146 267669 2026-11-13T11:27:26Z Geeta g hegde 6704 420146 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|३८२|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude> {{Block center|{{bold|<poem>असंभोज्या ह्यसंयाज्या असंपाच्याविवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ २३८ ॥</poem>}}}} {{gap}}असंभोज्या इति ॥ अन्नादिकं नैते भोजयितव्याः, न चैते याजनीयाः, नाप्येते ऽध्यापनीयाः, नाप्येतैः कन्यादानसंबन्धः कर्तव्यः । एते च निर्धनत्वाद्याचनादिदे- न्ययुक्ताः सर्वश्रौतादिकर्मवर्जिताः पृथिवीं पर्यटेयुः ॥ २३८ ॥ {{Block center|{{bold|<poem>अ... ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः। एनेर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ २३९ ॥</poem>}}}} {{gap}}वि॥ ज्ञातिभिः संवन्धिभिर्मातुलाधैरेते कृताङ्कास्त्यजनीयाः, नचैपां दया निते नमस्कार्याइतीयं मनोराज्ञा ॥ २३९ ॥ {{Block center|{{bold|<poem>प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । नाङ्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥२४॥</poem>}}}} {{gap}}प्रायश्चित्तमिति ॥ शास्त्रविहितं प्रायश्चित्तं पुनः कुर्वाणा ब्राह्मणादयस्त्रयो वणी राज्ञा ललाटेऽङ्कनीया न भवेयुः । उत्तमसाहसं पुनर्दण्डनीयाः ॥ २४० ॥ {{Block center|{{bold|<poem>आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः। विवायो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥२४१॥</poem>}}}} {{gap}}आगःस्विति ॥ इतरे कृतवन्तस्तु' इत्युत्तरश्लोके श्रूयमाणम् 'अकामतः' इति चात्रापि योजनीयम् । तेनाकामत इत्येतेप्वपराधेषु गुणवतो ब्राह्मणस्य मध्यम- साहसो दण्डः कार्यः। पूर्वोक्तस्तूत्तमसाहसो निर्गुणस्य द्रष्टव्यः । कामतस्तेष्वपरा- धेषु धनधान्यादिपरिच्छदसहितो ब्राह्मणो देशान्निस्यः ॥ २४१ ॥ {{Block center|{{bold|<poem>इतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥२४२॥</poem>}}}} {{gap}}इतर इति ॥ ब्राह्मणादन्ये पुनः क्षत्रियादय एतानि पापान्यनिच्छन्तः कृतवन्तः सर्वस्वहरणमर्हन्ति । इदं च सर्वस्वहरणं पूर्वोक्तेनोत्तमसाहसेन वृत्तापेक्षया व्यव- स्थापनीयम् । इच्छया पुनरेषामेतेप्वपराधेषु प्रवासनं वधोऽर्हति । 'प्रवासनं परा- सनं निषूदनं विहिंसनम्' इति वधपर्यायं प्रवासनशब्दं पठन्त्याभिधानिकाः ॥२४२॥ {{Block center|{{bold|<poem>नाददीत नृपः साधुर्महापातकिनो धनम् । आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥ २४३॥</poem>}}}} {{gap}}नाददीतेति ॥ धार्मिको राजा महापातकसंबन्धि धनं दण्डरूपं न गृह्णीयात् । लोभात्पुनस्तद्रुहन्महापातकदोपेण संयुज्यते ॥ २४३ ॥ {{gap}}का तर्हि दत्तधनस्य प्रतिपत्तिरित्येतदर्थमाह- {{Block center|{{bold|<poem>अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ २४४ ॥</poem>}}}}<noinclude></noinclude> d4jw1mukwlkrg8bx1axrftojjqxuyao पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१२ 104 104856 420143 267890 2026-11-13T11:09:27Z Geeta g hegde 6704 420143 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३८०|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude> {{Block center|{{bold|<poem>कितवान्कुशीलवान्क्रूरान्पापण्डस्थांश्च मानवान् । विकर्मस्थाञ्छौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ २२५ ।।</poem>}}}} {{gap}}कितवानिति ॥ द्यूतादिसेविनो, नर्तकगायकान् , वेदविद्विषः, श्रुतिस्मृतिबाह्य- व्रतधारिणः, अनापदि परकर्मजीविनः, शौण्डिकान्सद्यकरान्मनुष्यान् क्षिप्रं राजा राष्ट्रान्निर्वासयेदिति । कितवप्रसङ्गेनान्येषामप्यभिधानम् ॥ २२५ ॥ {{gap}}अत्र हेतुमाह- {{Block center|{{bold|<poem>एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्मक्रियया नित्यं वाधन्ते भद्रिकाः प्रजाः ॥२२६ ॥</poem>}}}} {{gap}}एत इति ॥ एते कितवादयो गूढचौरा राष्ट्रे वसन्तो नित्यं वञ्चनात्मकक्रियया सजनान्पीडयन्ति ॥ २२६ ॥ {{Block center|{{bold|<poem>द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् । तसाद्द्यूतं न सेवेत हास्वार्थमपि बुद्धिमान् ॥ २२७ ॥</poem>}}}} {{gap}}द्यूतमिति ॥ नेदानीमेव परं किंतु पूर्वस्मिन्नपि कल्पे चूतमेतदतिशयेन वैरकर दृष्टम् । अतः प्राज्ञः परिहासार्थमपि तन्न सेवेत ॥ २२७ ॥ {{Block center|{{bold|<poem>प्रच्छन्नं वा प्रकाशं वा तनिषेवेत यो नरः। तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ २२८ ॥</poem>}}}} {{gap}}प्रच्छन्नमिति ॥ यो मनुष्यस्तद्द्यूतं गूढं प्रकटं वा कृत्वा सेवेत तस्य यथा नृपते- रिच्छा भवति तथाविधो दण्डो भवति ॥ २२८ ॥ {{gap}}इदानी पराजितानां धनाभाचे सतीदमाह- {{Block center|{{bold|<poem>क्षत्रविद्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ॥ २२९ ॥</poem>}}}} {{gap}}क्षत्रेति ॥ क्षत्रवैश्यशूद्रजातीयो निर्धनत्वेन दण्डं दातुमसमर्थस्तदुचितकर्मकरणे- न दण्डशोधनं कुर्यात् । ब्राह्मणः पुनर्यथालाभं क्रमेण दद्यान्न कर्म कारयितव्यः २२९|| {{Block center|{{bold|<poem>स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । शिफाविदलरवाद्यैर्विदध्यान्नृपतिर्दमम् ॥ २३०॥</poem>}}}} {{gap}}स्त्रीति ॥ स्वीबालादीनां पुनः शिफावेणुदलप्रहाररजुबन्धनादिभिर्दमनं राजा कुर्यात् ॥ २३०॥ {{Block center|{{bold|<poem>ये नियुक्तास्तु कार्येषु हन्युः कार्याणि धनोष्मणा पच्यमानास्तानिःस्वान्कारयेन्नृपः॥ २३१ ॥</poem>}}}} {{gap}}ये नियुक्तास्त्विति ॥ ये व्यवहारावेक्षणादिषु कार्येषु राज्ञा नियुक्ता उत्कोच धनतेजसा विकारं भजन्तः स्वाम्यादीनां कार्य नाशयेयुस्तान्गृहीतसर्वस्वान् राज कारयेत् ॥ २३१॥<noinclude></noinclude> 14sg7n5mq81yfwxucicx83n5tx95saw पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१३ 104 104857 420144 267891 2026-11-13T11:16:56Z Geeta g hegde 6704 420144 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।{{gap}}|right=३८१}}</noinclude> {{Block center|{{bold|<poem>कूटशासनकर्तुश्च प्रकृतीनां च दूपकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याविट्सेविनस्तथा ॥ २३२ ॥ {{gap}}कूटेति ॥ कूटराजाज्ञालेखकान् अमात्यानां च भेदकान्, स्त्रीबालब्राह्मणघातिनः शत्रुसेविनश्च राजा हन्यात् ॥ २३२ ॥ {{Block center|{{bold|<poem>तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ २३३ । वात्तौ [तीरितं चानुशिष्टं च यो मन्येत विकर्मणा । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥ ३६॥ {{gap}}तीरितमिति ॥ यत्र क्वचिद्दणादानादिव्यवहारे यत्कार्य सतस्तीरितम् । 'पार तीर कर्मसमाप्तौ' इति चुरादौ पठ्यते । शास्त्रव्यवस्थानिर्णीतं । अनुशिष्टं दण्डपर्य- न्ततां च नीतं स्यात्तत्कृतमङ्गीकुर्यान्न पुनर्निवर्तयेत् । एतच्चाकारणात् । अतः कारण- कृतं निवर्तयेदेव ॥ २३३ ॥ {{Block center|{{bold|<poem>अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा । तत्स्वयं नृपतिः कुर्यात्तान्सहस्रं च दण्डयेत् ॥ २३४ ॥ {{gap}}अमात्या इति ॥ राजामात्याः प्राडिवाको वा व्यवहारेक्षणे नियुक्तो यदसम्यग्व्य- वहारनिर्णयं कुर्युस्तत्स्वयं राजा कुर्यात्पणसहस्रं तान्दण्डयेत् । इदं चोत्कोचधनग्रह- णेतरविषयम् । उत्कोचग्रहणे 'ये नियुक्तास्तु' इत्युक्तत्वात् ॥ २३४ ॥ {{Block center|{{bold|<poem>ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः। एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ २३५ ॥</poem>}}}} {{gap}}ब्रह्महेति ॥ यो मनुष्यो ब्राह्मणं हतवान्स ब्रह्महा, सुरापो द्विजातिः पैष्टयाः पाता ब्राह्मणश्च पैष्टीमाध्वीगौडीनां, तस्करो ब्राह्मणसुवर्णहारी मनुष्यः, यश्च कश्चि- दुरुपत्नीगामीत्येते सर्वे प्रत्येकं महापातकिनो बोद्धव्याः ॥ २३५ ॥ {{Block center|{{bold|<poem>चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ २३६ ॥</poem>}}}} {{gap}}चतुर्णामिति ॥ चतुर्णामप्येषां महापातकिनां प्रायश्चित्तमकुर्वतां शारीरं धनग्रह- णेन च धनसंबन्धमपराधानुसारेण धर्मादनपेतं वक्ष्यमाणं दण्डं कुर्यात् ॥ २३६॥ {{Block center|{{bold|<poem>गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः। स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ २३७॥</poem>}}}} {{gap}}गुरुतल्प इति ॥ 'नाङ्या राज्ञा ललाटे स्युः' इति वक्ष्यमाणत्वाल्ललाटमेवाङ्क- नस्थानमवगम्यते। तत्र गुरुपत्नीगमने यावजीवस्थायि तप्तलोहेन गुरुपत्नीगमनचिह्न कार्यम् । एवं सुरापाने कृते पातुर्दीध सुराध्वजाकारं, सुवर्णाप- हारे सत्यपहर्तुः कुक्कुरपादरूपं कार्यम् । ब्रह्महणि कबन्धः पुमान्कर्तव्यः ॥ २३७ ॥<noinclude></noinclude> tw8r9xena0e4wp0k2dc59y9xuarivgd 420145 420144 2026-11-13T11:17:55Z Geeta g hegde 6704 420145 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।{{gap}}|right=३८१}}</noinclude> {{Block center|{{bold|<poem>कूटशासनकर्तुश्च प्रकृतीनां च दूपकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याविट्सेविनस्तथा ॥ २३२ ॥</poem>}}}} {{gap}}कूटेति ॥ कूटराजाज्ञालेखकान् अमात्यानां च भेदकान्, स्त्रीबालब्राह्मणघातिनः शत्रुसेविनश्च राजा हन्यात् ॥ २३२ ॥ {{Block center|{{bold|<poem>तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ २३३ । वात्तौ [तीरितं चानुशिष्टं च यो मन्येत विकर्मणा । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥ ३६॥</poem>}}}} {{gap}}तीरितमिति ॥ यत्र क्वचिद्दणादानादिव्यवहारे यत्कार्य सतस्तीरितम् । 'पार तीर कर्मसमाप्तौ' इति चुरादौ पठ्यते । शास्त्रव्यवस्थानिर्णीतं । अनुशिष्टं दण्डपर्य- न्ततां च नीतं स्यात्तत्कृतमङ्गीकुर्यान्न पुनर्निवर्तयेत् । एतच्चाकारणात् । अतः कारण- कृतं निवर्तयेदेव ॥ २३३ ॥ {{Block center|{{bold|<poem>अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा । तत्स्वयं नृपतिः कुर्यात्तान्सहस्रं च दण्डयेत् ॥ २३४ ॥</poem>}}}} {{gap}}अमात्या इति ॥ राजामात्याः प्राडिवाको वा व्यवहारेक्षणे नियुक्तो यदसम्यग्व्य- वहारनिर्णयं कुर्युस्तत्स्वयं राजा कुर्यात्पणसहस्रं तान्दण्डयेत् । इदं चोत्कोचधनग्रह- णेतरविषयम् । उत्कोचग्रहणे 'ये नियुक्तास्तु' इत्युक्तत्वात् ॥ २३४ ॥ {{Block center|{{bold|<poem>ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः। एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ २३५ ॥</poem>}}}} {{gap}}ब्रह्महेति ॥ यो मनुष्यो ब्राह्मणं हतवान्स ब्रह्महा, सुरापो द्विजातिः पैष्टयाः पाता ब्राह्मणश्च पैष्टीमाध्वीगौडीनां, तस्करो ब्राह्मणसुवर्णहारी मनुष्यः, यश्च कश्चि- दुरुपत्नीगामीत्येते सर्वे प्रत्येकं महापातकिनो बोद्धव्याः ॥ २३५ ॥ {{Block center|{{bold|<poem>चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ २३६ ॥</poem>}}}} {{gap}}चतुर्णामिति ॥ चतुर्णामप्येषां महापातकिनां प्रायश्चित्तमकुर्वतां शारीरं धनग्रह- णेन च धनसंबन्धमपराधानुसारेण धर्मादनपेतं वक्ष्यमाणं दण्डं कुर्यात् ॥ २३६॥ {{Block center|{{bold|<poem>गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः। स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ २३७॥</poem>}}}} {{gap}}गुरुतल्प इति ॥ 'नाङ्या राज्ञा ललाटे स्युः' इति वक्ष्यमाणत्वाल्ललाटमेवाङ्क- नस्थानमवगम्यते। तत्र गुरुपत्नीगमने यावजीवस्थायि तप्तलोहेन गुरुपत्नीगमनचिह्न कार्यम् । एवं सुरापाने कृते पातुर्दीध सुराध्वजाकारं, सुवर्णाप- हारे सत्यपहर्तुः कुक्कुरपादरूपं कार्यम् । ब्रह्महणि कबन्धः पुमान्कर्तव्यः ॥ २३७ ॥<noinclude></noinclude> fn8w9fq43wt39vmzflhh9xe92n5es2l पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१५ 104 104858 420147 267892 2026-11-13T11:36:03Z Geeta g hegde 6704 420147 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।{{gap}}|right=३८३}}</noinclude> {{gap}}अस्विति ॥ तद्दण्डधनं नद्यादिजले प्रक्षिपेवरुणाय दद्याच्छ्रुतसंपन्नब्राह्मणाय वा दद्यात् ॥ २४४ ॥ {{Block center|{{bold|<poem>ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः। ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥२४५ ॥</poem>}}}} {{gap}}ईश इति ॥ महापातकिदण्डधनस्य वरुणः स्वामी यस्माद्राज्ञामपि दण्डधारित्वा- प्रभुः । तथा ब्राह्मणः समस्तवेदाध्यायी सर्वस्य जगतः प्रभुः । अतः प्रभुत्वात्तौ दण्डधनमर्हतः ॥ २४५॥ {{Block center|{{bold|<poem>यत्र वर्जयते राजा पापकृयो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ २४६ ॥ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥ २४७॥</poem>}}}} {{gap}}यन्त्रेति ॥ निष्पद्यन्त इति ॥ यत्र देशे प्रकृतं महापातकिधनं राजा न गृह्णाति तत्र परिपूर्णेन कालेन मनुप्या उत्पद्यन्ते, दीर्घायुषश्च भवन्ति । वैश्यानां च यथैव धान्यादिसस्यान्युप्तानि तथैव पृथक् पृथक् जायन्ते । अकाले न बाला म्रियन्ते । दीर्घजीविन इत्युक्तेऽप्यादराथै बालानां पुनर्वचनम् । व्यङ्गं च न किंचिद्भूतमुन्प- व्रते ॥ २४६ ॥ २४७ ॥ {{Block center|{{bold|<poem>ब्राह्मणान्वाधमानं तु कामादवरवर्णजम् । हन्याचित्रैवेधोपायैरुद्वेजनकरैर्नृपः॥ २४८॥</poem>}}}} {{gap}}ब्राह्मणानिति ॥ शरीरपीडाधनग्रहणादिना शूद्रमिच्छातो ब्राह्मणान्बाधमानं छेदादिभिरुद्वेगकरैर्वधोपायैर्नृपो हन्यात् ॥ २४८ ॥ {{Block center|{{bold|<poem>यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः॥ २४९ ॥</poem>}}}} {{gap}}यावानिति ॥ अवध्यस्य वधे यावानधर्मो नृपतेः शास्त्रेण ज्ञातस्तावानेव वध्यस्य त्यागेऽपि यथाशास्त्रं दण्डं तु कुर्वतो धर्मः स्यात्तस्मात्तं कुर्यात् ॥ २४९ ॥ {{Block center|{{bold|<poem>उदितोऽयं विस्तरशो मिथो विवदमानयोः। अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः॥ २५०॥</poem>}}}} {{gap}}उदित इति ॥ अष्टादशसु ऋणादानादिषु व्यवहारपदेषु परस्परं विवदमानयोर- थिप्रत्यार्थिनोः कार्यनिर्णयोऽयं विस्तरेणोक्तः ॥ २५० ॥ {{Block center|{{bold|<poem>एवं धाणि कार्याणि सम्यक्कुर्वन्महीपतिः । देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत् ॥ २५१ ॥</poem>}}}} {{gap}}एवमिति ॥ अनेनोक्तप्रकारेण धर्मादनपेतं निर्णयं कुर्वन् राजा जनानुरागा- देशाल्लब्धुमिच्छेल्लब्धांश्च सम्यक्पालयेत् । एवं सम्यग्ज्यवहारदर्शनस्यालब्धप्रदे- शप्राप्त्यर्थत्वमुक्तम् ॥ २५१ ॥<noinclude></noinclude> mcb08mhng2ra3x677ksyl5whajlfcgh पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१६ 104 104859 420148 267893 2026-11-13T11:45:01Z Geeta g hegde 6704 420148 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।{{gap}}|right=३७७}}</noinclude> {{Block center|{{bold|<poem>सम्यनिविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः। कण्टकोद्धरणे नित्यमातिष्ठेद्यनमुत्तमम् ॥ २५२ ।।</poem>}}}} {{gap}}सम्यगिति ॥ 'जाङ्गलं सस्यसंपन्नम्' इत्युक्तरीत्या सम्यगाश्रितदेशस्तत्र सप्तमा- ध्यायोक्तप्रकारेण कृतदुर्गश्चौरसाहसिकादिकण्टकनिराकरणे प्रकृतं यत्रं सदा कु- र्यात् ॥ २५२ ॥ {{Block center|{{bold|<poem>रक्षणादायवृत्तानां कण्टकानां च शोधनात् । नरेन्द्राखिदिवं यान्ति प्रजापालनतत्पराः॥२५३ ॥</poem>}}}} {{gap}}रक्षणादिति ॥ यस्मात्साध्वाचाराणां रक्षणाच्चोरादीनां च शासनात्प्रजापालन- युक्ता राजानः स्वर्ग गच्छन्ति । तस्मात्कण्टकोद्धरणे यत्नं कुर्यात् ॥ २५३ ॥ {{Block center|{{bold|<poem>अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः। तस्य प्रक्षुभ्यते राष्ट्र वर्गाच परिहीयते ॥२५४ ॥</poem>}}}} {{gap}}अशासन्निति ॥ यथा पुनर्नृपतिश्चौरादीननिराकुर्वन् पड्भागायुक्तं करं गृह्णानि तसै राष्ट्रवासिनो जनाः कुप्यन्ति । कर्मान्तरार्जिताप्यस्य स्वर्गप्राप्तिरनेन दुष्कृतेन प्रतिबध्यते ॥ २५४ ॥ {{Block center|{{bold|<poem>निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् । तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥२५५ ॥</poem>}}}} {{gap}}निर्भयमिति ॥ यस्य राज्ञो बाहुवीर्याश्रयेण राष्ट्र चौरादिभयरहितं भवति तस्य नित्यं तद्वृद्धिं गच्छति । उदकसेकेनेव वृक्षः ॥ २५५ ॥ {{Block center|{{bold|<poem>द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥२५६ ॥</poem>}}}} {{gap}}द्विविधानिति ॥ चार एव चौरज्ञानहेतुत्वाच्चक्षुरिव यस्यासौ राजा, चारैरेव प्रकटतया गूढतया द्विप्रकारन्यायेन परधनग्राहिणो जानीयात् ॥ २५६ ॥ {{Block center|{{bold|<poem>प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः॥२५७ ।।</poem>}}}} {{gap}}प्रकाशेति ॥ तेषां पुनश्चौरादीनां मध्याघे तुलाप्रतिमानलोष्टचयादिना हिरण्या- दिपण्यविक्रयिणः परधनमनुचितेन गृह्णन्ति ते प्रकाशवञ्चकाः स्तेनाश्चौराः सद्वि- च्छेदादिना गुप्ताटव्याश्रयाश्च परधनं गृह्णन्ति ते प्रच्छन्नवञ्चकाः ॥ २५७ ॥ {{Block center|{{bold|<poem>उत्कोचकाचीपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह ॥ २५८ ॥ असम्यकारिणश्चैव महामात्राश्चिकित्सकाः। शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः॥ २५९ ॥</poem>}}}}<noinclude></noinclude> 6r9aadf3oajaqaa7i8uo9tlo3tkimhf सम्भाषणम्:दृग्दृश्यविवेकः 1 167086 420142 2026-11-12T13:01:30Z ~2026-60083-09 10883 /* रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ */ नवीनविभागः 420142 wikitext text/x-wiki == रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ == रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ [[विशेषः:योगदानानि/~2026-60083-09|~2026-60083-09]] ([[सदस्यसम्भाषणम्:~2026-60083-09|वार्ता]]) १३:०१, १२ नवेम्बर् २०२६ (UTC) koogg1664nqte5tbopi4dkfhe6799nz